श्रीगणेशपुराणम् १ पूर्वखण्डं अथवा उपासनाखण्डम्
अथ श्रीगणेशपुराणम् ।
आरम्भ नमस्काराः ।
श्रीगणेशाय नमः ।
श्रीस्वानन्देशाय ब्रह्मणस्पतये नमः ।
श्रीमहासिद्ध्यै नमः ।
श्रीमहाबुद्ध्यै नमः ।
श्रीलक्षाय नमः ।
श्रीलाभाय नमः ।
श्रीनग्नभैरवराजाय नमः ।
श्रीमद्गणकाय परब्रह्मगुरवे नमः ।
श्रीमन् मुद्गलाय परमाचार्याय नमः ।
श्री भृशूण्डी गार्ग्य गृत्समद, भृगु, व्यासाय नमः ।
श्रीमत् सकलगाणेशगुरुभ्यो आचार्येभ्यश्च नमो नमः ।
श्रीब्रह्मभूय महासिद्धिपीठाधीश्वर श्रीमद्गिरिजासुत योगीन्द्राय नमः ।
श्रीमद्गाणेश जगद्गुरवे श्रीमद्गणेशयोगीन्द्राचार्याय नमः ।
श्रीमदङ्कुशधारिणे सद्गुरवे योगीन्द्राय नमः ।
श्रीसद्गुरू हेरम्बराजाय नमः ।
पूर्वार्धस्य विषयानुक्रमणिका
उपासनाखण्ड
अध्यायाः विषयाः
१ राजासोमकान्तस्य कथा
२ सोमकान्तस्य अङ्गेभ्य गलितकुष्ठरोगस्य उद्भवः, वन गन्तुं च विचारः
३ सोमकान्तस्य पुत्रेभ्य उपदेशः, आचारादि निरूपणम्
४ राजा वनं प्रविष्टः
५ भृगुपुत्रच्यवनेन सहसमीपगमनम्
६ भृगो आश्रमे सोमकान्तस्य निवासः
७ सोमकान्तस्य पूर्वजन्मनः कथा
८ भृगोर्हुङ्कारेण नानाशङ्कानां निवारणम्
९ भृगोर्राजानं प्रति उपदेशः
१० गणेशमङ्गलाभावे व्यासस्य भ्रान्तिः, ब्रह्मदेवसमीपगमनञ्च
११ ब्रह्मदेवेन व्यासाय गणेशमन्त्रोपदेशः
१२ देवैर्गजाननस्य दर्शनम्
१३ गजाननस्योदरात् सृष्टिप्रभवाय ब्रह्मदेवेनं स्तुतिः
१४ विघ्नैर्व्याकुलो ब्रह्मदेव ``तपः कुरु'' इति आकाशवाणीं श्रृणोति
१५ ब्रह्मदेवस्य तपः, गणेशदर्शनं, तस्य पूजाविधिश्च
१६ मधुकैटभदैत्ययोरूत्पत्तिः, ब्रह्मदेवो देवीं प्रार्थयते
१७ महाविष्णुना शङ्करं प्रति गजाननस्य षडक्षरीमन्त्रोपदेशः
१८ महाविष्णुना गणेशाय दर्शनं वरप्रदानञ्च, सिद्धक्षेत्रस्योत्पत्तिः
१९ राजाभीमस्य राज्ञ्याकमलया पुत्रप्राप्तिः, पुत्रस्य वर्णनम्
२० कमलापुत्रेण दक्षेण गणेशदर्शनम्
२१ मुद्गलदक्षेण गणेशमन्त्रस्य जापः
२२ गणेशभक्तबल्लालेन गणेशदर्शनम्
२३ वैश्यकल्याणस्य अवस्था
२४ दक्षेन कृतमनुष्ठानं शुभस्वपनञ्च
२५ राजा चन्द्रसेनस्य मृत्युः, राज्ञ्यः सुलभायाः शोकः
२६ दक्षस्य राज्यप्राप्तिः, वंशविस्तारश्च
२७ रुक्मागदाभिषेक वर्णनम्
२८ मुकुन्देन रुक्माङ्गदं प्रतिशापः नारददर्शनञ्च
२९ रुक्माङ्गदं प्रति नारदकृतोपदेशः
३० अहिल्यायाः पातिव्रत्यभङ्गम्
३१ गौतमेन इन्द्रं प्रति शापः
३२ गौतमेन षडाक्षरीमन्त्रेण देवानां स्तुतिः
३३ षडक्षरमन्त्रप्रभावात् इन्द्रस्य दिव्यदेहधारणम्
३४ इन्द्रेण तपः गणेशदर्शनम्, चिन्तामणितीर्थस्यवर्णनम्
३५ रुक्माङ्गदेन दिव्यदेहप्राप्तिः, गजाननस्य लोकं प्रतिप्रयाणञ्च
३६ मुकुन्दाइन्द्रसंयोगेन गृत्समदस्योत्पत्तिः तस्य गर्वमानयोश्च खण्डनम्, मात्रा पुत्रेण च परस्परं शापः
३७ गृत्समदो तपस्तपति गजाननदर्शनं वरप्राप्तिश्च
३८ गृत्समदस्याद्भुत (त्रिपुरासुरस्य) त्रिपुरस्य तपः, गणेशेन दत्तं वरदानञ्च
३९ त्रिपुरासुरेण इन्द्रस्य पराभवः
४० त्रिपुरासुरेण ब्रह्मदेवस्य पराजयः, देवैश्च तपः
४१ गजाननेन ब्राह्मणरूपेण त्रिपुरं पुरतः समर्पणम्
४२ शङ्करत्रिपुरयोर्युद्धम्
४३ शङ्करस्य पराजय, पार्वत्याश्च हिमालयसमीप गमनम्
४४ शङ्करेण तपः, गजाननेन दर्शनम्, शङ्करेण वरप्राप्तिः
४५ शङ्कराय गणेशेन ``गणेशसहस्रनाम'' स्तुतिं कर्त्तुमुपदशेयः
४६ गणेशसहस्रनाम
४७ शङ्करत्रिपुरयोर्युद्धम्, त्रिपुरदहनञ्च
४८ पार्वत्यारागमनम्, पार्थिवपूजा (भाद्रपदस्य शुद्धचतुर्थीपर्यन्तम्) महात्म्यम्
४९ गणेशस्य पार्थिवपूजायां वर्णनम्
५० पार्थिवपूजा, पार्वतीहिमालययोर्सम्वादः
५१ पार्थिव गणेश व्रते हिमालयस्यपार्वत्याश्च सहागमनम्
५२ पार्थिव गणेश व्रते नृपचन्द्राङ्गदस्य कथा
५३ पार्थिव गणेश व्रते नृपचन्द्राङ्गदस्य कथा
५४ पार्थिव गणेश व्रते राज्ञीन्दुमत्यै नारदेन व्रतं कर्त्तुमुपदेशः पकोटा
५५ पार्थिव गणेश व्रते पूजाव्रतप्रभावात् पार्वतीशङ्करयोर्मेलनम्
५६ गणेशनामस्मरणप्रभावेण पापात्मना तन्तुवायेन भ्रुशुण्डीरूपधारणम्
५७ सङ्कष्टचतुर्थीव्रतेन कृतवीर्यस्योपलब्धिः
५८ शूरसेनस्य राजधान्यां इन्द्रविमानस्य पतनम्
५९ सङ्कष्टचतुर्थीव्रतमहिमा, कृतवीर्यस्य कथा
६० अङ्गारकचतुर्थ्याः व्रतस्य माहात्म्यम्
६१ सङ्कष्टचतुर्थीव्रतमहिमा, चन्द्रस्य शापोऽनुग्रहश्च, दूर्वायार्माहात्म्यम्
६२ सुलभक्षत्रियपत्नीसमुद्रया ब्राह्मणेन मधुसूदनेन च अन्योऽन्यं प्रतिशापः
६३ दूर्वायाः प्रशस्तिः, कालानसासुरस्य कथा
६४ कौण्डिन्यमुनेराख्यानम्
६५ राजा जनकस्य सत्वहरणम्
६६ विरोचना त्रिशिराभ्यां प्रदत्तयार्वया गजाननस्य तृप्तिः
६७ एकस्यापि दूर्वाङ्कुरस्य कौण्डिन्यपत्न्यै आश्रयप्रदाने सामर्थ्यम्
६८ कृतवीर्येण सङ्कष्टचतुर्थीव्रताचरणम्
६९ सङ्कष्टचतुर्थीव्रतस्य साङ्गोपाङ्गमहिमा
७० पूर्वकाले सङ्कष्टचतुर्थीव्रतं केन केन कृतम्
७१ सङ्कष्टचतुर्थीव्रतोद्यापनाविधिः
७२ कृतवीर्येणाङ्गहीनस्य पुत्रस्य प्राप्तिः
७३ कृतवीर्यपुत्राय प्रवालक्षेत्रानुष्ठानं गणेशदर्शनं, (कृतवीर्येण) सहस्रभुजानां च प्राप्तिः
७४ सङ्कष्टचतुर्थीव्रतबोधकस्य चाण्डालस्य कथा
७५ राजा शूरसेनेन चतुर्थीव्रताचरणं तत्फलञ्च
७६ दूर्वापुत्रषुधस्य कथा, चतुर्थीव्रतस्य दूर्वानाम्नश्च महिमा
७७ सहस्रार्जुनस्य जमदग्नेराश्रममागमनम्, भोजन प्रसङ्गश्च
७८ कार्तवीर्येण (सहस्रार्जुनेन) कामधेनुं नेतुं प्रयत्नः
७९ कामधेनुनोत्पन्नेन सैन्येन कार्तवीर्यस्य पराभवः जमदग्नेश्च हत्या
८० रेणुकया देहत्यागः
८१ दत्तात्रेयस्य स्तुत्या पितराणामौद्ध्र्वदैहिकम्
८२ रामेण मयूरेशक्षेत्रे तपः, मयूरेशेदर्शनम्, परशुप्राप्तिश्च
८३ तारकासुरोत्पत्तिः
८४ शङ्करस्य समीपं कामदेवस्य भस्मीभवनम्
८५ स्कन्दोपत्तेरितिहासः
८६ शङ्करेण स्कन्दाय गणेशव्रतकथनम्
८७ एलापुरक्षेत्रे स्कन्देन तपः, लक्षविनायकप्रभुना वरदानम् तारकासुर वधश्च
८८ नारदस्योपदेशानुसारं शेषेन कृतं तपः, गणेशप्रसादनञ्च
८९ कामेन कृतं तपः, गणेशेन वरप्रदानम्
९० कामस्य पुनर्जन्म, शेषस्य कथा
९१ गजाननस्य स्तुतिः
९२ गजाननस्य सुमुखे त्यादिद्वादशनाम्नां महत्त्वम्
१.१ सोमकान्त वर्णननाम प्रथमोऽध्यायः
ॐ नमस्तस्मै गणेशाय ब्रह्मविद्याप्रदायिने ।
यस्यागस्त्यायते नाम विघ्नसागरशोषणे ॥
ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ ! वेदशास्त्रविशारद ! ।
सर्वविद्यानिधे त्वत्तो वक्ताऽन्यो नोपलभ्यते ॥ १॥
जन्मजन्मान्तरीयं नः स्थितं पुण्यं महत्तरम् ।
तेन सन्दर्शनं जातं सर्वज्ञस्य सतस्तव ॥ २॥
वयं धन्यतमा लोके जीवितं नः सुजीवितम् ।
पितरो वेदशास्त्राणि तपांस्याश्रम एव च ॥ ३॥
अष्टादशपुराणानि विस्तराच्छ्रावितानि नः ।
अन्यान्यपि हिनः श्रोतुमिच्छास्ति द्विजसत्तम ॥ ४॥
शौनकेये महासत्रे सक्ता द्वादशवार्षिके ।
त्वत्कथामृतपानान्नो नान्यद्विश्रामकारणम् ॥ ५॥
सूत उवाच ।
साधु पृष्टं महाभागा भवद्भिः पुण्यकर्मभिः ।
साधूनां समचित्तानां मतिर्लोकोपकारिणी ॥ ६॥
ममापि परितोषोऽस्ति कथानां कथने द्विजाः ।
अतोऽहं साधुवृत्तेभ्यः कथयिष्ये विशेषतः ॥ ७॥
अन्यान्युपपुराणानि वर्ततेऽष्टादशैव च ।
गाणेशं नारदीयं च नृसिंहादिन्यथापि च ॥ ८॥
गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहम् ।
दुर्लभं श्रवणं यस्य मर्त्यलोके विशेषतः ॥ ९॥
यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ।
प्रभावमस्य गदितुं नेशः शेषश्चतुर्मुखः ॥ १०॥
सङ्क्षेपतो ब्रवीम्येतत्तथापि भवदाज्ञया ।
बहुजन्मार्जितैः पुण्यैरस्य तु श्रवणं भवेत् ॥ ११॥
पाखण्डिनां नास्तिकानां न भवेत् पापकर्मिणाम् ।
नित्यत्त्वान्निर्गुणत्वाच्च अनादित्वाच्च तत्त्वतः ॥ १२॥
गणेशस्य स्वरूपं न वक्तुं केनापि शक्यते ।
तथाप्युपासनासक्तैर्निर्गुणं तन्निरूप्यते ॥ १३॥
ॐकाररूपी भगवान् यो वेदादौ प्रतिष्ठितः ।
यं सदा मुनयो देवाः स्मरन्तीद्रादयो हृदि ॥ १४॥
यं पूजयन्ति सततं ब्रह्मेशानेन्द्रविष्णवः ।
यो हेतुः सर्वजगतां सर्वकारणकारणम् ॥ १५॥
यदाज्ञया कः सृजतेऽथ विष्णुर्यदाज्ञया पालनमातनोति ।
यदाज्ञया संहरते हरोऽपि यदाज्ञया सञ्चरते दिनेशः ॥ १६॥
यदाज्ञया वाति समीरणोऽपि यदाज्ञयापः प्रवहन्ति दिक्षु ।
यदाज्ञया भानि पतन्ति भूमौ यदाज्ञयाऽग्निर्ज्वलति त्रिलोके ॥ १७॥
तस्य यच्चरितं गुप्तं कस्यापि न निवेदितम् ।
तदहं वः प्रवक्ष्यामि सादरं श्रूयतां द्विजाः ॥ १८॥
ब्रह्मणा कथितं पूर्वं व्यासायामिततेजसे ।
भृगवे कथितं तेन सोमकान्ताय तेन च ॥ १९॥
व्रतैर्यज्ञैस्तपोभिश्च दानैस्तीर्थैश्च कोटयः ।
भवन्ति येषां पुण्यानां तेषां बुद्धिः प्रजायते ॥ २०॥
गणेशाख्यपुराणस्य श्रवणे द्विजसत्तमाः ।
माया येषां न संसारे न दारापत्यभूमिषु ॥ २१॥
मयूरेशकथायां ते सादरा मुनिसत्तमाः ।
श्रूयतामस्य महिमा सोमकान्तप्रसङ्गतः ॥ २२॥
सौराष्ट्र देवनगरे सोमकान्तोऽभवन्नृपः ।
वेदशास्त्रार्थतत्त्वज्ञो धर्मशास्त्रार्थतत्परः ॥ २३॥
दशनागसहस्राणि हयानां द्विगुणानि च ।
रथिनां षट्सहस्राणि प्रयान्तमनुयान्ति च ॥ २४॥
पदातयोऽप्यसङ्ख्याता अग्निशस्त्रधरास्तथा ।
कोदण्डधारिणश्चान्ये निषङ्गद्वयधारिणः ॥ २५॥
बुद्ध्या बृहस्पतिं जिग्ये सम्पदा धनदञ्च यः ।
क्षमया पृथिवीं जिग्ये गाम्भीर्येण महोदधिम् ॥ २६॥
सूर्याचन्द्रमसौ जिग्ये भासा कान्त्याच यो नृपः ।
प्रतापेनाऽनलं जिग्ये सौन्दर्येण मनोभवम् ॥ २७॥
यस्यामात्याः प्रबलिनः पञ्चासन् दृढविक्रमाः ।
नीतिशास्त्रार्थतत्त्वज्ञाः परराष्ट्रविमर्दिनः ॥ २८॥
रूपवान्प्रथमस्तत्र विद्याधीशस्तथाऽपरः ।
क्षेमङ्करो ज्ञानगम्यः सुबलः पञ्चमः स्मृतः ॥ २९॥
एतैर्नानाविधा देशा आक्रान्ताः स्वपराक्रमात् ।
एतेऽति सुन्दरा नाना भूषावस्त्रैरलङ्कृताः ॥ ३०॥
राजकार्य करानित्यं राज्ञः प्रियतमाभृशम् ।
तस्य राज्ञोऽभवद्भार्या सुधर्मा गुणशालिनी ॥ ३१॥
तद्रूपमवलोक्यैव रतिरम्भातिलोत्तमाः ।
लज्जिता न सुखं क्वापि लेभिरे न च मेनिरे ॥ ३२॥
अनेकरत्नरचिते ताटङ्के काञ्चने शुभे ।
बिभ्रतीकर्णयोः कण्ठे निष्कं मुक्ताफलानि च ॥ ३३॥
कटौरत्नमयींकाञ्ची तादृशे नूपूरेंऽङ्घ्रिगे ।
अङ्गुलीयान्युत्तमानि च करपादाङ्गुलीषु च ॥ ३४॥
वासांस्यनेकवर्णानि महार्हाणि सहस्रशः ।
भगवद्भजने दाने सक्ताचातिथि पूजने ॥ ३५॥
सेवनेऽहर्निशं भर्तुर्वचने च रता सदा ।
हेमकण्ठ इति ख्यातः पुत्रोऽभूदनयोः शुभः ॥ ३६॥
गजायुतबलो धीमान् विक्रमी शत्रुतापनः ।
एवमासीत्सोमकान्तः पृथिव्यां राजसत्तमः ॥ ३७॥
सर्वान् राज्ञो वशे कृत्वा चक्रे राज्यं धरातले ।
नित्यं धर्मरतो यज्वा दातात्यागी द्विजोत्तमाः ॥ ३८॥
इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तवर्णनं नाम प्रथमोऽध्यायः ॥ १॥
आदितः श्लोकानां समष्ट्यङ्काः ०+३८ = ३८
१.२ द्वितीयोऽध्यायः
ऋषयः उचुः ।
श्रीगणेशपुराणस्य महिमा यादृशो मुने ।
कथ्यतां कृपया शीघ्रं सोमकान्तप्रसङ्गतः ॥
सूत उवाच ।
श्रूयतामृषयः सर्वे सोमकान्तस्य दुष्कृतम् ।
अकस्मादभवत्तस्य गलत्कुष्ठोऽतिदुःखदः ॥ १॥
धर्मशीलस्य राज्ञोऽथ पूर्वकर्मविपाकतः ।
शुभं वाप्यशुभं कर्म न मुञ्चति नरं क्वचित् ॥ २॥
यस्यां यस्यामवस्थायां कृतं भवति कर्म यत् ।
तस्यां तस्यामवस्थायां भुज्यते प्राणिभिर्ध्रुवम् ॥ ३॥
दुःखसागरमग्नोऽभूदप्लवो जलधौ यथा ।
वेदनामलभद् बह्विं भुजङ्गेनेव दंशितः ॥ ४॥
नानाक्षतसमाकीर्णः स्त्रवद्रक्तस्ततस्ततः ।
पूयशोणितवान् राजा कृमिभिर्विह्वलीकृतः ।
अस्थिशेषोऽभवद्राजा यक्ष्मणेव समावृतः ॥ ५॥
चिन्तया व्याकुलीभूतः सर्वैन्द्रियरुजान्वितः ।
ततोऽमात्याञ्जगौ राजा मनः संरूद्ध्य यत्नतः ॥ ६॥
राजोवाच ।
धिङ् मे राज्यञ्च रूपञ्च धिग्बलं जीवितं धनम् ।
केनेदं कर्मबीजेन व्यसनं समुपस्थितम् ॥ ७॥
कान्त्या सोमो जितो येन सोमकान्तस्ततोऽभवम् ।
येन मे साधवो दीनाः श्रोत्रिया आश्रमा अपि ॥ ८ ॥ (सन्तसन्यासिनोऽपि च)
पालिता पुत्रवज्जानपदा लोकास्तथा परे ।
येन मे निर्जिता बाणैः शत्रवो घोररूपिणः ॥ ९॥
येन मे सकला पृथ्वी कृता स्ववशवर्तिनी ।
सम्यगाराधितो देवः परमात्मा सदाशिवः ॥ १०॥
दुष्टसङ्गमहीनेन चित्तनिग्रहकारिणा ।
येन मे वपुषा पूर्वमिष्टगन्धा निषेविताः ॥ ११॥
तदिदानीं पूतिगन्ध मतो मे जीवितं वृथा ।
अतोऽहङ्काननं यास्ये सर्वेषामभ्यनुज्ञया ॥ १२॥
हेमकण्ठं सुतं सर्वे बुद्धिविक्रमसंयुतम् ।
सिञ्चन्तु राज्यहेतोर्मे पालयन्तु पराक्रमैः ॥ १३॥
इदानीं न प्रदर्शिष्ये मुखं लोके कथञ्चन ।
न मे राज्यैर्नदारैर्वा जीवितेन श्रियाऽपि वा ॥ १४॥
प्रयोजनं महामात्याः करिष्ये स्वहितं वने ।
सूत उवाच ।
इत्युक्त्वा निपपातोर्व्यान्तरुर्वातहतो यथा ॥ १५॥
पूयशोणितधर्मौघैर्व्याप्तोऽसौ द्विजसत्तमाः ।
कोलाहलोमहानासीदमात्यानाञ्च योषिताम् ॥ १६॥
हाहाकारश्च लोकानां क्षणमासीत्सुदारुणः ।
वस्त्रप्रोञ्छनवातादैरौषधैः क्षिप्रकारिभिः ॥ १७॥
मन्त्रिमन्त्रप्रयोगैस्तं सचेतनमकारयन् ।
स्वस्थे जाते नृपे तस्मिन्नमात्या प्राब्रुवन्निदम् ॥ १८॥
अमात्या ऊचुः ।
तव प्रसादादमरेन्द्रतुल्यं भुक्तं सुखं सर्वजनेष्वसिद्धम् ।
कथं त्विदानीं त्वदृते वसामः कथञ्च जीवेम पशुघ्नतुल्याः ॥ १९॥
करोतु राज्यं तव सूनुरेकः प्रभूतकोशो बलवान् रिपुघ्नः ।
विहाय सर्वं सुखमाद्य राजन् ! सहैव यामस्तु वनाय गन्तुम् ॥ २०॥
सूत उवाच ।
ततः सुधर्मा वचनं जगाद वने नृपं सेवितुमेकवीरा ।
व्रजे सहानेन प्रधानवर्या प्रशिष्ट राज्यं सह मे सुतेन ॥ २१॥
दुःखस्य भोक्ता न परोऽस्ति नैव सुखस्य वा पूर्वकृतस्य जन्तोः ।
यथा यथा कर्मफलं प्रसक्तं तदेव भोग्यं स्वयमेव तादृक् ॥ २२॥
मयाऽपि नानाविधभोगवत्या सुखेन राज्यं परिभुक्तमस्य ।
स्त्रीणां हि भर्ता गमनं सहैव परत्र लोके मुनिभिः प्रदिष्टम् ॥ २३॥
ततः पुत्रो हेमकण्ठो विनीतः शोकसङ्कुलः ।
उवाच तस्मिन्समये सोमकान्तमिदं वचः ॥ २४॥
हेमकण्ठ उवाच ।
न मे राज्येन दारैश्च प्राणैर्धनचयैरपि ।
त्वां विना नृपशार्दूलं कृत्यं नैवास्ति यत् क्वचित ॥ २५॥
विना स्नेहं यथा दीपो विना प्राणं यथा तनुः ।
वृथा राज्यं तथा राजंस्त्वां विना धर्मपालक ॥ २६॥
सूत उवाच ।
श्रुत्वा हृष्टमना राजा पुत्रं प्रोवाच धर्मतः ।
अमात्यानां सुधर्मायाः पुत्रस्य वचनामृतम् ॥ २७॥
राजोवाच ।
पितुर्वाक्यरतोनित्यं श्रद्धया श्राद्धकृत्तथा ।
पिण्डदो यो गयायान्तु स पुत्रः पुत्र उच्यते ॥ २८॥
अतो नीत्या समायुक्तः कुरू राज्यं ममाज्ञया ।
अमात्ययुक्तः शाधि त्वं पुत्रवच्चाखिलाः प्रजाः ॥ २९॥
धर्मशास्त्रार्थतत्त्वज्ञो नीतिज्ञोऽखिलदोषकृत् ।
पितृनुद्धरते यस्तु पुत्रवान्पुत्र उच्यते ॥ ३०॥
अहं वनं गमिष्यामि गलत्कुष्ठोऽतिगर्हितः ।
पत्न्या सुधर्मया सार्धमनुजानीहि सुव्रत ॥ ३१॥
इति श्रीगणेशपुराणे उपासनाखण्डे द्वितीयोऽध्यायः ॥ २॥
आदितः श्लोकानां समष्ट्यङ्काः ३८ + ३१ = ६९
१.३ आचारादि निरूपणन्नाम तृतीयोऽध्यायः
सूत उवाच ।
तत उत्थाय राजास गृहीत्वा दक्षिणेकरे ।
पुत्रं विवेश हर्म्याग्रं यत्र मन्त्रयते सदा ॥ १॥
यत्र सिंहासनं दिव्यं काञ्चनं बहुरत्नयुक् ।
मुक्ताप्रवालरचितं भातिशक्रपदं यथा ॥ २॥
तत्रासतुः पितापुत्रौ भातोद्वावप्यनेकधा ।
प्रतिरत्नं गतौ यस्मात्समुदायवृताविव ॥ ३॥
आचारं प्रथमं प्राह नीतिं नानाविधां नृपः ।
पुत्राय करुणायुक्तो यशसे स्वकुलस्य च ॥ ४॥
सोमकान्त उवाच ।
याममात्रावशिष्टायां निशायां जागृतः पुमान् ।
त्यक्त्वा शय्यां शुचिस्थाने उपविश्य गुरूं स्मरेत् ॥ ५॥
देवतां चिन्तयित्वेष्टां प्रणमेत्स्तुतिपूर्वकम् ।
प्रार्थ्य पृथ्वीं क्षमस्वेति पादस्पर्शं जगन्मये ॥ ६॥
प्रातर्नमामि गणनाथमशेषहेतुं ब्रह्मादिदेववरदं सकलागमाढ्यम् ।
धर्मार्थकामफलदं जनमोक्षहेतुं वाचामगोचरमनादिमनन्तरूपम् ॥ ७॥
प्रातर्नमामिकमलापतिमुग्रवीर्यं नानावतारनिरतं निजरक्षणाय ।
क्षीराब्धिवासममराधिपबन्धुमीशं पापापहं रिपुहरं भव मुक्तिहेतुम् ॥ ८॥
प्रातर्नमामि गिरिजापतिमिन्दुमौलिं व्याघ्राजिनांवृतमुदस्तदयंमनोजे ।
नारायणेन्द्रवरदं सुरसिद्धजुष्टं सर्पां स्त्रिशूलडमरूदधतं पुरारिम् ॥ ९॥
प्रातर्नमामि दिननाथमघापहारं गाढान्धकारहरमुत्तमलोकवन्द्यम् ।
वेदत्रयात्मकमुदस्तसुरारिमायं ज्ञानैकहेतुमुरुशक्तिमुदारभावम् ॥ १०॥
प्रातर्नमामि गिरिजां भवभूतिहेतुं संसारसिन्धु परपारकरीं त्रिनेत्राम् ।
तत्त्वादिकारणमुदस्तसुरारिमायां मायामयीं सुरमुनीन्द्रनुतां सुरेशीम् ॥ ११॥
एवमन्यांश्च संस्मृत्य देवान्मुनिगणांस्तथा ।
मानसैरूपचारैश्च पूजयित्वा क्षमापयेत् ॥ १२॥
ततो गच्छेत्सोदपात्रो ग्रामस्य नैऋतीं दिशम् ।
मृदं गृहीत्वा सुश्वेतां ब्राह्मणः क्षत्रियोरुणाम् ॥ १३॥
वैश्यशूद्रौ तथा श्यामां न नदीतीरतःखनेत् ।
नोर्वराया न वल्मीकाद् ब्राह्मणागारतः क्वचित् ॥ १४॥
तृणादिनाच्छादयित्वा धरां मूत्रपुरीषयोः ।
कृत्वोत्सर्गं दिवारात्रावुदग्दक्षिणदिङ्मुखः ॥ १५॥
आदौ गुदं प्रमृज्यैव तृणकाष्ठादिना नरः ।
पञ्चवारं मृदाद्भिश्च क्षालयेत्तदनन्तरम् ॥ १६॥
दशवारं वामहस्तं सप्तवारमुभौकरौ ।
लिङ्गतथैकवारं तु वामहस्तं त्रिवारतः ॥ १७॥
मूत्रोत्सर्गे क्षालयीत द्वौ करौ च द्विवारतः ।
पादौसदैकवारं तु गृहस्थस्यैवमीरितम् ॥ १८॥
व्रतवान् द्विगुणं कुर्यास्त्रिगुणं वनगोचरः ।
यतिश्चतुर्गुणं कुर्याद्रात्रावर्धन्तुमौनवान् ॥ १९॥
अर्धं पादं दिवारात्रौ शौचं स्त्रीशुद्र एव च ।
तत आचम्य काष्ठं तु क्षीरकण्टकवृक्षयोः ॥ २०॥
गृहीत्वा प्रार्थनापूर्वं दन्ताञ्जिव्हान्विशोधयेत् ।
बलमोजोयशस्तेजः पशुबुद्धिधनानिच ॥ २१॥
मेधां ब्रह्मधियञ्चैव त्वं मे देहि वनस्पते ।
ततः शीतजलैः स्नानं कृत्वा मलहरं पुरा ॥ २२॥
ततो मन्त्रैश्च गृह्योक्तैः सन्ध्योपास्ति ततश्चरेत् ।
जपं होमंञ्च स्वाध्यायं तर्पणं देवपूजनम् ॥ २३॥
वैश्वदेवं तथातिथ्यं भोजनं द्विजसाक्षिकम् ।
पुराणश्रवणं दानं परनिन्दाविवर्जनम् ॥ २४॥
परोपकारं कुर्याच्च द्रव्यप्राणवचोमृतैः ।
परोपकारं नोकुर्यादात्मस्तवनमेव च ॥ २५॥
गुरुद्रोहं वेदनिन्दां नास्तिक्यं पापसेवनम् ।
अभक्ष्यभक्षणञ्चैव परदारनिषेवणम् ॥ २६॥
स्वदारवर्जनञ्चैव कुर्यादृतुगतिञ्चरेत् ।
मातापितृगुरूणाञ्च गवांशुश्रूषणं सदा ॥ २७॥
दीनान्धकृपणेभ्यश्च दद्यादन्नं सवस्त्रकम् ।
प्राणात्ययेऽपि सत्यस्य त्यागं नैव समाचारेत ॥ २८॥
ईश्वरानुग्रहोयेषां साधूनाञ्च प्रपालनम् ।
अपराधानुसारेण धर्मशास्त्रं विलोक्य च ॥ २९॥
पृष्ट्वा वा पन्डितान्दन्डं कुर्यान्नीतिविशारदः ।
विश्वासो यस्य नैवस्यात्तत्र नो विश्वसेत्क्वचित् ॥ ३०॥
विश्वस्तेऽत्यन्त विश्वासो न कर्तव्योबुभूषता ।
कृत वैरेऽथ विश्वस्ते कदापि न च विश्वसेत् ॥ ३१॥
षड्गुणानां प्रयोगेण वर्धयेद्राष्ट्रमात्मनः ।
दानं स्वशक्त्या कुर्वीत क्षीणतामन्यथा व्रजेत् ॥ ३२॥
परे व्याकुलितेयानमधमं परिचक्षते ।
चारदृष्टिर्दूतवक्त्रउद्यदण्डो नृपो भवेत् ॥ ३३॥
दण्डस्यैव भयाल्लोकाः स्वे स्वे धर्मे व्यवस्थिताः ।
अन्यथा नियमो न स्यात्पारक्यं स्वीयमित्यदः ॥ ३४॥
अधमो यदि निन्देतस्तुवीत यदि वा क्वचित् ।
नक्रुध्येन्नचतुष्येच्च किं तया किं तयाऽपि च ॥ ३५॥
पूर्वापकारी यदि च पुनर्वा शरणं व्रजेत् ।
पूर्वञ्च धनिको यः स्यात्परिपाल्यः सदैव हि ॥ ३६॥
मन्त्रगुप्तिः सदाकार्या तन्मूलं राज्यमुच्यते ।
कामादि षड्रिपून्हित्वा ततोन्यान्विजयीत च ॥ ३७॥
वृत्तिच्छेदं प्रजोच्छेदं देवतोच्छेदमेव च ।
आरामचैत्ययोच्छेदं न कुर्यान्नृपसत्तमः ॥ ३८॥
पर्वकाले ददेद्दानं यशसे त्यागमेव च ।
न मित्रवञ्चनां कुर्यात्स्त्रिषु गोप्यं वदेन्नच ॥ ३९॥
ऋणतो ब्राह्मणं चैव पङ्कतो गां समुद्धरेत् ।
अनृतं न वदेत् क्वापि सत्यं क्वापि न हापयेत् ॥ ४०॥
अमात्यानां प्रजानाञ्च भृत्यानाञ्चित्तहृद्भवेत् ।
ब्राह्मणेभ्यो नमस्कुर्याद्देवताभ्यः सदैव च ॥ ४१॥
सूत उवाच ।
इत्यन्यदपि शिक्षाप्य हेमकण्ठं सुतं नृपः ।
आचारं सहधर्मेण नीतिशास्त्रं यथा श्रुतम् ॥ ४२॥
क्षेमङ्करं रूपवन्तं विद्याधीशं तथैव च ।
आह्वयामास चामात्यान्सुमुहूर्तं विलोक्य च ॥ ४३॥
सम्भारानुपकल्प्यैव नानास्थानगतान्नृपः ।
ब्राह्मणान्वेदविदुषो यज्ञकर्म सुनिष्ठितान् ॥ ४४॥
राज्ञोथमहतोराजपत्नीश्च सुहृदः स्वकान् ।
आह्वयामास नृपतिः श्रेणीमुख्यांश्च नागरान् ॥ ४५॥
अभिषेकावलोकाय पुत्रस्य रिपुघातिनः ।
गणेशं पूजयित्वेष्टदेवताञ्च यथाविधि ॥ ४६॥
वाचयित्वास्वस्त्ययनं मातृपूजनपूर्वकम् ।
कृत्वाऽभ्युदयिकं श्राद्धं ब्राह्मणांस्तर्प्यचान्धसा ॥ ४७॥
कारयित्वा मन्त्रघोषैरभिषेकं सुतस्य सः ।
उवाच सोमकान्तस्त्रीन्मन्त्रिमुख्या निदं वचः ॥ ४८॥
राजोवाच ।
ममायं सुत इत्येव ममात्याबुद्धिरस्तुवः ।
भवतामेवहस्तेषु सुत एष निरूपितः ॥ ४९॥
ममानुशासनं यद्वत्कृतं नीतिविशारदैः ।
तथास्य शासनं कार्यं श्रेणीमुख्यसमन्वितैः ॥ ५०॥
इति श्रीगणेशपुराणे उपासनाखण्डे आचारादि निरूपणन्नाम तृतीयोऽध्यायः ॥ ३॥
आदितः श्लोकानां समष्ट्यङ्काः ६९ + ५० = ११९
१.४ चतुर्थोऽध्यायः
सूत उवाच ।
जातेऽभिषेके राजाऽसौ चकार द्विजपूजनम् ।
मणिमुक्ताप्रवालानि ददौ साङ्गं गवा युतम् ॥ १॥
तोषयामास सर्वान्स्तान् गजगोऽश्वधनांशुकैः ।
नानादेश्यानि वासांसि सुवर्णान्तरितानि च ॥ २॥
नानावर्णानि काश्मीरदेशजानि महान्ति च ।
राजभ्यो राजपत्नीभ्यो ग्राम मुख्येभ्य एव च ॥ ३॥
तद्भृत्येभ्यो गुणिभ्यश्च ददौ राजां यथर्हतः ।
अमात्येभ्यो ददावन्यान् ग्रामान् बहुधनान्यपि ॥ ४॥
ततो वनं ययौ राजा दुः शोकसमन्वितः ।
पूर्व जन्मार्जितैदोषैरत्यन्तमलिनोऽशुचिः ॥ ५॥
तस्मिन्प्रयाते लोकानां हाहाकारो महानभूत् ।
स्वं स्वं कार्यं विहायैव प्रतिजग्मुर्जनाधिपम् ॥ ६॥
अमात्या राजभार्याच हेमकण्ठः सुहृद्गतः ।
उत्तिष्ठन् प्रपपाताग्रे स्खलन् धावन् रुदन्नपि ॥ ७॥
अमात्यानागरास्तं तु दुःखिता अप्यवारयन् ।
गव्यूतिद्वितयं गत्वा तस्थौ राजा श्रमान्वितः ॥ ८॥
दृष्ट्वा वापीं शीतजलां नानावृक्षसमन्विताम् ।
उवाच नागरान् सर्वानमात्यान् स्वजनानपि ॥ ९॥
अपराद्धं मया यद् यच्चिरं राज्यं प्रकुर्वता ।
तत् क्षन्तव्यं नमाम्येष बध्वाञ्जलिपुटं जनाः ॥ १०॥
कृपा विधया पुत्रे मे यदि दैवात् समागते ।
विज्ञापयामि वः सर्वान् मयि स्नेहो न हीयताम् ॥ ११॥
गच्छन्तु नगरं सर्वे सस्त्रीवृद्धाः समागताः ।
पुत्रेण पाल्यमाना मे तिष्ठन्तु विगतज्वराः ॥ १२॥
अनुजानन्तु मां सर्वे सुचित्तो याम्यहं वनम् ।
युष्मासु तु प्रयातेषु मनो मे निश्चलं भवेत् ॥ १३॥
उपकारं महान्तं मे कुर्वन्तु कृपयाऽखिलाः ।
दुःखितो निष्ठुरं वक्तुं मर्तुकामोऽपि नोत्सहे ॥ १४॥
महत्पापं मयैवैतज्जन्मजन्मान्तरार्जितम् ।
यद्वियोगो हि राज्यस्य लोकानां हितकारिणाम् ॥ १५॥
परन्तु किं करोम्येष यद् गलत्कुष्ठवानहम् ।
सर्वोऽपि स्वकृतं भुङ्क्ते सुकृतं दुष्कृतं तथा ॥ १६॥
सूत उवाच ।
इति श्रुत्वा वचो राज्ञो मूर्छिताः सुहृदस्तथा ।
घ्नन्तः केचित् पाणितलैः शिरांसि भृशदुःखिताः ॥ १७॥
केचित् परस्परं चक्रुरभिज्ञाः पण्डिताश्च ये ।
सान्त्वनं पूर्वजातानां नृपाणां चरितैर्नृपे ॥ १८॥
अनिर्वाच्यामवस्थां तत् समीक्ष्येयुरथाऽपरे ।
यथा स्वरूपे विज्ञाते योगिनो ज्ञानवृत्तयः ॥ १९॥
दुःखितं सोमकान्तं तं वनं गन्तुं समुत्सुकम् ।
नियम्य दुःखं धैर्येण धीराः केचिदथाब्रुवन् ॥ २०॥
जना ऊचुः ।
पोषयित्वा पालयित्वा न नस्त्वं त्यक्तुमर्हसि ।
यथा न त्यजते शैत्यं जलमौष्ण्यं तनूनपात् ॥ २१॥
मर्यादां जलधिर्वाऽपि सूर्यः प्राकाश्यमेव च ।
कथं वा नगरं यामस्त्वां विना जनवत्सल ॥ २२॥
यथोडुपतिना हीनं व्योम तारान्वितं नृपः ।
पुरं तद्वन्न शोभेत त्वां विना शत्रुकर्षण ॥ २३॥
सहैव यामस्तीर्थानि द्वित्राणि वयमप्युत ।
रूपं ते कान्तिमत् कान्त ! भविता तीर्थ सेवनात् ॥ २४॥
ततः सहैव यास्यामो नगरं ध्वजसङ्कुलम् ।
हर्षेण महता युक्ता वाद्यबन्दिपुरः सराः ॥ २५॥
सूत उवाच ।
इति तद्वचनं श्रुत्वा क्रोध दुःख समन्वितः ।
उवाच राजा तान्नत्वा मैवं मैवं पुनः ॥ २६॥
ततोऽब्रवीद्वेमकण्ठं सामात्यो वत्सलं नृपम् ।
स्नेह कारूण्य भावेन विनयेन समन्वितः ॥ २७॥
पुत्र उवाच ।
विना त्वां नोत्सहे गन्तुं कर्तुं राज्यञ्च जीवितुम् ।
न मया दृष्टपूर्वस्ते विरहस्तं सहे कथम् ॥ २८॥
राजोवाच ।
एतदर्थ मया पूर्वं धर्मशास्त्रं सुनीतिमत् ।
उपदिष्टं तव शुभं न वृथा कर्तुमर्हसि ॥ २९॥
श्रूयते जामदग्न्येन जननी निहता पुरा ।
पितृवाक्यानुरोधेन नीतिज्ञेन सुधीमता ॥ ३०॥
रामस्तु राज्यं त्यक्त्वैव वनं यातः सहानुजः ।
अपृष्ट्वा कारणं सीतां तत्त्याज लक्ष्मणो वने ॥ ३१॥
हेमकण्ठ ! पुरं शीघ्रममात्यैस्त्रिभिरन्वितः ।
अतो ममाज्ञया गच्छ कुरु राज्यं मयाऽर्पितम् ॥ ३२॥
विज्ञे यथा कार्यसक्ते चित्तं तस्य परात्मनि ।
यथाऽवस्थापिते वित्ते चित्तं लोकस्य वर्तते ॥ ३३॥
तथा मयि वनं याते स्वान्तं मे त्वयि वर्तते ।
दैवयोगेन सुभगो जातोयास्ये पुनर्गृहम् ॥ ३४॥
भविष्यति तथा धर्मो मद्वाक्यकारिणस्तव ।
न तथा सह यातेन तस्माद्गच्छ व्रजामि च ॥ ३५॥
सूत उवाच ।
अमात्या नागराः पुत्रः प्रयातुं कृतमानसाः ।
कष्टेन महतायुक्ता नमश्चक्रुर्नृपं तदा ॥ ३६॥
अनुज्ञातास्ततस्तेन आशीर्भिभिनन्द्य च ।
प्रदक्षिणी कृत्य नृपं निवृत्ता नगरं प्रति ॥ ३७॥
अग्ने कृत्वा महासेनां गजाश्वरथपत्तिनीम् ।
छत्रध्वजयुतो मानी हेमकण्ठोऽगमत्पुरीम् ॥ ३८॥
इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्ततपोवनगमनं नाम चतुर्थोऽध्यायः ॥ ४॥
आदितः श्लोकानां समष्ट्यङ्काः - ११९ + ३८ = १५७
१.५ सुधर्माच्यवन संवादो नाम पञ्चमोऽध्यायः
सूत उवाच ।
ततो मातरमभ्येत्य स्नेहकातरया धिया ।
तां जगाद कथं मातस्त्यजसेऽनपराधिनम् ॥ १॥
पुत्र उवाच ।
सहैव यातु पुत्रोऽयमिति वाच्यस्त्वया पिता ।
तववाक्यानुरोधेन यदि मां सह नेष्यति ॥ २॥
तदा वां सेवनं कुर्यां न मे राज्ये मतिस्तथा ।
किं तद्राज्यं सुखं दद्याद्भवद्भ्यां रहितस्य मे ॥ ३॥
सुधर्मो वाच ।
एतावद्दुःखशोकाभ्यां युक्तो राजा न मे वचः ।
करिष्यति महाबाहो तस्माद्गच्छ ममाज्ञया ॥ ४॥
पातिव्रत्येन धर्मेण परवत्यस्मि बालक ।
भर्तुरन्यो न देवोऽस्ति योषितां मान्य एव च ॥ ५॥
सूत उवाच ।
इत्याकर्ण्य नमश्चक्रे मातरं ससुहृत् सुतः ।
प्रदक्षिणीकृत्य ततोऽनुज्ञां प्राप्य पुरं ययौ ॥ ६॥
अलङ्कृतैर्नागरिकैः पताकाध्वजपल्लवैः ।
सिक्तमार्गं सुगन्धाढ्यं यथेन्द्रनगरं तथा ॥ ७॥
दत्वा ताम्बूलवासांसि विसृज्य स्वजनान् नृपः ।
प्रविवेश गृहं श्रीमद् हर्षशोकसमन्वितः ॥ ८॥
चकार राज्यं धर्मेण सुतवत् पालयन् प्रजाः ।
धर्मार्थकाममोक्षेषु यथाशिक्षं मनोदधे ॥ ९॥
ऋषय ऊचुः ।
कथं राजा सोमकान्तः किं वनं समुपागतः ।
किंसहायश्च किं चक्रे कर्म नो वद विस्तरात् ॥ १०॥
सूत उवाच ।
हेतवः कथयिष्यामि सोमकान्तो यथा वनम् ।
गत्वा चकार यत्कार्यं सादरं श्रणुतानघाः ॥ ११॥
सुबलज्ञानगम्याममात्याभ्यां सुधर्मया ।
धर्मपत्न्या युतोऽरण्यं प्रविवेश दुरासदम् ॥ १२॥
अग्रतः प्रकृतिर्याता मध्ये राजाऽथ पृष्ठतः ।
धर्मपत्नी सुधर्माऽगात् सीतेव रामपृष्ठतः ॥ १३॥
एकाशनाश्च चत्वार एकचित्तासनालयाः ।
समदुःखसुखाश्चापि वनाद्वनमुपाययुः ॥ १४॥
क्षुधातृषाश्रमैर्वापि निम्नोन्नतगताध्वभिः ।
अत्यन्तं कर्षिताश्छायामाश्रित्योपाविशन् क्वचित् ॥ १५॥
पुनर्वनान्तरं गत्वा ददृशुस्ते सरो महत् ।
यत्र मातङ्गसदृशा नक्रा भान्ति सकच्छपाः ॥ १६॥
तालास्तमालाः सरलाः प्रियाला बकुलाः शुभाः ।
सरलाः पनसा जम्बुनिम्बाश्वत्थवटादयः ॥ १७॥
वृक्षा नानालताजालैर्वेष्टिताः परितो बभुः ।
यत्रास्ते तिमिरं गाढं गिरिदर्युदरे यथा ॥ १८॥
यत्रवायुः सुखस्पर्शः पद्मकादम्बगन्धवान् ।
यस्मान्नयन्ति मुनयः कुसुमानि फलानिच ॥ १९॥
यत्र हंसा बकाः श्येनाः शुभाः काकाश्च कोकिलाः ।
सारिकाश्चक्रवाकाश्च गाना रावान् विकुर्वते ॥ २०॥
न यत्र शीतोष्णकरांशुसन्धिर्नानालतापुष्पकुजाश्रितानाम् ।
क्षुतृड्भयं यत्र न चैव मृत्युः स्वर्गे यथा पुण्यवतां द्विजेन्द्राः ॥ २१॥
तत्र गत्वा जलं सर्वे पपुः शीतं श्रमापहम् ।
स्नात्वा नित्यक्रियां कृत्वा फलानि बुभुजश्च ते ॥ २२॥
सुष्वाप च क्षणं राजा कच्छे कोमलवालुके ।
धर्मपत्नी सुधर्मा च पादसंवाहने स्थिता ॥ २३॥
तस्यानुमतमाज्ञाय द्वावमात्यावगच्छताम् ।
आदातुं कन्दमूलानि फलानि च बिसानि च ॥ २४॥
ददर्श तत्राद्भुतरूपमुग्रं बालं सुधर्मा प्रभया ज्वलन्तम् ।
उत्कृष्टरूपस्य कृते स्मरं तं जातं पुरा बालमिति स्म मेने ॥ २५॥
दृष्ट्वैव तं सा जहृषे सुधर्मा मेने च तं साहितकारिणं च ।
क्षुब्धं प्रसन्नं हृदयं समीक्ष्याप्रकारिणं चोपकारं हि वक्ति ॥ २६॥
पप्रच्छ तं कश्च कुतः प्रयातः कस्यापि पुत्रौ जननी च का ते ।
वदस्व शब्दामृतधारया मे सखेव कर्णौ परितोषयाशु ॥ २७॥
सूत उवाच ।
इति स्म पृष्टः स जगाद बालस्तां राजपुत्रीं सुधया गिरा मे ।
पिता भृगुर्भामिनि ! मे पुलोमा माता जलार्थी स्वगृहादिहागाम् ॥ २८॥
च्यवनः खलु नाम्नाहं पितुराज्ञाकरः शुभे ।
त्वं च का कतमोऽयं ते कथं वनमिदं गतः ॥ २९॥
स्त्रवन्ति कथमङ्गानि वर्षाकाले गिरेरिव ।
अति दुर्गन्धता चास्य केन वा वद कर्मणा ॥ ३०॥
कृमिभार समाकीर्णममुं वा सेवसे कथम् ।
स्वयं चारूतरा भूत्वा सुकुमारी सुलोचना ॥ ३१॥
चारू प्रसन्नवदना चारूसर्वाङ्गशोभिनी ।
कच्चित्पूर्वं न पित्रा ते सुहृद्भिर्भ्रातृभिर्द्विजैः ॥ ३२॥
विज्ञातोऽयं वरः कुष्ठीकृमिभाराकुलोऽपि च ।
कथमेनं वृत्तवती दुर्गमं चागता वनम् ॥ ३३॥
सुत उवाच ।
इति पृष्टा सुधर्मा सा मुनिपुत्रेण धीमता ।
व्याचष्टे सकलं तस्मै शोकहर्ष समन्विता ॥ ३४॥
सुधर्मो वाच ।
सौराष्ट्रदेशे विख्यातं देवताख्यं पुरं महत् ।
तत्राऽयं सोमकान्तो मे भर्ता राज्यं चकार ह ॥ ३५॥
अतिमानी वदान्यश्च शूरो दृढपराक्रमः ।
असङ्ख्यातबलोपेतो रिपुराष्ट्रविमर्दनः ॥ ३६॥
यज्वाऽति सुन्दरः श्रीमान् सुहृदानन्दकारकः ।
विवेक्ता सर्वकार्याणां नीतिशास्त्रविशारदः ॥ ३७॥
राज्यं स्वं बुभुजे राजा बहुकालं द्विजोत्तम ।
इमामवस्थां सम्प्राप्तः पूर्वकर्मविपाकतः ॥ ३८॥
अमात्यद्वय संयुक्तो वनमेतत् समागतः ।
भ्रमन्तिपृष्ठलग्नाऽस्य पुत्रे राज्यं प्रयच्छतः ॥ ३९॥
सुबलज्ञानगम्याभ्यां प्रकृतिभ्यामिहागता ।
राज्ञोऽनुज्ञां समादाय फलार्थं तौ गतौ वने ॥ ४०॥
इहास्मान् राक्षसाः प्रेता भूतानि मृगपक्षिणः ।
नानाविधा भीषयन्ति कथं नो भक्षयन्ति न ॥ ४१॥
न जाने दुःखभोगाय स्थापयन्त्यग्रतोऽपि च ।
दुःखस्यान्तं न पश्यामि कर्मणो दुष्कृतस्य च ॥ ४२॥
कटुतिक्ताम्ललवणमधुरस्निग्धभोजने ।
न तथा रूचिरस्याऽभूत् परीतस्य द्विजातिभिः ॥ ४३॥
यथेदानीं कन्दमूल कषायाम्ल फलादिषु ।
दरिद्राणां महाहारः पाकोऽपि भक्षितस्य च ॥ ४४॥
न तथां श्रीमतां शक्तिरशने पाक एव च ।
यः शेत कोमले दिव्ये शयने स्म मनोरमे ॥ ४५॥
इदानीं यत्र कुत्रापि पश्य कालविपर्ययम् ।
यस्य दिग्व्यापिनश्चासन् नाना परिमलाः शुभाः ॥ ४६॥
पूयशोणितदिग्धस्य पूतिगन्धोऽपि साम्प्रतम् ।
य आनन्दमये सिन्धौ मग्नोभूत्पण्डितैर्वृतः ॥ ४७॥
स इदानीं दुःखमये कृमिभिः परिवारितः ।
कथं तरेम दुःखाब्धिं न जाने भृगुनन्दन ॥ ४८॥
भव पोत इवागाधे मज्जन्तं नौरिवार्णवे ॥ ४९॥
इति श्रीगणेशपुराणे उपासनाखण्डे सुधर्माच्यवन संवादो नाम पञ्चमोऽध्यायः ॥ ५॥
आदितः श्लोकानां समष्ट्यङ्काः - १५७ + ४९ = २०६
१.६ भृगोराश्रम गमनं नाम षष्टोऽध्यायः
सूत उवाच ।
इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्दनः ।
त्वरया स्वमुपादाय कलशं जलसम्भृतम् ॥ १॥
दुःखित परदुःखेन तूष्णीमेवागमद् गृहम् ।
तं भृगुः परिपप्रच्छ विलम्बकारिणं सुतम् ॥ २॥
भृगुरुवाच ।
किमपूर्वं त्वया दृष्टं लक्ष्यसे चकितो यथा ।
विलम्बश्च कथं जातो वद पुत्र ममाग्रतः ॥ ३॥
पुत्र उवाच ।
सौराष्ट्रदेशे विख्याते दैवते नगरे मुने ।
सोमकान्त इति ख्यातो राजा राजीव लोचनः ॥ ४॥
चक्रे राज्यं बहुतिथं धर्मेण पालयन् प्रजाः ।
दुर्भगत्वं गतो दैवात् पुत्रे राज्यं निवेश्य सः ॥ ५॥
पत्न्या सुधर्मया युक्तो भर्तुराज्ञाभृता पितः ।
सुबलज्ञानगम्याम्भ्यां प्रकृतिभ्यामिहागतः ॥ ६॥
गलत्कुष्ठी कृमियुतो विभ्रमन् दुर्गमं सरः ।
सहस्रभगतां प्राप्तो यथेन्द्रो गौतमान मुनैः ॥ ७॥
क्व सा सुधर्मा चार्वङ्गी क्व गलत्कुष्ठवान् पतिः ।
इति मे पृच्छतो वृत्तं तदीयं गतवान् क्षणः ॥ ८॥
तदीयैः करुणावाक्यैर्मनो मे कलिलं त्वभूत् ।
ततोऽहं कलशं पूर्णं कृत्वा शीघ्रमुपागतः ॥ ९॥
सुत उवाच ।
सर्वं चाकथयत् तस्मै तया यत् कथितं वचः ।
श्रुत्वा तच्च पुनः पुत्रं च्यवनं भृगुरब्रवीत् ॥ १०॥
भृगुरवाच ।
सर्वानानय तां शीघ्रं पुत्र ! गच्छ ममाज्ञया ।
द्रक्ष्यामि कौतुकं तेषां स्वीयं वा दर्शयामि तान् ॥ ११॥
सूत उवाच ।
इत्थं स चोदितः पित्रा च्यवनः करूणानिधिः ।
जगाम सरसो भूमिं सुधर्मां द्रष्टुमुत्सुकः ॥ १२॥
तस्मिन्नेव क्षणेऽमात्यौ फलकन्दभरान्वितौ ।
सुबलज्ञानगम्यौ तावागतौ राजसन्निधिम् ॥ १३॥
तत् ऊचे स तु मुनिः सुधर्मां चारुलोचनाम् ।
पिता मे स्वाश्रमं सर्वानाकारयति सुव्रते ॥ १४॥
इति तद्वचनं श्रुत्वा सुधर्मा शोकविव्हला ।
तदैव सावधानाऽभूत् तनुः प्राण इवागते ॥ १५॥
सुशीला राजपत्नी सा पीत्वा तद्वचनामृतम् ।
अगमत् सा सुचार्वङ्गी प्रकृतिद्वयसंयुता ॥ १६॥
सोमकान्तेन पतिना मुनिपुत्रपुरःसरा ।
गणेशस्कन्दसहिता शिवेव शिवसंयुता ॥ १७॥
शुशुभे मार्गमध्ये सा वाचस्पतिपुरःसरा ।
मन्त्रघोषयुतं प्राप भृगोराश्रममण्डलम् ॥ १८॥
नानापुष्पलताकीर्णं नानापक्षिनिनादितम् ।
मार्जारा नकुलाः श्येना गजा गावो मयूरकाः ॥ १९॥
भुजङ्गाः पक्षिणः सिंहा व्याघ्राः क्रीडन्ति यत्र च ।
न च वायुर्भृशं वाति न सूर्यस्तपते भृशम् ॥ २०॥
न वर्षति भृशं मेघो वर्षते च तदिच्छया ।
विविशुस्ते हर्षयुता मुनिपुत्र पुरःसराः ॥ २१॥
तत्राद्भुतं व्याघ्रमृगाजिनस्थं ददर्श सूर्यप्रतिमं भृगुं तम् ।
राजाऽथ पत्नी प्रकृतिद्वयञ्च ननाम बद्धाञ्जलिरब्रवीच्च ॥ २२॥
राजोवाच ।
अद्याशिषो मे सुफला द्विजेन्द्र ! द्विजेरिता धर्मचयस्तपोऽपि ।
आजन्मतोऽहं परिपूत एष पितुर्जनन्याश्च सुजीवितं मे ॥ २३॥
भवदृशिः सम्प्रति हन्त्यथैनः पूर्वार्जितैः पुण्यचयैः कृताऽपि ।
आगामिकल्याणकरी मुनीन्द्र ! कालत्रये जन्म करोति पूतम् ॥ २४॥
सौराष्ट्रदेशे खलु देवताख्ये पुरे कृतं राज्यममोघदृष्टे ।
भीतेन पापाद् द्विजदेवतादिपूजा कृता नीतिमता मुनीन्द्र ॥ २५॥
आकस्मिकं मे दुरितं किमेतत् प्रादुर्बभूवोग्रतरं दुरन्तम् ।
येनाऽहमीदृक् कुदशां प्रणीतो जाने न किञ्चित् प्रतिकारमात्र ॥ २६॥
अपायतां यान्ति कृता उपाया युष्मत्कृतोपायमुपायमीहे ।
निर्वैरतां यान्ति हि जातिवैरास्तवाश्रमे वां शरणं प्रपन्नः ॥ २७॥
सूत उवाच ।
श्रुत्वेति वचनं तस्य भृगुस्तु करूणायुतः ।
उवाच सोमकान्तं तं ध्यानेनालोक्य सुव्रतः ॥ २८॥
भृगुरुवाच ।
उपायं वच्मि नृपते न चिन्तां कर्तुमर्हसि ।
ममाश्रमगता दुःखं न हि विन्दन्ति जन्मिनः ॥ २९॥
जन्मान्तरकृतं चैव दुरितं ते नृपोत्तम ।
येनेमाङ्गमितोऽवस्थां कथयिष्ये तदप्यहम् ॥ ३०॥
कुर्वन्तु भोजनं सर्वे चिरकालं बुभुक्षिताः ।
वनात् वनान्तरं याताः श्रान्ता क्लान्तानना भृशम् ॥ ३१॥
सूत उवाच ।
इत्युक्त्वा स्नापयामास सुतैलाभ्यङ्गपूर्वकम् ।
भोजयामास चान्नानि षड्रसानि त्वनेकशः ॥ ३२॥
बुभुजुस्तेऽपि विश्रान्ता भृगोरमिततेजसः ।
आज्ञया मुनिवर्यस्य सम्प्राप्ताः सुष्ठवलङ्कृताः ॥ ३३॥
सुषुपुर्मृदुशय्यायां हित्वा चिन्तां दुरत्ययाम् ।
मुनिना कल्पितायां ते स्वराज्यङ्गमिता इव ॥ ३४॥
इति श्रीगणेशपुराणे उपासनाखण्डे भृगोराश्रमगमनं नाम षष्ठोऽध्यायः ॥ ६॥
आदितः श्लोकानां समष्ट्यङ्काः २०६ + ३४ = २४०
१.७ सोमकान्त पूर्वजन्म कथनं नाम सप्तमोऽध्यायः
ऋषय ऊचुः ।
तत्र गत्वा किमकरोत् सोमकान्तो नृपस्तदा ।
उपायः कथितः को वा भृगुणा सर्ववेदिना ॥ १॥
कथयस्व कथामेतां शृण्वतां नो द्विजोत्तम ।
न तृप्तिमधिगच्छामः पीत्वा त्वद्वचनामृतम् ॥ २॥
सूत उवाच ।
सम्यक् पृष्टं महाभागा यूयं तु ज्ञानसागराः ।
यः कथान्तं न प्रयाति श्रोता वक्ताऽथवा द्विजाः ॥ ३॥
लिख्यमानं वाचयति पुस्तकं हरतेऽपि वा ।
नृपृच्छति च यः शिष्यो गुरुः पृष्टो न वक्ति चेत् ॥ ४॥
उभौ तौ मूकबधिरौ लोके दृष्टौ द्विजोत्तमाः ।
शृण्वन्तु कथयिष्यामि सोमकान्तकथामतः ॥ ५॥
तस्या रात्र्यां व्यतीतायां दिननाथे तथोदिते ।
स्नानं सन्ध्यां जपं होमं कृत्वा स भृगुसत्तमः ॥ ६॥
स्नाताय कृतजप्याय पत्नीप्रकृतिसंयुजे ।
पूर्वजन्मकथां तस्मै राज्ञे कथितुमारभत् ॥ ७॥
भृगुरुवाच ।
कोल्हारनगरे रम्ये विन्ध्याचलसमीपतः ।
चिद्रूप इति विख्यातो वैश्यो बहुधनोऽभवत् ॥ ८॥
तस्य भार्या तु सुभगा नाम्ना ख्याता सुलोचना ।
सुशीला दानशीला च पतिवाक्यपरा सति ॥ ९॥
तस्यास्त्वं पुत्रतां यातो भवे पूर्वे नृपोत्तम ।
कामन्द इति ते नाम चक्रतुस्तौ द्विजेरितौ ॥ १०॥
अति स्नेहं दिवारात्रावतिलालनमेकके ।
वार्धक्यकालजे तौ तु पितरौ त्वयि चक्रतुः ॥ ११॥
विवाह चक्रतुस्तौ तु धनकौतुकमङ्गलैः ।
मृगाक्षी सुकुमाराङ्गी नाम्ना ख्याता कुटुम्बिनी ॥ १२॥
अनुरक्ता त्वयि सदा द्विजदेवाऽतिथि प्रिया ।
बभूव योषिद्योषित्सु रत्नभूताऽतिसुन्दरी ॥ १३॥
कुटुम्बिनीति स्वं नाम विदधे सार्थकं तुं सा ।
सप्तपुत्रा पञ्चकन्या पञ्चबाण प्रिया नु किम् ॥ १४॥
ततो बहुतिथे काले पञ्चत्वमगमत्पिता ।
माता तव सती तेन सहं दग्धा दिवं गता ॥ १५॥
ततस्त्वं सखिवर्गैस्तद् द्रव्यं नाशितवान् बहु ।
नीतं नष्टं भक्षितं च विनाशमगमद् धनम् ॥ १६॥
चिन्तया धर्मपत्नी त्वां निराकृतवती भृशम् ।
न गृहीतं तु तद्वाक्यं ततो विक्रीतवान् गृहम् ॥ १७॥
गता सा बालकैः सार्धमनुज्ञाता पितुर्गृहम् ।
अपत्यपोषणकृते ऋते त्वां वंशकण्टकम् ॥ १८॥
तत उध्दृत्ततां यातं उन्मत्त इव मद्यपः ।
अन्यायकारी नगरे जातो मत्त इव द्विपः ॥ १९॥
परस्वहारो वनितासु जारो ग्रामेषु चोरो जनतापकारः ।
द्यूतेषु वीरो वृजिनौघसारो हिंसाविहारो बलहीनशूरः ॥ २०॥
ये ये जनास्ते सुखसङ्गतृप्तास्तेभ्यो गृहीत्वा बहुवित्तमादः ।
निक्षेपतः पितृकृतात्सुहृद्भ्यो मिषात् कुतश्चिन्नगरस्तितेभ्यः ॥ २१॥
शपथाननृतांश्चकर्थं नूनमनृतानां प्रमदाजनेषु साक्ष्यम् ।
इति सर्वजनाः सुभीतिमापुरूरगात् सद्मगतादिवोग्रवीर्यात् ॥ २२॥
असहयतां तेन जनस्य यातो गोक्षूरकः पायसगो यथैव ।
राज्ञो गृहीत्वाऽनुमतिं जनास्ते निर्वापयामासुरतो पुरात् त्वाम् ॥ २३॥
वने स्थितस्त्वं बहुजन्तुघाती स्त्रीबालवृद्धान् विनिहंसि नित्यम् ।
महाजनं वीक्ष्य पलायसे च सिंहं निरीक्ष्येव वृको मृगो वा ॥ २४॥
मत्स्यान् बकान् सारसकुक्कुटाँश्च वृकान् मृगान् वानरकोकिलाँश्च ।
हत्वाऽसि खड्गान् शशकाँश्च गोधा मुधा स्वदेहं वृजिनादपोषः ॥ २५॥
सिंहान् व्याघ्राँश्च जम्बूकान्निःसार्य गिरिगव्हरात् ।
नानास्थानगताँश्चोरान् मेलयित्वा सुदुर्धरान् ॥ २६॥
काष्ठैर्लोष्टैश्च पाषाणैश्चकर्थं गृहमुत्तमम् ।
विशालं क्रोशविस्तारं नानाकौतुकमण्डितम् ॥ २७॥
पित्रा भीतेन पत्नी सा प्रापिता बालकैः सह ।
गृहागतं ते सदनं राजतो जनतोऽपि च ॥ २८॥
नानालङ्कारवसना बालका अपि तेजसा ।
देवाङ्गने व शुशुभे त्वं च चोरसमन्वितः ॥ २९॥
त्वं च मार्गे जनान् दीनान् हत्वा हत्वा गृहाङ्गतः ।
चौरेः सबालयोषिद्भिर्भासि राजेव तद्गतः ॥ ३०॥
कदाचिद्ब्राह्मणो विद्वान् विख्यातो गुणवर्धनः ।
मध्यान्हे मार्गमध्ये तु त्वया दृष्टः स एककः ॥ ३१॥
गृहीत्वा दक्षिणं पाणिं तं विप्रं धृतवानसि ।
स वेपमानस्त्वद्बुद्धिं जानन् धर्षणया तया ॥ ३२॥
ऊचे त्वां स्वान्तकं मत्वा मूर्छितो जीवितेच्छया ।
अत्यन्तं करूणावाक्यैर्बोधयँस्त्वां सहेतुकैः ॥ ३३॥
गुणवर्धन उवाच ।
धनवान् सुभगो भूत्वा कथं मां हन्तुमिच्छसि ।
द्विजं नवोढाभर्तारं शान्तं चानपराधिनम् ॥ ३४॥
दुर्बुद्धिवासनां त्यक्त्वा सद्धर्मेषु मतिं कुरू ।
प्रथमा मे गता कान्ता प्राप्ता कान्ततराऽपरा ॥ ३५॥
स्वाचारा परमोदारा साध्वी सर्वगुणाकरा ।
पितॄणामनृणार्थाय धर्मसन्तानवृद्धये ॥ ३६॥
कृता साऽतिप्रयत्नेन गार्हस्थं धर्ममिच्छता ।
मद्विना तद्विना वां हि जन्मनी भवतो वृथा ॥ ३७॥
पिता मे हि भव त्वं च मातापुत्रोऽस्म्यहं तव ।
जीवदाता भयत्राता पिताशास्त्रे निगद्यते ॥ ३८॥
दस्यवोऽपि हि रक्षन्ति द्विजं वा शरणागतम् ।
द्विजं योग्यं शरण्यं मामतत्स्त्वं भोक्तुमर्हसि ॥ ३९॥
नो चेत् कल्पसहस्रं त्वं निरयान् प्रतिपद्यसे ।
भोक्तारः सर्व एवैते स्त्रीपुत्राः सुहृदो जनाः ॥ ४०॥
न पापभागिनस्त्वेते सुखिनस्त्वत्प्रतारकाः ।
कियद्भिर्जन्मभिः पापं भोक्ष्यसे न वितर्कये ॥ ४१॥
इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तपूर्वजन्मकथनं नाम सप्तमोऽध्यायः ॥ ७॥
आदितः श्लोकानां समष्ट्यङ्काः - २४० + ४१ = २८१
१.८ नाना पक्षिनिवारणं नामाष्टमौऽध्यायः
भृगुरुवाच ।
इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुर्वतः ।
करुणायुतमाकर्ण्य नोद्भिन्नं हृदयं तव ॥ १॥
वज्रात् सारतरं किंन्नु ब्रह्मणा त्वयि निर्मितम् ।
हिंसनाद् बहुजन्तूनां मनुष्याणां सहस्रशः ॥ २॥
अतिनिष्ठुरतां प्राप्तं कृतघ्नस्येव मानसम् ।
अवोचस्त्वं ततस्तन्तु कृतान्त इव निष्ठुरः ॥ ३॥
चोर उवाच ।
किं ते वाक्यचयैर्विप्रः ! वृथा मयि नियोजितैः ।
अश्रोतरि च पाण्डित्यं न्युब्जकुम्भे यथा जलम् ॥ ४॥
क्वेयं मम मतिर्मूढ ! क्वोपदेशस्तवाप्ययम् ।
तत्त्वचिन्तेव मधुपे साम्प्रतं मे न रोचते ॥ ५॥
अर्थासक्तय न क्वापि पितृबन्धुविचारणा ।
यथाकामातुरस्यापि न भीतिर्हींश्च विद्यते ॥ ६॥
शुद्धिः काकै द्यूतकारे सत्यं धैर्यं नपुंसके ।
कामशान्तिः स्त्रियां सर्पे क्षमो दृष्ट्वा त्वया नु किम् ॥ ७॥
अन्तिके त्वं निसृष्टोऽसि व्यापाररहितस्य मे ।
विधात्रा दैवयोगेन न त्वां मुञ्चामि कर्हिचित् ॥ ८॥
भृगुरूवाच ।
इत्युक्त्वा निशितं खड्गं हस्त आदाय दक्षिणे ।
चकर्ताऽथ शिरस्तस्य बिडाल इव मौषकम् ॥ ९॥
एवं ते ब्रह्महत्यानां सङ्ख्यां कर्तुं न शक्यते ।
स्रीबालवृद्धजन्तूनां हत्यानां च विशेषतः ॥ १०॥
सङ्ख्याता परपापानां विभागी जायते यतः ।
ततो बहुतिथे काले गते कामन्द ! ते जरा ॥ ११॥
अगताऽथ कफो ग्लानिः स्वेदोहिक्काऽथवेपथुः ।
अभूत् तन्द्री चोपविष्टे प्रसुप्ते न च साऽभवत् ॥ १२॥
अनादरं च चक्रुस्ते पुत्रां दास्योऽथ सेवकाः ।
सुहृदश्व सुताश्वापि नप्तारोऽथापि मित्रकाः ॥ १३॥
एक एवाऽभवत्तत्र दृष्ट आप्तो रहस्यकृत् ।
अनिवार्यगतिर्विप्रः स चापि प्रेषितस्त्वया ॥ १४॥
आकारयितुं सर्वांस्तान मुनीन् काननवासिनः ।
ते चापि त्वद्भयादेव द्विजवाक्यात् समागताः ॥ १५॥
अब्रवीस्तान् नमस्कृत्य मत्तो दानानि गृह्यताम् ।
तेऽब्रुवन् न च गृह्णीमो दानानि पतितस्य ते ॥ १६॥
याजनाध्यापनाद् यौनात् सम्बन्धात् भाषणादपि ।
परं सञ्चरते पापं सहयानासनाशनात् ॥ १७॥
इति ते भाषमाणास्त्वां गत्वा च निजमाश्रमम् ।
सस्नुः सचैलं सर्वेऽपि पावमानीस्ततोऽजपन् ॥ १८॥
ततोऽनुतापो मनसि जातः कामन्द ते भृशम् ।
आमयात् स्वजनैस्त्यागाद् ब्राह्मणैः परिवर्जनात् ॥ १९॥
जीर्णदेवालयोद्धारेऽभवत्ते मतिरूर्जिता ।
धनं स्वं विपुलं वीक्ष्य कुप्यरत्नादिसंयुतम् ॥ २०॥
ततोऽनादिः परामूर्तिर्गणेशस्य वने शुभा ।
जीर्णदेवालये क्षुद्रे स्थिता ते कथिता द्विजैः ॥ २१॥
ततोऽतिविस्तृतं दीर्घं चतुस्तोरणसंयुतम् ।
चतुर्द्वारं सुरूचिरं चतुःशिखरशोभितम् ॥ २२॥
नानास्तम्भचितं नानावेदिभिः परिवारितम् ।
मुक्ताप्रवालरत्नाद्यैः खचितं रूचिराङ्गणम् ॥ २३॥
नानापुष्पद्रुमयुतं नानाफलद्रुमैश्चितम् ।
चतुर्दिक्षु चारुवारिमयवापिविराजितम् ॥ २४॥
प्रासादं निर्मितवतस्तद्द्रव्यं ते व्ययं गतम् ।
किञ्चित् स्त्रिया च पुत्रश्च सुहृद्भिर्बन्धुभिर्हृतम् ॥ २५॥
ततो नातिचिरे काले पञ्चत्वं च गतो भवान् ।
याम्यदूतैः कशाघातैर्बद्धः सन्ताडितो भृशम् ॥ २६॥
कण्टकैर्विद्धसर्वाङ्गः शिलायां पोथितोऽपिच ।
मज्जितो नरके घोरे पूयशोणितकर्दमे ॥ २७॥
एवं नीतस्तु तैर्दूतैश्चित्रगुप्तयमान्तिके ।
यमेन पृष्टः किं पुण्यमुत भोक्ष्यसि पातकम् ॥ २८॥
त्वमवोचः पुण्यमहं पूर्वं भोक्ष्यामि सूर्यज ।
ततः सौराष्ट्र देशेत्वं राजत्वेन विनिर्मितः ॥ २९॥
इति ते कथितं पूर्वजन्म पापकरं मया ।
शरणागतकारुण्यात् तपोबलसमाश्रयात् ॥ ३०॥
कान्तप्रासादकरणात् सोमकान्तोऽभवो नृपः ।
कान्तया कान्ततरया भासि कान्त्या शशी यथा ॥ ३१॥
सूत उवाच ।
भृगुणाऽभिहितं श्रुत्वा सोमकान्तो नृपाधमः ।
तद्वाक्ये संशयापन्न आसीदश्मेव निष्क्रियः ॥ ३२॥
वेदशास्त्रार्थ विदुषो भूतभाविभवद्विदः ।
तपस्विनो भृगोर्वाक्ये यतः स संशयं दधौ ॥ ३३॥
निरगन् क्षणमात्रेण तस्याङ्गात् पक्षिणो भृशम् ।
नानावर्णाकृतिधरा बभक्षुर्नृपतिं तदा ॥ ३४॥
उड्डीयोड्डीयचञ्चच्वग्रैर्ददंशुर्नृपशुं दृढैः ।
उत्कृत्योत्कृत्य मांसानि जक्षुस्ते मुनिसन्निधौ ॥ ३५॥
ततोऽतिदुःखिततनुः शरणं पुनरागतः ।
अवदद्दीनया वाचा भृगुं ज्ञानतपोनिधिम् ॥ ३६॥
राजोवाच ।
त्वद्वने जातिवैराणां परस्पर भयं न हि ।
त्वत्समक्षं कथमिमे मृतं मां मारयन्ति च ॥ ३७॥
त्वत्पादप्रवणं दीनं सकुष्ठं शरणागतम् ।
इदानीं मोचय मुने सर्वंसत्त्वाभयङ्कर ॥ ३८॥
सूत उवाच ।
इत्युक्तः पुनरप्याह भृगुस्तं दीनवत्सलः ।
मद्वाक्यसंशयादित्थमनुभूतं नृप ! त्वया ॥ ३९॥
प्रतीकारं वदिष्यामि स्वस्थो भव क्षणं नृप ।
मम हुङ्कारमात्रेण गमिष्यन्ति द्विजा इमे ॥ ४०॥
सूत उवाच ।
द्विजस्य हुङ्कृतिं श्रुत्वा द्विजाश्चान्तर्हितास्तदा ।
तुतोष नृपतिश्चापि पत्न्यमात्यसमन्वितः ॥ ४१॥
इति श्रीगणेशपुराणे उपासनाखण्डे नाना पक्षिनिवारणं नामाष्टमौऽध्यायः ॥ ८॥
आदितः श्लोकानां समष्ट्यङ्काः - २८१ + ४१ = ३२२
१.९ राजोपदेशकथनं नाम नवमोऽध्यायः
सूत उवाच ।
ततो भृगुः क्षणं ध्यात्वां पुनस्तं प्राह भूपतिम् ।
अत्यन्त विव्हलो दुःख वीक्ष्य तत्पूर्वकर्मजम् ॥ १॥
भृगुरुवाच ।
क्व पापनिकरास्ते तु क्वोपायाः कथिता मया ।
तथाऽप्येकं ब्रवीमि त्वामुपायमघनाशनम् ॥ २॥
गणेशस्य पुराणन्त्वं श्रोष्यसे यदि सत्वरम् ।
तदैव मोक्ष्यसे दुःखसागरान्नात्र संशयः ॥ ३॥
इत्युक्त्वां तं गणेशस्य नामाष्टशतमुत्तम् ।
जप्त्वा जलं मन्त्रयित्वा सिषेच नृपतिं तदा ॥ ४॥
सिक्तमात्रे जले तेन तन्नासारन्ध्रतो लघुः ।
कृष्णास्यः प्राप तद्भूमौ ववृधे तत्क्षणादसौ ॥ ५॥
सप्ततालप्रमाणोऽभूद् व्यादितास्यो भयङ्करः ।
करालजिव्हो रक्ताक्षो दीर्घबाहुर्जटाधरः ॥ ६॥
मुखादुरू वमन्नग्निं क्षणाच्च पूयशोणिते ।
नेत्राणामन्धतां कुर्वन्नन्धकार इवापरः ॥ ७॥
आलोक्य दुद्रुवुः सर्वे तदाश्रमनिवासिनः ।
दंष्ट्रारावैर्दशदिशः पूरयन्तं तमद्भुतम् ॥ ८॥
अपृच्छत् तं द्विजवरस्तत्समक्षं तु पूरुषम् ।
विद्वानपीति कोऽसित्वं नाम ते किं वदस्व मे ॥ ९॥
प्रत्युवाच मुनिं तं तु परिपृष्टो द्विजेन सः ।
प्राणिमात्रशरीरस्थो नाम्नाऽहं पापपूरुषः ॥ १०॥
त्वन्मन्त्रजलपातेन नि।सृतो राजदेहतः ।
क्षुधातुरो भक्ष्यमीहे देहि महयं न चेत् तदा ॥ ११॥
भक्षयिष्ये मुने लोकान् सोमकान्त तवाग्रतः ।
वद मे वसतिं रम्यामितो निःसारितस्यच ॥ १२॥
ततस्तु बहिरभ्येत्य तमुवाच मुनिः पुनः ।
अस्मिन् रसाले सरले विरसे वस कोटरे ॥ १३॥
गलितानिच पत्राणि भक्षयस्व ममाज्ञया ।
नोचेत् त्वां भस्मसात् कुर्यां नानृतं मे वचोऽधम ॥ १४॥
सूत उवाच ।
इति तन्मुनि वाक्यान्ते शुष्कं स वृक्षमस्पृशत् ।
भस्मसादभवद्वृक्षो द्विजास्तत्स्पर्शमात्रतः ॥ १५॥
मुनेः सन्दर्शनाद्भीतस्तस्मिन् भस्मन्यलीयतः ।
तस्मिन् विलीने स मुनिः सोमकान्तं पुनर्जगौ ॥ १६॥
भृगुरुवाच ।
पुराणश्रवणाद् यत्ते जातं पुण्यं नृपोत्तम ।
अयं यावच्च्यूततरूरत्र चोत्तिष्ठते पुनः ॥ १७॥
तावत्सम्पादयास्मिंस्तद्भस्मन्येव दिने दिने ।
विवृद्धेऽस्मिंस्तरौ राजन्निष्पापस्त्वं भविष्यसि ॥ १८॥
राजोवाच ।
गणेशस्य पुराणं यन्नदृष्टं न च वै श्रुतम् ।
कुत्र तल्लभ्यते ब्रह्मन् व्याकर्ता तस्य वा मुने ॥ १९॥
मुनिरुवाच ।
ब्रह्मणा कथितं पूर्वं वेदव्यासाय धीमते ।
व्यासाच्च विदितं मह्यं पुराणं पापनाशनम् ॥ २०॥
अहं तेच प्रवक्ष्यामि तीर्थे स्नानं समाचर ।
श्रोष्ये पुराणमितिच सङ्कल्पं कुरू सुव्रत ॥ २१॥
सूत उवाच ।
भृगुणानोदितः स्नात्वा भृगुतीर्थेऽति विश्रुते ।
सोमकान्तो मुदायुक्तस्ततः सङ्कल्पमाचरत् ॥ २२॥
गणेशस्य पुराणं यत् तच्छ्रोष्येऽद्य प्रभृत्यहम् ।
सङ्कल्पमात्रे तु कृतें बभौ राजा निरामयः ॥ २३॥
भृगुप्रसादान्नीरक्तः कृमिक्षतविसर्जितः ।
गृहीत्वा तं भृगुरगाद्विस्मितं हर्षितं नृपम् ॥ २४॥
उपविश्यासने स्वीयेऽदापयत्तस्य चासनम् ।
उपविष्टो बभाषे तं दिव्यकान्तिर्नृपोत्तमः ॥ २५॥
राजोवाच ।
भवत्प्रसादात्सकला गरिष्ठा सङ्कल्पमात्रेण गता व्यथा मे ।
आश्चर्यभूतं सकलं वदस्व पुराणमेतद् द्विरदाननस्य ॥ २६॥
भगुरुवाच ।
शृणुष्वावहितो भूत्वा तत्पुराणं वदाम्यहम् ।
अनन्तपुण्यनिचयैर्यस्य श्रवणगोचरा ॥ २७॥
मतिरुत्पद्यते पुसां नान्यथा पापकारिणाम् ।
यस्याकर्णनमात्रेण सप्तजन्मार्जितान्यपि ॥ २८॥
लघुशुष्कार्दस्थूलानि पापानिच महान्त्यपि ।
तत्क्षणाद् विलयं यान्ति गणेशस्य प्रसादतः ॥ २९॥
अव्ययस्याऽप्रमेयस्य निर्गुणस्य निराकृतेः ।
मनोवागनिरुप्यस्य केवलानन्दरूपिणः ॥ ३०॥
यस्य स्वरूपं न विद्रुर्ब्रह्मेशानादयः सुराः ।
सहस्रवदनो यस्य महिमानं न च क्षमः ॥ ३१॥
यावद् विशेषविदपि प्रवक्तुं राजसत्तम ।
मया यथा श्रुतं पूर्वं तत्पुराणं सुपुण्यदम् ॥ ३२॥
अतीन्द्रियज्ञानवतो व्यासाच्चाऽमिततेजसः ।
यज्ञविध्वंसशोकार्तो दक्षः सुश्राव मुद्गलात् ॥ ३३॥
यस्य भक्तिर्दृढा राजन् गणेशे सर्वसिद्धिदे ।
स एतच्छृणुयान्नित्यं न वाच्यं तादृशेतरे ॥ ३४॥
यदि सर्वेऽपि कुर्वीरन् विघ्नराजस्य सेवनम् ।
क्व तदा विघ्ननिचया विहरेयुर्यथासुखम् ॥ ३५॥
दुःखान्यनुभवेयुः के नानाविरहजान्युत ।
चकारेदं पुरा व्यासो भूतभव्यभविष्यवित् ॥ ३६॥
वेदार्थज्ञानरहितान् वेदाध्ययनवर्जितान् ।
वर्णाश्रमाचारशून्यान् जातिसङ्करकारिणः ॥ ३७॥
कलौ विलोक्य तु जनान् कुटिलान् पापकारिणः ।
अष्टादशपुराणानि कृतवान् धर्मगुप्तये ॥ ३८॥
तावन्त्युपपुराणानि ततोऽर्थान् बुबुधुर्जनाः ।
तत एव गणेशस्य रूपं जानन्त्यमी जनाः ॥ ३९॥
इति श्रीगणेशपुराणे उपासनाखण्डे राजोपदेशज्ञानोपदेशकथनं नाम नवमोऽध्यायः ॥ ९॥
आदितः श्लोकानां समष्ट्यङ्काः - ३२२ + ३९ = ३६१
१.१० व्यास प्रश्न वर्णनं नाम दशमोऽध्यायः
भृगुरुवाच ।
नारायणांशसम्भूतः पाराशर्यो महामुनिः ।
अतीतानागतज्ञानी वेदशास्त्रार्थतत्त्ववित् ॥ १॥
कृत्वा वेदं चतुर्भागं तदर्थज्ञानसिद्धये ।
स विद्यामदगर्वेण पुराणं कर्तुमारभत् ॥ २॥
समाप्तिसाधनं नैव कृतवान्मङ्गलं पुरा ।
गणेशस्य नतिं वापि स्तुतिं वा तस्य वा क्वचित् ॥ ३॥
ततो विघ्नाभिभूतः सन्नर्थं कञ्चन नास्मरत् ।
भ्रान्तिरेवाभवत्तस्य लौकिकेऽलौकिके पथि ॥ ४॥
नित्ये नैमित्तिके काम्ये श्रौते स्मार्ते च कर्मणि ।
व्याख्यातुर्वेदशास्त्राणां सर्वज्ञस्य सतोऽपि हि ॥ ५॥
ओषधीभिश्च मन्त्रैश्च भग्नवीर्य इवाहिराट् ।
तस्तम्भे स्वात्मनि भृशं तद्धेतुं नाध्यगच्छत ॥ ६॥
ततोऽगच्छत् सत्यलोकं धातारं प्रष्टुमादरात् ।
विस्मयाक्रान्तहृदयो ह्रिणः पाराशरो मुनिः ॥ ७॥
नमस्कृत्य देवगणान् देवर्षीन् कमलासनम् ।
पूजितो ब्रह्मणा दत्ते निषसादासने शुभे ॥ ८॥
पाणिना चास्पृशत् पादौ पाराशर्यो महामुनिः ।
प्रणयावनतो भूत्वा ब्रह्माणं प्रष्टुमारभत् ॥ ९॥
व्यास उवाच ।
ब्रह्मन्नद्भुतमेतद्धि किं मे दैवादुपस्थितम् ।
वेदार्थानि पुराणानि कर्तुं मे बुद्धिरादृता ॥ १०॥
आवीक्षतोऽखिलाँल्लोकान् ज्ञानाचारविवर्जितान् ।
कलौकर्मजडाँस्तब्धान्नास्तिकान् वेदनिन्दकान् ॥ ११॥
विधिं चैव निषेधं च ज्ञास्यन्ति मम वाक्यतः ।
ममैव तु गतं ज्ञानं भ्रान्तः क्षीब इवाऽभवम् ॥ १२॥
न हेतुं तत्र पश्यामि स्फूर्तिः काऽपि न जायते ।
तद्धेतुं स्फूर्तिहेतुञ्च प्रष्टुं त्वामहमागतः ॥ १३॥
अन्यं कं शरणं यामि विना त्वां चतुरानन ।
सर्वज्ञः सर्वकर्ता त्वं मम भ्रान्तिं निवारय ॥ १४॥
वद हेतुं मम भ्रान्तेर्नानारायणस्वरूपिणः ।
नित्याचाररतो ब्रह्मन् सर्वज्ञस्य सतोऽपि च ॥ १५॥
सूत उवाच ।
एवमाकर्ण्य तद्वाक्यं विचार्यं कमलासनः ।
प्रणतं मुनिमभ्याह प्रहसन्विस्मयन्निव ॥ १६॥
ब्रह्मोवाच ।
हन्त ते कथयिष्यामि गतिं सूक्ष्मां हि कर्मणाम् ।
विचार्य सम्यक्कर्तव्यं कर्मसाध्वितरच्च यत् ॥ १७॥
अन्यथा कुर्वतः पुंसः कृतं भवति चान्यथा ।
बुद्ध्या युक्त्याऽऽर्जवेनापि गुरूणि च लघूनि च ॥ १८॥
कार्याणि साधयेद्धीमान् न गर्वान्न च मत्सरात् ।
वाहनत्वं समापन्नो गर्वेण तु खगेश्वरः ॥ १९॥
मत्सरान्नाशितं सर्वमाम्बिकेय सुतेन च ।
मत्सरादेव रामेण क्षत्रमुत्सादितं पुरा ॥ २०॥
योऽनादिनिधनोदेवो जगत्कर्ता जगन्मयः ।
जगद्धाता जगद्धर्ता सदसद्व्यक्तमव्ययम् ॥ २१॥
यो कर्तुमन्यथा कर्तुं शक्तः कर्तुं च सर्वदा ।
यस्याऽऽज्ञावशगा नित्यं देवा इन्द्रपुरोगमाः ॥ २२॥
अहं विष्णुश्च रुद्रश्च सूर्याग्निवरुणादयः ।
यो विघ्नहर्ता भक्तानां विघ्नकर्तेतरस्य च ॥ २३॥
तस्मिँस्त्वं कृतवान् गर्वं स्वविद्याबलसंश्रयात् ।
सर्वज्ञताऽभिमानेन न कृतं पूजनं त्वया ॥ २४॥
स्मरणं वा गणेशस्य प्रारम्भेऽन्यस्य वा तथा ।
न कृतं च त्वया व्यास तेन भ्रान्तिस्तवाऽनघ ॥ २५॥
आरम्भे सर्वकार्याणां प्रवेशे वापि निर्गमे ।
श्रौते स्मार्ते लौकिके यो स्मृतोऽविघ्नं करोतिच ॥ २६॥
यमाहुः परमानन्दं यमाहुः परमां गतिम् ।
यमाहुः परमं ब्रह्म वेदशास्त्रार्थदर्शिनः ।
तं गच्छ शरणं वत्स द्विरदाननमादरात् ॥ २७॥
स चेत्प्रसन्नो भगवान् वाञ्छितं ते करिष्यति ।
नो चेद् वर्ष सहस्रेण न स्ववाञ्छामवाप्स्यति ॥ २८॥
व्यास उवाच ।
को सौ गणेशः किं चास्य रूपं वेद्यं कथं च तत् ।
कस्य वाऽयं प्रसन्नोऽभूत् पूर्वं हि चतुरानन ॥ २९॥
कति वा ह्यवताराश्च किं किङ्कार्य च वै कृतम् ।
पूर्वं च पूजितः केन कस्मिन्काले स्मृतोऽपि च ॥ ३०॥
मम विक्षिप्तचित्तस्य पृच्छतः प्रपितामह ।
एतत्सर्वं सुविस्तार्यं ब्रूहि मे करुणानिधे ॥ ३१॥
इति श्रीगणेशपुराणे उपासनाखण्डे व्यासप्रश्नवर्णनं नाम दशमोऽध्यायः ॥ १०॥
आदितः श्लोकानां समष्ट्यङ्काः ३६१ + ३१ = ३९२
१.११ मन्त्रकथनं नामैकादशोऽध्यायः
भृगुरुवाच ।
जगादभूयश्चतुराननस्तमेवं कृतप्रश्नविवक्षयाऽथ ।
क्रमेण सर्वं कथयामि तेऽहं गणेशमन्त्रान् बहुधा विचार्य ॥ १॥
ब्रह्मोवाच ।
अनन्ता हि मुने मन्त्रा गणेशस्य महात्मनः ।
उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते ॥ २॥
सप्तकोटिमहामन्त्रा गणेशस्यागमे स्थिताः ।
तद्रहस्यं शिवो वेद किञ्चित् किञ्चिदहं मुने ॥ ३॥
षडक्षरैकाक्षरयोः श्रेष्ठत्वं तेषु विद्यते ।
ययोः स्मरणमात्रेण सर्वसिद्धिः करे भवेत् ॥ ४॥
जीवनमुक्ता भवन्त्येव यदुपासनया मुने ।
त एव धन्यास्ते पूज्यास्ते नमस्याः सुरैरपि ॥ ५॥
यदुपासनया दास्यं येषां कुर्वन्ति सिद्धयः ।
इच्छाविहाराः सर्वज्ञा नानारूपा भवन्ति ते ॥ ६॥
ये कुर्वन्ति गणेशस्य भक्तिं भावसमन्विताः ।
न येषां भक्तिलेशोऽपि तेषां जन्म निरर्थकम् ॥ ७॥
नालोकयन्मुखं तेषां विमुखा ये गजानने ।
तेषां दर्शनमात्रेण विघ्नानि स्युः पदे पदे ॥ ८॥
विघ्नान्युपशमं यान्ति तदुपासकदर्शनात् ।
नमस्यन्ति च भूतानि स्थावराणि चराणि च ॥ ९॥
अतस्तेऽहं प्रवक्ष्यामि मन्त्रमेकाक्षरं शुभम् ।
तदनुष्ठानमात्रेण वाञ्छितं समवाप्स्यसि ॥ १०॥
अनुष्ठानं प्रवक्ष्यामि यथोक्तं शम्भुना मम ।
स्नानं कृत्वा धौतवस्त्रे परिधाय शुचिर्नरः ॥ ११॥
चैलाजिनं कुशैः कृत्वा स्वासनं साधकः सुधीः ।
तस्मिन् स्थित्वा भूतशुद्धिं प्राणानां स्थापनं तथा ॥ १२॥
अन्तर्बहिर्मातृकाणां न्यासं कृत्वा त्वतन्द्रितः ।
प्राणायामं ततः कृत्वा मूलमन्त्रं जपन् हृदि ॥ १३॥
मन्त्रसन्ध्यामुपासीत आगमोक्तां यथाविधि ।
आपादमस्तकं देवं ध्यात्वा निश्चलचेतसा ॥ १४॥
मानसैरूपचारैस्तं पूजयेत् सुसमाहितः ।
ततो जपेद्यथाशक्ति पुरश्चरणमार्गतः ॥ १५॥
अनुकूलो भवेद्यावद् वरं दातुं गजाननः ।
स्वरूपं दर्शयेद्यावत्तावज्जपपरो भवेत् ॥ १६॥
भृगुरुवाच ।
एवमुक्त्वा मुनिं ब्रह्मा विलोक्य शुभवासरम् ।
एकाक्षरं मन्त्रराजमेकार्णं गणपस्य च ॥ १७॥
अशिक्षयत् तदा सर्वं सम्भ्रान्तं मुनिसत्तमम् ।
ब्रह्मोवाच ।
सूर्यकोटिप्रतीकाशं वरं दातुं समागतम् ॥ १८॥
यदा द्रक्ष्यसि तं देवं तदा चित्तं स्थिरीकुरु ।
ममैव हृदये नित्यं स्थिरो भव गजानन ॥ १९॥
वृणीष्वेति वरं तस्मात् स ते दास्यत्यसंशयम् ।
हृदि स्थिते तत्र देवे दिव्यं ज्ञानमवाप्स्यसि ॥ २०॥
भूतं भावि भवच्चैव ज्ञास्यसि त्वमशेषतः ।
हित्वा भ्रान्तिं दृढां वत्स नानाग्रन्थान् करिष्यसि ॥ २१॥
व्यास उवाच ।
गता भ्रान्तिर्मम पितरुपदेश कृते त्वया ।
अनुष्ठानं करिष्यामि पितामह तवाज्ञया ॥ २२॥
ब्रह्मोवाच ।
एकान्ते निर्जने देशे व्यग्रताहेतुवर्जिते ।
अनुष्ठानं कुरू विभो गजाननमनुस्मरन् ॥ २३॥
नास्तिके निन्दके क्रूरेऽनाचारे च खले शठे ।
न वक्तव्यो मन्त्रराजस्तादृशे शरणागते ॥ २४॥
दृढभक्तौ श्रद्दधाने विनीते वेदवादिनि ।
साकाङ्क्षे निरनुक्रोशे शास्त्रज्ञे च प्रकाशय ॥ २५॥
प्रापयत्येव नरकान् दशपूर्वान् दशापरान् ।
मन्त्रराजस्तु वक्तारमप्रकाश्ये प्रकाशितः ॥ २६॥
यो जपेद् भक्तिपूर्वं तु स लभेदीप्सितं फलम् ।
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ॥ २७॥
एकदन्तप्रभावेण लब्ध्वा ज्ञानं सुनिर्मलम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्नुयात् ॥ २८॥
इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नामैकादशोऽध्यायः ॥ ११॥
आदितः श्लोकानां समष्ट्यङ्काः - ३९२ + २८ = ४२०
१.१२ गजाननदर्शनन्नाम द्वादशोऽध्यायः
सूत उवाच ।
इति श्रुत्वा तु वचनं निर्गतं ब्रह्मणो मुखात् ।
हर्षेण महता युक्तो मुनिः पप्रच्छ तं पुनः ॥ १॥
व्यास उवाच ।
अवधानं मया प्राप्तं पीत्वा वागमृतं तव ।
इदानीं श्रोतुमिच्छामि मन्त्रराजमिमं पितः ॥ २॥
को जजाप कथं सिद्धिमवाप च गजाननात् ।
एतं मे संशयं छिन्धि त्वत्तोऽन्यो नास्ति मे गुरूः ॥ ३॥
भृगुरुवाच ।
इत्येवं मुनिना पृष्टो जगाद वदतां वरः ।
कृपयावनतं ब्रह्मा तं व्यास राजसत्तम ॥ ४॥
ब्रह्मोवाच ।
साधु साधु त्वया पृष्टं पुण्यवानसि साम्प्रतम् ।
न ह्यपुण्यवतां ब्रह्मन् कथायाः श्रवणे रतिः ॥ ५॥
उपासनामार्गमिमं सम्यक्त्वां बोधयाम्यहम् ।
स्निग्धे प्रज्ञाधिके शिष्ये यतो गोप्यं न किञ्चन ॥ ६॥
ॐकाररूपी भगवानुक्तसे गणनायकः ।
यथा सर्वेषु कार्येषु पूज्यतेऽसौ विनायकः ॥ ७॥
निर्विघ्नकामनावद्भिर्नोचेद्विघ्नं करोति सः ।
तथोङ्कार बीजयुक्ता ॐकार पल्लवान्विताः ॥ ८॥
मन्त्राः सर्वागमे प्रोक्ता अन्ये ये निष्फलाश्च ते ।
सदसद् व्यक्तमव्यक्तं सर्वं हि गणनायकः ॥ ९॥
एवं सर्वे देवसिद्धमुनिराक्षसकिन्नराः ।
गन्धर्वाश्वारणा नागा यक्षगुह्यकमानवाः ॥ १०॥
उपासका गणेशस्य सर्वे लोकाश्चराचराः ।
अत एव गणेशाद्धि परं किञ्चिन्न विद्यते ।
इदानीं कथयिष्यामि कथामेकां पुरातनीम् ॥ ११॥
मन्त्रराजजपेनायं यथा तुष्टो गजाननः ।
कदाचिद्दैवयोगेन प्रलये समुपस्थिते ॥ १२॥
वायुभिः पर्वता भिन्नाः पतिताः परितो दिशम् ।
तपन्ति द्वादशादित्याः शोषयित्वा जलं महत् ॥ १३॥
ज्वालामाली महावन्हिरखिलं ज्वलयत्यपि ।
संवर्त्तका महामेघा वर्षन्ति परितो जलम् ॥ १४॥
हस्तिहस्तोपमाभिस्तु धाराभिर्द्विजसत्तम ।
उल्लङ्घयन्ति मर्यादां सागराः सरितोऽपि च ॥ १५॥
एवं सर्वे विनश्यन्ति ह्याब्रह्मस्थावरादयः ।
एवं मायामये नष्टे विकारेऽसौ गजाननः ॥ १६॥
अणुभ्योऽणुतरं रूपं कृत्वा क्वापि व्यवस्थितः ।
ततः काले बहुतरे गतेऽन्धतमसावृते ॥ १७॥
एकाक्षरं पुनर्ब्रह्म नादयुक्तमजायत ।
वैकारिकं पुनारूपं यदा नादमयं स्थितम् ॥ १८॥
मायाविकारमासाद्य तदेवाभूद् गजाननः ।
तत एव च सम्भूता गुणाः सत्त्वं रजस्तमः ॥ १९॥
ततस्त्रयः समुत्पन्ना विष्णुर्ब्रह्मा हरोऽपि च ।
मामया रचितं सर्वं त्रैलोक्यं सचराचरम् ॥ २०॥
ततस्तन्मायया भ्रान्ता बभ्रुमुस्ते सुरास्त्रयः ।
तमेव जनक स्वस्य द्रष्टुं प्रष्टुं समुत्सुकाः ॥ २१॥
किमस्याभिः कर्म कार्यमिति जिज्ञासया मुने ।
एकविंशतिस्वर्गाणि पूर्वमूर्ध्वं विलोक्यते ॥ २२॥
अन्तरिक्षं तया तिर्यक् पश्चात् पातालमाययुः ।
अदृष्ट्वा परमात्मानं तपश्चेरूस्ततो भृशम् ॥ २३॥
निराहारा जपपरा दिव्यवर्षसहस्रकम् ।
श्रान्ताः खेदमनुप्राप्तास्ततस्ते पृथिवीं पुनः ॥ २४॥
विचिन्वन्तो ययुर्द्रष्टं वनान्युपवनानि च ।
सरितः सागरान् शैलान् शिखराणि गुहापि च ॥ २५॥
ततो जलाशयं ते तु महान्तं ददृशुः सुराः ।
नानाजलचरैर्वृक्षैः पक्षिभिर्विविधैर्युतम् ॥ २६॥
बलाकाभिश्चक्रवाकैर्हंसैः कारण्डकैरपि ।
नादितं नलिनीजालं बिसखण्डाशने रतैः ॥ २७॥
स्नात्वा विश्रम्य तत्तीरे समुत्तीर्य पुरो ययुः ।
नानावीचिसमायुक्तं महान्तं तं जलाशयम् ॥ २८॥
सुदुस्तरतरं पुंसां झषनक्रसमाकुलम् ।
ईक्षां चक्रुः सुदुर्दर्शं प्रलयानलसन्निभम् ॥ २९॥
कोटिसूर्यप्रतीकाशं तेजोराशिं पुरो मुने ।
चिन्तामापुः परान्ते तु तेजसा हृतदृष्टयः ॥ ३०॥
ततो गगनमार्गेण तेजोमध्याद् विनिर्गताः ।
क्षुधातृषापरिश्रान्ता निश्वसन्तो मुहुर्मुहुः ॥ ३१॥
निन्दतश्च शपन्तश्च स्वात्मानं जातसाध्वसाः ।
ततोऽति करूणाविष्टो लोकाध्यक्षोऽखिलार्थवित् ॥ ३२॥
दर्शयामास तान् रूपं मनोनयननन्दनम् ।
पादाङ्गुलीनखश्रीर्भिजितरक्ताब्जकेसरम् ॥ ३३॥
रक्ताम्बरप्रभावात्तु जितसन्ध्यार्कमण्डलम् ।
कटिसूत्रप्रभाजालैर्जितहेमाद्रिशेखरम् ॥ ३४॥
खड्गखेटधनुःशक्तिशोभि चारूचतुर्भुजम् ।
सुनासं पूर्णिमाचन्द्रजितकान्ति मुखाम्बुजम् ॥ ३५॥
अहर्निशं प्रभायुक्तं पद्मचारुसुलोचनम् ।
अनेकसूर्यशोभाजिन्मुकुटभ्राजिमस्तकम् ॥ ३६॥
नानाताराङ्कितव्योमकान्तिजिदुत्तरीयकम् ।
वराहदंष्ट्राशोभाजिदेकदन्तविराजितम् ॥ ३७॥
ऐरावतादि दिक्पालभयकारि सुपुष्करम् ।
दृष्ट्वैव सहसा देवं प्रणेमुस्ते मुदा मुने ।
पादाम्बुजमुपस्पृश्य ततः स्तोतुं प्रचक्रमुः ॥ ३८॥
इति श्रीगणेशपुराणे उपासनाखण्डे गजाननदर्शनन्नाम द्वादशोऽध्यायः ॥ १२॥
आदितः श्लोकानां समष्ट्यङ्काः - ४२० + ३८ = ४५८
१.१३ ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः
व्यास उवाच ।
पञ्चास्यश्चतुरास्यश्च सहस्रमस्तकोऽपि च ।
गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः ॥ १॥
ब्रह्मोवाच ।
प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणात् ।
प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा ॥ २॥
ब्रह्मविष्णुमहेश्वरा ऊचुः ।
अजनिर्विकल्पं निराकारमेकम् निरानन्दमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम् ॥ ३॥
गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ ४॥
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम् ॥ ५॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदा चिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नमामः ॥ ६॥
सदासत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगन्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदाविष्णु रूपं गणेशं नमामः ॥ ७॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः ॥ ८॥
तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ९॥
निजैरौषधीस्तर्पयन्तं करौघैः सुरौघान् कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ १०॥
प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियाऽनेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ११॥
प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं सदा विश्वरूपं गणेशं नताःस्मः ॥ १२॥
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनोविघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेत ॥ १३॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगाद्लब्ध्वास्तवाङ्घ्रिं बहुन् वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वम्भराद्य ॥ १४॥
ब्रह्मोवाच ।
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १५॥
श्रीमद्गणेश उवाच ।
यदर्थं क्लेशिता यूयं यदर्थमिह चागताः ।
प्रीतोऽहमनया स्तुत्या वरं मत्तो वृणीत तम् ॥ १६॥
कृतं च मम यत् स्तोत्र भवद्धिर्भावितात्मभिः ।
स्तोत्रराजमितिख्यातं भविष्यति मदाज्ञया ॥ १७॥
इदं यः पठेत् प्रातरुत्थाय धीमान् त्रिसन्ध्यं सदा भक्तिर्युक्तो विशुद्धः ।
स पुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ॥ १८॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा सन्तुष्टास्ते तमब्रुवन् ।
तदीक्षया रजः सत्त्वतमोगुणसमुद्भवाः ॥ १९॥
त्रय ऊचुः ।
यदि तुष्टोऽसि देवेश ! सृष्टिसंहारकारक ।
तवाङ्घ्रिकमले नोऽस्तु भक्तिरव्यभिचारिणी ॥ २०॥
किं चास्माभिः प्रकर्तव्यमाज्ञापयतु नो भवान् ।
अयमेव वरोऽस्माकं वाञ्छितो द्विरदानन ॥ २१॥
इति श्रुत्वा वचस्तेषां पुनः प्राह गजाननः ।
भविष्यति महाभागा मयिभक्तिर्दृढा हि वः ॥ २२॥
सङ्कष्टानि यथा यूयं तरिष्यथ महान्त्यपि ।
भवत्ख्यात्यै प्रवक्ष्यामि कार्याणिच पृथक् पथक् ॥ २३॥
सृष्टिकर्ता भव ब्रह्मन् रजोगुणसमुद्भवः ।
पालनं कुरु विष्णो त्वं व्यापकः सत्त्वसंश्रयः ॥ २४॥
हर संहर सर्वं त्वं तमोगुणसमुद्भवः ।
ब्रह्मोवाच ।
वेदशास्त्रपुराणानि सृष्टिसामर्थ्यमेव च ॥ २५॥
ददौ गणशोन्यां विद्यां ब्रह्मणे मत्द्यमादरात् ।
विष्णवे भगवान् प्रादात् योगात् स्वच्छन्दरूपताम् ॥ २६॥
एकाक्षरं षडर्णञ्च मन्त्रं सर्वागमाँस्तथा ।
हराय भगवान् प्रादाच्छक्तिं संहरणेऽपि च ॥ २७॥
ततश्चाहं दीनमनास्त्रैलोक्येशं जगद्गुरुम् ।
उवाच प्राञ्जलीर्भूत्वा वरदं तमिभाननम् ॥ २८॥
ब्रह्मोवाच ।
यथागृहीतशक्तिस्तु वाच्यावाच्यं विवक्ति न ।
तथाऽनेकविधां सृष्टिमद्दष्ट्वा क्वापि किञ्चन ॥ २९॥
कर्तुं वापि विभोराज्ञाविभेदं कथमुत्सहे ।
इतः कूप इतो वापीत्येवं प्राप्तं मया कथम् ॥ ३०॥
ततो गजाननः प्राह दिव्यं चक्षुः प्रदाय तम् ।
ब्रह्माणं वेदशास्त्रज्ञ तथा व्याकुलितं प्रभुः ॥ ३१॥
गजानन उवाच ।
बहिरन्तः शरीरे मे सङ्ख्यातीतानि पद्मज ।
ब्रह्माण्डानि त्वमद्यैव विभ्रमन्ति विलोकय ॥ ३२॥
ब्रह्मोवाच ।
ततो गजाननेनाऽहं स्वोदरे श्वासवायुना ।
नीतो ददर्श धाताऽपि ब्रह्माण्डानि त्वनेकशः ।
औदुम्बराणीव तरौ तेषु वा मशकानिव ॥ ३३॥
भेदयामास तत्रैकं परमेण स्वतेजसा ।
तदन्तः सकलां सृष्टिं ददर्शाऽथ पुनः पुनः ॥ ३४॥
ब्रह्माणं चापरं तत्र विष्णुमिन्द्रं प्रजापतिम् ।
शङ्करं भास्करं वायुं वनानि सरितोंऽम्बुपम् ॥ ३५॥
सागरान् यक्षगन्धर्वानप्सरःकिन्नरोरगान् ।
ऋषीन् पुण्यजनान् साध्यान् मनुष्यान् पर्वतान् द्रुमान् ॥ ३६॥
उद्भिज्जान् जारजान् जन्तून स्वेदजानण्डजानपि ।
पृथ्वीञ्च सप्तपातालान्यव्ययान्येकविंशतिम् ॥ ३७॥
ददर्श विश्वं चाहं वै भावाभावं चराचरम् ॥ ३८॥
यद्यच्चाहं भेदयामास चांण्डं तस्मिन्स्तस्मिन् सर्वमेवं ददर्श ।
दृष्ट्वा भ्रान्तिं पूर्ववत् सम्प्रपेदे तेषामन्तं सर्वाथा नाध्यगच्छम् ॥ ३९॥
न स्थातुं नैव वा गन्तुं शशाक कमलासनः ।
उपविश्य ततो ब्रह्मन् तुष्टाव द्विरदाननम् ॥ ४०॥
ब्रह्मोवाच ।
वन्दे देवं देवदेवं गणेशं ब्रह्माण्डानां नैव सङ्ख्या यदङ्गे ।
अभ्रोडुनां सागरे वा झषाणां कः सङ्ख्याता शर्कराणां च तीरे ॥ ४१॥
लज्जा न मे त्राऽस्ति सुरेन्द्रवन्द्य पादारविन्दं तव यद्विलोक्य ।
भ्रान्तोऽभवं ज्ञाननिधौ प्रसन्ने मोक्षोऽपि तुच्छः किमुताऽन्यवार्ता ॥ ४२॥
दृष्टं च नानार्थयुतं सुरेश ब्रह्माण्डकूटं जठरे त्वदीये ।
स्थातुं बहिर्गन्तुमपीह नेशस्त्वदन्यदेवं शरणं न चैमि ॥ ४३॥
ततः प्रसन्नो भगवाननन्तो वै गजाननः ।
बहिर्निष्कासयामास तदा मां खिन्नमानसम् ॥ ४४॥
नासिकारन्ध्रमार्गेण हरिं मदनुयायिनम् ।
तामसं च हरं देवो विष्णुना सह सङ्गतम् ॥ ४५॥
निःसारयामास विभुः श्रुतिरन्ध्राद्गजाननः ।
शयाते स्म तदङ्गे तावुभौ हरिहरौ सुखम् ॥ ४६॥
इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३॥
आदितः श्लोकानां समष्ट्यङ्काः ४५८ + ४६ = ५०४
१.१४ ब्रह्मचिन्तावर्णनं नाम चतुर्दशोऽध्यायः
राजोवाच ।
ततः किमकरोद् ब्रह्मा वीक्ष्याण्डानि सहस्रशः ।
कथञ्च सृष्टिमकरोदाज्ञां प्राप्य गजाननात् ॥ १॥
भृगुरुवाच ।
अभवद् गर्वसम्पन्नः स्वात्मन्येवं विचारयत् ।
वेद्मि शास्त्राणि वेदाँश्च पुराणान्यागमानपि ॥ २॥
ज्ञानविज्ञानसम्पन्नः शापानुग्रहशक्तिमान् ।
ब्रह्माण्डानि च दृष्टानि सष्टीनां रचनास्तथा ॥ ३॥
इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।
इत्येवं सर्वसम्पन्ने सृष्टयर्थं कमलोद्भवे ॥ ४॥
विघ्ना नानाविधा भूप प्रादुरासन् सहस्रशः ।
तं वेष्टयित्वा ब्रह्माणं स्थिताः परमदारुणाः ॥ ५॥
यथा मत्ताः पुष्परसैः सरघा मधुजालकम् ।
त्रिनेत्राः पञ्चहस्ताश्च कूपास्याः तप्तपाणयः ॥ ६॥
त्र्यङ्घ्रयः पञ्चतुण्डाश्च सप्ततुण्डाः षडङ्घ्रयः ।
दशास्याः पञ्चपादाश्च तालदन्ता वृकोदराः ॥ ७॥
नानारूपा महासत्त्वाः सङ्ख्यातुं न च ते क्षमाः ।
चकम्पे द्रुहिणस्तेषां नानारावान् निशम्य तान् ॥ ८॥
केचित् तं मुष्टिभिर्जघ्नुर्नेमुश्च नुनुवुः परे ।
चतुःशिखासु सङ्गृह्य दोलयामासुरादरात् ॥ ९॥
चत्वार्यपि मुखान्यस्य जहसुस्तं तथा परे ।
निनिन्दुश्च प्रशंसाञ्च चक्रुः केचित् सिषेविरे ॥ १०॥
मोचमायामासुरपरे बबन्धुरपरे पुनः ।
मोचितुं पुनरप्यन्ये विचकर्षुरितस्ततः ॥ ११॥
आलिलिङ्गुश्च तं केचिच्चुचुम्बुः शिशुवत् परे ।
अष्टश्मश्रुषु तं धृत्वा ननर्ते कोष्ठहस्तवान् ॥ १२॥
एवं स परवान्ब्रह्मा चिन्ताशोकसमन्वितः ।
अखर्वं सृष्टिगर्वं तं तत्याज हृदि सङ्गतम् ॥ १३॥
जगाम महतीं मूर्छां निराशः स्वस्य जीवने ।
मुहूर्तमात्रे तु गते सस्मार मनसा विभुम् ।
प्रार्थयामास कारुण्याद् रुदन्निव गजाननम् ॥ १४॥
ब्रह्मोवाच ।
न चायुष्यं स्वल्पं विविधजनने सक्तमनसो
न मे तत्त्वज्ञानं भवजलधितारं सुविमलम् ।
जनुर्भूमौ लब्ध्वा तव भजनतो यामि परमां
कदा भुक्तिं मुक्तिं निरुपमसुखां वाऽखिलगुरो ॥ १५॥
त्वत्कटाक्षामृतेनाक्तो भक्तः सीदति ते विभो ।
इयं लज्जा तवैवास्तां न मे मृत्युश्चिरायुषः ॥ १६॥
भृगुरुवाच ।
इत्यसौ प्रार्थयन्नेव शुश्राव गगनेरिताम् ।
गिरं तपस्वेति ततः प्रार्थयामास तां पुनः ॥ १७॥
अन्तर्हिताश्च ते विघ्नाः श्रुतायां नभसो गिरि ।
नानारूपा महावीर्या मुक्त्वा तं कमलासनम् ॥ १८॥
स मुक्तश्चिन्तयामास पद्मयोनिर्महायशाः ।
विना मन्त्रं विना स्थानं कथं तप्स्ये तपो महत् ॥ १९॥
इति व्याकुल चित्तोऽसौ बभ्राम जलमध्यतः ।
अनन्यमनसा ध्यायन् गजाननमनामयम् ॥ २०॥
मुकुटेन विराजन्तं मुक्तारत्नयुजा शुभम् ।
रक्तचन्दनलिप्ताङ्गं सिन्दूरारुणमस्तकम् ॥ २१॥
मुक्तादामलसत्कण्ठं सर्पयज्ञोपवीतिनम् ।
अनर्घ्यरत्नघटितबाहुभूषणभूषितम् ॥ २२॥
स्फुरन्मरकतभ्राजदङ्गुलीयकशोभितम् ।
महाहिवेष्टित बृहन्नाभिशोभिमहोदरम् ॥ २३॥
विचित्ररत्नखचितकटिसूत्रविराजितम् ।
सुवर्णसूत्रविलसद्रक्तवस्त्रसमावृतम् ॥ २४॥
भालचन्द्रं लसद्दन्त शोभाराजत्करं परम् ।
एवं ध्यायति तस्मिँस्तु पुनरेव नभोवचः ॥ २५॥
उदियाय वटं पश्य वटं पश्येति सुन्दरम् ।
श्रुत्वेति वचनं ब्रह्मा पुनश्चिन्तामवाप सः ॥ २६॥
इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मचिन्तावर्णनं नाम चतुर्दशोऽध्यायः ॥ १४॥
आदितः श्लोकानां समष्ट्यङ्काः ५०४ + २६ = ५३०
१.१५ गजानन पूजा निरूपणनाम पञ्चदशोऽध्यायः
भृगुरुवाच ।
व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।
सोमकान्त प्रवक्ष्यामि तां कथां शृणु सादरम् ॥ १॥
ब्रह्मोवाच ।
ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम ।
भ्रमता भ्रमता व्योमजले दृष्टो वटो महान् ॥ २॥
महावातातपाद्भिस्तु नष्टे स्थावरजङ्गमे ।
अवशिष्टः कशमयमेकएव वटो महान् ॥ ३॥
एवं संशयमापन्नस्तत्पत्रे बालकं लघुम् ।
चतुर्बाहुं सुमुकुटं कुण्डलाभ्यां विराजितम् ॥ ४॥
मणिमुक्तामयं दाम विभ्रत्कण्ठे सुशोभितम् ।
अर्धचन्द्रं रक्तवस्त्रं कटिसूत्रं तथैव च ॥ ५॥
एकदन्तं नरवपुर्गजास्यं तेजसा ज्वलत् ।
दृष्ट्वैवं तर्कयामास बालकं कथमत्र वै ॥ ६॥
पुष्करेण च बालोऽसौ जलं मन्मस्तकेऽक्षिपत् ।
ततोऽहमाजहासोच्चैश्चिन्तानन्दसमन्वितः ॥ ७॥
मय्याहसति बालः स उत्ततार वटात्ततः ।
स ममाङ्कं समागत्य मञ्जुवाक्यं जगाद ह ॥ ८॥
बाल उवाच ।
लघोर्लघुतरोऽसि त्वं वृथा वृद्धोऽपि मूढधीः ।
विघ्नैरभिहतोऽसि त्वं सृष्टिचिन्तासमावृतः ॥ ९॥
तपश्चिन्तापरो नित्यं विभ्रमञ्जलमध्यगः ।
सर्वचिन्ताहरं तेऽहुमुपायं चतुरानन ॥ १०॥
उपादिशामि ते मन्त्रमेकाक्षरमिमं मम ।
पुरश्चरणमार्गेण दशलक्षं जपस्व तम् ॥ ११॥
ततः प्रत्यक्षतां यास्ये दास्ये सामर्थ्यमुत्तमम् ।
ब्रह्मोवाच ।
दृष्ट्वैवं स्वप्नमाश्चर्यं प्रतिबुद्धोंऽभवं ह्यहम् ॥ १२॥
शुशोच च कदा मे स्याद्दर्शनं परमेशितुः ।
दृष्टस्वप्नोऽभवं मग्न आनन्दमयसागरे ॥ १३॥
ततः स्नात्वा परं मन्त्रं जजाप बहुवासरम् ।
एकपादेन कमले तिष्ठन् ध्यायन गजाननम् ॥ १४॥
जितेन्द्रियो जिताहारः काष्ठपाषाणवत् स्थिरः ।
दिव्यवर्षसहस्रं स तपस्तेपे परं महत् ॥ १५॥
ततो मन्मुखतो ज्वालाः प्रादुरासन् दुरासदाः ।
ताभिः सर्वाणि भूतानि पीडामापुः सुदारुणाम् ॥ १६॥
ततो गजाननो दृष्ट्वा तां निष्ठां मम सुदृढाम् ।
तुतोष परया भक्त्या प्रादुरासीत्ततः पुरः ॥ १७॥
कोटिसूर्यसमानश्रीर्ज्वालामालीव हव्यभुक् ।
दहन्निव त्रिलोकीं स संहरन्निव रोदसी ॥ १८॥
परशुकमलधारी दिव्यमायाविभूषः सकलदुरितहारी सर्वसौन्दर्यकोशः ।
करिवरमुखशोभी भक्तवाञ्छाप्रपोषः सुरमनुजमुनीनां सर्वविघ्नैकनाशः ॥ १९॥
तेजोराशिमहं दृष्ट्वा चकम्पे व्यास सन्मुने ।
चिन्तामवाप परमां व्यग्रचित्तो जपाच्च्युतः ॥ २०॥
आच्छादितानीक्षणानि स्मृतिश्च विलयं गता ।
दृष्ट्वेदृशीमवस्थां तां शीघ्रं प्राहाऽथ विघ्नराट् ॥ २१॥
गणेश उवाच ।
न भयं कुरू लोकेश ! स एवाहं समागतः ।
येन ते मन्त्र आदेशि स्वप्न एकाक्षरः शुभः ॥ २२॥
तेन सिद्धिरनुप्राप्ता वरं दातुं समागतः ।
सौम्यभावं प्रपन्नोऽस्मि वरं वरय सुव्रत ॥ २३॥
दास्यामि ते प्रसन्नोऽहं यत् ते हृदि वर्तते ।
मयि प्रसन्ने सर्वं तद्भविता नात्र संशयः ॥ २४॥
मुनिरुवाच ।
इत्थं निशम्य गणनाथ वचो विशुद्धं ब्रह्मा जहर्ष परमं प्रसमीक्षमाणः ।
नत्वा चराचरगुरूं सकलैः शिरोभिः प्राह प्रसन्नहृदयः सफलं जनुर्मे ॥ २५॥
ब्रह्मोवाच ।
यो वेदानां सशास्त्राणां ज्ञानिनां योगिनामपि ।
सर्वोपनिषदां चैव गोचरो न कदाचन ॥ २६॥
स पुण्यनिचयैर्मैऽद्य यातः प्रत्यक्षतां विभुः ।
अनादिनिधनोऽनन्तोऽप्रमेयो निर्गुणोऽपि च ॥ २७॥
यदि प्रसन्नो देवेश विघ्नेश करूणाकर ।
तव भक्तिं दृढां देहि यया दुःखं न नःस्पृशेत् ॥ २८॥
इदानीं देहि सामरर्थ्यं नाना निर्माणने मम ।
विघ्नानिच शमं यान्तु यदि तुष्टोऽसि मे प्रभो ॥ २९॥
स्मृतमात्रः सदा मे त्वं सर्वं कार्यं समापय ।
अन्ते मुक्तिं स्थिरां देहि ज्ञानञ्च विमलं मम ॥ ३०॥
गजानन उवाच ।
एवमस्तु कुरुष्व त्वं सृष्टिं नानाविधां बहुम ।
मां स्मृत्वा सर्वविघ्नानि नाशं यास्यन्ति सर्वतः ॥ ३१॥
दृढा भक्तिः शुभं ज्ञानं मत्प्रसादाद्भविष्यति ।
निःशङ्कं कुरू कार्याणि सर्वाणि चतुरानन ॥ ३२॥
मुनिरूवाच ।
एवं लब्धवरो ब्रह्मा पूजयामास तं विभुम् ।
यद्यच्चितेऽचिन्तयत् स तत् तदेवोपतिष्ठते ॥ ३३॥
पूजार्थं देवदेवस्य गणेशस्य प्रसादतः ।
दक्षिणावसरे द्वे तु कन्यके समुपस्थिते ॥ ३४॥
चारुप्रसन्ननयनवदनैः सुविराजते ।
अनेकरत्नखचितनानालङ्कारशोभिते ॥ ३५॥
दिव्यगन्धयुते दिव्यवस्त्रमालाविभूषते ।
ते तस्मै दक्षिणार्थं स कल्पयामास पद्मभूः ॥ ३६॥
रम्भागर्भेण नीराज्य दिव्यं पुष्पाञ्जलिं ददौ ।
सहस्रनामभिः स्तुत्वा प्रदक्षिणमथाकरोत् ॥ ३७॥
नमस्य प्रार्थयामास दीनानां शङ्करो भव ।
एवं सम्पूजितस्तेन ब्रह्मणा परमेष्ठिना ॥ ३८॥
ततः प्रसन्नो भगवान् विघ्नहर्ता गजाननः ।
सिद्धिबुद्धी गृहीत्वा ते ह्यन्तर्धानमगाद्विभुः ॥ ३९॥
कस्ततः कारयामास सृष्टिं पूर्ववदायताम् ।
आज्ञया परमेशस्य प्रसादाच्च प्रसन्नधीः ॥ ४०॥
इति श्रीगणेशपुराणे उपासनाखण्डे गजानन पूजा निरूपणनाम पञ्चदशोऽध्यायः ॥ १५॥
१.१६ देवीप्रार्थनं नाम षोडशोऽध्यायः
राजोवाच ।
श्रुत्वा कथां गणेशस्य हर्षश्चेतसि जायते ।
पुनश्च वद विप्रर्षे न तृप्यामि कथामृतम् ॥ १॥
अन्तर्हिते भगवति गणेशे परमात्मनि ।
कथं विनिर्ममे सृष्टिं ब्रह्मा तद् वर्णय प्रभो ॥ २॥
यच्चाग्रे कथयामास व्यासायाख्यानं विधिः ।
तदहं विस्तरेणैव श्रोतुमिच्छामि सन्मुने ॥ ३॥
भृगुरुवाच ।
सिद्धक्षेत्रस्य माहात्म्यं व्यासायाऽकथयत्प्रभुः ।
आनुपूर्व्येण तत् तेऽहं कथयिष्येऽसृजच्च यत् ॥ ४॥
स ब्रह्मा निर्ममे पूर्वं मनसा सप्त पुत्रकान् ।
आहतान्सृष्टिसाहाय्यं सृजध्वं स्वस्वबुद्धितः ॥ ५॥
ते तु तद्वचनं श्रुत्वा तपसे कृत निश्चयाः ।
तपस्तप्त्वाऽऽसु विपुलं परं ब्रह्म समागताः ॥ ६॥
ततोऽन्यान् कल्पयामास सप्त पुत्रान् प्रजापतिः ।
तेऽत्यन्त ज्ञानसम्पन्ना न चक्रुः सृष्टिमुत्तमाम् ॥ ७॥
ततः स्वयं समारेभे सनकादीन् विलोक्य तान् ।
मुखतो ब्रह्मणानग्निमसृजत् कमलासनः ॥ ८॥
बाहुरुपादतोऽन्याँस्त्रीन् वर्णां श्चन्द्रमसं हृदः ।
चक्षुभ्याञ्ज रविं श्रोत्रान्मारुतं प्राणमेव च ॥ ९॥
अन्तरिक्षं तथा नाभेः शिरसो दिवमेव च ।
भूमिं पद्भ्यां दिशः श्रोत्रादन्याँल्लोकानकल्पयत् ॥ १०॥
अन्यदुच्चावचं विश्वं स्थावरं जङ्गमं च यत् ।
समुद्रान् सरितः शैलाँस्तृणगुल्ममहीरुहान् ॥ ११॥
ततः कतिपयाहःसु गतेषु मुनिसत्तमाः ।
निद्रितस्य महाविष्णोः श्रोताज्जातो महासुरौ ॥ १२॥
मधुकैटभनामानौ विख्यातौ भुवनत्रये ।
द्रँष्ट्राकरालवदनौ पिङ्गाक्षौ दीर्घनासिकौ ॥ १३॥
महाकायौ महारावावत्युच्चौ पर्वताविव ।
वर्षामुदिरशब्दौ तौ गर्जन्तौ भृशगर्वितौ ॥ १४॥
वचोभिर्बहुभिर्दुष्टौ धिक्कारं तस्य चक्रतुः ।
विप्रान् देवान् ऋषीन् साधून् शास्त्राणिच निनिन्दतुः ॥ १५॥
तयोः शब्देन धरणी चकम्पे शेष एव च ।
उद्विग्नमासीत् सकलं ब्रह्माण्डं स्वनतस्तयौः ॥ १६॥
ततस्तौ क्रोधरक्ताक्षौ कं तं खादितुमुद्यतौ ।
ततोऽसौ वरदां देवीं विष्णुमोहनकारिणीम् ॥ १७॥
विष्णुनेत्रगतां निद्रां तुष्टाव कमलासनः ।
मधुकैटभनाशाय प्रबोधाय हरेरपि ॥ १८॥
गजानन प्रसादेन विष्णुहस्तात् तयोर्वधम् ।
ज्ञात्वा सम्यग्विचार्यैव चिन्ताहर्षसमन्वितः ॥ १९॥
ब्रह्मोवाच ।
स्वाहास्वधारूपधरा सुधा त्वं मात्रार्धमायास्वरूपिणी च ।
कर्त्री च हर्त्री जननी जनस्य सतोऽसतः शक्तिरसि त्वमेव ॥ २०॥
श्रुतिः स्वरा कालरात्रिरनादिनिधनाऽक्षया ।
जगन्माता जगद्धात्री सृष्टिस्थित्यन्तकारिणी ॥ २१॥
सावित्री च तथा सन्ध्या महामाया तृषा क्षुधा ।
सर्वेषां वस्तुजातानां शक्तिस्त्वमसि पार्वति ॥ २२॥
त्रैलोक्यकर्त्ता त्वन्नाथो दैत्यदानवसूदनः ।
निद्रया व्याप्तचित्तोऽसौ ज्ञानविज्ञानवान् हरिः ॥ २३॥
जगदुत्पाद्यते येन पाल्यते ह्रियतेऽपि च ।
सोऽपि त्वयावताराणां सङ्कटे विनियोज्यते ॥ २४॥
दुष्टात्मानौ मोहयैतौ त्वं दैत्यौ मधुकैटभौ ।
हन्तुमेतौ दुराधर्षौ ज्ञानमस्य प्रदीयताम् ॥ २५॥
अहमाराधितश्चाभ्यां पूर्वजन्मन्यतन्द्रितम् ।
वरान् बहुविधान प्रादामवध्यौ मम तावुभौ ॥ २६॥
तयोरुच्चावचान् शब्दानतोऽहमसहं बहु ।
मामेव हन्तुकामौ तौ स्तुतौ नानाविधैः स्तवैः ॥ २७॥
तथापि मद्वधातौ न निवृत्तौ दुष्टभावतः ।
अतस्त्वां प्रार्थये देवि विष्णुबोधनहेतवे ॥ २८॥
इति श्रीगणेशपुराणे उपासनाखण्डे देवीप्रार्थनं नाम षोडशोऽध्यायः ॥ १६॥
१.१७ मन्त्रोपदेशो नाम सप्तदशोऽध्यायः
यावदुत्तिष्ठते विष्णुस्तावत्ताभ्यां त्रिविष्टपम् ।
आक्रान्तमिन्द्रसदनं याम्यं कौबेरमेव च ॥ १॥
तौ दृष्ट्वा सर्वतो देवाः पलायनपरा बभुः ।
निपेतुर्बभ्रमुः केचिन्मुमूर्च्छुश्चस्खलुः परे ॥ २॥
ततो देव्या विनिर्मुक्तो निद्रया हरिरीश्वरः ।
आश्वास्य सर्व देवाँस्ताँस्ताम्भ्यां युद्धं चकार ह ॥ ३॥
आक्रमं सर्वदेवानां कृतं ताभ्यां निवारितुम् ।
शेषादिसर्वनागानां मुनीनां यक्षरक्षसाम् ॥ ४॥
शुशुभे स हरिस्तत्र शङ्खचक्रगदाधरः ।
किरीटकुण्डलधरो नीलमेघघनच्छविः ॥ ५॥
ततः स भगवान् शङ्खं प्रदध्मौ भृशवेगवान् ।
तेन शब्देन महता क्षोभयामास रोदसी ॥ ६॥
पाञ्चजन्यस्वनं श्रुत्वा बिभिदे हृदयं तयोः ।
ततस्तौ भयसंविग्नौ परस्परमथोचतुः ॥ ७॥
भूमण्डलं च पातालं स्वर्गाणामेकविंशतिः ।
आक्रान्ताः सम्यगावाभ्यां तदाऽयं न श्रुतः स्वनः ॥ ८॥
वज्रसारमयं येन चकम्पे हृदयं द्वयोः ।
तस्मादनेन योद्धव्यं पुरुषेण बलीयसा ॥ ९॥
रणकण्डूतिशान्त्यर्थं विजयायेतराय वा ।
रिपुमेनं हनिष्यावो गच्छावो वा पुनर्भवम् ॥ १०॥
एवं तौ निश्चयं कृत्वा युयुत्सुं हरिमूचतुः ।
रणकण्डूतिशान्त्यर्थं दृष्टोऽसि पुरूषोत्तम ॥ ११॥
कथमुत्तमतां यासि ह्यावयोर्दृष्टिगोचरः ।
मुनिरूवाच ।
इति वाक्यं तयोः श्रुत्वा जगाद विष्टरश्रवाः ॥ १२॥
हरिरुवाच ।
सम्यगुक्तं महादैत्यौ यथेष्टं युध्यतं मया ।
न हि कामयते कश्चिन्मरणं स्वयमात्मनः ॥ १३॥
तावूचतुः ।
चतुर्भुजोऽसि देवेश बाहुयुद्धं ददस्व नौ ।
मुनिरूवाच ।
एवमुक्तो हरिस्ताभ्यां तथेत्याह मुदान्वितः ॥ १४॥
त्यक्त्वाऽऽयुधानि युयुधे द्वाभ्यामेकश्चतुर्भुजः ।
जघ्नतुस्तौ शिरो मूर्ध्ना जङ्घाभिरथ जङ्घयोः ।
कूपरौ कूर्परैः स्वीयैर्बाहु बाहुभिरेव च ॥ १५॥
गुल्फौ गुल्फैः कटिं ताभ्यां नासिकाभ्यां च नासिकाम् ।
मुष्टिभ्यां मुष्टिदेशं च पृष्ठाभ्यां पृष्ठमेव च ॥ १६॥
आस्फोटनविकर्षाभ्यां बाहुभिर्मण्डलैरपि ।
एवं परस्परं युद्धं प्रावर्त्तत चिरं तदा ॥ १७॥
सहस्रं पञ्चगुणितमतिक्रान्तं महामुने ।
वर्षाणां न तु तौ जेतुं शशाङ्क हरिरीश्वरः ।
ततो दधाररूपं स गान्धर्वं गीतकोविदम् ॥ १८॥
गत्वा वनान्तरं चारू वीणागानं चकारः सः ।
हरिणाश्वापदा लोका देवगन्धर्वराक्षसाः ॥ १९॥
स्वस्वव्यापाररहिताः सर्वे तत्परतां ययुः ।
आलापं तस्य गिरिशः कैलासे श्रुतवान् मुहुः ॥ २०॥
निकुम्भं पुष्पदन्तं च जगाद भगनेत्रहा ।
एतमानयतं शीघ्रं योऽसौ गायति कानने ॥ २१॥
तौ गत्वा दर्शनं तस्य गृहीत्वा वै तमूचतुः ।
तव गीतस्वनं श्रुत्वा शङ्करो हर्षनिर्भरः ॥ २२॥
त्वां समाह्वयते देवो गानं श्रोतुं तवानघ ।
आवाभ्यां सह याहि त्वं शीघ्रं याम तदन्तिकम् ॥ २३॥
तयोर्वाक्यमिति श्रुत्वा गन्धर्वो हरिभक्तिमान् ।
ताभ्यां सह ययौ तत्र यत्र देवो महेश्वरः ॥ २४॥
ददर्श पार्वतीकान्तं चन्द्रार्धकृतशेखरम् ।
गजचर्मपरीधानं रुण्डमाला विभूषितम् ॥ २५॥
राजत्पिङ्गटजटाभारं सर्पयज्ञोपवीतिनन् ।
ननाम भुविविश्वेशं प्रणतार्तिविनाशनम् ॥ २६॥
उत्थाप्य गिरिशः स्वेन पाणिना तमधोक्षजम् ।
आसनञ्च ददौ तस्मै पूजयामास शङ्करः ॥ २७॥
ततो जगाद स हरिरद्य मे सफलं जनुः ।
यतोऽद्य दर्शनं तेऽभूद् धर्मकामार्थमोक्षदम् ॥ २८॥
तोषयामास तं देवोगन्धर्वो गानतत्परः ।
वीणारवैः कलपदैरालापैर्विविधैरपि ॥ २९॥
स्कन्दं गणेश्वरं देवीं पार्वतीं च सुरानृषीन् ।
ततो महेश्वरः प्रीत्याऽऽलिलिङ्ग प्रकटं हरिम् ॥ ३०॥
शङ्खचक्रगदापद्मपीताम्बरधरं शुभम् ।
उवाच च हरे ! मत्तो वृणु कामानशेषतः ॥ ३१॥
दास्यामि तव गानेन परांमुदमुपागतः ।
भृगुरूवाच ।
तत ऊचे स्वभूस्तन्तु वृत्तान्तं दैत्ययोः परम् ॥ ३२॥
हरिरुवाच ।
मयि क्षीराब्धिशयने निद्रिते मधुकैटभौ ।
उत्पन्नौ कर्णमलतो ब्रह्माणं भक्षितुं गतौ ॥ ३३॥
तेन निद्रा स्तुता भर्ग तयाऽहं प्रतिबोधितः ।
युद्धं च कृतवाँस्ताभ्यां मल्ललीलामुपागतः ॥ ३४॥
नास्मि शक्तो विजेतुं तौ तत एतत्कृतं मया ।
इदानीं तद्वधोपायं वद मे करुणानिधे ॥ ३५॥
भर्ग उवाच ।
विनायकमनर्च्यैव गतोऽसि रणभूमिकाम् ।
शक्तिहीनश्व तेनाऽसि सुभृशं क्लेशवानपि ॥ ३६॥
गणेशं पूजयित्वैव व्रज युद्धाय मारिष ।
स च तौ माययाऽऽमोह्य वशतां प्रापयिष्यति ॥ ३७॥
मत्प्रसादेन दुष्टौ तौ वधिष्यसि न संशयः ।
हरिरुवाच ।
कथं विनायकं देवमुपासे भर्ग तद्वद ॥ ३८॥
ईश्वर उवाच ।
उक्ता गणेश्वरस्यैव मन्त्राणां सप्तकोटयः ।
तत्रापि च महामन्त्रास्तेष्वप्येकाक्षरो महान् ॥ ३९॥
षडक्षरश्व भगवन्स्तयोरेकं वदामि ते ।
तत एकाक्षरं त्यक्त्वा सिद्धारिचक्रयोगतः ॥ ४०॥
ऋणं धनं शोधयित्वा तं जगाद षडक्षरः ।
महामन्त्रं गणेशस्य सर्वंसिद्धिप्रदं शुभम् ॥ ४१॥
अस्यानुष्ठानमात्रेण कार्यं ते सिद्धिमेष्यति ।
ततो जगाम स हरिरनुष्ठानाय सत्वरः ॥ ४२॥
इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रोपदेशो नाम सप्तदशोऽध्यायः ॥ १७॥
आदितः श्लोकानां समष्ट्यङ्काः ५९८ + ४२ = ६४०
१.१८ सिद्धक्षेत्रोत्पत्ति कथनं नामाष्टादशोऽध्यायः
सोमकान्त उवाच ।
कथ जजाप हरिः कुत्र वा मन्त्रमुत्तमम् ।
सिद्धिं चावाप स कथं वद मे तत् सविस्तरम् ॥ १॥
भृगुरूवाच ।
सिद्धिक्षेत्रमितिख्यातं भुवि सिद्धिकरं परम् ।
तत्र गत्वा महाविष्णुस्तताप परमं तपः ॥ २॥
ध्यायन् विनायकं देवं षडक्षरविधानतः ।
आराधयामास तदा जित्वा खानि प्रयत्नतः ॥ ३॥
बाणास्त्रेण तु कृत्वैव पूर्व दिग्बन्धमादृतः ।
भूतशुद्धिं विधायैव प्राणानां स्थापनं तथा ॥ ४॥
कृत्वाऽन्तर्मातृकान्यासमाधारादिक्रमेण तु ।
बहिश्च मातृकान्यासं मस्तकादिक्रमेण च ॥ ५॥
प्राणानायम्य मूलेन ध्यात्वा देवं गजाननम् ।
आवाहन्यादिमुद्राभिः पूजयित्वा मनोमयैः ॥ ६॥
द्रव्यैर्नानाविधैश्चैव षोडशैश्चौपचारकैः ।
जजाप परमं मन्त्रं विष्णुर्योगेश्वरेश्वरः ॥ ७॥
गते वर्षशते काले परमात्मा गणाधिपः ।
प्रत्यक्षतां ययौ तस्य कोटि सूर्याग्निसन्निभः ॥ ८॥
अतिप्रसन्नहृदयो बभाषे गरुडध्वजम् ।
याचस्व त्वं वरान्मत्तो यांस्त्वं कामयसे हरे ॥ ९॥
ददामि तानहं सर्वांस्तपसाऽनेन तोषितः ।
पूर्वमेवार्चितः स्यां चेद्विजयस्ते ध्रुवं भवेत् ॥ १०॥
हरिरुवाच ।
ब्रह्मेशानाविन्द्रमुख्याश्च देवां यं त्वां द्रष्टुं नैव शक्तास्तपोभिः ।
तं त्वां नानारूपमेकस्करूपं पश्ये व्यक्ताऽव्यक्तरूपं गणेशम् ॥ ११॥
त्वं योऽणुभ्योऽणुस्वरूपो महद्भ्यो व्योमादिभ्यस्त्वं महान् सत्त्वरूपः ।
सृष्टिं चान्तं पालनं त्वं करोषि वारंवारं प्राणिनां दैवयोगात् ॥ १२॥
सर्वस्यात्मा सर्वगः सर्वशक्तिः सर्वव्यापी सर्वकर्ता परेशः ।
सर्वद्रष्टा संहारकर्त्ता पाता धाता विश्वनेता पिताऽपि ॥ १३॥
एतादृशस्य ते देव दर्शनान्मम सिद्धयः ।
सम्भविष्यन्ति सर्वत्र तथाऽप्येकं वदामि ते ॥ १४॥
ममैव योगनिद्रान्ते श्रुतेर्मलसमुद्भवौ ।
मधुकैटभौ महासत्त्वौ कं तौ खादितुमुद्यतौ ॥ १५॥
ताभ्यामहं ततो युद्धं कृतवान् बहुवत्सरम् ।
ततःक्षीणबलस्त्वाऽहं शरणं समुपागतः ।
अतो यथा तयोर्मत्तो वधः स्यात्तद्विचार्यताम् ॥ १६॥
अन्येषामपि दैत्यानां जयेन यश उत्तमम् ।
देहि मे परमेशान भक्तिं ते ह्यनपायिनीम् ॥ १७॥
ययामे कीर्तिरतुला त्रैलोक्यं पावयिष्यति ।
गणेश उवाच ।
यद्यते प्राथितं विष्णो तत्तत्ते भविता ध्रुवम् ॥ १८॥
यशो बलं परा किर्तिरविघ्नश्च भविष्यति ।
मुनिरुवाच ।
एवमुक्त्वा महाविष्णुं तत्रैवाऽन्तर्दधे विभुः ॥ १९॥
तत आनन्दपूर्णोऽसौ मेने तावसुरौ जितौ ।
प्रासादं निर्ममे तत्र स्फाटिकं भूरिरत्नकम् ॥ २०॥
लसत्काञ्चनशिखरं चतुर्द्वार सुशोभनम् ।
प्रतिमां स्थापयामास गण्डकीयोपलैः कृताम् ॥ २१॥
देवाश्च मुनयः सिद्धिविनायक इति प्रथाम् ।
चक्रुरत्र यतः सिद्धिः प्राप्तेयं हरिणा शुभा ॥ २२॥
सिद्धक्षेत्रं ततस्तत्तु पप्रथे भुवि सर्वशः ।
ततो जगाम स हरिर्यत्र तौ मधुकैटभौ ॥ २३॥
दृष्ट्वा तौ हरिमायान्तं जहसतुर्निनिन्दतुः ।
मेघश्यामं मुखं तेऽद्य दर्शितं नौ कुतः पुनः ॥ २४॥
आवान्तु ते महामुक्तिं दास्यावोऽतः पुनः किल ।
लघुताञ्च प्रयातोऽसि किमर्थं रणमागतः ॥ २५॥
हरिरुवाच ।
सहसा दहते सर्वं लघुरेव हुताशनः ।
लघुदीपो महद्रात्रौ यथा संहरते तमः ॥ २६॥
तथा वा महमद्यैव शक्तो नाशाय दुर्मदौ ।
मुनिरुवाच ।
इति तस्य वचः श्रुत्वाऽति क्रुद्धौ मधुकैटभौ ॥ २७॥
सहसा जघ्नतुर्विष्णुं मुष्टिभ्यां हृदये भृशम् ।
ततः पुनर्मल्लयुद्धं तयोस्तस्य व्यवर्द्धत ॥ २८॥
युद्ध्वा बहुदिनं ताभ्यां वरं दातुं सुमुत्सुकः ।
उवाचश्लक्ष्णया वाचा हरिस्तौ मधुकैटभौ ॥ २९॥
मम प्रहारान्हि युवां सहार्थ बहुलाः समाः ।
युवयोः पुरुषार्थेन प्रीतोऽहं दैत्यपुङ्गवौ ॥ ३०॥
युवयोः सदृशौ नैव सम्भूतो न भविष्यतः ।
तावूचतुः ।
अस्मत्तस्त्वं वरान् ब्रूहि दास्यवस्तान् हरे बहून् ॥ ३१॥
आवां हि तव युद्धेन सन्तुष्टौ च भृशं त्वयि ।
मुनिरुवाच ।
तयोर्वचनमाकर्ण्य मायामोहितर्योहरिः ॥ ३२॥
श्रुत्वा बभाण दैत्यौ मे वरान् दातुं समुद्यतौ ।
तदा मे वध्यतां यातं वर एष वृतो मया ॥ ३३॥
तदा सर्वं जलमयं दृष्ट्वा तौ मधुकैटभौ ।
ऊचतुः परमप्रीतौ तव हस्तान् मृतिः शुभा ॥ ३४॥
अन्ते त्वच्चिन्तनात्सद्यो मुक्तिं यान्ति सनातनीम् ।
यत्र नोर्वी जलमयी तत्र नौ जहि माधव ॥ ३५॥
सर्वं त्यजावो नो सत्यं सत्ये सर्वं प्रतिष्ठितम् ।
मुनिरुवाच ।
तयोरित्थं वचः श्रुत्वा जघने तौ दधार ह ॥ ३६॥
चक्रेण क्षुरधारेण चिच्छेद शिरसी तयोः ।
ततो देवा मुमुदिरे ववर्षुः कुसुमानि च ॥ ३७॥
गन्धर्वा ननृतुः सर्वे जगुरप्सरसाङ्गणाः ।
ततस्तु विष्णुरभ्येत्य ब्रह्माणं परमेष्ठिनम् ॥ ३८॥
कथयामास वृत्तात्तं सर्वं हर्षविनिर्भरः ।
हरिरुवाच ।
यदाऽशक्तो विजेतुं तौ तदाहं गिरिशं गतः ॥ ३९॥
शङ्करेणोपदिष्टोऽहं षडर्णं मन्त्रमुत्तमम् ।
आराधयमहं तेन देवं विघ्नेश्वरं विभुम् ॥ ४०॥
तेन दत्ता वरा महयं नानाकामफलप्रदाः ।
तत्प्रभावान् मया दुष्टौ निहतौ मधुकैटभौ ॥ १४॥
स्तुतः सम्पूजितः सोऽथ तदैवाऽन्तर्दधे विभुः ।
विज्ञातो महिमा तस्य गणेशस्य महात्मनः ॥ ४२॥
शङ्करस्य प्रसादेन हनिष्ये दैत्यदानवान् ।
देवाश्च मुनयः सर्वे स्तुत्वा देवं गजाननम् ॥ ४३॥
ब्रह्माणं शङ्करं मां च ययुः स्वं स्वं निकेतनम् ।
य इदं शृणुयान्नित्यं माहात्म्यं पापनाशनम् ॥ ४४॥
कस्मादपि भयं नस्याल्लभते सार्वकामिकम् ॥ ४५॥
इति श्रीगणेशपुराणे उपासनाखण्डे सिद्धक्षेत्रोत्पत्तिकथनं नामाष्टादशोऽध्यायः ॥ १८॥
आदितः श्लोकानां समष्ट्यङ्काः ६४० + ४५ = ६८५
१.१९ कमलापुत्र वर्णनं नामैकोनविंशति तमोऽध्यायः
भृगुरूवाच ।
श्रुत्वाख्यानमिदं व्यासः षडर्णं विधिमप्यथ ।
पुनरूचे विधातारं नातिपूर्णाशयो यथा ॥ १॥
व्यास उवाच ।
सिद्धक्षेत्रस्य माहात्म्यं गणनाथस्य चैव हि ।
श्रुतं पापहरं सर्वं कामपुण्यविवर्धनम् ॥ २॥
पुनश्च वद मे ब्रह्मन् विनायककथानकम् ।
तृप्तिं न याति परमां पिबन्नपि कथामृतम् ॥ ३॥
ब्रह्मोवाच ।
पाराशर्य महाख्यानं कथयामि तवाग्रतः ।
सर्वदेवाधिदेवस्य गणेशस्य विभोः शुभम् ॥ ४॥
विदर्भदेशे राजाऽभूद्दानशूरो महाबली ।
नाम्ना भीम इति ख्यातो दाता भीमपराक्रमः ॥ ५॥
कौण्डिण्यनगरे तस्य निवासोऽभून्महामते ।
सामन्ता करदा यस्य करदा इतरे नृपाः ।
वाजिनां वारणानां च पत्तीनां कोटयो दश ॥ ६॥
रथानामग्रतो यान्तं यान्ति तत्पृष्ठतौऽपि च ।
ब्राह्मणानां सहस्राणि यमाश्रित्य मुदं ययुः ।
तस्य भार्या महाभागा नाम्नाऽभूच्चारुहासिनी ॥ ७॥
विकसत्पद्मवदना मृगशावकलोचना ।
ब्रह्मण्या दैवतपरा नित्यं धर्मपरायणा ।
पतिव्रता पतिप्राणा पतिवाक्यरता सदा ॥ ८॥
अपुत्रा दैवयोगेन जाता सा वरवर्णिनी ।
तां निरीक्ष्य तदा भीमश्चारुसर्वाङ्गशोभिनीम् ॥ ९॥
अवदद्दुःखितो वाक्यं पुत्रहीनो नृपोत्तमः ।
सर्व राज्यं परित्यज्य गन्तव्यं वनमुत्तमम् ॥ १०॥
अपुत्रस्य गतिनैव स्वर्गो वा सुखमेव च ।
देवा हव्यं न गृह्णन्ति पितरः कव्यमेव च ॥ ११॥
वृथा मे जननी जन्म पिता गेहं धनं कुलम् ।
विफलं सकलं कर्म विना पुत्रेण निश्चितम् ॥ १२॥
स एव निश्चयं कृत्वा द्वावमात्यौ समाह्वयत् ।
मनोरञ्जननामैकः सुमन्तुर्नामकोऽपरः ॥ १३॥
आन्वीक्षिकीं त्रयीं वार्तां जानन्तौ षोडशीः कलाः ।
आगत्य तत्क्षणादेवनृपं तं नेमतुर्मुने ॥ १४॥
तावुवाच ततो भीमो राज्यं मे परिपाल्यताम् ।
मम वा मम पत्न्या वा दुरितं पूर्वजन्मजम् ॥ १५॥
तेन नौ नास्ति सन्तानमुभयत्र सुखावहम् ।
यद्यहं पुनरागन्ता तदा तन्मन दीयताम् ॥ १६॥
नो चेदुभाभ्यां मे राज्यं विभज्य परिगृह्यताम् ।
एवं निश्चित्य स नृपः स्वस्तिवाचनपूर्वकम् ॥ १७॥
कृत्वा दानानि बहुशो ब्राह्मणेभ्यो ययौ पुरात् ।
सपत्नीको नृपवरोऽमात्याभ्यां सह नागरैः ॥ १८॥
गव्यूतिमात्रं गत्वा तु विससर्जाऽखिलाँस्तदा ।
अमात्यावूचतुराजन्नावां यावः सहैव ते ॥ १९॥
सुहृदो नागराश्चैन रुरुदुर्भृशदुःखिताः ।
तानुवाच न भीः कार्याऽमात्यौ वोऽधिपती कृतौ ॥ २०॥
यथाऽहं वस्तथैवैतौ पालनं स करिष्यतः ।
इति तान् समनुश्वास्य तावुवाच पुनर्नृपः ॥ २१॥
दत्तं राज्यं भवद्भ्यां मे रक्षतं सर्वथा पुरम् ।
इति सर्वान् विसृज्यैव सपत्नीको ययौ पुरात् ॥ २२॥
भ्रममाणो ददर्शैकं कासारं कमलैर्युतम् ।
पुष्पितद्रुमसंशोभि नानाजलचरान्वितम् ॥ २३॥
ततोऽस्य निकटे रम्यमाश्रमं पश्यतः शुभम् ।
राजा च राजपत्नी च सर्वानन्दविवर्धनम् ॥ २४॥
यत्र वैरं न चक्रुस्ते जातिवैरा गजादयः ।
सिंहाश्च नकुलाः सर्पा बिडाला मूषकादयः ॥ २५॥
ददर्शतुस्तत्र मुनिं विश्वामित्रं कुशासने ।
शिष्यैः परिवृतं शान्तं वेदाध्ययनतत्परैः ॥ २६॥
प्रणिपत्य महात्मानं कृताञ्जलिपुटावुभौ ।
पुनः पुनर्नमस्कारान् पादौ धृत्वा प्रचक्रतुः ॥ २७॥
उत्थाप्य मुनिशार्दूलो विश्वामित्रस्तपोनिधिः ।
उवाच श्लक्ष्णया वाचा विज्ञातार्थो नृपं तदा ॥ २८॥
विश्वामित्र उवाच ॥
भविता ते सुतो राजन् गुणयुक्तो महायशाः ।
कुतस्त्वमागतः किं ते नगरं नाम तद्वद ॥ २९॥
ततस्ते पापनाशार्थं यतिष्ये नृपसत्तम ।
भीम उवाच ।
विदर्भं विषये स्वामिन् कौडिन्यं नगरं मम ॥ ३०॥
भीम इत्येव नाम पत्नीयं चारुहासिनी ।
पुत्रार्थं च कृतो यत्नस्तपोदानव्रतादिभिः ॥ ३१॥
नागता करूणा देवे पूर्वजन्मकृतादघात् ।
त्यक्त्वा राज्यं वने यातौ दृष्ट्वौ त्वच्चरणौ मुने ॥ ३२॥
भ्रमन् वनानि बहुशो दैवेनेहोपसादितः ।
साधूनां सङ्गतिः सद्यो ददाति फलमुत्तमम् ॥ ३३॥
अतो मे भवदाशीर्भिर्जातः पुत्रो न संशयः ।
विद्याव्रततपोदानयज्ञस्वाध्यायकारिणः ॥ ३४॥
दयादमवतस्तेऽद्य नाशीर्व्यर्था भवेन्मुने ।
परन्तु कलुषम्मे किं पूर्वजन्मकृतं मुने ॥ ३५॥
वद तत्र प्रतिकारं सर्वज्ञोऽसि मतो मम ।
ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
तमै राज्ञै पूर्वकथां कथयामास सादरम् ॥ ३६॥
विश्वामित्र उवाच ॥
कुलधर्मास्त्वयात्यक्ताः श्रीमन्दाधेन दुर्मते ।
वेदे शास्त्रे पुराणे च लौकिके च प्रतिष्ठिताः ॥ ३७॥
ते सर्वे पूर्वजा नित्यं पुपूजूर्गणनायकम् ।
तस्य क्रोधवशान्नैव सन्ततिस्तव जायते ॥ ३८॥
येन ते कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः ।
भणैतत्ते महावीर शृणु सादरमादितः ॥ ३९॥
सप्तमः पुरुषस्त्वत्तः पूर्वं भीमो नृपोऽभवत् ।
रूपवान् धनसम्पन्नो वल्लभो नाम सत्तमः ।
तस्यापि बहुकालेन शिशुरेकोऽभवन्नृप ॥ ४०॥
अथ तस्याऽभवद् देहो मूको बधिर एव च ।
अतिदुर्गन्धवत्पूयस्राववान् कुब्ज एव च ॥ ४१॥
तं दृष्ट्वा जननी तस्य कमला दुःखिता भृशम् ।
अचिन्तयत् स्वान्तमध्ये लोके सम्यगपुत्रता ॥ ४२॥
नैतादृशं पुत्रवत्वं श्लाध्यं दुःखकरं भृशम् ।
मरणं मे विधात्रा किं नास्य वा क्रियतेऽधुना ॥ ४३॥
कथं वा मुखद्याऽहं दर्शयिष्ये सुहृज्जनान् ।
एवं विलपती दुःखाद् रुरोद भृशदारूणम् ॥ ४४॥
श्रुत्वा तद्रुदितं भर्त्ता सूतिकागारमागमत् ।
दृष्ट्वा तथाविधं बालं भृशं पत्नीं च दुःखिताम् ॥ ४५॥
बभाण मृदुवाक्येन सान्त्वयन् कर्ममार्गवित् ।
मा दुःखं कुरू कल्याणि कर्मणां गतिरीदृशी ॥ ४६॥
पूर्वजन्मकृतात् पापाज्जायते दुःखभाङ्नरः ।
दुःखवान्सुखमाप्नोति सुखवानपि तत्पुनः ॥ ४७॥
न हि शोच्यो हि बालोऽयं समीचीनो भविष्यति ।
यथाऽस्य पूर्ववृत्तं स्यात् तथैवास्य भविष्यति ॥ ४८॥
वयं च प्रयतिष्यामो मणिमन्त्रमहौषधैः ।
तपोभिश्च जपैर्देवपूजायात्राविधानतः ॥ ४९॥
सम्यक् कर्तुं शिशुं सुभ्रूः प्रस्तुतं यत्समाचर ।
एवं प्रबोधिता साध्वी त्यक्त्वा शोकं शिशुं ततः ॥ ५०॥
क्षालयित्वा जलैस्तं तु जहर्ष सखिभिः सह ।
सर्व माभ्युदयं चक्रे पुत्रस्य जननोचितम् ॥ ५१॥
पूजयामास विप्रान् स सा तत् पत्न्योह्यनेकशः ॥ ५२॥
इति श्रीगणेशपुराणे उपासनाखण्डे कमलापुत्र वर्णनं नामैकोनविंशतितमोऽध्यायः ॥ १९॥
आदितः श्लोकानां समष्ट्यङ्काः ६८५+५२ = ७३७
१.२० दक्षस्तुतिर्नामविंशतितमोऽध्यायः
ब्रह्मोवाच ।
ततः स ब्राह्मणान् साधून् दैवज्ञान् वेदनिष्ठितान् ।
आकार्य प्रतिपूज्यादौ रत्नवासोधनादिभिः ॥ १॥
पृष्ट्वा तान् दक्ष इत्येव नामचक्रे सुतस्य सः ।
जपमन्त्रप्रयोगांश्च चकारौषधसञ्चयान् ॥ २॥
स्वयं च द्वादशाब्दानि चकार परमं तपः ।
पुत्ररोगविमुक्त्यर्थं स्वसन्तानस्य वृद्धये ॥ ३॥
नापश्यद्रोगनिर्मुक्तं पुत्रं तं स सदा नृपः ।
तदा निर्वेदमापन्नो जगाद क्रोधमूर्च्छितः ॥ ४॥
गच्छ मे भवनाद् राज्ञि कमले पुत्रसंयुता ।
नेमं पुत्रं न च त्वाहं द्रष्टुं शक्त इतःपरम् ॥ ५॥
इति निर्भर्त्सिता तेन वल्लभेन तदा सुतम् ।
आदाय कमला तस्मान्नगरात् प्रस्थिता वनम् ॥ ६॥
रुदती शोक संविग्ना दुःखिताऽश्रु प्रमार्जती ।
वहन्ती पृष्ठभागे तं क्षुत्तृट्श्रमविकर्शिता ॥ ७॥
ग्रामाद्ग्रामान्तरं याता भिक्षाचारा भृशातुरा ।
तस्करैर्लुण्ठितं तस्या वसनं भूषणादिकम् ॥ ८॥
ततो ग्रामान्तरं गत्वा न्यस्य पुत्रं शिवालये ।
भिक्षायै पुरमध्ये सा बभ्राम नृपवल्लभा ॥ ९॥
कदाचित् सह पुत्रेण भिक्षितुं सा पुरं ययौ ।
कस्यचिद् द्विजमुख्यस्य वायुस्पर्शन सोऽर्भकः ॥ १०॥
भक्तेरतिशयात् साक्षात्कृतो लम्बोदरेण सः ।
चक्षुष्मान् श्रुतिसम्पन्नो दिव्यदेहोऽभवत्तदा ॥ ११॥
जहर्ष कमला त्यक्त्वा सर्वं दुःखं निरीक्ष्य तम् ।
मञ्जुलां सुखदां वाच मुच्चरन्तं मुहुर्मुहुः ॥ १२॥
तर्कयामास कमला मणिमन्त्रमहौषधैः ।
अनुष्ठानैर्महाहोमैर्नसम्यग्यो बभूव ह ॥ १३॥
स कथं मारुतस्पर्शात् समीचीनोऽभवत्सुतः ।
अथ तं पुरुषं क्वाहं द्रक्ष्ये दुष्कर्मनाशनम् ॥ १४॥
इत्युक्त्वा सुतमालिङ्ग्य सा तस्थौ विगतज्वरा ।
तमादाय गता भिक्षां कर्तुं तन्नगरे पुनः ॥ १५॥
नागरा भोजयामासुरूभावामन्त्र्य सादरम् ।
नानापक्वान्नशाकाद्यैः शर्कराघृतपायसैः ॥ १६॥
एवं प्रतिदिनं तौ तु भुक्त्वानुदिवसं मुदा ।
आपतुर्धनवस्त्राणि नूतनानि वराणि च ॥ १७॥
तमपृच्छन्नागरिकः पितुस्ते नाम वे वद ।
को देशः किं पुरं ज्ञातिः का च ते वृत्तमेव च ॥ १८॥
इति तग्दिरमाकर्ण्य दक्षो नाम तमब्रवीत् ।
ततो मातरमागम्य पितरं नगरं कुलम् ॥ १९॥
वृत्तं च परिपपृच्छ ततस्तं पुनरब्रवीत् ।
कर्नाटे भानुनगरे वल्लभो मे पिता महान् ॥ २०॥
क्षत्रियो बलसम्पन्नः ख्यातो रिपुबलार्दनः ।
तस्येयं कमला जाया सुतोऽहं दक्षसंज्ञकः ॥ २१॥
उत्पन्नोऽहं यदा ब्रह्मन्नन्धो बधिर एव च ।
अनेकक्षतसम्पन्नो माता त्यक्तुं तदोद्यता ॥ २२॥
पित्र निषेधिता सा च यत्नं बहु तथाऽकरोत् ।
द्वादशाब्दं तपस्तप्त्वा पिता पुण्यं न्यवेदयत् ॥ २३॥
न च मे पाटवं देहे पश्यति स्म पिता यदा ।
तदा विसर्जयामास मातरं मां च नागर ॥ २४॥
इति सर्वं जगौ तस्मै दक्षो मातृमुखोद्गतम् ।
अत्राहं सुभगो जातो वायुस्पर्शन कस्यचित् ॥ २५॥
श्रुत्वैवं तु गते तस्मिन् पुरुषे पुरवासिनी ।
दक्षो जगाम त्वरितो मातरं प्रतिनन्दयन् ॥ २६॥
ततस्तन्नगरे तौ द्वावुपदिष्टौ द्विजन्मना ।
गणेशाराधनविधौ करुणायुतचेतसा ॥ २७॥
ततः सा कमला दक्षो निर्वाणं परमास्थितौ ।
एकाङ्गुष्ठेन तपसा गणेशाराधने रतौ ॥ २८॥
देवनामचतुर्थ्यन्तमोङ्कारपल्लवान्वितम् ।
अष्टाक्षरं परं मन्त्रं जपन्तौ भक्तितत्परौ ॥ २९॥
वायुभक्षौ शुष्कतनू निरीक्ष्य भगवाँस्तदा ।
आविरासीत्तयोरग्रे करूणाब्धिर्विनायकः ॥ ३०॥
चतुर्भुजो महाकायो वारणास्योऽतिसुन्दरः ।
अनेक सूर्यसङ्काशो निशि सूर्य इवोदितः ॥ ३१॥
रत्नकाञ्चनमुक्तावन्मुकुटभ्राजिमस्तकः ।
पीतकौशेयवसनो हाटकाङ्गदभूषणः ॥ ३२॥
एकजानुनिपातेन सन्निविष्टो महासने ।
कटिसूत्रं काञ्चनीयं मुद्रिका रत्नसंयुताम् ॥ ३३॥
महाहिं जठरे बिभ्रदेकदन्तं गजार्धकम् ।
एवं रूपं ददृशतुः पुनश्च द्विजरूपिणम् ॥ ३४॥
जगाद स द्विजस्तौ तु भवन्निर्वाणतोषितः ।
आगतोऽहं वरं दातुं वृणुतं मनसीप्सितम् ॥ ३५॥
विश्वामित्र उवाच ।
एवं प्रसन्ने विघ्नेशे प्रत्यक्षे द्विजरूपतः ।
ननाम परया भक्त्याऽभणद्बद्धाञ्जलिश्च तम् ॥ ३६॥
दक्ष उवाच ।
पूर्वनजन्मकृतं पुण्यं फलितं मे द्विजोत्तम ।
यन्मयाऽदर्शितं रूपं ते द्विविधं परमं महत् ॥ ३७॥
वैनायकं च वैप्रं च जन्म मेऽजनि सार्थकम् ।
कारणानां परं त्वं च कारणं छन्दसामपि ॥ ३८॥
परं ज्ञेयं परं ब्रह्म श्रुतिमृग्यं सनातनम् ।
त्वमेव साक्षी सर्वस्व सर्वस्यान्तर्बहिस्तथा ॥ ३९॥
त्वमेव कर्ता कार्याणां लघुस्थूलशरीरिणाम् ।
नानारूप्येकरूपी त्वं निरूपश्च निराकृतिः ॥ ४०॥
त्वमेव शङ्करो विष्णुस्त्वमेवेन्द्रोऽनलोऽर्यमा ।
भूवायुखस्वरूपोऽपि जलसोमर्क्षरूपवान् ॥ ४१॥
विश्वकर्ता विश्वपाता विश्वसंहारकारकः ।
चराचरगुरोर्गोप्ता ज्ञानविज्ञानवानपि ॥ ४२॥
भूतं भावि भवच्चैव त्वमेवेन्द्रियदेवताः ।
कला काष्ठा मुहूर्ताश्च श्रीर्धृतिः कान्तिरेव च ॥ ४३॥
त्वमेव साङ्ख्यं योगश्च शास्त्राणि श्रुतिरेव च ।
पुराणानि चतुःषष्टिकला उपनिषत्तथा ॥ ४४॥
त्वमेव ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव च ।
देशो विदेशस्त्वं क्षेत्रं पुण्यक्षेत्राणि यान्युत ॥ ४५॥
त्वं प्रमेयोऽप्रमेयश्च योगिनां ज्ञानगोचरः ।
त्वमेव स्वर्गः पातालं वनान्युपवनानि च ॥ ४६॥
ओषध्योऽथ लतावृक्षकन्दमूलफलानि च ।
अण्डजा जारजा जीवाः स्वेदजा उद्भिजा अपि ॥ ४७॥
कामः क्रोधः क्षुधा लोभो दम्भोदर्पो दया क्षमा ।
निद्रा तन्द्रा विलासश्च हर्षः शोकस्त्वमेव च ॥ ४८॥
विश्वामित्र उवाच ।
इति दक्षवचः श्रुत्वा सुप्रसन्नो विनायकः ।
मेघगम्भीरया वाचा स्मयन्निव जगाद तम् ॥ ४९॥
गजानन उवाच ।
प्रीतोऽहं ते महाभाग स्तुत्या गम्भीरयाऽनया ।
वरं दातुं समुत्कण्ठस्तथापि न ददामि ते ॥ ५०॥
यद्यहं वरदः स्यां ते क्रुध्येद्भक्तो ममोपरि ।
स एव दास्यति वरं यदङ्गस्य प्रभञ्जनात् ॥ ५१॥
दिव्यदेहमनुप्राप्तश्चक्षुश्रोत्रसमन्वितः ।
जातस्त्वं तस्य नामाऽपि वदामि मुद्गलेति च ॥ ५२॥
स ध्यातमात्रो विप्रेशः स्वरूपं दर्शयिष्यति ।
यान् यान् कामयसे कामान् स ते सर्वान् प्रदास्यति ॥ ५३॥
इत्युक्त्वा परमात्माऽसौ तत्रैवाऽन्तरधीयत ।
तस्मिन्नन्तर्हिते दक्षो रुरोद भृशदुःखितः ॥ ५४॥
दरिद्रेण निधौ लब्धे गते तस्मिन् यथैव सः ।
गतायां गवि वत्सो वा रोरवीति यथा भृशम् ॥ ५५॥
मुञ्चन्नश्रूणि नेत्राभ्यां पपात धरणीतले ।
क्व गतः क्व गत इति मुहुर्जल्पन्विनायकः ॥ ५६॥
इति श्रीगणेशपुराणे उपासनाखण्डे दक्षस्तुतिर्नामविंशतितमोऽध्यायः ॥ २०॥
आदितः श्लोकानां समष्ट्यङ्काः ७३७ + ५६ = ७९३
१.२१ मन्त्रोपदेश वर्णनं नामैकविंशतितमोऽध्यायः
विश्वामित्र उवाच ।
इतस्ततो भ्रमन् धावन् वल्लभस्यात्मजस्तदा ।
न विवेद गतं वस्त्रं भूषणं चातिविव्हल ॥ १॥
पप्रच्छ ब्राह्मणान्मार्गे वृक्षाँश्चैव विनायकम् ।
विनायको गतः कुत्र क्वचिद्दृष्टो गदन्तु मे ॥ २॥
स एवं भ्रान्तहृदयोऽभ्रमच्चक्षुः नृपोत्तम ।
निपपात धरापृष्ठे क्षणं विगतचेतनः ॥ ३॥
एतस्मिन्नन्तरे स्वप्नेऽपश्यद् ब्राह्मणमग्रतः ।
दत्तं तवेप्सितं बाल मुद्गलेन मया हि तत् ॥ ४॥
यत् त्वया याचितं पूर्वं विघ्नेशाद् दृष्टिगोचरात् ।
इत्युक्त्वा प्रस्थिते तस्मिन् ब्राह्मणे नृपसत्तम ॥ ५॥
सुप्तोस्थित इव प्रायो दक्षोहृष्टमनाऽभवत् ।
कस्मैचित् परिपप्रच्छ त्वरिताय द्विजातये ॥ ६॥
अन्तिकं दर्शितं तेन बहुशिष्योपशोभितम् ।
मुद्गलस्यातिभक्तस्य गजाननरतस्य च ।
आश्रमं परमं दिव्यं सर्वसत्त्वाऽभयप्रदम् ॥ ७॥
मुद्गलं मनसा ध्यायन् भ्रमन् यातस्तदाश्रमम् ।
नानाश्चर्ययुतं रम्यमलकानन्दनातिगम् ॥ ८॥
ददर्श मुद्गलं तत्र परार्ध्यासनगं द्विजम् ।
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदम् ॥ ९॥
योगाभ्यासबलैर्नानारूपिणं सूर्यतेजसम् ।
वैनायकीं महामूर्तिं रत्नकाञ्चननिर्मिताम् ॥ १०॥
चतुर्भुजां त्रिनयनां नानालङ्कारशोभिनीम् ।
उपचारैः षोडशभिः पूजयन्तं विधानतः ॥ ११॥
ननाम दक्षस्तं दृष्ट्वा दण्डवत् पृथिवीतले ।
मुञ्चन्नश्रूणि नेत्राभ्यां निश्वसँश्च मुहुर्मुहुः ॥ १२॥
विश्वामित्र उवाच ।
पप्रच्छ मुद्गलस्तं तु कस्त्वं कस्मादिहागतः ।
नुदामि दुःखं किं तेऽस्ति वद सर्वमशेषतः ॥ १३॥
एवं विप्रवचः श्रुत्वा कमलानन्दनस्तदा ।
सावधानमना भूत्वा जगाद द्विजपुङ्गवम् ॥ १४॥
दक्ष उवाच ।
सत्यमेव वदे ब्रह्मन्नभिप्रायं तवान्तिके ।
कर्णाटदेशे राजाभून्नगरे भानुसंज्ञके ॥ १५॥
वल्लभोनाम नीतिज्ञो ज्ञानी दाता दयान्वितः ।
तस्य पत्नी तु कमला जनयामास मां यदा ॥ १६॥
तदा दुर्गन्धिक्षतयुक् शोणितस्त्राविनासिकः ।
अन्धः कुब्जः कर्णहीनः शब्दहीनः श्वसन्बहु ॥ १७॥
अभवं नागरा दृष्ट्वा त्यजैनमिति चाब्रुवन् ।
पिता मे द्वादशाब्दानि नानायत्नमथाऽकरोत् ॥ १८॥
शरीरपाटवार्थं मे नालभत् तन्महेश्वरात् ।
उपायं स ततो मां च मातरं कमलां च मे ॥ १९॥
बहिर्निष्कासयामास निर्दयेऽनान्तरात्मना ।
ततो मे जननी खेदादटमाना पुरं पुरम् ॥ २०॥
आगत्य कौण्डिन्यपुरं महा सह क्षुधार्दिता ।
भिक्षाटने क्रियमाणे पूर्वपुण्यप्रभावतः ॥ २१॥
अभवद्दर्शनं ते वामन्धस्येव यथा दृशिः ।
तव गात्रभवाद्वायोः स्पर्शाद्दोषा गता मम ॥ २२॥
रघुनाथाङ्घ्रिसंस्पर्शादहल्याया यथा पुरा ।
दिव्यदेहं समापन्नः प्रसादात्तव सुव्रत ॥ २३॥
न मया विदितं किञ्चिज्जनन्या मे निवेदितम् ।
अहं च विस्मितो भूत्वा निश्चयं कृतवान् हृदि ॥ २४॥
यदङ्गवायुस्पर्शेन दिव्यदेहमहङ्गतः ।
तद्दर्शनं यदा स्यान्मे तदा देहं धराम्यहम् ॥ २५॥
एवं भ्रमन् बहुदिनं ततोऽसौ करुणानिधिः ।
आविरासीन् मत्पुरतः कोटिसूर्यसमप्रभः ॥ २६॥
उभयोस्तपसा तुष्टो देवदेवो गजाननः ।
तं दृष्ट्वा कमला कामान् सम्प्राप्ता मनसीप्सितान् ॥ २७॥
ततो मामब्रवीद् देवः प्रसन्नो मञ्जुलाङ्गिरम् ।
यदर्थं नियमं कृत्वा भ्रमन् खेदमुपागतः ॥ २८॥
सोऽहं ते दर्शनं यातो मुद्गलो ब्राह्मणोत्तमः ।
श्रुत्वा तद्वचनं हृष्टमभवन् मानसं मम ॥ २९॥
ततो गजाननमहं स्तुतवान् विविधैः स्तवैः ।
उवाच सुप्रसन्नात्मा वरं वृणु महामते ॥ ३०॥
अहं चाकथयं तस्मै यद्यन्मे मनसीप्सितम् ।
ततो ब्राह्मणरूपं तत् त्यक्त्वाऽन्यद् रूपमादधे ॥ ३१॥
चतुर्भुजं महाकायं मुकुटाटोपमस्तकम् ।
परशुं कमलं मालां मोदकानावहत् करैः ॥ ३२॥
दिव्याम्बरधरं भ्राजद्विषाणकरपुष्करम् ।
कुण्डलेप्रावहच्छुत्योः सूर्यबिम्बे इवापरे ॥ ३३॥
दिव्यालङ्कारसंयुक्तं भुजङ्गवलयोदरम् ।
देवर्षिगन्धर्वगणैः किन्नरैरूपशोभितम् ॥ ३४॥
तत आनन्दपूर्णोऽहं दृष्ट्वा रूपं तथाऽभवम् ।
पूर्णचन्द्रं यथा दृष्ट्वा पूर्णो भवति वारिधिः ।
तनोक्तं मुद्गलः सर्वान् कामाँस्ते परिपूरयेत् ॥ ३५॥
तदेवाऽन्तर्हितं रूपं दृष्टं यावन्न सादरम् ।
यथा स्वप्नगतं सर्वं जागरेर्नैव दृश्यते ॥ ३६॥
ततोऽहं नितरां खिन्नो न्यपतं भुवि मूर्च्छितः ।
प्रतिलभ्य ततः संज्ञां वरं वृण्विति संस्मरन् ॥ ३७॥
ययाचे देवदेवेशं सर्वव्यापिनमीश्वरम् ।
गृहे मे सुस्थिरा लक्ष्मीर्भक्तिर्मे तादृशी तव ॥ ३८॥
दृष्टश्चेत् पूर्वपुण्येन द्वयमेतत् प्रदीयताम् ।
ततोऽहं श्रुतवान् दत्तमिति वाचं नभोगताम् ॥ ३९॥
ततो हृष्टमना विप्र तव सान्निध्यमागतः ।
मुद्गलस्त्वं द्विपास्योऽसौ द्विपास्यस्त्वं स मुद्गलः ॥ ४०॥
इति मे मनसि स्पष्टं भाति सर्वं गजाननः ।
भृगुरुवाच ।
इति तद्वचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत् ॥ ४१॥
सभाग्यः कृतकृत्योऽसि भक्तिमान् कमलासुत ।
महिमा तव भक्तेर्हि वक्तुं शक्यो न केनचित् ॥ ४२॥
तपामि सुदृढं चाहं दशवर्षशतं तपः ।
न म एतादृशो देवो दृष्ट आसीत् कदाचन ॥ ४३॥
यः सर्वजगतां नाथश्चराचरगुरोर्गुरूः ।
यो रजःसत्त्वतमसां नेता नित्यं गुणाश्रयः ॥ ४४॥
यो ब्रह्मशिवविष्णूनां शरीराणि करोति हि ।
भूतानां च विभूतीनां मात्रेन्द्रियधियामपि ॥ ४५॥
यं न देवा विदुः सम्यक् न वेदा नर्षयोऽपि च ।
एवं गजाननं त्वं हि प्रत्यक्षं दृष्टवान् स्फुटम् ॥ ४६॥
अहं त्वच्चरणौ वन्दे यतस्त्वं भक्तिमान् परः ।
ततः परस्परं तौ तु नेमतुश्चालिलिङ्गतुः ॥ ४७॥
गुरुबन्धू चिरं कालमेकचित्तौ समागतौ ।
तत एकाक्षरं मन्त्रं सजपध्यानपूर्वकम् ॥ ४८॥
मुद्गलो राजपुत्राय नम्रायोपदिदेश ह ।
उवाच चैनं भूयोऽपि मन्त्रस्याऽस्य दिनेदिने ॥ ४९॥
अनुष्ठानं कुरुष्व त्वं प्रसन्नस्ते भविष्यति ।
गजाननो ददेत् कामान् मनसा वाच्छिताँस्त्वया ॥ ५०॥
एनं चेत् त्यजसे मन्त्रं सर्वशो नाशमेष्यसि ।
यद्यस्य भक्तिं सुचिरं लोकेऽस्मिन् विचरिष्यसि ॥ ५१॥
इन्द्रादिलोकपालानां गणो वश्यत्वमेष्यति ।
इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्स्यसि ॥ ५२॥
इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रोपदेश वर्णनं नामैकविंशतितमोऽध्यायः ॥ २१॥
आदितः श्लोकानां समष्ट्यङ्काः ७९३ + ५२ = ८४५
१.२२ बल्लालविनायक कथनं नाम द्वाविंशोऽध्यायः
राजोवाच ।
आश्चर्यभूतं कथितं दक्षपुत्रस्य चेष्टितम् ।
विस्मयो मे महाँस्तत्र सञ्जातो मुनिसत्तम ॥ १॥
अन्धः कुब्जः स्रवद्रक्तः पूतिगन्धसमन्वितः ।
वाचा विहीनोऽमेध्यश्च श्वासमात्रावशेषितः ॥ २॥
कथं मुद्गलदेहोत्थवायुना दिव्यदेहभाक् ।
सञ्जातः केन पुण्येन मुक्तो वा पातकात् कुतः ॥ ३॥
दिव्यवर्षसहस्रं यस्तताप परमन्तपः ।
कथं तस्याभवन्नैव दर्शनं देव काङ्क्षितम् ॥ ४॥
कथं वल्लभपुत्राय देवदेव इभाननः ।
प्रत्यक्षोऽभूद् विनाक्लेशैः स च कः पूर्वजन्मनि ॥ ५॥
एतत् संशयजातं मे नुद सर्वज्ञ ते नमः ।
न तृप्यामि पिबन्नित्यं गजाननकथामृतम् ॥ ६॥
विश्वामित्र उवाच ।
सम्यक् पृष्टं त्वया राजन् संशयच्छेदनाय ते ।
वदामि निखिल सम्यक् शृणुष्वैकमना नृप ॥ ७॥
सिन्धुदेशेऽतिविख्याता पल्ली नाम्नाऽभवत्पुरी ।
तस्यामासीद् धनी वैश्यः श्रेष्ठः कल्याणसंज्ञकः ॥ ८॥
वदान्यः कुशलो धीमान् द्विजदेवपरायणः ।
इन्दुमतीति विख्याता पत्नी तस्य शुभानना ॥ ९॥
पतिव्रता पतिप्राणा पतिवाक्यपरायणा ।
तयोः कालेन सञ्जातो गुणवान् पुत्र उत्तमः ॥ १०॥
कल्याणः प्रददौ धेनूर्वस्त्रालङ्कारणानि च ।
ब्राह्मणेभ्योऽथ रत्नानिं काञ्चनं भूरिदक्षिणाम् ॥ ११॥
ज्योतिर्विद्भिर्निगदितं नाम चक्रे सुतस्य सः ।
बल्लाल इति विख्यातं बलत्त्वाच्छुभं तदा ॥ १२॥
स च कालेन महता वयस्यैश्च समन्वितः ।
देवपूजारतो नित्यं ग्रामाद् बहिरयान्मुदा ॥ १३॥
एकदा ते वनं याता बल्लालप्रमुखाः सुताः ।
नानाक्रीडारताः स्नाता उपलं स्थाप्य सुन्दरम् ॥ १४॥
गणेशबुद्ध्या सम्पूज्य दुर्वाङ्कुरसुपल्लवैः ।
केचिद् ध्यानरतास्तस्य नामजाप्यं प्रचक्रिरे ॥ १५॥
केचिच्च ननृतुस्तत्र यथेष्टं देवभक्तितः ।
केचिच्च गानकुशला जगुर्देवस्य तुष्टये ॥ १६॥
केचिच्च काष्ठैः पल्लवैश्च मण्डपं चक्रुरोजसा ।
केचिद् भित्तिपरीवेषं केचिद् प्रासादमुत्तमम् ॥ १७॥
केचिन्मानसपूजाभिः केचित्पुष्पलतादिभिः ।
धूपं दीपं च नैवेद्यं फलताम्बूलदक्षिणाः ॥ १८॥
निवेद्य पुपुजुस्तस्मै मुदापरमयायुताः ।
केचिच्च पण्डिता भूत्वा पुराणान्यब्रुवँस्तथा ॥ १९॥
व्याचक्रुर्धर्मशास्त्राणि ग्रन्थानन्याँश्च केचन ।
एवं देवरताः सर्वे निन्युर्वै दिवसान्बहून् ॥ २०॥
न क्षुधा न तृषां कोऽपि जानाद् देवस्य भक्तितः ।
एकदा जनकास्तेषां कल्याणवैश्यमन्वयुः ॥ २१॥
अब्रुवन् रोषिताः सर्वे स्वबल्लालं निवारय ।
शिशून सर्वान् समाहूय वनं याति दिने दिने ॥ २२॥
नायान्ति प्रातराशाय न मध्यान्हे निशामुखे ।
कृशा नो बालका जाताः स्वसुतं शिक्षयाधुना ॥ २३॥
नो चेद् वयं निबद्धवैनं ताड्याम इतः परम् ।
पुराधिपमथाभ्येत्यं त्वां बहिः करवामहे ॥ २४॥
इति तेषां वचः श्रुत्वाऽश्रुतपूर्वं कदाचन ।
रोषावेशात् स कल्याणो जपाकुसुमलोचनः ॥ २५॥
महान्तं दण्डमादाय ताडनार्थं सुतं ययौ ।
दण्डाघातेन गत्वैव मण्डपं प्रबभञ्ज ह ॥ २६॥
बालकाश्च ततः सर्वे जग्मुर्दशदिशो नृप ।
एक एव स बल्लालो दृढभक्त्या स्थिरोऽभवत् ॥ २७॥
दृढमुष्ट्या स तं धृत्वा दण्डेनाऽताडयत् भृशम् ।
यथा सर्वशरीरात्तु धाराः शोणितसम्भवाः ॥ २८॥
प्रादुरासन् वारिधारा वर्षाकाले यथा गिरे ।
चिक्षेप दूरतः पश्चाद् देवं सिन्दूरसुन्दरम् ॥ २९॥
बबन्ध तं सुतं वृक्षे वल्लीपाशशतैर्दृढम् ।
पुत्रस्नेहं परित्यज्य यमदूत इवापरः ॥ ३०॥
मुक्तो दन्तैर्न हस्ताभ्यां पादाभ्यां म यथा भवेत् ।
उवाच पश्चात् तं पुत्रं देवस्त्वां मोचयिष्यति ॥ ३१॥
स दाता भोजनं पानं गोपनं च करिष्यति ।
यदि चेद् गृहमायासि तदा सत्यं मरिष्यसि ॥ ३२॥
मुनिरुवाच ।
विभज्य देवालयमाशु यातः कल्याणवैश्योऽतिरूषा निविष्टः ।
स्वमन्दिरं बध्य वन स्वपुत्रं दैवस्य योगादभवत्सुदुष्टः ॥ ३३॥
तस्मिन्प्रयाते स च वैश्यपुत्रः शुशोच देवं मनसा विचिन्त्य ।
विघ्नारिरित्येव कथं नु देवनामाऽभवत् सर्वजनेषु गीतम् ॥ ३४॥
दुष्टांश्च विघ्नानि न नाशयेस्त्वं दुष्टान्तकत्वेन कशं प्रसिद्धः ।
शेषोऽवनिं वा सविताऽथ दीप्तिं चन्द्रोऽमृतं वह्निरथोष्णतां च ॥ ३५॥
त्यजेत्स्वभक्तान्न च सन्त्यजेथा वेदेषु शास्त्रेषु कथं प्रसिद्धिः ।
एवं विलप्याऽथ निजं शशाप कल्याणसंज्ञं पितरं सुदुष्टम् ॥ ३६॥
येनेदं मम विध्वस्तं देवालयमनुत्तमम् ।
गणेशमूर्तिविक्षेपं ताडनं च ममाऽकरोत् ॥ ३७॥
स चान्धो बधिरः कुब्जो मूको भवति निश्चितम् ।
यदि मे सुदृढा भक्तिर्द्विरदानन उत्तमा ॥ ३८॥
तदोक्तं मम सत्यं स्यात्तस्य सर्वं मयोदितम् ।
न बद्धे भक्तिमनसी शक्तोऽसौ देहबन्धने ॥ ३९॥
अनन्य बुद्ध्या परिचिन्त्य देवं त्यजामि देहं विजने वनेऽस्मिन् ।
पलायनं नैव कृतं यदैव तदैव देहोऽर्पित एष देवे ॥ ४०॥
तस्यैवं निश्चयं बुद्ध्वा प्रादुरासीद् गजाननः ।
ब्राह्मणस्य स्वरूपेण बल्लालस्य प्रभावतः ॥ ४१॥
यथा निशातमोऽपाये श्रीसूर्य उदयाचले ।
तथैव बन्धनान्यस्य तेजसा शिथिलानि च ॥ ४२॥
जातानि तत एनं स नमश्चक्रेऽथ दण्डवत् ।
देहस्य चारुता जाता न क्षतं न च शोणितम् ॥ ४३॥
ज्ञानं च निर्मलं जातं देवदेवस्य दर्शनात् ।
तुष्टाव विविधैर्वाक्यैर्यथामति गजाननम् ॥ ४४॥
बल्लाल उवाच ।
त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्ताऽसि चराचरस्य ।
निर्मासि दुष्टाँश्च खलाँश्च साधून् योनौ वियोनौ विनियुङ्क्ष्यथापि ॥ ४५॥
त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः ।
रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्थौषधिधातुरूपः ॥ ४६॥
मुनिरुवाच ।
इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः ।
आलिङ्ग्य निजभक्तं तमुवाच घननिस्वनः ॥ ४७॥
गजानन उवाच ।
प्रासादो येन भग्नो मे नरके स पतिष्यति ।
तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया ॥ ४८॥
अन्धोऽथ बधिरः कुब्जो मूकोऽसृक्स्रावसंयुतः ।
मम शापं समासाद्य भविष्यति न संशयः ॥ ४९॥
पिता समातृकं चैनं करिष्यति गहात् बहिः ।
अन्यत् ते वाञ्छितं ब्रूहि दुष्प्रापमपि ते ददे ॥ ५०॥
मुनिरुवाच ।
बल्लालोऽथाऽब्रवीद्देवं त्वयि भक्तिर्दृढाऽस्तु मे ।
अस्मिन्क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नतः ॥ ५१॥
गणेश उवाच ।
त्वन्नामपूर्वं मन्नाम भविष्यति जने शुभम् ।
बल्लालविनायकेति नगरे सुप्रतिष्ठितम् ॥ ५२॥
मयि चित्तं स्थिरं ते स्याद् भक्तिरव्यभिचारिणी ।
यात्रा मम करिष्यन्ति नगरे पल्लिसंज्ञिके ॥ ५३॥
भाद्रपदशुक्लचतुर्थ्यां ये तेषां कामान् ददाम्यहम् ॥ ५४॥
भृगुरुवाच ।
इति दत्वा वरं देवस्तत्रैवाऽन्तरधीयत ।
ततो विनायकं स्थाप्य बल्लालो ब्राह्मणैः सह ॥ ५५॥
प्रासादं कारयामास नाना शोभासमन्वितम् ।
विश्वामित्र उवाच ।
बल्लालवैनायकेति कथितं ते कथानकम् ॥ ५६॥
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामानवाप्नुयात् ॥ ५७॥
इति श्रीगणेशपुराणे उपासनाखण्डे बल्लालविनायककथनं नाम द्वाविंशोऽध्यायः ॥ २२॥
आदितः श्लोकानां समष्ट्यङ्काः ८४५+५७=९०२
१.२३ भविष्यकथनं नाम त्रयोविंशोऽध्यायः
भृगुरुवाच ।
विश्वामित्रवचः श्रुत्वा भीमः पप्रच्छ तं पुनः ।
वैश्याचरितवार्तायाः श्रवणे परमोत्सुकः ॥ १॥
सोमकान्त नृपश्रेष्ठ कथयामि शृणुष्व तत् ।
भीम उवाच ।
श्रुतं दक्षस्य चरितं विश्रान्तं मम मानसम् ॥ २॥
कथं कल्याणवैश्यस्य गतिरासीद् वदस्व ताम् ।
विश्वामित्र उवाच ।
शृणुष्वैकमना भीम कथामेतां वदामि ते ॥ ३॥
बल्लालशापात् कल्याणदेहात् सुस्राव शोणितम् ।
असङ्ख्यक्षतसंयुक्तः स्रावो वाधिर्यमन्धता ॥ ४॥
मूकता पूतिगन्धित्वं जातं तस्य दुरात्मनः ।
ददर्शेन्दुमती तस्य दशामाकस्मिकीं ततः ॥ ५॥
किमिदं किमिदं कस्माज्जातमेवं शुशोच तम् ।
ज्ञानिनोऽस्य वदान्यस्य देवद्विजरतस्य च ॥ ६॥
धर्मशास्त्रार्थनिष्ठस्य स्वदारपरितोषिणः ।
अवस्थेयं कथं जाता मम भर्तुर्निरेनसः ॥ ७॥
मुनिरूवाच ।
एवं विलप्य बहुधा निश्वसन्ती पुनः पुनः ॥ ८॥
तेन बद्धं वने पुत्रं निशम्य रुदती मुहुः ।
पौरेः सह ययौ तत्र यत्र बद्धो वने सुतः ॥ ९॥
तत्र देवालयं देवं ददर्श गणनायकम् ॥ १०॥
चतुर्भुजं त्रिनयनं सिन्दूदारुणविग्रहम् ।
बल्लालं च सुतं तत्र पूजयन्तं गजाननम् ॥ ११॥
मुक्तं निर्व्रणमव्यङ्गं निरीक्ष्य पुरवासिनः ।
उवाचेन्दुमती क्रुद्धा भर्त्सयन्ती पुनःपुनः ॥ १२॥
कथं प्रतारिताऽतथ्यवादिभिर्भर्तृसन्निधौ ।
तादृशं तं परित्यज्य पुत्रस्नेहादिहागता ॥ १३॥
पश्यन्तु देवभक्ति मे पुत्रं कुर्वन्तमीदृशीम् ।
मुनिरूवाच ।
विस्मिताः सर्व एवैते न किञ्चित् प्रोचुरण्वपि ॥ १४॥
केचिदूचुर्महाभक्तेर्महिमा केन गम्यते ।
वीक्ष्य सिन्दूररक्ताङ्गं रक्तचन्दनचर्चितम् ॥ १५॥
रक्ताम्बरं रक्तपुष्पमालाभिरूपशोभितम् ।
निर्ममं निरहङ्कारमशुण्डमिव विघ्नपम् ॥ १६॥
निरीक्ष्य तादृशं पुत्रं त्यक्त्वा शोकं ननन्द सा ।
आलिलिङ्ग तदा तं तु स्नेहस्नुतपयोधरा ॥ १७॥
आह तं स्वगृहं यावः पितुस्ते व्यसनं महत् ।
उत्थितं तत्र किञ्चित्तं कुरूपायं महामते ॥ १८॥
आवां धन्यतमौ लोके ययोः पुत्रस्त्वमीदृशः ।
सर्वाङ्गक्षतवान् रक्तस्राववान् पूतिगन्धवान् ॥ १९॥
श्यामास्यः कृशतायुक्तो बधिरोऽथान्ध एव च ।
एवं विधः पिता तेऽस्ति तं निवेदितुमागता ॥ २०॥
पितृधर्मेण तेन त्वं ताडितोऽनर्थकृद् यदि ।
तत्रापराधो नैवास्ति श्रुतिस्मृतिपुराणतः ॥ २१॥
पुत्रधर्मान्निरीक्षस्व कुर्वारोग्यविचारणम् ।
त्वया श्लाघ्यतमो लोके पिता ते पितृवत्सल ॥ २२॥
मातापितृवचः कार्यं सत्पुत्रेण यशस्विना ।
पूजनं च तयोः कार्यं पोषणं पालनं तथा ॥ २३॥
औषधान्मत्रततश्चापि देवताप्रार्थनादपि ।
उपायं कुरू पुत्र त्वं मयि दृष्टिं निवेशय ॥ २४॥
यशस्ते भविता लोके सौभाग्यं मम बालक ।
इति तस्या वचः श्रुत्वा बल्लालो वाक्यमब्रवीत् ॥ २५॥
बल्लाल उवाच ।
कस्य माता पिता कस्य कस्य पुत्रोऽथवा सुहृत् ।
विघ्नराजकृतं सर्वमानुषङ्ग्यखिलं स्मृतम् ॥ २६॥
तस्मान्मम पिता भद्रे माता देवो विनायकः ।
यो यथा कुरुते कर्म स तथा फलमश्नुते ।
मया समर्पितो जीवो देवदेवे गजानने ॥ २७॥
तेन जीवस्तथा ज्ञानं मम दत्तं सुभक्तितः ।
प्रासादभञ्जनाद् देवक्षेपणात् ताडयान्मम ।
विनायकातिभक्तस्य तथा प्राप्तं फलं शुभे ॥ २८॥
विचार्यमाणे न त्वं मे माता वा स पिताऽपि च ।
सर्वस्य हि पिता देवो माता देवो गजाननः ॥ २९॥
स एव ज्ञानदस्त्राता संहर्ता कालरूपवान् ।
सर्वस्वरूपो देवेन्द्रोब्रह्मविष्णुशिवात्मकः ॥ ३०॥
वृथा मे येन दुष्टेन ताडनं निर्घृणेन च ।
कृतं देवस्य विक्षेपः प्रासादस्यापि भञ्जनम् ॥ ३१॥
तस्यास्य दर्शने दोषः पतितस्य महान्भवेत् ।
स्नेहं त्यक्वा मदीयं त्वं पतिं स्वं परिषेवय ॥ ३२॥
विश्वामित्र उवाच ।
इति पुत्रवचः श्रुत्वा सा तं पुनरथाब्रवीत् ।
मातोवाच ।
कृपयाऽनुग्रहात्स्नेहादुच्छापं वक्तुमर्हसि ॥ ३३॥
पुत्र उवाच ।
भवान्तरेऽस्य जननी भवितासि वरार्थिनी ।
अयमेतादृशः पुत्रो भविता तव सुव्रते ॥ ३४॥
कल्याणनामा भविता वल्लभः क्षत्रियर्षभः ।
कमलेति च विख्याता नाम्ना त्वं च भविष्यसि ॥ ३५॥
दक्ष इत्येव पुत्रस्य नाम ख्यातं भविष्यति ।
ततो द्वादशवर्षाणि वल्लभस्तप्स्यते तपः ॥ ३६॥
अन्धतां बधिरत्वं च क्षतानि मूकतां तथा ।
व्यपनेतुं तु दक्षस्य परं नियममास्थितः ॥ ३७॥
अलब्ध्वा स फलं तस्मात्सुपुत्रां त्वां शुभानने ।
निराकरिष्यते गेहाद् विदेशस्था भविष्यसि ॥ ३८॥
कस्यचिद् द्विजवर्यस्य द्विरदाननचेतसः ।
दैवात् स्पर्शेन भद्रे ते सम्यक्पुत्रो भविष्यति ॥ ३९॥
तत्रैव गणनाथस्य दर्शनं च भविष्यति ।
तदा स दिव्यदेहत्वं प्राप्स्यते द्विरदाननात् ॥ ४०॥
इति सर्वं समाख्यातमुच्छापकारणं शुभे ।
भविष्यं कथितं तेऽद्य यथेष्टं गम्यता त्वया ॥ ४१॥
विश्वामित्र उवाच ।
एवं निराकृता तेन जननी निरगात्ततः ।
दुःखशो समायुक्ता किञ्चिद्धर्षयुताऽपि च ॥ ४२॥
स चारुरोह तद्दिव्यं विमानं भक्तिभावितम् ।
गजाननेन विहितं बल्लालोऽथाऽगमद्दिवम् ॥ ४३॥
इति ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।
या गतिस्तेन वैश्येन सम्प्राप्ता जन्मनोर्द्वयोः ॥ ४४॥
यथा जगाद बल्लालः सर्वं तदभवत्तदा ।
सा जज्ञे कमला भूत्वा सोऽभवत् क्षत्रियर्षभः ॥ ४५॥
इति श्रीगणेशपुराणे उपासनाखण्डे भविष्यकथनं नाम त्रयोविंशोऽध्यायः ॥ २३॥
आदितः श्लोकानां समष्ट्यङ्काः ९०२+४६ = ९४८
१.२४ स्वप्नकथनं नाम चतुर्विंशोऽध्यायः
भीम उवाच ।
दक्षेण मुनिशार्दूल राजपुत्रेण धीमता ।
अनुष्ठानं कृतं कुत्र कथं वा कस्य वा मुने ॥ १॥
एतद्विस्तार्य ब्रूहि त्वं शृण्वंस्तृप्याम्यहं न च ।
विश्वामित्र उवाच ।
अविदूरे पुरस्तस्याः कौण्डिन्यस्य महावनम् ॥ २॥
रम्य नानावृक्षयुतं नानाश्वापदसङ्कुलम् ।
नानापक्षिगणैर्युक्तं लताजालविराजितम् ॥ ३॥
सन्मनोनिर्मलपयः सरोवापीविराजितम् ।
जीर्णप्रासादमध्यस्थगजाननविराजितम् ॥ ४॥
तत्र स्थित्वा तपश्चक्रे गजाननसुतोषकम ।
मुद्गलेनोपदिष्टेन मन्त्रेणकाक्षरेण सः ॥ ५॥
तोषयामास तं देवं वर्ष्यैर्द्वादशसम्मितैः ।
स्नानैर्वस्त्रैः सुगन्धैश्च माल्यैर्धूपैश्च दीपकैः ॥ ६॥
नैवेद्यं कन्दमूलैश्च भक्षणीयैरकल्पयत् ।
मनसा कल्पयामास दक्षिणां क्षत्रियर्षभः ॥ ७॥
एवं तस्यागमन् भूप दिनानि त्वेकविंशतिः ।
ततः प्रभातसमये स्वयमेवं ददर्श सः ॥ ८॥
एकं महामतङ्गञ्च सिन्दूराक्तं सुशोभितम् ।
मदस्राविसुगण्डाभ्यां सुन्दरं गिरिसन्निभम् ॥ ९॥
चारूप्रसन्नवदनं दन्तशोभिमहत्करम् ।
भ्रमरालिसमाकीर्णं गजाननमिवापरम् ।
तेन तत्कण्ठदेशे तु रत्नमाला समर्पिता ॥ १०॥
तत उत्थाप्य तं स्कन्धे स्थापयामास दन्तिराट् ।
स दन्ती नगरं यातः पताकाध्वजशोभितम् ॥ ११॥
ततः स प्रतिबुद्धः सन् पप्रच्छ जननीं निजाम् ।
कमले वद मातस्त्वमस्याभिप्रायमद्य मे ॥ १२॥
आरोहणं गजस्कन्धे शुभं वा यदि वाऽशुभम् ।
कमलोवाच ।
धन्यस्त्वमसि दृष्टोऽयं गजरूपी विनायकः ॥ १३॥
आरोहणफलं राज्यप्राप्तिरेव न संशयः ।
दक्ष उवाच ।
यदि राज्यस्य प्राप्तिः स्यात्तदा तुभ्यं ददाम्यहम् ॥ १४॥
नरयानं तथा ग्रामान् दीपिकां मौक्तिकस्रजम् ।
धर्मं च कारयिष्यामि गवाष्टापददानतः ॥ १५॥
व्रतानि नियमांश्चैव दानान्यन्यान्यनेकशः ।
मुनिरूवाच ।
श्रुत्वेत्थं कमला हृष्टा जगाद तनयं प्रति ॥ १६॥
त्वयि राज्य स्थिते पुत्र परमानन्दता मम ।
सद्धर्मे रमतां चेतः सतः सराभृतस्तव ।
आयुष्य विपुलं तेऽस्तु द्विजदेवार्चने रतिः ॥ १७॥
इति श्रीगणेशपुराणे उपासनाखण्डे स्वप्नकथनं नाम चतुर्विंशोऽध्यायः ॥ २४॥
आदितः श्लोकानां समष्ट्यङ्काः ९४८ + १७ = ९६५
१.२५ पञ्चविशोऽध्यायः
विश्वामित्र उवाच ।
शृणु राजन् महाश्चर्यं दैवकालकृतं शुभम् ।
कौण्डिन्ये नगरे राजा चन्द्रसेनो महामतिः ॥ १॥
स्वकर्मपरिपाकेन निधनं कालयोगतः ।
अगमद् दिव्ययानेन धर्मबाहुल्यतो दिवम् ॥ २॥
तच्च नागरिकाः श्रुत्वा हाहाकारं प्रचक्रिरे ।
धावमाना ययुस्तत्र त्यक्त्वा कार्याण्यनेकशः ॥ ३॥
शिरांसि च विनिघ्नन्तः पाणिभिः शोककर्षिताः ।
चस्खलुश्च पतन्तश्च ददृशुः प्रेतभूपतिम् ॥ ४॥
नेमुः पादौ प्रगृह्यैव दुःखमोहवशं गताः ।
केचिद्धस्तं गृहीत्वैव स्वस्वमूर्ध्निन्यवेशयन् ॥ ५॥
रूरुदुः सुस्वरं केचित् पाणिपृष्ठमुखस्वनाः ।
मृता इव निपेतुश्च स्नेहातिशयतोऽपरे ॥ ६॥
तस्य पत्नी तु सुलभा रुरोद करुणस्वरा ।
पाणिभ्यां निघ्नती स्वीयं हृदयं भृशदुःखिता ॥ ७॥
विकीर्णभूषणा मूर्च्छामागता पतिता भुवि ।
समानव्यसनाभिः सा पुरस्रीभिर्धृता तदा ॥ ८॥
विललाप तदा कान्ता चन्द्रसेनस्य सुन्दरी ।
निर्लज्जा निरनुक्रोशा नाथनाथेति जल्पती ॥ ९॥
रे धातर्न दया तेऽस्ति बालवच्चरितं तव ।
युनङ्क्षि स्नेहभावेन विनियुङ्क्ष्यकृतार्थकम् ॥ १०॥
राजन् न पृष्ट्वा क्व गतो वद मां करूणानिधे ।
दिने दिने वदस्येव यामि भद्रासनं प्रिये ॥ ११॥
अद्य निष्ठुरतां केन गमितोऽस्यागसा मम ।
तत्क्षमस्व नमाम्येषा जनमध्ये गतत्रपा ॥ १२॥
नय मां यत्र यातोऽसि प्रियां ते प्रियकारिणीम् ।
त्रिलोकीं पश्यतीं शून्यामपुत्रां पतिता विना ॥ १३॥
मुनिरूवाच ।
सुमन्तुः प्रकृतिस्तस्य मनोरञ्जन एव च ।
द्वावप्यवोदितां तत्र किं राजस्य भविष्यति ॥ १४॥
आवाभ्यामविचार्यैव क्व गतो नृपसत्तमः ।
कस्मान्न वदसे राजन् किमर्थं मौनमास्थितः ॥ १५॥
न पश्यसि प्रियां भार्यामनाथामिव विव्हलाम् ।
सहैव यावो नृपते त्यक्त्वा सर्वं गृहाश्रमम् ॥ १६॥
अनाथं नगरं तेऽद्य राष्ट्रं वा कोऽथ पास्यति ॥ १७॥
मुनिरुवाच ।
एतस्मिन्नन्तरे तत्र बभाण ब्राह्मणः सुधीः ॥ १८॥
वेदशास्त्रार्थतत्त्वज्ञः प्रस्तुतं निष्ठुरं वचः ।
सर्वे स्वार्थपरा यूयं नाप्तः कश्चन विद्यते ॥ १९॥
सुहृदां रोदनाश्रूणि मुखे प्रेतस्य यान्ति हि ।
पृथिव्यां भारतां याति प्राणहीनं कलेवरम् ॥ २०॥
ब्रह्माण्डगोलके को नु मृतमन्योऽनुगच्छति ।
इयं च सुलभा राज्ञी रोदते जीविताशया ॥ २१॥
मृतकस्यानुगत्यर्थं न सा रोदिति कर्हिचित् ।
यूयं सर्वे नागरिकाः स्वकार्य गमनाकुलाः ॥ २२॥
सूर्यवंश्याः सोमवंश्या राजानो मृता न किम् ।
तस्मादुत्थाय सर्वेऽपि राज्ञः कुर्वन्तु संस्कृतिम् ॥ २३॥
मृतसंस्कारकारी यः स एवाप्तो न चापरः ।
एतदर्थं हि लोकस्य ज्यायसी पुत्रगृध्नुता ॥ २४॥
तस्मादानीयतां धर्मपुत्रो वाऽप्यन्य एव च ।
स हि क्रियामारभतु सर्वैर्देयस्तिलाञ्जलिः ॥ २५॥
मुनिरूवाच ।
ततस्ते नागराः सर्वे द्वावमात्यो स्त्रियश्च ताः ।
प्रबोधिता ब्राह्मणेन चक्रुस्तस्यौर्ध्वदेहिकम् ॥ २६॥
सुमन्तुना कृतं सर्वं सर्वैर्दत्तस्तिलाञ्जलिः ।
पुनःस्नात्वा तु ते सर्वे नगरं विविशुश्चिरात् ॥ २७॥
अश्नन्ति पिचुमन्दस्य पत्रं नत्वेश्वरं जनाः ।
सान्तयित्वा तु सुलभां ययुः स्वं स्वं निकेतनम् ॥ २८॥
त्रयोदशाहे निर्वृत्ते राज्ञ्यै दत्त्वाऽम्बराणि ते ।
चक्रुस्ते भोजनं प्रीत्या प्रत्यहं बहुवासरम् ॥ २९॥
एकदा नागराः सर्वे द्वावमात्यौ नृपप्रिया ।
सर्वे संशयिता आसन् प्रजापालन कर्मणि ॥ ३०॥
एतस्मिन्नन्तरे तत्र मुद्गलो मुनिराययौ ।
उवाच सर्वाशयविदस्य राज्ञो महागजः ॥ ३१॥
गहनो नाम गृह्णातु मालां पुष्करनिर्मिताम् ।
समाजे यस्य कण्ठे तां निक्षिपेत् स नृपो भवेत् ॥ ३२॥
तथेति च तदा सर्वे साधु साध्वित्यपूजयन् ।
अतीन्द्रियज्ञानवतो वचो मुद्गलशर्मणः ॥ ३३॥
इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चविशोऽध्यायः ॥ २५॥
आदितः श्लोकानां समष्ट्यङ्काः ९६५+३३ =९९८
१.२६ परम्परावर्णनं नाम षड्विंशोऽध्यायः
विश्वामित्र उवाच ।
एकस्मिन्दिवसे शुभग्रहयुतेलग्ने शुभे वासरे ।
योगे चारुफले जने च नगरे नानाविधे मेलिते ।
मालां रत्नमयीं ददौ नरपते राज्ञी करेणोः करे ।
सम्प्रार्थ्य द्विरदं कुरुष्व नृपतिं लोकेषु यस्ते मतः ॥ १॥
तामाज्ञां प्रतिगृहय वारणपतिः संरञ्जितो धातुभि-
र्बभ्राम द्विजबन्दिचारणगणैराशासितः सर्वतः ।
नानावाद्यकरैर्वृतौ नृपभटै राज्यार्थिभिः पूरूषै-
र्जिघ्रन् सर्वजनं सभापरिगतं यातो बहिः पत्तनात् ॥ २॥
नार्यस्तन्नगरे शिशूनथ पतीन् कृत्वा पुरोऽवस्थितान्
राज्यार्थं विविधा नराश्च बहुधा श्रेणीमुखाश्च स्थिताः ।
ते सर्वे विमनस्कतां परिगताः स्वं स्वं गृहं चागता ।
यातेऽस्मिन् गहने करिण्यथ पुरो याता बहिश्चापरे ॥ ३॥
गजस्तु यातः कमलासुतं तं सम्पूजयन्तं द्विरदाननन्तम् ।
दृष्ट्वैव तस्मिन्निदधे स मालां पश्यत्सु लोकेषु सुरेषु नाके ॥ ४॥
वस्त्राणि माल्यानि च भूषणानि दक्षाय दत्तानि तदैव लोकैः ।
ज्ञात्वा मतं पौरजनस्य राजा राज्ञः प्रकृत्योरुभयोस्तदैव ॥ ५॥
ववदुर्वाद्यसङ्घाश्च दिव्या भौमा अनेकशः ।
मुमुचुः पुष्पवर्षं ते देवा हर्षयुताः शुभम् ॥ ६॥
उपविष्टास्तदा लोका यथास्थानं यथाक्रमम् ।
नेमुश्च तं दक्षनृपममात्यद्वयसंयुतम् ॥ ७॥
ताम्बूलानि च वस्त्राणि जनेभ्यः प्रददौ नृपः ।
ब्राह्मणान् पूजयित्वैव दत्त्वा दानान्यनेकशः ॥ ८॥
सम्पूज्य मातरं तां तु वस्त्रालङ्करणादिभिः ।
दापयामास दानानि ब्राह्मणेभ्यो यथाविधि ॥ ९॥
नरयाने समारोप्य स्वयमारररुहे गजम् ।
अलङ्कृतं सिक्तमार्गं पताकाध्वजसंयुतम् ॥ १०॥
अश्वारुढावमात्यौ तौ पुरस्कृत्य ययौ पुरम् ।
स्तुवन्ति बन्दिनः पौरा नृत्यन्त्यप्सरसः पुरः ।
गन्धर्वा गाननिष्णाता धावित्वा यान्त्यमुं पुरः ॥ ११॥
जयशब्दैर्नमः शब्दो वाद्यशब्दोऽगमद् दिवम् ।
नृपद्वारं समासाद्य नत्वा केचिद् गृहं ययुः ॥ १२॥
सभायां विविशुः सर्वे सङ्ख्यातीता नृपास्तदा ।
नृयानं प्रेषयामास मुद्गलाय महामतिः ॥ १३॥
छत्रं ध्वजं चामरं च सुमन्तुं प्रकृतिं तथा ।
आयान्तं मुद्गलं दृष्ट्वा स्वासनात् पुरतो ययौ ॥ १४॥
स किरीटेन शिरसा पादयोः प्रणनाम तम् ।
न्यवेशयत् स्वासने तं तेनाज्ञप्तोऽन्य आसने ॥ १५॥
उपविष्टो राजसङ्घैः पूजयामास तं मुनिम् ।
गां चापि प्रददौ तत्र ब्राह्मणाय महामतिः ॥ १६॥
उवाच तं नृपो दक्षो भो मुद्गल महामुने ।
अद्य ते महिमा ज्ञातो लोकैरेतैर्महानयम् ॥ १७॥
शरीरे चारुता राज्यप्राप्तिश्च त्वत्प्रसादतः ।
क्व साऽवस्था पूर्वतनोः क्वन्दृक् राज्यं महामुने ॥ १८॥
विनायकमहं जाने त्वामेव मुनिसत्तम ।
पुनर्मे मस्तके ब्रह्मन् निधेहि करपङ्कजम् ॥ १९॥
येनाऽहं सर्वकामानां भाजनं स्याच्चिरं मुने ।
विश्वामित्र उवाच ।
आकर्ण्य वचनं तस्य मुद्गलोऽथाब्रवीच्च तम् ॥ २०॥
न ते भयं रिपुकृतं भविष्यति कदाचन ।
यं यं कामयसे कामं सर्वतस्ते भविष्यति ॥ २१॥
ततस्तस्मै ददौ ग्रामान् वासोरत्नधनादिकम् ।
अन्येषां ब्राह्मणानां च गोधनान्यंशुकानि च ॥ २२॥
आशीर्भिरभिनन्द्याऽथ ययुस्ते ब्राह्मणा गृहम् ।
अमात्याभ्यां गृहिभ्यश्च ददौ ग्रामाननेकशः ॥ २३॥
प्रासादं कारयामास गणेशस्य बृहत्तरम् ।
कुण्डिने नगरे तस्मिन् प्राक्तनं संस्थितं लघुम् ।
विसर्जयामास सभां प्रविवेश गृहं नृपः ॥ २४॥
आययौ वल्लभस्तत्र श्रुत्वां वार्तां जनेरिताम् ।
वीरसेनो नरपतिः स्वां सुतां पतिमिच्छतीम् ॥ २५॥
ददौ तस्मै स्वप्नगतगणेशस्याज्ञया शुभम् ।
दक्षाय राज्ञे महते त्रिलोकश्रुतकीर्तये ॥ २६॥
तस्मां तस्याऽभवत्पुत्रो बृहद्भानुरिति श्रुतः ।
ततोऽभवत् खड्गधरः सुलभस्तत्सुतोऽभवत् ॥ २७॥
पद्माकरस्तत्तनयो वपुर्दीप्तस्तु तत्सुतः ।
चित्रसेनस्तत्सुतोऽभूच्चित्रसेनात् त्वमेव हि ॥ २८॥
ब्रह्मोवाच ।
विश्वामित्रमुखात् सर्वं श्रुत्वा वंशपरम्पराम् ।
ततः स नरशार्दूलो भीमो नाम महीपतिः ॥ २९॥
सन्तोष्य तं मुनिं प्रार्थ्यं पप्रच्छ द्विजपुङ्गवम् ।
भीम उवाच ।
विनायकः कदा मे स्यात् सुप्रसन्नो महामुने ॥ ३०॥
तमुपायं वद विभो येन मे तदनुग्रहः ।
कदाऽहं कृतकृत्यः स्यां दृष्ट्वा देवं गजाननम् ॥ ३१॥
इति श्रीगणेशपुराणे उपासनाखण्डे परम्परावर्णनं नाम षड्विंशोऽध्यायः ॥ २६॥
आदितः श्लोकानां समष्ट्यङ्काः ९९८+३१=१०२९
१.२७ रक्माङ्गदाभिषेक वर्णनं नाम सप्तविंशोऽध्यायः
व्यास उवाच ।
क उपायस्तु मुनिना विश्वामित्रेण धीमता ।
कृपावता तु भीमाय कथितस्तं वदस्व मे ॥ १॥
मन्मनोमोहपटलं मृत्योरिव विनिःसृतम् ।
तत्कथामृतपानेन पितामह मृता यथा ॥ २॥
ब्रह्मोवाच ।
भीमाय कथितस्तेन य उपायः शृणुष्वतम् ।
एकाक्षर महामन्त्रं भीमाया कथयन्मुनिः ॥ २॥
पाराशर्य मुनिश्रेष्ठ कथयामि शृणुष्वतम् ।
उवाच तं प्रसन्नात्मा विश्वामित्रः सुधर्मवित् ॥ ३॥
विश्वामित्र उवाच ।
अनेनाराधय विभुं दैवतं गणनायकम् ।
अनुष्ठानं कुरुष्व त्वं प्रासादे दक्षनिर्मिते ।
विनायकः प्रसन्नस्ते सर्वान् कामान् प्रदास्यति ॥ ५॥
धर्ममर्थं तथा कामं मोक्षमन्यदपेक्षितम् ।
गच्छ वा स्वपुरं भीम चिन्तां कामपि मा कुरू ॥ ६॥
ब्रह्मोवाच ।
इत्युक्तः स तदा तेन तं प्रणम्य ययौ नृपः ।
सपत्नीको ददर्शाऽथ पत्तनं स्वं जहर्ष च ॥ ७॥
अमात्यौ सेनया सार्द्धं नागरैरीयतुर्नृपम् ।
आलिलिङ्गुर्नृपं केचिन्नेमुर्दूरात्तथाऽन्तिके ॥ ८॥
प्रविवेश पुरं राजा सर्वैः साकं ध्वजालिमत् ।
सिक्तमार्गं चारुगन्धं नानावादित्रशब्दितम् ॥ ९॥
ऊचुः परस्परं लोकाः पुरीयं शोभतेऽधुना ।
यथा नारी पतिं प्राप्य यथाऽन्धो वाऽपि सदृशम् ॥ १०॥
इति शृण्वन्नृयानस्थस्तथा सा चारुहासिनी ।
वस्त्रालङ्कारशोभाढ्यौ स्तूयमानौ मृदान्वितौ ॥ ११॥
उभौ विविशतू रम्यं पुरं नानर्द्धिसङ्कुलम् ।
विसृज्य सर्वलोकं तौ वस्त्रालङ्कारमौक्तिकैः ॥ १२॥
ताम्बूलैस्तेषु यातेषु भवनं स्वमगच्छताम् ।
ततः शुभेदिने राजा दक्षप्रासादमागतम् ॥ १३॥
यत्कौण्डिन्यपुरेऽकारि पुरा दक्षेण धीमता ।
तत्रार्चयामास विभुं सर्वदा तं विनायकम् ।
उपवासपरो नित्यं तन्मन्त्रमवलोडयन् ॥ १४॥
भोजन शयने याने वचने श्वसनेऽपि च ।
तमेव चिन्तयन् नित्यमनन्यमनसा नृपः ॥ १५॥
जले स्थले नभोमार्गे स्वर्गे देवे नरे द्रुमे ।
भक्ष्ये पेये नृपोऽपश्यद् विनायकमनुत्तमम् ॥ १६॥
यं यं पश्यति तं नौति दृढालिङ्गनतत्परः ।
नगरे तं जनाः सर्वे पिशाच इति मेनिरे ॥ १७॥
ततो विनायकोऽभ्येत्य धृत्वा पाणितले नृपम् ।
आह तं नृप मुक्तोऽसि किं वाञ्छसि वदस्व तत् ॥ १८॥
तमुवाच नृपो नान्यं जाने त्वच्चरणाम्बुजात् ।
ततो विनायकः प्राह पुत्रस्ते चारुदर्शनः ॥ १९॥
भविता मत्प्रसादेन गुणी स्वर्णतनुर्नृपः ।
व्रज स्वं भवनं देवद्विजपूजापरो भव ॥ २०॥
स गत्वा भवनं राजा तच्चकार तथैव च ।
देवानां ब्राह्मणानां च पूजनं तर्पणं तथा ॥ २१॥
अकरोत् सर्वभावेन गणेशः प्रीयतामिति ।
अल्पेनैव तु कालेन पुत्रस्तस्याऽभवच्छुभः ॥ २२॥
ददौ दानान्यनेकानि पुत्रजन्मनिमित्ततः ।
रुक्माङ्गदेति नामाऽस्य चक्रे द्विजवरोदितम् ॥ २३॥
ववृधे बालको नित्य शुक्लपक्षे यथा शशी ।
चकार गुरूसात् तं स शिक्षार्थं नृपतिः सुतम् ॥ २४॥
स च श्रवणमात्रेण जग्राह गुरूणोदितम् ।
सर्वविद्यानिधानेन दत्तं यत्कपिलेन च ॥ २५॥
सोऽपि विद्यानिधिरभूद गजकर्णं इवापरः ।
रूक्माङ्गदोऽति बलवान् सर्वशास्त्रविशारदः ॥ २६॥
तस्मै पट्टाभिषेकं स चकार गुणराशये ।
ददौ च द्विजमुख्येभ्यो वासोरत्नधनानि च ॥ २७॥
ततोऽधिकां महाभक्तिं सोऽपि चक्रे विनायके ।
जजापैकाक्षरं मन्त्रं पितुः प्राप्तं दिने दिने ॥ २८॥
एकस्मिन्दिवसेऽरण्यं युवराजा विवेश ह ।
मृगयां व्यचरद्भूरि जघान गवयान् मृगान् ॥ २९॥
अतिश्रान्तो ददर्शाऽथ मुनेः कस्यचिदाश्रमम् ।
नानावृक्षलताजालं त्यक्तवैरमृगान्वितम् ॥ ३०॥
इति श्रीगणेशपुराणे उपासनाखण्डे रक्माङ्गदाभिषेकवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७॥
आदितः श्लोकानां समष्ट्यङ्काः १०२९ + ३० = १०५९
१.२८ प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः
ब्रह्मोवाच ।
ततो रूक्माङ्गदोऽपश्यदृषिं वाचक्नविं शुभम् ।
मुकुन्दां तस्य पत्नीं च स्निग्धमञ्जुलभाषिणीम् ॥ १॥
अतिश्रान्तो नरपतिर्नमश्चक्र उभावपि ।
तस्मिन्मुनौ गते स्नातुं ययाचे नृपसत्तमः ॥ २॥
मातुर्मुकुन्दे मे देहि शीतलं जलमुत्तमम् ।
विना जलं मम प्राणा गमिष्यन्ति यमक्षयम् ॥ ३॥
आकर्ण्य तस्य वाचं सा जगाद मदनातुरा ।
त्वादृशं पुरुषं क्वापि मारादप्यतिसुन्दरम् ॥ ४॥
न देवेषु न नागेषु यक्षगन्धर्वपुञ्जयोः ।
पश्यामि चारू सर्वाङ्गमतो मे हृदयं त्वयि ॥ ५॥
अत्यासक्तं त्वदधरामृतपाने च देहि तत् ।
मुनिरूवाच ।
व्यलीकं स तु श्रुत्वैव श्रान्तत्वाद्भृशदुःखित ॥ ६॥
तिलोत्तमोत्तमा तां स जितेन्द्रियतया जगौ ।
त्यज प्रौढिं न मे चित्तं पारदार्ये विगर्हिते ॥ ७॥
विनायक प्रभावेण सक्तं नैवात्र कर्हिचित् ।
न जलं पातुमिच्छामि त्वया दत्तं सुदुष्टया ॥ ८॥
ऋषेराश्रम इत्येवं यातो यास्य इतो शुभे ।
तं गन्तुमुद्यतं पाणिं धृत्वाऽवीवददातुरा ॥ ९॥
मुकुन्दोवाच ।
बलात्कारेण योऽन्यस्य स्त्रियं धर्षितुमिच्छति ।
स एव नरकं याति न स्वयं याति तामपि ॥ १०॥
कृते त्रेतायुगे ब्रह्मा स्त्रीणां स्वातन्त्र्यमभ्यधात् ।
न करोषि यदा वाक्यं तदा भस्म भविष्यसि ॥ ११॥
अथवा राज्यविभ्रष्टं करिष्ये वनचारिणम् ।
मनिरूवाच ।
इत्युक्त्वा धावमाना सा काममार्गेणपीडिता ॥ १२॥
रभसाऽऽलिङ्गयामास चुचुम्बे वदनं हठात् ।
ततो रूक्माङ्गदस्तां तु बलाच्चिक्षेप दूरतः ॥ १३॥
मूर्छिता पतिता भूमौ रम्भेव मरूता हता ।
उत्थितां तां तदा प्राह परदारविरक्तधीः ॥ १४॥
रूक्माङ्गदो महाभागे मुनिपत्न्यविवेकिनि ।
परपुंसि मनो यस्याः सा वै निरयभाग्भवेत् ॥ १५॥
न मे मनश्चलेत् क्वापि यदि शुष्येन् महोदधिः ।
एवं निराकृता तेन तं शशाप रुषान्विता ॥ १६॥
ययाऽहं कष्टमगमं तथा त्वं कुष्ठभाग् भव ।
यतस्ते हृदयं वज्रात् सारभूतं न च द्रुतम् ॥ १७॥
इत्थं वदन्ती तां राजा निर्भर्त्स्य बहुधा ततः ।
त्वरया निर्गतस्तस्मादाश्रमाद् भृशदुःखितः ॥ १८॥
स्वं ददर्श शरीरं स श्वेतं बकशरीरवत् ।
कुष्ठरोगयुतं कान्त्या हीनं च भृशकुत्सितम् ॥ १९॥
चिन्तार्णवे तदा मग्न इदमाह गजाननम् ।
अपराद्धं मया किं ते कथमत्रागतोऽप्यहम् ॥ २०॥
प्राप्तः कथं नु दुष्टाया मुनिपत्न्याः समागमम् ।
त्वया नूनं सिद्धिपते दुष्टाः संवर्धिता भृशम् ॥ २१॥
अवतारांश्च साधूनां रक्षणाय बिभर्षि हि ।
इयं न नाशिता दुष्टा स्वैरिणी रूपगर्विता ॥ २२॥
कथं मम शरीरं तत् काञ्चनस्पर्द्धि सुन्दरम् ।
इवामवस्था सम्प्राप्तः केन वा दुष्टकर्मणा ॥ २३॥
तव भक्तिं यथा पूर्वं सदा कुर्वे यथाविधि ।
त्वदन्यं नैव शरणं यामि नाथ गजानन ॥ २४॥
नेदं शरीरं वक्त्रं वा दर्शयिष्ये जनं प्रति ।
प्रायोपवेशनेनेदं शोषयिष्ये कलेवरम् ॥ २५॥
निश्चित्यैवं नरपतिरास न्यग्रोधसन्निधौ ।
भृत्या इतस्ततोऽधावन्नेक्षन्ते स्म च तं नृपम् ॥ २६॥
प्रवृत्तायां निशायां च जग्मुः स्वं स्वं निकेतनम् ।
स्वामि सेवकयोर्जाता गतिश्चक्राह्वयोरिव ॥ २७॥
इति श्रीगणेशपुराणे उपासनाखण्डे प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः ॥ २८॥
आदितः श्लोकानां समष्ट्यङ्काः १०५९ + २७ = १०८६
१.२९ नारदागमनं नामैकोनत्रिंशोऽध्यायः
मुनिरुवाच ।
तस्मिन्वटे समासीनः कस्मिंश्चिद्दिवसे नृपः ।
दूराद्ददर्श देवर्षिं नारदं मुनिपुङ्गवम् ॥ १॥
ननाम प्रार्थयामास क्षणं विश्राम्यतामिति ।
उत्ततार नभोमार्गान्नारदः करूणानिधिः ॥ २॥
पूजयित्वा यथाशक्ति प्रपच्छ मुनिमादरात् ।
अहं रुक्माङ्गदो नाम भीमपुत्रो महाबलः ॥ ३॥
मृगयां व्यचरन्वाचक्नवेराश्रममागतः ।
जलयाच्चा कृता तत्र तृषितेन मयाऽनघ ॥ ४॥
तस्य पत्नी भृशं नष्टा कामार्ता मामचुम्बत ।
तस्मिन्मुनौ गते स्नातुं दृष्टभावेन चेतसा ॥ ५॥
उवाच मां भजस्वेति कामबाण प्रपीडिता ।
जितेन्द्रियतया देवप्रसादात्सा निराकृता ॥ ६॥
अशपद्दुःखिताऽत्यन्तं सा मां निष्ठुरचेतसा ।
कुष्ठी भव महादुष्ट सकामां त्यजसे यतः ॥ ७॥
ब्रह्मोवाच ।
श्रुत्वैवं दुष्टवचनं निर्गतोऽहं तदाश्रमात् ।
श्वेतकुष्ठी तदा जातो वद मे निष्कृतिं मुने ॥ ८॥
वियोगान्मम भीमोऽपि मग्नःस्याद् दुःखसागरे ।
श्रुत्वेत्थं वचनं तस्य नारदः प्राह विश्ववित् ॥ ९॥
उपायं तस्य कुष्ठस्य नाशाय करुणायुतः ।
नारद उवाच ।
आगच्छता मया मार्गे दृष्टमाश्चर्यमुत्तमम् ॥ १०॥
विदर्भे नगरं ख्यातं कदम्बमिति संज्ञया ।
तत्प्रासादे मया दृष्टा मूर्तिर्वैनायकी शुभा ॥ ११॥
चिन्तामणिरिति ख्याता सर्वेषां सर्वकामदा ।
तस्याऽग्रतो महाकुण्डं गणेशपदपूर्वकम् ॥ १२॥
कश्चिच्छूद्रो महाकुष्ठी जराजर्जरितो नृप ।
तीर्थयात्राप्रसङ्गेन कदम्बपुरमागतः ॥ १३॥
गणेशकुण्डे स्नात्वैव दिव्यदेहमवाप सः ।
विनायकस्वरूपैस्तु गणैरानतितम्बरात् ॥ १४॥
विमानवरमारूह्य स गतः स्थानमुत्तमम् ।
यत्र गत्वा न शोचन्ति न पतन्ति पुनः क्वचित् ॥ १५॥
दृष्टो मयैव राजेन्द्र तत्र स्नानाय साम्प्रतम् ।
स्नात्वा देवं समभ्यर्च चिन्तितार्थप्रदं विभुम् ॥ १६॥
देहि दानानि विप्रेभ्यः सद्यः पूतो भविष्यसि ।
जीर्णां त्वचं परित्यज्य सुरूपी भुजगो यथा ॥ १७॥
ब्रह्मोवाच ।
इति वाणीं नारदोक्तां निशम्य नृपसत्तमः ।
न किञ्चिदुक्तवान् वाक्यं मग्न आनन्दसागरे ॥ १८॥
गन्तुं समुद्यते तस्मिन्नारदे मुनिपुङ्गवे ।
प्रणिपत्य ततोऽपृच्छत् प्रपूज्य च मुनिं पुनः ॥ १९॥
रूक्माङ्गद उवाच ।
तस्मिन्क्षेत्रे पुरा केन सिद्धिः प्राप्ता शुभाऽनघ ॥ २०॥
मूर्तिश्च स्थापिता केन मणिरत्नमयीं शुभा ।
वैनायकीति मे शंस परं कौतूहलं मुने ॥ २१॥
भवादृशानां साधूनां परोपकरणे मतिः ।
अन्यथा भ्रमणे कृत्यं न लोकेषु प्रदृश्यते ॥ २२॥
लोकेषु वर्षते मेघः शेषेण ध्रियते धरा ।
उपकाराय सूर्योऽपि भ्रमतेऽहर्निशं द्विज ॥ २३॥
समस्य सर्वभूतेषु सर्वज्ञस्य तवाग्रतः ।
अनभिज्ञेन मूढेन किं वक्तव्यं दयानिधे ॥ २४॥
पृच्छे तथापि देवर्षे संशयच्छेदनाय वै ।
नारद उवाच ।
साधु पृष्टं त्वया भूप लोकानुग्रहकारक ॥ २५॥
तृप्तोऽहं तव वाक्येन सर्वं च कथयामि ते ॥ २६॥
इति श्रीगणेशपुराणे उपासनाखण्डे नारदागमनं नामैकोनत्रिंशोऽध्यायः ॥ २९॥
आदितः श्लोकानां समष्ट्यङ्काः १०८६ + २६ = १११२
१.३० अहल्याधर्षणं नाम त्रिंशतितमोऽध्यायः
नारद उवाच ।
कदाचिदमरावत्यां शक्रं दृष्टुं गतोऽस्म्यहम् ।
स मां सम्पूज्य विधिवदुवाचावनतो भृशम् ॥ १॥
इन्द्र उवाच ।
किञ्चिदाश्चर्यभूतं मे सन्तोषाय मुने वद ।
भ्रमसे सर्वलोकांस्त्वं विदितं सर्वमस्ति ते ॥ २॥
नारद उवाच ।
मृत्युलोके मया दृष्टो गौतमस्याश्रमो महान् ।
नानावृक्षलताजालैर्नानापक्षिगणैर्युतः ॥ ३॥
अहिल्यासहितं तत्र गौतमं दृष्टवानहम् ।
रूपं विलोक्य तस्यास्तु जातोऽहं कामविव्हलः ॥ ४॥
यस्या रूपेण सावित्री शचीलक्ष्मीर्गिरीन्द्रजा ।
उर्वशी मेनका रम्भा लोके ख्याता तिलोत्तमा ॥ ५॥
केशाबाला ययाऽकारि साऽनसूयाऽप्यरून्धती ।
छाया संज्ञा रवेर्भार्या कश्यपस्य च याऽदितिः ॥ ६॥
सदृशी नैव कापिस्यान्नागपत्नीषु वा क्वचित् ।
न च मे रोचते गानं न पूजा न च भोजनम ॥ ७॥
ब्रह्मचर्य च मे स्वीयं निद्रां च न लभे क्वचित् ।
त्वरावानह मायातो दृष्टुं साध्वमरावतीम् ॥ ८॥
तुच्छां पश्य इमां देवी विना ताममरावतीम् ।
नारद उवाच ।
इति शक्रं ब्रुवन्नन्तर्हितोऽहं नृपते वर ॥ ९॥
अन्तर्हिते मयि तदा मदद्वाक्यं मनसा स्मरन् ।
जम्भभेदी मत्सकेतुविद्धोमूर्छामवाप सः ॥ १०॥
पश्ये कदा मुनेर्भार्यां गौतमस्येत्यचिन्तयत् ।
कदाऽधरामृतं प्राप्य मुच्येयं मदनानलात् ॥ ११॥
जीवितुं नैव पश्येऽन्यन्तदाश्लेषं विना शुभम् ।
एवं निश्चित्य सङ्कल्पं गौतमोऽभूत् स जम्भहा ॥ १२॥
चिन्तयन्नेव तां मार्गे मुनेराश्रममाययौ ।
ददर्श तामहल्यां तु स्नातुं याते स गौतमे ॥ १३॥
अभ्यन्तरगतः प्रोचे प्रिये शय्यां शुभां कुरू ।
सा चोवाच जपं त्यक्त्वा कथमद्यागतो गृहम् ॥ १४॥
दिवैव सुरतेच्छां किं कुरूषेऽतिविगर्हिताम् ।
गौतम उवाच ।
अहं स्नातुं गतो यावत् तावदेव वराप्सराः ॥ १५॥
तत्रैव स्नातुमायाता जाता नग्नाऽक्षिगोचरा ।
बिम्बाधरा सुचार्वङ्गी चारुपीनपयोधरा ॥ १६॥
न लग्नं मे मनो देवि जपे कामास्त्रपीडितम् ।
ततोऽहमाश्रमं यातो रतिं देहि प्रियेऽधुना ॥ १७॥
नोचेत्कामाग्निना दग्धं मृतं मां क्व नु पश्यसि ।
शपे त्वां प्रव्रजिष्ये वा निग्रहीष्ये मनोभृशम् ॥ १८॥
अहल्योवाच ।
स्वाध्यायं देवपूजां च त्यक्त्वा किं प्रार्थ्यत रतिः ।
नोचितं तव ब्रह्मर्षे तथाऽप्याज्ञां करोम्यहम् ॥ १९॥
भर्तुः शुश्रुषणादन्यो धर्मो नास्ति स्त्रियाः क्वचित् ।
नारद उवाच ।
स्वराकृति स्वभावैः सा ज्ञात्वा तं स्वामिनं निजम् ॥ २०॥
विवेश शयने रन्तुमहल्या सह वज्रिणा ।
निःशङ्कं चुम्बनाश्लेषनीवीविस्त्रंसनादिभिः ॥ २१॥
आकृत्या गौतमस्यैवं चिक्रीदे जम्भहा तया ।
दिव्यान्गन्धानुपाघ्राय चकिता शङ्किता भृशम् ॥ २२॥
तर्कयामास मनसि किमयं कूटरुपवान् ।
कलङ्कोऽयं मम भृशं चन्द्रस्येव भवेन्नुकिम् ॥ २३॥
उभे कुले मे नष्ट किं दुष्टस्यास्य तु सङ्गमात् ।
दर्शयिष्ये कथं लोकेऽयशःश्याम मुखत्विदम् ॥ २४॥
नयिष्यति गति कां मे प्रियो भर्ता तु मां मुनिः ।
पप्रच्छ तं शठं कोपात् कोऽसि त्वं कूटरुपधृक् ॥ २५॥
विश्वस्ता स्वामिरूपेण वदनो चेच्छपामि ते ।
इत्युक्तः शापभीतोऽसावाविश्चक्रे निजं वपुः ॥ ५६॥
दिव्याभरणसंयुक्तं किरीटकटकान्वितम् ।
कुण्डलाद्भुतदीप्ताभिर्विलसन् मुखपङ्कजम् ॥ २७॥
उवाच स ततस्तां तु विद्धि मां त्वं शचीपतिम् ।
लावण्यदर्शनात्तेऽहं विव्हलो मदनाग्निना ॥ २८॥
न लेभे कुत्रचिच्छर्म तत इत्थं कृतं मया ।
इतोऽपि मां भजस्व त्वं त्रैलोक्येश्वरमादरात् ॥ २९॥
श्रुत्वेत्थं वचनं तस्य मुनिपत्नी रुषान्विता ।
वमन्तीव मुखाज्ज्वालां जगाद त्रिदशाधिपम् ॥ ३२॥
अस्य ते वपुषो मूढ मद्भर्तरि समागते ।
अवस्था का भवेन्मन्द न जानेऽहं शतक्रतो ॥ ३१॥
पातिव्रत्यं त्वया भग्नं दुष्ट पापीयसा मम ।
कामवस्थां गमिष्यामि शापाद् गौतमवाग्भवात् ॥ ३२॥
इति श्रीगणेशपुराणे उपासनाखण्डे अहल्याधर्षणं नाम त्रिंशतितमोऽध्यायः ॥ ३०॥
आदितः श्लोकानां समष्ट्यङ्काः १११२ + ३२ = ११४४
१.३१ शक्रशापवर्णनं नामैतत्रिंशतितमोऽध्यायः
रूक्माङ्गद उवाच ।
आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।
वद मे सकलं तं तु जिज्ञासा महती मम ॥ १॥
नारद उवाच ।
नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ ।
आकार्य निजपत्नीं तां देहि पादोदकं मम ॥ २॥
किमर्थ नागताऽद्य त्वं सम्मुखं मम पूर्ववत् ।
नानीतमासनं कस्मात्कथं चारु न भाषसे ॥ ३॥
श्रुत्वेत्थं वचनं तस्य वेपमाना लतेव सा ।
अधोमुखी विनिर्गर्म्य मुहूर्तान्मुनिमाययौ ॥ ४॥
साष्टाङ्गं पतिता भमौ तत्पादोपरिमस्तका ।
विह्वला शापभीता सा शनैरथ जगौ मुनिम् ॥ ५॥
उषसि त्वं प्रयातोऽसि स्नानं कर्तुं निजं विधिम् ।
तवरुपधरो दुष्टो देवेन्द्रो मामुवाच ह ॥ ६॥
दृष्टा वराऽप्सरोभ्योऽपि सुन्दरी कामिनी मया ।
न मे मनो जपे दैवे विधौ नित्ये स्थिरं भवेत् ।
परावृत्यागतस्तस्माद्रतिं मे देहि शोभने ॥ ७॥
त्वमेवेति मया भ्रान्त्या कृतं वाक्यं तथैव तत् ।
दिव्यगन्धानुपाघ्राय विकल्पो मेऽभवत्पुनः ॥ ८॥
दुरात्मन् कोऽसि नो ब्रूहि नोचेद्भस्म भविष्यसि ।
इति शापभयाज्जातः प्रकटो बलसूदनः ॥ ९॥
तावदेव भवद्वाक्यं श्रुतं तु मुनिसत्तम ।
लज्जयाऽनागता शीघ्रमपराधं क्षमस्व मे ॥ १०॥
स्वयं निवेदनेऽदोषोदोषोऽपर निवेदने ।
मन्त्रायुर्गृहरन्ध्रश्रीरतयश्चौषधानि च ॥ ११॥
मानापमानदानानि प्रकटानि न कारयेत् ।
इत्थं निशम्य स मुनिः कोपव्याकुलितेन्दियः ॥ १२॥
शशाप वनिनां स्वीयां दुःशीलं त्वं शिला भव ।
नाज्ञासीर्मे स्वरूपं तं स्वभावं चेष्टितानि च ॥ १३॥
परे पुंसि निमग्नं ते यतश्चेतोऽतिकामुके ।
यदा दाशरथी रामो भ्रमद्राजा वने वने ॥ १४॥
तस्याङ्घ्रि स्पर्शनादेव स्वं रूपं प्रतिपत्स्यसे ।
नारद उवाच ।
तदैव सा शिला जाता तपोनिधीवचोबलात् ॥ १५॥
तस्याः शापं समाकर्ण्य चकम्पे पाकशासनः ।
प्रकम्पनस्य संयोगाद् हिमवत् पर्वतो यथा ॥ १६॥
तर्कयामास मनसि कथं कार्यं मयाऽधुना ।
समुद्रमध्ये कूपे वा तडागे कमलेऽथवा ॥ १७॥
लीनो भूत्वा तदा स्थास्ये तदा ज्ञास्यति मां मुनिः ।
अतो बिडालरूपेण विचचार स वज्रभृत ॥ १८॥
गौतमस्तमचक्षाणो गृहे द्वारी तथाश्रमे ।
क्व गतो दानवरिपुर्यो मे भार्या विदूषकः ॥ १९॥
ध्यानेन बुबुधे तं तु क्षणेन मुनिसत्तमः ।
न ते भस्म करिष्यामि देवेन्द्रोऽसि यतःखलः ॥ २०॥
शपामि त्वां शचीभर्तः सहस्रभगवान्भव ।
श्रुतवान्वचनं यावद्रोषेण मुनिनेरितम् ॥ २१॥
तावद्ददर्श स्वं देहं सहस्रभगचिन्हितम् ।
ततो दुःखार्णवे मग्नः शुशोच बल वृत्रहा ॥ २२॥
इन्द्र उवाच ।
अहं शिक्षापितो वृद्धैर्नानाधर्माननेकशः ।
वृद्धानां वचनं यन्मे न विचारितमादरात् ॥ २३॥
स्वबुद्धीर्हितकृत्सर्वा विनाशाय परेरिता ।
गुरोर्गरीयसी बुद्धिः क्षयदा कामिनीमतिः ॥ २४॥
कुतो नारदवाक्येन यातोऽहं तामनिन्दिताम् ।
देवराजोऽभवन्नास्यं लोकान्ना दर्शये कथम् ॥ २५॥
दिव्यदेहो गतः क्वाद्य निजभार्यां वदे नु किम् ।
धिग् मां च धिक्स्मरं येन प्रापितो गर्हितां दशाम् ॥ २६॥
प्राणिभिर्भुञ्ज्यते कर्म शुभं वा यदि वाऽशुभम् ।
तिर्यङ्ग्योनि समासाद्य क्षपयिष्येऽघमात्मनः ॥ २७॥
नलिनीकुड्मले तिष्ठे हीन्द्रगोपकरूपधृक ॥ २८॥
इति श्रीगणेशपुराणे उपासनाखण्डे शक्रशापवर्णनं नामैतत्रिंशतितमोऽध्यायः ॥ ३१॥
आदितः श्लोकानां समष्ट्यङ्काः ११४४ + २८ = ११७२
१.३२ मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः
नारद उवाच ।
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पति पुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान् ॥ १॥
तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम् ॥ २॥
सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद् देवास्तत्सङ्गात्सा शिलाऽभवत् ॥ ३॥
ब्रह्मोवाच ।
श्रुत्वा ते नारदोक्तं तत् सर्वे देवाः शुचान्विताः ।
अतिदुःखाद् रुदन्तस्ते निश्वासोच्छवासविभ्रमैः ॥ ४॥
देवा ऊचुः ।
येनाकारि शतं यज्ञा दानवा येन निर्जिताः ।
त्रैलोक्यं पालितं येन भुक्तमैद्रपदं शुभम् ॥ ५॥
पूजिता बहवो देवा ब्राह्मणा ब्रह्मवित्तमाः ।
भुक्ता नानाविधा भोगा अन्येषामतिदुर्लभाः ॥ ६॥
कुत्र स्थास्यत्यसौ देवो भोक्ष्यते स्वप्स्यते कथम् ।
कमद्य शरणं यामः स्वकृते तत्कृतेऽपि वा ॥ ७॥
पालयिष्यति कांऽस्मान्वै पदमैन्द्रं शचीं तथा ।
कथं प्रसन्नतां यायाद् गौतमो मुनिसत्तमः ॥ ८॥
स्वीयभार्या वियुक्तः सँस्तत्कृतागः स्मरन् रूषा ।
अन्योपायं न पश्चामो गौतमस्य प्रसादतः ॥ ९॥
तस्मान्नारद यास्यामो गौतमं सान्त्वितुं मुनिम् ।
एवं ते निर्ययुर्देवा नारदेन समन्विताः ॥ १०॥
गौतमं ते समासाद्य बद्धाञ्जलिपुटा मुनिम् ।
तुष्टवुर्विविधैर्वाक्यैस्तमेव शरणं गताः ॥ ११॥
देवा ऊचुः ।
तव प्रभावं वक्तुं नो मुने शक्तिर्न विद्यते ।
गरिमाणं वदेत् को नु मेरोर्हिमवतोऽपि च ।
वृष्टिधारा रजो भूमेर्गङ्गायाः सिकता अपि ॥ १२॥
कमम्बुधेर्गुणान् विष्णोर्गणयेत् को नु मूढधीः ।
प्रातरेवोप्तबीजानां मध्यान्हे सस्यसम्पदः ॥ १३॥
सम्पादितास्त्वयापूर्वमविता ऋषिसत्तमाः ।
वालखिल्यैर्यजि कृत्वाऽपर इन्द्रो विनिर्मितः ॥ १४॥
ब्रह्मादिभिः प्रार्थितास्ते पक्षिणान्तमकल्पयन् ।
पयसां निधिरेकेन प्राशितश्चुलकेन यत् ॥ १५॥
अपरा सृष्टिरारब्धा गाधिपुत्रेण धीमता ।
स्तम्भितो भुज इन्द्रस्य च्यवनेन महात्मना ॥ १६॥
तस्मात्सर्वात्मना पुंसां भवतां सेवनं नतिः ।
दर्शनं भाषणं पूजा स्पर्शनं पापनाशनम् ॥ १७॥
उपकारे रतानां च दीनानुग्रहकारिणाम् ।
इन्द्रार्थे शरणं यातान्कृपां कर्तुं त्वमर्हसि ॥ १८॥
गौतम उवाच ।
भवतां दर्शनं चर्मचक्षुषां नैव जायते ।
मम पुण्येन जातं तत् कामसम्पादनं नृणाम् ॥ १९॥
जन्माश्रमतपोदानं देह आत्मा व्रतानि च ।
सार्थकानीक्षणेनैव जातानि भवतां खलु ॥ २०॥
इदानीं प्रार्थितं किं वस्तन्निरुप्यं ममाग्रतः ।
शक्यं चेत् तत्करिष्येऽहं भवत्स्मृतिबलेन तत् ॥ २१॥
मुनिरुवाच ।
इति तद्वचनं श्रुत्वा जहृषुस्ते दिवौकसः ।
चन्द्रोदये यथा हर्षं प्राप्नोति जलधिं स्फुटम् ॥ २२॥
यथा वा बालभाषाभिः पितरौ मुदमीयतुः ।
प्रार्थना चक्रिरे सर्वे गौतमं तं महामुनिम् ॥ २३॥
देवा ऊचुः ।
ईश्वरस्यापराधेन कामो भस्मत्वमागतः ।
आगस्कारी त्वया शक्रो न च प्राणैर्वियोजितः ॥ २४॥
इदानीं स यथास्यानं स्वकीयं प्राप्नुयान्मुने ।
क्षमित्वा तस्य चागांसि सर्वेषां वचनाद्धि नः ॥ २५॥
कृते तस्मिन्प्रसादे तु सर्वेषां वाच्छितं भवेत् ।
नारद उवाच ।
श्रुत्वा देवसमूहस्य वचनानि स गौतमः ॥ २६॥
प्रहस्य प्रत्युवाचेदं सर्वान् देवगणान्प्रति ।
गौतम उवाच ।
नामापि तस्य न ग्राहयं पतितस्य कृतागसः ॥ २७॥
कपटस्य शठस्यापि दुष्टस्याप्यविवेकिनः ।
अनुतापविहीनस्य निष्कृतिर्नैव विद्यते ॥ २८॥
तथापि भवतां वाक्यात्करिष्ये तत्प्रियं सुराः ।
भवन्तोऽपि यदा रुष्टास्तदाशापः पतेन्ययि ॥ २९॥
पूतो भवति जन्तुर्हि बहुभिर्योऽनुगृह्यते ।
अत एकं वदे मन्त्रं तस्मै तं प्रदिशन्तु च ॥ ३०॥
सर्वकर्ता सर्वहर्ता सर्वपाता कृपानिधिः ।
विनायको देवदेवो ब्रह्मविष्णुशिवात्मकः ॥ ३१॥
षडक्षरस्तस्य मन्त्रो महासिद्धि प्रदायकः ।
उपदेशे कृते तस्य दिव्यदेहो भवेत्तु सः ॥ ३२॥
भगानि तस्य यावन्ति तावन्नेत्रो भविष्यति ।
स्वराज्यं प्राप्स्यते शक्र इति सत्यं वदामि वः ॥ ३३॥
अभिधाय सुरानित्थं तूष्णीमासीत्स गौतमः ।
तं च ते पूजयित्वा तु नमश्चक्रुर्मुदान्विताः ॥ ३४॥
प्रदक्षिणीकृत्य पुनः प्राप्याऽनुज्ञां ययुः सुराः ।
प्रशंसन्तो मुनिं तत्र यत्रास्ते बलवृत्रहा ॥ ३५॥
गौतमाज्ज्ञानसम्पन्नात् सात्त्विकोऽन्यो न वर्तते ॥ ३६॥
इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
आदितः श्लोकानां समष्ट्यङ्काः ११७२+३६ = १२०८
१.३३ त्रयस्त्रिशतितमोऽध्यायः
नारद उवाच ।
ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो ।
वयं हि सहितास्तत्र नारदेन सुरर्षिणा ॥ १॥
तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।
उपायस्तेन कथितो वरोदत्तस्तवापि च ॥ २॥
दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।
तत्र प्रतिविधि सम्यक् कुर्वन्ति तन्निरर्थकम् ॥ ३॥
आच्छादने दोषवृद्धिः ख्यापने तु लयो भवेत् ।
तस्मात्त्वमपि देवेन्द्र बहिरागत्य तं वद ॥ ४॥
देवर्षि प्रति तं ब्रूहि कुरुपायं मुनीरितम् ।
वैनायकं महामन्त्रं गृहाण त्वं षडक्षरम् ॥ ५॥
ब्रह्मा ददर्श चाङ्गुष्ठं विवाहे गिरिजेशयोः ।
चस्कन्द स तदा रेतो लज्जितोऽवाङ्मुखो गतः ॥ ६॥
ज्ञात्वा महेशः कृतवान्निर्दोषं तमुपायतः ।
इति वाणीं स श्रुत्वैव देवर्षिगणनिर्मिताम् ॥ ७॥
आजगाम बहिः शक्रो नलिनीकोशतो नृप ।
सर्वेषां तत्र देवानां श्रुत्वा वाक्यानि सादरम् ॥ ८॥
पूयशोणितदिग्धाङ्गो मलिनः पूतिगन्धवान् ।
दृष्ट्वा तथा विधं देवा नेमुः सर्वे सुरेश्वरम् ॥ ९॥
आच्छाद्य घ्राणरन्ध्राणि वस्त्राग्रैर्नृपसत्तम ।
सुस्नातं पुनराचान्तं तमिन्द्रं वाक्पतिस्तदा ॥ १०॥
षडक्षरं महामन्त्रं गणेशस्योपदिष्टवान् ।
उपदेशे कृते तेन दिव्यदेहोऽभवच्च सः ॥ ११॥
सहस्रनयनः श्रीमान्बभौ सूर्यं इवापरः ।
ततो वाद्यनिनादैश्च जयशब्दैर्दिवौकसाम् ॥ १२॥
गन्धर्वाणां गानरवैर्नादिता विदिशो दिशः ।
मुमुचुः पुष्पवर्णाणि सर्वेदेवा मुदान्विताः ॥ १३॥
आशिषोऽथ ददुः सर्वे मुनयो नारदादयः ।
आलिलिङ्गुर्मुदादेवास्तुष्टुवुश्चापरे च तम् ॥ १४॥
केऽप्यूचुस्तं सुमनसः सनाथा हि वयं त्वया ।
विना त्वां नैव शोभामो विना चन्द्रं नभो यथा ॥ १५॥
विना स्वपितरौ बाला न सुखं यान्ति सर्वथा ।
तथा विना वयं त्वां हि लभामः शर्म न क्वचित् ॥ १६॥
मुनिरुवाच ।
श्रुत्वेथं देववचनं जहर्षं च शतक्रतुः ।
उवाच च प्रसन्नात्मा तथ्यं वाक्यं सुरान्प्रति ॥ १८॥
इन्द्र उवाच ।
मया कृतं कर्म सुदुष्करं यद्देवर्षि वाक्येन विमोहितेन ।
लब्धं फलं दुःसहमद्य सर्वैरुद्धारितोऽहं दुरितप्रकोपात् ॥ १८॥
नमामि सर्वानमरप्रबर्हानृषींश्च सर्वान् सुगुरुप्रभावान् ।
उद्धर्तुमात्मानमतोऽखिला मां संत्रातुमर्हाः शरणं प्रपन्नम् ॥ १९॥
कथं प्रयत्नो रचितो भवद्भिः प्रसादनायास्य हि गौतमस्य ।
कथं नु मन्त्रं परमं मदर्थे स उक्तवांस्तत् कथयन्तु सर्वे ॥ २०॥
देवा ऊचुः ।
मुनि पुरस्कृत्य गुरूं वयं च गता मुनि तं प्रणिपत्य सम्यक् ।
प्रसादितो वागमृतैर्विचित्रैः संयाच्यमानोऽप्यवदत् स्वमन्त्रम् ॥ २१॥
यस्योपदेशेन सहस्रनेत्रो जातो भवान्सर्वसुखाय देव ।
प्रयाहि देवत्वमरावतीं स्वां प्रशाधि सर्वान् विबुधांश्च लोकान् ॥ २२॥
इन्द्र उवाच ।
नाहं प्रयास्ये स्वपुरीं प्रसादं विना गणेशस्य सुरर्षिवर्याः ।
व्रजन्तु यूयं कृतसाधुकृत्या धामानि दिव्यानि मुदा रमन्तः ॥ २३॥
एतावताऽलं प्रकटीकृतोऽहं लज्जाविलीनो बहुदुर्गतिश्च ।
प्रसादितो यन्मुनिरुग्रतेजा भवत् प्रसादाद्बहुनेत्रता मे ॥ २४॥
इति श्रीगणेशपुराणे उपासनाखण्डे त्रयस्त्रिशतितमोऽध्यायः ॥ ३३॥
आदितः श्लोकानां समष्ट्यङ्काः १२०८ + २४ = १२३२
१.३४ चिन्तामणितीर्थ वर्णनं नाम चतुस्त्रिंशोऽध्यायः
नारद उवाच ।
कदम्बवृक्षस्य तले निधाय नासाग्रदृष्टिं परमासने सः ।
मनो निरूध्याऽथ जजाप मन्त्रं षडक्षरं जम्भरिपुर्नरेन्द्र ॥ १॥
सहस्रवर्षाणि गतानि तस्य मरूत्पतेर्मारुतभक्षणस्य ।
वल्मीकगुल्मानि शरीरदेशे जातानि वै भूधरवत् स्थिरस्य ॥ २॥
ततःप्रसन्नो भगवान् गणेशो यः सर्वगः सर्वविदुग्रतेजाः ।
स्वतेजसा वन्हिशशीनतेजांस्याच्छादयन्सर्व विलोचनानि ॥ ३॥
चतुर्भुजो रत्नकिरीटमाली चार्वङ्गदः कुण्डलमण्डिगण्डः ।
मुक्तामयं दाम च नूपुरे च बिभ्रन्महार्घे कटिसूत्रमुच्चैः ॥ ४॥
यः पुष्कराक्षः पृथुपुष्करोऽपि बृहत्करः पुष्करशालिमालः ।
आविर्बभूवाखिलदेवमूर्तिः सिन्दूरशालि पुरतो मघोनः ॥ ५॥
तं दृष्ट्वा भयभीतोऽभूत् किमिदं किमिवागतम् ।
कथं च जीवितं मे स्यादस्थिप्राणमयस्य च ॥ ६॥
विघ्नोऽयं किं महानद्य न जाने केन निर्मितः ।
स्वेदस्रावि शरीरं मे कम्पते बोधिपत्रवत् ॥ ७॥
इत्थं विक्लवितं तस्य बुबुधेऽखिल दृग्विभुः ।
विनायको महेन्द्रं तमुवाच मञ्जुलं वचः ॥ ८॥
विनायक उवाच ।
मा भयं कुरू देवेश मां न वेत्सि कथं सुर ।
यन्निर्गुणं निर्विकारं चिदानन्दं सनातनम् ॥ ९॥
कारणातीतमव्यक्तं जगत्कारणकारणम् ।
यं ध्यायसि सदा देवं मन्त्रेणाऽनेन निश्चलः ॥ १०॥
श्रान्तोऽसि बहु कालं त्वमिति प्रत्यक्षतां गतः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः ॥ ११॥
ब्रह्माण्डानामनन्तानामुत्पत्तिप्रलयावनम् ।
मत्त एवेति विद्धि त्वं वृणु यद्वाञ्छसेऽनघ ॥ १२॥
नारद उवाच ।
श्रुत्वा तस्य वचो रम्यं बुबुधे बलभेदनः ।
भगवन्तं महाकायं देवदेवं विनायकम् ॥ १३॥
ननाम परया भक्त्या तत उत्थाय सत्वरः ।
अवीदिच्छचीकान्तः प्रत्यक्षं ब्रह्मरुपिणम् ॥ १४॥
इन्द्र उवाच ।
ब्रह्मादयोऽपि नो देवा विदुस्त्वां सदिगीश्वराः ।
गुणाँस्तव महाबाहो सृष्टिस्थित्यन्तकारिणः ॥ १५॥
पदं तु कृत्रिमं मह्यं शतयज्ञसमुद्भवम् ।
दत्तं तत्राप्यन्तराया भवन्ति बहुधा मम ॥ १६॥
मया कथं तु विज्ञेयो महिमा ते गजानन ।
यस्य तेऽनुग्रहः पूर्णो भविष्यति महेश्वर ॥ १७॥
स एव महिमानं ते जानीयाद् विघ्नकारण ।
तस्य ते गुणरूपाणि वक्तुं शक्तिर्भविष्यति ॥ १८॥
निराधारोऽखिलाधारो नित्यज्ञानोऽजरोऽमरः ।
नित्यानन्देन सम्पूर्णो मायावी क्षर एव च ॥ १९॥
अक्षरः परमात्माच विश्वरूपोऽखिलेश्वरः ।
उग्रैस्तपोभिस्त्वां ज्ञात्वा निर्वृत्ताः सनकादयः ॥ २०॥
षडक्षर प्रभावेण दृष्टोऽसि परमेश्वर ।
पुराऽयं ब्रह्मणाऽऽदिष्टो मन्त्रो मेऽनुग्रहेण वै ॥ २१॥
उक्तवांश्चैव मां ब्रह्मा यदाऽमुं विस्मरिष्यसि ।
तदैव भ्रश्यसे स्थानदुर्दशां चैव यास्यसि ॥ २२॥
ततो मयाऽतिलुब्धेन दुर्भाग्यवशगेन तु ।
धर्षिता मुनिपत्नीं सा ततो दुर्गतिमाप्तवान् ॥ २३॥
पुनश्च धिषणोक्तेन तेन मन्त्रेण दृष्टवान् ।
स्वरूपं तव देवेश सहस्रनयनोऽधुना ॥ २४॥
अन्यमेकं वरं याचे यतस्त्वं चिन्तितार्थदः ।
इदं कदम्बनगरं चिन्तामणिपुरं त्विति ॥ २५॥
अनुष्ठानफलं प्राप्तं यत् ते दृढपदाम्बुजम् ।
इदानीं तु वर याचे यं तं मे देहि विघ्नप ॥ २६॥
तव विस्मरणं देव न भवेन्मे तथा कुरू ।
मनो मे रमतां तव पादाम्बुजे विभो ॥ २७॥
अद्य प्रभृति लोकेऽस्मिन् ख्यातिं यातु गजानन ।
चिन्तामणीति तीर्थं तु सरश्च प्रथतामिदम् ॥ २८॥
अस्मिन् स्नानेन दानेन धर्मकामार्थमुक्तयः ।
जनानां सिद्धायः सन्तु प्रसादात् ते जगद्गुरो ॥ २९॥
मुनिरूवाच ।
आकर्ण्य वचनं शाक्रं मेघगम्भीरनिस्वनः ।
उवाच श्लक्ष्णया वाचा विघ्नेशो जगतां पतिः ॥ ३०॥
विनायक उवाच ।
इदं सम्पत्स्यते सर्वं यत् त्वया प्रार्थितं विभो ।
अन्य एको वरस्तेऽस्तु स्वपदे त्वं स्थिरो भव ॥ ३१॥
अविस्मृतिश्च सततं मम तेऽस्तु सुरेश्वर ।
यदा च सङ्कटं ते स्यात्तदा मां स्मर वासव ॥ ३२॥
आविर्भावेन ते कार्यं सर्वं सम्पादयेऽनिशम् ।
इदं चिन्तामणिपुरं ख्यातं भुवि भविष्यति ॥ ३३॥
कदम्बपुरमित्येतत् तीर्थं चिन्तामणीति च ।
अत्र स्नानेन सर्वेषां सिद्धयोऽपि करेस्थिताः ॥ ३४॥
चिन्तितं च प्रदास्यामि चिन्तामणि विनायकः ।
नारद उवाच ।
एवं वरं ततो लब्ध्वा स्वः सिन्धुमायद् हरिः ॥ ३५॥
कृत्वाऽभिषेकं तद्द्वारा पूजयामास तं विभुम् ।
गजाननं महाभागं परिवारसमन्वितम् ॥ ३६॥
पूजितः सुरनाथेन तत्रैवान्तर्दधे विभुः ।
स्थापयामास शक्रोऽपि स्फाटिकां मूर्तिमादरात् ॥ ३७॥
वैनायकीं शुभां दिव्यां सर्वावयवसुन्दराम् ।
कारयामास विपुलं प्रासादं रत्नकाञ्चनैः ॥ ३८॥
नत्वा प्रदक्षिणीकृत्य शक्रः स्वं पदमभ्यगात् ।
तदेतद् भुवि विख्यातं चिन्तामणिसरो महत् ॥ ३९॥
अद्यापि सा शुभजला गङ्गा शक्रस्य शासनात् ।
कृत्वाऽभिषेकं तन्मूर्तौ यातिस्वं धाम सर्वदा ॥ ४०॥
एवं ते क्षेत्रमहिमा कथितोऽद्भुतदर्शनः ।
सर्व दोषहरः श्रीमान् सर्वकामप्रदः शुभ ॥ ४१॥
तत्र गत्वा महीपाल स्नानं कुरू यथाविधि ।
सर्वदोषविनिर्मुक्तो भविष्यसि न संशयः ॥ ४२॥
ब्रह्मोवाच ।
ततो ययौ मुनिः शीघ्रमनुपृच्छ्य च तं नृपम् ।
आशीर्भिरभिनन्द्यैव स रूक्माङ्गदमादरात् ॥ ४३॥
इति श्रीगणेशपुराणे उपासनाखण्डे चिन्तामणितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
आदितः श्लोकानां समष्ट्यङ्काः १२३२+४३=१२७५
१.३५ कादम्बपुर गत वर्णनं नाम पंञ्चत्रिशत्तमोऽध्यायः
व्यास उवाच ।
देवर्षौ तु गते तस्मिन्नृपः किमकरोत् तदा ।
रूक्माङ्गदो मे कथय कथामेतां मनोरमाम् ॥ १॥
ब्रह्मोवाच ।
कृत्वोपदेशं सुमहान्तमेवं गते मुनौ नारद नाम्नि पुत्र ।
रुक्माङ्गदो हर्षयुतो ददर्श सेनां स्वकीयां चतुरङ्गिणीताम् ॥ २॥
तयाऽपि दृष्टो नृपतिर्विरुपो यः स्वर्णकान्ती रतिभर्तृरुपः ।
आसीत् पुरेत्थं कथमेष जातः संशय्य पप्रच्छ नृपं निमित्तम् ॥ ३॥
सेनान्य ऊचुः ।
गिरीन्वनानि सरितो भ्रान्त्वा च वयमागतः ।
क्षुत्तुट्परीता राजेन्द्र त्वद्दर्शनसमुत्सुकाः ॥ ४॥
पदे पदे प्रपश्यन्तः सम्प्राप्तास्ते पदाम्बुजम् ।
इमामवस्थां दृष्ट्वा ते दुःखाद्दुःखतरं गताः ॥ ५॥
किं निमित्तमभूत् तन्नः कथयस्व नृपोत्तम ।
नृप उवाच ।
अहमग्रे समायातस्तृषितः क्षुधितश्च ह ॥ ६॥
अपश्यं पुरतः शीघ्रं वाचक्नविगृहाश्रमम् ।
तत्र गत्वा मया दृष्ट्वा तस्य पत्नी शुभानना ॥ ७॥
नाम्ना मुकुन्देति शुभा याचिता सा जलं मया ।
सा तु दुष्टा स्वैरिणी च मामुवाचाऽशुभं वचः ॥ ८॥
रति कुरु मया सार्धं नो चेच्छापं ददामि ते ।
निराकृता मया सा तु बलाच्छुद्धेन चेतसा ॥ ९॥
तद्भर्तरि गते स्नातुं सा मां दुष्टाऽशपद् रुषा ।
ततस्तु वृक्षमुलेऽहमुपविष्टो हि दुःखितः ॥ १०॥
प्रभावात् पूर्वपुण्यस्य दृष्टवान् नारदं मुनिम् ।
तेन मे कथितोऽरिष्टनाशको विधिरूत्तमः ॥ ११॥
चिन्तामणिक्षेत्रगतो गणेशतीर्थसंश्रितः ।
महिमा कथितस्तेन तस्य तीर्थस्य विस्तरात् ॥ १२॥
तत्र स्नानं समाख्यातं मुनिना दिव्यचक्षुषा ।
अतः स्नातुं गमिष्यामि स्वदोषस्याऽपनुत्तये ॥ १३॥
यान्तु सर्वे मया सार्द्धं तत्र स्नातुं यदीच्छथ ।
स्नात्वा दत्त्वा यथाशक्ति सम्पूज्य च विनायकम् ॥ १४॥
पूतास्तयोः प्रभावेण यास्यामः स्वपुरं ततः ।
क उवाच ।
इति ते निश्चयं बुद्ध्वा जग्मू राजपुरःसराः ।
दृष्ट्वा तीर्थं गणेशाख्यं दिव्यदेहो बभौ नृपः ॥ १५॥
तप्तकाञ्चनवर्णाभो यथापूर्वं मुनीश्वर ।
ततो रुक्माङ्गदो मेने नारदोक्तमृतं वचः ॥ १६॥
तत्र स्नात्वा ददौ दानान्यनेकानि नृपस्तदा ।
रुक्माङ्गदो ब्राह्मणेभ्यो मुदा परमया युतः ॥ १७॥
विनायकं पूजयित्वा तेजोराशिं ददर्श सः ।
विमानमर्कप्रतिमं ब्राह्मणाः सेवकाश्च ते ॥ १८॥
विनायकगणैर्जुष्टमप्सरः किन्नरैर्युतम् ।
नत्वा नृपस्तान् पप्रच्छ के यूयं कुत आगताः ॥ १९॥
दूताः कस्य किमत्रास्ति कार्यं तद् ब्रूत सादरम् ।
ब्रह्मोवाच ।
श्रुत्वा नृपति वाक्यानि मञ्जुलानि विमानगाः ॥ २०॥
दूता विनायकस्योचुर्धन्योऽसि नृपसत्तम ।
येन ते सर्वभावेन ध्यातश्चिन्तामणिः प्रभुः ॥ २१॥
तीर्थयात्रा कृता सम्यग् दानं दत्वा यथाविधि ।
चिन्तामणिः पूजितश्च कृतकृत्योऽसि साम्प्रतम् ॥ २२॥
चिन्तितस्य प्रदानाद् हि चिन्तामणिरयं स्मृतः ।
वयं च कृतकृत्याः स्मो दर्शनात् तव सुव्रत ॥ २३॥
महिमानं न जानीमस्तव भक्तेर्नृपोत्तम ।
कायेन वचसा बुद्ध्या जीवस्याप्यर्पणेन च ॥ २४॥
आराधितास्त्वया देवः सर्व ब्रह्माण्डनायकः ।
विनायकस्तस्य दूतास्तेन च प्रेषिता नृप ॥ २५॥
उत्सुकः स उवाचाऽस्मान् मद्भक्तं शीघ्रयायिनः ।
रुक्माङ्गदं विमानेन आनयन्तु ममान्तिकम् ॥ २६॥
इति श्रुत्वा वयं याता आरोहस्व नभोगमम् ।
याहि शीघ्रतरं देव सहाऽस्माभिर्विनायकम् ॥ २७॥
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तेषामाह रूक्माङ्गदो नृपः ।
क्वाऽहं मन्दमतिर्दूताः क्व चाखण्डितविग्रहः ॥ २८॥
अप्रमेयोऽप्रतर्क्यश्च चिन्मात्रो विभुरव्ययः ।
सर्गस्थित्यप्ययानां यः कारणं कारणातिगः ॥ २९॥
तस्यादरो मयि कथं न जाने तीर्थजं फलम् ।
जन्मान्तरगतं किं मे फलितं पुण्यमुत्तमम् ॥ ३०॥
तेन वो दर्शनं जातमग्रेऽतिफलदं शुभम् ।
यूयं धन्यतरा येषां प्रत्यक्षोऽहर्निशं विभुः ॥ ३१॥
इत्युक्त्वा पूजयामास नत्वा चरणपङ्कजम् ।
प्रार्थयामास सर्वांस्तान्पिता मम नृपोत्तमः ।
ब्रह्मण्यः सत्यवादी च भीमो भीमपराक्रमः ॥ ३२॥
विना तं कथमायामि मानरं चारुहासिनीम् ।
तयाऽऽप्याराधितो देवो देवदेवो विनायकः ॥ ३३॥
जन्मावधि न चान्यं सा मनुते देवन्तान्तरम् ।
दूत उवाच ।
एवं चेत्तर्हि तीर्थोऽस्मिन् कुरु स्नानं तयोरपि ।
श्रेयस्तस्मै च तस्यै च पित्रे मात्रे प्रदीयताम् ॥ ३५॥
ततस्तावपि नेष्यामो विमानवरमास्थितौ ॥ ३६॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा कृत्वा प्रतिकृतिं कुशैः ।
कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा ॥ ३७॥
त्वयि स्नाते तु स स्नातो यस्येदं ग्रन्थिबन्धनम् ।
एवं मन्त्रं समुच्चार्य सर्वेषामानुपूर्वशः ॥ ३८॥
ग्राम्याणां सर्वलोकानां चक्रे स्नानविधिं नृपः ।
चिन्तामणिक्षेत्रगते तीर्थे गणेशसंज्ञके ॥ ३९॥
ततो रुक्माङ्गदो राजा सबलो दूतवाक्यतः ।
विमानवरमारूह्य कौण्डिन्यं पुरमाययौ ॥ ४०॥
वाद्यघोषैर्ब्रह्मघोषैर्गन्धर्वाप्सरसां रवैः ।
नादितं गगनं तेन विमानेन दिशो दश ॥ ४१॥
मातापितृभ्यां प्रददौ श्रेयो रुक्माङ्गदो नृपः ।
सर्वेषामेव लोकानां स्नानश्रेयो विनायके ॥ ४२॥
दत्तमात्रे तु कौशेयस्नानजे श्रेयसि ध्रुवम् ।
विनायकाज्ञयाऽन्यानि विमानानि समाययुः ॥ ४३॥
प्रत्येकं ते समारुढा एकैकं गगनेचरम् ।
एवं रुक्माङ्गदो भीमस्तन्माता चारुहासिनी ॥ ४४॥
सर्वे लोका ययुस्तत्र यत्र देवो विनायकः ।
एवं तन्नगरं सर्वमाबालश्वपचावधि ॥ ४५॥
पुण्याद् गणेशतीर्थस्य स्नानजात् स्वर्गतिं गतम् ।
क उवाच ।
इति ते कथितं सर्वं यद्यत् पृष्टं त्वया मुने ॥ ४६॥
चिन्तामणिक्षेत्रगतं माहात्म्यं तीर्थसम्भवम् ।
यः शृणोति नरो भक्त्या सोऽपि तद्गतिमाप्नुयात् ॥ ४७॥
इति श्रीगणेशपुराणे उपासनाखण्डे कादम्बपुरगतवर्णनं नाम पंञ्चत्रिशत्तमोऽध्यायः ॥ ३५॥
आदितः श्लोकानां समष्ट्यङ्काः १२७५+४७ = १३२२
१.३६ गृत्समदोपाख्यानं नाम षट्त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
श्रुतं गणेशतीर्थस्य माहात्म्य कमलासन ।
रूक्माङ्गदस्य चरितं कौण्डिन्य पुरवासिनाम् ॥ १॥
तथापि ब्रूहि मे ब्रह्मन् मुकुन्दाचरितं शुभम् ।
ब्रह्मोवाच ।
गते रूक्माङ्गदे सा तु जज्वाल मदनाग्निना ॥ २॥
दावाग्निना यथा ग्रीष्मे महावनस्थली सुत ।
मुकुन्दा नालभच्छर्म वने शीतलमारूते ॥ ३॥
लतापुष्पमये स्थाने चन्द्रचन्दनतोऽपि च ।
तस्या न रोचते हास्यं गीतं नृत्यं कथान्तरम् ॥ ४॥
अन्नं जलं विव्हलापास्तच्चित्ताया मुनीश्वर ।
क्षुतृट् श्रमेण तस्यास्तु क्षणं निद्रा समाययौ ॥ ५॥
तामिन्द्रो बुबुधे कान्ता प्रसुप्तां विजेने वने ।
कामातुरां विव्हलां च रूक्माङ्गदकृते सुत ॥ ६॥
धृत्वा रौङ्क्माङ्गदं रूपं बुभुजे कामुकां तु ताम् ।
आलिलिङ्ग मुदा शक्रो मुकुन्दा जहृषे भृशम् ॥ ७॥
साऽपि रूक्माङ्गदं तं तु चुचुम्बे सुभृशं सुत ।
सोऽपि तस्याः कुचौ पीनौ ममर्द दृढमुष्टिना ॥ ८॥
व्यंशुकां व्यंशुको रेमे निःशङ्क स तया सह ।
ततः सा लज्जमानेव स्वगृहं प्रत्यपद्यत ॥ ९॥
इन्द्रो रूक्माङ्गदो भूतस्तत्रैवान्तर्दधे सुत ।
मेने रुक्माङ्गदो भुक्तस्ततो गर्भं दधौ तु सा ॥ १०॥
सुषुवे नवमे मासि सुवेलायां सुतं शुभम् ।
चारुसर्वानवद्याङ्गं रूपेण मदनातिगम् ॥ ११॥
तस्य शब्देन महता धरण्या पतितस्य तु ।
सनादं दशदिग्वृन्दमभूत्खं भूरसातलम् ॥ १२॥
पक्षिणो बभ्रमुः सर्वे उड्डीयोड्डीय सर्वतः ।
वाचक्नविः समायातस्त्यक्त्वा स्वं नित्यकर्म च ॥ १३॥
मुकुन्दाचरितं तेन नैव बुद्धं कदाचन ।
जातकर्मादिकं सर्वं चकार भृषहर्षितः ॥ १४॥
ददौ दानं यथाशक्ति ब्राह्मणेभ्यो यथार्हतः ।
दशाहे तु व्यतीते स नामकर्माऽकरोन्मुनिः ॥ १५॥
गृत्समदेत्यनुज्ञातो ज्योतिःशास्त्रपरैर्द्विजैः ।
ततस्तु पञ्चमेऽब्देऽस्य व्रतबन्ध चकार ह ॥ १६॥
वेदव्रतानि चत्वारि चकार बटुकस्य सः ।
सकृन्निगदमात्रेण गृह्णाति ब्रह्मतेजसा ॥ ७॥
वेदशास्त्रनिधिर्जातः स्वकर्मं कुशलोऽपि च ।
कदाचित् सुमुहूर्ते तु पिता वाचक्नविः सुतम् ॥ १८॥
गणानां त्वेति ऋङ्मन्त्रं महान्तमुपदिष्टवान् ।
उवाच च महामन्त्रौ वैदिकोऽखिलसिद्धिदः ॥ १९॥
आगमोक्तेषु मन्त्रेषु सर्वेषु श्रेष्ठ एव च ।
ध्यात्वा गजाननं देवं जपैनं स्थिरमानसः ॥ २०॥
परां सिद्धिं समाप्यैव ख्यातिं लोके गमिष्यसि ।
ततो गृत्समदो विप्रा मन्त्रं प्राप्य पितुर्मुखात् ॥ २१॥
अनुष्ठानरतो भूत्वा जपध्यानपरोऽभवत् ।
एवं बहुतिथे काले महतस्तपसो मुनेः ।
तस्मिन् मगधदेशे यो राजा मगधसंज्ञितः ॥ २२॥
चारुरूपा महामानी दानशरोऽरिमर्दनः ।
नानालङ्कार शोभाढ्यो महार्हासनसंश्रितः ॥ २३॥
सुधर्मासनगो धीरः पुरुहूत इवापरः ।
चतुरङ्गबलोपेतो ज्ञानों पण्डितमानदः ॥ २४॥
अमात्यौ द्वौ ज्ञाननिधी वाचस्पत्यधिको गुणौः ।
अम्बिका नाम भार्याऽस्य चारुरूपा गुणाधिका ॥ २५॥
पतिव्रता महाभागा शापानुग्रहणे क्षमा ।
तस्य राज्ञः पितुश्राद्धे समाजग्मुर्ममहर्षयः ॥ २६॥
राज्ञाहूता वसिष्ठात्रिप्रमुखाः श्रुतिपारगाः ।
आकारितो गृत्समदस्तपस्वी शुचिमानसः ॥ २७॥
ततः शास्त्रप्रसङ्गेन प्रौढिं गृत्समदोऽवदत् ।
तमत्रिर्धिग्धिगित्येवमब्रवीन् मुनिसन्न्निधौ ॥ २८॥
तपस्वीति भवान्मान्यो न मुनिस्त्वं यतस्तव ।
जन्म रूक्माङ्गदाज्जातं राजपुत्राद् विचारय ॥ २९॥
नास्मत्समक्षो पूजार्ह इतो गच्छ स्वमाश्रमम् ।
इत्यत्रिवचनं श्रुत्वा क्रोधदीप्त इव ज्वलन् ॥ ३०॥
दहन्निव त्रिलोकीं स भक्षयन्निव तान्मुनीन् ।
अपेर त्वपलायन्त सिंहं दृष्ट्वा यथा मगाः ॥ ३१॥
उवाच तत्र सदसि वसिष्ठादिन् मुनीन्प्रति ।
गृत्समद उवाच ।
यर्हि रूक्माङ्गदस्याहं न भवेयं मुनीश्वराः ।
तदा शापाग्निना युष्मान्कुर्यां भस्मावशेषितान् ॥ ३२॥
ब्रह्मोवाच ।
इत्युक्त्वा तान्मुनीन् सर्वान् प्रययौ मातरं प्रति ।
पप्रच्छ तां गृत्समदो वद दुष्टेऽति कामुके ॥ ३३॥
मुकुन्दे वद मे तात नो चेद्भस्म भविष्यसि ।
आकर्णैवं वचस्तस्य चकम्पे भृशविव्हला ॥ ३४॥
मुकुन्दा मारूतेनेव कदली कुङ्मलान्विता ।
उवाच दीनया वाचा बद्धाञ्जलिपुटा सती ॥ ३५॥
मुकुन्दोवाच ।
मृगयासक्त चित्तोऽभूद् भ्रष्टसार्थो नृपोत्तमः ।
त्रैलोक्यसुभगो दृष्टो मया रूक्माङ्गदः शुभः ॥ ३६॥
अनुष्ठानरते वाचक्नवौ मे भर्तरि प्रिये ।
अनिवार्याः स्त्रिय इति स्मृत्वा वाक्यं विधीरितम् ॥ ३७॥
तस्मिन् नृपे सक्तमना जाताऽस्मि स पिता तव ।
श्रुत्वेत्थ वचनं तस्या मौनवान् स ययौ मुनिः ॥ ३८॥
लज्जयाऽधोमुखः शापमभ्यधाज्जननीं प्रति ।
पुत्र उवाच ।
दुष्टे मूढे पापरते कानने कण्टकी भव ॥ ३९॥
असङ्ख्येय फला सर्वे प्राणिभिः परिवर्जिता ।
साऽपि शापं ददौ तस्मै क्रोधाविष्टा सुताय हि ॥ ४०॥
जननीत्वमनादृत्य यतः शप्ता खलु त्वया ।
अतः शपामि त्वां पुत्र त्वत्तः पुत्रोऽतिदारुणः ॥ ४१॥
त्रैलोक्य भयदो दैत्यो भविष्यति महाबलः ।
एवं शशपतुस्तौ तु मातापुत्रौ परस्परम् ॥ ४२॥
क उवाच ।
सा तदैव शरीरं तत् त्यक्त्वाऽभूद् बदरी वने ।
वर्जिता पक्षिसङ्घातैर्जारजैरण्डजैरपि ॥ ४३॥
ततोऽन्तरिक्षे वागासीदिन्द्राद् गृत्समदो ह्यभूत् ।
स तु गृत्समदो ब्रह्मन्ननुष्ठानाय जग्मिवान् ॥ ४४॥
इदं गृत्समदाख्यानं यः शृणोति नरोत्तमः ।
न स सङ्कटमाप्नोति वाञ्छितं लभतेऽखिलम् ॥ ४५॥
इति श्रीगणेशपुराणे उपासनाखण्डे गृत्समदोपाख्यानं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६॥
आदितः श्लोकानां समष्ट्यङ्काः १३२२+४५=१३६७
१.३७ वरदाख्यानं नाम सप्तत्रिंशत्तमोऽध्यायः
ब्रह्मोवाचः ।
भ्रमन्मुनिर्ददर्शाग्रे वनं पुष्पकसंज्ञितम् ।
नानाद्रुमलताकीर्णं पुष्पप्रकारशोभितम् ॥ १॥
शोभितं निर्झरजलैर्निर्जरैर्मुनिसत्तमैः ।
ननाम तान् गृत्समदो न्यवसच्च तदाज्ञया ॥ २॥
तत्र स्नात्वा जपं चक्रे पादाङ्गुष्ठाग्रनिर्भरः(धिष्ठितः) ।
स्थिरेण मनसा ध्यायन्देवं विघ्नेश्वरं विभुम् ॥ ३॥
नासाग्रन्यस्तदृष्टिः सन्निरीक्षन् स दिशोदिश ।
जितेन्द्रियो जितश्वासो जितात्मा मारुताशनः ॥ ४॥
दिव्यवर्षसहस्रं स तपस्तेपे सुदारुणम् ।
उन्मील्य नयनेऽपश्यद् यदा गृत्समदो मुनिः ॥ ५॥
तदा नेत्रोद्धवो वह्नीस्त्रिदशान् पर्यतापयत् ।
शशङ्किरे तदा देवाः कस्यायं पदभाग् भवेत् ॥ ६॥
अपरं गलितं पत्रं भक्षयन्नेकमेव च ।
यत्नमास्थाय परमं स्थाणुभुतोऽतिनिश्चलः ॥ ७॥
दशपञ्चसहस्राणि तेपे निश्चलमानसः ।
ततोविनायको दृष्ट्वा तपनं तस्य दुर्घटम् ॥ ८॥
अनुग्रहाय तस्याऽथ प्रादुरासीत् सुदीप्तिमान् ।
यथा धेनुर्वत्सरवं श्रुत्वा धावति सत्वरम् ॥ ९॥
तथा विनायको देवः शीघ्र गृत्समदं ययौ ।
भासयँस्तेजसा विश्वं सहस्ररविसन्निभः ॥ १०॥
चलत्कर्णतालो बृहद्दन्तिलीलो मुदा चारूखेलो लसच्चन्द्रभालः ।
बृहत्पद्ममालो जगत्कार्यमूलः करकञ्जनालो नमत्सेविमेलः ॥ ११॥
सिंहारूढो दशभुजो व्यालयज्ञोपवीतवान् ।
कुङ्कुमागरुकस्तूरीचारूचन्दनचर्चितः ॥ १२॥
सिद्धिबुद्धि युतः श्रीमान् कोटिसूर्याधिकद्युतिः ।
अनिर्वाच्यस्वरुपोऽपि लिलयाऽऽसीत्पुरो मुने ॥ १३॥
तत्तेजसा हृतं तेजा मुनेस्तस्य महात्मनः ।
ब्रध्नस्य तेजसा यद्वन् नाक्षत्रं चान्द्रजं महः ॥ १४॥
निमील्य नयने सोऽथ चकम्पे भृशविव्हलः ।
पपात मूर्छितो भूमौ विस्मृत ध्यानमङ्गलः ॥ १५॥
पुनश्च मनसा ध्यायन् गजाननमनामयम् ।
मनसा तर्कयन् विघ्ननिमित्तं व्याकुलो मुनिः ॥ १६॥
किमेतत् क्षोभजननं सहसा समुपस्थितम् ।
अद्य प्रभृति यत् तप्तं तत्कथं मे वृथा गतम् ॥ १७॥
पाहि देवेश सर्वात्मन् विघ्नादस्माद् भयानकात् ।
त्वामृते शरणं यामि कमन्यं जगदीश्वरम् ॥ १८॥
महद्दुःखं मया देव प्राप्त केन च हेतुना ।
नास्मत्पङ्क्तौ पूजनीय इति यद् दहते मनः ॥ १९॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद स विनायकः ।
गणेश उवाच ।
अनुग्रहाय सम्प्राप्तं विद्धि मां गणनायकम् ॥ २०॥
सनकादिभिरप्राप्यं चिरं नियममास्थितैः ।
त्यक्त्वा भयं ब्रूहि यत् ते वाञ्छितं मुनिसत्तम ॥ २१॥
एकाङ्गुष्ठेन तपसा तोषितोऽहं त्वयाऽनिशम् ।
ब्रह्मोवाच ।
निशम्येत्थं वचस्तस्य देवदेवस्य शोभनम् ॥ २२॥
दण्डवत् प्रणनामैनं निजानन्दपरिप्लुतः ।
उवाच परमप्रीतो वरदं तं विनायकम् ॥ २३॥
गृत्समद उवाच ।
अद्य मे सफलं जन्म तपसो नियमस्य च ।
अखण्डानन्दरूपो यो ब्रह्मभूयो निराकृतिः ॥ २४॥
मुञ्चन्नश्रूणि नेत्राभ्यामानन्देन ननर्त च ।
चिदानन्दघनो वेद शास्त्राणामप्यगोचरः ॥ २५॥
सद्यो दृष्टो मया साक्षादतः किं प्रार्थये विभो ।
तवाज्ञया तथाऽप्येकं प्रार्थये द्विरदानन ॥ २६॥
चतुरशीतिलक्षासु योनिषु श्रेष्ठतासु च ।
मनुष्याणां महाभाग वर्णास्तत्र महत्तराः ॥ २७॥
तत्रापि ब्राह्मणाः श्रेष्ठास्तत्रापि ज्ञानिनः पराः ।
ज्ञानिष्वनुष्ठानपरास्तेषु च ब्रह्मवेदिनः ॥ २८॥
ब्रह्मज्ञानं तथा ज्ञानं दे हि मे जगदीश्वर ।
त्वयि भक्तिञ्च सुदृढामविस्मरणमेव च ॥ २९॥
तव भक्तेषु सर्वेषु श्रेष्ठतां च गजानन ।
अन्यं चैकं वरं याचे तं च मे देहि शङ्कर ॥ ३०॥
तव भक्त्यैकनिलयं त्रैलोक्याकर्षणक्षमम् ।
विख्यातं त्रिषु लोकेषु नमस्यं सुरमानुषैः ॥ ३१॥
एवं मां करू विघ्नेश यदि तुष्टोऽखिलार्थकृत् ।
वनं च पुष्पकं नाम्ना ख्याति यातु सुरेश्वर ॥ ३२॥
अस्मिन् स्थित्वा च भक्तानां कामान्पूरय नित्यदा ।
इदं च पुष्पकपुरं चतुर्दिक्षु विशेषतः ॥ ३३॥
गणेशपुरमित्येवं प्रथां यातु गजानन ।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद द्विरदाननः ॥ ३४॥
गणेश उवाच ।
साधु साधु महाबाहो प्रसन्ने मयि दुर्लभम् ।
भक्तानां त्रिषु लोकेषु न किञ्चिन् मुनिपुङ्गव ॥ ३६॥
त्वया यत्प्रार्थितं विप्र तत्ते सर्वं भविष्यति ।
विप्रत्वं दुर्लभतरं प्रसन्नेन मयाऽर्पितम् ॥ ३६॥
गणानान्त्वेति मन्त्रस्य वैदिकस्य यतस्त्वया ।
जपः कृतो मुनेऽतस्त्वमृषिरस्य भविष्यसि ॥ ३७॥
ब्रह्मादिषु च देवेषु वसिष्ठादि मुनिष्वपि ।
ख्यातिं यास्यसि सर्वत्र परं श्रैष्ठयमुपागतः ॥ ३८॥
सर्वेष्वारब्धकार्येषु पूर्वं ते मम चापरम् ।
स्मरणं ये करिष्यन्ति तेषां सिद्धिर्भविष्यति ॥ ३९॥
ऋते ज्ञानाद् देवतर्षिच्छन्दसां कर्म निष्फलम् ।
पुत्रश्च बलवान सर्वदेवानां सुभयङ्करः ॥ ४०॥
भविष्यति महाख्याति त्रिषु लोकेषु यास्यति ।
अजेयः सर्वदेवानां विना रुद्रं भविष्यति ॥ ४१॥
मद्भतो मद्गतप्राणो मन्निष्ठो मत्परायणः ।
इदं च नगरं देव युगे पुष्पकसंज्ञितम् ॥ ४२॥
त्रेतायां मणिपूरं च भानकं द्वापरेऽपि च ।
कलौ तु भद्रकं नाम ख्यातं लोके भविष्यति ॥ ४३॥
अत्र स्नानेन दानेन सर्वान् कामानवाप्नुयात् ।
ब्रह्मोवाच ।
एवं दत्वा वरांस्तस्मै तत्रैवाऽन्तर्दधे विभुः ॥ ४४॥
तस्मिन्नन्तर्हिते तत्र स्थापयामास वै मुनिः ।
गणेशमूर्तिं प्रासादं कारयामास सुन्दरम् ॥ ४५॥
वरदेति च तन्नाम स्थापयामास शाश्वतम् ।
सिद्धिस्थानं च तत्रासीद्गणेशस्य प्रसादतः ॥ ४६॥
कामान्पुष्णाणि सर्वेषां पुष्पकं क्षेत्रमित्यपि ।
पूजयामास तां मूर्ति भक्तिभाव समन्वितः ॥ ४७॥
इमां कथां यः शृणुयान् मुनीन्द्र श्रीविघ्नराजस्य वरप्रकाशम् ।
लभेत कामानखिलान् गणेशभक्तिं दृढा संसृतिमोचनीं च ॥ ४८॥
इति श्रीगणेशपुराणे उपासनाखण्डे वरदाख्यानं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७॥
आदितः श्लोकानां समष्ट्यङ्काः १३६७ + ४८ = १४१५
१.३८ वरप्रदानं नामाष्ट त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।
तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज ॥ १॥
ब्रहोवाच ।
ततः सर्वे मुनिगणा मानयामासुरादरात् ।
ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम् ॥ २॥
वरदानाद्गणेशस्य वव्रुस्तं यज्ञकर्मणि ।
सर्वारम्भे गणेशस्य पूजनादौ च सस्मरुः ॥ ३॥
एवं विख्यातिमगमत् स मुनिर्गणनायके ।
भक्तिं परमिकां चक्रे जपन्मन्त्रं सुनिश्चलः ॥ ४॥
कदाचित् स मुनिर्व्यास चुक्षुवे बलमुत्तरम् ।
दिशो नभश्च पृथिवीं नादयन् गिरिगव्हरान् ॥ ५॥
अपयश्यत् पुरतो यावत् तावद्बालं भयङ्करम् ।
रक्तवर्ण महानादं जपाकुसुमसन्निभम् ॥ ६॥
तेजोराशिं च मुष्णन्तं नेत्रालोकपथं मुहुः ।
दृष्ट्वा स तादृशं बालं चकम्पे भयविव्हलः ॥ ७॥
तर्कयामास मनसा विघ्नः कोऽयमिहागतः ।
न जाने गणनाथेन दत्तः पुत्रो ममाद्भुतः ॥ ८॥
पश्यति स्म पुनः सोऽमुं चारूवक्त्रं सुलोचनम् ।
चारूरूक्माङ्गदं चारु मुकुटं चारूनूपुरम् ॥ ९॥
चारूणा कटिसूत्रेण राजत्कटितटं सुतम् ।
पप्रच्छ तं मुनिः कोऽसि कस्यासि किञ्चिकीर्षसि ॥ १०॥
क्व च ते पितरौ स्थानं दद तेजोनिधेऽर्भक ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्य जगाद बालको मुनिम् ॥ ११॥
बालक उवाच ।
भुतभाविभवज्ज्ञानी किं मां त्वं परिपृच्छसि ।
तथाऽप्याज्ञावशो वच्मि क्षुतात् तव जनिर्मम ॥ १२॥
त्वमेव जनको माता कृपां कुरू ममोपरी ।
पालयस्य पितर्मां त्वं दिनानि कतिचिन्मुने ॥ १३॥
त्रैलोक्याक्रमणे शक्तो देवेन्द्र वशवर्तिनम् ।
करिष्यामि न सन्देहो वीक्ष्यसे पौरूषं मम ॥ १४॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य भयहर्षसमन्वितः ।
उवाच श्लक्ष्णया वाचा मुनिर्गृत्समदो वचः ॥ १५॥
यद्ययं जातमात्रोऽपि शक्तस्त्रैलोक्यकर्षणे ।
तस्मादस्य प्रदास्यामि स्वं मन्त्र स्वात्मजस्य हि ॥ १६॥
येनास्य वाञ्छितं देवः परितुष्टो विनायकः ।
प्रदास्यति जगन्नाथो मम कीर्तिर्भविष्यति ॥ १७॥
एवं सञ्चित्य मनसा तस्मै स्वं मन्त्रमादिशत् ।
गणानां त्वेति तं चाह कुर्वनुष्ठानमादरात् ॥ १८॥
जपस्व वैदिकं मन्त्र चित्तं स्थाप्य गजानने ।
सन्तुष्टस्ते यदा पुत्र सर्वान् कामान् प्रदास्यति ॥ १९॥
एवं प्राप्तमहामन्त्रो जगाम तपसे वनम् ।
एकाङ्गुष्ठेनाऽवतस्थे निराहारो जितेन्द्रियः ॥ २०॥
ध्यायन् गजाननं देवं मनसा निश्चेलन सः ।
जपतस्तस्य वर्षाणि सार्धायुतमितानि च ॥ २१॥
गतानि तस्य मुखतो बभूवाग्निर्दिशो ज्वलन् ।
भयं बभूव देवानां दैत्याना तलवासिनाम् ॥ २२॥
ततस्तत्तपसा तुष्ट आविरासीद् गजाननः ।
दिशो वितिमिराः कुर्वंश्छादयन् भानुमण्डलम् ॥ २३॥
भ्रामयन् पुष्करं चारू सुविषाणं मुदायुतः ।
तद् बृंहितरवं श्रुत्वा बालको विव्हलन्निव ॥ २४॥
उन्मील्य नेत्रे सोऽपश्यद्देवन्तं पुरतः स्थितम् ।
चतुर्भुजं महाकायं नानाभूषाविभूषितम् ॥ २५॥
परशुं कमल माला मोदकान् बिभ्रतङ्करैः ।
तेजसा धर्षितस्तस्य धैर्यं कृत्वा ननाम सः ॥ २६॥
बद्धाञ्जलिपुटो भूत्वा प्रार्थयामास तं विभुम् ।
बालक उवाच ।
किं मां धर्षयसे देव भक्तं त्वां शरणागतम् ॥ २७॥
भव सौम्यतरो देव देहि मेऽखिलवाञ्छितम् ।
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य सञ्जहार स्वकं महः ॥ २८॥
उवाच परमप्रीतो सावधान भवार्भक ।
यं ध्यायसि दिवारात्रौ सोऽहं ते वरदोऽधुना ॥ २९॥
ममेदं परमं रूपं स्वप्रकाशं जगन्मयम् ।
न विदुर्ब्रह्मरूद्राद्याः कुतो वेत्स्यन्ति मानवाः ॥ ३०॥
देवाश्च मुनयः सर्वे न च राजर्षयोऽपरे ।
नासुराः सिद्धगन्धर्वा न नागा न च दानवाः ॥ ३१॥
सोऽहं तव तपोबद्धो वरं दातुमिहागतः ।
वरयस्व वरान्मत्तो यान्यांस्त्वं मनसेच्छसि ॥ ३२॥
स उवाच ततो बालो धन्योऽहं तव दर्शनात् ।
पिता धन्यतरो मेऽद्य सार्थकं जन्म मे तपः ॥ ३३॥
स्तुतिं कर्तुं न जानामि बालभावात्सुरेश्वर ।
यतस्त्वं सर्वजगतां कर्ता पाताऽपहारकः ॥ ३४॥
त्वद्भासा भासयत्येष रविरग्निश्च चन्द्रमाः ।
चराचरं चेतयसे स्वमाहात्म्यान् महामतेः ॥ ३५॥
महिमानं महान्तं ते केशा अपि न वै विदुः ।
यदि मे वरदोऽसि त्वं तन्मे देदि गजानन ॥ ३६॥
त्रैलोक्याकर्षणे शक्तिं विशिष्टां देहि मे विभो ।
देवदानवगन्धर्वमनुष्योरगराक्षसा ॥ ३७॥
वश्या मम सदा सन्तु मुनिकिन्नरचारणाः ।
मनसा चिन्तितं यन्मे तत्तत् सिध्यतु सर्वदा ॥ ३८॥
इन्द्रादयो लोकपालाः सेवां कुर्वन्तु मे सदा ।
इह भोगाननेकान्मे मुक्तिं चान्ते प्रयच्छ च ॥ ३९॥
अन्यं च ते वरं याचे पुरमेतत् तवाज्ञया ।
प्रथां यातु यतश्चात्र तपमुग्रं तपो मया ॥ ४०॥
गणेशपुरमिति च ख्याति यातु जनेष्टदम् ।
गणेश उवाच ।
त्रयाणामपि लोकानामाक्रमं त्वं करिष्यसि ॥ ४१॥
सर्वेभ्यो न भयं तेऽस्ति सर्वे वश्याश्च ते सदा ।
आयसं काञ्चनं रौप्यं मया दत्तं पुरत्रयम् ॥ ४२॥
अभेद्यं सर्वदेवानां कामगं शङ्करं विना ।
त्रिपुरेति च ते नाम ख्यातिं लोके गमिष्यति ॥ ४३॥
यदैकेन च बाणेन शिवो भेत्स्यति ते पुरम् ।
तदैव यास्यसे मुक्तिं नात्र कार्या विचारणा ॥ ४४॥
अन्यत्ते वाञ्छितं सर्व मत्प्रसादाद्भविष्यति ।
ब्रह्मोवाच ।
दत्त्वेत्थं स वरान्देवस्तत्रैवाऽन्तर्दधे विभुः ।
विषादमगमद्देव वियोगात् त्रिपुरासुरः ॥ ४५॥
हर्ष च विपुलं लेभे वरान्प्राप्य यथेप्सितान् ।
त्रैलोक्यविजयं कर्तुं यतते स्म ततो बलात् ॥ ४६॥
इति श्रीगणेशपुराणे उपासनाखण्डे त्रिपुरासुरवरप्रदानं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ३८॥
आदितः श्लोकानां समष्ट्यङ्काः १४१५+४६=१४६१
१.०३९ इन्द्रपराजयोनामैकोन चत्वारिंशोऽध्यायः
व्यास उवाच ।
ततः किमकरोद् ब्रह्मं त्रिपुरो वरदर्पितः ।
तत्सर्वं कौतुकं मह्यं वक्तुमर्हस्यशेषतः ॥ १॥
ब्रह्मोवाच ।
ततः काश्मीरपाषाणभवां मूर्तिं गजाननीम् ।
स्थापयामास विधिवद्ब्रह्मणैर्मन्त्रकौविदैः ॥ २॥
महान्तं काञ्चनं दिव्यं मणिमुक्ताविभूषितम् ।
गणेशपुरमध्ये स प्रासादं कृतवान् शुभम् ॥ ३॥
उपचारैः षोडशभिः पूजयामास तं विभुम् ।
नमस्कारैरसङ्ख्यातैः स्तुतिभिः प्रार्थनैरपि ॥ ४॥
क्षमाप्य देवदेवेशमनुज्ञाप्य ययौ बहिः ।
ददौ दादान्यनेकानि ब्राह्मणेभ्यो यथार्हतः ॥ ५॥
ततस्तदभवत्स्थानं बङ्गाले त्रिपुरस्य ह ।
गणेशपुरमित्येवं सर्वेषां सर्वसिद्धिदम् ॥ ६॥
ततः स त्रिपुरो दैत्यो गजाननवरोद्धतः ।
नृलोकान्पालयामास देवानामाक्रमे रतः ॥ ७॥
पदातयस्तुरङ्गाश्च गजाश्च रथिनस्तथा ।
दशदिग्भ्यो ययुस्तं तु सेवार्थं बलवत्तराः ॥ ८॥
राजानः सेवका जाता आनुकूल्येन तस्य ह ।
प्रतिकूला गता मृत्युं युद्धं कर्तुमनीश्वराः ॥ ९॥
एवमाक्रम्य भूखण्ड ततोऽगादमरावतीम् ।
तत इन्द्रो देवगणैर्नानायुद्ध करैर्वृतः ॥ १०॥
ऐरावतसमारूढो ययौ युद्धाय दंशितः ।
सोऽपि सेनां त्रिधा चक्रे चतुरङ्गां महाबलः ॥ ११॥
भीमकायं महादैत्यं वज्रदंष्ट्रं च दानवम् ।
धनुर्युद्धे गदायुद्धे शस्त्रयुद्धे च कोविदम् ॥ १२॥
अस्त्रयुद्धे मल्लयुद्धे निष्णातं दैत्यपुङ्गवम् ।
भीमकायमवोचत् स नृलोकस्याधिपो भव ॥ १३॥
कालकूटं वज्रदंष्ट्रं जगाद त्रिपुरो बली ।
त्रिभागयाऽनया याहि सेनया त्वं रसातलम् ॥ १४॥
शेषमुख्यान् सर्वनागान् वशान् कुरू ममायज्ञा ।
अहं त्रिभागया शक्रमाक्रमिष्येऽखिलान्सुरान् ॥ १५॥
भीमकायो वज्रदंष्ट्रो यथऽऽज्ञप्तो प्रतस्थतुः ।
चतुरङ्गबलैर्युक्तः स्वयं नन्दनमाययौ ॥ १६॥
दिव्यान् वृक्षान् बभञ्जुस्ते वार्यमाणास्तु सैनिकाः ।
तत्र स्थित्वा दैत्यराजो दूतान् शक्राय प्राहिणोत् ॥ १७॥
अत्रानयन्तु तं शक्रं दर्शनाय त्वरान्विताः ।
वदन्तु मम वाक्यं वा मृत्युलोकं व्रजाऽधुना ॥ १८॥
तत्र त्वां पालयिष्यामि साम्ना देह्यमरावतीम् ।
यदि युद्धे च ते बुद्धिस्तदा शीघ्रं प्रयाहि माम् ॥ १९॥
ते गत्वा शक्रमाचख्युस्त्रिपुरासुरचेष्टितम् ।
श्रुत्वेत्थं वचनं तेषां वज्राहत इवाचलः ॥ २०॥
चकम्पे चाचलरिपुर्वायुनेव यथा तरूः ।
चिन्तया व्याकुलीभूतः किमेतदिति चिन्तयन् ॥ २१॥
क्रोधानलेन जज्वाल संरक्ताखिललोचनः ।
कुर्वन्भस्मेव लोकानां शोषयन्निव वारिधीन् ॥ २२॥
उवाच दूतान् गच्छन्तु यान्तु युद्धाय सत्वराः ।
स्वयमैरावतारूढो जगर्ज सुरशत्रुहा ॥ २३॥
तेन नादेन महता क्षोभयन् भुवनत्रयम् ।
श्रुत्वा तद्वचनं ते तु गता दूता यथागतम् ॥ २४॥
विबुधाश्चापि सन्नद्धा नानाशस्त्राऽसिपाणयः ।
भिण्डिपालकराः केचित् केचिच्छक्त्यृष्टि पाणयः ॥ २५॥
मुद्गरासिधाराः केचिद्धनुर्बाणकराः परे ।
गदाखेटकराः केचित् केचित्तु दण्डपाणयः ॥ २६॥
एवं देवगणैर्युक्तो वज्रभृन्निर्ययौ बहिः ।
कृतस्वस्त्ययनो विप्रैर्नानावादित्रनिस्वनैः ॥ २७॥
त्रिपुरो दूतवाक्येन ज्ञात्वा युद्धोद्यमन्तु तम् ।
सन्नद्धामकरोत्सेनां प्रहृष्टां चतुरङ्गिणीम् ॥ २८॥
असङ्ख्यातां समादाय हयारूढोऽभिनिर्ययौ ।
परस्परं ददृशतुस्ते सेने वीरभूषणे ॥ २९॥
कोलाहलो महानासीद् बृंहितैर्हेषितैरपि ।
क्ष्वेडितै रथघोषैश्च वाद्यघोषैरनेकधा ॥ ३०॥
ततो हुङ्कारमात्रेण नोदितास्त्रिपुरेण ते ।
वीरा युयुधिरे देवैः स सम्मर्दो महानभूत् ॥ ३१॥
नाभूत स्वपरबोधोऽपि जघ्नुरेव परस्परम् ।
एवं सुतुमुले जन्ये मृतास्ते दानवा बहु ॥ ३२॥
सुमनसोऽपि पतिता दैत्यशस्त्र प्रपीडिताः ।
बभुस्ते सैनिकास्तत्र पुष्पिता इव किंशुकाः ॥ ३३॥
अशय्याः शयिताः केचिदङ्घ्रिहीनास्तथाऽपरे ।
क्रमेलका गजाध्यक्षा रथाश्वाश्च पदातिनः ॥ ३४॥
ततः पलायनपरा दैत्या याता दिशो दश ।
सिंहं दृष्ट्वैव सहसा मृगा जीवनकाङ्क्षिणः ॥ ३५॥
ततो निवार्य तत्सैन्यं वृन्दारकरिपुः स्वयम् ।
क्रोधानलमहाज्वालो गर्जन्मेघ इवापरः ॥ ३६॥
शक्रसान्निध्यमगमद् भक्षयन्निव रोदसी ।
स्वखड्गेनाहनत्तीव्रं हस्तं वज्रधरं हरेः ॥ ३७॥
वज्रं पपात तद्धस्तात् तदद्भुतमिवाभवत् ।
तदादायाऽहनद् द्दैत्यस्तेनैवैरावतं गजम् ॥ ३८॥
ऐरावतः प्रहारेण पलायनपरो ययौ ।
ततो जघान स हरिर्मुष्टिना दैत्यपुङ्गवम् ॥ ३९॥
स क्षणं पतितो भूमौ तत उत्थाय वेगवान् ।
जघान मुष्टिना शक्रं धरण्यां तमपातयत् ॥ ४०॥
तत उत्थाय मघवा दैत्यं प्राह रूषान्वितः ।
इदानीं मल्लयुद्धाय सज्जीभवाऽसुरेश्वर ॥ ४१॥
ततः स विस्मयाविष्ट उवाच बलगर्वितः ।
किमर्थ त्वं निजप्राणे निर्दयोऽसि सुरेश्वर ॥ ४२॥
कृमिकीटपतङ्गानां प्राणोऽतीव प्रियो मतः ।
गच्छ देव धरण्यां ते स्थानं दत्तं मया शुभम् ॥ ४३॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद बलवृत्रहा ।
यद्यहं जीवितात् त्वां हि मोचयामि न चेद्रिपो ॥ ४४॥
तदाऽहं धरणीं यामि त्वदाज्ञावशगोऽधम ।
त्वमेव हतमूर्धाऽद्य धरणीं यास्यसे खल ॥ ४५॥
वदत्येवं तु देवेन्द्र दैन्येन्द्रो निजघान तम् ।
मुष्टिना हृदये दुष्टस्ततो युद्धमभूत् तयोः ॥ ४६॥
चाणूरकृष्णयोर्यद्वत् परस्परजयैषिणोः ।
हृदयं हृदयेनैव हस्तं हस्तेन जघ्नतुः ॥ ४७॥
जानुभ्यां जानुनी चोरू ताभ्यां तौ च निजघ्नतुः ।
मस्तकं मस्तकेनैव कूर्परं कूर्परेण तु ॥ ४८॥
पृष्ठं पृष्ठेन पादाभ्यां पादौ तावभिजघ्नतुः ।
पादों गृहीत्वा दैत्योऽस्य भ्रामयित्वा मुहुर्मुहः ॥ ४९॥
तत्याज दूरतः शक्रं यथा न ज्ञायते क्वचित् ।
आरूरोह स्वयं तं तु चतुर्दन्तं गजेश्वरम् ॥ ५०॥
ततो देवगणाः सर्वे हिमवद्गिरिगव्हरम् ।
ययुः शक्रं विचिन्वन्तो दैत्यसन्त्रासतापिताः ॥ ५१॥
कुत्र वा पतितो देवो द्रक्ष्यामो वा कथं विभुम् ।
एवं सञ्चिन्तयन्तस्ते भ्रमन्तो ददृशुश्च तम् ॥ ५२॥
अधोमुखं समायान्त देवेन्द्रं तं तदैव ह ।
प्रणेमुर्देवसङ्घास्तमालिलिङ्गस्तथाऽपरे ॥ ५३॥
पूजयामासुरपरे बीजयामास कश्चन ।
पादसंवाहनं चास्य चक्रुः केचन भक्तितः ॥ ५४॥
तत्रैव न्यवसन् सर्वे गुप्तरूपाः सुरास्तदा ।
दैत्यस्त्वैरावतारूढो ययौ ताममरावतीम् ॥ ५५॥
देवस्थानानि दैत्यानामिन्द्रासनगतः स्वयम् ।
ददौ विभज्य प्रत्येकं मानपूर्वं सुरद्विषाम् ॥ ५६॥
दिव्य वादित्रनिर्घोषैः शृण्वन् गान्धर्वनिस्वनान् ।
किन्नरैः सेव्यमानस्तु रेमे चाप्सरसां गणैः ॥ ५७॥
इति श्रीगणेशपुराणे उपासनाखण्डे इन्द्रपराजयोनामैकोनचत्वारिंशोऽध्यायः ॥ ३९॥
आदितः श्लोकानां समष्ट्यङ्काः १४६१ + ५७ = १५१८
१.४० स्तोत्र निरूपणं नाम चत्वारिंशोऽध्यायः
ब्रह्मोवाच ।
आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।
पराक्रमं दैत्यकृतं श्रुत्वा देव मुखात् पुरा ॥ १॥
ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।
दैत्यस्य मानसौ पुत्रौ प्रचण्डश्चण्ड एव च ॥ २॥
प्रचण्डं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।
ततश्चण्डं च वैकुण्ठे चकार स्वामिनं स्वयम् ॥ ३॥
ततः कैलासमगमत् तं च दौर्भ्यामचालयत् ।
भयभीता च गिरिजाऽऽलिलिङ्गे शङ्करं भृशम् ॥ ४॥
ततः कैलासमगमद् युद्धाकाङ्क्षी महासुरः ।
तेन तुष्टो महादेवो दैत्यस्य पौरूषेण च ॥ ५॥
बहिर्ययौ वरं दातुं निजभक्तसुखप्रदः ।
ददर्श त्रिपुरं दैत्यं वरं वृण्वित्यथाऽब्रवीत् ॥ ६॥
स वव्रे यदि तुष्टोऽसि देहि कैलासमद्य मे ।
गच्छ मन्दारशिखरं यावन्मम मनोरथः ॥ ७॥
शङ्करोऽपि ददौ तस्मे कैलासं स्वल्पकालिने ।
स्वयं जगाम गिरिशो मन्दाराद्रिं गणैर्वृतः ॥ ८॥
कैलासशिखरारूढो जहर्ष त्रिपुरासुरः ।
एवं देवान्वशे कृत्वा पुनरायाद् रसातलम् ॥ ९॥
भीमकायोऽपि बलवान् भूमण्डल गतो बलात् ।
वशे चकार नृपतीन् ऋषीन् सर्वान् बबन्ध च ॥ १०॥
अग्निकुण्डानि सर्वाणि देवतृप्तिकराणि च ।
आश्रमांश्च बभञ्जाऽऽशु तीर्थानि च विशेषतः ॥ ११॥
तापसांस्रासयामास कारागार समाश्रयात् ।
स्वाहास्वधावषट्कारान् वेदस्याभ्यसनानि च ॥ १२॥
सदाचारान् सदा द्वेष्टि सर्वगर्वसमन्वित ।
वज्रदंष्ट्रोऽथ सप्तापि पातालानि वशेऽनयत् ॥ १३॥
शेषं च वासुकिं चैव तक्षकं सर्वभोगिनः ।
निर्विषान् सविषांश्चैव चकार वशवर्तिनः ।
वज्रदंष्ट्रो रत्नजातं बुभुजेऽप्रेषयच्च तम् ॥ १४॥
नागाङ्गनाभिश्च कुतूहलेन रेमे सदाऽसौ समदोऽतिहर्षात् ।
भोगान् विभुञ्जन् विविधानि रत्नान्यादाय यातस्त्रिपुरान्तिके सः ॥ १५॥
पातालवश्यतां शंसन् लेभे मानं ततोऽधिकम् ॥ १६॥
वस्त्राणि च महार्हाणि ग्रामान् दासाननेकशः ।
एवं त्रिलोकान् वशगान् कृत्वा दैत्यो ननन्द ह ॥ १७॥
देवाः सर्वे गुहावासाश्चिन्तयामासुरन्वहम् ।
कथमस्य वधः कस्मिन्काले वापि भविष्यति ॥ १८॥
कस्माद्वेति न जानीमो लब्धोऽनेन वरं कुतः ।
एवं व्याकुचित्तेषु सुरेषु मुनिसत्तम ॥ १९॥
आययौ नारदस्तत्र त्रैलोक्यचर इच्छया ।
ददर्शं दीनान्देवांस्तानुत्ततार नभः पथात् ॥ २०॥
दृष्ट्वा सर्वे नारदं तमुत्तस्थु सहसाऽऽदरात् ।
आलिलिङ्गुश्च नेमुश्च पुपूजुश्च यथाक्रमम् ॥ २१॥
विश्रान्तं परिपप्रच्छुस्त्रिपुरस्यवरादिकम् ।
देवा ऊचुः ।
त्रिपुरेण समाक्रान्तं त्रैलोक्यं सचराचराम् ॥ २२॥
स्थाथानि नो गृहीतानि केशास्तेनापि निर्जिताः ।
शरणं कं व्रजामोऽद्य कथं तस्य वधो भवेत् ॥ २३॥
वराश्च केन दत्ता नो वदाऽस्य त्रिपुरस्य भोः ।
नारद उवाच ।
कथयामि समासेन दैत्यस्य चेष्टितं महत् ॥ २४॥
दिव्यवर्षसहस्रं स तताप परमं तपः ।
प्रसादयामास विभुं गणेशं देवनायकम् ॥ २५॥
तेनाऽस्मै दुर्धरा दत्ता वराः सर्वभयङ्कराः ।
देवर्षिपितृभूतेभ्यो यक्षरक्ष पिशाचतः ॥ २६॥
न नागेभ्यो भयं दत्तं विनैकं शङ्करं विभुम् ।
प्रसादयन्तु देवेशं द्विरदाननमादरात् ॥ २७॥
आराधयन्तु सर्वेऽपि विघ्नेशं सर्वसिद्धिदम् ।
देवा ऊचुः ।
कथमाराधनं तस्य देवदेवस्य धीमतः ॥ २८॥
कर्तव्यं मुनिशार्दूल कृपया तद्वदस्व नः ।
नारद उवाच ।
अहमेकाक्षरं मन्त्रं कथयाम्यखिलान् प्रति ॥ २९॥
तेन मन्त्रेण ते सर्वे मया दत्तेन भक्तितः ।
अनुष्ठानं प्रकुर्वन्तु सर्वेऽपि स्थिरमानसाः ॥ ३०॥
यावतं प्रत्यक्षतामेति देवोऽसौ गणनायकः ।
स एव तद्वधोपायं वदिष्यत्यखिलान्प्रति ॥ ३१॥
नान्योपायं प्रपश्यामि तस्मात् कुर्वन्तुमे वचः ।
ब्रह्मोवाच ।
इत्युक्त्वा नारदः सर्वानुपदिश्य मनुं च तम् ॥ ३२॥
जगाम तत्क्षणादेव वीणागानरतो मुनिः ।
ततः सर्वे सुरवरा गणेशध्यानतत्पराः ॥ ३३॥
एकपादस्थिताः केचित्केचितपद्मासनस्थिताः ।
केचिद्वीरासनयुताः केचिन्मीलितलोचना ।
निराहारा जितश्वासा जेपुर्मन्त्रं मुनीरितम् ॥ ३४॥
ततो बहुगते काले करूणाब्धिर्गजाननः ।
अनुष्ठानं निरीक्ष्यैषां देवानां चिरकालजम् ॥ ३५॥
आविर्बभूव गणपस्तेषामग्रे वरप्रदः ।
उल्लसत्स्वर्णमुकुटश्चारूकुण्डलमण्डितः ॥ ३६॥
दन्तन्यस्तकरो राजत्कटिसूत्रवराङ्गदः ।
पाशं सृणिं च परशुं कमलं च भुजैर्दधत् ॥ ३७॥
रक्तचन्दनकस्तूरीसिन्दूरशशिभूषणः ।
विद्युत्तेजोलसत्कान्तिः कोटिसूर्यसमप्रभः ॥ ३८॥
दृष्ट्वैवं सहसा देवं विनायकमनामयम् ।
तेजसा धर्षिताः सर्वे भयमापुश्च केचन ॥ ३९॥
प्रणेमुः सहसा केचिद् देवास्तं द्विरदाननम् ।
पूजयामासुरपरे हर्षगद्गदभाषिणः ॥ ४०॥
स्वसङ्कष्ट विनाशाय तुष्टुवु कोऽपि तं विभुम् ।
प्रसादसुमुखं देवं सुमुखं सङ्कटापहम् ॥ ४१॥
देवा ऊचुः ।
नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिलकारणाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ ४२॥
नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ।
नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय ॥ ४३॥
नमो नमो विश्वभृतेऽखिलेश नमो नमः कारणकारणाय ।
नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय ॥ ४४॥
नमो नमो वागविचारभूत नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्तमनोरथघ्न नमो नमो भक्तमनोरथज्ञ ॥ ४५॥
नमो नमोऽभक्तमनोरथेश नमो नमो विश्वविधानदक्ष ।
नमो नमो दैत्यविनाशहेतो नमो नमः सङ्कटनाशकाय ॥ ४६॥
नमो नमः कारूणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय नमो नमो भक्तविभूतिदाय ॥ ४७॥
नमो नमोऽभक्तविभूतिहन्त्रे नमो नमो भक्तविमोचनाय ।
नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते ॥ ४८॥
नमो नमस्तत्त्वविबोधकाय नमो नमस्तत्त्वविदुत्तमाय ।
नमो नमस्तेऽखिलकर्मसाक्षिणे नमो नमस्ते गुणनायकाय ॥ ४९॥
ब्रह्मोवाच ।
एवं स्तुत सुरैर्देवो द्विरदानन ईश्वरः ।
उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥ ५०॥
गणेश उवाच ।
स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः ।
ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥ ५१॥
देवा ऊचुः ।
यदि तुष्टोऽसि देवेश त्रिपुरं जहि दानवम ।
सर्वैषामधिकारान् नो गृहीत्वा यस्तु तिष्ठति ॥ ५२॥
त्वयैवास्याऽभयं दत्तं सर्वामरसमूहतः ।
अतः स्म सङ्कटं प्राप्ताः सङ्कटान्मोचयाऽऽशु नः ॥ ५३॥
त्वामे शरणं प्राप्ता एष एव वरो हि नः ।
गणेश उवाच ।
वारयिष्ये भयं सर्वं तस्माद् घोरतराद् हि वः ॥ ५४॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम् ।
सङ्कष्टनाशनमिति विख्यातं च भविष्यति ॥ ५५॥
पठतां शृण्वतां चैव सर्वकामप्रदं नृणाम् ।
त्रिसन्ध्यं यः पठेदेतत् सङ्कष्टं नाप्नुयात क्वचित् ॥ ५६॥
ब्रह्मोवाच ।
इति दत्त्वा वरं तेषां सुराणां जगदीश्वरः ।
पश्यतां मुनिदेवानां तत्रैवाऽन्तर्दधे विभुः ॥ ५७॥
इति श्रीगणेशपुराणे उपासनाखण्डे स्तोत्रनिरूपणं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
आदितः श्लोकानां समष्ट्यङ्काः १५१८ + ५७ = १५७५
१.४१ नारदागमनोनाम एकचत्वारिंशत्तमोऽध्यायः
व्यास उवाच ।
वरदेन गणेशेन प्रभुणा सर्वकारिणा ।
किं कृतं तन्ममाचक्ष्व पृच्छते चतुरानन ॥ १॥
ब्रह्मोवाच ।
ततो गजाननो विप्ररूपेण त्रिपुरं ययौ ।
महार्हासनसंविष्टं ददर्श द्विजसत्तमः ॥ २॥
स उत्थाय नमस्कृत्य स्वासने चोपवेशयत् ।
सम्पूज्य परिपपृच्छ कुत आगम्यते द्विज ॥ ३॥
का विद्या किं व ते नाम पृच्छते ब्रूहि मे द्विज ।
प्रयोजनं च किं तेऽस्ति शक्तिश्चेत् करवामहे ॥ ४॥
द्विज उवाच ।
सायङ्गृहा वयं दैत्य सर्वज्ञाः सर्ववेदिनः ।
इच्छाविहारा लोकानां भ्रमामो हितकाम्यया ॥ ५॥
कलाधरेत्येव नाम्ना विख्याता भुवनत्रये ।
द्रष्टुकामा वैभवं ते सम्प्राप्ता भवनं तव ॥ ६॥
अखिलाः सम्पदस्ते तु दृष्ट्वा तृप्ताः स्म साम्प्रतम् ।
न कैलासे न वैकुण्ठे ब्रह्मलोकेऽपि नेन्दृशी ॥ ७॥
पदे शाक्रे न वै सम्पद् यादृशी दृश्यते तव ।
दैत्य उवाच ।
नाममात्रं कलाधारः किं वा जानासि तां द्विज ॥ ८॥
सम्पदः सवेलोकेषु याभ्य एता प्रशंससि ।
जानासि चेद् दर्शय मे तासां मध्ये महोत्कटाम् ॥ ९॥
दृष्ट्वा दास्ये वाञ्छितं ते प्रियं प्राणानपि द्विज ।
न स्मरे परिहासेऽपि वितथं भाषितं मुने ॥ १०॥
कलाधर उवाच ।
परेषां सम्पदं दृष्ट्वा किं स्यात् तव सुरद्विषः ।
विनयात् ते प्रसन्नोऽहं कलया ते ददामि वै ॥ ११॥
काञ्चनं राजतं लौहं त्रिपुरं शरसंस्थितम् ।
रम तत्र स्थिरो दैत्य चिरकालं यथा सुखम् ॥ १२॥
अभेद्यं देव गन्धर्वैर्मानुषैरूरगैरपि ।
कल्पितार्थप्रदं तत्ते कामगं कामदं शुभम् ॥ १३॥
यदैवैकेन बाणेन कस्मिश्चित् कालपर्यये ।
भेत्स्यते तद् हरो दैत्य तदा नाशमुपैष्यति ॥ १४॥
ब्रह्मो वाच ।
इत्युक्त्वा धनुरादाय संस्तभ्य शरमन्तरा ।
पुरत्रयं निर्ममेऽसौ भुवनत्रयसन्निभम् ॥ १५॥
विचित्रैर्भवनै रम्यैर्दीर्घिकाराम संयुतैः ।
नानापक्षिगणैर्जुष्टं सर्वकामप्रदं खगम् ॥ १६॥
मायया मोहितो दैत्यस्तत्रस्थो चहृषे भृशम् ।
जगर्ज घनवद्दैत्यो लोकत्रयविकम्पनः ॥ १७॥
न मत्तः श्रेष्ठ इत्येवं गर्वदर्पसमन्वितः ।
त्रैलोक्यं क्षोभयामास ब्राह्मणं तमथाब्रवीत् ॥ १८॥
याचस्व दुर्लभतंर तत्ते दास्ये द्विजोत्तम ।
इत्युक्त्वा स द्विजः प्राह तं दैत्यं निस्पृहोऽपि सन् ॥ १९॥
द्विज उवाच ।
अहं कैलासमगमं दृष्टवान् मूर्तिमुत्तमाम् ।
शिवेन पूजितां सम्यग् गाणेशीं चिन्तितार्थदाम् ॥ २०॥
तामानय त्वं मे देहि शक्तिर्यद्यसुरेश्वर ।
नेतादृशी मया मूर्तिस्त्रैलोक्यञ्चरतेक्षिता ॥ २१॥
अतो मम मनस्तस्यामासक्तं दैत्यसत्तम ।
तां प्राप्य कृतकृत्योऽहं भविष्याम्यसुरेश्वर ॥ २२॥
कीर्तिं ते प्रथयिष्यामि त्रैलोक्ये सचराचरे ।
न दाता त्रिपुराच्छ्रेष्ठो वाञ्छितं यः प्रयच्छति ॥ २३॥
दैत्य उवाच ।
शङ्कर किङ्करं मन्ये गणये न च देवताः ।
आनयित्वा प्रदास्यामि तां मूर्तिं द्विजपुङ्गव ॥ २४॥
ब्रह्मोवाच ।
इत्युक्त्वा पूजयामास तं कलाधरमादरात् ।
ददौ तस्मै दशग्रामान गोवस्त्रभूषणानि च ॥ २५॥
मुक्ताफलानि भूरीणि महार्हाणीतराणि च ।
रत्नानि च प्रवालानि राङ्कवास्तरणानि च ॥ २६॥
दासीदासशतं नानाभूषायुक्तं ददेऽसुरः ।
सदश्वान् सवरूथांश्च स्वर्णाक्षान् राजतान् रथान् ॥ २७॥
प्रगृह्यैतद् बलाद्दत्तं प्रययौ स कलाधरः ।
स्वाश्रमं हर्षयन् पत्नीं सर्वानाश्रमवासिनः ॥ २८॥
ब्रह्मोवाच ।
एवं च सर्व वृत्तान्तं नारदोऽकथयत्सुरान् ।
तेऽपि कालं प्रतीक्षन्तो दिवसानतिचक्रमुः ॥ २९॥
इति श्रीगणेशपुराणे उपासनाखण्डे कलाधरगमनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१॥
आदितः श्लोकानां समष्ट्यङ्काः १५७५ +२९ = १६०४
१.४२ युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः
व्यास उवाच ।
कृतवान् किमु दैत्यः स गते तास्मिन्कलाधरे ।
कथमानीय दत्ताऽस्मै मूर्तिश्चिन्तामणेः शुभा ॥ १॥
एतत्कथय मे सर्व विस्तार्य चतुरानन ।
लीला गजाननीः शृण्वन् न तृप्यामि समासतः ॥ २॥
ब्रह्मोवाच ।
तस्मिन्गते यदकरोत् स दैत्यो मुनिसत्तम ।
तत्सर्वं कथयिष्यामि शृणुष्वावहितो मुने ॥ ३॥
दूतौ सम्प्रेषयामास मन्दराद्रिस्थितं शिवम् ।
अशिक्षयच्छिवं गत्वा ब्रूतं मद्वाक्यमादरात् ॥ ४॥
मूर्तिश्चिन्तामणेस्तेऽस्ति गृहे सर्वार्थदा शुभा ।
देहि तां दैत्यराजाय साम्नैव गिरिजापते ॥ ५॥
पाताले स्वर्गलोके वा मर्त्ये वा पुनरद्भुतम् ।
तत्सर्वं तेन दैत्यैन ह्यानीतं स्वगृहे तलात् ॥ ६॥
शीघ्नमानीयतां देव यावो दैत्यं महाबलम् ।
न दास्यसे यदा साम्ना तदा दैत्यः पराक्रमी ॥ ७॥
ग्रहीष्यति बलात्तान्तु ततो दुःखमवाप्स्यसि ।
इति दैत्यवचः श्रुत्वा जग्मतुस्तौं शिवं प्रति ॥ ८॥
आहतुस्तौ महादेवं दैत्यराजेन शिक्षितम् ।
इत्थं दूतवचः श्रुत्वा त्रिनेत्रः क्रोधमूर्छितः ॥ ९॥
उवाच दूतौ दूतौ वामिति कृत्वा क्षमे वचः ।
कामस्येव भवेद् भस्म नो चेद्वां नात्र संशयः ॥ १०॥
किं कार्यं तेन दैत्येन तृणीभूतेन मे विभोः ।
आयातु युद्धमेवास्तु मर्तुकामो ममान्तिकम् ॥ ११॥
नेयं मूर्तिस्तेन शक्या प्राप्तुं जन्मशतैरपि ।
प्रलयाग्निः पतङ्गेन किं शान्तिमधिगच्छति ॥ १२॥
मेरोः पातो मूषकेन शक्यः कर्तुं किमोजसा ।
असङ्ख्य जल निष्काशाच्छुष्कः स्यात्किं महोदधिः ॥ १३॥
ब्रह्मोवाच ।
श्रुत्वा तु शाङ्करीं वाणीं दैत्यो यातौयथागतम् ।
अब्रूतां स्वामिनं वाक्यं शम्भुना यदुदीरितम् ॥ १४॥
तदाकर्ण्य प्रजज्ज्वाल दैत्यो वाक्यार्थकोविदः ।
क्रोधानलेन दीप्तोऽसौ त्रैलोक्यं प्रदहन्निव ॥ १५॥
आज्ञापयच्च युद्धाय स्वसेनां चतुरङ्गिणीम् ।
निर्गता सहसा सेना मन्दराचलसम्मुखा ॥ १६॥
भूतलं छादयामास निर्मर्यादो यथाऽम्बुधिः ।
अनेकसूर्यसङ्काशा विकोशैः शस्त्रसञ्चयैः ॥ १७॥
गर्जन्ती घनवद् घोरं मृत्योर्मानसकम्पिनी ।
दैत्यस्त्रिपुरमारूह्य विमानसदृशं महत् ॥ १८॥
मनोवेगं ततः पश्चाज्जिघांसुः शम्भुमाययौ ।
बृहन्मणिमयं चारूकवचं कुण्डलेऽङ्गदे ॥ १९॥
मुक्तामालां मुद्रिकाश्च कटिसूत्रं च काञ्चनम् ।
मुकुण्ट रत्नखचितं महार्घं बिभ्रदुल्लसत् ॥ २०॥
यस्य शब्देन महता चकम्पे हरमानसम् ।
तद्धनुः स निषङ्गं च कौर्मं खेटमसिं दृढम् ॥ २१॥
शुशुभे शक्तिका दिव्याऽवहद् यां दैत्यपुङ्गवः ।
गायमाना नर्तमाना गन्धर्वाम्प्सरसां गणाः ॥ २२॥
बन्दिनश्चारणाश्चापि ययुरस्याग्रतो मुदा ।
शङ्करो दूतवाक्येन श्रुत्वा दैत्यं समागतम् ॥ २३॥
असङ्ख्यबलसंयुक्तं युयुत्सुं कालकर्षितम् ।
शूलपाणिरपि तदा सम्पूज्य द्विरदाननम् ॥ २४॥
प्रणम्य तं परिक्रम्य पुरस्कृत्य बलं बलात् ।
आययौ क्रोधदीप्ताक्षः स्वस्थलाद् रणमण्डलम् ॥ २५॥
ते वीरा वीरशब्देन नादयन्तो दिशो दश ।
अभिजग्मुः प्रहरणैः परस्परवधेप्सवः ॥ २६॥
अभूतां मीलिते सेने रजस्तिमिरसङ्कुले ।
स्वपरज्ञानरहिते जघ्नतू रणमूर्धनि ॥ २७॥
अभवत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ।
गजाश्वरथवीराणां हतानां शोणितोक्षिते ॥ २८॥
शान्ते रजस्ययुध्यन्त वीरा वीरैः पृथक् पृथक् ।
केचित् प्रासैः केऽपि खड्गैः केचिद्बाणैः शिलाशितैः ॥ २९॥
ऋष्टिभिर्मुष्टिभिः केचित् केचित् परशुतोमरैः ।
हतानां तत्र वीराणां हयानां च पदातिनाम् ॥ ३०॥
असृङ्नदी समभवत् केशशैवल वाहिनी ।
खेटकूर्मा खड्गमत्स्या शिरः कमलक्षूषणा ॥ ३१॥
छत्रावर्ता घोरतरा कबन्धवृक्षवाहिनी ।
वीरसन्तोषजननी गृद्धगोमायुहर्षकृत् ॥ ३२॥
दृष्टत्वा नदीं तु गिरिशो ययौ दैत्यान्तिकं बली ।
दैत्योऽपि त्रिपुरारूढो ययौ तस्य पुरः पुरः ॥ ३३॥
नायको सङ्गतौ दृष्ट्वा द्वन्द्वशोऽन्ये परस्परम् ।
अव्याकुले युयुधिरे दैतेयाः शाम्भवास्तदा ॥ ३४॥
नाना प्रहरणैर्दिव्यैः शत्रैरस्त्रैर्द्रुमैरपि ।
तेषां युद्धानि नामानि कथयिष्ये समासतः ॥ ३५॥
इति श्रीगणेशपुराणे उपासनाखण्डे युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२॥
आदितः श्लोकानां समष्ट्यङ्काः १६०४ + ३५ = १६३९
१.४३ त्रिचत्वारिंशत्तमोऽध्यायः
ब्रह्मोवाच ।
अयुध्येतां द्वन्द्वशोऽथ गिरिशासुर नायकौ ।
षण्मुखेन प्रचण्डश्च नन्दिना चण्ड एव च ॥ १॥
युयुधे पुष्पदन्तोऽपि भीमकायेन वीर्यवान् ।
भृशुण्डी कालकूटेन विषवत्प्राणहारिणा ॥ २॥
अयुध्येतां वीरभद्रवज्रदंष्ट्रौ महाबलौ ।
इन्द्रोऽपि युयुधे तत्र दैत्यामात्येन वीर्यवान् ॥ ३॥
दैत्यपुत्रेण बलिना जयन्तो युद्धदुर्मदः ।
काव्येन युयुधे तत्र सुराचार्योऽस्त्रवित्तमः ॥ ४॥
देवानां चैव दैत्यानामेवं द्वन्द्वान्यनेकशः ।
वर्णितुं नैव शक्यानि मया वर्षं शतैरपि ॥ ५॥
रथिनो रथिभिः सार्धं गजिनौ गजिभिः सह ।
अश्वारोहाः स्वसदृशैः पदाताश्च पदातिभिः ॥ ६॥
युयुधः संयुगे घोरे नानावाद्य निनादिते ।
हेषितैर्बृहितैः क्ष्वेडैर्नेमिनादैश्च शब्दिते ॥ ७॥
केचिच्च मल्लयुद्धेन युयुधुर्विविधेन तु ।
जघ्नुरङ्गानि चाङ्गेषु त्यक्त्वा शस्त्राणि संयुगे ॥ ८॥
ततः प्रचण्डो नवभिस्ताडयामास षण्मुखम् ।
आकर्णाकर्षनिसृतैर्दृढैर्बाणैः शिलाशितैः ॥ ९॥
अप्राप्तानेव तांश्छित्त्वा शरैः सन्नतपर्वभिः ।
कार्तिकेयः पञ्चभिस्तु ताडयामास सायकैः ॥ १०॥
सम्मूर्छितोऽपतद्भूमौ प्रचण्डो भ्रान्तमानसः ।
नन्दिनाऽपि हतश्चण्ड पञ्चभिर्निशितैः शरैः ॥ ११॥
मूर्छामवाप सहसा पतितो धरणीतले ।
भीमकायः पुष्पदन्तमविध्यद्द्शभिःशरैः ॥ १२॥
छेदयामास समरे स्वशरैर्निशितैः स तान् ।
त्रिभिरेवाहनत् च सोऽपि भूतलमाश्रितः ॥ १३॥
कालकूटं भृशुण्डीस्तु पातयामास पञ्चभिः ।
शरैर्महाबलस्तत्र वीरभद्रौ रूषा युतः ॥ १४॥
वज्रदंष्ट्र ततो जघ्ने चतुर्भिर्निशितैः शरैः ।
तान्निवार्य स्वयं जघ्ने वीरभद्रं त्रिभिः शरैः ॥ १५॥
तानापतत एवाशु वीरभद्रोऽच्छिनत् त्रिभिः ।
पातयामास वेगेन वज्रदंष्ट्रं त्रिभिःशरैः ॥ १६॥
इन्द्रोऽपि वज्रपातेन दैत्यामात्यं न्यपातयत् ।
उद्यम्य निशितं खड्गं दैत्यपुत्रः समाययौ ॥ १७॥
हन्तुकामो जयन्तं तं वीरेषु पतितेषु च ।
तं निरीक्ष्य तथा यान्तं खड्गं चिच्छेद पत्रिणा ॥ १८॥
जयन्तोऽभ्यहनच्छीघ्रं दैत्यसूनुं त्रिभिः शरैः ।
तैराहतो वमन् रक्तं न्यपतन् मोहसंयुतः ॥ १९॥
एवं सर्वेषु सैन्येषु प्रभग्नेषु समन्ततः ।
दृष्ट्वा पलायनपरान् दैत्यान् देवगणार्दितान् ॥ २०॥
अधावन् पृष्ठतः केचित् प्रमथा जयशालिनः ।
एवं जयत्सु देवेषु स्वसैन्ये विद्रुतेऽपि च ॥ २१॥
आययौ स्वयमेवेशं त्रिपुराधिष्ठितोऽसुरः ।
शस्त्रयुद्धं पुरा कृत्वा युध्येतामस्रतो ह्युभौ ॥ २२॥
वारूणास्त्रं जहौ दैत्यो वृष्टिर्घोरतराऽभवत् ।
नीहारबहुले युद्धेन प्राज्ञायत किञ्चन ॥ २३॥
क्वचिद् विद्युत्प्रकाशेन स्वपरज्ञानकारिणा ।
युद्धमासीत् तु तुमुलङ्घोररूपं दुरासदम् ॥ २४॥
विलोक्य सैन्यं तत्सर्वं वृष्टिवातप्रपीडितम् ।
शिलापातभयात् याते स्वसैन्ये तु दिशोदश ॥ २५॥
वायव्यमस्त्रं गिरिशो मोचयामास सत्वरम् ।
महावातान्महामेघा विशीर्णाः खण्डशोऽम्बरे ॥ २६॥
वातेन घूर्णिता सेना दैत्यानां सर्वतो दिशम् ।
जगलुः पक्षिपिच्छानि वीरोष्णीषाणि दूरतः ॥ २७॥
पतिताश्चूर्णिताः केचिद् रथाश्वगजपत्तयः ।
उन्मूलिता लता वृक्षाश्छादयन्ति स्म सैनिकान् ॥ २८॥
पन्नगास्त्रेण तं वायुं तथा दैत्यो न्यवारयत् ।
आकर्ण धनुराकृष्य तृणाद्बाणं प्रगृह्य च ॥ २९॥
मन्त्रयन्ननलास्त्रेण शिवसैन्ये न्यपातयत् ।
अङ्गारवृष्टिः सहसा पतिता सर्वदाहिनी ॥ ३०॥
प्रलयं मेनिरे सर्वे ज्वाला मालाभिरर्दिताः ।
ज्वालाभ्यो दीप्यमानाभ्यो महाभीतिकरः पुमान् ॥ ३१॥
आविरासीन् महाकायो लिखन् मूर्धा नभस्तलम् ।
दंष्ट्राकरालवदनो महारावः क्षुधातुरः ॥ ३२॥
लालयन् रसनां घोरां शतयोजनविस्तृताम् ।
नासापवनवेगेन भ्रामयन् कुञ्जरान् रणे ॥ ३३॥
भक्षयामास तां सेनामुरगामिव पक्षिराट् ।
अपीपलद् भर्गसेना तेन पुंसा प्रपीडिता ॥ ३४॥
शिवपृष्ठं समासाद्य रक्ष रक्षेति चाब्रवीत् ।
माभैष्टेत्यभयं तस्यै दत्त्वा वह्निं न्यवारयत् ॥ ३५॥
पर्जन्यास्त्रप्रपातेन तत्क्षणाद्गिरिजापतिः ।
बाणेनैकेन तं घोरं पुरूषं स न्यपातयत् ॥ ३६॥
तत उत्थाय पुरुषो बभक्ष शिवसैनिकान् ।
ययुः पलायनपराः प्रमथा भयविव्हलाः ॥ ३७॥
स्खलन्तो निपतन्तश्च निश्वसन्तश्च कम्पिरे ।
शिवोऽपि निःसहायत्वाद् दरीमेवान्यपद्यत ॥ ३८॥
षडाननादयो वीरा अनुसतस्रुस्तमेव हि ।
जिघृक्षुर्गिरिजां दैत्यो विचिन्त्यैकाकिनीं गिरौ ॥ ३९॥
विहाय रणभूमिं तु ययौ कैलासमेव सः ।
दूराद् दृष्ट्वा तमायान्तं चकम्पे गिरिजा तदा ॥ ४०॥
उवाच पितरं गत्वा दैत्यो मां किं नु नेष्यति ।
तस्या द्वचनं श्रुत्वा नीत्वा तां दुर्गमां गृहाम् ॥ ४१॥
अविज्ञातां स्वेतरेण स्थापयामास निर्भयाम् ।
सोऽपि दैत्यस्ततो हैमं गिरिं तद्ग्रहणेच्छया ॥ ४२॥
आगतो न ददर्शाथ गिरिजां क्वापि सत्तम ।
भ्रमन् ददर्श तत्रैकां मूर्ति चिन्तामणेः शुभाम् ॥ ४३॥
सहस्रसूर्यसङ्काशां नानालङ्कारशोभिनीम् ।
त्रैलोक्यसुन्दरां सद्यो गृहीत्वा स्वस्थलं ययौ ॥ ४४॥
नानावादित्रनिर्घोषैः स्तुवद्भिर्वन्दिभिर्वृतः ।
ततः पातालमगमत् सर्वत्र विजयी बली ॥ ४५॥
गच्छतस्तस्य दैत्यस्य हस्तेऽप्यन्तर्हिता तदा ।
मूर्तिश्चिन्तामणेः सा तु तदद्भुतमिवाभवत् ॥ ४६॥
तमेवाशकुनं मत्वा तत्पुरं पुनराविशत् ।
अत्यन्तं विमनाश्चिन्तां दुरुतां समुपागतः ॥ ४७॥
इति श्रीगणेशपुराणे उपासनाखण्डे त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥
आदितः श्लोकानां समष्ट्यङ्काः १६३९ ४७ = १६८६
१.४४ तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
व्यास उवाच ।
ततः किमकरोच्छम्भुः त्रिपुरेण पराजितः ।
कथं तमजयद्दैत्यं त्रिपुरं जयशालिनम् ॥ १॥
ब्रह्मोवाच ।
ततः शम्भुः परां चिन्तामापेदे मनसा स कृत् ।
स्वाहास्वधाविहीनं तु भूतलं परिचिन्तयन् ॥ २॥
कदा स्वस्थानगा देवा भविष्यन्ति गतज्वराः ।
केनोपायेन वासःस्याद्दुर्जयस्य पराजयः ॥ ३॥
एवं चिन्तातुरे तस्मिन् नारदो मुनिसत्तमः ।
आययो शङ्करं दृष्टं देवान् सर्वान् यदृच्छया ॥ ४॥
तं दृष्ट्वा जहृषे देवो मर्त्यः प्राप्य यथाऽमृतम् ।
पूजयामास विधिवत् कृतासनपरिग्रहम् ॥ ५॥
आलिङ्ग्य तमुवाचेत्थं शिवश्चिन्तातुरो भृशम् ।
देवानां हितमन्विच्छन् दैत्यस्य वधमेव च ॥ ६॥
शिव उवाच ।
दैत्येन सर्वदेवानां कदनं कृतमोजसा ।
तद्रणे भग्नसङ्कल्पाः सर्वे देवाः पलायिताः ॥ ७॥
याता दश दिशो ब्रह्मन् कः कुत्रास्ते न वेद्म्यहम् ।
ममाप्यत्राणि तेनास्त्रैः प्रभग्नानि सहस्रशः ॥ ८॥
ब्रह्मोवाच ।
श्रुत्वा शिववचः सोऽमुमवादीन् मुनिसत्तम ।
मन्वानः परमाश्चर्यं त्रैलोक्येशपराभवम् ॥ ९॥
नारद उवाच ।
सर्वज्ञे सर्वविद्येशे सर्वेशे सर्वकर्तरि ।
सर्वानने सर्वहरे सर्वस्यापि नियन्तरि ॥ १०॥
शक्ते कर्तुमकर्तुं वाऽन्यथाकर्तुमपि प्रभो ।
अणिमादिगुणोपेते षडैश्वर्यविलासिनि ॥ ११॥
किं वक्तव्यं मया देव सर्ववक्तृवरे त्वयि ।
मुनिना गानसक्तेन त्रिलोकीं भ्रमताऽनिशम् ॥ १२॥
तव वाक्यानुरोधेन विचार्य प्रब्रवीम्यहम् ।
एवमुक्त्वा क्षणं ध्यात्वा पुनः प्राह शिवं मुनिः ॥ १३॥
मुनिरुवाच ।
युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया ।
अतः पराभवं प्राप्तो वन्हिनेत्रः पिनाकधृक् ॥ १४॥
इदानीमर्चय पुरा विघ्नेशं विघ्नवारणम् ।
प्रसाद्य तद्वरं लब्ध्वा याहि युद्धाय सादरम् ॥ १५॥
पराजेष्यसि तं दैत्यं नात्र कार्या विचारणा ।
ब्रह्मोवाच ।
तेनापि तपसा देवो महताराधितः पुरा ॥ १६॥
तेन तस्मै वरो दत्तोऽखिलविघ्नौघहारिणा ।
महेश्वरं विना मृत्युर्न केनापि भवेत्तव ॥ १७॥
मुनिरुवाच ।
तस्माद्गिरिश तस्येदं कामगं तु पुरत्रयम् ।
एकेषुणा दारयस्व जयोपायोऽयमीरितः ॥ १८॥
प्रहर्षमतुलं लेभे श्रुत्वोपायं मुनेः शिवः ।
श्रुत्वा गजाननगिरं पूर्वाक्तां प्राह तं मुनिम् ॥ १९॥
शिव उवाच ।
सत्यमुक्तं त्वया ब्रह्मं त्वद्वाक्येन स्मृतं मया ।
उपदिष्टौ पूर्वमेव मन्त्रौ तेन मुने मम ॥ २०॥
षडक्षरैकाक्षरौ तौ सर्वसङ्कटहारकौ ।
युद्धेव्यासक्तचित्तेन न जप्तौ न च संस्मृतौ ॥ २१॥
सर्वविघ्नहरो देवो न स्मृतो हि गजाननः ।
सर्वेषां कारणं कर्ता पाता हर्ता विनायकः ॥ २२॥
मुनिरूवाच ।
तं तोषय महादेव महादेवं गजाननम् ।
ब्रह्मोवाच ।
विसृज्यं नारदं देवो जगाम तपसे शिवः ॥ २३॥
दण्डकारण्यदेशे तु पद्मासनस्थितोऽजपत् ।
प्रणिधाय बलात् खानि नियम्य ध्यानतत्परः ॥ २४॥
सोऽतपत्तप उग्रं तु शतवर्षाणि शङ्करः ।
ततस्तस्य मुखाम्भोजान् निर्गतस्तु पुमान् परः ॥ २५॥
पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ २६॥
अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन्दशायुधः ।
तद्भासा धर्षितो देवोऽपश्यदुग्रं पुरःस्थितम् ॥ २७॥
विनायकं पञ्चमुखं पञ्चास्यमपरं शिवम् ।
तं दृष्ट्वाऽतर्कयद्देवः किमहं द्विविधोऽभवम् ॥ २८॥
किंवा ममैव रूपेण त्रिपुरोऽयमिहागतः ।
त्रयस्त्रिंशत्कोटिदेवेष्वपरः पञ्चवक्त्रवान् ॥ २९॥
अथवा स्वप्न एवायं दृष्टो दीर्घतरो मया ।
अथवा मे वरं दातुमागतोऽयं गजाननः ॥ ३०॥
सर्वविघ्नहरं देवं यं ध्यायामि दिवानिशम् ।
ब्रह्मोवाच ।
एवमाकर्ण्य तद्वाक्यं उवाच द्विरदाननः ॥ ३१॥
अन्तर्यस्तर्कितो देवः सोऽयं विघ्नहरो विभुः ।
न मे स्वरूपं जानन्ति देवर्षिचतुरारनाः ॥ ३२॥
न वेदाः सोपनिषदः कुतः षट्शास्त्रवेदिनः ।
अशेषभुवनस्याहं कर्ता पाताऽपहारकः ॥ ३३॥
ब्रह्मादिस्थावरचरत्रिगुणानामहं प्रभुः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः ॥ ३४॥
वरान्वृणु महादेव यावतो मत्त इच्छसि ॥ ३५॥
इति श्रीगणेशपुराणे उपासनाखण्डे तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
आदितः श्लोकानां समष्ट्यङ्काः १६८६ + ३५ = १७२१
१.४५ शिवस्य वरदानं नाम पञ्चचत्वारिंशोऽध्यायः
मुनिरुवाच ।
ततः प्रसन्ने विघ्नेशे देवेशे विघ्नहारिणि ।
वरान् दित्सति शर्वाय किं किं वव्रे सदाशिवः ॥ १॥
ब्रह्मोवाच ।
गणेशवचनं श्रुत्वा शिवोवाक्यमथाऽब्रवीत् ।
स्मृत्वा गजाननं तं तु स्वस्वरूपं वरप्रदम् ॥ २॥
शिव उवाच ।
दशापि नेत्राणि ममाद्य धन्यान्यथो भुजाः पूजनतस्तवाद्य ।
तवानतेः पञ्च शिरांसि धन्यान्यथस्तुतेः पञ्चमुखानि देव ॥ ३॥
पृथ्वी जलं वायुरथो दिशश्च तेजश्च कालः कलनात्मकोऽपि ।
नभो रसो रूपमथापि गन्धः स्पर्शश्च शब्दो मन इन्द्रियाणि ॥ ४॥
गन्धर्वयक्षाः पितरो मनुष्या देवर्षयो देवगणाश्च सर्वे ।
ब्रह्मेन्द्ररुद्रा वसवोऽथ साध्याः त्वत्तः प्रसूताः स चराचरश्च ॥ ५॥
सृजस्यदो विश्वमनन्यबुद्धे रजोगुणात्पासि समस्तमेतत् ।
तमोगुणात्संहरसे गुणेश नित्यो निरीहोऽखिलकर्मसाक्षी ॥ ६॥
ब्रह्मोवाच ।
ततोऽहमब्रुवं देवं गणेशं तं शिवाज्ञया ।
नाम चाकरवं तस्य यत्तच्छृणु महामते ॥ ७॥
त्वन्नाम बीजं प्रथमं मातृकाणामोङ्काररूपं श्रुतिमूलभूतम् ।
यतो गणानां त्वमसीह ईशो गणेश इत्येव तवास्तु नाम ॥ ८॥
ओमित्यथोक्ते गणनायकेन तुतोष शर्वः प्रददौ वरांश्च ।
यः सर्व कार्येषु तवेश कुर्यात् स्मृतिं तदन्तं स लभेदविघ्नम् ॥ ९॥
विना स्मृतिं तेन लभेच्च कोऽपि वाञ्छार्यसिद्धिं कृमिकीटकोऽपि ।
शैवेस्त्वदीयैरथ वैष्णवैश्च शाक्तैश्च सौरेरथ सर्वकार्ये ॥ १०॥
शुभाशुभे वैदिकलौकिके वा त्वमर्चनीयः प्रथमं प्रयत्नात् ।
यन्मङ्गलं सर्वजनेषु देव सयक्षविद्याधरपन्नगेषु ॥ ११॥
तस्येश्वरो मङ्गलमूर्त्तितां त्वं ततो यतो मङ्गल कृत् स्वभक्ते ।
अहं पुराऽनर्चयतस्तवेश त्वय्यस्मृतेर्दैत्यवरस्य युद्धे ॥ १२॥
अवन्दनाच्चाप पराभवं तं ततस्तवाङ्घ्रिं शरणं प्रपन्नः ।
क्षमापराधं मम सर्वशक्ते जयं प्रयच्छाखिलजन्यकाले ॥ १३॥
ये सर्वथा त्वां न भजन्ति देव जडा दरिद्राः प्रभवन्तु तेऽपि ।
भजति ते भक्तियुता मनुष्याः प्राप्स्यन्ति सिद्धिं निखिलार्थदात्रीम् ॥ १४॥
क उवाच ।
इत्थं निशम्याखिलवाक्यसारवेत्ताऽवदद्वाक्यमिदं गिरीशम् ।
यदायदा मे स्मरणं विदध्यास्तदाऽन्तिकं तेऽहमियामुमेश ॥ १५॥
मन्नामबीजेन निमन्त्रयैकं बाणं तु तेनैव पुरत्रयं तत् ।
निपातयास्मन्महसा महेश कृत्वा स दैत्यं खलु भस्मसात् त्वम् ॥ १६॥
ततः स्वनाम्नामवदत् सहस्रं गणाधिपोऽस्मै प्रणताय सम्यक् ।
शिवाय भक्त्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम् ॥ १७॥
उवाच चैनं रणकाल एतत् पठस्व दैत्यान्विनिहंसि शीघ्रम् ।
त्रिसन्ध्यमेतस्य जपान्नराणां सिध्यन्ति कामाः सकला अभीष्टाः ॥ १८॥
श्रुत्वा तु वाक्यं द्विरदाननस्य तं पूज्य सम्यक् शिव उज्जहर्ष ।
संस्थापयामास महागणेशं प्रासादमुच्चैर्दृढमाशु चक्रे ॥ १९॥
सन्तर्प्य देवान् मुनिसिद्ध सङ्घान् दानानि दत्वा द्विजपुङ्गवेभ्यः ।
पुनश्च सम्पूज्य नमश्चकार देवं गिरीशो वरदं गणेशम् ॥ २०॥
उवाच सर्वान् मणिपूररियं तु विख्यातिमागच्छतु सर्वलोके ।
देवेन सर्वैश्च तथोदितैस्तैरन्तर्दधुस्ते गणनाथ मुख्याः ॥ २१॥
अन्तर्हिते मुनिगणे ससुरे गणेशे शर्वोऽप्यगात् स्वनिलयं स्वगणैरूपेतः ।
गन्धर्व यक्ष निवहैरमराङ्गनाभिर्वृत्तं निजं परमुदा गिरिजामुवाच ॥ २२॥
श्रुत्वा तदाऽमृतवचः सकलं गिरीशाद् देवेश्वरा मुमुदिरे मुनयः सदाराः ।
योगीश्वराश्च निहतं त्रिपुरं स्वधिष्ण्यममंसताप्यधिगतं गिरिशप्रसादात् ॥ २३॥
इति श्रीगणेशपुराणे उपासनाखण्डे शिवस्य वरदानं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
आदितः श्लोकानां समष्ट्यङ्काः १७२१ + २३ = १७४४
१.४६ श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनन्नाम षट्चत्वारिंशोऽध्यायः
व्यास उवाच ।
कथं नाम्नां सहस्रं तद् गणेश उपदिष्टवान् ।
शिवायैतन्ममाचक्ष्व लोकानुग्रह तत्पर ॥ १॥
ब्रह्मोवाच ।
देवः एवं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥
मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधी ॥ ३॥
विघ्नप्रशमनोपायमपृच्छदपराजितः ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४॥
सर्वविघ्नैकहरणं सर्वकामफलप्रदम् ।
ततस्तमै स्वकं नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥
अस्य श्रीमद्गणेशदिव्यसहस्रनामामृतस्त्रोत्रमालामहामन्त्रस्य
गणेशऋषिः । श्रीमहागणपतिर्देवता । श्रीस्वानन्देशो ब्रह्मणस्पतिर्देवता ।
नानाविधानिच्छन्दासि । गमिति बीजम् ।
तुण्डमिती शक्तिः । स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीब्रह्मणस्पतिप्रीत्यर्थे (महागणपतिप्रीत्यर्थं) जपे विनियोगः ।
अथ न्यासाः ।
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशानेति तर्जनीभ्यां नमः ।
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तोरक्ताम्बरधर इत्यनामिकाभ्यां नमः ।
सर्वसद्गुरुसंसेव्य इतिकनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः सुभक्तामिति करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासाः ।
छन्दश्च्छन्दोवपुरिति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्दं इति कवचाय हुम् ।
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तसहित इत्यस्त्राय फट् ।
इति दिग्बन्धः ।
अथ ध्यानम् ।
रक्ताम्भोधिस्थपोतोल्लसदरूणसरोजाधिरुढं त्रिनेत्रम्
पाशं चैवाङ्कुशाख्यं परशुमभयदं बाहुभिर्धारयन्तम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं
रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥
श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानन्देशाय ब्रह्मणस्पतये
साङ्गाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः ।
इति नाममन्त्रेण मानसः पञ्चोपचारैः सम्पूज्य पठेत् ।
श्रीमहागणपतिरूवाच ।
अस्य श्रीमहागणपतिदिव्यसहस्रनामस्तोत्रमालामहामन्त्रस्य
गणेशऋषिः ॥ महागणपतिर्देवता ॥ नानाविधानिच्छन्दांसि ॥
गं इति बीजम् ॥ तुण्डं इति शक्तिः ॥ स्वाहा कीलकम् ॥
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः ।
श्रीमहागणपतिरूवाच ।
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः ॥ ६॥
लम्बोदरो धम्रवर्णो विकटो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ ७॥
भीमः प्रमोद आमोदः सुरानन्दो महोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ८॥
नन्दनोऽलम्पटोऽभीरुः मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥ ९॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ १०॥
कुमार गुरुरीशान पुत्रो मूषकवाहनः ।
सिद्धि प्रियः सिद्धिपतिः सिद्धिः सिद्धिविनायकः ॥ ११॥
अविघ्नस्तुम्बरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शाकलः सम्मितोऽमितः ॥ १२॥
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ १३॥
विश्वकर्ता विश्वमुखो विश्वरुपो निधिर्घृणिः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ॥ १४॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तस्थः सूयमण्डलमध्यगः ॥ १५॥
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपालनः ॥ १६॥
किरीटी कुण्डलीहारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १७॥
सद्योजातःस्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नप्रहृत् प्रसहनो गुणीनादप्रतिष्ठितः ॥ १८॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥ १९॥
चित्राङ्कश्यामदशनो भालचन्द्रो चतुर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ २०॥
गणाधिराजो विजयस्थिरो गजपतिर्ध्वजी ।
देवदेवः स्मरप्राणो दीपको वायुकीलकः ॥ २१॥
विपश्चिद्वरदोनादोन्नादभिन्न बलाहकः ।
वराहरदनो मृत्युजयो व्याघ्राजिनाम्बरः ॥ २२॥
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ २३॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ २४॥
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्द्धा ककुप्श्रुतिः ॥ २५॥
ब्रह्माण्डकुम्भश्विद्व्योमभालः सत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्क सोमदृक् ॥ २६॥
गिरीन्द्रैकरदो धर्मोधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिव्हो वासवनासिकः ॥ २७॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्या मदोत्कटः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ २८॥
नदीनदभजः सर्पाङ्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २९॥
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्द्रस्रजानुकः ॥ ३०॥
पातालजङ्घो मुनिपात् कालाङ्गुष्ठस्रयीतनुः ।
ज्योतिर्मण्डललाङ्गुलो हृदयालाननिश्चलः ॥ ३१॥
हत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ ३२॥
प्रतापी कश्यपसुतो गणपो विष्टपी बली ।
यशस्वी धार्मिकः स्वोजा प्रथमः प्रथमेश्वरः ॥ ३३॥
चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ ३४॥
तीव्राशिरोघृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीः भोगदाभूषितासनः ॥ ३५॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३६॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः ।
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः ॥ ३७॥
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३८॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३९॥
भग्नवामरदस्तुङ्ग सव्यदन्तो महाहनुः ।
हृस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ४०॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ४१॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरीयकः ॥ ४२॥
रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्ततात्वोष्ठपल्लवः ॥ ४३॥
श्वेतःश्वेताम्बरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ४४॥
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४५॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदैककरःशार्ङ्गी बीजपूरी गदाधरः ॥ ४६॥
शुक्लाङ्गो लोकसुखदः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डलीहारी वनमाली शुभांगदः ॥ ४७॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलःशालीमञ्जरीभृत्स्वदन्तभृत् ॥ ४८॥
कल्पवल्लीधरो विश्वाभयदैककरोवशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४९॥
पूर्णपात्री कम्बुधरो विधृतालिसमूहकः ।
मातुलिङ्गधरश्चूतकलिकाभृत् कुठारवान् ॥ ५०॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ५१॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ५२॥
महिवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ५३॥
समेधितसमृद्धि श्रीर्रिद्धिसिद्धिप्रवर्त्तकः ।
दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ५४॥
मदनावत्याश्रिताङ्घ्रिः कृतदौर्मुख्यदुर्मुखः ।
विघ्नसम्पल्लवोपघ्नः सेवोन्निद्रमदद्रवः ॥ ५५॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः । (शक्तिसंवृतः)
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५६॥
मोहिनीमोहनो भोगदायिनी कान्तिमण्डितः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५७ ॥ (युक्तश्रीस्तेजिन्यधिष्ठितैकदृक्)
वसुन्धरामदोन्नद्ध महाशङ्खनिधिप्रभुः । (निधिप्रियः)
नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः ॥ ५८॥
सर्वसद्गुरूसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ ५९॥
अग्रप्रत्यग्रनयनो दिव्यास्त्राणां प्रयोगवित् ।
ऐरावतादिसर्वाशावावारणावरणप्रियः ॥ ६०॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरीवारो विजयाविजयावहः ॥ ६१॥
अजितार्चितपादाब्जो नित्यानित्यावतंसितः ।
विलासिनीकृतोल्लासःशौण्डीसौन्दर्यमण्डितः ॥ ६२॥
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः ॥ ६३॥
सुभगासंश्रीतपदः ललिताललिताश्रयः ।
कामिनीकामनः काममालिनीकेलिलालितः ॥ ६४॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६५॥
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६६॥
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६७॥
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः ।
सार्वकालिकसंसिद्धिः नित्यशैवो दिगम्बरः ॥ ६८॥
अनापायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम् ॥ ६९॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः ॥ ७०॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठः आधारः आधाराधेयवर्जितः ॥ ७१॥
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थः इक्षुभक्षणलालसः ॥ ७२॥
इक्षुचातिरेकश्रीरिक्षुचापनिषेवितः । ७३॥
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ।
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ॥ ७४॥
इध्मप्रिय इडाभाग इडाधामेन्दिराप्रियः ।
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ॥ ७५॥
ईशानमौलिरीशान ईशानसुत ईतिहा ।
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ॥ ७५॥
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ।
उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणीः ॥ ७७॥
ऊर्जस्वान् ऊष्मलमद ऊहापोहदुरासदः ।
ऋग्यजुः सामसम्भूतिर्रिद्धिसिद्धिप्रवर्तकः ॥ ७८॥
ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ।
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिःसुरद्विषाम् ॥ ७९॥
लुप्तश्रीर्विमुखार्चानांलूताविस्फोटनाशनः ।
एकारपीठमध्यस्थ एकपादकृतासनः ॥ ८०॥
एजिताखिलदैत्य श्रीरेजिताखिलसंश्रय ।
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ॥ ८१॥
ऐरम्मदसमोन्मेष ऐरावतनिभाननः ।
ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः ॥ ८२॥
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिःस्वनः ।
अङ्कुशःसुरनागानामङ्कुशःसुरविद्विषाम् ॥ ८३॥
अःसमस्तविसर्गान्त पदेषु परिकीर्तितः ।
कमण्डलुधरः कल्पः कपर्दी कलभाननः ॥ ८४॥
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ।
कदम्बगोलकाकारःकूष्माण्डगणनायकः ॥ ८५॥
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ।
खर्वःखड्गप्रियःखड्ग खातान्तस्थःखनिर्मलः ॥ ८६॥
खल्वाटशृङ्गनिलयःखट्वाङ्गी खदुरासदः ।
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः ॥ ८७॥
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ।
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ॥ ८८॥
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ।
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ॥ ८९॥
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ।
चण्डश्चण्डेश्वरसुहृत् चण्डीशश्चण्डविक्रमः ॥ ९०॥
चराचरपतिश्चिन्तामणिश्चर्वणलालसः ।
छन्दश्छन्दोवपुश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ॥ ९१॥
जगद्योनिर्जगत्साक्षी जगदीशोजगन्मयः ।
जपोजपपरो जाप्यो जिह्वासिंहासनप्रभुः ॥ ९२॥
झलझ्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः ।
टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः ॥ ९३॥
ठद्वयीपल्लवान्तस्थःसर्वमन्त्रैकसिद्धिदः ।
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ॥ ९४॥
ढक्कानिनादमुदितो ढौकौ ढुण्ढिविनायकः ॥ ९५॥
तत्त्वानां परमं तत्त्वं तत्त्वं पदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ ९६॥
स्थाणुःस्थाणुप्रियःस्थातास्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानवमोहनः ॥ ९७॥
दयावान् दिव्यविभवो दण्डभृद्द्ण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ ९८॥
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ।
धनधान्यपतिर्धन्यो धनदो धरणीधरः ॥ ९९॥
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारब्रह्माण्डावलिमेखलः ॥ १००॥
नन्दो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ १०१॥
परंव्योम परंधाम परमात्मा परंपदम् ।
परात्परः पशुपतिः पशुपाशविमोचकः ॥ १०२॥
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः ॥ १०३॥
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ।
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः ॥ १०४॥
बाणार्चिताङ्घ्रियुगुलो बालकेलीकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ १०५॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १०६॥
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ॥
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०७॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ॥ १०८॥
मेखवान् मन्दगतिर्मतिमत्कमलेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०९॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याचकप्रियः ॥ ११०॥
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ॥
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १११॥
लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः ॥
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ ११२॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ॥
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ ११३॥
वामदेवो विश्वनेता वज्रिवज्रनिवारणः ॥
विश्वबन्धन विष्कम्भाधारो विश्वेश्वरः विभुः ॥ ११४॥
शब्दब्रह्मशमप्राप्यः शम्भुशक्तिगणेश्वरः ॥
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ॥ ११५॥
षड् ऋतुकुसुमस्रग्वी षडाधारः षडक्षरः ॥
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ११६॥
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः ॥
सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः ॥ ११७॥
साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः ॥
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ ११८॥
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ॥
हव्यं हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः ॥ ११९॥
क्षेत्राधिपः क्षमाभर्ता क्षमापरपररायणम् ॥
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ १२०॥
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ॥
विद्याप्रदो विभवदो भुक्तिमुक्तिप्रदायकः ॥ १२१॥
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ॥
सर्ववश्यकरो गर्भदोषहापुत्रपौत्रदः ॥ १२२॥
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥
श्रीशोकहारी दौर्भाग्यनाशनः सर्वशक्तिभृत् ॥ १२३॥
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो दुःखभञ्जनकारकः ॥ १२४॥
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ।
घटीमुहूर्त प्रहरो दिवानक्तमहर्निशम् ॥ १२५॥
पक्षोमासोऽयनं वर्षं युगं कल्पोमहालयः ।
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ॥ १२६॥
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ।
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ॥ १२७॥
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ।
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ॥ १२८॥
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ।
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ॥ १२९॥
साध्या विद्याधर भूता मनुष्याः पशवः खगाः ।
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ॥ १३०॥
साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ।
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ॥ १३१॥
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ।
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम् ॥ १३२॥
शैवं पाशुपतं कालमुखं भैरवशासनम् ।
शाक्तं वैनायक सौरं जैनमार्हतसंहिता ॥ १३३॥
सदसद् व्यक्तमव्यक्तं सचेतनमचेतनम् ।
बन्धो मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान् ॥ १३४॥
स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्नमः ।
ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः ॥ १३५॥
एक एकाक्षराधार एकाक्षरपरायणः ।
एकाग्रधीरेकवीर एकानेकस्वरूपधृक् ॥ १३६॥
द्विरूपो द्विभुजो द्व्यक्षो द्विरदोद्वीपरक्षकः ।
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ॥ १३७॥
त्रिधामास्त्रिकरस्रेतात्रिवर्गफलदायकः ।
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ॥ १३८॥
चतुर्बाहुश्चतुर्दतश्चतुरात्मा चतुर्मुखः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः ॥ १३९॥
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ।
चतुर्थीपूजनप्रीतः चतुर्थीतिथि सम्भवः ॥ १४०॥
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्य पञ्चकृत्यकृत् ।
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ॥ १४१॥
पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ।
पञ्चब्रह्ममयस्फूर्तिः पञ्चवारणवारितः ॥ १४२॥
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ।
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ॥ १४३॥
षडध्वध्वान्तविध्वंसी षडङ्गुलमहाहृदः ।
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ॥ १४४॥
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ।
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः ॥ १४५॥
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ।
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ॥ १४६॥
सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ।
सप्तच्छन्दोनिधीः सप्तहोता सप्तस्वराश्रयः ॥ १४७॥
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ।
सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः ॥ १४८॥
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ।
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः ॥ १४९॥
अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः ।
अष्ठपीठोपपीठश्रीरष्टमातृसमावृतः ॥ १५०॥
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ।
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ॥ १५१॥
नवनागासनाध्यासी नवनिध्यनुशासिता ।
नवद्वारपुराधारो नवद्वारनिकेतनः ॥ १५२॥
नवनारायणस्तुत्यो नवदुर्गानिषेवितः ।
नवनाथमहानाथो नवनागविभूषणः ॥ १५३॥
नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः ।
दशात्मको दशभुजो दशदिक्पतिवन्दितः ॥ १५४॥
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ।
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ॥ १५५॥
एकादशमहारुद्रैः स्तुतएकादशाक्षरः ।
द्वादशोद्द्ण्डदोर्दण्डो द्वादशान्तनिकेतनः ॥ १५६॥
त्रयोदशभिदाभिन्न विश्वेदेवाधिदैवतम् ।
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ॥ १५७॥
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ।
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ॥ १५८॥
षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ १५९॥
कलासप्तदशीसप्तदशः सप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ १६०॥
अष्टादशौषधिसृष्टिरष्टादशविधिस्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ १६१॥
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ।
चतुर्विंशतितत्त्वात्मा पञ्चविशाख्य पूरुषः ॥ १६२॥
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ।
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः ॥ १६३॥
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः ।
नमदेकोनपञ्चाशन्मरुद्वर्गोनिरर्गलः ॥ १६४॥
पञ्चाशदक्षरश्रेणीः पञ्चाशद्रुद्रविग्रहः ।
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ॥ १६५॥
द्विपञ्चाशद्वपुःश्रेणीस्त्रिषष्टयक्षरसंश्रयः ।
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः ॥ १६६॥
चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दितः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः ॥ १६७॥
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकःप्रभुः ।
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ १६८॥
शतानीकः शतमखः शतधारवरायुधः ।
सहस्रपत्रनिलयः सहस्रफणभूषणः ॥ १६९॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ १७०॥
दशसहस्रफणिभृत् फणिराजकृतासनः ।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रयन्त्रितः ॥ १७१॥
लक्षाधीशप्रियाधारो लक्षाधीशमनोमयः ।
चतुर्लक्षजपप्रीतः चतुर्लक्षप्रकाशितः ॥ १७२॥
चतुराशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ १७३॥
शिवाभवाध्युष्टकोटिविनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ १७४॥
त्रयस्त्रिंशत् कोटिसुरश्रेणी प्रणतपादुकः ।
अनन्तदेवतासेव्यो ह्यनन्तमुनिसंस्तुतः ॥ १७५॥
अनन्तानामानन्तश्रीरनन्तानन्तसौख्यदः ।
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ।
अनन्तमुनिसंस्तुत ॐ नम इति ।
ॐ इति वैनायकं नाम्नां सहस्रमिदमीरितम् ॥ १७६॥
इदं ब्राह्मेमुहूर्ते वै यः पठेत् प्रत्यहं नरः ।
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ॥ १७७॥
आयुरारोग्यमैश्वर्यं धैर्य शौर्य बलं यशः ।
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता ॥ १७८॥
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ।
जगत्संयमनं विश्वसंवादो वादपाटवम् ॥ १७९॥
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥
औन्नत्यंच कुलं शीलं प्रतापो वीर्यमार्यता ॥ १८०॥
ज्ञानं विज्ञानमास्तिक्यं धैर्यं विश्वातिशायिता ।
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् ॥ १८१॥
वश्यं चतुर्विधं नॄणां जपादस्य प्रजायते ॥
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ॥ १८२॥
जप्येत यस्य वश्यार्थे स दासस्तस्य जायते ॥
धर्मार्थकाममोक्षणामनायासेन साधनम् ॥ १८३॥
शाकिनीडाकिनीरक्षोयक्षोरगभयापहम् ॥
साम्राज्यसुखदं चैव समस्तरिपुमर्दनम् ॥ १८४॥
समस्तकलहध्वंसी दग्धबीजप्ररोहणम् ।
दुःस्वप्नप्रशमनं क्रुद्धस्वामिचित्तप्रसादनम् ॥ १८५॥
षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम् ।
परकृत्योपशमनं परचक्रविमर्दनम् ॥ १८६॥
संग्रामरङ्गे सर्वेषामिदमेकं जयावहम् ॥
सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम् ॥ १८७॥
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥
देशे तत्र न दुर्भिक्षरमीतयो दुरितानि च ॥ १८८॥
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥
क्षयकुष्ठप्रमेहार्शो भगन्दरविषूचिकाः ॥ १८९॥
गुल्मं प्लीहानमश्मान मतिसारं महौदरम् ॥
कासं श्वासमुदावर्त्तं शूलं शोफादिसम्भवम् ॥ १९०॥
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ॥ १९१॥
आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् ॥
इत्याद्युक्तमनुक्तं वा रोग दोषादिसम्भवम् ॥ १९२॥
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥
सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरपि ॥ १९३॥
(प्राप्यतेऽस्य जपात् सिद्धिः स्त्रीशूद्रपतितैःसकृत् ॥ १९३ ॥)
सहस्रनाममन्त्रोऽयं जप्तव्यस्तु शुभाप्तये ॥
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ॥ १९४॥
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ॥ १९५॥
चन्द्रेद्रभास्करोपेन्द्रब्रह्मरुद्रादिसद्मसु ॥
कामरूपः कामगतिः कामतो विचरन्निह ॥ १९६॥
भुक्त्वा यथेप्सितान् भोगानभीष्टैः सहबन्धुभिः ।
गणेशानुचरो भूत्वा महागणपते प्रियः ॥ १९७॥
नन्दीश्वरादिसानन्दी नन्दितः सकलैर्गणैः ॥
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ॥ १९८॥
शिवभक्तः पूर्णकामो गणेश्वरवरात् पुनः ॥
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ॥ १९९॥
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥
योगसिद्धिं परां प्राप्य ज्ञानवैराग्य संस्थितः ॥ २००॥
निरन्तरोदितानन्दे परमानन्दसंविदि ॥
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते ॥ २०१॥
लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः ॥
यो नामभिः सहस्रैर्मामर्चयेतद् पूजयेन्नरः ॥ २०२॥
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ।
मन्त्राःसिद्ध्यन्ति सर्वेपि सुलभास्तस्य सिद्धयः ॥ २०३॥
मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम ॥
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ॥ २०४॥
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ।
अष्टद्रव्यैर्विशेषेण जुहयाद् भक्तिसंयुतः ॥ २०५॥
तस्येप्सिता निसर्वाणि सिद्ध्यन्त्यत्र न संशयः ।
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ॥ २०६॥
व्याकृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् ॥
इहामुत्रच सर्वेषां सर्वैश्वर्यप्रदायकम् ॥ २०७॥
स्वच्छन्दचारिणाऽप्येष येनायं धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरप्यष्टकोटिभिः ॥ २०८॥
पुस्तके लिखितं स्तोत्रं मन्त्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०९॥
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखश्च ।
न तत्फलं विन्दति यद् गणेशसहस्रनाम्नां स्मरणेन सद्यः ॥ २१०॥
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
प्रत्यूहं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २११॥
अकिञ्चनोऽप्येकचित्तो नियतो नियताशनः ।
जपेत्तु चतुरो मासान् गणेशार्चनतत्परः ॥ २१२॥
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २१३॥
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः
कीर्तिर्नित्यावदाता भणतिरभिनवा कान्तिरव्याजभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं
नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २१४॥
ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ २१५॥
अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २१६॥
काश्यपो नन्दनो वाचा सिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २१९॥
उपायनं ददेद् भक्त्यामत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजस्य तथ्यमिष्टार्थसिद्धये ॥ २१८॥
यः स्तौति मद्गतमना मदाराधतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ २१९॥
नमो नमः सुरवरपूजिताङ्घ्र्ये नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलकरैकसिद्धये नमो नमः करिकलभाननाय ते ॥ २२०॥
गणपाजेश हेरम्ब द्वैमातुर गजानन ।
भालेन्दो धूमकृद् भानो लम्बोदर विनायक ॥ २२१॥
ब्रह्मैकदन्त विघ्नेश विष्णो कपिल निर्गुण ॥
कालाद्य सिद्धिदानन्त त्राहि मां भवसागरात् ॥ २२२॥
किङ्किणीगणरचितस्तवचरणः प्रकटितगुरुमितिचारित्रगणः ।
मदजललहरीकरितकपोलः शमयतु दुरितं गणपतिनृपनाम्ना ॥ २२३॥
इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरमहागणपतिसंवादे श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनन्नाम षट्चत्वारिंशोऽध्यायः ॥ ४६॥
आदितः श्लोकानां समष्ट्यङ्काः १७४४ + २२३ = १९६७
१.४७ शिवविजयोनाम सप्तचत्वारिंशत्तमोऽध्यायः
व्यास उवाच ।
नाम्नां सहस्रे सम्प्राप्ते प्रसन्ने च गजानने ।
ततः किमकरोत् ब्रह्मन् हरस्तत् कथयस्व मे ॥ १॥
ब्रह्मोवाच ।
गणेशवरदानेन नाम्नां चैवोपदेशतः ।
प्रहृष्टः शङ्करोऽनृत्यद् जगर्ज च महास्वनः ॥ २॥
आहूय स्वगणान्देवान् युद्धावसरमादिशत् ।
ते च हर्षेण महता ययुर्देवाः शिवान्तिकम् ॥ ३॥
ब्रह्मा कुबेरोऽथ पुरन्दरोऽग्निर्वायुश्च सोमोवरुणोऽर्यमाच ।
गन्धर्वयक्षा ग्रहकिन्नराश्च सर्वे नमस्कृत्य शिवं स्तुवन्तः ॥ ४॥
देवा ऊचुः ।
महादेव जगन्नाथ जगदानन्ददायक ।
त्वया हतं महादैत्यं कदा द्रक्ष्यामहे वयम् ॥ ५॥
स्थानभ्रष्टा वयं तेन कृता विश्व विघातिना ।
ब्रह्मोवाच ।
एवं देववचः श्रुत्वा पिनाकी निर्ययौ मुदा ॥ ६॥
गणेशं मनसा ध्यायन् युद्धाय कृतनिश्चयः ।
वेगेन भवनं प्राप्य देवगन्धर्व संयुतः ॥ ७॥
तावच्च दैत्यं चारैस्तु वृत्तान्तः सन्निरूपितः ।
आगतः सुरसैन्येन युद्धाय गिरिजा पतिः ॥ ८॥
तस्यसैन्यान्यनह्यन्त शस्त्रैरस्त्रैश्च कञ्चुकैः ।
स च दैत्यो महानादो युद्धभूषणभूषितः ॥ ९॥
वीरानानन्दयामास वासः स्रग्भूषणैर्घनैः ।
अनेकयानसंस्थेषु योद्धृषु त्रिपुरं स्वयम् ॥ १०॥
आरुरोह महादैत्यो नादयन् विदिशो दिशः ।
ततो युद्धं समभवत् सेनयोरुभयोर्महत् ॥ ११॥
शस्त्रैर्नानाविधैर्बाणैः मर्मभेदिभिरायसैः ।
असृङ्नदीप्रवाहोऽभून् मार्गरोधनकारकः ॥ १२॥
शस्त्राहता बभुर्योधाः पुष्पिताः किंशुका इव ।
केचिच्च दृढवैरेण जीवग्राहममारयन् ॥ १३॥
केचित्कचेषु धृत्वैव शिरांसि चिच्छिदुर्बलात् ।
धावतां रथिवीराणामश्वानां करिणामपि ॥ १४॥
अङ्घ्रिपातभवो रेणुर्व्यानशे रोदसी क्षणात् ।
अन्धकारे घोरतरे न प्राज्ञायत किञ्चन ॥ १५॥
चक्रुरेवं तदा युद्धं वीरा नानाविधा भृशम् ।
जीविताशां परित्यज्य मर्तव्ये कृत निश्चयाः ॥ १६॥
अदृश्यन्त मृता देवा गते रजसि वायुना ।
विद्रुते सुरसैन्ये च दैत्यसैन्ये च हर्षिते ॥ १७॥
आययौ समरश्लाघी वज्रहस्तः पुरन्दरः ।
शतकोटिं निरीक्ष्यैव दुद्रुवुर्दैत्यदानवाः ॥ १८॥
स वज्रपातैरसुरांश्चूर्णयामास वज्रभृत ।
तत्यजुर्जीवितं ते तु चण्डवज्रप्रहारतः ॥ १९॥
केचिच्च भग्नचरणाः केचिद् भग्नशिरोधराः ।
केचिद्विदीर्ण जठराश्छिन्नस्कन्धभुजाः परे ॥ २०॥
छिन्नाश्वानां च वीराणां वाजिनां रथिनां तथा ।
केषाञ्चिदुरवो भिन्ना जङ्घासु च हताः परे ॥ २१॥
छिन्नगुल्फाः परेपेतुर्मिषात् पेतुरथापरे ।
निहतानामसृक्पातैर्जज्ञिरे निम्नगा बहु ॥ २२॥
उत्साहवर्धनास्तेषां वीराणां जयकाङ्क्षिणाम् ।
ततः शनैर्गर्जमानो ददर्श त्रिपुरासुरः ॥ २३॥
निहतं बहुधा सैन्यं शक्रं योद्धुमथाययौ ।
बभाण शक्रं दृष्ट्वैव किमर्थं मर्तुमिच्छसि ॥ २४॥
अपैहि युद्धाज्जीवंस्त्वं न पृष्ठं हन्मि वासव ।
का ते शक्तिर्मया युद्धं कर्तुं तव शचीपते ॥ २५॥
अजः सिंहेन किं युद्धं करिष्यति वदस्व मे ।
एहि युद्धस्व शक्तिश्चेन्नो चेद् गच्छ यथासुखम् ॥ २६॥
एवमुक्ते स्थिते शक्रे ववर्षे सायकान्बहून् ।
सज्यङ्कृत्वा धनुर्दैत्यो देवसेनामताडयत् ॥ २७॥
एकस्मान्मन्त्रिताद्बाणादसङ्ख्याता ययुः शराः ।
मृद्गन्तो देवगन्धर्वान् रोदसी समपूरयन् ॥ २८॥ (मृद्नन्तो?)
अन्धकारं पुनरभूत् बाणजालैर्निरन्तरम् ।
तद्बाणैरपि ते देवा व्यङ्गाः पेतुर्धरातले ॥ २९॥
बलहान्यपतत् भूमौ प्रहारवपीडितः ।
सर्वेषु देववर्येषु मूर्च्छितेषु महेश्वरः ॥ ३०॥
श्लाघन्तं बहुगर्जन्तं युध्यन्तं नाऽभ्यरोचयत् ।
मनसाऽपूजयच्छम्भुस्तस्य दैत्यस्य पौरुषम् ॥ ३१॥
एतस्मिन्नन्तरे तत्र नारदो द्रष्टुमाययौ ।
पूजितः प्रावदच्छम्भुं शृणुष्व नीललोहित ॥ ३२॥
नारद उवाच ।
त्वया चिन्ता न कर्तव्या त्रिपुरस्य वधं प्रति ।
वक्ष्ये तस्य वधोपायं तं कुरष्व महेश्वर ॥ ३३॥
तेन पूर्वं तपोऽकारि दुष्करं ब्रह्मणोऽपि हि ।
आराधितो गणपतिः स तस्मै सर्ववाञ्छितम् ॥ ३४॥
यद्यत्तेन वृतं देवो दत्तवानविचारितम् ।
पुरत्रयं कामगममेकबाणाश्रितं महत् ॥ ३५॥
मरुद्गतिविहीनं तदभेद्यं सर्वनिर्जरैः ।
स एवमुक्तवान् गुह्यं शरणैकेन यस्तव ॥ ३६॥
पुरत्रयं भेत्स्यते ते तस्मान्मृत्युमवाप्स्यति ।
एवमुक्त्वा गते तस्मिन्नारदे मुनिसत्तमे ॥ ३७॥
मूर्छितान्विबुधान् शर्वः सावधानमथाकरोत् ।
संस्मारेभमुखं वाक्यं स्मारितो नारदेन तु ॥ ३८॥
महाप्रयत्नमारेभे दैत्यराजवधाय सः ।
तेजसा सर्वनाशाय शक्तो देवो निजेच्छया ॥ ३९॥
रथं कुरूपं शशिसूर्यचक्रं यं तारमिन्दीवरजं चकार ।
धनुर्गिरीन्द्रं शरमच्युतं स धुर्याश्विनेयावयुजद् गिरीशः ॥ ४०॥
आचम्य देवं मनसा विचिन्त्य तेनोपदिष्टं च जजाप नाम्नाम् ।
सहस्रमेकाक्षरमन्त्रयुक्तममन्त्रयत्तेन पिनाकमुग्रम् ॥ ४१॥
अमन्त्रयन्महाबाणं विष्णुरूपं यदा शिवः ।
चकम्पे धरणी शेषो वनानि गिरयोऽपि च ॥ ४२॥
बभ्रमुः खगणाः सर्वे चुकूजुश्च महारवान् ।
शब्देना जगवस्यापि विभ्रान्ताः सुरमानुषाः ॥ ४३॥
अमुञ्चत्तं यदा बाणं तदा दग्धं नभस्तलम् ।
भूमण्डलं सपातालं ज्वालामालाभिरञ्जसा ॥ ४४॥
दृष्ट्वा पपाल दैत्येन्द्रः ससैन्यः पुरसंश्रयः ।
जवेनागाच्छरः सोऽप्य दहद्दैत्यं पुरत्रयम् ॥ ४५॥
दैत्यदेहगतं तेजो भर्गदेहे लयं ययौ ।
पश्यतां सर्व सैन्यानां दैत्यदानवरक्षसाम् ॥ ४६॥
ततोऽन्तरिक्षे वागासीन् मुक्तो दैत्यः शिवाहतः ।
ततस्ते तुष्टुवुर्देवा मुनयोऽपि त्रिलोचनम् ॥ ४७॥
जगुर्गन्धर्वनिचयाश्चारणाः श्रुतितत्पराः ।
नतृतुश्चाप्सरः सङ्घाः किन्नरा वाद्यवादकाः ॥ ४८॥
मुमुचुः पुष्पवर्षाणि नारदाद्याः सुरर्षयः ।
ययुः शिवाज्ञया देवाः स्वं स्वं स्थान निराधयः ॥ ४९॥
नमस्कृत्य महेशानं त्रिपुरासुरघातिनम् ।
मुनयोऽपि निरुद्वेगाः स्वस्वानुष्ठानतत्पराः ॥ ५०॥
आसंस्तस्मिन्हते दैत्ये वेदवेदाङ्गशालिनः ।
अग्निहोत्राणि यज्ञांश्च दानानि च व्रतानि च ॥ ५१॥
चक्रुः सर्वजना भूमौ पुनरुत्साहसंयुताः ।
शैलादिगणपस्कन्द्रैः सर्वैः पारिषदैरपि ॥ ५२॥
कृतावनामस्र्यक्ष्योऽपि विभज्य तं महारथम् ।
जयशब्दैस्तूर्यशब्दैर्देवदुन्दुभिनिस्वनैः ॥ ५३॥
अलङ्कृतं शैलराजं कैलासं मुदितो ययौ ।
त्रिपुरारिरिति स्पष्टं ततो नामास्य पप्रथे ॥ ५४॥
एवं महागणपतेर्मन्त्र सामर्थ्यमीरितम् ।
सहस्रनाम्नामपि च प्रभावोऽयं निरूपितः ॥ ५५॥
ब्रह्मोवाच ।
न विज्ञातो मदन्येन कस्यापि न निवेदितः ।
पठनाच्छ्रवणादस्य सर्वकाम फलं लभेत् ॥ ५६॥
इति श्रीगणेशपुराणे उपासनाखण्डे शिवविजयोनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७॥
आदितः श्लोकानां समष्ट्यङ्काः १९६७ + ५६ = २०२३
१.४८ अम्बाविर्भावोनाम अष्टचत्वारिंशत्तमोऽध्यायः
व्यास उवाच ।
श्रुतं मया महाख्यानं त्रिपुरस्य वधाश्रयम् ।
तथापि श्रोतुमिच्छामि क्व स्थिता जगदम्बिका ॥ १॥
कथमाविर्बभूवैषा तिथौ दग्धः क्व दैत्यराट् ।
एतत्सर्वं सविस्तारं कथयस्व पितामह ॥ २॥
ब्रह्मोवाच ।
बाहुले पौर्णमास्यां स सायं दग्धो महासुरः ।
दिवायुद्धं महाघोरं प्रागेव वर्णितं हि तत् ॥ ३॥
यतोऽर्चितः सुरैः सर्वैर्जयशाली सुरारिहा ।
अतस्तस्यां दीपदानं कुर्वन्ति भुवि मानवाः ॥ ४॥
तस्यां स्नानं च दानं च जपहोमादिकं च यत् ।
बहुलं जायते यस्मात् तस्मात् सा बाहुली स्मृता ॥ ५॥
तस्यां ये तु न कुर्वन्ति त्रिपुरारिमहोत्सवम् ।
न लभन्ते जयं क्वापि दग्धपुण्या भवन्ति ते ॥ ६॥
अतस्तस्यां पौर्णमास्यां प्रातरर्चन्ति ये शिवम् ।
निशि यत्तैः कृतं पापं विलयं प्रतिपद्यते ॥ ७॥
आजन्मतः कृतं पापं मध्यान्हार्चनतस्तथा ।
सप्तजन्मार्जितं पापं प्रदोषार्चनतो मुने ॥ ८॥
आविर्भावं शिवायास्त्वं कथ्यमानं मया शृणु ।
तस्य मृत्युं शिवाज्ज्ञात्वां भयादन्तर्हिता शिवा ॥ ९॥
आविरासीज्जगन्माता हिमाचलगुहामुखात् ।
ददर्श पर्वतं घोरं सिंहव्याघ्रमृगाकुलम् ॥ १०॥
अपश्यन्ती शिवं सा तु विरहाकुलमानसा ।
विललाप भृशं भीता हा तात हा शिवेति च ॥ ११॥
कथं मां न विजानीषे सर्वज्ञः सन् सदाशिव ।
वन एकाकिनीं घोरे क्रन्दन्ती कुररीमिव ॥ १२॥
कदा मे दर्शनं ते स्यात् किं मां विस्मृतवानसि ।
शक्ता न जीवितं धर्तुं सोढुं वा विरहं हर ॥ १३॥
तात त्त्वमपि कुत्रासि न मे शोकं श्रुणोषि किम् ।
त्वां विना शरणं कं वा यामि किं वा करोम्यहम् ॥ १४॥
योजयस्व पुनर्मां त्वं शिवेन च शिवेन च ।
इदानीं पुनरुत्पन्नां जानीहि जठरात् तव ॥ १५॥
वरं तमेव शीघ्रं मे गवेषय सदाशिवम् ।
नो चेद् देहपरित्यागं भृगोरस्मात् करोम्यहम् ॥ १६॥
क उवाच ।
एवं रुदन्त्यास्तस्यास्तु श्रुत्वा तां गिरमुत्तमाम् ।
न्यवेदयद्धिमवते कश्चिदागत्य धीवरः ॥ १७॥
धीवर उवाच ।
काचिन्नितम्म्बिनी बाला सर्वाभरणभूषिता ।
ताटके बिभ्रती श्रुत्योर्मण्डले इव भास्वतः ॥ १८॥
नानारत्नलसद्दीप्ति मुकुटं मस्तके भृशम् ।
ललाटे तु चतुष्कोणं मुक्ताषोडशशोभितम् ॥ १९॥
पुष्पं काञ्चनरत्नाढ्यं मुक्तादाम विलम्बितम् ।
सीमन्तान्तर्गतं चारु नासिके स्वर्णमौक्तिकम् ॥ २०॥
अङ्गदे चारुणी बाह्वोर्हस्तयोर्वलयानि च ।
लसत्काञ्चनरत्नाढ्यं प्रत्येकमङ्गुलीयकम् ॥ २१॥
मुक्ताफलमयीं मालां लसत्कञ्चुकसंश्रिताम् ।
हेमरत्नमयीं काञ्चीं कटौ क्षौमावृते शुभाम् ॥ २२॥
गुल्फयोः शृङ्खले हैमे सिञ्जच्चारूसुनूपरे ।
पादाङ्गुलीष्वपि पृथक् तत्तद्भूषणमुत्तमम् ॥ २३॥
एवं सर्वानवद्याङ्गी रूदती विव्हला भृशम् ।
दृष्टा पृष्ठा न मां वक्ति गृह्णाति सा तवाभिधाम् ॥ २४॥
ब्रह्मोवाच ।
इत्थं निशम्य हिमवांस्त्वरितस्तां सुतां ययौ ।
सान्त्वयन् हेतुगर्भाभिर्वाग्भिस्तामवदत्सुधीः ॥ २५॥
हिमवानुवाच ।
किमर्थं शोचसे सुभ्रु सृष्टिस्थित्यन्तहेतुके ।
सर्वलक्षणसम्पूर्णे सर्वशक्तियुतेऽनघे ॥ २६॥
अकर्तुमन्यथाकर्तुं कर्तुमीशे महेश्वरि ।
अवाप्तसर्वकामे च सर्वप्राण्यन्तरं गते ॥ २७॥
न वियुक्ता शिवेन त्वं सर्वान्तर्यामिणी शुभे ।
अथापि योजयिष्ये त्वां शिवेन शिवकारिणा ॥ २८॥
उत्तिष्ठेति गृहीत्वा तामाययौ निजमन्दिरम् ।
ननन्द पार्वती तत्र दृष्ट्वा मेनां सुतान्विताम् ॥ २९॥
निश्वासपरमाऽप्यासीच्छिवं द्रष्टुं समुत्सुका ।
उवाच पितरं नत्वा साधूपायं वदस्व मे ॥ ३०॥
व्रतं दानं तपो वापि दुष्करं शिवलब्धये ।
करिष्ये तमहं तात पूर्ववत्तप उत्तमम् ॥ ३१॥
ब्रह्मोवाच ।
अवदज्जनकस्तां तु विचार्य मनसा सकृत् ।
कार्यसिद्धिकरं शीघ्रमुपायं शृणु तं मुने ॥ ३२॥
हिमवानुवाच ।
शृणु पार्वति वक्ष्यामि साधूपायं शिवाप्तये ।
उपास्तिं विघ्नराजस्य धर्मार्थकाममोक्षदाम् ॥ ३३॥
अनुष्ठितां महेन्द्राद्यैः देवैश्च नारदादिभिः ।
प्राप्ताश्च सिद्धयस्तास्ताः शक्रादिपदलक्षणाः ॥ ३४॥
ब्रह्मणः सृष्टिसामर्थ्यं दत्तं तेन महात्मना ।
विष्णोश्चावनसामर्थ्यं दत्तं सर्वेश्वेरण ह ॥ ३५॥
शिवस्यापि च तेनैव सामर्थ्यं संहृतौ दृढम् ।
शेषस्यापि च तेनैव सर्वविघ्नहरेण च ॥ ३६॥
धराधरणसामर्थ्यं दत्तं सर्वेश्वरेण ह ।
यस्य स्वरूपं न विदुर्ब्रह्माद्या मुनयोऽपि च ॥ ३७॥
वाचामगोचरो योऽसौ मनसोऽथाप्यगोचरः ।
गजाननस्वरूपेण परिदृष्योऽयमीश्वरः ॥ ३८॥
अतस्तेनैव रूपेण सर्वारम्भेषु पूज्यते ।
तमुपासस्व सर्वेशं मया प्रोक्तेन वर्त्मना ॥ ३९॥
इति श्रीगणेशपुराणे उपासनाखण्डे अम्बाविर्भावोनाम अष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८॥
आदितः श्लोकानां समष्ट्यङ्काः २०२३ + ३९ = २०६२
१.४९ गणेश पार्थिवपूजा निरूपणं नामैकोन पञ्चाशत्तमोऽध्यायः
पार्वत्युवाच ।
दयानिधे गिरीन्द्र त्वं पितर्मे वद सत्वरम् ।
उपासनां गणेशस्य सर्वेशस्य जगद्गुरोः ॥ १॥
यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् ।
मर्त्यलोकेऽपि लोकानामुपकारो भविष्यति ॥ २॥
हिमवानुवाच ।
तवस्नेहवशाद्देवि रहस्यं परमं शुभम् ।
लोकानां चोपकाराय वक्ष्ये शृण्वेकचेतसा ॥ ३॥
प्रत्यूषकाल उत्थाय नैऋतीं दिशमाव्रजेत् ।
आच्छाद्य धरणीं पूर्वं तृणकाष्ठदलैरपि ॥ ४॥
उर्वरां वर्जयेत्तिष्ठन्नुत्सर्पन्न्नच बुद्धिमान् ।
त्यक्त्वा मूत्रपुरीषे तु यथोक्तं शौचमाचरेत् ॥ ५॥
दन्तजिव्हाविशुद्धिञ्च कृत्वा स्नातुं ततो व्रजेत् ।
नदीं तडागं वापीं वा सरः कूपमथापि वा ॥ ६॥
कृत्वा पूर्वं मलस्नानं मन्त्रस्नानं ततश्चरेत् ।
मृदा वा चन्दनेनापि तिलकं कुङ्कुमेन वा ॥ ७॥
कुर्याद्धौते वाससी वा परिधाय शुभानने ।
उपविशैकचित्तस्तु सर्वं नित्यं समाप्य च ॥ ८॥
मृत्तिकां सुन्दरां स्निग्धां क्षुद्रपाषाणवर्जिताम् ।
सुविशुद्धामवल्मीकां जलसिक्तां विमर्दयेत् ॥ ९॥
कृत्वा चारुतरां मूर्तिं गणेशस्य शुभां स्वयम् ।
सर्वावयवसम्पूर्णां चतुर्भुजविराजिताम् ॥ १०॥
परश्वादिस्वायुधानि दधतीं सुन्दरां घनाम् ।
स्थाप्य पीठे ततः पाणी प्रक्षाल्य मेलयेत् सुधीः ॥ ११॥
पूजाद्रव्याणि सर्वाणि जलादीनि प्रयत्नतः ।
अष्टगन्धानक्षतांश्च रक्तपुष्पाणि गुग्गुलम् ॥ १२॥
त्रिपञ्चसप्तभिः पत्रैर्युतान् दुर्वाङ्कुरान् शुभान् ।
अष्टोत्तरशतं नीलान् श्वेतानानीय सुन्दरान् ॥ १३॥
घृतदीपं तैलदीपं नैवेद्यं विविधं शुभम् ।
मोदकापूपलड्डूकान् पायसं शर्करायुतम् ॥ १४॥
सूक्ष्मं च तन्दुलान्नं च व्यञ्जनानि बहुनि च ।
सचन्द्रपूगचूर्णाढ्यं खाद्यखादिरसंयुतम् ॥ १५॥
एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितम् ।
जम्ब्वाम्रपनसादीनि द्राक्षारम्भाफलानि च ॥ १६॥
तत्तदृतुभवानीशे नालिकेराणि चानयेत् । (नारिकेलानि)
बहुप्रकारमार्तिक्यं काञ्चनी दक्षिणां तथा ॥ १७॥
एवं सम्भृतसम्भार एकान्तस्थलमास्थितः ।
चैलाजिने कुशमये आसने च कृतासनः ॥ १८॥
भूतशुद्धि प्रकुर्वीत प्राणानां स्थापनं तथा ।
दिग्बन्धपूर्वं देवांश्च गणेशादीन् नमेत्पुरा ॥ १९॥
अन्तर्बहिर्मातृकाश्च न्यसेदागममार्गतः ।
सन्निधानादिका मुद्रा दर्शयेद्गुरूमार्गतः ।
मन्त्रन्यासं ततः कृत्वा षडङ्गन्यासमेव च ॥ २०॥
पूजाद्रव्याणि संशोध्य ततो ध्यायेद् गजाननम् ।
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ॥ २१॥
पाशाङ्कुश धरं देवं मोदकान् बिभ्रतं करैः ।
रक्तपुष्पमयीं मालां कण्ठे हस्ते परां शुभाम् ॥ २२॥
भक्तानां वरदं सिद्धिबुद्धिभ्यां सेवितं सदा ।
सिद्धिबुद्धिप्रदं नॄणां धर्मार्थकाममोक्षदम् ।
ब्रह्मरुद्रहरीन्द्राद्यैः संस्तुतं परमर्षिभिः ॥ २३॥
आगच्छ जगदाधार सुरासुरवरार्चिता ।
अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित ॥ २४॥
स्वर्णसिंहासनं दिव्यं नानारत्नसमन्वितम् ।
समर्पितं मयादेव तत्र त्वं समुपाविश ॥ २५॥
देवदेवेश सर्वेश सर्वतीर्थाहृतं जलम् ।
पाद्यं गृहाण गणप गन्धपुष्पाक्षतैर्युतम् ॥ २६॥
प्रवालमुक्ताफलपुगरत्न ताम्बूलजाम्बूनदमष्टगन्धम् ।
पुष्पाक्षतायुक्तममोघशक्ते दत्तं मयार्घ्यं सफलीकुरुष्व ॥ २७॥
गङ्गादिसर्वतीर्थेभ्यः प्रार्थितं तोयमुत्तमम् ।
कर्पूरैलालवङ्गादिवासितं स्वीकुरु प्रभो ॥ २८॥
चम्पकाशोकबकुलमालतीमोगरादिभिः ।
वासितं स्निग्धताहेतु तैलं चारु प्रगृहयताम् ॥ २९॥
कामधेनु समुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुस्ते पयः स्नानार्थमर्पितम् ॥ ३०॥
धेनुदुग्धसमुद्भूतं शुद्धं सर्वजनः प्रियम् ।
मयाऽऽनीतं दधिवरं स्नानार्थं प्रतिगृह्यताम् ॥ ३१॥
नवनीतसमुत्पन्नं सर्वसन्तोषकारणम् ।
यज्ञाङ्गं देवताहारो घृतं स्नातुं समर्पितम् ॥ ३२॥
पुष्पसारघसम्भूतं सर्वतेजोविवर्धनम् ।
सर्वपुष्टिकरं देव मधुस्नानार्थमर्पितम् ॥ ३३॥
इक्षुसारसमुद्भूतां शर्करां सुमनोहराम् ।
मलापहारिणी स्नातुं गृहाण त्वं मयाऽर्पिताम् ॥ ३४॥
सर्वमाधुर्यसद्हेतुः स्वादुः सर्व प्रियङ्करः ।
पुष्टिकृत् स्नातुमानीत इक्षुसारभवो गुडः ३५॥
कांस्ये कांस्येन पिहितो दधि मध्वाज्यपूरितः ।
मधुपर्को मयाऽऽनीतः पूजार्थं प्रतिगृह्यताम् ॥ ३६॥
सर्वतीर्थाहृतं तोयं मया प्रार्थनया विभो ।
सुवासितं गृहाणेदं सम्यक् स्नातुं सुरेश्वर ॥ ३७॥
रक्तवस्त्रयुगं देव लोकलज्जानिवारणम् ।
अनर्घ्यमतिसूक्ष्मं च गृहाणेदं मयार्पितम् ॥ ३८॥
राजतं ब्रह्मसूत्रं च काञ्चनं रत्नसंयुतम् ।
भक्त्योपपादितं देव गृहाण परमेश्वर ॥ ३९॥
अनेकरत्नयुक्तानि भूषणानि बहूनि च ।
तत्तदङ्गे काञ्चनानि योजयामि तवाज्ञया ॥ ४०॥
अष्टगन्धसमायुक्तं रक्तचन्दनमुत्तमम् ।
द्वादशाङ्गेषु ते देव लेपयामि कृपां कुरू ॥ ४१॥
रक्तचन्दनसम्मिश्रास्तण्डुलास्तिलकोपरि ।
शोभायै सम्प्रदास्यामि गृहाण जगदीश्वर ॥ ४२॥
पाटलं कर्णिकारं च बन्धूकं रक्तपङ्कजम् ।
मोगरं मालतीपुष्पं गृह्यतां परमेश्वर ॥ ४३॥
नानापङ्कजपुष्पैश्च ग्रथितां पल्लवैरपि ।
बिल्वपत्रयुतां मालां गृहाण सुमनोहरम् ॥ ४४॥
दशाङ्गं गुग्गुलं धूपं सर्वसौगन्ध्यकारकम् ।
सर्वपापक्षयकरं त्वं गृहाण मयाऽर्पितम् ॥ ४५॥
सर्वज्ञ सर्वलोकेषु तमोनाशनमुत्तमम् ।
गृहाण मङ्गलं दीपं देवदेव नमोऽस्तु ते ॥ ४६॥
नानापक्वान्नसंयुक्तं पायसं शर्करान्वितम् ।
नानाव्यञ्जन शोभाढ्यं शाल्योदनमनुत्तमम् ॥ ४७॥
दधिदुग्धघृतैर्युक्तं लवङ्गैलासमन्वितम् ।
मरीचिचूर्णसहितं क्वथिकावटकान्वितम् ॥ ४८॥
राजिकाधान्यसंयुक्तं मेथीपिष्टं सतक्रकम् ।
हिङ्गुजीरककूष्माण्डमरीचिमाषपिष्टकैः ॥ ४९॥
सम्पादितैः सुपक्वैश्च भर्जितैर्वटकैर्युतम् ।
मोदकापूपलड्डूकशष्कुलीमण्डकादिभिः ॥ ५०॥
पर्पटैरपि संयुक्तं नैवेद्यममृतान्वित् ।
हरिद्राहिङ्गुलवणसहितं सूपमुत्तमम् ॥ ५१॥
ससामुद्रं गृहाणेदं भोजनं कुरु सादरम् ।
सुतृप्तिकारकं तोयं सुगन्धं च पिबेच्छया ॥ ५२॥
त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि ।
उत्तरापोशनारर्थं ते दद्मि तोयं सुवासितम् ॥ ५३॥
मुखपाणिविशुद्ध्यर्थं पुनस्तोयं ददामि ते ।
दाडिमं मधुरं निम्बुजम्ब्वाम्रपनसादिकम् ॥ ५४॥
द्राक्षा रम्भाफलं पक्वकर्कन्धूखार्जुरं फलम् ।
नारिकेलं च नारङ्गमाञ्जिरं जम्बिरं तथा ॥ ५५॥
उर्वारुकं च देवेश फलान्येतानि गृह्यताम् ।
मुखपाणि विशुद्धयर्थं पुनस्तोयं ददामि ते ॥ ५६॥
गृहाण चन्दनं चारु कराङ्गोद्वर्तनं शुभम् ।
नानापरिमलद्रव्यैर्निर्मितं चूर्णमुत्तमम् ॥ ५७॥
सुगन्धिनामकं पुण्यगन्धि चारु प्रगृह्यताम् ।
चारुशालूरसम्भूतं वंशसारसमुद्भवम् ॥ ५८॥
सीमन्तभूषणं चूर्णं लाक्षारञ्जितमस्तु ते ।
सचन्द्रपूगचूर्णाढ्यं खाद्यखादिर संयुतम् ॥ ५९॥
एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितम् ।
न्यूनातिरिक्तपूजायाः सम्पूर्णफलहेतवे ॥ ६०॥
दक्षिणां काञ्चनीं देव स्थापयामि तवाग्रतः ।
सितपीतैस्तथारक्तैर्जलजैः कुसुमैः शुभैः ॥ ६१॥
ग्रथितां सुन्दरां मालां गृहाण परमेश्वर ।
हरिताः श्वेतवर्णा वा पञ्चत्रिपत्रसंयुताः ॥ ६२॥
दूर्वाङ्कुरा मया दत्ता एकविंशतिसम्मिताः ।
एकविंशति सङ्ख्याकाः कुर्वे देवप्रदक्षिणाः ॥ ६३॥
पदे पदे ते देवेश नश्यन्तु पातकानि मे ।
औदुम्बरे राजते वा कांस्ये काञ्चनसम्भवे ॥ ६४॥
पात्रे प्रकल्पितान् दीपान् गृहाण चक्षुरर्पकान् ।
पञ्चारार्ति पञ्चदीपैर्दीपितां परमेश्वर ॥ ६५॥
चारुचन्द्रनिभं दीपं गृहाण वीचिवारणम् ।
यथाऽस्य नेक्ष्यते भस्म तथा पापं विनाशय ॥ ६६॥
स्तोत्रैर्नानाविधैः सूक्तैः सहस्रनामभिस्ततः ।
उपविश्य स्तुवीतैनं कृत्वा स्थिरतरं मनः ॥ ६७॥
दीनाधीश दयानिधे सुरगणैः संसेव्यमान द्विज
ब्रह्मेशानमहेन्द्रशेषगिरिजागन्धर्वसिद्धैः स्तुत ।
सर्वारिष्टनिवारणैकनिपुणः त्रैलोक्यानाथं प्रभो
भक्तिं मे सफलां कुरुष्व सकलां क्षान्त्वाऽपराधान्मम ॥ ६८॥
इति मूर्ति समभ्यर्च्य दण्डवत्प्रणिपत्य च ।
जपेन्मन्त्रं ततो देवि सर्वसिद्धि प्रदायकम् ॥ ६९॥
इति श्रीगणेशपुराणे उपासनाखण्डे गणेशपार्थिवपूजानिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
आदितः श्लोकानां समष्ट्यङ्काः २०६२ + ६९ = २१३१
१.५० हिमवद्गिरिजा संवादे चतुर्थीव्रत कथनं नाम पञ्चाशत्तमोऽध्यायः
पार्वत्युवाच ।
अहं मन्त्रे न जानामि गिरीन्द्र मे वद स्वयम् ।
अनुग्रहं गणेशस्य यामि यामि शिवं शिवम् ॥ १॥
हिमावानुवाच ।
मन्त्रा नानाविधा देवि नानासिद्धि प्रदायकाः ।
असङ्ख्याता गणेशस्य कांश्चित्तेषु वदामि ते ॥ २॥
कृत्वा पद्मासनं सम्यक् नियम्य खानि सर्वशः ।
कृत न्यासविधिः पश्चाज्जपं कुर्यानिजेच्छया ॥ ३॥
एकाक्षरस्य मन्त्रस्य लक्षं लक्षार्धमेव च ।
षडक्षरस्य मन्त्रस्य नियुतं चायुतं तथा ॥ ४॥
तथा पञ्चाक्षरस्यापि दशाष्टाक्षरयोरपि ।
अष्टाविंशद्वर्णमन्त्रो जप्तव्योऽयुतसङ्ख्यया ॥ ५॥
एवं नानाविधान्मन्त्रान् जपन्ति स्वेष्टसिद्धये ।
त्वं तु पार्वति मे वाक्यं शृणुष्वैकाग्रमानसा ॥ ६॥
एकाक्षरं षडर्णञ्च गृहाण मन्त्रमुत्तमम् ।
नभः शुक्ल चतुर्थ्यां त्वमारम्भं कुरु सुव्रते ॥ ७॥
अनुष्ठानं मासमानं कुरु कार्यं भविष्यति ।
शिवं प्राप्स्यसि सुव्यक्तमन्यद्यच्चापि वाञ्छितम् ॥ ८॥
पार्थिवी पूजिता मूर्तिः स्त्रिया वा पुरुषेण वा ।
एका ददाति सा काम्यं धनपुत्रपशूनपि ॥ ९॥
असाध्यं साधयेन्मर्त्यो मूर्तिद्वयप्रपूजनात् ।
त्रिमूर्तिपूजनाद्राज्यं रत्नानि सर्वसम्पदः ॥ १०॥
चतुमूर्तेः पूजयेद्यो धर्मार्थकाममोक्षभाक् ।
सार्वभौमो भवेद्राजा पञ्चमूर्तिप्रपूजनात् ॥ ११॥
षण्मूर्तिपूजया सृष्टिस्थितिप्रलयकृद्भवेत् ।
सप्ताष्टनवमूर्तिनां पूजया सर्वविद् भवेत् ॥ १२॥
भूतं भव्यं भविष्यं च वेत्ति देवप्रसादतः ।
त्रयस्त्रिंशत्कोटिदेवा वह्नीन्द्रशिवविष्णवः ॥ १३॥
सनकाद्या मुनिगणाः सेवन्ते दशपूजनात् ।
एकादशार्चनादेव दशरुद्राधिपो भवेत् ॥ १४॥
द्वादशादित्य राज्यं च लभेच्च द्वादशार्चनात् ।
अतिसङ्कटवेलासु कुर्याद् वृद्ध्या प्रपूजनम् ॥ १५॥
अष्टोत्तरशतं यावत्तावत् तत्तदवाप्नुयात् ।
महामुक्तिमवाप्नोति लक्षपूजनतोऽन्वहम् ॥ १६॥
कारागृहान्मुक्तिकामः कारयेन्मूर्तिपञ्चकम् ।
त्रिःसप्तरात्रान्मुच्येत गणेशानुग्रहान्मुने ॥ १७॥
सप्तमूर्तिः प्रकुरर्वीत प्रत्यहं पञ्चवत्सरम् ।
महापापात् प्रमुच्येत गणेशे भक्तिमान्नरः ॥ १८॥
आजन्ममरणादेकां पूजयेत् पार्थिवीं नरः ।
गणेशः स तुविज्ञेयो दर्शनाद् विघ्ननाशनः ॥ १९॥
तमेव सर्वकामेष पूजयेन्न गणाधिपम् ।
तस्यैव पूजया प्रीतो न देवः स्यात्तथा स्वयम् ॥ २०॥
सर्वरोग प्रपीडासु मूर्तीनां त्रयमुत्तमम् ।
नवाहं पूजयेद्यस्तु सर्वपीडां व्यपोहति ॥ २१॥
सौवर्णी राजती ताम्रीरीतिकांस्य समुद्भवा ।
मौक्तिकी च प्रवाली च सर्वमेतत् प्रयच्छति ॥ २२॥
एवं कृते व्रते देवि सर्वान कामानवाप्स्यसि ।
यावद् भाद्रपदे मासि चतुर्थी परिलभ्यते ॥ २३॥
तस्यां महोत्सवः कार्यो यथा विभवमादरात् ।
रात्रौ जागरणं कार्यं तत्कथावाद्यगायनैः ॥ २४॥
प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद् विभुम् ।
गणेशं वरदं देवं ततो होमं समारभेत् ॥ २५॥
कुण्डे साङ्गे स्थण्डिले वा हूयाज्जपदशांशतः ।
पूर्णाहुतिं ततः कुर्याद् बलिदानपुरःसरम् ॥ २६॥
आचार्यं पूजयेत् पश्चात् गोभूवासोधनादिभिः ।
ब्राह्मणां स्तोषयेत् पश्चाद्धोमशेषं समापयेत् ॥ २७॥
तर्पयेत्तद्दशांशेन तद्दशांशेन भोजयेत् ।
ब्राह्मणान् वेदविदुषः सपत्नीकांश्च कांश्चन ॥ २८॥
तेभ्यो भूषणवासांसि दद्याच्छक्त्या च दक्षिणाम् ।
दद्यात् स्त्रीणामलङ्कारान् योषिद्भ्यश्च सकञ्चुकान् ॥ २९॥
तुष्टये गणनाथस्य सिद्धिबुद्धियुतस्य ह ।
वित्तशाठयं न कुर्वीत यथाविभवमाचरेत् ॥ ३०॥
ततः सुहृज्जनयुतः स्वयं भुञ्जीत सादरम् ।
अपरस्मिन्दिने मूर्तिं नृयाने स्थापयेन्मुदा ॥ ३१॥
छत्रध्वजपताकाभिश्चामरैरूपशोभिताम् ।
किशोरैर्दण्डयुद्धेन युध्यद्धिश्च पुरःसरम् ॥ ३२॥
महाजलाशयं गत्वा विसृज्य निनयेज्जले ।
वाद्यगीतध्वनियुतो निजमन्दिरमाव्रजेत् ॥ ३३॥
इति श्रीगणेशपुराणे उपासनाखण्डे हिमवद्गिरिजासंवादे चतुर्थीव्रतकथनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५०॥
आदितः श्लोकानां समष्ट्यङ्काः २१३१+३३ = २१६४
१.५१ हिमवत् पार्वती संवादो नामक पञ्चाशत्तमोऽध्यायः
पार्वत्युवाच ।
तव वाक्यामृतेनाऽहं पितः प्रीताऽस्मि साम्प्रतम् ।
परन्तु संशयो मेऽस्ति तं नुदस्व हिमालय ॥ १॥
केन केन कृतं पूर्वं व्रतमेतन् महीधरः ।
आख्यातं केन वा कस्मै कः कां सिद्धिमितोऽगमत् ॥ २॥
एतत्सविस्तरं ब्रूहि संशयच्छेदनाय मे ।
यश्च पृच्छति यो वक्ति गजाननकथा शुभाः ॥ ३॥
शृणोत्यन्योऽपि यो मर्त्यस्त्रयस्ते पुण्यभागिनः ।
जीवितं सफलं तेषां जन्म ज्ञानं च कर्म च ॥ ४॥
ब्रह्मोवाच ।
एवं तया कृत प्रश्नो हिमवानभ्यभाषत ।
वरदस्य गणेशस्य नानाजनकृतं व्रतम् ॥ ५॥
हिमवानुवाच ।
शृणु पार्वति वक्ष्यामि संवादं ते पुरातनम् ।
सेतिहासं व्रतस्यास्य सर्वसिद्धिकरस्य ह ॥ ६॥
कैलासे गिरिवर्ये तु सुखासीनं जगद्गुरुम ।
क्रीडमानं मुदा देवैर्गन्धर्वैः परमर्षिभिः ॥ ७॥
नत्वा स्तुत्वा महातेजाः परिपप्रच्छ षण्मुखः ॥ ८॥
स्कन्द उवाच ।
देवदेव जगन्नाथ भक्तानामभयङ्कर ।
नानाख्यानानि दिव्यानि श्रुतानि त्वत्प्रसादतः ॥ ९॥
तृप्तिं तात न गच्छामि पायं पायं सुधामिव ।
अधुना ब्रूहि मे देव व्रतं सर्वार्थसिद्धिदम् ॥ १०॥
अनुष्ठानेन यस्याथ करस्था सिद्धयो नृणाम् ।
जायन्ते साधकानां तु वरदस्य प्रसादतः ॥ ११॥
शिव उवाच ।
साधु पृष्टं त्वया स्कन्द सर्वेषां हितकारकम् ।
कथयामि तव प्रीत्या महासिद्धिप्रदं भुवि ॥ १२॥
विनायकप्रियं तात व्रतानामुत्तमं व्रतम् ।
सर्वेषां पुरुषार्थानां साधकं कृत्तिकात्मज ॥ १३॥
विनायज्ञैस्तथा दानैर्जपहोमादिभिर्विना ।
सर्वसिद्धिकरं स्कन्द पुत्रपौत्रप्रवर्धनम् ॥ १४॥
राजानं राजपुत्रं वा तन्मन्त्रिणमथाऽपि वा ।
वशमानयति क्षिप्रं व्रतमेतन्मऽहत्तमम् ॥ १५॥
महापापोपपापैश्च बहुजन्मसु सञ्चितैः ।
व्रतस्यास्य प्रभावेण तैः पुमान् मुच्यते क्षणात् ॥ १६॥
भाजनं सर्वसिद्धीनां जायते मानवो भुवि ।
प्रीतिदं तु गणेशस्य नानेन सदृशं क्षितौ ॥ १७॥
स्कन्द उवाच ।
तात कस्मिन् भवेन्मासि व्रतमेतन्महोत्तमम् ।
विधानं कीदृशं चास्य केन वाऽऽचरितं पुरा ॥ १८॥
सर्वमेतन्ममाचक्ष्व यद्यस्ति करुणा मयि ।
शिव उवाच ।
नभः शुक्ल चतुर्थ्यान्तु स्नात्वा गुरुगृहं व्रजेत् ।
प्रणम्य तं गुरुं पश्चात्पूजयित्वा यथाविधि ॥ १९॥
पाद्याचमनवस्त्राद्यैर्भूषणश्च महत्तरैः ।
तोषयित्वा तु तं सम्यगाज्ञया प्रारभेद् व्रतम् ॥ २०॥
सर्वसिद्धिकरं तात व्रतं गाणेश्वरं गुरो ।
त्वमेव श्रीगणेशोऽसि दिशकामप्रदं प्रभो ॥ २१॥
उपदिष्टे व्रते तेन सार्धं गङ्गातटं व्रजेत् ।
तडागं वा देवखातं तत्र स्नायाद् यथाविधि ॥ २२॥
श्वेतसर्षपयुक्तेन तिलकल्केन षण्मुख ।
स्नात्वा धात्रीयुतेनेह कृत्वा नित्यं गृहं व्रजेत् ॥ २३॥
उपविश्यासने शुद्धे पूजयित्वा गणाधिपम् ।
गुरुपदिष्टमार्गेण व्रतं पश्चात् समारभेत् ॥ २४॥
मृदा मूर्तिं गणेशस्य चतुर्थ्यां श्रावणस्य तु ।
प्रत्यहं पूजयेत्कृवा यावद्भाद्रचतुर्थिका ॥ २५॥
ब्रह्मचर्यव्रते स्थित्वा कर्तव्यं व्रतमुत्तमम् ।
उपवासैक भक्ताभ्यां नक्तेनायाचितेन वा ॥ २६॥
चतुर्थकाले भुञ्जीत हविष्यान्नं समाहितः ।
अक्षरं मधुरं भुञ्जन् भक्तिमानाचरेद्व्रतम् ॥ २७॥
जपन् गाणेश्वरीं विद्यां षडानन षडक्षरीम् ।
द्विचतुरक्षरां वापि तथैवैकाक्षरामपि ॥ २८॥
दशाक्षरामथ स्कन्द द्वादशार्णामथापि वा ।
नियुतं वाऽयुतं वापि प्रत्यहं जप इष्यते ॥ २९॥
तदर्धं वा तदर्धं वा दशांशं होममाचरेत् ।
ध्यायन् गजाननं देव महोरात्रमतन्द्रितः ॥ ३०॥
प्राप्ते प्रोष्ठपदे मासि चतुर्थ्यां तु गजाननम् ।
सौवर्णपलमानेन तदर्धार्धेन वा पुनः ॥ ३१॥
मयूरवाहनं कुर्यादथवाऽऽखुगतं शुभम् ।
कृत्वा मण्डपिकां तत्र धान्यराशिं प्रकल्पयेत् ॥ ३२॥
सौवर्णं राजतं ताम्रं कलशं स्थापयेत् ततः ।
तस्योपरि न्यसेत्पात्रं रुक्मराजतताम्रकम् ॥ ३३॥
वस्त्रयुग्मेन संवेष्ट्य सपात्रं कलशं ततः ।
पञ्चपल्लव संयुक्तं पञ्चरत्नसमन्वितम् ॥ ३४॥
पीठपूजां पुरा कृत्वा स्थापयेत्तत्र तं विभुम् ।
मूलमन्त्रैश्च वेदोक्तैः पूर्वोक्तैरपि षण्मुख ॥ ३५॥
ध्यात्वा गजाननं देवमावाह्य परया मुदा ।
आसनं च तथा पाद्यं दद्यादाचमनीयकम् ॥ ३६॥
अर्घ्यं रत्नयुतं स्कन्द स्नानं पञ्चामृतैः शुभम् ।
सुवासिताभिरद्भिश्च स्नापयेत् परमेश्वरम् ।
रक्तवस्त्रयुगं दद्यादुपवीतं तथोत्तमम् ॥ ३७॥
नानाविधैराभरणैर्भूषयेत् परमेश्वरम् ।
गन्धाक्षतैर्धूपदीपैर्नैवेद्येर्विविधैरपि ॥ ३८॥
वटकापूपलड्डूकशाल्यन्नपायसादिभिः ।
पञ्चामृतैर्व्यञ्जनैश्च भोजयेत् परमेश्वरम् ॥ ३९॥
उद्वर्तन करे दद्यात् फलं ताम्बूलमेव च ।
काञ्चनीं दक्षिणां दद्याच्छत्रं व्यञ्जनचामरे ॥ ४०॥
नीराजनं मन्त्रपुष्पं दत्वा स्तोत्राण्युदीरयेत् ।
सहस्रनामभिः स्तुत्वा ब्राह्मणान् पूजयेत्ततः ॥ ४१॥
रात्रौ जागरणं कृत्वा गीतनृत्यादि मङ्गलैः ।
प्रभाते विमले स्नात्वा नित्यं कृत्वा यथाविधि ॥ ४२॥
पूजयेत्पूर्ववद्देवं ततो होमं समाचरेत् ।
द्रवैर्नानाविधैर्हुत्वा कुर्यादाचार्यपूजनम् ॥ ४३॥
गोभूतिलहिरण्याद्यं गुरवे तन्निवेदयेत् ।
अन्येभ्यो ब्राह्मणेभ्यश्च प्रदद्याद् भूरि दक्षिणाम् ॥ ४४॥
ब्राह्मणान् भोजयेत् पश्चाच्छतमष्टोत्तरं तथा ।
अधिकान् यदि शक्तिश्चेदथवाऽप्येकविंशतिम् ॥ ४५॥
दीनान्धकृपणेभ्यश्च दद्यादन्नं सपायसम् ।
पुनश्च दक्षिणां दद्यात् प्रगृह्याशिषमुत्तमाम् ॥ ४६॥
सुहृद्बन्धुयुतो मौनी स्वयं भुञ्जीत सादरम् ॥ ४७॥
शिव उवाच ।
एवं ते कथितं स्कन्द वरदस्य व्रतं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वकामफलप्रदम् ॥ ४८॥
पुरातनमितिहासास्मिन्नर्थे वदामि ते ।
महाधर्मपरो राजा पुराऽभूत् कर्दमाभिधः ॥ ४९॥
पालयामास वसुधां सागरान्तां स्वतेजसा ।
गुणैर्यस्य हृता देवा नित्यं यत्सदसि स्थिताः ॥ ५०॥
कदाचिद् दैवयोगेन भृगुस्तस्य गृहं ययौ ।
तत उत्थाय राजा स बहुमान पुरःसरम् ॥ ५१॥
उपविश्यासने श्रेष्ठे पूजितो गुरुवत् ततः ।
भुक्त्वा स्थितं मुनिवरं राजा वचनमब्रवीत् ॥ ५२॥
राजोवाच ।
भगवन् सर्वतत्त्वज्ञ किञ्चित् पृच्छामि तद् वद ।
पूर्वजन्मनि कश्चाहं किं मया सुकृतं कृतम् ॥ ५३॥
येनेदृशं मया राज्यं प्राप्तं निहतकण्टकम् ।
प्राप्तं नैव नृपैरन्यैर्न च प्राप्स्यन्ति चापरे ॥ ५४॥
देवानामपि पूज्योऽहं गन्धर्वोरगराक्षसाम् ।
कुबेरसम्पदा तुल्यां सम्पदं पश्यमे मुने ॥ ५५॥
त्रिलोक्यां रत्नभूतं यत् तदानीतं स्वतेजसा ।
यं यं पदार्थमिच्छामि तं तं पश्यामि वेश्मनि ॥ ५६॥
केनेत्थं कर्मणा प्राप्तं तद् वदस्व मम प्रभो ।
कामये तत्पुनः कर्तुं पुण्यं पुण्यवतां वर ॥ ५७॥
भृगुरुवाच ।
कथयामि नृपश्रेष्ठ प्रणिधानबलादहम् ।
त्वमासीः पूर्वजनुषि क्षत्रियो दुर्बलः शुचिः ॥ ५८॥
कुटुम्बभरणार्थं त्वं नानाकर्माण्यथाकरोः ।
क्रियमाणं च तत्कर्म न चासीत् फलदं तव ॥ ५९॥
अत्यन्तनिष्ठुरैर्वाकैर्दारापत्यैश्च पीडितः ।
अपृष्ट्वा पुत्रदारांस्त्वं गतवान् गहनं वनम् ॥ ६०॥
विभ्रमन् दिक्षु सर्वासु दृष्टवानसि सौभरिम् ।
सिद्धासने समासीनं सेवितं मुनिपुङ्गवैः ॥ ६१॥
कथयन्त महाविद्यां शिष्येभ्यो दुःखनाशिनीम् ।
दृष्ट्वा तं सौभरिं दिव्यमन्यांश्चर्षिगणान्नृप ॥ ६२॥
दण्डवत् पतितोऽसि त्वं भुवि तैश्चाभिनन्दितः ।
उपविष्टः स्वासने च मुनिना तेन दर्शिते ॥ ६३॥
पृष्टवानसि तं दिव्यं लब्ध्वाऽवसरमादृतः ।
क्षत्रिय उवाच ।
स्वामिन् संसारदुःखेन बहुधा क्लेशितो मुने ॥ ६४॥
दारापत्यसुहृद्भिश्च वाग्बाणैर्भृशताडितः ।
न वैराग्यं मनो याति निष्ठुरेषु सुहृत्सु च ॥ ६५॥
शीतोष्णक्षुत्पिपासाभिः पीडितोऽपि भृशं मुने ।
उपायं वद मे किञ्चिद्दुःखसागरतारकम् ॥ ६६॥
शिव उवाच ।
इति श्रुत्वा वचस्तस्य सौभरिः कृपया युतः ।
उपायं चिन्तयामास नृपदुःखविनाशनम् ॥ ६७॥
ततस्तं क्षत्रियं प्राह सर्वपापविमोचनम् ।
ऋषिरुवाच ।
व्रतं यत्कथयिष्यामि कुरु निश्चितमानसः ॥ ६८॥
यस्यानुष्ठानमात्रेण सर्वदुःखलयो भवेत् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तथा ब्रह्मर्षिभिः कृतम् ॥ ६९॥
मुक्तास्ते सर्वदुःखेभ्यः प्राप्ताः सिद्धिमनुत्ताम् ।
वरदस्य गणेशस्य धर्मार्थकाममोक्षदाम् ॥ ७०॥
क्षत्रिय उवाच ।
कोऽसौ गणेशः किंशीलः किंरुपः किस्वभाववान् ।
किं कर्मा कथमुत्पन्नस्तत्सर्वं कथयस्व मे ।
यदि मे श्रवणायालं यद्यनुग्राहयता मयि ॥ ७१॥
ऋषिरुवाच ।
यद्ब्रह्म नित्यं विरजं विशोकं ज्ञानस्वरूपं परमार्थभूतम् ।
अनादिमध्यान्तमनन्तपारं गणाधिपं तं प्रवदन्ति सन्तः ॥ ७२॥
यस्मादोङ्कारसम्भूतिर्यतो वेदा यतो जगत् ।
येन सर्वमिदं व्याप्तं तं विद्धि गणनायकम् ॥ ७३॥
जगत्सर्जनकामेन ब्रह्मणा यस्य तुष्टये ।
अब्दानां तु शतं पूर्णं तपस्तप्तं सुदुष्करम् ॥ ७४॥
ततो हृष्टमना वेधाः प्रसन्नं तमपूजयत् ।
नानाविधोपचारैश्च दिव्यरत्नैः फलैस्तथा ॥ ७५॥
सिद्धिबुद्धी उभे कन्ये मनसा कल्पिते ददौ ।
तुष्टो देवो ददौ तस्मै विद्यामेकाक्षरीं विभुः ॥ ७६॥
ततो लब्धावरो ब्रह्मा चकार सकलं जगत् ।
षडक्षरेण मन्त्रेण विष्णुना तोषितः पुरा ॥ ७७॥
कृत्वा मूर्तिं गणेशस्य पूर्वोक्तविधिना व्रतम् ।
अव्यङ्गं वर्षमेकं तु नियमान् कृतवान् हरिः ॥ ७८॥
वरं लब्ध्वा गणेशात्तु पालयामास वै जगत् ।
एवं विधं विजानीहि गणेशं भुवि संस्तुतम् ॥ ७९॥
विश्वरुपमनादिं च सर्वकारणकारणम् ।
तमाराधय यत्नेन सर्वदुःखाद् वियुङ्क्ष्यसे ॥ ८०॥
क्षत्रिय उवाच ।
कस्मिन्काले प्रकर्तव्यमेतद्व व्रतमनुत्तमम् ।
विधिना केन मे ब्रूहि साम्प्रतं मुनिसत्तम ।
करिष्ये वचनात्तेऽहं सर्वदुःख प्रशान्तये ॥ ८१॥
मुनिरुवाच ।
श्रावणेऽबहुले पक्षे चतुर्थ्यामारभेद् व्रतम् ।
कुर्वीत परया भक्त्या यावद् भाद्रचतुर्थिका ।
उपचारैः षोडशभिः पार्थिवं गणनायकम् ।
प्रत्यहं पूजयेद् भक्त्या ब्राह्मणान् भोजयेत् ततः ॥ ८२॥
त्वमेतत् कुरु भूपाल सर्वान्कामानवाप्स्यसि ।
इति श्रुत्वा व्रतं तस्मात् कृतवानसि सुव्रत ॥ ८३॥
समाप्ते तु व्रते तत्र सौभर्याश्रममण्डले ।
तावत् तस्य गृहं दिव्यं गणेशस्य प्रसादतः ॥ ८४॥
दिव्यनारीनरयुतं दासीदाससमन्वितम् ।
वेदघोषसमायुक्तं जातं गोधनसङ्कुलम् ॥ ८५॥
दिव्यवस्त्रसमायुक्ता नानालङ्कारसंयुता ।
अपत्यैस्तादृशैर्युक्ता विस्मिताऽऽसीत् प्रतीक्षती ॥ ८६॥
आयास्यति कदा भर्तेत्येवं चिन्ता पराऽभवत् ।
तावत्त्वं मुनिमामन्त्र्य गतोऽसि निजमालयम् ॥ ८७॥
दिव्यं तच्छरणं हित्वा स्वगृहं परिमार्गयन् ।
तावद् भार्याप्रेषितास्त्वां निन्युस्तद्भवनं नराः ॥ ८८॥
ततस्त्वयाऽपि विज्ञातः प्रभावो वरदस्य सः ।
तद्वतस्य प्रभावेण राज्यभागिहजन्मनि ॥ ८९॥
शिव उवाच ।
इति श्रुत्वा भृगोर्वाक्यं कर्दमो हर्षनिर्भरः ।
चकार सकलं राजा भृगुणा यत्समीरितम् ॥ ९०॥
व्रतस्यास्य प्रभावेण ज्ञानवैराग्यवान्नृपः ।
भुक्त्वा भोगान् यथाकामं स्थाप्य पुत्रान्निजे पदे ॥ ९१॥
गतो गाणेश्वरं धाम यतो नावर्तते पुनः ।
सर्वार्थमाधकं स्कन्द व्रतानां व्रतमुत्तमम् ॥ ९२॥
नैतादृशं व्रतं दानं श्रुतमन्यत्कदाचन ।
सर्वार्थसाधकं स्कन्द व्रतं कुरु यदीच्छसि ॥ ९३॥
देवदानवगन्धर्वैः ऋषिभिर्मनुजैः कृतम् ।
दमयन्त्या नलेनापि राज्ञा चन्द्राङ्गदेन च ॥ ९४॥
सम्प्राताः सर्वकामांस्ते गता गाणेश्वरं पदम् ।
गिरिरुवाच ।
इति ते कथितं सर्वं सेतिहासं व्रतं महत् ।
कुरु त्वं मनसा ध्यात्वा वरदं गणनायकम् ॥ ९५॥
व्रतमेतन्महाभागे शङ्करं प्राप्स्यसे ततः ।
स्नेहेन कथितं तेऽद्य प्रकाशं कुरु मा व्रतम् ॥ ९६॥
इति श्रीगणेशपुराणे उपासनाखण्डे हिमवत्पार्वती संवादो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥
आदितः श्लोकानां समष्ट्यङ्काः २१६४ + ९६ = २२६०
१.५२ नलव्रत निरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः
पार्वत्युवाच ।
नलेनेदं कृतं कस्मात् को नलो वद मे पितः ।
मनोविश्रान्तिमायाति शृण्वन्त्या मे कथानकम् ॥ १॥
हिमवानुवाच ।
निषधेषु महाराजो नलो नामाऽभवत्पुरा ।
ब्रह्मण्यो वेदविच्छूरो दानी मानी धनी मुनिः ॥ २॥
रथी खड्गी शरी चापी निषङ्गी कवची बली ।
कृतास्रो देवपूज्यश्च त्रिलोकीगमनः शुचिः ॥ ३॥
शेषोऽपि मूकतां याति वर्णितुं यद्गुणानपि ।
न सङ्ख्या विद्यतेऽश्वानां गजानां रथिनां तथा ॥ ४॥
धानुष्काणां शस्त्रभृतां अग्निशस्त्रभृतामपि ।
चकम्पुर्यद्भयाद्देवा इन्द्राद्याः सदिगीश्वराः ॥ ५॥
दमयन्तीति भार्याऽऽसीद्यस्य सौन्दर्यमन्दिरम् ।
दमयित्वाऽखिलान् ब्रह्मा सारं सारं प्रगृह्य च ॥ ६॥
दमयन्तीति विख्याता यतस्तेनेति निर्मिता ।
दमयन्त्यै त्रिलोकस्थ नारीणां चारुतामदात् ॥ ७॥
नानालङ्कार संयुक्ता नानामणिविभूषिता ।
मुक्ताहारलसत्कण्ठा सद्गुणाढ्या सुशोभना ॥ ८॥
यस्यामात्यो महानासीत् पद्महस्तः पराक्रमी ।
बुद्धया बृहस्पतिसमो नयेनाङ्गिरसा समः ॥ ९॥
तुङ्गत्वे मेरुसदृशो गाम्भीर्ये चोदधेः समः ।
कदाचिदुपविष्टोऽसौ नलो राजा महामनाः ॥ १०॥
निषसाद सभागेहे नृपमण्डल मध्यगः ।
नृत्यन्त्यप्सरस्तस्य पुरतश्चारुदर्शनाः ॥ ११॥
स्तुवन्ति वन्दिनस्तं च ब्रह्मर्षिगणसंयुतम् ।
एतस्मिन्नेव काले तु गौतमौ नृपतिं ययौ ॥ १२॥
उत्थाय सादरं राज्ञा स्वासने विनिवेशितः ।
पूजितः परया भक्त्या ततः पप्रच्छ तं नलः ॥ १३॥
नल उवाच ।
स्वामिन्ननुगृहीतस्ते दर्शनेन महामुने ।
जन्म राज्यं पिता माता कुलं जीवितमद्य मे ॥ १४॥
सफलं स्वागमे हेतुं वदतूर्णं महामुने ।
गौतम उवाच ।
ममासीन्महती वाञ्छा द्रष्टुं ते वैभवं नृप ॥ १५॥
स्तुवन्ति देवाः स्वर्गस्था ब्रह्मेन्द्रहरिशूलिनः ।
धन्योऽसि मर्त्यलोकस्थो मर्त्यैर्देवैश्च शस्यसे ॥ १६॥
नित्यतृप्तोऽप्यहं तृप्तः पूजां दृष्ट्वा च वैभवम् ।
इदानीमनुजानीहि गमिष्ये स्वाश्रमं प्रति ॥ १७॥
नृप उवाच ।
वेदवेदाङ्गविद्ब्रह्मन् सर्वशास्त्रप्रवर्तक ।
दयानिधे क्षणं स्थित्वा छिन्धि मे संशयं मुने ॥ १८॥
मुनिरुवाच ।
साधु पृष्टं महाराज स्थितोऽहं स्नेहभावतः ।
नागा नृपाश्च देवाश्च यत्ते नाज्ञाविलङ्घिनः ॥ १९॥
नृप उवाच ।
ममैव विस्मयो ब्रह्मन् निरीक्ष्य वैभवं स्वकम् ।
इत्थं ममाभवत्केन पुण्येन तपसाऽपि वा ॥ २०॥
वद तत्त्वेन कश्चाहमभवं पूर्वजन्मनि ।
मुनिरुवाच ।
गौण्डदेशात्परे देशे पुरे पिप्पलसंज्ञिके ॥ २१॥
त्वमासीः क्षत्रियः पूर्वं दरिद्रो ज्ञानवान् शुचिः ।
जायापत्यैः सुहृद्भिश्च वाक्शरैस्ताडितो भृशम् ॥ २२॥
रात्रावपृष्ट्वा सर्वांस्त्वं निर्वेदाद्गहनं वनम् ।
गतवान्वृक्षवल्लीभिः सिंहव्याघ्रगजैर्मृगैः ॥ २३॥
सेवितं शीतलजलैः सरोभिर्जलजादिभिः ।
आश्रमोऽथ त्वयाऽदर्शि भ्रमता भ्रमता वने ॥ २५॥
तपोनिधेः कौशिकस्य वेदघोषनिनादितः ।
तत्र गत्वा मुनिं तं त्वं प्रणतो भक्तिभावतः ॥ २५॥
उत्थापितः कौशिकेन दीनानाथदयावता ।
दुःखितं त्वां विदित्वा स आशीर्वादमवीवदत् ॥ २६॥
गजाननो मे देवेशो भविता ते शुभङ्करः ।
श्रुत्वा तदाशिषं सौम्यां प्राप्तोऽसि परमां मुदम् ॥ २७॥
पुष्टवानसि तं विप्रमुपायं सर्वकामदम् ।
दारिद्रयनाशकं राजन् भुक्तिमुक्तिप्रदं शिवम् ॥ २८॥
गणेशाराधनं तुभ्यं कथयामास कौशिकः ।
कौशिक उवाच ।
व्रतं कुरु गणेशस्य मासमात्रं नराधिप ॥ २९॥
कुरु मूर्तिं गणेशस्य मृन्मयीं चारुदर्शनाम् ।
पूर्वोक्त विधिना पूजां कुरु शृणु कथानकम् ॥ ३०॥
दिने दिने मासमात्रं ततः सिद्धिमवाप्स्यसि ।
मुनिरुवाच ।
इति श्रुत्वा कौशिकं तं पप्रच्छ भूमिपः पुनः ॥ ३१॥
नृप उवाच ।
गजाननं न जानामि तत्स्वरूपं वदस्व मे ।
ज्ञात्वा तं देवदेवेशं करिष्ये व्रतमुत्तमम् ॥ ३२॥
मुनिरुवाच ।
इति तेन कृते प्रश्ने जगाद मुनिसत्तमः ।
अनिर्वाच्यस्वरूपस्य परब्रह्मस्वरुपिणः ॥ ३३॥
वैकारिकस्वरुपाणि गजाननकृतानि तम् ॥ ३४॥
कौशिक उवाच ।
यः कर्ता सर्वलोकानां पिता माता जगद्गुरुः ।
ब्रह्मेन्द्रशिवविष्णूनां ध्येयो यः स गजाननः ॥ ३५॥
मुनिरुवाच ।
इति श्रुत्वा तु तद्वाक्यं प्रणिपत्य मुनीश्वरम् ।
अनुज्ञातस्ततस्तेन गतोऽसि निजमन्दिरम् ॥ ३६॥
आरभ्य श्रावणे शुद्ध चतुर्थ्यां व्रतमुत्तमम् ।
कृतवान् मृन्मयीं मूर्तिं गणेशस्य यथोदिताम् ॥ ३७॥
स्थाने च वचने मौने गमने शयने भुजि ।
ध्यायन्गजाननं देवं प्रायाः सिद्धिमनुत्तमाम् ॥ ३८॥
नानागजरथाश्वाद्यैर्गोधनैर्धनसञ्चितैः ।
दासीदासयुतः श्रीमान् जातो व्रतप्रभावतः ॥ ३९॥
दत्तवानसि दानानि सर्वाणि देवतुष्टये ।
गणेशस्य महामौल्यं प्रासादं कृतवान्मुदा ॥ ४०॥
भुक्त्वा भोगान् यथाकामं कालेन निधनं गतः ।
जातोऽसि निषधे देशे नृपस्त्वं नलनामकः ॥ ४१॥
अतस्त्वय्यचला लक्ष्मीस्त्रिलोकीजनवन्दिते ।
इदानीमनुजानीहि यत्पृष्टं तन्निरूपितम् ॥ ४२॥
हिमवानुवाच ।
एवं गते गौतमे तु व्रतं चक्रे नलो नृपः ।
तद्वाक्याज्जातविश्वासो मूर्तिं कृत्वा सुशोभनाम् ॥ ४३॥
श्रुत्वा कथां गणेशस्य प्रत्यहं पूज्य भक्तितः ।
अलभत् सर्वकामान् स व्रतस्यास्य प्रभावतः ॥ ४४॥
इति ते कथितं कन्ये नलेनेत्थं कृतं व्रतम ।
उपदिष्टं गौतमेन पूर्वजन्मकृतं व्रतम ॥ ४५॥
यस्य प्रभावः सम्पूर्णों वक्तुं केनापि नेष्यते ॥ ४६॥
इति श्रीगणेशपुराणे उपासनाखण्डे नलव्रतनिरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥
आदितः श्लोकानां समष्ट्यङ्काः २२६० + ४६ = २३०६
१.५३ चन्द्राङ्गदोपाख्याने त्रिपञ्चाशत्तमोऽध्यायः
हिमवानुवाच ।
इदानीं कथयिष्यामि राज्ञा चन्द्राङ्गदेन च ।
तत्त्पत्न्या च कृतं ह्येतदिन्दुमत्या शुभानने ॥ १॥
मालवे विषये ख्यातं नगरं कर्णनामकम् ।
तत्र चन्द्राङ्गदो राजा बभूवातिपराक्रमी ॥ २॥
अणिमादिगुणापेतः सर्वशास्त्रार्थतत्त्ववित् ।
यज्वा दानी महाज्ञानी वेदवेदाङ्ग पारगः ॥ ३॥
अतिक्रान्ता सभा यस्य सुधर्मामतिमानुषीम् ।
मुष्णाति चक्षुषस्तेजो रविकान्तमरीचिभिः ॥ ४॥
अतिस्वच्छानि वासांसि रत्नस्तम्भाश्रयात्सुते ।
नीललोहितपीतत्वाच्चित्रतां यान्ति कानिचित् ॥ ५॥
अतिसाध्वी महाभागा पतिशुश्रूषणेरता ।
धर्मशीला व्रतपरा श्वश्रूश्वशुरसेविनी ॥ ६॥
गृहकृत्येषु चाव्यग्रा देवतातिथिपूजिका ।
नाम्ना चेन्दुमति ख्याता सर्वावयवसुन्दरा ।
धर्मशीलोऽपि नृपतिरमात्यैः प्रार्थितो भृशम् ।
जीवहिंसा महाघोरां पापर्द्धिं परिवर्जय ॥ ७॥
कदाचिद्दैवयोगेन मृगयां क्रीडितुं ययौ ।
तरक्षुरुरुवाराहमृगपक्षियुतं वनम् ॥ ८॥
नीलकञ्चुकसंवीतो नीलोष्णीषोत्तरच्छदः ।
बद्धगोधाङ्गुलित्राणः शस्त्रिकाखड्गखेटवान् ॥ ९॥
जवेनाश्वसमारुढो शरचापकरो बली ।
तादृशैर्वीरनिकरैरमात्यैः सेवकैर्वृतः ॥ १०॥
निघ्नन् मृगान् वराहांश्च प्रेषयन्नगरं प्रति ।
भ्रममाणो वने राजा दृष्टो राक्षसपुङ्गवैः ॥ ११॥
चकम्पे राक्षसान् दृष्ट्वा शीतज्वरयुतो यथा ।
दरीमुखान् गर्तनेत्रान् व्यादितास्यान् नभस्पृशः ॥ १२॥
दृष्टवा तान् विद्रुताः सर्वे वीराः सेविजना आपि ।
केचिद् यमक्षयं याता मूर्छिताः केऽपि भूगताः ॥ १३॥
तत्रैका राक्षसी क्रूरा दृष्ट्वा कामातिसुन्दरम् ।
तं नृपं परिरभ्यैव चुचुम्बे काममोहिता ॥ १४॥
तस्यामात्यान् भगे कृत्वा भक्षयामास सेवकान् ।
एतस्मिन्नन्तरे राजा पलायनपरो ययौ ॥ १५॥
कासारमध्ये मग्नोऽभून्नाद्राक्षीद् राक्षसी च तम् ।
स धृतो नागकन्याभिर्नीतः पातालमन्दिरम् ॥ १६॥
भूषितो नागकन्याभिर्वस्त्रालङ्कारभूषणैः ।
पप्रच्छुर्नागकन्यास्तं कुत आगमनं तव ॥ १७॥
कोऽसि कस्यासि किं नाम वद सत्यं नरोत्तम ।
इति तद्वचनं श्रुत्वा तां जगाद नराधिपः ॥ १८॥
अहं चन्द्राङ्गदो नाम हेमाङ्गदसुतो बली ।
मालवे विषये कर्णनगरे वसतिर्मम ॥ १९॥
राक्षसीभयवित्रस्तः प्रविष्टः सलिलं महत् ।
भवतीभिरिहानीतो यत्पृष्टं तन्निवेदितम् ॥ २०॥
भक्षिताः सर्वलोका मे मृगयाभिरतस्य ह ।
सरोजलप्रसादेन जीवंस्तिष्ठामि साम्प्रतम् ॥ २१॥
इति ता वचनं श्रुत्वा पुनरूचुर्नृपं तदा ॥ २२॥
ताऊचुः ।
भवास्माकं पतिरिह सर्वंसेत्स्यति ते प्रियम् ।
अस्माकं नागकन्यानां भोगश्चातीव दुर्लभः ॥ २३॥
तासामिति वचः श्रुत्वा प्रोवाच नृपसत्तमः ।
एकपत्नीव्रतं मेऽस्ति मातरस्तत्कथं त्यजे ॥ २४॥
सोमवंशप्रसूतानां राज्ञां धर्मान् ब्रवीमि वः ।
परद्रव्यं परद्रोहं परदारांस्तथैव च ॥ २५॥
परनिन्दां च नेच्छन्ति नृपाः सौम्याश्च साधवः ।
अधीतिर्यजनं दानं शरणागतपालनम् ॥ २६॥
निषिद्धाचरणं नैव विध्यर्थप्रतिपालनम् ।
एते धर्मास्त्रिवर्णानां याजनादि त्रयं द्विजे ॥ २७॥
अधिकं सर्ववर्णानामातिथ्यं परमं मतम् ।
इति श्रुत्वा नृपवचोऽखिला नागकुमारिकाः ॥ २८॥
प्रशेपुस्तं वियुक्तस्त्वं बहुधा स्वस्त्रिया भव ।
बबन्धुर्निगडैस्तं ता दुःखिताः कामविव्हलाः ॥ २९॥
राक्षसी तु जलं प्राश्य तदर्थे तत्सरोगतम् ।
भक्षयित्वा जलचरान् नातृप्यत्परमं तदा ॥ ३०॥
इमं वृत्तान्तमशृणोद् राज्ञी राजीव लोचना ।
पर्यङ्कस्था स्वदूतात् सा राक्षसीतोऽवशेषितात् ॥ ३१॥
मग्नं निशम्य नृपतिं दुःखिता पतिता भुवि ।
मूर्छामवाप महतीं सखीभिः परिवीजिता ॥ ३२॥
सिक्ता शीतलतोयेन रुदन्तीभिर्मुहुर्मुहुः ।
उपविष्टा प्ररुदती घ्नति वक्षः शिरो मुखम् ॥ ३३॥
शुशोच परमालापैर्भर्तः कान्तेति जल्पती ।
क्व गतः प्राणनाथो मे हित्वा मां प्रियवादिनीम् ॥ ३४॥
सर्वावयवसम्पूर्णां प्रणतां प्रियकारिणीम् ।
भर्तृकार्यरतां नित्यं नित्यं चातिथिपूजिकाम् ॥ ३५॥
कुत्र भोक्ष्यति मे नाथो निद्रां वा कुत्र यास्यति ।
काचनं शयनं हित्वा परार्घ्यास्तरणैर्वृतम् ॥ ३६॥
कथं स्नास्यति कान्तो मे हित्वा तैलं सुगन्धितकम् ।
लोकानां पालनं कोऽद्य विना तेन करिष्यति ॥ ३७॥
प्रजानां सर्वलोकानां बाणानां रञ्जनं च कः ।
अस्तं यातो गुणनिधिः प्रतापनिधिरद्य किम् ॥ ३८॥
दिशः शून्याः प्रपश्यामि विना तेन महात्मना ।
क्वाहं सुखं प्रपश्यामि क्व सुखं सोऽपि यास्यति ॥ ३९॥
इहलोकेपरे वापि न सुखं कुलयोषिताम् ।
हीनानां स्वामिनां देव यदेतत् स्वामिना सह ॥ ४०॥
शरणागतगुप्तिं च दीनानां कः करिष्यति ।
एवं बहुविधं दीना रुदती भृशविव्हला ॥ ४१॥
तत्याज त्रोटयित्वा सा भूषणानि च दूरतः ।
कङ्कणानि च सर्वाणि बभञ्ज च मुमूर्छ च ॥ ४२॥
इति श्रीगणेशपुराणे उपासनाखण्डे चन्द्राङ्गदोपाख्याने त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥
आदितः श्लोकानां समष्ट्यङ्काः २३०६ + ४३ = २३४९
१.५४ इन्दुमती नारद संवादे चतु।पञ्चाशत्तमोऽध्यायः
पार्वत्युवाच ।
तस्यां तु मूर्छितायां तु किमकुर्वन् जनास्तदा ।
तन्मे विस्तरतो ब्रूहि हृदयानन्दनं पितः ॥ १॥
हिमवानुवाच ।
तदा सर्वे नागरिका नानावाक्यविशारदाः ।
प्रमृज्य स्वानि चाश्रूणि समादध्युर्नृपस्त्रियम् ॥ २॥
जना ऊचुः ।
मातरुत्तिष्ठ मा शोकं कुरु पुत्रे मनः कृथाः ।
प्रेतं दहति शोकाश्रु तस्माद्भर्तृहितं कुरु ॥ ३॥
मर्त्येषु न हि दृष्टोऽस्ति चिरञ्जीवी शुभानने ।
यथा जीर्णं परित्यज्य वासोऽन्यद्गृह्यते जनैः ॥ ४॥
वर्ष्मापि देहिना तद्वत् त्यक्त्वाऽन्यद् गुह्यते शुभम् ।
अत्याश्चर्यमिदं भद्रे स्वयं मृत्युमुखे स्थितः ॥ ५॥
शोचते मृतमपरं स्वयं मरण धर्मवान् ।
स्वदेहेन वियोगं च न वेत्ति भाविनं जनः ॥ ६॥
मदीयं मन्यते सर्वं दैवकालवशे स्थितम् ।
ब्रह्मादिस्थावरान्तं यद् विश्वं साब्धिचराचरम् ॥ ७॥
ज्ञात्वा तं नश्वरं शोकं त्यक्त्वोत्तिष्ठ सुपुत्रिणि ।
धर्मवान् पुण्यशीलस्ते भर्ता मुक्तिं गतो भवेत् ॥ ८॥
जीवन् यदि भवेत् स्वर्गे तदा यास्यति कर्हिचित् ।
अतिपुण्यान्मानवोऽपि याति स्वर्गं गतः पुनः ।
अथवा परिपृच्छामो मुनिं कञ्चिदिहागतम् ॥ ९॥
अतीतानागतविदं कथयिष्यति सोऽखिलम् ।
अनन्तरं हि यत्कार्यं तत्सर्वं विदधामहे ॥ १०॥
हिमवानुवाच ।
एवं प्रबोधिता लोकैः क्षणमिन्दुमती तदा ।
आश्वस्ता सर्ववाक्येन प्रमृज्याश्रूणि वाससा ॥ ११॥
विसर्जयामास तदा लोकान् सर्वान् समागतान् ।
त्यक्त्वा सौभाग्यचिन्हानि प्रपेदे कृशतां भृशम् ॥ १२॥
रुदती शोचती तस्थौ श्वसती मूर्छिता मुहुः ।
ततो द्वादशवर्षान्ते नारदो दिव्यदर्शनः ॥ १३॥
आजगाम गृहं तस्या यदृच्छाविचरन्मुनिः ।
दृष्ट्वा तं विललापाशु वदन्ती भर्तृचेष्टितम् ॥ १४॥
दुःख चाकथयत्तस्मै जातं द्वादशवार्षिकम् ।
निशम्य रुदितं तस्या हर्षयन् मुनिरब्रवीत् ॥ १५॥
नारद उवाच ।
क्वापि तिष्ठति ते भर्त्ता न तं शोचितुमर्हसि ।
शिरश्छादय नीलेन वाससा कर्णभूषणे ॥ १६॥
कर्णयोः कुरु भाले त्वं बिभ्रती कुङ्कुमं शुभम् ।
वलयानि च करयोः कण्ठे मङ्गलसूत्रकम् ॥ १७॥
हिमवानुवाच ।
सर्वज्ञस्य मुनेर्वाक्याद्विश्वस्ता सत्यवादिनः ।
तत्कालं सर्वमानाय्य हर्षिता सा तथाऽकरोत् ॥ १८॥
आकार्य ब्राह्मणान् सर्वान् सम्पूज्य नारदं पुरा ।
सम्पूज्य सकलांस्तांस्तु ददौ दानान्यनेकशः ॥ १९॥
वादयामास वाद्यानि शर्करां च गृहेगृहे ।
प्रेषयामास च तदा हर्षादिन्दुमती शुभा ॥ २०॥
वस्त्रताम्बूल दानेन ददावाज्ञां जनस्य सा ।
प्रणिपत्य पुनर्देव मुनिं नारदमादरात् ॥ २१॥
स्वभर्तृप्राप्तयेऽपृच्छदुपायं राजकन्यका ।
इन्दुमत्युवाच ।
कुत्र तिष्ठति मे भर्ता कथं तिष्ठति वा मुने ॥ २२॥
केनोपायेन वेदज्ञ दर्शनं तस्य मे भवेत् ।
अनुग्रहं कुरु मुने तमुपायं वदस्व मे ।
व्रतं दानं तपो वापि दुःसाध्यमपि यद्भवेत् ॥ २३॥
नारद उवाच ।
व्रतं तु परमं तेऽहं कथयामि समासतः ।
नभः शुक्लचतुर्थ्यां तदारभेत् परया मुदा ॥ २४॥
नद्यां तडागे वाप्यां वा दन्तधावनपूर्वकम् ।
स्नानं प्रभातसमये कुरु सङ्कल्प पूर्वकम् ॥ २५॥
शुक्लवासा गृहं गत्वा मृन्मयीं मूर्तिमुत्तमाम् ।
कुर्याच्चतुर्भुजां सम्यग्गणेशस्य मनोरमाम् ॥ २६॥
उपचारैः षोडशभिः पूजयेत् स्थिरचेतसा ।
एकान्नमेकभुक्तं वा स्वयं कुर्यात्पप्रयत्नतः ।
उपोषणं वा कुर्वीत यावद् भाद्रचतुर्थिका ॥ २७॥
गीतवादित्र नृत्याद्यैर्ब्राह्मणानां च भोजनैः ।
महोत्सवं प्रकुरर्वीत विभवे सति शोभने ॥ २८॥
एवं व्रतं कुरु शुभे भर्त्रा सह समेष्यसि ।
पाताले नागकन्याभिः रुद्धेन जीविता शुभे ॥ २९॥
सत्यं ब्रवीमि ते सत्ये नान्यथा मम भाषितम् ।
हिमवानुवाच ।
इत्युक्ता तेन मुनिना व्रतं प्रारम्भदादरात् ॥ ३०॥
गते मुनौ नभोमासि दिनैः कतिभिरागते ।
द्विरदाननमूर्तिं सा चकार पार्थिवीं शुभाम् ॥ ३१॥
पूर्वोक्तविधिना पूजां चकार सुमनोहराम् ।
दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैश्च कुसुमैरपि ॥ ३२॥
दिव्यैर्नानाविधैश्चैव नैवेद्यैः फलकाञ्चनैः ।
दीपैः पुष्पाञ्जलीभिश्च प्रक्रमैर्नतिभिःस्तवैः ॥ ३॥
तन्नामस्मरणैर्ध्यानैस्तोषयामास तं विभुम् ।
गीतवादित्रनृत्याद्यैर्ब्राह्मणानां च भोजनैः ॥ ३४॥
पलमात्रं पयो भुक्त्वा चकार व्रतमुत्तमम् ।
नभः शुक्लचतुर्थ्यादि चिरनष्टप्रियाप्तये ॥ ३६॥
नारदस्य मुनेर्वाक्याद् यावद्भाद्रचतुर्थिका ॥ ३६॥
इति श्रीगणेशपुराणे उपासनाखण्डे इन्दुमतीनारदसंवादो चतुपञ्चाशत्तमोऽध्यायः ॥ ५४॥
आदितः श्लोकानां समष्ट्यङ्काः २३४९ + ३६ = २३८५
१.५५ शिवपार्वती संयोगोनाम पञ्चपञ्चाशत्तमोऽध्यायः
हिमवानुवाच ।
समाप्ते तु व्रते तस्या गणेशस्य प्रसादतः ।
पाताले नागकन्यानामन्यथाऽभून्मतिस्तदा ॥ १॥
मोचयामास राजानं पुपूजश्च यथाविधि ।
वस्त्रैराभरणैश्चैव नानारत्नमहाधनैः ॥ २॥
अश्वं मनोजवं दत्त्वा विससर्जुर्नृपं तदा ।
कासाराद्बहिरागत्य बध्वा चाश्वं महाद्रुमे ॥ ३॥
स्नाति यावन्नागरिकैः दृष्टः कतिपयैर्नृपः ।
अपरे प्रणिपत्यैनं पप्रच्छुः को भवानिति ॥ ४॥
कुत्रत्यः कुत आयातः किं नामा वद नः प्रभो ।
इति तेषां वचः श्रुत्वा पप्रच्छ नृपसत्तमः ॥ ५॥
इन्दुमत्याः कुमारस्य कुशलं खेदसंयुतः ।
ततो बुबुधिरे ते तमालिलिङ्गुर्मुदा जनाः ॥ ६॥
ऊचुश्च नृप ते भार्या स्नात्वेदानीं गता गृहम् ।
उपवासव्रतवती कृशा धमनिसंयुता ॥ ७॥
कुमारे जीवमास्थाय जीवमात्रावशेषिता ।
केचिच्च नगरं गत्वा शुभां वार्तामघोषयन् ॥ ८॥
अत्याप्तजनवाक्येन श्रुत्वा सा नृपमागतम् ।
आनन्दाब्धौ निमग्नाऽभूद् ब्रह्मज्ञानीव योगवित् ॥ ९॥
ततोऽमात्यान्पुरस्कृत्य सैन्यान्यप्रेषयच्च तम् ।
चित्रध्वजपताकाभिरशोभयत सा पुरम् ॥ १०॥
वीथीरासिञ्चयामास सभाः सम्पाद्य यत्नतः ।
स्वात्मानं भूषयामास वासोऽलङ्कार भूषणैः ॥ ११॥
गोभूहिरण्यदानाद्यैस्तोषयित्वा द्विजान् बहून ।
आरार्तिक्यं करे दत्वा पतिवत्स्त्रीजनस्य सा ॥ १२॥
गीतवादित्रघोषेण पुरात्सर उपागमत् ।
अमात्यास्तु पुरो गत्वा प्रणम्य नृपपुङ्गवम् ॥ १३॥
आलिलिङ्गुर्मुदा सर्वे प्रणेमुश्च यथाक्रमम् ।
उपविष्टे तु नृपतावुपविष्टास्तदाज्ञया ॥ १४॥
सर्वान् कुशलप्रश्नाद्यैस्तोषयित्वा यथाक्रमम् ।
मानयित्वा तथा लोकान्दत्वा ताम्बूलवाससी ॥ १५॥
स्वयं जगाम शिबिरमिन्दुमत्या नृपोत्तमः ।
कारयामास स विधिं द्वादशाब्ददृशैर्द्विजैः ॥ १६॥
पुण्याहवाचनं कृत्वा गणेशार्चनपूर्वकम् ।
सम्पूज्य शङ्करं सम्यग्द्विजांश्च दक्षिणादिभिः ॥ १७॥
बभञ्ज श्रीफलं त्यक्त्वा ततस्तत्पुरतो ययौ ।
ददर्श तत्रेन्दुमतीमिन्दोः शेषां कलामिव ॥ १८॥
नीराजयित्वा राजानं युवतीभिः सभर्तृभिः ।
लाजपुष्पमयीं वृष्टिं ताभिःसाऽकारयत् तदा ॥ १९॥
प्रमृज्य नयने सम्यगानन्दाश्रुपरिप्लुते ।
हर्षशोकान्वितौ तौ तु परस्परमथोचतुः ॥ २०॥
परस्पर वियोगाधिं कथयामासतुः शुचा ।
अनिवार्यप्रकृतिभिः सान्त्वितौ बहुलोक्तिभिः ॥ २१॥
आनयित्वा तु राजानं समारोह्य महागजे ।
नानालङ्कारसंयुक्ते पताकाच्छत्रसंयुते ॥ २२॥
पादचारैः परिवृते चतुर्घण्टाविराजिते ।
शतं यष्टिधरास्तस्य वारयन्तो ययुः पुरः ॥ २३॥
अग्निशस्त्रधराश्चाश्वरथारोहा अनेकशः ।
सव्यदक्षिणतो राज्ञो गजलक्षं ययुर्लघु ॥ २४॥
नटा नृत्याङ्गना वाद्यवादका बन्दिनः पुरः ।
ततः पश्चाद्गजानीकाः पुरं विविशुरादरात् ॥ २५॥
सैन्येन रजसा व्याप्ते दिननाथे हतप्रभे ।
अलङ्कृते पुरे तस्मिन्न प्राज्ञायत किञ्चन ॥ २६॥
ततः परस्परं नत्वा जग्मुः स्वं स्वं निवेशनम् ।
मुख्या राजगृहं नीताः पुना राज्ञा प्रपूजिताः ॥ २७॥
वस्त्रताम्बूलदानेन तेनाज्ञाता गृहं ययुः ।
राजाऽथ ब्राह्मणान्भोज्य बुभुजे ज्ञातिभिः सह ॥ २८॥
ततो रात्रौ सुषुपतुः पर्यङ्के चारुनिर्मिते ।
परार्ध्यास्तरणोपेते परिच्छदुपधान्विते ॥ २९॥
ऊचतुः स्व स्व दुःखं तौ शोचन्तौ च पुनः पुनः ।
पुरोधसा सान्त्वितौ तौ शयाते स्म सुखं ततः ॥ ३०॥
श्रुत्वा विनायकव्रतमहिमानं नृपोत्तमः ।
पत्न्त्याऽनुभूतं सकलं स्वयं कर्तुं मनो दधे ॥ ३१॥
आगते श्रावणे मासि राजा चन्द्राङ्गदस्तदा ।
महोत्सवेन कृतवान व्रतमेतच्छुभानने ॥ ३२॥
ऋषिरुवाच ।
एवं पितृवचः श्रुत्वा पार्वती भृशहर्षितः ।
नभोमासं समासाद्य चकार व्रतमादरात् ॥ ३३॥
यथोक्तविधिना मूर्तिं कृत्वा पूजां च यत्नतः ।
भक्षयन्ती पयोमात्रं ध्यायन्ती द्विरदाननम् ॥ ३४॥
ततश्चञ्चलतां यातं शङ्करस्यापि मानसम् ।
आससादाश्रमं तस्याः पार्वत्याः शूलभृत् स्वयम् ॥ ३५॥
गणेशस्य चतुर्थ्यां तु सम्पूर्णं तद्व्रते शुभे ।
पश्यति स्म हरं देवी वृषारुढं निजाश्रमे ॥ ३६॥
उत्थाय प्रणनामास्य पादाम्बुज युगं मुदा ।
पूजयामास विधिवच्छङ्करं लोकशङ्करम् ॥ ३७॥
उवाच च महादेवं पार्वती प्रेमविव्हला ।
देव्युवाच ।
कथं मां त्यज्य गतवान् किं मां विस्मृतवानसि ॥ ३८॥
त्वद्वियोगान्निमेषोऽपि कल्पकल्पोऽभवद्विभो ।
गणेशस्य व्रतमिदं पित्राऽऽदिष्टं कृतं मया ॥ ३९॥
वरदस्य प्रसादेन सम्प्राप्तं दर्शनं तव ॥ ४०॥
ब्रह्मोवाच ।
एतस्मिन्नेव काले तु हिमवानुपजग्मिवान् ।
सत्याः करं करे तस्य न्यवेदयत सादरम् ॥ ४१॥
ततो देवाः सगन्धर्वा द्विरदाननमादरात् ।
पूजयामासुरथ तौ शिवौ शिवकरौ सताम् ॥ ४२॥
देव दुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
सर्वे गजाननं नत्वा स्तुत्वा च विविधैः स्तवैः ॥ ४३॥
जयशब्दैः शङ्करोऽपि तुष्टाव द्विरदाननम् ।
अर्धाङ्गे पार्वतीं कृत्वा वृषमारुह्य सत्वरः ॥ ४४॥
ययौं कैलास शिखरं सर्वे स्वं स्वं पदं ययुः ॥ ४५॥
ब्रह्मोवाच ।
इति ते कथितं सर्व व्यास पृष्टं त्वया तु यत् ।
महात्म्यं गणनाथस्य व्रतस्य च महामुने ॥ ४६॥
इदानीं पुनरत्यञ्च कथयामि कथानकम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामाँल्लभेनर ॥ ४७॥
इति श्रीगणेशपुराणे उपासनाखण्डे शिवपार्वतीसंयोगोनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
आदितः श्लोकानां समष्ट्यङ्काः २३८५ + ४७ = २४३२
१.०५६ षट्पञ्चाशत्तमोऽध्यायः
भृगुरुवाच ।
एवं ते कथितं राजन् माहात्म्यं सकलं मया ।
पुनश्च शृणु व्यासेन यच्छ्रुतं ब्रह्मणो मुखात् ॥ १॥
सोमकान्त उवाच ।
कथं श्रुतं ब्रह्ममुखाद्व्यासेनामितबुद्धिना ।
न तृप्तिमधिगच्छामि तन्मे वद महामुने ॥ २॥
भृगुरुवाच ।
एवं श्रुत्वा कथां व्यासोऽपृच्छद् ब्रह्माणमादरात् ।
स चापि कथयामास सादरं पृच्छतेऽनघ ॥ ३॥
व्यास उवाच ।
पुनः कथय मे ब्रह्मन् गणनाथकथां पराम् ।
तृष्णा मे वर्धते भूयः श्रोतुं विघ्नेश सत्कथाम् ॥ ४॥
ब्रह्मोवाच ।
अपरां शृणु मे व्यास कथां कौतुकसंयुताम् ।
शूरसेनप्रभृतिभिरनुभूतां गजाननीम् ॥ ५॥
मध्यदेशेऽभवद्राजा शूरसेनो महाबली ।
सहस्राख्य पुरे रम्ये वेदवेदाङ्गपारगः ॥ ६॥
धनवान् रूपवान् दाता होता पाता जनस्य ह ।
शक्तित्रययुतो मानी षाड्गुण्यपरिनिष्ठितः ॥ ७॥
उपायानां चतुर्णाञ्च चालने चतुरोऽरिहा ।
चतुर्विधबलोपेतो द्विजदेवेषु भक्तिमान् ॥ ८॥
पृथिवीमण्डलं यस्य वशवर्त्यभवत्सदा ।
नगरं शक्रनगराद् विशिष्टं भाति भूतले ॥ ९॥
यस्य पत्नी पुण्यशीला नाम्नाऽभूत् पुण्यशालिनी ।
यस्या रूपेण सदृशी नासीत् त्रैलोक्यमण्डले ॥ १०॥
पातिव्रत्यगुणैर्यस्या लज्जां प्राप्ताऽप्यरुन्धती ।
असूयात्यागयोगेनाप्यनसूयाऽभवल्लघुः ॥ ११॥
स कदाचिन्नृपोऽमात्यैः संवृतो वीरसत्तमैः ।
उपविष्टो नृपसभां ददृशे गगनेचरम् ॥ १२॥
विमान वह्निसदृशं नेत्रतेजोहरं परम् ।
गानश्रवणसक्तास्ते राज्ञा सह सभासदः ॥ १३॥
विव्हलास्ते किं किमिति ज्ञातुं दूतानचोदयन् ।
ते दूताः प्रागमन्द्रष्टुं विमानं सूर्यसन्निभम् ॥ १४॥
कस्यचिद् वैश्यपुत्रस्य राजदूतस्य कुष्ठिनः ।
पतितं दृष्टिपातेन तद्विमानं महीतले ॥ १५॥
ततों दूताः समागम्य शशंसुर्नृपतिं तदा ।
तद्विमानं महाराज पुण्यकृद्देवसंयुतम् ॥ १६॥
दैदिप्यमानं पतितं दुष्टदृष्टया महीतले ।
ततोऽतिहर्षितो राजा प्रकृतिद्वयसंयुतः ॥ १७॥
अश्वारुढो ययौ तत्र विमानं द्रष्टुमुत्सुकः ।
मन्यमानो महाभाग्यं स्वजनैः परिवारितः ॥ १८॥
अनेकवाद्यनिर्घोर्षैर्विमानस्यान्तिकं ययुः ।
ददृशुस्तत्र शक्रं ते नेमुरुत्तीर्य यानतः ॥ १९॥
नानालङ्कारसंयुक्तं सर्वदेवगणैर्युतम् ।
बद्धाञ्जलिपुटो राजा प्रोवाच बलसूदनम् ॥ २०॥
धन्येयमद्य धरणी धन्यं जन्म च सम्पदः ।
पूर्वजाः सर्वचक्षूंषि धन्यान्यद्य शचीपते ॥ २१॥
यद्दर्शनं मृत्युलोके भवतां सानुगस्य मे ।
यस्य ते वशगा लोका ब्रह्मेशानादयः सुराः ॥ २२॥
शताश्वमेधतो दृश्यो नान्यथा जायते क्वचित् ।
न जाने केन पुण्येन सोऽद्य दृष्टोऽखिलैर्जनैः ॥ २३॥
इदं च ते विमानं यत् कथं निपतितं भुवि ।
एतन्मे संशय देव छेत्तुमर्हसि साम्प्रतम् ॥ २४॥
यातवान् कुत्र च भवान् गन्ता वा शंस मे प्रभो ।
शक्र उवाच ।
राजन् शृणु महाश्चर्यं कथितं नारदेन मे ॥ २५॥
तदहं कथयिष्ये त्वां शृणुष्वैकमना नृप ।
नारद उवाच ।
मृत्युलोकं गतः शक्र भ्रुशुण्डेराश्रमं प्रति ।
गणेशस्य स्वरूपेण तिष्ठतो जपतोऽनिशम् ॥ २६॥
तद्ध्यानात्तत्स्वरूपस्य दृष्टं कौतुकमद्भुतम् ।
पूजितस्तेन मुनिना गजाननस्वरुपिणा ॥ २७॥
नत्वा तं मुनिमापृच्छ्य दर्शनार्थं तवागतः ।
भूमौ सारूप्यता नैव दृष्टाऽन्यत्र शतक्रतो ॥ २८॥
शक्र उवाच ।
अहं च नारदं पूज्य विसृज्य च क्षणेन तम् ।
अत्युत्सुकतया यातो मुनिं दृष्टं तथाविधम् ॥ २९॥
विमानवरमास्थाय मनोमरुतवेगवत् ।
मुनिं दृष्ट्वा च सम्पूज्य द्विरदाननरूपिणम् ॥ ३०॥
भ्रुशुण्डि प्रणिपत्याऽथ तस्य पूजां प्रगृह्य च ।
चलितः सपरीवारो गन्तुकामोऽमरावतीम् ॥ ३१॥
यावत्ते नगराभ्याशे विमानमिदमागतम् ।
तावद्दूतस्य ते दृष्ट्या कुष्ठिनः पापकारिणः ॥ ३२॥
पतितं भूमिभागेऽस्मि सर्वं ते कथितं नृप ।
शूरसेन उवाच ।
तपसा केन वा शक्र गजाननस्वरूपता ॥ ३३॥
प्राप्ता भ्रुशुण्डिना तेन तद्वदस्व मम प्रभो ।
न हि मे तृप्तिरस्तीह शृण्वतस्तत्कथामृतम् ॥ ३४॥
इति श्रीगणेशपुराणे उपासनाखण्डे इन्द्रविमानपतनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६॥
आदितः श्लोकानां समष्ट्यङ्काः २४३२ + ३४ =२४६६
१.०५७ भ्रुशुण्ड्युपाख्यानं नाम सप्तपञ्चाशत्तमोऽध्यायः
शक्र उवाच ।
हन्त ते कथयिष्यामि कथामेकां पुरातनीम् ।
यथा तेनाऽऽपि सादृश्यं गणनाथस्य भक्तितः ॥ १॥
दण्डकारण्य देशेषु नगरे नन्दुराभिधे ।
एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः ॥ २॥
आबाल्याच्चौर्यनिरतो यौवने जारकर्मकृत् ।
प्रत्यक्षं दृष्टिविगमाद्धरते च शपत्यपि ॥ ३॥
शपथान्कुरुते मिथ्या परहृद्भेदकारकान् ।
ततो निःसारितो ग्रामाद्द्यूतमद्यरतो यतः ॥ ४॥
लोकैर्बहिर्दूरतरं गिरिकन्दरकानने ।
स्थितः कान्तायुतो मार्गे जघान पथिकान्बहून् ॥ ५॥
एवं बहुधनो जातो नानालङ्करणैः स्त्रियम् ।
भूषयामास ससुतां तोषयामास मायया ॥ ६॥
शस्त्रं खड्गं च खेटं च पाशान्धानुरनुत्तमम् ।
दण्डं चोभयतो लोहं वहन्पूर्णे महेषुधी ।
वृक्षाग्रे कोटरे वापि स्थितो मारयते बहून् ॥ ७॥
नानाविधानि वस्तूनि वासांस्याभरणानि च ।
गृहे सञ्चयते नीत्वा विक्रीणाति पुरान्तरे ॥ ८॥
यथेष्टं भजते नित्यं विषयान्मन्दिरे निजे ।
एवं पापसमाचारो हन्त्यरण्ये पशूनपि ॥ ९॥
एकदा कस्यचित् पृष्ठे धावितो योजनावधि ।
स तु तस्माद्गतो दूरं स्खलित्वा पतितो भुवि ॥ १०॥
तत उत्थाय कष्टेन शनैः शनैर्ययौ खलः ।
अपश्यत्पथि गच्छन् स तीर्थं गाणेश्वरं शुभम् ॥ ११॥
अकरोन्मज्जनं तत्र श्रममेव व्यपोहितुम् ।
ततोऽगच्छन् स्वविषयं ददर्श पथि मुद्गलम् ॥ १२॥
जपन्तं गणनाथस्य मन्त्रं नामसमन्वितम् ।
खड्गमुद्यम्य निष्कोशं मुद्गलस्यान्तिकं ययौ ॥ १३॥
कैवर्तको नाम नामा हन्तुं कृतमतिस्तदा ।
जगलुस्तस्य शस्त्राणि खड्गोऽपि दृढमुष्टितः ॥ १४॥
अन्यथा चाभवद् बुद्धिस्तस्य दुष्टस्य तत्क्षणात् ।
द्विरदाननभक्तस्य मुद्गलस्य प्रभावतः ॥ १५॥
जहास मुनिमुख्योऽसौ दृष्ट्वा तं तु तथाविधम् ।
पप्रच्छ संयतः कस्माच्छस्राणि गलितानि ते ॥ १६॥
बद्धान्यपि च सर्वाणि पतितानि कुतो वद ।
इन्द्र उवाच ।
गणेशतीर्थस्नानेन मुनेरालोकनेन च ।
ज्ञानवैराग्ययुक्तोऽसावब्रवीन् मुद्गलं वचः ॥ १७॥
कैवर्त्तक उवाच ।
आश्चर्यं परमं मन्ये कुण्डस्नानेन मे मतिः ।
विपरीताऽभवद्ब्रह्मन् विशेषाद्दर्शनेन ते ॥ १८॥
बाल्यात् प्रभृति मे दुष्टा बुद्धिः पापरताऽभवत् ।
असङ्ख्यातानि पापानि कृतान्यद्यावधि प्रभो ॥ १९॥
इदानीमेव निर्विण्णा मतिर्मे त्वप्रसादतः ।
नादास्ये पुनरेतानि शस्त्राणि पतितानि मे ॥ २०॥
कुरू मेऽनुग्रहं पूर्णमुद्धरस्व भवार्णवात् ।
साधवो ह्यनुगृह्णन्ति दीनान् दुष्कृतिनोऽपि च ॥ २१॥
न साधुसङ्गमः क्वापि वृथा दृष्टो महामुने ।
यथा शेवधिसम्पर्को न धातुषु वृथा भवेत् ॥ २२॥
शक्र उवाच ।
एवमुक्तो मुद्गलोऽसौ तं जगाद कृपान्वितः ।
शरणागतसंत्यागे स्मरन्दोषं विशेषतः ॥ २३॥
मुद्गल उवाच ।
विधिप्रयुक्ते दानादौ नाधिकारोऽस्ति कुत्रचित् ।
तथापि ते नामजपं कथयामि प्रसादतः ॥ २४॥
गजाननस्य परमं सर्वसिद्धिकरं नृणाम् ।
ततः प्रणाममकरोत् कैवर्तो मुद्गलं मुनिम् ॥ २५॥
(स करं स्थापयामास तस्य मूर्ध्न्य भयङ्करम्)
गणेशाय नम इति नाममन्त्रमुपादिशत् ॥ २६॥
स्वयष्टिं रोपयामास पुरस्तस्य धरातले ।
उवाच चैनं सम्प्रीत्या यावदागमनं मम ॥ २७॥
तावज्जपस्व नामेदं यावद्यष्टिश्च साङ्कुरा ।
एकासनगतो वायुभक्ष एकाग्रमानसः ॥ २८॥
सायं प्रातर्जलं देहि यष्टिमूले निरन्तरम् ॥ २९॥
शक्र उवाच ।
उपदिष्टो मुद्गलेन नामा कैवर्तकस्तदा ।
निराशो जीविते तस्थौ तस्मिन्नन्तर्हिते मुनौ ॥ ३०॥
एकासनगतोऽरण्ये जजाप नाममन्त्रकम् ।
पुरोधाय मुनेंर्यष्टिं वृक्षच्छायासमाश्रितः ॥ ३१॥
निराहारो निरीहश्च जितेन्द्रियगणो वशी ।
एवं सहस्रवर्षान्ते सा यष्टिः साङ्कुराऽभवत् ॥ ३२॥
ततः प्रतीक्षामकरोन्मुनेंरागमनस्य यः ।
वल्मीकवेष्टिततनुर्लताजालसमन्वितः ॥ ३३॥
ततो मुनिर्मुद्गलोऽपि दैवात्तं देशमाययौ ।
संस्मार च तदा यष्टिं तं च कैवर्तकं यदा ॥ ३४॥
ददर्श भ्रममाणः स साङ्कुरां यष्टिमुत्तमाम् ।
वल्मीकाक्रान्त देहं च तं च कैवर्तकं मुनिः ॥ ३५॥
दुश्चरं मुनिभिः सर्वैरास्थितं तप उत्तमम् ।
लक्षितं नेत्रमात्रेण यतता मुनिना तदा ॥ ३६॥
उत्साद्य तस्य देहस्थं वल्मीकं मुनिसत्तमः ।
मन्त्रितेन जलेनास्य सिषेचाङ्गं च सर्वशः ॥ ३७॥
तदैव दिव्यदेहं तं जगाद मुनिसत्तमः ।
प्राप्तवन्तं गणेशस्य सारूप्यं करयोगतः ॥ ३८॥
द्विकरं प्रजपन्तं च नाम वैनायकं शुभम् ।
उन्मीलीते तदा नेत्रे मुनिना बोधितस्तु सः ॥ ३९॥
तस्य नेत्रोद्भवे वह्निर्विद्युद्वद गगनं गतः ।
त्रिलोकीमुद्यतो दग्धुं मुनिना वारितो यतः ॥ ४०॥
सोऽपि तं मुनिमानम्य स्वगुरुं करूणायुतम् ।
आलिलिङ्ग मुदा युक्तस्तनयः पितरं यथा ॥ ४१॥
उपदिष्टो मुद्गलेन नाम कैवर्तकस्तदा ।
वल्मीकात् पुनरूत्पन्नं मानयामास तं सुतम् ॥ ४२॥
चकार नाम कर्मास्य मुद्गलो मुनिरादरात् ।
भूमध्यान्निर्गता शुण्डा भ्रुशुण्डीतिततो नृप ॥ ४३॥
एकाक्षरं च मन्त्रं च तस्मै प्राहाथ मुद्गलः ॥ ४४॥
वरानस्मै ददौ पश्चाद्भव त्वं मुनिसत्तमः ।
इन्द्रादिदेवगन्धर्वैः सिद्धैरर्च्यतमो भव ॥ ४५॥
यथा गजाननो देवो ध्यातो दृष्टोऽघनाशनः ।
तथाहि त्वमपि मुने भ्रुशुण्डिः प्रथितो भव ॥ ४६॥
यस्य ते दर्शनं स्यात्स कृतकृत्यो भवेन्नरः ।
आयुश्च कल्पलक्षं ते भविता मम वाक्यतः ॥ ४७॥
एवं बहुविधान् तस्मै वरान् यच्छति मुद्गले ।
ययुरिन्द्रादयो द्रष्टुं मुनयो नारदादयः ॥ ४८॥
ऊचुस्तं प्रणिपत्यैव भ्रुशुण्डे तव दर्शनात् ।
सार्थकं जन्म नो विद्या पितरौ च तपो यशः ॥ ४९॥
त्वमेव गणनाथोऽसि पूजनीयोऽसि नो मुने ।
स तु सम्पूज्य तान् सर्वान् प्रणम्य च विसृज्य च ॥ ५०॥
पुनः पद्मासनगतो जजापैकाक्षरं मनुम् ।
पुरो मूर्तिं प्रतिष्ठाप्य गणेशस्य मनोहराम् ॥ ५१॥
उपचारैः षोडशभिरपूपुजद्दिनेदिने ।
आश्रमश्च बभौ वापीसरोवृक्षलतादिभिः ॥ ५२॥
त्यक्तवैरैः सिंहमृगैर्नकुलैर्भुजगोत्तमैः ।
ततो वर्षशतस्यान्ते प्रसन्नोऽभूद्गजाननः ॥ ५३॥
उवाच मत्स्वरूपस्त्वं किमर्थं तपसे तपः ।
कृतकृत्योऽसि सायुज्यमायुषोऽन्ते च लप्स्यसे ॥ ५४॥
इदं क्षेत्र सुविख्यातं नामलेति भविष्यति ।
अनुष्ठानकृतामन्त्र नानासिद्धिप्रदं नृणाम् ॥ ५५॥
मन्मूर्तिदर्शनादत्र न पुनर्जन्मभाग् भवेत् ।
अपुत्रश्च लभेत् पुत्रान् विद्यार्थी ज्ञानमाप्नुयात् ॥ ५६॥
शक्र उवाच ।
इति ते कथितं सर्वं शूरसेन नृपोत्तम ।
यत्वया परिपृष्टं मे किमन्यच्छ्रोतुमिच्छसि ॥ ५७॥
इति श्रीगणेशपुराणे उपासनाखण्डे भ्रुशुण्ड्युपाख्यानं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७॥
आदितः श्लोकानां समष्ट्यङ्काः २४६६ + ५७ =२५२३
१.०५८ सङ्कष्ट चतुर्थी व्रत कथनं नामाष्ट पञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच ।
एवं श्रुत्वा शूरसेनो मरुत्वद्वाक्यमुत्तमम् ।
पुनः पप्रच्छ तं व्यास प्रीतः श्रुत्वा कथामृतम् ॥ १॥
शूरसेन उवाच ।
केनोपायेन देवेशं यानं ते गगनं व्रजेत् ।
तमुपायं कुरु विभो वद वा किं करोमि ते ॥ २॥
ब्रह्मोवाच ।
एवं पुनः कृतं प्रश्नं नृपं प्राह सुरारिहा ।
शृण्वतां सर्वलोकानां स्मयमान इदं वचः ॥ ३॥
इन्द्र उवाच ।
कश्चित्स्यादिह सङ्कष्टचतुर्थीव्रतकारकः ।
विप्रो वा क्षत्रियो वापि नगरे ते नृपोत्तम ॥ ४॥
तस्याब्दकृतपुण्येन सम्यग्दत्तेन भूभुज ।
इदानीं प्रचलेदेतन्नान्यथाऽयुतपुरूषैः ॥ ५॥
नृप उवाच ।
कथं व्रतं तु सङ्कष्टचतुर्थ्या वद मे मुने ।
किं पुण्यं किं फलं तस्य को विधिः कस्य पूजनम् ॥ ६॥
पुरा केन कृतं चात्र सिद्धिर्यस्मिन् कृतेऽभवत् ।
एतत्सर्वं शुनासीर कृपया वद विस्तरात् ॥ ७॥
शक्र उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कृतवीर्यस्य संवादं नारदेन महात्मना ॥ ८॥
बभूव बलवान् राजा कृतवीर्यो महीतले ।
सत्यशीलो वदान्यश्च यज्वा मानी महारथः ॥ ९॥
जितेन्द्रियो मिताहारो देवद्विजनिषेवकः ।
यस्याश्वगजयोधानां रथिनां सर्वधन्विनाम् ॥ १०॥
न सङ्ख्या विद्यते राजन् सहयाद्रिविषयासिनाम् ।
मन्दिरे यस्य सौवर्णाः पर्यका भाजनानि च ॥ ११॥
नासीदौदुम्बरं पात्रं पाकार्थमपि सर्वदा ।
यम्य द्वादशसाहस्त्रा ब्राह्मणाः पङ्क्तिभोजिनः ॥ १२॥
सुगन्धा नाम यस्यासीत् पत्नी धर्मपरायणा ।
पतिव्रता पतिप्राणा त्रैलोक्येऽतिमनोरमा ॥ १३॥
नानालङ्कारसुभगा द्विजदेवातिथिप्रिया ।
एवं तौ दम्पती राजन्नपुत्रौ सम्बभूवतुः ॥ १४॥
पुत्रार्थं सर्वदानानि व्रतानि च तपांसि च ।
चक्रतुर्नियमानन्यान् यज्ञांश्च बहुदक्षिणान् ॥ १५॥
नानातिर्थानि क्षेत्राणि जग्मतुः पुत्रलिप्सया ।
तथापि नाभवत् पुत्रो जन्मान्तरकृतैनसोः ॥ १६॥
एकदा दुःखितो राजा समाहूय समन्त्रिणः ।
राज्यं मुद्रां च कोशं च जनान् जनपदाँस्तथा ॥ १७॥
तेभ्यो निवेद्य सर्वं तौ जग्मतुर्वनमुत्तमम् ।
वल्कलाजिनसंवीतौ दम्पती तप आस्थितौ ॥ १८॥
जितेन्द्रियौ जिताहारौ जीर्णपर्णानिलाशिनौ ।
चक्षुर्मात्रेण लक्ष्यौ तौ दृष्टवाऽथ नारदो मुनिः ॥ १९॥
जनकं कृतवीर्यस्य पितृलोकस्थमब्रवीत् ।
अपुत्रत्वात् प्रायगतो विद्यते तनयस्तव ॥ २०॥
कृतवीर्यो मृत्युलोके श्वःपरश्वो मरिष्यति ।
यदि तस्य भवेत्पुत्रो नाकलोक प्रदर्शकः ॥ २१॥
कृतवीर्यस्तदा जीवेन्मृतो वा स्वर्गमाप्नुयात् ।
इत्युक्त्वा नारदो यातः पश्यतिस्माद्भुतं भुवि ॥ २२॥
भ्रशुण्डेः पितरौ पुत्रौ तस्य पत्नीं सकन्यकाम् ।
अग्निज्वालाकुले घोरे कुम्भीपाके ह्यधोमुखान् ॥ २३॥
याम्यदूतैस्ताड्यमानान् क्रन्दन्तो विविधान् रवान् ।
तेषामाक्रन्दितं श्रुत्वा नारदः करुणानिधिः ॥ २४॥
आगत्य कथयामास तेषां दुःख भ्रशुण्डये ।
नारद उवाच ।
शक्रादयो देवगणा मुनयः कपिलादयः ॥ २५॥
यस्य ते दर्शनं कर्तुं यान्ति हेरम्बरूपिणः ।
तत्कथं पितरौ पत्नी पुत्राः पुत्र्यश्च किंकराः ॥ २६॥
यमलोके कुम्भिपाके पच्यन्ते तव दोषतः ।
त्वं चापि ज्ञानसम्पन्नः कथं तन्नावबुध्यसे ॥ २७॥
पूर्वजानां त्वमुद्धारे यत्नं कुरु महामुने ।
शक्र उवाच ।
भ्रुशुण्डिरतिसन्तप्तो वाक्यं श्रुत्वा मुनीरितम् ।
दुःखितः पितृदुःखेन भृशं जज्वाल वह्निवत् ॥ २८॥
उपायं चिन्तयामास तेषामुद्धारकारकम् ।
ददौ श्रेयः स सङ्कष्टचतुर्थीव्रतजं तदा ॥ २९॥
विलोक्य प्रणिधानेन भ्रुशुण्डी स परोक्षवित् ।
ध्यात्वा गजाननं देवं करे धृत्वा शुभं पयः ॥ ३०॥
उवाच पितॄनुद्दिश्य याचन्देवं गजाननम् ।
भ्रुशुण्डिरुवाच ।
यदि भक्त्या कृतं मेऽस्ति गणनाथ व्रतं तव ॥ ३१॥
तदा तस्य प्रभावेन शीघ्रमुद्धर पूर्वजान् ।
एवमुक्त्वा तु तत्तोयं गजानन करेऽक्षिपत् ॥ ३२॥
क्षिप्तमात्रे तदा तोये गजानन प्रसादतः ।
विमानानि समारुहय सर्वे ते देवरूपिणः ॥ ३३॥
सेव्यमाना अप्सरोभिः स्तूयमानाश्च चारणैः ।
गन्धर्वैर्गीयमानास्ते गणेशस्थानमाप्नुवन् ॥ ३४॥
अन्येऽपि कुम्भिपाके च नरादुष्कृतिनोऽभवन् ।
तेऽपि सर्वे विमानस्थाः पदं गाणेश्वरं ययुः ॥ ३५॥
एवं व्रतस्य महिमा मया ते परिकीर्तितः ।
यदेकदिनपुण्येन सर्वे ते सद्गतिं गताः ॥ ३६॥
जन्मावधि कृतं येन सङ्कष्टं व्रतमादरात ।
शेषोऽपि तस्य पुण्यस्य सङ्ख्या कर्तुं न वै क्षमः ॥ ३७॥
अतस्तस्य प्रभावेन विमानं प्रचलेन्मम ॥ ३८॥
इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीव्रत कथनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८॥
आदितः श्लोकानां समष्ट्यङ्काः २५२३ + ३८ = २५६१
१.०५९ चतुर्थीव्रतकथनं नामैकोनषष्टितमोऽध्यायः
राजोवाच ।
कुम्भीपाकाद् विनिःसृत्य तेषु यातेषु वै दिवम् ।
कमुपायं स कृतवान् कृतवीर्यपिता तदा ॥ १॥
शक्र उवाच ।
ब्रह्मलोकं जगामाशु ददर्श कमलासनम् ।
दुःखितो नारदाच्छृत्वा वंशविच्छेदमात्मनः ॥ २॥
प्रणम्य तमपृच्छत् स वंशविच्छेदकारणम् ।
मम पुत्रोऽतिधर्मात्मा वदान्यो यज्ञकारकः ॥ ३॥
देवतातिथिभक्तश्च मान्यमानयिता भृशम् ।
नानाविधप्रयत्नं स पुत्रार्थं कृतवान् विधे ॥ ४॥
तथापि नाभवत् कस्मात् तस्य पुत्रः सुरेश्वर ।
राज्यं प्रकृतिसात् कृत्वा वायुभक्षः स्थितो वने ॥ ५॥
अस्थिमात्रावशेषोऽसावद्य श्वो वा मरिष्यति ।
जन्मान्तरीयं तस्यैनो येन गच्छेल्लयं प्रभो ॥ ६॥
तमुपायं दयां कृत्वा वद मे कमलासन ।
तं प्रापयिष्ये तत्राहं स्ववंशस्य विवृद्धये ॥ ७॥
एवं सुललितां वाणीं श्रुत्वोचाच तथा विधिः ।
श्रूयतां तव पुत्रस्य पूर्वजन्म मयेरितम् ॥ ८॥
सामनाम्नाभवत् पूर्वं तत्रैव नगरेऽन्त्यजः ।
दुष्कर्माऽतितरां यस्य दर्शनं पुण्यनाशकृत् ॥ ९॥
एकदा तेन वित्तस्य लोभेन पथि घातिताः ।
द्वादश ब्राह्मणाः शान्तास्त्यक्तास्तेन गुहान्तरे ॥ १०॥
सर्वं तदीमादाय निशि स्वगृहमागतः ।
माघकृष्णचतुर्थ्यां स उदये शशिनो नृप ॥ ११॥
गणेशेति गणेशेति पुत्रमाहूय सत्वरम् ।
अलब्धान्न जलस्तेन सहैव बुभुजे मुदा ॥ १२॥
कालेन तस्य पुत्रोऽसौ पञ्चत्वमगमन्निशि ।
चन्द्रोदये चतुर्थ्यां तु कृष्णायामेव भूभुज ॥ १३॥
अज्ञानकृतसङ्कष्ट चतुर्थीव्रतसम्भवात् ।
पुण्याद्वैनायकं धाम जगाम सुखदं तु सः ॥ १४॥
विमानवरमारुढो वीक्ष्यमाणोऽप्सरैगणैः ।
वैमानिकैः स्तुयमानो दिव्यपुष्पैरथार्चितः ॥ १५॥
तेनैव पुण्यशेषेण कृतवीर्याभिधो नृपः ।
तव पुत्र समापेदे पुत्रत्वमधुना भुवि ॥ १६॥
तदघौघक्षयात् तस्य पुत्र उत्पत्स्यतेऽनघ ।
इति ब्रह्मवचः श्रुत्वा चकम्पे स नृपोत्तमः ॥ १७॥
पप्रच्छ पुनरेवासावुपायं पापनाशनम् ।
कृतवीर्य पितोवाच ।
ब्रह्महत्याकृतस्तस्य पापं नश्येत्कथं विधे ॥ १८॥
तद् वदस्व दयासिन्धो यद्यपि स्यात् सुदुष्करम् ।
ब्रह्मोवाच ।
स चेद् व्रतं तु सङ्कष्टचतुर्थीसंज्ञकं तव ॥ १९॥
सुतः करिष्यते सम्यक्तेन पापात् प्रमोक्ष्यते ।
राजोवाच ।
कथं तत्क्रियते ब्रह्मन् कस्मिन्मासे व्रतं शुभे ॥ २०॥
तत्सर्वं वद मे स्वामिन् येन पापं लयं व्रजेत् ।
ब्रह्मोवाच ।
चतुर्थी भौमवारे तु माघे कृष्णे भवेद्यदि ॥ २१॥
शुभे मुहूर्ते चन्द्रे च कुर्यात् प्रारम्भमस्य ह ।
दन्तधावनपूर्वाणि स्नानानि चैकविंशतिम् ॥ २२॥
कुर्वीत नित्यकर्माणि जपेन्मत्रं ततः परम् ।
निराहारो भवेन्मौनि परनिन्दाविवर्जितः ॥ २३॥
दुष्टकर्म च ताम्बूलं वर्जयेन्नियमेन च ।
वर्जयेज्जलपानं च परद्रोहं च पैशुनम् ॥ २४॥
तिलामलककल्केन दिनान्ते स्नानमाचरेत् ।
एकाक्षरं षडर्णं वा जपेद्वा वैदिकं मनुम् ॥ २५॥
गणेशप्रीतये तस्य नाममन्त्रं यथाविधि ।
ध्यायेत् स्थिरेण मनसा देवदेवं गजाननम् ॥ २६॥
मुहुर्तमात्रेण ततः पूजयेद् गणनायकम् ।
उपचारैः षोडशभिर्नैवेद्यर्विविधैरपि ॥ २७॥
मोदकापूपशष्कूलीलड्डूकैर्वटकैरपि ।
पायसैर्विविधरन्नैर्व्यञ्जनैर्लेह्यचोष्यकैः ॥ २८॥
फलैर्नानाविधैः पूगताम्बूलैर्दक्षिणादिभिः ।
एकविंशतिदूर्वाभिर्दीपैश्च कुसुमैरपि ॥ २९॥
चन्द्रोदयेऽर्घ्यदानेन तिथये मन्त्रपूर्वकम् ।
गजाननाय पश्चात्तु चन्द्राय च ततः परम् ॥ ३०॥
निवेद्य पूजनं नत्वा क्षमाप्य च ततः पुनः ।
ब्राह्मणान्भोजयेद् भक्त्या शक्त्या वा चैकविंशतिम् ॥ ३१॥
दश द्वादश वाऽशक्तो दक्षिणाभिः सुतोषयेत् ।
कथां श्रुत्वा ततः सम्यक् स्वयं भुञ्जीत वाग्यतः ॥ ३२॥
गीतवादित्रघोषेण शेषां रात्रिं ततो नयेत् ।
एवं व्रतं चैकवर्षं कृतं चेद् यत्नतो नृप ॥ ३३॥
सर्वपापक्षयात्तस्य भविता पुत्र उत्तमः ।
अन्य वा चिन्तयेत्कामं यं यं तं प्राप्नुयान्नरः ॥ ३४॥
सर्वसङ्कटनाशः स्यात् परचक्राद् भयं न हि ।
शमीमूले जपंस्तिष्ठन्नुपवासपरायणः ॥ ३५॥
आचन्द्रोदयपर्यन्तं व्रतमेतत् समाचरेत् ।
अन्धो मूको जडः पङ्गुस्तदीप्सितमवाप्नुयात् ॥ ३६॥
दारान् पुत्रान् धनं राज्यं लभते नात्र संशयः ।
श्रावणादिषु मासेषु घृतलड्डवादिकं पृथक् ॥ ३७॥
भक्षेयद् वर्षपर्यन्तं तस्य सिद्धिरनुत्तमा ।
श्रावणे सप्तलड्डुकान्नभस्ये दधिभक्षणम् ॥ ३८॥
आश्विने चोपवासं च कार्तिके दुग्धपानकम् ।
मार्गशीर्षे निराहारं पौषे गोमूत्रपानकम् ॥ ३९॥
तिलाञ्च भक्षयेन्माघे फाल्गुने घृतशर्कराम् ।
चैत्रमासे पञ्चगव्यं वैशाखे शतपत्रिकाम् ॥ ४०॥
घृतस्य भोजनं ज्येष्ठे आषाढे मधुभक्षणम् ।
कृतवीर्यपितो वाच ।
अङ्गारकचतुर्थ्यां तु विशेषोऽभिहितः कुतः ॥ ४१॥
वद त्वं कृपया ब्रह्मन् प्रश्रयावनताय मे ।
शृण्वतो न च मे तृप्तिर्गजानन कथां शुभाम् ॥ ४२॥
इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतकथनं नामैकोनषष्टितमोऽध्यायः ॥ ५९॥
आदितः श्लोकानां समष्ट्यङ्काः २५६१ + ४२ = २६०३
१.०६० अङ्गारक चतुर्थी व्रतोपाख्येन षष्टितमोऽध्यायः
ब्रह्मोवाच ।
अङ्गारकचतुर्थ्यास्तु महिमानं महीपते ।
शृणुष्वावहितो भूत्वा कथयामि समासतः ॥ १॥
अवन्तीनगरे राजन् भारद्वाजो महामुनि ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ २॥
अग्निहोत्ररतो नित्यं शिष्याध्ययनतत्परः ।
नदीतीरगतस्तिष्ठन्ननुष्ठानरतो मुनिः ॥ ३॥
एकस्मिन्नेव समये दृष्टा तेनाप्सरोवरा ।
तां दृष्ट्वा चकमे भौक्तुं भारद्वाजो महामुनिः ॥ ४॥
अकस्मात् कामिनीं दृष्ट्वा कामासक्तोऽभवन्मुनिः ।
कामबाणाभिभूतः सन्निपपात महितले ॥ ५॥
अतिविव्हलगात्रस्य तस्य रेतः प्रचस्खले ।
प्रविष्टं तस्य तद् रेतः पृथिवीबिलमध्यतः ॥ ६॥
तत एकः कुमारोऽभूज्जपाकुसुमसन्निभः ।
तं धरित्री स्नेहवशात् पालयामास सादरम् ॥ ७॥
जनुः स्वं तेन धन्यं सा मनु ते पितरौ कुलम् ।
ततः स सप्तवर्षस्तां पप्रच्छ जननीं निजाम् ॥ ८॥
मयि लोहितिमा कस्मान्मानुषं देहमास्थिते ।
कश्च मे जनको मातस्तन्ममाचक्ष्व साम्प्रतम् ॥ ९॥
धरण्युवाच ।
भारद्वाजमुने रेतः स्खलितं मयि सङ्गतम् ।
ततो जातोऽसि रे पुत्र वर्धितोऽसि मया शुभम् ॥ १०॥
स उवाच ।
तर्हि तं मे मुनिं मातर्दर्शयस्व तपोनिधिम् ।
ब्रह्मोवाच ।
तमादाय तदा देवी भारद्वाजं जगाम कुः ॥ ११॥
उवाच प्रणिपत्यैनं त्वद्वीर्यप्रसवं सुतम् ।
वर्धितं तं पुरोधार्य स्वीकुरुष्व मुनेऽधुना ॥ १२॥
तदायज्ञा ययौ धात्री स्वधाम रुचिरं तदा ।
भारद्वाजः सुतं लब्धा मुमुदे चालिलिङ्ग तम् ॥ १३॥
आघ्राय शिर उत्सङ्गे स्थापयामास तं मुदा ।
सुमुहूर्ते शुभे लग्ने चकारोपनयं मुनिः ॥ १४॥
वेदशास्त्राण्युपादिश्य गणेशस्य मनुं शुभम् ।
उवाच कुर्वनुष्ठानं गणेशप्रीतये चिरम् ॥ १५॥
सन्तुष्टो दास्यते कामान् सर्वांस्तव मनोगतात् ।
ततः स नर्मदातीरे पद्मासनगतो मुनिः ॥ १६॥
सन्नियम्येन्द्रियाण्याशु ध्यायन् हेरम्बमन्तरा ।
जजाप परमं मन्त्रं वायुभक्षो भृशं कृशः ॥ १७॥
एवं वर्षसहस्रं स तपस्तेपे सुदारुणम् ।
माघकृष्णचतुर्थ्यां तमुदये शशिनोऽमले ॥ १८॥
दर्शयामास रूपं स्वं गणनाथोऽथ दिग्भुजम् ।
दिव्याम्बरं भालचन्द्रं नानायुधलसत्करम् ॥ १९॥
चारुशुण्डं लसद्दत्तं शूपकर्णं सकुण्डलम् ।
सूर्यकोटिप्रतिकाशं नानालङ्कारमण्डितम् ॥ २०॥
ददर्श रूपं देवस्य स बालः पुरतः स्थितम् ।
उत्थाय प्रणिपतत्यैनं तुष्टाव जगदीश्वरम् ॥ २१॥
भौम उवाच ।
नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे ।
सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे ॥ २२॥
निरामयाय नित्याय निर्गुणाय गुणच्छिदे ।
नमो ब्रह्मविदां श्रेष्ठ स्थितिसंहारकारिणे ॥ २३॥
नमस्ते जगदाधार नमस्त्रैलोक्यपालक ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥
लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः ।
नमः श्रीगणनाथाय परेशाय नमो नमः ।
इति स्तुतः प्रसन्नात्मा परमात्मा गजाननः ॥ २५॥
उवाचश्लक्ष्णया वाचा बालकं सम्प्रहर्षयन् ।
गजानन उवाच ।
तवोग्रतपसा तुष्टो भक्त्या स्तुत्याऽनयाऽपि च ॥ २६॥
बालभावेऽपि धैर्यात्ते ददामि वाञ्छितान् वरान् ।
एवमुक्तो भूमिपूत्रो वच ऊचे गजाननम् ॥ २७॥
भौम उवाच ।
धन्या दृष्टिर्जननमपि मे दर्शनात्ते सुरेश
धन्यं ज्ञानं कुलमपि विभोः भूः सशैलाऽद्य धन्या ।
धन्यं चैतत्सकलमपि तपो येन दृष्टोऽखिलेशो
धन्या वाणी वसतिरपि यया संस्तुतो मूढभावात् ॥ २८॥
यदि तुष्टोऽसि देवेश स्वर्गे भवतु मे स्थितिः ।
अमृतं पातुमिच्छामि देवैः सह गजानन ॥ २९॥
कल्याणकारि मे नाम ख्यातिमेतु जगत्त्रये ।
दर्शनं मे चतुर्थ्यां ते जातं पुण्यप्रदं विभो ॥ ३०॥
अतः सा पुण्यदा नित्यं सर्वसङ्कष्टहारिणी ।
कामदा व्रतकर्तॄणां त्वत्प्रसादात् सदाऽस्तु च ॥ ३१॥
गणेश उवाच ।
अमृतं पास्यसे सम्यग् देवैः सह धरासुत ।
मङ्गलेति च नाम्ना त्वं लोके ख्यातिं गमिष्यसि ॥ ३२॥
अङ्गारकेति रक्तत्वाद् वसुमत्या यतः सुतः ।
अङ्गारकचतुर्थीं ये करिष्यन्ति नरा भुवि ॥ ३३॥
तेषामब्धसमं पुण्यं सङ्कष्टीव्रतसम्भवम् ।
निर्विघ्नता सर्वकार्ये भविष्यति न संशयः ॥ ३४॥
अवन्तीनगरे राजा भविष्यसि परन्तप ।
व्रतानामुत्तमं यस्मात् कृतं ते व्रतमुत्तमम् ॥ ३५॥
यस्य सङ्कीर्तनान्मर्त्यः सर्वान् कामानवाप्नुयात् ।
ब्रह्मोवाच ।
इति दत्वा वरोदेवः पिदधे द्विरदाननः ॥ ३६॥
ततस्तु मङ्गलो देवं स्थापयामास भक्तितः ।
शुण्डामुखं दशभुजं सर्वांवयवसुन्दरम् ॥ ३७॥
प्रासादं कारयामास गजाननमुदावहम् ।
संज्ञां मङ्गलमूर्तीति देवदेवस्य सोऽकरोत् ॥ ३८॥
ततोऽभवत् कामदातृक्षेत्रं सर्वजनस्य तत् ।
अनुष्ठानात् पूजनाच्च दर्शनात् सर्वमोक्षदम् ॥ ३९॥
ततों विनायको देवो विमानवरमुत्तमम् ।
प्रेषयामास स्वगणैर्भौममानेतुमन्तिकम् ॥ ४०॥
ते गत्वा तेन देहेन तं भौममानयन् बलात् ।
गणेशस्यान्तिकं राजंस्तदद्भुतमिवाभवत् ॥ ४१॥
ततो भौमोऽभवत् ख्यातस्त्रैलोक्ये सचराचरे ।
यतो भौमेन सङ्कष्टचतुर्थी भौमसंयुता ॥ ४२॥
कृता प्राप्तं च स्वर्गे चामृतपानं सुरैः सह ।
अतश्चाङ्गारकयुता चतुर्थी प्रथिता भुवि ॥ ४३॥
चिन्तितार्थप्रदानेन चिन्तामणिरिति प्रथाम् ।
प्रयातो मङ्गलमूर्तिः सर्वानुग्रहकारकः ॥ ४४॥
पारिनेरात्तु नगरात् पश्चिमे प्रथितोऽभवत् ।
चिन्तामणिरितिख्यातः सर्व विघ्ननिवारणः ॥ ४५॥
अधुना सिद्धगन्धर्वैः पूज्यते स विधूदये ।
ददाति वाञ्छितानर्थान् पुत्रपौत्रादि सम्पदः ॥ ४६॥
इति श्रीगणेशपुराणे उपासनाखण्डे अङ्गारकचतुर्थीव्रतोपाख्येन षष्टितमोऽध्यायः ॥ ६०॥
आदितः श्लोकानां समष्ट्यङ्काः २६०३ + ४६ = २६४९
१.०६१ चन्द्रशापानुग्रहवर्णनं नामैकषष्ठितमोऽध्यायः
ब्रह्मोवाच ।
एकदाऽहं गतो राजन् कैलासं गिरिशालयम् ।
उपविष्टः सभामध्येऽपश्यन्नारदमागतम् ॥ १॥
तनाऽपूर्वं फलं चैक शङ्कराय निवेदितम् ।
ययाचे गणपस्तत्तु कुमारोऽपि च शम्भवे ॥ २॥
कस्मै देयं फलमिदं अपृच्छच्छं करोऽपि माम् ।
अहं प्रोवाच बालाय कुमारायेति तं तदा ॥ ३॥
दत्तं शिवेन तस्मै तच्चुक्रोध च गजाननः ।
ततो ब्रह्मा स्वभवनं गत्वा स्रष्टुमियेष सः ॥ ४॥
तत्रो विघ्नकरो विघ्नं चकार परमाद्भुतम् ।
उग्ररूपं समास्थाय भीषयामास मां तदा ॥ ५॥
मयि भ्रान्तेऽथ स विधुर्दृष्ट्वा क्रूरतरं तु तम् ।
अहसत् परमं चन्द्र स्वगणैर्द्विरदानमम् ॥ ६॥
ततः परमक्रुद्धोसाऽवशपत्तं विधुं तदा ।
अदर्शनीयस्त्रैलोक्ये मद्वाक्यात्वं भविष्यसि ॥ ७॥
कदाचित्केन दृष्टः स महापातकवान् भवेत् ।
एवं शप्त्वा गतो देवो निजधाम गणैर्वृतः ॥ ८॥
चन्द्रस्तु मलिनो दीनो लीनश्चिन्तामये हृदे ।
अणिमादिगुणोपेते जगत्कारणकारणे ॥ ९॥
कथमाचरितं दौष्ट्यमज्ञानाद् बालवन्मया ।
अदर्शनीयः सर्वेषां विवर्णो मलिनोऽभवम् ॥ १०॥
कथं सुरूपो वन्द्यश्च कलाभिः सुरतोषकः ।
एतस्मिन्नन्तरे देवैः श्रुतः शापो महान् विधोः ॥ ११॥
तत्रेयुर्वह्निशक्राद्या यत्रास्तेऽसौ गजाननः ।
विजिज्ञपुः सुरोघास्ते विघ्नकारणकारिणे ॥ १२॥
देवा ऊचः ।
त्वं देवदेव जगतामसि वन्दनीयस्त्वं पासि हंसि विदधासि यथेष्टमीश ।
त्वं निर्गुणोऽपि गुणकृद् गुणिनां त्र्यधीश ! त्वामेव देव ! शरणं वयमद्य याताः ॥ १३॥
पाहीश ! नोऽखिलजगत् तव शापभीतं चन्द्रेऽपराधिनि कथं पतितं सुकष्टम् ।
तस्माद् वयं च जगदीश जगच्च चन्द्रः शर्माप्नुयाम भुवनेश ! तथा विधेहि ॥ १४॥
कष्टे निपतितं विश्वमदृश्ये शशिनि प्रभो ।
अनुग्रहं च चन्द्रेऽस्मिँस्त्रैलोक्ये कर्तुमर्हसि ॥ १५॥
नाज्ञासीद् यस्य ते रूपं महिमानं श्रुतित्रयम् ।
स कस्य स्तवनीयः स्यात् तथापि स्तूयसेऽखिलैः ॥ १६॥
कृतकृत्या वयं तेऽद्य दर्शनाद् भाषणादपि ।
शरणं ते प्रपन्नाः स्मः प्रपन्नार्तिहराव्यय ॥ १७॥
इति तद्वचनं श्रुत्वा जगाद द्विरदाननः ।
सुप्रसन्नः स्तवैस्तेषां धर्मकामार्थ मोक्षदः ॥ १८॥
विकट उवाच ।
प्रसन्नोऽहं सुराःस्तुत्या वृणुध्वं वाञ्छितं महत् ।
असाध्यमपि वो दद्यां त्रिषु लोकेषु यद् भवेत् ॥ १९॥
देवा ऊचुः ।
सुधाकरेऽनुग्रहं ते सर्व ईहामहे वयम् ।
अनुगृहीते तस्मिंस्तु निखिलानुग्रहो भवेत् ॥ २०॥
गणेश उवाच ।
एकाब्दं वा तदर्द्ध वा तदर्द्धार्द्ध मथापि वा ।
अदर्शनीयोऽस्तु शशी ब्रूतान्यं वा वरं सुराः ॥ २१॥
ततस्ते दण्डवत् सर्वे प्रणेमुर्द्विरदाननम् ।
उवाच प्रणताँस्ताँस्तु विकटो भावपूर्वकम् ॥ २२॥
अप्रमाणं कथमहो वचनं कर्त्तुमुद्यताः ।
शरणं च प्रपन्नानां न त्यागं कर्तुमुत्सहे ॥ २३॥
मेरूश्चलेत् पतेत् सूर्यो वह्निः शीतो भवेत् यदि ।
मर्यादामुत्सृजेत् सिन्धुर्वचो मे नानृतं भवेत् ॥ २४॥
अथापि गदतो वाक्यं शृणुध्वं सुरसत्तमाः ।
भाद्रशुक्लचतुर्थ्यां यो ज्ञानतोऽज्ञानतोऽपि वा ॥ २५॥
अभिशापी भवेच्चन्द्रदर्शनाद् भृशदुःखभाक् ।
इति तद्वचनं श्रुत्वा देवा मुमुदिरेऽखिलाः ॥ २६॥
ओमिति प्रणिपत्योचुः पुष्पवृष्टिं च चिक्षिपुः ।
तदनुज्ञां गृहीत्वेयुर्देवाश्चन्द्रमसं प्रति ॥ २७॥
तमूचुस्त्वं मूढतरो योऽहसद् द्विरदाननम् ।
त्रैलोक्यं सङ्कटे क्षिप्तं त्वया श्रेष्ठापराधिना ॥ २८॥
त्रैलोक्यनायके देवे जगत्त्रयविधायिनि ।
अव्यये निर्गुणे नित्ये परब्रह्मस्वरूपिणि ॥ २९॥
गजाननेऽखिलगुरावपराधं यतोऽचरः ।
एवं नियमितं तेन सर्वलोकहितेप्सुना ॥ ३०॥
अस्माभिः परमक्लेशात् प्रसन्नोऽसौ कृतो विभुः ।
भाद्रपदचतुर्थ्यां त्वं न द्रष्टव्यः कदाचन ॥ ३१॥
त्वं चापि शरणं याहि देवदेवं गजाननम् ।
तत्प्रसादाच्छुद्धतनुः परां ख्यातिमवाप्स्यसि ॥ ३२॥
इति चन्द्रो वचःश्रुत्वा देवानां हितमात्मनः ।
जगाम शरणं देवं शरणागतवत्सलम् ॥ ३३॥
गजाननं सुरेशानं महेशानादिवन्दितम् ।
जजाप परमं मन्त्रमेकाक्षरमघापहम् ॥ ३४॥
विधुरिन्द्रोपदिष्टं स परमेण समाधिना ।
दशद्वादशवर्षाणि तपस्तेपे सुदारूणम् ॥ ३५॥
गङ्गाया दक्षिणे तीरे सर्वसिद्धिप्रदायिनि ।
ततः प्रसन्नो भगवान् पुरो यातो गजाननः ॥ ३६॥
रक्तमाल्याम्बरधरो रक्तचन्दनचर्चितः ।
चतुर्भजो महाकायः सिन्दूरारूणविग्रहः ॥ ३७॥
प्रभया भासयँल्लोकान् कोटिसूर्याधिकप्रभः ।
तेजः समूहं दृष्ट्वा तं प्रचकम्पे भृशं शशी ॥ ३८॥
परमं धैर्यमास्थाय कृताञ्जलिपुटः पुरः ।
तर्कयामास मनसा प्रायोऽयं द्विरदाननः ॥ ३९॥
वरं दातुमिहायात इति मत्वा ननाम तम् ।
तुष्टाव परया भक्त्या देवदेवं गजाननम् ॥ ४०॥
चन्द्र उवाच ।
नमामि देवं द्विरदाननं तं यः सर्वविघ्नं हरते जनानाम् ।
धर्मार्थकामाँस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय ॥ ४१॥
कृपानिधे ब्रह्ममयाय देव विश्वात्मने विश्वविधानदक्ष ।
विश्वस्य बीजाय जगन्मयाय त्रैलोक्यसंहारकृते नमस्ते ॥ ४२॥
त्रयीमयाऽखिलबुद्धिदात्रे बुद्धिप्रदीपाय सुराधिपाय ।
नित्याय सत्याय च नित्यबुद्धे नित्यं निरीहाय नमोऽस्तु नित्यम् ॥ ४३॥
अज्ञानदोषेण कृतोऽपराधस्तं क्षन्तुमर्होऽसि दयाकर त्वम् ।
तवापि दोषः शरणागतस्य त्यागे महात्मन् कुरु मेनुकम्पाम् ॥ ४४॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा सुप्रसन्नो गजाननः ।
तस्मै वरान् ददौ देवः स्तुत्या नत्या सुतोषितः ॥ ४५॥
यथापूर्वं स्थित रूपं तथा तत् ते भविष्यति ।
भाद्रशुक्लचतुर्थां त्वां यो नरः सम्प्रपश्यति ॥ ४६॥
तस्याभिशापो नूनं स्यात् पापं हानिश्चं मूर्खता ।
तस्यामदर्शनीयोऽसि यदुक्तं मे सुरैः सह ॥ ४७॥
कृष्णपक्षे चतुर्थ्यां तु व्रतं यत् क्रियते नरैः ।
तवोदयेऽहं पूज्यस्त्वं पूजनीयः प्रयत्नतः ॥ ४८॥
दर्शनीयः प्रयत्नेन विपरिते व्रतं वृथा ।
ललाटे कलया तिष्ठ मम प्रीतिकरः शशिन् ॥ ४९॥
प्रतिमासं द्वितीयायां नभस्यश्च भविष्यसि ।
एवं लब्धवरश्चन्द्रो यथापूर्वोऽभवत् तदा ॥ ५०॥
स्थापयामास वरदमूर्तिं देवर्षिभिः सह ।
भालचन्द्रेति नामाऽस्य चक्रुस्ते मुनयः सुराः ॥ ५१॥
प्रासादं कारयामास काञ्चनं रत्नसंयुतम् ।
उपचारैः षोडशभिः पूजयायास सादरम् ॥ ५२॥
पूजयित्वा सुराः सर्वै मुनयश्च वरान् ददुः ।
सिद्धिक्षेत्रमिदं लोके विख्यातं तु भविष्यति ॥ ५३॥
अनुष्ठानवतामत्र सर्वसिद्धिकरं भवेत् ।
ततस्ते देव मुनयो नत्वा तं द्विरदाननम् ॥ ५४॥
ययुः प्रसन्नमनसः स्वं स्वं स्थानं मुदा युताः ।
यातेषु देवमुनिषु देवोऽपि पिधदे वपुः ॥ ५५॥
अन्तर्हिते भालचन्द्रे चन्द्रौ हृष्टमना इव ।
स्वं धाम प्रतिपद्यैव स्वं धाम प्रययौ तदा ॥ ५६॥
इति श्रीगणेशपुराणे उपासनाखण्डे चन्द्रशापानुग्रहवर्णनं नामैकषष्ठितमोऽध्यायः ॥ ६१॥
आदितः श्लोकानां समष्ट्यङ्काः २६४९ + ५६ = २७०५
१.०६२ दूर्वोपाख्यानं नाम द्विषष्टितमोऽध्यायः
कृतवीर्य पितोवाच ।
चतुर्थ्यां कृष्णपक्षे तु भुक्तिश्चन्द्रोदये यतः ।
क्रियते तन्निमित्तं यत्पृष्टं तन्मे निरूपितम् ॥ १॥
दुर्वाङ्कुरार्पणस्यापि श्रोतुमिच्छामि कारणम् ।
किमर्थं गणानाथस्य प्रिया दूर्वाङ्कुरा वद ॥ २॥
ब्रह्मोवाच ।
हन्त ते कथयिष्यामि दूर्वाङ्कुरसमर्पपणे ।
यत् फलं गणानाथस्य श्रूयतां तन्नृपोत्तम ॥ ३॥
जाम्बेति नगरी ख्याता देशे दक्षिणतोऽभवत् ।
क्षत्रियः सुलभोऽस्यां तु गणी दानी धनी बली ॥ ४॥
विवेक्यासीन् मान्यमानी शमी दमपरायणः ।
सर्वशास्त्रार्थतत्त्वज्ञः सर्ववेदार्थतत्त्ववित् ॥ ५॥
विकटे भक्तिमान् नित्यं स्तुतिस्तोत्र परायणः ।
तस्य भार्या सुमुद्राऽऽसीन्नाम्ना परमविश्रुता ॥ ६॥
अत्यन्तसुन्दरी साध्वी स्वरुपाद्धिक्कृताप्सराः ।
देवविप्राऽतिथिपरा पत्युश्चितानुवर्तिनी ॥ ७॥
पतिव्रतानां सर्वासां मान्या श्रेष्ठतमा नृप ।
एकस्मिन् दिवसे तौ तु दम्पती स्नाननिर्मलौ ॥ ८॥
उपविष्टौ पुराणार्थं परस्परमनोनुगौ ।
यावत्तावत् समायातो ब्राह्मणो मधुसूदनः ।
भिक्षाभिलाषी सततं परमेश्वरचिन्तकः ॥ ९॥
कुचैलश्च दरिद्रत्वात् साम्बरोऽपि दिगम्बरः ।
सुलभस्तं तु दृष्ट्वैव प्रणनाममुदा युतः ॥ १०॥
जहास चैनं सहसा मोहाविष्टो द्विजोत्तमम् ।
स उवाच ततः शापं प्रतिक्षुब्धों महामुनिः ॥ ११॥
क्रोधसंरक्तनयनस्त्रैलोक्यं प्रदहन्निव ।
हलकर्षणको नित्यं नित्यं दुःखसमन्वितः ॥ १२॥
वृषो भव कुबुद्धे त्वं योऽहसद् विवृतैर्द्विजैः ।
भर्तुः शापं परिश्रुत्य सुमुद्रा क्रोधमूर्छिता ॥ १३॥
अशपत् तं द्विजं रुष्टा सर्पिणीव पदाहता ।
यतस्त्वयाऽविवेकेन शापो दत्तः पतेर्मम ॥ १४॥
अतस्त्वं चक्रिवान् भूत्वा विष्ठाशी भव कुद्विज ।
सोऽपि तामशपत् क्रूरं श्रुत्वा शापं तदीरितम् ॥ ५५॥
स्त्रीत्वात् त्वमशपो यस्मात्त्वं चाण्डाली भविष्यसि ।
दरिद्रा दोषबहुला विण्मूत्रादाऽशुभङ्करी ॥ १६॥
एवं परस्परं शप्त्वा त्यक्त्वा देहान् सुदुर्लभान ।
सुलभो वृषभो जातो हलकर्षणवान् भवन् ॥ १७॥
न विश्रान्तिः क्षणं तस्य विप्रशापात् तदाऽभवत् ।
द्विजोऽपि रासभेर्योनौ जातोऽसौ मधुसूदनः ॥ १८॥
जाता सुमुद्रा चाण्डाली दुष्टा प्राणिविहिंसिका ।
दरिद्रा पैशाचवती विण्मूत्राशनतत्परा ॥ १९॥
अति शुष्कशरीरा सा दन्तुरा विकटानना ।
कदाचिदटमाना सा दक्षिणे नगरस्य तु ॥ २०॥
प्रासादं गणनाथसस्य ददर्श परमाद्भुतम् ।
नानावृक्षलताजालैर्नाना पक्षिगणैर्युतम् ॥ २१॥
यत्र योगीश्वराः केचिदनुष्ठानरताः सदा ।
उपासका गणेशस्य नियमस्था वसन्ति हि ॥ २२॥
केचित् कामार्थिनः केचित् पुत्रमोक्षधनार्थिनः ।
कदाचिद् भाद्रमासस्य चतुर्थ्यां तु गृहे गृहे ॥ २३॥
तस्मिन्पुरे सम्प्रवृत्तो गणनाथमहोत्सवः ।
अतिवृष्टिः प्रवृत्ता च महाप्रलयसूचिका ॥ २४॥
चाण्डाली वृष्टि भीता सा याति यद् यन्निवेशनम् ।
ततस्ततोऽखिलजनैर्निरस्ता ताडनादिभिः ॥ २५॥
ततो देवालयं याता पाणावग्निं प्रगृहय सा ।
तत्राप्यताडयन् केचित् योगिभिस्ते निराकृताः ॥ २६॥
प्रज्वाल्य सा तृणैरग्निमुष्णान्यङ्गानि कुर्वती ।
अकस्माद् वायुना प्रागादेको दूर्वाङ्कुरस्तदा ॥ २७॥
पतितो गणनाथस्य मस्तके दैवयोगतः ।
स रासभः शीतभीतो यातो देवालयं तदा ॥ २८॥
तदा वृषो लाङ्गलात् तु मुक्तो दैवात् समाययौ ।
प्रासादं गणनाथस्य भाविनोऽर्थस्य गौरवात् ॥ २९॥
उभावपि तृणं तस्याश्चाण्डाल्यास्तौ बभक्षतुः ।
परिसुप्ते जने तत्र तयोर्युद्धमवर्तत ॥ ३०॥
लत्ताभ्यां चैव शृङ्गाभ्यां गजानन समीपतः ।
तयोरास्यान्निपतितौ शुण्डायां च पदे तदा ॥ ३१॥
दूर्वाङ्कुरौ गणेशस्य तुतोष च गजाननः ।
ततः सा यष्टिमादाय देवान्तिकमुपागमत् ॥ ३२॥
अहनन् तौ खरवृषौ स्वयं पूजां बभक्ष च ।
खुरशब्दं तयोः श्रुत्वा बुबुधे निद्रितो जनः ॥ ३३॥
बहिश्चकार दण्डेन मुष्टिकूर्परघाततः ।
पलायनपरा साऽपि ताडिता शर्करादिभिः ॥ ३४॥
चाण्डाल्या रासभस्यापि स्पर्शशङ्काकुलैर्जनैः ।
स्नापितस्तीर्थतोयेन मन्त्रितेन गजाननः ।
पूजितः परया भक्त्या नानाद्रव्यैरनेकशः ॥ ३५॥
वृषरासभचाण्डालीरतिदुष्टा जनाः पुनः ।
ताडयामासुरव्यग्रा लगुडैर्जानुभिस्तलैः ।
देवद्वारे च पिहिते गतिस्तेषां न विद्यते ॥ ३६॥
भ्रमतां क्रन्दतां तेषां त्रयाणां दारूणैः स्वरैः ।
मनस्तु देवदेवस्य विकटस्य तदा हृतम् ॥ ३७॥
एतेषां तु प्रसङ्गेन पुनः पूजा ममाऽभवत् ।
एतैश्च पूजितश्चाहमेकदूर्वाङ्कुरादिभिः ॥ ३८॥
प्रदक्षिणा बहुतरा कृता दुष्टेषु सत्स्वपि ।
भाद्रशुक्लचतुर्थ्यां मे दूर्वामेकां समर्पयेत् ॥ ३९॥
स मे मान्यश्च पूज्यश्च यश्च कुर्यात् प्रदक्षिणाम् ।
तस्मादेतान् विमानेन स्वधाम प्रापयाम्यहम् ॥ ४०॥
एवं विमानमप्रेषीत् स्वगणैरूपलक्षितम् ।
स्वरूपधारिभिर्देवो गन्धर्वाप्सरसां गणैः ॥ ४१॥
युतं वादित्रनिचयैः पुष्पैः परिमलैरपि ।
दिव्यभोगसमायुक्तं पताकाध्वजमण्डितम् ॥ ४२॥
तानादाय गणास्ते तु गजाननस्वरूपिणः ।
तस्मिन् विमाने निक्षिप्य दिव्यदेहान् मुदायुतान् ॥ ४३॥
गजाननाज्ञया तस्य धाम सम्प्रापयन् जवात् ।
पश्यतां सर्व लोकानामाश्चर्यमभवद्हृदिः ॥ ४४॥
एतेषां पूर्वपुण्येन गतिरेषेति चाब्रुवन् ।
ततो योगीश्वराः केचित् त्यक्त्वा ध्यानं गता गणान् ॥ ४५॥
पप्रच्छु कथमेतेषां ब्रूत पुण्या गतिर्ध्रुवा ।
अतिपातकिनामेषां पुण्यलेशो न विद्यते ॥ ४६॥
गतिः सुदुर्लभा कस्मात् प्राप्ता नो वदताऽनघाः ।
तदेवाशु चरिष्यामस्त्यक्त्वाऽनुष्ठानमात्मनः ॥ ४७॥
असङ्ख्यातो गतः कालो न देवो दृक्पथं गतः ।
विरक्तानां वायुभुजामनुष्ठानवतां सदा ॥ ४८॥
धामप्राप्तिः कदा नः स्याद् गणेशस्य वदन्तु नः ॥ ४९॥
इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वोपाख्यानं नाम द्विषष्टितमोऽध्यायः ॥ ६२॥
आदितः श्लोकानां समष्ट्यङ्काः २७०५ + ४९ =२७५४
१.०६३ दुर्वामाहात्म्ये त्रिषष्टितमोऽध्यायः
गणा ऊचुः ।
शृणुध्वं योगिनः सर्वे स्थिरीकृत्य मनश्चलम् ।
यन्न शेषो भवेद् वक्तुं समर्थश्चतुराननः ॥ १॥
तद् वक्तुं कः समर्थःस्याद् यथाशक्ति वदाम च ।
कुर्वन्ति स्तवनं यस्य सर्वदाऽजशिवादयः ॥ २॥
तस्य को गणनाथस्य महिमानं वदेत् स्फुटम् ।
इत्थं तदीयां लीलां वा तथापि शृणुतानघाः ॥ ३॥
दूर्वाङ्कुराणां महिमा न ज्ञातो मुनिभिः सुरैः ।
यज्ञैर्दानैस्तपोभिश्च व्रतैर्होमैर्न वाप्यते ॥ ४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं नारदस्य महात्मनः ॥ ५॥
एकदा नारदोऽगच्छद् वासवं द्रष्टुमुत्सुकः ।
पूजिता परया भक्त्या कृतासन परिग्रहम् ॥ ६॥
मुनिं पप्रच्छ बलहा दूर्वामाहात्म्यमादरात् ।
इन्द्र उवाच ।
किमर्थं देवदेवस्य गणेशस्य महात्मनः ।
विशेषतः प्रिया ब्रह्मन् महादूर्वाङ्कुरा मुने ॥ ७॥
मुनिरूवाच ।
कथयामि यथाज्ञातं दूर्वामाहात्म्यमुत्तमम् ।
स्थावरे नगरे पूर्वं कौण्डिन्योऽभून्महामुनिः ॥ ८॥
उपासको गणेशस्य तपोबलसमन्वितः ।
रमणीयतरस्तस्य ग्रामदक्षिणभागतः ॥ ९॥
आश्रमः सुमहानासील्लतावृक्षसमन्वितः ।
सरांसि फुल्लपद्मानि यत्रासन् सुमहान्ति च ॥ १०॥
भ्रमरैरुपजुष्टानि हंसकारण्डकैरपि ।
चक्रवाकैर्बकैश्चैव कच्छपैर्जल कुक्कुटैः ॥ ११॥
स तु ध्यानरतस्तत्र प्रारभत् तप उत्कटम् ।
पुरः स्थाप्य महामूर्तिं गणेशस्य चतुर्भुजाम् ॥ १२॥
सुप्रसन्नां सुवरदां दूर्वायुक्तां सुपूजिताम् ।
जजाप परमं मन्त्रं षडर्णं देवतोषकम् ॥ १३॥
पप्रच्छ संशयाविष्टा पत्नी नाम्नाऽऽश्रयाऽस्य तम् ।
आश्रयोवाच ।
स्वामिन् गजानने देवे दूर्वाभारं दिने दिने ॥ १४॥
समर्पयसि कस्मात् त्वं तृणैः कोऽपि न तुष्यति ।
अस्ति चेत् पुण्यमेतेन तन्मे त्वं कृपया वद ॥ १५॥
कौण्डिन्य उवाच ।
शृणु प्रिये प्रवक्ष्यामि दूर्वामाहात्म्यमुत्तमम् ।
धर्मस्य नगरे पूर्वमासीदुत्सव उत्तमः ॥ १६॥
सर्वे देवाः सगन्धर्वा आहूताश्चाप्सरो गणाः ।
सिद्धचारणनागाश्च मुनयो यक्षराक्षसाः ॥ १७॥
तिलोत्तमाया नृत्यन्त्याः प्रावारो न्यपतत् भुवि ।
ददर्श तस्याः स यमः कुचौ चारू बृहत्तमौ ॥ १८॥
अभवत् कामसन्तप्तोऽविश्रान्तो निरपत्रपः ।
इयेषाऽऽलिङ्गितुं तस्याश्चुम्बितुं च तदाननम् ॥ १९॥
सदसो निर्गतस्तस्माल्लज्जयाऽधोमुखो यमः ।
गच्छतस्तस्य रेतश्च स्खलितं पतितं भुवि ॥ २०॥
ज्वालामाल्यभवत्तस्मात् पुरुषो विकृताननः ।
कुर्वन् दंष्ट्रारवं क्रूरं त्रासयन् भुवनत्रयम् ॥ २१॥
ददाह पृथिवीं सर्वां जटाभिर्गगनं स्पृशत् ।
चकम्पे तस्य शब्देन त्रिलोकीमानसं भृशम् ॥ २२॥
तदैव विष्णुमगमँस्ते तु सर्वे सभासदः ।
स्तुतिं नानाविधां कृत्वा नानास्तोत्रैर्यथामति ॥ २३॥
प्रार्थयामासुरव्यग्राः सर्वलोकहिताय तम् ।
स तैः सर्वैः समगमद् गजाननमनामयम् ॥ २४॥
तस्य नाशं ततो ज्ञात्वा तुष्टुवुः सर्व एव तम् ।
देवा मुनयश्चोचुः ।
नमो विघ्नस्वरुपाय नमस्ते विघ्नहारिणे ॥ २५॥
नमस्ते सर्वरूपाय सर्वसाक्षिन् नमोऽस्तुते ।
नमो देवाय महते नमस्ते जगदादये ॥ २६॥
नमः कृपानिधे तुभ्यं जगत्पालन हेतवे ।
नमस्ते पूर्णतमसे सर्वसंहारकारिणे ॥ २७॥
नमस्ते भक्तवरद सर्वदात्रे नमो नमः ।
नमस्तेऽनन्यशरण सर्वकामप्रपूरक ॥ २८॥
नमस्ते वेदविदुषे नमस्ते वेदकारिणे ।
कमन्यं शरणं यामः कोनु नःस्याद्भयापहः ॥ २९॥
अकाल एव प्रलयः कथं लब्धो जनैरयम् ।
हा गजानन देवेश हा हा विघ्नहराव्यय ॥ ३०॥
सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे ।
इति तद्वचनं श्रुत्वा करूणाब्धिर्गजाननः ॥ ३१॥
आविरासीत् पुरस्तेषां शिशुरूपोऽरिभीतिहा ।
बिभ्रत् कमलनयने शतचन्द्रनिभाननम् ॥ ३२॥
कोटिसूर्यप्रभाजालः कोटिकन्दर्पजिद्वपुः ।
कुन्दकुड्मलशोभाजिद्दशनोऽधरबिम्बिजित् ॥ ३३॥
उन्नसो भृकुटीचारुनयनः कम्बुकण्ठयुक् ।
विशालवक्षा जानुस्पृग्भुजद्वययुतो बली ॥ ३४॥
गम्भीरनाभिविलसदुदरोऽतिलसत्कटिः ।
रम्भाशोभापरिस्पर्द्धिगुरूरूश्चासजानुयुक् ॥ ३५॥
सुचारूजङ्घागुल्फश्रीविलसत्पादपद्मकः ।
नानालङ्कारशोभाढ्यो महार्घवसनावृतः ॥ ३६॥
एवं देवं निरीक्ष्यैव नगरस्य पुरो भुवि ।
उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम् ॥ ३७॥
प्रणेमुर्दण्डवद् भूमौ शक्रं देवगणा यथा ।
देवा ऋषय ऊचुः ।
को भवान् कुत आयातः किं कार्यं वद नो विभो ॥ ३८॥
वयमेवं विजानीमो ब्रह्मैव बालरूपधृक् ।
अनलासुरसन्त्रासात् त्यक्त्वा कर्माणि संस्थितान् ॥ ३९॥
आविर्भूतं तु नस्त्रातुं दुष्टसंहारकारकम् ।
इति तद्वचनं श्रुत्वा शिशुरूपी गजाननः ॥ ४०॥
बभाषे हास्यवदनः सर्वान् देवमुनीन् प्रति ।
बाल उवाच ।
भवन्तो ज्ञानसम्पन्ना यदुक्तं सत्यमेव तत् ॥ ४१॥
अहं तस्य वधायैव दुष्टस्य परपीडिनः ।
निजेच्छया बालरूपी वेगेनागां सुरर्षयः ॥ ४२॥
उपायं वच्मि वस्तस्य वधेतं कुरुतानघाः ।
सर्वैर्भवद्भिस्तं दृष्ट्वा नोदनीयो बलादहम् ॥ ४३॥
द्रष्टव्यं कौतुकं तस्य मम चैव महत्तरम् ।
एवं श्रुत्वा कृपावाक्यं सर्वे ते हर्षनिर्भराः ॥ ४४॥
उचुः परस्परं सर्वे न जानीमोऽस्य पौरुषम् ।
ईश्वरो बालरूपेण कर्तुमस्य वधं नु किम् ॥ ४५॥
अवतीर्णो भवेत् त्रातुं पीडितं भुवनत्रयम् ।
इत्थमुक्त्वा तु ते सर्वे प्रणेमुः सादरं च तम् ॥ ४६॥
एतस्मिन्नेव काले तु कालानलस्वरूपधृक् ।
दहन् दशदिशो भक्षन्नरलोकं स आययौ ॥ ४७॥
कोलाहलो महानासील्लोकानां क्रन्दतां तदा ।
दृष्ट्वैव सर्वे मुनयः पलायनपरा ययुः ॥ ४८॥
तं च ते मुनयः प्रोचुः शीघ्रं कुरू पलायनम् ।
नो चेद्धिंसिष्यते त्वाद्य सुमहाननलो ध्रुवम् ॥ ४९॥
तिमिङ्गिलो यथा मीनानुरगान् गरूडो यथा ।
इति तद्वचनं श्रुत्वा परमात्मा गजाननः ॥ ५०॥
बालरूपधरोऽतिष्ठत् पर्वतो हिमवानिव ।
सुरर्षयो ययुर्दूरात् त्यक्त्वा तत्रैव बालकम् ॥ ५१॥
इति श्रीगणेशपुराणे उपासनाखण्डे दुर्वामाहात्म्यनिरूपणं नाम त्रिषष्टितमोऽध्यायः ॥ ६३॥
आदितः श्लोकानां समष्ट्यङ्काः २७५४ + ५१ = २८०५
१.०६४ दूर्वामाहात्म्य वर्णनं नाम चतुःषष्टितमोऽध्यायः
आश्रयोवाच ।
देवर्षिषु प्रयातेषु बाले चाचलवत् स्थिते ।
किमासीत् कौतुकं तत्र बाल कालानलोद्भवम् ॥ १॥
तत्सर्वं विस्तरान्मह्यं कथयाशु महामुने ।
नारद उवाच ।
एवं तया कृतः प्रश्नः कौण्डिन्यो मुनिसत्तमः ॥ २॥
यदब्रवीच्छचीभर्तस्तत्त्वं शृणुमयोदितम् ।
कौण्डिन्य उवाच ।
अचलेऽचलवद् बाले स्थिते तस्मिन् गजानने ॥ ३॥
कालानल इवाक्षोभ्य आययौ सोऽनलासुरः ।
तस्मिन्क्षणेऽचला वाऽपि चचालाचलसंयुता ॥ ४॥
नभोदध्वान सदृश घनगर्जितनिःस्वनैः ।
निपेतुर्वृक्षशाखाभ्यः पक्षिवृन्दानि भूतले ॥ ५॥
निर्वारिर्वारिधिर्जातो वृक्षा उन्मूलितास्तदा ।
प्रकम्पनेन महता न प्राज्ञायत किञ्चन ॥ ६॥
तस्मिन्नेव क्षणे देवो बालरूपी गजाननः ।
दधारानलरूपं तं दैत्यं मायाबलेन हि ॥ ७॥
प्राशत् सर्वेषु पश्यत्सु जलधिं कुम्भजो यथा ।
ततः सोऽचिन्तय द्देवो यद्ययं जठरे गतः ॥ ८॥
दहेत् त्रिभुवनं कुक्षौ दृष्टमाश्चर्यमुत्कटम् ।
ततः शक्रो ददौ चन्द्रं तस्य वह्नेः प्रशान्तये ॥ ९॥
भालचन्द्रेति तं देवास्तुष्टुवुर्मुनयोऽपि च ।
तथापि न च शान्तोऽभूदनलः कठमध्यगः ॥ १०॥
ततो ब्रह्मा ददौ सिद्धिबुद्धी मानस कन्यके ।
रम्भोरुपद्मनयने केशशैवलसंयुते ॥ ११॥
चन्द्रवक्त्रेऽमृतगिरौ कूपनाभी सरिद्गती ।
मृणालमध्ये प्रवाल हस्ते शैत्यस्य कारणे ॥ १२॥
उवाचे मे समालिङ्ग्य तव शान्तोऽनलो भवेत् ।
तयोरालिङ्गने शान्तः किञ्चिदेव हुताशनः ॥ १३॥
ददौ सुकोमलं तस्मै कमलं कमलापतिः ।
पद्मपाणिरिति प्रोचुस्तं सर्वे सुरमानुषाः ॥ १४॥
अशान्तेऽग्नौ तु वरूणः सिषेच शीतलैर्जलैः ।
सहस्रफणिनं नागं गिरिशोऽस्मै ददावथ ॥ १५॥
तेन बद्धोदरो यस्माद् व्यालबद्धोदरोऽभवत् ।
तथापि शैत्यं नापेदे कण्ठोऽस्यानलसंयुतः ॥ १६॥
अष्टाशीतिसहस्राणि मुनयस्तं प्रपेदिरे ।
अमृता इव दूर्वास्ते प्रत्येकं सेकविंशतिम् ॥ १७॥
आरोपयन् मस्तकेऽस्य ततः शान्तोऽनलोऽभवत् ।
तुतोष परमात्माऽसौ दूर्वाङ्कुरमरार्चितः ॥ १८॥
एवं ज्ञात्वा तु ते सर्वे पुपूजस्तं गजाननम् ।
दूर्वाङ्कुरैरनेकैस्तैर्जहर्षासौ गजाननः ॥ १९॥
उवाच च मुनीन् देवान् मत्पूजा भक्तिनिर्मिता ।
महती स्वल्पिका वापि वृथा दूर्वाङ्कुरैर्विना ॥ २०॥
विना दूर्वाङ्कुरैः पूजाफलं केनापि नाप्यते ।
तस्मादुषसि मद्भक्तैरेका वाऽप्येकविंशतिः ॥ २१॥
भक्त्या समर्पिता दूर्वा ददाति यत्फलं महत् ।
न तत्क्रतुशतैर्दानैर्व्रतानुष्ठान सञ्चयैः ॥ २२॥
तपोभिरुग्रैर्नियमैः कोटिजन्मार्जितैरपि ।
प्राप्यते मुनयो देवा यद् दूर्वाभिरवाप्यते ॥ २३॥
कौण्डिन्य उवाच ।
इति तद्वचनं श्रुत्वा देवा दूर्वाङ्कुरैः पुनः ।
आनर्चुः परमात्मानं देवदेवं गजाननम् ॥ २४॥
जगर्जानन्दयुक्तोऽसौ नादयन् रोदसी भृशम् ।
हृष्टानां सर्व देवानां मुनीनां च नृणामपि ॥ २५॥
अनेकशो वरान् दत्वा पिदधे बालरूपधृक् ।
कालानलप्रशमन इति तं ते समूचिरे ॥ २६॥
प्रासादे निर्मिते सर्वे स्थाप्य मूर्तिं गजाननीम् ।
विघ्नहरोऽयमित्यस्याभिधां चक्रुर्मुदा सुराः ॥ २७॥
अत्र स्नानं तथा दानं तपोऽनुष्ठानमेव च ।
अनन्तं जायते विघ्नहरस्यास्य प्रसादतः ॥ २८॥
जयः प्राप्तो यतस्तेन पुरं च विजयाभिधम् ।
सर्वेषां च हता विघ्ना विघ्नहर्तेति सोऽभवत् ॥ २९॥
कौडिन्य उवाच ।
इति ते कथितं सर्व दूर्वामाहात्म्यमुत्तमम् ।
श्रवणात् पठनाच्चास्य सर्वपापक्षयो भवेत ॥ ३०॥
पुरातनमितिहांसं शृणु मे गदतः प्रिये ॥ ३१॥
इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४॥
आदितः श्लोकानां समष्ट्यङ्काः २८०५ + ३१ = २८३६
१.०६५ पञ्चषष्टितमोऽध्यायः
कौडिन्य उवाच ।
कस्मिंश्चित्समये देवि सुखासिनं गजाननम् ।
नारदो मुनिरभ्यागाद् द्रष्टुं तं बहुवासरैः ॥ १॥
साष्टाङ्गं प्रणिपत्यैनं प्राहनः सार्थकं जनुः ।
यत् पुण्यनिचयैर्जातं दर्शनं ते गजानन ॥ २॥
इत्युक्त्वा स्वाञ्जलिं बध्वा तस्थौ तत् पुरतो मुनिः ।
धृत्वा करेण तत्पाणिमुपावेशयदासने ॥ ३॥
गजाननो महाभागो महाभागं महामुनिम् ।
नारदो भगवांस्तेन सन्तुष्टो मुनिपुङ्गवः ॥ ४॥
उवाच तं गणाधीशमाश्चर्यं हृदिमेस्तियत् ।
तन्निवेदितुमायातो नत्वा त्वां पुनराव्रजे ॥ ५॥
गजानन उवाच ।
किमाश्चर्यं त्वया दृष्टं हृदि किं तेऽभिवर्तते ।
वद सर्वं विशेषेण ततो व्रज निजाश्रमम् ॥ ६॥
नारद उवाच ।
मैथिले विषये देव जनको राजसत्तमः ।
अतिमानी वदान्यश्च वेदवेदाङ्गपारगः ॥ ७॥
अन्नदानरतो नित्यं ब्राह्मणान् पूजयत्यसौ ।
नानालङ्कारवासोभिर्दक्षिणाभिरनेकशः ॥ ८॥
दीनान्धकृपणेभ्यश्च बहु द्रव्यं ददात्यसौ ।
याचकैर्याच्यते यद् तत् तत् तेन प्रदीयते ॥ ९॥
तथापि न व्ययं याति द्रव्यं तस्य महात्मनः ।
गजाननस्य सन्तुष्ट्या द्रव्यं तद्वर्धते नु किम् ॥ १०॥
इत्याश्चर्यं महद्रष्टुं प्रयातस्तद्गृहानहम् ।
ब्रह्मज्ञानाभिमानेन उपहासं ममाऽकरोत् ॥ ११॥
अहं च तमुवाचेत्थं धन्योऽसि नृपसत्तम ।
चिन्तितं तेऽपि भक्त्याऽयं प्रयच्छति गजाननः ॥ १२॥
स तु गर्वादुवाचेत्थमहमीशो जगत्त्रये ।
अहं दाता च भोक्ता च पाता दापयिता तथा ॥ १३॥
मत्स्वरूपं विना नान्यद् विद्यते भुवनत्रये ।
कर्ता च कारणं चाहं करणं मुनिसत्तम ॥ १४॥
नारद उवाच ।
इति तद्वचनं श्रुत्वा क्रोधेनाहं जगाद तम् ।
ईश्वराज्जगतः कर्ता नान्यः कश्चन विद्यते ॥ १५॥
त्वं तु धर्ममिमं राजन् दम्भेनैव करोषि किम ।
दर्शयिष्ये साक्ष्यमस्य स्वल्पकालेन तेऽनघ ॥ १६॥
इत्युक्त्वा तमहं यातस्त्वदन्तिकमिभानन ।
कौण्डिन्य उवाच ।
आकर्ण्येत्थं मुनेर्वाक्यं पूजयामास तं विभुः ॥ १७॥
अर्घ्यादिभिरलङ्कारैर्दिव्यैःपुष्पैः सचन्दनैः ।
मुनिराज्ञां प्रगृह्यैव वैकुण्ठं विष्णुमभ्यगात् ॥ १८॥
गजाननोऽपि मिथिलां राजभक्तिं परीक्षितुम् ।
कुत्सितं वेषमादाय सर्वज्ञोऽपि समाययौ ॥ १९॥
अनेकक्षतसंयुक्तं स्त्रवद्रक्तममङ्गलम् ।
मक्षिकानिचयाक्रान्तं रदहीनमिवातुरम् ॥ २०॥
गच्छन्तं तादृशं दृष्ट्वा नरा नासानिरोधनम् ।
कुर्वन्ति वाससा केचित् ष्ठीवनं च यथातथा ॥ २१॥
स्खलन् मूर्छन् पतन् गच्छन्नर्भकावलिसंयुतः ।
नृपद्वारं समागम्य द्वारपालानुवाच सः ॥ २२॥
राज्ञे निवेद्यतां दूता अतिथि मां समागतम् ।
ब्राह्मणं क्षुधितं वृद्धमिच्छाभोजनकाङ्क्षिणम् ॥ २३॥
ते तद्वाक्यं तथाचख्युर्गत्वा तं जनकं नृपम् ।
आनीयतामिति प्राह दूता द्रष्टुं तु कौतुकम् ॥ २४॥
ते दूता प्रापयामासुः कुचैल मलिनं नृपम् ।
ददर्श दूराज्जनको कम्पन्तं मक्षिकावृतम् ॥ २५॥
असृक्स्त्रवन्तं वृद्धं तं ब्राह्मणं श्रमवारिणम् ।
तर्कयामास जनक ईश्वरो रूप धृक् नु किम् ॥ २६॥
छलितुं मां समायातो यदि पुण्यं भवेन्मम ।
समाधास्ये मनो ह्यस्य भविष्यं नान्यथा भवेत् ॥ २७॥
इत्येवं चिन्तयत्येव जनके नृपसत्तमे ।
प्रवेशितो द्वारपालैर्ब्राह्मणः पर्यदृश्यत ॥ २८॥
ब्राह्मण उवाच ।
चन्द्रांशुधवलां कीर्तिं श्रुत्वा तेऽहं समागतः ।
देहि मे भोजनं राजन् क्षुधितस्य चिराद् भृशम् ॥ २९॥
मम तृप्तिर्भवेद् यावत् तावदन्नं प्रदीयताम् ।
तव क्रतुशतं पुण्यं भविष्यति नरेश्वर ॥ ३०॥
कौण्डिन्य उवाच ।
इति वाचं निशम्यासौ गृहमध्ये निनाय तम् ।
सम्पूज्य विधिवच्चैनं स्वादवन्नमुपवेषयत् ॥ ३१॥
एकग्रासेन सर्वं स जग्रास द्विजसत्तमः ।
अयाचदन्नमन्यत् स नृपोऽदात् पर्वतोपमम् ॥ ३२॥
तदप्येकेन जग्रास कवलेन द्विजोत्तमः ।
यावदन्नं स्थितं सिद्धं पर्याप्तमयुतस्य यत् ॥ ३३॥
तद्दत्तं पुरतस्तस्य बभक्ष तत्क्षणेन सः ।
असङ्ख्यातेषु पात्रेषु पक्तुं क्षिप्ताः सुतण्डुलाः ॥ ३४॥
दीयते पुरतस्तस्य यः सिद्धश्चोदनोऽभवत् ।
स भक्षयति सर्वं तं तत ऊचे जनो नृपम् ॥ ३५॥
राक्षसोऽयं भवेत्प्रायः किमर्थं दीयते बहु ।
राक्षसेभ्यः प्रदानेन न किञ्चित् पुण्यमाप्यते ॥ ३६॥
केचिदूचुस्त्रिभुवने भक्षितेऽप्यस्य नो भवेत् ।
तृप्तिः परमिका राजन् धान्यमस्मै प्रदीयताम् ॥ ३७॥
ततो धान्यानि सर्वाणि गृहे भूमौ स्थितानि च ।
आनीय चिक्षिपुस्तस्य पुरग्रामगतानि च ॥ ३८॥
पुंसोऽस्य द्विजरूपस्य सर्वभक्षस्य चाति थेः ।
न तृप्तिमगमत्सोऽथ भक्षितेषु च तेषु च ॥ ३९॥
ततो दूता नृपं प्रोचुर्धान्यं क्वापि न लभ्यते ।
इति दूतवचः श्रुत्वा जनकेऽधोमुखे स्थिते ॥ ४०॥
स्वस्तीत्युक्त्वाऽगमद् विप्रो न तृप्तोऽसौ गृहं गृहम् ।
दीयतामन्नमित्याह ते जनास्तं जगुस्तदा ॥ ४१॥
सर्वेषां गृहगं धान्यं सर्वं राज्ञा समाहृतम् ।
जग्धं त्वयाऽखिलं ब्रह्मन् गम्यतां यत्र ते रुचिः ॥ ४२॥
द्विज उवाच ।
कीर्तिरस्य श्रुता लोकान् न दाता जनकात्परः ।
तृप्तिकामः समायातो ह्यतृप्तोऽहं कथं व्रजे ॥ ४३॥
तूष्णीं भूतेषु लोकेषु बभ्रमन् स ददर्श ह ।
विरोचनात्रिशिरसोर्मन्दिरं द्विजयोर्वरम् ॥ ४४॥
तन्मध्यं प्राविशत् सोऽपि गृहस्वामीव सत्तया ।
सर्वोपस्काररहितं धातुपात्र विवर्जितम् ॥ ४५॥
इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः ॥ ६५॥
आदितः श्लोकानां समष्ट्यङ्काः २८३६ + ४५ = २८८१
१.०६६ षट्षष्टितमोऽध्यायः
कौडिन्य उवाच ।
धरामात्रासनौ तौ तु नभःप्रावारसंयुतैः ।
दिगम्बरो सर्वधातुसंस्पर्शवर्जितावुभौ ॥ १॥
अयाचितभुजौ नित्यं जलेनैवाखिलाः क्रियाः ।
द्विजरूपधरोऽपश्यत् कुर्वाणौ सत्त्वशुद्धये ॥ २॥
गृहं च मक्षिकापुञ्जैर्मशकैरभितो वृतम् ।
मूर्तिं च गणनाथस्य पूजितां पुष्पपल्लवैः ॥ ३॥
अनन्यभक्त्या ताभ्यां च तत्पराभ्यां ददर्श सः ।
तावूचे श्रूयतां वाक्यं यन्मया प्रोच्यतेऽनघौ ॥ ४॥
मिथिलाधिपतेः कीर्तिं श्रुत्वाहं क्षुधितो भृशम् ।
तृप्तिकामः समायातो न स तृप्तिं समाकरोत् ॥ ५॥
कर्मणा दाम्भिकेनैव सत्त्वं न परिरक्ष्यते ।
मम तृप्तिकरं किञ्चिद् गृहे चेदस्ति दीयताम् ॥ ६॥
दम्पती ऊचतुः ।
चक्रवर्ती नृपो योऽसौ तेन तृप्तिर्न ते कृता ।
आवाभ्यां तु दरिद्राभ्यां किं देयं तृप्तिकारकम् ॥ ७॥
नदी नद जलैरब्धिरसङ्ख्यैर्यो न पूर्यते ।
बिन्दुमात्रेण पयसा स कथं पूर्यते वद ॥ ८॥
द्विज उवाच ।
भक्त्या दत्तं स्वल्पमपि बहुतृप्तिकरं मम ।
अभक्त्या वाऽथ दम्भेन बहु दत्तं वृथा भवेत् ॥ ९॥
तावूचतुः ।
आवयोर्न गृहे किञ्चिच्छपथस्ते द्विजोत्तम ।
पूजायै गणनाथस्य प्रातर्दूर्वाङ्कुरा हृताः ॥ १०॥
पूजितो गणनाथस्तैस्तत एकोऽवशिष्यते ।
द्विज उवाच ।
भक्त्या दत्तः स एकोऽपि तृप्तये स्यात् प्रदीयताम् ॥ ११॥
कौडिन्य उवाच ।
विरोचना ददौ तस्मै श्रत्वा वाक्यं तदीरितम् ।
एकं दूर्वाङ्कुरं भक्त्या तेन तृप्तोऽभवद्विजः ॥ १२॥
शाल्यन्नं पायसान्नं च नाना पक्वान्नमेव च ।
व्यञ्जनानि च सर्वाणि लेह्यचोष्यान्यनेकधा ॥ १३॥
विरोचना ददौ कल्प्य तस्मिन् दूर्वाङ्कुरे च तम् ।
गृहीत्वा ब्राह्मणस्तं तु बभक्ष परया मुदा ॥ १४॥
तस्मिन् दूर्वाङ्कुरे भक्त्या दत्ते तेनाथ भक्तितः ।
प्रशशाम द्विजस्यास्य तत्क्षणाज्जठरानलः ॥ ५॥
तृप्तिश्च परमा तेन प्राप्ता तत् क्षणमात्रतः ।
आलिलिङ्ग त्रिशिरसं तृप्तो हर्षाद् द्विजस्तदा ॥ १६॥
तत्याज कुत्सितं रूपं प्रकटोऽभूद गजाननः ।
चतुर्भुजोऽरविन्दाक्षः शुण्डादण्डविराजितः ॥ १७॥
कमलं परशुं मालां दन्तं करतलैर्दधत् ।
महार्हमुकुटो राजत्कर्णकुण्डलमण्डितः ॥ १८॥
दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः ।
उवाच तौ प्रसन्नात्मा दम्पती स गजाननः ॥ १९॥
वृणीतं तं वरं शीघ्रं मनसा यं यमिच्छथः ।
तावूचतुः ।
जन्मनी यत्र नौ स्यातां तत्र ते दृढभक्तिता ॥ २०॥
मुक्तिर्वा दीयतां देव दुस्तराद् भवसागरात् ।
नावयोश्चित्तयोरन्यरपेक्षितमिभानन ॥ २१॥
कौण्डिन्य उवाच ।
इति तद्वाक्यमाकर्ण्य तथेत्युक्त्वा गजाननः ।
पुनरालिङ्ग्य पिदधे भक्तं त्रिशिरसं मुदा ॥ २२॥
एतस्मात्कारणाद् दूर्वाङ्कुरोऽस्मै दीयते मया ।
असङ्ख्यभक्षणाद् यो न तृप्तिं देवः समाययौ ॥ २३॥
दूर्वाङ्कुरेण चैकेन स तृप्तिं परमां ययौ ।
इति ते कथितः सम्यगाश्रये महिमा शुभः ।
दूर्वासमर्पणभवः श्रवणात् सर्वकामदः ॥ २४॥
इतिहासमिमं भक्त्या शृणुते श्रावयेच्च यः ।
स पुत्र धनकामाढ्यः परत्रेह च मोदते ॥ २५॥
गजानने लभेद् भक्तिं निष्कामो मुक्तिमाप्नुयात् ।
गणा ऊचुः ।
श्रुत्वापीत्थमितीहासमाश्रया संशयं पुनः ॥ २६॥
प्रपेदे हृदि तं ज्ञात्वा कौण्डिन्यः पुनरब्रवीत् ।
आश्रये शृणु मे वाक्यं संशयस्यापनुत्तये ॥ २७॥
यद् ब्रवीमि हृदिस्थस्य मया ज्ञातस्य तेऽनघे ।
एकं दूर्वाङ्कुरं गृह्य गच्छ शीघ्रं बिडौजसम् ॥ २८॥
वदाशीर्वचनं पूर्वं पश्चाद् याचस्व काञ्चनम् ।
दूर्वाङ्कुरेण तुलितं गृहीत्वा तदिहानय ॥ २९॥
न न्यूनं नाधिकं ग्राहयं तस्य भाराच्छुभावने ॥ ३०॥
गणा ऊचुः ।
इति वाणीं तस्य श्रुत्वा गृहीत्वैकं तदाश्रया ।
दूर्वाङ्कुरं ययौ शक्रं भर्तृवाक्य परायणा ॥ ३१॥
इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामहिमाकथनं नाम षट्षष्टितमोऽध्यायः ॥ ६६॥
आदितः श्लोकानां समष्ट्यङ्काः २८८१ + ३१ = २९१२
१.०६८ व्रतनिरूपणं नामाष्टषष्टितमोऽध्यायः
शूरसेन उवाच ।
अन्यां कथय शक्र त्वं गणनाथकथां पुनः ।
कृतवीर्यस्य जनकः किं चकार ततः परम् ॥ १॥
इन्द्र उवाच ।
श्रुत्वाऽख्यानं तु सङ्कष्टचतुर्थ्यां राजसत्तमः ।
दूर्वाख्यानं तु संश्रुत्वा चिन्ताविष्टो नृपोऽभवत् ॥ २॥
अपुत्रस्य गतिर्नास्ति पुत्रों मे भविता कथम् ।
स्वप्ने ददर्श पितरं कार्तवीर्यस्तथाविधः ॥ ३॥
सगद्गदाभ्यां कण्ठाभ्यां नोचतुस्तौ परस्परम् ।
आलिलिङ्गतुरन्योन्यं प्रेमविव्हलचेतसा ॥ ४॥
ततः पुत्रं करे धृत्वा पर्यङ्केऽस्थापयत् पिता ।
उवाच च त्वया पुत्र पुत्रार्थं बहुधा श्रमः ॥ ५॥
क्रियते चाहमप्येकमुपायं वच्मि तेऽनघ ।
मृत्युलोकादागतेन कथितं नारदेन मे ॥ ६॥
तदैवाहं गतः पुत्र ब्रह्मणः सदनं प्रति ॥ ७॥
पप्रच्छाहंऽ नमस्कृत्य ब्रह्माणं सर्ववेदिनम् ।
कथं मे भविता पुत्रः सन्ततिः कमलासन ॥ ८॥
कथितं तेन सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
क उवाच ।
अस्मिन् व्रते कृते पापक्षये जाते नृपोत्तम ॥ ९॥
सन्ततिस्तव पुत्रस्य भविष्यति न संशयः ।
पितोवाच ।
तदा तथैव लिखितं ब्रह्मणा कथितं यथा ॥ १०॥
गृहाण पुस्तकं चैतद् यथावत् कुरु तद् व्रतम् ।
यावदब्दं समाप्येत तावत् सिद्धिविनायकः ॥ ११॥
प्रसन्नो भविता देवः सर्वसङ्कष्टहारकः ।
तस्मिन् प्रसन्ने पुत्रस्ते भविता नात्र संशयः ॥ १२॥
इत्युक्त्वाऽन्तर्हितस्तस्य पुत्रस्य जनको नृपः ।
जजागार ततो राजा कृतवीर्यस्तु वै बली ॥ १३॥
ददर्श पुस्तकं हस्ते स्वप्नार्थान् परिसस्मरे ॥ १४॥
मुमोचाश्रूणि नेत्राभ्यां शोकानन्दपरिप्लुतः ।
पितुर्वियोगाच्छोकार्त्तः पुस्तकाप्तेश्च हर्षितः ॥ १५॥
अमात्यास्तावदायाताः परिवार्याऽब्रुवन् नृपम् ।
अमात्या ऊचुः ।
जहि प्रमादं राजन् त्वं सावधानमना भव ॥ १६॥
त्यज शोकं वदास्मान् किं कारणं शोककारकम् ।
अस्मानपि समाविष्टस्त्वच्छोकाच्छोक उत्कटः ॥ १७॥
इन्द्र उवाच ।
श्रुत्वा वाक्यममात्यानां कृतवीर्यो जगाद तान् ।
मया स्वप्ने पिता दृष्टस्तेन मे विव्हलं मनः ॥ १८॥
पुस्तकं चैव सङ्कष्टचतुर्थीव्रतबोधकम् ।
दत्तं मम करे तेन पिदधे तत्क्षणाच्च सः ॥ १९॥
तद्वियोगेन शोचामि गतार्थं निर्धनो यथा ।
उक्तं च तेन मे वाक्यं पुत्रार्थं कुर्विदं व्रतम् ॥ २०॥
प्रबुद्धोऽहं यदामात्या हस्ते दृष्टं च पुस्तकम् ।
आश्चर्यहर्षशोकैश्चाप्यश्रु मुञ्चामि नान्यथा ॥ २१॥
अमात्या ऊचुः ।
यः पिता सर्वलोकानां मनुष्योरगरक्षसाम् ।
स एव पितृरूपेण परितुष्टो गजाननः ॥ २२॥
उपायमवदत् ते स सन्तत्यै राजसत्तम ।
अन्यथा पुस्तकं क्वत्यं स्वप्नार्थः क्व प्रमा भवेत् ॥ २३॥
विना प्रसादं स्वप्नोऽपि विपर्ययमुदाहृतः ।
इन्द्र उवाच ।
इत्यमात्यवचः श्रुत्वा सावधानमना नृपः ॥ २४॥
आहूय परिपप्रच्छ पण्डितान् सुहृदोऽपि च ।
वदन्तु पुस्तकस्यार्थं प्रसादात्तस्य भो द्विजाः ॥ २५॥
त ऊचुः पुस्तकं दृष्ट्वा तस्यार्थं सर्वसंसदि ।
द्विजा ऊचुः ।
ब्रह्मणः कृतवीर्यस्य संवादोऽत्र महान् नृप ॥ २६॥
चतुर्थी सर्वसङ्कष्टनाशिन्यत्र निरूपिता ।
चन्द्रोदये गणेसशस्य पूजा प्रोक्ता सविस्तरा ॥ २७॥
अङ्गारकचतुर्थास्तु महिमा बहुशोऽपि च ।
तिथिदेवविधूनां च अर्घ्यदानं समन्त्रकम् ॥ २८॥
एकविंशतिविप्राणां भोजनं चैव पूजनम् ।
नानादानानि तेभ्यश्च देयानीति निरूपितम् ॥ २९॥
दूर्वासमर्पणफलं श्वेतदूर्वाफलं पृथक् ।
एतद् व्रतं महाभाग भाग्यात् प्राप्तं त्वयाऽनघ ॥ ३०॥
न दुष्टं न श्रुतं लोके भविष्यत्युपकारकम् ।
श्रवणात् स्मरणाच्चापि सङ्कष्टहरणं नृणाम् ॥ ३१॥
इन्द उवाच ।
श्रुत्वा तत्पण्डितमुखाद् राजा सर्वजनश्च ह ।
आश्चर्यानन्दसंयुक्तः पुपूजे स द्विजोत्तमान् ॥ ३२॥
वस्त्रालङ्काररत्नानि धनं धान्यं ददौ बहु ।
अत्रिमाहूय राजाऽपि गुरुं निजकुलस्य च ॥ ३३॥
सुमुहूर्ते ततोऽगृह्णात् परिपूज्य यथाविधि ।
देवं विनायकं तं च विद्यामेकाक्षरां शुभाम् ॥ ३४॥
जजाप मन्त्रं तमनन्यभक्त्या ध्यायन् गणेशं विजितेन्द्रियः स ।
व्रतं च चक्रे गणनाथतुष्ट्यै सुताप्तये सङ्कटनाशनं तत् ॥ ३५॥
इति श्रीगणेशपुराणे उपासनाखण्डे व्रतनिरूपणं नामाष्टषष्टितमोऽध्यायः ॥ ६८॥
आदितः श्लोकानां समष्ट्यङ्काः २९७१ + ३५ = ३००६
१.०६९ एकोनसप्ततितमोऽध्यायः
शूरसेन उवाच ।
ब्रह्मणा कथमादिष्टं कृतवीर्याय सिद्धिदम् ।
तन्ममाचक्ष्व सङ्कष्ट चतुर्थी व्रतमुत्तमम् ॥ १॥
इन्द्र उवाच ।
सत्यलोके सुखासीनं सर्वज्ञं चतुराननम् ।
कृतवीर्यपिता गत्वा पप्रच्छ प्रणतो नृपः ॥ २॥
कृतवीर्यपिता उवाच ।
देवदेव जगद्धातः प्रणतार्तिनिवारण ।
वर्तते हृदये यन्मे पृच्छामि त्वां वदस्व तत् ॥ ३॥
आपत्सु वर्तमानानां नृणां व्याकुलचेतसाम् ।
चिन्तया व्यग्रमनसां वियोगे सुहृदां तथा ॥ ४॥
दुर्लभप्राप्तये नॄणां कार्यसिद्धिः कथं भवेत् ।
अर्थसिद्धिः कथं नित्यं पुत्रसौभाग्यसम्पदाम् ॥ ५॥
सर्वसङ्कष्टनाशार्थं कार्य किं मानवैः प्रभो ।
ब्रह्मोवाच ।
शृणु राजन् प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम् ॥ ६॥
यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः ।
ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः ॥ ७॥
सङ्कल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् ।
गणेशं पूजयेद् भक्त्या मन्त्रैरागमसम्भवैः ॥ ८॥
कृष्णपक्षे चतुर्थ्यां च निशि चन्द्रोदयेऽपि च ।
नृप उवाच ।
कथं सम्पूजयेद् ब्रह्मन् देवदेवं गजाननम् ॥ ९॥
विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते ।
ब्रह्मोवाच ।
नित्यकर्म समाप्याऽथ निशायामुदये विधोः ॥ १०॥
शुचौ देशे गोमयेन लिप्ते मण्डपिकान्विते ।
तत्र पीठं गणेशस्य पूजयेत् कुङ्कुमाक्षतैः ॥ ११॥
स्थापयेत् कलशं तत्र पञ्चरत्नसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं सौवर्णंकलशान्वितम् ॥ १२॥
तदभावे तु रौप्यं वा ताम्रं वैणवमेव च ।
तस्योपरि न्यसेद्वस्त्रं क्षौमं वा शक्तिसंयुतः ॥ १३॥
तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः ।
तत्र मूर्तिं गणेशस्य सौवर्णीं लक्षणान्विताम् ॥ १४॥
ध्यानम् ।
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदर विशालाक्षं ज्वलत्पावकलोचनम् ॥ १५॥
आखुपृष्ठसमारूढं चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतं च चिन्तयेत् तं गजाननम् ॥ १६॥
आवाहनम् ।
आगच्छ देवदेवेश सङ्कटान्मां निवारय ।
यावद् व्रतं समाप्येत तावत् त्वं सन्निधौ भव ॥ १७॥
सहस्रशीर्षेत्यावाहनम् ।
(पुरुषसूक्ते
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिँ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥)
आसनम् ।
गणाधीश नमस्तेऽस्तु सर्व सिद्धिप्रदायक ।
आसनं गृह्यतां देव सङ्कटान्मां निवारय ॥ १८॥
अथवा पुरुष एवे० आसनम् ।
(पुरुष एवेदँ सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥)
पाद्यम् ।
उमापुत्र नमस्तेऽतु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥ १९॥
एतावानस्य पाद्यम् ।
(एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥)
अर्घ्यम् ।
लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय ॥ २०॥
त्रिपादूर्ध्वेत्यर्घ्यम्
(त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥)
आचमनीयम् ।
गङ्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् ।
गृहाणाऽऽचमनीयार्थं सङ्कटं मे निवारय ॥ २१॥
तस्माद्विराळ् आचमनीयम् ।
(ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥)
पञ्चामृतम् ।
पयो दधि घृतं चैव शर्करामधुसंयुतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥ २२॥
अथवा पयः पृथिव्याम् ।
स्नानम् ।
नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥ २३॥
यत्पुरुषेणेति ।
(यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥)
वस्त्रयुग्मम् ।
इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय ॥ २४॥
(तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥)
यज्ञोपवितम् ।
विनायक नमस्तुभ्यं नमः परशुधारिणे ।
उपवीतं गृहाणेदं सङ्कटं मे निवारय ॥ २५॥
(तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥)
चन्दनम् ।
ईशपुत्र नमस्तुभ्यं नमो मूषकवाहन ।
चन्दनं गृह्यतां देवं सङ्कटं मे निवारय ॥ २६॥
(तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥)
अक्षताः ।
घृतकुङ्कुमसंयुक्तास्तन्दुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥ २७॥
अथवा अक्षन्नमीमदन्त ।
पुष्पम् ।
चम्पकं मल्लिका दूर्वाः पुष्पजातिरनेकशः ।
गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय ॥ २८॥
(तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥)
धूपम् ।
लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।
धूपं गृहाण देवेश सङ्कटं मे निवारय ॥ २९॥
(यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥)
दीपम् ।
विघ्नान्धकारसंहारकारक त्रिदशाधिपः ।
दीपं गृहाण देवेश सङ्कटं मे निवारय ।
(ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत ॥)
नैवेद्यम् ।
मोदकापूपलड्डूकपायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम् ॥ ३१॥
(चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥)
फलम् ।
नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश सङ्कटं मे निवारय ॥ ३२॥
(नाभ्या आसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥)
ताम्बूलम् ।
क्रमुकैला लवङ्गादि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव सङ्कटं मे विनाशय ॥ ३३॥
सर्वप्रीतिकरं देव हिरण्यं सर्वसिद्धिदम् ।
दक्षिणार्थं गृहाणेदं सङ्कटं मे विनाशय ॥ ३४॥
(सप्तास्यासन्निति परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥)
एकविंशतिदूर्वाङ्कुरमर्पणम् ।
ततो दूर्वाङ्कुरान् गृह्य विंशत्येकं च भक्तितः ।
एभिर्नामपेदैर्देवमर्चयेत् सु समाहितः ॥ ३५॥
दूर्वापणमन्त्राः ।
गणाधिपतये नमः । १. उमापुत्राय नमः । २. अघनाशनाय नमः । ३.
एकदन्ताय नमः । ४. इभवक्त्राय नमः । ५. मूषकवाहनाय नमः । ६.
विनायकाय नमः । ७. ईशपुत्राय नमः । ८. सर्वसिद्धिप्रदाय नमः । ९.
लम्बोदराय नमः । १०. वक्रतुण्डाय नमः । ११. मोदकप्रियाय नमः । १२.
विघ्नविध्वंसकर्त्रे नमः । १३. विश्ववन्द्याय नमः । १४.
अमरेशाय नमः । १५. गजकर्णाय नमः । १६.
नागयज्ञोपवीतिने नमः । १७. भालचन्द्राय नमः । १८.
परशुधारिणे नमः । १९. विघ्नाधिपाय नमः । २०. विद्याप्रदाय नमः । २१.
नीराजनम् ।
कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् ।
नीराजनं गृहाणेश सङ्कटान्मां विमोचय ॥ ३६॥
पुष्पाञ्जलिः ।
चम्पकाशोकबकुलपारिजातभवैः शुभैः ।
पुष्पाञ्जलिं गृहाणेमां सङ्कटान्मां विमोचय ॥ ३७॥
(यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥)
स्तुतिः ।
त्वमेव विश्वं सृजसीभवक्त्र त्वमेव विश्वं परिपासि देव ।
त्वमेव विश्वं हरसेऽखिलेश त्वमेव विश्वात्मक आविभासि ॥ ३८॥
इति स्तुतिः ।
नमस्काराः ।
नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तिविमोक्षदक्षं विद्याप्रदं वेदनिधानमाद्यम् ॥ ३९॥
प्रदक्षिणाः ।
एवं स्तुवीत विधिवत् प्रणमेत पुनः पुनः ।
प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम् ॥ ४०॥
प्रार्थनाः ।
ये त्वामसम्पूज्य गणेश नूनं वाञ्छति मूढा विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके ज्ञातो मयाते सकलः प्रभावः ॥ ४१॥
वायनम् ।
आचार्यस्त्वं द्विचाध्यक्ष सर्वसिद्धिप्रदायक ।
वायनं गृह्यतां ब्रह्मन् सङ्कटान्मां निवारय ॥ ४२॥
विशेषार्घ्यम् ।
फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् ।
विशेषार्घ्यं मया दत्तं सङ्कटान्मां निवारय ॥ ४३॥
॥ इति षोडशोपचारार्चनम् ॥
ॐ नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा ।
इन्द्रादि लोकपालांश्च समन्तात् पूजयेत् सुधीः ॥ ४४॥
पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् ।
भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत् ॥ ४५॥
ततो दूर्वाङ्कुरान्गृह्य विंशत्येकं च भक्तितः ।
एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः ॥ ४६॥
गणाधिप नमस्तुभ्यमुमापुत्राभयप्रद ।
एकदन्तेभवक्त्रेति तथा मूषक वाहन ॥ ४७॥
विनायकेशपुत्रेति सर्वसिद्धि प्रदायक ।
लम्बोदर नमस्तुभ्यं वक्रतुण्डाघनाशन ॥ ४८॥
विघ्नविध्वंसकर्त्रेति विश्ववन्द्यामरेश्वर ।
गजवक्र नमस्तुभ्यं नागयज्ञोपवीतिने ॥ ४९॥
भालचन्द्र नमस्तुभ्यं नमः परशुधारिणे ।
विघ्नाधिप नमस्तुभ्यं सर्वविद्याप्रदायक ॥ ५०॥
एवं सम्पूजयद्देवं दूर्वाभिश्च पृथक् पृथक् ।
यदुद्दिश्य कृतं सम्यग्य यथाशक्ति प्रपूजनम् ॥ ५१॥
तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय ।
विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान् ॥ ५२॥
त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् ।
शत्रूणां बुद्धिनाशं च मित्राणामुदयं कुरु ॥ ५३॥
इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः ।
ततो होमं प्रकुर्वीत शतमष्टोत्तरं व्रती ॥ ५४॥
मोदकैर्वायनं कार्यं व्रतसम्पूर्तिहेतवे ।
लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम् ॥ ५५॥
रक्तवस्त्रेण सञ्छाद्य स्वाचार्याय निवेदयेत् ।
गणाधिप नमस्तुभ्यं सर्व सङ्कल्पसिद्धिद ॥ ५६॥
वायनस्य प्रदानेन सङ्कटान्मां निवारय ।
इति वायनमन्त्रः ।
तिथ्यर्घ्यम् ।
कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः ॥ ५७॥
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तुते ॥ ५८॥
इति तिथ्यर्घः ।
देवार्घ्यम् ।
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ५९॥
इति देवार्घः ।
चन्द्रार्घ्यम् ।
चन्द्राय सप्तवारं तु मन्त्रेणानेन पार्थिव ।
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ६०॥
ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् ।
स्वयं भुञ्जीत तच्छेषं ब्राह्मेणभ्यो यदर्पितम् ॥ ६१॥
सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् ।
इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः ॥ ६२॥
इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीव्रतान्तर्गत पूजाविधिर्नामैकोनसप्ततितमोऽध्यायः ॥ ६९॥
आदितः श्लोकानां समष्ट्यङ्काः ३००६ + ६२ = ३०६८
१.०६७ दूर्वामाहात्म्ये सप्तषष्टितमोऽध्यायः
गणा ऊचुः ।
आज्ञप्ता तेन मुनिना स्वाभिप्रेतार्थसिद्धये ।
एक दुर्वाङ्कुरं गृह्य शक्रसन्निधिमाययौ ॥ १॥
तमुवाचाऽऽश्रया शक्र देहि मे काञ्चनं शुभम् ।
याचितुं त्वां समायाता भर्तृवाक्यात् सुरेश्वर ॥ २॥
इन्द्र उवाच ।
किमर्थं त्वमिहायाता यद्याज्ञा प्रेषिता भवेत् ।
मया सम्प्रेषितं स्यात्ते जातरूपं स्वशक्तितः ॥ ३॥
आश्रयो वाच ।
दूर्वाङ्कुरस्य तुलया यद्भवेत् काञ्चनं सुर ।
तत् ग्रहीष्ये शचीभर्त्तर्नन्यूनं न च वाधिकम् ॥ ४॥
शक्र उवाच ।
दूतैनां नय शीघ्रं त्वं कुबेरभवनं प्रति ।
स दास्यति सुवर्णं च दूर्वाङ्कुरमितं शुभम् ॥ ५॥
गणा ऊचुः ।
आज्ञया देवराज्यस्य देवदूतस्तया सह ।
प्रायात् कुबेरभवनं शक्रस्य वचनात्तदा ॥ ६॥
अस्यै दूर्वाङ्कुरमितं जातरूपं प्रदीयताम् ।
इन्द्रेण प्रेषिता साध्वी मुनिपत्नी मया सह ।
प्रापिता भवनं तेऽद्य यामि देव नमोऽस्तु ते ॥ ७॥
कुबेर उवाच ।
अत्याश्चर्य महं मन्ये मुनिः शक्रस्तथाऽऽश्रया ।
मोहाविष्टा न जानन्ति दूर्वाङ्कुरमितं कियत् ॥ ८॥
काञ्चनं तेन किं वा स्यात् बहुलं किं न याचितम् ।
गणाः ऊचूः ।
एवमेव ददौ तस्यै बहुलं काञ्चनं सह ॥ ९॥
न जग्राह भयाद् भर्तुर्न्यूनाधिकविशङ्कया ।
स्वर्णकारतुलायान्तं दुर्वाङ्कूरमधारयत् ॥ १०॥
नाभवत् तुलया तस्य पर्याप्तं तत्तु हाटकम् ।
वणिक्तुला समानीता तत्रापि नाभवत समम् ॥ ११॥
तैलकारतुलायां तु दुर्वाङ्कुरसमं न च ।
घटो बद्धस्ततस्तत्र हाटकं दत्तमेकतः ॥ १२॥
दूर्वाङ्कुरोऽपरत्रापि याति पत्रमधस्तदा ।
अन्यदन्यद् दधौं तत्र कुबेरः काञ्चनं बहु ॥ १३॥
तच्चापि नाभवत्तेन समं दूर्वाङ्कुरेण च ।
सर्व कोशगतं द्रव्यं दत्तं तेन गिरीन्द्रवत् ॥ १४॥
तथापि नाभवत् साम्यं तेन दूर्वाङ्कुरेण तत् ।
पत्नीमाहूयः तां प्राह कुबेरः कौतुकान्वितः ॥ १५॥
कुरू मद्वाक्यतः सुभ्रु घटारोहणमग्रतः ।
न समं चेत् समारोक्ष्ये निजसत्त्वरिरक्षया ॥ १६॥
पतिव्रताऽऽज्ञया तस्य घटमारुरुहे तदा ।
न समा साऽपि तेनासीत् ततः सर्वां पुरी ददौ ॥ १७॥
घटमध्ये कुबेरोऽसौ न चोर्ध्वं जायतेङ्कुरः ।
श्रुत्वा दूतमुखादिन्न्द्रो गजारूढः समाययौ ॥ १८॥
स्वकीयद्रव्यसहितो घटमारुरुहे स्वयम् ।
दूर्वाङ्कुरो न चोर्ध्वं स तथापि समजायत ॥ १९॥
अधोमुखो गतश्चिन्तां किमेतदिति चिन्तयन् ।
विष्णुं हरं च सस्मार तत्रारोहणकाम्यया ॥ २०॥
तत्रागतौ स नगरौ घटमारुहतां तदा ।
तथापि नोर्ध्वमगमत् तदा दूर्वाङ्कुरं स्फुटम् ॥ २१॥
ततस्ते तत उत्तेरुः शिवविष्णुधनेश्वराः ।
वरुणेन्द्राग्निमरुतः कौण्डिन्यमभितो ययुः ॥ २२॥
देवा देवर्षयश्चैव सिद्धविद्याधरोरगाः ।
दिनान्ते समनुप्राप्ते स्वं नीडमिव पक्षिणः ॥ २३॥
नमस्कृत्य मुनिं सर्वे प्रोचुरूद्विग्नचेतसः ।
सर्व ऊचुः ।
वृजिनं विलयं यातं दर्शनात् तव भो मुने ॥ २४॥
पूर्वपुण्यभवादग्रे कल्याणं नो भविष्यति ।
तव पत्न्या हृतं सत्त्वं सर्वेषामद्य नः स्फुटम् ॥ २५॥
महिमानं न जानीमो दूर्वाङ्कुरसमुद्भवम् ।
एकदूर्वाङ्कुरतुलां त्रैलोक्यमपि नालभत् ॥ २६॥
गजाननशिरस्थस्य त्वया भक्त्याऽर्पितस्य च ।
जानीयान्महिमानं कः सम्यक् दूर्वाङ्कुरस्य ह ।
यज्ञदानव्रततपः स्वाध्यायोऽपि न तत्समः ॥ २७॥
गजाननैकभक्तस्य जपतस्तपतोऽनिशम् ।
तवापि महिमानं को जानीयात् सर्वदेहिनः ॥ २८॥
एवमुक्त्वा मुनिं सर्वे पूर्वं पूज्य गजाननम् ।
सर्वे सभार्य पुपूजुस्तुष्टुवुर्ननृतुर्जगुः ॥ २९॥
न ब्रह्मा न हरिःशिवेन्द्रमरुतो नाग्निर्विवस्वान् यमः ।
शेषोऽशेषकलानिधिश्च वरुणो नो चन्द्रमा नाश्विनौ ।
नो वाचामधिपो न चैव गरूडो नो यक्षराट् नाङ्गिरा ।
माहात्म्यं परिवेद देव नियमैरज्ञातरूपस्य ते ॥ ३०॥
एवं सन्तोष्य सर्वे ते देवदेवं गजाननम् ।
मुनिं च समनुज्ञाप्य ययुः स्वं स्वं निकेतनम् ॥ ३१॥
आश्रयाऽपि ततो ज्ञात्वा दूर्वामाहात्म्यमुत्तमम् ।
विश्वस्ता भर्तृवाक्ये सा दूर्वाभिः प्रत्यपूजयत् ॥ ३२॥
विघ्नेश्वरं सर्वदेवं सर्वैर्दूवाभिरर्चितम् ।
प्रणनाम च कौण्डिन्यं भर्तारं सत्यवादिनम् ॥ ३३॥
उवा च सुप्रसन्ना सा स्वात्मानं निन्दती भृशम् ।
आश्रयोवाच ।
मादृशी नैव दुष्टाऽस्ति याते वाक्ये ससंशया ॥ ३४॥
विशेषविदुषा स्वामिन् विशेषविदुषा त्वया ।
सम्यक् कृतं मम विभो सर्वभूतदयावता ॥ ३५॥
तत् क्षमस्वापराधं मे त्वामहं शरणागता ।
ततः प्रातः समुत्थाय दूर्वामादाय सत्वरौ ॥ ३६॥
स्नात्वा देवं समभ्यर्च्य दूर्वार्पणमकुर्वताम् ।
अनन्यभक्त्या ज्ञात्वा तौ दूर्वामाहात्म्यमुत्तमम् ॥ ३७॥
सायं प्रातर्देवदेवं पूजयन्तौ निरन्तरम् ।
त्यक्त्वा यज्ञ व्रतं दानं ज्ञात्वा देवो गजाननः ॥ ३८॥
कृपया परयाऽऽविष्टः स्वधाम प्रत्यपादयत् ।
गणाः ऊचुः ।
अगाधं वर्णितं दूर्वामाहात्म्यमिदमुत्तमम् ॥ ३९॥
अशेषवर्णने शेषो नेशो नैशौ हरीश्वरौ ।
त्रैलोक्यं तुलया यस्याः पत्रेणैवाऽऽभवत् समम् ॥ ४०॥
दूर्वेतिस्मरणात् पापं त्रिविधं विलयं व्रजेत् ।
तत्स्मृतौ स्मर्यते देवो यतः सोऽपि गजाननः ॥ ४१॥
इति चिन्तामणिक्षेत्रमहिमा वर्णितः स्फुटम् ।
श्रवणात् कीर्तनात् ध्यानाद् भुक्तिमुक्तिफलप्रदः ॥ ४२॥
एतस्मात् कारणाद् यानं त्रयाणां प्रेषितं शुभम् ।
रासभस्य मुखाद् दूर्वा गता देवे वृषस्य च ॥ ४३॥
चाण्डाल्या शीतनाशाय त्वानीता तृणभारतः ।
वायुना प्रबलेनापि गता दूर्वा गजानने ॥ ४४॥
यतस्तस्य प्रिया दूर्वा सन्तुष्टोऽसौ विनायकः ।
निष्पापत्वात् त्रयाणां स सान्निध्यं दत्तवान्निजम् ॥ ४५॥
गन्धमात्रेण दूर्वायाः सन्तुष्टो जायते विभुः ।
प्रसङ्गेन तु भक्त्या वा किं पुनर्मस्तकार्पणात् ॥ ४६॥
ब्रह्मोवाच ।
इति दूत मुखाद् राज्ञा स श्रुतो महिमा तदा ।
दूर्वाया मुनिभिः सर्वैर्न दृष्टों न च संश्रुतः ॥ ४७॥
स्नात्वा दूर्वाङ्कुरान् गृह्य पुपूजुस्ते विनायकम् ।
सेवकाश्चापि दुर्वाभिरानर्चुः श्रीगजाननम् ॥ ४८॥
आसन् सर्वे दिव्यदेहास्तेजसा सूर्यवर्चसः ।
शृण्वन्तो देववाद्यानां नानारावान् समन्ततः ॥ ४९॥
विमानवरमारूढा दिव्यवस्त्रानुलेपिनः ।
याता वैनायकं धाम केचित् तद्रूपधारिणः ॥ ५०॥
नरा नागरिकाः केचिदागतास्तं महोत्सवम् ।
द्रष्टुं दूर्वाभिरानर्चुरेकविंशतिभिः पृथक् ॥ ५१॥
भुक्त्वां भोगांश्च ते सर्वे गाणेशंस्थानमागमन् ।
विमानं चापि चलितमूर्ध्वं तत् पुण्यपुञ्जतः ॥ ५२॥
तस्माद् गणेशभक्तेन कार्यं दूर्वाभिरर्चनम् ।
न करोति नरो यस्तु प्रमोदात् ताभिरर्चनम् ॥ ५३॥
स चाण्डालस्तु विज्ञेयो नरकान् प्राप्नुयाद् बहून् ।
न तन्मुखं निरीक्षेत कदाचिदपि मानवः ॥ ५४॥
यस्तु दूर्वाभिरर्चेत् तं देवदेवं गजाननम् ।
तस्य दर्शनतोऽन्योऽपि पापः शुद्धिमवाप्नुयात् ॥ ५५॥
अलाभे बहूदूर्वाणामेकयैवाऽभिपूजयेत् ।
तेनापि कोटिगुणिता कृता पूजा न संशयः ॥ ५६॥
ब्रह्मोवाच ।
इति नानाविधो राजन् महिमा कथितस्तव ।
सेतिहासस्तु दूर्वाणां श्रवणात् पापनाशनः ॥ ५७॥
नाख्येयो दुष्टबुद्धेस्तु प्रिये पुत्रे निवेदयेत् ।
इन्द्र उवाच ।
इति ब्रह्ममुखाच्छ्रुत्वा परमाख्यानमुत्तमम् ॥ ५८॥
ननन्द परमप्रीतो ननाम कमलासनम् ।
तदाज्ञया ययौ स्थानं स्वकीयं विस्मयान्वितः ॥ ५९॥
इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामाहात्म्यं नाम सप्तषष्टितमोऽध्यायः ॥ ६७॥
आदितः श्लोकानां समष्ट्यङ्काः - २९१२ + ५९ = २९७१
१.०७० चतुर्थी व्रतोपाख्यानं कृतवीर्य नाम सप्ततितमोऽध्यायः
राजोवाच ।
व्रतं पुरा कृतं केन भुवि केन प्रकाशितम् ।
किं पुण्यं किं फलं चास्य करुणाद् वद मे प्रभो ॥ १॥
ब्रह्मोवाच ।
पुरा स्कन्दे गते चैव पार्वत्यैव कृतं व्रतम् ।
चतुर्ष्वपि च मासेषु शिववाक्येन पार्थिव ॥ २॥
पञ्चमे मासि दृष्टस्तु कार्तिकेयो ह्यपर्णया ।
अगस्त्येन कृतं पूर्वं समुद्रं पातुमिच्छता ॥ ३॥
त्रिषु मासेषु विघ्नेशप्रसादात् पीतवानमुम् ।
षण्मासावधि राजेन्द्र दमयन्त्या पुरा कृतम् ॥ ४॥
नलमन्वेषयन्त्या तु ततो दृष्टो नलस्तया ।
प्रद्युम्नस्य सुतं राजंश्चित्रलेखाऽनयत्पुरा ॥ ५॥
क्व गतः केन नीतो वा इति शोचन्तमाकुलम ।
प्रद्युम्नं पुत्रशोकार्त रुक्मिणी प्रत्यभाषत ॥ ६॥
शृणु पुत्र प्रवक्ष्यामि यद् व्रतं स्वस्य मन्दिरे ।
शम्बरेण पुराऽऽनीते बालके त्वयि षट्दिने ॥ ७॥
त्वद्वियोगजदुःखेन हृदयं मे व्यदूयत ।
कदा द्रक्ष्याम्यहं पुत्रमपूर्वमतिसुन्दरम् ॥ ८॥
अन्यस्त्रीणां सुतं दृष्ट्वा मम चेतसि जायते ।
ममापि पुत्रो भविता समोऽनेन प्रमाणतः ॥ ९॥
इति चिन्ताकुलाया मे गतान्यब्दानि भूरिशः ।
ततो मे दैवयोगात् तु लोमशो मुनिरागतः ॥ १०॥
तेनोपदिष्टं सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
सर्व चिन्ताहरं पुत्र चतुर्वारं कृतं मया ॥ ११॥
तत्प्रसादात् त्वमायातो हत्वा शम्बरमाहवे ।
त्वमप्येतत् कुरू व्रतं ततो ज्ञास्यसि तं सुतम ॥ १२॥
ब्रह्मोवाच ।
प्रद्युम्नेन कृतं पूर्वं गणनाथ सुतोषकम् ।
श्रुतो बाणासुरपुरे निरुद्धो नारदात् पुरा ॥ १३॥
उद्धवस्याज्ञया कृष्णः कृतवान् व्रतमुत्तमम् ।
भीत ईश्वरसङ्ग्रामादेकवारं यथाविधि ॥ १४॥
गत्वा स शोणितपुरं जित्वा बाणासुरं मृधे ।
आनीतः उषया सार्द्धमनिरुद्धः क्षणान्नृपः ॥ १५॥
मयाऽपि सृष्टिकामेन कृतमेतन्नृपोत्तम ।
कृता नानाविधा सृष्टिर्व्रतस्यास्य प्रभावतः ॥ १६॥
अन्यैर्देवासुरनरैः कृतं विघ्नोपशान्तये ।
ऋषिभिर्दानवैर्यक्षैः किन्नरोरगराक्षसैः ॥ १७॥
आपद्यपि च कष्टायां कुर्यात् तच्छान्तये व्रतम् ।
नानेन सदृशं लोके सर्वसिद्धिकरं व्रतम् ॥ १८॥
तपो दानं जपस्तीर्थं मन्त्रो विद्या न च क्वचित् ।
इमां श्रुत्वा कथां राजन् स्वयं भुञ्जीत वाग्यतः ॥ १९॥
जानुमध्ये कर कृत्वा गणेशं हृदि चिन्तयेत् ।
द्विजातीनां च यच्छेषं भोक्तव्यं सह बान्धवैः ॥ २०॥
कार्यं बव्हल्पमासैस्तु सिद्ध्यते नात्र संशयः ।
बहुनात्र किमुक्तेन नान्यत् स्याच्छीघ्रसिद्धिदम् ॥ २१॥
नोपदेश्यमभक्ताय नास्तिकाय शठाय च ।
देयं पुत्राय शिष्याय भक्तियुक्ताय साधवे ॥ २२॥
मम प्रियोऽसि राजेन्द्र धर्मिष्ठः क्षत्रियर्षभः ।
कार्यकर्ताऽसि लोकानामुपदिष्टमथो व्रतम् ॥ २३॥
तस्मात् सर्वव्रतेष्वेतत् कर्तव्यं प्रथमं त्वया ।
सिद्धिं यास्यन्ति कार्याणि नान्यथा भाषितं मया ॥ २४॥
यदा यदा पश्यति कार्यमुद्यतं, नारी नरो वा विदधातु सद्व्रतम् ।
सिध्यन्ति कार्याणि मनीषितानि किं दुर्लभं विघ्नहरे प्रसन्ने ॥ २५॥
सूत उवाच ।
इत्थं स श्रुत्वा विधिवन्नृपोत्तमो व्रतं चकाराऽखिल दुःखशान्तये ।
व्रतप्रभावाज्जितवान् स वैरिणो बुभोज राज्यं स सुतैरकण्टकम् ॥ २६॥
इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतोपाख्याने कृतवीर्यविजयो नाम सप्ततितमोऽध्यायः ॥ ७०॥
आदितः श्लोकानां समष्ट्यङ्काः ३०६८ + २६ =३०९४
१.०७१ एकसप्ततितमोऽध्यायः
राजोवाच ।
उद्यापनं कथं कार्यं व्रतस्याऽस्य महामते ।
तन्मे विस्तरतो ब्रूहि लोकानां हितकाम्यया ॥ १॥
ब्रह्मोवाच ।
प्रथमे मासि कर्तव्यं पञ्चमे सप्तमेऽथवा ।
उद्यापनं मनुष्येन्द्र व्रतसम्पूर्तिहेतवे ॥ २॥
पूर्वोक्तेन विधानेन पूजयेद् भक्तिमान्नरः ।
पुष्पमण्डपिकां कृत्वा नानावस्त्रविचित्रिताम् ॥ ३॥
कृत्वा तु सर्वतोभद्रं नानारङ्गविचित्रितम् ।
पूजयेत् तत्र देवेशं कलशोपरि पूर्ववत् ॥ ४॥
चन्दनेन सुगन्धेन पुष्पैर्नानाविधैरपि ।
नारिकेलफलेनैव दद्यादर्घ्यं समाहितः ॥ ५॥
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ ६॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कष्टं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ७॥
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ८॥
भोज्यं भक्ष्यं च लेह्यं च पेयं चोष्यं निवेदयेत् ।
फलैरन्यैश्च बहुभिस्तोषयेद् गणनायकम् ॥ ९॥
आचार्यं वरयेत् तत्र ऋत्विजश्चैकविंशतिम् ।
गणानान्त्वेति मन्त्रेण ह्ययुतं होममाचरेत् ॥ १०॥
अथवा मूलमन्त्रेण सहस्रं वा तदर्धकम् ।
अष्टोत्तरशतं चापि बलिदानं ततश्चरेत् ॥ ११॥
पूर्णाहुतिं ततः कुर्याद् वसोर्धाराञ्च पातयेत् ।
होमशेषं समाप्यैवं ब्राह्मणान् भोजयेत् ततः ॥ १२॥
वस्त्रयुग्मं च कलशान् दक्षिणासनसंयुतान् ।
तेभ्यो दद्याद् यथाशक्ति वित्तशाठ्यं न कारयेत ॥ १३॥
आचार्यं पूजयेत् पश्चाद् वस्त्रालङ्करणादिभिः ।
तस्मै भुक्तवते दद्याद् वायनं फलसंयुतम् ॥ १४॥
शूर्प पायससम्पूर्ण रक्तवस्त्रेण वेष्टितम् ।
सौवर्णं तं गणाधीशं तस्मै दद्यात् सदक्षिणम् ॥ १५॥
तिलानामाढकं दद्याद् व्रतसम्पूर्तिहेतवे ।
ततो गां कपिलां दद्यात् सवत्सां सविभूषणाम् ॥ १६॥
ततः क्षमापयेद् विप्रान् विघ्नेशः प्रीयतामिति ।
व्रतस्योद्यापनं कृत्वा हयमेधफलं लभेत् ॥ १७॥
कृतवीर्यपितोवाच ।
एवं मे ब्रह्मणादिष्टं व्रतं लोकोपकारतः ।
तदेतत् कथितं तेऽद्य कुरू पुत्रार्थमादरात् ॥ १८॥
इन्द्र उवाच ।
यथायथा समादिष्टं पित्रा तेन महाव्रतम् ।
तथा तथा कृतं तेन कार्तवीर्येण धीमता ॥ १९॥
व्याख्याय कथितं सम्यक् पण्डितैर्व्रतमुत्तमम् ।
सिद्धिबुद्धियुतां मूर्तिं स्थाप्य काञ्चननिर्मिताम् ॥ २०॥
महामण्डपिकामध्ये ब्राह्मणैः पठ्यते क्वचित् ।
क्वचित् पुराणं पाण्डित्यं क्वचित् गायननर्तने ॥ २१॥
नानाविधानां वाद्यानां ध्वनयो निर्गता दिवम् ।
विवदन्ते जनाः क्वापि मध्यस्थाः केचनाऽभवन् ॥ २२॥
स तु राजा महाधीमान् जजाप परमं मनुम् ।
जप्त्वा हुत्वा पूजयित्वा भोजयित्वा द्विजान् बहून् ॥ २३॥
गा ददावयुतं तेभ्योऽलङ्कृतेभ्यो ह्यलङ्कृतः ।
दीनान्धकृपणेभ्योऽन्नं ददौ दानान्यनेकशः ॥ २४॥
सन्तुष्टानामाशिषं स पुत्रस्य जगृहे पुनः ।
तेषां द्विजानां तपतां सर्वदा सत्यवादिनाम् ॥ २५॥
आशिर्भिः स्वल्पकालेन ससत्त्वाऽभून्नृपाङ्गना ।
सुषुवे शुभवेलायां पुत्रं लक्षणसंयुतम् ॥ २६॥
ददौ दानान्यनेकानि पुत्रजन्मप्रहर्षितः ।
व्रतबन्धं विवाहं च काले तस्याऽकरोन्नृपः ॥ २७॥
ज्ञानविज्ञानसम्पन्नं पुत्रं राज्येऽभिषिच्य च ।
सत्पुत्रो भोगसम्पन्नो जगामान्ते पदं विभोः ॥ २८॥
ऋत्विग्भिः पण्डितैः सार्धं प्रेक्षकैः सकलैरपि ।
तस्य पुण्येन ते सर्वे गाणेशं धाम चागमन् ॥ २९॥
इति श्रीगणेशपुराणे उपासनाखण्डे व्रतोद्यापनविधिनिरूपणं नामैकसप्ततितमोऽध्यायः ॥ ७१॥
आदितः श्लोकानां समष्ट्यङ्काः ३०९४ + २९ = ३१२३
१.०७२ द्विसप्ततितमोऽध्यायः
शूरसेन उवाच ।
व्रते जाते कथमभू तयोः पुत्रः शतक्रतो ।
तत्सर्वं मे वद विभो विस्तरात् परिपृच्छतः ॥ १॥
इन्द उवाच ।
किं किं न जायते राजन् परितुष्टे गजानने ।
प्रसादात् तस्य सा राज्ञी गर्भं दध्रे नृपस्य यत् ॥ २॥
प्रसूता नवमे मासि मङ्गलं पुत्रमैक्षत ।
द्विस्कन्धं चारुवदनं बाहुहस्तविवर्जितम् ॥ ३॥
सुनासं पद्मनयनमूरूजानुविवर्जितम् ।
जङ्घापादविहीनन्तं दृष्ट्वा माता रुदोद ह ॥ ४॥
सा उवाच ।
दुर्भगायाः कथमभूदीदृशो बालको मम ।
करपादविहीनोऽयं कथं दत्तो गजानन ॥ ५॥
आसं शुभाऽहं वन्ध्यैव किमीदृक्पुत्रवत्यहम् ।
कथं न जातो नाशो मे पूर्वजन्मकृतैनसः ॥ ६॥
कथं प्रसादः फलितस्तवापि द्विरदानन ।
कथं ब्राह्मणवाक्यानि निष्फलानीदृशानि मे ॥ ७॥
पाणिभ्यां निघ्नती वक्षो ललाटं च मुहुर्मुहुः ।
तस्यां रुदत्यां सर्वास्ता रुरुदुस्तत्र यास्थिताः ॥ ८॥
तासां कोलाहलं श्रुत्वा नृपोऽपि तत्र चागमत् ।
तस्यापि रुदितं श्रुत्वा प्रधाना अपि चागमन् ॥ ९॥
तेषां च रुदितं श्रुत्वा नागरा रुरुदुस्तदा ॥ १०॥
राजोवाच ।
कथं दीनानुकम्पित्वं तव देव गजानन ।
कथं दया कृता तेऽद्य मह्यमेवं प्रदर्शिता ॥ १॥
कथं स्मरणमात्रेण पापानि हरसेऽनघ ।
जपस्तपः स्मृतिर्दानं पूजनं द्विजतर्पणम् ॥ १२॥
अनुष्ठानं तथा होमः सर्वं व्यर्थङ्गतं मम ।
तस्माद् दैवं हि बलवत् प्रयत्नस्तु निरर्थकः ॥ १३॥
न ज्ञायते कर्मगतिः कदा किं वा भविष्यति ।
मूषक प्राप्यते यद्वत् पर्वतस्य विदारणात् ॥ १४॥
तथा मेऽजनि पुत्रेऽयमाजन्मकृतयत्नतः ।
तत ऊचुः प्रकृतयो नृपं शोकाकुलं तदा ॥ १५॥
प्रधाना ऊचुः ।
अलं शोकेन भूपाल कथं भाव्यन्यथा भवेत् ।
रामः किं न मृगं वेद तत्पृष्टं गत एव सः ॥ १६॥
धर्मराजो न किं वेद निषिद्धं द्यूतकर्म तत् ।
तथापि स गतो रन्तुं सर्वं हित्वा वनं गतः ॥ १७॥
चारुता न भवेदस्य भृशमाक्रन्दिते सति ।
अदृष्टं चेद्भवेत् सम्यगग्रे चारुरयं भवेत् ॥ १८॥
पुष्पं फलं वा कालेन यथा याति महीरूहाम् ।
तथा कालेन भविता सम्यक् च पृथिवीपतिः ॥ १९॥
इन्द्र उवाच ।
इत्यमात्य वचः श्रुत्वा सावधानोऽभवन्नृपः ।
उवाच नृपपत्नीं तामुत्तिष्ठोतिष्ठ मा शुचः ॥ २०॥
स्वयं च सुमना राजा समाहूय द्विजोत्तमान् ।
गणेशपूजनं चक्रे स्वस्तिवाचनमेव च ॥ २१॥
कृत्वाऽभ्युदयिक श्राद्धं ददौ दानान्यनेकशः ।
माल्यालङ्कारवासांसि गावो रत्नान्यनेकशः ॥ २२॥
सुहृत्सम्बन्धिभृत्येभ्यो वस्त्राणि विविधानि सः ।
नानावादित्रजीवेभ्यो ददौ राजा यथार्हतः ॥ २३॥
बन्दिचारणदीनान्धकृपणेभ्यश्च सर्वशः ।
गृहे गृहे च ताम्बूल शर्करां दापयच्च सः ॥ २४॥
कार्तवीर्येति नामास्य चकारैकादशेऽहनि ।
भोजयामास नगरं महोत्साहपुरःसरम् ॥ २५॥
ततो द्वादश वर्षाणि व्यतितानी सुतस्य ह ।
आययौ स्वेच्छया तस्य दत्तात्रेयस्तदा गृहम् ॥ २६॥
पादयोः स्वशिरः स्थाप्य कृतवीर्यो ननाम तम् ।
आलिलिङ्ग मुनिस्तं स उत्थाय नृपसत्तमम् ॥ २७॥
उपविश्यासने रम्ये पूजयामास सादरम् ।
विष्टरं पाद्यमर्घ्यं च गां च वस्त्रोपवीतकम् ॥ २८॥
ददौ धूपं च दिपं च नैवेद्यं विविधं फलम् ।
उद्वर्तनं च ताम्बूलं रत्नकाञ्चनदक्षिणाम् ॥ २९॥
सुप्रसन्नं सुखासीनं पादसंवाहनादिभिः ।
उवाच राजा सम्यक् तं दत्तात्रेयं महामुनिम् ॥ ३०॥
जन्मजन्मातरीयं मे पुण्यं फलितमद्य वै ।
यच्चर्मचक्षुषां जातं साक्षात्ते दर्शनं मुने ॥ ३१॥
अग्रे शुभतरं भावि प्रसादात्तव सुव्रत ।
यतो भवादृशां नैव दर्शनं पापकर्मणाम् ॥ ३२॥
कृतवीर्यवचः श्रुत्वा दत्तात्रेयस्तमब्रवीत् ।
अपूर्वं तनयं तेऽद्य द्रष्टुकामोऽहमागतः ॥ ३३॥
तत आनन्दयुक्तोऽसौ नृपः प्राह मुनिं पुनः ।
नृप उवाच ।
अनुष्ठानं तपो दानं वृथा मम गतं व्रतम् ॥ ३४॥
जगदीशेन दत्तोऽयं पुत्रो हृच्छल्य एव सः ।
अनेनाऽदर्शनीयेन गतश्चादर्शनीयताम् ॥ ३५॥
इन्द्र उवाच ।
आनीय बालकं तस्मै मुनयेऽदर्शयन्नृपः ।
आच्छादयन्नेत्रकञ्जे तत्सुतं वीक्ष्य सन्मुनिः ॥ ३६॥
ज्ञात्वा ध्यानेन तत्कर्म मुनिस्तं पुनरब्रवीत् ।
अयमेव सुतों राजन् कर्ता सर्वान् विजित्य ह ॥ ३७॥
नाचान्तोऽसि विजृम्भ्य त्वं सङ्कष्टीव्रतजागरे ।
निन्दितो व्रतराजस्तु सर्वसङ्कष्टनाशनः ॥ ३८॥
अङ्गहीनः सुतो जात उपायात् साङ्गतामियात् ।
राजोवाच ।
ऋतमुक्तं त्वया स्वामिन् कृपां कृत्वा वदस्व मे ॥ ३९॥
येनोपायेन साङ्गो मे त्वत्प्रसादात् सुतो भवेत् ।
इन्द्र उवाच ।
मुनिः स कृपयाविष्टस्तत्सुताय तदाऽब्रवीत् ॥ ४०॥
मन्त्रमेकाक्षरं साङ्गं तत ऊचे पुनश्च तम् ।
आराधनं गणेशस्य मन्त्रेणानेन भक्तितः ॥ ४१॥
उपवासैकभक्तानां नियमान् कुरू सुव्रत ।
द्वादशाब्दं ततस्तुभ्यं दर्शनं स च दास्यति ॥ ४२॥
तद्दृष्टिपातमात्रेण दिव्यदेहो भविष्यसि ।
इत्युक्त्वा नृपमामन्त्र्य पिदधे मुनिपुङ्गवः ॥ ४३॥
गते मुनौ ततः पुत्रः पादहीनो महामनः ।
जगाद कृतवीर्यं स गहनं प्रापयसस्व माम् ॥ ४४॥
गजानन प्रसादार्थमनुष्ठानं करोम्यहम् ।
रुदित्वा पितरौ तस्य श्रृत्वा वाणीं तदीरिताम् ॥ ४५॥
अप्रेषयद् वनं चारु नरयानेन तं पिता ।
भृत्याः पर्णकुटीमध्ये संस्थाप्य नगरं ययुः ॥ ४६॥
तस्थौ तत्र स्वयं सम्यक् तपसे कृतनिश्चयः ॥ ४७॥
इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्यप्रादुर्भावो नाम द्विसप्ततितमोऽध्यायः ॥ ७२॥
आदितः श्लोकानां समष्ट्यङ्काः ३१२३ + ४७ = ३१७०
१.०७३ चतुर्थी व्रतमाहात्म्यं नामत्रिसप्ततितमोऽध्यायः
इन्द्र उवाच ।
गुरुपदिष्टं मन्त्रं जजाप नियमेन सः ।
ध्यायनन् गजाननं देवं निष्ठामास्थाय नैष्ठिकीम् ॥ १॥
वायुभक्षो निराहारो लोष्ठपाषाणसन्निभः ।
एवं द्वादशवर्षाणि व्यतीतानि तपस्यतः ॥ २॥
हस्तपादविहीनस्य बालकस्य महात्मनः ।
निर्वाणं तस्य तदृष्ट्वा द्वादशाब्दं गजाननः ॥ ३॥
तडागमध्यादुत्तस्थौ प्रवालमयमूर्तिगः ।
उवाच सम्मुखो भूत्वा निष्ठाभक्तिसुतोषितः ॥ ४॥
गणेश उवाच ।
निर्जनेऽस्मिन् वने यस्मात् सिंहव्याघ्रनिषेविते ।
निकुंज बहुलेऽतिष्ठद् यतो द्वादशवार्षिकम् ॥ ५॥
अतस्तेऽहं वरं दास्ये शृणु यत्ते मनोगतम् ।
श्रुत्वा वाणीं तदुदितामास्थितो देहभावनाम् ॥ ६॥
कृतवीर्यसुतो नत्वा प्रोवाच द्विरदाननम् ।
शृण्वत्सु सर्वमुनिषु विमानस्थेषु भूरिशः ॥ ७॥
पुत्र उवाच ।
त्वत्पादयुगले देव भक्तिरव्यभिचारिणी ।
अस्तु मे सततं नान्यदुत्साहो मे प्रयाचितुम् ॥ ८॥
तथापि याचे देवेश पित्रोः सन्तोषहेतवे ।
शरीरे चारुतां देहि सर्व सन्तोषकारिणीम् ॥ ९॥
इन्द्र उवाच ।
श्रुत्वा वाक्यं तदीयं तु मायावी स गजाननः ।
अणिमानं समास्थाय विवेशोदरमादरात् ॥ १०॥
तस्मिन् प्रविष्टे पुत्रोऽसौ दिव्यदेहोऽभवन्नृप ।
सहस्रभुजवान् जातः कृतवीर्यात्मजस्तदा ॥ ११॥
ऋजुपादद्वययुतः स्थितः पर्वतसन्निभः ।
ववर्षुः पुष्पवर्षाणि देवा देवर्षयोऽपि च ॥ १२॥
तुष्टुवस्तं च देवं च गीतवादित्रनिस्वनैः ।
जगर्ज कार्तवीर्योऽसौ सहस्रभुजमण्डितः ॥ १३॥
तस्य शब्दं समाकर्ण्य घनगर्जितसन्निभम् ।
समवर्ती भृशं त्रस्तः परेषां गणना कुतः ॥ १४॥
पृथिव्यां सर्वराजानः समकम्पन्त तद्भयात् ।
अयं पञ्चशतं बाणान् सङ्ग्रामे मोचयेदिति ॥ १५॥
ब्रह्मादयस्ततो यानादुत्तीर्याथ तमब्रुवन् ।
स्मरणात्तव देवानां प्राप्तिः स्याद् गतवस्तुनः ॥ १६॥
हृदिस्थं सर्वलोकानामामयं त्वं विनेष्यसि ।
यतः साक्षाद् विष्णुरूपः सहसस्रार्जुनसंज्ञया ॥ १७॥
त्रिषु लोकेषु विख्यातो यावत्कल्पं भविष्यसि ।
साधुत्राणे च निरतः शरणागतपालकः ॥ १८॥
विजेता सर्वशत्रूणां पृथिवी मण्डलाधिपः ।
इति नाना वरान् दत्वा पिदधुर्देवतागणाः ॥ १९॥
हस्त्यश्व नरयानानि छत्रचामर दीपिकाः ।
रथानुपायनान्यन्यान्याजह्रुरखिला नृपाः ॥ २०॥
ततः संस्थापयामास महाप्रासादमध्यगाम् ।
प्रावालीं गणनाथस्य मूर्तिं द्विजपुरःसरः ॥ २१॥
प्रवालगणपश्चेति तस्य नाम दधुर्द्विजाः ।
ददौ ग्रामान् ब्राह्मणेभ्यः पूजायै स्थापिताश्च ये ॥ २२॥
प्रवालक्षेत्रमिति तत् पप्रथे भुवि सिद्धिदम् ।
तत्र शेषो धरां धर्तुमनुष्ठानपरोऽभवत् ॥ २३॥
प्राप तस्माद्गणेशात् तु वरान् बहुतरानपि ।
धराधरणसामर्थ्यं सर्वज्ञत्वं तथैव च ॥ २४॥
मूर्ध्ना सहस्रं श्रैष्ठ्यं च नवनागकुलेष्वपि ।
अति सन्तुष्ट मनसा तेन यत् स्थापितं पुरा ॥ २५॥
धरणीधर इत्येवं द्वितीयं नाम पप्रथे ।
स्मरतां शृण्वतां चापि सर्वकामफलप्रदम् ॥ २६॥
सम्पूज्य सर्वान् द्विजपुङ्गवांस्तान् राज्ञश्च सर्वाननुपृच्छ्य चैतान् ।
सहस्रबाहुर्नगरं स्वकीयं द्रष्टुं स्वमातापितरावथागात् ॥ २७॥
तौ तं जहृषतुर्दृष्ट्वा नगरं च तथाविधम् ।
ददतुर्द्विजमुख्येभ्यो नानादानानि सर्वशः ॥ २८॥
इन्द्र उवाच ।
अभ्यधायि तु सङ्कष्टचतुर्थीमहिमाऽदभुतः ।
कृतवीर्य सुताच्चायं मृत्युलोकं गतः शुभः ॥ २९॥
अनुभूतः सुरगणैश्चन्द्रसेनादिभिर्नृपैः ।
अतिपुण्यतमश्चायं स्मरणादपि सिद्धिदः ॥ ३०॥
एतत्प्रसादात् सम्प्राप्ता रावणेनाखिलाज्ञता ।
एतत् प्रसादात् सम्प्राप्ता पुरा राज्यं च पाण्डवैः ॥ ३१॥
एतद् व्रतस्य यत्पुण्यं हस्ते मे दीयते यदि ।
तदैव तद् विमानं तु प्रचलेदमरावतीम् ॥ ३२॥
क उवाच ।
इति शक्रमुखात्तस्य व्रतस्य महिमा श्रुतः ।
शूरसेनेन भूपेन स्वानन्दाब्धौ निमज्जता ॥ ३३॥
वन्दिते पादकमले शक्रस्य प्रतिगर्जिता ।
तमुवाच ततः प्रीतः शूरसेनो नृपोत्तमः ॥ ३४॥
श्रुत्वा कथां दिव्यरूपां चतुर्थीव्रतसम्भवाम् ।
स उवाच ।
फलितं पूर्वपुण्यं मे येनाश्रावीदृशं व्रतम् ॥ ३५॥
न ह्येतस्मात् पुण्यतरं त्रिषु लोकेषु किञ्चन ।
इत्युक्त्वा शक्रमारेभे व्रतं कर्तुं स्वयं ततः ॥ ३६॥
इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतमाहात्म्यं नामत्रिसप्ततितमोऽध्यायः ॥ ७३॥
आदितः श्लोकानां समष्ट्यङ्काः ३१७० + ३६ = ३२०६
१.०७४ चतुःसप्ततितमोऽध्यायः
व्यास उवाच ।
ब्रह्मन् कथं कृतं तेन शूरसेनन भूभुजा ।
सेतिहासं शक्रमुखात् श्रुत्वा सादरमुत्तमम् ॥ १॥
ब्रह्मोवाच ।
ततःस्वदूतान् प्राहेदं गच्छन्तु नगरं प्रति ।
स आनेयस्तु सङ्कष्टचतुर्थीव्रतकारकः ॥ २॥
ते दूतास्त्वरया याताः पप्रच्छुस्ते गृहं गृहम् ।
ददृशुर्भ्रममाणास्ते विमानं सुन्दर शुभम् ॥ ३॥
याऽभवद् दुष्टचाण्डाली गलत्कुष्ठा स्त्रवन्मुखा ।
मक्षिकाकृमिभारेण दुर्गन्धेन समावृता ॥ ४॥
शुष्कोदरी दीर्घकेशा शुष्कदन्ताक्षिनासिका ।
अत्यन्तमलिना दीर्घश्रोत्ररन्ध्रा घनस्वना ॥ ५॥
नेतुं तामीदृशीं दूतैरानीतां गणपस्य हि ।
अत्याश्चर्यमिदमिति राजदूताः प्रणम्य ताम् ॥ ६॥
ऊचुस्ते देवदूताँस्तान् गणनाथस्य किङ्करान् ।
अत्यन्तं कुत्सिता जात्या हीनेयं स्वर्गगा कथम् ॥ ७॥
केयमासीत्पुरा दूताः कथमीदृग् बभूव च ।
केन पुण्येन युष्माभिः स्वर्गं तु नियते कथम् ॥ ८॥
एतद् वदन्तु सर्वं नो यदि वक्तुं क्षमं भवेत् ।
देवदूता ऊचुः ।
आसीत् बङ्गालविषये शारङ्गधरनामतः ॥ ९॥
क्षत्रियस्तस्य कन्येयं सुन्दरा नाम सुन्दरी ।
पिककण्ठा शशिमुखी रतिलावण्यजित्वरी ॥ १०॥
यद्दास्य करणे नार्हाः प्रसिद्धा अप्टनायिकाः ।
योगिनामपि या चेतः कटाक्षेन विमोहयेत् ॥ ११॥
युवानो मुमुचुः शुक्रं केचित् तद्रूपवीक्षणात् ।
जारमार्गेषु निरता साऽभवद् विश्वमोहिनी ॥ १२॥
महार्हवस्त्रालङ्कारा नानाविषयभोगिनी ।
बङ्गालनगरे ख्याता वेश्येवासीद् गतत्रपा ॥ १३॥
भर्तारं चित्रनामानं वञ्चयत्येव सर्वदा ।
व्ययादसङ्ख्यद्रव्यस्य पित्रा सम्पादितं पुरा ॥ १४॥
कदाचिच्छयने तं सा हित्वा सुन्दरवेषभृत् ।
निशीथे चलिता तेन हस्तेऽधारि रूषावशात् ॥ ५॥
उवाच भर्त्सयंस्तां च चित्रनामा पतिस्तदा ।
धिक् त्वां पापसमाचारे या जारे निरताऽनिशम् ॥ १६॥
तद्वाक्यमित्थमाकर्ण्य शान्तकोपाऽभवत् तदा ।
अभक्ष्यभक्षणेनासौ मत्ता बलवती भृशम् ॥ १७॥
अन्धे तमसि सङ्गृह्य शस्त्रिकां दक्षहस्ततः ।
तया तदुदरं भित्वा चित्रनामपतेस्तदा ॥ १८॥
गता तं पुरुषं रन्तुं यो जारो मनसि स्थितः ।
यावत्सा रमते तत्र तावत्पर्यन्तवासिना ॥ १९॥
जाग्रता चरितं तस्या ज्ञात्वा राज्ञे निवेदितम् ।
तददूतास्तमसि स्थित्वा तावत् सा गृहमागता ॥ २०॥
दधुस्तां राजदूतास्ते निन्यू राजसमीपतः ।
निजघ्नुस्तां बहिर्नीत्वा दूता राजाज्ञया तदा ॥ २१॥
सा नीता नरके घोरे यमदूतैस्तदायज्ञा ।
अधोमुखी स्थिता तत्र सन्दष्टा कृमिभिर्भृशम् ॥ २२॥
अत्यन्तं बुभुजे दुःखं स्मरन्ती पूर्वचेष्टितम् ।
कल्पान्ते मृत्युलोकेऽभूच्चाण्डाली दुर्भगा भृशम ॥ २३॥
एकदा मदिरां पीत्वा मत्ता सुप्ता दिवैव सा ।
निशायां प्रथमे यामे प्रबुद्धा क्षुधिता भृशम् ॥ २४॥
तदैव भिक्षितुं याता गृहं सा व्रतकारिणः ।
तेनान्नमस्यै दत्तं यत् तया भुक्तं विधूदये ॥ ५॥
गणेशेति च जल्पन्त्या स्वेच्छया दैवयोगतः ।
तदैव गणनाथेन विमानं प्रेषितं शुभम् ॥ २६॥
ब्रह्मोवाच ।
देवदूतवचः श्रुत्वा पुनरूचुर्नमस्य ते ।
राजदूता ऊचः ।
इदमत्यद्भुतं दृष्टमस्माभिः कार्यकारिभिः ॥ २७॥
राज्ञा यदुपदिष्टं नो वाक्यमेतन्निबोधत ।
शक्रो गृत्समदं दृष्टुं विमानवरमास्थितः ॥ २८॥
भृशण्डिमाययौ देवैर्दृष्ट्वा नत्वा प्रपूज्य तम् ।
तदनुज्ञां च पूजां च गृहीत्वा स्वां पुरीं ययौ ॥ २९॥
गच्छतस्तस्य यानं तच्छूरसेनपुरेऽपतत् ।
कुष्ठिनो वैश्यपुत्रस्य दृष्टिपातेन तत् क्षणात् ॥ ३०॥
शूरसेनो गतस्तत्र नमस्कृत्य प्रपूज्य तम् ।
विमान पतनेऽपृच्छदुपायं गमनेऽपि च ॥ ३१॥
इन्द्रेणोक्तं तु सङ्कष्टचतुर्थी व्रत सम्भवात् ।
पुण्यात् प्रस्थास्यते यानं तदर्थे यत्नमाचर ॥ ३२॥
वयं तदाज्ञया दूतास्तं गवेषितुमागताः ।
अनया चेद् व्रतमिदं देवदूताः कृतं यदि ॥ ३३॥
तर्हीयं नीयतां शूरसेनं भूमिपतिं प्रति ।
श्रेयो दास्यति चाण्डाली सङ्कष्टीव्रतसम्भवम् ॥ ३४॥
पुनर्द्विगुणपुण्येयं विमानं प्रति यास्यति ।
विमानमपि शक्रस्य स्वपुरीमागमिष्यति ॥ ३५॥
युष्माकमस्या अस्माकं कार्यं राज्ञः शचीपतेः ।
एवं कृते तु भविता क्रियतां यदि रोचते ॥ ३६॥
इति तद्वचनं श्रुत्वाऽभिदधुर्देवसेवकाः ।
आज्ञानो नो गणेशस्यास्तीमां दातुं परस्य हि ॥ ३७॥
इत्युक्त्वा तां समुत्थाय विमाने निदधुर्यदा ।
तदैव सा दिव्यकान्तिर्दिव्यवस्त्राङ्गभूषणा ॥ ३८॥
देवदूतैस्तु सा नीता दिव्यवादित्रनिःस्वनैः ।
गजाननसमीपे सा राजदूता यथागतम् ॥ ३९॥
ययुस्ते शूरसेनं तं वृत्तान्त समनुब्रुवन् ।
ब्रुवत्सु तेषु तद्यानं चाण्डाल्या सह संव्रजेत् ॥ ४०॥
तदृशुस्ते दीप्यमानं भासयत् प्रदिशो दिशः ।
तस्या दृष्टिर्निपतिता तस्मिन् याने शचीपतेः ॥ ४१॥
विमानवायुसंस्पर्शाद् विमानमूर्ध्वमाययौ ।
पश्यत्सु सर्वलोकेषु विस्मितेषु सुरर्षिषु ॥ ४२॥
स्वं स्वं स्थानं ययुः सर्वे शक्रे यातेऽमरावतीम् ।
साऽपि वैनायकं धामं सम्प्राप्ता दिव्यदेहभाक् ॥ ४३॥
पापं हित्वा तु सङ्कष्टचतुर्थीव्रतपुण्यतः ।
इदं यः शृणुयात् सम्यक् श्रावयेद् वा प्रयत्नतः ॥ ४४॥
प्राप्नुयात् सकलान् कामान् सङ्कष्टनाशनं नरः ॥ ४५॥
इति श्रीगणेशपुराणे उपासनाखण्डे चाण्डाल्युपाख्यानं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥
आदितः श्लोकानां समष्ट्यङ्काः ३२०६ + ४५ = ३२५१
१.०७५ पञ्चसप्ततितमोऽध्यायः
क उवाच ।
श्रुत्वा दृष्ट्वा शूरसेनो महिमानं व्रतोद्भवम् ।
स्वयं कर्तुमनाः प्राह वसिष्ठं मुनिपुङ्गवम् ॥ १॥
राजोवाच ।
मुहूर्तं वद सङ्कष्टचतुर्थीव्रत हेतवे ।
व्रतं कर्त्तुमिहेच्छामि सद्यः प्रत्ययकारकम् ॥ २॥
वसिष्ठ उवाच ।
माघे कृष्णे भौमवारे कुरुष्व व्रतमुत्तमम् ।
सर्वसिद्धिकरं सर्वकामदं राजसत्तम ॥ ३॥
ब्रह्मोवाच ।
राजा सम्भृतसम्भारः सपत्नीकोऽति भक्तिमान् ।
अचिरेणैव सम्प्राप्ते वसिष्ठोक्तदिने शुभे ॥ ४॥
प्रारीप्समानः सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
प्राप्तःस्नानं विधायाथ नित्यकर्म समाप्य च ॥ ५॥
गणेशं पूजयित्वैव स्वस्तिवाच्यद्विजर्षभान् ।
पूजयित्वा वसिष्ठं स ततोऽनुज्ञां समाप्य च ॥ ६॥
गणेशे मन आधाय तन्नामजपतत्परः ।
एकाङ्गुष्ठस्थितस्तावद् यावदस्तमियाद् रविः ॥ ७॥
पुनःस्नानं चकाराशु सायंसन्ध्यामुपास्य च ।
प्रारभत् पूजनं सम्यग्वसिष्ठेन समन्वितः ॥ ८॥
महामण्डपिकां कृत्वा कदलीस्तम्भमण्डिताम् ।
नानालङ्कारवस्त्राढ्यां छत्रचामरशोभिताम् ॥ ९॥
आदर्शपङ्क्तिरुचिरां पुष्पमालाविभूषिताम् ।
नानामणिप्रभायुक्तां दीपमालाविराजिताम् ॥ १०॥
तन्मध्ये स्वर्णकलशे स्थापयित्वा गजाननीम् ।
सौवर्णीं प्रतिमां चारुसर्वावयवसुन्दराम् ॥ ११॥
नानालङ्काररुचिरां नानारत्नविभूषिताम् ।
पठत्सु द्विजमुख्येषु गायत्सु गायकेषु च ॥ १२॥
नदत्सु सर्वतूर्येषु नृत्यत्सु नर्तकेषु च ।
वैदिकैश्चैव पोराणै स्तां मूर्तिं समपूजयत् ॥ १३॥
उपचारैः षोडशभिः पञ्चामृतपुरःसरम् ।
मोदकापूपलड्डूकपायसान्नं सशर्करम् ॥ १४॥
नानाव्यञ्जनशोभाढ्यं पञ्चामृत समन्वितम् ।
नैवेद्यं पुरतः स्थाप्य जलं च चारूगन्धयुक् ॥ १५॥
समर्पयामास नृपो गजाननसुतुष्टये ।
फलानि पूगताम्बूलं दक्षिणां रत्नकाञ्चनीम् ॥ १६॥
दूर्वां नीराजनं मन्त्रपुष्पाञ्जलीननेकधा ।
तिथये गणनाथाय चन्द्र्यार्घ्यं ददावथ ॥ १७॥
ब्राह्मणान् पूजयामास सादरं चाप्यबूभुजत् ।
अयुतं गा ददौ तेभ्यो वस्त्रालङ्कारदक्षिणाः ॥ १८॥
ततः सुहृद्बन्धुयुतः स्वयं च बुभुजे नृपः ।
रात्रौ जागरणं चक्रे गीतवाद्यकथादिभिः ॥ १९॥
प्रभाते विमले स्नात्वा पुनः सम्पूज्य पूर्ववत् ।
मूर्ति तां गणनाथस्य वसिष्ठाय सदक्षिणाम् ॥ २०॥
सोपस्करां ददौ राजा ततस्तुष्टो गजाननः ।
विमानं प्रेषयामास सर्वसम्पद् विराजितम् ॥ २१॥
तद्दूतैः स्थापितस्तत्र गजाननस्वरूपवान् ।
पश्यतां सर्वलोकानां मन आनन्दयन् मुहुः ॥ २२॥
चलितो देवलोकाय राजा पुण्यप्रभावतः ।
तमूचुर्देवदूतास्ते गजाननस्वरूपिणः ॥ २३॥
नानालङ्कारशोभाढ्या मुकुटाक्रान्तमस्तकाः ।
विनायकेन तुष्टेन विमानं प्रेषितं तव ॥ २४॥
त्वद्दर्शनौत्सुक्यवता ततो वयमुपागताः ।
इति तद्वचनं श्रुत्वा मुमोचाश्रूणि भूमिपः ॥ २५॥
जगाद गद्गगदगिरा रोमाञ्चाञ्चितविग्रहः ।
तानुवाच ततो राजा शूरसेनः स्मयन्निव ॥ २६॥
अव्यक्तस्याप्रमेयस्य नितस्यजगदीशितुः ।
वाङ्मनोऽगोचरस्यापि न हेतुर्मम दर्शने ॥ २७॥
न समर्थाश्च यं वेदाः शास्त्राणि च निरूपितम् ।
यं च स्मरन्ति सततं केशाद्या देवतागणाः ॥ २८॥
तेनाहं चेत् स्मृतों दूतास्तर्हि भाग्यं महन्मम ।
इत्याकर्ण्य तु तद्वाक्यं दूता ऊचः पुनर्नृपम् ॥ २९॥
महिमानं न जानीमो भक्तानां नृपते वयम् ।
निर्गुणं यन्निराकारं येन साकारतामियात् ॥ ३०॥
राजोवाच ।
एका मे महती वाञ्छा तुष्टे देवे भवत्सु च ।
तुष्टेषु नगरीं हित्वा कथं यायां गजाननम् ॥ ३१॥
न भक्षितं विनाऽप्येतैर्मया हालाहलं क्वचित् ।
स कथं परमानन्दं भोक्ष्य एतैर्विनाऽनघाः ॥ ३२॥
पुनरूचुश्च तं दूतास्त्वदिच्छा परिपूर्यताम् ।
न चेद् गजाननः क्रोधात् ताडयिष्यति नोऽखिलान् ॥ ३३॥
ब्रह्मोवाच ।
ततः सर्वं जनं नेतुं विमाने निदधुः क्षणात् ।
चतुराकरजा ब्रह्मन् निक्षिप्ताः सर्वजन्तवः ॥ ३४॥
सर्वे दिव्याम्बरा दिव्यवस्त्रालङ्कारशोभिनः ।
ऊचः परस्परं सर्वे किमेतदद्भुतं महत् ॥ १५॥
अस्माभिर्न कृतं पुण्यं विमानं कथमीदृशम् ।
अपरे चाब्रुवंस्तत्र राजपुण्यबलादिदम् ॥ ३६॥
यथा निधिबलाद् धातुमात्रस्य हाटकं भवेत् ।
अतिपापो यथा साधुवचसा सिद्धिमाप्नुयात् ॥ ३७॥
तथैव राजपुण्येन वयं सर्वे समुद्धृताः ।
ततो वैनायका दूता गतिमूर्ध्वामकल्पयन् ॥ ३८॥
जडीभूतं विमानं तन्नोदतिष्ठन् महीतलात् ।
ततः संशयितं सर्वं कथमेतद् दिवं व्रजेत् ॥ ३९॥
ऊचुः परस्परं लोका निर्दैवस्य निधिः कुतः ।
आरुरुक्षेत् कथं भिक्षापात्रं शिक्यं महत्तरम् ॥ ४०॥
ददृशुः सर्वतः केचित् कुष्ठी दृष्टिपथं गतः ।
उवाच कश्चिद्राजानं कुष्ठिनं त्वमिमं त्यज ॥ ४॥
अस्मिन्नधो गते यानमूर्ध्वमेतद् भविष्यति ।
शूरसेन उवाचैतान् दूताँस्तं त्यक्तुमिच्छतः ॥ ४२॥
अहं पापसमाचारस्त्याज्यो नेयः इमेऽखिलाः ।
अथवा कथ्यतामस्य पूर्वपापं च जन्म च ॥ ४३॥
मत्स्नेहात् सर्ववेतृत्वादुपायं कृपयाऽपि च ।
दूता ऊचुः ।
न कार्या नृपते चिन्ता वदिष्यामो वयं तव ॥ ४४॥
जन्मपापमुपायं च कुष्ठिनो दुष्ट कर्म च ॥ ४५॥
इति श्रीगणेशपुराणे उपासनाखण्डे शूरसेनकृतचतुर्थीव्रतफलनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५॥
आदितः श्लोकानां समष्ट्यङ्काः ३२५१ + ४५ = ३२९६
१.०७६ षट्सप्ततितमोऽध्यायः
दूता ऊचुः ।
गौडे तु विषये गौडनगरेऽभूत् पूरा द्विजः ।
तपस्वी ज्ञानवान् प्राज्ञो देवब्राह्मण पूजकः ।
तस्य पुत्रोऽयमजनि जननी चास्य शाकिनी ॥ १॥
तस्य पत्नी तु सावित्री सावित्रीव पतिव्रता ।
एकपुत्रस्नेहवशादलङ्कारैरलङ्कृतः ॥ २॥
अत्यन्तसुन्दरतरो रतिभर्तेव शोभते ।
तन्मातापितरौ तस्य वियोगं नेच्छतः क्षणम् ॥ ३॥
स तु यौवनमापन्नो निजभार्यां विहाय ताम् ।
परदाररतो नित्यं परनिन्दापरायणः ॥ ४॥
अभवत् पापनिष्ठश्च पितृवाक्यावमर्दनः ।
एकदा नगरे तस्मिन् वेश्या नरविमोहिनी ॥ ५॥
आगता तद्गतमना यच्चक्तेऽसौ शृणुष्व तत् ।
स्वालङ्कारान् पेटिकायां निष्कास्याऽस्थापयत् बलात् ॥ ६॥
मातापित्रोः समक्षं च पश्चाच्चौर्यं पुनश्च तान् ।
वेश्यायै प्रतिपाद्यैतांश्चिक्रीड सुभृशं तया ॥ ७॥
हित्वेन्द्रियार्थान् सकलान् सुगन्धद्रव्यसंयुतः ।
तदेकनिष्ठः सञ्जातो योगी ब्रह्मपरो यथा ॥ ८॥
कामाग्नि विव्हलश्चासीत् क्षीबो मद्यबलाद् यथा ।
पिता तु खेदसम्पन्नः क्षुत्तृड्भ्यां परिवर्जितः ॥ ९॥
विलोकयामास सुतं नगरे प्रतिमन्दिरम् ।
अलब्धदर्शनस्तस्य श्वासोच्छ्वासपरायणः ॥ १०॥
निशीथे स्वप्रियां प्राह बुधः पुत्रो गतः क्व नु ।
विना तेन वृथा गेहं विना दीपं यथा निशा ॥ ११॥
विना जलं वृथा वापी विनापत्यं यथाऽबला ।
कदा नु दर्शनं तस्य भविता प्राणरक्षकम् ॥ १२॥
शाकिन्युवाच ।
क्षुधा तृषा परिश्रान्ता चिन्ताशोकसमन्विता ।
तिष्ठामि नाथ नो जाने क्व गतः प्रियबालकः ॥ १३॥
यदि मे दर्शनं तस्य स्याज्जीवामि न चान्यथा ।
पुनश्चचाल दूर्वः स यष्टिमादाय मुष्टिना ॥ १४॥
यं यं पश्यति मार्गेऽस्मिं स्तं तं पृच्छति चात्मजम् ।
यदा श्रान्तः क्षुधाक्रान्तस्तदा भ्रान्तश्च सोऽभवत् ॥ १५॥
अतिवृद्धो महाभीमो नाम्ना भीमोऽन्त्यवर्णजः ।
स तेन पृष्टस्तनयं तेनाप्युक्तं परं स्फुटम् ॥ १६॥
भीम उवाच ।
वेश्यागृहे ते तनयो बुधोऽसौ, बुधः सुखं क्रीडति कामसक्तः ।
कस्यात्मजो वा जननी पिता वा वृथैव खेदं कुरुषे द्विजेन्द्र ॥ १७॥
दूर्व उवाच ।
कथं मम सुतो जातो वेश्यायां निरतो बुधः ।
तस्या गृहं जगामाशु दृष्ट्वाँस्तत्र तं सुतम् ॥ १८॥
उन्मत्तं मदिरारक्तनयनं मदविव्हलम् ।
पिता दधार तं हस्ते रुषाऽशिक्षापयत् सुतम् ॥ १९॥
त्वत्तः कण्टकवृक्षोऽयं पाषाणो वा मतोऽधिकः ।
कथं न त्यजसे प्राणान् किं स्यात्तैर्जीवितं खलु ॥ २०॥
ब्रह्मोवाच ।
पितृवाक्यं समाकर्ण्य रोषाविष्टो बुधः सुतः ।
तलप्रहारं तुण्डेऽस्य दत्तवान् पितुरेव सः ॥ २॥
उक्तवान कृमिकीटादी साधारणमुखे कथम् ।
कृतवानसि मे विघ्नं क्रीडाकाले नराधम ॥ २२॥
अकस्मात् काकस्य शकृत् पतितं मयि वा कथम् ।
पुनर्लत्ताप्रहारेण प्राणाँस्तस्य गृहीतवान् ॥ २३॥
पित्रा प्राणेषु त्यक्तेषु हरेश्वरेति सोऽवदत् ।
ननन्द स सुतः पादे बद्ध्वा तं दूरतोऽक्षिपत् ॥ २४॥
मधु पीत्वा पुना रेमे वेश्यया स यथेच्छकम् ।
प्रातर्जगाम स्वगृहं ददर्श जननी च तम् ॥ २५॥
आलिलिङ्ग सुतं हर्षात् स्नेहस्नुतपयोधरा ।
बभाण क्व गतश्चाऽसि क्व स्थितः किं कृतं त्वया ॥ २६॥
वद मे विस्तराद् वत्स पिता ते दुःखितो भृशम् ।
अहं चापि निराहारा निर्जला निशि जाग्रती ॥ २७॥
प्रतीक्षमाणा वत्स त्त्वां पिताऽन्वेष्टुं गतश्चिरात् ।
गच्छ त्वं पितरं द्रष्टुं इत्युवाच पुनःपुनः ॥ २८॥
तयाज्ञप्तमिति क्रोधाच्छुष्ककाष्ठेन तां सुतः ।
ताडयामास शिरसि पतिता सा धरातले ॥ २९॥
निश्चेतनां परिज्ञाय बद्ध्वा पाशेऽक्षिपद् बहिः ।
स्वयं वेश्यागृहं गत्वा चिक्रीड भृशहर्षितः ॥ ३०॥
ददहुस्ते जनाः सन्तो दम्पती स्वस्वकाष्ठतः ।
न शास्ति राजा दण्ड्यं तं ब्राह्मणत्वाद् द्विजाधमम् ॥ ३१॥
पुनर्गृहागतं तं तु पत्नीवाक्यं शनैर्जगौ ।
सावित्र्युवाच ।
प्राणनाथ वदाम्येकं तद् छृणुष्व महामते ॥ ३२॥
अतिख्यातेऽतिविमले वर्णे जन्म भवादृशाम् ।
आचारश्चान्यथा दुष्टस्त्यक्तव्यः स विवेकतः ॥ ३३॥
इह लोके तु तत्कार्यं येन सौख्यं परे भवेत् ।
पूर्व वयसि तत्कार्यं येन शं वार्धके भवेत् ॥ ३४॥
अष्टमासेषु तत्कुर्याद् येन वर्षासु शं भवेत् ।
दिवसे कर्म तत्कार्यं येन रात्रौ सुखं भवेत् ॥ ३५॥
पितुः प्रियत्वाद् राजाऽपि ब्राह्मणत्वात् क्षमत्यसौ ।
सर्वावयवसम्पूर्णा सुन्दरीमनुसारिणीम् ॥ ३६॥
त्यक्वा मां धर्मपत्नीं त्वं वेश्यायां निरतः कथम् ।
लोको निन्दति सर्वत्र भयात्त्वां न वदत्यसौ ॥ ३७॥
स मां जनः प्रतिब्रूते पतिस्ते कीदृशः शुभे ।
लज्जयाऽधोमुखी प्राणांस्त्यक्तुमीहे तदैव च ॥ ३८॥
यथेष्टं चेन्मया सार्द्धं रमसेऽहर्निशं पते ।
न कोऽपि किञ्चिद् ब्रूयात् त्वां दोषो वा न भवेन्महान् ॥ ३९॥
हितं चेत्कुरू मद्वाक्यं त्यक्त्वा तां स्वविवेकतः ।
अज्ञानाद् वा प्रमादाद् वा कृतं कर्म त्यजेद् बुधः ॥ ४०॥
इदं कृतं ममैव स्यादिष्टं नैव कृतं यदि ।
अनिष्टं सर्वथा मे स्यात् तन्न कार्यं विनिश्चयात् ॥ ४१॥
अन्यथा कुर्वतः पुंस इहलोको न वा परः ।
इति स्त्रिया वाक्यबाणैर्बुधो विद्धो हि मर्मसु ॥ ४२॥
रोषाविष्टो महाक्रूरो जगाद प्रज्वलन्निव ।
बुध उवाच ।
निर्लज्जे निष्ठुरे प्रौढे दुष्टे रुष्टे मयि स्फुटम् ॥ ४३॥
गमिष्यसि गतिं तां त्वं यथा तौ पितरौ गतौ ।
सावित्र्युवाच ।
येन पित्रोर्न मर्यादा शिक्षित्रोश्च स्वतन्त्रयोः ॥ ४४॥
रक्षिता तद्विपरीतां स मां त्राता कथं भवेत् ।
भर्तृहस्तान्मृतिः श्रेयः परत्रेह च सत्स्त्रियाः ॥ ४५॥
ब्रह्मोवाच ।
एवं ब्रुवन्त्यां पत्न्यां स धम्मिल्लं सहसाऽग्रहीत् ।
काष्ठैर्लोष्ठैर्मुष्टिभिश्च पाषाणैस्तामताडयत् ॥ ४६॥
सा रामं भर्तृरूपेण संस्मार पूर्वपुण्यतः ।
प्राणांस्तत्याज सहसा भिन्ना मर्मसु तेन ह ॥ ४७॥
स्वर्गं गत्वा दिव्यदेहा बुभुजे परमं सुखम् ।
आकृष्य चरणे तां स चिक्षेप दूरतो निशि ॥ ४८॥
निरङ्कुशो हर्षयुतो रेमे वेश्यासमन्वितः ।
त्वदर्थं नाशिताः सर्वे बुधस्तामिति सोऽब्रवीत् ॥ ४९॥
ततो बहुगते काले बुधोऽगात् कालभेर्गृहम् ।
तस्मिन् स्नातुं गते दुष्टो भार्यां तस्याऽग्रहीत् कचे ॥ ५०॥
अत्यन्तं सुन्दरतरामालिलिङ्ग चुचुम्ब च ।
निःशङ्कं शयने नीत्वा मर्मद कुचमण्डलीम् ॥ ५१॥
रेमे या यथेष्टं स ततः सा तं शशाप ह ।
सुलभोवाच ।
कथं नाम कृतं दुष्टं पितृभ्यां सुलभेति मे ॥ ५२॥
अहं ते सुलभा जाता दुष्टबुद्धे नराधम ।
स्नातुं गते भर्तरि मे कालभौ मुनिपुङ्गवे ॥ ५३॥
बलात्कारो मयि कृतो दुष्टः कुष्ठी भविष्यसि ।
जन्मान्तरे ते नामापि न गृह्णीयाज्जनः क्वचित् ॥ ५४॥
ब्रह्मोवाच ।
ततो भितो ययौ वेश्यागृहमेव बुधः पुनः ।
रमेते तया सुरां पीत्वा न किञ्चिदपि चिन्तयन् ॥ ५५॥
एवं दुष्टानि कर्माणि वक्तव्यानि कथं मया ।
पुण्यक्षयो भवेत्तस्य परदोषं य ईरयेत् ॥ ५६॥
स कालान्निधनं प्राप्तो दूतैर्नीतो यमालयम् ।
यमेनोक्तं किमानीतो नीयतां नरकेष्वयम् ॥ ५७॥
यमवाक्यं समाकर्ण्य दूता निन्युस्तदैव तम् ।
चिक्षिपुर्नरके तावद् यावदाभूतसम्प्लवम् ॥ ५८॥
भुक्तभोगः स वैश्यस्य गृहे जन्म समाप्तवान ।
ऋषिपत्न्याः स शापेन कुष्ठी जातो भृशं तदा ॥ ५९॥
पितृहा मातृहा स्त्रीहा मद्यपी गुरूतल्पगः ।
तस्य संस्पर्शनादेव सचैलं स्नानमाचरेत् ॥ ६०॥
नामाप्येतस्य न ग्राहयं महादोषकरं यतः ।
एतादृशोऽयं दुष्टात्मा यदा त्यक्त इतस्तदा ॥ ६१॥
विमानं यास्यते चोर्ध्वं नूनं नास्त्यत्र संशयः ॥ ६२॥
ब्रह्मोवाच ।
श्रुत्वेत्थं वचनं तेषां दूतानां भृशकम्पितः ॥ ६३॥
शूरसेन उवाचैतान्न मयाऽज्ञायि दुष्कृतम् ।
पुनरुत्थाय राजाऽसौ प्रणनाम भृशातुरः ॥ ६४॥
प्राह तान् देवदूतान् स कृपां कृत्वा वदन्तु मे ।
उपायमस्य दुष्टस्य सर्वदोषापनुत्तये ॥ ६५॥
दूता ऊचुः ।
उत्तिष्ठोत्तिष्ठ नृपते ब्रूमो दोषापनुत्तये ।
उपायं राजशार्दूल शृणुष्वैकमना भव ॥ ६६॥
गणेशस्य भवेन्नाम यत् ख्यातं चतुरक्षरम् ।
जप तत् कर्णरन्ध्रेऽस्य सर्वदोषक्षयो भवेत् ॥ ६७॥
उदये दिननाथस्य यथा सर्वतमः क्षयः ।
नान्योपायेऽधिकारोऽस्य यतो नामैव जप्यताम् ॥ ६८॥
ब्रह्मोवाच ।
शूरसेनो दूतवाक्याज्जयपूर्वं जजाप ह ।
त्रिवारं वैश्यकर्णे तु नाम यच्चतुरक्षरम् ॥ ६९॥
गजाननेति श्रुत्वैव दिव्यदेहोऽभवच्च सः ।
भासयँस्तेजसा सर्वमरुणो भुवनं यथा ॥ ७०॥
सर्वपापक्षये जाते नामश्रवणमात्रतः ।
दीपयन् सर्व दिग्देशान् विमानं चाध्यरोहत ॥ ७१॥
तद्विमानं क्षणाद् दूतैः सर्वलोकसमन्वितम् ।
नीतं वैनायकं धाम विघ्नराजस्य शासनात् ॥ ७२॥
इति सर्वं समाख्यातं यद् यत्पृष्टं त्वयाऽनघ ॥ ७३॥
महापुण्यं च सङ्कष्ट चतुर्थीव्रतमुत्तमम् ।
धर्म्यं यशस्यमायुष्यं श्रवणात् सर्व सिद्धिदम् ॥ ७४॥
सर्वपीडाप्रशमनं सर्वविघ्न विनाशनम् ।
दूर्वानामप्रभावश्च किमन्यच्छ्रोतुमिच्छसि ॥ ७५॥
इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीमाहात्म्यकथनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६॥
आदितः श्लोकानां समष्ट्यङ्काः ३२९६ + ७५ = ३३७१
१.०७७ सप्तसप्ततितमोऽध्यायः
व्यास उवाच ।
अन्येनाकारि केनेदं वद तत् कौतुकं महत् ।
ब्रह्मोवाच ।
जामदग्न्येन रामेण व्रतमेतत् पुरा कृतम् ॥ १॥
सोऽपि कीर्तिं जयं ज्ञानमायुर्दीर्घं च लब्धवान् ।
व्यास उवाच ।
रामः कथं समुत्पन्नः कस्मात् कस्यां पितामह ॥ २॥
एतत्सर्वं सुविस्तार्यं ब्रूहि त्वं मम पृच्छतः ।
ब्रह्मोवाच ।
श्वेतद्वीपेऽविख्यातो जमदग्निर्महामुनिः ॥ ३॥
मनसा सृष्टिसंहारान् निग्रहानुग्रहानपि ।
यः करोति त्रिकालज्ञस्ततो देवाश्चकम्पिरे ॥ ४॥
यस्यासीत् पत्न्यपि तथा रेणुका नाम नामतः ।
यस्या लावण्यगुञ्जापि पत्न्याः कामस्य नाभवत् ॥ ५॥
रतिरित्येव लोकेषु विख्याताऽभू ततस्तु सा ।
यया सम्मोह्ययते सर्वं क्षमस्तद्वर्णने तु कः ॥ ६॥
यन्नेत्रशोभासम्प्राप्त्यै चकोरा जलवासिनः ।
हरिणाश्च तपश्चेरुर्वने छन्दतृणाशिनः ॥ ७॥
यदास्यशोभासम्प्राप्त्यै सेवते चन्द्र ईश्वरम् ।
अनादिनिधना देवी मूलप्रकृतिरिश्वरी ॥ ८॥
यस्यामजनि रामोऽसौ विष्णुर्योगेश्वरो यथा ।
जमदग्नेर्महाभागात् साक्षादीश्वररूपिणः ॥ ९॥
अतिसुन्दरगात्रोऽसौ साक्षान्मन्मथमन्मथः ।
मातापितृवचः कर्ता विख्यातबलपौरुषः ॥ १०॥
देवद्विजगुरुप्राज्ञगोबोधिपूजने रतः ।
वेदवेदाङ्गशास्त्राणां स्मृतीनामपि पाठकः ॥ ११॥
वाक्येबृहस्पति समः क्षमया पृथिविसमः ।
गाम्भीर्येऽब्धिसमो यस्तु पित्रोर्वाक्यपरायणः ॥ १२॥
पित्रोराज्ञां गृहीत्वा स निमेषारण्यमाययौ ।
अनेकविद्याभ्यसने मतिं कृत्वा परां स्थिराम् ॥ १३॥
तस्मिन् गते तदा राजा कार्तवीर्यो महाबलः ।
यस्य प्रतापादभवद् वश्यं भूमण्डलं सदा ॥ १४॥
यस्मिँल्लक्ष्मी स्थिरा विष्णोरंशभूतेऽखिलार्थदे ।
आजौ पञ्चशतं बाणान् सृजते रिपुघातकान् ॥ १५॥
इन्द्रादिवृन्द सेव्योऽसौ विख्यातबलपौरुषः ।
असङ्ख्याता गजा यस्य रथवाजिपदातयः ॥ १६॥
यस्य निर्गमने सैन्याश्छादयन्ति महीतलम् ।
वर्षाकाले यथा मेघा धाराभिर्व्योममण्डलम् ॥ १७॥
यस्य कम्बुस्वनं श्रुत्वा द्विषो यान्ति दिशो दश ।
यथा सिंहरवं श्रुत्वा मत्तमातङ्गकोटयः ॥ १८॥
यदा तालीपञ्चशतं स्वेच्छया कुरुते नृपः ।
तदा सनादं ब्रह्माण्डं कम्पते मुनिसत्तम ॥ १९॥
असौ यदृच्छया यत्तश्चतुरङ्गबलान्वितः ।
नीलवस्त्रधरो नील छत्रस्तादृशसैनिकः ॥ २०॥
वनानि सरितो दुर्गान् पर्वतांश्च विलोडयन् ।
नानामृगगणान्वीक्ष्य विनिघ्नन्नपि कांश्चन ॥ २१॥
ततः सहयाद्रिशिखरेऽपश्यदाश्रममुत्तमम् ।
यथा कैलासशिखरे गिरिशालयमुत्तमम् ॥ २२॥
अपृच्छत् सेवकान् राजा कस्येदमुत्तमं स्थलम् ॥ २३॥
भृत्य उवाच ।
जमदग्निरिति ख्यातः साक्षात्सूर्य इवापरः ।
मुनिरास्ते महाभागः शापानुग्रहकारकः ॥ २४॥
यस्य दर्शनतः पाप कोटयो यान्ति संक्षयम् ।
इच्छा चेत्तत्र गन्तव्यं दर्शनं ते भविष्यति ॥ २५॥
तवप्रसादात् सर्वेषामुपकारो भविष्यति ।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा गमनायोद्यतो नृपः ॥ २६॥
न्यषेधयत् सर्वबलं श्रेष्ठानादाय तत् क्षणात् ।
ययौ तं मुनिशार्दूलं जमदग्निं तपोनिधिम् ॥ २७॥
दशर्श तं कुशासीनं ज्वलन्तमिव पावकम् ।
प्रणनाम स साष्टाङ्गं ते सर्व सहयायिनः ॥ २८॥
नानाविशालशालासु कुञ्जवृक्षावलीषु च ।
निषेदुः सैनिकास्ते तु राजा तस्थौ मुनेः परः ॥ २९॥
आसने मुनिनादिष्टे चतुर्भिः परिवारितः ।
निषसाद तदा राजा कृतवीर्यसुतो बली ॥ ३०॥
अपूजयत् तान् सर्वान् पाद्यार्घ्यविष्टरादिभिः ।
सु मुनिः प्रददौ गाश्व शिष्यैः सर्वानपूजयत् ॥ ३१॥
नानासरोवरजले निर्मले चारूशीतले ।
अमज्जन्त तदा सर्वे सैनिका मृगयार्दिताः ॥ ३२॥
शृण्वन् वेदनिनादांश्च शास्त्रशब्दांश्च पुष्कलान् ।
अभितो वादशब्दाँश्च तच्छिष्यैः समुदीरितान् ॥ ३३॥
अब्रवीन्मुनिमुख्यं तं राजा राजीवलोचनः ।
अद्य मे पितरौ धन्यौ जन्म ज्ञानं तथा तपः ॥ ३४॥
पुण्यवृक्षोऽद्य फलितो यज्जातं तव दर्शनम् ।
अद्य मे सम्पदो धन्याः कुल धन्यं यशोऽपि मे ॥ ३५॥
परब्रह्मेति यत् प्रोक्तं तदेव त्वं न संशयः ।
आतिथ्यं तव दृष्ट्वैवं परितुष्टं मनो मम ॥ ३६॥
इति श्रुत्वा तु तद्ब्राह्मीं स्मयन्निव प्रसन्नधीः ।
कोऽसि कस्यासि किं नाम किं कार्यं तव वर्तते ॥ ३७॥
इति तं परिपप्रच्छ जानन्नपि मुनिस्तदा ।
राजोवाच ।
राज्ञां स्वकार्यकर्तॄणां भवादृशनिरीक्षणात् ॥ ३८॥
नान्यत् प्रयोजनमुरूश्रेयसाऽजनि तत्स्फुटम् ।
कृतवीर्यसुतोऽहं च कार्तवीर्य इति श्रुतः ॥ ३९॥
अनुज्ञातो गमिष्यामि ततोऽहं नगरं प्रति ।
मुनिरुवाच ।
मयाऽश्रावि महाकीर्तिस्तव राजन्यसत्तम ॥ ४०॥
आसीत् त्वद्दर्शनाकाङ्क्षा जाता पुर्ण्यन सत्फला ।
देह आत्मा तपो ज्ञानमाश्रमो मम साम्प्रतम् ॥ ४१॥
अभूत् त्वदागमाद् राजन् सार्थकाः सर्वसम्पदः ।
अकृत्वा भोजनं किचित् कथं त्वं गन्तुमर्हसि ॥ ४२॥
मम श्लाघा भवेल्लोके न्यूनं किं तव विद्यते ।
किञ्चिद् भुक्त्वा व्रज विभो सनाथं कुरु मां प्रभो ॥ ४३॥
राजोवाच ।
सत्यं भोजनकालोऽस्ति भोक्तव्यं च तवाज्ञया ।
अन्नाभावे श्रोत्रियाणां जलं याच्च पिबेदपि ॥ ४४॥
तथाऽप्येतान् विहायाहं सैनिकान् गणनातिगान् ।
जलं पातुं न शक्नोमि कथं भोक्तुं समुत्सहे ॥ ४५॥
जानेऽहं मनसा ब्रह्मन् न शक्तिः सर्वभोजने ।
भवद्दर्शनमात्रेण कृतकृत्यो व्रजेऽधुना ॥ ४६॥
मुनिरुवाच ।
चिन्तां मा कुरू राजर्षे भोजयिष्ये ससैनिकम् ।
चतुर्विधेन चान्नेन किमसाध्यं तपस्विनाम् ॥ ४७॥
गृहे ते वाहिनी या स्यात् तामप्याकारय प्रभो ।
क्षणं विश्राम्यतां तीरे नद्याश्चारुतरे शुभे ॥ ४८॥
यावत् सिद्धं भवेदन्नं पश्चाद् द्रक्ष्यसि कौतुकम् ।
क उवाच ।
अन्तः स विस्मयाविष्टो जगाम कृतवीर्यजः ॥ ४९॥
वाक्यमाकर्ण्य तु मुनेर्नदीतीरं सुशोभनम् ।
मुनि पत्नीं समाहूय वृत्तान्तं तं जगाद ताम् ॥ ५०॥
आहूय कामधेनुं तौ पुपूजतुः क्षणेन ताम् ।
प्रार्थयामासतुरुभौ लज्जां नौ रक्ष धेनुके ॥ ५१॥
असङ्ख्यातबलो राजा भोजनाय निमन्त्रितः ।
यथारूचि भवेत्तस्य स सैन्यस्य भुजिः शुभे ॥ ५२॥
तथा कुरू क्षणेन त्वं नो चेत् सत्यं लयं व्रजेत ।
अकीर्तिश्च भवेल्लोके यथेच्छसि तथा कुरू ॥ ५३॥
एवं सम्प्रार्थिता ताभ्यां कामधेनुर्महापुरम् ।
निर्माय स्वप्रभावेण नानामन्दिरसुन्दरम् ॥ ५४॥
नानारत्नमयस्तम्भशोभि नानासभागृहम् ।
नानापुष्पलताचारू वाटिकाराममण्डितम् ॥ ५५॥
नानाध्वजपताकाढ्यं नानावादित्रनिस्वनम् ।
अष्टापदानां भाण्डानां नाना पङ्क्तिविराजितम् ॥ ५६॥
चतुर्विधान्नसम्पन्नं नानाभोजनपङ्क्तिमत् ।
महातोरणशोभाढ्यं परिखावलयाङ्कितम् ॥ ५७॥
अनेकदासदासीभिर्विलसच्चारू वेदिकम् ।
निवारयन्ति लोकांश्च यत्र तत्र स्थिता नराः ॥ ५८॥
पुरो गन्तुं न चाज्ञाऽस्ति जमदग्निमुनेरिति ।
परिविष्टेषु पात्रेषु सङ्ख्यातीतेषु सर्वतः ॥ ५९॥
दीपप्रभाभासुरेषु नानाव्यञ्जनशालिषु ।
सूपपायसपक्वान्नपञ्चामृतयुतेषु च ॥ ६०॥
सखाद्यलेह्यचोष्यादि पेयपङ्क्तिविराजिषु ।
सामुद्रपक्वनिम्बाम्रामृत बिल्वादिशालिषु ।
चन्द्रैलाहिङ्गुमारीच क्वथिकापात्रशालिषु ॥ ६१॥
सिद्धेषु पात्रेषु मुनिस्तदाऽसावाकारयच्छिष्यगणं तदानीम् ।
श्रीकामधेनोः परिपूर्ण तोषाद् भोक्तुं ससैन्यं कृतवीर्यपुत्रम् ॥ ६२॥
इति श्रीगणेशपुराणे उपासनाखण्डे जमदग्निमहिमावर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७॥
आदितः श्लोकानां समष्ट्यङ्काः ३३७१ + ६२ =३४३३
१.०७८ कार्तवीर्योपाख्यानं नामाष्टसप्ततितमोऽध्यायः
क उवाच ।
ततो मुनिः शिष्यगणमुवाच त्वरया व्रज ।
आकारयितुं नृपतिं नदीतीरनिवासिनम् ॥ १॥
ते शिष्यास्तं नृपं गत्वा गृह्य तत् प्रणतिं पुरा ।
दत्वाऽऽशीर्वर्चनं तस्मै मुनेराज्ञां तथाऽब्रुवन ॥ २॥
चल राजन्नवहितो भोजनाय ससैनिकः ।
पात्राणि परिविष्टानि सङ्ख्यातीतानी षड्रसैः ॥ ३॥
क उवाच ।
तत उत्थाय राजाऽसौ समाहूय ससैनिकान् ।
सुस्नातः सर्वसैन्येन कार्तवीर्यो नृपो ययौ ॥ ४॥
मुनिवेश्म ततोऽपश्यन्न दृष्टं न च वै श्रुतम् ।
एतादृशं त्रिलोकेषु गृहतोरणमाप सः ॥ ५॥
स निषिद्धो वेत्रधरैर्मुनिसङ्केतकामुकैः ।
ते निषिद्धाः शिष्यगणैस्ततोऽगाद् भोजनालयम् ॥ ६॥
स्थित्वा मध्ये पश्यति स्म राजाऽसौ सम्पदं मुनेः ।
अमन्यत तदा स्वान्ते नेदृशी श्रीर्हरौ हरे ॥ ७॥
पालकेऽपालके स्त्रष्टर्यपि ब्रह्मणि नेदृशी ।
ततो मुनिः पुरो भूत्वा प्रतिपात्रे न्यवेशयत् ॥ ८॥
राजानुमतिमाज्ञाय पङ्क्तौ पङ्क्तौ ससैनिकान् ।
दापयामास पात्राणि ये बहिर्भोजिनश्च तान् ॥ १॥
उपविष्टेषु सर्वेषु राजानमुपवेशयत् ।
बुभुजुस्ते तदा वाद्ये वादिते सर्व एव हि ॥ १०॥
अदृष्टपूर्वाण्यन्नानि स्वादुमूलफलानि च ।
परस्परं च पप्रच्छुः किमिदं किमिदन्त्विति ॥ ११॥
आश्चर्यं मेनिरे सर्वे यामेनेत्थं कथं कृतम् ।
यथेष्टं भुञ्जते सर्वे तृप्ताश्चान्नानि तत्यजुः ॥ १२॥
ते प्रक्षालनपात्राणि प्रतिपात्रे न्यवेदयन् ।
मुनिशिष्याजलं चापि शलाका अपि चारवः ॥ १३॥
गजाश्ववृषवृन्देभ्यः शिष्याः शेषान्नमर्पयन् ।
ततोऽन्यस्मिन् गृहे सर्वे विस्तीर्णे कृतसंस्तरे ॥ १४॥
इक्षुद्राक्षाम्रपनस दाडिमानि बभक्षिरे ।
एलालवङ्गकर्पूर चूर्णखादिरपूगकान् ॥ १५॥
जगृहुर्मुनिदत्तांस्ते नागवल्लीदलैर्युतान ।
ततो ददावलङ्कारान् वासांसि च मुदा मुनिः ॥ १६॥
तेभ्यो यथार्हं सर्वेभ्यो राजेऽनर्घ्यतराणि च ।
मुनिरुवाच ।
किं मया भोजनं देयं मुनिना वन्यवृत्तिना ॥ १७॥
अवाप्तसर्वकामाय राज्ञे ते विष्णुरूपिणे ।
यशोऽकारि त्रिलोके मे त्वया मद्वाक्यकारिणा ॥ १८॥
जमदग्नेर्गृहे राज्ञा ससैन्येन भुजिः कृता ।
अतिपुण्यवतो लोके साधुशब्दः प्रयुज्यते ॥ १९॥
महान् क्षुद्रस्य वाक्यं चेत् कुरूते सोऽपि साधुताम् ।
प्राप्नोति सर्वलोकेषु कीर्तिं स्फीतां समुत्कटाम् ॥ २०॥
मद्वाक्यकरणे तेऽपि दूरेऽरिष्टं गतं महत् ।
ब्रह्मोवाच ।
इति वाणीं समाकर्ण्य जमदग्निसमीरिताम् ॥ २१॥
पप्रच्छ राजा तं तत्र विस्मयाविष्टमानसः ।
राजोवाच ।
नादर्शि प्रथमं किञ्चिदिदं किं मायया कृतम् ॥ २२॥
तपः प्रभावाद् वाऽकारि सत्त्वं मे वद सुव्रत ।
मुनिरुवाच ।
अनृतं नोक्तपूर्वं मे परिहासेऽपि वा नृप ॥ २३॥
अतः सत्यं ब्रवीमि त्वां कामधेन्वाऽखिलं कृतम् ।
ब्रह्मोवाच ।
कुमतिस्तस्य भवति यस्य दैवमदक्षिणम् ॥ २४॥
अनिष्टं बलवद् भावि दुष्टग्रहकृतं मुने ।
भुक्त्वा तृप्तोऽपि राजाऽसौ सम्यक् स बलवाहनः ॥ २५॥
आदाने कामधेनोः स मतिं चक्रेऽब्रवीदिदम् ।
राजोवाच ।
मुनीनां शान्तचित्तानां कन्दमूलफलाशिनाम् ॥ २६॥
मनसा सृष्टिसंहारकर्तॄणामस्पृहावताम् ।
जितेन्न्द्रियाणां विज्ञानां नेक्षे धेन्वा प्रयोजनम् ॥ २७॥
वन्यमारुतभक्ष्याणां मोक्षसाधनकारिणाम् ।
वेदाभ्यसनशीलानां सम्पदा किं प्रयोजनम् ॥ २८॥
शास्त्रपाठनशीलानां धर्मशास्त्रार्थवेदिनाम् ।
योगाभ्यासरतानां च कामधेनोः प्रयोजनम् ॥ २९॥
कार्याय महते स्यात्तु महद्वस्तु महद्गतम् ।
अरण्यवासिने तुभ्यं महद्रत्नं च नोचितम् ॥ ३०॥
तस्माद् देया कामधेनुर्मम ब्रह्मन् मुदा त्वया ।
मयि स्थिता तवैवास्ति चेतसि त्विति धार्यताम् ॥ ३१॥
मर्यादां रक्ष तां ब्रह्मन्नुक्तमेवं पुरस्तव ।
नो चेद् राज्ञां किमग्राह्यं लोकेषु बलशालिनाम् ॥ ३२॥
स्वराष्ट्रे परराष्ट्रे वा चतुरङ्गबलैः सह ।
ब्रह्मोवाच ।
श्रुत्वैवं वचनं तस्य कार्तवीर्यस्य दुर्मतेः ॥ ३३॥
प्रतिजज्वाल रोषेण जमदग्निर्महामुनिः ।
सर्पिषा बहुलेनैव जातवेदा यथा द्विजः ॥ ३४॥
उवाचारक्तनयनः शिक्षयन्निव भूमिपम् ।
मुनिरुवाच ।
साधुः शुद्धो महान् राजा प्रार्थितो भोजनाय हि ॥ ३५॥
कौटिल्यं तव न ज्ञातं बकस्येव हृदि स्थितम् ।
यथा वा कोकीला काकबालं पुष्णाति मायया ॥ ३६॥
अन्ते तत्काकभावेन भक्ष्याभक्ष्यरतिं व्रजेत् ।
अहमेवाभवं भ्रान्तो य इमां राजमित्रताम् ॥ ३७॥
न दृष्टां न श्रुतां लोके नानुभूतां च केनचित् ॥ ३८॥
इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्योपाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८॥
आदितः श्लोकानां समष्ट्यङ्काः ३४३३ + ३८ = ३४७१
१.०७९ कार्तवीर्योपाख्याने एकोनाशीतितमोऽध्यायः
मुनिरुवाच ।
उपकारस्त्वयाऽऽरम्भि साधुवृत्तानुसारिणा ।
आत्मघातं पुरस्कृत्वा कामधेनुं त्वमिच्छसि ॥ १॥
भ्रान्तोऽसि नृप सत्यं त्वमप्राप्यं योऽभिवाञ्छसि ।
त्रैलोक्यनाशजं पापं तव मूर्ध्नि पतिष्यति ॥ २॥
ब्रह्मोवाच ।
इति वाक्शरविद्धोऽसौ प्रलयानलसन्निभः ।
राजा बभूव रोषेण मुखादनलमुद्वमन् ॥ ३॥
उवाच परमक्रुद्धो जमदग्निं मुनिं तदा ।
राजोवाच ।
न मया दुष्टवचनं कस्यापि श्रूयते शठ ॥ ४॥
किं करोमि द्विजोऽसि त्वमिति क्षान्तं वचः कटु ।
क उवाच ।
तत उत्थाय राजाऽसौ दूतानाज्ञाप्य सत्वरम् ॥ ५॥
मुक्त्वा कीलात् कामधेनुं शीघ्रं यान्तु ममान्तिकम् ।
आवेष्टयंस्तदा दूताः कामधेनुं तदाज्ञया ॥ ६॥
फूत्कारेणैव तस्यास्ते त्यक्त्वा प्राणान्दिवं ययुः ।
अन्यान्क्रोधानलेनासौ राजदूतान् ददाह च ॥ ७॥
श्वासमारुतवेगेन व्योम्नि वीराः परेऽभ्रमन् ।
आच्छाद्य मण्डलं भानोर्न प्राज्ञायत किञ्चन ॥ ८॥
दिशः सतिमिरा जाता व्योमापि न च भासते ।
धराकम्पः समभवद् वृक्षाः पेतुः प्रकम्पिताः ॥ ९॥
सैनिकाश्च ततो भीता यान्ति सर्वे दिशो दश ।
केनचित्ताडिता सा गौः कशाघातेन दूरतः ॥ १०॥
उड्डीयोड्डीय सा धेनुरधावत् सैन्यमेव तत् ।
गजवृन्दं यथा सिंहो गरुत्मानुरगानिव ॥ ११॥
हाहाकारो महानासीद् वीराणां तत्र धावताम् ।
तानुवाच न भीः कार्या कार्तवीर्यो महाबली ॥ १२॥
मया ध्माते मुदा शङ्खे भीता यास्यति मन्दिरम् ।
कामधेनुः कियच्चास्ति पश्यन्तु कौतुकं मम ॥ १३॥
ततो दध्मौ महाशङ्खं त्रैलोक्यं पूरयन् रवैः ।
न बिभ्यत् कामधेनुस्तां ताडयामासुरोजसा ॥ १४॥
यष्टिभिर्लोहनिचयैः सर्वे ते राजसेवकाः ।
यत्र यत्र प्रहारोऽस्याः शरीरे जायते ततः ॥ १५॥
सन्नद्धाः सर्वशस्त्राढ्या नानावीराः विनिःसृताः ।
शकाश्च बर्बरा आसंस्तस्या केशसमुद्भवाः ॥ १६॥
पटच्चराः पाददेशादेवं सर्वै प्रजज्ञिरे ।
नानायवनजातीया नानावीरास्तथाऽपरे ॥ १७॥
वाजिवारणसङ्घाश्च रथिनो बलवत्तराः ।
ते चैव युयुधुस्तत्र कार्तवीर्यस्य सैनिकैः ॥ १८॥
न्यपतन् कार्तवीर्यस्य सैनिकास्तैः प्रहारिताः ।
अपरे मिलितास्तत्र निशि वृक्षे पतङ्गवत् ॥ १९॥
परस्पराघातहता निपेतुः शतशो नराः ।
भङ्क्त्वा शस्त्रैश्च शस्त्राणि मल्लयुद्धं प्रचक्रिरे ॥ २०॥
एवं सुतुमुले जन्ये शस्त्रेषु निपतत्सु च ।
स्वीयो वा परकीयो वा न प्राज्ञायत किञ्चन ॥ २१॥
रजसाच्छादिते सूर्ये जघ्नुरेवं परस्परम् ।
कोलाहलो महानासीद् हन्यतां हन्यतामिति ॥ २२॥
हेषितैर्बृंहितैःक्ष्वेडैर्निबिडो रथनेमिभिः ।
मृदङ्गताल वेणूनां भेरीणां निनदैरपि ॥ २३॥
एवं गव्यैः कार्तवीर्यै रथ्यश्वगजपत्तिभिः ।
अभवत् सुमहद् युद्धं भूतराक्षसभीतिदम् ॥ २४॥
पक्षिजम्बूकसुखदं वीरपत्नीभयप्रदम् ।
केषाञ्चिज्जानुनी भग्ने केषाञ्चिच्च शिरांसि च ॥ २५॥
खड्गखेटकभल्लान्नां शराणां धनुषामपि ।
भग्नानां न च सङ्ख्याऽस्ति वीराणां रथिनामपि ॥ २६॥
प्रपेतुः कार्तवीर्यस्य शेषा ये सैनिकास्तदा ।
पृष्ठलग्ना ययुर्गव्या हसन्तो न च जघ्निरे ॥ २७॥
निनिन्दुर्मुनिना किं वोऽनिष्टं कृतमितीह ते ।
पूर्वदोषप्रसङ्गेन राज्ञो जाता सुदुर्मतिः ॥ २८॥
एवं प्रभग्ने सैन्ये स उत्तस्थौ कृतवीर्यजः ।
हस्तयोर्जगृहे पञ्च शतं बाणान् धनूंषिच ॥ २९॥
दत्त्वा भूमौ वामजानुं धनूंष्याकृष्य वेगवान् ।
चिक्षेप शरजालं स गव्ये सैन्ये महाभुजः ॥ ००॥
फलहीनमभूत्तस्य शरजालं नृपस्य तत् ।
अनीतेश्चरितं तद्वद् वन्ध्यायाः सुरतं यथा ॥ ३१॥
पुनः पुनर्जहौ बाणांस्तावतो राजसत्तमः ।
कामधेनोर्न चैकोऽपि वीरो भग्नोऽभवत्तदा ॥ ३२॥
शरजाले वृथा याते सन्तप्तोऽभून्नृपस्तदा ।
क्व गतं मम सामर्थ्यमिति चिन्तातुरोऽभवत् ॥ ३३॥
व्याकुले न प्रहर्तव्यमिति सर्वं ययुर्दिवम् ।
कामधेनुर्मदा युक्ता किं युद्धं लघुना सह ॥ ३४॥
गतायां कामधेनौ स कार्तवीर्यो मुनिं ययौ ।
रोषेणोवाच ते ब्रह्मन कापट्यं विदितं मया ॥ ३५॥
न स विप्रोऽभिमन्तव्यो यस्य स्यात्कपटं हृदि ।
इत्येकं बाणमादाय विव्याध द्विजपुङ्गवम् ॥ ३६॥
लग्ने हृदि महाबाणे प्राणत्यागं चकार सः ।
रेणुका तं नृपं प्राह ब्रह्महत्या वृथा कृता ॥ ३७॥
स ऊचे रक्तनयनः क्रोधाविष्टो नृपस्तु ताम् ।
तूष्णीं तिष्ठ न चेद् हन्मि त्वामपीह मुनिप्रिये ॥ ३८॥
एकविंशतिबाणैस्तां दुष्टो राजाऽहनद् रुषा ।
सस्मार मनसा साऽपि जमदग्निं मुनिं तदा ॥ ३९॥
पश्चादुवाच नृपतिं दुष्ट चाण्डाल किं कृतम् ।
अपराधं विना कस्मादावां निहतवानसि ॥ ४०॥
तवापि भविता नाशो भुजानां नात्र संशयः ।
श्रुत्वेत्थं वचनं तस्यास्ततो यातो नृपस्तदा ॥ ४१॥
अल्पावशिष्टसैन्येन चिन्ताक्रान्तो ययौ पुरीम् ।
विन्निदन् हृदि चात्मानं शोचंश्च मृतसैनिकान् ॥ ४२॥
निरुत्साहो निरुद्योगो विवेश निजमन्दिरम् ॥ ४३॥
इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्योपाख्याने एकोनाशीतितमोऽध्यायः ॥ ७९॥
आदितः श्लोकानां समष्ट्यङ्काः ३४७१ + ४३ = ३५१४
१.०८० रामोपाख्याने अशीतितमोऽध्यायः
क उवाच ।
रेणुका तु गते तस्मिन् शुशोच भृशविव्हला ।
क्व गता मम पुत्रास्ते संहारेऽस्मिन्नुपस्थिते ॥ १॥
मृते भर्तरि किं कुर्यां बाणजालसमावृता ।
क्व गतोऽसौ महाक्रोधी रामो मे प्रियबालकः ॥ २॥
तस्मिन् दृष्टे मम प्राणा गमिष्यन्ति सुरालयम् ।
स्मृतमात्रस्तया रामो ययौ मातुस्तदाऽन्तिकम् ॥ ३॥
बाणजालचितां तां च पितरं मृतमैक्षत ।
कार्तवीर्येण दुष्टेन दृढबाणहतं हृदि ॥ ४॥
पपात मूर्छया भूमौ वातभग्न इव द्रुमः ।
पितरं मातरं चैव रुरोद भृशदुःखितः ॥ ५॥
राम उवाच ।
अद्यान्धकारः सर्वत्र अद्य शून्या दिशो दश ।
मेरूर्विना यथा पृथ्वीशक्रहीनाऽमरावती ॥ ६॥
नाश्रमः शोभते तद्वत् पित्रा हीनोऽयमद्य मे ।
त्रिलोकी गङ्गया हीना तद्वदाश्रम मण्डली ॥ ७॥
न शोभते रेणुकया हीनाऽप्याश्रमण्डली ।
गतं भयं तु देवानां मुनयोऽद्य निरीश्वराः ।
यदासी त्तपसा चास्य किमयं वा ग्रहिष्यति ॥ ८॥
एवं बहुविधाकारं चक्र आक्रन्दनं तु सः ।
अचेष्टत भृशं रामो मत्स्यो नीरं विना यथाम् ॥ ९॥
ततः पुनर्मातरं स रुदन्नेव समाययौ ।
निष्कासयामास शरानङ्के कृत्वा शिरोधराम् ॥ १०॥
चक्रन्द च पुना रामो मातृदुःखेन दुःखितः ।
त्रैलोक्यं भस्मसात् कर्तुं या क्षमा जननी मम ॥ ११॥
सा कथं पतिता भूमौ दुष्टबाणप्रपीडता ।
न विस्मरसि मां नित्यं क्षणं क्रीडागतं पुरा ॥ १२॥
त्यक्त्वा मां कथमद्य त्वं कुत्र वा गन्तुमुद्यता ।
ददासि मे पयो भूरि वस्त्राण्यन्नानि शोभने ॥ १३॥
फलमूलानि चारूणि यासि त्यक्त्वा कथं नु सा ।
मातापितृभ्यां हीनस्य धिङ्मे जीवितमद्य मे ॥ १४॥
ब्रह्मोवाज ।
इति पुत्रवचः श्रुत्वा रेणुका भृशदुःखिता ।
प्रमृज्याश्रूणि पुत्रस्य जगाद भृशविव्हला ॥ १५॥
अहं ते निकटे स्थास्ये न शोकं कर्तुमर्हसि ।
शृणु वार्तां पुरा वृत्तां राजाऽसौ कृतवीर्यजः ॥ १६॥
मध्यान्हे सह सैन्येन प्राप्तः आश्रममण्डलम् ।
पित्रा ते मानितः सम्यग् भोजितो बलसंयुतः ॥ १७॥
कामधेनोः प्रसादेन भुक्त्वाऽयाचत धेनुकाम् ।
तूष्णीं भूते मुनौ कोपात् कामधेनुं मुमोच सः ॥ १८॥
स्पृष्टमात्रा च सा धेनुः ससर्ज बलमुत्कटम् ।
चतुरङ्गं ततो युद्धमभवद् राजसैनिकैः ॥ १९॥
भग्नास्तेऽप्यपलन् सर्वे राजा युद्धमथाकरोत ।
स च पञ्चशतं बाणान् वारं वारमथासृजत् ॥ २०॥
सोऽपि भग्नो गृहं यातः काम धेनुर्दिवङ्गता ।
पुनरागत्य दुष्टोऽसौ बाणेनैकेन वक्षसि ॥ २१॥
जघान पितरं कोपादेकविंशतिसायकैः ।
अपराधं विना मां च ताडयित्वा खलो गतः ॥ २२॥
तस्मात्त्वयाऽद्य दुष्टस्य नाशः शीघ्रं विधीयताम् ।
एकविंशति वारं च कुरु निःक्षत्रियां धराम् ॥ २३॥
एकविंशति बाणा मे देहे तेन यतोऽर्पिताः ।
अन्यदेकं वदे पुत्र तत्कुरुष्व वचो मम ॥ २४॥
संस्कारं कुरु नौ तत्र यत्र कोऽपि न दाहितः ।
दत्तात्रेयं मुनिवरमाकार्य सर्ववेदिनम् ॥ २५॥
कुरु कर्मान्तरं नौ त्वं त्रयोदशदिनावधि ।
तदैव गतिमाप्स्यावो नान्यो वक्तास्ति तादृशः ॥ २६॥
इत्युक्त्वा रेणुका देहं त्यक्त्वा धामाप दुर्गमम् ।
रामस्तत् सर्वमकरोत् तयादिष्टं महामनाः ॥ २७॥
इति श्रीगणेशपुराणे उपासनाखण्डे रामोपाख्याने और्ध्वदैहिकसंस्कारोपदेशोनाम अशीतितमोऽध्यायः ॥ ८०॥
आदितः श्लोकानां समष्ट्यङ्काः ३५१४ + २७ = ३५४१
१.०८१ रामोपाख्याने एकाशीतितमोऽध्यायः
क उवाच ।
रामस्तु वपनं कृत्वा स्नात्वा सम्यग् विधानतः ।
उत्थान श्राद्धमकरोद् ब्राह्मणैः कथितं यथा ॥ १॥
विश्रान्तिस्थानमारभ्य मन्त्राग्निमुभयोरदात् ।
तदैव प्रययौ तं तु दत्तात्रेयं मुनिं प्रति ॥ २॥
कुवेषं शिष्यसहितं श्वहस्तं मलिनं कृशम् ।
ध्यानेनालोक्य तं रामो ननाम मुनिपुङ्गवम् ॥ ३॥
बद्धाञ्जलिपुटोऽतिष्ठद् यामार्धं तत्पुरो द्विजः ।
दत्तात्रेयोऽपि सर्वज्ञो ज्ञात्वा तस्याशयं मुनि ॥ ४॥
उवाच राममामन्त्र्य ज्ञातं तव प्रयोजनम् ।
अथापि पृच्छे विज्ञातुं किमर्थं त्वमिहागतः ॥ ५॥
क उवाच ।
स उवाच ततो रामो वृत्तान्तमादितः स्फुटम् ।
राम उवाच ।
कृतवीर्यात्मजो राजा पितुराश्रममागतः ॥ ६॥
भोजितः परमान्नेन नानापक्वान्नशालिना ।
भुक्तः स सेनया सार्द्धं कामधेनुमयाचत ॥ ७॥
यदा न दत्ता पित्रा मे बलान्नेतुं मनो दधे ।
सा ताडीताऽथ सुषुवे सैनिकानां गणान् बहून ॥ ८॥
तैर्भग्नो बलिभी राजा ससैन्योऽगान्निजालयम् ।
कामधेनुर्गता स्वर्गं ततो राजा रूषान्वितः ॥ ९॥
जमदग्नेर्हृदि शरमहनद् दृढमोजसा ।
एकविंशतिकान् बाणान् मातुरङ्गेऽहनद् रुषा ॥ १०॥
नाहं तत्र स्थितो ब्रह्मन् पश्चादागत्य दृष्टवान् ।
मन्त्राग्निना तु दग्धौ तौ मातुर्वाक्यादिहागतः ॥ ११॥
दत्तात्रेयं विना नान्यो वक्ता कार्योऽत्र कर्मणि ।
कृते कर्मणि सर्वस्मिन्त्रयोदशदिनावधि ॥ १२॥
पश्चाद्राजा निहन्तव्यः कृतवीर्यात्मजो बलि ।
एकविंशति वारं च कार्या निःक्षत्रिया महि ॥ १३॥
इत्थमाज्ञापयन्मह्यं जननी रेणुका मम ।
इत्यर्थमिह सम्प्राप्तस्तस्मात्कुरु कृपां मयि ॥ १४॥
ब्रह्मोवाच ।
इति रामवचः श्रुत्वा रेणुकायाः सखा मुनिः ।
शोकसंविग्नहृदयो राममूच इदं वचः ॥ १५॥
दत्तात्रेय उवाच ।
यद्गृहे भुक्तमत्यन्तं तेन नेष्टा विरोधिता ।
यदि दुष्टेन साऽकारि द्रष्टा तत्फलमन्तकात् ॥ १६॥
इदानीं तु तयोः सम्यगौर्ध्वदेहिकमाचर ।
ब्रह्मोवाच ।
तत आश्रममागत्य दत्तात्रेययुतस्तु सः ॥ १७॥
रामश्चकार भक्त्यैव पित्रोरुत्तरकर्म तत् ।
दत्तात्रेयोक्तमन्त्रैः स द्वितीयदिवसावधि ॥ १८॥
समाप्ते कर्मणि मुनिर्गन्तुं कोल्हापुरं मनः ।
चक्रे तदाऽब्रवीद् रामः कदा याति भवान् पुनः ॥ १९॥
मुनिः प्रोचे यदा त्वं मे स्मरणं वै करिष्यसि ।
एहि दत्तात्रेय इति तदा मां द्रक्ष्यसेऽनघ ॥ २०॥
कृत्वा कर्म व्रजत्येव भिक्षितुं स दिने दिने ।
अशौचिनो न भोक्तव्यमन्नमित्यभिचिन्तयन् ॥ २१॥
पञ्चमे दिवसे कर्म समाप्य मुनिपुङ्गवः ।
गृहित्वाऽऽज्ञां गतो यावत् तावद् व्याघ्रः समाययौ ॥ २२॥
मातर्मातः क्व याम्यद्येत्येवं चुक्रोश तद्भयात् ।
आविराभूत्तदा माता रेणुका रामवाक्यतः ॥ २३॥
असम्पूर्णशिरोमात्रा पुत्रस्नेहवशेन हि ।
यदि द्वादशरात्रात् साऽऽहूता स्याद् भार्गवेण तु ॥ २४॥
आगता स्यात् सा सम्पूर्णा सर्वावयवशोभिनी ।
उवाच तं किमाहूता वद बाल प्रयोजनम् ॥ २५॥
आलिलिङ्ग तदा स्नेहाद् रामं स्नुतपयोधरा ।
दत्तात्रेयः पुनरगात् षष्ठेऽथ दिवसे मुनिः ॥ २६॥
अपश्यद् रेणुकां तत्र तादृशीं राममब्रवीत् ।
मध्यएव किमाहूता न्यूनदेहा समागता ॥ २७॥
सपिण्डीकरणादूर्ध्वं यद्याहूता तदाऽखिला ।
आगता स्याद् रेणुकेयं तव स्नेहाद् द्विजर्षभ ॥ २८॥
राम उवाच ।
बालभावाद् भयाद् ब्रह्मन् स्वभावान् मातरित्यहम् ।
उक्तवान् मुनिशार्दूलं दृष्टवानीदृशीमिमाम् ॥ २९॥
वृषोत्सर्गं च कृत्वानेकादशदिने द्विजः ।
सपिण्डीकरणं चैव द्वादशे कृतवान द्वयोः ॥ ३०॥
ततः परेऽन्हि पाथेयं श्राद्धं पुण्याहवाचनम् ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो यथार्हतः ॥ ३१॥
जमदग्निर्दिव्यदेहो ब्रह्मलोकमथागमत् ।
तस्थौ सा रेणुका भूमौ स्थाने स्थाने च तादृशी ॥ ३२॥
पूरयत्यखिलान् कामान् जनानां भक्तिकारिणाम् ।
माहात्म्यं विस्तृतं तस्याः स्कान्दे प्रोक्तं विशेषतः ॥ ३३॥
अतिविस्तारभीत्याऽत्र न प्रोक्तं मुनिसत्तम ॥ ३४॥
इति श्रीगणेशपुराणे उपासनाखण्डे रामोपाख्याने और्ध्वदैहिकसंस्कारसम्पादनं नामैकाशीतितमोऽध्यायः ॥ ८१॥
आदितः श्लोकानां समष्ट्यङ्काः ३५४१ + ३४ =३५७५
१.०८२ रामवरदानं नाम द्वयशीतितमोऽध्यायः
व्यास उवाच ।
कथं रामो बाल एव कृतवीर्यसुतेन ह ।
एकाकी बहुसैन्येन सहस्रभुजशालिना ॥ १॥
अजयत् तं महावीरं तन्मे कथय विस्तरात् ।
क उवाच ।
एकस्मिन् दिवसे रामो मातरं परिपृष्टवान् ॥ २॥
राम उवाच ।
यस्मादिन्द्रादयो देवा बिभ्यति त्रासकम्पिताः ।
अनन्तं यस्य सैन्यं तच्चतुरङ्गसमन्वितम् ॥ ३॥
कथं विजेष्ये तं मातरुपायं मेऽखिलं वद ।
एकविंशतिवारं च कथं निःक्षत्रियां धराम् ॥ ४॥
करिष्ये वद तत्सर्वं त्वत्प्रसादाज्जयो भवेत् ।
अतुला मम कीर्तिश्च सर्व लोकेषु विश्रुता ॥ ५॥
मातोवाच ।
विजयस्ते भवेत्पुत्र शङ्कराराधनं कुरु ।
तुष्टे तस्मिन् महादेवे सर्वं सेत्स्यति वाञ्छितम् ॥ ६॥
इति तद्वचनं श्रुत्वा रामः कैलासमाययौ ।
प्रणम्य मातृचरणावाशिषं प्रतिगृह्य च ॥ ७॥
तत्रापश्यन् महादेवं रत्नसिंहासने स्थितम् ।
बद्धाञ्जलि पुटो रामो नत्वा तुष्टाव तं तदा ॥ ८॥
राम उवाच ।
नमो देवदेवेश गौरीश शम्भो ।
नमो विश्वकतर्त्रे नमो विश्वभर्त्रे ।
नमो विश्वहर्त्रे नमो विश्वमूर्ते ।
नमो विश्वधाम्ने नमःश्चन्द्रधाम्ने ॥ ९॥
नमो निर्गुणायामल ज्ञानहेतो निराकार साकार नित्याय तेऽस्तु ।
नमो वेदवेदान्तशास्त्रातिगाय नमोऽव्यक्तव्यक्तात्मने सत्स्वरूम ॥ १०॥
गुणत्रयप्रबोधाय गुणातीताय ते नमः ।
नमः प्रपञ्चविदुषे प्रपञ्चरहिताय ते ॥ ११॥
क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो महेश्वरः ।
उवाच राममामन्त्र्य तृप्तो वाक्यामृतेन ते ॥ १२॥
वरं वृणीष्व मत्तस्त्वं यं यं कामयसे हृदि ।
जानामि जामदग्न्यं त्वां रेणुकातनयं द्विज ॥ १३॥
राम उवाच ।
कार्तवीर्येण दुष्टेन कामधेनुमपेक्षता ।
जमदग्निर्हतो रोषादापराधं विना प्रभो ॥ १४॥
रेणुका ताडिता बाणैः समन्ताज्जननी मम ।
एकविंशतिसङ्ख्याकैर्भुक्त्वाऽपि सेनया सह ॥ १५॥
जहि तं दुष्टनृपतिमिति मात्रा नियोजितः ।
त्वामहं शरणं यात उपायं वद तद्वधे ॥ १६॥
त्रिसप्तवारं तेनैव कुर्यां निःक्षत्रियां महीम् ।
क उवाच ।
एवं विदिततत्त्वार्थो महादेवो जगाद तम् ॥ १७॥
आलोक्य प्रणिधानेन जयोपायं सुखावहम् ।
षडक्षरं महामन्त्रं द्विरदाननतोषकम् ॥ १८॥
कथयामास रामाय जपं कुरू प्रयत्नतः ।
लक्षमात्रं च होमं च दशांशेन समाचार ॥ १९॥
तर्पणं तद् दशांशेन तद् दशांशेन भोजनम् ।
ब्राह्मणानां महाभक्त्या प्रसन्नो भविता भुवि ॥ २०॥
गजाननो देवदेवः सर्वकार्यं करिष्यति ।
इति तद्वचनं श्रुत्वा प्रणम्य भवमादरात् ॥ २१॥
आज्ञां गृहीत्वा रामोऽसावचलायां भ्रमन् भ्रमन् ।
कृष्णाया उत्तरे देशेऽपश्यत् स्थानमनुत्तमम् ॥ २२॥
नानावृक्षलताजालैरभिरामं सुसिद्धिदम् ।
तत्राऽकरोदनुष्ठानं यथोक्तं ते न शम्भुना ॥ २३॥
इन्द्रियाणां च मनसो वृत्तिं स्थाप्य गजानने ।
आवर्त्तयन् महामन्त्रमेकाङ्गुष्ठस्थितो द्विजः ॥ २४॥
जुहाव तर्पयामास भोजयामास वै द्विजान् ।
दशांशेन दशांशेन दशांशेन यथाक्रमम् ॥ २५॥
ततः प्रसन्नो भगवानाविरासीद् गजाननः ।
चतुर्भुजो महाकायो महामायोऽति सुन्दरः ॥ २६॥
नागयज्ञोपवीती च नानालङ्कार शोभितः ।
मुकुटी कुण्डली भ्राजच्चारुगण्डो लसन्मुखः ॥ २७॥
मुक्ताप्रवालमालाभिर्भ्राजद्वक्षा महाभुजः ।
परशुं कमलं दन्तं मोदकांश्च दधद् भुजैः ॥ २८॥
पुष्करं पुष्करे धृत्वा भ्रामयन् स्वेच्छया विभुः ।
प्रभया भासयन् सर्वा दिशो विदिश एव च ॥ २९॥
ददर्श रामोऽकस्मात् तं न्यमीलयत चाक्षिणी ।
तत्तेजसा प्रतिहते ततस्तुष्टाव तं द्विजः ॥ ३०॥
राम उवाच ।
सहस्रादित्यसङ्काश नमस्ते जगदीश्वर ।
नमस्ते सर्वविद्येश सर्वसिद्धिप्रदायक ॥ ३१॥
विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ।
सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर ॥ ३२॥
भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे ।
नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च ॥ ३३॥
निवारय महाविघ्नं तपोनाशकरं मम ।
क उवाच ।
इति स्तुतिं समाकर्ण्य सौम्यतेजा गजानन ॥ ३४॥
उवाच रामं सम्भ्रान्तं स्वस्यैव तिग्मतेजसा ।
गणेश उवाच ।
यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरम् ॥ ३५॥
वरं दातुं समायातः सोऽहं राम तवाधुना ।
वरं वृणीष्व मत्तस्त्वं यद् यद् वाञ्छसि चेतसा ॥ ३६॥
ब्रह्माण्डानामनेकानां सृष्टा पाताऽपहारकः ।
नैव जानन्ति मे रूपं ब्रह्माद्या मुनयोऽपि च ॥ ३७॥
राजर्षयश्च सर्वेऽपि सोऽहं ते दर्शनं गतः ।
राम उवाच ।
योऽप्रमेयोऽखिलाधारः सृष्टिसंहारकारकः ॥ ३८॥
यो न वेदैर्न तपसा न यज्ञैर्व्रतसञ्चयैः ।
न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः ॥ ३९॥
सोऽहं त्वं हि मया दृष्टोऽनुग्राहात्तव विघ्नप ।
किमन्यद् वरये देव भक्तिं देहि निजां दृढाम् ॥ ४०॥
गणेश उवाच ।
भविता मम भक्तिस्ते दृढा राम द्विजोत्तम ।
प्रलोभितस्यापि वरैर्न ते बुद्धिः सुविव्हला ॥ ४१॥
परशुं मे गृहाण त्वं सर्वशत्रुनिबर्हणम् ।
नाम ते परशुरामेति त्रैलोक्ये ख्यातिमेष्यति ॥ ४२॥
क उवाच ।
एवं तस्मै वरं दत्त्वा परशुं च गजाननः ।
पश्यतां सर्वलोकानामन्तर्धानं ययौ तदा ॥ ४३॥
रामोऽपि स्थापयामास महागणपतिं तदा ।
ब्राह्मणैर्वेदवेदाङ्गशास्त्रविद्भिः समं मुदा ।
ब्राह्मणान् भोजयामास दत्त्वा दानान्यनेकशः ॥ ४४॥
प्रासादं कारयामास रत्नस्तम्भयुतं दृढम् ।
सम्पूज्य तं परिक्रम्य प्रणिपत्य गजाननम् ॥ ४५॥
रामः प्रसन्नमनसा प्रययौ निजमन्दिरम् ।
ततो रामो जुहावोच्चैः कार्तवीर्यधरापतिम् ॥ ४६॥
युद्धे तु शातयामास राज्ञो बाहुसहस्रकम् ।
निःक्षत्रियां च पृथिवीं चक्रे त्रिसप्तवारतः ॥ ४७॥
ब्राह्मणेभ्यो ददौ पृथ्वीं यज्ञं कृत्वा सदक्षिणम् ।
पुपूजुस्तं तदा लोका ज्ञात्वा विष्णु तमीश्वरम ॥ ४८॥
दृष्ट्वा पराक्रमं तस्य सर्वदेवातिगं दृढम् ।
एवं नानाविधो ब्रह्मन् महिमा ते निरूपितः ॥ ४९॥
गजाननस्य देवस्य सङ्क्षेपेण मया सुत ।
निखिलेन न शेषोऽपि क्षमो वक्तुं मुनिश्वर ॥ ५०॥
उपासनाखण्डमिदं शृणुयान्मानवो भुवि ।
सर्वान् कामानवाप्नोति गणेशं धाम चाप्नुयात् ॥ ५१॥
यथेष्टं रमते तत्र यावदाभूत सम्प्लवम् ॥ ५२॥
इति श्रीगणेशपुराणे उपासनाखण्डे रामवरदानं नाम द्वयशीतितमोऽध्यायः ॥ ८२॥
आदितः श्लोकानां समष्ट्यङ्काः - ३५७५ + ५२ = ३६२७
१.०८३ त्र्यशीतितमोऽध्यायः
मुनिरुवाच ।
कस्मिन् स्थाने तपोऽकारि रामेण परमाद्भुतम् ।
तन्मे कथय लोकेश तृप्तिं मे नास्ति शृण्वतः ॥ १॥
क उवाच ।
मयूरेश्वर नाम्ना यत्क्षेत्रं ख्यातं चतुर्युगे ।
यत्रावतीर्णो देवेशो मयूरारुढ एव सः ॥ २॥
कमलासूरनामानमहद् दैत्यपुङ्गवम् ।
यस्मान् मयूरमारूढो मयूरेश इति स्फुटम् ॥ ३॥
संस्तुतो देवमुनिभिर्लोके तां ख्यातिमागमत् ।
तत्रानुष्ठानमकरोदवाप परशुं ततः ॥ ४॥
स्वयं परशुरामोऽभून्नाम्ना ख्यातस्त्रिविष्टपे ।
इतिहासं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥ ५॥
तारकोनाम दैत्योऽभून्महाबल पराक्रमः ।
दिव्यवर्ष सहस्रं स तपस्तेपे सुदारुणम् ॥ ६॥
ततः प्रसन्नो ब्रह्माऽस्मै ददौ सर्वाभयं द्विज ।
देवर्षियक्षगन्धर्वोरगराक्षसहस्ततः ॥ ७॥
तच्छस्त्रास्त्रगणान् मृत्युर्न ते क्वापि भवेदिति ।
उत्पत्स्यते यदा स्कन्दस्ततस्ते मरणं भवेत् ॥ ८॥
इति तद्वाक्यमाकर्ण्य बलगर्वसमायुतः ।
तारकोऽपीडयल्लोकांस्त्रैलोक्ये वसतो मुने ॥ ९॥
वेदाध्ययननिष्ठांश्च तपोऽनुष्ठानकारिणः ।
अग्निहोत्ररतानन्यान् कारागारेऽक्षिपद् द्विजान् ॥ १०॥
सर्वान् राज्ञोऽथ नागांश्च वशे कृत्वा दिवं ययौ ।
इन्द्रादयस्तदा देवा हिमाचलगुहां गताः ॥ ११॥
तद् भायान्नाभवत् क्वापि यजनं पूजनं तथा ।
अहमेवेश्वरो देवो ब्राह्मणः कुलदेवता ॥ १२॥
अहं नमस्य पूज्यश्च नान्यो जगति वर्तते ।
यश्चान्यान् प्रणमेत् क्वापि पूजयेद्वा कदाचन ॥ १३॥
स दण्डयस्ताडनीयः स्याद् गच्छेद् वा यमसादनम् ।
एवं सर्वेषु लोकेषु ख्यापयामास दूततः ॥ १४॥
ततः सर्वे जना रिक्ता जाताः सज्जनवर्जिताः ।
निःस्वाध्याय वषट्कारा यज्ञदानविवर्जिताः ॥ १५॥
उच्छिन्नकुलधर्माश्च स्वाचाररहिताः खलाः ।
मुनयः साधवः सवै गिरिगव्हरमाश्रिताः ॥ १६॥
देवं ते प्रार्थयामासुः कथं दैत्यो विवर्द्धितः ।
विना त्वां शरणं शम्भो यामः कं जगदीश्वरम् ॥ १७॥
निर्माता रक्षिता धाता संहर्त्ता जगतां विभो ।
दावानलो वनमिव दहतेऽस्मान् स दर्पतः ॥ १८॥
यदि ते सञ्जिहीर्षा स्यात् संहरस्व स्वयं जगत् ।
नोचेत् संहर दैत्यं त्वं तारकं सर्वपीडकम् ॥ १९॥
एवं सम्प्रार्थ्य तेपुस्ते दुष्करं तप उत्तमम् ।
पत्रभक्ष्या वायुभक्ष्या निराहारा जलाशिनः ॥ २०॥
एवं स्थितेषु मुनिषु तेनाज्ञातेषु दैत्यराट् ।
ऐन्द्रं पदं समास्थाय ब्रह्माणं समताडयत् ॥ २१॥
विष्णुस्ततोऽगमत् क्षीरसागरं निद्रितुं मुने ।
त्यक्त्वा कैलासमगमच्छङ्करोऽपि गुहान्तरम् ॥ २२॥
दिक्पाला दिग्गजाश्चापि नानागव्हरमाश्रिताः ।
तेषां स्थानेऽस्थापयत् स दैत्यानन्यांश्च दैत्यराट् ॥ २३॥
अचलामचलस्तिष्ठन् पालयामास वै प्रजाः ।
गर्जते स्वस्वभावेन कम्पतेऽथ त्रिविष्टपम् ॥ २४॥
तत इन्द्रादयो देवास्तुष्टुवुर्गिरिगव्हरे ।
गिरिशं गिरिजानाथं गिरा गम्भीरया मुदा ॥ २५॥
देवा ऊचुः ।
देवाधिभूमिगगनेनशशिस्वरूप !
वाय्वग्निरूपयजमानजलस्वरूप ।
त्वं स्थावरानथ चरान् सृजसेऽवसीश !
त्वं सर्वमेव हरसे निजयेच्छयेश ॥ २६॥
तन्नोचितं त्वयि परे परदुःखहारिन् ।
स्वीयं यशःपरगतं बहुधाऽद्य कर्तुम् ।
तन्नाशयैनमथवा सकलान् मुनींश्च (तन्नाशयैनमव तान्)
देवान् द्वयोश्च भजने परिविष्टचित्तान् ॥ २७॥
कं वा व्रजेम शरणं त्वदृते गिरीश ।
कं वा भजेम भगवंस्त्वदृते महेश ।
कं वा वदेम वृजिनार्दन पार्वतीश ।
को वाऽवितुं प्रभवति त्वदृतेऽखिलेश ॥ २८॥
क उवाच ।
एवं ते तुष्टुवुर्यावच्छुश्रुवुस्तावदेव हि ।
नभोवाणीं सर्वदेवा हरपुत्रो यदा भवेत् ॥ २९॥
तदाऽस्य नाशो भविता यत्नं कुरूत तत्र वै ।
नभोवाणीं समाकर्ण्य सर्वे हर्षसमन्विताः ॥ ३०॥
कैलासं देवनिलयमापुरिन्द्रादयः सुराः ।
नापश्यन् शङ्करं तत्र ददृशुः पुरतोऽमराः ॥ ३१॥
मूलप्रकृतिरूपां तामुमां सर्वे विजिज्ञपुः ।
तारके तारकज्ञानप्रदे तारय तारकात् ॥ ३२॥
त्रैलोक्यपीडकाद् दुष्टात् पदभ्रष्टान् मुनीन् सुरान् ।
तथा विचिन्त्यतां मातस्तस्य नाशो भवेद् यथा ॥ ३३॥
मातस्त्वां प्रणमाम देवजननीं त्रैलोक्यरक्षाकरे
शर्वाणि त्रिपुरे परात्परकले ब्रह्मादिभिः संस्तुते ।
त्वं वेदैरनिरूपिते कुरू जगत् कल्याणमीशप्रिये
स्वेच्छोपात्तसुविग्रहेऽसुरहरे वैश्वादिभूतेऽनघे ॥ ३४॥
क उवाच ।
एवं सम्प्रार्थिता देवी विश्वमाता जगाद तान् ।
नभोवाणी मया ज्ञाता शङ्करः शं करिष्यति ॥ ३५॥
सहैव यान्तु सर्वेऽपि मया यत्र स शङ्करः ।
परं नियममास्थाय कुरुते परमं तपः ॥ ३६॥
इत्युक्त्वा सर्वदेवान् सा भिल्लीवेशमधारयत् ।
यां दृष्ट्वा परमो योगी कामबाणार्दितो भवेत् ॥ ३७॥
देवा अपि तदा केजिज्जाता मदनविव्हलाः ।
उर्वशी मेनका रम्भा पूर्वचिती रतिस्तथा ॥ ३८॥
लज्जितास्तां निरीक्ष्यैव सर्वावयवसुन्दराम् ।
ते देवा सा च गिरिजा प्राप्ता ब्रह्मन् शिवान्तिकम् ॥ ३९॥
स्थाणुं तं स्थाणुभूतं च ध्याननिश्चललोचनम् ।
ध्यायन्तं मनसा ब्रह्म जपन्तं निष्परिग्रहम् ॥ ४०॥
ददृशुः सर्वदेवास्ते भिल्ली चापि त्रिलोचनम् ।
तत ऊचेऽखिलान् देवानुमोपायं सुखावहम् ॥ ४१॥
देहातीत इवास्तेऽसौ तपोनिष्ठः सदाशिवः ।
एतस्य देहभावार्थं कामं विज्ञापयन्तु च ॥ ४२॥
तेनेषुणा यदा विद्ध एकनिष्ठः सदाशिवः ।
यास्यते देहभावं स तदा कार्यं भविष्यति ॥ ४३॥
ततो देवाः सर्व एव कामं सस्मरूरुत्कटम् ।
समागतं तमूचुस्ते स्वकार्यं कृतनिश्चयाः ॥ ४४॥
प्रार्थयामासुरपरे स्वकार्याय मनोभवम् ।
विभुस्त्वमसि लोकानां चरेषु स्थावरेषु च ॥ ४५॥
त्वयैव जायते सृष्टिस्त्वया व्याप्तमिदं जगत् ।
अबलाः कामिनः सर्वे त्वयैव बलवत्तराः ॥ ४६॥
त्वया विना वृथा सर्वं जगत्स्थावरजङ्गमम् ।
अतस्त्वयैव कर्तव्यं सर्वेषां कार्यमुत्कटम् ॥ ४७॥
काम उवाच ।
यद्यप्यहं विसामग्निस्तथा युष्मत्प्रसादतः ।
करिष्यामि वचः कार्यमादेहपतनावधि ॥ ४८॥
सुमं धनुर्मराला ज्येषुः कटाक्षोऽथ योषितः ।
विजेष्येऽथापि सकलानमरान् शङ्करावधि ॥ ४९॥
वसन्तं प्रतिलभ्यैव सहायं सकलं सुराः ।
क उवाच ।
एवमुक्त्वा गतः कामो यत्रास्तेऽसौ सदाशिवः ॥ ५०॥
मोहितुं शङ्करं देवं देवानां कार्यसिद्धये ॥ ५१॥
इति श्रीगणेशपुराणे उपासनाखण्डे तारकोपाख्यानं नाम त्र्यशीतितमोऽध्यायः ॥ ८३॥
आदितः श्लोकानां समष्ट्यङ्काः ३६२७ + ५१ =३६७८
१.०८४ कामदहनो नाम चतुरशीतितमोऽध्यायः
क उवाच ।
एवमुक्त्वा गतः कामः सुरकार्यार्थसिद्धये ।
अपश्यच्छाङ्करं स्थानं वृक्षवल्लीसमाकुलम् ॥ १॥
सिंहशार्दूलजुष्टं च पक्षिश्वापदसंयुतम् ।
स्वयं च निर्ममे मायावाटिकां तत्क्षणेन सः ॥ २॥
सरोवराणि भूरीणि सुधारूपजलानि च ।
अनेककुसुमान् वृक्षानागव्यूति सुगन्धिनः ॥ ३॥
जम्ब्वाम्रबदरीवृक्षान् सुपक्वफलशालिनः ।
तथैव रम्भापनसौ नारिकेलीः सखर्जुरीः ॥ ४॥
एलालवङ्गमारीचवृक्षानन्याननेकशः ।
अगृह्यमाणो गन्धोऽसौ हरनासापुटं ययौ ॥ ५॥
उषःकाले हरोऽपश्यज्ज्योत्स्नाजलमनोहरम् ।
अनेकफलपुष्पाढ्यं कामकाननमद्भुतम् ॥ ६॥
तदैव भेदयामास मानसं शूलिनस्तु सः ।
स्वीयामशोकवनिकां धिक्चक्रे मनसा शिवः ॥ ७॥
देहभावं गतो देवश्चिन्तयामास कारणम् ।
कृतं केन तपोविघ्नं कृतमेतद्वनं शुभम् ॥ ८॥
अकस्माद्रचितं केन दुष्टेनेदं गतायुषा ।
आबद्धय भ्रुकुटीं रोषादारक्तनयनोदरः ॥ ९॥
कामस्तु भयसन्त्रस्तो लीनः क्वापि न गृह्यते ।
इन्द्रादीनां स संस्मार स्मृतास्तेनात्र ते ययुः ॥ १०॥
विमानानि समारूढाः कार्यसिद्धीच्छया सुराः ।
शिवेन ददृशे तावन् मदनोऽतिलघुः कृशः ॥ ११॥
दग्धुं मनोभवं नेत्रं तृतीयमुदघाटयत् ।
चकम्पे पृथिवी सर्वा स्वर्गः पातालमेव च ॥ १२॥
मा जहीत्यब्रुवन्देवा यावत् तावत् स नेत्रजः ।
चकार भम्मसात् कामं भस्ममात्रावशेषितम् ॥ १३॥
ततो भिल्ली महेशानं प्रार्थयामास सादरम् ।
नमस्कृत्वाञ्जलिं बद्ध्वा त्रैलोक्यहितकाम्यया ॥ १४॥
त्रैलोक्यदाहकं वह्निमुपसंहर शङ्कर ।
ब्रह्मलब्धवरो दैत्यस्तारकोऽतिमहाबली ॥ १५॥
आक्रान्तं तेन त्रैलोक्यं निःस्वाध्यायं निराहुति ।
स्थानच्युताः सुराः सर्वे त्वां दृष्ट्वा तपसि स्थितम् ॥ १६॥
त्वरया काममामन्त्र्य देहभावाय तेऽनघ ।
अप्रेषयन् स वै भस्म जातः श्रेष्ठापराधतः ॥ १७॥
इदानीं देव रक्षास्मांस्त्वामेव शरणं गतान् ।
विख्यातस्त्रिषु लोकेषु शरणागत पालकः ॥ १८॥
क्षमस्व कृपणानां त्वं देवानां शरणैषिणाम् ।
अपराधं महादेव करुणाकर शङ्कर ॥ १९॥
क उवाच ।
इति तस्या वचः श्रुत्वा स्वाङ्घ्रिस्थशिरसो मुने ।
जगाद हास्यवदनो वह्नि संहृत्य शङ्करः ॥ २०॥
उत्तिष्ठोत्तिष्ठ देवानां रक्षणं कृतमद्य मे ।
पादयोः पतितायास्ते वचसा प्रणयेन च ॥ २१॥
तत आलिङ्ग्य सहसा भिल्लीमङ्कमथानयत् ।
वृषभारुह्य च तया सार्द्धं कैलासमागमत् ॥ २२॥
इति श्रीगणेशपुराणे उपासनाखण्डे कामदहनो नाम चतुरशीतितमोऽध्यायः ॥ ८४॥
आदितः श्लोकानां समष्ट्यङ्काः ३६७८ + २२ = ३७००
१.०८५ स्कन्दोपाख्यानं नाम पञ्चाशीतितमोऽध्यायः
क उवाच ।
शिवस्यालिङ्गनाद् भिल्ली मदनानलदीपिता ।
नाप क्वापि सुखं देवी निर्जले शफरी यथा ॥ १॥
पतिता जलमध्ये सा शीतलोशीरशालिनी ।
न शर्म लेभे तत्रापि स्थले निद्रां न चालभत् ॥ २॥
कर्पूरचन्दनं तस्या अधिकं तापमादधे ।
न शीतलपदार्थोऽस्याः कोऽपि सन्तोषमादधे ॥ ३॥
एवं बहुतिथे काले साऽस्थिचर्मावशेषिता ।
ततो गिरिशमागम्य गिरिजा गिरमब्रवीत् ॥ ४॥
न त्वं मृशसि मां देव कामवस्थां गताऽस्मि ह ।
दग्धोऽपि मदनो मह्यमत्यन्तं पीडयत्यहो ॥ ५॥
नानोपायाः कृतास्तस्य शान्तये न च साऽभवत् ।
येनोपायेन शान्तिः स्यात् स तं कुरु मम प्रभो ॥ ६॥
इति वाक्यं समाकर्ण्य प्रियायाः प्रियकृद्धरः ।
रहस्येतां करे कृत्वा पर्यङ्के पर्यवेशयत् ॥ ७॥
रेमे तया यथेष्टं स मदनेन वशीकृतः ।
मृतेनापि कृतं तेन महत्कार्यं सुरेरितम् ॥ ८॥
अनङ्गेन समो नैव धन्वीति यश आप्तवान् ।
तयोऽस्तु क्रीडतोर्याताः षष्टिसाहस्त्रवत्सराः ॥ ९॥
भ्रष्टस्थाना मुनिसुराः श्रुत्वा मदनचेष्टितम् ।
कैलासं पुनरायातास्तत्र क्रीडारतं हरम् ॥ १०॥
ज्ञात्वा तूष्णीं स्थितास्तत्र चिन्ताव्याकुलचेतसः ।
तारकासुरभीतास्ते पुनर्गह्वरमागताः ॥ ११॥
कदा वधो भवेदस्य कदा स्थानानि याम च ।
करिष्यति कदा शम्भुरस्माकं दुःखनाशनम् ॥ १२॥
इति चिन्तार्णवे मग्ना यावद ब्रह्मादयः सुराः ।
तावदूचे सुराचार्यो वाक्यं मे शृणुतानघाः ॥ १३॥
प्रेषयन् त्वखिला वह्नि रूपान्तरधरं हरम् ।
स हरं बोधयित्वाऽऽशु भवत्कार्यं भविष्यति ॥ १४॥
ततस्ते वह्निमाकार्य तुष्टुवुर्विविधैः स्तवैः ।
देवा ऊचुः ।
त्वत्तो यज्ञक्रिया ब्रह्मन् संस्काराः सर्व एव हि ॥ १५॥
अपां त्वमसि हेतुश्च देवानां मुखमेव च ।
अग्निहोत्रप्रणेता त्वं गार्हपत्यादिनामभिः ॥ १६॥
त्वमेव पिबसीशाब्धिवारि नित्यं महत्तरम् ।
त्वमेव पचसे नॄणां जठरे षड्र्सानपि ॥ १७॥
त्वमेव सर्वजन्तूनां सन्धौ सन्धौ विचेष्टसे ।
त्वया त्यक्तं प्रेतसंज्ञां लभते दह्यते त्वया ॥ १८॥
हेतुस्त्वमसि देवेश जन्तूनां प्राणधारणे ।
त्वयाद्भिश्च विना नान्नं पक्तुं शक्यं न च क्वचित् ।
त्वमेव ब्रह्मा रुद्रश्च सूर्यश्चानेकरूपधृक् ॥ १९॥
त्वमेव जायसे मूलं क्रोधस्य जगदीश्वर ।
यत्र तत्र भवेत् तेजस्तत् तद्रूपं तवैव च ॥ २०॥
अतस्त्वां प्रार्थयामोऽद्य त्रिलोक्या उपकारक ।
त्रैलोक्याक्रमणं तेन तारकेण कृतं विभोः ॥ २१॥
जानासि तन्नभोवाणीं कामस्यापि च तां गतिम् ।
पार्वतीहरयोर्बोधं चिरक्रीडानिमग्नयोः ॥ २२॥
कुरु गत्वाऽन्यरूपेण भिक्षां याचस्व तत्र वै ।
एवं कृते जगत्कार्यस्माकं च भविष्यति ॥ २३॥
ब्रह्मोवाच ।
इति देववचः श्रुत्वा काषायवसनो द्विजः ।
भूत्वा शुष्मा ययौ तत्र यत्रास्तां पार्वतीश्वरौ ॥ २४॥
क्रीडासक्तौ बहिः स्थित्वा भिक्षां देहीत्युवाच सः ।
त्रिवारं प्लुतशब्देन द्वाभ्यामपि श्रुतः स्वनः ॥ २५॥
ऊचतुर्विस्मितौ तौ तु परस्परमुभौ वचः ।
परिधत्तांशुके स्वे स्वे कुतोऽत्रायं समागतः ॥ २६॥
किमस्मै च प्रदातव्यमिति चिन्तां च चक्रतुः ।
उमाञ्जलावधाद् वीर्यमक्षमा तस्य धारणे ॥ २७॥
जानती भाविनं चार्थं ददौ सा भिक्षुकाय तत् ।
भूमौ त्यक्तं दहेदेतत् त्रैलोक्यं सचराचरम् ॥ २८॥
हरवीर्यमित्यपिबद् वह्निः शापभयात् तयोः ।
गर्भवाननलो जातो लज्जावानपि तापवान् ॥ २९॥
तत्र यत्र ययौ वह्निः शर्म लेभे न तत्र वै ।
उषस्युत्थाय गङ्गायां तुलासंस्थे दिवाकरे ॥ ३०॥
स्नातुं यावत् स शौचादि कुरुते तावदेव ह ।
आगताः षट् स्त्रियस्तत्र स्नातुमूर्जे समाहिताः ॥ ३१॥
अग्निना यत् समुत्सृष्टं गङ्गेयं च हरप्रिया ।
धारयिष्यति शक्ता चेज्जलरूपा सुशीतला ॥ ३२॥
शितवीर्यञ्च तत्ताभिः प्राशितं षड्विभागतः ।
तस्मिन्नेव क्षणे सोऽग्निंरन्तर्द्धिं समपद्यत ॥ ३३॥
अङ्कुशानि च यातानि दूरदेशं गतेऽनले ।
परिधाय स्ववस्त्रं तास्ततो याता निजं गृहम् ॥ ३४॥
ददृशुः पतयस्तासां मुखान्यत्युज्ज्वलानि च ।
गर्भिण्य इति ते ज्ञात्वा ज्ञानदृष्टया मुनीश्वराः ॥ ३५॥
बहिश्चक्रुर्गृहात् सर्वा न प्रदर्श्यं मुखं त्विदम् ।
ताः समेत्य पुनर्गगां तीरे शरसुशोभिते ॥ ३६॥
मुमुचुः स्व स्व गर्भं ताः शुद्धाः स्नाता गृहान्ययुः ।
षट्सु तासु प्रयातासु स्वं स्वं गर्भं विमुच्य वै ॥ ३७॥
षण्मुखो द्वादशभुजो बालस्तत्र व्यजायत ।
तस्य हुङ्कारमात्रेण निपेतुर्भानिखात् भुवि ॥ ३८॥
च कम्पे धरणी सर्वा शेषः पातालमेव च ।
द्रुमा उन्मीलिताः सूर्यो नीहाराच्छादितोऽभवत् ॥ ३९॥
एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः ।
कैलासं गिरिशं द्रष्टुं गच्छन्मार्गे ददर्श तम् ॥ ४०॥
अतिदीप्ततरं बालं दुर्दर्शं बलवत्तरम् ।
प्रणिधानेन तं ज्ञात्वा तूष्णीं कैलासमाययौ ॥ ४१॥
उवाच पार्वतीं शम्भुं वृत्तान्तं सर्वमेव च ।
जहर्ष पृथिवी सर्वा ज्ञात्वा तं गिरिशात्मजम् ॥ ४२॥
देवदुन्दुभयो नेदुर्गन्धर्वा जगुरद्भुतम् ।
नारद उवाच ।
आगच्छता मया दृष्टो गौरि मार्गे तवान्मजः ॥ ४३॥
षण्मुखो द्वादशभुजो सूर्यकोटिसमप्रभः ।
गङ्गातीरे निपतितस्त्यक्तस्ते षण्मुखो नु किम् ॥ ४४॥
कोटिकन्दर्पशोभाढ्यो गर्जितक्षोभिताखिलः ।
कथं निष्ठुरताऽकारि गौरि सुन्दरबालके ॥ ४५॥
क उवाच ।
इत्युक्त्वाऽन्तर्हिते तस्मिन् गौरी बालकमभ्यगात् ॥ ४६॥
इति श्रीगणेशपुराणे उपासनाखण्डे स्कन्दोपाख्यानं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५॥
आदितः श्लोकानां समष्ट्यङ्काः ३,७००+४६=३,७४६
१.०८६ स्कन्दोपाख्याने षडशीतितमोऽध्यायः
क उवाच ।
दृष्टवा सा तादृशं बालं स्नेहस्नुतपयोधरा ।
आलिलिङ्ग मुदा बालं तद्धस्तहृदया सती ॥ १॥
तामूचे मम बालोऽयं गङ्गा गम्भीरनिस्वना ।
ममायमिति तां प्राह वह्निर्बालो गिरेः सुताम् ॥ २॥
कृत्तिकाद्याश्च तां प्राहुरस्मज्जातोऽयमर्भकः ।
अस्माकमेव बालोऽयमिति चुक्रुशुरातुराः ॥ ३॥
एवं विवदमानास्ता याता वह्निपुरोगमाः ।
कैलासे देवनिलये गिरिशं चन्द्रशेखरम् ॥ ४॥
गौरी विवेश प्रथमं कटिन्यस्तस्वबालका ।
शिवो गृहित्वा तं स्वाङ्के शिरस्याघ्राय मन्त्रतः ॥ ५॥
रमयामास परया मुदा देवस्त्रिलोचनः ।
गङ्गा वह्निः षट्स्त्रियस्ता गृहं जग्मुर्यथागतम् ॥ ६॥
तन्नामकरणार्थाय ब्रह्मणं च बृहस्पतिम् ।
आहूय शिव ऊचे तौ नामास्य क्रियतामिति ॥ ७॥
ब्रह्मा बृहस्पती ऊचतुः ।
कार्तिके मासि जातोऽयं कार्तिकेय इति स्फुटम् ।
नामास्य प्रथमं देव पार्वतीनन्दनोऽपि च ॥ ८॥
शरद्वीपेऽयमुत्पन्नः शरजन्मा ततोऽपि च ।
कृत्तिकाभ्योऽपि जातत्वात् कार्तिकेय इति स्मृतः ॥ ९॥
यतोऽस्य मातरः षट् ता स षाण्मातुर इत्यपि ।
अयं पुत्रस्तारकजित् तारकं च विजेष्यति ॥ १०॥
देवसेनापतिर्भावी सेनानीरिति शब्दितः ।
तत एव महासेनः षण्मुखत्वात् षडाननः ॥ ११॥
स्कन्नं त्रिवारं रेतो यत् तेन स्कन्दोऽयमुच्यते ।
तयोऽस्तु वदतोरेवं शक्राद्या आययु सुराः ॥ १२॥
आननन्दुश्च नेमुस्तं पुपूजुस्तुष्टुवुर्जगुः ।
व्यानशे रोदसी दिव्यवाद्यशब्दो रसातलम् ॥ १३॥
ततस्ते प्रार्थयामासुः सेनान्यं प्रणिपत्य च ।
त्रैलोक्यकण्टकं देव जहि त्वं तारकासुरम् ॥ १४॥
नानाभिषेकसम्भारैः सेनापत्येऽभिषिच्य तम् ।
वैदिकैस्तान्त्रिकैर्मन्त्रैर्नानामुनिसमीरितैः ॥ १५॥
ततोऽनुज्ञां गृहीत्वा ते देवाः स्वस्थानमागमन् ।
ऋषयोऽपि निरुद्योगास्तपस्तेपुर्यथा पुरा ॥ १६॥
सेनान्यां विद्यमाने नो न भयं विद्यते क्वचित् ।
स बालो ववृधेऽत्यन्तं शुक्लपक्षे यथा शशी ॥ १७॥
एकदा बालभावात् स उड्डीय शशिनं ययौ ।
गृहितुं ब्रह्मणाऽवारि नेदृशं साहसं कुरू ॥ १८॥
बुद्ध्या बृहस्पति शक्त्या जिगायेन्द्रं च सोऽर्भकः ।
एकदा सुखमासीनं पार्वत्या सहितं शिवम् ॥ १९॥
प्रणम्य परिपप्रच्छ सर्वकामार्थसिद्धये ॥
स्कन्द उवाच ।
पितर्मयाऽश्रावि महाकथा नानाविधाः शुभाः ॥ २०॥
सर्वसिद्धिकरं देव पुत्रसम्पत्प्रवर्द्धनम् ।
सर्वपापहरं चैव धर्मार्थकाममोक्षदम् ॥ २१॥
त्रैलोक्यस्य गुरोस्त्वत्तस्तृप्तिर्नास्ति तथापि मे ।
वद मे सर्वशत्रूणां जयकारि व्रतं शुभम् ॥ २२॥
ईश्वर उवाच ।
सम्यक्पृष्टं त्वया स्कन्द सर्वलोकोपकारकम् ।
व्रतं तेऽहं प्रवक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ २३॥
सर्वपापक्षयकरं धर्मार्थकाममोक्षदम् ।
सर्वशत्रुक्षयकरं पुत्रसम्पत्प्रवर्द्धनम् ॥ २४॥
अलक्ष्मीसङ्कटहरं गणनाथस्य तोषकृत ।
यः करोति नरो भक्त्या सपूज्यस्त्रिदशैरपि ॥ २५॥
इच्छाविहारी भवति सृष्टिस्थित्यन्तकृच्च सः ।
दर्शनात् तस्य चान्येषां महापापं लयं व्रजेत् ॥ २६॥
नास्त्येषां स्कन्द वरदचतुर्थीव्रततुल्यता ।
एवमाकर्ण्य वचनं सेनानीः शङ्करेरितम् ॥ २७॥
पुनः पप्रच्छ पितरं महिमानं व्रतस्य सः ।
स्कन्द उवाच ।
विस्तरेण मम ब्रूहि माहात्म्यं व्रतसम्भवम् ॥ २८॥
कस्मिन्मासि दिने चास्य प्रारम्भः क्रियते हर ।
को विधिः किं फलं चास्य कस्याभूत् प्रत्ययोऽस्य च ॥ २९॥
एतन्मे सकलं ब्रूहि यदि तुष्टोऽसि शङ्कर ।
सर्वलोकोपकाराय व्रतस्यास्य प्रसिद्धये ॥ ३०॥
इति श्रीगणेशपुराणे उपासनाखण्डे स्कन्दोपाख्याने शिवस्कन्दसंवादो नाम षडशीतितमोऽध्यायः ॥ ८६॥
आदितः श्लोकानां समष्ट्यङ्काः - ३७४६ + ३० = ३७७६
१.०८७ तारकवधो नाम सप्ताशीतितमोऽध्यायः
शङ्कर उवाच ।
अहं ते कथयिष्यामि व्रतस्यास्य विधिं परम् ।
श्रावणे तु सिते पक्षे चतुर्थ्यामारभेद् व्रतम् ॥ १॥
तिलामलककल्केन प्रातःस्नानं विधाय च ।
नित्यनैमित्तिकं सर्वं समाप्य क्रोधवर्जितः ॥ २॥
शुचौ मण्डपिकां कृत्वा कदलीस्तम्भमण्डिताम् ।
इक्षुचामरपुष्पाढ्यामादर्शावलिशोभिताम् ॥ ३॥
तन्मध्ये कलशं स्थाप्य वस्त्रयुग्मेन वेष्टितम् ।
तत्र चाष्टदलं पद्मं कारयेच्चन्दनेन तु ॥ ४॥
गुरोराज्ञां गृहीत्वा च पूजाद्रव्याणि प्रोक्षयेत् ।
उपचारैः षोडशभिः पूजयेद् गणनायकम् ॥ ५॥
काञ्चनं राजतं वापि स्वस्वशक्त्या विनिर्मितम् ।
एकविंशतिपक्वान्नैरेकविंशति सङ्ख्यकैः ॥ ६॥
गजाननाय देवाय नैवेद्यं परिकल्पयेत् ।
एकविंशति मुद्रास्तु दक्षिणार्थं निवेदयेत् ॥ ७॥
सौवर्णी राजतीर्वापि वित्तशाठयं विवर्जितः ।
एकविंशतिदूर्वाश्च श्वेता वा हरिता अपि ॥ ८॥
अर्पयेद् देवदेवाय मन्त्रपुष्पाञ्जलिं तथा ।
ब्राह्मणान् वेदविदुषः पूजयेदेकविंशतिम् ॥ ९॥
भोजयेत् तादृशान्नेन तावद् दानानि दापयेत् ।
नमेत् क्षमापयेत् पश्चादच्छिद्रमिति वाचयेत् ॥ १०॥
पार्थिवस्य गणेशस्य विधानं कथितं पुरा ।
पूजाप्रकारः सोऽप्यत्र सर्व एव उदाहृतः ॥ ११॥
कथां तामेव शृणुयात् पश्चाद् बन्धुयुतः स्वयम् ।
ध्यायन् गणेशं भुञ्जीत मौनेर्नोपवसेत वा ॥ १२॥
एवं मासव्रतं कुर्याद् यावद् भाद्रचतुर्थिका ।
तस्यां महोस्तवः कार्यो यथाविभवमादरात् ॥ १३॥
पूर्वोक्तेन विधानेन पूजयेद् गणनायकम् ।
रात्रौ जागरणं कार्यं गीतवादित्रनिःस्वनैः ॥ १४॥
पुराणश्रवणैरन्यैर्नानाख्यानवरैरपि ।
सहस्रनाममन्त्रेण स्तुवीत द्विरदाननम् ।
प्रभाते विमलं स्नात्वा पूजयेत् द्विरदाननम् ॥ १५॥
ब्राह्मणान् भोजयेद् भक्त्या शतं चैवैकविंशतिम् ।
गोभूकाञ्चनवस्त्राणि भूषणानि धनानि च ॥ १६॥
तेभ्यो दद्याद् यथाशक्ति दीनान्ध कृपणेषु च ।
अशक्तौ भोजयेदेकविंशत्येकं तु वाडवान् ॥ १७॥
ब्राह्मणाय प्रदातव्या मूर्तिश्चेद्धातुनिर्मिताः ।
अन्यथा परमोत्साहैर्जलमध्ये विसर्जयेत् ॥ १८॥
दिव्यवादित्रनिर्घोषैर्नरयानस्थितां च ताम् ।
छत्रध्वजपताकाभिर्वेदगीतादिनिःस्वनैः ॥ १९॥
बालानां दण्डयुद्धैश्च तां विसृज्य गृहं व्रजेत ।
व्रतमेवं तु यः कुर्यादेकवार षडानन ॥ २०॥
सर्वान् कामानवाप्यैव गाणेशं पदमाप्नुयात् ।
ब्रह्मणाऽकारि सृष्टयर्थमेकार्णं जपता मनुम् ।
प्रत्यक्षो विकटस्तस्य सामर्थ्यं विविधं ददौ ॥ २१॥
विष्णुनाऽप्रापि शक्तिश्च पालने कुर्वता व्रतम् ।
षडक्षरं महामन्त्रं जपता परमाद्भुतम् ॥ २२॥
स्वेच्छावतारसामर्थ्यं ततः प्राप्तं षडानन ।
मयाऽप्यकारि पुत्रैतज्जपताऽष्टाक्षरं मनुम् ॥ २३॥
वृत्रं च शम्बरं दैत्य शक्रेण मदनेन च ।
जिघांसताऽकारि व्रतं तौ तौ जेतुं च शेकतुः ॥ २४॥
नानासामर्थ्यवानस्मि संहरामि जगत्त्रयम् ।
यक्षगन्धर्वमुनिभिः किन्नरोरगराक्षसैः ।
अकारि स्वेष्टसिद्ध्यर्थं सिद्धचारणमानवैः ॥ २५॥
एतत् त्वं स्कन्द वरदचतुर्थीव्रतमाचर ।
भविष्यसि रणेऽजेयो विख्यातो भुवनत्रये ॥ २६॥
षडक्षरं च मन्त्रं ते ददामि वरदस्य ह ।
ब्रह्मोवाच ।
सुमुहूर्ते ददौ तस्मै शिवो दीक्षां षडक्षरीम् ॥ २७॥
तदैव स ययौ स्कन्दस्तपस्तप्तुं द्विजोत्तम ।
सुनिर्मलतरे देशे वृक्षवल्लीसमाकुले ॥ २८॥
बहुमूलफले रम्ये सरोवापीसुशोभिते ।
एकपादस्थितः स्कन्दस्तपस्तेपे सुदारुणम् ॥ २९॥
व्रतं चकार विधिवद् यथोक्तं शम्भुना पुरा ।
अनुष्ठानाच्च मन्त्रस्य व्रतस्यास्य प्रभावतः ॥ ३०॥
प्रसन्नोऽभूत् तदैवास्य परमात्मा गजाननः ।
दर्शयामास सेनान्ये योगिध्येयमनुत्तमम् ॥ ३१॥
निजं रूपं महातेजाश्चतुर्भुजविराजितम् ।
महामुकुटसंशोभि कुण्डलाङ्गदशोभितम् ॥ ३२॥
एकदन्तं भालचन्द्रं शुण्डादण्डविराजितम् ।
पाशाङ्कुशकरं मालादन्तहस्तं सुशोभनम् ॥ ३३॥
मुक्तामणिगणोपेतं सर्पराजयुतोदरम् ।
दिव्यस्त्रपरीधानं दिव्यगन्धानुलेपनम् ॥ ३४॥
अनेकसूर्यसङ्काशं तेजोज्वालासुदीपितम् ।
ददर्श षण्मुखस्तत्र विस्मयोत्फुल्ललोचनः ॥ ३५॥
व्याकुलीभूतचित्तोऽसौ किमेतदित्यचिन्तयत् ।
मया यच्चिन्त्यतेऽन्यद्वा तद्वा विन्द्यान्न चाप्यहम् ॥ ३६॥
ततः पप्रच्छ तूष्णीं स को भवान् किञ्च नाम ते ।
गजानन उवाच ।
चिन्त्यते यो दिवारात्रौ त्वयैकाग्रेण चेतसा ॥ ३७॥
सोऽहं प्राप्तो वरं दातुं वद ते हृदि वाञ्छितम् ।
ददामि तुष्टस्तपसा षडानन गजाननः ॥ ३८॥
स्कन्द उवाच ।
विदुर्न देवा न च शास्त्रकारा ब्रह्मादयः शेषमुखाश्च नागाः ।
तव स्वरूपं जगदीश सम्यगदर्शि तन्मे द्विरदाननाद्य ॥ ३९॥
तेनैव जातः परिपूर्णकामः तथापि याचे तव देववाक्यात् ।
पराजयो मे न कदापि भूयात् प्रत्यक्षतामेहि विचिन्त्यमानः ॥ ४०॥
अविस्मृतिः स्यात् तव पादपद्मे सर्वेषु देवेषु वरिष्ठता च ।
अलक्ष्यो लक्ष्यतां यातः ततो लक्षविनायकः ।
नाम्ना ख्यातो भवात्र त्वं भक्तकामसुरद्रुमः ॥ ४१॥
लक्ष उवाच ।
सर्व तद् भविता स्कन्द यद्यत् प्रार्थितमद्य मे ॥ ४२॥
अविस्मृतिश्च सान्निध्यं चिन्त्यमानस्य मे भवेत् ।
पराजयो रिपूणां ते देवश्रेष्ठ्यं भविष्यति ॥ ४३॥
ब्रह्मोवाच ।
एवं वरान् ददौ देवो मयूरं निजवाहनम् ।
ददौ स्कन्दाय सुप्रीतो विनयाच्च तपोबलात् ॥ ४४॥
मयूरध्वज इत्येवं नाम ख्यातं ततोऽभवत् ।
गजानन उवाच ।
मृतिं यास्यन्ति हस्तात् ते तारकाद्या महासुराः ॥ ४५॥
लक्षविनायक इति नाम्नाऽहं भक्तवत्सलः ।
भविष्यामि चिरादत्र क्षेत्रे त्वद्वाक्यतोऽनघ ॥ ४६॥
ब्रह्मोवाच ।
एवमुक्त्वा तु विकटस्तत्रैवान्तर्हितोऽभवत् ।
ततः स्कन्दो महामूर्तिं कृत्वा स्थाप्य द्विजैः सह ॥ ४७॥
लक्षविनायक इति नाम चक्रे शुभं तदा ।
मोदकैर्लक्षसङ्ख्याकैः पुष्पैर्दूर्वाङ्कुरैरपि ॥ ४८॥
पूजयामास तां मूर्तिमन्यैर्द्रव्यैस्थताविधैः ।
ब्राह्मणान् भोजयामास तावत् सङ्ख्यायुतान् द्विजान् ॥ ४९॥
स्तुत्वा नत्वा ययौ स्कन्दः शङ्करं लोकशङ्करम् ।
मयूरमारूह्य ततः सर्वं चाकथयच्च तम् ॥ ५०॥
मयूरध्वज इति च नाम देवकृतं जगौ ।
तारकासुरनाशाय ययौ स्कन्दः शिवाज्ञया ॥ ५१॥
स्मृत्वा गजाननं देवं परिगृह्य शिवाशिषः ।
देवसेनापतित्वेऽसावभिषिक्तः सुरर्षिभिः ॥ ५२॥
सेनानीस्तारकं दृष्ट्वा युद्धं चक्रे महाबलः ।
लक्षवर्षान्तरे तं स मारयामास शक्तितः ॥ ५३॥
युद्धं तद् वर्णितुं शक्तिः शेषस्यापि न वै भवेत् ।
तारके निहते दैत्ये ननन्दुः सर्वदेवताः ॥ ५४॥
मुनयो लोकपालाश्च नागाश्च मानवास्तथा ।
मुमुचुः पुष्पवर्षाणि स्कन्दस्योपरि निर्वृताः ॥ ५५॥
सर्वदेवाश्च लोकाश्च स्वं स्वं स्थानं ययुस्तदा ।
स्वाहास्वधावषट्कारान् यथापूर्वं च चक्रिरे ॥ ५६॥
ब्रह्मोवाच ।
एवं प्रभावो देवोऽसौ कथितस्ते गजाननः ।
व्रतप्रभावोऽपि मया यथावत् ते निरूपितः ॥ ५५॥
त्रयस्त्रिंशत्कोटिसुरैरवध्योऽसौ महासुरः ।
स्कन्देन निहतः सङ्ख्ये देवव्रत प्रभावतः ॥ ५८॥
इन्द्रादिदेवतावृन्दैः पूजनीयोऽभवच्च सः ।
व्यास उवाच ।
अनुष्ठानं कृतं तेन कस्मिन् स्थाने समाधिना ॥ ५९॥
परमेण विशाखेन तन्मे ब्रूहि प्रजापते ।
ब्रह्मोवाच ।
अनुष्ठानं कृतं तेन यत्रास्ते घृषणेश्वरः ॥ ६०॥
प्रसिद्धो वर्तते नाम्ना आसील्लक्षविनायकः ।
एलोऽभूत्तत्र नगरे पश्चाद् राजाऽभिविश्रुतः ।
तन्नाम्ना नगरं ख्यातं ततस्तदभवन्मुने ॥ ६१॥
इति श्रीगणेशपुराणे उपासनाखण्डे तारकवधो नाम सप्ताशीतितमोऽध्यायः ॥ ८७॥
आदितः श्लोकानां समष्ट्यड्काः - ३७४६ + ३० = ३७७६
१.०८८ अष्टाशीतितमोऽध्यायः
मुनिरुवाच ।
श्रुतमाख्यानकं ब्रह्मन् गजाननव्रताश्रयम् ।
दग्धश्चेन्मदनस्तेन शङ्करेण रुषाग्निना ॥ १॥
दृश्यते सर्वलोकेषु मदनोऽद्यापि तत्कथम् ।
एतत् कथय मे सर्वं विस्तराच्चतुरानन ॥ २॥
ब्रह्मोवाच ।
तृतीयं तु तदा नेत्रं रुषोद्घाटितवान् हरः ।
अपराधं तु विज्ञाय मदनस्य रतिस्तदा ॥ ३॥
आक्रन्दती मृतं कामं हरान्तिकमुपागमत् ।
साष्टाङ्ग प्रणिपत्यैनं तुष्टाव च यथामति ॥ ४॥
रतिरुवाच ।
नमामि देवं गिरिजासहायं वृषध्वजं भालविलोचनं च ।
यः पाति लोकान् खलु सत्त्वयुक्तो निर्माति लोकान् रजसा गुणेन ॥ ५॥
यः स्वेच्छया संहरतेऽखिलेशो जगत् तमोविष्टतनुर्महेशः ।
यो नुः कपालं वहते जनानां भिक्षाशनः पूरयतेऽखिलार्थान् ॥ ६॥
दीनानुकम्पी भगवान् महेशो गतप्रियायाः शरणं ममास्ताम् ।
कर्तुं तथाऽकर्तुमदीनसत्त्वः शक्तोऽन्यथा कर्तुमपीह देवः ॥ ७॥
स मे विधत्तां शरणं गताया सौभाग्यमुच्चैर्मृतजीवनेन ।
नो चेदहं प्राणविसर्जनेन यशः करीष्ये विपरीतमीश ॥ ८॥
ब्रह्मोवाच ।
एवं तया स्तुतः शम्भुः प्रसन्नस्तामथाब्रवीत् ।
शम्भुरुवाच ।
वरं वृणु महाभागे कामपत्नि शुभानने ॥ ९॥
ददामि तुष्टः स्तोत्रेण सर्वान् कामान् हृदि स्थितान् ।
इत्थं शिववचः श्रुत्वा रतिर्हृष्टा प्रणम्य तम् ॥ १०॥
सौभाग्यकामा तं देवं निजगाद भृशातुरा ।
रतिरुवाच ।
स्वामिन् यदि प्रसन्नश्चेच्छ्रुणु मे परमं वचः ॥ ११॥
रसायां दिवि भूमौ वा कान्ताः स्युः कामिनीगुणाः ।
मम लावण्यलेशो न तेषु क्वाऽपि त्रिलोचन ॥ १२॥
मां दृष्ट्वा मुमुचुः शक्रमुख्या वीर्यमपत्रपाः ।
ततो मे महती लज्जा जाता मे तामपाकुरू ॥ १३॥
लावण्यं च वृथा जातं विना कामेन शङ्कर ।
अयशो दहते मह्यं रतिः सा विधेवति च ॥ १४॥
भर्त्तुर्दानेन देवेश मां जीवय दयानिधे ।
एवं तया प्राथितोऽसौ शङ्करो लोकशङ्करः ॥ १५॥
उवाच श्लक्ष्णया वाचा हर्षयन् कामयोषितम् ।
शिव उवाच ।
चिन्ता मां कुरू कल्याणि न लज्जां कर्तुमर्हसि ॥ १६॥
स्मृतमात्रस्त्वया बाले कामः स्याद्दृष्टिगोचरः ।
मनसा चिन्तितो वापि मनोभूरिति संज्ञितः ॥ १७॥
पूरयिष्यति ते कामान् मान्या त्वं च भविष्यसि ।
विष्णोः सकाशादुत्पत्तिं रमायां प्रापस्यते यदा ॥ १८॥
भर्ता तव जने ख्यातो नाम्ना प्रद्युम्न संज्ञितः ।
भविष्यति महाभागे गच्छेदानीं निजालयम् ॥ १९॥
साऽऽगता शिववाक्येन मन्दिरं भृशसुन्दरम् ।
सस्मार तं पतिं सा तु पुरोऽनङ्गः समाययौ ॥ २०॥
ईश्वरेच्छावशात् तस्याः प्रत्यक्षं समजायत ।
इतिश्चाश्चर्ययुक्ता सा जहृषे पतिना सह ॥ २१॥
ततोऽनङ्गो ययौ शम्भुं प्रणम्याभिदधे वचः ।
अनङ्ग उवाच ।
विनाऽपराधं देवेश गमितोनङ्गतां कथम् ॥ २२॥
इन्द्रादिदेवतावृन्दैस्तारकासुरपीडितैः ।
मुनिभिश्च विशाखस्य त्वत्त उत्पत्तिवेदिभिः ॥ २३॥
प्रार्थितस्तव निष्ठाया भङ्गं कर्तुमहं विभो ।
उपकाराय सर्वेषामकार्ष कर्म तादृशम् ॥ २४॥
उपकारसमं पुण्यं न चास्ति भुवनत्रये ।
विपरीतं तु तज्जातं मम दैवाद् सुरेश्वर ॥ २५॥
त्रयस्त्रिंशत्कोटिदेवेष्वहं चारुतरः पुरा ।
उपमा चारुपुरुषे ममैव दीयतेऽखिलैः ॥ २६॥
कथं तिष्ठामि देवेश स्वाङ्गहीनः परेतवत् ।
अतो मयि महादेव कृपयांऽनुग्रहं कुरू ॥ २७॥
ब्रह्मोवाच ।
तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः ।
अनङ्गाय प्रणमतेऽनुष्ठानं चादिशच्च तम् ॥ २८॥
ततोऽनङ्गो ययौ रम्यं जनस्थानं सुसिद्धिदम् ।
तत्रानुष्ठानमकरोदनङ्गः शङ्कराज्ञया ॥ २९॥
संवत्सरशतं पूर्णं तताप स तपो महत् ।
एकाक्षरं जपन् मन्त्रं गणेशध्यानतत्परः ॥ ३०॥
वायुमात्राशनो नित्यं सदा रति सहायवान् ।
ततः प्रसन्नो भगवान् देवदेवो गजाननः ॥ ३१॥
आविरासीद् दशभुजो महामुकुटशोभितः ।
ज्वलद्रत्नप्रभाचारूकुण्डलाङ्गद मण्डितः ॥ ३२॥
कोटिसूर्यप्रतीकाशो मुक्तामालाविभूषितः ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ ३३॥
सिन्दूरारुणशुण्डास्यो दशायुधलसत्करः ।
शेषालङ्कृतनाभिश्च नानालङ्कारराजितः ॥ ३४॥
सिंहस्कन्धो महाश्रीमांश्चीत्कारत्रासिताखिलः ।
इन्द्रादयोऽपि मुनय आविर्भूते गजानने ॥ ३५॥
आययुरप्सरोभिश्च यक्षगन्धर्वकिन्नरैः ।
दिव्यवादित्रनिर्घोषैः पुपूजुस्ते गजाननम् ॥ ३६॥
उपचारैः षोडशभिर्भक्त्या देवं पृथक्पृथक् ।
कामोऽपि तत उत्थाय प्रणिपत्याखिलान् सुरान् ॥ ३७॥
वन्दे देवचरणौ पूर्वं नत्वा मुनीनपि ।
प्रशशंस तदा देवं विकटं करूणाकरम् ॥ ३८॥
काम उवाच ।
धन्यस्त्वमसि देवेषु परब्रह्मस्वरूपवान् ।
निराकारोऽपि साकारो जातोऽसि भक्तवत्सल ॥ ३९॥
अद्य धन्यं मम जनुस्तपो धन्यतरं च मे ।
यत् तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥ ४०॥
कारणं सर्वसिद्धिनां धर्मार्थकाममोक्षदम् ।
धन्ये नेत्रयुगे मेऽद्य याभ्यां दृष्टः परः पुमान् ॥ ४१॥
यं न जानन्ति वेदान्ताः साङ्ख्याः पातञ्जलादयः ।
नेति नेति वदन् तूष्णीं वेदोऽपि यत्र कुण्ठितः ॥ ४२॥
अनन्तकोटिब्रह्माण्डरोमकूपोऽखिलेश्वरः ।
येन मन्त्रेण सोऽदर्शि मन्त्रो धन्यतरोऽपि सः ॥ ४३॥
गणेश उवाच ।
सम्यगुक्तं रतिपते न मां ब्रह्मादयो विदुः ।
यदा साकारतां यामि तेऽपि जानन्ति मां तदा ॥ ४४॥
ममैवानुग्रहात् काम दृष्टवानसि मां तदा ।
यतोऽहं परितुष्टस्ते तपसा मनुना तथा ॥ ४५॥
वृणु यत्तेखिलान् कामान् काम कामं ददामि ते ।
ब्रह्मोवाच ।
इति देववचः श्रुत्वा पुनरुचे मनोभवः ॥ ४६॥
आनुपूर्व्येण सकलं वृतान्तं शिवकारितम् ।
तस्मै चाकथयत् कामः प्रसन्नार्थप्रदायिने ॥ ४७॥
अनङ्गतां स्वस्य रतेराक्रन्दं मनुमेव च ।
अनुष्ठानं चिरकृतं शिवदत्तं वरं तथा ॥ ४८॥
वृणोति स्म वरं तस्मात् सुप्रसन्नाद् गजाननात् ।
काम उवाच ।
यदि प्रसन्नो भगवांस्तन्मे देदि सदेहताम् ॥ ४९॥
मान्यतां सर्व देवेषु प्राग्वल्लावण्यमेव च ।
भक्ति दृढां त्वच्चरणे त्रैलोक्य विजयं तथा ॥ ५०॥
इति श्रीगणेशपुराणे उपासनाखण्डे कामवरयाचनं नामाऽष्टाशीतितमोऽध्यायः ॥ ८८॥
आदितः श्लोकानां समष्ट्यड्काः - ३८३७ + ५० = ३८८७
१.०८९ एकोननवतितमोऽध्यायः
गणेश उवाच ।
यद् यत् ते प्रार्थितं काम तत् तत् ते भविताऽखिलम् ।
रमोदराज्जनिं प्राप्य साङ्गस्त्वं सर्वसुन्दरः ॥ १॥
भविता सर्वमान्यश्च त्रैलोक्यविजयी तथा ।
पुष्पं फलं किसलयं कामिन्यवयवा मरुत् ॥ २॥
उद्बोधकानि ते सन्तु ज्योत्स्ना चन्दननीरजे ।
मरालाण्डजशब्दश्च जेतास्येतैर्हरादिकान् ॥ ३॥
दर्शनात् स्मरणादेषां मनस्यपि भविष्यसि ।
मनोभूः स्मृतिभूरेवं नामापि स्याज्जनेषु ते ॥ ४॥
अविस्मृतिर्मच्चरणे दृढा भक्तिश्च ते भवेत् ।
स्मृतोऽहं पुरतः स्यां ते महत्कार्य उपस्थिते ॥ ५॥
ब्रह्मोवाच ।
एवं तस्मै वरान् दत्त्वा कामायाऽथ गजाननः ।
अन्तर्दधे महाभाग पश्यत्सु च सुरर्षिषु ॥ ६॥
तत्र कामो महामूर्तिं गणेशस्य तथाविधाम् ।
सम्पाद्य स्थापयामास पूजयामास तां तदा ॥ ७॥
रतिनिर्मितपक्वान्नैर्मोदकैः लड्डुकादिभिः ।
महोत्कटेति नामास्य तेजस्वित्वात् तथाऽकरोत् ॥ ८॥
प्रासादं निर्ममे कान्तं रत्नस्तम्भविराजितम् ।
रूक्मिण्या उदराज्जातस्त्यक्तो दैत्येन वारिधौ ॥ ९॥
मत्स्येन गिलितस्तत्र स मत्स्यो धीवरैस्ततः ।
शम्बरायार्पितेनापि मायावत्यै निवेदितः ॥ १०॥
विभिन्नेऽस्मिंस्तदुदरान्निर्गतो वर्द्धितस्तया ।
नारदोऽकथयत्तस्यै कामोऽयं वर्द्धितस्त्वया ॥ ११॥
उपदिष्टोऽनेकमायाः शम्बरं स ततोऽवधीत् ।
गणेशस्य प्रसादेन बहुनेको व्यजिग्यत ॥ १२॥
मायावत्या शिक्षिताभिर्मायाभिर्बहुभिश्च सः ।
प्रद्युम्न इति विख्यातः सरस्वत्याः पुरं ययौ ॥ १३॥
सर्वदेवेषु मान्यश्च त्रैलोक्यजयकारकः ।
गजाननप्रसादेन बभूवाऽऽनन्दनिर्वृतः ॥ १४॥
रुक्मिणिप्रभृतिस्त्रीभिर्दृष्टः कृष्ण इवापरः ।
तत उत्थाय याताभिर्लज्जिताभिः समन्ततः ॥ १५॥
बुद्धा पुत्रं नारदस्य वाक्येन मुमुदुश्च ताः ।
आलिलिङ्गुस्तमभ्येत्य प्रणनाम रतिश्च ताः ॥ १६॥
सर्वा पुरी हर्षयुता तस्मिन् ज्ञाते बभूव सा ।
क उवाच ।
एवं जनस्थानगत गणेशस्य महामुने ॥ १७॥
महिमा कथितो यत्र रामेणाच्छेदि नासिका ।
शूर्पणख्यास्ततस्तत्तु नाम्ना ख्यातं तु नासिकम् ॥ १८॥
तत्राद्यापि हि दृश्यन्त उपला मोदका इव ।
एवं नाराधितस्तेन कामेनासौ गजाननः ॥ १९॥
षडक्षरेण मन्त्रेण शेषेणाराधितो यथा ।
रतिश्च मदनश्चापि ननन्दतुरुभौ यथा ॥ २०॥
व्यास उवाच ।
कथमाराधितों ब्रह्मन् शेषेणासौ गजाननः ।
किमर्थं किं च तेनाप्तं सुप्रसन्नाद् गजाननात् ॥ २१॥
एतत् सविस्तरं ब्रूहि पृच्छतश्चतुरानन ।
प्रष्टुः श्रोतुश्च वक्तुश्च यतः पुण्यं विवर्धते ॥ २२॥
ब्रह्मोवाच ।
सम्यक् पृष्टं त्वया ब्रह्मन् कथयामि कथामृतम् ।
शृणुष्वावहितो भूत्वा सर्वं सत्यवती सुत ॥ २३॥
कस्मिंश्चितसमये शम्भुः पार्वत्या सहितो मुने ।
सुखासीनो गिरिवरे रम्यसानुशिलोच्चये ॥ २४॥
नानाद्रुमलताकीर्णे निर्झरारावशब्दिते ।
गुञ्जन्ति भ्रमरा यत्र रुक्मपङ्कजवासिनः ॥ २५॥
चम्पकाशोकबकुलमालतीकुसुमानिलः ।
आनन्दयति चित्तानि वसतां यस्य शेखरे ॥ २६॥
आययुस्तत्र गन्धर्वा अप्सरोयक्षकिन्नराः ।
देवाश्च मुनयो नागास्तं दृष्टुं गिरिजापतिम् ॥ २७॥
केचित् तं प्रणिपातेन साष्टाङ्गेनाऽभ्यवादयन् ।
उच्चैर्जगुश्च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ २८॥
पुपूजुस्तं दशभुजं व्याघ्राजिनधरं हरम् ।
नन्दिभृङ्गिगणाकीर्णं भालचन्द्रं त्रिशूलिनम् ॥ २९॥
भस्माङ्गं शेषशिरसं शङ्करं वृषभध्वजम् ।
अपरैरर्चितं देवमुपचारैर्मनोमयैः ॥ ३०॥
निमील्य नयने तस्थुः केचिद्ध्यानपरायणाः ।
वसिष्ठो वामदेवश्च जमदग्निस्त्रितो द्विजः ॥ ३१॥
अत्रिः कण्वो भरद्वाजो गौतमाद्या मुनीश्वराः ।
तुष्टुवुर्विविधैः स्तोत्रैस्तत्र तं पार्वतीपतिम् ॥ ३२॥
स्तुवस्तु तेषु मुनिषु शेषो गर्वं परं ययौ ।
अहमेव श्रेष्ठतरो लोकेषु त्रिषु नापरः ॥ ३३॥
यतः श्रेष्ठतरः शम्भुस्तस्याहं शिरसि स्थितः ।
धराधरणसामर्थ्य मयि नान्यत्र कुत्रचित् ॥ ३४॥
वासुके रज्जूभूतान् मत्कुलीनादमृतं सुरैः ।
प्राप्तं ततोऽमरत्वं च तस्मान्नान्योऽस्ति मत्परः ॥ ३५॥
तद् हृदिस्थं तदा गर्वं ज्ञात्वा शम्भूस्त्रिलोककृत् ।
विज्ञायाखिलदृक् तूष्णीमुत्तस्थौ सहसा शिवः ॥ ३६॥
आस्फालयद् धरापृष्ठे शेषं तादृशगर्वितम् ।
एकैको मस्तकस्तस्य दशधा दशधाऽभवत् ॥ ३७॥
मूर्छितः प्रहरार्द्धं स गतप्राण इवाभवत् ।
ततः प्रभृत्यसौ जातः सहस्रफणिमण्डितः ॥ ३८॥
जीवशेषः शुशोचाऽथ शेषोऽशेषाहिभूषणः ।
अलङ्करणभूतोऽहं त्रैलोक्येशहरस्य ह ॥ ३९॥
इमामवस्थां सम्प्राप्तो न जानें केन कर्मणा ।
चलितुं नैव शक्नोमि पक्षहीन इवाण्डजः ॥ ४०॥
किं करोमि क्व गच्छामि को मे त्राताऽधुना भवेत् ।
को मे निजपदप्राप्तावुपायं कथयेच्छुभम् ॥ ४१॥
को वा मेऽपनयेन्दुःखमिति चिन्तापरस्तु सः ।
ददर्श तेन मार्गेण गच्छन्तं नारदं मुनिम् ॥ ४२॥
जहर्ष किञ्चिन्नागेन्द्रः स्वप्नं प्राप्येव भिक्षुकः ।
अतिकष्टामवस्थां तां नारदोऽलोकयत्पुरः ॥ ४३॥
निश्चेष्टं निरनुश्वासं ध्याननिष्ठं यथा मुनिम् ।
अशेष विषयज्ञोऽपि शेषं पप्रच्छ नारदः ॥ ४४॥
इति श्रीगणेशपुराणे उपासनाखण्डे शेषोपाख्यानं नामैकोननवतितमोऽध्यायः ॥ ८९॥
आदितः श्लोकानां समष्ट्यङ्काः - ३८८७ + ४४ = ३९३१
१.०९० शेषोपाख्यानं नन्नवतितमोऽध्यायः
नारद उवाच ।
किमर्थमेवं जातोऽसि निस्तेजा दुःखितो भृशम् ।
कथं भग्नशिराः कस्याचरोऽप्रियतरं मुने ॥ १॥
किं वा क्षुब्धो गिरीशस्तेऽकारि गर्वस्त्वयाऽथ किम् ।
वद यत्कारणं शेष प्रतीकारं पुरा वदे ॥ २॥
त्वां विना धारयेत् को नु चराचरयुतां धराम् ।
अनुक्तवति तस्मिंस्तु स्वयमेवाब्रवीन्मुनिः ॥ ३॥
उपायं नागराजस्य स्वस्थानप्रापकं शुभम् ।
नारद उवाच ।
अवधारय मे वाक्यं शेषाशेषकलानिधे ॥ ४॥
सुपर्वाणश्च केशाद्या येन स्युः किङ्करा इव ।
धरिष्यसे धरां मूर्ध्नि पुष्पमालामिवार्भकः ॥ ५॥
शेष उवाच ।
किञ्चित् पुरातनं पुण्यमासीच्चेद् दर्शनं तव ।
अजन्यकस्मादग्रेऽपि सम्यङ् मे स्यान्न संशयः ॥ ६॥
अन्यथाऽकृतपुण्यानां दर्शनं तु कथं भवेत् ।
अति विव्हलगात्रत्वादशक्तो भूमिधारणे ॥ ७॥
तं प्रयत्नं वद मुनें येनाहं स्यां यथा पुरा ।
नारद उवाच ।
भणे महामनुं तेऽद्य तस्य देवस्य नागराट् ॥ ८॥
यस्य प्रसादादिन्द्राद्यास्तत्तत् पदमवाप्नुवन् ।
केशा यदाज्ञयाऽशेषसृष्टिस्थित्यन्तकारिणः ॥ ९॥
यस्मिन् प्रसन्ने सर्वेशे पूर्वावस्थानमवाप्स्यसि ।
कारुण्यं तव दृष्ट्वैव क्लिन्नं मे सर्वमानसम् ॥ १०॥
अतः षडक्षरं मन्त्रं गणेशस्य ददामि ते ।
अस्यानुष्ठानमात्रेण प्रत्यक्षस्ते गजाननः ॥ ११॥
सर्वान् विधास्यते कामान् यान् याँस्त्वं वृणुषे ततः ॥ १२॥
क उवाच ।
कृत्वोपदेशं शेषाय नारदोन्तर्हितोऽभवत् ।
शेषोऽपि तपसे कृत्वा निश्चयं परमं शुभम् ।
निरूद्धाऽशेषकरणो ध्यात्वा देवं गजाननम् ॥ १३॥
जजाप परमं मन्त्रं सहस्रपरिवत्सरम् ।
तदन्ते पुरतोऽपश्यद्देवदेवं गजाननम् ॥ १४॥
सिंहारूढं त्रिनेत्रं दशभुजमुरगं कुण्डले चाङ्गदे च
मुक्तामालां वहन्तं सुललितमुकुटं रत्नमुद्राक्षसूत्रम् ।
नानादेवर्षिवृन्दैरनुगतमनिशं वक्रतुण्डं गजास्यं
भक्तेच्छोपात्तदेहं सुरनरपरदं चिन्तयेदेकदन्तम् ॥ १५॥
एवं गजाननस्तस्य दर्शनार्थं समाययौ ।
सिद्धिबुद्धियुतस्तादृग् ध्यातोऽहिना पुरा ॥ १६॥
सहस्रसूर्यसदृशो दीप्त्याक्रान्तदिगन्तरः ।
तेजसा तस्य शेषोऽपि धर्षितोऽन्ध इवाभवत् ॥ १७॥
च कम्पे भयसंविग्नो व्यग्रचित्तोऽति विव्हलः ।
स्वस्थो मुहूर्तमात्रेण चिन्तयामास चेतसि ॥ १८॥
किमिदं तेज आयातं प्रलयानलसन्निभम् ।
तच्चेद् दहेत् सर्वलोकानिदं मामेव धक्ष्यति ॥ १९॥
कल्याणे कर्मणि कथं क्रियमाणे शुभं भवेत् ।
अथवा नारदेनोक्तं द्रक्ष्यामि गणनायकम् ॥ २०॥
एवं चिन्तातुरे तस्मिन्नुवाच द्विरदाननः ।
मा भैः कुतर्ककुशल वरदोऽहं समागतः ॥ २१॥
यं ध्यायसि दिवारात्रौ वृणु यत्ते हृदि स्थितम् ।
अहमेव जगत्कर्ता पाता हर्ताऽखिलेश्वर ॥ २२॥
मत्तेजसा भाति चन्द्रो वह्निः सूर्यश्च भानि च ।
परब्रह्मस्वरूपोऽपि तपसा तव तोषितः ॥ २३॥
आविर्भूतो वरं दातुं लोकोपकृतयेऽपि च ।
त्वं तु मत्तो वरान्ब्रूहि यान् यान् कामयसेऽखिलान् ॥ २४॥
शेष उवाच ।
तेजसा धर्षितो देव द्रष्टुं वक्तुं च नोत्सहे ।
अनुग्रहश्च पूर्णस्ते मयि सौम्यो भवानघ ॥ २५॥
क उवाच ।
एवं सम्प्रार्थितस्तेन करूणाब्धिर्गजाननः ।
अभवत् कोटिचन्द्राभः सौम्यतेजाः सुरेश्वर ॥ २६॥
ततो वव्रे वरान् शेषो नत्वा स्तुत्वाऽखिलेश्वरः ।
अनादिनिधनं देवं वन्देऽहं गणनायकम् ॥ २७॥
सर्वव्यापिनमीशानं जगत्कारणकारणम् ।
सर्वस्वरूपं विश्वेशं विश्ववन्द्यं नमाम्यहम् ॥ २८॥
गजाननं गणाध्यक्षं गरूडेशस्तु तं विभुम् ।
गुणाधीशं गुणातीतं गणाधीशं नमाम्यहम् ॥ २९॥
विद्यानामधिपं देवं देवदेवं सुरप्रियम् ।
सिद्धिबुद्धिप्रियं सर्वसिद्धिदं भुक्तिमुक्तिदम् ॥ ३०॥
सर्वविघ्नहरं देवं नमामि गणनायकम् ।
क उवाच ।
एवं स्तुत्वा तु देवेशं वरदं द्विरदानननम् ॥ ३१॥
वरयामासयान् कामांस्तान् शृणुष्व महामुने ।
शेष उवाच ।
अद्य धन्यं तपो ज्ञानं पिता माता जनुर्मम ॥ ३२॥
देहो नेत्राणि भूरीणि मस्तकानि बहूनि च ।
त्वां स्तोतुं सम्प्रवृत्ता या धन्यस्या रसना मम ॥ ३३॥
कुलं शीलं च धन्यं मे त्वङ्घ्रियुगदर्शनात् ।
अखण्डित ते भजनं देहि मेऽखण्डविक्रम ॥ ३४॥
दुःखं किं कि नु वक्तव्यं सर्वज्ञे त्वयि विघ्नराट् ।
अखर्वगर्वकरणात् स्फुटिता मस्तका मम ॥ ३५॥
महारुषा महेशेनाऽऽस्फालितस्य महीतले ।
नारदस्य प्रसादेन दृष्टं ते चरणाम्बुजम् ।
इदानीं देव मे देहि श्रेष्ठतां भुवनत्रये ॥ ३६॥
पाटवं सर्वशिरसि सामर्थ्यं धारणे भुवः ।
अचलं देहि मे स्थानं दर्शन ते निरन्तरम् ॥ ३७॥
सान्निध्यं शङ्करस्यापि कुलशश्रैष्ठ्यं शिवे रतिम् ।
गणपतिरुवाच ।
यदि ते दशधा जातो मस्तको भुजगाधिप ॥ ३८॥
तदा सहस्रवदनः सहस्त्रफणिमण्डितः ।
भविष्यसि जने ख्यातो यावच्चन्द्रार्कतारकाः ॥ ३९॥
धराधरणसामर्थ्यं दृढं तव भविष्यति ।
पञ्चास्यपञ्चशिरसि मत्प्रसादात् स्थिति स्थिराम् ॥ ४०॥
लप्स्यसे भुजगश्रेष्ठ मत्सान्निध्यं निरन्तरम् ।
अन्यत्ते वाञ्छितं शेष तदशेष भविष्यति ॥ ४१॥
क उवाच ।
एवं वरान् ददौं तस्मै स्वोदरे तं बबन्ध ह ।
व्यालबद्धोदर इति नाम प्राप गजाननः ॥ ४२॥
शेषस्य मस्तके हस्तमभयार्थं ददौं विभुः ।
स्वयं विराट्स्वरूपं स्वं शेषायादर्शयन् मुदा ॥ ४३॥
शब्देनापूरयद्व्योम भूतलं विदिशो दिशः ।
यस्य पादतले भूमिर्दिशःश्रोत्रेऽक्षिणी रविः ॥ ४४॥
ओषध्यो यस्य रोमाणि नखायस्य धराधराः ।
मेघाः स्वेदोदकं यस्य प्रजनश्चतुराननः ॥ ४॥
कुक्षौ यस्य जगत्सर्वं चत्वारश्चैव सागराः ।
अनन्तानन एको योऽप्यनन्तनयनः स्वराट् ॥ ४६॥
अनन्तरूपी चानन्तशक्तिरत्यन्तदीप्तिमान् ।
यद्रोमकूपे भान्ति स्म ब्रह्माण्डानि सहस्रशः ॥ ४७॥
दृष्ट्वा तं तादृशं शेषो भीत्या भ्रान्त इवाभवत् ।
प्रार्थयामास विघ्नेशं पुनः सौम्यो भवेति च ॥ ४८॥
ततो दशभुजो देवः सिंहारूढोऽभवच्च सः ।
उवाच वरदो देवो नेदृग् दृष्टः सुरैरपि ॥ ४९॥
मदनुग्रहतोऽदर्शि त्वया शेषाद्य भाग्यतः ।
अचलं मयि ते स्थानं पातालेऽपि शिवेऽपि च ।
मया दत्तं प्रसन्नेन धर पुष्पमिवाद्य गाम् ॥ ५०॥
शेष उवाच ।
धरे धरां स्वशिरसि धरणीधर इत्यपि ।
ममापि तेऽपि विख्यातं नाम लोकेतिविश्रुतम् ॥ ५१॥
अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तकामान् प्रपूरय ।
ब्रह्मोवाच ।
ओमिति तमथोवक्त्वाऽसौ विघ्नेशोऽन्तर्दधे स्वयम् ॥ ५२॥
शेषोऽपि तादृशीं मूर्तिं कृत्वाऽस्थापयदादरात् ।
अकरोद् बहुरत्नाढ्यं प्रासादं काञ्चनं शुभम् ॥ ५३॥
धरणीधर इत्येतन्नामास्य परिकल्पयत् ।
हरेः शयनतां प्रायादवहत् पुष्पवद्धराम् ॥ ५४॥
स्थिरोऽभून्नाभिपद्मेऽपि विघ्नराजस्य भूषणम् ।
एवं ते कथितो व्यास विघ्नेशमहिमाऽद्भुतः ॥ ५५॥
प्रवालनगरे ख्यातो गणेशो धरणीधरः ।
एतदर्थं हि शेषेण कृतमाराधनं विभोः ॥ ५६॥
इति श्रीगणेशपुराणे उपासनाखण्डे शेषोपाख्यानं नाम नवतितमोऽध्यायः ॥ ९०॥
आदित श्लोकानां समष्ट्यङ्काः = ३९३१ + ५६ = ३९८७
१.०९१ एकनवतितमोऽध्यायः
व्यास उवाच ।
अन्यत् कथय मे देव गणेशस्य कथान्तरम् ।
शृण्वतो मे मनोऽत्यन्तमुत्सुकुं भवति प्रभो ॥ १॥
ब्रह्मोवाच ।
एकदा प्रलये वृत्तेऽज्ञापयन्मां गजाननः ।
सृष्टिं नानाविधां ब्रह्मन कुरू त्वं हि ममाज्ञया ॥ २॥
अहं प्रकल्पयामास पुत्रान् सप्त हृदा तदा ।
तेषां नामानि ते वच्मि कश्यपो गौतमोऽपि च ॥ ३॥
जमदग्निर्वसिष्ठश्च भरद्वाजोऽत्रिरेव च ।
विश्वामित्रश्च सप्तैते सर्वविद्याविशारदाः ॥ ४॥
सर्वे मामब्रुवन ब्रह्मन्नाज्ञापय सुरेश्वर ।
मया तु कश्यपोऽज्ञापि बुद्धिमाँस्तेषु चाधिकः ॥ ५॥
मत्कार्यं विविधां सृष्टिं कुर्वित्याज्ञापितस्तदा ।
असावोमिति मामुक्त्वा जगाम तपसे वनम् ॥ ६॥
जजापैकाक्षरं मन्त्रं दिव्यवर्षसहस्रकम् ।
ततः प्रसन्नो भगवान् द्विरदानन ईश्वरः ॥ ७॥
चतुर्भुजोऽरविन्दाक्षो महामुकटमण्डितः ।
पाशाङ्कुशधरो मालादन्तहस्तः शुभाङ्गदः ।
सुवर्णमणिरत्नाढ्यो मुक्तामालालसद्गलः ॥ ८॥
सर्पोदरः कोटिसूर्य विलसद्दीप्तिमण्डलः ।
विकसन्नेत्रविभ्राजच्चारूशुण्डालसन्मुखः ॥ ९॥
आविरासीत् कश्यपस्य पुर एवं गजाननः ।
क्षुद्रघण्टानूपुराणां रवान् मुखरिताङ्घ्रियुक् ॥ १०॥
दृष्ट्वा ननर्त तं देवं कश्यपो हर्षनिर्भरः ।
नत्वा सम्पूजयामास नानामङ्गलवस्तुभिः ॥ ११॥
बद्धाञ्जलिरूवाचेदं सुप्रसन्नो गजाननम् ।
धन्यो मे जनको माता तपोज्ञानं वपुश्च दृक् ॥ १२॥
धन्येयं धरणी तात वीरूद्वृक्षफलानि च ।
धन्य एकाक्षरो मन्त्रो येन दृष्टोऽखिलेश्वरः ॥ १३॥
गजाननः प्रसन्नात्मा परमात्मा परात्परः ।
यत्र कुण्ठाश्चतुर्वेदा वेदान्ता मूकतां गताः ॥ १४॥
अगोचरो मनस्तर्कैः सोऽयं देवोमयेक्षितः ।
यस्मादाविर्भवन्तीमे हरेशाग्निमुखाः सुराः ॥ १५॥
पातालानि च सप्तैव भुवनानि चतुर्दश ।
यत्रैतानि लयं यान्ति सोऽयं देवो मयेक्षितः ॥ १६॥
यो निर्गुणो निराधीशो गुरूगम्यो निराकृतिः ।
ब्रह्मेति यं विदुः केचित् सोयं देवो मयेक्षितः ॥ १७॥
क उवाच ।
एवं वाक्यामृतरसैः परितुष्टो गजाननः ।
उवाच कश्यपं नम्रं स्तुवन्तं विविधैः स्तवैः ॥ १८॥
गणेश उवाच ।
भक्तेःस्तवादनुष्ठानात् प्रीतस्तेऽहं मुनेऽधुना ।
वरं वरय मत्तस्त्वं यं यं स मनसेच्छसि ॥ १९॥
कश्यप उवाच ।
सृष्टिं नानाविधां कर्तुं सामर्थ्यं देहि मे प्रभो ।
त्वदङ्घ्रिकमले भक्तिमविस्मरणमेव च ॥ २०॥
यायाः प्रत्यक्षतां तत्र स्मरे त्त्वां यत्र चाप्यहम् ।
तादृशं देहि मे पुत्रं नाम्ना कश्यपनन्दनम् ॥ २१॥
गणेश उवाच ।
सर्वं ते वाञ्छितं मत्तो भविताऽशु महामुने ।
भक्तिर्मेऽविस्मृति स्यात् ते सङ्कटे चान्तिकं व्रजे ॥ २२॥
करिष्यसि विचित्रां त्वं सृष्टिं मम प्रसादतः ।
क उवाच ।
एवमुक्त्वा मुनिर्देवस्तत्रैवान्तरधीयत ।
कश्यपोऽपि मुदा युक्तो निजस्थानं तदा ययौ ॥ २३॥
कदाचित् कश्यपोऽकस्मादशरीरप्रपीडितः ।
न चालभत् क्वापि शर्म गृहमध्यं ततोऽगमत् ॥ २४॥
नित्यं नैमित्तिकं काम्यं कर्म ध्यानं च नास्मरत् ।
तं तथा विव्हलं दृष्ट्वा योषितोऽस्य चतुर्दश ॥ २५॥
दित्यदितिर्दनुकद्रुर्विनताद्याः पुरः स्थिताः ।
बुभुजे क्रमशस्तास्तु नानागारेषु कश्यपः ॥ २६॥
काले यथोक्ते सुषुवे दितिर्दैत्याननेकशः ।
अदितिर्देवगन्धर्वान् दनुश्च दानवानथ ॥ २७॥
क्रमेण किन्नरा यक्षाः सिद्धचारणगुह्यकाः ।
पशवश्च तथारण्या ग्राम्याश्चासन्ननेकशः ॥ २८॥
पृथिवी पर्वता वृक्षाः समुद्राः सरितो लता ।
धान्यानि धातवो रत्नमुक्ताकृमिपिपीलिकाः ॥ २९॥
सर्पाः पक्षिगणास्ताभ्यः सर्वमासीच्चराचरम् ।
एवं दृष्ट्वा स सन्तानं जातं नानाविधं तदा ॥ ३०॥
जहर्ष कश्यपो धीमान् नानामन्त्रान् समादिशत् ।
शोधायित्वा ऋणधनं सिद्धारिचक्रमीक्ष्य च ॥ ३१॥
षोडशार्णं च कस्मैचित् तथाऽष्टादशवर्णकम् ।
एकाक्षरं च कस्मैचिदन्यस्मै च षडक्षरम् ॥ ३२॥
पञ्चार्णमष्टाक्षरं च द्वादशाक्षरमेव च ।
कस्मैचिच्च महामन्त्रं ददौ स मुनिपुङ्गवः ॥ ३३॥
कुर्वन् त्वनुष्ठितं तावद् यावद्देवो निरीक्ष्यते ।
गजाननोऽखिलाधारः सर्वसिद्धिप्रदायकः ॥ ३४॥
एवमाज्ञापयत् ताँश्च ते च जग्मुस्तदैव हि ।
तपसे बहुशो देशान् जेपुः स्वं स्वं मनुं तदा ॥ ३५॥
आसने भोजने देवं निद्रायां जागरेऽपि च ।
अनन्यभक्त्या देवेशं संस्मरुस्ते गजाननम् ॥ ३६॥
दिव्यवर्षसहस्रान्ते परितुष्टो गजाननः ।
आविरासिदनेकात्मा तत्पुरः करूणानिधिः ॥ ३७॥
यो यथा ध्यातवान्देवं तादृशस्तत्पुरोऽभवत् ।
कस्यचित् पुरतश्चासीन् मेघाभोऽष्टमहाभुजः ॥ ३८॥
कस्यचित् पुरतस्त्वासीच्छशिवर्णश्चतुर्भुजः ।
अग्रे कस्यचिदारक्तः षड्भुजोऽसौ गणेश्वरः ॥ ३९॥
सहस्रनयनस्तावद्भुजोऽसावपि कस्यचित् ।
भाति बालस्वरूपोऽपि युवा वृद्धोऽपि भासते ॥ ४०॥
दशद्वादशदोर्दण्डो धूम्रवर्णो महन्महः ।
अष्टादशभुजोप्यासीत् कोटिसूर्यसमप्रभः ॥ ४१॥
तेजोरूपो महाकाय आखुवाहनपृष्ठगः ।
सिंहगो बर्हिगो वापि गजास्योऽनेकवक्त्रवान् ॥ ४२॥
दृष्ट्वा देवं तु ते सर्वेऽनेकधा तुष्टुवुर्मुदा ।
बद्धाञ्जलिपुटा नम्रा भक्त्या देवं गजाननम् ॥ ४३॥
सर्वे ऊचुः ।
यतोऽनन्तशक्तेरनन्ताश्चजीवा यतो निर्गुणादप्रमेयाद्गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ ४४॥
यतश्चाविरासीज्जगत् सर्ववेत्तुस्तथाऽब्जासनो विश्वगो विश्व गोप्ता ।
तथेन्द्रादयो दैत्यसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ ४५॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः ॥ ४६॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुघश्च सदा तं गणेशं नमामो भजमः ॥ ४७॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोयतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ ४८॥
यतः पुत्रसम्पद् यतो वाञ्छितार्थो यतो भक्तिविद्यास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ ४९॥
यतोऽनन्त शक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ५०॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति ता यं गृह्णन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ५१॥
इति श्रीगणेशपुराणे उपासनाखण्डे कश्यपसृष्टिवर्णनं नामैकनवतितमोऽध्यायः ॥ ९१॥
आदितः श्लोकानां समष्ट्यङ्काः - ३९८७ + ५१ = ४०३८
१.०९२ ब्रह्मव्यास भृगुसोमकान्त संवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः
क उवाच ।
एवं नत्वा च स्तुत्वा च सर्वे ते तु गजाननम् ।
पुनरुचुर्गणाध्यक्षमद्य धन्यतमा वयम् ॥ १॥
धन्यं तपो नो दानं च ज्ञानं यज्ञश्च पूर्वजाः ।
अद्य नो दृष्टयो धन्या याभिर्दृष्टो गजाननः ॥ २॥
एवं वाक्यामृतैस्तेषां स्तुतिभिः परितोषितः ।
उवाच शृण्वतां तेषां गाम्भीर्याद् द्विरदाननः ॥ ३॥
नैतादृशं मयाऽदर्शि ब्रह्मविष्णुशिवादिषु ।
यत् साक्षाद् दृश्यते सर्वै रूपं मे निर्गुणस्य यत् ॥ ४॥
अतितुष्टोऽनया स्तुत्या वरान् दातुमिहागतः ।
यद् यद् वो वाञ्छितं तत् तद् वृणुध्वमखिलं तु यत् ॥ ५॥
एवमुक्तास्तदा तेन विकटेन मुनीश्वर ।
यस्य यद् वाञ्छितं तत् तद् वव्रुस्तस्माद् गजाननात् ॥ ६॥
असङ्ख्यत्वात् तद्वराणां नास्ति शक्तिश्चतुर्मुखैः ।
गदितुं सर्वथा तस्मादुक्तं सङ्क्षेपतो मया ॥ ७॥
ताँस्तान् ददौ वरान् यान् यान् सर्वे वव्रुर्गजाननम् ।
पुनरप्यवदत् सर्वानिदं स्तोत्रं मम प्रियम् ।
त्रिसन्ध्यं यः पठेदेतद् विद्यावान् पुत्रवान् भवेत् ।
आयुरारोग्यमैश्वर्यं यशो वृद्धिं जयोदयम् ।
प्राप्नुयाद् वाञ्छितानर्थानन्ते च परमं पदम् ।
पुनरूचे गणाधीशः स्तोत्र मेतज्जपेन्नरः ।
त्रिसन्ध्यं त्रिनिदं तस्य सर्व कार्यं भविष्यति ॥ ८॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् ॥ ९॥
यः पठेन्मासमत्रं तु दशवारं दिने दिने ।
स मोचयेद् बन्धनात् तं राजबद्धं न संशयः ॥ १०॥
विद्याकामो लभेत् विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितं लभते सर्वमेकविंशतिवारतः ॥ ११॥
यो जपेत् परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवः सर्वेषामेव पश्यताम् ॥ १२॥
अन्तर्दधेऽखिलाधारः सुमुखोऽसौ गजाननः ।
ते च चक्रुस्तदा मूर्तिं गणेशस्य शुभाननाम् ॥ १३॥
प्रतिष्ठाप्य च तां स्थूले प्रासादे रत्ननिर्मिते ।
सुमुखेति च तस्यास्ते नाम चक्रुःसुविश्रुतम् ॥ १४॥
सम्पूज्य च नमस्कृत्वा स्वं स्वं स्थानं ययुः सुराः ।
सर्वे ते मुनयो लोकाः सर्वकार्यरतास्तदा ॥ १५॥
केचित्तस्या नाम चक्रुरेकदन्त इति स्फुटम् ।
गन्धर्वैः किन्नरैरन्या स्थापिता मूर्तिरुत्तमा ॥ १६॥
प्रासादे काञ्चने श्रेष्ठेऽनेकधा परिपूज्य च ।
कपिले ति च नामास्याः स्थापयामासुरुत्तमम् ॥ १७॥
गुह्यकाश्चारणाः सिद्धा मूर्तिमन्यां प्रचक्रिरे ।
महालये प्रतिष्ठाप्य नेमुश्च पुपुजुश्च ताम् ॥ १८॥
गजकर्णेति नामास्याश्चक्रुस्ते तु स्फुटार्थकम् ।
तत् प्रभावाद्विमानस्थाः सर्वे ते दिवमाक्रमन् ॥ १९॥
लम्बोदरेति नाम्ना च स्थापिता सर्व मानवैः ।
श्वापदैरखिलैरन्या स्थापिता मूर्तिरुत्तमा ॥ २०॥
विकटेति च नाम्ना तां पुपूजुस्ते ययुर्वनम् ।
गिरयश्च द्रुमाश्चान्यां मूर्तिं स्थाप्य प्रपूज्य च ॥ २१॥
विघ्ननाशन इत्येवं नाम कृत्वा स्थितास्तु कौ ।
तत्प्रसादच्च ते ख्याताः पर्वताश्च द्रुमास्तथा ॥ २२॥
सर्वैः पक्षिगणैर्मूर्तिः स्थापिता रत्नकाञ्चनी ।
गणाधिपेति नाम्ना तैः पूजिता च नमस्कृता ॥ २३॥
सर्वैर्विषधरैरेका स्थापिता गणनायकी ।
यस्या हूतिः कृता तैस्तु धूमकेतुरिति स्फुटा ॥ २४॥
सर्वैर्जलाशयैरेका प्रतिमा स्थापिता शुभा ।
गणाध्यक्षेति नाम्ना सा पूजिता परमोत्सवैः ॥ २५॥
कृमिकीटादिनिचयैर्वनस्पत्योषधीगणैः ।
स्थापिता परमा मूर्तिर्भालचन्द्रेति विश्रुता ॥ २६॥
अन्यैः सचेतनैरन्या रत्नप्रासादमध्यगा ।
वैनायकी महामूर्तिः पूजिता भक्तिभावतः ॥ २७॥
गजाननाख्यया ख्याता सर्वेषां सर्वकामदा ।
ते ते जगत्त्रये ख्यातास्तत्तज्जात्या बभूविरे ॥ २८॥
सुखिनः स्वस्वकार्येषु दक्षा देव प्रसादतः ।
प्रत्येकनामकथनेन शक्तिर्मम वर्त्तते ॥ २९॥
सारं सारं प्रगृह्यैव कृतं नाम्ना सहस्रकम् ।
ततोऽपि सारभूतानि प्रोक्तानि द्वादशैव तु ॥ ३०॥
समुद्रमथनाद् यद्वद् रत्नानी व चतुर्दश ।
एवं सङ्क्षेपतो ब्रह्मन् महिमा तेऽभिवर्णितः ॥ ३१॥
विस्तराद् गदितुं शेषो नेशो नेशोऽप्यहं हरिः ।
इन्द्रादिमशकानां च जीवानां यक्षरक्षसाम् ॥ ३२॥
तत्र का गणना कार्या मया सत्यवतीसुत ।
तस्मात् सर्वेषु कार्येषु पूजनीयो गजाननः ॥ ३३॥
यो न पूजयते देवदेवं विघ्नविनाशनम् ।
स दुरात्मा परित्याज्यश्चाण्डाल इव दूरतः ॥ ३४॥
मुनिरुवाच ।
अनुक्रमेण कथय नामानि द्वादशैव मे ।
श्रवणात् पठनादेषां सर्वं निर्विघ्नतामियात् ॥ ३५॥
ब्रह्मोवाच ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३६॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३७॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३८॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ३९॥
कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।
तपांसि यानि सर्वाणि तीर्थान्यायतनानि च ॥ ४०॥
स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।
कृच्छ्राणि तप्तकृच्छ्राणि पराकेन्दुव्रतानि च ॥ ४१॥
शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।
इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ ४२॥
यः पठेन्मानवो भक्त्या विघ्ना नो यान्ति तं नरम् ।
सिद्धयन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ ॥ ४३॥
तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।
अत एव मुने सौराः शाक्ताः शैवाश्च वैष्णवाः ॥ ४४॥
उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।
गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम् ॥ ४५॥
न सिद्धन्ति हि कार्याणि द्वादशान्यतमस्य ह ।
उच्चारणं विना ब्रह्मँस्तस्मादेकं समुच्चरेत् ॥ ४६॥
दुष्टानां नास्तिकानां च कार्यं यद् यद्धिसिद्ध्यति ।
तेऽपि बीजं समुच्चार्यमज्ञानादपि कुर्वते ॥ ४७॥
एवं ते महिमा सर्वः कथितो लेशतो मुने ।
उपासनाफलं नाना यथामति निरूपितम् ॥ ४८॥
विष्णुनां कथितं यावत् तावत् तव निरूपितम् ।
सोऽपि नान्तं जगामास्य गणेशोपासनस्य ह ॥ ४९॥
गणेशनाम महिमा पूर्णो ज्ञातो न तेन च ।
भृगुरुवाच ।
एवं ते कथितां राजन्नद्भुतो महिमा मया ॥ ५०॥
ब्रह्मणा सुप्रसन्नेन यो व्यासाय निरूपितः ।
उपासनाखण्डमिदं वर्णितं नृपते मया ॥ ५१॥
यदि ते श्रवणे श्रद्धा तदान्यदपि वर्णये ।
चरितं गणनाथस्य सोमकान्ताघनाशनम् ॥ ५२॥
सूत उवाच ।
इति वः कथितं नानाकथान्तरसमन्वितम् ।
उपासनं गणेशस्य शौनकाद्या महर्षयः ॥ ५३॥
वेदव्यासाय मुनये ब्रह्मणा यत् समीरितम् ।
भृगुणा सोमकान्ताय वर्णितं पापनाशनम् ॥ ५४॥
शृणुयाद् यो गणेशस्य पुराणमिदमुत्तमम् ।
स सर्वामापदं हित्वा भुक्त्वा भोगाननेकशः ॥ ५५॥
पुत्रपौत्रसमायुक्तो ज्ञानविज्ञानसंयुतः ।
लभते परमां मुक्तिं गणेशस्य प्रसादतः ॥ ५६॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।
यः श्रावयेन् महाभक्त्या यथोक्तफलभाग्भवेत् ॥ ५७॥
यथाप्तं सोमकान्तेन शृण्वतापरमादरात् ।
इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मव्यासभृगुसोमकान्तसंवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः ॥ ९२॥
श्रीमद्गजाननार्पणमस्तु । श्रीशंवन्दे ॥
इति श्रीमद्गणेशमहापुराणे पूर्वखण्डं (उपासनाखण्डं) समाप्तम् ।
आदित श्लोकानां समष्ट्यङ्काः = ४०३८ + ५८ =४०९६
(Continued with the second part क्रीडाखण्डम् in a separate file.)
Proofread by Manish Gavkar