९ श्रीमद्देवीभागवतमहापुराणे नवमः स्कन्धः
९.१ प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।
श्रीनारायण उवाच ।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ १॥
नारद उवाच ।
आविर्बभूव सा केन का वा सा ज्ञानिनांवर ।
किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम् ॥ २॥
सर्वासां चरितं पूजाविधानं गुण ईप्सितः ।
अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥ ३॥
श्रीनारायण उवाच ।
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् ।
किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥ ४॥
प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ ५॥
गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः ।
मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः ॥ ६॥
त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ ७॥
प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥ ८॥
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।
पुमांश्च दक्षिणार्धाङ्गो वामार्धा प्रकृतिः स्मृता ॥ ९॥
सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी ।
यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता ॥ १०॥
अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते ।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥ ११॥
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ १२॥
तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका ।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ १३॥
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ १४॥
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता ।
सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी ॥ १५॥
धर्मसत्यपुण्यकीर्तिर्यशोमङ्गलदायिनी ।
सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी ॥ १६॥
शरणागतदीनार्तपरित्राणपरायणा ।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ १७॥
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ।
सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी ॥ १८॥
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।
जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना ॥ १९॥
तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च ।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥ २०॥
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥ २१॥
शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः ।
सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥ २२॥
कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्गला ।
लोभमोहकामरोषमदाहङ्कारवर्जिता ॥ २३॥
भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥ २४॥
सर्वसस्यात्मिका देवी जीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती ॥ २५॥
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ २६॥
सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा ।
कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ २७॥
वाणिज्यरूपा वणिजां पापिनां कलहाङ्कुरा ।
दयारूपा च कथिता वेदोक्ता सर्वसम्मता ॥ २८॥
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।
वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ॥ २९॥
सर्वविद्यास्वरूपा या सा च देवी सरस्वती ।
सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥ ३०॥
नानाप्रकारसिद्धान्तभेदार्थकलना मता ।
व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी ॥ ३१॥
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।
स्वरसङ्गीतसन्धानतालकारणरूपिणी ॥ ३२॥
विषयज्ञानवाग्रूपा प्रतिविश्वोपजीविनी ।
व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी ॥ ३३॥
शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ ३४॥
यजन्ती परमात्मानं श्रीकृष्णं रत्नमालया ।
तपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥ ३५॥
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा ।
यया विना तु विप्रौघो मूको मृतसमः सदा ॥ ३६॥
देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका ।
यथागमं यथाकिञ्चिदपरां त्वं निबोध मे ॥ ३७॥
माता चतुर्णां वर्णानां वेदाङ्गानां च छन्दसाम् ।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ॥ ३८॥
द्विजातिजातिरूपा च जपरूपा तपस्विनी ।
ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥ ३९॥
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।
तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये ॥ ४०॥
शुद्धस्फटिकसङ्काशा शुद्धसत्त्वस्वरूपिणी ।
परमानन्दरूपा च परमा च सनातनी ॥ ४१॥
परब्रह्मस्वरूपा च निर्वाणपददायिनी ।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥ ४२॥
यत्पादरजसा पूतं जगत्सर्वं च नारद ।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥ ४३॥
पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।
प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ ४४॥
सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता ।
वामाङ्गार्धस्वरूपा च गुणेन तेजसा समा ॥ ४५॥
परावरा सारभूता परमाद्या सनातनी ।
परमानन्दरूपा च धन्या मान्या च पूजिता ॥ ४६॥
रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः ।
रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ ४७॥
रासेश्वरी सुरसिका रासावासनिवासिनी ।
गोलोकवासिनी देवी गोपीवेषविधायिका ॥ ४८॥
परमाह्लादरूपा च सन्तोषहर्षरूपिणी ।
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ ४९॥
निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा ।
वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः ॥ ५०॥
दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्गवैः ।
वह्निशुद्धांशुकधरा नानालङ्कारभूषिता ॥ ५१॥
कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा ।
श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम् ॥ ५२॥
अवतारे च वाराहे वृषभानुसुता च या ।
यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ ५३॥
ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते ।
स्त्रीरत्नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥ ५४॥
यथाम्बरे नवघने लोला सौदामनी मुने ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ ५५॥
यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥ ५६॥
तेनैव तपसा दृष्टा भुवि वृन्दावने वने ।
कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥ ५७॥
अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः ।
प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥ ५८॥
परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः ।
या याः प्रधानांशरूपा वर्णयामि निशामय ॥ ५९॥
प्रधानांशस्वरूपा सा गङ्गा भुवनपावनी ।
विष्णुविग्रहसम्भूता द्रवरूपा सनातनी ॥ ६०॥
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।
सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी ॥ ६१॥
गोलोकस्थानप्रस्थानसुखसोपानरूपिणी ।
पवित्ररूपा तीर्थानां सरितां च परावरा ॥ ६२॥
शम्भुमौलिजटामेरुमुक्तापङ्क्तिस्वरूपिणी ।
तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम् ॥ ६३॥
चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।
निर्मला निरहङ्कारा साध्वी नारायणप्रिया ॥ ६४॥
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥ ६५॥
तपःसङ्कल्पपूजादिसङ्घसम्पादिनी मुने ।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥ ६६॥
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ।
कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी ॥ ६७॥
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।
यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये ॥ ६८॥
यया विना च विश्वेषु सर्वकर्म च निष्फलम् ।
मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥ ६९॥
कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी ।
भारतीनां प्रीणनाय जाता या परदेवता ॥ ७०॥
प्रधानांशस्वरूपा या मनसा कश्यपात्मजा ।
शङ्करप्रियशिष्या च महाज्ञानविशारदा ॥ ७१॥
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥ ७२॥
नागेन्द्रगणसंयुक्ता नागभूषणभूषिता ।
नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी ॥ ७३॥
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ ७४॥
दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः ।
तपस्विनीषु पूज्या च तपस्विषु च भारते ॥ ७५॥
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥ ७६॥
जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता ।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥ ७७॥
प्रधानांशस्वरूपा या देवसेना च नारद ।
मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता ॥ ७८॥
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ ७९॥
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥ ८०॥
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥ ८१॥
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा ।
मातृका च दयारूपा शश्वद्रक्षणकारिणी ॥ ८२॥
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे ।
प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका ॥ ८३॥
प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा ।
सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ॥ ८४॥
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता ।
प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता ॥ ८५॥
पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी ।
परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ ८६॥
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी ।
प्रधानांशस्वरूपा सा काली कमललोचना ॥ ८७॥
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः ।
दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥ ८८॥
कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा ।
प्रधाना सर्वशक्तीनां बला बलवती परा ॥ ८९॥
सर्वसिद्धिप्रदा देवी परमा योगरूपिणी ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ॥ ९०॥
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।
संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः ॥ ९१॥
रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया ।
धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता ॥ ९२॥
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।
प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा ॥ ९३॥
आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता ।
रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया ॥ ९४॥
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा ।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥ ९५॥
यया विना जगत्सर्वं निराधारं चराचरम् ।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥ ९६॥
यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते ।
स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता ॥ ९७॥
यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः ।
दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता ॥ ९८॥
यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् ।
स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः ॥ ९९॥
पूजिता पितृदानं हि निष्कलं च यया विना ।
स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता ॥ १००॥
आदानं च प्रदानं च निष्फलं च यया विना ।
पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ॥ १०१॥
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ।
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवेत् ॥ १०२॥
यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः ।
ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥ १०३॥
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ।
धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता ॥ १०४॥
सर्वे लोका अधैर्याश्च जगत्सु च यया विना ।
सत्यपत्नी सती मुक्तैः पूजिता च जगत्प्रिया ॥ १०५॥
यया विना भवेल्लोको बन्धुतारहितः सदा ।
मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ॥ १०६॥
सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना ।
पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥ १०७॥
यया विना जगत्सर्वं जीवन्मृतसमं मुने ।
सुकर्मपत्नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता ॥ १०८॥
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।
क्रिया तूद्योगपत्नी च पूजिता सर्वसम्मता ॥ १०९॥
यया विना जगत्सर्वं विधिहीनं च नारद ।
अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥ ११०॥
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥ १११॥
अर्धावयवरूपा च द्वापरे चैव संवृता ।
कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥ ११२॥
कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे ।
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥ ११३॥
याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद ।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा ॥ ११४॥
याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा ।
मूर्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ॥ ११५॥
परमात्मा च विश्वौघो निराधारो यया विना ।
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥ ११६॥
श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता ।
कालाग्नी रुद्रपत्नी च निद्रा सा सिद्धयोगिनी ॥ ११७॥
सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु ।
कालस्य तिस्रो भार्याश्च सन्ध्या रात्रिर्दिनानि च ॥ ११८॥
याभिर्विना विधाता च सङ्ख्यां कर्तुं न शक्यते ।
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥ ११९॥
याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् ।
प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥ १२०॥
याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः ।
कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥ १२१॥
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ ।
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये ॥ १२२॥
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥ १२३॥
याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने ।
अदितिर्देवमाता च सुरभी च गवां प्रसूः ॥ १२४॥
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।
उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः ॥ १२५॥
कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।
रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी ॥ १२६॥
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ।
तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ॥ १२७॥
अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी ।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥ १२८॥
पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ।
लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा ॥ १२९॥
वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा ।
कान्ता च दमयन्ती च यशोदा देवकी तथा ॥ १३०॥
गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया ।
वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा ॥ १३१॥
मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा ।
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥ १३२॥
जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा ।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥ १३३॥
काली योजनगन्धा च व्यासमाता महासती ।
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥ १३४॥
प्रभावती भानुमती तथा मायावती सती ।
रेणुका च भृगोर्माता राममाता च रोहिणी ॥ १३५॥
एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती ।
बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥ १३६॥
या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः ।
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ॥ १३७॥
योषितामवमानेन प्रकृतेश्च पराभवः ।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥ १३८॥
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः ।
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः ॥ १३९॥
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ॥ १४०॥
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ॥ १४१॥
सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा ।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥ १४२॥
दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः ।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥ १४३॥
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः ।
एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥ १४४॥
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥ १४५॥
ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना ।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥ १४६॥
जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् ।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥ १४७॥
जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् ।
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ॥ १४८॥
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।
लक्ष्मीर्मङ्गलभूपेन प्रथमं परिपूजिता ॥ १४९॥
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।
सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥ १५०॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः ।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥ १५१॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः ।
प्रथमं पूजिता राधा गोलोके रासमण्डले ॥ १५२॥
पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना ।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥ १५३॥
गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः ।
तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा ॥ १५४॥
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ।
पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥ १५५॥
शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥ १५६॥
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा ।
कला या याः समुद्भूता पूजितास्ताश्च भारते ॥ १५७॥
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ १५८॥
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ १५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
प्रकृतिचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ ९.१॥
९.२ द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।
नारद उवाच ।
समासेन श्रुतं सर्वं देवीनां चरितं प्रभो ।
विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ १॥
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ।
कथं वा पञ्चधा भूता वद वेदविदांवर ॥ २॥
भूता ययांशकलया तया त्रिगुणया भवे ।
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ ३॥
तासां जन्मानुकथनं पूजाध्यानविधिं बुध ।
स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम् ॥ ४॥
श्रीनारायण उवाच ।
नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा ।
विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ॥ ५॥
तदेकदेशो वैकुण्ठो नम्रभागानुसारकः ।
तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥ ६॥
यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।
शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ ७॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।
विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः ॥ ८॥
न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना ।
सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ॥ ९॥
ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च ।
तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥ १०॥
ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः ।
तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११॥
तया युक्तः सदात्मा च भगवांस्तेन कथ्यते ।
स च स्वेच्छामयो देवः साकारश्च निराकृतिः ॥ १२॥
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।
वदन्ति च परं ब्रह्म परमानन्दमीश्वरम् ॥ १३॥
अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् ।
सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥ १४॥
वदन्ति चैव ते कस्य तेजस्तेजस्विना विना ।
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥ १५॥
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् ।
अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥ १६॥
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।
नवीननीरदाभासधामैकं श्यामविग्रहम् ॥ १७॥
शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् ।
मुक्ताच्छविविनिन्द्यैकदन्तपङ्क्तिमनोरमम् ॥ १८॥
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।
सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम् ॥ १९॥
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ २०॥
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ।
सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम् ॥ २१॥
परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् ।
ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥ २२॥
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।
ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥ २३॥
स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते ।
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः ॥ २४॥
भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ २५॥
स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २६॥
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।
स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ॥ २७॥
तां ददर्श महाकामी कामाधारां सनातनः ।
अतीव कमनीया च चारुपङ्कजसन्निभाम् ॥ २८॥
चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् ।
सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम् ॥ २९॥
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।
पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम् ॥ ३०॥
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।
वह्निशुद्धांशुकाधारां रत्नभूषणभूषिताम् ॥ ३१॥
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा ।
कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम् ॥ ३२॥
कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ।
समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ ३३॥
वक्रिमं कबरीभारं मालतीमाल्यभूषितम् ।
रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ ३४॥
कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् ।
गमनेन राजहंसगजगर्वविनाशिनीम् ॥ ३५॥
दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले ।
रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह ॥ ३६॥
नानाप्रकारशृङ्गारं शृङ्गारो मूर्तिमानिव ।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ ३७॥
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।
चकार वीर्याधानं च नित्यानन्दे शुभक्षणे ॥ ३८॥
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।
निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ ३९॥
महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह ।
तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥ ४०॥
स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।
निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ ४१॥
बभूव मूर्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।
तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ ४२॥
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ ४३॥
घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।
तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ॥ ४४॥
अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह ।
शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ ४५॥
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।
कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥ ४६॥
शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी ।
सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम् ॥ ४७॥
दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत ।
उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले ॥ ४८॥
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह ।
शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥ ४९॥
यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे ।
भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥ ५०॥
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।
अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ ५१॥
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ।
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ ५२॥
श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी ।
रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ ५३॥
अथ कालान्तरे सा च द्विधारूपो बभूव ह ।
वामार्धाङ्गाच्च कमला दक्षिणार्धाच्च राधिका ॥ ५४॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः ॥ ५५॥
उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव ।
अत्रैव मानिनी राधा तव भद्रं भविष्यति ॥ ५६॥
एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च ।
स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः ॥ ५७॥
अनपत्ये च ते द्वे च जाते राधांशसम्भवे ।
भूता नारायणाङ्गाच्च पार्षदाश्च चतुर्भुजाः ॥ ५८॥
तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।
बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ॥ ५९॥
अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।
भूताश्चासङ्ख्यगोपाश्च वयसा तेजसा समाः ॥ ६०॥
रूपेण च गुणेनैव बलेन विक्रमेण च ।
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ ६१॥
राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।
राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः ॥ ६२॥
रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।
अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ॥ ६३॥
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता ।
आविर्बभूव दुर्गा सा विष्णुमाया सनातनी ॥ ६४॥
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।
बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः ॥ ६५॥
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी ।
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ ६६॥
तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा ।
ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता ॥ ६७॥
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥ ६८॥
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।
सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया ॥ ६९॥
सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् ।
कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी ॥ ७०॥
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी ।
स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च ॥ ७१॥
तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च ।
या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ ७२॥
शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना ।
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ ७३॥
यया च शक्तिमानात्मा यया च शक्तिमज्जगत् ।
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ ७४॥
या च संसारवृक्षस्य बीजरूपा सनातनी ।
स्थितिरूपा वृद्धिरूपा फलरूपा च नारद ॥ ७५॥
क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः ।
शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ ७६॥
सा च संस्तूय सर्वेशं तत्पुरः समुवास ह ।
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ ७७॥
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।
पद्मनाभेर्नाभिपद्मान्निःससार महामुने ॥ ७८॥
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।
चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ ७९॥
सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा ।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषणा ॥ ८०॥
रत्नसिंहासने रम्ये संस्तूय सर्वकारणम् ।
उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥ ८१॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
वामार्धाङ्गो महादेवो दक्षिणे गोपिकापतिः ॥ ८२॥
शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः ।
त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः ॥ ८३॥
तप्तकाञ्चनवर्णाभो जटाभारधरः परः ।
भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः ॥ ८४॥
दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः ।
बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ॥ ८५॥
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ॥ ८६॥
कारणं कारणानां च सर्वमङ्गलमङ्गलम् ।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ ८७॥
संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः ।
रत्नसिंहासने रम्ये समुवास हरेः पुरः ॥ ८८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ९.२॥
९.३ तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।
श्रीनारायण उवाच ।
अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः ।
ततः स काले सहसा द्विधाभूतो बभूव ह ॥ १॥
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः ।
क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा ॥ २॥
पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः ।
ब्रह्माण्डासङ्ख्यनाथो यो ददर्शोर्ध्वमनाथवत् ॥ ३॥
स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट् ।
परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ ॥ ४॥
तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः ।
आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः ॥ ५॥
प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च ।
अस्यापि तेषां सङ्ख्यां च कृष्णो वक्तुं न हि क्षमः ॥ ६॥
सङ्ख्या चेद्रजसामस्ति विश्वानां न कदाचन ।
ब्रह्मविष्णुशिवादीनां तथा सङ्ख्या न विद्यते ॥ ७॥
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।
पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम् ॥ ८॥
तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः ।
तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ॥ ९॥
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ।
सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता ॥ १०॥
ऊनपञ्चाशदुपद्वीपासङ्ख्यशैलवनान्विता ।
ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः ॥ ११॥
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ।
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम् ॥ १२॥
ततः परश्च स्वर्लोको जनलोकस्तथा परः ।
ततः परस्तपोलोकः सत्यलोकस्ततः परः ॥ १३॥
ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः ।
एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च ॥ १४॥
तद्विनाशे विनाशश्च सर्वेषामेव नारद ।
जलबुद्बुदवत्सर्वं विश्वसङ्घमनित्यकम् ॥ १५॥
नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ ।
प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम् ॥ १६॥
एषां सङ्ख्यां न जानाति कृष्णोऽन्यस्यापि का कथा ।
प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ॥ १७॥
तिस्रः कोट्यः सुराणां च सङ्ख्या सर्वत्र पुत्रक ।
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ॥ १८॥
भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः ।
अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः ॥ १९॥
डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन ।
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ॥ २०॥
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ।
ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ॥ २१॥
नवीनजलदश्यामं द्विभुजं पीतवाससम् ।
सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम् ॥ २२॥
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ।
वरं तदा ददौ तस्मै वरेशः समयोचितम् ॥ २३॥
मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्जितः ।
ब्रह्माण्डासङ्ख्यनिलयो भव वत्स लयावधि ॥ २४॥
निष्कामो निर्भयश्चैव सर्वेषां वरदो भव ।
जरामृत्युरोगशोकपीडादिवर्जितो भव ॥ २५॥
इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् ।
त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम् ॥ २६॥
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।
वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम् ॥ २७॥
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः ।
श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते ॥ २८॥
प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः ।
तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै ॥ २९॥
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ।
नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम् ॥ ३०॥
यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः ।
स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा ॥ ३१॥
तं च मन्त्रवरं दत्त्वा तमुवाच पुनर्विभुः ।
वरमन्यं किमिष्टं ते तन्मे ब्रूहि ददामि च ॥ ३२॥
कृष्णस्य वचनं श्रुत्वा तमुवाच विराड् विभुः ।
कृष्णं तं बालकस्तावद्वचनं समयोचितम् ॥ ३३॥
बालक उवाच ।
वरो मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ।
सततं यावदायुर्मे क्षणं वा सुचिरं च वा ॥ ३४॥
त्वद्भक्तियुक्तलोकेऽस्मिञ्जीवन्मुक्तश्च सन्ततम् ।
त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥ ३५॥
किं तज्जपेन तपसा यज्ञेन पूजनेन च ।
व्रतेन चोपवासेन पुण्येन तीर्थसेवया ॥ ३६॥
कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा ।
येनात्मना जीवितश्च तमेव न हि मन्यते ॥ ३७॥
यावदात्मा शरीरेऽस्ति तावत्स शक्तिसंयुतः ।
पश्चाद्यान्ति गते तस्मिन्स्वतन्त्राः सर्वशक्तयः ॥ ३८॥
स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः ।
स्वेच्छामयश्च सर्वाद्यो ब्रह्मज्योतिः सनातनः ॥ ३९॥
इत्युक्त्वा बालकस्तत्र विरराम च नारद ।
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥ ४०॥
श्रीकृष्ण उवाच ।
सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव ।
ब्रह्मणोऽसङ्ख्यपाते च पातस्ते न भविष्यति ॥ ४१॥
अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव ।
त्वन्नाभिपद्माद् ब्रह्मा च विश्वस्रष्टा भविष्यति ॥ ४२॥
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते ।
शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै ॥ ४३॥
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।
पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति ॥ ४४॥
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥ ४५॥
मातरं कमनीयां च मम वक्षःस्थलस्थिताम् ।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥ ४६॥
गत्वा स्वलोकं ब्रह्माणं शङ्करं समुवाच ह ।
स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम् ॥ ४७॥
श्रीभगवानुवाच ।
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव ।
महाविराड् लोमकूपे क्षुद्रस्य च विधे शृणु ॥ ४८॥
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव ।
अंशेन च महाभाग स्वयं च सुचिरं तप ॥ ४९॥
इत्युक्त्वा जगतां नाथो विरराम विधेः सुत ।
जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥ ५०॥
महाविराड् लोमकूपे ब्रह्माण्डगोलके जले ।
बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम् ॥ ५१॥
श्यामो युवा पीतवासाः शयानो जलतल्पके ।
ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः ॥ ५२॥
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ।
सम्भूय पद्मदण्डे च बभ्राम युगलक्षकम् ॥ ५३॥
नान्तं जगाम दण्डस्य पद्मनालस्य पद्मजः ।
नाभिजस्य च पद्मस्य चिन्तामाप पिता तव ॥ ५४॥
स्वस्थानं पुनरागम्य दध्यौ कृष्णपदाम्बुजम् ।
ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा ॥ ५५॥
शयानं जलतल्पे च ब्रह्माण्डगोलकाप्लुते ।
यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम् ॥ ५६॥
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ।
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः ॥ ५७॥
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ।
ततो रुद्रकलाश्चापि शिवस्यैकादश स्मृताः ॥ ५८॥
बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः ।
चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत् ॥ ५९॥
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह ।
स्वर्गं मर्त्यं च पातालं त्रिलोकीं सचराचराम् ॥ ६०॥
एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च ।
प्रतिविश्वे क्षुद्रविराड् ब्रह्मविष्णुशिवादयः ॥ ६१॥
इत्येवं कथितं ब्रह्मन् कृष्णसङ्कीर्तनं शुभम् ।
सुखदं मोक्षदं ब्रह्मन्किं भूयः श्रोतुमिच्छसि ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे ब्रह्मविष्णुमहेश्वरादि-
देवतोत्पत्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ९.३॥
९.४ चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।
नारद उवाच ।
श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् ।
अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ १॥
कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता ।
केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥ २॥
तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् ।
काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३॥
श्रीनारायण उवाच ।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४॥
आसां पूजा प्रसिद्धा च प्रभावः परमाद्भुतः ।
सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥ ५॥
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ।
सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥ ६॥
काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका ।
तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥ ७॥
सङ्क्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् ।
जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ८॥
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।
तद्वत्पश्चात्प्रवक्ष्यामि सङ्क्षेपक्रमतः शृणु ॥ ९॥
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ १०॥
आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः ।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ ११॥
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ।
तामुवाच हितं सत्यं परिणामे सुखावहम् ॥ १२॥
श्रीकृष्ण उवाच ।
भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।
युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १३॥
कामज्ञं कामिनीनां च तासां च कामपूरकम् ।
कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम् ॥ १४॥
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।
त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥ १५॥
यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः ।
कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १६॥
सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः ।
तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १७॥
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।
प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥ १८॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ १९॥
लोभमोहकामक्रोधमानहिंसाविवर्जिता ।
तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २०॥
तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति ।
गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥ २१॥
प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् ।
माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥ २२॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।
वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥ २३॥
मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि ।
भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥ २४॥
कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।
जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥ २५॥
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् ।
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २६॥
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥ २७॥
ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः ।
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ २८॥
सर्वे देवाश्च मुनयो नृपाश्च मानवादयः ।
बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥ २९॥
नारद उवाच ।
पूजाविधानं कवचं ध्यानं चापि निरन्तरम् ।
पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥ ३०॥
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।
वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम् ॥ ३१॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् ।
जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥ ३२॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च ।
पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः ॥ ३३॥
स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः ।
स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः ॥ ३४॥
गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् ।
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम् ॥ ३५॥
ध्यात्वा पुनः षोडषोपचारेण पूजयेद् व्रती ।
पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम् ॥ ३६॥
वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् ।
नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम् ॥ ३७॥
इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु ।
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥ ३८॥
अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ।
घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम् ॥ ३९॥
यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् ।
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥ ४०॥
परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ।
नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥ ४१॥
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ।
कालदेशोद्भवं चारु फलं शुक्लं च संस्कतम् ॥ ४२॥
सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् ।
नवीनं शुक्लवस्त्रं च शङ्खं च सुन्दरं मुने ॥ ४३॥
माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् ।
यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ॥ ४४॥
तन्निबोध महाभाग भ्रमभञ्जनकारणम् ।
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥ ४५॥
कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् ।
वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम् ॥ ४६॥
रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम् ।
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥ ४७॥
वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः ।
एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥ ४८॥
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ।
येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥ ४९॥
विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने ।
सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥ ५०॥
येषां येनोपदेशो वा तेषां स मूल एव च ।
सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ५१॥
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ।
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥ ५२॥
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ।
भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ॥ ५३॥
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ।
भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥ ५४॥
आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ ।
विभाण्डको ददौ मेरौ ऋष्यशृङ्गाय धीमते ॥ ५५॥
शिवः कणादमुनये गौतमाय ददौ मुदा ।
सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ ५६॥
शेषः पाणिनये चैव भारद्वाजाय धीमते ।
ददौ शाकटायनाय सुतले बलिसंसदि ॥ ५७॥
चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् ।
यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत् ॥ ५८॥
कवचं शृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा ।
विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने ॥ ५९॥
भृगुरुवाच ।
ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद ।
सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित ॥ ६०॥
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।
अयातयामं मन्त्राणां समूहसंयुतं परम् ॥ ६१॥
ब्रह्मोवाच ।
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३॥
अतीव गोपनीयं च कल्पवृक्षसमं परम् ।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६४॥
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ।
यद्धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥ ६५॥
पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः ।
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ६६॥
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६७॥
धृत्वा वेदविभागं च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६८॥
शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ६९॥
ऋष्यशृङ्गो भरद्वाजश्चास्तिको देवलस्तथा ।
जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः ॥ ७०॥
कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः ।
स्वयं छन्दश्च बृहती देवता शारदाम्बिका ॥ ७१॥
सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च ।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ ७२॥
श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु ॥ ७३॥
ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।
ॐ श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु ॥ ७४॥
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु ।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥ ७५॥
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदावतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥ ७६॥
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु ।
ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु ॥ ७७॥
ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु ॥ ७८॥
ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु ।
ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु ॥ ७९॥
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु ।
ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु ॥ ८०॥
ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥ ८१॥
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां सर्वदावतु ।
ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८२॥
ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु ।
ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८३॥
ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु ।
ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु ॥ ८४॥
ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु ।
ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८५॥
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ ८६॥
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८७॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ ८८॥
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥ ८९॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः ॥ ९०॥
इदं च कण्वशाखोक्तं कवचं कथितं मुने ।
स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं शृणु ॥ ९१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे सरस्वतीस्तोत्र-
पूजाकवचादिवर्णनं नाम चतुर्थोऽध्यायः ॥ ९.४॥
९.५ पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।
श्रीनारायण उवाच ।
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १॥
गुरुशापाज्ज स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुःखार्तो रविस्थानं सुपुण्यदम् ॥ २॥
सम्प्राप्य तपसा सूर्यं लोलार्के दृष्टिगोचरे ।
तुष्टाव सूर्यं शोकेन रुरोद च मुहुर्मुहुः ॥ ३॥
सूर्यस्तं पाठयामास वेदं वेदाङ्गमीश्वरः ।
उवाच स्तौहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ ४॥
तमित्युक्त्वा दीननाथोऽप्यन्तर्धानं चकार सः ।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५॥
याज्ञवल्क्य उवाच ।
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६॥
ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् ।
ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ ७॥
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ।
लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ ८॥
यथाङ्कुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ ९॥
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ।
विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च ॥ १०॥
तदधिष्ठात्री या देवी तस्यै नित्यै नमो नमः ।
व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ ११॥
यया विना प्रसङ्ख्यावान् सङ्ख्यां कर्तुं न शक्यते ।
कालसङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १२॥
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।
स्मृतिशक्तिज्ञानशक्तिबुद्धिशक्तिस्वरूपिणी ॥ १३॥
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ १४॥
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ।
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥ १५॥
उवाच स तां स्तौहि वाणीमिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ १६॥
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ १७॥
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ।
तदा तां स च तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ १८॥
ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ॥ १९॥
मौनीभूतश्च सस्मार तामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः ॥ २०॥
सम्प्राप्य निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ २१॥
तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह ॥ २२॥
तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥ २३॥
क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ॥ २४॥
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम् ॥ २५॥
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ २६॥
ते च तां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरीम् ।
त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः ॥ २७॥
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ॥ २८॥
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ॥ २९॥
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरूपा महामाया तेन दृष्टाप्युवाच तम् ॥ ३०॥
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।
याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ॥ ३१॥
स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।
महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ॥ ३२॥
स पण्डितश्च मेधावी सुकवीन्द्रो भवे ध्रुवम् ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे याज्ञवल्क्यकृतं
सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ९.५॥
९.६ षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।
श्रीनारायण उवाच ।
सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके ।
गङ्गाशापेन कलहात्कलया भारते सरित् ॥ १॥
पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी ।
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥ २॥
तपस्विनां तपोरूपा तपसः फलरूपिणी ।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ ३॥
ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि ।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥ ४॥
भारते कृतपापश्च स्नात्वा तत्र च लीलया ।
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥ ५॥
चातुर्मास्यां पौर्णमास्यामक्षयायां दिनक्षये ।
व्यतीपाते च ग्रहणेऽन्यस्मिन्पुण्यदिनेऽपि च ॥ ६॥
अनुषङ्गेण यः स्नातो हेतुना श्रद्धयापि वा ।
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥ ७॥
सरस्वतीमनुं तत्र मासमेकं च यो जपेत् ।
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥ ८॥
नित्यं सरस्वतीतोये यः स्नायान्मुण्डयन्नरः ।
न गर्भवासं कुरुते पुनरेव स मानवः ॥ ९॥
इत्येवं कथितं किञ्चिद्भारतीगुणकीर्तनम् ।
सुखदं कामदं सारं भूयः किं श्रोतुमिच्छसि ॥ १०॥
सूत उवाच ।
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ।
पुनः पप्रच्छ सन्देहमिमं शौनक सत्वरम् ॥ ११॥
नारद उवाच ।
कथं सरस्वती देवी गङ्गाशापेन भारते ।
कलया कलहेनैव बभूव पुण्यदा सरित् ॥ १२॥
श्रवणे श्रुतिसाराणां वर्धते कौतुकं मम ।
कथामृतेन मे तृप्तिः केन श्रेयसि तृप्यते ॥ १३॥
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ।
सा तु सत्त्वस्वरूपा या पुण्यदा शुभदा सदा ॥ १४॥
तेजस्विनोर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ।
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥ १५॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।
यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥ १६॥
लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि ।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥ १७॥
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् ।
सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥ १८॥
विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा ।
क्षमां चकार तद् दृष्ट्वा लक्ष्मीर्नैव सरस्वती ॥ १९॥
बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता ।
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥ २०॥
उवाच वाणी भर्तारं रक्तास्या रक्तलोचना ।
कुपिता कामवेगेन शश्वत्प्रस्फुरिताधरा ॥ २१॥
सरस्वत्युवाच ।
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीं प्रति ।
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ २२॥
ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर ।
कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो ॥ २३॥
गङ्गायाः पद्मया सार्धं प्रीतिश्चास्ति सुसम्मता ।
क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥ २४॥
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ।
निष्कलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥ २५॥
त्वां सर्वे सत्त्वरूपं च ये वदन्ति मनीषिणः ।
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥ २६॥
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ।
मनसा च समालोच्य स जगाम बहिः सभाम् ॥ २७॥
गते नारायणे गङ्गामुवाच निर्भयं रुषा ।
वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम् ॥ २८॥
हे निर्लज्जे हे सकामे स्वामिगर्वं करोषि किम् ।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥ २९॥
मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ ।
किं करिष्यति ते कान्तो ममैवं कान्तवल्लभे ॥ ३०॥
इत्येवमुक्त्वा गङ्गायाः केशं ग्रहीतुमुद्यता ।
वारयामास तां पद्मा मध्यदेशं समाश्रिता ॥ ३१॥
शशाप वाणी तां पद्मां महाबलवती सती ।
वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ॥ ३२॥
विपरीतं ततो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि ।
सन्तिष्ठति सभामध्ये यथा वृक्षो यथा सरित् ॥ ३३॥
शापं श्रुत्वा तु सा देवी न शशाप चुकोप ह ।
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च ॥ ३४॥
असन्तुष्टां तु तां दृष्ट्वा कोपप्रस्फुरिताधराम् ।
उवाच गङ्गा तां देवीं पद्मां चारक्तलोचनाम् ॥ ३५॥
गङ्गोवाच ।
त्वमुत्सृज महोग्रां च पद्मे किं मे करिष्यति ।
दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी ॥ ३६॥
वागधिष्ठात्री देवीयं सततं कलहप्रिया ।
यावती योग्यता चास्या यावती शक्तिरेव च ॥ ३७॥
तथा करोतु वादं च मया सार्धं च दुर्मुखी ।
स्वबलं यन्मम बलं विज्ञापयितुमिच्छति ॥ ३८॥
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति ।
इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ॥ ३९॥
सरिक्त्यरूपा भवतु सा या त्वां च शशाप ह ।
अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ॥ ४०॥
कलौ तेषां च पापानि ग्रहीष्यति न संशयः ।
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ॥ ४१॥
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ।
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ॥ ४२॥
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ।
सरस्वतीं करे धृत्वा वासयामास वक्षसि ॥ ४३॥
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् ।
श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ॥ ४४॥
उवाच दुःखितास्ताश्च वाचं सामयिकीं विभुः ।
श्रीभगवानुवाच ।
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ॥ ४५॥
अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि ।
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ॥ ४६॥
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ।
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ॥ ४७॥
त्रैलोक्यपावनी नाम्ना तुलसीति च भारते ।
कलया च सरिद्भावं शीघ्रं गच्छ वरानने ॥ ४८॥
भारतं भारतीशापान्नाम्ना पद्मावती भव ।
गङ्गे यास्यसि पश्चात्त्वमंशेन विश्वपावनी ॥ ४९॥
भारतं भारतीशापात्पापदाहाय पापिनाम् ।
भगीरथस्य तपसा तेन नीता सुकल्पिते ॥ ५०॥
नाम्ना भागीरथी पूता भविष्यसि महीतले ।
मदंशस्य समुद्रस्य जाया जायेर्ममाज्ञया ॥ ५१॥
मत्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि ।
गङ्गाशापेन कलया भारतं गच्छ भारति ॥ ५२॥
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते ।
स्वयं च ब्रह्मसदने ब्रह्मणः कामिनी भव ॥ ५३॥
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ।
शान्ता च क्रोधरहिता मद्भक्ता सत्त्वरूपिणी ॥ ५४॥
महासाध्वी महाभागा सुशीला धर्मचारिणी ।
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ॥ ५५॥
शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु पूजिताः ।
तिस्रो भार्यास्त्रिशीलाश्च त्रयो भृत्याश्च बान्धवाः ॥ ५६॥
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ।
स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ॥ ५७॥
निष्फलं च जन्म तेषामशुभं च पदे पदे ।
मुखे दुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ॥ ५८॥
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् ।
जलानां च स्थलानां च फलानां प्राप्तिरेव च ॥ ५९॥
सततं सुलभा तत्र न तेषां गृह एव च ।
वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ॥ ६०॥
ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् ।
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ॥ ६१॥
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ।
पुंसां च स्त्रीजितां चैव भस्मान्तं शौचमध्रुवम् ॥ ६२॥
यदह्नि कुरुते कर्म न तस्य फलभाग्भवेत् ।
निन्दितोऽत्र परत्रैव सर्वत्र नरकं व्रजेत् ॥ ६३॥
यशःकीर्तिविहीनो यो जीवन्नपि मृतो हि सः ।
बह्वीनां च सपत्नीनां नैकत्र श्रेयसे स्थितिः ॥ ६४॥
एकभार्यः सुखी नैव बहुभार्यः कदाचन ।
गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति ॥ ६५॥
अत्र तिष्ठतु मद्गेहे सुशीला कमलालया ।
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ॥ ६६॥
इह स्वर्गे सुखं तस्य धर्मो मोक्षः परत्र च ।
पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी ।
जीवन्मृतोऽशुचिर्दुःखी दुःशीलापतिरेव च ॥ ६७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे लक्ष्मीगङ्गासरस्वतीनां
भूलोकेऽवतरणवर्णनं नाम षष्ठोऽध्यायः ॥ ९.६॥
९.७ सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।
श्रीनारायण उवाच ।
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ १॥
ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् ।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥ २॥
सरस्वत्युवाच ।
विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् ।
सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः ॥ ३॥
देहत्यागं करिष्यामि योगेन भारते ध्रुवम् ।
अत्युन्नतो हि नियतं पातुमर्हति निश्चितम् ॥ ४॥
गङ्गोवाच ।
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥ ५॥
निर्दोषकामिनीत्यागं करोति यो नरो भुवि ।
स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा ॥ ६॥
पद्मोवाच ।
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।
प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा ॥ ७॥
भारते भारतीशापाद्यास्यामि कलया ह्यहम् ।
कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥ ८॥
दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् ।
केन तेन विमुक्ताहमागमिष्यामि ते पदम् ॥ ९॥
कलया तुलसीरूपं धर्मध्वजसुता सती ।
भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥ १०॥
वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता ।
समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥ ११॥
गङ्गा सरस्वतीशापाद्यदि यास्यति भारते ।
शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति ॥ १२॥
गङ्गाशापेन वा वाणी यदि यास्यति भारतम् ।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥ १३॥
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ।
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥ १४॥
इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा ।
स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः ॥ १५॥
(उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि ।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥)॥
श्रीभगवानुवाच ।
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ।
समतां च करिष्यामि शृणु त्वं कमलेक्षणे ॥ १६॥
भारती यातु कलया सरिद्रूपा च भारते ।
अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥ १७॥
भगीरथेन सा नीता गङ्गा यास्यति भारते ।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥ १८॥
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।
ततः स्वभावतः पूताप्यतिपूता भविष्यति ॥ १९॥
कलांशांशेन गच्छ त्वं भारते वामलोचने ।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥ २०॥
कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् ।
युष्माकं सरितां चैव मद्गेहे चागमिष्यथ ॥ २१॥
सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् ।
विना विपत्तेर्महिमा केषां पद्मभवे भवेत् ॥ २२॥
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ।
युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा ॥ २३॥
पृथिव्यां यानि तीर्थानि सन्त्यसङ्ख्यानि सुन्दरि ।
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ॥ २४॥
मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते ।
पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम् ॥ २५॥
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ।
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ॥ २६॥
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २७॥
एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः ।
नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २८॥
असिजीवी मसीजीवी धावको ग्रामयाचकः ।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २९॥
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः ।
स्थाप्याहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३०॥
अत्युग्रवान्दूषकश्च जारकः पुंश्चलीपतिः ।
पूतश्च वृषलीपुत्रो मद्भक्तस्पर्शदर्शनात् ॥ ३१॥
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ।
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३२॥
पितरं मातरं भार्यां भ्रातरं तनयं सुताम् ।
गुरोः कुलं च भगिनीं चक्षुर्हीनं च बान्धवम् ॥ ३३॥
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति सुन्दरि ।
स महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३४॥
अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा ।
शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात् ॥ ३५॥
देवद्रव्यापहारी च विप्रद्रव्यापहारकः ।
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ॥ ३६॥
महापातकिनश्चैव शूद्राणां शवदाहकः ।
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ॥ ३७॥
महालक्ष्मीरुवाच ।
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ।
येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः ॥ ३८॥
हरिभक्तिविहीनाश्च महाहङ्कारसंयुतः ।
स्वप्रशंसारता धूर्ताः शठाश्च साधुनिन्दकाः ॥ ३९॥
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ।
येषां च पादरजसा पूता पादोदकान्मही ॥ ४०॥
येषां सन्दर्शनं स्पर्शं ये वा वाञ्छन्ति भारते ।
सर्वेषां परमो लाभो वैष्णवानां समागमः ॥ ४१॥
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्यपि कालेन विष्णुभक्ताः क्षणादहो ॥ ४२॥
सूत उवाव
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः ।
निगूढतत्त्वं कथितुमपि श्रेष्ठोपचक्रमे ॥ ४३॥
श्रीभगवानुवाच ।
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ।
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥ ४४॥
सारभूतं गोपनीयं न वक्तव्यं खलेषु च ।
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ॥ ४५॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे पतिष्यति ।
वदन्ति वेदास्तं चापि पवित्रं च नरोत्तमम् ॥ ४६॥
पुरुषाणां शतं पूर्वं तथा तज्जन्ममात्रतः ।
स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात् ॥ ४७॥
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु ।
जीवन्मुक्तास्तु ते पूता यान्ति काले हरेः पदम् ॥ ४८॥
मद्भक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः ।
मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततम् ॥ ४९॥
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च ॥ ५०॥
न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् ।
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ॥ ५१॥
इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् ।
स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वाञ्छति ॥ ५२॥
भ्रमन्ति भारते भक्तास्तादृग्जन्म सुदुर्लभम् ।
मद्गुणश्रवणाः श्राव्यगानैर्नित्यं मुदान्विताः ॥ ५३॥
ते यान्ति च महीं पूत्वा नरं तीर्थं ममालयम् ।
इत्येवं कथितं सर्वं पद्मे कुरु यथोचितम् ।
तदाज्ञया तास्तच्चक्रुर्हरिस्तस्थौ सुखासने ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे गङ्गादीनां
शापोद्धारवर्णनं नाम सप्तमोऽध्यायः ॥ ९.७॥
९.८ अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
सरस्वती पुण्यक्षेत्रमाजगाम च भारते ।
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १॥
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।
वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥ २॥
सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते ।
हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥ ३॥
सरस्वती नदी सा च तीर्थरूपातिपावनी ।
पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥ ४॥
पश्चाद्भागीरथी नीता महीं भगीरथेन च ।
सा वै जगाम कलया वाणीशापेन नारद ॥ ५॥
तत्रैव समये तां च दधार शिरसा शिवः ।
वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः ॥ ६॥
पद्मा जगाम कलया सा च पद्मावती नदी ।
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ ७॥
ततोऽन्यया सा कलया लेभे जन्म च भारते ।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ ८॥
पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः ।
बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ ९॥
कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते ।
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ॥ १०॥
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।
यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः ॥ ११॥
शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम् ॥ १२॥
साधवश्च पुराणानि शङ्खानि श्राद्धतर्पणे ।
वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥ १३॥
देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् ।
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥ १४॥
सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः ।
व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ॥ १५॥
वामाचाररताः सर्वे मिथ्याकपटसंयुताः ।
तुलसीरहिता पूजा भविष्यति ततः परम् ॥ १६॥
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ।
चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ १७॥
पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः ।
स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम् ॥ १८॥
सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे ।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ १९॥
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।
चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा ॥ २०॥
कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।
विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते ॥ २१॥
यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः ।
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ २२॥
ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः ।
सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥ २३॥
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च ॥ २४॥
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।
सूपकारा धावकाश्च वृषवाहाश्च सर्वशः ॥ २५॥
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥ २६॥
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।
दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः ॥ २७॥
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।
जलहीना महानद्यो दीर्घिकाकन्दरादयः ॥ २८॥
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ।
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥ २९॥
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।
कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम् ॥ ३०॥
केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः ।
केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥ ३१॥
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ।
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥ ३२॥
सस्यानि च भविष्यन्ति तडागेषु नदीषु च ।
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥ ३३॥
अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः ।
प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद ॥ ३४॥
हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः ।
हिंसकाश्च दयाहीना पौराश्च नरघातिनः ॥ ३५॥
वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः ।
स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ ॥ ३६॥
पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ ।
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥ ३७॥
वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता ।
पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥ ३८॥
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ।
मातृजायावधूनां च जारोपेतान्नभक्षकाः ॥ ३९॥
कन्यानां भगिनीनां वा जारोपात्तानजीविनः ।
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥ ४०॥
स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे ।
ततः पश्चात्स्वदानं च स्वयमुल्लङ्घयिष्यति ॥ ४१॥
देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च ।
स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ॥ ४२॥
कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः ।
केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः ॥ ४३॥
भगिनीगामिनः केचित्सपत्नीमातृगामिनः ।
भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे ॥ ४४॥
अगम्यागमनं चैव करिष्यन्ति गृहे गृहे ।
मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥ ४५॥
पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे ।
प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः ॥ ४६॥
अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः ।
परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥ ४७॥
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ।
लाक्षा लोहरसानां च व्यापारं लवणस्य च ॥ ४८॥
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ।
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥ ४९॥
पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः ।
यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः ॥ ५०॥
पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला ।
विप्राणां रन्धनागारे भविष्यति च पाचिका ॥ ५१॥
अन्नानां नियमो नास्ति योनीनां च विशेषतः ।
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ ५२॥
एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् ।
हस्तप्रमाणे वृक्षे च अङ्गुष्ठे चैव मानवे ॥ ५३॥
विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति ।
नारायणकलांशश्च भगवान् बलिनां वरः ॥ ५४॥
दीर्घेण करवालेन दीर्घघोटकवाहनः ।
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ ५५॥
निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति ।
अराजका च वसुधा दस्युग्रस्ता भविष्यति ॥ ५६॥
स्थूलाप्रमाणा षड्रात्रं वर्षधाराऽऽप्लुता मही ।
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ ५७॥
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।
प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥ ५८॥
कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे ।
तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति ॥ ५९॥
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ ६०॥
राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः ।
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ ६१॥
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ ६२॥
विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः ।
देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः ॥ ६३॥
श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः ।
लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे ॥ ६४॥
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः ।
कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम् ॥ ६५॥
वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः ।
तथा द्वादश मासाश्च ऋतवश्च षडेव च ॥ ६६॥
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ।
चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा ॥ ६७॥
वर्षं पञ्चविधं ज्ञेयं कालसङ्ख्याविधिक्रमे ।
यथा चायान्ति यान्त्येव यथा युगचतुष्टयम् ॥ ६८॥
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ।
शतत्रये षष्ठ्यधिके नराणां च युगे गते ॥ ६९॥
देवानां च युगं ज्ञेयं कालसङ्ख्याविदां मतम् ।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ ७०॥
मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः ।
अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम् ॥ ७१॥
अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः ।
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥ ७२॥
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ।
ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि ॥ ७३॥
तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः ।
लये प्राकृतिके जाते पाते च ब्रह्मणो मुने ॥ ७४॥
निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने ।
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥ ७५॥
निमेषान्तरकालेन पुनः सृष्टिक्रमेण च ।
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥ ७६॥
कति कल्पा गतायाताः सङ्ख्यां जानाति कः पुमान् ।
सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद ॥ ७७॥
ब्रह्मादीनां च ब्रह्माण्डे सङ्ख्यां जानाति कः पुमान् ।
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥ ७८॥
सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् ।
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥ ७९॥
तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा ।
तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः ॥ ८०॥
सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ८१॥
ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् ।
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ ८२॥
एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् ।
स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥ ८३॥
निरुपाधि निराकारं भक्तानुग्रहकातरम् ।
करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्भवः ॥ ८४॥
शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् ।
यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान् ॥ ८५॥
महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः ।
सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम् ॥ ८६॥
विष्णुः सर्वेश्वरः श्रीमान् यद्भक्त्या यस्य सेवया ।
महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी ॥ ८७॥
सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी ।
यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया ॥ ८८॥
सावित्री देवमाता च वेदाधिष्ठातृदेवता ।
पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ॥ ८९॥
सर्वविद्याधिदेवी सा पूज्या च विदुषां परा ।
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥ ९०॥
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी ॥ ९१॥
सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी ।
कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता ॥ ९२॥
कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया ।
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे ॥ ९३॥
कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया ।
तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते ॥ ९४॥
दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च ।
जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम् ॥ ९५॥
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ।
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥ ९६॥
मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती ।
सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च ॥ ९७॥
त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् ।
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥ ९८॥
सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे ।
इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः ॥ ९९॥
सपत्नीरहितां तां च चकार प्राणवल्लभाम् ।
अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया ॥ १००॥
तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने ।
दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले ॥ १०१॥
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ।
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥ १०२॥
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ।
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥ १०३॥
सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् ।
सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा ॥ १०४॥
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ।
शतमन्वन्तरं तप्तं शङ्करेण पुरा विभो ॥ १०५॥
शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह ।
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥ १०६॥
दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः ।
गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि ॥ १०७॥
दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः ।
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥ १०८॥
एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः ।
मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः ॥ १०९॥
एवं ते कथितं सर्वं पुराणं सयथागमम् ।
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ॥ ११०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
कलिमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ९.८॥
९.९ नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।
नारद उवाच ।
देव्या निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १॥
प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा ।
जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ २॥
वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति ।
सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ ३॥
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।
तस्याश्च जन्मकथनं वद मङ्गलकारणम् ॥ ४॥
श्रीनारायण उवाच ।
सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः ।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ ५॥
श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् ।
विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥ ६॥
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।
बभूव वसुधा धन्या तद्विरुद्धमतः शृणु ॥ ७॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च ॥ ८॥
तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् ।
ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९॥
मेदिनीति च विख्यातेत्युक्तमेतन्मतं शृणु ।
जलधौता कृता पूर्वं वर्धिता मेदसा यतः ॥ १०॥
कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् ।
पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११॥
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।
मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम् ॥ १२॥
तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च ।
कालेन महता पश्चाद् बभूव वसुधा मुने ॥ १३॥
प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा ।
आविर्भूता तिरोभूता सजला च पुनः पुनः ॥ १४॥
आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता ।
प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता ॥ १५॥
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।
सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥ १६॥
हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥ १७॥
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।
काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥ १८॥
पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः ।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९॥
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च ।
नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै ॥ २०॥
प्रलये प्राकृते चैव ब्रह्मणश्च निपातने ।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥ २१॥
नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह ।
नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥ २२॥
मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च ।
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ॥ २३॥
तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः ।
नारद उवाच ।
पूजिता केन रुपेण वाराहे च सुरैर्मही ॥ २४॥
वाराहे चैव वाराही सर्वैः सर्वाश्रया सती ।
मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः ॥ २५॥
तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः ।
मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो ॥ २६॥
श्रीनारायण उवाच ।
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलम् ॥ २७॥
जले तां स्थापयामास पद्मपत्रं यथा हृदे ।
तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम् ॥ २८॥
दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः ।
वराहरूपी भगवान् कोटिसूर्यसमप्रभः ॥ २९॥
कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् ।
क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम् ॥ ३०॥
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी ।
विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः ॥ ३१॥
विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् ।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥ ३२॥
पूर्वरूपं वराहं च दधार स च लीलया ।
पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम् ॥ ३३॥
धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः ।
वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः ॥ ३४॥
श्रीभगवानुवाच ।
सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् ।
मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः ॥ ३५॥
अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने ।
वापीतडागारम्भे च गृहे च कृषिकर्मणि ॥ ३६॥
तव पूजां करिष्यन्ति मद्वरेण सुरादयः ।
मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ ३७॥
वसुधोवाच ।
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ।
लीलामात्रेण भगवन् विश्वं च सचराचरम् ॥ ३८॥
मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिवां तथा ।
शङ्खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा ॥ ३९॥
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् ।
जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ ४०॥
गोरोचनं चन्दनं च शालग्रामजलं तथा ।
एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु ॥ ४१॥
श्रीभगवानुवाच ।
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ।
यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥ ४२॥
इत्येवमुक्त्वा भगवान् विरराम च नारद ।
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥ ४३॥
पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः ।
कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते ॥ ४४॥
ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ।
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ ४५॥
नारद उवाच ।
किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद ।
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ ४६॥
श्रीनारायण उवाच ।
आदौ च पृथिवी देवी वराहेण च पूजिता ।
ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा ॥ ४७॥
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः ।
ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ॥ ४८॥
ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन
मन्त्रेण विष्णुना पूजिता पुरा ।
श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम् ॥ ४९॥
चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् ।
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ॥ ५०॥
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ।
ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत् ॥ ५१॥
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च ।
श्रीनारायण उवाच ।
जये जये जलाधारे जलशीले जलप्रदे ॥ ५२॥
यज्ञसूकरजाये त्वं जयं देहि जयावहे ।
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ॥ ५३॥
मङ्गलार्थं मङ्गलेशे मङ्गलं देहि मे भवे ।
सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते ॥ ५४॥
सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे ।
पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ॥ ५५॥
पुण्याश्रये पुण्यवतामालये पुण्यदे भवे ।
सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे ॥ ५६॥
सर्वसस्यहरे काले सर्वसस्यात्मिके भवे ।
भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥ ५७॥
भूमिपानां सुखकरे भूमिं देहि च भूमिदे ।
इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ ५८॥
कोटिजन्मसु स भवेद् बलवान्भूमिपेश्वरः ।
भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः ॥ ५९॥
भूमिदानहरात्पापान्मुच्यते नात्र संशयः ।
अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम् ॥ ६०॥
अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् ।
परभूमिहरात्पापान्मुच्यते नात्र संशयः ॥ ६१॥
भूमौ वीर्यत्यागपापाद्भूमौ दीपादिस्थापनात् ।
पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने ॥ ६२॥
अश्वमेधशतं पुण्यं लभते नात्र संशयः ।
भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम् ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
भूमिस्तोत्रवर्णनं नाम नवमोऽध्यायः ॥ ९.९॥
९.१० दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।
नारद उवाच ।
भूमिदानकृतं पुण्यं पापं तद्धरणेन च ।
परभूहरणात्पापं परकूपे खनने तथा ॥ १॥
अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च ।
दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः ॥ २॥
अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् ।
यदस्ति तत्प्रतीकारं वद वेदविदांवर ॥ ३॥
श्रीनारायण उवाच ।
वितस्तिमात्रभूमिं च यो ददाति च भारते ।
सन्ध्यापूताय विप्राय स याति शिवमन्दिरम् ॥ ४॥
भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च ।
भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः ॥ ५॥
ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः ।
सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ ॥ ६॥
भूमिदानं च तत्काले यः साधुश्चानुमोदते ।
स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः ॥ ७॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ ८॥
तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः ।
पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम् ॥ ९॥
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च ।
दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ॥ १०॥
गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः ।
स तिष्ठत्यसिपत्रे च यावदिन्द्राश्चतुर्दश ॥ ११॥
पञ्चपिण्डाननुद्धृत्य परकूपे च स्नाति यः ।
प्राप्नोति नरकं चैव स्नानं निष्फलमेव च ॥ १२॥
कामी भूमौ च रहसि वीर्यत्यागं करोति यः ।
भूमिरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ॥ १३॥
अम्बुवाच्यां भूकरणं यः करोति च मानवः ।
स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ॥ १४॥
परकीये लुप्तकूपे कूपं मूढः करोति यः ।
पुष्करिण्यां च लुप्तायां पुष्करिणीं ददाति यः ॥ १५॥
सर्वं फलं परस्यैव तप्तकुण्डं व्रजेच्च सः ।
तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्दश ॥ १६॥
परकीये तडागे च पङ्कमुद्धृत्य चोन्मृजेत् ।
रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ॥ १७॥
पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः ।
श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥ १८॥
भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मसु ।
भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ॥ १९॥
मुक्तां माणिक्यहीरौ च सुवर्णं च मणिं तथा ।
पञ्च संस्थापयेद्भूमौ स चान्धः सप्तजन्मसु ॥ २०॥
शिवलिङ्गं शिवामर्चां यश्चार्पयति भूतले ।
शतमन्वन्तरं यावत्कृमिभक्षः स तिष्ठति ॥ २१॥
शङ्खं यन्त्रं शिलातोयं पुष्पं च तुलसीदलम् ।
यश्चार्पयति भूमौ च स तिष्ठेन्नरके ध्रुवम् ॥ २२॥
जपमालां पुष्पमालां कर्पूरं रोचनं तथा ।
यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम् ॥ २३॥
भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् ।
संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥ २४॥
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः ।
न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः ॥ २५॥
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् ।
ग्रन्धियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः ॥ २६॥
यज्ञं कृत्वा तु यो भूमिं क्षीरेण न हि सिञ्चति ।
स याति तप्तभूमिं च सन्तप्तः सप्तजन्मसु ॥ २७॥
भूकम्पे ग्रहणे यो हि करोति खननं भुवः ।
जन्मान्तरे महापापो ह्यङ्गहीनो भवेद् ध्रुवम् ॥ २८॥
भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता ।
काश्यपी कश्यपस्येयमचला स्थिररूपतः ॥ २९॥
विश्वम्भरा धारणाच्चानन्तानन्तस्वरूपतः ।
पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥ ३०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे पृथिव्युपाख्याने
नरकफलप्राप्तिवर्णनं नाम दशमोऽध्यायः ॥ ९.१०॥
९.११ एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।
नारद उवाच ।
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।
गङ्गोपाख्यानमधुना वद वेदविदांवर ॥ १॥
भारते भारतीशापात्सा जगाम सुरेश्वरी ।
विष्णुस्वरूपा परमा स्वयं विष्णुपदीति च ॥ २॥
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ ३॥
श्रीनारायण उवाच ।
राजराजेश्वरः श्रीमान् सगरः सूर्यवंशजः ।
तस्य भार्या च वैदर्भी शैव्या च द्वे मनोहरे ॥ ४॥
तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः ।
असमञ्ज इति ख्यातः शैव्यायां कुलवर्धनः ॥ ५॥
अन्या चाराधयामास शङ्करं पुत्रकामुकी ।
बभूव गर्भस्तस्याश्च हरस्य च वरेण ह ॥ ६॥
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा ।
तद् दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥ ७॥
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।
चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥ ८॥
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः ।
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टकलेवराः ॥ ९॥
कपिलस्य मुनेः शापाद् बभूवुर्भस्मसाच्च ते ।
राजा रुरोद तच्छ्रुत्वा जगाम गहने वने ॥ १०॥
तपश्चकारासमञ्जो गङ्गानयनकारणात् ।
लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ ११॥
अंशुमांस्तस्य तनयो गङ्गानयनकारणात् ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ १२॥
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ १३॥
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् ।
ददर्श कृष्णं ग्रीष्मस्थसूर्यकोटिसमप्रभम् ॥ १४॥
द्विभुजं मुरलीहस्तं किशोरं गोपवेषिणम् ।
गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम् ॥ १५॥
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् ।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ १६॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारणम् ॥ १७॥
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् ।
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः ॥ १८॥
लीलया च वरं प्राप वाञ्छितं वंशतारणम् ।
कृत्वा च स्तवनं दिव्यं पुलकाङ्कितविग्रहः ॥ १९॥
श्रीभगवानुवाच ।
भारतं भारतीशापाद् गच्छ शीघ्रं सुरेश्वरि ।
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥ २०॥
त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् ।
बिभ्रतो मम मूर्तीश्च दिव्यस्यन्दनगामिनः ॥ २१॥
मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः ।
समुच्छिद्य कर्मभोगान् कृताञ्जन्मनि जन्मनि ॥ २२॥
कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः ।
गङ्गाया वातस्पर्शेन नश्यतीति श्रुतौ श्रुतम् ॥ २३॥
स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः ।
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ॥ २४॥
शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ २५॥
जन्मसङ्ख्यार्जितान्येव कामतोऽपि कृतानि च ।
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ॥ २६॥
पुण्याहस्नानतः पुण्यं वेदा नैव वदन्ति च ।
किञ्चिद्वदन्ति ते विप्र फलमेव यथागमम् ॥ २७॥
ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदन्ति च ।
सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ॥ २८॥
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ।
ततस्त्रिंशद्गुणं पुण्यं रविसङ्क्रमणे दिने ॥ २९॥
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ।
ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥ ३०॥
चातुर्मास्यां पौर्णमास्यामनन्तं पुण्यमेव च ।
अक्षयायां च तत्तुल्यं चैतद्वेदे निरूपितम् ॥ ३१॥
असङ्ख्यपुण्यफलदमेतेषु स्नानदानकम् ।
सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम् ॥ ३२॥
मन्वन्तराद्यायां तिथौ युगाद्यायां तथैव च ।
माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥ ३३॥
अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः ।
ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ॥ ३४॥
दशहरादशम्यां तु युगाद्यादिसमं फलम् ।
नन्दासमं च वारुण्यां महत्पूर्वे चतुर्गुणम् ॥ ३५॥
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ।
पुण्यं कोटिगुणं चैव सामान्यस्नानतोऽपि यत् ॥ ३६॥
चन्द्रोपरागसमये सूर्ये दशगुणं ततः ।
पुण्यमर्धोदये काले ततः शतगुणं फलम् ॥ ३७॥
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ।
तमुवाच ततो गङ्गा भक्तिनम्राऽऽत्मकन्धरा ॥ ३८॥
गङ्गोवाच ।
यामि चेद्भारतं नाथ भारतीशापतः पुरा ।
तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ॥ ३९॥
दास्यन्ति पापिनो मह्यं पापानि यानि कानि च ।
तानि मे केन नश्यन्ति तमुपायं वद प्रभो ॥ ४०॥
कतिकालं परिमितं स्थितिर्मे तत्र भारते ।
कदा यास्यामि देवेश तद्विष्णोः परमं पदम् ॥ ४१॥
ममान्यद्वाञ्छितं यद्यत्सर्वं जानासि सर्ववित् ।
सर्वान्तरात्मन् सर्वज्ञ तदुपायं वद प्रभो ॥ ४२॥
श्रीभगवानुवाच ।
जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि ।
पतिस्ते द्रवरूपाया लवणोदो भविष्यति ॥ ४३॥
स ममांशस्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी ।
विदग्धाया विदग्धेन सङ्गमो गुणवान् भुवि ॥ ४४॥
यावत्यः सन्ति नद्यश्च भारत्याद्याश्च भारते ।
सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते ॥ ४५॥
अद्यप्रभृति देवेशि कलेः पञ्चसहस्रकम् ।
वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि ॥ ४६॥
नित्यं त्वमब्धिना सार्धं करिष्यसि रहो रतिम् ।
त्वमेव रसिका देवि रसिकेन्द्रेण संयुता ॥ ४७॥
त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च ।
भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ॥ ४८॥
कण्वशाखोक्तध्यानेन ध्यात्वा त्वां पूजयिष्यति ।
यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ॥ ४९॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ५०॥
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ।
प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनङ्क्ष्यति ॥ ५१॥
पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि ।
तन्मन्त्रोपासकस्नानात्तदघं च विनङ्क्ष्यति ॥ ५२॥
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् ।
सार्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे ॥ ५३॥
तत्तु तीर्थं भवेत्सद्यो यत्र त्वद्गुणकीर्तनम् ।
त्वद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ॥ ५४॥
रेणुप्रमाणवर्षं च देवीलोके वसेद् ध्रुवम् ।
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ॥ ५५॥
समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् ।
पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ॥ ५६॥
लयं प्राकृतिकं ते च द्रक्ष्यन्ति चाप्यसङ्ख्यकम् ।
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ॥ ५७॥
प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि ।
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ॥ ५८॥
तस्मै ददामि सारूप्यं करोमि तं च पार्षदम् ।
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ॥ ५९॥
तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् ।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ ६०॥
तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ ६१॥
तस्मै ददामि सारूप्यमसङ्ख्यं प्राकृतं लयम् ।
रत्नेन्द्रसारनिर्माणयानेन सह पार्षदैः ॥ ६२॥
सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् ध्रुवम् ।
तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ॥ ६३॥
मन्मन्त्रोपासकानां तु नित्यं नैवेद्यभोजिनाम् ।
पूतं कर्तुं सशक्तो हि लीलया भुवनत्रयम् ॥ ६४॥
रत्नेन्द्रसारयानेन गोलोकं सम्प्रयान्ति च ।
मद्भक्ता बान्धवा येषां तेऽपि पश्वादयोऽपि हि ॥ ६५॥
प्रयान्ति रत्नयानेन गोलोकं चातिदुर्लभम् ।
यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः सति ॥ ६६॥
जीवन्मुक्ताश्च ते पूता मद्भक्तेः संविधानतः ।
इत्युक्त्वा श्रीहरिस्तांश्च प्रत्युवाच भगीरथम् ॥ ६७॥
स्तुहि गङ्गामिमां भक्त्या पूजां च कुरु साम्प्रतम् ।
भगीरथस्तां तुष्टाव पूजयामास भक्तितः ॥ ६८॥
कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः ।
प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम् ॥ ६९॥
भगीरथश्च गङ्गा च सोऽन्तर्धानं चकार ह ।
नारद उवाच ।
केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च ॥ ७०॥
पूजां चकार नृपतिर्वद वेदविदांवर ।
श्रीनारायण उवाच ।
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ॥ ७१॥
सम्पूज्य देवषट्कं च संयतो भक्तिपूर्वकम् ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ ७२॥
सम्पूज्य देवषट्कं च सोऽधिकारी च पूजने ।
गणेशं विघ्ननाशाय आरोग्याय दिवाकरम् ॥ ७३॥
वह्निं शौचाय विष्णुं च लक्ष्यर्थं पूजयेन्नरः ।
शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये ॥ ७४॥
सम्पूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ।
दध्यावनेन ध्यानेन तद्ध्यानं शृणु नारद ॥ ७५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
गङ्गोपाख्यानवर्णनं नामैकादशोऽध्यायः ॥ ९.११॥
९.१२ द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम् ।
श्वेतपङ्कजवर्णाभां गङ्गां पापप्रणाशिनीम् ॥ १॥
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २॥
शरत्पूर्णेन्दुशतकमृष्टशोभाकरां पराम् ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ ३॥
नारायणप्रियां शान्तां तत्सौभाग्यसमन्विताम् ।
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ॥ ४॥
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ।
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ॥ ५॥
पक्वबिम्बविनिन्द्याच्छचार्वोष्ठपुटमुत्तमम् ।
मुक्तापङ्क्तिप्रभामुष्टदन्तपङ्क्तिमनोरमम् ॥ ६॥
सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् ।
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ॥ ७॥
बृहच्छ्रोणि सुकठिनां रम्भास्तम्भविनिन्दिताम् ।
स्थलपद्मप्रभामुष्टपादपद्मयुगं वरम् ॥ ८॥
रत्नपादुकसंयुक्तं कुङ्कुमाक्तं सयावकम् ।
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ॥ ९॥
सुरसिद्धमुनीन्द्रैश्च दत्तार्घसंयुतं सदा ।
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥ १०॥
मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् ।
वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ॥ ११॥
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ।
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ॥ १२॥
दत्त्वा सम्पूजयेद् ब्रह्मन्नुपचाराणि षोडश ।
आसनं पाद्यमर्ध्यं च स्नानीयं चानुलेपनम् ॥ १३॥
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ।
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ॥ १४॥
मनोहरं सुतल्पं च देयान्येतानि षोडश ।
दत्त्वा भक्त्या च प्रणमेत्संस्तूय सम्पुटाञ्जलिः ॥ १५॥
सम्पूज्यैव प्रकारेण सोऽश्वमेधफलं लभेत् ।
नारद उवाच ।
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त जगत्पते ॥ १६॥
विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् ।
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम् ॥ १७॥
शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् ।
राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ १८॥
यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले ।
सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ १९॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमायां च तां गङ्गां प्रणमाम्यहम् ॥ २०॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।
समावृता या गोलोके तां गङ्गां प्रणमाम्यहम् ॥ २१॥
षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठे तां गङ्गां प्रणमाम्यहम् ॥ २२॥
त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता ब्रह्मलोके या तां गङ्गां प्रणमाम्यहम् ॥ २३॥
त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः ।
आवृता शिवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २४॥
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
आवृता धुवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २५॥
लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः ।
आवृता चन्द्रलोके या तां गङ्गां प्रणमाम्यहम् ॥ २६॥
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।
आवृता सूर्यलोके या तां गङ्गां प्रणमाम्यहम् ॥ २७॥
लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोके तां गङ्गां प्रणमाम्यहम् ॥ २८॥
सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः ।
आवृता जनलोके या तां गङ्गां प्रणमाम्यहम् ॥ २९॥
दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या महर्लोके तां गङ्गां प्रणमाम्यहम् ॥ ३०॥
सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः ।
आवृता या च कैलासे तां गङ्गां प्रणमाम्यहम् ॥ ३१॥
शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ।
मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ ३२॥
पाताले भोगवती च विस्तीर्णा दशयोजना ।
ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ ३३॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ।
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ ३४॥
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा ।
द्वापरे चन्दनाभा या तां गङ्गां प्रणमाम्यहम् ॥ ३५॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ ३६॥
यत्तोयकणिकास्पर्शे पापिनां ज्ञानसम्भवः ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ ३७॥
इत्येवं कथिता ब्रह्मन् गङ्गापद्मैकविंशतिः ।
स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम् ॥ ३८॥
नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् ।
सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ ३९॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् ।
रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद् ध्रुवम् ॥ ४०॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ ४१॥
शुभं भवेच्च दुःस्वप्ने गङ्गास्नानफलं लभेत् ।
श्रीनारायण उवाच ।
स्तोत्रेणानेन गङ्गा च स्तुत्वा चैव भगीरथः ॥ ४२॥
जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ।
वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ॥ ४३॥
भगीरथेन सा नीता तेन भागीरथी स्मृता ।
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ॥ ४४॥
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच ।
कथं गङ्गा त्रिपथगा जाता भुवनपावनी ॥ ४५॥
कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो ।
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम् ॥ ४६॥
एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि ।
श्रीनारायणाय उवाच ।
कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः ॥ ४७॥
कृष्णः सम्पूज्य तां राधामुवास रासमण्डले ।
कृष्णेन पूजितां तां तु सम्पूज्य हृष्टमानसाः ॥ ४८॥
ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः ।
एतस्मिन्नन्तरे कृष्णसङ्गीता च सरस्वती ॥ ४९॥
जगौ सुन्दरतालेन वीणया च मनोहरम् ।
तुष्टो ब्रह्मा ददौ तस्यै रत्नेन्द्रसारहारकम् ॥ ५०॥
शिवो मणीन्द्रसारं तु सर्वब्रह्माण्डदुर्लभम् ।
कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम् ॥ ५१॥
अमूल्यरत्ननिर्माणं हारसारं च राधिका ।
नारायणश्च भगवान् ददौ मालां मनोहराम् ॥ ५२॥
अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुण्डलम् ।
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ॥ ५३॥
दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् ।
धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे ॥ ५४॥
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् ।
एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः ॥ ५५॥
जगौ श्रीकृष्णसङ्गीतं रासोल्लाससमन्वितम् ।
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ॥ ५६॥
कष्टेन चेतनां प्राप्य ददृशू रासमण्डले ।
स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम् ॥ ५७॥
अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ।
ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम् ॥ ५८॥
गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति ।
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ॥ ५९॥
स्वमूर्तिं दर्शय विभो वाञ्छितं वरमेव नः ।
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ६०॥
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् ।
सर्वात्माहमियं शक्तिर्भक्तानुग्रहविग्रहा ॥ ६१॥
ममाप्यस्याश्च देहेन कर्तव्यं च किमावयोः ।
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ॥ ६२॥
मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् ।
मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छथ सुरेश्वराः ॥ ६३॥
करोतु शम्भुस्तत्रैवं मदीयं वाक्यपालनम् ।
स्वयं विधातस्त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरुम् ॥ ६४॥
कर्तुं शास्त्रविशेषं च वेदाङ्गं सुमनोहरम् ।
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ॥ ६५॥
स्तोत्रैश्च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः ।
मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम् ॥ ६६॥
भवन्ति विमुखा येन जना मां तत्करिष्यति ।
सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ॥ ६७॥
जना मन्मन्त्रपूताश्च गमिष्यन्ति च मत्पदम् ।
अन्यथा न भविष्यन्ति सर्वे गोलोकवासिनः ॥ ६८॥
निष्कलं भविता सर्वं ब्रह्माण्डं चैव ब्रह्मणः ।
जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुं भवे भवे ॥ ६९॥
पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिनः ।
इदं कर्तुं महादेवः करोति देवसंसदि ॥ ७०॥
प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च द्रक्ष्यति ।
इत्येवमुक्त्वा गगने विरराम सनातनः ॥ ७१॥
तच्छ्रुत्वा जगतां धाता तमुवाच शिवं मुदा ।
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ॥ ७२॥
गङ्गातोयं करे कृत्वा स्वीकारं च चकार सः ।
संयुक्तं विष्णुमायाया मन्त्रौघैः शास्त्रमुत्तमम् ॥ ७३॥
वेदसारं करिष्यामि प्रतिज्ञापालनाय च ।
गङ्गातोयमुपस्मृश्य मिथ्या यदि वदेज्जनः ॥ ७४॥
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ।
इत्युक्ते शङ्करे ब्रह्मन् गोलोके सुरसंसदि ॥ ७५॥
आविर्बभूव श्रीकृष्णो राधया सहितस्ततः ।
तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम् ॥ ७६॥
परमानन्दपूर्णाश्च चकुश्च पुनरुत्सवम् ।
कालेन शम्भुर्भगवान् मुक्तिदीपं चकार सः ॥ ७७॥
इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ।
स एव द्रवरूपा सा गङ्गा गोलोकसम्भवा ॥ ७८॥
राधाकृष्णाङ्गसम्भूता भुक्तिमुक्तिफलप्रदा ।
स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना ।
कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ॥ ७९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
गङ्गोपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ ९.१२॥
९.१३ त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।
नारद उवाच ।
कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर ।
क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ १॥
श्रीनारायण उवाच ।
भारतं भारतीशापात्समागत्येश्वरेच्छया ।
जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा ॥ २॥
भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् ।
पद्मावती च शापान्ते गङ्गा सा चैव नारद ॥ ३॥
गङ्गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः ।
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ ४॥
नारद उवाच ।
केनोपायेन सा देवी विष्णुपादाब्जसम्भवा ।
ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा ॥ ५॥
बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया ।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६॥
श्रीनारायण उवाच ।
पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी ।
राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी ॥ ७॥
द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि ।
नवयौवनसम्पन्ना सर्वाभरणभूषिता ॥ ८॥
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।
तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ ९॥
स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।
सुपीनकठिनश्रोणिः सुनितम्बयुगन्धरा ॥ १०॥
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।
सुचारुनेत्रयुगलं सुकटाक्षं सुवङ्क्रिमम् ॥ ११॥
वङ्क्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ १२॥
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् ।
बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३॥
पक्वदाडिमबीजाभदन्तपङ्क्तिसमुज्ज्वलम् ।
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४॥
सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता ।
वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ १५॥
निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ॥ १६॥
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ।
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७॥
गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा ।
कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना ॥ १८॥
पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी ।
अमूल्यरत्ननिर्माणनानाभूषणभूषिता ॥ १९॥
अमूल्यरत्नखचितममूल्यं वह्निशौचकम् ।
पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती ॥ २०॥
स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् ।
कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम् ॥ २१॥
रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा ।
सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥ २२॥
कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् ।
दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम् ॥ २३॥
दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले ।
पारिजातप्रसूनानां मालायुक्तं सुवङ्क्रिमम् ॥ २४॥
सुचारुकबरीभारं कम्पयन्ती सुकम्पिता ।
सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ २५॥
गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे ।
सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया ॥ २६॥
तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् ।
सम्भाष्य मधुरालापैः सस्मितश्च ससम्भ्रमः ॥ २७॥
प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः ।
तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः ॥ २८॥
उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा ।
कुशलं परिपप्रच्छ भीतातिविनयेन च ॥ २९॥
नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका ।
ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे ॥ ३०॥
तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ ।
बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ ३१॥
ऊर्ध्वसिंहासनस्थां च राधां गङ्गा ददर्श सा ।
सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ ३२॥
असङ्ख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् ।
सदा द्वादशवर्षीयां कन्याभिनवयौवनाम् ॥ ३३॥
विश्ववृन्दे निरुपमां रूपेण च गुणेन च ।
शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ ३४॥
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ।
सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च ॥ ३५॥
कृष्णार्धाङ्गां कृष्णसमां तेजसा वयसा त्विषा ।
पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च ॥ ३६॥
प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ।
सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम् ॥ ३७॥
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् ।
कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥ ३८॥
दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी ।
निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम् ॥ ३९॥
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ।
वाचा मधुरया शान्ता विनीता सस्मिता मुने ॥ ४०॥
राधोवाच ।
केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ।
पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना ॥ ४१॥
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा ।
वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ ४२॥
त्वं चापि तां सन्निरीक्ष्य सकामः सस्मितः सदा ।
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ ४३॥
त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च ।
क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा ॥ ४४॥
सङ्गृह्येमां प्रियामिष्टां गोलोकाद् गच्छ लम्पट ।
अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ ४५॥
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ।
क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥ ४६॥
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ।
देहं तत्याज विरजा नदीरूपा बभूव सा ॥ ४७॥
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ।
अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी ॥ ४८॥
गृहं मयि गतायां च पुनर्गत्वा तदन्तिके ।
उच्चै रुरोद विरजे विरजे चेति संस्मरन् ॥ ४९॥
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ।
सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ ५०॥
ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया ।
ततो बभूवुस्तस्यां च समुद्राः सप्त एव च ॥ ५१॥
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ५२॥
शोभा देहं परित्यज्य जगाम चन्द्रमण्डले ।
ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ ५३॥
संविभज्य त्वया दत्तं हृदयेन विदूयता ।
रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च ॥ ५४॥
किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन ।
किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ ५५॥
किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन ।
नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन ॥ ५६॥
किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन ।
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥ ५७॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
प्रभा देहं परित्यज्य जगाम सूर्यमण्डले ॥ ५८॥
ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ५९॥
विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च ।
हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन ॥ ६०॥
किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन ।
किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन ॥ ६१॥
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ।
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ॥ ६२॥
तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया ।
शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले ॥ ६३॥
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ।
रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे ॥ ६४॥
रत्नभूषणभूषाढ्यो रत्नभूषितया सह ।
तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो ॥ ६५॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥ ६६॥
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ६७॥
विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो ।
शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो ॥ ६८॥
त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन ।
तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन ॥ ६९॥
मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह ।
सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः ॥ ७०॥
रत्नभूषितया गन्धचन्दनोक्षितया सह ।
सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते ॥ ७१॥
श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् ।
मया प्रबोधिता सा च भवांश्च स्मरणं कुरु ॥ ७२॥
गृहीतं पीतवस्त्रं च मुरली च मनोहरा ।
वनमालाकौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ॥ ७३॥
पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ।
लज्जया कृष्णवर्णोऽभूद्भवान् पापेन यः प्रभो ॥ ७४॥
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ ७५॥
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः ।
किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥ ७६॥
धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन ।
तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥ ७७॥
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
त्वद्गुणं चैव बहुशो न जानामि परं प्रभो ॥ ७८॥
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।
गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ॥ ७९॥
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
तिरोभूय सभामध्ये स्वजलं प्रविवेश सा ॥ ८०॥
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ।
पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ ८१॥
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ ॥ ८२॥
गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा ।
ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ॥ ८३॥
सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् ।
जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ॥ ८४॥
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ।
मनवो मुनयः सर्वे देवसिद्धतपस्विनः ॥ ८५॥
गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः ।
सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ ८६॥
वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ।
गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम् ॥ ८७॥
निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ।
निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम् ॥ ८८॥
स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् ।
सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ ८९॥
परं परेशं परमं परमात्मानमीश्वरम् ।
प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ ९०॥
सगद्गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः ।
सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम् ॥ ९१॥
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ।
अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ ९२॥
सेव्यमानं च गोपालैः श्वेतचामरवायुना ।
गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ ९३॥
प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् ।
तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ९४॥
परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् ।
मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः ॥ ९५॥
प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् ।
परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम् ॥ ९६॥
निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् ।
ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे ॥ ९७॥
वामतो वामदेवं च जगाम कृष्णसन्निधिम् ।
परमानन्दयुक्तं च परमानन्दरूपिणीम् ॥ ९८॥
सर्वं कृष्णमयं धाता ददर्श रासमण्डले ।
सर्वं समानवेषं च समानासनसंस्थितम् ॥ ९९॥
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ।
मयूरपिच्छचूडं च कौस्तुभेन विराजितम् ॥ १००॥
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ।
गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ १०१॥
परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् ।
किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः ॥ १०२॥
क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् ।
निराकारं च साकारं ददर्श द्विविधं क्षणम् ॥ १०३॥
एकमेव क्षणं कृष्णं राधया रहितं परम् ।
प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम् ॥ १०४॥
राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् ।
किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः ॥ १०५॥
हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा ।
चकार स्तवनं भक्त्या परिहारमनेकधा ॥ १०६॥
ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया ।
ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम् ॥ १०७॥
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ।
पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम् ॥ १०८॥
तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः ।
सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः ॥ १०९॥
श्रीभगवानुवाच ।
आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते ।
इहागच्छ महादेव शश्वत्कुशलमस्तु वः ॥ ११०॥
आगता हि महाभागा गङ्गानयनकारणात् ।
गङ्गा च चरणाम्भोजे भयेन शरणं गता ॥ १११॥
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः ।
दास्यामीमां च भवतां यूयं कुरुत निर्भयाम् ॥ ११२॥
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ।
तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम् ॥ ११३॥
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।
धाता चतुर्णां वेदानामुवाच चतुराननः ॥ ११४॥
चतुरानन उवाच ।
गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले ।
युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वनात् ॥ ११५॥
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया ।
त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम् ॥ ११६॥
भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः ।
भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः ॥ १ रे ७॥
गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके ।
तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा ॥ ११८॥
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ।
वहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ॥ ११९॥
तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः ।
उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ १२०॥
तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ ।
किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः ॥ १२१॥
गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ।
तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च ॥ १२२॥
सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा ।
गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह ॥ १२३॥
लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रो योषितो मुने ॥ १२४॥
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः ।
सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम् ॥ १२५॥
श्रीकृष्ण उवाच ।
गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर ।
शृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय ॥ १२६॥
यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा ।
सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः ॥ १२७॥
एते जीवन्ति गोलोके कालचक्रविवर्जिते ।
जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना ॥ १२८॥
ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि ।
वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज ॥ १२९॥
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् ।
स्वं ब्रह्माण्डं विरचय पश्चाद् गङ्गा प्रयास्यति ॥ १३०॥
एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः ।
करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ १३१॥
गतो बहुतरः कालो युष्माकं च चतुर्मुखाः ।
गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ १३२॥
इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने ।
देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ॥ १३३॥
गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके ।
ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता ॥ १३४॥
तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः ।
निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ १३५॥
इत्येवं कथितं ब्रह्मन् गङ्गोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १३६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
गङ्गोपाख्यानवर्णनं नाम त्रयोदशोऽध्यायः ॥ ९.१३॥
९.१४ चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।
नारद उवाच ।
लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १॥
गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।
कथं सा तस्य पत्नी च बभूवेति च न श्रुतम् ॥ २॥
श्रीनारायण उवाच ।
गङ्गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः ।
गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥ ३॥
ब्रह्मोवाच ।
राधाकृष्णाङ्गसम्भूता या देवी द्रवरूपिणी ।
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥ ४॥
शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता ।
तदङ्गसम्भवा नान्यं वृणोतीयं च तं विना ॥ ५॥
तत्रातिमानिनी राधा सा च तेजस्विनी वरा ।
समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥ ६॥
विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।
सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥ ७॥
गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये ।
सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥ ८॥
बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः ।
दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥ ९॥
प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो ।
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥ १०॥
सुरेश्वरेषु रसिको रसिकेयं समागता ।
त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती ॥ ११॥
विदग्धया विदग्धेन सङ्गमो गुणवान् भवेत् ।
उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान् ॥ १२॥
तं विहाय महालक्ष्मी रुष्टा याति न संशयः ।
यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते ॥ १३॥
सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।
त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥ १४॥
अर्धाङ्गं द्विभुजः कृष्णो योऽर्धाङ्गेन चतुर्भुजः ।
कृष्णवामाङ्गसम्भूता बभूव राधिका पुरा ॥ १५॥
दक्षिणांशः स्वयं सा च वामांशः कमला तथा ।
तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥ १६॥
एकाङ्गं चैव स्वीपुंसोर्यथा प्रकृतिपूरुषौ ।
इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः ॥ १७॥
गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।
नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥ १८॥
रेमे रमापतिस्तत्र गङ्गया सहितो मुदा ।
गङ्गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥ १९॥
निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च ।
मूर्च्छां सम्प्राप सा देवी नवसङ्गमलीलया ॥ २०॥
रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता ।
तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च ॥ २१॥
नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् ।
गङ्गा शशाप कोपेन भारते च हरिप्रिया ॥ २२॥
गङ्गया सह तस्यैव तिस्रो भार्या रमापतेः ।
सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने ॥ २३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे गङ्गायाः
कृष्णपत्नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ ९.१४॥
९.१५ पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।
नारद उवाच ।
नारायणप्रिया साध्वी कथं सा च बभूव ह ।
तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि ॥ १॥
कस्य वा सा कुले जाता कस्य कन्या कुले सती ।
केन वा तपसा सा च सम्प्राप्ता प्रकृतेः परम् ॥ २॥
निर्विकारं निरीहं च सर्वविश्वस्वरूपकम् ।
नारायणं परं ब्रह्म परमेश्वरमीश्वरम् ॥ ३॥
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् ।
सर्वाधारं सर्वरूपं सर्वेषां परिपालकम् ॥ ४॥
कथमेतादृशी देवी वृक्षत्वं समवाप ह ।
कथं साप्यसुरग्रस्ता सम्बभूव तपस्विनी ॥ ५॥
सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्मुहुः ।
छेत्तुमर्हसि सन्देहं सर्वं सन्देहभञ्जन ॥ ६॥
श्रीनारायण उवाच ।
मनुश्च दक्षसावर्णिः पुण्यवान् वैष्णवः शुचिः ।
यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः ॥ ७॥
तत्पुत्रो ब्रह्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः ।
तत्पुत्रो धर्मसावर्णिर्वैष्णवश्च जितेन्द्रियः ॥ ८॥
तत्पुत्रो रुद्रसावर्णिर्भक्तिमान्विजितेन्द्रियः ।
तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ॥ ९॥
तत्पुत्र इन्द्रसावर्णिर्महाविष्णुपरायणः ।
वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ॥ १०॥
यस्याश्रमे स्वयं शम्भुरासीद्देवयुगत्रयम् ।
पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ॥ ११॥
न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् ।
पूजां च सर्वदेवानां दूरीभूता चकार सः ॥ १२॥
भाद्रे मासि महालक्ष्मीपूजां मत्तो बभञ्ज ह ।
तथा माघीयपञ्चम्यां विस्मृता सर्वदैवतैः ॥ १३॥
पापः सरस्वतीपूजां दूरीभूता चकार सः ।
यज्ञं च विष्णुपूजां च निन्दन्तं तं दिवाकरः ॥ १४॥
चुकोप देवो भूपेन्द्रं शशाप शिवकारणात् ।
भ्रष्टश्रीस्त्वञ्च भवेति तं शशाप दिवाकरः ॥ १५॥
शूलं गृहीत्वा तं सूर्यमधावच्छङ्करः स्वयम् ।
पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ ॥ १६॥
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा ।
ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ॥ १७॥
ब्रह्मकश्यपमार्तण्डाः सन्त्रस्ताः शुष्कतालुकाः ।
नारायणं च सर्वेशं ते ययुः शरणं भिया ॥ १८॥
मूर्छा प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः ।
सर्वं निवेदनं चक्रुर्भयस्य कारणं हरौ ॥ १९॥
नारायणश्च कृपया तेभ्यश्च ह्यभयं ददौ ।
स्थिरा भवत हे भीता भयं किञ्च मयि स्थिते ॥ २०॥
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः ।
तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः ॥ २१॥
पाताहं जगतां देवाः कर्ता च सततं सदा ।
स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः ॥ २२॥
शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः ।
विधाय नानारूपं च करोमि सृष्टिपालनम् ॥ २३॥
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः ।
अद्यप्रभृति मद्वरेण भयं वो नास्ति शङ्करात् ॥ २४॥
सर्वेशो वै स भगवाच्छङ्करश्च सतां पतिः ।
भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः ॥ २५॥
सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः ।
ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः ॥ २६॥
शक्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया ।
कोटिं च ब्रह्मणामेवं नासाध्यं शूलिनः प्रभोः ॥ २७॥
बाह्यज्ञानं नैव किञ्चिद्ध्यायते मां दिवानिशम् ।
मन्मन्त्रान्मद्गुणान्भक्त्या पञ्चवक्त्रेण गायति ॥ २८॥
अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ २९॥
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता ।
शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः ॥ ३०॥
एतस्मिन्नन्तरे तत्र जगाम शङ्करः स्थितः ।
शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः ॥ ३१॥
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः ।
ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ॥ ३२॥
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् ।
किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥ ३३॥
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् ।
चतुर्भुजैः सेवितं च श्वेतचामरवायुना ॥ ३४॥
चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससम् ।
लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ॥ ३५॥
विद्याधरीनृत्यगीतं पश्यन्तं सस्मितं सदा ।
ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥ ३६॥
तं ननाम महादेवो ब्रह्मणा नमितश्च सः ।
ननाम सूर्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम् ॥ ३७॥
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च ।
शिवः संस्तूय सर्वेशं समुवास सुखासने ॥ ३८॥
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥ ३९॥
पीयूषतुल्यमधुरं वचनं सुमनोहरम् ।
विष्णुरुवाच ।
आगतोऽसि कथं चात्र वद कोपस्य कारणम् ॥ ४०॥
महादेव उवाच ।
वृषध्वजं च मद्भक्तं मम प्राणाधिकं प्रियम् ।
सूर्यः शशाप इति मे प्रकोपस्य तु कारणम् ॥ ४१॥
पुत्रवत्सलशोकेन सूर्यं हन्तुं समुद्यतः ।
स ब्रह्माणं प्रपन्नश्च सूर्यश्च स विधिस्त्वयि ॥ ४२॥
त्वयि ये शरणापन्ना ध्यानेन वचसापि वा ।
निरापदो विशङ्कास्ते जरा मृत्युश्च तैर्जितः ॥ ४३॥
प्रत्यक्षं शरणापन्नास्तत्फलं किं वदामि भोः ।
हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ॥ ४४॥
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।
श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना ॥ ४५॥
विष्णुरुवाच ।
कालोऽतियातो दैवेन युगानामेकविंशतिः ।
वैकुण्ठं घटिकार्धेन शीघ्रं गच्छ त्वमालयम् ॥ ४६॥
वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात् ।
रथध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ॥ ४७॥
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।
हृतश्रियौ सूर्यशापात्स्मृतौ परमवैष्णवौ ॥ ४८॥
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ ।
तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति ॥ ४९॥
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।
मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत ॥ ५०॥
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरङ्गतः ।
देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा ।
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ ॥ ५१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
शक्तिप्रादुर्भावो नाम पञ्चदशोऽध्यायः ॥ ९.१५॥
९.१६ षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।
श्रीनारायण उवाच ।
लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।
वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम् ॥ १॥
महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः ।
पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ २॥
कुशध्वजस्य पत्नी च देवी मालावती सती ।
सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ ३॥
सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह ।
कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात् ॥ ४॥
वेदध्वनिं सा चकार जातमात्रेण कन्यका ।
तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः ॥ ५॥
जातमात्रेण सुस्नाता जगाम तपसे वनम् ।
सर्वैर्निषिद्धा यत्नेन नारायणपरायणा ॥ ६॥
एकमन्वन्तरं चैव पुष्करे च तपस्विनी ।
अत्युग्रां च तपस्यां च लीलया हि चकार सा ॥ ७॥
तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता ।
सुश्राव सा च सहसा सुवाचमशरीरिणीम् ॥ ८॥
जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् ।
ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ॥ ९॥
इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः ।
अतीव निर्जनस्थाने पर्वते गन्धमादने ॥ १०॥
तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा ।
ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥ ११॥
दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल ।
सुस्वादुभूतं च फलं जलं चापि सुशीतलम् ॥ १२॥
तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः ।
चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे ॥ १३॥
तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् ।
शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम् ॥ १४॥
मूर्च्छामवाप कृपणः कामबाणप्रपीडितः ।
स करेण समाकृष्य शृङ्गारं कर्तुमुद्यतः ॥ १५॥
सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह ।
स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः ॥ १६॥
तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् ।
सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह ॥ १७॥
सा शशाप मदर्थे त्वं विनङ्क्ष्यसि सबान्धवः ।
स्पृष्टाहं च त्वया कामाद् बलं चाप्यवलोकय ॥ १८॥
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह ।
गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ ॥ १९॥
अहो किमद्भुतं दृष्टं किं कृतं वानयाधुना ।
इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः ॥ २०॥
सा च कालान्तरे साध्वी बभूव जनकात्मजा ।
सीतादेवीति विख्याता यदर्थे रावणो हतः ॥ २१॥
महातपस्विनी सा च तपसा पूर्वजन्मतः ।
लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥ २२॥
सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् ।
सा रमा सुचिरं रेमे रामेण सह सुन्दरी ॥ २३॥
जातिस्मरा न स्मरति तपसश्च क्लमं पुरा ।
सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले ॥ २४॥
नानाप्रकारविभवं चकार सुचिरं सती ।
सम्प्राप्य सुकुमारं तमतीव नवयौवना ॥ २५॥
गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् ।
स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥ २६॥
पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः ।
जगाम काननं पश्चात्कालेन च बलीयसा ॥ २७॥
तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च ।
ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥ २८॥
रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह ।
उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः ॥ २९॥
द्विज उवाच ।
भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः ।
सीताहरणकालोऽयं तवैव समुपस्थितः ॥ ३०॥
दैवं च दुर्निवार्यं च न च दैवात्परो बली ।
जगत्प्रसूं मयि न्यस्य छायां रक्षान्तिकेऽधुना ॥ ३१॥
दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः ।
देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः ॥ ३२॥
रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।
स्वीकारं वचसश्चक्रे हृदयेन विदूयता ॥ ३३॥
वह्निर्योगेन सीताया मायासीतां चकार ह ।
तत्तुल्यगुणसर्वाङ्गां ददौ रामाय नारद ॥ ३४॥
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च ।
लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥ ३५॥
एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् ।
सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम् ॥ ३६॥
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने ।
स्वयं जगाम तूर्णं तं विव्याध सायकेन च ॥ ३७॥
लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः ।
प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ॥ ३८॥
मृगदेहं परित्यज्य दिव्यरूपं विधाय च ।
रत्ननिर्माणयानेन वैकुण्ठं स जगाम ह ॥ ३९॥
वैकुण्ठलोकद्वार्यासीत्किङ्करो द्वारपालयोः ।
पुनर्जगाम तद्द्वारमादेशाद् द्वारपालयोः ॥ ४०॥
अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् ।
तं हि सा प्रेरयामास लक्ष्मणं रामसन्निधौ ॥ ४१॥
गते च लक्ष्मणे रामं रावणो दुर्निवारणः ।
सीतां गृहीत्वा प्रययौ लङ्कामेव स्वलीलया ॥ ४२॥
विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् ।
तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः ॥ ४३॥
मूर्च्छां सम्प्राप सुचिरं विललाप भृशं पुनः ।
पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकम् ॥ ४४॥
कालेन प्राप्य तद्वार्तां गोदावरीनदीतटे ।
सहायान्वानरात्कृत्वा बबन्ध सागरं हरिः ॥ ४५॥
लङ्कां गत्वा रघुश्रेष्ठो जघान सायकेन च ।
कालेन प्राप्य तं हत्वा रावणं बान्धवैः सह ॥ ४६॥
तां च वह्निपरीक्षां च कारयामास सत्वरम् ।
हुताशस्तत्र काले तु वास्तवीं जानकीं ददौ ॥ ४७॥
उवाच छाया वह्निं च रामं च विनयान्विता ।
करिष्यामीति किमहं तदुपायं वदस्व मे ॥ ४८॥
श्रीरामाग्नी ऊचतुः
त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् ।
कृत्वा तपस्या तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥ ४९॥
सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः ।
दिव्यं त्रिलक्षवर्षं च स्वर्गलक्ष्मीर्बभूव ह ॥ ५०॥
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा ।
कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा ॥ ५१॥
कृते युगे वेदवती कुशध्वजसुता शुभा ।
त्रेतायां रामपत्नी च सीतेति जनकात्मजा ॥ ५२॥
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।
त्रिहायणी च सा प्रोक्ता विद्यमाना युगत्रये ॥ ५३॥
नारद उवाच ।
प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्गव ।
इति मच्चित्तसन्देहं भञ्ज सन्देहभञ्जन ॥ ५४॥
श्रीनारायण उवाच ।
लङ्कायां वास्तवी सीता रामं सम्प्राप नारद ।
रूपयौवनसम्पन्ना छाया च बहुचिन्तया ॥ ५५॥
रामाग्न्योराज्ञया तप्तुमुपास्ते शङ्करं परम् ।
कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः ॥ ५६॥
पतिं देहि पतिं देहि पतिं देहि त्रिलोचन ।
पतिं देहि पतिं देहि पञ्चवारं चकार सा ॥ ५७॥
शिवस्तत्प्रार्थनां श्रुत्वा प्रहस्य रसिकेश्वरः ।
प्रिये तव प्रियाः पञ्च भविष्यन्ति वरं ददौ ॥ ५८॥
तेन सा पाण्डवानां च बभूव कामिनी प्रिया ।
इति ते कथितं सर्वं प्रस्तावं वास्तवं शृणु ॥ ५९॥
अथ सम्प्राप्य लङ्कायां सीतां रामो मनोहराम् ।
विभीषणाय तां लङ्कां दत्त्वायोध्यां ययौ पुनः ॥ ६०॥
एकादशसहस्राब्दं कृत्वा राज्यं च भारते ।
जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च ॥ ६१॥
कमलांशा वेदवती कमलायां विवेश सा ।
कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ॥ ६२॥
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च ।
सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती श्रुता ॥ ६३॥
धर्मध्वजसुताख्यानं निबोध कथयामि ते ॥ ६४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे महालक्षम्या वेदवतीरूपेण
राजगृहे जन्मवर्णनं नाम षोडशोऽध्यायः ॥ ९.१६॥
९.१७ सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
धर्मध्वजस्य पत्नी माधवीति च विश्रुता ।
नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना ॥ २॥
स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता ।
कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ ३॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ ४॥
ततो राजा मतिं प्राप्य सुरताद्विरराम च ।
कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ ५॥
दधार गर्भं सा सद्यो दैवादब्दशतं सती ।
श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ ६॥
शुभे क्षणे शुभदिने शुभयोगे च संयुते ।
शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७॥
कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज ।
सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ ८॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ ९॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।
तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ १०॥
शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् ।
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ ११॥
पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् ।
नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ १२॥
तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः ।
सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ १३॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।
तत्र देवाब्दलक्षं च चकार परमं तपः ॥ १४॥
मनसा नारायणः स्वामी भवितेति च निश्चिता ।
ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ १५॥
आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् ।
विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ १६॥
त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी ।
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ १७॥
ततो दशसहस्राब्दं निराहारा बभूव सा ।
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः ॥ १८॥
समाययौ वरं दातुं परं बदरिकाश्रमम् ।
चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ १९॥
तामुवाच जगत्कर्ता विधाता जगतामपि ।
ब्रह्मोवाच ।
वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ २०॥
हरिभक्तिं हरेर्दास्यमजरामरतामपि ।
तुलस्युवाच ।
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ २१॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।
अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ २२॥
कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया ।
गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ २३॥
रासेश्वरी समागत्य ददर्श रासमण्डले ।
गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ २४॥
याहि त्वं मानवीं योनिमित्येवं च शशाप ह ।
मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ २५॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ २६॥
देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि ।
अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ २७॥
साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे ।
ब्रह्मदेव उवाच ।
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥ २८॥
तदंशश्चातितेजस्वी लेभे जन्म च भारते ।
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥ २९॥
शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः ।
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ ३०॥
विलम्भितुं न शशाक राधिकायाः प्रभावतः ।
स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे ॥ ३१॥
जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि ।
अधुना तस्य पत्नी त्वं सम्भविष्यसि शोभने ॥ ३२॥
पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि ।
शापान्नारायणस्यैव कलया दैवयोगतः ॥ ३३॥
भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी ।
प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः ॥ ३४॥
त्वया विना च सर्वेषां पूजा च विफला भवेत् ।
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥ ३५॥
त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् ।
वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम् ॥ ३६॥
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च ।
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ॥ ३७॥
प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा ।
तुलस्युवाच ।
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ॥ ३८॥
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे ।
अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः ॥ ३९॥
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् ।
त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥ ४०॥
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय ।
ब्रह्यदेव उवाच ।
गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम् ॥ ४१॥
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि ।
शृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका ॥ ४२॥
राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि ।
इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम् ॥ ४३॥
मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् ।
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥ ४४॥
परां शुभाशिषं चैव पूजां चैव चकार सा ।
बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा ॥ ४५॥
सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् ।
बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम् ॥ ४६॥
प्रसन्नमनसा देवी तत्याज तपसः क्लमम् ।
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ ४७॥
भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा ।
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ ९.१७॥
९.१८ अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।
नारायण उवाच ।
तुलसी परितुष्टा च सुष्वाप हृष्टमानसा ।
नवयौवनसम्पन्ना वृषध्वजवराङ्गना ॥ १॥
चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति ।
पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ २॥
पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना ।
क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ ३॥
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।
क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥ ४॥
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।
उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम् ॥ ५॥
भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः ।
क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥ ६॥
पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् ।
विषहारि सुखं दिव्यं सुन्दरं च फलं जलम् ॥ ७॥
निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः ।
सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ ८॥
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती ।
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ ९॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।
आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम् ॥ १०॥
कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः ।
सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम् ॥ ११॥
पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ ।
यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा ॥ १२॥
पुनश्च चेतनां प्राप्य विललाप पुनः पुनः ।
एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद ॥ १३॥
शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् ।
कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे ॥ १४॥
कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् ।
ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम् ॥ १५॥
आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ ।
आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने ॥ १६॥
नवयौवनसम्पन्नं कामदेवसमप्रभम् ।
श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ॥ १७॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ।
रत्नसारविनिर्माणविमानस्थं मनोहरम् ॥ १८॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
पारिजातप्रसूनानां मालावन्तं च सुस्मितम् ॥ १९॥
कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् ।
सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा ॥ २०॥
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।
बभूवातिनम्रमुखी नवसङ्गमलज्जिता ॥ २१॥
शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता ।
अमूल्यरत्ननिर्माणयावकावलिसंयुता ॥ २२॥
मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता ।
दधती कबरीभारं मालतीमाल्यसंयुतम् ॥ २३॥
अमूल्यरत्ननिर्माणमकराकृतिकुण्डला ।
चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता ॥ २४॥
रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला ।
रत्नकङ्कणकेयूरशङ्खभूषणभूषिता ॥ २५॥
रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता ।
दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् ॥ २६॥
उवास तत्समीपे तु मधुरं तामुवाच सः ।
शङ्खचूड उवाच ।
का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥ २७॥
का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि ।
मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि ॥ २८॥
इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।
सस्मिता नम्रवदना सकामं तमुवाच सा ॥ २९॥
तुलस्युवाच ।
धर्मध्वजसुताहं च तपस्यायां तपोवने ।
तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ ३०॥
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् ।
न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम् ॥ ३१॥
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ।
येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम् ॥ ३२॥
आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् ।
विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ॥ ३३॥
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ।
स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम् ॥ ३४॥
कार्यार्थे स्वामिवशगामन्यथैवावशां सदा ।
स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥ ३५॥
श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् ।
तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः ॥ ३६॥
तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् ।
दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा ॥ ३७॥
बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः ।
शश्वत्कामा च रामा च कामाधारा मनोहरा ॥ ३८॥
बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा ।
कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता ॥ ३९॥
मानिनी मैथुनाभावे कोपना कलहाङ्कुरा ।
सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता ॥ ४०॥
सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे ।
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ ४१॥
सुतात्परमभिस्नेहं कुर्वती रसिकोपरि ।
प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् ॥ ४२॥
पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ।
कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना ॥ ४३॥
वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् ।
दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा ॥ ४४॥
ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी ।
तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका ॥ ४५॥
हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका ।
संसारकारागारे च शश्वन्निगडरूपिणी ॥ ४६॥
इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी ।
बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम् ॥ ४७॥
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।
दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम् ॥ ४८॥
मायारूपा मायिनां च विधिना निर्मिता पुरा ।
विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम् ॥ ४९॥
इत्युक्त्वा तुलसी तं तु विरराम च नारद ।
सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे ॥ ५०॥
शङ्खचूड उवाच ।
त्वया यत्कथितं देवि न च सर्वमलीककम् ।
किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ ५१॥
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ।
कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम् ॥ ५२॥
लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका ।
सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता ॥ ५३॥
एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् ।
तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम् ॥ ५४॥
शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा ।
छायावती रोहिणी च वरुणानी शची तथा ॥ ५५॥
कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा ।
लोपामुद्रानसूया च कोटभी तुलसी तथा ॥ ५६॥
अहल्यारुन्धती मेना तारा मन्दोदरी तथा ।
दमयन्ती वेदवती गङ्गा च मनसा तथा ॥ ५७॥
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा ।
षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी ॥ ५८॥
स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा ।
निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च ॥ ५९॥
सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा ।
यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे ॥ ६०॥
कलाकलांशरूपं च स्वर्वेश्यादिकमेव च ।
तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ ६१॥
सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः ।
तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ ६२॥
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः ।
रजोरूपं तमोरूपं कलासु विविधं स्मृतम् ॥ ६३॥
मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः ।
सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा ॥ ६४॥
कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा ।
रजोरूपस्य साध्वीत्वमतो नैवोपजायते ॥ ६५॥
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ।
तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥ ६६॥
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् ।
निर्जने निर्जले वापि रहस्यपि परस्त्रियम् ॥ ६७॥
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ ६८॥
अहमेव शङ्खचूडो देवविद्रावकारकः ।
दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा ॥ ६९॥
अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च ।
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ ७०॥
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ।
जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा ॥ ७१॥
त्वमेव राधिकाकोपाज्जातासि भारते भुवि ।
त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः ॥ ७२॥
इत्येवमुक्त्वा स पुमान्विरराम महामुने ।
सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ ७३॥
तुलस्युवाच ।
एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः ।
कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ ७४॥
त्वयाहमधुना सत्यं विचारेण पराजिता ।
स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ ७५॥
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् ।
स्त्रीजितं मनसा माता पिता भ्राता च निन्दति ॥ ७६॥
शुद्धो विप्रो दशाहेन जातके मृतके यथा ।
भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ ७७॥
शूद्रो मासेन वेदेषु मातृवद्धीनसङ्करः ।
अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः ॥ ७८॥
न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ।
न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम् ॥ ७९॥
किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः ।
किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ ८०॥
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ ८१॥
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ८२॥
अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च ।
पङ्गवे चाङ्गहीनाय चान्धाय बधिराय च ॥ ८३॥
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।
ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः ॥ ८४॥
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।
साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत् ॥ ८५॥
यः कन्यापालनं कृत्वा करोति यदि विक्रयम् ।
विक्रेता धनलोभेन कुम्भीपाकं स गच्छति ॥ ८६॥
कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी ।
कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ॥ ८७॥
तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् ।
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ ८८॥
इत्येवमुक्त्वा तुलसी विरराम तपोनिधे ।
ब्रह्मोवाच ।
किं करोषि शङ्खचूड संवादमनया सह ॥ ८९॥
गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु ।
पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती ॥ ९०॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ।
निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम् ॥ ९१॥
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।
किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति ॥ ९२॥
देवानामसुराणां च दानवानां विमर्दकम् ।
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ॥ ९३॥
यथा मयि च सावित्री भवानी च भवे यथा ।
यथा धरा वराहे च दक्षिणा च यथाध्वरे ॥ ९४॥
द्यथात्रेरनसूया च दमयन्ती यथा नले ।
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥ ९५॥
यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी ।
यथाहल्या गौतमे च देवहूतिश्च कर्दमे ॥ ९६॥
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥ ९७॥
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।
देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती ॥ ९८॥
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव ।
अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि ॥ ९९॥
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् ।
पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च ।
चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे शङ्खचूडेन सह
तुलस्याः सङ्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ ९.१८॥
९.१९ एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।
नारद उवाच ।
विचित्रमिदमाख्यानं भवता समुदाहृतम् ।
श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १॥
ततः परं तु यज्जातं तत्त्वं वद महामते ।
श्रीनारायण उवाच ।
इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥ २॥
गान्धर्वेण विवाहेन जगृहे तां च दानवः ।
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३॥
स रेमे रामया सार्धं वासगेहे मनोरमे ।
मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता ॥ ४॥
निमग्ना निर्जले साध्वी सम्भोगसुखसागरे ।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५॥
कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।
अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६॥
तत्सर्वं रसशृङ्गारं चकार रसिकेश्वरः ।
अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७॥
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८॥
गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।
भूषितो भूषणेनैव रत्नभूषणभूषिताम् ॥ ९॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
जहार मानसं भर्तुर्लोलया लीलया सती ॥ १०॥
चेतनां रसिकायाश्च जहार रसभाववित् ।
वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११॥
स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।
तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२॥
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।
राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३॥
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।
आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा ॥ १४॥
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।
सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५॥
सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।
चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६॥
सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् ।
सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७॥
पारिजातस्य कुसुमं जरारोगहरं परम् ।
अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम् ॥ १८॥
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९॥
ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २०॥
निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१॥
सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् ।
चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२॥
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।
तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३॥
ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४॥
अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् ।
शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५॥
विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।
भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६॥
निर्ममे कबरीभारे तस्या माङ्गल्यभूषणम् ।
सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७॥
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।
परीतं परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः ॥ २८॥
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९॥
चित्रालक्तकरागं च नखरेषु ददौ मुदा ।
स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३०॥
हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।
रत्नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ ३१॥
तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।
मलये देवनिलये शैले शैले तपोवने ॥ ३२॥
स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।
कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ ३३॥
पुष्पभद्रानदीतीरे नीरवातमनोहरे ।
पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ ३४॥
मधौ मधुकराणां च मधुरध्वनिनादिते ।
विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५॥
देवोद्याने नन्दने च चित्रचन्दनकानने ।
चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६॥
कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७॥
निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।
काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ ३८॥
पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९॥
कामुक्या कामुकः कामात्स रेमे रामया सह ।
न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ ४०॥
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।
तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१॥
रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।
एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥ ४२॥
एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।
देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३॥
गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।
हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४॥
ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५॥
तदा ब्रह्मा सुरैः सार्धं जगाम शङ्करालयम् ।
सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६॥
ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।
दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७॥
सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥ ४८॥
शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान् ।
वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ ४९॥
शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।
सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ ५०॥
ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ ५१॥
एवं षोडश द्वाराणि निरीक्ष्य कमलोद्भवः ।
देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२॥
देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३॥
नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।
मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४॥
अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः ।
माणिक्यमालाजालाभां मुक्तापङ्क्तिविभूषिताम् ॥ ५५॥
मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः ।
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६॥
पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः ।
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७॥
पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।
इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८॥
सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् ।
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९॥
कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।
सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६०॥
विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।
सहस्रयोजनायामां परिपूर्णां च किङ्करैः ॥ ६१॥
ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह ।
वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२॥
अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३॥
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ।
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४॥
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।
लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ६५॥
गङ्गया परया भक्त्या सेवितं श्वेतचामरैः ।
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६॥
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७॥
पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः ।
भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ ६८॥
कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।
वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९॥
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७०॥
श्रीभगवानुवाच ।
शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।
मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ७१॥
शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।
गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२॥
सुदामा नाम गोपश्च पार्षदप्रवरो मम ।
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ ७३॥
तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् ।
विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४॥
सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् ।
पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ ७५॥
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।
पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ ७६॥
मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।
भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ ७७॥
तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।
स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ ७८॥
तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना ।
बहिष्कर्तुं चकाराज्ञां सन्त्रस्तं मम संसदि ॥ ७९॥
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ ८०॥
सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।
याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ ८१॥
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।
वारयामास तुष्टा सा रुदती कृपया पुनः ॥ ८२॥
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।
समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ ८३॥
गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।
ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया ॥ ८४॥
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।
सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५॥
गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।
पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६॥
इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति ।
महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७॥
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।
शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८॥
ममैव कवचं कण्ठे सर्वमङ्गलकारकम् ।
बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९॥
तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।
तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९०॥
सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति ।
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ ९१॥
तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।
तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ ९२॥
पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३॥
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।
भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे शङ्खचूडेन सह
तुलसीसङ्गमवर्णनं नामैकोनविंशोऽध्यायः ॥ ९.१९॥
९.२० विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।
श्रीनारायण उवाच ।
ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च ।
जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ १॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ।
तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ २॥
दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् ।
शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा ॥ ३॥
सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् ।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४॥
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् ।
स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम् ॥ ५॥
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।
ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः ॥ ६॥
युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः ।
परितो वणिजां सौधैर्नानावस्तुविराजितैः ॥ ७॥
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥ ८॥
गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् ।
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥ ९॥
ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः ।
तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥ १०॥
अत्युच्चैर्गगनस्पर्शिमणिशृङ्गविराजितम् ।
राजितं द्वादशद्वारैर्द्वारपालसमन्वितम् ॥ ११॥
मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः ।
शोभितं रत्नसोपानै रत्नस्तम्भविराजितम् ॥ १२॥
तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः ।
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥ १३॥
तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ।
कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥ १४॥
अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः ।
न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥ १५॥
गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह ।
रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम् ॥ १६॥
स च तं कथयित्वा च दूतो गन्तुमुवाच ह ।
स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ॥ १७॥
राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् ।
मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम् ॥ १८॥
रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा ।
भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम् ॥ १९॥
सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः ।
सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ॥ २०॥
माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने ।
दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ॥ २१॥
शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः ।
एवम्भूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥ २२॥
उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च ।
पुष्पदन्त उवाच ।
राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो ॥ २३॥
यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय ।
राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥ २४॥
देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् ।
हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः ॥ २५॥
पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः ।
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥ २६॥
गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि ।
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ॥ २७॥
प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह ।
स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम् ॥ २८॥
शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् ।
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥ २९॥
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ३०॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।
कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ॥ ३१॥
कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः ।
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ॥ ३२॥
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ।
वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः ॥ ३३॥
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।
कुबेरश्च यमश्चैव जयन्तो नलकूबरः ॥ ३४॥
वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा ।
धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान् ॥ ३५॥
उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा ।
स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी ॥ ३६॥
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७॥
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।
अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम् ॥ ३८॥
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।
शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान् ॥ ३९॥
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।
त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम् ॥ ४०॥
मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् ।
वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम् ॥ ४१॥
नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा ।
पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२॥
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ।
अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम् ॥ ४३॥
आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः ।
सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः ॥ ४४॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः ॥ ४५॥
ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् ।
पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया ॥ ४६॥
अथ दूते गते तत्र शङ्खचूडः प्रतापवान् ।
उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च ॥ ४७॥
रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।
उवाच मधुरं साध्वी हृदयेन विदूयता ॥ ४८॥
तुलस्युवाच ।
हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् ।
हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् ॥ ४९॥
भुङ्क्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् ।
पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम् ॥ ५०॥
आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् ।
दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि ॥ ५१॥
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर ।
उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥ ५२॥
शङ्खचूड उवाच ।
कालेन योजितं सर्वं कर्मभोगनिबन्धनम् ।
शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्गलम् ॥ ५३॥
काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः ।
क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥ ५४॥
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।
ते सर्वे फलिताः काले पातं यान्ति च कालतः ॥ ५५॥
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि ।
कालात्स्रष्टा च सृजति पाता पाति च कालतः ॥ ५६॥
संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते ।
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा ॥ ५७॥
स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः ।
काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः ॥ ५८॥
निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् ।
सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः ॥ ५९॥
जनं जनेन जनिता जनं पाति जनेन यः ।
जनं जनेन हरते तं देवं भज साम्प्रतम् ॥ ६०॥
यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् ।
यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ ६१॥
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।
यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान् ॥ ६२॥
मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् ।
विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे ॥ ६३॥
संहर्तारं च संहर्तुस्तं देवं शरणं व्रज ।
को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये ॥ ६४॥
अहं को वा च त्वं का वा विधिना योजितः पुरा ।
त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥ ६५॥
अज्ञानी कातरः शोके विपत्तौ न च पण्डितः ।
सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च ॥ ६६॥
नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् ।
तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ॥ ६७॥
मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च ।
हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि ॥ ६८॥
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।
अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ ६९॥
तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् ।
अगमं राधिकाशापाद्भारतं च सुदुर्लभम् ॥ ७०॥
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।
त्वं च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ७१॥
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।
इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम् ॥ ७२॥
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।
नानाप्रकारविभवं चकार रत्नमन्दिरे ॥ ७३॥
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् ।
निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः ॥ ७४॥
कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् ।
कृशोदरीं निराहारां निमग्नां शोकसागरे ॥ ७५॥
पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् ।
पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ ७६॥
स च तस्यै ददौ सर्वं सर्वशोकहरं परम् ।
ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ ७७॥
क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् ।
तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे ॥ ७८॥
पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने ।
अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको ॥ ७९॥
एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा ।
प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ ८०॥
प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् ।
तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ ॥ ८१॥
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ।
क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात् ॥ ८२॥
कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः ।
क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ ॥ ८३॥
सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ ।
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ ८४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडेन सह
देवानां सङ्ग्रामोद्योगवर्णनं नाम विंशोऽध्यायः ॥ ९.२०॥
९.२१ एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।
श्रीनारायण उवाच ।
श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १॥
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ २॥
चकाराह्निकमावश्यमभीष्टदेववन्दनम् ।
दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम् ॥ ३॥
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।
ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ ४॥
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।
ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ॥ ५॥
गजरत्नमश्वरत्नं धनरत्नं मनोहरम् ।
ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च ॥ ६॥
भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् ।
ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा ॥ ७॥
पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च ।
पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम् ॥ ८॥
प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् ।
स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९॥
भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् ।
अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥ १०॥
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।
त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११॥
कृता सेनापरिमिता दानवेन्द्रेण नारद ।
तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ १२॥
महारथः स विज्ञेयो रथिनां प्रवरो रणे ।
त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः ॥ १३॥
त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह ।
बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन् ॥ १४॥
रत्नेन्द्रसारनिर्माणविमानमारुरोह सः ।
गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ॥ १५॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद ॥ १६॥
कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ १७॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ १८॥
शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।
शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा ॥ १९॥
लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता ।
शरावतीमिश्रिता च निर्गता सा हिमालयात् ॥ २०॥
गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।
तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम् ॥ २१॥
वटमूले समासीनं सूर्यकोटिसमप्रभम् ।
कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम् ॥ २२॥
शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ।
त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥ २३॥
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् ।
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ २४॥
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् ।
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ २५॥
विश्वम्भरं विश्ववरं विश्वसंहारकारकम् ।
कारणं कारणानां च नरकार्णवतारणम् ॥ २६॥
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।
अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ २७॥
सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः ।
वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम् ॥ २८॥
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ।
उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ २९॥
परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् ।
राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥ ३०॥
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ।
महादेव उवाच ।
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ ३१॥
मरीचिस्तस्य पुत्रश्च वैष्णवाश्चापि धार्मिकः ।
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ॥ ३२॥
दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ।
तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्धिता ॥ ३३॥
चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोल्बणाः ।
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ॥ ३४॥
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ।
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥ ३५॥
शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ।
तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥ ३६॥
पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्मिकः ।
अधुना राधिकाशापाद्भारते दानवेश्वरः ॥ ३७॥
आब्रह्मस्तम्बपर्यन्तं तुच्छं मेने च वैष्णवः ।
सालोक्यसार्ष्टिसायुज्यसामीप्यं च हरेरपि ॥ ३८॥
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना ।
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥ ३९॥
इन्द्रत्वं वा मनुत्वं वा न मेने गणनासु च ।
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ॥ ४०॥
देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप ।
सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठन्तु वै पदे ॥ ४१॥
अलं भूतविरोधेन सर्वे कश्यपवंशजाः ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ ४२॥
ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशीम् ।
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ॥ ४३॥
सर्वावस्था च समतां केषां याति च सर्वदा ।
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सदा ॥ ४४॥
आविर्भावः पुनस्तस्य प्रभावादीश्वरेच्छया ।
ज्ञानवृद्धिश्च तपसा स्मृतिलोपश्च निश्चितम् ॥ ४५॥
करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ।
परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा ॥ ४६॥
त्रिभागः सोऽपि त्रेतायां द्विभागो द्वापरे स्मृतः ।
एकभागः कलौ पूर्वं तदंशश्च कमेण च ॥ ४७॥
कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ।
यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः ॥ ४८॥
दिनेषु यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् ।
उदयं याति कालेन बालतां च क्रमेण च ॥ ४९॥
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः ।
दिने प्रच्छन्नतां याति कालेन दुर्दिने घने ॥ ५०॥
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ।
परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते ॥ ५१॥
तादृशो न भवेन्नित्यं क्षयं याति दिने दिने ।
पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने ॥ ५२॥
सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ।
राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते ॥ ५३॥
काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः ।
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ॥ ५४॥
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ।
काले जले निमग्ना सा तिरोभूताम्बुविप्लुता ॥ ५५॥
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ।
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ॥ ५६॥
ईश्वरस्यैव समता ब्रह्मणः परमात्मनः ।
अहं मृत्युञ्जयो यस्मादसङ्ख्यं प्राकृतं लयम् ॥ ५७॥
आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः ।
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥ ५८॥
स चात्मा स च जीवश्च नानारूपधरः परः ।
करोति सततं यो हि तनामगुणकीर्तनम् ॥ ५९॥
काले मृत्युं स जयति जन्मरोगभयं जराम् ।
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत् ॥ ६०॥
अहं कृतश्च संहर्ता वयं विषयिणः कृताः ।
कालाग्निरुद्रं संहारे नियोज्य विषये नृप ॥ ६१॥
अहं करोमि सततं तन्नामगुणकीर्तनम् ।
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ॥ ६२॥
मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः ।
इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः ॥ ६३॥
विरराम च शम्भुश्च सभामध्ये च नारद ।
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ॥ ६४॥
उवाच मधुरं देवं परं विनयपूर्वकम् ।
शङ्खचूड उवाच ।
त्वया यत्कथितं देव नान्यथा वचनं स्मृतम् ॥ ६५॥
तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् ।
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ ६६॥
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।
मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर ॥ ६७॥
सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः ।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ ६८॥
शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः ।
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ ६९॥
क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः ।
क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः ॥ ७०॥
यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा ।
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ॥ ७१॥
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ।
तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम् ॥ ७२॥
समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः ।
इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना ॥ ७३॥
जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये ।
इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः ॥ ७४॥
यथोचितमुत्तरं तमुवाच दानवेश्वरम् ।
महादेव उवाच ।
युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्भवैः ॥ ७५॥
का लज्जा महती राजन्नकीर्तिर्वा पराजये ।
युद्धमादौ हरेरेव मधुना कैटभेन च ॥ ७६॥
हिरण्यकशिपोश्चैव सह तेनात्मना नृप ।
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥ ७७॥
त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् ।
सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह ॥ ७८॥
सह शुम्भादिभिः पूर्वं समरः परमाद्भुतः ।
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥ ७९॥
ये ये हताश्च दैतेया नहि केऽपि त्वया समाः ।
का लज्जा महती राजन् मम युद्धे त्वया सह ॥ ८०॥
सुराणां शरणस्यैव प्रेषितश्च हरेरहो ।
देहि राज्यं च देवानामिति मे निश्चितं वचः ॥ ८१॥
युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् ।
इत्युक्त्वा शङ्करस्तत्र विरराम च नारद ।
उत्तस्थौ शङ्खचूडश्च ह्यमात्यैः सह सत्वरम् ॥ ८२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडकृते
प्रबोधवाक्यवर्णनं नामेकविंशोऽध्यायः ॥ ९.२१॥
९.२२ द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।
श्रीनारायण उवाच ।
शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।
समारुरोह यानं च सहामात्यैः स सत्वरः ॥ १॥
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् ।
दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ २॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३॥
दम्भेन सह चन्द्रश्च चकार परमं रणम् ।
कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ५॥
विकङ्कणेन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७॥
धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः ।
शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८॥
गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च ।
काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९॥
विश्वेन च पलाशेनादित्याद्या युयुधुः परे ।
एकादश च रुद्रा वै एकादशभयङ्करैः ॥ १०॥
महामारी च युयुधे चोग्रचण्डादिभिः सह ।
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११॥
युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे ।
वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ १२॥
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ।
रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ १३॥
उवास शङ्खचूडश्च रत्नभूषणभूषितः ।
शङ्करस्य च ये योधा दानवैश्च पराजिताः ॥ १४॥
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः ।
चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ १५॥
बलं च स्वर्गणानां च वर्धयामास तेजसा ।
सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ १६॥
अक्षौहिणीनां शतकं समरे च जघान सः ।
असुरान्पातयामास काली कमललोचना ॥ १७॥
पपौ रक्तं दानवानामतिकुद्धा ततः परम् ।
दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ १८॥
समादायैकहस्तेन मुखे चिक्षेप लीलया ।
कबन्धानां सहस्रं च ननर्त समरे मुने ॥ १९॥
स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः ।
भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ २०॥
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः ।
स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ २१॥
महामारी च युयुधे न बभूव पराङ्मुखी ।
बभूवुस्ते च सङ्क्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ २२॥
न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह ।
स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ २३॥
दानवानां क्षयकरं यथा प्राकृतिको लयः ।
राजा विमानमारुह्य चकार बाणवर्षणम् ॥ २४॥
नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा ।
महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ २५॥
देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः ।
एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ २६॥
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।
नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम् ॥ २७॥
नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः ।
नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ २८॥
धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः ।
बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ २९॥
मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।
शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ ३०॥
क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः ।
गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ३१॥
रत्नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः ।
शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम् ॥ ३२॥
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३३॥
वह्निं निर्वापयामास पार्जन्येन प्रतापवान् ।
रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ ३४॥
सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ।
चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि ॥ ३५॥
मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह ।
आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥ ३६॥
चकार शरजालं च मायया मायिनां वरः ।
गुहं चच्छाद समरे शरजालेन नारद ॥ ३७॥
जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् ।
प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम् ॥ ३८॥
चिक्षेप तां च कोपेन महावेगेन कार्तिके ।
पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ॥ ३९॥
मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः ।
काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ ॥ ४०॥
शिवस्तं चापि ज्ञानेन जीवयामास लीलया ।
ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् ॥ ४१॥
काली जगाम समरं रक्षितुं कार्तिकस्य या ।
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२॥
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ।
वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः ॥ ४३॥
सा च गत्वाथ सङ्ग्रामं सिंहनादं चकार च ।
देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४॥
अट्टाट्टहासमशिवं चकार च पुनः पुनः ।
दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ ४५॥
उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु ।
योगिनीडाकिनीनां च गणाः सुरगणादयः ॥ ४६॥
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ ।
दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७॥
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् ।
राजा निर्वापयामास पार्जन्येन च लीलया ॥ ४८॥
चिक्षेप वारुणं सा च तीव्रं च महदद्भुतम् ।
गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९॥
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ।
राजा जघान तं शीघ्रं वैष्णवेन च लीलया ॥ ५०॥
नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् ।
राजा ननाम तद् दृष्ट्वा चावरुह्य रथादसौ ॥ ५१॥
ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् ।
पपात शङ्खचूडश्च भक्त्या तं दण्डवद्भुवि ॥ ५२॥
ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् ।
ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः ॥ ५३॥
तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ।
राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च ॥ ५४॥
तदा चिक्षेप शक्तिं च यत्नतो योजनायताम् ।
राजा दिव्यास्त्रजालेन शतखण्डां चकार ह ॥ ५५॥
जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा ।
निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी ॥ ५६॥
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ।
यावदस्ति च मन्त्रस्य कवचं च हरेरिति ॥ ५७॥
यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः ।
तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥ ५८॥
इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् ।
शतलक्षं दानवानां जग्रास लीलया क्षुधा ॥ ५९॥
ग्रस्तुं जगाम वेगेन शङ्खचूडं भयङ्करी ।
दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥ ६०॥
खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा ।
दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः ॥ ६१॥
पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् ।
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥ ६२॥
वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी ।
बभञ्ज च रथं तस्य जघान सारथिं सती ॥ ६३॥
सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् ।
वामहस्तेन जग्राह शङ्खचूडः स्वलीलया ॥ ६४॥
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।
बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च ॥ ६५॥
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ।
न चकार बाहुयुद्धं देव्या सह ननाम ताम् ॥ ६६॥
देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा ।
नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः ॥ ६७॥
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।
ऊर्ध्वं च प्रापयामास महावेगेन कोपिता ॥ ६८॥
ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् ।
निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥ ६९॥
रत्नेन्द्रसारनिर्माणं विमानं सुमनोहरम् ।
आरुरोह हर्षयुक्तो न विश्रान्तो महारणे ॥ ७०॥
दानवानां च क्षतजं सा देवी च पपौ क्षुधा ।
पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम् ॥ ७१॥
उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् ।
श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥ ७२॥
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।
भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥ ७३॥
सङ्ग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै ।
अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ७४॥
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ।
न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसवादे
कालीशङ्खचूडयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ ९.२२॥
९.२३ त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।
शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ।
ययौ स्वयं च समरे स्वगणैः सह नारद ॥ १॥
शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च ।
ननाम परया भक्त्या शिरसा दण्डवद्भुवि ॥ २॥
तं प्रणम्य च वेगेन विमानमारुरोह सः ।
तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥ ३॥
शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा ।
न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ ॥ ४॥
न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः ।
रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ ५॥
दानवानां च शतकमुद्धृतं च बभूव ह ।
रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः ॥ ६॥
एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः ।
आगत्य च रणस्थानमुवाच दानवेश्वरम् ॥ ७॥
वृद्धब्राह्मण उवाच ।
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ।
त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ॥ ८॥
निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् ।
पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥ ९॥
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।
कवचार्थी जनश्चाहमित्युवाचातिमायया ॥ १०॥
तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च ।
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ ११॥
गत्वा तस्यां मायया च वीर्याधानं चकार ह ।
अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ॥ १२॥
ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् ।
दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ १३॥
तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् ।
शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम् ॥ १४॥
धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् ।
सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम् ॥ १५॥
संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया ।
चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद ॥ १६॥
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ।
ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ १७॥
शूलं च भ्रमणं कृत्वा पपात दानवोपरि ।
चकार भस्मसात्तं च सरथं चाथ लीलया ॥ १८॥
राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् ।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ १९॥
रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः ।
गोलोकादागतं यानमारुरोह पुरं ययौ ॥ २०॥
गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने ।
भक्त्या च चरणाम्भोजं रासे वृन्दावने वने ॥ २१॥
सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ ।
क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ ॥ २२॥
अथ शलं च वेगेन प्रययौ तं च सादरम् ।
अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ॥ २३॥
नानाप्रकाररूपेण शश्वत्पूता सुरार्चने ।
प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ॥ २४॥
तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना ।
शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा ॥ २५॥
स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ।
शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः ॥ २६॥
तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् ।
स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ॥ २७॥
भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः ।
शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह ॥ २८॥
प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः ।
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥ २९॥
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ।
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ।
प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ ३०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
शङ्खचूडवधवर्णनं नाम त्रयोविशोऽध्यायः ॥ ९.२३॥
९.२४ चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।
नारद उवाच ।
नारायणश्च भगवान्वीर्याधानं चकार ह ।
तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १॥
श्रीनारायण उवाच ।
नारायणश्च भगवान्देवानां साधनेषु च ।
शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया ॥ २॥
पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् ।
पातिव्रतस्य नाशेन शङ्खचूडजिघांसया ॥ ३॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥ ४॥
तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता ।
राजमार्गे गवाक्षेण ददर्श परमादरात् ॥ ५॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।
वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ ॥ ६॥
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।
अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम् ॥ ७॥
दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता ।
तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८॥
रत्नसिंहासने रम्ये वासयामास कामुकी ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९॥
अद्य मे सफलं जन्म जीवनं च बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १०॥
सस्मिता सकटाक्षं च सकामा पुलकाङ्किता ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११॥
तुलस्युवाच ।
असङ्ख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२॥
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।
शङ्खचूडस्य रूपेण तामुवाचामृतं वचः ॥ १३॥
श्रीभगवानुवाच ।
आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४॥
प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया ॥ १५॥
मयागतं स्वभवनं शिवलोकं शिवो गतः ।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६॥
रेमे रमापतिस्तत्र रामया सह नारद ।
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥ १७॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।
तुलस्युवाच ।
को वा त्वं वद मायेश भुक्ताहं मायया त्वया ॥ १८॥
दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे ।
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ १९॥
दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् ।
ददर्श पुरतो देवी देवदेवं सनातनम् ॥ २०॥
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥ २१॥
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् ।
तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया ॥ २२॥
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ।
तुलस्युवाच ।
हे नाथ ते दया नास्ति पाषाणसदृशस्य च ॥ २३॥
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ।
पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥ २४॥
तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना ।
ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः ॥ २५॥
भक्तो विनापराधेन परार्थे च कथं हतः ।
भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २६॥
ततश्च करुणां दृष्ट्वा करुणारससागरः ।
नयेन तां बोधयितुमुवाच कमलापतिः ॥ २७॥
श्रीभगवानुवाच ।
तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् ।
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २८॥
कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् ।
अधुना दातुमुचितं तवैव तपसः फलम् ॥ २९॥
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।
रामे रम मया सार्धं त्वं रमासदृशी भव ॥ ३०॥
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते ॥ ३१॥
तव केशसमूहश्च पुण्यवृक्षो भविष्यति ।
तुलसीकेशसम्भूता तुलसीति च विश्रुता ॥ ३२॥
त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने ।
प्रधानरूपा तुलसी भविष्यति वरानने ॥ ३३॥
स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ ।
भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी ॥ ३४॥
गोलोके विरजातीरे रासे वृन्दावने वने ।
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३५॥
माधवीकेतकीकुन्दमालिकामालतीवने ।
वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः ॥ ३६॥
तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् ।
अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति ॥ ३७॥
तत्रैव सर्वदेवानां ममाधिष्ठानमेव च ।
तुलसीपत्रपतनप्राप्तये च वरानने ॥ ३८॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ ३९॥
सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः ।
सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः ॥ ४०॥
गवामयुतदानेन यत्फलं तत्फलं भवेत् ।
तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ ४१॥
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ।
मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते ॥ ४२॥
नित्यं यस्तुलसीतोयं भुङ्क्ते भक्त्या च मानवः ।
लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः ॥ ४३॥
तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः ।
प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ ४४॥
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४५॥
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४६॥
करोति मिथ्याशपथं तुलस्या योऽत्र मानवः ।
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४७॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम् ॥ ४८॥
पूर्णिमायाममायां च द्वादश्यां रविसङ्क्रमे ।
तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः ॥ ४९॥
अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः ।
तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥ ५०॥
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने ॥ ५१॥
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।
शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि ॥ ५२॥
वृक्षाधिष्ठातृदेवी या गोलोके च निरामये ।
कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि ॥ ५३॥
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।
लवणोदस्य सा पत्नी मदंशस्य भविष्यति ॥ ५४॥
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ।
रमासमा च रामा च भविष्यसि न संशयः ॥ ५५॥
अहं च शैलरूपेण गण्डकीतीरसन्निधौ ।
अधिष्ठानं करिष्यामि भारते तव शापतः ॥ ५६॥
कोटिसङ्ख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः ।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ ५७॥
एकद्वारं चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥ ५८॥
एकद्वारं चतुश्चक्रं नवीननीरदोपमम् ।
लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया ॥ ५९॥
द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् ।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ६०॥
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।
तद्वामनाभिधं ज्ञेयं रहितं वनमालया ॥ ६१॥
अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् ।
विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा ॥ ६२॥
स्थूलं च वर्तुलाकारं रहितं वनमालया ।
द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६३॥
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६४॥
मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् ।
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ॥ ६५॥
द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् ।
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६६॥
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।
सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ ६७॥
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ ६८॥
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।
नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ६९॥
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम् ॥ ७०॥
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।
वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम् ॥ ७१॥
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।
सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ ७२॥
द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् ।
सङ्कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा ॥ ७३॥
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ ७४॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ ७५॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ ७६॥
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।
दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ ७७॥
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ।
भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ ७८॥
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ।
शालग्रामस्य सान्निध्यात्प्रशस्तं तद्भवेदिति ॥ ७९॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च ॥ ८०॥
पाठे चतुर्णां वेदानां तपसां करणे सति ।
तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ ८१॥
(शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् ।
सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ॥)॥
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ।
सुरेप्सितं प्रसादं च लभते नात्र संशयः ॥ ८२॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८३॥
तत्रैव हरिणा सार्धमसङ्ख्यं प्राकृतं लयम् ।
यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि ॥ ८४॥
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः ॥ ८५॥
तत्पादरजसा देवी सद्यःपूता वसुन्धरा ।
पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः ॥ ८६॥
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८७॥
निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते ।
विष्णोः पदे प्रलीनश्च भविष्यति न संशयः ॥ ८८॥
शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः ।
स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः ॥ ८९॥
शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् ।
स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि ॥ ९०॥
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति ॥ ९१॥
तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च ।
भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९२॥
शालग्रामं च तुलसीं शङ्खं चैकत्र एव च ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः ॥ ९३॥
सकृदेव हि यो यस्यां वीर्याधानं करोति च ।
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९४॥
त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि ।
शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तथा ॥ ९५॥
इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद ।
सा च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ९६॥
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।
स जगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ ९७॥
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद ।
हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ ९८॥
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ।
ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ ९९॥
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।
जले पतन्ति या याश्च फलदास्ताश्च निश्चितम् ॥ १००॥
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्रवेरिति ।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे तुलसीमाहात्म्येन
सह शालग्राममहत्त्ववर्णनं नाम चतुर्विंशोऽध्यायः ॥ ९.२४॥
९.२५ पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।
नारद उवाच ।
तुलसी च यदा पूज्या कृता नारायणप्रिया ।
अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम् ॥ १॥
केन पूजा कृता केन स्तुता प्रथमतो मुने ।
तत्र पूज्या सा बभूव केन वा वद मामहो ॥ २॥
सूत उवाच ।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
कथां कथितुमारेभे पुण्यां पापहरां पराम् ॥ ३॥
श्रीनारायण उवाच ।
हरिः सम्पूज्य तुलसीं रेमे च रमया सह ।
रमासमानसौभाग्यां चकार गौरवेण च ॥ ४॥
सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् ।
सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती ॥ ५॥
सा तां जघान कलहे मानिनी हरिसन्निधौ ।
व्रीडया चापमानेन सान्तर्धानं चकार ह ॥ ६॥
सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी ।
जगामादर्शनं कोपात्सर्वत्र च हरेरहो ॥ ७॥
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् ।
तदनुज्ञां गहीत्वा च जगाम तुलसीवनम् ॥ ८॥
तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् ।
पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह ॥ ९॥
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् ।
वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च ॥ १०॥
अनेन कल्पतरुणा मन्त्रराजेन नारद ।
पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम् ॥ ११॥
घृतदीपेन धूपेन सिन्दूरचन्दनेन च ।
नैवेद्येन च पुष्पेण चोपचारेण नारद ॥ १२॥
हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् ।
प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा ॥ १३॥
वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति ।
अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि ॥ १४॥
सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः ।
इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः ॥ १५॥
नारद उवाच ।
किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् ।
तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि ॥ १६॥
श्रीनारायण उवाच ।
अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा ।
तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः ॥ १७॥
श्रीभगवानुवाच ।
वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् ॥ १८॥
पुरा बभूव या देवी त्वादौ वृन्दावने वने ।
तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम् ॥ १९॥
असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम् ॥ २०॥
असङ्ख्यानि च विश्वानि पवित्राणि त्वया सदा ।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ २२॥
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् ।
नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥ २३॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥ २४॥
कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती ।
तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम् ॥ २५॥
इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः ।
ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम् ॥ २६॥
रुदतीमवमानेन मानिनीं मानपूजिताम् ।
प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७॥
भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः ।
भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ २८॥
वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति ।
शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ॥ २९॥
विष्णोर्वरेण सा देवी परितुष्टा बभूव च ।
सरस्वती तामाकृष्य वासयामास सन्निधौ ॥ ३०॥
लक्ष्मीर्गङ्गा सस्मिता च तां समाकृष्य नारद ।
गृहं प्रवेशयामास विनयेन सतीं तदा ॥ ३१॥
वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी ।
पुष्पसारा नन्दनी च तुलसी कृष्णजीवनी ॥ ३२॥
एतन्नामाष्टकञ्चैव स्तोत्रं नामार्थसंयुतम् ।
यः पठेत्तां च सम्पूज्य सोऽश्वमेधफलं लभेत् ॥ ३३॥
कार्तिक्यां पूर्णिमायां च तुलस्या जन्म मङ्गलम् ।
तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥ ३४॥
तस्यां यः पूजयेत्तां च भक्त्या वै विश्वपावनीम् ।
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ३५॥
कार्तिके तुलसीपत्रं यो ददाति च विष्णुवे ।
गवामयुतदानस्य फलं प्राप्नोति निश्चितम् ॥ ३६॥
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।
बन्धुहीनो लभेद् बन्धून् स्तोत्रश्रवणमात्रतः ॥ ३७॥
रोगी प्रमुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥ ३८॥
इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं शृणु ।
त्वमेव वेदे जानासि कण्वशाखोक्तमेव च ॥ ३९॥
तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना ।
तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम् ॥ ४०॥
तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् ।
कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥ ४१॥
पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् ।
पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता ॥ ४२॥
शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी ।
जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम् ॥ ४३॥
इति ध्यात्वा च सम्पूज्य स्तुत्वा च प्रणमेत्सुधीः ।
उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि ॥ ४४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
तुलसीपूजाविधिवर्णनं नाम पञ्चविशोऽध्यायः ॥ ९.२५॥
९.२६ षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।
नारद उवाच ।
तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् ।
ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १॥
पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः ।
केन वा पूजिता लोके प्रथमे कैश्च वा परे ॥ २॥
श्रीनारायण उवाच ।
ब्रह्मणा वेदजननी प्रथमे पूजिता मुने ।
द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः ॥ ३॥
तदा चाश्वपतिर्भूपः पूजयामास भारते ।
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ ४॥
नारद उवाच ।
को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता ।
सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे ॥ ५॥
श्रीनारायण उवाच ।
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।
वैरिणां बलहर्ता च मित्राणां दुःखनाशनः ॥ ६॥
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।
मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः ॥ ७॥
सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः ।
चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ॥ ८॥
प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् ।
गृहं जगाम दुःखार्ता हृदयेन विदूयता ॥ ९॥
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।
सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥ १०॥
तपश्चकार तत्रैव संयतः शतवत्सरम् ।
न ददर्श च सावित्र्या प्रत्यादेशो बभूव च ॥ ११॥
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।
गायत्र्या दशलक्षं च जपं त्वं कुरु नारद ॥ १२॥
एतस्मिन्नन्तरे तत्र आजगाम पराशरः ।
प्रणनाम ततस्तं च मुनिर्नृपमुवाच च ॥ १३॥
मुनिरुवाच ।
सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् ।
दशवारं जपेनैव नश्येत्पापं दिवानिशम् ॥ १४॥
शतवारं जपश्चैव पापं मासार्जितं हरेत् ।
सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम् ॥ १५॥
लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् ।
सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति ॥ १६॥
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।
करं सर्पफणाकारं कृत्वा तद्रन्धमुद्रितम् ॥ १७॥
आनम्रमूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।
अनामिकामध्यदेशादधोऽवामक्रमेण च ॥ १८॥
तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे ।
श्वेतपङ्कजबीजानां स्फटिकानां च संस्कृताम् ॥ १९॥
कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये ।
संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः ॥ २०॥
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ २१॥
अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् ।
अथ गङ्गोदकेनैव स्नात्वा वातिसुसंस्कृताम् ॥ २२॥
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।
साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् ॥ २३॥
नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने ।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ २४॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २५॥
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २६॥
यावज्जीवनपर्यन्तं त्रिःसन्ध्यां यः करोति च ।
स च सूर्यसमो विप्रस्तेजसा तपसा सदा ॥ २७॥
तत्पादपद्मरजसा सद्यःपूता वसुन्धरा ।
जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः ॥ २८॥
तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः ।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ २९॥
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।
स्वेच्छया च द्विजातेश्च त्रिसन्ध्यारहितस्य च ॥ ३०॥
मूलप्रकृत्यभक्तो यस्तन्मन्त्रस्याप्यनर्चकः ।
तदुत्सवविहीनश्च विषहीनो यथोरगः ॥ ३१॥
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यारहितो द्विजः ।
एकादशीविहीनश्च विषहीनो यथोरगः ॥ ३२॥
हरेरनैवेद्यभोजी धावको वृषवाहकः ।
शूद्रान्नभोजी यो विप्रो विषहीनो यथोरगः ॥ ३३॥
शूद्राणां शवदाही यः स विप्रो वृषलीपतिः ।
शूद्राणां सूपकारश्च विषहीनो यथोरगः ॥ ३४॥
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।
मसिजीवी असिजीवी विषहीनो यथोरगः ॥ ३५॥
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ॥ ३६॥
भगजीवी बार्धुषिको विषहीनो यथोरगः ।
यो विद्याविकयी विप्रो विषहीनो यथोरगः ॥ ३७॥
सूर्योदये स्वपेद्यो हि मत्स्यभोजी च यो द्विजः ।
शिवापूजादिरहितो विषहीनो यथोरगः ॥ ३८॥
इत्युक्त्वा च मुनिश्रेष्ठः सर्वपूजाविधिक्रमम् ।
तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ॥ ३९॥
दत्त्वा सर्वं नृपेन्द्राय ययौ च स्वाश्रमे मुने ।
राजा सम्पूज्य सावित्रीं ददर्श वरमाप च ॥ ४०॥
नारद उवाच ।
किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम् ।
स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ॥ ४१॥
नृपः केन विधानेन सम्पूज्य श्रुतिमातरम् ।
वरं च कं वा सम्प्राप सम्पूज्य तु विधानतः ॥ ४२॥
तत्सर्वं श्रोतुमिच्छामि सावित्र्याः परमं महत् ।
रहस्यातिरहस्यं च श्रुतिसिद्धं समासतः ॥ ४३॥
श्रीनारायण उवाच ।
ज्येष्ठकृष्णत्रयोदश्यां शुद्धकाले च यत्नतः ।
व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत् ॥ ४४॥
व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम् ।
दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं चरेत् ॥ ४५॥
वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम् ।
संस्थाप्य मङ्गलघटं फलशाखासमन्वितम् ॥ ४६॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
सम्पूज्य पूजयेदिष्टं घटे आवाहिते द्विजः ॥ ४७॥
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत् ।
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥ ४८॥
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।
ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभाम् ॥ ४९॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम् ॥ ५०॥
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः ।
सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ॥ ५१॥
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।
वेदबीजस्वरूपां च भजे तां वेदमातरम् ॥ ५२॥
ध्यात्वा ध्यानेन नैवेद्यं दत्त्वा पाणिं स्वमूर्धनि ।
पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद् व्रती ॥ ५३॥
दत्त्वा षोडशोपचारं वेदोक्तं मन्त्रपूर्वकम् ।
सम्पूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः ॥ ५४॥
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ ५५॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।
मनोहरं सुतल्पं च देयान्येतानि षोडश ॥ ५६॥
दारुसारविकारं च हेमादिनिर्मितं च वा ।
देवाधारं पुण्यदं च मया तुभ्यं निवेदितम् ॥ ५७॥
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।
पूजाङ्गभूतं शुद्धं च मया तुभ्यं निवेदितम् ॥ ५८॥
पवित्ररूपमर्घ्यं च दूर्वापुष्पदलान्वितम् ।
पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम् ॥ ५९॥
सुगन्धं गन्धतोयं च स्नेहं सौगन्धकारकम् ।
मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ॥ ६०॥
गन्धद्रव्योद्भवं पुण्यं प्रीतिदं दिव्यगन्धदम् ।
मया निवेदितं भक्त्या गन्धतोयं तवाम्बिके ॥ ६१॥
सर्वमङ्गलरूपं च सर्वं च मङ्गलप्रदम् ।
पुण्यदं च सुधूपं तं गृहाण परमेश्वरि ॥ ६२॥
सुगन्धयुक्तं सुखदं मया तुभ्यं निवेदितम् ।
जगतां दर्शनार्थाय प्रदीपं दीप्तिकारकम् ॥ ६३॥
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ।
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ॥ ६४॥
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ।
ताम्बूलप्रवरं रम्यं कर्पूरादिसुवासितम् ॥ ६५॥
तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् ।
सुशीतलं वारि शीतं पिपासानाशकारणम् ॥ ६६॥
जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् ।
देहशोभास्वरूपं च सभाशोभाविवर्धनम् ॥ ६७॥
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ।
काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा ॥ ६८॥
सुखदं पुण्यदं रत्नभूषणं प्रतिगृह्यताम् ।
नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ॥ ६९॥
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ।
सर्वमङ्गलरूपं च सर्वमङ्गलमङ्गलम् ॥ ७०॥
नानापुष्पविनिर्माणं बहुशोभासमन्वितम् ।
प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम् ॥ ७१॥
पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् ।
सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम् ॥ ७२॥
भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् ।
विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम् ॥ ७३॥
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ।
द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ॥ ७४॥
ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् ।
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ७५॥
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ।
माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम् ॥ ७६॥
विप्रजीवनरूपं च निबोध कथयामि ते ।
कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा ॥ ७७॥
नायाति सा तेन सार्धं ब्रह्मलोके च नारद ।
ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम् ॥ ७८॥
तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् ।
ब्रह्मोवाव
सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि ॥ ७९॥
हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि ।
तेजःस्वरूपे परमे परमानन्दरूपिणि ॥ ८०॥
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि ।
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि ॥ ८१॥
सर्वमङ्गलरूपे च प्रसन्ना भव सुन्दरि ।
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ॥ ८२॥
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि ।
विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ॥ ८३॥
बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ।
कायेन मनसा वाचा यत्पापं कुरुते नरः ॥ ८४॥
तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति ।
इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि ॥ ८५॥
सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा ।
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ॥ ८६॥
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ।
स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् ।
पाठे चतुर्णां वेदानां यत्फलं लभते च तत् ॥ ८७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
सावित्रीपूजाविधिकथनं नाम षड्विंशोऽध्यायः ॥ ९.२६॥
९.२७ सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।
श्रीनारायण उवाव
स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् ।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ १॥
उवाच सा च राजानं प्रसन्ना सस्मिता सती ।
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ॥ २॥
सावित्र्युवाच ।
जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् ।
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ॥ ३॥
साध्वी कन्याभिलाषं च करोति तव कामिनी ।
त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च ॥ ४॥
इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह ।
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ॥ ५॥
आराधनाच्च सावित्र्या बभूव कमला परा ।
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ॥ ६॥
कालेन सा वर्धमाना बभूव च दिने दिने ।
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ॥ ७॥
सा वरं वरयामास द्युमत्सेनात्मजं तदा ।
सत्यवन्तं सत्यशीलं नानागुणसमन्वितम् ॥ ८॥
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ।
सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ ॥ ९॥
स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः ।
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ॥ १०॥
जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः ।
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ॥ ११॥
यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने ।
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥ १२॥
पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः ।
उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ॥ १३॥
धर्मराज उवाच ।
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ।
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ॥ १४॥
गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् ।
देहं च मम लोकं च नश्वरं नश्वरः सदा ॥ १५॥
भर्तुस्ते पूर्णकालो वै बभूव भारते सति ।
स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ॥ १६॥
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते ॥ १७॥
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ।
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ॥ १८॥
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ।
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ॥ १९॥
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ।
कर्मणा च शिवत्वं च गणेशत्वं तथैव च ॥ २०॥
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा ।
स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा ॥ २१॥
कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः ।
स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा ॥ २२॥
कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा ।
कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा ॥ २३॥
कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा ।
कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा ॥ २४॥
दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा ।
इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः ॥ २५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे सावित्र्युपाख्याने
यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ ९.२७॥
९.२८ अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।
श्रीनारायण उवाच ।
यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ।
तुष्टाव परया भक्त्या तमुवाच मनस्विनी ॥ १॥
सावित्र्युवाच ।
किं कर्म तद्भवेत्केन को वा तद्धेतुरेव च ।
को वा देही च देहः कः को वात्र कर्मकारकः ॥ २॥
किं वा ज्ञानं च बुद्धिः का को वा प्राणः शरीरिणाम् ।
कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः ॥ ३॥
भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः ।
को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ॥ ४॥
धर्म उवाच ।
वेदप्रणिहितो धर्मः कर्म यन्मङ्गलं परम् ।
अवैदिकं तु यत्कर्म तदेवाशुभमेव च ॥ ५॥
अहैतुकी देवसेवा सङ्कल्परहिता सती ।
कर्मनिर्मूलरूपा च सा एव परभक्तिदा ॥ ६॥
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च ।
ब्रह्मभक्तो यो नरश्च स च मुक्तः श्रुतः श्रुतौ ॥ ७॥
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ।
भक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ॥ ८॥
निर्वाणपददात्री च हरिरूपप्रदा नृणाम् ।
हरिरूपस्वरूपां च भक्तिं वाञ्छन्ति वैष्णवाः ॥ ९॥
अन्ये निर्वाणमिच्छन्ति योगिनो ब्रह्मवित्तमाः ।
कर्मणो बीजरूपश्च सततं तत्फलप्रदः ॥ १०॥
कर्मरूपश्च भगवान्परात्मा प्रकृतिः परा ।
सोऽपि तद्धेतुरूपश्च देहो नश्वर एव च ॥ ११॥
पृथिवी वायुराकाशो जलं तेजस्तथैव च ।
एतानि सूत्ररूपाणि सृष्टिरूपविधौ सतः ॥ १२॥
कर्मकर्ता च देही च आत्मा भोजयिता सदा ।
भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च ॥ १३॥
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् ।
विषयाणां विभागानां भेदि बीजं च कीर्तितम् ॥ १४॥
बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् ।
वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम् ॥ १५॥
इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् ।
प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ॥ १६॥
अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् ।
लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम् ॥ १७॥
अङ्गिनामङ्गरूपं च प्रेरकं सर्वकर्मणाम् ।
रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम् ॥ १८॥
सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः ।
प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः ॥ १९॥
परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः ।
कारणं कारणानां च परमात्मा स उच्यते ॥ २०॥
इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् ।
ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥ २१॥
सावित्र्युवाच ।
त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् ।
यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति ॥ २२॥
कां कां योनिं याति जीवः कर्मणा केन वा पुनः ।
केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥ २३॥
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद् गुरौ ।
केन वा कर्मणा योगी रोगी वा केन कर्मणा ॥ २४॥
केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा ।
केन वा कर्मणा दुःखी सुखी वा केन कर्मणा ॥ २५॥
अङ्गहीनश्च काणश्च बधिरः केन कर्मणा ।
अन्धो वा पङ्गुरपि वा प्रमत्तः केन कर्मणा ॥ २६॥
क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् ।
केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥ २७॥
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ।
स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा ॥ २८॥
गोलोकं केन वा ब्रह्मन् सर्वोत्कृष्टं निरामयम् ।
नरको वा कतिविधः किंसङ्ख्यो नाम किं च वा ॥ २९॥
को वा कं नरकं याति कियन्तं तेषु तिष्ठति ।
पापिनां कर्मणा केन को वा व्याधिः प्रजायते ।
यद्यत्प्रियं मया पृष्टं तन्मे व्याख्यातुमर्हसि ॥ ३०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसवादे सावित्र्युपाख्याने
यमसावित्रीसंवादवर्णनं नामाष्टाविंशोऽध्यायः ॥ ९.२८॥
९.२९ एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।
श्रीनारायण उवाच ।
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥ १॥
धर्म उवाच ।
कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना ।
ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम् ॥ २॥
सावित्रीवरदानेन त्वं सावित्री कला सती ।
प्राप्ता पुरा भूभृता च तपसा तत्समा सुते ॥ ३॥
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ।
यथादितिः कश्यपे च यथाहल्या च गौतमे ॥ ४॥
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ।
यथा रतिः कामदेवे यथा स्वाहा हुताशने ॥ ५॥
यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे ।
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ॥ ६॥
यथा वराहे पृथिवी देवसेना च कार्तिके ।
सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये ॥ ७॥
अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् ।
शृणु देवि महाभागे ददामि सकलेप्सितम् ॥ ८॥
सावित्र्युवाच ।
सत्यवत औरसानां पुत्राणां शतकं मम ।
भविष्यति महाभाग वरमेतन्मदीप्सितम् ॥ ९॥
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ।
राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम् ॥ १०॥
अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् ।
समतीते लक्षवर्षे देहीदं मे जगत्प्रभो ॥ ११॥
जीवकर्मविपाकं च श्रोतुं कौतूहलं मम ।
विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि ॥ १२॥
धर्मराज उवाच ।
भविष्यति महासाध्वि सर्वं मानसिकं तव ।
जीवकर्मविपाकं च कथयामि निशामय ॥ १३॥
शुभानामशुभानां च कर्मणां जन्म भारते ।
पुण्यक्षेत्रे च नान्यत्र सर्वं च भुञ्जते जनाः ॥ १४॥
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।
नराश्च कर्मजनका न सर्वे जीविनः सति ॥ १५॥
विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु ।
शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च ॥ १६॥
विशेषतो जीविनश्च भ्रमन्ते सर्वयोनिषु ।
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ॥ १७॥
शुभेन कर्मणा याति स्वर्लोकादिकमेव च ।
कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ॥ १८॥
कर्मनिर्मूलने भक्तिः सा चोक्ता द्विविधा सति ।
निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह ॥ १९॥
रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा ।
दीर्घजीवी च क्षीणायुः सुखी दुःखी च कर्मणा ॥ २०॥
अन्धादयश्चाङ्गहीनाः कर्मणा कुत्सितेन च ।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ॥ २१॥
सामान्यं कथितं देवि विशेषं शृणु सुन्दरि ।
सुदुर्लभं सुगोप्यं च पुराणेषु स्मृतिष्वपि ॥ २२॥
दुर्लभा मानुषी जातिः सर्वजातिषु भारते ।
सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु ॥ २३॥
ब्रह्मनिष्ठो द्विजश्चैव गरीयान् भारते सति ।
निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति ॥ २४॥
सकामाज्ज प्रधानश्च निष्कामो भक्त एव च ।
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ॥ २५॥
स याति देहं त्यक्त्वा च पदं यत्तन्निरामयम् ।
पुनरागमनं नास्ति तेषां निष्कामिनां सति ॥ २६॥
सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् ।
गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः ॥ २७॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ २८॥
काले गते च निष्कामा भवन्त्येव क्रमेण च ।
भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः ॥ २९॥
ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु ।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ॥ ३०॥
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति ।
ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारते ॥ ३१॥
स्वधर्मनिरता ये च तीर्थान्यत्रनिवासिनः ।
व्रजन्ति ते सत्यलोकं पुनरायान्ति भारते ॥ ३२॥
स्वधर्मनिरता विप्राः सूर्यभक्ताश्च भारते ।
व्रजन्ति ते सूर्यलोकं पुनरायान्ति भारते ॥ ३३॥
मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः ।
मणिद्वीपं प्रयान्त्येव पुनरावृत्तिवर्जितम् ॥ ३४॥
स्वधर्मे निरता भक्ताः शैवाः शाक्ताश्च गाणपाः ।
ते यान्ति शिवलोकं च पुनरायान्ति भारते ॥ ३५॥
ये विप्रा अन्यदेवेज्याः स्वधर्मनिरताः सति ।
ते यान्ति सर्वलोकं च पुनरायान्ति भारते ॥ ३६॥
हरिभक्ताश्च निष्कामाः स्वधर्मनिरता द्विजाः ।
ते च यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥ ३७॥
स्वधर्मरहिता विप्रा देवान्यसेवनाः सदा ।
भ्रष्टाचाराश्च कामाश्च ते यान्ति नरकं ध्रुवम् ॥ ३८॥
स्वधर्मनिरता एव वर्णाश्चत्वार एव च ।
भवन्त्येव शुभस्यैव कर्मणः फलभोगिनः ॥ ३९॥
स्वकर्मरहिता ये च नरकं यान्ति ते ध्रुवम् ।
भारते न भवन्त्येव कर्मणः फलभोगिनः ॥ ४०॥
स्वधर्मनिरता एव वर्णाश्चत्वार एव च ।
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च ॥ ४१॥
कन्यां ददति विप्राय चन्द्रलोकं प्रयान्ति ते ।
वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश ॥ ४२॥
सालङ्कृताया दानेन द्विगुणं फलमुच्यते ।
सकामा यान्ति तल्लोकं न निष्कामाश्च साधवः ॥ ४३॥
ते प्रयान्ति विष्णुलोकं फलसङ्घातवर्जिताः ।
गव्यं च रजतं स्वर्णं वस्त्रं सर्पिः फलं जलम् ॥ ४४॥
ये ददत्येव विप्रेभ्यश्चन्द्रलोकं प्रयान्ति ते ।
वसन्ति ते च तल्लोके यावन्मन्वन्तरं सति ॥ ४५॥
सुचिरात्सुचिरं वासं कुर्वन्ति तेन ते जनाः ।
ये ददति सुवर्णांश्च गाश्च ताम्रादिकं सति ॥ ४६॥
ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च ।
वसन्ति ते तत्र लोके वर्षाणामयुतं सति ॥ ४७॥
विपुले सुचिरं वासं कुर्वन्ति च निरामयाः ।
ददाति भूमिं विप्रेभ्यो धनानि विपुलानि च ॥ ४८॥
स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् ।
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ॥ ४९॥
विपुले विपुलं वासं करोति पुण्यवान्मुने ।
गृहं ददति विप्राय ये जना भक्तिपूर्वकम् ॥ ५०॥
ते यान्ति विष्णुलोकं च सुचिरं सुखदायकम् ।
गृहरेणुप्रमाणं च विष्णुलोके महत्तमे ॥ ५१॥
विपुले विपुलं वासं कुर्वन्ति मानवाः सति ।
यस्मै यस्मै च देवाय यो ददाति गृहं नरः ॥ ५२॥
स याति तस्य लोकं च रेणुमानाब्दमेव च ।
सौधे चतुर्गुणं पुण्यं देशे शतगुणं फलम् ॥ ५३॥
प्रकृष्टे द्विगुणं तस्मादित्याह कमलोद्भवः ।
यो ददाति तडागं च सर्वपापापनुत्तये ॥ ५४॥
स याति जनलोकं च रेणुमानाब्दमेव च ।
वाप्यां फलं दशगुणं प्राप्नोति मानवः सदा ॥ ५५॥
स तु वापीप्रदानेन तडागस्य फलं लभेत् ।
धनुश्चतुःसहस्रेण दर्श्यमानेन निश्चितम् ॥ ५६॥
न्यूना वा तावती प्रस्थे सा वापी परिकीर्तिता ।
दशवापीसमा कन्या यदि पात्रे प्रदीयते ॥ ५७॥
फलं ददाति द्विगुणं यदि सालङ्कृता भवेत् ।
यत्फलं च तडागे च तदुद्धारे च तत्कलम् ॥ ५८॥
वाप्याश्च पङ्कोद्धरणे वापीतुल्यफलं लभेत् ।
अश्वत्थवृक्षमारोप्य प्रतिष्ठां यः करोति च ॥ ५९॥
स प्रयाति तपोलोकं वर्षाणामयुतं सति ।
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ॥ ६०॥
स वसेद् ध्रुवलोके च वर्षाणामयुतं धुवम् ।
यो ददाति विमानं च विष्णवे भारते सति ॥ ६१॥
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् ।
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम् ॥ ६२॥
तस्यार्धं शिबिकादाने फलमेव लभेद् ध्रुवम् ।
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ॥ ६३॥
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।
राजमार्गं सौधयुक्तं यः करोति पतिव्रते ॥ ६४॥
वर्षाणामयुतं सोऽपि शक्रलोके महीयते ।
ब्राह्मणेभ्योऽथ देवेभ्यो दाने समफलं लभेत् ॥ ६५॥
यद्धि दत्तं च तद्भुङ्क्ते न दत्तं नोपतिष्ठते ।
भुक्त्वा स्वर्गादिजं सौख्यं पुण्यवाञ्जन्म भारते ॥ ६६॥
लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु ।
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं फलम् ॥ ६७॥
पुनः सोऽपि भवेद्विप्रश्चैवं च क्षत्रियादयः ।
क्षत्रियो वाथ वैश्यो वा कल्पकोटिशतेन च ॥ ६८॥
तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ६९॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
देवतीर्थसहायेन कायव्यूहेन शुध्यति ।
एतत्ते कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ ७०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने
कर्मविपाकवर्णनं नामैकोनत्रिशोऽध्यायः ॥ ९.२९॥
९.३० त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।
सावित्र्युवाच ।
प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १॥
धर्मराज उवाच ।
अन्नदानं च विप्राय यः करोति च भारते ।
अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ २॥
अन्नदानं महादानमन्येभ्योऽपि करोति यः ।
अन्नदानप्रमाणं च शिवलोके महीयते ॥ ३॥
अन्नदानात्परं दानं न भूतं न भविष्यति ।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ४॥
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।
महीयते विष्णुलोके वर्षाणामयुतं सति ॥ ५॥
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ६॥
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ ७॥
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ८॥
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ९॥
यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् ।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १०॥
विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च ।
महीयते वायुलोके वर्षाणामयुतं सति ॥ ११॥
यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् ।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ १२॥
यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् ।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १३॥
यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च ।
यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ १४॥
करोति गजदानं च यदि विप्राय भारते ।
यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ १५॥
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६॥
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १७॥
प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च ।
महीयते वायुलोके यावन्मन्वन्तरं सति ॥ १८॥
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १९॥
धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः ।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २०॥
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।
स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१॥
यो नरो भारते वर्षे दोलनं कारयेत्सुधीः ।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२॥
इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३॥
फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् ।
कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ॥ २४॥
तिलदानं ब्राह्मणाय यः करोति च भारते ।
तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ २५॥
ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी ।
ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ २६॥
सालङ्कृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।
यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।
तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८॥
ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् ।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३०॥
प्रददाति फलं चारु ब्राह्मणाय च यो नरः ।
फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१॥
पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् ।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२॥
केवलं फलदानं वा ब्राह्मणाय ददाति च ।
सुचिरं स्वर्गवासं च कृत्वा याति च भारते ॥ ३३॥
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।
ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४॥
सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।
ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत् ॥ ३५॥
यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति ।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते ॥ ३६॥
महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।
पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत् ॥ ३७॥
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८॥
यो व्रजं च प्रकृष्टं च ग्रामं दद्याद् द्विजाय च ।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ ३९॥
पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् ।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ ४०॥
सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् ।
नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ॥ ४१॥
नगरं यश्च विप्राय ददाति भारते भुवि ।
महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥ ४२॥
पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् ।
नगराणां च नियुतं स लभेन्नात्र संशयः ॥ ४३॥
धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् ।
परमैश्वर्यनियुतो भवेदेव महीतले ॥ ४४॥
नगराणां च शतकं देशं यो हि द्विजातये ।
सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च ॥ ४५॥
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६॥
पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् ।
परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७॥
मही तं न जहात्येव जन्मनां कोटिमेव च ।
कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ॥ ४८॥
स्वाधिकारं समग्रं च यो ददाति द्विजातये ।
चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः ॥ ४९॥
जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने ।
फलं शतगुणं चान्ते भवेत्तस्य न संशयः ॥ ५०॥
जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः ।
सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः ॥ ५१॥
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।
अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥ ५२॥
असङ्ख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः ।
निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे ॥ ५३॥
देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् ।
विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम् ॥ ५४॥
लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते ।
पश्यन्ति ते मणिद्वीपे सखण्डं लोकसङ्क्षयम् ॥ ५५॥
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च ।
देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ ५६॥
कार्तिके तुलसीदानं करोति हरये च यः ।
युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥ ५७॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् ।
जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ॥ ५८॥
मध्ये यः स्नाति गङ्गायामरुणोदयकालतः ।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ५९॥
पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद् ध्रुवम् ।
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ ६०॥
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।
करोति हरिदास्यं च तथा सारूप्यमेव च ॥ ६१॥
नित्यस्नायी च गङ्गायां स पूतः सूर्यवद्भुवि ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६२॥
तस्यैव पादरजसा सद्यःपूता वसुन्धरा ।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६३॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् ।
जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥ ६४॥
स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः ।
मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥ ६५॥
भारते यो ददात्येव जलमेव सुवासितम् ।
स मोदते च कैलासे यावदिन्द्राश्चतुर्दश ॥ ६६॥
पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् ।
शिवभक्तश्च तेजस्वी वेदवेदाङ्गपारगः ॥ ६७॥
वैशाखे सक्तुदानं च यः करोति द्विजातये ।
सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे ॥ ६८॥
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ ६९॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद् ध्रुवम् ॥ ७०॥
इहैव भारते वर्षे शिवरात्रिं करोति यः ।
मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ ७१॥
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।
पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ ७२॥
पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् ।
विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ ७३॥
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ।
करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७४॥
मासं वाप्यर्धमासं वा दश सप्त दिनानि च ।
दिनमानयुगं सोऽपि शिवलोके महीयते ॥ ७५॥
श्रीरामनवमीं यो हि करोति भारते पुमान् ।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ७६॥
पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् ।
जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ ७७॥
शारदीयां महापूजां प्रकृतेर्यः करोति च ।
महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ ७८॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलम् ॥ ७९॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।
पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ ८०॥
अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् ।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८१॥
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।
ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ ८२॥
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८३॥
गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ ८४॥
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ८५॥
शिलायां प्रतिमायां च श्रीकृष्णं राधया सह ।
भारते पूजयेद्भक्त्या चोपचाराणि षोडश ॥ ८६॥
गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः ।
भारतं पुनरागत्य कृष्णे भक्तिं लभेद्दृढाम् ॥ ८७॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो ।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ८८॥
ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् ।
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ॥ ८९॥
शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः ।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९०॥
भारते पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् ।
क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो ॥ ९१॥
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।
ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥ ९२॥
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ।
भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥ ९३॥
षष्टिवर्षसहस्राणि शक्रलोके महीयते ।
रविवारे च सङ्क्रान्त्यां सप्तम्यां शुक्लपक्षके ॥ ९४॥
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।
महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश ॥ ९५॥
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।
ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥ ९६॥
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥ ९७॥
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥ ९८॥
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश ।
महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम् ॥ ९९॥
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥ १००॥
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥ १०१॥
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः ।
तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ॥ १०२॥
श्रीमांश्च पुत्रवान्विद्वांज्ञानवान्सर्वतः सुखी ।
भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥ १०३॥
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।
ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥ १०४॥
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।
यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥ १०५॥
युगं नाम प्रमाणं च विष्णुलोके महीयते ।
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥ १०६॥
यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।
नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥ १०७॥
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ।
न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते ॥ १०८॥
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।
विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात् ॥ १०९॥
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ११०॥
मृदो रेणुप्रमाणाब्दं शिवलोके महीयते ।
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ १११॥
शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति ।
महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११२॥
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् ।
महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११३॥
तपांसि चैव सर्वाणि व्रतानि निखिलानि च ।
कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ ११४॥
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११५॥
यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् ।
स तु निर्वाणतां याति न च जन्म भवेद्भुवि ॥ ११६॥
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।
अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ॥ ११७॥
चतुर्गुणं राजसूये फलमाप्नोति मानवः ।
सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ ११८॥
विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने ।
शङ्करेण महेशेन त्रिपुरासुरनाशने ॥ ११९॥
शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि ।
नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते ॥ १२०॥
दक्षेण च कृतः पूर्वं महान्संवादसंयुतः ।
बभूव कलहो यत्र दक्षशङ्करयोः सति ॥ १२१॥
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।
यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः ॥ १२२॥
चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः ।
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥ १२३॥
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥ १२४॥
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।
देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ १२५॥
वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ १२६॥
देवानां च यथा विष्णुर्वैष्णवानां च नारद ।
शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ १२७॥
तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा ।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १२८॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।
यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ १२९॥
शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा ।
प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ १३०॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३१॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।
देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ १३२॥
अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् ।
सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ १३३॥
स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् ।
सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १३४॥
पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।
फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम् ॥ १३५॥
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।
निरूपितं सारभूतं देवीपादाम्बुजार्चनम् ॥ १३६॥
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् ।
तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च ॥ १३७॥
तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च ।
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ १३८॥
भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् ।
गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे ॥ १३९॥
अयं ते कथितः कर्मविपाको मङ्गलो नृणाम् ।
सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥ १४०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे यमेन
कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ९.३०॥
९.३१ एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।
श्रीनारायण उवाच ।
शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः ।
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १॥
सावित्र्युवाच ।
शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् ।
श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥ २॥
दानवानां च सिद्धानां तपसां च परं पदम् ।
योगानां चैव वेदानां कीर्तनं सेवनं विभो ॥ ३॥
मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च ।
श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम् ॥ ४॥
भजामि केन विधिना वद वेदविदांवर ।
शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम् ॥ ५॥
कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ।
इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा ॥ ६॥
तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ।
सावित्र्युवाच ।
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ ७॥
धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ।
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ ८॥
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ।
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ९॥
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ।
बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ १०॥
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ।
विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ ११॥
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ।
तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ १२॥
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ।
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ १३॥
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ।
यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ १४॥
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ।
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ १५॥
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ।
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १६॥
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ।
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ १७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः ॥ ९.३१॥
९.३२ द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।
श्रीनारायण उवाच ।
मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् ।
कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १॥
धर्मराज उवाच ।
शुभकर्मविपाकान्न नरकं याति मानवः ।
कर्माशुभविपाकं च कथयामि निशामय ॥ २॥
नानापुराणभेदेन नामभेदेन भामिनि ।
नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः ॥ ३॥
शुभकर्मविपाकान्न नरकं याति कर्मभिः ।
कुकर्मणा च नरकं याति नानाविधं नरः ॥ ४॥
नरकाणां च कुण्डानि सन्ति नानाविधानि च ।
नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च ॥ ५॥
विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् ।
भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ ६॥
षडशीति च कुण्डानि एवमन्यानि सन्ति च ।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ ७॥
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ८॥
गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च ।
शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ९॥
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।
मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम् ॥ १०॥
लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् ।
ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ ११॥
चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् ।
तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम् ॥ १२॥
प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १३॥
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १४॥
शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १५॥
मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् ।
तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १६॥
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च ।
चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १७॥
ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते ।
तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम् ॥ १८॥
गोकामुख नक्रमुखं गजदंशं च गोमुखम् ।
कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम् ॥ १९॥
पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।
उल्कामुखमन्धकूपं वेधनं ताडनं तथा ॥ २०॥
जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् ।
शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम् ॥ २१॥
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।
नियुतैः किङ्करगणै रक्षितानि च सन्ततम् ॥ २२॥
दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः ।
शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः ॥ २३॥
तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः ।
तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः ॥ २४॥
योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः ।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २५॥
स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः ।
अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च ॥ २६॥
स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः ।
बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २७॥
एतत्ते कथितं साध्वि कुण्डसङ्ख्यानिरूपणम् ।
येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने
कुण्डसङ्ख्यानिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ९.३२॥
९.३३ त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।
धर्मराज उवाच ।
हरिसेवारतः शुद्धो योगसिद्धो व्रती सति ।
तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥ १॥
कटुवाचा बान्धवांश्च बललेपेन यो नरः ।
दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः ॥ २॥
स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने ।
पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ ३॥
ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् ।
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४॥
तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे ।
तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु ॥ ५॥
रविवारे च सङ्क्रान्त्याममायां श्राद्धवासरे ।
वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ ६॥
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।
स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते ॥ ७॥
मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः ।
वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च ॥ ८॥
ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः ।
गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः ॥ ९॥
ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके ।
नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥ १०॥
तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः ।
देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते ॥ ११॥
स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः ।
षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ १२॥
तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति ।
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ १३॥
परकीयतडागे च तडागं यः करोति च ।
उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ १४॥
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ।
पुनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥ १५॥
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च ।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ १६॥
ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् ।
श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः ॥ १७॥
पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् ।
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १८॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ १९॥
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ।
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ २०॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ २१॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ २२॥
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि ।
स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम् ॥ २३॥
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।
ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च ॥ २४॥
पुमांसं कामिनी वापि कामिनीं वा पुमानथ ।
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २५॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।
कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः ॥ २६॥
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ।
स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम् ॥ २७॥
ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते ।
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह ॥ २८॥
योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् ।
श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः ॥ २९॥
स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् ।
ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः ॥ ३०॥
करोति शठता तद्वन्नित्यं सुहृदि यो नरः ।
कुण्डं गात्रमलानां च स प्रयाति शताब्दकम् ॥ ३१॥
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ।
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद् ध्रुवम् ॥ ३२॥
बधिरं यो हसत्येव निन्दत्येवाभिमानतः ।
स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ॥ ३३॥
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।
सप्तजन्मन्यङ्गहीनस्ततः शुद्धिं लभेद् ध्रुवम् ॥ ३४॥
लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः ।
मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवत्सरम् ॥ ३५॥
ततो भवेच्च शशको मीनश्च सप्तजन्मसु ।
त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ॥ ३६॥
एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद् ध्रुवम् ।
स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः ॥ ३७॥
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ।
कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ॥ ३८॥
तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्कराः ।
मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा ॥ ३९॥
ततो हि भारते पापी कन्याविट्कृमिगो भवेत् ।
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥ ४०॥
त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ।
मण्डूको हि जलौकाश्च सप्तजन्मसु भारते ॥ ४१॥
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद् ध्रुवम् ।
व्रतानामुपवासानां श्राद्धादीनां च सङ्गमे ॥ ४२॥
करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु ।
स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि ॥ ४३॥
तद्दैवदिनमानाब्दं तद्भोजी दण्डताडितः ।
सकेशं पार्थिवं लिङ्गं यो वार्चयति भारते ॥ ४४॥
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ।
तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥ ४५॥
शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद् ध्रुवम् ।
पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥ ४६॥
स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे ।
ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु ॥ ४७॥
भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः ।
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥ ४८॥
प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति ।
अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ॥ ४९॥
लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके ।
स व्रजेद्रजकीं योनिं काकानां सप्तजन्मसु ॥ ५०॥
महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः ।
यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत् ॥ ५१॥
शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति ।
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥ ५२॥
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ।
ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु ॥ ५३॥
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध रुवम् ।
वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा ॥ ५४॥
तीक्ष्णकण्टककुण्डे स तद्भोजी तत्र तिष्ठति ।
ताडितो यमदूतेन दण्डेन च चतुर्गुणम् ॥ ५५॥
ततः उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचि ।
विषेण जीवनं हन्ति निर्दयो यो हि मानवः ॥ ५६॥
विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति ।
ततो भवेन्नृघाती च व्रणी च शतजन्मसु ॥ ५७॥
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद् धुवम् ।
दण्डेन ताडयेद् गां हि वृषञ्च वृषवाहकः ॥ ५८॥
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ।
प्रतप्ते तैलकुण्डेऽग्नौ तिष्ठति स्म चतुर्युगम् ॥ ५९॥
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ।
कुन्तेन हन्ति यो जीवं वह्निलोहेन हेलया ॥ ६०॥
कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ।
ततः सुयोनिं सम्प्राप्य चोदरे व्याधिसंयुतः ॥ ६१॥
जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः ।
यो भुङ्क्ते च वृथा मांसं मांसलोभी द्विजाधमः ॥ ६२॥
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ।
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ॥ ६३॥
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः ।
ब्राह्मणः शूद्रयाजी च शूद्रश्राद्धान्नभोजकः ॥ ६४॥
शूद्राणां शवदाही च पूयकुण्डे वसेद् ध्रुवम् ।
यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते ॥ ६५॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।
ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥ ६६॥
महारोगी दरिद्रश्च बधिरो मूक एव च ।
कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः ॥ ६७॥
स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः ।
सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः ॥ ६८॥
वसेच्च सर्पविड्भोजी ततः सर्पो भवेद् ध्रुवम् ।
ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः ॥ ६९॥
महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद् ध्रुवम् ।
विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥ ७०॥
स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च ।
दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान् ॥ ७१॥
हस्तपादादिबद्धश्च यमदूतेन ताडितः ।
ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत् ॥ ७२॥
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः ।
यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः ॥ ७३॥
स एव गारले कुण्डे जीवमानाब्दकं वसेत् ।
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥ ७४॥
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ।
दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ॥ ७५॥
स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् ।
स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम् ॥ ७६॥
शब्दकृद्भक्षितस्तैस्तु यमदूतेन ताडितः ।
करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे ॥ ७७॥
पुनः सूकरयोनौ च जायते सप्तजन्मसु ।
त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः ॥ ७८॥
अर्थलोभेन यो मूढः प्रजादण्डं करोति सः ।
वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद् ध्रुवम् ॥ ७९॥
ततो वृश्चिकजातिश्च सप्तजन्मसु भारते ।
ततो नरश्चाङ्गहीनो व्याधिशुद्धो भवेद् ध्रुवम् ॥ ८०॥
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ।
सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः ॥ ८१॥
स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु ।
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ ८२॥
कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः ।
प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः ॥ ८३॥
स पङ्कतप्ततोयाक्तं सान्धकारं भयङ्करम् ।
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ ८४॥
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ।
ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात् ॥ ८५॥
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः ।
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः ॥ ८६॥
ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् ।
ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः ॥ ८७॥
वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः ।
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥ ८८॥
स वसेत्काककुण्डे च काकैः सञ्चूर्णलोचनः ।
ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि ॥ ८९॥
स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः ।
स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९०॥
ताडितो यमदूतेन मन्थानैश्छन्नलोचनः ।
तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि ॥ ९१॥
सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी ।
भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः ॥ ९२॥
यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि ।
स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः ॥ ९३॥
तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः ।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ९४॥
भारते देवचौरश्च देवद्रव्यापहारकः ।
स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९५॥
देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् ।
ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः ॥ ९६॥
रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः ।
तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९७॥
त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि ।
जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः ॥ ९८॥
ततो रक्तविकारी च शूली वै मानवो भवेत् ।
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ ९९॥
रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः ।
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः ॥ १००॥
स भवेदश्वजातिश्च भारते सप्तजन्मसु ।
ततोऽधिकाङ्गजातिश्च पादरोगी ततः शुचिः ॥ १०१॥
पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः ।
स्वलोममानवर्षं च लालाकुण्डे वसेद् ध्रुवम् ॥ १०२॥
ताडितो यमदूतेन तद्भोजी तत्र दुःखितः ।
ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः ॥ १०३॥
म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि ।
वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक् ॥ १०४॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ १०५॥
त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि ।
ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ १०६॥
धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ।
आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः ॥ १०७॥
शताब्दं तत्र निवसेद्यमदूतेन ताडितः ।
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ १०८॥
ततो भवेद्वानरश्च कासव्याधियुतो भुवि ।
वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः ॥ १०९॥
करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः ।
स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ ११०॥
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ।
व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ॥ १११॥
गोधनेषु च विप्रेषु करोति वक्रतां पुमान् ।
प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति ॥ ११२॥
ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मनि ।
दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः ॥ ११३॥
ततो भवेद् गृध्रजन्मा त्रिजन्मनि च सूकरः ।
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ ११४॥
निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति ।
कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥ ११५॥
ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः ।
त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः ॥ ११६॥
घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः ।
स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी ॥ ११७॥
तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः ।
सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः ॥ ११८॥
सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा ।
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥ ११९॥
स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् ।
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ १२०॥
दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि ।
सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत् ॥ १२१॥
बलेनैव छलेनैव हिंसारूपेण वा सति ।
बलिष्ठश्च हरेद्भूमिं भारते परपैतृकीम् ॥ १२२॥
स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् ।
तप्ततैले यथा जीवो दग्धो भवति सन्ततम् ॥ १२३॥
भस्मसान्न भवत्येव भोगे देही न नश्यति ।
सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ॥ १२४॥
शब्दं करोत्यनाहारो यमदूतेन ताडितः ।
षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः ॥ १२५॥
ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ।
ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः ॥ १२६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नानाकर्म-
विपाकफलकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ९.३३॥
९.३४ चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।
यम उवाच ।
छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः ।
नरघाती हन्ति नरमर्थलोभेन भारते ॥ १॥
असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत् ॥ २॥
छिन्नाङ्गः संवसेत् सोऽपि खड्गधारेण सन्ततम् ।
अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः ॥ ३॥
मन्थानः शतजन्मानि शतजन्मानि सूकरः ।
कुक्कुटः सप्त जन्मानि शृगालः सप्तजन्मसु ॥ ४॥
व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु ।
सप्तजन्मसु मण्डूको यमदूतेन ताडितः ॥ ५॥
स भवेद्भारते वर्षे महिषश्च ततः शुचिः ।
ग्रामाणां नगराणां वा दहनं यः करोति च ॥ ६॥
क्षुरधारे वसेत्सोऽपि छिन्नाङ्गस्त्रियुगं सति ।
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम् ॥ ७॥
सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु ।
ततो भवेन्महाशूली मानवः सप्तजन्मनि ॥ ८॥
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ।
परकर्णे मुखं दत्त्वा परनिन्दां करोति यः ॥ ९॥
परदोषे महाश्लाघी देवब्राह्मणनिन्दकः ।
सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम् ॥ १०॥
ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु ।
वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम् ॥ ११॥
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ।
गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः ॥ १२॥
गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः ।
ताडितो यमदूतेन वसेत्तत्र युगत्रयम् ॥ १३॥
ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः ।
त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ॥ १४॥
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ।
भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ॥ १५॥
सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः ।
ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम् ॥ १६॥
ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः ।
ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥ १७॥
हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा ।
स याति गजदंशं च महापापी युगत्रयम् ॥ १८॥
ताडितो यमदूतेन नागदन्तेन सन्ततम् ।
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ॥ १९॥
गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ।
जलं पिबन्तीं तृषितां गां वारयति यः पुमान् ॥ २०॥
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ।
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ॥ २१॥
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ।
सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः ॥ २२॥
गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् ।
यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च ॥ २३॥
भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते ।
कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥ २४॥
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ।
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥ २५॥
क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् ।
क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके ॥ २६॥
गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः ।
काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु ॥ २७॥
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।
नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः ॥ २८॥
सावित्र्युवाच ।
विप्रहत्या च गोहत्या किंविधा चातिदैशिकी ।
का वा नृणामगम्या च को वा सन्ध्याविहीनकः ॥ २९॥
अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही ।
द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः ॥ ३०॥
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ।
एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ ३१॥
धर्मराज उवाच ।
श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति ।
शिवे च शिवलिङ्गे च सूर्ये सूर्यमणौ तथा ॥ ३२॥
गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि ।
यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ ३३॥
स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३४॥
वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३५॥
विप्रपादोदके चैव शालग्रामोदके तथा ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३६॥
शिवनैवेद्यके चैव हरिनैवेद्यके तथा ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३७॥
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ ३८॥
माययानेकरूपे वाप्येक एव हि निर्गुणे ।
करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः ॥ ३९॥
शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च ।
द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः ॥ ४०॥
पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् ।
यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः ॥ ४१॥
यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा ।
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ ४२॥
प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् ।
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ ४३॥
ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् ।
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ॥ ४४॥
सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा ।
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ ४५॥
कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् ।
शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा ॥ ४६॥
पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ।
लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ ४७॥
अम्बुवाच्यां भूखननं जलशौचादिकं च ये ।
कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ ४८॥
गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।
अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ ४९॥
विवाहो यस्य न भवेन्न पश्यति सुतं तु यः ।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ ५०॥
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।
पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः ॥ ५१॥
गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् ।
याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः ॥ ५२॥
दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः ।
दिने दिने गोवधं च लभते नात्र संशयः ॥ ५३॥
ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् ।
भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥ ५४॥
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ ५५॥
पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् ।
गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ ५६॥
यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।
सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम् ॥ ५७॥
अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः ।
यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः ॥ ५८॥
स्वभर्तरि च देवे वा भेदबुद्धिं करोति या ।
कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥ ५९॥
गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा ।
तडागे वा तु दुर्गे वा स गोहत्यां लभेद् ध्रुवम् ॥ ६०॥
प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् ।
पुत्रलोभादथाज्ञानात्स गोहत्या लभेद् ध्रुवम् ॥ ६१॥
राजके दैवके यत्नाद् गोस्वामी गां न रक्षति ।
दुःखं ददाति यो मूढो गोहत्यां स लभेद् ध्रुवम् ॥ ६२॥
प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् ।
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद् ध्रुवम् ॥ ६३॥
शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः ।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥ ६४॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।
सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद् ध्रुवम् ॥ ६५॥
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ।
विद्यार्थिने च विद्यां च स गोहत्यां लभेद् ध्रुवम् ॥ ६६॥
गोहत्या विप्रहत्या च कथिता चातिदेशिकी ।
गम्यां स्त्रियं नृणामेव निबोध कथयामि ते ॥ ६७॥
स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् ।
अगम्या च तदन्या या चेति वेदविदो विदुः ॥ ६८॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।
अत्यगम्या हि या याश्च निबोध कथयामि ताः ॥ ६९॥
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।
अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ॥ ७०॥
शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् ।
तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद् ध्रुवम् ॥ ७१॥
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।
यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः ॥ ७२॥
स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः ।
विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् ॥ ७३॥
न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति ।
कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम् ॥ ७४॥
द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः ।
ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः ॥ ७५॥
तप्तमुद्रादग्धदेहस्तप्तशूलाङ्कितस्तथा ।
हरिवासरभोजी च कुम्भीपाकं व्रजेद् द्विजः ॥ ७६॥
गुरुपत्नीं राजपत्नीं सपत्नीं मातरं ध्रुवम् ।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम् ॥ ७७॥
सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् ।
मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥ ७८॥
शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् ।
भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः ॥ ७९॥
एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः ।
स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत् ॥ ८०॥
अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः ।
स याति कुम्भीपाके च महापापी सुदुष्करे ॥ ८१॥
करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च ।
त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥ ८२॥
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।
योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥ ८३॥
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वसेत् ॥ ८४॥
तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् ।
वाराणस्यां बदर्यां च गङ्गासागरसङ्गमे ॥ ८५॥
पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले ।
हरिद्वारे च केदारे तथा मातृपुरेऽपि च ॥ ८६॥
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले ॥ ८७॥
एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः ॥ ८८॥
शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः ।
तथा देवोपजीवी च देवलः परिकीर्तितः ॥ ८९॥
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।
सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः ॥ ९०॥
उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः ।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।
कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते ॥ ९१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने
नानाकर्मविपाकफलवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ९.३४॥
९.३५ पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।
धर्मराज उवाच ।
देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् ।
शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥ १॥
पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते ।
स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम् ॥ २॥
शतवर्षं कालसूत्रे स्थिरीभूतो भवेद् ध्रुवम् ।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद् द्विजः ॥ ३॥
पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता ।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि ॥ ४॥
वेश्या च पञ्चमे षष्ठे पुङ्गी च सप्तमेऽष्टमे ।
तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु ॥ ५॥
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।
पुङ्गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम् ॥ ६॥
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ ७॥
पुङ्गीगामी दशगुणं वसेत्तत्र न संशयः ।
महावेश्याकामुकश्च ततो दशगुणं वसेत् ॥ ८॥
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ।
तित्तिरिः कुलटागामी धृष्टागामी च वायसः ॥ ९॥
कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः ।
पुङ्गीगामी सूकरश्च सप्तजन्मनि भारते ॥ १०॥
महावेश्याप्रगामी च जायते शाल्मलीतरुः ।
यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः ॥ ११॥
अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च ।
ततो भवेन्मानवश्चाप्युदरे रोगपीडितः ॥ १२॥
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ।
वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च ॥ १३॥
स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम् ।
तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम् ॥ १४॥
निवसेच्छरशय्यायां मम दूतेन ताडितः ।
भक्त्या न पूजयेद्विप्रः शिवलिङ्गं च पार्थिवम् ॥ १५॥
स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् ।
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ॥ १६॥
ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः ।
करोति कुण्ठितं विप्रं यद्भिया कम्पते द्विजः ॥ १७॥
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ।
प्रकोपवदना कोपात् स्वामिनं या च पश्यति ॥ १८॥
कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि ।
उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः ॥ १९॥
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।
ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥ २०॥
सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः ।
या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा ॥ २१॥
तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् ।
निवसेदतिसन्तप्ता मम दूतेन ताडिता ॥ २२॥
शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश ।
काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥ २३॥
शृगाली शतजन्मानि शतजन्मानि कुक्कुटी ।
पारावती सप्तजन्म वानरी सप्तजन्मसु ॥ २४॥
ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते ।
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली ॥ २५॥
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ।
निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने ॥ २६॥
जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके ।
स्वैरिणी दलने चैव धृष्टा च शोषणे तथा ॥ २७॥
निवसेद्यातनायुक्ता मम दूतेन ताडिता ।
विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति ॥ २८॥
ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः ।
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः ॥ २९॥
वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि ।
सवर्णपरदारैश्च कषायं यान्ति ते जनाः ॥ ३०॥
भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् ।
ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः ॥ ३१॥
योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः ।
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते ॥ ३२॥
मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् ।
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ॥ ३३॥
प्रतप्तमूत्रभोजी च मम दूतेन ताडितः ।
तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ ३४॥
सप्तजन्म वराहश्च छागलश्च ततः शुचिः ।
करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ॥ ३५॥
मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् ।
गङ्गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत् ॥ ३६॥
शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् ।
दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत् ॥ ३७॥
स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् ।
आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद् द्विजः ॥ ३८॥
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् ।
मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ॥ ३९॥
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् ।
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ॥ ४०॥
तथाङ्गारप्रदग्धाश्च मम दूतेन ताडिताः ।
चाण्डालस्तुलसीं स्पृष्ट्वा सप्तजन्म ततः शुचिः ॥ ४१॥
म्लेच्छो गङ्गाजलस्पर्शी पञ्चजन्म ततः शुचिः ।
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ॥ ४२॥
अर्चास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचि ।
दक्षहस्तप्रदाता च सर्पश्च सप्तजन्मसु ॥ ४३॥
ततो भवेद् ब्रह्महीनो मानवश्च ततः शुचिः ।
मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ॥ ४४॥
विप्रादिस्पर्शकारी च व्याघ्रजातिर्भवेद् ध्रुवम् ।
ततो भवेच्च मूकः स बधिरश्च त्रिजन्मनि ॥ ४५॥
भार्याहीनो बन्धुहीनो वंशहीनस्ततः शुचिः ।
मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः ॥ ४६॥
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते ।
मिथ्यासाक्षी च वक्तव्ये मण्डूकः सप्तजन्मसु ॥ ४७॥
पूर्वान्सप्तापरान्सप्त पुरुषान्हन्ति चात्मनः ।
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ॥ ४८॥
यस्यानास्था वेदवाक्ये मन्दं हसति सन्ततम् ।
व्रतोपवासहीनश्च सद्वाक्यपरनिन्दकः ॥ ४९॥
धूम्रान्धे च वसेत्सोऽपि शताब्दं धूम्रभक्षकः ।
जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च ॥ ५०॥
ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः ।
यः करोत्युपहासं च देवब्राह्मणयोर्धने ॥ ५१॥
पातयित्वा स पुरुषान्दशपूर्वान्दशापरान् ।
सोऽयं याति च धूम्रान्धं धूम्रध्वान्तसमन्वितम् ॥ ५२॥
धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम् ।
ततो मूषकजातिश्च सप्तजन्मसु भारते ॥ ५३॥
ततो नानाविधाः पक्षिजातयः कृमिजातिभिः ।
ततो नानाविधा वृक्षा पशवश्च ततो नरः ॥ ५४॥
विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः ।
लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ॥ ५५॥
स याति नागवेष्टं च नागैर्वेष्टितमेव च ।
वसेत्स लोममानाब्दं तत्रैव नागपाशितः ॥ ५६॥
ततो नानाविधाः पक्षिजातयश्च ततो नरः ।
ततो भवेत्स गणको वैद्यश्च सप्तजन्मसु ॥ ५७॥
गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः ।
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ॥ ५८॥
अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै ।
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ।
भ्रमन्ति नानायोनिं च किं भूयः श्रोतुमिच्छसि ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
नानाकर्मविपाकफलकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ९.३५॥
९.३६ षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।
सावित्र्युवाच ।
धर्मराज महाभाग वेदवेदाङ्गपारग ।
नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ॥ १॥
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ।
कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम् ॥ २॥
सर्वप्रदं च सर्वेषां सर्वमङ्गलकारणम् ।
भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः ॥ ३॥
कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च ।
न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम् ॥ ४॥
किमाकाराणि कुण्डानि तानि वा निर्मितानि च ।
के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः ॥ ५॥
स्वदेहे भस्मसाद्भूते याति लोकान्तरं नरः ।
केन देहेन वा भोगं करोति च शुभाशुभम् ॥ ६॥
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ।
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ ७॥
श्रीनारायण उवाच ।
सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ।
कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम् ॥ ८॥
धर्मराज उवाच ।
वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च ।
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ॥ ९॥
अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते ।
सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम् ॥ १०॥
जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् ।
सर्वमङ्गलरूपं च परमानन्दकारणम् ॥ ११॥
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ।
भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम् ॥ १२॥
विमोक्षसोपानमिदमविनाशपदं स्मृतम् ।
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम् ॥ १३॥
कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे ।
न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः ॥ १४॥
देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् ।
यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम् ॥ १५॥
प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च ।
न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम् ॥ १६॥
त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः ।
निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः ॥ १७॥
स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा ।
गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः ॥ १८॥
भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः ।
स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम् ॥ १९॥
यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना ।
कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः ॥ २०॥
देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् ।
करोति नखलेखन्या चित्रगुप्तश्च भीतवत् ॥ २१॥
मधुपर्कादिकं तेषां कुरुते च पुनः पुनः ।
विलङ्घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति ॥ २२॥
दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः ।
ते महाभाग्यवन्तो हि सहस्रकुलपावनाः ॥ २३॥
यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च ।
प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत् ॥ २४॥
कामश्च कामिनं याति लोभक्रोधौ ततः सति ।
मृत्युः प्रलीयते रोगो जरा शोको भयं तथा ॥ २५॥
कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च ।
ये ये न यान्ति तां पीडां कथितास्ते मया सति ॥ २६॥
शृणु देहविवरणं कथयामि यथागमम् ।
पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ २७॥
देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् ।
पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत् ॥ २८॥
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ।
बद्धोऽङ्गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः ॥ २९॥
बिभर्ति सूक्ष्मं देहं तं तद्रूपं भोगहेतवे ।
स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ॥ ३०॥
जलेन नष्टो देही वा प्रहारे सुचिरं कृते ।
न शस्त्रेण न वास्त्रेण सुतीक्ष्णकण्टके तथा ॥ ३१॥
तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ।
प्रतप्तप्रतिमाश्लेषे यत्पूर्वपतनेऽपि च ॥ ३२॥
न दग्धो न च भग्नः स भुङ्क्ते सन्तापमेव च ।
कथितो देहवृत्तान्तः कारणं च यथागमम् ।
कुण्डानां लक्षणं सर्वं बोधाय कथयामि ते ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ९.३६॥
९.३७ सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।
धर्मराज उवाच ।
पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् ।
निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ १॥
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।
क्लेशदं पातकानां च नानारूपं तदालयम् ॥ २॥
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥ ३॥
महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ ४॥
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।
महाघोरं काकुशब्दं प्रहारेण दृढेन च ॥ ५॥
क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः ।
तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम् ॥ ६॥
सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ॥ ७॥
प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः ।
विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ॥ ८॥
अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् ।
ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः ॥ ९॥
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः ।
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम् ॥ १०॥
युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा ।
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम् ॥ ११॥
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः ।
श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा ॥ १२॥
तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा ।
क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम् ॥ १३॥
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च ।
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ॥ १४॥
सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः ।
नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ॥ १५॥
पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः ।
वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम् ॥ १६॥
तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः ।
शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम् ॥ १७॥
पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः ।
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥ १८॥
तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् ।
पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम् ॥ १९॥
वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः ।
नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम् ॥ २०॥
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः ।
कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम् ॥ २१॥
वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः ।
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥ २२॥
महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् ।
परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः ॥ २३॥
पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ।
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ॥ २४॥
पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः ।
वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ॥ २५॥
पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः ।
प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम् ॥ २६॥
ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा ।
प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ॥ २७॥
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।
प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम् ॥ २८॥
लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ।
प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया ॥ २९॥
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ ३०॥
भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् ।
चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च ॥ ३१॥
तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः ।
अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम् ॥ ३२॥
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ।
धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ॥ ३३॥
प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् ।
वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः ॥ ३४॥
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ।
महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः ॥ ३५॥
प्रचलद्भिर्यथा तप्ततैलजीविभिरेव च ।
विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम् ॥ ३६॥
तद्भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते ।
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ॥ ३७॥
महापातकिभिर्युक्तं दग्धाङ्गारैश्च वेष्टितम् ।
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतपीडितैः ॥ ३८॥
ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् ।
शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम् ॥ ३९॥
शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् ।
वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः ॥ ४०॥
ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः ।
कीटैश्च शङ्कुप्रमितैः सर्पमानैर्भयङ्करैः ॥ ४१॥
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।
महापातकिभिर्युक्तं मम दूतैश्च ताडिते ॥ ४२॥
द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते ।
तद्भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः ॥ ४३॥
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ।
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ॥ ४४॥
सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ।
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥ ४५॥
सर्वं कोशार्धमानं च महापातकिभिर्युतम् ।
हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः ॥ ४६॥
हाहेति शब्दं कुर्वद्भिस्ताडितैर्मम पार्षदैः ।
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ॥ ४७॥
वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ।
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ॥ ४८॥
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः ।
तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ॥ ४९॥
कीटैः शङ्कुसमानैश्च भक्षितैः पापिभिर्युतम् ।
वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः ॥ ५०॥
रुदद्भिः क्रोशमानैश्च मम दूतैश्च ताडितैः ।
अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा ॥ ५१॥
दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् ।
वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ॥ ५२॥
विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः ।
काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥ ५३॥
मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् ।
भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ॥ ५४॥
धनुःशतं जीवयुक्तं पापिभिः सङ्कुलं सदा ।
शब्दकृद्भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम् ॥ ५५॥
वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् ।
ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ॥ ५६॥
क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् ।
महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः ॥ ५७॥
क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः ।
तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम् ॥ ५८॥
चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥ ५९॥
तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ।
कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम् ॥ ६०॥
सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् ।
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ॥ ६१॥
कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् ।
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ॥ ६२॥
ज्वलद्भिः शब्दकृद्भिश्च ध्वान्तयुक्तं भयानकम् ।
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ॥ ६३॥
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् ।
ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम् ॥ ६४॥
शब्दकृद्भिः पातकिभिः संयुतं क्लेशदं सदा ।
क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम् ॥ ६५॥
शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ।
तप्तपाषाणलोहानां समूहैः परिपूरितैः ॥ ६६॥
पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः ।
क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम् ॥ ६७॥
ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् ।
अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम् ॥ ६८॥
नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् ।
द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम् ॥ ६९॥
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः ।
ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम् ॥ ७०॥
प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् ।
असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः ॥ ७१॥
क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् ।
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवं । ७२
परित्राहीति शब्दं च कुर्वतामसतामपि ।
गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम् ॥ ७३॥
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ।
धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम् ॥ ७४॥
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् ।
सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम् ॥ ७५॥
पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् ।
कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति ॥ ७६॥
कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् ।
महापातकिनां चैव महत्क्लेशप्रदं परम् ॥ ७७॥
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ।
कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ॥ ७८॥
गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा ।
धनुःशतप्रमाणं च कीर्तितं गजदंशनम् ॥ ७९॥
धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति ।
पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम् ॥ ८०॥
कालचक्रेण संयुक्तं भ्रममाणं भयानकम् ।
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥ ८१॥
लक्षपौरुषमानं च गम्भीरं विस्मृतं सति ।
कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च ॥ ८२॥
पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् ।
परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम् ॥ ८३॥
ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा ।
घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम् ॥ ८४॥
पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः ।
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ॥ ८५॥
ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे ।
सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः ॥ ८६॥
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ।
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ॥ ८७॥
उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः ।
निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः ॥ ८८॥
अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि ।
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥ ८९॥
अवटः कूपभेदश्च मत्स्योदः स उदाहृतः ।
प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम् ॥ ९०॥
व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् ।
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥ ९१॥
यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् ।
भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते ॥ ९२॥
अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् ।
हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः ॥ ९३॥
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः ।
तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम् ॥ ९४॥
पातमात्रेण पापी च पाशेन वेष्टितो भवेत् ।
क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः ॥ ९५॥
पातमात्रेण पापी च शूलेन वेष्टितो भवेत् ।
धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम् ॥ ९६॥
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।
अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम् ॥ ९७॥
ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे ।
धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम् ॥ ९८॥
लक्षपौरुषमानं च गम्भीरं च धनुःशतम् ।
नानाप्रकारकृमिभिः संयुक्तं च भयानकम् ॥ ९९॥
अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् ।
तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम् ॥ १००॥
तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः ।
ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः ॥ १०१॥
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।
धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम् ॥ १०२॥
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।
धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ॥ १०३॥
निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।
धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम् ॥ १०४॥
पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह ।
लोहबन्दीनिबद्धानां कोटिपौरुषमानकम् ॥ १०५॥
गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् ।
मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम् ॥ १०६॥
दलिताः पापिनो यत्र मम दूतैश्च ताडिताः ।
धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम् ॥ १०७॥
पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः ।
बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ॥ १०८॥
शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् ।
शोषणं कुण्डमेतद्धि पापिनां परदुःखदम् ॥ १०९॥
नानाचर्मकषायोदपरिपूर्णं धनुःशतम् ।
दुर्गन्धियुक्ततद्भक्ष्यैः प्राणिभिः सङ्कुलं कषम् ॥ ११०॥
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् ।
तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम् ॥ १११॥
दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं सति ।
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम् ॥ ११२॥
प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् ।
अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा ॥ ११३॥
धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि ।
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च ॥ ११४॥
तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ।
पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत् ॥ ११५॥
तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् ।
धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम् ॥ ११६॥
धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् ।
पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत् ॥ ११७॥
धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् ।
षडशीति च कुण्डानि मयोक्तानि निशामय ।
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ ११८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
नानानरककुण्डवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ९.३७॥
९.३८ अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।
सावित्र्युवाच ।
देवीभक्तिं देहि मह्यं साराणां चैव सारकम् ।
पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥ १॥
कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् ।
दारकं कर्मवृक्षाणां कृतपापौघहारणम् ॥ २॥
मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् ।
देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम् ॥ ३॥
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।
किञ्चिंज्ञानं सारभूतं वद वेदविदां वर ॥ ४॥
सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः ।
अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम् ॥ ५॥
पितुः शतगुणा माता गौरवे चेति निश्चितम् ।
मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो ॥ ६॥
धर्मराज उवाच ।
पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।
अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात् ॥ ७॥
श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम् ।
वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम् ॥ ८॥
शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः ।
मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ॥ ९॥
धाता चतुर्णां वेदानां विधाता जगतामपि ।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ १०॥
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ११॥
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।
कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये ॥ १२॥
सरस्वती जडीभूता नालं तद्गुणवर्णने ।
सनत्कुमारो धर्मश्च सनन्दनः सनातनः ॥ १३॥
सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः ।
विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः ॥ १४॥
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।
के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने ॥ १५॥
ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ १६॥
कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् ।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ १७॥
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।
सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः ॥ १८॥
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना ।
अतीव निर्जनेऽरण्ये गोलोके रासमण्डले ॥ १९॥
तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् ।
धर्मं च कथयामास शिवलोके शिवः स्वयम् ॥ २०॥
धर्मस्तु कथयामास भास्वते पृच्छते तथा ।
यामाराध्य मत्पितापि सम्प्राप तपसा सति ॥ २१॥
पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः ।
वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ॥ २२॥
तदा मां कथयामास पिता तद्गुणकीर्तनम् ।
यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥ २३॥
तद्गुणं सा न जानाति तदन्यस्य च का कथा ।
यथाकाशो न जानाति स्वान्तमेव वरानने ॥ २४॥
सर्वात्मा सर्वभगवान् सर्वकारणकारणः ।
सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः । २५
नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः ।
निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः ॥ २६॥
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।
मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः ॥ २७॥
स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् ।
यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित् ॥ २८॥
सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी ।
रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥ २९॥
गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह ।
अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ ३०॥
नवीननीरदश्यामं किशोरं गोपवेषकम् ।
कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ ३१॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचनम् ।
शरत्पार्वणकोटीन्दुशोभाप्रच्छादनाननम् ॥ ३२॥
अमूल्यरत्ननिर्माणनानाभूषणभूषितम् ।
सस्मितं शोभितं शश्वदमूल्यपीतवाससा ॥ ३३॥
परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा ।
सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ॥ ३४॥
गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च सन्ततम् ।
रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम् ॥ ३५॥
वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् ।
कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षःस्थलोज्ज्वलम् ॥ ३६॥
कुङ्कुमागुरुकस्तुरीचन्दनार्चितविग्रहम् ।
चारुचम्पकमालाक्तं मालतीमाल्यमण्डितम् ॥ ३७॥
चारुचन्द्रकशोभाढ्यं चूडावङ्क्रिमराजितम् ।
एवम्भूतं च ध्यायन्ति भक्ता भक्तिपरिप्लुताः ॥ ३८॥
यद्भयाज्जगता धाता विधत्ते सृष्टिमेव च ।
कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम् ॥ ३९॥
तपसां फलदाता च कर्मणां च यदाज्ञया ।
विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम् ॥ ४०॥
कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् ।
शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः ॥ ४१॥
यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः ।
परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः ॥ ४२॥
यद्भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् ।
तपनश्च प्रतपति यद्भयात्सन्ततं सति ॥ ४३॥
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।
यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम् ॥ ४४॥
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया ।
भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्भयेन च ॥ ४५॥
भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्भयात् ।
यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्भयात् ॥ ४६॥
तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया ।
अकाले नाहरेद्विद्धं रणेषु विषमेषु च ॥ ४७॥
धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया ।
कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान् ॥ ४८॥
सर्वा चैव क्षमारूपा नानारत्नं बिभर्ति या ।
यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि ॥ ४९॥
इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ।
अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम् ॥ ५०॥
एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः ।
ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम् ॥ ५१॥
ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः ।
चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः ॥ ५२॥
प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः ।
लीना धाता विधाता च श्रीकृष्णनाभिपङ्कजे ॥ ५३॥
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ॥ ५४॥
यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः ।
दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः ॥ ५५॥
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता ।
नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ॥ ५६॥
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः ।
पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते ॥ ५७॥
गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः ।
कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता ॥ ५८॥
सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च ।
स्थिता वाणी च जिह्वायां यस्य च परमात्मनः ॥ ५९॥
गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु ।
तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः ॥ ६०॥
जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः ।
वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ॥ ६१॥
सारात्सारतरा भक्तिरसपीयूषपायिनः ।
विराडंशाश्च महति लीनाः कृष्णे महाविराट् ॥ ६२॥
यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।
यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत् ॥ ६३॥
चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः ।
यावत्कालो निमेषेण तावदुन्मीलनेन च ॥ ६४॥
ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः ।
ब्रह्मसृष्टिलयानां च सङ्ख्या नास्त्येव सुव्रते ॥ ६५॥
यथा भूरजसां चैव सङ्ख्यानं नैव विद्यते ।
चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥ ६६॥
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।
स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि ॥ ६७॥
एकैव च परा शक्तिर्निर्गुणः परमः पुमान् ।
सदेवेदमग्र आसीदिति वेदविदो विदुः ॥ ६८॥
मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा ।
चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति ॥ ६९॥
तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ।
मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ॥ ७०॥
तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी ।
सालोक्यदा भवेदेका तथा सारूप्यदा परा ॥ ७१॥
सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा ।
भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः ॥ ७२॥
शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया ।
जन्ममृत्युजराव्याधिभयशोकादिकं धनम् ॥ ७३॥
दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः ।
मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी ॥ ७४॥
भक्तिमुक्त्योरयं भेदो निषेकखण्डनं शृणु ।
विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ॥ ७५॥
तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् ।
तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः ॥ ७६॥
निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।
इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम् ॥ ७७॥
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।
दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च ॥ ७८॥
रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता ।
सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः ॥ ७९॥
तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह ।
धर्मराज उवाव
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ॥ ८०॥
अन्ते यास्यसि तल्लोकं यत्र देवी विराजते ।
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ॥ ८१॥
द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् ।
ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम् ॥ ८२॥
शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् ।
द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते ॥ ८३॥
करोति भक्त्या या नारी सा याति च विभोः पदम् ।
प्रतिमङ्गलवारे च देवीं मङ्गलदायिनीम् ॥ ८४॥
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिनीम् ।
तथा चाषाढसङ्क्रान्त्यां मनसां सर्वसिद्धिदाम् ॥ ८५॥
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् ।
उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम् ॥ ८६॥
विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् ।
प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च ॥ ८७॥
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।
या नारी पूजयेद्भक्त्या धनसन्तानहेतवे ॥ ८८॥
इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् ।
एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम् ॥ ८९॥
सर्वकालं सर्वरूपा संसेव्या परमेश्वरी ।
नातः परतरं किञ्चित्कृतकृत्यत्वदायकम् ॥ ९०॥
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् ।
गृहीत्वा स्वामिनं सा च सावित्री च निजालयम् ॥ ९१॥
सावित्री सत्यवांश्चैव प्रययौ च यथागमम् ।
अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद ॥ ९२॥
सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च ।
श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च ॥ ९३॥
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।
जगाम स्वामिना सार्धं देवीलोकं पतिव्रता ॥ ९४॥
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।
सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता ॥ ९५॥
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।
जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ॥ ९६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ॥ ९.३८॥
९.३९ एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।
नारद उवाच ।
श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।
सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥ १॥
तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् ।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर ॥ २॥
केनादौ पूजिता सापि किम्भूता केन वा पुरा ।
तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर ॥ ३॥
श्रीनारायण उवाच ।
सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः ।
देवी वामांससम्भूता बभूव रासमण्डले ॥ ४॥
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता ।
यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना ॥ ५॥
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।
शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना ॥ ६॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।
सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया ॥ ७॥
स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा ।
यशसा वाससा कृत्या भूषणेन गुणेन च ॥ ८॥
स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च ।
तद्वामांसान्महालक्ष्मीर्दक्षिणासाञ्च्च राधिका ॥ ९॥
राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् ।
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ॥ १०॥
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ।
दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः ॥ ११॥
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ।
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् ॥ १२॥
देवीभूता च महती महालक्ष्मीश्च सा स्मृता ।
राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः ॥ १३॥
शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता ।
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ॥ १४॥
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ ।
महालक्ष्मीश्च योगेन नानारूपा बभूव सा ॥ १५॥
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा ।
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता ॥ १६॥
प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च ।
स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी ॥ १७॥
पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः ॥ १८॥
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला ।
गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी ॥ १९॥
क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ।
शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता ॥ २०॥
विभूषणेषु रत्नेषु फलेषु च जलेषु च ।
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ॥ २१॥
सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च ।
प्रतिमासु च देवानां मङ्गलेषु घटेषु च ॥ २२॥
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ।
मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च ॥ २३॥
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ।
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ॥ २४॥
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ।
विष्णुना पूजिता सा च क्षीरोदे भारते मुने ॥ २५॥
स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः ।
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे ॥ २६॥
गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता ।
शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा ॥ २७॥
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ।
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ॥ २८॥
विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः ।
वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले ॥ २९॥
मनुस्तां पूजयामास सा भूता भुवनत्रये ।
पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला ॥ ३०॥
केदारेणैव नीलेन सुबलेन नलेन च ।
ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा ॥ ३१॥
कश्यपेन च दक्षेण कर्दमेन विवस्वता ।
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ॥ ३२॥
यमेन वह्निना चैव वरुणेनैव पूजिता ।
एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा ।
सर्वेश्वर्याधिदेवी सा सर्वसम्पत्स्वरूपिणी ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे लक्ष्म्युपाख्यानवर्णनं
नामैकोनचत्वारिंशोऽध्यायः ॥ ९.३९॥
९.४० चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।
नारद उवाच ।
नारायणप्रिया सा च परा वैकुण्ठवासिनी ।
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ १॥
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।
पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ॥ २॥
श्रीनारायण उवाच ।
पुरा दुर्वाससः शापाद् भ्रष्टश्रीश्च पुरन्दरः ।
बभूव देवसङ्घश्च मर्त्यलोके हि नारद ॥ ३॥
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता ।
गत्वा लीना तु वैकुण्ठे महालक्ष्मीश्च नारद ॥ ४॥
तदा शोकाद्ययुः सर्वे दुःखिता ब्रह्मणः सभाम् ।
ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥ ५॥
वैकुण्ठे शरणापन्ना देवा नारायणे परे ।
अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः ॥ ६॥
तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया ।
बभूव सिन्धुकन्या सा सर्वसम्पत्स्वरूपिणी ॥ ७॥
तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।
सम्प्राप्ताश्च महालक्ष्मीं विष्णुस्तां च ददर्श ह ॥ ८॥
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे ।
ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ ९॥
देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद ।
तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः ॥ १०॥
नारद उवाच ।
कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन ।
केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा ॥ ११॥
ममन्थुः केनरूपेण जलधिं ते सुरादयः ।
केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा ॥ १२॥
को वा तयोश्च संवादो बभूव तद्वद प्रभो ।
श्रीनारायण उवाच ।
मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ॥ १३॥
क्रीडां चकार रहसि रम्भया सह कामुकः ।
कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः ॥ १४॥
तस्थौ तत्र महारण्ये कामोन्मथितमानसः ।
कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम् ॥ १५॥
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा ।
ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम् ॥ १६॥
प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् ।
शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम् ॥ १७॥
महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् ।
समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः ॥ १८॥
दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः ।
शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम् ॥ १९॥
मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः ।
विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ॥ २०॥
तज्जरारोगमृत्युघ्नं शोकजं मोक्षकारकम् ।
शक्रः पुष्पं गहीत्वा च प्रमत्तो राज्यसम्पदा ॥ २१॥
पुष्पं स न्यस्तयामास तदैव करिमस्तके ।
हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ॥ २२॥
तेजसा वयसाकस्माद्विष्णुतुल्यो बभूव ह ।
त्यक्त्वा शक्रं गजेन्द्रश्च जगाम घोरकाननम् ॥ २३॥
न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने ।
तत्पुण्यं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः ॥ २४॥
तमुवाच महारुष्टः शशाप च रुषान्वितः ।
मुनिरुवाच ।
अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ॥ २५॥
मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके ।
विष्णोर्निवेदितं चैव नैवेद्यं वा फलं जलम् ॥ २६॥
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् ।
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टो भवेत्तु सः ॥ २७॥
यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ।
प्राप्तिमात्रेण यो भुङ्क्ते भक्तो विष्णुनिवेदितम् ॥ २८॥
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ।
नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम् ॥ २९॥
पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ।
तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ॥ ३०॥
तत्पादरजसा मूढ सद्यः पूता वसुन्धरा ।
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्तमेव च ॥ ३१॥
यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम् ।
शिवलिङ्गप्रदानं च यद्दत्तं शूद्रयाजिना ॥ ३२॥
चिकित्सकद्विजान्नं च देवलान्नं तथैव च ।
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ॥ ३३॥
उच्छिष्टान्नं पर्युषितं सर्वभक्षावशेषितम् ।
शूद्रापतिद्विजानां च भूषवाहद्विजान्नकम् ॥ ३४॥
अदीक्षितद्विजानां च यदन्नं शवदाहिनाम् ।
अगम्यागामिनां चैव द्विजानामन्नमेव च ॥ ३५॥
मित्रद्रुहां कृतज्जानामन्नं विश्वासघातिनाम् ।
मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तथैव च ॥ ३६॥
एते सर्वे विशुध्यन्ति विष्णोनैवेद्यभक्षणात् ।
श्वपचश्चेद्विष्णुसेवी वंशानां कोटिमुद्धरेत् ॥ ३७॥
हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः ।
अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च ॥ ३८॥
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।
ज्ञात्वा भक्त्या च गृह्णाति विष्णोनैवेद्यमेव च ॥ ३९॥
कोटिजन्मार्जितात्पापान्मुच्यते निश्चितं हरे ।
यस्मात्संस्थापितं पुष्पं गर्वेण करिमस्तके ॥ ४०॥
तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् ।
नारायणस्य भक्तोऽहं न बिभेमि सुराद्विधेः ॥ ४१॥
कालान्मृत्योर्जरातश्च कानन्यान् गणयामि च ।
किं करिष्यति ते तातः कश्यपश्च प्रजापतिः ॥ ४२॥
बृहस्पतिर्गुरुश्चैव निःशङ्कस्य च मे हरे ।
इदं पुष्पं यस्य मूर्ध्नि तस्यैव पूजनं परम् ॥ ४३॥
इति श्रुत्वा महेन्द्रश्च धृत्वा स चरणं मुनेः ।
उच्चै रुरोद शोकार्तस्तमुवाच भयाकुलः ॥ ४४॥
महेन्द्र उवाच ।
दत्तः समुचितः शापो मह्यं मायापहः प्रभो ।
हृतां न याचे सम्पत्तिं किञ्चिज्ज्ञानं च देहि मे ॥ ४५॥
ऐश्वर्यं विपदां बीजं ज्ञानप्रच्छन्नकारणम् ।
मुक्तिमार्गकुठारश्च भक्तेश्च व्यवधायकम् ॥ ४६॥
मुनिरुवाच ।
जन्ममृत्युजराशोकरोगबीजाङ्कुरं परम् ।
सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति ॥ ४७॥
सम्पन्मत्तो विमूढश्च सुरामत्तः स एव च ।
बान्धवैर्वेष्टितः सोऽपि बन्धुत्वेनैव हे हरे ॥ ४८॥
सम्पत्तिमदमत्तश्च विषयान्धश्च विह्वलः ।
महाकामी राजसिकः सत्त्वमार्गं न पश्यति ॥ ४९॥
द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः ।
अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ॥ ५०॥
शास्त्रं च द्विविधं मार्गं दर्शयेत्सुरपुङ्गव ।
प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ॥ ५१॥
चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखवर्त्मनि ।
स्वच्छन्दं च प्रसन्नं च निर्विरोधं च सन्ततम् ॥ ५२॥
आयाति मधुनो लोभात्क्लेशेन सुखमानितः ।
परिणामे नाशबीजे जन्ममृत्युजराकरे ॥ ५३॥
अनेकजन्मपर्यन्तं कृत्वा च भ्रमणं मुदा ।
स्वकर्मविहितायां च नानायोन्यां क्रमेण च ॥ ५४॥
ततश्चेशानुगहाग्रच्च सत्सङ्गं लभते च सः ।
सहस्रेषु शतेष्वेको भवाब्धिपारकारणम् ॥ ५५॥
साधुस्तत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् ।
तदा करोति यत्नं च जीवो बन्धनखण्डने ॥ ५६॥
अनेकजन्मयोगेन तपसानशनेन च ।
तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम् ॥ ५७॥
इदं श्रुतं गुरोर्वक्याद्यत् पृच्छसि पुरन्दर ।
मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः ॥ ५८॥
वैराग्यं वर्धयामास तस्य ब्रह्मन् दिने दिने ।
मुनेः स्थानाद् गृहं गत्वा स ददर्शामरावतीम् ॥ ५९॥
दैत्यैरसुरसङ्घैश्च समाकीर्णां भयाकुलाम् ।
विषमोपप्लवां पुत्रबन्धुहीनां च कुत्रचित् ॥ ६०॥
पितृमातृकलत्रादिविहीनामतिचञ्चलाम् ।
शत्रुग्रस्तां च तां दृष्ट्वा जगाम वाक्पतिं प्रति ॥ ६१॥
शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् ।
ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम् ॥ ६२॥
सूर्याभिसम्मुखं पूर्वमुखं च विश्वतोमुखम् ।
साश्रुनेत्रं पुलकिनं परमानन्दसंयुतम् ॥ ६३॥
वरिष्ठं च गरिष्ठं च धर्मिष्ठं श्रेष्ठसेवितम् ।
प्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च ज्ञानिनाम् ॥ ६४॥
ज्येष्ठं च भ्रातृवर्गाणामनिष्टं सुरवैरिणाम् ।
दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ॥ ६५॥
प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः ।
प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः ॥ ६६॥
वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा ।
पुनर्वरोपलब्धिं च ज्ञानप्राप्तिं सुदुर्लभाम् ॥ ६७॥
वैरिग्रस्तां च स्वपुरीं क्रमेणैव सुरेश्वरः ।
शिष्यस्य वचनं श्रुत्वा सुबुद्धिर्वदतां वरः ॥ ६८॥
बृहस्पतिरुवाचेदं कोपसंरक्तलोचनः ।
गुरुरुवाच ।
श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं शृणु ॥ ६९॥
न कातरो हि नीतिज्ञो विपत्तौ च कदाचन ।
सम्पत्तिर्वा विपत्तिर्वा नश्वरा श्रमरूपिणी ॥ ७०॥
पूर्वस्य कर्मायत्ता च स्वयं कर्ता तयोरपि ।
सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि ॥ ७१॥
चक्रनेमिक्रमेणैव तत्र का परिदेवना ।
उक्तं हि स्वकृतं कर्म भुज्यतेऽखिलभारते ॥ ७२॥
शुभाशुभं च यत्किञ्चित्स्वकर्मफलभुक् पुमान् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ७३॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ॥ ७४॥
सामवेदोक्तशाखायां सम्बोध्य कमलोद्भवम् ।
जन्मभोगावशेषे च सर्वेषां कृतकर्मणाम् ॥ ७५॥
अनुरूपं हि तेषां च भारतेऽन्यत्र चैव हि ।
कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ॥ ७६॥
कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा ।
कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ॥ ७७॥
न हि त्यजेद्विना भोगं तच्छायेव पुरन्दर ।
कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ॥ ७८॥
न्यूनताधिकभावोऽपि भवेदेव हि कर्मणा ।
वस्तुदानेन वस्तूनां समं पुण्यं दिने दिने ॥ ७९॥
दिनभेदे कोटिगुणमसङ्ख्यं वा ततोऽधिकम् ।
समे देशे च वस्तूनां दाने पुण्यं समं सुर ॥ ८०॥
देशभेदे कोटिगुणमसङ्ख्यं वा ततोऽधिकम् ।
समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ॥ ८१॥
पात्रभेदे शतगुणमसङ्ख्यं वा ततोऽधिकम् ।
यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ॥ ८२॥
कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ।
सामान्यदिवसे विप्रदानं समफलं भवेत् ॥ ८३॥
अमायां रविसङ्क्रान्त्यां फलं शतगुणं भवेत् ।
चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च ॥ ८४॥
ग्रहणे शशिनः कोटिगुणं च फलमेव च ।
सूर्यस्य ग्रहणे वापि ततो दशगुणं भवेत् ॥ ८५॥
अक्षयायामक्षयं तदसङ्ख्यं फलमुच्यते ।
एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिति ॥ ८६॥
यथा दाने तथा स्नाने जपेऽन्यपुण्यकर्मसु ।
एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥ ८७॥
यथा दण्डेन चक्रेण शरावेण भ्रमेण च ।
कुम्भं निर्माति निर्माता कुम्भकारो मृदा भुवि ॥ ८८॥
तथैव कर्मसूत्रेण फलं धाता ददाति च ।
यस्याज्ञया सृष्टमिदं तं च नारायणं भज ॥ ८९॥
स विधाता विधातुश्च पातुः पाता जगत्त्रये ।
स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः ॥ ९०॥
महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् ।
विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥ ९१॥
इत्येवमुक्त्वा तत्त्वज्ञः समालिङ्ग्य सुरेश्वरम् ।
दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ॥ ९२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
लक्ष्म्युत्पत्तिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ९.४०॥
९.४१ एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् ।
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १॥
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् ।
प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह ॥ २॥
वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति ।
प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः ॥ ३॥
ब्रह्मोवाच ।
वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ।
बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥ ४॥
मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् ।
कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत् ॥ ५॥
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ।
मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत् ॥ ६॥
जनः पैतृकदोषेण दोषान्मातामहस्य च ।
गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद् ध्रुवम् ॥ ७॥
सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः ।
यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ ८॥
मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्करः ।
विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ॥ ९॥
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः ।
आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत् ॥ १०॥
आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः ।
यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ ११॥
अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् ।
यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ १२॥
शिवेन पूजितं पादपद्मं पुष्पेण येन च ।
तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥ १३॥
तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् ।
सर्वेषां च सुराणां च तत्पूजापुरतो भवेत् ॥ १४॥
दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् ।
भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ १५॥
सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् ।
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥ १६॥
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् ।
एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह ॥ १७॥
तत्र गत्वा परब्रह्म भगवन्तं सनातनम् ।
दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा ॥ १८॥
ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् ।
शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम् ॥ १९॥
चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् ।
भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिवेष्टितम् ॥ २०॥
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ।
भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम् ॥ २१॥
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ।
रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः ॥ २२॥
स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् ।
रत्नभूषणशून्यं च वाहनादिविवर्जितम् ॥ २३॥
शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् ।
उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः ॥ २४॥
श्रीभगवानुवाच ।
मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते ।
दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥ २५॥
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् ।
हितं सत्यं सारभूतं परिणामसुखावहम् ॥ २६॥
जनाश्चासङ्ख्यविश्वस्था मदधीनाश्च सन्ततम् ।
यथा तथाहं मद्भक्तपराधीनोऽस्वतन्त्रकः ॥ २७॥
यं यं रुष्टो हि मद्भक्तो मत्परो हि निरङ्कुशः ।
तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ २८॥
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः ।
तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात् ॥ २९॥
यत्र शङ्खध्वनिर्नास्ति तुलसी न शिवार्चनम् ।
न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ ३०॥
मद्भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः ।
महारुष्टा महालक्ष्मीस्ततो याति पराभवम् ॥ ३१॥
मद्भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे ।
मम जन्मदिने वापि याति श्रीस्तद्गृहादपि ॥ ३२॥
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् ।
यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात् ॥ ३३॥
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः ।
पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः ॥ ३४॥
महारुष्टा ततो याति मन्दिरात्कमलालया ।
शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः ॥ ३५॥
याति रुष्टा तद्गृहाच्च देवाः कमलवासिनी ।
शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः ॥ ३६॥
तत्तोयपानभीता च कमला याति तद्गृहात् ।
अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः ॥ ३७॥
ब्राह्मणः शूद्रयाजी च याति देवी च तद्गृहात् ।
अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः ॥ ३८॥
तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् ।
निराशो ब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया ॥ ३९॥
सूर्योदये द्विजो भुङ्क्ते दिवास्वापी च ब्राह्मणः ।
दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया ॥ ४०॥
आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही ।
अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया ॥ ४१॥
स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः ।
शश्वद्वदति वाचालो याति सा तद्गृहात्सती ॥ ४२॥
शिरस्नातस्तु तैलेन योऽन्याङ्गं समुपस्पृशेत् ।
स्वाङ्गं च वादयेद्वाद्यं रुष्टा सा याति तद्गृहात् ॥ ४३॥
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः ।
विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया ॥ ४४॥
ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् ।
जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः ॥ ४५॥
यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा ।
तत्र तिष्ठति सा देवी सर्वमङ्गलमङ्गला ॥ ४६॥
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह ।
सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम् ॥ ४७॥
यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम् ।
तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति ॥ ४८॥
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् ।
दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ॥ ४९॥
विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् ।
अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥ ५०॥
इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः ।
क्षीरोदसागरे जन्म कलयाकलयेति च ॥ ५१॥
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च ।
मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥ ५२॥
इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने ।
देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥ ५३॥
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् ।
कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः ॥ ५४॥
धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् ।
नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्मीं सुदर्शनम् ॥ ५५॥
वनमालां ददौ सा च क्षीरोदशायिने मुने ।
सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ॥ ५६॥
देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च ।
ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात् ॥ ५७॥
प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्करम् ।
महालक्ष्मीप्रसादेन वरदानेन नारद ॥ ५८॥
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् ।
सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ९.४१॥
९.४२ द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।
नारद उवाच ।
हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।
ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ १॥
श्रीनारायण उवाच ।
स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।
घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ २॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ ३॥
आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् ।
पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ४॥
पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ ।
देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ ५॥
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।
ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ६॥
ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा ।
हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ ७॥
सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ ८॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ९॥
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ १०॥
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।
ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ ११॥
सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश ।
ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १२॥
प्रशस्तानि प्रकृष्टानि वराणि विविधानि च ।
अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा ॥ १३॥
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ।
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ॥ १४॥
पापेध्मवह्निरूपं च गृह्यतां कमलालये ।
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ १५॥
शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि ।
सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ १६॥
देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये ।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ १७॥
रत्नस्वर्णविकारं च देहभूषाविवर्धनम् ।
शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम् ॥ १८॥
सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् ।
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ १९॥
श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् ।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २०॥
जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् ।
प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ २१॥
नानोपहाररूपं च नानारससमन्वितम् ।
अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२॥
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।
तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ २३॥
शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् ।
स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ २४॥
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।
स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ २५॥
नानाविधानि रम्याणि पक्वान्नानि फलानि च ।
सुरभिस्तनसन्त्यक्तं सुस्वादु सुमनोहरम् ॥ २६॥
मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये ।
सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम् ॥ २७॥
अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् ।
यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ॥ २८॥
सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ।
सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ २९॥
मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् ।
शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ ३०॥
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ ३१॥
जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् ।
सुवासितं सुशीतं च पिपासानाशकारणम् ॥ ३२॥
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ।
देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ॥ ३३॥
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ।
रक्तस्वर्णविकारं च देहभूषादिवर्धनम् ॥ ३४॥
शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् ।
नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥ ३५॥
सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ।
शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम् ॥ ३६॥
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ।
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥ ३७॥
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ।
रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥ ३८॥
रत्नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् ।
यद्यद् द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥ ३९॥
देवभूषार्हभोग्यं च तद् द्रव्यं देवि गृह्यताम् ।
द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्गवः ॥ ४०॥
मूलं जजाप भक्त्या च दशलक्षं विधानतः ।
जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥ ४१॥
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः ।
लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी ॥ ४२॥
वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः ।
कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान् ॥ ४३॥
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ।
मङ्गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः ॥ ४४॥
प्रियव्रतोत्तानपादौ केदारो नृप एव च ।
एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद ॥ ४५॥
सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ ।
रत्नेन्द्रसारनिर्माणविमानस्था वरप्रदा ॥ ४६॥
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ।
श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ॥ ४७॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।
बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम् ॥ ४८॥
दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः ।
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ॥ ४९॥
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः ।
सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५०॥
पुरन्दर उवाच ।
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्यै नमो नमः ॥ ५१॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५२॥
सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ५३॥
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने ॥ ५४॥
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।
नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५५॥
वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५६॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ॥ ५७॥
अदितिर्देवमाता त्वं कमला कमलालया ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ५८॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ५९॥
क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६०॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ६१॥
सर्वेषां च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६२॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ ६३॥
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६४॥
सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ ६५॥
अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः ।
सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ ६६॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
प्रभावञ्च प्रतापं च सर्वाधिकारमेव च ॥ ६७॥
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ॥ ६८॥
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥ ६९॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥ ७०॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥ ७१॥
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥ ७२॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ७३॥
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ७४॥
सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ ७५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे महालक्ष्म्याः
ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिम्प्तोऽध्यायः ॥ ९.४२॥
९.४३ त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।
नारद उवाच ।
नारायण महाभाग नारायण महाप्रभो ।
रूपेणैव गुणेनैव यशसा तेजसा त्विषा ॥ १॥
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने ।
तपस्विनां मुनीनां च परो वेदविदांवर ॥ २॥
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् ।
अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम् ॥ ३॥
अतीव गोपनीयं यदुपयुक्तं च सर्वतः ।
अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम् ॥ ४॥
श्रीनारायण उवाच ।
नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ।
श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम् ॥ ५॥
तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि ।
तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥ ६॥
नारद उवाच ।
स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु ।
पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥ ७॥
एतासां चरितं जन्मफलं प्राधान्यमेव च ।
श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदांवर ॥ ८॥
सूत उवाच ।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः ।
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ ९॥
श्रीनारायण उवाच ।
सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा ।
ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम् ॥ १०॥
गत्वा निवेदनं चक्रुराहारहेतुकं मुने ।
ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम् ॥ ११॥
नारद उवाच ।
यज्ञरूपो हि भगवान् कलया च बभूव ह ।
यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः ॥ १२॥
श्रीनारायण उवाच ।
हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः ।
सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव ॥ १३॥
देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः ।
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ १४॥
ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ ।
पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया ॥ १५॥
प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी ।
अतीव सुन्दरी श्यामा रमणीया मनोहरा ॥ १६॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।
उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ १७॥
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् ।
प्रजापतिरुवाच ।
त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी ॥ १८॥
दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना ।
त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः ॥ १९॥
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ।
अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी ॥ २०॥
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके ।
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ॥ २१॥
तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् ।
स्वाहोवाच ।
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥ २२॥
ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च ।
विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः ॥ २३॥
बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् ।
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥ २४॥
प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् ।
ऋषयो मुनयश्चैव पूजिता यन्निषेवया ॥ २५॥
तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् ।
पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः ॥ २६॥
जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् ।
तपस्तेपे वर्षलक्षमेकपादेन पद्मजा ॥ २७॥
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ।
अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी ॥ २८॥
मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी ।
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह ॥ २९॥
समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् ।
श्रीभगवानुवाच ।
वाराहे वै त्वमंशेन मम पत्नी भविष्यसि ॥ ३०॥
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ।
अधुनाग्नेर्दाहिका त्वं भव पत्नी च भामिनी ॥ ३१॥
मन्त्राङ्गरूपा पूज्या च मत्प्रसादाद् भविष्यसि ।
वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम् ॥ ३२॥
रमिष्यति त्वया सार्धं रामया रमणीयया ।
इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद ॥ ३३॥
तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः ।
सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम् ॥ ३४॥
सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ।
तदा दिव्यं वर्षशतं स रेमे रामया सह ॥ ३५॥
अतीव निर्जने देशे सम्भोगसुखदे सदा ।
बभूव गर्भस्तस्यां च हुताशस्य च तेजसा ॥ ३६॥
तं दधार च सा देवी दिव्यं द्वादशवत्सरम् ।
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ॥ ३७॥
दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च ।
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ॥ ३८॥
स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे ।
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ॥ ३९॥
सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः ।
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ॥ ४०॥
पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् ।
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ॥ ४१॥
स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः ।
परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः ॥ ४२॥
स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च ।
इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम् ॥ ४३॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच ।
स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ॥ ४४॥
सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो ।
श्रीनारायण उवाच ।
ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम् ॥ ४५॥
वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर ।
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ॥ ४६॥
स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्यात्कलाप्तये ।
स्वाहां मन्त्राङ्गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम् ॥ ४७॥
सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् ।
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ॥ ४८॥
सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने शृणु ।
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ॥ ४९॥
यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद् ध्रुवम् ।
वह्निरुवाच ।
स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी ॥ ५०॥
शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा ।
गतिः सदा नराणां च दाहिका दहनक्षमा ॥ ५१॥
संसारसाररूपा च घोरसंसारतारिणी ।
देवजीवनरूपा च देवपोषणकारिणी ॥ ५२॥
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च ॥ ५३॥
नाङ्गहीनं भवेत्तस्य सर्वं कर्म सुशोभनम् ।
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ॥ ५४॥
रम्भोपमां स्वकान्तां च सम्प्राप्य सुखमाप्नुयात् ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
स्वाहोपाख्यानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ९.४३॥
९.४४ चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् ।
पितॄणां च तृप्तिकरं श्राद्धान्तफलवर्धनम् ॥ १॥
सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः ।
चतुरश्च मूर्तिमतस्त्रींश्च तेजःस्वरूपिणः ॥ २॥
दृष्ट्वा सप्तपितृगणान् सुखरूपान्मनोहरान् ।
आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम् ॥ ३॥
स्नानं तर्पणपर्यन्तं श्राद्धं तु देवपूजनम् ।
आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम् ॥ ४॥
नित्यं न कुर्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् ।
बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥ ५॥
देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् ।
भस्मान्तं सूतकं तस्य न कर्मार्हश्च नारद ॥ ६॥
ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे ।
न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥ ७॥
सर्वे च जग्मुः क्षुधिताः खिन्नास्तु ब्रह्मणः सभाम् ।
सर्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥ ८॥
ब्रह्मा च मानसीं कन्यां ससृजे च मनोहराम् ।
रूपयौवनसम्पन्नां शतचन्द्रनिभाननाम् ॥ ९॥
विद्यावतीं गुणवतीमतिरूपवतीं सतीम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ १०॥
विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् ।
स्वधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम् ॥ ११॥
शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् ।
पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥ १२॥
पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् ।
ब्राह्मणानां चोपदेशं चकार गोपनीयकम् ॥ १३॥
स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देयमित्यपि ।
क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥ १४॥
स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता ।
सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम् ॥ १५॥
पितरो देवता विप्रा मुनयो मनवस्तथा ।
पूजां चक्रुः स्वधां शान्तां तुष्टुवुः परमादरात् ॥ १६॥
देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः ।
विप्रादयश्च पितरः स्वधादेवीवरेण च ॥ १७॥
इत्येवं कथितं सर्वं स्वधोपाख्यानमेव च ।
सर्वेषां च तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ १८॥
नारद उवाच ।
स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने ।
श्रोतुमिच्छामि यत्नेन वद वेदविदांवर ॥ १९॥
श्रीनारायण उवाच ।
ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमङ्गलम् ।
सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये ॥ २०॥
शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे ।
स्वधां सम्पूज्य यत्नेन ततः श्राद्धं समाचरेत् ॥ २१॥
स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहम्मतिः ।
न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च ॥ २२॥
ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् ।
पूज्यां वै पितृदेवानां श्राद्धानां फलदां भजे ॥ २३॥
इति ध्यात्वा शिलायां वा ह्यथवा मङ्गले घटे ।
दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥ २४॥
ॐ ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामुने ।
समुच्चार्य तु सम्पूज्य स्तुत्वा तां प्रणमेद् द्विजः ॥ २५॥
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद ।
सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा ॥ २६॥
श्रीनारायण उवाच ।
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः ।
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ २७॥
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।
श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च ॥ २८॥
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः ।
स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः ॥ २९॥
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः ।
प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम् ॥ ३०॥
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी ।
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥ ३१॥
नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते ।
आविर्भावतिरोभावौ सृष्टौ च प्रलये तव ॥ ३२॥
ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा ।
निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः ॥ ३३॥
कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः ।
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ॥ ३४॥
तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह ।
तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ॥ ३५॥
तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ।
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः ।
स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात् ॥ ३६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः ॥ ९.४४॥
९.४५ पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।
वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय ॥ १॥
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।
राधा प्रधाना सध्रीची धन्या मान्या मनोहरा ॥ २॥
अतीव सुन्दरी रामा सुभगा सुदती सती ।
विद्यावती गुणवती चातिरूपवती सती ॥ ३॥
कलावती कोमलाङ्गी कान्ता कमललोचना ।
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता ॥ ४॥
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता ।
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ॥ ५॥
कामशास्त्रेषु निपुणा कामिनी हंसगामिनी ।
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ॥ ६॥
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ।
उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा ॥ ७॥
सम्बभूवानम्रमुखो भयेन मधुसूदनः ।
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम् ॥ ८॥
कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् ।
कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम् ॥ ९॥
वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् ।
विरोधभीतो भगवानन्तर्धानं चकार सः ॥ १०॥
पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् ।
विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया ॥ ११॥
विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः ।
पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः ॥ १२॥
रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः ।
ययुर्भयेन शरणं यस्याश्चरणपङ्कजे ॥ १३॥
त्रिलक्षकोटयो गोपाः सुदामादय एव च ।
ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥ १४॥
पलायन्तं च कान्तं च विज्ञाय परमेश्वरी ।
पलायन्तीं सहचरीं सुशीलां च शशाप सा ॥ १५॥
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।
सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ १६॥
इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा ।
रासेश्वरी रासमध्ये रासेशमाजुहाव ह ॥ १७॥
नालोक्य पुरतः कृष्णं राधा विरहकातरा ।
युगकोटिसमं मेने क्षणभेदेन सुव्रता ॥ १८॥
हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय ।
प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना ॥ १९॥
स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने ।
सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा ॥ २०॥
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः ।
परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा ॥ २१॥
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।
सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः ॥ २२॥
सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः ।
न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ २३॥
भरणादेव भर्ता च पालनात्पतिरुच्यते ।
शरीरेशाच्च स स्वामी कामदः कान्त उच्यते ॥ २४॥
बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः ।
ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ॥ २५॥
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥ २६॥
शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा ।
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ २७॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च ॥ २८॥
सर्वाण्येव व्रतादीनि महादानानि यानि च ।
उपोषणानि पुण्यानि यानि यानि श्रुतानि च ॥ २९॥
गुरुसेवा विप्रसेवा देवसेवादिकं च यत् ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३०॥
गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः ।
विद्यादाता यथा पुंसां कुलजानां तथा प्रियः ॥ ३१॥
गोपीनां लक्षकोटीनां गोपानां च तथैव च ।
ब्रह्माण्डानामसङ्ख्यानां तत्रस्थानां तथैव च ॥ ३२॥
विश्वादिगोलकान्तानामीश्वरी यत्प्रसादतः ।
अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ॥ ३३॥
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ स्वभक्तितः ।
रुरोद प्रेम्णा सा राधा नाथ नाथेति चाब्रवीत् ॥ ३४॥
दर्शनं देहि रमण दीना विरहदुःखिता ।
अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने ॥ ३५॥
सुचिरं च तपस्तप्त्वा विवेश कमलातनौ ।
अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ॥ ३६॥
नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ।
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिम् ॥ ३७॥
दध्यौ च सुचिरं भक्त्या प्रत्यादेशमवाप सः ।
नारायणश्च भगवान् महालक्ष्याश्च देहतः ॥ ३८॥
विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ ।
ब्रह्मा ददौ तां यज्ञाय पूरणार्थं च कर्मणाम् ॥ ३९॥
यज्ञः सम्पूज्य विधिवत्तां तुष्टाव तदा मुदा ।
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ॥ ४०॥
अतीव कमनीयां च सुन्दरीं सुमनोहराम् ।
कमलास्यां कोमलाङ्गीं कमलायतलोचनाम् ॥ ४१॥
कमलासनपूज्यां च कमलाङ्गसमुद्भवाम् ।
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ॥ ४२॥
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥ ४३॥
सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् ।
कस्तूरीबिन्दुभिः सार्धं सुगन्धिचन्दनेन्दुभिः ॥ ४४॥
सिन्दूरबिन्दुनाल्पेनाप्यलकाधःस्थलोज्ज्वलाम् ।
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ॥ ४५॥
कामदेवाधाररूपां कामबाणप्रपीडिताम् ।
तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ॥ ४६॥
पत्नीं तामेव जग्राह विधिबोधितपूर्वकम् ।
दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने ॥ ४७॥
यज्ञो रेमे मुदा युक्तो रामेशो रमया सह ।
गर्भं दधार सा देवी दिव्यं द्वादशवर्षकम् ॥ ४८॥
ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ।
परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः ॥ ४९॥
यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च ।
कर्मिणां फलदाता चेत्येवं वेदविदो विदुः ॥ ५०॥
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ।
फलं ददौ च सर्वेभ्यः कर्मणां चैव नारद ॥ ५१॥
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः ।
स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ॥ ५२॥
कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् ।
तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ॥ ५३॥
कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् ।
न दद्याद् ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥ ५४॥
मुहूर्ते समतीते तु द्विगुणा सा भवेद् ध्रुवम् ।
एकरात्रे व्यतीते तु भवेच्छतगुणा च सा ॥ ५५॥
त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः ।
मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते ॥ ५६॥
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ।
कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ॥ ५७॥
स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः ।
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ॥ ५८॥
तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ।
पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ॥ ५९॥
एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् ।
दत्तं न दीयते दानं ग्रहीता नैव याचते ॥ ६०॥
उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः ।
नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम् ॥ ६१॥
भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद् ध्रुवम् ।
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ॥ ६२॥
ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः ।
पातयेत्पुरुषान्सप्त पूर्वांश्च सप्त जन्मतः ॥ ६३॥
इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ।
नारद उवाच ।
यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ॥ ६४॥
पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ।
श्रीनारायण उवाच ।
कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ॥ ६५॥
सदक्षिणे कर्मणि च फलमेव प्रवर्तते ।
अदक्षिणं च यत्कर्म तद्भुङ्क्ते च बलिर्मुने ॥ ६६॥
बलये तत्प्रदत्तं च वामनेन पुरा मुने ।
अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च ॥ ६७॥
वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ।
असद्द्विजैः कृतं यज्ञमशुचेः पूजनं च यत् ॥ ६८॥
गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः ।
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ॥ ६९॥
तत्सर्वं कण्वशाखोक्तं प्रवक्ष्यामि निशामय ।
पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम् ॥ ७०॥
मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः ।
यज्ञ उवाच ।
पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा ॥ ७१॥
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया ।
कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ॥ ७२॥
आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा ।
पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने ॥ ७३॥
लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा ।
गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता ॥ ७४॥
कृपां कुरु महाभागे मामेव स्वामिनं कुरु ।
कर्मिणां कर्मणां देवी त्वमेव फलदा सदा ॥ ७५॥
त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् ।
त्वया विना तथा कर्म कर्मिणां च न शोभते ॥ ७६॥
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७७॥
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ७८॥
फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा ।
स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह ॥ ७९॥
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ ८०॥
इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता ।
तुष्टा बभूव सा देवी भेजे तं कमलाकला ॥ ८१॥
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।
फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः ॥ ८२॥
राजसूये वाजपेये गोमेधे नरमेधके ।
अश्वमेधे लाङ्गले च विष्णुयज्ञे यशस्करे ॥ ८३॥
धनदे भूमिदे पूर्ते फलदे गजमेधके ।
लोहयज्ञे स्वर्णयज्ञे रत्नयज्ञेऽथ ताम्रके ॥ ८४॥
शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धुके ।
वृष्टौ वरुणयागे च कण्डके वैरिमर्दने ॥ ८५॥
शुचियज्ञे धर्मयज्ञेऽध्वरे च पापमोचने ।
ब्रह्माणीकर्मयागे च योनियागे च भद्रके ॥ ८६॥
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् ।
निर्विघ्नेन च तत्कर्म सर्वं भवति निश्चितम् ॥ ८७॥
इदं स्तोत्रं च कथितं ध्यानं पूजाविधिं शृणु ।
शालग्रामे घटे वापि दक्षिणां पूजयेत्सुधीः ॥ ८८॥
लक्ष्मीदक्षांससम्भूतां दक्षिणां कमलाकलाम् ।
सर्वकर्मसुदक्षां च फलदां सर्वकर्मणाम् ॥ ८९॥
विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् ।
शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे ॥ ९०॥
ध्यात्वानेनैव वरदां मूलेन पूजयेत्सुधीः ।
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेनैव नारद ॥ ९१॥
ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ।
पूजयेद्विधिवद् भक्त्या दक्षिणां सर्वपूजिताम् ॥ ९२॥
इत्येवं कथितं ब्रह्मन् दक्षिणाख्यानमेव च ।
सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ॥ ९३॥
इदं च दक्षिणाख्यानं यः शृणोति समाहितः ।
अङ्गहीनं च तत्कर्म न भवेद्भारते भुवि ॥ ९४॥
अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ।
भार्याहीनो लभेद्भार्यां सुशीलां सुन्दरीं पराम् ॥ ९५॥
वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ।
पतिव्रतां च शुद्धां च कुलजां च वधूं वराम् ॥ ९६॥
विद्याहीनो लभेद्विद्यां धनहीनो लभेद्धनम् ।
भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाम् ॥ ९७॥
सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ।
मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः ॥ ९८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
दक्षिणोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ९.४५॥
९.४६ षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।
नारद उवाच ।
अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् ।
अन्यासां चरितं ब्रह्मन् वद वेदविदांवर ॥ १॥
श्रीनारायण उवाच ।
सर्वासां चरितं विप्र वेदेषु च पृथक्पृथक् ।
पूर्वोक्तानां च देवीनां कासां श्रोतुमिहेच्छसि ॥ २॥
नारद उवाच ।
षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला ।
उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥ ३॥
श्रीनारायण उवाच ।
षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता ।
बालकानामधिष्ठात्री विष्णुमाया च बालदा ॥ ४॥
मातृकासु च विख्याता देवसेनाभिधा च या ।
प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता ॥ ५॥
आयुःप्रदा च बालानां धात्री रक्षणकारिणी ।
सततं शिशुपार्श्वस्था योगेन सिद्धियोगिनी ॥ ६॥
तस्याः पूजाविधिं ब्रह्मनितिहासमिदं शृणु ।
यच्छ्रुतं धर्मवक्येण सुखदं पुत्रदं परम् ॥ ७॥
राजा प्रियव्रतश्चासीत्स्वायम्भुवमनोः सुतः ।
योगीन्द्रो नोद्वहद्भार्यां तपस्यासु रतः सदा ॥ ८॥
ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह ।
सुचिरं कृतदारश्च न लेभे तनयं मुने ॥ ९॥
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः ।
मालिन्यं तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥ १०॥
भुक्त्वा च तं चरुं तस्याः सद्यो गर्भो बभूव ह ।
दधार तं च सा देवी दैवं द्वादशवत्सरम् ॥ ११॥
ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् ।
सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ॥ १२॥
तं दृष्ट्वा रुरुदुः सर्वा नार्यश्च बान्धवस्त्रियः ।
मूर्च्छामवाप तन्माता पुत्रशोकेन भूयसा ॥ १३॥
श्मशानं च ययौ राजा गहीत्वा बालकं मुने ।
रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ॥ १४॥
नोत्सृजद् बालकं राजा प्राणांस्त्यक्तुं समुद्यतः ।
ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ॥ १५॥
एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः ।
शुद्धस्फटिकसङ्काशं मणिराजविनिर्मितम् ॥ १६॥
तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा ।
नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम् ॥ १७॥
ददर्श तत्र देवीं च कमनीयां मनोहराम् ।
श्वेतचम्पकवर्णाभां शश्वत्सुस्थिरयौवनाम् ॥ १८॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।
कृपामयीं योगसिद्धां भक्तानुग्रहकातराम् ॥ १९॥
दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् ।
चकार पूजनं तस्या विहाय बालकं भुवि ॥ २०॥
पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम् ।
तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद ॥ २१॥
राजोवाच ।
का त्वं सुशोभने कान्ते कस्य कान्तासि सुव्रते ।
कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ २२॥
नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलचण्डिका ।
उवाच देवसेना सा देवानां रणकारिणी ॥ २३॥
देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा ।
जयं ददौ सा तेभ्यश्च देवसेना च तेन सा ॥ २४॥
श्रीदेवसेनोवाच ।
ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी ।
सृष्ट्वा तां मनसा धाता ददौ स्कन्दाय भूमिप ॥ २५॥
मातृकासु च विख्याता स्कन्दभार्या च सुव्रता ।
विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेः परा ॥ २६॥
अपुत्राय पुत्रदाहं प्रियादात्री प्रियाय च ।
धनदाहं दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा ॥ २७॥
सुखं दुःखं भयं शोको हर्षो मङ्गलमेव च ।
सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ॥ २८॥
कर्मणा बहुपुत्रश्च वंशहीनः स्वकर्मणा ।
कर्मणा मृतपुत्रश्च कर्मणा चिरजीवनः ॥ २९॥
कर्मणा गुणवांश्चैव कर्मणा चाङ्गहीनकः ।
कर्मणा बहुभार्यश्च भार्याहीनश्च कर्मणा ॥ ३०॥
कर्मणा रूपवान्धर्मी रोगी शश्वत्स्वकर्मणा ।
कर्मणा च भवेद्व्याधिः कर्मणाऽऽरोग्यमेव च ॥ ३१॥
तस्मात्कर्म परं राजन् सर्वेभ्यश्च श्रुतौ श्रुतम् ।
इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ॥ ३२॥
महाज्ञानेन सा देवी जीवयामास लीलया ।
राजा ददर्श तं बालं सस्मितं कनकप्रभम् ॥ ३३॥
देवसेना च पश्यन्तं नृपमापृच्छ्य सा तदा ।
गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ॥ ३४॥
पुनस्तुष्टाव तां राजा शुष्ककण्ठोष्ठतालुकः ।
नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ॥ ३५॥
उवाच तं नृपं ब्रह्मन् वेदोक्तं कर्मनिर्मितम् ।
देव्युवाच ।
त्रिषु लोकेषु त्वं राजा स्वायम्भुवमनोः सुतः ॥ ३६॥
मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु ।
तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम् ॥ ३७॥
सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् ।
जातिस्मरं च योगीन्द्रं नारायणकलात्मकम् ॥ ३८॥
शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम् ।
मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम् ॥ ३९॥
धनिनं गुणिनं शुद्धं विदुषां प्रियमेव च ।
योगिनां ज्ञानिनां चैव सिद्धिरूपं तपस्विनाम् ॥ ४०॥
यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् ।
इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ ॥ ४१॥
राजा चकार स्वीकारं पूजार्थं च प्रियव्रतः ।
जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् ॥ ४२॥
आजगाम सहामात्यः स्वगृहं हृष्टमानसः ।
आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम् ॥ ४३॥
श्रुत्वा बभूवुः सन्तुष्टा नरा नार्यश्च नारद ।
मङ्गलं कारयामास सर्वत्र पुत्रहेतुकम् ॥ ४४॥
देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ ।
राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ॥ ४५॥
षष्ट्या देव्याश्च यत्नेन कारयामास सर्वतः ।
बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम् ॥ ४६॥
तत्पूजां कारयामास चैकविंशतिवासरे ।
बालानां शुभकार्ये च शुभान्नप्राशने तथा ॥ ४७॥
सर्वत्र वर्धयामास स्वयमेव चकार ह ।
ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय ॥ ४८॥
यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत ।
शालग्रामे घटे वाथ वटमूलेऽथवा मुने ॥ ४९॥
भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः ।
षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम् ॥ ५०॥
सुपुत्रदां च शुभदा दयारूपां जगत्प्रसूम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ ५१॥
पवित्ररूपां परमां देवसेनां परां भजे ।
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ॥ ५२॥
पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम् ।
पाद्यार्घ्याचमनीयैश्च गन्धपुष्पप्रदीपकैः ॥ ५३॥
नैवेद्यैर्विविधैश्चापि फलेन शोभनेन च ।
ॐ ह्रीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम् ॥ ५४॥
अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः ।
ततः स्तुत्वा च प्रणमेद्भक्तियुक्तः समाहितः ॥ ५५॥
स्तोत्रं च सामवेदोक्तं वरं पुत्रफलप्रदम् ।
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेत्ततः ॥ ५६॥
सुपुत्रं स लभेन्नूनमित्याह कमलोद्भवः ।
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ॥ ५७॥
वाञ्छाप्रदं च सर्वेषां गूढं वेदेषु नारद ।
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ॥ ५८॥
शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः ।
वरदायै पुत्रदायै धनदायै नमो नमः ॥ ५९॥
सुखदायै मोक्षदायै षष्ठ्यै देव्यै नमो नमः ।
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ॥ ६०॥
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ।
सारायै शारदायै च परादेव्यै नमो नमः ॥ ६१॥
बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥ ६२॥
प्रत्यक्षायै स्वभक्तानां षष्ठ्यै देव्यै नमो नमः ।
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥ ६३॥
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ।
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥ ६४॥
हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ।
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥ ६५॥
मानं देहि जयं देहि द्विषो जहि महेश्वरि ।
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥ ६६॥
देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ ६७॥
इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ।
यशस्विनं च राजेन्द्रः षष्ठीदेव्याः प्रसादतः ॥ ६८॥
षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृणोति तु वत्सरम् ।
अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥ ६९॥
वर्षमेकं च यो भक्त्या सम्पूज्येदं शृणोति च ।
सर्वपापाद्विनिर्मुक्तो महावन्ध्या प्रसूयते ॥ ७०॥
वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।
सुचिरायुष्यवन्तं च सूते देवीप्रसादतः ॥ ७१॥
काकवन्ध्या च या नारी मृतवत्सा च या भवेत् ।
वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ॥ ७२॥
रोगयुक्ते च बाले च पिता माता शृणोति चेत् ।
मासेन मुच्यते बालः षष्ठीदेवीप्रसादतः ॥ ७३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
षष्ठ्युपाख्यानवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ९.४६॥
९.४७ सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।
देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ १॥
तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २॥
दक्षा या वर्तते चण्डी कल्याणेषु च मङ्गला ।
मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥ ३॥
पूज्या या वर्तते चण्डी मङ्गलोऽपि महीसुतः ।
मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥ ४॥
मङ्गलो मनुवंश्यश्च सप्तद्वीपधरापतिः ।
तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका ॥ ५॥
मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ ६॥
प्रथमे पूजिता सा च शङ्करेण परात्परा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ७॥
ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्कटे ।
आकाशात्पतिते याने दैत्येन पातिते रुषा ॥ ८॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।
सा च मङ्गलचण्डी या बभूव रूपभेदतः ॥ ९॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ।
भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥ १०॥
युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः ।
मायात्मना च हरिणा सहायेन वृषध्वज ॥ ११॥
जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् ।
इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ १२॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ १३॥
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः ।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ १४॥
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ।
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा ॥ १५॥
पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् ।
पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि ॥ १६॥
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ।
छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा ॥ १७॥
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ।
मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि ॥ १८॥
सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः ।
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम् ॥ १९॥
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ।
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ॥ २०॥
हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः ।
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥ २१॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् ।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥ २२॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २३॥
श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ २४॥
संसारसागरे घोरे ज्योतीरूपां सदा भजे ।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥ २५॥
महादेव उवाच ।
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥ २६॥
हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके ।
शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ॥ २७॥
मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।
सतां मङ्गदे देवि सर्वेषां मङ्गलालये ॥ २८॥
पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ २९॥
मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले ।
संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ॥ ३०॥
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये मङ्गसुखप्रदे ॥ ३१॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां दत्त्वा गतः शिवः ॥ ३२॥
प्रथमे पूजिता देवी शिवेन सर्वमङ्गला ।
द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च ॥ ३३॥
तृतीते पूजिता भद्रा मङ्गलेन नृपेण च ।
चतुर्थे मङ्गले वारे सुन्दरीभिः प्रपूजिता ॥ ३४॥
पञ्चमे मङ्गलाकाङ्क्षिनरैर्मङ्गलचण्डिका ।
पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ ३५॥
ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी ।
देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने ॥ ३६॥
देव्याश्च मङ्गस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्गलं भवेत्तस्य न भवेत्तदमङ्गलम् ।
वर्धते पुत्रपौत्रैश्च मङ्गलं च दिने दिने ॥ ३७॥
श्रीनारायण उवाच ।
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् ।
श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः ॥ ३८॥
सा च कन्या भगवती कश्यपस्य च मानसी ।
तेनैव मनसा देवी मनसा या च दीव्यति ॥ ३९॥
मनसा ध्यायते या च परमात्मानमीश्वरम् ।
तेन सा मनसा देवी तेन योगेन दीव्यति ॥ ४०॥
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ ४१॥
जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः ।
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ ४२॥
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ।
पूजां च कारयामास चकार च स्वयं प्रभुः ॥ ४३॥
स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ।
भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४
जगद्गौरीति विख्याता तेन सा पूजिता सती ।
शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता ॥ ४५॥
विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता ।
नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च ॥ ४६॥
नागेश्वरीति विख्याता सा नागभगिनीति च ।
विषं संहर्तुमीशा या तेन विषहरी स्मृता ॥ ४७॥
सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी ।
महाज्ञानं च योगं च मृतसज्जीवनीं पराम् ॥ ४८॥
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ।
आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी ॥ ४९॥
आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता ।
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ॥ ५०॥
योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ।
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ॥ ५१॥
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।
जरत्कारुप्रियास्तीकमाता विषहरेति च ॥ ५२॥
महाज्ञानयुता चैव सा देवी विश्वपूजिता ।
द्वादशैतानि नामानि पूजाकाले तु यः पठेत् ॥ ५३॥
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।
नागभीते च शयने नागग्रस्ते च मन्दिरे ॥ ५४॥
नागशोभे महादुर्गे नागवेष्टितविग्रहे ।
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥ ५५॥
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ।
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ५६॥
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ।
नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः ॥ ५७॥
नागासनो नागतल्पो महासिद्धो भवेन्नरः ।
अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् ॥ ५८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
मङ्गलचण्डीमनसयोरुपाख्यानवर्णनं
नाम सप्तचत्वारिंशोऽध्यायः ॥ ९.४७॥
९.४८ अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्गव ।
ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ १॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ २॥
महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् ।
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३॥
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।
नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः ॥ ४॥
मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः ।
मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥ ५॥
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७॥
ब्रह्मन्स्नात्वा तु सङ्क्रान्त्यां गूढशालासु यत्नतः ।
आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ॥ ८॥
पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् ।
धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद् ध्रुवम् ॥ ९॥
पूजाविधानं कथितं तदाख्यानं निशामय ।
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ १०॥
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।
गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्गवम् ॥ ११॥
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः ।
वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ १२॥
मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा ।
तपसा मनसा तेन बभूव मनसा च सा ॥ १३॥
कुमारी सा च सम्भूता जगाम शङ्करालयम् ।
भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ १४॥
दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता ।
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६॥
लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः ।
त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ १७॥
पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ।
प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता ॥ १८॥
जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ १९॥
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ।
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ॥ २०॥
पूजां च कारयामास चकार च स्वयं हरिः ।
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥ २१॥
वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः ।
प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥ २२॥
द्वितीये शङ्करेणैव कश्यपेन सुरेण च ।
मुनिना मनुना चैव नागेन मानवादिभिः ॥ २३॥
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ।
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥ २४॥
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥ २५॥
सुष्वाप देव्या जघने वटमूले च पुष्करे ।
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥ २६॥
जगामास्तं दिनकरः सायङ्काल उपस्थिते ।
सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता ॥ २७॥
धर्मलोपभयेनैव चकारालोचनं सती ।
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम् ॥ २८॥
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ।
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ २९॥
स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ।
वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी ॥ ३०॥
स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भृशं मुने ।
मुनिरुवाच ।
कथं मे सुखिनः साध्वि निद्राभङ्गः कृतस्त्वया ॥ ३१॥
व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी ।
तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥ ३२॥
भर्तुरप्रियकारिण्याः सर्वं भवति निष्कलम् ।
यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ॥ ३३॥
पतिव्रताव्रतार्थञ्च पतिरूपो हरिः स्वयम् ।
सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम् ॥ ३४॥
सर्वं व्रतं तपः सर्वमुपवासादिकं च यत् ।
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ॥ ३५॥
तत्सर्वं स्वामिसेवायाः कलां नार्हति षोडशीम् ।
पुण्ये च भारते वर्षे पतिसेवा करोति या ॥ ३६॥
वैकुण्ठे स्वामिना सार्धं सा याति ब्रह्मणः पदम् ।
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥ ३७॥
असत्कुले प्रसूता हि तत्फलं श्रूयतां सति ।
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ॥ ३८॥
ततो भवति चाण्डाली पतिपुत्रविवर्जिता ।
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ॥ ३९॥
चकम्पे तेन सा साध्वी भयेनोवाच तं पतिम् ।
साध्व्युवाच ।
सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ॥ ४०॥
कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत ।
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति वै ॥ ४१॥
स व्रजेत्कालसूत्रं वै यावच्चन्द्रदिवाकरौ ।
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ॥ ४२॥
पपात भक्त्या भीता च रुरोद च पुनः पुनः ।
कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम् ॥ ४३॥
तत्राजगाम भगवान्सन्ध्यया सह नारद ।
तत्रागत्य मुनिं सम्यगुवाच भास्करः स्वयम् ॥ ४४॥
विनयेन च भीतश्च तया सह यथोचितम् ।
भास्कर उवाच ।
सूर्यास्तसमयं दृष्ट्वा साध्वी धर्मभयेन च ॥ ४५॥
बोधयामास त्वां विप्र शरणं त्वामहं गतः ।
क्षमस्व भगवन्ब्रह्मन् मां शप्तुं नोचितं मुने ॥ ४६॥
ब्राह्मणानां च हृदयं नवनीतसमं सदा ।
तेषां क्षणार्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥ ४७॥
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ।
ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा ॥ ४८॥
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् ।
सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ॥ ४९॥
सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥ ५०॥
रुदतीं शोकसंयुक्तां हृदयेन विदूयता ।
सा सस्मार गुरुं शम्भुमिष्टदेवं विधिं हरिम् ॥ ५१॥
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ।
तत्राजगाम गोपीशो भगवाच्छम्भुरेव च ॥ ५२॥
विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ।
दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ॥ ५३॥
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ।
नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ॥ ५४॥
कथमागमनं देवा इति प्रश्नं चकार सः ।
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ॥ ५५॥
प्रत्युवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ।
यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती ॥ ५६॥
कुरुष्वास्यां सुतोत्पत्तिं स्वधर्मपालनाय वै ।
जायायां च सुतोत्पत्तिं कृत्वा पश्चात्त्यजेन्मुने ॥ ५७॥
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ।
स्रवते तस्य पुण्यं च चालन्यां च यथा जलम् ॥ ५८॥
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।
चकार नाभिसंस्पर्शं योगेन मन्त्रपूर्वकम् ॥ ५९॥
मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ।
जरत्कारुरुवाच ।
गर्भेणानेन मनसे तव पुत्रो भविष्यति ॥ ६०॥
जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः ।
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥ ६१॥
वरो वेदविदां चैव ज्ञानिनां योगिनां तथा ।
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ॥ ६२॥
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ।
पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ॥ ६३॥
धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका ।
हरिभक्तिप्रदो बन्धुर्न चाभीष्टसुखप्रदः ॥ ६४॥
यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः ।
सा गर्भधारिणी या च गर्भावासविमोचनी ॥ ६५॥
दयारूपा च भगिनी यमभीतिविमोचनी ।
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ ६६॥
गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् ।
आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम् ॥ ६७॥
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।
वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥ ६८॥
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ।
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥ ६९॥
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ।
विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः ॥ ७०॥
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ।
जननीं गर्भजक्लेशाद्यमयातनया तथा ॥ ७१॥
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ।
परमानन्दरूपं च कृष्णमार्गमनश्वरम् ॥ ७२॥
न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् ।
भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ॥ ७३॥
निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया ।
मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये ॥ ७४॥
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते ।
पुष्करे तपसे यामि गच्छ देवि यथासुखम् ॥ ७५॥
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ।
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥ ७६॥
साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् ।
मनसोवाच ।
दोषो नास्त्येव मे त्यक्तुं निद्राभङ्गेन ते प्रभो ॥ ७७॥
यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि ।
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम् ॥ ७८॥
प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः ।
पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः ॥ ७९॥
सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ।
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ॥ ८०॥
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।
क्षुधितानां यथान्ने च कामुकानां च मैथुने ॥ ८१॥
यथा परस्वे चौराणां यथा जारे कुयोषिताम् ।
विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा ॥ ८२॥
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥ ८३॥
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ।
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ॥ ८४॥
साश्रु नेत्रा मुनेः क्रोडं सिषेच भेदकातरा ।
तदा ज्ञानेन तौ द्वौ च विशोकौ सम्बभूवतुः ॥ ८५॥
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ।
जगाम तपसे विप्रः स्वकान्तां सम्प्रबोध्य च ॥ ८६॥
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ।
पार्वती बोधयामास मनसां शोककर्शिताम् ॥ ८७॥
शिवश्चातीव ज्ञानेन शिवेन च शिवालयः ।
सुप्रशस्ते दिने साध्वी सुषुवे मङ्गलक्षणे ॥ ८८॥
नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम् ।
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ॥ ८९॥
सम्बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः ।
जातकं कारयामास वाचयामास मङ्गलम् ॥ ९०॥
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ।
मणिरत्नकिरीटांश्च ब्राह्मणेभ्यो ददौ शिवः ॥ ९१॥
पार्वती च गवां लक्षं रत्नानि विविधानि च ।
शम्भुश्च चतुरो वेदान्वेदाङ्गानितरांस्तथा ॥ ९२॥
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ।
भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा ॥ ९३॥
यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ।
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ॥ ९४॥
सम्प्राप्य च महामन्त्रं ततश्च परमात्मनः ।
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥ ९५॥
आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् ।
शङ्करं च नमस्कृत्य स्थित्वा तत्रैव बालकः ॥ ९६॥
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ।
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ॥ ९७॥
शतलक्षं च रत्नानां बाह्मणेभ्यो ददौ मुने ।
ब्राह्मणान्भोजयामास सोऽसङ्ख्यान् श्रेयसे शिशोः ॥ ९८॥
अदितिश्च दितिश्चान्या मुदं प्राप परन्तप ।
सा सपुत्रा च सुचिरं तस्थौ तातालये सदा ॥ ९९॥
तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय ।
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥ १००॥
बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा ।
सप्ताहे समतीते तु तक्षकस्त्वां च धक्ष्यति ॥ १०१॥
शशाप शृङ्गी तत्रैव कौशिक्याश्च जलेन वै ।
राजा श्रुत्वा तत्प्रवृत्तिं निर्वातस्थानमागतः ॥ १०२॥
तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः ।
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ॥ १०३॥
धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि ।
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥ १०४॥
धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ ।
स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः ॥ १०५॥
तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् ।
राजा जगाम तरसा देहं त्यक्त्वा परत्र च ॥ १०६॥
संस्कारं कारयामास पितुर्वै जनमेजयः ।
राजा चकार यज्ञं च सर्पसत्रं ततो मुने ॥ १०७॥
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ।
स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ ॥ १०८॥
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ।
अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम् ॥ १०९॥
तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः ।
तत आस्तीक आगत्य यज्ञं च मातुराज्ञया ॥ ११०॥
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् ।
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ॥ १११॥
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ।
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ॥ ११२॥
मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् ।
शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ॥ ११३॥
मनसां पूजयामास तुष्टाव परमादरात् ।
नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा ॥ ११४॥
प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया ।
सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते ॥ ११५॥
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच ।
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥ ११६॥
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ।
श्रीनारायण उवाच ।
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥ ११७॥
रत्नसिंहासने देवीं वासयामास भक्तितः ।
स्वर्गङ्गाया जलेनैव रत्नकुम्भस्थितेन च ॥ ११८॥
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ।
वाससी वासयामास वह्मिशुद्धे मनोहरे ॥ ११९॥
सर्वाङ्गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ १२०॥
सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् ।
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥ १२१॥
दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् ।
दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः ॥ १२२॥
पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा ।
वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥ १२३॥
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ।
देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया ॥ १२४॥
तुष्टाव साश्रुनेत्रश्च पुलकाङ्कितविग्रहः ।
पुरन्दर उवाच ।
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ॥ १२५॥
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ।
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ॥ १२६॥
न क्षमः प्रकृते वक्तुं गुणानां गणनां तव ।
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता ॥ १२७॥
न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः ।
त्वं मया पूजिता साध्वी जननी मे यथादितिः ॥ १२८॥
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ।
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ॥ १२९॥
अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा ।
नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके ॥ १३०॥
तथापि तव पूजां च वर्धयामि सुरेश्वरि ।
ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ॥ १३१॥
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ।
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै ॥ १३२॥
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ।
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ॥ १३३॥
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ।
त्वं स्वयं सर्वलक्ष्मीश्च वैकुण्ठे कमलालया ॥ १३४॥
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ।
तपसा तेजसा त्वां च मनसा ससृजे पिता ॥ १३५॥
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ।
मनसादेवि शक्त्या त्वं स्वात्मना सिद्धयोगिनी ॥ १३६॥
तेन त्वं मनसादेवी पूजिता वन्दिता भव ।
ये भक्त्या मनसां देवाः पूजयन्त्यनिशं भृशम् ॥ १३७॥
तेन त्वां मनसां देवीं प्रवदन्ति मनीषिणः ।
सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात् ॥ १३८॥
यो हि त्वां भावयेन्नित्यं स त्वां प्राप्नोति तत्परः ।
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीवरम् ॥ १३९॥
प्रजगाम स्वभवनं भूषया सपरिच्छदम् ।
पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ॥ १४०॥
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः ।
गोलोकात्सुरभिर्ब्रह्मन् तत्रागत्य सुपूजिताम् ॥ १४१॥
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ।
ज्ञानं च कथयामास गोप्यं सर्वं सुदुर्लभम् ॥ १४२॥
तया देवैः पूजिता सा स्वर्लोकं च पुनर्ययौ ।
इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत् ॥ १४३॥
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ॥ १४४॥
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १४५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
मनसोपाख्यानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ९.४८॥
९.४९ एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।
नारद उवाच ।
का वा सा सुरभिर्देवी गोलोकादागता च या ।
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः ॥ १॥
श्रीनारायणाय उवाच ।
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।
गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा ॥ २॥
सर्वादिसृष्टेश्चरितं कथयामि निशामय ।
बभूव तेन तज्जन्म पुरा वृन्दावने वने ॥ ३॥
एकदा राधिकानाथो राधया सह कौतुकी ।
गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ ४॥
सहसा तत्र रहसि विजहार स कौतुकात् ।
बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च ॥ ५॥
ससृजे सुरभिं देवीं लीलया वामपार्श्वतः ।
वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः ॥ ६॥
दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च ।
क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम् ॥ ७॥
तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् ।
सरो बभूव पयसां भाण्डविस्रंसनेन च ॥ ८॥
दीर्घं च विस्तृतं चैव परितः शतयोजनम् ।
गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः ॥ ९॥
गोपिकानां च राधायाः क्रीडावापी बभूव सा ।
रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया ॥ १०॥
बभूव कामधेनूनां सहसा लक्षकोटयः ।
यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः ॥ ११॥
तासां पुत्राश्च बहवः सम्बभूवुरसङ्ख्यकाः ।
कथिता च गवां सृष्टिस्तया च पूरितं जगत् ॥ १२॥
पूजां चकार भगवान् सुरभ्याश्च पुरा मुने ।
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥ १३॥
दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः ।
बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम् ॥ १४॥
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् ।
वेदोक्तं च महाभाग निबोध कथयामि ते ॥ १५॥
ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः ।
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥ १६॥
ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः ।
ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा ॥ १७॥
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥ १८॥
पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् ।
यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे ॥ १९॥
घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि ।
शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः ॥ २०॥
दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः ।
यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि ॥ २१॥
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।
क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः ॥ २२॥
ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा ।
तदाज्ञया च सुरभिं तुष्टाव पाकशासनः ॥ २३॥
पुरन्दर उवाच ।
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ २४॥
नमो राधाप्रियायै च पद्मांशायै नमो नमः ।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥ २५॥
कल्पवृक्षस्वरूपायै सर्वेषां सततं परे ।
क्षीरदायै धनदायै बुद्धिदायै नमो नमः ॥ २६॥
शुभायै च सुभद्रायै गोप्रदायै नमो नमः ।
यशोदायै कीर्तिदायै धर्मदायै नमो नमः ॥ २७॥
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ २८॥
महेन्द्राय वरं दत्त्वा वाञ्छितं चापि दुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ २९॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।
दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ३०॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
स गोमान् धनवांश्चैव कीर्तिमान्पुत्रवांस्तथा ॥ ३१॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरे ॥ ३२॥
सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् ।
न पुनर्भवनं तत्र ब्रह्मपुत्रो भवेत्ततः ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे सुरभ्युपाख्यानवर्णनं
नामेकोनपञ्चाशत्तमोऽध्यायः ॥ ९.४९॥
९.५० पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।
नारद उवाच ।
श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् ।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १॥
अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् ।
राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम् ॥ २॥
महिमा वर्णितोऽतीव भवता परयोर्द्वयोः ।
श्रुत्वा तं तद्गतं चेतो न कस्य स्यान्मुनीश्वर ॥ ३॥
ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् ।
ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना ॥ ४॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् ।
यन्न कस्यापि चाख्यातं सारात्सारं परात्परम् ॥ ५॥
श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् ।
मूलप्रकृतिरूपिण्याः संविदो जगदुद्भवे ॥ ६॥
प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् ।
जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा ॥ ७॥
तदधीनं जगत्सर्वं विराडादिचराचरम् ।
यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः ॥ ८॥
ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् ।
तत्रादौ राधिकामन्त्रं शृणु नारद भक्तितः ॥ ९॥
ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः ।
श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १०॥
षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः ।
मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ ११॥
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ १२॥
जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः ।
उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ १३॥
विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा ।
तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ १४॥
अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः ।
ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ १५॥
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना ।
वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ १६॥
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः ।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ १७॥
राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता ।
अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च ॥ १८॥
छन्दश्च देवी गायत्री देवतात्र च राधिका ।
तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १९॥
मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च ।
अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ २०॥
पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया ।
श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ २१॥
कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् ।
बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ २२॥
कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् ।
क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ २३॥
ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् ।
सदा द्वादशवर्षीयां रत्नभूषणभूषिताम् ॥ २४॥
शृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् ।
मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ २५॥
सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् ।
वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ २६॥
रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् ।
कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ २७॥
एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा ।
यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः ॥ २८॥
आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् ।
मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २९॥
पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् ।
मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ ३०॥
मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् ।
ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ ३१॥
अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी ।
ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम् ॥ ३२॥
पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः ।
पारिजातप्रसूनानि शतपत्रादिकानि च ॥ ३३॥
ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः ।
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ ३४॥
कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः ।
मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ ३५॥
रत्नमालां दक्षिणे च नैरृत्ये तु सुशीलकाम् ।
पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ ३६॥
मारुते पारिजातां चाप्युत्तरे च परावतीम् ।
ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ ३७॥
ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे ।
वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ ३८॥
ततो देवीं सावरणां गन्धाद्यैरुपचारकैः ।
राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ ३९॥
ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः ।
सहस्रसङ्ख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥ ४०॥
य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् ।
स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ ४१॥
यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः ।
कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥ ४२॥
केनचित्कारणेनैव राधा वृन्दावने वने ।
वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ ४३॥
अत्रोक्तानां तु मन्त्राणां वर्णसङ्ख्याविधानतः ।
पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ ४४॥
तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः ।
नारद उवाच ।
स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ ४५॥
श्रीनारायण उवाच ।
नमस्ते परमेशानि रासमण्डलवासिनि ।
रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ ४६॥
नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे ।
ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ ४७॥
नमः सरस्वतीरूपे नमः सावित्रि शङ्करि ।
गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके ॥ ४८॥
नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि ।
नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ ४९॥
मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् ।
संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ ५०॥
इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः ।
न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ ५१॥
देहान्ते च वसेन्नित्यं गोलोके रासमण्डले ।
इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ ५२॥
अधुना शृणु विप्रेन्द्र दुर्गादेव्या विधानकम् ।
यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ ५३॥
एनां न भजते यो हि तादृङ्नास्त्येव कुत्रचित् ।
सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्भुता ॥ ५४॥
सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी ।
दुर्गसङ्कटहन्त्रीति दुर्गेति प्रथिता भुवि ॥ ५५॥
वैष्णवानां च शैवानामुपास्येयं च नित्यशः ।
मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी ॥ ५६॥
तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् ।
वाग्भवं शम्भुवनिता कामबीजं ततः परम् ॥ ५७॥
चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् ।
नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः ॥ ५८॥
ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः ।
छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः ॥ ५९॥
महाकाली महालक्ष्मीः सरस्वत्यपि देवताः ।
स्याद्रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा ॥ ६०॥
नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः ।
धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥ ६१॥
ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् ।
स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये ॥ ६२॥
बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि ।
षडङ्गानि मनोः कुर्याज्जातियुक्तानि देशिकः ॥ ६३॥
शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च ।
गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत् ॥ ६४॥
खड्गचक्रगदाबाणचापानि परिघं तथा ।
शूलं भुशुण्डीं च शिरः शङ्खं सन्दधतीं करैः ॥ ६५॥
महाकालीं त्रिनयनां नानाभूषणभूषिताम् ।
नीलाञ्जनसमप्रख्यां दशपादाननां भजे ॥ ६६॥
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ।
एवं ध्यायेन्महाकालीं कामबीजस्वरूपिणीम् ॥ ६७॥
अक्षमालां च परशुं गदेषुकुलिशानि च ।
पद्मं धनुष्कुण्डिकां च दण्डं शक्तिमसिं तथा ॥ ६८॥
चर्माम्बुजं तथा घण्टां सुरापात्रं च शूलकम् ।
पाशं सुदर्शनं चैव दधतीमरुणप्रभाम् ॥ ६९॥
रक्ताम्बुजासनगतां मायाबीजस्वरूपिणीम् ।
महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम् ॥ ७०॥
घण्टाशूले हलं शङ्खं मुसलं च सुदर्शनम् ।
धनुर्बाणान् हस्तपद्मैर्दधानां कुन्दसन्निभाम् ॥ ७१॥
शुम्भादिदैत्यसंहर्त्रीं वाणीबीजस्वरूपिणीम् ।
महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम् ॥ ७२॥
यन्त्रमस्याः शृणु प्राज्ञ त्र्यस्रं षट्कोणसंयुतम् ।
ततोऽष्टदलपद्मं च चतुर्विंशतिपत्रकम् ॥ ७३॥
भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत् ।
शालग्रामे घटे वापि यन्त्रे वा प्रतिमासु वा ॥ ७४॥
बाणलिङ्गेऽथवा सूर्ये यजेद्देवीमनन्यधीः ।
जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत् ॥ ७५॥
पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् ।
श्रिया सह हरिं तत्र नैरृते कोणके यजेत् ॥ ७६॥
पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् ।
देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम् ॥ ७७॥
महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् ।
नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम् ॥ ७८॥
दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च ।
ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा ॥ ७९॥
वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा ।
पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः ॥ ८०॥
विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा ।
छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया ॥ ८१॥
क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् ।
दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात् ॥ ८२॥
ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् ।
वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः ॥ ८३॥
इन्द्राद्यानपि तद्बाह्ये वज्राद्यायुधसंयुतान् ।
पूजयेदनया रीत्या देवीं सावरणां ततः ॥ ८४॥
राजोपचारान्विविधान्दद्यादम्बाप्रतुष्टये ।
ततो जपेन्नवार्णं च मन्त्रं मन्त्रार्थपूर्वकम् ॥ ८५॥
ततः सप्तशतीस्तोत्रं देव्या अग्रे तु सम्पठेत् ।
नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये ॥ ८६॥
ततश्चानेन देवेशीं तोषयेत् प्रत्यहं नरः ।
धर्मार्थकाममोक्षाणामालयं जायते नरः ॥ ८७॥
इति ते कथितं विप्र श्रीदुर्गाया विधानकम् ।
कृतार्थता येन भवेत्तदेतत्कथितं तव ॥ ८८॥
सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा ।
मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा ॥ ८९॥
लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् ।
तदैव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत् ॥ ९०॥
चतुर्दशापि मनवो ध्यात्वा चरणपङ्कजम् ।
मनुत्वं प्राप्तवन्तश्च देवाः स्वं स्वं पदं तथा ॥ ९१॥
तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् ।
प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम् ॥ ९२॥
श्रुत्वैतन्मनुजो नित्यं पुरुषार्थचतुष्टयम् ।
लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ ९३॥
अपुत्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम् ।
यं यं कामं स्मरेद्वापि तं तं श्रुत्वा समाप्नुयात् ॥ ९४॥
नवरात्रे पठेदेतद्देव्यग्रे तु समाहितः ।
परितुष्टा जगद्धात्री भवत्येव हि निश्चितम् ॥ ९५॥
नित्यमेकैकमध्यायं पठेद्यः प्रत्यहं नरः ।
तस्य वश्या भवेद्देवी देवीप्रियकरो हि सः ॥ ९६॥
शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि ।
कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात् ॥ ९७॥
मनोरथं तु सङ्कल्प्य पुस्तकं पूजयेत्ततः ।
देवीं च जगदीशानीं प्रणमेच्च पुनः पुनः ॥ ९८॥
सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि ।
शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम् ॥ ९९॥
शुभं वाप्यशुभं तत्र यदायाति च तद्भवेत् ।
उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम् ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे देव्या
आवरणपूजाविधिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ९.५०॥
॥ इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide