श्रीगणेशपुराणम् २ उत्तरखण्डं अथवा क्रीडाखण्डम्
श्रीगणेशाय नमः ।
श्रीस्वानन्देशाय ब्रह्मणस्पतये नमः ।
श्रीमहासिद्ध्यै नमः ।
श्रीमहाबुद्ध्यै नमः ।
श्रीलक्षाय नमः ।
श्रीलाभाय नमः ।
श्रीनग्नभैरवराजाय नमः ।
श्रीमद्गणकाय परब्रह्मगुरवे नमः ।
श्रीमन् मुद्गलाय परमाचार्याय नमः ।
श्री भृशूण्डी गार्ग्य गृत्समद, भृगु, व्यासाय नमः ।
श्रीमत् सकलगाणेशगुरुभ्यो आचार्येभ्यश्च नमो नमः ।
श्रीब्रह्मभूय महासिद्धिपीठाधीश्वर श्रीमद्गिरिजासुत योगीन्द्राय नमः ।
श्रीमद्गाणेश जगद्गुरवे श्रीमद्गणेशयोगीन्द्राचार्याय नमः ।
श्रीमदङ्कुशधारिणे सद्गुरवे योगीन्द्राय नमः ।
श्रीसद्गुरू हेरम्बराजाय नमः ।
उत्तरार्धस्य विषयानुक्रमणिका
क्रीडाखण्ड
अध्यायाः विषयाः
००१ नारदस्योपदेशः
००२ नरान्तकदेवान्तकाभ्यां वरप्राप्तिः
००३ देवान्तकस्य विजयः
००४ नरान्तकस्य विजयः
००५ आदित्या वरप्राप्तिः
००६ विनायकावतारः
००७ विरजायाः राक्षस्याः विजयः
००८ नक्रस्य शापमुक्तिः
००९ हाहाहूहोर्भ्रमनिरासः
०१० नानानामनिरूपणम्
०११ इन्द्रस्य गर्वभञ्जनम्
०१२ निशाचरस्य वधः
०१३ विघण्टदन्तुरयोर्वधः
०१४ राक्षसीजृम्भावधः
०१५ नगरस्य वर्णनम्
०१६ काशीराज्ञः भृशुण्डोराश्रमे गमनम्
०१७ देवः भक्तमीलनः
०१८ कपटीदैतस्य वधः
०१९ कूपकन्दरयोर्वधः
०२० अन्धकाम्भासुरतुंगानान्धः वधः
०२१ राक्षसीभ्रमर्या
०२२ शुक्लविद्रुमसंवाद
०२३ शुक्लस्य गृहे विनायकस्य भोजनम्
०२४ सनकसनन्दयोर्बोधः
०२५ भक्तिप्रशंसा
०२६ राक्षसीभीमायारूद्धारः
०२७ साम्बस्य दुराचरणम्
०२८ भीमस्यपूर्ववृत्तान्तः
०२९ विरोचनवधः
०३० वामनावतारकथा
०३१ बलेः पातालगमनम्
०३२ शमीमहात्म्यम् कीर्त्याः कथा
०३३ कीर्त्तेः मृत्शरीरात् युवकोत्पत्तिः
०३४ और्वशौनकयोर्कथा
०३५ शमीमन्दारयोर्प्रशंसा
०३६ देवाङ्गनाभिः वरप्रदानम्
०३७ शमीमन्दारमाहात्म्यम्
०३८ दुरासदचरित्रम्
०३९ शिवस्य काश्याः प्रयाणम्
०४० दुरासदस्य पराजयः
०४१ पार्वत्या तेजात् सुतोत्पत्तिः
०४२ काशीस्थ षटपञ्चाशत् विनायकाः
०४३ ढुण्डीराजमाहात्म्यम्
०४४ दिवोदास कथा
०४५ दिवोदास कथा
०४६ ढुण्डीराज्ञः ज्योतिषीरूपं ध
०४७ दिवोदासस्य राजपरित्यागः
०४८ कीर्त्तिप्राप्तं वरदानम्
०४९ शमीमन्दारप्रभाववर्णनम्
०५० गणेशलोकवर्णनम्
०५१ काशिराजस्य विमानारोहणम्
०५२ काशिराजस्य स्वानन्द भुवने आगमनम्
०५३ काशिराजेन स्वानन्दप्राप्तिः
०५४ बालचरितम्
०५५ दूतस्य प्रेषणम्
०५६ नरान्तकस्य यात्रा
०५७ काशिराजस्य बन्धनम्
०५८ नरान्तकेन कालपुरुषरूपधारणम्
०५९ राज्ञो वर्णनम्
०६० विनायकनरान्तकयोर्युद्धम्
०६१ दैत्यदमनं विराटरूपदर्शनञ्च
०६२ देवान्तकस्य नगराद् पलायनम्
०६३ शुकस्य दूरदेशगमनम्
०६४ अष्टसिद्धीनां पराजयः
०६५ बुद्धेर्विजयः
०६६ सिद्धीनां पराभवः
०६७ अस्त्रयुद्धम्
०६८ अस्त्रयुद्धम्
०६९ देवदैत्ययुद्धम्
०७० देवान्तकस्य वधः पुरप्रवेशनञ्च
०७१ विनायकस्याऽऽश्रमेऽऽगमनम्
०७२ विनायकस्य स्वलोकगमनम्
०७३ दैत्यसिन्धोरुत्पत्तिः
०७४ सिन्धवे सूर्येण वरप्रदानम्
०७५ देवानां पराजयः
०७६ विष्णोः पराक्रमः
०७७ सिन्धोरनन्वितकृत्याणि
०७८ देवैः वरप्राप्तिः
०७९ गौय्र्य्या मन्त्रप्रदानम्
०८० पार्वत्यास्तपो वरदानञ्च
०८१ गणेशस्यावतारः
०८२ सिन्धुदैत्येनेश्वराराधनम्
०८३ गृध्रासुरस्य वधः
०८४ बालासुरस्य वधः
०८५ गणेशकवचेन रक्षणम्
०८६ व्योमासुरस्य वधः
०८७ कमठासुरस्य वधः
०८८ दैत्यानां वधः
०८९ शलभासुरस्य वधः
०९० अविजयस्य वधः
०९१ शैलासुरस्य वधः
०९२ पार्वत्या विश्वरूपदर्शनम्
०९३ चञ्चलदैत्यस्य वधः
०९४ गौतमस्य मोहनिवारणम्
०९५ वृकासुरस्य वधः
०९६ गौर्य्यादित्योश्च संवादः
०९७ पक्षानां बन्धनम्
०९८ शिखण्डिने वरदानम्
०९९ मयूरेशस्य नागलोकगमनम्
१०० भगासुरस्य वधः
१०१ दैत्यसैन्यस्य वधः
१०२ कमलासुरेण सङ्ग्रामः
१०३ कमलासुरस्य वधः
१०४ ब्रह्मदेवस्य गर्वहरणम्
१०५ विश्वदेवानां भेदबुद्धेर्नैराश्यम्
१०६ मयूरेशस्य विनोदः
१०७ इन्द्रगर्वहरणम्
१०८ यमस्य गर्वहरणम्
१०९ मुनिबालकैर्दैत्यवधः
११० युद्धायाहूतो नन्दी सिन्धोः समीम गमनम्
१११ मयूरेशस्य युद्धाय निश्चयः
११२ सिन्धोर्युद्धप्रारम्भः
११३ मित्रकौस्तुभयोर्वधः
११४ युद्धवर्णनम्
११५ सिन्धुदैत्येन विद्रूपरूपधारणम्
११६ मयूरेशस्याधिपत्ये देवैराव्रमणम्
११७ दुर्गायाः सिन्धवेरुपदेशः
११८ कलविकलयोर्वधः
११९ सिन्धोः पुत्राणां वधः
१२० सिन्धोः पित्रा सह संवादः
१२१ सिन्धोः पराभवः
१२२ दैत्यसेनायाः वधः
१२३ सिन्धोर्वधः
१२४ गणेशस्य गण्डकनगर्यां प्रवेशः
१२५ मयूरेशस्य विवाहः
१२६ मयूरेशचरित्रस्य फलश्रुतिः, द्वापरयुगे गजाननस्यावतारः
१२७ सिन्दुरासुरस्योत्पत्तिः
१२८ सिन्दुरस्य पराजयः
१२९ गौरीकथा
१३० गजाननस्याविर्भावः
१३१ गन्धर्वानां पराजयः
१३२ कैलाशपर्वते गमनम्
१३३ पराशरदर्शनम्
१३४ मूषकवाहनम्
१३५ क्रौञ्चेन गन्धर्वाय शापः
१३६ सिन्दूरेण सह युद्धम् (श्रीमद्गणेश गीता)
१३७ सिन्दूरासुरस्य वधः
१३८ श्रीगणेशगीतायां साङ्ख्ययोगसारार्थयोगः
१३९ श्रीगणेशगीतायां कर्मयोगः
१४० श्रीगणेशगीतायां ब्रह्मार्पणयोगः
१४१ श्रीगणेशगीतायां कर्मसन्यासयोगः
१४२ श्रीगणेशगीतायां योगावृत्तिप्रशंसा
१४३ श्रीगणेशगीतायां योगावृत्तिबुद्धियोगः
१४४ श्रीगणेशगीतायामुपासनायोगः
१४५ श्रीगणेशगीतायां विश्ववीपरूक्षणयोगः
१४६ श्रीगणेशगीतायां क्षेत्र क्षेत्रज्ञविवेकयोगः
१४७ श्रीगणेशगीतायामुपदेशयोगः
१४८ श्रीगणेशगीतायां गुणत्रयकृतियोगः
१४९ व्यासेन गणेशस्य दर्शनम्
१५० व्यासाय वरप्रदानम्
१५१ सोमकन्तस्य विमानप्राप्तिः
१५२ सोमकान्तेन देवनगराय गमनम्
१५३ सोमकान्तस्य देवपदप्राप्तिः
१५४ वाराणस्यां विनायकः
१५५ फलश्रुतिः
२.१ नारदोपदेशो नाम प्रथमोऽध्यायः
अथ श्रीगणेशमहापुराणोत्तरार्ध प्रारम्भः ॥
श्रीगणेशपुराणम् उत्तरार्ध क्रीडाखण्डः ।
श्रीगणेशाय नमः ।
श्रीमहागणाधिपतये नमः ॥
श्रीमहासिद्धि महाबुद्धिलक्षलाभनग्नभैरवराजचरणाभ्यां नमः ।
सकलगाणेशगुरूभ्यो नमः ।
अथोत्तरखण्डः ।
प्रथमोऽध्यायः ।
मुनय ऊचुः ।
सम्यगाख्यानमाख्यातं त्वया सूत महामते ।
सादरं श्रुतमस्माभिर्नच तृप्तिं गता वयम् ॥ १॥
यथा न तृप्यते जन्तुरन्नमश्नन्दिने दिने ।
अन्यत् कथान्तरं ब्रूहि येन तृप्यामहे वयम् ॥ २॥
सूत उवाच ।
उक्तं चोपासनाखण्डं क्रीडाखण्डं वदामि वः ।
यथा कृतं गणेशेन नानादैत्यविहिंसनम् ॥ ३॥
साधुद्विजगवां चैव पालनं परमादरात् ।
तदहं सम्प्रवक्ष्यामि श्रूयतां स्थिरचेतसा ॥ ४॥
मुनय ऊचुः ।
यावद् यावत् कथ्यते तत् पुराणं तावत् तावद् वर्द्धते श्रोतुमिच्छा ।
तस्मात् सम्यक् कथ्यतां सर्वलोकः संसाराब्धेर्येन सद्यः प्रमुच्येत् ॥ ५॥
सूत उवाच ।
यदुक्तं ब्रह्मणा पूर्वं व्यासायामिततेजसे ।
भृगुणा सोमकान्ताय तदेतद् वो ब्रवीम्यहम् ॥ ६॥
व्यास उवाच ।
पद्मयोने वद विभो गणेशचरितं शुभम् ।
यद् यद् रूपं समास्थाय यद्यच्च कृतवान् विभुः ॥ ७॥
कृपावता त्वया ब्रह्मन् ममवाक्यादुदीर्यताम् ।
उपासनाखण्डमिदं श्रुत्वा तृप्तिं न यामि च ॥ ८॥
येन येनवतारेण यं यं दैत्यं महाबलम् ।
अहनद् विकटस्तत्तत् कर्मास्य वक्तुमर्हसि ॥ ९॥
तदीयं बालचरितं लीला नानाविधा अपि ।
श्रुत्वा त्वद् वदनाम्भोजान् मनो निर्वृतिमेष्यति ॥ १०॥
सूत उवाच ।
श्रुत्वा नानाविधान् प्रश्नानुवाच कमलासनः ।
कथां नानाविधां दिव्यां व्यासाय परिपृच्छते ॥ ११॥
ब्रह्मोवाच ।
साधु पृष्टं त्वया व्यास हृदयानन्दकारिणा ।
वक्तुर्विवर्धते प्रीतिः सादरे श्रोतरि प्रभो ॥ १२॥
अवाच्यमपि वक्तुं मे पुण्यश्लोके भवेत् त्वयि ।
शक्तिर्गरीयसी यद्वद् वक्तुः श्रोतरि कथ्यताम् ॥ १३॥
इदानीं सर्वमाख्यासे गणेशचरितं तव ।
नानावतारान् कृत्वा स भूभारं हृतवान् विभुः ॥ १४॥
हत्वा नानाविधान् दैत्यान् स्वस्थानेऽस्थापयनत् सुरान् ।
साधूनां पालनरतो दुष्ट निर्मूलनक्षमः ॥ १५॥
इतिहासं शृण मुने गणेशाख्यानसंश्रयम् ।
विष्टरश्रवसा प्रोक्तं श्रवणात् सर्व कामदम् ॥ १६॥
विष्णुरुवाच ।
युगे युगे भिन्ननामा गणेशो भिन्नवाहनः ।
भिन्नकर्मा भिन्नगुणो भिन्नदैत्यापहारकः ॥ १७॥
सिंहारुढो दशभुजो कृते नाम्ना विनायकः ।
तेजोरुपी महाकायः सर्वेषां वरदो वशी ॥ १८॥
त्रेतायुगे बर्हिरुढः षड्भूजोऽप्यर्जुनच्छविः ।
मयूरेश्वरनाम्ना च विख्यातो भुवनत्रये ॥ १९॥
द्वापरे रक्तवर्णोऽसावाखुरूढश्चतुर्भुजः ।
गजानन इतिख्यातः पूजितः सूरमानवैः ॥ २०॥
कलौ तु धूम्रवर्णोऽसावश्वारूढो द्विहस्तवान् ।
धूम्रकेतुरिति ख्यातो म्लेच्छानीकविनाशकृत् ॥ २१॥
यं यं स दैत्यं हन्ति स्म तदिदानीं ब्रुवे मुने ।
अङ्गदेशीयनगरे रौद्रकेतुरभूद् द्विजः ॥ २२॥
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ।
समो जीवेष्वग्निहोत्री सुरगोद्विपूजकः ॥ २३॥
ईश्वरोपासको नित्यं सर्वागमविशारदः ।
यस्य पत्नी शारदाख्या रूपलावण्यशोभिता ॥ २४॥
ईदृशी नाप्सरोमध्ये नाष्टासु नायिकास्वपि ।
यद्वक्त्रनिर्जितश्चन्द्रश्चिन्तया क्षयमीयिवान् ॥ २५॥
अनेकदिव्याभरणैर्भासयन्ती धरातलम् ।
यथा नक्षत्रमालाभिर्भासते व्योममण्डलम् ॥ २६॥
कदाचित् सा गर्भवती शारदोत्पललोचना ।
शारदा शारदे मासि शरच्चन्द्रसुशोभिते ॥ २७॥
शरीरतेजसा यस्या न प्राज्ञायत किञ्चन ।
दोहदान्पूरयत्येष यं यं साऽकामयत् सती ॥ २८॥
एवं सा नवमे मासि यमलौ सुषुवे सुतौ ।
अतिकान्ततरौ स्वान्तनन्दनावुभयोरुभौ ॥ २९॥
अजानुबाहू दीर्घाक्षौ दृष्ट्वा प्रोवाच तत्पिता ।
अद्याहमनृणो जातो धन्यमद्य तपो मम ॥ ३०॥
वंशो धन्यो जनुर्धन्यं यत्पुत्रौ विक्षितौ मया ।
अर्घ्याद्यैर्द्विजवर्यान् स सम्पूज्य च गणाधिपम् ॥ ३१॥
स्वस्तिवाच्यं चकराशु मातृपूजनपूर्वकम् ।
भक्त्याऽऽभ्युदयिकं श्राद्धं जातकर्माऽकरोद् द्विजैः ॥ ३२॥
सम्पूज्य ब्राह्मणान्भक्त्या ददौ दानान्यनेकशः ।
सुहृदो मानयामास वासोरत्नधनादिभिः ॥ ३३॥
नानावादित्रनिर्घोषैः शर्करां च गृहे गृहे ।
दापयामास ताम्बूलं पुत्रजन्मसु निर्वृतः ॥ ३४॥
यथा धान्यपरो योगी प्राप्य सद्वस्त्वनुत्तमम् ।
ततो दशाहेऽतीतेऽसावाकार्य द्विजपुङ्गवान् ॥ ३५॥
समर्च्य परया भक्त्या ज्योतिःशास्त्रविशारदान् ।
पप्रच्छ चैतयोर्नाम किं कार्यं द्विजसत्तमाः ॥ ३६॥
अतीतानागतज्ञानाद् विचार्य कथयन्तु मे ।
ते चोचुः प्रणिधानेन देवान्तकनरान्तकौ ॥ ३७॥
नामनी ह्यनयोब्रह्मन्नन्वर्थे कुरू नो मते ।
इति तद्वचनं श्रुत्वा द्विजभक्तिरतो द्विजः ॥ ३८॥
स्वशाखोक्तेन विधिना नामनी विदधे तथा ।
ब्राह्मणान् भोजयामास सर्वाश्च नागरांस्तथा ॥ ३९॥
ववृधाते ततस्तौ तु मेरूमन्दारसन्निभौ ।
यथा कच्छाश्रितौ तालौ यथा वंशाङ्कुरौ बलात् ॥ ४०॥
यत्र यत्र पदन्यासं कुर्वाते तौ यदृच्छया ।
रसातलगतस्यात्र शेषस्य नमते शिरः ॥ ४१॥
दृश्यते मण्डलं भानोस्तिष्ठतोः शिरसि स्थितम् ।
पित्रोः प्रदर्शयन्तौ तौ कौतुकानि भृशं तयोः ॥ ४२॥
कदाचिन्नारदोऽकस्माद् रौद्रकेतुगृहं ययौ ।
श्रुत्वा कीर्तिं बालकयोः कौतुकादग्रहीत्तु तौ ॥ ४३॥
मूर्ध्न्याङ्घ्रायाङ्कमारोप्य पितराववदत् तयोः ।
नारद उवाच ।
श्रुत्वा कीर्तिं समायातः पुत्रयोरद्भुतां शुभाम् ॥ ४४॥
अग्रेऽद्भुततरा चापि भविष्यत्यनयोर्मुने ।
महद्भाग्यं तव मुने यल्लब्धावीदृशौ सुतौ ॥ ४५॥
दृष्ट्वाऽन्यो हर्षमायाति का वार्त्ता स्वजनस्य ह ।
इत्याकर्ण्य शुभं वाक्यं नारदेन समीरितम् ॥ ४६॥
तावाहतुर्मुनिं नत्वा पितरौ नारदं तदा ।
तव प्रसादाद् बह्वायुः पुत्रयोरस्तु साम्प्रतम् ॥ ४७॥
अनुग्रहं कुरु तथा यथैतौ वीर्यवत्तरौ ।
भवेतां लोकविख्यातौ सर्वज्ञौ रिपुदण्डिनौ ॥ ४८॥
क उवाच ।
रुद्रकेतोः शारदायाः पुत्रयोर्भक्तिमीक्ष्य सः ।
पञ्चाक्षरीं महाविद्यामुभयोरूपदिष्टवान् ॥ ४९॥
उवाच पुत्रौ कामारिरनया सम्प्रसाद्यताम् ।
मस्तकेऽभय हस्तं च स्थाप्यानुष्ठानमादिशत् ॥ ५०॥
एवमुक्त्वा तमामन्त्र्य रौद्रकेतुं महामुनिः ।
ततस्त्वन्तर्दधे ब्रह्मन् नारदो दिव्यदर्शनः ॥ ५१॥
अन्तर्हिते मुनौ तौ चावदतां पितरौ मुदा ।
अनुष्ठानाय नावाज्ञां भवद्भ्यां सम्प्रदीयताम् ॥ ५२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे नारदोपदेशो नाम प्रथमोऽध्यायः ॥ १॥
आदित श्लोकानां समष्ट्यङ्काः = ४०९६ + ५२ = ४१४८
२.२ द्वितीयोऽध्यायः
व्यास उवाच ।
अनुष्ठानं कथं ब्रह्मन् कुत्र वा तौ प्रचक्रतुः ।
तत्सर्वं विस्तराद्ब्रूहि सादरं मम पृच्छतः ॥ १॥
ब्रह्मोवाच ।
साधु पृष्टं त्वया व्यास सर्वं ते कथयेऽधुना ।
चक्रतुस्तावनुष्ठानं देवान्तकनरान्तकौ ॥ २॥
पित्रौराज्ञां गृहीत्वैव जग्मतुर्गहनं वनम् ।
न सञ्चारो यत्र वायोर्नानाद्रुमलताकुलम् ॥ ३॥
वापीकासारसहितं पुष्पपल्लव शोभितम् ।
विशालगव्हरगिरिनानाप्रस्तरशालि च ॥ ४॥
तत्र स्थितावुभावेतौ प्रारभेतां महत्तपः ।
एकाङ्गुष्ठे स्थितौ चौभौ तत्र तौ स्थिरचेतसा ॥ ५॥
जपन्तौ नारदप्रोक्तां विद्यां पञ्चाक्षरीं शुभाम् ।
ध्यायन्तौ शङ्करं देवं सहस्रपरिवत्सरान् ॥ ६॥
निराहारौ वायुभक्षौ शरदां द्विसहस्रकम् ।
सहस्रवर्षं पत्राणि पक्वानि जक्षतुश्च तौ ॥ ७॥
एवं दशसहस्राणि वर्षाणि जपतोर्ययुः ।
विवृद्धे भूरितपसि ततश्च तेजसा तयोः ॥ ८॥
सूर्योऽभून्मन्दकिरणो भस्मोद्धूलित देहयोः ।
व्याघ्राजिने चाक्षमाले बिभ्रतोगजचर्मणी ॥ ९॥
पुपूजतुरुषःकाले शम्भुं कुसुमपल्लवैः ।
तस्मिंस्तपोवने तात तयोरद्भुततेजसा ॥ १०॥
जातिवैराः सुनिर्वैरा आसन् सिंहगजादयः ।
एवं तत्तपसा तुष्ट पञ्चवक्त्रस्त्रिलोचनः ॥ ११॥
दशबाहूरपणाङ्गो व्याघ्रेभचर्मशूलवान् ।
बिभ्रच्छिरसि गङ्गां च डमरुं दक्षिणे करे ॥ १२॥
फणिहारसमायुक्तो रुण्डमालालसद्गलः ।
वृषारुढो नीलकण्ठः प्रभया भासिताम्बरः ॥ १३॥
नानालङ्कारसंयुक्तः श्वेताङ्गश्चन्द्रशेखरः ।
दृष्ट्वा तौ तादृशं देवं हर्षमापतुरुत्तमम् ॥ १४॥
ननर्ततुरुभौ पश्चात् साष्टाङ्गं प्रणिपेततुः ।
बद्धाञ्जलिपुटौ तौ तं देवदेवं समूचतुः ॥ १५॥
धन्यौ नौ पितरौ देवजनुषी नयने तपः ।
धन्यं कुलं च देहौ च यतो दृष्टो महेश्वरः ॥ १६॥
वेदान्ताऽगोचरोऽगम्यो वाचो यस्मादुपावृत्ताः ।
आगमः कुण्ठितो यत्र षट्शास्त्राण्यथ मानसम् ॥ १७॥
सहस्रवदनः स्तोतुं न क्षमः सनकादयः ।
न शक्ताः सर्वजगतः कर्ता पाताऽपहारकः ॥ १८॥
रङ्कं करोति राजानं राजानं रङ्कमेव च ।
सर्पं करोति वलयं वलयं सर्पमेव च ।
मृतं करोति जीवन्तं मृतमेवच ॥ १९॥
अधनं यो धनाढ्यं च धनाढ्यमधनं तथा ।
श्रुत्वैवं स तयोर्वाणीं प्रोवाच च उमापतिः ॥ २०॥
साधु साधु श्रुतं वाक्यामृतं वां समुदा मया ।
तपसा परितुष्टो वां वृषारूढः सहोमया ॥ २१॥
आगतो ध्याननिष्ठाभ्यां याचेतां वाञ्छितान् वरान् ।
क उवाच ।
अन्धकारेरिदं वाक्यं श्रुत्वा तौ प्रोचतुस्तदा ॥ २२॥
हर्षगद्गदया वाचा देवान्तकनरान्तकौ ।
यदि तुष्टोऽसि देवेश सर्वेश जगदीश्वरः ॥ २३॥
यदि त्वया वरा देया यद्यनुग्राह्यता च नौ ।
तदा देवमनुष्येन्द्रयक्षरक्षः पिशाचतः ॥ २४॥
मानवोरगगन्धर्वाप्सरः किन्नरतोऽपि च ।
सर्वशस्त्रास्त्रयोर्ववन्यग्राम्यपश्वादितोऽपि च ॥ २५॥
ग्रहनक्षत्र भूतेभ्यो दानवासुरतोऽपि च ।
न दिवा न च रात्रौ वा कृमिकीटादितोऽपि वा ॥ २६॥
मृत्युः कदापि नौ स्यात्ते प्रसादाज्जगदीश्वर ।
त्रैलोक्यराज्यं नौ यच्छ भक्तिं ते चरणेऽपि च ॥ २७॥
क उवाच ।
तौ जगाद ततः शूली प्रसन्नस्तपसा तयोः ।
समाकर्ण्य वरान् सर्वान् निजभक्तामराङ्घ्रिपः (भक्तयोर्वृषभध्वजः) ॥ २८॥
शिव उवाच ।
यद्यद्वांवाञ्छितं सर्वतत्तथा न तदन्यथा ।
अभयं सर्वतोऽमृत्युस्त्रैलोक्ये राज्यमेव च ॥ २९॥
लप्स्यथो लप्स्यते चापि भवद्भ्यामन्तको भयम् ।
तयोः शीर्ष्णोरधाच्छम्भुरभयं करपङ्कजम् ॥ ३०॥
एवं प्राप्येप्सितान् कामानन्तर्धानं ययौ शिवः ।
तावनुज्ञां ततो गृह्य तस्मिन्नन्तर्हिते गृहम् ॥ ३१॥
ईयतुस्तं परिक्रम्य प्रणम्य च प्रपूज्य च ।
हर्षेण पितरौ दृष्ट्वा नेमतुर्भृशहर्षितौ ॥ ३२॥
आलिङ्ग्य पितरौ तौ तु निजवृत्तान्तमूचतुः ।
आघ्राय मस्तकं प्राह पिता तौ तनयौ मुदा ॥ ३३॥
युवयोः सुवरप्राप्त्या दर्शनाच्छङ्करस्य च ।
पावितं जन्म च कुलमर्जितं सुमहद्यशः ॥ ३४॥
श्रुत्वोदन्तं शीतलानि जातान्यङ्गानि मे सुतौ ।
जाता चामृतपानस्य परा तृप्तिर्न संशयः ॥ ३५॥
मात्राभ्यक्तौ बुभुजतुस्ततोऽन्नं विविधं शुभम् ।
पित्रासमं ब्राह्मणैश्च वेदशास्त्रविशारदैः ॥ ३६॥
ततः सा पूजयामास नानालङ्कारभूषणैः ।
तौ पुत्रौ ब्राह्मणांश्चैव तेभ्यो गृह्यशिषो बहु ।
विससर्ज प्रणम्यैतान् व्यतीयतुरुभौ निशाम् ॥ ३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे देवान्तकनरान्तकवरप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥
आदितः श्लोकानां समष्ट्यङ्ङाः = ४१४८ + ३७ = ४१८५
२.३ तृतीयोऽध्यायः
क उवाच ।
ततः प्रातः समुत्थाय गुरून्ध्यात्वा सभाज्य च ।
स्मृत्वा नत्वाऽखिलान्देवान् जग्मतुर्नैऋतीं दिशम् ॥ १॥
कृत्वा मुत्रपुरीषे तु दन्तजिव्हा विशोध्य च ।
स्नात्वा सन्ध्यामुपास्यैताविष्टान् देवान् पुपूजतुः ॥ २॥
सम्पूज्य बाह्मणान् भक्त्या ददतुर्धनवाससी ।
आज्यमालोक्य कांस्यस्थं ददतुर्ब्राह्मणाय तत् ॥ ३॥
सदक्षिणं समालोक्य दर्पणं निर्मलं तथा ।
परिधाय च वासांसि विचारं चक्रतुस्तु तौ ॥ ४॥
ज्येष्ठ उवाच ।
अहं विजेष्ये स्वर्लोकान् वरदानान्महेशितुः ।
मृत्युलोकं च पातालं जय त्वं तत्प्रसादतः ॥ ५॥
क उवाच ।
एवं तौ निश्चयं कृत्वा विलोक्य शुभवासरम् ।
एको ययौ स्वर्गलोकं वायुवेगसमो जवे ॥ ६॥
यातोऽमरावतीं तत्र बभञ्जाराममण्डलम् ।
बद्ध्वा परिकरं तस्थौ शक्रस्य पुरतो बली ॥ ७॥
कोलाहलो महानासीद् देवानां धावतां भृशम् ।
कोऽयं कोऽयं कथं यातोऽकस्मादिन्द्रसमीपतः ॥ ८॥
घ्नन्तु बध्नन्तु सुदृढं दूरीकुर्वन्त्वमुं नरम् ।
इति ते धावमानास्ते सर्वे तेन निराकृताः ॥ ९॥
उड्डीयोड्डीय सहसा निपत्य च पुनःपुनः ।
तदुड्डानान्निपतिताः स्त्रीगर्भाश्च महाद्रुमाः ॥ १०॥
कम्पिता पृथिवी सर्वा सपर्वतवनाकरा ।
तदङ्गदीप्त्या श्यामास्ते जाता विबुधसत्तमाः ॥ ११॥
यथाऽऽमयजितो मर्त्यो याति सद्यो विवर्णताम् ।
तद्वत् तद्दर्शनात्सर्वे विवर्णत्वं गताः सुराः ॥ १२॥
इन्द्रोऽपि विव्हलो जातो विवर्णश्च तदा मुने ।
केचिद्दश दिशो याताः सन्नद्धा केऽपि चाभवन् ॥ १३॥
केचित्तं शरणं याता अत्यधीराः सुराधमाः ।
तत इन्द्रश्चतुर्दन्तं वज्रहस्तः समारुहत् ॥ १४॥
जगर्ज सुमहाभीमं चकम्पे भुवनत्रयम् ।
किं पश्यतेत्युवाचैनान् सन्नद्धान् सुरसत्तमान् ॥ १५॥
पौरुषं क्व गतं तावद् यवदत्रागतोऽसुरः ।
ततस्ते पुरतो जग्मुः सङ्ग्रामाय कृतोद्यमाः ॥ १६॥
सद्योत्सुकान् सुरान्प्रेक्ष्य प्रोचे देवान्तको हरिम् ।
किमर्थं श्रमसे शक्र विचारय वरान्मम ॥ १७॥
अन्तको भयसन्त्रस्तः पलायनपरो गतः ।
तृणप्रायं तु ते वज्रं मन्येऽहं शङ्कराज्ञया ॥ १८॥
मच्छ्वासात्सर्वतो यान्ति देवास्त्वद्दृष्टिवर्तिनः ।
श्रूयतां मद्वचः शक्र साम्नैव दीयतां मम ॥ १९॥
पदानि स्वानि सर्वाणि स्थीयतां यत्र कुत्रचित् ।
अन्यथा सकलं हित्वा वृथा मृत्युं प्रयास्यसि ॥ २०॥
देवान्तकेति मन्नाम न जानासि कथं सुर ।
क उवाच ।
इति तद्वचनं श्रुत्वा बिभिदे हृदयं हरेः ॥ २१॥
शक्रस्य च मुखादग्निः प्रबलो निर्गतो बहिः ।
अतितप्ते यथा तैले जलपाताद् यथा भवेत् ॥ २२॥
तत ऊचे महेन्द्रस्तं क्रोधावेशसमन्वितः ।
त्वादृशाः कति कति न निहता दानवा मया ॥ २३॥
त्वमिदानीं वराद् गर्वादागतोऽस्यसुराधम ।
वज्रपाताद्धतो नूनं धरण्यां निपतिष्यसि ॥ २४॥
अन्यपदप्रधानो हि समासो नाम्नि ते बली ।
ततः शक्रोऽहनत् तं तु वज्रेण दृढमुष्टिना ॥ २५॥
वज्रं तच्छतधा भिन्नमामभाण्डं च्युतं यथा ।
देवान्तकोऽच्छिन्नरोमाऽऽतिष्ठदाजौ निराकुलः ॥ २६॥
ततोऽसौ मुष्टिना पृष्ठे जघान सुरसत्तमम् ।
तेनासौ पतितो भूमौ वाताहत इव द्रुमः ॥ २७॥
पौरुषं तस्य बुद्ध्यैव पपाल बलसूदनः ।
अधावद्वेगतः पृष्ठे सिंहो मृगगणानिव ॥ २८॥
व्यादाय भीषणं वक्त्रं पलयन्तमुवाच सः ।
पलायसे किमधुना वल्गना क्व गता तव ॥ २९॥
सम्मुखो भव शक्र त्वं सर्वदेवगणैः सह ।
असम्मुखं पलायन्तं न हन्ति वीरसत्तमः ॥ ३०॥
स्वयं तत्पुरतो भूत्वा मारयामास तान्सुरान् ।
मुखे चपेटिकां दत्त्वा गतासूंस्तानपातयत् ॥ ३१॥
भ्रामयित्वा ततश्चैकं पोथयामास भूतले ।
लत्तया मुष्टिना कांश्चित्कूर्पराघाततोऽपरान् ॥ ३२॥
कण्ठेगृहीत्प्राणघातं चकर्ष चापरान्सुरान् ।
केषाञ्चिज्जानुनी भित्त्वा केषाञ्च्चिच्च भुजावपि ।
उरुयुग्मं च केषाञ्च्चिक्षेप दूरतोऽपि तान् ॥ ३३॥
उत्तानाः पतिताः केचित्केचिन् न्युब्जास्तथा सुराः ।
केचिन्मुखप्रहारं च चक्रर्गन्तुमनीश्वराः ॥ ३४॥
केचित्तु तर्कयामासुर्मनसा दुःखितेन च ।
अकस्मात्प्रलयं किं नु प्रारभज्जगदीश्वरः ॥ ३५॥
सुविशीर्णाः सुराः सर्वे गजाः सिंहार्दिता यथा ।
ततः स्वयं जगर्जाशु जयशाली सुरान्तकः ॥ ३६॥
यथा मेघेषु गर्जत्सु गर्जते बर्हिमण्डली ।
भास्करीं भास्करस्त्यक्त्वा यातो दूरतरं ततः ॥ ३७॥
सर्वेऽपि पपलुर्देवास्त्यक्त्वा स्वस्वपदानि च ।
ततः स्वयं शक्रपदे तस्थौ निर्भयचेतसा ॥ ३८॥
सर्वे सुरा गता हेमगिरिगव्हरमुत्तमम् ।
कन्दमूलफलान्यादन्निन्युर्दुःखेन वासरान् ॥ ३९॥
ततोऽगुर्भूतलाद् दिग्भ्योऽसङ्ख्येया दैत्यदानवाः ।
चक्रुर्नानाविधैर्द्रव्यैर्नानातीर्थाहृतैर्जलैः ॥ ४०॥
नानर्षिमन्त्रनिचयैरभिषेकं सुरान्तके ।
शङ्खभेरिमृदङ्गादिदुन्दुभीनां च निस्वनैः ॥ ४१॥
उचुस्तं स्वामिनं दैत्यास्त्वादृग्दैत्यकुले न च ।
जातो वा भविता वापि भवानाज्ञां करोतु नः ॥ ४२॥
क उवाच ।
एवमेकाकिना तेन जिताः शक्र पुरोगमाः ।
राज्यं चकार देवानामरक्षच्चामरावतीम् ॥ ४३॥
ततोऽयात् सत्यलोकं स दैत्यकोटिसमन्वितः ।
ब्रह्माऽपि प्रययौ तत्र यत्र देवाः पुरा गताः ॥ ४४॥
तत्रैकं नायकं स्थाप्य वैकुण्ठमगमच्च सः ।
ब्रह्मणो यानमारुह्य कदाचिच्छाक्रमेव च ॥ ४५॥
लक्ष्म्या सह ततः पूर्वं क्षीराब्धिमगमद्धरिः ।
अत्याप्तं परमं दैत्यं तत्र स्थाप्य व्यचारयत् ॥ ४६॥
किं मया न जितं दैत्या ब्रुवन्तु यामि तत्र वै ।
तेऽब्रुवन्नैव शेषोऽस्ति देवानां विषयःक्वचित् ॥ ४७॥
लोकपालपदे स्थाप्य नानादैत्यान् जनस्य च ।
निरातङ्को निरुद्योगः संरक्षस्वामरावतीम् ॥ ४८॥
इत्यमात्यवचः श्रुत्वामुदा परमया युतः ।
देवान्तकश्चकाराऽसौ तद्वाक्यं सम्यगीरितम् ॥ ४९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे देवलोकविजयोनाम तृतीयोऽध्यायः ॥ ३॥
आदित श्लोकानां समष्ट्यङ्काः = ४१८५ + ४९ = ४२३४
२.४ चतुर्थोऽध्यायः
व्यास उवाच ।
देवान्तकस्य चरितं श्रुतं भक्त्या तवाननात् ।
इदानीं वद मे ब्रह्मन् नरान्तकविचेष्टितम् ॥ १॥
क उवाच ।
शृणुष्वावहितो ब्रह्मन् सम्यक् सत्यवतीसुत ।
कथयिष्येऽधुना तत्तु दृष्ट्वा ते परमादरम् ॥ २॥
नरान्तको महीं गत्वा नानादैत्यगणान्वितः ।
चकार कदनं राज्ञां मारयामास काँश्चन ॥ ३॥
सर्वे तं शरणं याता दृष्ट्वा राज्ञो हतान् बहून् ।
यद्यत्सैन्यं पश्यति स्म तत् तद् याति दिशो दश ॥ ४॥
यथा ज्ञानेन चाज्ञानं यथा सूर्योदये तमः ।
एवं भूमण्डलं सर्वं वशे चक्रे नरान्तकः ॥ ५॥
ये तु तं शरणं यातास्तदीयत्वात्पदे स्थिताः ।
ये हतास्तत्सुतास्तेन स्थापिताः करदाः कृताः ॥ ६॥
ये तु यद्धोद्यता भूपास्तेऽपि सेवाकृतोऽभवन् ।
तेषां पदेषु दैत्यान् सोऽस्थापयत् स्वस्य सम्मतान् ॥ ७॥
पालयामास पृथिवीं समुद्रवलयाङ्किताम् ।
आतङ्कभारसन्तप्ता देवदानवकिन्नराः ॥ ८॥
मुनयोऽयुर्गिरिगुहां यज्ञ स्वाध्यायवर्जिताः ।
वेदत्यागस्य दोषेण मनसा चाभ्यसन् श्रुतीः ॥ ९॥
आतङ्काक्रान्तमनसो न तपस्यां च चक्रिरे ।
ततो नरान्तको दैत्यान् नागलोकजिगीषया ॥ १०॥
प्रास्थापयत् सुबलिनो नानामायाविशारदान् ।
ते तार्क्ष्यरूपाः संयाता बभक्षुरुरगोत्तमान् ॥ ११॥
असङ्ख्याता भक्षितास्तैस्ततः शेषो ययौ पुरः ।
मुक्ताफलानि रत्नानि सहनागाङ्गनायुतः ॥ १२॥
अनेकदिव्यवस्त्राणि प्रगृह्य रुचिराणि सः ।
तानि सर्वाणि दत्त्वैव साम चक्रेऽसुरैः सह ॥ १३॥
शासनं परिजग्राह नरान्तकसमीरितम् ।
करभारं वार्षिकं स स्वीचक्रेऽनन्तशीर्षकः ॥ १४॥
तथापि दैत्यस्तत्राप्यस्थापयद् दैत्यपुङ्गवम् ।
अनेक दैत्यसहितं सर्वाध्यक्षं रसातले ॥ १५॥
आज्ञापयामास च तं तत्रस्थं स नरान्तकः ।
यदैव विकृतिं पश्येरुरगाणां तदैव नः ॥ १६॥
दूतमुखात् सूचयस्व हनिष्यामोऽखिलानहीन् ।
इत्थं शिक्षाप्य तं ते तु दैत्याः सर्वे नरान्तकम् ॥ १७॥
मृत्युलोके स्थितं याता वृत्तान्तं सर्वमब्रुवन् ।
नरान्तकः सदाऽप्रेषीन् मृत्युपाताललोकजम् ॥ १८॥
देवान्तकाय वृत्तान्तं सर्वस्य यमनुष्ठितम् ।
उपायनानि सर्वाणि स्वर्लोके दुर्लभानि च ॥ १९॥
देवान्तकोऽथाऽप्रैषीत्तं दुर्लभं यच्च भूतले ।
एवं त्रैलोक्यराज्यं तौ चक्राते परया मुदा ॥ २०॥
सोमकान्त उवाच ।
कथमेतौ हतौ केन रूपेण तद् वदस्व मे ।
केनास्त्रेण च शस्त्रेण ह्यवतारेण केन च ॥ २१॥
भृगुरुवाच ।
एवमेव कृतप्रश्नो व्यासमूचे चतुर्मुखः ।
या कथां परया प्रीत्या तामेव त्वां ब्रवीम्यहम् ॥ २२॥
क उवाच ।
दुर्जयौ वरगर्वौ तौ येन रूपेण घातितौ ।
येनावतारेण मुनें येन शस्त्रेण चास्त्रतः ॥ २३॥
सम्प्राप्ता ब्रह्मणा लोका देवाश्च स्वपदे स्थिताः ।
तत्सर्वं कथयिष्यामि सादरं श्रूयतां मुने ॥ २४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे भूतलरसातलविजयोनाम चतुर्थोऽध्यायः ॥ ४॥
आदित श्लोकानां समष्ट्यङ्काः = ४२३४ + २४ = ४२५८
२.५ पञ्चमोऽध्यायः
ब्रह्मोवाच ।
ममैव मानसः पुत्रः कश्यपो बुद्धिमत्तरः ।
पुण्यवान् धर्मशीलश्च तपस्वी विजितेन्द्रियः ॥ १॥
अतिकारुणिको लोके दुःखशोकावमर्दनः ।
वर्तमानं भूतभावि जानाति मीलितेक्षणः ॥ २॥
मनसा सृष्टिसंहारकर्ता वेदान्तपारगः ।
सर्वशास्त्रार्थतत्त्वज्ञ समलोष्ठाश्मकाञ्चनः ॥ ३॥
अदितिर्यस्य ज्येष्ठाऽऽसीत्पत्नी नाम्नाऽतिवल्लभा ।
सर्वलक्षण सम्पूर्णाऽनुपमा सा त्रिविष्टपे ॥ ४॥
त्रिलोकीं भस्मसात् कर्तुं पातिव्रत्येन तेजसा ।
शेषो यस्या गुणान् वक्तुं नेशो वक्त्रसहस्रकैः ॥ ५॥
सेवन्ते यां सदा चाष्टनायिका गुणलब्धये ।
शक्रादि सुरवृन्दानि जनयामास याऽनघा ॥ ६॥
मूलप्रकृतिरूपा सा तादृग् रूपं समाश्रिता ।
सा कदाचित् स्वकं कान्तं मुदितं मुदिताऽब्रवीत् ॥ ७॥
स्वामिन् विज्ञप्तुमिच्छामि कृपां कृत्वा वदस्व तत् ॥ ८॥
पतिं विना न चान्याऽस्ति गतिः सद्योषितां प्रभो ।
कश्यप उवाच ।
सम्यगुक्तं त्वया भद्रे मम प्रीतिकरेऽनघे ॥ ९॥
तद् ब्रवीमी समापृच्छ यत्ते मनसि वर्त्तते ।
अदितिरुवाच ।
इन्द्रादयो देवगणाः स्वस्य पुत्रत्वमागताः ॥ १०॥
परमात्मा चिदानन्द ईश्वरो यः परात्परः ।
यदा स्वपुत्रतामेष्येत् तदा मे स्यात्स्थिरं मनः ॥ ११॥
तस्य सेवां कर्तुमीहे उपायं तत्र मे वद ।
येन स पुत्रतामेष्येत् कृतकृत्यं मनो भवेत् ॥ १२॥
मुनिरुवाच ।
साधु प्रोक्तं महाभागे वचनं परितोषकम् ।
यथा जलं तृषार्तस्य क्षुधितस्य च भोजनम् ॥ १३॥
तथा मे वचनं जातं तव देवि सुतोषकृत् ।
विना पुण्यं कथं यायात्परमात्मा स्वपुत्रताम् ॥ १४॥
तत्रोपायं वदे तं च हृदि कुरु स्थिरं प्रिये ।
योऽगोचरः श्रुतीनां च ब्रह्मादीनामगोचरः ॥ १५॥
निर्गुणो निरहङ्कारो निरीहो निर्विकल्पकः ।
योऽमायाविषयो मायानर्तको मायिमोहनः ॥ १६॥
मायातीतोऽपि मायाया आधारः कारणातिगः ।
मायाविस्तारकारी च कार्यकारणकारणम् ॥ १७॥
कथं साकारतां गच्छेदनुष्ठानं विना प्रिये ।
अदितिरुवाच ।
कस्य ध्यानं कथं कार्यमनुष्ठानं मयाऽधुना ॥ १८॥
केन मन्त्रेण वा कुर्वे तद् वदस्व महामुने ।
क उवाच ।
एवं पृष्टो मुनिस्तस्यै नाममन्त्रं समादिशत् ॥ १९॥
पञ्चाक्षरं चतुर्थ्यन्तमोङ्कारपल्लवान्वितम् ।
नमोऽन्तं ध्यानसहितं न्यासदैवतसंयुतम् ॥ २०॥
पुरश्चरणमार्गं च सर्वं तस्यै न्यवेदयत् ।
ततः सा मुदिता ब्रह्मन् प्रणिपातपुरःसरम् ॥ २१॥
कश्यपं निजभर्तारं पूजयामास सादरम् ।
तदनुज्ञां समादाय जगाम तपसे वनम् ॥ २२॥
स्नाता पवित्रवसना ध्यायन्ति स्थिरचेतसा ।
विनायकं देवदेवं न्यासं कृत्वा यथाविधि ॥ २३॥
स्थाने द्रुमलताकीर्णे निर्वाते निरुपद्रवे ।
अदिती रुद्धकरणा शुभासनपरिग्रहा ॥ २४॥
जजाप परमं मन्त्रं स्मरन्ती सा विनायकम् ।
अनन्यवृत्ति मनसा साक्षात्कारमभीप्सती ॥ २५॥
निराहारा वायुभक्ष्या जपध्यानपरायणा ।
तस्यास्तपः प्रभावेन निर्वैराः प्राणिनोऽभवन् ॥ २६॥
धर्षिता देवताः सर्वाः किमियं साधयिष्यति ।
एवं वर्षशतं तेपेऽदितिः सा परमं तपः ॥ २७॥
क्लेशान् बहुविधांस्तस्या दृष्ट्वा देवो विनायकः ।
स्त्रीभावे च तथा धैर्यमाविरासीद् विनायकः ॥ २८॥
तेजोराशिः पुरस्तस्याः सूर्यकोटिसमप्रभः ।
गजाननो दशभुजो कुण्डलाभ्यां विराजितः ॥ २९॥
कामातिसुन्दरतनुः सिद्धिबुद्धिसमायुतः ।
मुक्तामालां च परशुं बिभद् यो मेघपुष्पजम् ॥ ३०॥
काञ्चनं कटिसूत्रं च तिलकं मृगनाभिजम् ।
उरगं नाभिदेशे तु दिव्याम्बरविराजितम् ॥ ३१॥
महोराशिं पुरो दृष्ट्वा च कम्पे त्वदितिर्भृशम् ।
निमील्य नयने मूर्छामियाय न्यपतद्भुवि ॥ ३२॥
जपं ध्यानं विसस्मार चिन्तयामास चेतसा ।
किमागतं मम पुरो भाव्यं किमिदमद्भुतम् ॥ ३३॥
विस्मृताऽहं जपं ध्यानं किं वाऽयं परमेश्वरः ।
वरं दातुं समायातो महसा भासयन्दिशः ॥ ३४॥
एवं सा विव्हला यावत् तावद् देवो जगाद ताम् ।
विनायक उवाच ।
सोऽहं देवि दिवारात्रौ यं ध्यायसि च चेतसा ॥ ३५॥
दृष्टवा निष्ठां तपो घोरं वरं दातुमुपस्थितः ।
वरयस्व वरान् मत्तो यान् यान् कामयसे हृदा ॥ ३६॥
ताँस्तान् दास्यामि सन्तुष्टस्तपसाऽनेन सुव्रते ।
क उवाच ।
तदीयं वाक्यमाकर्ण्य स्वस्था जाताऽदितिस्तदा ॥ ३७॥
बद्धाञ्जलि पुटा दीना प्रणनाम विनायकम् ।
अवदच्च तदा देवमतर्क्यं मनसा सदा ॥ ३८॥
अदितिरुवाच ।
त्वमेव सृजसे विश्वं प्रासि हंस्यखिलेश्वरः ।
नित्यो निरञ्जनो देवो निर्गुणो निरहङ्कृतिः ॥ ३९॥
नानारूपधरो नित्यो योगगम्योऽखिलार्थकृत् ।
इदानीं सौम्यरूपेण वरं देहि विनायक ॥ ४०॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तदा मे पुत्रतां याहि ततो मे कृतकृत्यता ॥ ४१॥
ततस्ते सेवनं यास्ये साधूनां पालनं भवेत् ।
दुष्टानां निधनं देव लोकानां कृतकृत्यता ॥ ४२॥
विनायक उवाच ।
अहं ते पुत्रतां यास्ये पास्ये साधूंश्च कण्टकान् ।
हनिष्ये सकलां वाञ्छां पूरयिष्ये तवापि च ॥ ४३॥
क उवाच ।
एवमुक्त्वाऽन्तर्दधेऽसौ देवदेवो विनायकः ।
साऽदितिः कश्यपं गत्वा सर्व वृतान्तमब्रवीत् ॥ ४४॥
अदितिरुवाच ।
तवाज्ञया गताऽरण्यं तपस्तप्तं महत्तरम् ।
वरं दातुं महोरूप आगतोऽसौ गजाननः ॥ ४५॥
दृष्ट्वा स्वरूपं भीताऽस्मि ततो प्रार्थि विनायकः ।
तेन नानाविधा दत्ता वरा मे मुनिसत्तम ॥ ४६॥
यास्ये पुत्रत्वमित्युक्त्वाऽन्तर्दधेऽसौ विनायकः ।
सिद्धकार्या तव बलादागता स्वाश्रमं मुने ॥ ४७॥
क उवाच ।
इति तस्या वचः श्रुत्वा वरदानं सुधोपमम् ।
जहर्ष मुनिमुख्योऽसौ तया सह मुनीश्वर ॥ ४८॥
रेमाते परयप्रीत्या ह्यमृतादिव निर्वृतौ ॥ ४९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे अदितिवरप्राप्तिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५॥
आदितः श्लोकानां समष्ट्यङ्काः ४२५८ + ४९ = ४३०७
२.६ विनायकार्भावोनाम षष्ठोऽध्यायः
भृगुरुवाच ।
अथ सा मेदिनी दुष्टदैत्यभारप्रपीडिता ।
वेषान्तरं समस्थाय जगाम कमलासनम् ॥ १॥
दीना हस्ताञ्जलिं बद्धवा जगाद पद्मसम्भवम् ।
भूमिरुवाच ।
जाताऽहं मलिना दीना हीना यज्ञव्रतादिभिः ॥ २॥
स्थानभ्रष्टास्तथा देवाः सेन्द्राः सर्षिगणा विधे ।
अतिभाराऽतिसन्तप्ता कं त्वाऽहं शरणं गता ॥ ३॥
येनोपायेन दुष्टानां नाशः स्यात् तद्विधीयताम् ।
नो चेद् रसातलं यास्ये सपर्वतजनाकुला ॥ ४॥
भृगुरुवाच ।
इति वाक्यं धरित्र्याः स श्रुत्वा कस्तामथाब्रवीत् ।
अहं सर्वे लोकपाला इन्द्राद्या देवतागणाः ॥ ५॥
ऋषयोऽपि स्वधास्वाहारहिता दुःखिताभृशम् ।
भ्रष्टस्थाना भ्रष्टमन्त्रा भ्रष्टाचारा यथालये ॥ ६॥
सर्वे वयं प्रार्थयामो देवदेवं विनायकम् ।
ब्रह्मरूपं निराकारं जगत्कारणकारणम् ॥ ७॥
यदा साकारतां यायाल्लोकानां दैवयोगतः ।
तदा शं सर्वलोकानां स्यात् तवापि वसुन्धरे ॥ ८॥
भृगुरुवाच ।
इत्युक्त्वा तुष्टुवुर्देवं ब्रह्माद्यर्षिगणा मुदा ।
निराकारं च साकारं बद्धाञ्जलिपुटास्तदा ॥ ९॥
नमो नमस्तेऽखिल लोकनाथ नमो नमस्तेऽखिल लोकधामन् ।
नमो नमस्तेऽखिललोककारिन् नमो नमस्तेऽखिललोकहारिन् ॥ १०॥
नमो नमस्ते सुरशत्रुनाश नमो नमस्ते हृतभक्तपोष ।
नमो नमस्ते निजभक्तिपोष नमो नमस्ते लघुभक्तितोष ॥ ११॥
निराकृते नित्यनिरस्तमाय परात्परब्रह्ममयस्वरूप ।
क्षराक्षरातीत गुणैर्विहीन दीनानुकम्पिन् भगवन् नमस्ते ॥ १२॥
निरामयायाखिलकामपूर । निरञ्जनायाखिलदैत्यदारिन् ।
नित्याय सत्याय परोपकारिन् समाय सर्वत्र नमो नमस्ते ॥ १३॥
एवं स्तुत्वा पुनः प्रोचुर्देवदेवं विनायकम् ।
ते सर्वे मुनयो देवा विव्हला भृशदुःखिताः ॥ १४॥
हाहाभूतं जगत्सर्वं स्वधास्वाहाविवर्जितम् ।
वयं मेरुगुहां याता आरण्याः पशवो यथा ॥ १५॥
अतोऽमुं त्वं महादैत्यं जहि विश्वम्भराऽधुना ।
एवं स्तुवत्स्तु सर्वेषु प्राहं वाणी नभोगता ॥ १६॥
कश्यपस्य गृहे देवोऽवतिरिष्यति साम्प्रतम ।
करिष्यत्यद्भुतं कर्म पदानि वः प्रदास्यति ॥ १७॥
दुष्टानां निधनं चैव साधूनां पालनं तथा ।
भृगुरुवाच ।
एवमाकर्ण्य तां वाचं ब्रह्मा प्रोवाच मेदिनीम् ॥ १८॥
क उवाच ।
स्वस्था भव धरे देवि नभोवाणीविनिश्चयात् ।
देवाः सर्वे मृत्युलोकेऽवतरिष्यन्ति त्वत्कृते ।
हरिष्यति महाभारमवतीर्णो विनायकः ॥ १९॥
भृगुरुवाच ।
इत्युक्त्वा सा तदा तेन ब्रह्मणा हृष्टमानसा ।
स्वस्थानमगमत् साऽथ स्वस्थचित्ता धरा तदा ॥ २०॥
ततो बहुतिथे कालेऽदितिः सा गर्भमादधे ।
तेजोऽतिववृधे तस्या दिने दिने यथा शशी ॥ २१॥
सम्पूर्णे नवमे मासे सुषुवे पुत्रमुत्तमम् ।
ब्रह्मवाक्यादभूत्ख्यातो नाम्ना कश्यपनन्दनः ॥ २२॥
दशभुजो बहुबलः कर्णकुण्डलमण्डितः ।
कस्तुरी विलसद्भालो मुकुटभ्राजिमस्तकः ॥ २३॥
सिद्धिबुद्धियुतः कण्ठे रत्नमालाविभूषितः ।
चिन्तामणिलसद्वक्षा जपापुष्पारुणाधरः ॥ २४॥
उन्नसो भृकुटीचारूललाटो दन्तदीप्तिमान् ।
देहकान्त्या हततमा दिव्याम्बरयुतः शुभः ॥ २५॥
एतादृशं निरीक्ष्यैनं बालं तत्पितरौ तदा ।
तत्तेजसा हतदृशौ किञ्चिद् द्रष्टुं न शेकतुः ॥ २६॥
बलादुन्मील्य नयने दृष्ट्वा तद्रूपमुत्तमम् ।
ननन्दतुरुभौ पश्चाद् बालस्ताविदमब्रवीत् ॥ २७॥
बाल उवाच ।
मातस्त्वया यतः पूर्वं सहस्रपरिवत्सरम् ।
येन रूपेण सन्ध्यातस्तनयत्वेन याचितः ॥ २८॥
तदा नानावरान् दत्वा पुत्रत्वं ते गतोऽधुना ।
सोऽहं भूभारहरणं विधास्ये सेवनं द्वयोः ॥ २९॥
ब्रह्मादीनां पदप्राप्तिर्दुष्टदैत्यविनाशनम् ।
भृगुरुवाच ।
इत्थमाकर्ण्य तद्वाक्यं सानन्दाश्रू बभूवतुः ॥ ३०॥
चक्रवाकौ यथा वीक्ष्य नभसीव दिवाकरम् ।
ऊचतुस्तं तदा पुण्यमद्भुतं नौ समुद्यतम् ॥ ३१॥
येन नौ पुत्रतां यातः परमात्मा विनायकः ।
धन्यं कुलं नौ पितरौ जनुषी ज्ञानमेव च ॥ ३२॥
यतश्चराचरगुरुः सर्वसाक्षी निराकृतिः ।
नित्यानन्दमयः सत्यः पुत्रत्वमगमच्छुभम् ॥ ३३॥
यस्मिंश्चराचरं प्रोतं सूत्रे मणिगणा इव ।
यः सर्वगः सर्ववेत्ता स एव त्वं न संशयः ॥ ३४॥
इदं रूपं परं दिव्यमुपसंहर साम्प्रतम् ।
प्राकृतं रूपमास्थाय क्रीडस्व कुहको यथा ॥ ३५॥
यदा यद्रूपकृत्यं ते तदा तत्त्वं विधास्यसि ।
इत्थमाकर्ण्य तद्वाक्यं पिदधे रूपमात्मनः ॥ ३६॥
द्विभुजः प्राकृतो बालो रुरोद धरणीतले ।
रसातलं च गगनं नादयन्विदिशो दिशः ॥ ३७॥
तच्छब्द श्रवणाद् बन्ध्या जाता गर्भवती द्रुमाः ।
नीरसा सरसाः शक्रो जहृषे देवतागणैः ॥ ३८॥
भयं बभूव दैत्यान्ना ववृधे धरणी तदा ।
चकार जातकर्माऽस्य कश्यपो ब्राह्मणैः सह ॥ ३९॥
प्राशयित्वा मधु घृतं पस्पर्श मन्त्रतश्च तम् ।
अपाययत् स्तनौ बालं मन्त्रपाठपुरःसरम् ॥ ४०॥
छित्वा नालं तु सङ्क्षाल्य बालं प्रास्वापयच्च सा ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो मुनिस्तदा ॥ ४१॥
अदापयत् प्रतिगृहं सप्तमे दिवसेऽदितिः ।
इक्षुसारं पञ्चमे तु वायनानि महामुदा ॥ ४२॥
महोत्कटेति नामास्य चक्र एकादशे पिता ।
बालोऽपि ववृधे शीघ्रं शुक्लपक्षे यथा शशी ॥ ४३॥
सर्वेभ्य उत्कटो यस्मान् महोत्कट इति स्मृतः ॥ ४४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाविर्भावोनाम षष्ठोऽध्यायः ॥ ६॥
आदित श्लोकानां समष्ट्यङ्काः ४३०७ + ४४ = ४३५१
२.७ विरजाराक्षसीमोक्षणं नाम सप्तमोऽध्यायः
ब्रह्मोवाच ।
वसिष्ठ वामदेवाद्या मुनय स्तनयं तदा ।
जातं महोत्कण्ट श्रुत्वा दर्शनाय प्रतस्थिरे ॥ १॥
याता गृहं कश्यपस्य तेनाऽथ परिपूजिताः ।
विष्टरं पाद्यमर्घ्यं च दत्त्वा गां चापि दक्षिणाम् ॥ २॥
बद्धाञ्जलिपुटोऽवोचद् धन्योऽहं पितरौ तपः ।
यदिन्द्रहरिपूज्यं वः पादपद्मं मयेक्षितम् ॥ ३॥
कञ्चिदागमने हेतुं ज्ञातुमीहे तपोधनाः ।
तेषां मध्ये श्रेष्ठतमो वसिष्ठः प्राह तं मुनिम् ॥ ४॥
वसिष्ठ उवाच ।
श्रुतस्ते तनयो ब्रह्मन् नारदात् सुमहोत्कटः ।
तं दृष्टुं त्वां च सम्प्राप्ता नान्यत् किञ्चित् प्रयोजनम् ॥ ५॥
क उवाच ।
तत्कालं साऽदितिर्बालं दृष्टुं तेषामथानयत् ।
उत्कटान्येष कर्माणि करिष्यति महोत्कटः ॥ ६॥
द्वात्रिंशल्लक्षणयुतो वसिष्ठः प्राह तं मुनिम् ।
अवतीर्णो महातेजाः परमात्मा विनायकः ॥ ७॥
अनेकान्यस्य विघ्नाति भविष्यन्ति महामुने ।
तानि सर्वाणि नश्यन्ति रक्षणीयः क्षणेक्षणे ॥ ८॥
यतोऽस्य रक्तौ चरणौ ध्वजाङ्कुशविराजितौ ।
ततः सम्पूजयामास मुनिः कश्यपनन्दनम् ॥ ९॥
प्रार्थयामास सर्वैस्तं भूभारहरणं कुरू ।
साधूनां पालनं देव दुष्टदानवघातनम् ॥ १०॥
ते सर्वे मुनयो जग्मुस्तं प्रणम्य यथागतम् ।
ततः स ख्यातिमगमन्नाम्ना कश्यपनन्दनः ॥ ११॥
एकस्मिन्दिवसे प्रातः स्नातुं याते मुनौ बहिः ।
अस्वापयत् स्वतनयमदितिर्गृहमाययौ ॥ १२॥
चकार यज्ञसम्भाराँस्तावदेका निशाचरी ।
विरजेत्यभिविख्याता विकरालक्षेणानना ॥ १३॥
हलदन्ती दरीनासा पादचूर्णितभूधरा ।
दीर्घस्तनी ललज्जिव्हा गोपुरस्पर्द्धिसद्भगा ॥ १४॥
जग्राह बालकं सा तु सर्वभक्ष्या निशाचरी ।
क्षुधिताऽभक्षयच्छीघ्रं पक्वं रम्भाफलं यथा ॥ १५॥
शनैर्जगाम गगनं जलं पातुं भुवं ययौ ।
पपौ जलं बहुतरं पपात पृथुलोदरा ॥ १६॥
मूर्च्छामवाप महतीं सर्पदष्टो नरो यथा ।
लुलोल धरणी पृष्ठे महाशूलवती यथा ॥ १७॥
मुञ्चे मुञ्चेति जल्पन्ती पदं गन्तुमथाऽक्षमा ।
हाहाकारं प्रकुर्वती घ्नति वक्षः शिरोमुखम् ॥ १८॥
तावद्देहान्तरे तस्या ववृधे मुनिनन्दनः ।
विदार्य जठरं तस्या वक्षस्येव स्थितोऽभवत् ॥ १९॥
यथा जालं विदार्यैव बहिर्याति महाझषः ।
सा तदैवमारावं कृत्वा प्राणान्जहौ खला ॥ २०॥
चूर्णयामास देहेन पञ्चयोजनगान् द्रुमान् ।
विरजा विरजास्तेन प्रापिता निजधाम सा ॥ २१॥
दृष्टे स्पृष्टे कृपासिन्धौ जगदीशे कथं भवेत् ।
ज्ञानदे मोक्षदे नॄणामावृत्तिर्भवसागरे ॥ २२॥
अदितिर्गृहकार्याणि सम्पाद्य बहिरागता ।
न ददर्श तदा बालं रुरोद भृशदुःखिता ॥ २३॥
गृहे गृहे निरिक्ष्यैव नालभत् क्वापि बालकम् ।
ततोऽपतद्धरापृष्ठे हाहाकारं प्रकुर्वती ॥ २४॥
अन्याश्च रुरुदुस्तस्याः श्रुत्वा रोदनमुच्चकैः ।
आश्चर्यं परमं चक्रुः सर्वलोका भयातुराः ॥ २५॥
सा शुष्कवदना दीना विललाप मुहुर्मुहुः ।
मुखञ्च साञ्जने नेत्रे मृजन्त्यश्रुजलाकुले ॥ २६॥
कल्पद्रुम इव प्राप्तः केन नीतो ममार्भकः ।
वरदानं कथं तस्य वृथा स्याज्जगदीशितुः ॥ २७॥
दत्तं निधानं देवेन केन नीतं दुरात्मना ।
कथं मूढतरा जाता लब्धविज्ञानसागरा ॥ २८॥
कथं दरिद्रा जाताऽहं लब्ध्वा काञ्चनपर्वतम् ।
एवं विलपती वक्षो घ्नती साप्याननं शिरः ॥ २९॥
आश्रमाद्बहिरागच्छत् क्रोशमात्रं निशाचरीम् ।
ददर्श पतितां तस्य वक्ष्यस्येव च तं शिशुम् ॥ ३७॥
क्रीडन्तं हास्यवदनं प्रबुद्धमिव कामिनम् ।
धावमाना तमादायाऽऽलिलिङ्ग च चुचुम्ब च ॥ ३१॥
उवाचाऽऽनन्दपूर्णा सा महद्भाग्यं ममाऽधुना ।
यद् राक्षसीशयान्मुक्तो बालको दैवयोगतः ॥ ३२॥
ययौ स बाला स्नात्वा सा निजमाश्रममण्डलम् ।
वृत्तान्तं सर्वमाचष्टे श्रुत्वा सोऽप्याह कश्यपः ॥ ३३॥
भूतभावि विशेषज्ञैरुक्तं यन्मुनिभिः प्रिये ।
तदेतत् सत्यमभवत् तदाशीर्वचनादयम् ॥ ३४॥
जीवितोऽखिलभक्ष्याया बालकः पुण्ययोगतः ।
ततो रक्षां चकाराऽसौ ददौ दानान्यनेकशः ॥ ३५॥
शान्तिकं कारयामास स्वस्तिवाचनपूर्वकम् ।
क्षणमात्रं न हातव्योऽदितिमेव समादिशत् ॥ ३६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विरजाराक्षसीमोक्षणं नाम सप्तमोऽध्यायः ॥ ७॥
आदितःश्लोकानां समष्ट्यड्काः - ४३५१ + ३६ = ४३८७
२.८ नक्रमोक्षणं नाम अष्टमोऽध्यायः
क उवाच ।
विरजां निहतां श्रुत्वा राक्षसीं बलवत्तराम् ।
उद्धतो धुन्धुरश्चापि राक्षसौ बलवत्तरौ ॥ १॥
आगतावाश्रमपदं कश्यपस्य महात्मनः ।
शुकरूपधरौ बालो दृष्ट्वा प्रोचेऽदितिं तदा ॥ २॥
त्यक्त्वा स्तनं दीयतां मे उभौ रन्तुं शुकाविमौ ।
सोचे तं खगमौ शक्यौ भूगया न स्त्रिया क्वचित् ॥ ३॥
अथापि धर्तुं याता चेदुड्डीयैतौ गमिष्यतः ।
कटेरुत्तीर्य जग्राह बालस्तौ श्येनवत्तदा ॥ ४॥
पक्षाघातेन चञ्च्वा च जघ्नतुस्तौ भृशं च तम् ।
तावदास्फालयत् सोऽपि तौ बलेन धरातले ॥ ५॥
जहतुस्तौ तदा प्राणान् निजरूपधरावुभौ ।
तद्देहभारभीत्या भूर्भृशं विव्हलिताऽभवत् ॥ ६॥
भग्नवृक्षौ सनिनदौ देहौ निपतितौ तयोः ।
गव्यूतिमात्रं तौ दृष्टवाऽदितिस्तं पुनरग्रहीत् ॥ ७॥
शरीरे ददृशे तेन मुनिना विस्तृते तयोः ।
छित्त्वा ददाह तौ लोकः काष्ठसञ्चययोगतः ॥ ८॥
चकाराद्भुतशान्तिं च बालकाभ्युदयेच्छया ।
आश्चर्यं परमं चक्रे शिशोर्दष्ट्वा पराक्रमम् ॥ ९॥
उवाच परमप्रीतोऽदितिं पुत्रयुतां तदा ।
यौ न देवेन शक्रेण न हतौ राक्षसेश्वरौ ॥ १०॥
शुकरूपधरावेतौ लीलया शिशुना हतौ ।
अदितिं च चुकोपाऽसौ किमर्थं मोचितस्त्वया ॥ ११॥
रक्षितो जगदीशेन क्वायुष्यं नास्य विद्महे ।
अविस्मरो रक्षणीयो बालोऽयं यत्नतःसति ॥ १२॥
कथं च निहतावेतौ गिरिसारौ निशाचरौ ।
निशाचरस्थलमिदं कथं जीवेच्छिशुर्मम ॥ १३॥
क उवाच ।
उक्त्वा परस्परं तौ तु स्नाप्य बालं तथाविधम् ।
स्नात्वा सुषुपतुस्तत्र दम्पत्ती विस्मयान्वितौ ॥ १४॥
ततश्चतुर्थे वर्षे स स्वाश्रमात् परतो ययौ ।
कासारं जलजैर्युक्तं नक्रमत्स्यगणैर्युतम् ॥ १५॥
तमालवृक्षसरलजम्ब्वाम्रपनसान्वितम् ।
नानावृक्षलताकीर्णं फलपुष्पसुशोभितम् ॥ १६॥
नानापक्षिगणाकीर्णं नानामुनिगणान्वितम् ।
अति स्वच्छजलं रम्यं सुजनस्येव मानसम् ॥ १७॥
व्यतीपाते सोमवत्यां स्नातुं तत्रादितिर्ययौ ।
उपवेश्य स्वकं बालमाकण्ठं जलगाऽभवत् ॥ १८॥
बाल उड्डीय तां गन्तुं जलमध्ये पपात ह ।
चिक्रीड स जले यावत् तावन्नक्रो दधार तम् ॥ १९॥
धाव धावेति जननी चुक्रोश जलमध्यगा ।
आगत्य जननी बालं गृहीतुं नैव चाशकत् ॥ २०॥
आकृष्यते जले तेन जनन्याः बहिरेव सः ।
स नक्रो बालसहितां दूरे दूरे चकर्ष ह ॥ २१॥
बालोऽवदत् ततस्तां स न मोच्योऽहं सुतस्त्वया ।
सह त्वया सहैवाऽहं मरिष्ये न बलं मम ॥ २२॥
दृष्ट्वा स बालामाकण्ठमग्नां तां विव्हलां भृशम् ।
निष्कासितुं बलाच्छिष्या उड्डीय पतिता वने ॥ २३॥
तस्माद्बलवतो नक्रात् तेऽपि शक्ता न चाभवन् ।
ततोऽत्यन्तं बलं तस्य दर्शयामास बालकः ॥ २४॥
लीलयैव तदा नक्रं पृथिव्यां जलतोऽक्षिपत् ।
वायुर्यथा फलं पक्वं ग्रावाणं बालको यथा ॥ २५॥
शरीरं दृश्यते तस्य विशीर्णं पतितं भुवि ।
गतचेष्टं गतप्राणं योजनायतमद्भुतम् ॥ २६॥
सबाला सह शिष्यैः सा मुदं प्राप्ताऽदितिस्तदा ।
ततो दिव्यवपुश्चित्रगन्धर्वस्तमुवाच ह ॥ २७॥
अहमासं पुरा राजा गन्धर्वाणां गजानन ।
विवाहे सर्वगन्धर्वा मम गेहमुपागताः ॥ २८॥
पूजिताः परया भक्त्या न भृगुः पूजितो मया ।
वैवाहिकानि कार्याणि कुर्वता कुपितो मुनिः ॥ २९॥
शशाप मां नक्रवरो भविष्यसि सरोगतः ।
समाकर्ण्य मुनेः शापमुपशापं तमर्थयम् ॥ ३०॥
ततो भृगुरुवाचेत्थं यदा कश्यपनन्दनः ।
गजाननः स्पृशेत् त्वान्तु तदा स्वं वपुराप्स्यसि ॥ ३१॥
इदानीमसि विज्ञातो बालरूपी गजाननः ।
त्वमेव जगतां नाथः कर्ता पाताऽपहारकः ॥ ३२॥
निर्गुणो निरहङ्कारः सदसत्कारणं परम् ।
नानावतारैर्भक्तानां पालको दुष्टनाशनः ॥ ३३॥
सर्वव्यापी पूर्णकामोऽनेकब्रह्माण्डनायकः ।
मुनीनामप्यगम्यस्त्वं मनोवागनिरूपितः ॥ ३४॥
इति स्तुत्वा च नत्वा च सम्पूज्य बालरूपिणम् ।
गजाननं प्रयातोऽसौ कृत्वा प्रदक्षिणां मुहुः ॥ ३५॥
अदितिर्बालकं गृह्य लालयित्वा स्तनं ददौ ।
आश्चर्यमानसा याता प्रसन्ना निजमन्दिरम् ॥ ३६॥
प्रणम्य कश्यपं सर्व वृत्तान्तं समभाषत ।
स विस्मितोऽब्रवीच्चैनामयन्त्तु परमेश्वरः ॥ ३७॥
लीलाविग्रहवान् मन्ये मानुषं देहमाश्रितः ।
अत्यद्भुतानि चान्यानि कर्माण्येष करिष्यति ॥ ३८॥
देवासुरैरशक्यानि द्रष्टव्यानि प्रसादतः ।
अस्मिन् भक्तिर्दृढा कार्या जनैरात्महितेप्सुभिः ॥ ३९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नक्रमोक्षणं नाम अष्टमोऽध्यायः ॥ ८॥
आदितः श्लोकानां समष्ट्यङ्काः - ४३८७ + ३९ = ४४२६
२.९ बालचरिते हाहादिस्तुतिर्नाम नवमोऽध्यायः
क उवाच ।
अन्यन् ते कथयिष्यामि चरितं बालरूपिणः ।
गजाननस्याघहरं शृणुष्वेकमना मुने ॥ १॥
एकस्मिन् समये हाहा हूहूस्तुम्बुरुरेव च ।
वीणागानरता वीणास्ता हरिपरायणाः ॥ २॥
शङ्खचक्रगदापद्मतुलसीदामभूषणाः ।
गोपीचन्दनलिप्ताङ्गाः पीताम्बरधराः शुभाः ॥ ३॥
कैलासं गन्तुकामास्ते कश्यपस्याश्रमं ययुः ।
अतिसम्मानितास्तेन पूजिताश्च यथाविधि ॥ ४॥
उवाच प्रणतस्तान् सोऽनायासेन सतां दृशिः ।
केन पुण्येन सञ्जाता धर्मार्थकाममोक्षदा ॥ ५॥
धन्यं तपो जनिर्मातापितरौ ज्ञानमाश्रमः ।
प्रयोजनं न जानेऽहं चलने तद् वदन्तु मे ॥ ६॥
इति तद्वचनं श्रुत्वा सम्पृष्टास्ते तमब्रुवन् ।
कैलासं गन्तुकामानां जातं त्वद्दर्शनं हि नः ॥ ७॥
दुरितं विलयं यातं जातं च सफलं जनुः ।
अदूरे परमा सिद्धिर्विश्रान्तिः परमा च नः ॥ ८॥
अनुजानीहि गच्छामो गिरीशं द्रष्टुमुत्सुकाः ।
श्रुत्वा वाक्यानि तेषां तु पुनरूचे तपोनिधिः ॥ ९॥
भुक्त्वा व्रजन्तु विश्राम्याप्यभुक्त्वेतो न को गतः ।
मज्जनाय जलं तेभ्यो दत्त्वा पाकमकारयत् ॥ १०॥
देवार्चनरताः स्नात्वा बभूवुर्मुनिसत्तमाः ।
तेऽपि सम्पूज्य शर्वाणी शर्वं विष्णुं विनायकम् ॥ ११॥
रविं विष्णुमयं ध्याननिष्ठा आसन् मुहूर्ततः ।
तदा विनायको बालो रमित्वा बालकैर्बहिः ॥ १२॥
आगतोऽन्तर्गृहं तावत् पञ्चमूर्त्तिं ददर्श सः ।
गृहीत्वा बहिरेवाशु चिक्षेपाग्निगृहं ययौ ॥ १३॥
भस्माङ्गराङ्ग सर्वत्र कृत्वा लीनोऽभवच्च सः ।
विसृज्य ध्यानं नापश्यन् मूर्तीस्ते पुरतः स्थिताः ॥ १४॥
ततस्ते विस्मिताः सर्वे परस्परमथाब्रुवन् ।
केन दैत्येन नीता नो मूर्तयः कर्महेतवः ॥ १५॥
गन्धर्वा राक्षसा यक्षा नेतुं मूर्तीः किमागताः ।
किं वा सत्त्वपरीक्षार्थमन्तर्धानं गता इमाः ॥ १६॥
ततः क्रोधेन महता कश्यपं प्रष्टुमागताः ।
भवद्गृहे कथं ध्याननिष्ठानां मूर्तयो गताः ॥ १७॥
क्रीडन्ति जातिवैरास्त आश्रमे इतरेतरम् ।
देवा बिभ्यति तत् कस्मादाश्रमे दस्यवःस्थिताः ॥ १८॥
इति श्रुत्वा वचस्तेषां कश्यपोऽतिरुषान्वितः ।
अभोजिनो विनिश्चित्य मूर्तिप्राप्तिं विना च तान् ॥ १९॥
ततः शिष्यान् समाकार्य कश्यपो मुनिसत्तमः ।
तानुवाच न मे जन्मावध्यत्र तस्करोऽभवत् ॥ २०॥
दैवादिदानीं को जातो दस्युस्तत्र वदन्तु मे ।
क्रोधवाक्यं निशम्येत्थमूचुः शिष्या गुरुं प्रति ॥ २१॥
न वयं तस्कराः स्वामिन्पुत्रस्ते विदितस्तव ।
दोषानुवर्णने दोषा अस्माकं तन्न चक्ष्महे ॥ २२॥
तेषां ब्राह्मीं समाकर्ण्य यष्टिहस्तो मुनिस्तदा ।
पुत्रमन्वेषयन् यातो वन्ह्यागारे ददर्श तम् ॥ २३॥
तेषां पुरः समानीतो दृष्टस्तैः शिवसन्निभः ।
उवाच तत्समक्षं तं कश्यपः क्रोधसन्निभः ॥ २४॥
मूर्तीरानय शीघ्रं त्वं नो चेत्पुत्र मरिष्यसि ।
मया न नीतास्तास्तात प्रत्युवाच स निर्भयः ॥ २५॥
ब्रवीषि शपथं यं यं तं तमेव करोम्यहम् ।
एवं वदन् पितुर्भीत्या रुरोद भृशमर्भकः ॥ २६॥
प्रसार्य वदनं भूमौ पतितोभृशविव्हलः ।
जननी च तदा याता तामुवाच ततोऽर्भकः ॥ २७॥
यदि मे भक्षिता देवास्तर्ह्यास्ये दृश्यतां मम ।
प्रसारिते तदास्ये सा ददर्श विश्वमन्तरा ॥ २८॥
विस्मिता मूर्छिता भूमौ पतिता भयविव्हला ।
ततस्ते ददृशुस्तत्र गन्धर्वाः कश्यपोऽपि च ॥ २९॥
कैलासं शङ्करं साङ्गं वैकुण्ठं विष्णुमेव च ।
ब्रह्माणं सत्यलोकं च शक्रं चैवामरावतीम् ॥ ३०॥
सपर्वतवनाकीर्णां धरणीं लोकसंयुताम् ।
सरितः सागरान्यक्षान् रक्षांसि पन्नगानपि ॥ ३१॥
वृक्षान्पक्षिगणांश्चैव भुवनानि चतुर्दश ।
इन्द्रादि सर्वलोकांश्च पातालानि दिशोदश ॥ ३२॥
ततो माता प्रबुद्धा सा स्तनपानं ददौ मुदा ।
ननाम कश्यपस्तं तु दृष्ट्वेत्थं विश्वरूपिणम् ॥ ३३॥
तर्कयामास मनसि साक्षादीश्वर एव यः ।
अवतीर्णो मम गृहें तमहं ताडितुं गतः ॥ ३४॥
ततः स कश्यपः प्राह भुज्यतामिति तान्प्रति ।
नायं बालस्ताडयितुं मया शक्यो महाबलः ॥ ३५॥
भीषयन्तूग्ररूपेण समष्टिव्यष्टिरूपवान् ।
भवतां यदि शक्तिश्चेत्ताड्यतां मूर्त्तिहेतवे ॥ ३६॥
त ऊचुर्न वयं किञ्चिद् भक्षयामस्तवालये ।
अन्नं वा कन्दमूलादि पञ्चायतनमन्तरा ॥ ३७॥
इत्युक्तवन्तो ददृशुर्बालकं पञ्चधाऽपिते ।
शिवाशिवेनविशेभाननरूपं तमेव हि ॥ ३८॥
प्रणेमु स्थिरचित्तास्ते पुपूजुस्तुष्टुवुर्जगुः ।
क्षणं ते ददृशुर्बालं क्षणं पञ्चस्वरूपिणम् ॥ ३९॥
क्षणं महाभीतिकरं क्षणं तं विश्वरूपिणम् ।
ततस्तस्मै निवेद्यान्नं षड्रसं बुभुजुश्च ते ॥ ४०॥
ततस्ते नुनुवुर्भक्त्या बालं तं विश्वरूपिणम् ॥ ४१॥
त्रय ऊचुः ।
अज्ञानेन विमोहितं जगदिदं संसारचक्रे भ्रमन्
नानाभेदधिया स्वरूपविमुखं नानाविधिभ्रामितम् ।
नानापाशनियन्त्रितं निजकृतैः कर्माङ्कुरैर्भ्रंशितं
नानारूपमरूपमेकमगुणं हित्वा भवन्तं विभो ॥ ४२॥
अन्ये ते चरणारविन्दनिरता हित्वा फलं याजका
आत्मानं स्वपरेषु वर्ष्मसु सदा सञ्चिन्तयन्तोऽमलाः ।
ते ज्ञानेन विधूय सर्वकलुषं दग्ध्वाङ्कुरान्कर्मजान्
त्वामेवाशु विशन्ति सर्वसरितो वार्द्धिं यथा मेघजाः ॥ ४३॥
ये केचिद्भजनानुरक्तमनसः सिद्धिं गता भूयसीं
ते तत्रैवं निमग्नमानसतया विस्मृत्य पादाम्बुजम् ।
ते कृच्छादुपरहय चोत्तमपदं तस्मात्पतन्तो निजा-
दज्ञानान्नविदुर्विषं हि पिबतो हित्वाऽमृतं दुर्लभम् ॥ ४४॥
तस्मान्नो जननं भवेद्यदि शुभं यद्वाऽशुभं त्वत्स्मृति -
रास्तां तत्र निरन्तरं शुभकरी भक्तिश्च दुःखनाशिनी ।
एवं चेद् भ्रमतां कदापि हि भवेत् संसारपाथोनिधेः
निस्तारो भवतः कृपेक्षणवशात् सर्वात्मने ते नमः ॥ ४५॥
तवावतारान् न हि कोऽपि शक्तो वेत्तुं कथं वा कतिचित् कदेति ।
योगीश मायेश गुणेश भूमन् नमो नमस्ते भगवन् नमस्ते ॥ ४६॥
क उवाच ।
एवं स्तुत्वा गतास्ते तु कैलासं गिरिशालयम् ।
पञ्चायतनमर्चन्तो विस्मिता बालचेष्टितम् ॥ ४७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते हाहाहूहूदिस्तुतिर्नाम नवमोऽध्यायः ॥ ९॥
आदित श्लोकानां समष्ट्यङ्काः ४४२६ + ४७ = ४४७३
२.०१० नानानामनिरूपणं नाम दशमोऽध्यायः
क उवाच ।
ततस्तु पञ्चमे वर्षे सचौलं व्रतबन्धनम् ।
चकार कश्यपो धीमान् सूत्रोक्तविधिना शुभम् ॥ १॥
शुभे मुहूर्ते लग्ने च ब्राह्मणैर्वेदपारगैः ।
आकारिताः शिष्यगणैर्देवदानवराक्षसाः ॥ २॥
मुनयो यक्षनागाश्च तथा राजर्षयोऽपि च ।
वैश्याः शूद्रास्तथा याता नानोपायनपाणयः ॥ ३॥
ववदुर्बहुवाद्यानि नृदेवैराहतानि च ।
गणेशपूजनं चक्रे स्वस्तिवाचनमेव च ॥ ४॥
मण्डपस्थापनं चक्रे मातृकापूजनं तथा ।
चकाराभ्युदयश्राद्धं ब्राह्मणानां तथाऽर्चनम् ॥ ५॥
सुहृदां वस्त्रदानं च चकार स यथार्हतः ।
अन्येषां च तथा तेऽपि वस्त्राणि निदधुः पुरः ॥ ६॥
होमान्ते पुनरानर्च ब्राह्मणान् कश्यपस्ततः ।
अन्तःपटं वेदिकायां धारयित्वा स सत्वरम् ॥ ७॥
कृत्वाऽग्निस्थापनं पूर्वमुपनिन्युश्च बालकम् ।
सुवासिन्यो ब्राह्मणास्तमक्षताभिरवाकिरन् ॥ ८॥
तन्मध्ये राक्षसाः पञ्च सुदुष्टा ब्रह्मलिङ्गिनः ।
अस्त्रैस्तमाकिरन् दुष्टास्तत्प्राणहरणेच्छया ॥ ९॥
विघातश्चैव पिङ्गाक्षो विशालः पिङ्गलस्तथा ।
चपलश्च महापुण्ड्रा अक्षमालाविभूषिताः ॥ १०॥
जलपात्रभृतोऽनर्घ्य वस्त्राम्बरधराः शुभाः ।
विशीर्णोऽजायत देहः कुमारस्य तदस्रतः ॥ ११॥
ज्ञात्वा कुमारस्तान् दुष्टान् मत्रयामास तण्डुलान् ।
महोत्कटः प्रचिक्षेप तण्डुलान् पञ्च पञ्चसु ॥ १२॥
तदैव निर्गतप्राणा निजरूपं समाश्रिताः ।
करालाः पतिता भूमौ विशीर्णा दशयोजनम् ॥ १३॥
वज्राघातात् यथा पेतुर्गिरयस्तु बिडौजसः ।
कोलाहलो महानासीद् रजसाऽऽच्छादिता दिशः ॥ १४॥
कथं व्यापादिताः पञ्च राक्षसाः कूटरूपिणः ।
क्षणेनानेन बालेन न जानीमोऽखिला अमुम् ॥ १५॥
अवतीर्णो भुवो भारं हर्तुं किं परमेश्वरः ।
एवं ततो गरिष्ठे ते ब्रह्माद्या देवतागणाः ॥ १६॥
ववर्षुः पुष्पवर्षाणि विमानवरमाश्रिताः ।
नीतेषु तेषु प्रेतेषु ब्राह्मणाः कश्यपोऽपि च ॥ १७॥
उपनीते तत्र शिशौ वासश्च मेखलामपि ।
उपवीताजिने दण्डं ददुस्तस्मै स्वमन्त्रतः ॥ १८॥
ततोंऽजलिं पूरयित्वा प्रोद्वीक्ष्य मण्डलं रवेः ।
होमं सर्वं समाप्यैनं सावित्रीं कश्यपोऽब्रवीत् ॥ १९॥
पादमर्धं ततः सर्वां भिक्षां माता पुरा ददौ ।
असङ्ख्यातास्ततो भिक्षा दुदुस्ते सर्व आगताः ॥ २०॥
उपदिश्य ततश्चैनं शौचाचाराननेकशः ।
पुनश्च ब्राह्मणान्पूज्य वासांसि काञ्चनं च गाः ॥ २१॥
महत्यरिष्टेऽतीतेऽस्मिंस्तेभ्यो भक्त्या ददौ मुनिः ।
वसिष्ठस्तं सभामध्ये निनाय ब्रह्मणोऽन्तिकम् ॥ २२॥
सोऽपि कमण्डलुजलैरस्य तीर्थं गृहीतवान् ।
सर्वदा विकसत्पद्मं ददावस्मै करस्थितम् ॥ २३॥
ब्रह्मणस्पतिरित्येवं नाम चक्रे तदाऽस्य सः ।
सम्पूज्य नाम चक्रेऽस्य भारभूतिर्बृहस्पतिः ॥ २४॥
रत्नमालां ददौ चास्मै कुबेरोऽपि गलस्थिताम् ।
सुरानन्देति नामाऽस्य सम्पूज्य च चकार ह ॥ २५॥
सर्वप्रियेति नामाऽस्य दत्त्वा पाशमपां पतिः ।
शृण्वत्सु सुरसङ्घेषु चकार शङ्करोऽपि च ॥ २६॥
त्रिशूलं डमरुं दत्त्वा विरूपाक्षेति चाभ्यधात् ।
दत्त्वा चन्द्रकलां नाम भालचन्द्रेति चाकरोत् ॥ २७॥
रामस्य जननी चास्मै सखी बालाय चार्पयत् ।
परशुं परशुहस्तेति नाम चक्रे स्फुटं मुदा ॥ २८॥
पुनः सम्पूज्य सिंहं सा ददौ वाहनमुत्तमम् ।
सिंहवाहन इत्येवं चक्रे नामाऽतिसुन्दरम् ॥ २९॥
उपादिशद् दुष्टनाशं कुरु शीघ्रं विनायक ।
सागरो द्विजरूपेण मुक्तमालां ददावथ ॥ ३०॥
मालाधरेति नामाऽस्य कृतवान् परिपूज्य च ।
आसनार्थं ततस्तस्मै शेषः स्वात्मानमर्थयत् ॥ ३१॥
फणिराजासनेत्येवं नाम चक्रे स्वयं मुदा ।
दाहशक्तिं ददौ वह्निर्धनञ्जयेति नाम च ॥ ३२॥
प्रभञ्जनेति नामास्मै वायुश्च बलमुच्चकैः ।
एवं सर्वे यथाशक्त्या दत्त्वा नामानि चक्रिरे ॥ ३३॥
तेषां निर्वचने शक्तिर्न कस्यापि भवेन्मुने ।
अपुपूजन्न चैनं स शक्रो मदविमोहितः ॥ ३४॥
न वा किञ्चिद् ददौ चैनमुपायनवरं शुभम् ॥ ३५॥
अहं त्रिलोकीनमितः सुरेशो वृद्धोऽमृताशी लघुमर्भकन्तम् ।
गजेन्द्रगामी हरिशूलपाणिप्रपूजितः कश्यपजं नमस्ये ॥ ३६॥
सिंहो यथा नात्तितृणं समुद्रः पल्वलोदकम् ।
न याचति तथाऽन्यं वा कल्पवृक्षोऽखिलं ददत् ॥ ३७॥
एवं तस्याशयं बुद्धवा कश्यपः प्रणिधानवान् ।
उवाच धर्मसंयुक्तं वचस्तद्धितकाम्यया ॥ ३८॥
यत्राऽद्भुतानि कर्माणि यत्र स्युश्च गुणाकराः ।
स नमस्यश्च पूज्यश्च ब्राह्मणोऽपि च निर्गुणः ॥ ३९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नानानामनिरूपणं नाम दशमोऽध्यायः ॥ १०॥
आदितः श्लोकानां समष्ट्यङ्काः - ४४७३ + ३९ = ४५१२
२.०११ बालचरिते एकादशोऽध्यायः
कश्यप उवाच ।
अयं तु मद्गृहे कोऽपि ह्यवतीर्णः परः पुमान् ।
अनिर्वाच्यगुणो हीनो गुणैस्त्रिभिरनावृतः ॥ १॥
एतद्विरोधं यः कुर्यात् स पदभ्रंशतामियात् ।
एतस्याद्भुतकर्माणि शृणु मे गदतः सुर ॥ २॥
विरजा राक्षसी घोरा हन्तुमेनं समागता ।
सा हता तेन बालेन पतिता हि द्वियोजना ॥ ३॥
उद्धतश्चैव धुन्धुश्च दैत्यो परमदुर्मदौ ।
शुकरूपधरावेनं निहन्तुं समुपागतौ ॥ ४॥
पक्षे धृत्वा पोथितौ तौ शिलायां गतजीवितौ ।
निपेततुर्धरापृष्ठे विशालौ सर्वदृग्गतौ ॥ ५॥
तथैव चित्रगन्धर्वो जले नक्रत्वमागतः ।
एतस्य स्पर्शमात्रेण गतो दिव्यशरीरताम् ॥ ६॥
हाहाहूहूतुम्बुरूणां सत्त्वसंशोधनाय सः ।
जहार पञ्चायतनं पञ्चधा स्वयमप्यभूत् ॥ ७॥
सर्वेषां च समक्षं वो निहताः पञ्च राक्षसाः ।
एवं मुनिवचः श्रुत्वा बभाण बलवृत्रहा ॥ ८॥
इन्द्र उवाच ।
न दृष्टोऽस्य गुणोत्कर्षस्तावन्मान्यो भवेत्कथम् ।
क उवाच ।
ततो दिदेश वायुं स नयैनं व्योममण्डलम् ॥ ९॥
तस्यानुज्ञापदं वायुर्युगान्त सदृशो ववौ ।
आन्दोलयन्सर्वलोकं भ्रामयन् कुधरान्भृशम् ॥ १०॥
अकालः प्रलयः किं नु प्रारब्धो लोकनाशनः ।
इत्येवं भृशसंविग्ना ऋषयश्च च कम्पिरे ॥ ११॥
बटुं नेतुं समायातो महाशक्त्या प्रभञ्जनः ।
न चासनं त्वस्य चलं रोम वा समपद्यत ॥ १२॥
भग्ने वायौ तु सम्प्राह शुष्माणं पाकशासनः ।
दहैनं त्वं बटुं शीघ्रं द्रष्टव्या शक्तिरद्य ते ॥ १३॥
तदाज्ञां शिरसा गृह्य जगाम तमुषर्बुधः ।
निर्दहन्निव त्रीन् लोकान् प्रलयानलसन्निभः ॥ १४॥
भस्मीकर्तुं द्रुमान् सर्वान् शोषयन् सर्वसागरान् ।
तं दहन्तं जनान् सर्वान् दृष्ट्वा कश्यपनन्दनः ॥ १५॥
तत्क्षणादगिलद् रोगी भेषजं गुटिकामिव ।
गिलिते तादृशे वह्नौ क्रोधसंरक्तलोचनः ॥ १६॥
सहस्रलोचनो लोकांल्लोचनैः सर्वलोचनैः ।
तावद् ददर्श तं तत्र सहस्राधिकलोचनम् ॥ १७॥
असङ्ख्यशीर्षमुकुटमनन्तश्रोत्रसंयुतम् ।
अनन्तहस्तचरणमनन्तोदारविक्रमम् ॥ १८॥
शशिसूर्याग्निनयनं शिखाव्याप्तनभस्तलम् ।
सप्तपातालचरणं सप्तलोकैकमस्तकम् ॥ १९॥
असङ्ख्यसूर्यसङ्काशमसङ्ख्येन्द्रसुसेवितम् ।
असङ्ख्यकेशसंयुक्तं नानाब्रह्माण्डरोमकम् ॥ २०॥
आमूलाग्राद्यथा वृक्षे भवन्त्यौदुम्बराणि वै ।
औदुम्बरे वा मशकाः सङ्ख्यातीता भवन्ति हि ॥ २॥
तथैवैकैकरोमाञ्चं सङ्ख्यातीताण्ड संयुतम् ।
पश्यंस्तत्रैवैकतरं भ्रान्तःशक्रो विवेश ह ॥ २२॥
पश्यति स्म स तन्मध्ये त्रैलोक्यं सचराचरम् ।
अरण्यकदलीकोशपत्रे पत्रे यथा फलम् ॥ २३॥
असङ्ख्यातं जगत् तत्र पश्यति स्म शचीपतिः ।
बभ्राम भ्रान्तचित्तोऽसौ नालभन् निर्गमं ततः ॥ २४॥
ततो ननाम मूर्ध्नाऽसावेदं भग्नमनोरथः ।
प्रार्थयामास देवेशं तदाशक्रो गजाननम् ॥ २५॥
शक्र उवाच ।
भूभारहरणार्थं यो जातः कश्यपनन्दनः ।
अचिन्त्यो महिमा यस्य किमु वर्ण्यो भवेन्मम ॥ २६॥
निर्गमं देहि देवेश कुक्षेरत्यन्तविस्तरात् ।
अदृष्टपाराद् वर्षाणि द्वादश भ्रमता मया ॥ २७॥
तव कुक्षौ मयाऽदर्शि भुवनानि चतुर्दश ।
स्थाने स्थाने विभक्तानि प्रतिरोमाञ्चमेकराट् ॥ २८॥
समष्टिव्यष्टिरूपाणि महाविस्तारवन्ति च ।
दृष्टानि तव रूपाणि सुसौम्यानीतराणि च ॥ २९॥
अद्भुतान्यप्यसङ्ख्यानि वक्त्राणि नयनानि च ।
दृष्ट्वा दुर्दर्शरूपाणि जगत्क्षोभकराणि ते ॥ ३०॥
दैत्यदानवपूर्णानि सुरमानववन्ति च ।
यक्षरक्षः पिशाचादिचतुराकरवन्ति च ॥ ३१॥
विकरालमहोरूपमुपसंहर विश्वकृत् ।
गतो मोहं स्मृतिर्लब्धा प्रसादान्निखिलेश्वर ॥ ३२॥
कायेन मनसा बुद्ध्या वाचा त्वां शरणं गतः ।
प्राकृतं दर्शय विभो रूपं ते भक्तवत्सल ॥ ३३॥
क उवाच ।
एवं यावत् प्रार्थयते स्वात्मानं तावदेव सः ।
सभामध्यगतं तं च ददर्शब्रह्मचारिणम् ॥ ३४॥
पश्यतां सर्वलोकानां साष्टाङ्ग प्रणनाम तम् ।
अतिविस्मितचित्तोऽसौ लज्जाहर्षसमन्वितः ॥ ३५॥
शृण्वस्तु सर्वदेवेषु नुनाव ब्रह्मचारिणम् ।
जातं मुनिगृहे शान्तं क्रीडामानुषरूपिणम् ॥ ३६॥
शक्र उवाच ।
जाने न त्वाऽनन्तशक्ति परेशं विश्वात्मानं विश्वबीजं गुणेशम् ।
विश्वाभासं विश्ववन्द्यं त्रिसत्यं त्रेधाभूतं जन्मरक्षार्तिहेतुम् ॥ ३७॥
एकं नित्यं सच्चिदानन्दनरूपं सर्वाध्यक्षं कारणातीतमीशम् ।
चेष्टाहेतुं स्थावरे जङ्गमे च वाञ्छापूरं सर्वगं त्वाऽभिवन्दे ॥ ३८॥
सर्वेशानं सर्वविद्यानिधानं सर्वात्मानं सर्वबोधावभासम् ।
सर्वातीतं वाङमनोगोचरं त्वां सर्वावासं सर्वविज्ञानमीडे ॥ ३९॥
क उवाच ।
एवं स्तुत्वा च नत्वा च सम्पूज्य स्वाङ्कुशं ददौ ।
कल्पवृक्षं ज दास्यौ द्वे विनायक इति स्फुटम् ॥ ४०॥
चकार नाम शक्रोऽथ स्मरणात् सर्वसिद्धिदम् ।
जयशब्दैर्नमः शब्दैर्वाद्यशब्दैरनेकधा ॥ ४१॥
गन्धर्वगीतनिनदैरप्सरोनृत्यनिस्वनैः ।
व्याप्तमासीत् पुष्पवर्षैस्तदा व्योम धरातलम् ॥ ४२॥
प्रतिकूलवहा नद्य आसन् पूर्ववहाः शुभाः ।
प्रसन्नमासीद् दिक्चक्रं ववुर्वाताः सुखावहाः ॥ ४३॥
प्रदक्षिणार्चिषः शान्ता आसन् सर्वत्र वह्नयः ।
ततः प्रसन्नः शक्राय ददावभयमेकराट् ॥ ४४॥
भविता न भयं क्वापि तव शक्र रणाजिरे ।
पठस्व स्त्रोत्रमेतत्वं त्रिसन्ध्यं भक्तितत्परः ॥ ४५॥
अन्योऽपि यः पठेद् भक्त्या श्लोकत्रयमिदं नरः ।
स सर्वानाप्नुयात् कामान् सर्वत्र विजयी भवेत् ॥ ४६॥
ततः शक्रो नमस्कृत्य वरं प्राप्य शुभावहम् ।
ततः सर्वे नमस्कृत्य स्वं स्वं स्थानं ययुर्मुदा ॥ ४७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते इन्द्रगर्वहरणं नामैकादशोऽध्यायः ॥ ११॥
आदितः श्लोकानां समष्ट्यङ्काः ४५१२ + ४ ७ = ४५५९
२.०१२ निशाचरवधो नाम द्वादशोऽध्यायः
क उवाच ।
ततस्तु सप्तमे वर्षे प्रवृत्तेऽसौ विनायकः ।
स्नात्वा नित्यविधिं कृत्वा मुकुटभ्राजि मस्तकः ॥ १॥
आयुधानि च चत्वारि सिंहारूढो दधार सः ।
अङ्कुशं परशुं पद्मं पाशं सर्वभयापहम् ॥ २॥
दण्डाजिने कुण्डले च काञ्चने रत्नसंयुते ।
बिभ्रत् कमण्डलुं दर्भान् कौशेयं पीतमुत्तमम् ॥ ३॥
कस्तूरीतिलकं चन्द्रं ललाटे क्षीणतेजसम् ।
मुक्ताफलमयीं मालां कण्ठे नाभौ फणीश्वरम् ॥ ४॥
रोदसी कम्पयन्नुच्चैर्जगर्जाऽसौ स्वलीलया ।
मेघस्वन इति भ्रान्त्या चातका व्याददुर्मुखम् ॥ ५॥
उत्छलन्त्यो महानद्यः सिषिचुर्व्योममण्डलम् ।
तदाननन्दतुरुभावदितिः कश्यपोऽपि च ॥ ६॥
धन्या वयं पूर्वजा न इत्यात्मानं प्रशंसतुः ।
एतस्मिन्समये काशीराजोऽप्याश्रममभ्यगात् ॥ ७॥
परस्परालिङ्गनेन मुमुदुस्तेऽखिलास्तदा ।
न्यविशन्ताऽऽसने सर्वे नमस्कृत्य परस्परम् ॥ ८॥
स्वाद्वन्नं भोजयामास मुनिस्तं षड्रसैर्नृपम् ।
विश्रान्तं परिपप्रच्छ किमागमनकारणम् ॥ ९॥
श्रीमतां दर्शनं नोऽद्य जातं पुण्यवशान्नृप ।
पुरोहितस्य मे न त्वं वृत्तान्तं किं गृहीतवान् ॥ १०॥
क उवाच ।
एवं मुनिवचः श्रुत्वा जगाद नृपसत्तमः ।
क्षमापराधं मे ब्रह्मन् राज्याकुलित चेतसः ॥ ११॥
पुत्रस्य मे विवाहोऽस्ति त्वामाकारयितुं प्रभो ।
आगतोऽहं मुने जातः कृतार्थस्तव दर्शनात् ॥ १२॥
चल शीघ्र विवाहं त्वं सम्पाद्य पुनरेव हि ।
न श्लाघ्यो लोकवर्येषु विना चैवागमं तव ॥ १३॥
अहमेव समायातोऽतस्त्वां नेतुं महामुने ।
मुनिरुवाच ।
नाहमेष्ये नृपश्रेष्ठ चातुर्मास्यरतोऽधुना ॥ १४॥
पुत्रं नय समर्थं मे यदीच्छसि जनाधिप ।
राजोवाच ।
पुत्रामाज्ञापय मुने गमिष्यावो जवान्वितौ ॥ १५॥
एवं नृपवचः श्रुत्वा मुनिः पुत्रमथाब्रवीत् ।
वचोऽनुरोधाद्राज्ञोऽस्य प्रेषये त्वां विनायक ॥ १६॥
विद्यमानेतु महति दुःखे विरहजे तव ।
धृत्वाज्ञां शिरसा वन्द्य चरणावुभयोरपि ॥ १७॥
मातापित्रोर्बहिरगाद् राज्ञा चारोऽपितो रथे ।
सोऽपि नत्वा तयोः पादौ स्वयमारुरुहे रथम् ॥ १८॥
आजगामादितिस्तं च प्रावदन् नृपसत्तमम् ।
अयं मे बालको राजन् रक्षणीयो निरन्तरम् ॥ १९॥
उत्पातो जायते तत्र यत्र मे बालको भवेत् ।
अतोऽयं यत्नतो रक्ष्यः पक्ष्मणीव कनीनिकाम् ॥ २०॥
यथा नयसि पुत्रं मे तथाऽत्र त्वं समानय ।
ओमित्युक्त्वाऽदितिं राजा प्रणिपत्य विसृज्य ताम् ॥ २१॥
सह तेन ययौ शीघ्रं रथेनाऽनिलरं हसा ।
गच्छता रथमार्गेण राज्ञा प्राप्ता महाटवी ॥ २२॥
नरान्तक पितृव्यस्य स्थानं तच्चातिसुन्दरम् ।
रौद्रकेतोर्बली भ्राता धूम्राक्षो नाम नामतः ॥ २३॥
दशवर्षसहस्रं स तरस्तेपे सुदारुणम् ।
सहस्रकिरणं नित्यं नित्यमाराधयन्मुदा ॥ २४॥
प्रार्थयन् सर्वसंहारकरमायुधमुत्तमम् ।
त्रयाणां भुवनानां स इच्छन् वश्यत्वमात्मनः ॥ २५॥
वृक्षस्कन्धालम्बिपादोऽधोमुखो धूममापिबन् ।
एवं बहुगते कालेऽमोघं शस्त्रमुपस्थितम् ॥ २६॥
प्रेषितं भानुना तस्मै राक्षसाय तपस्यते ।
व्योमव्यापी यस्य तेजो ददर्श स विनायकः ॥ २७॥
शीघ्रमुड्डीय जग्राह गरुत्मानिव पन्नगम् ।
तदा विस्मयमापेदे काशिराजो महामनाः ॥ २८॥
तर्कयामास मनसि लाभे हानौ च जीवने ।
नास्ति दैवातिरेकेण निमित्तं भुवनत्रये ॥ २९॥
मम नैवाऽभवत्प्राप्तिः सहसा तस्य तस्य या ।
ज्ञातुं तदस्त्रसामर्थ्यं तोलयित्वाऽक्षिपच्च सः ॥ ३०॥
उर्ध्वं गतं तदैवाशु रवं कृत्वा भयानकम् ।
धूम्राक्षे पतितं तत्तु स तदैव द्विधाऽभवत् ॥ ३१॥
गण्डशैला द्रुमास्ताभ्यां खण्डाभ्यां चूर्णिता भृशम् ।
धनुः पञ्चशतं पृथ्वी पतद्भ्यां व्यापिता तदा ॥ ३२॥
ततस्तस्य सुतौ ख्यातौ जघनो मनुरेव च ।
शुश्रूषायां रतौ तस्य पितरं वीक्ष्य तादृशम् ॥ ३३॥
क्रोधाविष्टौ ददृशतुस्तं विनायकमन्तिके ।
दुद्रुवतुः प्रसार्यैवं वक्त्रं कालान्तकोपमम् ॥ ३४॥
बटुमानीय पितरं कथं घातितवानसि ।
इत्यूचतुः काशिराजं रोषाविष्टौ निशाचरौ ॥ ३५॥
रक्षितोऽसि पुरा पित्रा मम पूर्वं नरान्तकात् ।
तं मारयित्वा यत्नेन कथं जीवसि रे नृप ॥ ३६॥
क उवाच ।
इत्याकर्ण्य नृपो वाक्यं च कम्पे भृशविव्हलः ।
तर्कयामास मनसि कथमानीतवानहम् ॥ ३७॥
नन्दन कश्यपस्यैनमपस्मारमिव स्थितम् ।
क्रुद्धो नरान्तकश्चेन्मे बलाद् राज्यं ग्रहीष्यति ॥ ३८॥
तदा मे रक्षिता कः स्यात् ततः शपथमारभत् ।
नृप उवाच ।
एतदर्थं मयाऽनीतो नैवायमर्भकः क्वचित् ॥ ३९॥
ब्राह्मणेश्वरयोरत्र शपथो मे निशाचरौ ।
पुरोहितस्य पुत्रोऽयं विवाहार्थं समाहृतः ॥ ४०॥
न विघ्नं कुरुतं तत्र नीयतां बालकोह्ययम् ।
इत्यस्य वचन्ताते स मुनिपुत्रो जगाद तम् ॥ ४१॥
कथं बद्ध्वा शत्रुहस्ते शिशुं मां त्वं प्रयच्छसि ।
अदितिं कश्यपं वापि वदिष्यसि किमुत्तरम् ॥ ४२॥
क्रुद्धश्चेत् कश्यपस्त्वां हि कुर्याद्भस्म न संशयः ।
एवं वदति तस्मिन्स्तु बालके मुनिनन्दने ॥ ४३॥
भक्षितुं तं समायातौ बिडालौ मूषकं यथा ।
प्रसार्य वदनं बालो घोरं शब्दमथाकरोत् ॥ ४४॥
च कम्पे च त्रिभुवनं तौ च निश्वासयोगतः ।
सम्प्राप्तौ मेघपटलं वात्ययैव यथा तृणम् ॥ ४५॥
मूहूर्त्तद्वितये जाते व्यस्तौ द्वौ तौ निपेततु ।
नरान्तकस्य नगरे जघनो मनुरेव च ॥ ४६॥
गिरिशीर्षे गण्डशैलौ महावातेरितौ यथा ।
पतद्भ्यां तच्छरीराभ्यां चूर्णितानि गृहाणि च ॥ ४७॥
मुखहस्तरवा आसन् हाहाकारो महानभूत् ।
किमिदं किमिदं दूता धावमाना ययुस्तदा ॥ ४८॥
मृतौ धूम्राक्षतनयौ श्रुत्वा सम्यग् व्यलोकयन् ।
सचेतनौ च तौ दृष्ट्वा सावधानावकुर्वत ॥ ४९॥
दूताँस्तां वूचतुः सर्वं वृत्तान्तमनुपूर्वशः ।
वधं पितुः काश्यपेयात् तस्य श्वासान्निपातनम् ॥ ५०॥
स गच्छति स्यन्दनेन काशीराजेन संयुतः ।
एवं दूता निशम्यैनं नरान्तकमथाब्रुवन् ॥ ५१॥
पितृव्यं निहतं श्रुत्वा सापराधं नरान्तकः ।
ऋषिपुत्रं तथा यान्तं काशीराजेन संयुतम् ॥ ५२॥
क्रोधेनारक्तनयनः पुरः पश्यन्निशाचरान् ।
अज्ञापयात् तमानेतुं सहस्रप्रमितांस्तदा ॥ ५३॥
धृत्वाऽनेयो मुनेः पुत्रो युद्धकृच्चेत् स हन्यताम् ।
काशीराजरथो वापि शीघ्रं गच्छन्तु राक्षसाः ॥ ५४॥
आज्ञामात्रेण ते जग्मुस्त्वरया वातरंहसः ।
काश्यपेयं च नृपतिं ददृशस्ते च तौ च तान् ॥ ५५॥
ततो विनायकश्चक्रे भीमशब्दं भयावहम् ।
ततो निशाचराः पेतुस्त्यक्त्वा प्राणांस्तु केचन ॥ ५६॥
केचित् पलायिताः केचिद् भग्नपादाः प्रपेदिरे ।
केषाच्चिन् मस्तका भिन्नाः केचिच्छीर्णोदराः शरैः ॥ ५७॥
भग्नास्या भग्ननेत्राश्च भग्नोरुबाहवः परे ।
प्रपलाय्य गता ये तु ह्यागतास्ते नरान्तकम् ॥ ५८॥
उदन्त सर्वमाचख्युर्विनायककृतं तदा ॥ ५९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते निशाचरवधो नाम द्वादशोऽध्यायः ॥ १२॥
आदितः श्लोकानां समष्ट्यङ्काः ४५५९ + ५९ = ४६१८
२.०१३ बालचरितं नाम त्रयोदशोऽध्यायः
दूता ऊचुः ।
विनायकं रथस्थं तमाज्ञां प्राप्य गता वयम् ।
सर्वैरेव तदा दृष्टः कृतान्तसदृशस्तु सः ॥ १॥
सर्वे निशाचराः स्वामिन् मृतास्तद्भीतितोऽनघ ।
वयं तव प्रसादेन जीवन्तस्त्वां समागताः ॥ २॥
ईश्वरीय कृपायोगात् सिंहवृन्दाद् गजा इव ।
त्रैलोक्ये तु पुमान् नास्ति यो युध्येत् सह तेन वै ॥ ३॥
क उवाच ।
इत्थं निशम्य तद्वाक्यं जगदे स नरान्तकः ।
किं वा वदथ बालिश्यात् क्व बालः क्व नरान्तकः ॥ ४॥
किं कर्तव्यं पतङ्गेन प्रलयानलसन्निधौ ।
मेरुगिरिः पतेत् किं वा खनता मूषकेन च ॥ ५॥
ततश्चाज्ञाप दैत्यान् काशिराजपुरीं प्रति ।
लुण्ठनं तत्र कर्तव्यं येन व्यग्रो भवेन्नृपः ॥ ६॥
तस्मिन् व्यग्रे सोऽपि भवेत् कश्यपस्य सुतोऽपि च ।
नो चेदुभौ निहन्तव्यौ सर्वैः सर्वप्रयत्नतः ॥ ७॥
ततो ददौ महार्हाणि तेभ्यो रत्नान्यनेकशः ।
वस्त्राणि च विशिष्टानि शस्त्राणि विविधानि च ॥ ८॥
ते तं तदा नमस्कृत्य ययुः काशीशपत्तनम् ।
परस्परं समूचुस्ते दिक्चक्रं व्याप्य सेनया ॥ ९॥
तत्र योऽभून् महासेनानीरेवं सोऽदिशत् तदा ।
यस्य दृष्टिगतो दैत्याः स तु तेन निहन्यताम् ॥ १०॥
अन्यथा मम दण्ड्यः स तस्याहं प्राणनाशकृत् ।
एवं तेन समादिष्टा दैत्या जग्मुर्दिशोदश ॥ ११॥
विनायकस्तेन राज्ञा रथस्थेन गतः पुरीम् ।
नानाध्वजपताकाभिश्चित्रितां रङ्गमालया ॥ १२॥
वाद्यैन्दुन्दुभिर्निर्घोषैः पूजाद्रव्यैरनेकधा ।
अमात्या नागराश्चैव प्रतिजग्मुर्विनायकम् ॥ १३॥
उपचारैः षोडशभिर्भक्त्या सर्वेऽप्यपूजयन् ।
राजानं च ततो जग्मुर्नगरीमन्तराऽखिलः ॥ १४॥
तस्मिन् प्रविष्टे प्रासादान् रुरुहुर्योषितोऽखिलाः ।
काश्चिद् द्रष्टुं बहिर्याता व्यस्तालङ्करणाम्बराः ॥ १५॥
अनादृतपितृभ्रातृभर्तृमातृ सुहृज्जनाः ।
त्यक्त्वा भोजनपात्रं च भुक्तवन्त पतिं च काः ॥ १६॥
एका निरुद्धा सर्वैः सा ध्यात्वा देवं विनायकम् ।
भक्त्या निमील्य नयने जहौ प्राणांस्तदद्भुतम् ॥ १७॥
लाजवर्षैः पुष्पवर्षैर्ववर्षुस्तं कुमारिकाः ।
विमानस्था देवगणा ददृशुस्तं महोत्सवम् ॥ १८॥
ब्राह्मणाः परमात्मानं पश्यन्ति स्म विनायकम् ।
क्षत्रियास्तं महावीरं पश्यन्ति स्मरणोत्सुकम् ॥ १९॥
वैश्यास्तं ददृशुः सर्वे रुद्रं संहारकारकम् ।
शूद्रास्तं हरिरूपेण नृपरूपेण चालुकन् ॥ २०॥
यस्य यस्य यथा भावस्तादृशं सोऽभ्यवीक्षत ।
यथा रक्ते सिते पीते स्फटिकस्तादृशाकृतिः ॥ २१॥
एक एव पुमान् यद्वत् पिता भ्राता च श्यालकः ।
ततो विनायकोऽपश्यत् पुरमध्ये महासुरौ ॥ २२॥
विघटं दन्तुरं रन्तुं समाह्वयत सादरम् ।
तौ दैत्योर्दुष्टमनसौ बालकैः समुपागतौ ॥ २३॥
आलिङ्गितुं कृतोद्योगौ तेन ज्ञातौ दुराशयौ ।
आलिङ्ग्य चूर्णयामास पुष्पं हस्तगतं यथा ॥ २४॥
त्यक्तौ भूमिगतौ तौ तु रेजतुर्दशयोजनौ ।
काशिराजश्च लोकाश्च दृष्ट्वाऽश्चर्यं तु मेनिरे ॥ २५॥
मुमुचुः पुष्पवर्षाणि देवास्तस्मिन् नभोगताः ।
साधु साध्विति शब्दैश्च जयशब्दैश्च केचन ॥ २६॥
मुनयश्चैव देवाश्च तुष्टुवुस्तं विनायकम् ।
मायामानुषरूपेण चरन्तं बाललीलया ॥ २७॥
शक्रादीनामजेयौ यौ तावनेन हि चूर्णितौ ।
ततो वीथीरतिक्रम्य रथो यातोऽग्रतोऽग्रतः ॥ २८॥
ततोऽन्यावसुरौ दृष्टौ हन्तुमेनं समीयतुः ।
पतङ्गविधुलौ नाम्ना वात्यारुपौ महाबलौ ॥ २९॥
ततो व्याकुलितो लोको रजसाच्छादितोऽखिलः ।
प्रासादा वृक्षसङ्घाश्च पतिता वसुधातले ॥ ३०॥
प्रावारनिचया भान्ति गगने पक्षिसन्निभाः ।
केषाच्चिन्मस्तकात् पेतुरुष्णिषाणि दिशो दश ॥ ३१॥
कोलाहलो महानासीन् न प्राज्ञायत किञ्चन ।
रथोऽपि गगनं गन्तुमुद्यतस्तम्भितोऽमुना ॥ ३२॥
निःसारमनुजाः पेतुः सद्योजाता इवाननीम् ।
ततोऽतिबलिनौ ज्ञात्वा दधार शिखयोरुभौ ॥ ३३॥
एकेन मुष्टिना देवो भ्रामयित्वा बलाच्चिरम् ।
तत्याज स धरापृष्ठे व्यसू तौ ददृशे जनः ॥ ३४॥
तर्कयामास देवोऽयं कश्यपस्य सुतो बली ।
यतोऽनेन हतावेतावसुरौ योजनायतौ ॥ ३५॥
अस्मिन् वयसि कस्यापि नेदृशं वीक्ष्यते बलम् ।
एतावद्दृष्टसामर्थ्यं काशिराजोऽप्यनन्दत ॥ ३६॥
अवप्लुत्य रथात् तस्मात् तं ननाम विनायकम् ।
उवाच च महायोगिन् बालस्यापि न ते कृतिः ॥ ३७॥
ब्रह्मादिज्ञानविषया कुतःस्याच्चर्मचक्षुषः ।
जगदुत्पादकोऽनेकरूपोऽस्यवनहेतवे ॥ ३८॥
न सङ्ख्या वर्तते स्वामिन्नवतारगता तव ॥ ३९॥
ततोऽग्रतो रथो यातस्त्वरया नृपतेर्गृहम् ॥ ४०॥
ततो ददर्श बालोऽसौ दैत्यं पाषाणरूपिणम् ।
ततोऽहनत् परशुना शतधा सोऽभवत् तदा ॥ ४१॥
तस्माद् विनिःसृतो भीमो दंष्ट्रादशनभासुरः ।
श्मश्रुलो दीर्घकायश्च पुरुषः पिङ्गलो महान् ॥ ४२॥
ततस्ते बालकाः सर्वे लोकाश्चान्येऽपि दुद्रुवुः ।
तं चापि न्यहनन् मुष्टया स चापि न्यपतद् भुवि ॥ ४३॥
असंमत जना बालं भगवन्तं धृताकृतिम् ।
ततो राजा हृष्टमना रथादुत्तीर्य बालकम् ॥ ४४॥
अन्तःप्रवेशयामास स्वयमादाय सत्वरम् ।
रत्नवर्णमये स्वीये आसने चोपवेश्य तम् ॥ ४५॥
उपचारैः षोडशभिः प्रपूज्य च यथाविधि ।
महार्हवस्त्राभरणैर्दिव्यैश्चैव सुगन्धिभिः ॥ ४६॥
परमाल्हाद संयुक्तस्तुष्टाव च ननाम च ।
अन्नं च षड्रसं नाना पक्वान्नं व्यञ्जनान्वितम् ॥ ४७॥
सुहृद्भिर्भोजयामास परमान्नमनेकधा ।
ततो नानाफलान्याशु ददौ तेभ्यो नराधिपः ॥ ४८॥
ततोऽष्टाङ्गं च ताम्बूलं रत्नकाञ्चनसंयुतम् ।
ततः स्वयं बुभोजाशु शिशुभिः परिवारितः ॥ ४९॥
ततः प्रस्वापयामास कृतसन्ध्याविधिं च तम् ।
पर्यङ्के रुचिरे दीपवितानपरिशोभिते ॥ ५०॥
स्वयं तदाज्ञया राजासुष्वाप प्रियया सह ।
अत्याप्तांश्चतुरः स्थाप्य जागराय तदन्तिके ॥ ५१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विघण्टदन्तूरवधोनाम त्रयोदशोऽध्यायः ॥ १३॥
आदितः श्लोकानां समष्ट्यङ्काः ४६१८ + ५१ = ४६४३
२.०१४ बालचरित्रे चतुर्दशोऽध्यायः
क उवाच ।
ततः प्रभात उत्थाय शौचं कृत्वा यथाविधि ।
चकार मज्जनं सोऽथ सन्ध्यां चक्रे यथाविधि ॥ १॥
होमं चकार समिधं स्थाप्य कृष्णाजिनं शुभम् ।
निधाय दण्डं चिक्रीड बालकैः स विनायकः ॥ २॥
निशम्य कीर्तिं तत्रत्यो ब्राह्मणो वेदशास्त्रवित् ।
धर्मदत्त इति ख्यातो मनिपुत्रदिदृक्षया ॥ ३॥
आगतो नृपवर्यस्य काशिराजस्य वेश्म सः ।
राज्ञा सम्मानितः सोऽथ प्रपच्छ नृपसत्तमम् ॥ ४॥
क्वासौ महाबलः पुत्र कश्यपस्य वदस्व मे ।
ततो लोका जगुरयं क्रीडते बालकैः सह ॥ ५॥
तत उत्थाय विप्रोऽसौ पाणौ धृत्वाऽवदच्च तम् ।
मम मित्र सुतस्त्वं हि श्रुता कीर्तिर्मया तव ॥ ६॥
अतस्त्वां स्वगृहे नेतुमागतोऽहं न संशयः ।
पुनीहि पादरजसा सर्व नः सफलीकुरू ॥ ७॥
परब्रह्मस्वरूपोऽसि परमात्मा परात्परः ।
भूभारहरणार्थाय जातोऽसि कश्यपालये ॥ ८॥
क्रीडामानुषरूपोऽसि जाने त्वां तत्त्वतोऽर्भक ।
ततो विनायकः प्राह किमर्थं त्वमिहागतः ॥ ९॥
आज्ञामात्रेण ते तात कथं नायामि तेऽन्तिकम् ।
इत्युक्त्वा त्वरया यायाद् धर्मदत्तपुरः सरः ॥ १०॥
धूलिमुद्धूलयद्भिस्तैर्बालकैरनुगैर्बली ।
मार्गे तु गच्छतस्तस्य नरान्तक समीरितौ ॥ १॥
कामसंज्ञश्च क्रोधश्च द्वावेतौ राक्षसाधमौ ।
परस्परं युध्यमानौ हन्तुमन्तिकमागतौ ॥ १२॥
युध्यमानौ निपतितौ बालके दुष्टमानसौ ।
खररूपौ यथा वह्नि पतङ्गाविव दुर्मदौ ॥ १३॥
ततस्ते बालकाः सर्वे दुद्रुवुस्ते दिशो दश ।
ततो विनायको धृत्वा तयोः पादौ बलेन सः ॥ १४॥
भ्रामयामास बहुधा पोथयामास भूतले ।
ततस्तौ पतितौ भूमौ व्यसू लोका व्यलोकयन् ॥ १५॥
समकम्पत् त्रिभुवनं पतद्देहरवात् तदा ।
लोकवार्तासु विश्वासं धर्मदत्तोऽन्वपद्यत ॥ १६॥
दृष्ट्वा तस्य महत्कर्म प्रत्यक्षेण महामुनिः ।
ततो ययौ धर्मदत्तस्तेन साकं पुरःसरः ॥ १७॥
ददर्श कुञ्जरं मत्तं गूढरूपं महाबलम् ।
इतस्ततो विद्रवन्तं जनं हन्तुं समुद्यतम् ॥ १८॥
इतस्ततो महावीराः पलायनपरा ययुः ।
कोलाहलो महानासीज्जनानां तत्र धावताम् ॥ १९॥
रजसाऽव्यापि सकलं नीहारेणेव पर्वताः ।
गजो यातो राजगजान् मत्तान् हन्तुं महाबलः ॥ २०॥
गजयुद्धं महाघोरं प्रासादस्था व्यलोकयन् ।
बभञ्जुरश्वशालां ते दृष्ट्वा बद्धान् हयानपि ॥ २१॥
उद्बन्धना हया याता गजाश्च ककुभो दश ।
धर्मदत्तो गृहीत्वा तं गृहान्तर्गन्तुमुद्यतः ॥ २२॥
आस्फाल्य तत्करं बालो रुरोह करिणं बलात् ।
बिभेद गण्डं सृणिना वारं वारं विनायकः ॥ २३॥
असृक्प्रवाह परितो निपपात महीतले ।
स गजो बृंहितं कृत्वा सर्वलोकभयावहम् ॥ २४॥
पतता तेन भग्नानि विस्तीर्णेनायतेन च ।
सङ्ख्यातीतान्यगाराणि सर्वोपस्करवन्ति च ॥ २५॥
च कम्पे पृथिवी सर्वा सपर्वतवनाकरा ।
ततोऽन्धकारे विगते तत्रेयुर्नागराजनाः ॥ २६॥
भीतभीता महारौद्रे मृते तस्मिन् निरीक्ष्य तम् ।
बालं तु बलिनो गत्वा तस्मादुत्तारयन्बलात् ॥ २७॥
धर्मदत्तः पुनश्चैनं कटावेवाऽभ्यधारयत् ।
गृहमध्ये निनायाशु पुनरुत्पातशङ्कया ॥ २८॥
निवृत्ते स्वनिमित्ते स द्विजातिभ्यो ददौ धनम् ।
पूजयामास चैवैनमुपचारैः पृथक्पृथक् ॥ २९॥
वस्त्रालङ्कारकुसुमैर्नानानैवेद्य सञ्चयैः ।
भोजयामास विधिवत् सिद्धिबुद्धि उभे ददौ ॥ ३०॥
दक्षिणार्थं धर्मदत्तो ननाम दण्डवत् क्षितौ ।
उवाच च प्रसन्नात्मा हर्षगद्गदया गिरा ॥ ३॥
मम भाग्यं तु फलितं यद्दृष्टं चरणाम्बुजम् ।
जगदीशो जगत्कर्ता जगत्साक्षीजगद्गुरूः ॥ ३२॥
मम वाक्यादिहायात उद्धर्तुं मम पूर्वजान् ।
एवं ब्रुवन्नेव मुनिः स्वासने सन्निवेशितः ॥ ३३॥
विनायकेन देवेन पूजितो बहुभक्तितः ।
ततोऽतिशुशुभे बालः सिद्धिबुद्धियुतो भृशम् ॥ ३४॥
गङ्गागौरियुतो यद्वच्छूलपाणिस्त्रिलोचनः ।
एतस्मिन्नन्तरे तत्र जृम्भानाम्न्यागताऽशुभा ॥ ३५॥
पीताम्बरधरा चारूकङ्कणा चारूभूषणा ।
अतिदुष्टमनाः सा तु पत्नी धूम्राक्षरक्षसः ॥ ३६॥
सोवाच मधुरां वाचं निधानमिदमुत्तमम् ।
इत्यरिष्टानि जायन्ते तानि नश्यन्तयत्नतः ॥ ३७॥
कथं चारू भवेद् भोगो मातापित्रोरमुष्य वै ।
एवमुक्त्वा स्त्रियः सर्वा उवाच च विनायकम् ॥ ३८॥
महद्भाग्यं मम विभो यज्जातं तव दर्शनम् ।
परिश्रान्तोऽसि देवेश नानादुष्ट विनाशनात् ॥ ३९॥
अभ्यङ्गं कुरू तैलेन सुगन्धेन महामते ।
अङ्गं ते मर्दयिष्यामि तैलमुद्वर्तनं तथा ॥ ४०॥
ओमित्युक्ते ततस्तेन विषहस्ता समादधे ।
तैलेन चरणौ तस्य विषोत्कर्षविधायिना ॥ ४१॥
ममदं जृम्भती जृम्भा लोकास्तां साधु मेनिरे ।
सा सिषेवे भावदुष्टाऽशुभभावा पतिं यथा ॥ ४२॥
ततस्तस्य शरीरस्य दाह एवा भवन्महान् ।
ततो ज्ञानेन बुद्धवा तां दुष्टभावां निशाचरीम् ॥ ४३॥
नारिकेलफलेनाशु मस्तके तां जघान सः ।
ततः सा पतिता भूमौ निजरूपं समास्थिता ॥ ४४॥
असृक् प्रवाहमध्ये सा विस्तीर्णा योजनद्वयम् ।
धर्मदत्तश्च लोकाश्च तदाश्चर्ययता बभुः ॥ ४५॥
पूजयामास विधिवद्भोजयामास तं पुनः ।
पक्वान्नं विविधं स्वादुरसैः षड्रभिः समन्वितम् ॥ ४६॥
अस्मिन्नवसरे देवाः पुष्पवर्षं प्रचक्रिरे ।
नीराजनं लाजवर्षमङ्गनाः पूजनानि च ॥ ४७॥
ततः स काशिराजस्तमाकारयितुमागमत् ।
रथोपरि निवेश्यैनं वाद्यघोषसमन्वितः ॥ ४८॥
गन्धर्वा गानसहिता नृत्यन्त्यप्सरसः पुरः ।
निनाय स्वगृहं राजा विनायकमनामयम् ॥ ४९॥
गच्छन् स ददृशे बालः सिंहारूढो धृतायुधः ।
अनेकवीरसंयुक्तो देवैरिव शतक्रतुः ॥ ५०॥
सिद्धिबुद्धियुतो भाति गङ्गोमाभ्यां यथा शिवः ।
नानाबन्दिस्तूयमानः प्रविवेश नृपालयम् ॥ ५१॥
एवं बालचरित्रं यः शृणुयाज्जगदीशितुः ।
सर्वान् कामानवाप्नोति नारिभिर्बाध्यते क्वचित् ॥ ५२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरित्रे जृम्भावधो नाम चतुर्दशोऽध्यायः ॥ १४॥
आदितः श्लोकानां समष्ट्यङ्काः ४६६९ + ५२ = ४७२१
२.०१५ बालचरिते नगरीमोक्षणं नाम पञ्चदशोऽध्यायः
क उवाच ।
अपरस्मिन् दिने राजा लोकैः सह सभां ययौ ।
विनायकेन सहितो मित्रामत्यसमन्वितः ॥ १॥
तानुवाच ततः सर्वान् बालकस्य गुणान् बहून् ।
गुणवन्तं प्रधानं तं पुरस्कृत्य महाशयम् ॥ २॥
अहं हि कश्यपं यात आकारयितुमन्तिकम् ।
विवाहस्य च सिद्ध्यर्थं पुत्रस्तेनेहयोजितः ॥ ३॥
प्रस्थितोऽनेन यावच्च तावद्राक्षसमद्भुतम् ।
अरिष्टानां समूहं च न दृष्टं न च वै श्रुतम् ॥ ४॥
आदावनेन निहतो धूम्राक्षो राक्षसाधिपः ।
जघनश्च मनुश्चापि सहस्रार्द्धयुतो हतः ॥ ५॥
यो व्योम नीतवानेनं नगरे दन्तुरो हतः ।
विघण्टो बालरूपश्च विधूलश्च महाबलः ॥ ६॥
पतङ्गश्चैव नगरे वातरूपधरो हतः ।
कूटो नाम हतोऽनेन द्वारि पाषाणरूपधृक् ॥ ७॥
कामक्रोधावपि हतौ खरवेषधरावुभौ ।
गजरूपधरः कुण्डो हतोऽनेन निशाचरः ॥ ८॥
यानि चान्यान्यरिष्टानि नाशयिष्यति बालकः ।
इदानीं निश्चयः कार्यो विवाहस्य द्विजैः सह ॥ ९॥
देवतास्थापनस्यापि हरिद्रामण्डपस्य च ।
विवाहोपस्करार्थं च ज्योतिःशास्त्रविशारदैः ॥ १०॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यममात्यावूचतुर्नुपम् ।
अयं बालः पुरे यावद् वर्तते नृपसत्तम् ॥ ११॥
तावद् विवाहो न भवेदिति नो भाति निश्चितम् ।
अस्मिन्स्थिते महोत्पाता भविष्यन्ति दिनेदिने ॥ १२॥
पक्षे मासे गते राजन् विवाहं कर्तुमर्हसि ।
ओमित्युक्ते नृपेणाऽथ जग्मुः सर्वेनिजालये ॥ १३॥
राजा विनायकश्चापि भुक्त्वा सुषुपतुः सुखम् ।
ततो निशीथे सम्प्राप्ते सुप्ते सर्वजने मुने ॥ १४॥
ज्वालामुखो व्याघ्रमुखो दारूणोऽथ त्रयोऽसुराः ।
इच्छन्तोऽपचितिं पूर्वहतानां दैत्यरक्षसाम् ॥ १५॥
सम्पूर्णां नगरीं दग्धुमाद्य ऐच्छत् तदाऽसुरः ।
दारुणो वायुरूपेण तत्सहायार्थमुद्यतः ॥ १६॥
व्याघ्रास्यो भक्षितुं तत्र पलायनपरानभूत् ।
एवं ते निश्चयं कृत्वा प्राक्रोशन् सुमहास्वनैः ॥ १७॥
त्रैलोक्यं कम्पितं सर्वं तदा संशयितं भृशम् ।
प्रलयः परचक्रं वा किमागतमिति ब्रुवन् ॥ १८॥
व्याघ्रास्यः सुमहाकायः स्थाप्योष्ठं धरणीतले ।
पूर्वं परं च गगने मध्ये जिव्हा नदी इव ॥ १९॥
उत्सृजन् मुखतो ज्वालाः साम्बरं पत्तनं दहन् ।
यथा हनुमता दग्धा नगरी पुच्छवह्नितः ॥ २०॥
तथा ददाह नगरीं दुष्टोऽसौ मुखवह्नितः ।
दग्धा वृक्षा लतारामाः प्रासादनिचयास्तदा ॥ २१॥
कोलाहलो महानासीन्मुखहस्तरवस्तथा ।
हित्वा सर्वाणि कार्याणि विद्रवन्ति जना दिशः ॥ २२॥
नगराद् बहिरायान्तं व्याघ्रास्यो ग्रसते नरम् ।
तदेव भोजनं तस्य बालकाश्चोपदंशकाः ॥ २३॥
केचिद् विस्त्रस्तवसना विवस्त्राश्चापरे ययुः ।
स्त्रियः कूर्पासकाः काश्चित् काश्चित् पत्यंशुका ययुः ॥ २४॥
व्याघ्रास्यं विवरं मत्वा विविशुर्जीवितेच्छया ।
अन्यानाकारयन्त्यस्ता ह्यभक्षयत सोऽसुरः ॥ २५॥
अकाले प्रलये प्राप्ते काशिराजो विनायकम् ।
सवं विहाय राज्यं स्वं स्त्रीपुत्रादि स्ववस्तु सः ॥ २६॥
स्कन्धे गृहीत्वा भ्रमते नानास्थाने गृहे गृहे ।
अतिदुःखेन सन्तप्तस्तेजसा चैव शुष्मिणः ॥ २७॥
कथं मया बाल एष सर्वारिष्टप्रवर्तकः ।
सर्वस्वहारको मौढ्याद् दुर्निमित्तस्य कारणम् ॥ २८॥
विनैनं किमहं ब्रूयामदित्यै कश्यपाय च ।
निरस्तानि च पूर्वाणि महारिष्टान्यनेन हि ॥ २९॥
आस्ते तूष्णीमिदानीं किं न जानेऽत्रापि कारणम् ।
एवं शोचन्दुर्गमुच्चै रुरोह सह तेन सः ॥ ३०॥
तत्रापि दहनो वायु सहायः समुपागमत् ।
कुम्भैश्च मृन्मयैः पात्रैः सिषिचुः सेवकास्तदा ॥ ३१॥
तत्पत्न्यो निर्ययुर्हित्वा व्रीडां बालयुता बहिः ।
अवतीर्य ततोराजा विव्हलोऽधः समाययौ ॥ ३२॥
अश्वाश्वतरवीराश्च रथनागपदातयः ।
निर्ययुर्नगरात् सर्वे पौराश्च सहगोधना ॥ ३३॥
विनायकः काशिराजं काशिराजो विनायकम् ।
गवेषयामास तदा वर्तमाने जनक्षये ॥ ३४॥
सर्वेषु लोकेषु गतेषु मध्ये स व्याघ्रतुण्डो न निमील तुण्डम् ।
यावन्न तुण्डे विशति स्म देवो विनायकोऽनन्त गुणो महात्मा ॥ ३५॥
उदये तु रवेर्जाते ददर्शाऽथ विनायकः ।
व्याघ्रास्यं दग्धनगरं जनपूर्णं च तन्मुखम् ॥ ३६॥
वन्हिं च निकटे वीक्ष्य विवेश तन्मुखं बलात् ।
तस्मिन् गते निजास्ये तु न्यमीलयत सोऽसुरः ॥ ३७॥
आस्यं गव्हरसङ्काशं सर्वसंहरणेच्छया ।
दारितुं बालकस्तत्र ववृधेऽतीव तत्क्षणात् ॥ ३८॥
पाटयामास तद्देहं व्याघ्रदेहेन रोदसी ।
अभूच्चटचटाशब्दो वंशानां पाट्यतामिव ॥ ३९॥
ततो द्वेधाऽभवद्दैत्यो गतासुरभवत् क्षणात् ।
तदेकं शकलं तस्य गगने स तु चिक्षिपे ॥ ४०॥
वायुना भ्रमति स्मैतद् दूरे देशे पपात च ।
अर्धेन पतता तेन चूर्णितं गहनं वनम् ॥ ४१॥
अपरं चाभवत् क्रीडागृहं बालमुदावहम् ।
उदतिष्ठंस्ततो लोका अपरानप्य बोधयन् ॥ ४२॥
ततोऽग्निमपिबत् सर्वं पादाघातादचूर्णयत् ।
विदारण महाकायं ज्वालासुरयुतं तदा ॥ ४३॥
एवं निहत्य तान् दुष्टान् योगमायाबलेन सः ।
अजीवयन् मृतान् सर्वान् नगरं च यथा पुरा ॥ ४४॥
अकार्षीच्च जगर्जाशु केसरीव विनायकः ।
सर्वलोकाश्च राजा च ततस्तं तुष्टुवर्मुदा ॥ ४५॥
नमोऽनन्तशक्ते गुणानामधीश नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे ।
नमो विश्वपात्रे नमो विघ्नहन्त्रे नमो ज्ञानदात्रे नमोऽज्ञानहन्त्रे ॥ ४६॥
अकालप्रलयाद् देव वीतिहोत्राज्जगत्पते ।
लीलवतार दैत्योभ्यो रक्षिता लीलया त्वया ॥ ४७॥
कस्य सामर्थ्यमेतावद् वह्नि पातुं महाबलम् ।
भूगोलसदृशास्यं को हन्यादन्यो महासुरम् ॥ ४८॥
मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् ।
त्वमेव जननी देव त्वमेव जनकोऽविता ॥ ४९॥
महाभाग्यं जनानां मे येन ते सन्निधिः कृतः ।
एवमुक्त्वाऽऽरुरोहाश्वं सिंहयानं विनायकः ॥ ५०॥
स्वं स्वं वाहनमारूढाः सर्वे वीराः सहस्रशः ।
सुखेन मन्दिरं गत्वा नित्यकर्माऽऽचरन्मुदा ॥ ५१॥
स्वं स्वं च मन्दिरं याताः सर्वे पौरा निरामयाः ।
वाद्यत्सु सर्ववाद्येषु तुष्टुवुर्बन्दिनो नृपम् ॥ ५२॥
काशिराजोऽथ विप्रेभ्यो ददौ दानान्यनेकशः ।
स्वस्ति वाच्य पुपूजाशु देवांस्तं च विनायकम् ॥ ५३॥
उपायनानि देवाय नानालोका ददुस्तदा ।
विनायकोऽपि विप्रेभ्यो ददौ तानि यदृच्छया ॥ ५४॥
अमात्यानां च वीराणामंशुकानि ददौ नृपः ।
विसृज्य सर्वान् भुक्त्वा तौ सुखेन स्वापमीयतुः ॥ ५५॥
य इदं शृणुयाद्भक्त्या नगरीमोक्षणं नरः ।
सर्वान् कामानवाप्नोति नारिष्टैर्बाध्यतै क्वचित् ॥ ५६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नगरीमोक्षणं नाम पञ्चदशोऽध्यायः ॥ १५॥
आदितः श्लोकानां समष्ट्यङ्काः ४७२१ + ५६ = ४७७७
२.०१६ बालचरिते नृपप्रत्यागमो नाम षोडशोऽध्यायः
क उवाच ।
शृण व्यास प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यां श्रुत्वा मानवो भक्त्या सुखमत्यन्तमश्नुते ॥ १॥
उत्थाय कल्पे राजाऽसौ नित्यं कृत्वा ययौ बहिः ।
विनायकालयं गत्वा नत्वा तं परिपूज्य च ॥ २॥
सम्प्रार्थयद्भोजनार्थं ततो बालं विनायकम् ।
ततो ददौ स उद्गारं नानापक्वान्न तृप्तिजम् ॥ ३॥
शेषं ददर्श तत्रासौ लड्डुकान् पायसादिकम् ।
अपूपान् वटकान् पुण्यमोदनं सूपसंयुतम् ॥ ४॥
दधि दुग्धं मधु घृतं कथिकापात्रसञ्चयम् ।
मणिमुक्तामयीं मालां नानालङ्करणानि च ॥ ५॥
अपश्यत् तस्य देहेऽसावनर्घ्याणि नवानि च ।
पुनर्नत्वा च पप्रच्छ नृपतिस्तं विनायकम् ॥ ६॥
केन भक्तेन पूजेयं कृता ते जगदीश्वर ।
तमहं ज्ञातुमिच्छामि द्रष्टुं च त्वत्प्रसादतः ॥ ७॥
एवमुक्तो नृपेणाऽथ वदति स्म विनायकः ।
भक्ताय काशीराजाय निजभक्तकृतार्हणाम् ॥ ८॥
देव उवाच ।
शृणु राजन् प्रवक्ष्यामि यत्पृष्टोऽहमिह त्वया ।
तदहं ते प्रवक्ष्यामि सङ्क्षेपेण नृपात्मज ॥ ९॥
दण्डकारण्यदेशीये पुरे नामलसंज्ञके ।
भृशुण्डिनाम्ना भक्तोऽभूद् भूतभव्यभविष्यवित् ॥ १०॥
स्रष्टुं पातुं च संहर्तुं शक्तस्त्रैलोक्यमाशुयः ।
ब्रह्मा भवश्च विष्णुश्च नित्यं यद्दर्शनार्थिनः ॥ ११॥
सर्वकालं ममध्यानध्वस्तपापो जितेन्द्रियः ।
पुरा तपस्यतस्तस्य भ्रूमध्यान्निसृतः करः ॥ २१॥
भ्रूशुण्डीति ततः ख्यातस्त्रिषुलोकेषु सर्वदा ।
अतिभक्त्या मृत्युलोके सादृश्यं प्रापितो मम ॥ १३॥
अद्य शुक्लचतुर्थ्यां तु पूजयामास मां मुदा ।
घृतं दुग्धं दधि मधु पश्य मेऽङ्गात् स्त्रवन्नृप ॥ १४॥
भुक्तशेषमिदं चान्नं दृष्टं ते नृपसत्तम ।
क उवाच ।
तत ऊचे काशिराजो देवदेव जगत्पते ॥ १५॥
तमहं द्रष्टुमिच्छामि कथं सोऽत्रागमिष्यति ।
विनायक उवाच ।
गच्छ राजंस्त्वमद्यैव तस्य चाश्रममण्डलम् ॥ १६॥
सम्पूज्य प्रणिपत्यापि विवाहाय तमाह्वय ।
प्रार्थनीयः प्रयत्नेन वाच्यं च मद्वचोऽपि च ॥ १७॥
विनायको मम गृहमागतोऽस्ति यतो मुने ।
स चातितृप्तस्त्वत् कृतात् पूजनाद्भक्तितो मुने ।
सोऽपि त्वद्दर्शनाकाङ्क्षी तेनेह प्रेषिता वयम् ॥ १८॥
ममापि दर्शने काङ्क्षा महती पूजने तव ।
गृहं च सम्पदो मे त्वमागत्य सफलीकुरू ॥ १९॥
एवमुक्ते त्वया राजन् श्रुते च मम नामनि ।
भ्रूशुण्डी मम भक्तः स तत्क्षणादागमिष्यति ॥ २०॥
क उवाच ।
एवमुक्तः स तेनाथ प्रस्थितः परिपूज्य तम् ।
तूणीर कार्मुकधरो हयमारूह्य शीघ्रगम् ॥ २१॥
नदीवनानि च गिरीनतिक्रम्य शनैर्ययौ ।
प्राप तस्याश्रमं राजाऽवरुरोह हयात्ततः ॥ २२॥
दृष्ट्वा मुनिं भ्रूशुण्डीं स प्रणिपातं चकार ह ।
तेनापि मानितः सोऽथ पुपूजे तमृषिं मुदा ॥ २३॥
पश्यति स्म महारण्यमुपविष्टस्तदाज्ञया ।
सरोवृक्षलतापुष्पैः फलै रम्यं तदाश्रमम् ॥ २४॥
कैलासो विष्णुलोकोऽथ सत्यलोको न तादृशः ।
वेदघोषैः शास्त्रघोषैर्गीतनृत्यैर्विराजितम् ॥ २५॥
अग्निहोत्रैश्च कासारैः पक्षिभिर्जलजैरपि ।
दृष्ट्वा तमाश्रमं राजा मुमुदे हृष्टमानसः ॥ २६॥
दण्डवत् प्रणिपत्याऽसौ तं मुनिं सर्वमब्रवीत् ।
विवाहकृत्यं तत्पूजामाज्ञां वैनायकीमपि ॥ २७॥
तस्मादेहि मम गृहमिति च प्रार्थयन्नृपः ।
ऋषिः उवाच ।
कस्त्वं वद महाराज कोऽसौ तेऽपि विनायकः ॥ २८॥
नृप उवाच ।
काशिराज इति ख्यातं मां विद्धि रविवंशजम् ।
कश्यपस्य सुतः सोऽपि दैवतं ते विनायकः ॥ २९॥
तं भोक्तुकामेन मया तव कीर्तिः श्रुता मया । (तं भोजयितुकामेन तव)
चतुर्थ्यां पूजितः सम्यक् नानोपहारसञ्चयैः ॥ ३०॥
ते तत्र दर्शितास्तेन तृप्तेन नगरे मम ।
तेनोक्तं मम नाम्नैवायास्यति स मुनिर्नृप ॥ ३१॥
अतोऽहमेव संयातः प्रार्थितुं त्वां महामुने ।
तवापि दर्शनं मत्वा दुर्लभं चर्मचक्षुषाम् ॥ ३२॥
क उवाच ।
एवमुक्तो नृपतिना भ्रूशुण्डिर्विस्मयान्वितः ।
उवाच किमिदं सत्यमुत वाऽसत्यमेव च ॥ ३३॥
योऽगोचरो वेदविदां वेदान्तानां च चेतसः ।
स कथं त्वद्गृहे तिष्ठेदिति सन्दिद्यते मनः ॥ ३४॥
त्रयस्त्रिंशत्कोटिदेवा दर्शनार्थं समागताः ।
स कथं तव वाक्येन यामीत्युक्त्वा स्वमाश्रमम् ॥ ३५॥
यदि तिष्ठति देवोऽसौ तव गेहे नराधिप ।
स्वरूपं वद तस्याहं ततो यास्यामि ते गृहम् ॥ ३६॥
नृप उवाच ।
अनन्तानि स्वरूपाणि गणितुं न क्षमो विधिः ।
शेषो वा तस्य कोऽन्यो हि वक्तुमीशो भवेद्विज ॥ ३७॥
अवतीर्णः साम्प्रतं स कश्यपस्य गृहे मुने ।
विनायकेति नाम्नाऽपि विख्यातो भुवनत्रये ॥ ३८॥
अत्यद्भुतेन रूपेण सप्तवर्षात्मकेन च ।
अद्भुतानि च कर्माणि महान्ति जगदीश्वरः ॥ ३९॥
अशक्तो यानि कर्तुं वै तानि तेन कृतानि च ।
स्वरूपं तेऽभिवक्ष्यामि येन रूपेण मे गृहे ॥ ४०॥
वसते देवदेवोऽसौ ब्रह्मचारिस्वरूपतः ।
अवतीर्णो यदा सोऽभूद् दिव्यकान्तिश्चतुर्भुजः ॥ ४१॥
दिव्यमाल्याम्बरधरो दिव्यालङ्कारसंयुतः ।
दिव्यायुधधरो धीमान् दिव्यगन्धानुलेपनः ॥ ४२॥
प्रार्थितः कश्यपेनाऽसौ प्राकृतोऽभूत् तदैव सः ।
मुनिरुवाच ।
नायं देवो मम ध्यानगोचरो राजसत्तम ॥ ४३॥
यस्य प्रभावान् मे शुण्डा जाता देवर्षिदुर्लभा ।
यत्र कुत्रापि यास्येऽहं स चेदाकारयिष्यति ॥ ४४॥
क उवाच ।
एवं श्रुत्वा मुनिवचश्चिन्ताविष्टोऽब्रवीन्नृपः ।
मम भाग्यमभाग्यं च महदेतदुपस्थितम् ॥ ४५॥
त्वदाशया महाघोरान्पर्वतान् गहनानि च ।
अतिक्रम्येह सम्प्राप्तः प्राप्तं त्वद्दर्शनं महत् ॥ ४६॥
बलात्करो न मेऽत्रास्ति गन्तुं चैवालयं विभो ।
ततो मुनिः करूणया नुपमूर्ध्नि करं ददौ ॥ ४७॥
निमीलयाक्षिणी राजन्नित्युक्तः स तथाऽकरोत् ।
उन्मील्य नयनेऽपश्यत् क्षणमात्रादसौ नृपः ॥ ४८॥
गृहान्तर्गतमात्मानं पूर्ववत्तदनुग्रहात् ।
विनायकाय तं सर्वं वृत्तान्तं समभाषत ॥ ४९॥
दर्शनाद्धर्षसम्पन्नो नागतो दुःखसंयुतः ।
नागतस्तव वाक्येन मम यत्नान् मुनिस्तु सः ॥ ५०॥
ब्राह्मणेषु बलात्कारो भस्म सर्वं करिष्यति ॥ ५१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नृपप्रत्यागमो नाम षोडशोऽध्यायः ॥ १६॥
आदितः श्लोकानां समष्ट्यङ्काः ४७७७ + ५१ = ४८२८
२.०१७ बालचरिते सप्तदशोऽध्यायः
क उवाच ।
आगतं राजशार्दूलं पुनः पप्रच्छ सादरम् ।
मेघगम्भीरया वाचा सर्वज्ञोऽपि विनायकः ॥ १॥
त्वया किमुक्तं तत्राथ तेन वा भाषितं नु किम् ।
वद मे नृप तत्सर्वं श्रुत्वा वक्ष्यामि ते मतिम् ॥ २॥
नृप उवाच ।
तस्मै ते कथितं वाक्यं मयाऽपि प्रार्थितं बहु ।
स उवाच मुनिः कस्त्वं कोऽसावपि विनायकः ॥ ३॥
उपास्यरूपं बिभृयात् तदायास्ये तमीक्षितुम् ।
एवं निरात्कृतस्तेन मार्गचिन्तापरः स माम् ॥ ४॥
प्रेषयामास स्वगृहं दत्त्वा मूर्ध्निं करं मम ।
निमीलितदृशं चक्रे क्षणादुन्मील्य लोचने ॥ ५॥
तावद् ददर्श पुरतः स्थितं त्वां स्वगृहे सुर ।
स्मृत्वाऽऽश्रमपदं तस्य हर्षश्चेतसि जायते ॥ ६॥
अहसीदिति श्रुत्वैव वाक्यं तस्य विनायकः ।
विनायक उवाच ।
श्रान्तोऽसि नृपशार्दूल पुनर्गच्छ तमाश्रमम् ॥ ७॥
गजाननेति मन्नाम श्रुत्वायास्यत्यसौ मुनिः ।
एवं वदति तस्मिंस्तु सर्वरूपे विनायके ॥ ८॥
तावद् ददर्श भ्रूशुण्डेरात्मानमाश्रमे स्थितम् ।
पुनर्दृष्ट्वा स नृपतिं हृदि तर्कानथाकरोत् ॥ ९॥
किमर्थं पुनरायातो राजा किं वा वदिष्यति ।
तत ऊचे नमस्कृत्य राजा तं मुनिपुङ्गवम् ॥ १०॥
आकारयति त्वां विप्र स्वामी तव गजाननः ।
नाममात्रे श्रुते तस्य जहर्ष च मुमूर्छ च ॥ ११॥
रोमाञ्चितशरीरोऽसौ आनन्दाश्रु मुमोच ह ।
यदि पक्षौ भवेतां मे तदोड्डीय गतोऽभवम् ॥ १२॥
इत्युत्कण्ठतया विप्रः प्रतस्थे भूभुजा सह ।
भ्रूशुण्डौ चलिते पृथ्वी कदाऽप्यचलिते मुनौ ॥ १३॥
चचाल सम्मुखी भूत्वा कम्पन्ती तमथाब्रवीत् ।
रक्ष मां मुनि शार्दूल न भीर्मत्तो धरे तव ॥ १४॥
गजाननं निजं नाथं द्रष्टुं यामि त्वरान्वितः ।
इत्युक्त्वा तां पुरो यातुं चलितोऽसौ द्विजोत्तमः ॥ १५॥
पदे दत्ते तृतीये तु दर्शयामास तां पुरीम् ।
दृष्ट्वा पुरीं नृपो हर्षादुवाच मुनिपुङ्गवम् ॥ १६॥
त्वत्प्रसादादिदं प्राप्तं पत्तनं वेगवत्तया ।
तपतां जपतां दुर्ज्ञो महिमाभवतां मुने ॥ १७॥
इत्युक्त्वा शीघ्रमनयत् स्वगृहं तं नृपोत्तमः ।
उपवेश्य भ्रूशुण्डिं तं आसने काञ्चनोत्तरे ॥ १८॥
अपूजयन् महाभक्त्या पाद्यार्घविष्टरादिभिः ।
ऋषिरुवाच ।
प्रतारितोऽहं नृपते नेक्षे तावद् गजाननम् ॥ १९॥
तं प्रदर्शय नो चेत्त्वां शप्त्वा यास्ये निजाश्रमम् ।
नृप उवाच ।
क्रीडते बालभावेन बालमध्ये गजाननः ॥ २०॥
वीरो यथा धूलिलिप्तस्तथैवाऽयं विराजते ।
ददर्श च मुनिस्तं तु शुण्डादण्डविराजितम् ।
कोटिसूर्यप्रतीकाशं द्विभुजं द्विरदाननम् ॥ २१॥
उवाच नृपतिं क्रोधात् कथमेनं नमाम्यहम् ।
धिक्तं महान्तं यो राजन् नमतेऽसौ लघीयसे ॥ २२॥
तृणमत्ति कथं सिंहो गजगण्डविदारणः ।
क उवाच ।
श्रुतं तेन मुनेर्वाक्यं तमुवाच ततोऽर्भकः ॥ २३॥
कौतुकाविष्टचित्तोऽसौ लीलाविग्रहवान् विभुः ।
विनायक उवाच ।
कीदृक् ते स भवेत् स्वामी भ्रूशुण्डे वद साम्प्रतम् ॥ २४॥
मुनिरुवाच ।
दिव्याम्बरो दशभुजो मुक्तामालाविभूषितः ।
सिद्धिबुद्धियुतः कर्णकुण्डलाभ्यां विराजितः ॥ २५॥
शुण्डादण्डमुखो लम्बकर्णः सिन्दूरमण्डितः ।
अहिशोभिमहानाभिः क्वणच्चरणनूपुरः ॥ २६॥
महामुकुटशोभाढ्यो दशायुधलसत्करः ।
एकदन्तो भालचन्द्रः क्षुद्रघण्टा विराजितः ॥ २७॥
मयूरवाहनो देववृन्दवन्दितपादुकः ।
क उवाच ।
इति तद्वचनं श्रुत्वा पद्मासनगतः स्वयम् ॥ २८॥
तादृग्रूपोऽभवद्बालः सृष्टिरक्षापहारकृत् ।
भ्रूशुण्डीस्तं निरीक्ष्यैव स्वयोपास्यं गजाननम् ॥ २९॥
लुलुण्ठ भूमौ प्रेम्णा स प्रतिपत्तिपराड्ंउखः ।
ननर्त परमानन्दो रोमाञ्चितशरीरवान् ॥ ३०॥
देहभावं प्रपद्याथ प्रणनाम यथाविधि ।
पूजयामास विधिवदुपचारैः पृथक्पृथक् ॥ ३१॥
आलिङ्ग्य दशदोर्दण्डैः परमात्मा जहर्ष ह ।
सगद्गदौ निरीक्षैसौ तौ साश्रू राजा ततोप्यभूत् ॥ ३२॥
ऊचे राजा महापुण्यं फलितं पूर्वजन्मजम् ।
देवभक्तभवं सौख्यं दृष्टमद्य मयाऽद्भुतम् ॥ ३३॥
उभाभ्यां प्रणिपत्याऽथ पुपूज च यथाविधि ।
महासनगतौ तौ तु परस्परमथोचतुः ॥ ३४॥
गजानन उवाच ।
तव निष्ठामयाऽज्ञायि राज्ञा चापि निवेदिता ।
अत एव धृतो वेषो दशदोर्दण्डमण्डितः ॥ ३५॥
यथा यथा जनोऽन्योऽपि ध्यात्वा मां भजते मुने ।
तथा तथाऽहं रूपाणि करोमि च ददामि च ॥ ३६॥
वाञ्छितं तस्य लोकस्य विश्वासे न भजत्यसौ ।
दुष्टभारभयाक्रान्ता धरित्री सत्यलोकगा ॥ ३७॥
ब्रह्माणं शरणं याता तेनाऽहं प्रतिबोधितः ।
आदित्याश्च वरेणाऽहं जातः कश्यपनन्दनः ॥ ३८॥
भुवो भारं हरिष्यामि शक्रादींश्च निजे पदे ।
स्थापयिष्यामि दैत्यानां नाशं कृत्वाऽप्यनेकधा ॥ ३९॥
तवोत्कटमनुष्ठानं दृष्ट्वाऽहमीदृशोऽभवम् ।
देवान्तकं सह भ्रात्रा हत्वा यामि निजं पदम् ॥ ४०॥
ऋषिरुवाच ।
दृष्ट्वा तवाङ्घ्रियुगलं सर्वलोकसुखावहम् ।
सर्वक्लेशहरं देववन्द्यं काङ्क्षितदं प्रभो ॥ ४१॥
कृतकृत्यः पवित्रश्च जातोऽह तव दर्शनात् ।
वरं मे देहि विश्वात्मँस्तेन तृप्तो भवाम्यहम् ॥ ४२॥
यदा यदाऽहं ध्यायामि रूपेणानेन विघ्नप ।
तदा तदा मे प्रत्यक्षो भवेथाः करुणानिधे ॥ ४३॥
आशापूरक इत्येवं नाम तें ख्यातिमेतु च ।
गजानन उवाच ।
यदा यदा वाञ्छसे त्वं तदा यास्यामि तेऽन्तिकम् ॥ ४४॥
भक्तिभावादिदं नाम त्वयोक्तं ख्यातिमेष्यति ।
क उवाच ।
एवं वरौ समाकर्ण्य प्रणनाम मुदा मुनिः ॥ ४५॥
प्रणते तु मुनौ तस्मिन् पुनः प्रोचे गजाननः ।
निधाय मस्तके हस्तं शनैस्तस्य द्विजस्य सः ॥ ४६॥
यद् यत् ते वाञ्छितं ब्रह्मन् तत्सर्वं सिद्धिमेष्यति ।
अविस्मृतिश्च भविता मम नित्यं मुने तव ॥ ४७॥
क उवाच ।
एवमुक्त्वा बालरूपश्चिक्रीड स विनायकः ।
सोऽपि पद्मासनगतो ध्यानमेवान्वपद्यत ॥ ४८॥
आश्चर्यं परमं चक्रुः सर्वलोकास्तदाऽद्भुतम् ।
निरीक्ष्य बालरूपस्य चरितं परमात्मनः ॥ ४९॥
काशिराजोऽवदत्तत्र धन्योऽहं जगतीतले ।
दर्शनं प्राप्तवानस्य ब्रह्मादीनांसुदुर्लभम् ॥ ५०॥
तं च बालं करे धृत्वा निनायान्तगृहं मुदा ।
भोजयामास स्वाद्वन्नं शाययामास पूर्ववत् ।
आज्ञां गृहीत्वा सुष्वाप स्वयं च पूर्ववन्मुने ॥ ५१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भ्रुशुण्डिगजाननमेलनं सप्तदशोऽध्यायः ॥ १७॥
आदितः श्लोकानां समष्ट्यड्काः ४८२८ + ५१ = ४८७९
२.०१८ बालचरिते कपटि दैत्यवधो नामाष्टादशोऽध्यायः
व्यास उवाच ।
अपरेऽहनि सम्प्राप्ते का कथा समपद्यत ।
तां मे कथय लोकेश शृण्वन् तृप्यामि न क्वचित् ॥ १॥
क उवाच ।
शृणुष्वावहितो ब्रह्मन् कथयामि समासतः ।
विनायककृतां दिव्यां कथां पापापनोदिनीम् ॥ २॥
उदिते तु दिवानाथे नित्यकर्म समाप्य तौ ।
क्रीडार्थमगमद् बालो राजा भद्रासनं तथा ॥ ३॥
दैत्योऽथ ब्राह्मणो भूत्वा ज्योतिःशास्त्रविशारदः ।
तालीयं पुस्तकं वामे मालां दक्षे करे दधत् ॥ ४॥
पाटलं परिधानं च शिरोवस्त्रं महत्तरम् ।
गोपीचन्दन सम्भूतांस्तिलकान् द्वादशापि च ॥ ५॥
अतिदीर्घतमश्श्मश्रुराजगाम नृपान्तिकम् ।
समीपमागतं यावत् तावद् राजा ननाम तम् ॥ ६॥
उत्थाय तं समीपे स स्वासने सन्यवेशयत् ।
प्रपच्छ कुशलं तस्मै कार्यं चागमनं कुतः ॥ ७॥
किं च ते नाम विप्रेन्द्र किं ज्ञानं किं च ते तपः ।
वद सत्यं मुने कृत्वा कृपां मयि कृपानिधे ॥ ८॥
क उवाच ।
एवं पृष्टः स तेनाशु दत्त्वाशीर्वचनं पुरा ।
अनुक्रमेण सकलं निजगाद महामुने ॥ ९॥
हेमज्ज्योतिर्विदित्येवं नाम मे नृपनन्दन ।
गन्धर्वलोकादायातो वस्तुं तव समाश्रये ॥ १०॥
भूतं भवद् भविष्यं च शान्तिकानि च वेद्म्यहम् ।
प्रश्नांश्च कथयिष्यामि यान् यान् त्वं पृच्छसेऽनघ ॥ ११॥
अरिष्टान्यत्र जातानि ज्ञातानि तानि मे नृप ।
भावि ते दुष्टचिन्हं च विज्ञायाऽहं समागतः ॥ १२॥
त्वदाश्रयेण वस्तुं मे वाञ्च्छाऽस्ति नृपसत्तम ।
नृप उवाच ।
किं निमित्तमरिष्टानि जायन्तेऽत्र महामुने ॥ १३॥
अग्रेऽपि कानि भावीनि सत्यमेव वदस्व मे ।
तव प्रतीतौ जातायां स्थापयिष्ये निजे गृहे ॥ १४॥
वृत्तिं च कल्पयिष्यामि योगक्षेमकरीं तव ।
गणक उवाच ।
यावद्विनायकस्तेऽस्ति गृहे कश्यपनन्दनः ॥ १५॥
तावद् विघ्नानि जायन्ते यतो विघ्नाधिपस्तु सः ।
असञ्चारे वनै चैनं त्यक्त्वा याहि नृपात्मज ॥ १६॥
न भविष्यति विघ्नं ते नगरे वा गृहेऽपि च ।
अस्मिन् स्थिते जलं सर्व नगरं प्लावयिष्यति ॥ १७॥
तस्मिन्कथञ्चिन्नष्टे तु पर्वता वायुनोदिताः ।
चूर्णयिष्यन्ति नगरं नृप नास्त्यत्र संशयः ॥ १८॥
एतत्कथं न जानीषे पूर्वं नासन्नुपद्रवाः ।
राज्ञा विश्वसितव्यं नो कपटे लुब्धकेऽशुचौ ॥ १९॥
अतिशूरे स्वोकटे च स्वात्मपातं प्रपश्यता ।
एते घ्नन्ति च राजानं राज्यकामा महाशयाः ॥ २०॥
एतत् कथयितुं यातो ज्ञात्वा राज्यच्युतिं तव ।
हिताहितमवश्यं हि वक्तव्यं जानता नृपे ॥ २१॥
विविच्य नृप मे वाक्यं यथेच्छसि तथा कुरू ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं राजा तं पर्यभाषत ॥ २२॥
राजोवाच ।
अतीतानागतज्ञानादुक्तं सर्वं त्वया मुने ।
मिथ्यैव भासते मह्यं तत्त्वज्ञाने प्रपञ्चवत् ॥ २३॥
त्वदुक्तप्रत्यये जाते दास्यामि वेतनं तव ।
न ज्ञातो बालकश्चायं त्वया गणकसत्तम ॥ २४॥
ब्रह्माणं कमलाकान्तम् अपरं शूलिनं हरम् ।
जनयिष्यति वाञ्छा चेद्ब्रह्माण्डानि बहूनि सः ॥ २५॥
यदि ते निश्चयो वाक्ये स्वकीये ब्राह्मणोत्तम ।
नयैनं गहनं घोरं त्यक्त्वैनं पुनरेहि च ॥ २६॥
लोकद्वेषकृतोऽनेन निहता बलवत्तराः ।
स्वद्वेष्टारं कथमयं न जाने स्थापयिष्यति ॥ २७॥
अनिष्टमस्य मनसि न वयं चिन्तितुं क्षमाः ।
अनेन नगरीराज्यं त्रातमुत्पाततो बहुः ॥ २८॥
करोतीन्द्रमनिन्द्रं वाऽशक्तं शक्तं लघुं गुरुम् ।
उच्चं नीचं तथा नीचमुच्चमीशमनीश्वरम् ॥ २९॥
संश्रुत्य वाणीं नृपतेर्गणकोऽभूद्र रुषाऽरुणः ।
राजानं पुनरारेभे वक्तुं किञ्चिदवाड्ंउखः ॥ ३०॥
मया तवहितं प्रोक्तमनिष्टं तव भासते ।
न जातु लङ्घयेत् कोऽपि भाविसृष्टु तथेतरत् ॥ ३१॥
नृपते दर्शयैनं मे बालकं लक्षणानि ते ।
कथयिष्ये ततो बालान् सर्वानाकारयन्नृपः ॥ ३२॥
अग्रे विनायकः प्राप्तो धावमानास्ततोऽखिलाः ।
गणकं स नमस्कृत्य पप्रच्छ कुत आगतः ॥ ३३॥
सामुद्रलक्षणज्ञोऽसि ज्योतिःशास्त्रविशारदः ।
भूतभाविभविष्यज्ञ वद मे भाग्यजं फलम् ॥ ३४॥
क उवाच ।
सधैर्यं बालवाक्यं तदाकर्ण्य कपटी द्विजः ।
तर्कयामास मनसि कथं स्वस्तिगतिर्भवेत् ॥ ३५॥
अनेन निहता दुष्टा बलिनोऽनेकरूपिणः ।
शिशोर्हस्तं गृहित्वा स वदति स्म शुभाशुभम् ॥ ३६॥
चतुरर्षु दिवसेषु त्वं कूपमध्ये पतिष्यसि ।
चेन्निर्गतः कथञ्चित् त्वं सिन्धौ मज्जनमेष्यसि ॥ ३७॥
ततोऽपि जीवितश्चेत् तु ध्वान्तमग्नो भविष्यसि ।
ततोऽपिजीविते शैलस्त्वयि कोऽपि पतिष्यति ॥ ३८॥
महान्तौ कालपुरुषौ जीवन्तं भक्षयिष्यतः ।
एतान्यरिष्टानि तव भविष्यन्ति न संशयः ॥ ३९॥
प्रतीकारं बवीम्यत्र निर्भयार्थं कुरूष्व तम् ।
ततोऽन्यत्र मया सार्द्धं याहि दिनचतुष्टयम् ॥ ४०॥
पुनरत्रानयिष्यामि शपथो मे तथाङ्घ्रिजः ।
निशम्य वाचं बालोऽसौ जगामान्तर्गृहं शनैः ॥ ४१॥
राज्ञो हस्तात् प्रगृहयाशु मुद्रिकां रत्ननिर्मिताम् ।
कृत्वा तां स्वकरे बालो वदति स्म द्विजं प्रति ॥ ४२॥
गणकाशु वद त्वन्नो गतं वस्तु महत्तरम् ।
केन नीतं कदा प्राप्तं भूयात् ते प्रत्ययो भवेत् ॥ ४३॥
इत्युक्तः स तु बालेन विचार्य जनसंसदि ।
बभाण हास्यवदनो मुद्रिका यदि लभ्यते ॥ ४४॥
ममैव यदि देया सा तदेदानीं ब्रवीम्यहम् ।
तथेति बालकेनोक्ते तवैव करगेति सा ॥ ४५॥
इत्थमुक्तो जिह्मवेषधारिणा वाडवेन सः ।
तया मन्त्रितया बालो न्यवधीत्तं हृदि क्षणात् ॥ ४६॥
स तया भिन्नहृदयो वज्राहत इवाचलः ।
निपपात धरापृष्ठे चालयन् वसुधां भृशम् ॥ ४७॥
पतता तस्य देहेन चूर्णितं नगरं कियत् ।
काशिराजो जनाः सर्वे आश्चर्यं मेनिरे तदा ॥ ४८॥
जहर्षुर्देवता सर्वाः पुष्पवृष्टिं सुचक्रिरे ।
स्वर्गभूवाद्यघोषैर्द्यौर्व्याप्ताऽभूद् भूतलं तदा ॥ ४९॥
जना ऊचुः ।
कथं ज्ञातोऽनेन दुष्टो ब्राह्मणो ब्रह्मवेषभृत् ।
राज्ञाऽपि न कृतं दैवाद् वाक्यं तस्य दुरात्मनः ॥ ५०॥
अयं बालो न मन्तव्यो भूभारहरणेऽमरः ।
अवतीर्णः कश्यपस्य गृहेऽसौ करूणानिधिः ॥ ५१॥
मुद्रिकाघातमात्रेण कथं प्राणान् जहौ बलि ।
इत्युक्त्वा पुपूजुः सर्वे नेमुस्तं तुष्टुवुर्जगुः ॥ ५२॥
ददौ दानानि विप्रेभ्यो राजा राजीवलोचनः ।
द्विजचारणबन्दिभ्यो दीनेभ्यश्चाप्यनेकशः ॥ ५३॥
नागरान् मानयित्वा तान् विससर्ज ततः सभाम् ।
बालोऽपि बालकं रन्तुं ययौ पूर्ववदज्ञवत् ॥ ५४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कपटिदैत्यवधो नामाष्टादशोऽध्यायः ॥ १८॥
आदितः श्लोकानां समष्ट्यङ्काः ४८७९ + ५४ = ४९३३
२.०१९ कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः
क उवाच ।
बालकेन हतं श्रुत्वा ब्राह्मणं वेषधारिणम् ।
नरान्तको महादैत्यो कूपकं कन्दरासुरम् ॥ १॥
प्रेषयामास बलिनं ब्रह्मलब्धवरं तदा ।
दत्वा बहूनि वस्त्राणि रत्नानि विविधानि च ॥ २॥
दैत्य उवाच ।
गच्छ तं सुमुहूर्तेन हन्तुं बालं तमाशुच ।
नानोपायैर्मारितानां कुरूतं निष्कृतिं बलात् ॥ ३॥
क उवाच ।
एवं तेन समाज्ञप्तावसुरौ कूपकन्दरौ ।
सेनया चतुरङ्गिण्या गव्यूतिं सम्प्रतस्थतुः ॥ ४॥
निर्वर्त्य सेनां च तत ईयतुर्भृशहर्षितौ ।
विचारं चक्रतुर्मार्गे कूपोऽहं कूपतामियाम् ॥ ५॥
बालो भव क्रीडमानं मयि तं क्षिप यत्नतः ।
मण्डूकरूपः कूपस्थो भक्षयिष्यामितत्क्षणात् ॥ ६॥
अन्तर्धानं करिष्यावः कृत्वा कार्यं महत्तरम् ।
एवं तौ निश्चितमती काशिराजपुरं महत् ॥ ७॥
प्रापतुरभवत् कूपो महान्नृप नृपाजिरे ।
कन्दरो बालरूपोऽभूद् रन्तुं तेषु मनो दधे ॥ ८॥
राजाऽथ ददृशे कूपं सुजलं तं जहर्ष च ।
यावत् पश्यति मध्येऽसौ मण्डूकं तं ददर्श ह ॥ ९॥
नदन्तं मञ्जुलां वाणीं पीतवर्णं भयानकम् ।
कन्दरो बालमध्यस्थो जगाद तं विनायकम् ॥ १०॥
बहिर्याहि महाबाहो पश्य कूपं मनोहरम् ।
ददर्श कूपं बालैः स बहिरागत्य तत्क्षणात् ॥ ११॥
अत्यन्तं सुन्दरं दृष्ट्वा तं कूपं बालकैः सह ।
चिक्रीडे विविधैर्भावैर्नानानिलयनैरपि ॥ १२॥
मध्यान्हे जलमध्यस्थाः सिषिचुस्ते परस्परम् ।
मज्जनोन्मज्जनं चक्रुः कारयन्तः परस्परम् ॥ १३॥
उड्डानं जलमध्ये ते दूरादागत्य चक्रिरे ।
एवं रमित्वा ते तत्र गृहान् गन्तुं समुद्यताः ॥ १४॥
तावद् विनायकोऽपश्यज्जलमध्ये निजं वपुः ।
जानंन् तर्तुं जले सर्वान् पश्यन्नासीद् बहिः पुरा ॥ १५॥
तावन्नुनोद तं दुष्टो जलमध्ये स कन्दरः ।
अगाधं तज्जलं ज्ञात्वा लोडयामास लीलया ॥ १६॥
स्वेच्छया रमणो लक्ष्म्या क्षीराब्धिमिव वाडवः ।
अधो याति मुहूर्तं स उपरिष्टात्तथैव च ॥ १७॥
मायामास्थाय स गणो मज्जितुं समजायत ।
चरणौ हस्तकमले चिक्षेप बहुधा शिशुः ॥ १८॥
लुलुपुः सर्वशो बालास्तावत्तेन धृतो बलात् ।
चरणे कन्दरो नीतस्ततत्कूपतलमादरात् ॥ १९॥
अमज्जयद् बलात् तं च मुञ्च मुञ्चेति सोऽब्रवीत् ।
विनायकोऽपि तं प्रोचे मुञ्च मुञ्चेति मामपि ॥ २०॥
उभौ समबलौ तौ तु मज्जनोन्मज्जने रतौ ।
हिरण्यकशिपुर्लक्ष्मीनृसिंहाविव दुर्धरौ ॥ २१॥
अधस्थाद् बहुकालं तौ गतौ ज्ञात्वाऽखिलार्भकाः ।
चक्रुरार्तस्वरं दुष्टं मृतो बाल इतिस्फुटम् ॥ २२॥
अपशब्दं तथा श्रुत्वा ययुःस्त्रीवृद्धबालकाः ।
काशिराजोऽपि चुक्रोश किं कार्यमिति चाब्रवीत् ॥ २३॥
अगाधनीरे कूपेऽस्मिन् कथं जीवेत् स बालकः ।
कोऽप्यूचे चापरः प्राह शीघ्रं निःसारितो यदि ॥ २४॥
उपायो भविता कश्चिज्जीवनायास्य निश्चितम् ।
येन यत्प्रार्थ्यते दास्ये तदस्मै जीवितं स्वकम् ॥ २५॥
निष्काश्यतां बहिर्बालो वेगेन च बलेन च ।
इति राजवचः श्रुत्वा कूपमध्ये गतास्त्रयः ॥ २६॥
मग्नास्ते दैत्यकृतया मायया नापरो जनः ।
अवतर्तुं मनश्चक्रे ततो राजा शुशोच तम् ॥ २७॥
राजो वाच ।
किं मयाऽकारि दुरितं येन मे दुःखमीदृशम् ।
कथं बालो मया नीतः सुखार्थं दुःखदोऽभवत् ॥ २८॥
दर्शयिष्ये कथं तस्य पितृभ्यां मुखमेव च ।
जनाय वा कथमिदं कथमस्य मृतिर्भवेत् ॥ २९॥
निरस्तान्यत् अरिष्टानि महान्ति बालकेन ह ।
कथमस्म वशं यातो न जाने देवचेष्टितम् ॥ ३०॥
एवं सर्वेषु शोचत्सु स्त्रीवृद्धबालकेषु च ।
मण्डूकरूपी कूपस्थो व्यादाय मुखमास्थितः ॥ ३१॥
तावदेवागतो बालो नोदितःकन्दरेण सः ।
तेनापि नोदितो दैत्यो दैत्यास्ये न्यपतत् खलः ॥ ३२॥
भक्षयामास कूपस्तं मत्स्यो मत्स्यमिवालघुः ।
गिलितो बाल इति स निजरूपं समास्थितः ॥ ३३॥
कूपोऽपि गगनस्पर्धां चक्रे श्लाघ्यां यथोर्जिताम् ।
सर्वेषामेव दैत्यानामानृण्यं गतवानहम् ॥ ३४॥
इत्युज्जहर्ष मनसा मत्वा देवमविक्रमम् ।
कन्दरस्तु रूषाविष्टो विदार्यास्य महोदरम् ॥ ३५॥
निर्गम्य वेगमास्थाय स बालोऽन्तर्हितः क्षणात् ।
विदारितं मे जठरमिति कूपोऽपि कन्दरम् ॥ ३६॥
अदशत् कण्ठदेशे स जीवग्राहं रूषा तदा ।
एवं परस्पर वधात् पतितौ विव्हलौ भृशम् ॥ ३७॥
पादहस्तावमर्दैन चूर्णितं नगरं कियत् ।
यथा सुन्दोपसुन्दौ तु परस्परवधान्मृतौ ॥ ३८॥
परस्परवधात् तद्वन्मृतौ तौ कूपकन्दरौ ।
राजभृत्यैरपाकृष्य त्यक्तौ तौ नगराद् बहिः ॥ ३९॥
तत्क्षणादजिरे कूपो पिदधे स विनायकः ।
ददृशे पूर्ववत् क्रीडन् सर्वबालयुतो जनैः ॥ ४०॥
आश्चर्यं मेनिरे तत्र बाला राजा जना अपि ।
ऊचुः परस्परं केचित् कापट्यं येन युज्यते ॥ ४१॥
आमूलान्नश्यते सोऽथ स्वयमेव न संशयः ।
पतङ्गो दीपनाशार्थमायाति नश्यते यथा ॥ ४२॥
अस्य चालयितुं शक्तो न स्यात् कालोऽपि रोम च ।
दृष्टं बहुविधं चास्य सामर्थ्यमवतारिणः ॥ ४३॥
जेतुमीशं गतः कामः स्वयं भस्मत्वमागतः ।
काशिराजस्तु तत् श्रुत्वा सत्यं सत्यमिति ब्रुवन् ॥ ४४॥
ददौ दानानि विप्रेभ्यो विससर्ज प्रपूज्य तान् ।
विनायकं नमस्कृत्य गता लोका निजान् गृहान् ॥ ४५॥
केचिदालिङ्ग्य तं बालं ययू राज्ञा प्रपूजितम् ।
देवाश्च पुष्पवर्षाणि मुमुचुस्तुष्टुवुर्जनाः ॥ ४६॥
क उवाच ।
एवं न ज्ञायते ब्रह्मन् कार्याकार्यं मरुद्बलम् ।
मायास्वरूपं पुंभाग्यं राक्षसाचरणं मुने ॥ ४७॥
अवतारगुणा वापि न ज्ञेया परमात्मनः ॥ ४८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः ॥ १९॥
आदितः श्लोकानां समष्ट्यङ्काः ४९३३ + ४८ = ४९८१
२.०२० बालचरिते दैत्यत्रयवधोनाम विंशतितमोऽध्यायः
व्यास उवाच ।
काशिराजगृहे ब्रह्मन् विवाहः स कदाऽभवत् ।
तन्ममाचक्ष्व भगवन् विस्तराच्चतुरानन ॥ १॥
क उवाच ।
एकैकं नश्यतेऽरिष्टमपरं याति वै पुनः ।
अस्मिन्नष्टे करिष्यामीत्येवं यावद् विचार्यते ॥ २॥
कूपे च कन्दरे नष्टे त्रयोऽप्यन्ये उदीरिताः ।
अन्धकोऽम्भासुरस्तुङ्गो राक्षसाः क्रूरदर्शनाः ॥ ३॥
जिघांसया गता बालं ततो युद्धमवर्तत ।
श्रुत्वा येषां तु सङ्ग्रामं ब्रह्माद्याः प्रापलन् भयात् ॥ ४॥
दिग्गजा मर्दिता यैस्तु विबुधानां तु का कथा ।
कदा यं कश्यपसुतो भविता दृष्टिगोचरः ॥ ५॥
नाशयामोऽनेकधा तमिति व्यवसिता भृशम् ।
यावन्तः प्रेषिता वीरास्तावन्तो निधनं गताः ॥ ६॥
वयमेनं हनिष्यामोऽजित्वा यामो न वै गृहान् ।
वह्निरूपं समास्थाय दाहयामो मुनेः सुतम् ॥ ७॥
अन्धकस्त्वब्रवीत् तत्र तमसा व्याप्य खं दिशः ।
अन्धकारं करिष्यामि धरायामथ सर्वतः ॥ ८॥
ततः परस्परदृर्शिर्न स्यात्तेषां कदाचन ।
अम्भासुरोऽब्रवीत्तत्र महीं सर्वां जलेन ह ॥ ९॥
आपुरं प्लावयिष्यामि समन्तान् न गतिर्भवेत् ।
तुङ्गोऽब्रवीदहं तुङ्गो गिरिर्भूत्वा पुरीं तु ताम् ॥ १०॥
आलोड्य चूर्णयिष्यामि सपक्ष इव पर्वतः ।
अन्धकारे जले वह्नौ पर्वते सर्वतः स्थिते ॥ ११॥
कोऽपि गन्तुं न शक्नोति कथं बालो गमिष्यति ।
एवं निश्चितसङ्कल्पा जगर्जुस्ते त्रयो भृशम् ॥ १२॥
तेषां गर्जितशब्देन कम्पितं भुवनत्रयम् ।
तत्यजुर्निजवेलान्ते सागराः क्षुभितोदकाः ॥ १३॥
ततो रविं समाच्छाद्य तस्थौ तत्रान्धकासुरः ।
अन्धकारेमहाघोरे न प्राज्ञायत किञ्चन ॥ १४॥
अकस्माद् रजनी प्राप्ता व्यवसाय परैर्जनैः ।
स्नानासक्तैर्जपासक्तैर्होमासक्तैर्नृभिस्तदा ॥ १५॥
तपःसु वेदघोषेषु विवाहोपनयादिषु ।
कीर्तनेषु पुराणेषु द्विजदेवार्चनादिषु ॥ १६॥
सक्तैर्नानाविधैर्लोकैर्निशा प्राप्ता व्रतादिषु ।
जजल्पुः किमु विन्ध्योऽयं रुणद्धि सूर्यमण्डलम् ॥ १७॥
अथवा प्रलयो भावी वोपरागः समागतः ।
सभायामूचुरासीनं राजानमिति पण्डिताः ॥ १८॥
तर्कयन्ति यावदेव गावोऽगुः स्वगृहान्तरम् ।
असम्भावितवेलासु चक्रुर्दीपान् गृहे गृहे ॥ १९॥
कथमस्तमितिर्जाता न पाको न च भोजनम् ।
व्यस्मयन्त तदा नार्यो दुदुहुर्गाश्च काश्चन ॥ २०॥
दीपिकाभिः काष्ठदीपैर्व्यवहारं जनास्तदा ।
चक्रुर्दुःखेन कार्याणि वाणिजो ब्राह्मणादयः ॥ २१॥
सेवकानां महानन्दः कामिनां चाभवत् तदा ।
सालसानां प्रसुप्तानां निद्रालूनां तथैव च ॥ २२॥
एवं कृते चान्धकेन नाम्ना चाम्भासुरस्तदा ।
मेघरूपेण ववृषे धारा हस्तिकरोपमाः ॥ २३॥
शम्पाप्रकाशतो लोकाः क्षणमीक्षां प्रचक्रिरे ।
जलधारा भयात्सर्वे गृहमध्ये स्थिरास्तदा ॥ २४॥
प्रासादान्यपतत् केचिद्गृहाणां भित्तिका अपि ।
अन्तः केचिद्बहिः केचिन्मृता जनचयास्तदा ॥ २५॥
झञ्झावात हता वृक्षाः पतिता धरणीतले ।
सौदामिनीभिर्निर्दग्धा द्रुमा गृहचया बहु ॥ २६॥
उत्तीराभिर्नदीभिः सा समुद्रैरिव संप्लुता ।
नगरी सर्वलोकाढ्या सर्वसत्त्वसमाकुला ॥ २७॥
क उवाच ।
प्रलयं दैत्यमायां च ज्ञात्वा स करुणाकरः ।
विनायकोऽकरोन्मायां बलेन वटमुच्चकैः ॥ २८॥
निर्ममे तत्क्षणादेकं लतागुल्मैः सुशोभितम् ।
शतयोजनविस्तीर्णं जटाशाखासमन्वितम् ॥ २९॥
पक्षिरूपेण तत्रासौ स्थितो गगनलेहिनी ।
पक्षौ भूमौ प्रतिष्ठाप्य स्पृशंश्च शिरसा नभः ॥ ३०॥
प्रकाशयामास पुरीं पीत्वा चञ्च्वा जलं महत् ।
करेणाशोषयद् वन्यकरीव पल्वलोदकम् ॥ ३१॥
जना हर्षाद् हि जगदुर्गतो विघ्नो गतं जलम् ।
गतेऽन्धकारे ददृशुर्वटं सान्द्रतरं च तम् ॥ ३२॥
पक्षिणं चाद्भुताकारं न दृष्टं न च वै श्रुतम् ।
सर्वे जना ययुस्तत्र न्यग्रोधे स्थातुमुत्सुकाः ॥ ३३॥
अश्वर्गजैरथैरुष्ट्रैः शिबिकाभिर्नृभिस्तु तैः ।
स्त्रीभिर्दासैः काशिराजो वटस्याधः समाययौ ॥ ३४॥
पशवः सारमेयाश्च बिडाला वनगोचराः ।
विनायकप्रभावेण न वृष्टिस्तत्र नो तमः ॥ ३५॥
चक्रुः सर्वे पूर्ववत् ते वर्णाः कर्म यथाविधि ।
पौराः सद्व्यवसायेषु समसज्जन्त पूर्ववत् ॥ ३६॥
सर्वेषां रक्षणं कर्तुं पक्षिरूपमधारत् ।
जगदीशो गणेशो नु न जानीमोऽत्र किञ्चन ॥ ३७॥
विस्तार्य पक्षान् वृष्टिं यो न्यषेधीद् दैत्यकारिताम् ।
वृष्टिं सोल्कां सकरकां स्वयं सेहे सुखेन सः ॥ ३८॥
इति लोकास्तर्कयित्वा स्थिता निर्व्याकुलास्तदा ।
एकादश गता घस्रा एवं तत्र स्थितस्य च ॥ ३९॥
नाज्ञासीत् कोऽपि चरितं विनायककृतं द्विज ।
दृष्ट्वा विनायकं बालं क्रीडन्तं बालयूथगम् ॥ ४०॥
ततो दैत्यो क्षीणशक्ती निश्चेष्टौ समपद्यताम् ।
तुङ्गो जगर्ज बहुधा नादयन् प्रदिशो दिशः ॥ ४१॥
गिरिरूपं समास्थाय हनिष्ये पक्षिणं क्षणात ।
ब्रुवन्नेवं क्षणेनासौ पर्वतोऽभूदे भयङ्करः ॥ ४२॥
सरोनदीसमायुक्तः पञ्चयोजनविस्तृतः ।
दिव्यौषधीभिर्दीप्ताभिर्भासयन् गगनं दिशः ॥ ४३॥
नानापक्षिसमायुक्तो वाडवाश्रममण्डितः ।
सपक्षं पर्वतं दृष्ट्वा पतमानं स पक्षिराट् ॥ ४४॥
उड्डीय परिबभ्राम वारयामास तज्जलम् ।
घूर्णयन् पक्षवातेन जङ्गमाजङ्गमम् जगत् ॥ ४५॥
प्रस्था निपतिता भूमौ पर्वतानामितस्ततः ।
चञ्च्वा दध्रे स तुङ्गाद्रिं काश्यपिः फणिनं यथा ॥ ४६॥
सह तेनाभ्रमन् खेऽसौ लक्षयन् दानवावुभौ ।
अन्धकं चरणैकेन परेणाम्भासुरं च सः ॥ ४७॥
अतिक्रम्य भुवर्लोकमियाय स महाखगः ।
अतिभ्रमणखिन्नास्ते तप्ताश्च सूर्यरश्मिभिः ॥ ४८॥
निपेतुर्व्यसवो भूमौ त्रयः पर्वतसन्निभाः ।
पतन्तश्चूर्णयामासुर्वनान्युपवनानि च ॥ ४९॥
द्रष्टुं दैत्यशरीराणि स्त्रीबालसहिता जनाः ।
ययुस्ते नगराभ्याशे वीक्ष्याश्चर्यं परं ययुः ॥ ५०॥
खण्डानि तच्छरीराणां खण्डशैला इवाबभुः ।
निरस्य मायां दैत्यानां ततो लोका विसिस्मिरे ॥ ५१ ॥ (मायायां सन्निरस्तायां लोकास्तत्र विसिस्मिरे)
वटं तं देवरूपेण ददृशुर्न च वै पुनः ।
अन्तर्हिते वटे पक्षिरूपं तत्याज सोऽर्भकः ॥ ५२॥
ततो विनायकं बालं काशिराजो लिलिङ्ग ह ।
पृष्ट्वा कुशलसम्प्रश्नं नागराश्च नृपश्च तम् ॥ ५३॥
पुपूजः परमप्रीत्या विघ्ननाशं विनायकम् ।
प्रशशंसुर्मुदा देवं कश्यपस्य सुतं जनाः ॥ ५४॥
न जानीमो वयं देवं मायां दैत्यकृतां पराम् ।
सामर्थ्यं ते गुणांश्चापि यत्र वेदा विकुण्ठिताः ॥ ५५॥
लीलया रक्षिताः सर्वे मोचिता बहुसङ्कटात् ।
वाता गता विनाशं च उत्पाताश्चैव वृष्टयः ॥ ५६॥
भाति बिम्बं रवेः सम्यगन्धकारे गते लयम् ।
मनांसि सर्वलोकानां प्रसन्नानि मुदा तदा ॥ ५७॥
नद्यः प्रसन्नसलिलाः सर्वमासीद् यथा पुरा ।
ववर्षुः पुष्पवर्षाणि देवदेवे विनायके ॥ ५८॥
नानावाद्यनिनादैस्तेऽलङ्कृतं पुरमाविशन् ।
ददुर्दानानि विप्रेभ्यो देवो नः प्रीयतामिती ॥ ५९॥
शान्तिहोमं विधायाऽसौ नृपोऽदाद् गोधनं बहु ।
विसृज्य सर्वान् बुभुजे विनायकयुतो नृपः ॥ ६०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दैत्यत्रयवधोनाम विंशतितमोऽध्यायः ॥ २०॥
आदितः श्लोकानां समष्ट्यङ्काः ४९८१ + ६० = ५०४१
२.०२१ बालचरिते राक्षसीवधो नामविंशतितमोऽध्यायः
क उवाच ।
शृणु द्विज महाश्चर्यं कथ्यमानं मया तव ।
विनायकस्य चरितं सर्वपापहरं नृणाम् ॥ १॥
अम्भासुरस्य यो मूर्धा स गतो निजमन्दिरम् ।
भ्रमरी या निरैक्षिष्ट सखी सा तां न्यबोधयत् ॥ २॥
प्रसुप्तां काञ्चने तल्पे सोत्थायाङ्गणमाययौ ।
पौत्रं शिरो निरीक्षैव मूर्छिता पतिता भुवि ॥ ३॥
निघ्नती निजवक्षः सा कराभ्यां शोकनिर्भरा ।
निपतद्भूषणा खिन्ना नागामृष्टेव पद्मिनी ॥ ४॥
विभिन्नवलया छिन्नकूर्पा सा तनुमध्यमा ।
दृश्यादृश्य महद्गात्रा लुण्ठती भुवि विव्हला ॥ ५॥
निषिध्यमाना सखिभिर्भ्रातृभिः स्वजनैरपि ।
त्रिमुहूर्तैः प्रबुद्धा सा किञ्चिद् वक्तुं प्रचक्रमे ॥ ६॥
उत्थाय च कराभ्यां तु निजघान पुनः शिरः ।
भ्रमर्युवाच ।
येनेयं पृथिवी सर्व त्रासिता सामरावती ॥ ७॥
मूर्ध्नां सहस्रं शेषस्य भ्रूकटाक्षेण कम्पितम् ।
येन राज्येऽभिषिक्तौ तौ देवान्तकनरान्तकौ ॥ ८॥
यस्य श्वेडितमात्रेण रोदसी कम्पिता भृशम् ।
स कथं पतितः कुत्र निहतः केन वा सुतः ॥ ९॥
यं दृष्ट्वा कम्पितः कालः स कथं निधनं गतः ।
एवमाक्रन्दती दीना विवत्सेव पयस्विनी ॥ १०॥
एवं विलपतीं तां तु न्यषेधयत् सखीजनः ।
न दृष्ट्वा सखि केनापि मृतेन सह वै मृतिः ॥ ११॥
अतिशोकेन शोकोऽन्यः प्राप्यते मूढजन्तुभिः ।
यदि स्नेहेन पुत्रं त्वं शोचसेऽस्य हितं कुरु ॥ १२॥
चारान् प्रेषय वृत्तान्तग्रहणायाऽस्य सर्वतः ।
दह्यतां मस्तको मन्त्रैरेवमस्य हितं कुरू ॥ १३॥
सुहृदामश्रु पतितं प्रेतस्य तन्मुखे पतेत् ।
दहत्येनं न तत्त्याज्यमित्याहुः परमर्षयः ॥ १४॥
एवमाकर्ण्य तद्वाक्यं सोवाच तां सखीं रुषा ।
अयं मूर्ध्ना महाभागे स्थाप्यतां यत्नतः सखि ॥ १५॥
आनयिष्येऽदितेः पुत्रमस्तकं सह तेन च ।
दाहयिष्याम्यमुं तस्मात् स्थाप्यतां तैलमध्यगः ॥ १६॥
सा राक्षसी राक्षसवर्ययुक्ता समाययौ राजपुरीं निहन्तुम् ।
विनायकं तं निजरूपगोपिनी पतङ्गपत्नीव धनञ्जयान्तिकम् ॥ १७॥
आगताऽदितिरूपेण भासयन्ती दिशो दश ।
अति लावण्यनिलया सर्वालङ्कार शोभिनी ॥ १८॥
दाडिमी बीजदशना बिम्बोष्ठी तनुमध्यमा ।
विलसत् पद्मनयना मुक्तादामलसत्कुचा ॥ १९॥
वीरा मुमुहिरे दृष्ट्वा तादृशीं नृपसद्मगाम् ।
मनसा कामयन्ति स्म यदालिङ्गनचुम्बने ॥ २०॥
तर्कयामासुरपरे रम्भा किं नु तिलोत्तमा ।
मेनका वा घृताची वा नागी यक्षी शिवा नु किम् ॥ २१॥
उर्वशी वा रती राज्ञी कश्यपस्यादितिर्नु किम् ।
ज्ञात्वा तु राजपत्नी तां प्रणनामादितिं मुदा ॥ २२॥
पूजयामास सौभाग्यद्रव्यैर्भूषां शुकादिभिः ।
उवाच च सुचार्वङ्गी प्रेमगद्गदया गिरा ॥ २३॥
महाभाग्येन दृष्टासि त्वं देवजननी मया ।
विनायक प्रासादेन क्वाऽन्यथा दर्शनं तव ॥ २४॥
राज्ञीमेवं ब्रुवन्ती तु साश्रुकण्ठाऽवदद् वचः ।
अदितिरुवाच ।
मम बालो बहुदिनं स्थापितः कुत्र वर्तते ॥ २५॥
अत्युत्कण्ठतया सुभ्रूर्दर्शनार्थमिहागता ।
स्रीणां स्वभावं जानासि मायाव्याकुलचेतसाम् ॥ २६॥
शोकसन्तप्तगात्राऽहं तमालिङ्गामि चार्भकम् ।
तत्संसर्गसुशीताङ्गी प्राप्स्ये सन्तोषमुत्तमम् ॥ २७॥
इति तद्वचनं श्रुत्वा सादरा सा ससम्भ्रमा ।
गवेषितुं तु तं बालं राज्ञी दूतानचोदयत् ॥ २८॥
अन्ये चख्युः काशिराजं कश्यपस्त्रियमागताम् ।
स स्नात्वा गृहमागत्य तां दृष्ट्वा हर्षमाप ह ॥ २९॥
तां प्रणम्य महाभवत्या प्रोचे बद्धाञ्जलिर्नृपः ।
मे राज्यं जन्म पितरौ धनं दृष्टिः श्रुतं तपः ॥ ३०॥
दृष्ट्वा शक्तिर्देवमाता जगज्जननकारिणी ।
न शक्तिर्वर्तते सम्यग् वर्णितुं ते गुणान् मम ॥ ३१॥
बालो विनायकस्तेऽयं शक्रादधिकविक्रमः ।
अवदानान्यनेकानि कृतानि बहुधाऽसुरैः ॥ ३२॥
अशक्यानि मया वक्तुं रक्षसां निधनानि च ।
तस्यापि वर्णितुं नास्ति गुणानां शक्तिरल्पिका ॥ ३३॥
विश्राम्यतां क्षणं मातर्मम भाग्यं महत्तरम् ।
यदनेन हता मायाबलमाश्रित्य दानवाः ॥ ३४॥
अपरिक्षितेन वपुषा बालस्ते वसते सुखम् ।
त्वं किमर्थमिहायाताऽऽयाता चेत् स्थीयतां क्षणम् ॥ ३५॥
निवृत्तेऽस्मिन् विवाहे तु प्रापयिष्ये उभावपि ।
सोवाच ।
किमिदं भाषसे राजन् वियोगादस्य मेऽभवत् ॥ ३६॥
महान्खेदो न च सुखं लेभे क्वापीह किञ्चन ।
क उवाच ।
एवं वदत्यां तस्यां स आगतोऽसौ विनायकः ॥ ३७॥
प्रेषितो बालकैः सर्वैरागता जननी तव ।
सा लिलिङ्ग ततो बालमश्रुपूर्णा मुदा जगौ ॥ ३८॥
चिरकालं स्थितोऽस्यत्र मां विहायातिनिष्ठुर ।
त्वद्वियोगेन सन्तप्ताऽऽगता सर्वं विहाय च ॥ ३९॥
जीविताशां परित्यज्य त्वदर्थे तप आचरम् ।
अतिक्लेशेन लब्धोऽसि तान क्लेशान् वेत्ति चेश्वरः ॥ ४०॥
विना त्वया क्षणो मेऽतो युगकल्पसमोऽभवत् ।
एवं लाघववाक्याऽसौ दुष्टभावेन भामिनी ॥ ४१॥
अतिप्रेमबलात् सा तं कटिदेशे दधार ह ।
सोऽपि तच्चेष्टितं ज्ञात्वाऽऽगस्तस्याःपरिचिन्तयन् ॥ ४२॥
गूढाभिसन्धिस्तां प्रोचे पूर्वं किं मे त्वया हृतम् ।
एवं तस्मिन्ब्रुवत्येव लड्डुकं सा ततो ददौ ॥ ४३॥
अत्तेऽस्मिन् पुनरन्यं सा महाविषयुतं ददौ ।
अत्तेऽस्मिन् पुनरन्यं स ययाचे लड्डुकं बलात् ॥ ४४॥
काशिराजश्च पत्नी च प्रार्थयामासतुस्तदा ।
उत्तिष्ठोत्तिष्ठ मातस्त्वं सबाला भोजनं कुरू ॥ ४५॥
यावदुत्तिष्ठते सा तु तावद् रुद्धाऽर्भकेण सा ।
गिरीन्द्रसारवपुषा सा ततो विव्हलाऽभवत् ॥ ४६॥
मुञ्च मुञ्चेति तं प्राह माताऽहं तव बालक ।
बहुकालेन दृष्टुं त्वामागता स्नेहपाशतः ॥ ४७॥
कथं चूर्णयितुं मां त्वमुद्यतोऽसि गिरिर्यथा ।
कराभ्यां नुनुदे सा तं तावन्निद्रां ययौ च सः ॥ ४८॥
प्रसार्य चरणौ हस्तौ श्वासोच्छ्वासपरायणः ।
इति राजा न्यषेधत्तां विव्हलां भारपीडिताम् ॥ ४९॥
मा निद्राभङ्गमस्याशु कुरु त्वं जननी सती ।
उद्धर्तुं बालकं केचिच्चक्रुःकरुणया मनः ॥ ५०॥
उत्थापितुं चालितुं वा सर्वे नाशक्नुवंस्तदा ।
प्रार्थयामासुरपरे बालं राजीवलोचनम् ॥ ५१॥
अनुक्रोशं कुरू शिशो जननी ते मरिष्यति ।
चालयामास चरणौ हस्तौ साऽथ शिरोधराम् ॥ ५२॥
किमिदं क्रियते बाल पितरं किं वदिष्यसि ।
एवं वदत्सु लोकेषु सा मृताऽथ निशाचरी ॥ ५३॥
दशयोजनदेहेन व्यापितं भूतलं तया ।
पलायनपराः केचित् तां दृष्ट्वाऽतिभयानकाम् ॥ ५४॥
ययुः केचिच्च तां दृष्टुं विचित्रजनवृत्तयः ।
राजा च विस्मितस्तत्र जनः सर्वेविलोक्यताम् ॥ ५५॥
कथं कपटरूपेयमागता बालघातिनी ।
ऋषिपत्नीस्वरूपेण ज्ञाता न राक्षसीति च ॥ ५६॥
अत्यद्भूतमं ज्ञानमस्य सामर्थ्यं च विलोकितम् ।
इति ब्रुवाणास्तु नरास्तत्समीपं मुदा ययुः ॥ ५७॥
बालमुत्थाप्य तस्यास्तु पुष्पभारसमं जगुः ।
अपनेयेति तेऽप्याहुर्दुष्टा दुष्टस्वरूपिणी ॥ ५८॥
परस्यानिष्टमिच्छेद्यः स एव निधनं व्रजेत् ।
तुष्टुवुः परिपूज्यैनं काशिराजो जना अपि ॥ ५९॥
ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् ।
नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम् ॥ ६०॥
यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।
भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥ ६१॥
हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः ।
अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ ६२॥
स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।
नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥ ६३॥
वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।
उत्पत्तिस्थिति संहारकारिणे ते नमो नमः ॥ ६४॥
पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने ।
नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ ६५॥
नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।
मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥ ६६॥
नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।
अधिदैवाधिभूतात्मन् तापत्रयहराय ते ॥ ६७॥
सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।
सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ ६८॥
अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते ।
परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ ६९॥
अमेयमायान्वित विक्रमाय मायाविने मायिकमोहनाय ।
अमेयमायाहरणाय मायामहाश्रयायास्तु नमो नमस्ते ॥ ७०॥
एवं स्तुत्वा तु ते सर्वे ययुः स्वं स्वं गृहं मुदा ।
त्यक्त्वा तां राक्षसीं छित्त्वा खण्डशो दूरतःपुरात् ॥ ७१॥
य इदं पठते स्तोत्रं त्रिसन्ध्योत्पातनाशनम् ।
न भवन्ति महोत्पाता विघ्ना भूतभयानि च ॥ ७२॥
त्रिसन्ध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात् ।
विनायकः सदा तस्य रक्षणं कुरतेऽनघ ॥ ७३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते राक्षसीवधो नामैकविंशतितमोऽध्यायः ॥ २१॥
आदितः श्लोकानां समष्ट्यङ्काः ५०४१ + ७३ = ५११४
२.०२२ बालचरिते द्वाविंशतितमोऽध्यायः
क उवाच ।
अपरस्मिन् दिने राजा प्रातःस्नानकृतोद्यमः ।
पौराः सर्वे वितर्क्यैवं नायं देवो न मानुषः ॥ १॥
न देवश्चेत् कथं पञ्च महान्तो देवदुर्धराः ।
अजेयाः शक्रहरिभिर्हता दैत्या महाबलाः ॥ २॥
देव एव भवेद् बालमध्येऽयं क्रीडते लघु ।
इति तर्क्य ततस्तावदागता राजदर्शनम् ॥ ३॥
राजाऽपि भद्रमगमदुवाच सकलान् प्रति ।
निरूपयन्तु यत्कार्यं तद् वः सिद्धिं प्रयास्यति ॥ ४॥
किमर्थं प्रातरेवेह पौरा यूयं समागताः ।
त ऊचुर्न रहस्यं यत् स्वाभिप्रेतमृते वचः ॥ ५॥
त्वयाऽयं हि समानीतो मुनिपुत्रो विनायकः ।
नास्य दास्यमभून्नो हि किञ्चित् क्वापि कदाचन ॥ ६॥
त्वया तु पूजितोऽनेकवारं स्वशरणे स्थितः ।
यद् यत् तव गृहे याति तत् तन्नः प्रेषयस्यहो ॥ ७॥
अयं तु न कथं राजन् प्रेषितो नु विनायकः ।
राजोवाच ।
सम्यगुक्तं यत्र जना विभज्य भुज्यते तु यत् ॥ ८॥
अमृतं याति च विषं विषमन्यद् भवेत्तु तत् ।
अस्मिन्यस्य भवेद् भक्तिर्देवे वा मानुषेऽपि वा ॥ ९॥
स एनं स्वगृहे नीत्वा पूजयेद् भोजयेदपि ।
जनास्तु त्रिविधाः पौरा रजःसत्त्वतमो गुणैः ॥ १०॥
परीक्षन्तेऽनरा दुष्टाः पुण्यवन्तो भजन्त्यपि ।
केचिदेनं विनिन्दन्ति प्रशंसन्ति च केचन ॥ ११॥
यस्य स्वभावो यादृक् स्यात् तथा वर्तते नरः ।
न जहाति घृष्यमाणश्चन्दनः स्वसुगन्धिताम् ॥ १२॥
कस्तुरीकर्दमयुतः पलाण्डुर्वा निजं गुणम् ।
भवतां यदि भक्तिश्चेदनन्याऽस्मिन्सुते मुनेः ॥ १३॥
नीयतां पूजयन्त्वाशु भोजनाय प्रियाय च ।
परीक्षार्थं न नेयोऽसौ जनको जननी मम ॥ १४॥
मया कथं नरा वाच्या नीत्वैनं पूजयन्त्विति ।
अस्य शक्तिं दृढां दृष्ट्वा मम भक्तिर्विशिष्यते ॥ १५॥
नायं चेन्मत्पुरी क्वत्या कृतो यूयं क्व चाप्यहम् ।
इति राजवचः श्रुत्वा पुनरूचुश्च नागराः ॥ १६॥
यथा वदसि कल्याण तत्तथा न तदन्यथा ।
अस्माकं कार्यसिद्धिर्या तां कुरुष्व जनाधिप ॥ १७॥
नीत्वेमं स्वगृहे बालं पूजयामो यथार्हतः ।
एतस्मिन्नन्तरे बालोऽवदत् तान् सदसि स्थितान् ॥ १८॥
जानन्नन्तर्गतं तेषां सर्वसाक्षी जगद्गुरुः ।
विनायक उवाच ।
किमर्थं मां प्रार्थयन्तो भवन्तोऽतिमहत्तराः ॥ १९॥
अहं बालो मुनिसुतो मत्पूजनफलं नु किम् ।
भविष्यति न जानेऽहं भवतां व्ययकारिणाम् ॥ २०॥
विवाहो व्रतबन्धो वा यज्ञो वाऽन्यो महोत्सवः ।
तदा भवद्गृहं यास्ये हव्यं कव्यं यदा भवेत् ॥ २१॥
असङ्ख्याता भवन्तो हि कथमेको गृहं व्रजे ।
वकेशिनीं किमर्थं वा गां धोक्ष्यथ भवद्विधाः ॥ २२॥
वाञ्छितार्थी कथं याचेत् त्यक्त्वा कल्पद्रुमं द्रुमम् ।
अन्यत् क्षुद्रं वाञ्छितं वा तद्वद् यूयं समुत्सुकाः ॥ २३॥
क उवाच ।
विनायक वचः श्रुत्वा श्रेणीमुख्या जगुः पुनः ।
अस्मिन्विवाहे सम्पन्ने न स्थास्यति क्षणं भवान् ॥ २४॥
राज्ञः प्रसादाद् दृष्टोऽसि भक्तिं न सफलीकुरू ।
अवाप्तकामस्य च ते सृष्टि स्थित्यन्तकारिणः ॥ २५॥
सर्वान्तर्यामिणः सर्वचित्तवृत्तीर्विजानतः ।
कर्तुं वाप्यन्यथाकर्तुमकर्तुं वा क्षमस्य ह ॥ २६॥
चिदानन्दस्य नैवाऽस्ति पूजाभिर्नः प्रयोजनम् ।
भक्तिप्रियो देव इति निगमं न वृथा कुरू ॥ २७॥
निशम्येति वचस्तेषां तानूचेऽथ विनायकः ।
एवं चेद्भवतां भक्तिस्तदा यास्ये नृपाज्ञया ॥ २८॥
एवमाकर्ण्य तद्वाक्यं सर्वेऽपि स्वगृहान् ययुः ।
मण्डपान् विदधुः केचित् केचिद्वस्त्रगृहाणि च ॥ २९॥
तोरणान् विदधुर्भक्त्याऽऽदर्शशोभाद्भुतानि च ।
भाजनानि महार्हाणि सुगन्धचन्दनानि च ॥ ३०॥
द्रव्याणि च सुगन्धीनि मृगनाभिभवानि च ।
फलानि च विचित्राणि वासांस्याभरणानि च ॥ ३१॥
पक्वान्नानि विचित्राणि पञ्चामृतयुतानि च ।
स्थापिता मूर्तयो नानामुक्तामालाविभूषिताः ॥ ३२॥
एवं गृहे गृहे सर्वे सामग्रीं चक्रुरुत्सुकाः ।
एकोऽभून्नगरप्रान्ते ब्राह्मणो वेदशास्त्रवित् ॥ ३३॥
शुक्लनाम्ना शुक्लवृत्तिः शान्तो दान्तः क्षमान्वितः ।
श्रौतस्मार्तकर्मनिधिर्ब्रह्मनिष्ठोऽतिथिप्रियः ॥ ३४॥
यस्य पत्नी महाभागा विद्रुमा नाम नामतः ।
निस्पृहा ज्ञानसम्पन्ना सर्वावयवसुन्दरा ॥ ३५॥
दरिद्रा ज्ञाननिष्ठा सा पतिप्राणा पतिव्रता ।
तस्या गृहगतं दृश्यं नभस्ताराङ्कितं स्फुटम् ॥ ३६॥
न स्वर्णं राजतं ताम्रं भाजनं रीतिजं न च ।
गौरा वल्कलसंवीता तेजोज्वाला सुशोभना ॥ ३७॥
यदङ्गतेजसा व्याप्तं दृश्यमानं न दृश्यते ।
तेन वृत्तेन तुष्टा सा गृहशोभाविधायिनी ॥ ३८॥
तस्यास्तोषेण तुष्टोऽभूद् विनयेन च सेवया ।
स्वस्थःस्थितो ज्ञाननिष्ठस्तिष्ठत्यकृतभोजनः ॥ ३९॥
कदाचिद् भिक्षितुं यातो वारितस्तु गृहेगृहे ।
महोत्सवं प्रकुर्वद्भिर्विनायककृते जनैः ॥ ४०॥
यल्लब्धं तेन तुष्टोऽसौ भार्यामेत्याऽब्रवीदिदम् ।
श्रूयतां पत्नि नगरे वारितोऽहं गृहेगृहे ॥ ४१॥
आयास्यति प्रतिगृहं पूजार्थं स विनायकः ।
योऽवतीर्णो मनिगृहं भूभार हरणोद्यतः ॥ ४२॥
आयास्यति गृहं चेत् स पूजार्थे यत्नमाचर ।
साऽब्रवीन् महतीं पूजां त्यक्त्वाऽन्नं विविधन्तथा ॥ ४३॥
भवतां सोऽकिञ्चनानां कथं वा गृहमेष्यति ।
गन्धपुष्पं पर्युषितं पक्वं कन्दफलं मुने ॥ ४४॥
भविष्यति कृतं सम्यगसम्यक् स्वल्पमप्यहो ।
किं वा प्रयोजनं तस्य गृहेण भवतां प्रभो ॥ ४५॥
इति प्रियावचः श्रुत्वा पुनरूचे मुनिः प्रियाम् ।
स मां भक्तं विजानाति दीनानाथ प्रभुः प्रभुः ॥ ४६॥
भक्तिप्रिऽयोस्ति देवोऽयं न लोभवशगो विभुः ।
अर्णसा च पलाशेन पुष्पेण प्रीयते हि सः ॥ ४७॥
सुवर्णानिचयैर्वापि न हि दम्भात् समर्पितैः ।
इत्याकर्ण्य वचस्तस्य विद्रुमा पुनरब्रवीत् ॥ ४८॥
एवं चेत् तर्हि यत् सिद्धं तदेतस्मै निवेद्यताम् ।
ततोऽष्टादशधान्यानां कृत्वा पिष्टं पपाच सा ॥ ४९॥
ओदनश्च कृतो जीर्णतन्दुलानां जलाधिकः ।
मुष्टिपिष्टं पर्णपुटे पक्त्वा भुङ्क्ते दिनेदिने ॥ ५०॥
तत्तेन दियमानेन द्रव्येण चैलमानयत् ।
गन्धाक्षतं च पुष्पाणि धूपं दीपं महार्तिके ॥ ५१॥
वन्यं फलं वल्कलं च स्थापयामास चैकतः ।
शुष्कामलकखण्डानि मुखवासार्थमेव च ॥ ५२॥
प्रसार्य दर्भनिचयं सुसिक्ते स्वाङ्गणे ध्वजम् ।
चकार कशिपू नासौ ध्याननिष्ठोऽभवन् मुनिः ॥ ५३॥ (चकारकशिपुञ्चासौ?)
नैवेद्यं वैश्वदेवं च कृत्वा पूर्वं प्रयत्नतः ॥ ५४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विद्रुमाशुक्लनिष्ठगणेशभक्तिनिरुपणं नाम द्वाविंशतितमोऽध्यायः ॥ २२॥
आदितः श्लोकानां समष्ट्यङ्काः ५११४ + ५४ = ५१६८
२.०२३ बालचरिते शुक्लवर प्रदानं नाम त्रयोविंशतितमोऽध्यायः
क उवाच ।
स बालो बालमध्ये तु चिक्रीडे कौतुकान्वितः ।
राजा भद्रासनगतो नृत्यं सर्वजनैः सह ॥ १॥
यावत्पश्यति वेश्यानां तावदेवागतावुभौ ।
देवलोकात् सदो रम्यं सनकश्च सनन्दनः ॥ २॥
उद्भासितं तयोर्दीप्त्या सूर्याग्न्योरिव तत् सदः ।
आसनादुदतिष्ठत् स नृपतिः सहसेक्ष्य तौ ॥ ३॥
शिरः स्थाप्य पादपद्मे साष्टाङ्गं प्रणनाम तौ ।
बद्धाञ्जलिरुवाचाऽथ अद्य धन्यं कुलं मम ॥ ४॥
राज्यं ज्ञानं च देहश्च पत्नीपुत्रादिकं च यत् ।
इत्युक्त्वा पाणिना धृत्वा स्वासने चोपवेश्य तौ ॥ ५॥
उपचारैः षोडशभिरपूजयत भक्तितः ।
तौ च विश्रामयामास पादसंवानादिभिः ॥ ६॥
पुनः पुनःप्रणम्यासौ वक्तुं समुपचक्रमे ।
राजोवाच ।
मुनीनां न्यस्तदण्डानां निस्पृहाणां च सर्वदा ॥ ७॥
कार्यलिप्सा न काचित् स्यादाज्ञामीहे तथाऽप्यहम् ।
तपो राज्यं कुलं शीलं सार्थकं कर्तुमुद्यतः ॥ ८॥
तावूचतुः ।
अवाप्तसर्वकामोऽसौ परब्रह्मस्वरूपवान् ।
लीलावतारी भगवान् कश्यपस्य सुतस्तव ॥ ९॥
गृहे नानाकौतुकानि कुरुतेऽद्भुतविक्रमः ।
श्रुत्वाऽवदानं तस्यात्र द्रष्टुमावां समागतौ ॥ १०॥
अन्यथा शक्रभवनत्यागे किं नः प्रयोजनम् ।
गृहे यस्य कस्पतरुः सोऽन्यं किं याचयिष्यति ॥ ११॥
तस्याङ्घ्रिकमलं नत्वा गच्छावः स्वस्थलं नृप ।
एवं तयोरागतयोः श्रुत्वा वाक्यं विनायकः ॥ १२॥
वदतोरागतः क्रीडां त्यक्त्वा मोदकहस्तकः ।
पञ्चखाद्यमयं भक्ष्यं मोदकं लीलया दधत् ॥ १३॥
तयोस्तं दर्शयामास नृपो हास्यपरो मृदु ।
सोऽयं समागतो देवो यद्दर्शनसमुत्सुकौ ॥ १४॥
आगतो यच्च कर्तव्यं कुरुतं तद् यथेष्टतः ।
तं निरीक्ष्य मुनी तौ तु परस्परमथोचतुः ॥ १५॥
अनेन दूषितो नूनं कश्यपो मुनिसत्तमः ।
तत्पुत्रतां समासाद्य स्वाचारं त्यजता भृशम् ॥ १६॥
स्पृष्टास्पृष्टविचारोऽस्य भक्ष्याभक्ष्यविधिर्न च ।
दर्शने स्पर्शने चास्य महान् दोषो भवेत् खलु ॥ १७॥
कथं स्वनियमाँस्त्यक्त्वा स्थितः क्षत्रियवेश्मनि ।
स्वधर्मे नः स्थितानां तु दर्शनेनाऽस्य किं भवेत् ॥ १८॥
शुश्राव तां गिरं देवो नृपसन्निहितस्तदा ।
उवाच वाक्यं वाक्यज्ञो वाचस्पतिरिवापरः ॥ १९॥
क्व गतं भवतो ज्ञानं वृथा श्रमवतोर्मुनी ।
स्वर्गं त्यक्त्वा कथमिह सम्प्राप्तौ प्राकृताविव ॥ २०॥
श्रुत्वेत्थं वचनं तस्य नृपतिं तावथोचतुः ।
मायामयस्य देवस्य मायया मोहितो भृशम् ॥ २१॥
देह्यनुज्ञां गमिष्यावो निजमाश्रम मण्डलम् ।
ततो नृपतिशार्दूलो दृढभक्ति प्रणोदितः ॥ २२॥
स्थीयतां श्रूयतां वाक्यं मदीयमित्युवाच तौ ।
भक्त्या च प्रार्थयामास स्नात्वा भुक्त्वाऽनुगम्यताम् ॥ २३॥
निशम्य प्रार्थनां तस्य मोचतुर्मुनिपुङ्गवौ ।
न भुज्येते राजकीयमन्नं तस्माद् व्रजावहे ॥ २४॥
तदनुज्ञां समासाद्य मणिकर्णी ततो गतौ ।
विनायकः सर्वबालैरनुयातो मुदा रमन् ॥ २५॥
स्नात्वा गतः शुक्लगृहं ज्ञात्वा तद्भक्तिमादृतः ।
यथा धावति गौर्वत्सं यथा माता रुदच्छिशुम् ॥ २६॥
यथा कृष्णः सभानीतां द्रौपदीं शरणागताम् ।
दृष्ट्वा तौ दम्पती देवं पादयोर्विनिपेततुः ॥ २७॥
आनन्दाश्रूणि मुञ्चन्तौ वाचा गद्गदया गिरा ।
लिलिङ्गतुर्मुदा देवं ननृतुर्हर्षनिर्भरौ ॥ २८॥
न विन्दतुः प्रकर्तव्यं देहातीताविवासतुः ।
रोमाञ्चाञ्चितगात्रौ तौ बाष्पधाराममुञ्चताम् ॥ २९॥
मुहूर्ताल्लब्धसंज्ञौ तौ नेमतुर्जगदीश्वरम् ।
तत ऊचे मुनिर्देवं दीननाथेति यत् तव ॥ ३०॥
विख्यातं त्रिषु लोकेषु नाम पापहरं शुभम् ।
सार्थकं कृतमद्यैव जन्म नः पाददर्शनात् ॥ ३१॥
प्रासादनिचयाँस्त्यक्त्वाऽऽगतः पर्णकुटीमिमाम् ।
धन्यो वंशो मदीयोऽद्य जन्म ज्ञानं तपो वयः ॥ ३२॥
अपूजयत् ततस्तं स कुशासनगतं मुनिः ।
प्रक्षाल्य चरणद्वन्द्वं जलं तच्छिरसाऽदधत् ॥ ३३॥
गन्धाक्षतं पुष्पमालां धूपं दीपं ददावथ ।
दूर्वाङ्कुरान् शमीपत्रं सुतैलं केतकं शुभम् ॥ ३४॥
खाद्यं स्वल्पं पुरः स्थाप्य फलमारण्यकं तथा ।
पुष्पाञ्जलिं मन्त्रपूतां दत्त्वा नत्त्वा स लज्जितः ॥ ३५॥
कदन्नं कथमस्मै तद्देयमित्येव चिन्तयन् ।
अभिप्रायं विदित्वा तं देवदेवो विनायकः ॥ ३६॥
याचे मातः किमन्नं ते गृहे तद्दीयतां मम ।
भक्त्या दत्तं कदन्नं मेऽधिकं स्यादमृतादपि ॥ ३७॥
विषं भवति यद्दत्तं दम्भेनाऽश्रद्धयान्वितम् ।
विस्तीर्णमोदनं शुष्कं भास्करीं बहुधान्यजाम् ॥ ३८॥
आस्थापयत् पुरस्तस्य मुनिपत्नी ह्रियान्विता ।
तैलं च सकलं दृष्ट्वा प्राहसंस्तं च बालकाः ॥ ३९॥
अभक्षयत् स पक्वान्नसदृशं परमादरात् ।
प्रतिग्रासं जलं पीत्वा जघास बलवत्तरम् ॥ ४०॥
ततस्तेनोदनः पात्रं निक्षिप्तो मुनिनाऽखिलः ।
तज्जलं चलितं दिक्षु बालो रोद्धुं न चाशकत् ॥ ४१॥
ततोऽभवद् दशभुजो बुभुजे चौदनं च तैः ।
आश्चर्यं ददृशुर्लोका हसन्तो हस्ततालतः ॥ ४२॥
अपूर्वः पाचितोऽयं नु जानुदघ्नजलेन यः ।
इत्यूचुर्बुभुजुर्बाला रुच्या पायसकल्पया ॥ ४३॥
साकं तेन च यैर्भुक्तं गतास्ते देवतुल्यताम् ।
अशोचन्नितरे पश्चाद् येऽहसन् विवृतै रदैः ॥ ४४॥
कोलाहलो महानासीन्नगरे क्व विनायकः ।
केचिदूचुः शुक्लगृहे भुनक्ति शीर्णमोदनम् ॥ ४५॥
रोद्धुं कृता दशभुजो ओदनं च भुनक्ति तैः ।
भुक्ते तस्मिन्विशुद्धे स शुष्कमामलकं ददौ ॥ ४६॥
मुखशुद्धिं तेन चक्रे जगदात्मा विनायकः ।
प्रसन्नः शुक्लमवदत् प्रीतो भावेन तेऽनघ ॥ ४७॥
वरान्वृणु महाभाग मत्तो यानभिकाङ्क्षसे ।
शुक्ल उवाच ।
सर्वान् नागरिकांस्त्यक्त्वा भोक्तुं रुक्षान्नमागतः ॥ ४८॥
अयमेव वरो मह्यं यज्जातं तव दर्शनम् ।
प्रभुवाक्यानुरोधेन याचे भक्तिं त्वयि स्थिराम् ॥ ४९॥
अन्ते मोक्षं च मे देहि येन नावर्तते पुनः ।
न संसारसुखे चित्तं रमते ते मे विनायक ॥ ५०॥
क उवाच ।
एवमस्त्विति तं प्रोच्य पूर्ववद्द्विभुजः शिशुः ।
गृहं तस्मै शक्रगृहाद् वरं सद्रत्नकाञ्चनम् ॥ ५१॥
अत्युत्तमं स्वरूपं च ज्ञानं सम्पदमर्पयत् ।
अनुज्ञातो ययौ ताभ्यामन्यत्र बालकैर्वृतः ॥ ५२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्लवरप्रदानं नाम त्रयोविंशतितमोऽध्यायः ॥ २३॥
आदितः श्लोकानां समष्ट्यङ्काः ५१६८ + ५२ = ५२२०
२.०२४ विनायक भोजनकथनं नाम चतुर्विंशतितमोऽध्यायः
क उवाच ।
व्यलोकयंस्तं नगरे तस्मिन् सर्वे महाजनाः ।
विधाय पूजासामग्रीं भोजनस्याप्यनेकधा ॥ १॥
गृहे गृहे राजगृहे सर्वाऽमात्यगृहेऽपि च ।
गवेषयन्ति स्म जनास्तदा कश्यपनन्दनम् ॥ २॥
अपृच्छन्त जनाः सर्वे कच्चिद् दृष्टो विनायकः ।
नेति नेति श्रुतिर्वक्ति यं स कस्याक्षिगोचरः ॥ ३॥
भवेन्नालोकितोऽस्माभिरिति तत्रावदन् जनाः ।
पुरप्रान्ते तु ये तत्र तेऽशृण्वन् जनवाक्यतः ॥ ४॥
स चागतः शुक्लगृहं ततस्ते तद्गृहं ययुः ।
नापश्यंस्तमथापृच्छँस्तेनोक्तं स इतो गतः ॥ ५॥
स तु मायामयो बालो जनान् वञ्चितुमुत्सुकः ।
विसृज्य बालकान् पश्चाद्द्वारेणाऽऽगत्यसुप्तवान् ॥ ६॥
केचित्तं ददृशुः सुप्तं हर्यक्षमिव गव्हरे ।
केचित्तं क्रोधावशगा निनिन्दुर्बालको लघुः ॥ ७॥
पिशाच इव किं यातो दरिद्रस्य गृहं प्रति ।
ईशश्चेत् सर्वभावज्ञः सर्वेषां प्रियमाचरेत् ॥ ८॥
उत्थाप्य तं करे धृत्वा याहीति शरणं शुभम् ।
सफलं कुरु नः सर्वं त्वदर्थमुपकल्पितम् ॥ ९॥
गतः खेदो भ्रमणजो दृष्ट्वा त्वच्चरणाम्बुजम् ।
याहि याहि गृहान् नस्त्वं भोक्तुं बालगणैः सह ॥ १०॥
स ऊचे साम्प्रतं भुक्तं पुनरूचुर्जनास्तु तम् ।
दरिद्रस्य गृहे किं ते भुक्तं स्याद्भैक्ष्यवर्तितः ॥ ११॥
नापोऽपि पिबते क्वान्नं कथं भुक्तं त्वया विभो ।
गणेश उवाच ।
उदरं परिपूर्णं मे यातुं शक्तिश्च नास्ति मे ॥ १२॥
क उवाच ।
ततः सर्वे विदित्वा तं भुक्तं शुक्लगृहे जनाः ।
निराशाभग्नसङ्कल्पा रूष्टा दीना विचेतसः ॥ १३॥
सम्भारा व्यर्थतां याता नानाक्लेशार्थसञ्चिताः ।
बुभुजुस्तान् स्वयं दुष्टा दाम्भिका भक्तिवर्जिताः ॥ १४॥
ये भक्तास्ते निराहारास्तस्थुर्ध्यानपरायणाः ।
एवं सर्वेषु लोकेषु ज्ञात्वा ध्यानस्थितेषु सः ॥ १५॥
एको नानास्वरूपोऽभूद् घटाकाश इव स्फुटम् ।
जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते ॥ १६॥
क्वचित् पर्यङ्कशयनः क्वचिज्जपपरायणः ।
क्वचिद् दानरतः क्वापि भोजनाय समुत्सुकः ॥ १७॥
क्वचित् पाठ्यते शिष्यान् साङ्गं वेदं सहार्थकम् ।
क्वचिद् व्याकुरुते शास्त्रं क्वचिच्च पठति स्वयम् ॥ १८॥
एवं नानास्वरूपैः स नानागृहगतो बभौ ।
अयमस्मद् गृहं यातः पूर्वमित्यभिमेनिरे ॥ १९॥
तैलमुद्वर्तनं स्नानं पूजनं भोजनं ददुः ।
एवं सर्वे जहृषिरे काशिराजसमन्वितम् ॥ २०॥
दृष्ट्वा देवं परमया मुदा साधुविनायकम् ।
पुपूजुर्भोजयामासुर्द्विजान् सुहृद्गणानपि ॥ २१॥
पञ्चामृतं च पक्वान्नं व्यञ्जनं पायसौदनौ ।
अन्यद् रुचिकरं सर्वं बुभुजुस्ते यथारुचि ॥ २२॥
एवं द्विजेषु देवेषु काशिराजे सुहृत्स्वपि ।
आशीर्वत्सु समाविष्टः काशिराजोऽन्वपृच्छत ॥ २३॥
मायया मुनिपुत्रस्य मोहितोऽनेकधाऽऽकृतेः ।
राजोवाच ।
विनायको गतो भोक्तुं नानागृह इतिस्फुटम् ॥ २४॥
अयं मे निकटेऽप्यस्ति को नु भुङ्क्ते गृहे गृहे ।
क्वचिच्च शिबिकारूढो याति भोक्तुं विनायकः ॥ २५॥
गजारूढः क्वचिद् याति हयारुढश्च कुत्रचित् ।
एवं सर्वेषु लोकेषु पूजाव्यग्रेषु बालके ॥ २६॥
ततस्तौ नगरीं यातौ तत्र तत्र विनायकम् ।
अपश्यतां भुक्तवन्तं परावृत्य समीयतुः ॥ २७॥
यत्र यत्र गृहे यातौ तत्र तत्र विनायकम् ।
निर्वृत्य सकलं नित्यं भिक्षार्थं पर्यगच्छताम् ॥ २८॥
शयानं शयनें दिव्ये भक्षयन्तं फलानि च ।
चर्वयन्तं च ताम्बूलं क्वचिद् गन्धादिचर्चितम् ॥ २९॥
क्वचिन्नृत्यं प्रपश्यन्तं गणिकानां गणान्वितम् ।
क्रीडन्तमक्षैः कुत्रापि क्वचिद् बुद्धिबलेन च ॥ ३०॥
नानालङ्कारसंयुक्तं दिव्यवस्त्रान्वितं क्वचित् ।
पठन्तं च जपन्तं च ध्यानेन तमपश्यताम् ॥ ३१॥
स्तूयमानं क्वचिद् भक्तैस्तुवन्तं जगदीश्वरम् ।
दर्शयन्तं विभूतिं स्वां भक्त्यायाऽनेकशः क्वचित् ॥ ३२॥
युवानं रमयन्तं स्वाःस्त्रियोऽत्यन्तमनोरमाः ।
चिकित्सयन्तं वृद्धं च सेवन्तं रसमुत्तमम् ॥ ३३॥
रिङ्गन्तं भक्षयन्तं च मृदं कुत्रचिदङ्गणे ।
परिश्रान्तं पिबन्तं कं क्रीडाभिःकन्दुकादिभिः ॥ ३४॥
एवं तौ क्षुधितौ श्रान्तौ पर्यटन्तौ गृहे गृहे ।
सर्वत्र दष्ट्वा तं देवं परस्परमथोचतुः ॥ ३५॥
अत्रास्ति निर्मलः शुक्लो ब्राह्मणो नगरे शुचिः ।
यावो भोक्तुं तस्य गृहे इत्युक्वा तत्र जग्मतुः ॥ ३६॥
तत्रापि सोंऽङ्गणगतो दृष्टस्ताभ्यां विनायकः ।
नगरे नात्र भोक्तव्यं न तु शेषं विनायकात् ॥ ३७॥
इत्युक्त्वा बहिरायातौ पुरो दृष्ट्वा विनायकम् ।
तिर्यग् गतिधरौ भूत्वा ततोऽपि समपश्यताम् ॥ ३८॥
प्राच्यां प्रतीच्यां च दिशि तमेवेतौ समन्ततः ।
अधश्चोर्ध्वं सर्वगतं विनायकमपश्यताम् ॥ ३९॥
विनायकस्वरूपं च तौ पुनर्विश्वरूपिणम् ।
सर्वं विनायकमयं वस्तुमात्रमपश्यताम् ॥ ४०॥
अथाभावयतां शम्भुं विष्णुं तौ भृशविस्मितौ ।
अपश्यतां हृदि तदा तं च तं च विनायकम् ॥ ४१॥
निमील्य नयने चान्तस्तमेव मुनिसत्तमौ ।
उद्घाट्य नयने चापि स्वान्त एनमपश्यताम् ॥ ४२॥
किरीटिनं कुण्डलिनं मुक्तामालाम्बराङ्गदम् ।
कटिसूत्रेण हैमेन मुद्रिकाभिश्च भूषितम् ॥ ४३॥
सिंहारूढं दशभुजं सिद्धिबुद्धियुतं शुभम् ।
भालचन्द्रं मृगमदतिलकं नागभूषणम् ॥ ४४॥
सूर्यकोटिप्रभं सृष्टिस्थितिसंहारकारिणम् ।
त्यक्त्वा भेदं तत्त्वविदौ नेमतुश्चरणाम्बुजम् ॥ ४५॥
नुतःस्म परया भक्त्या देवदेवं विनायकम् ।
तस्यैव करूणाप्राप्त प्रबोधौ तौ मुनीश्वरौ ॥ ४६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकभोजनकथनं नाम चतुर्विंशतितमोऽध्यायः ॥ २४॥
आदितः श्लोकानां समष्ट्यङ्काः ५२२० + ४६ = ५२६६
२.०२५ बालचरिते भक्तिप्रशंसा कथनं नाम पञ्चविंशतितमोऽध्यायः
तावूचतुः ।
सर्वेषां कारणानां त्वं कारणं कारणातिगः ।
ब्रह्मस्वरूपो ब्रह्माण्डकारणं व्यापकः परः ॥ १॥
पासीदं सृजसे विश्वं त्वमेव हरसेऽनघ ।
नानारूपैररूपस्त्वं नानामाया बलान्वितः ॥ २॥
त्वमेव पञ्चभूतानि यक्षगन्धर्व राक्षसाः ।
कस्त्वां स्तोतुं समर्थः स्याच्चराचरस्वरूपकम् ॥ ३॥
नेति नेति ब्रवीति स्म त्वद्रूपाज्ञानतः श्रुतिः ।
आवां विमोहितौ ज्ञातुं नेशाथे रूपमुत्तमम् ॥ ४॥
महिमानं न जानीवोऽनेकरूपस्य ते विभो ।
कृतकृत्यौ भवत्पाददर्शनात्स्वः प्रभोऽधुना ॥ ५॥
नानावतारैर्भूभारं हरसेऽनन्तशक्तितः ।
क उवाच ।
एवं तयोः स्तुति श्रुत्वा प्रीत्या प्रोवाच तावुभौ ॥ ६॥
विनायको बालरूपी कौतुकी मायिकोऽपि च ।
तत्त्वज्ञौ मत्प्रसादाच्च सर्वज्ञौ च भविष्यथः ॥ ७॥
एवं दत्वा वरं देवस्तत्रैवान्तरधीयत ।
ततस्तौ मूर्त्तिमतुलां कृत्वा सम्यग्विनायकीम् ॥ ८॥
कृत्वा प्रासादामतुलं रत्नकाञ्चनसंयुतम् ।
स्थापयामासतुरुभौ सनकश्च सनन्दनः ॥ ९॥
आख्यां च चक्रतुस्तस्या वरदोऽयं विनायकः ।
गणेशकुण्डमिति च कृतं ताभ्यां सरोवरम् ॥ १०॥
अत्र स्नात्वा पूजयेद्यो वरदं तं विनायकम् ।
स कामानखिलान् प्राप्य भुक्त्वा भोगाननेकशः ॥ ११॥
अवाप्यपुत्रान् पौत्राश्च विद्यामायुर्यशो महत् ।
धनं धान्यं यशश्चापि तत्त्वज्ञानं च शाश्वतम् ॥ १२॥
अन्ते वैनायकं धाम याति नास्त्यत्र संशयः ।
क उवाच ।
यत्र देवाःसगन्धर्वा यक्षाश्चाप्सरसां गणाः ॥ १३॥
दृष्ट्वा सम्पूज्य देवेशं तत्रैवान्तर्हिताः क्षणात् ।
सम्प्राप्तविस्मयौ तौ च जग्मतुर्दिवमुत्तमम् ॥ १४॥
काशिराजोऽपि तत्रैत्य सामात्यःसप्रजस्तुतम् ।
नानाद्रव्यैरलङ्कारैर्वस्त्रैरुच्चावचैरपि ॥ १५॥
पक्वान्नैश्चाप्यनेकैश्च फलैर्नानाविधैरपि ।
रत्नैर्मुक्ताफलैः पुष्पैर्दक्षिणाभिरनेकशः ॥ १६॥
पुपूज परया भक्त्या ब्राह्मणैः सह मन्त्रतः ।
ब्राह्मणान् पूजयामास वस्त्रालङ्कारकाञ्चनैः ॥ १७॥
आशिषः परिगृह्यैव नगरं पुनरागमत् ।
तथैव ताः प्रकृतयः पुपूजुस्तं विनायकम् ॥ १८॥
तथैव ब्राह्मणान् पूज्य जगृहुराशिषः पराः ।
ततः प्रजास्तं पुपूजुर्यथाशक्ति विनायकम् ॥ १९॥
सर्वे तेहृष्टमनसः पुरं प्रविविशुस्तदा ।
इति ते सर्वमाख्यातं विनायकविचेष्टितम् ॥ २०॥
सर्वपापपहरं पुण्यं किमन्यच्छ्रोतुमिच्छसि ।
मुनिरुवाच ।
श्रुतं चरित्रं शुक्लस्य शुक्लभिक्षारतस्य च ॥ २१॥
धातुस्पर्शविहीनस्य गृहं यातौ विनायकः ।
भुजैर्दशभिरादाय ह्योदनं शिथिलं जलैः ॥ २२॥
जग्ध्वा त्यक्त्वा श्रमं तृप्तो दारिद्र्यञ्चव्यनाशयत् ।
दत्तं गृहं तु शुक्लस्य शक्रस्य नगराद्वरम् ॥ २३॥
सम्पदोऽपि तथा दत्ता याः सन्ति ह्यलकाधिपे ।
स्वरूपं च तथा दत्तं यन्नास्ति मकरध्वजे ॥ २४॥
ज्ञानं तस्मै तथा दत्तं यन्नास्ति चतुरानने ।
अत्र किं कारणं ब्रह्मन् तन्मे व्याख्यातुमर्हसि ॥ २५॥
क उवाच ।
सम्यक् पृष्टं त्वया व्यास परमेशकथा यतः ।
पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितःश्रुता ॥ २६॥
मनो मे हि स्थितं वक्तुं तत् पृष्टं हि त्वया विभो ।
सम्यक् तेऽहं वदिष्यामि भक्तिगम्यस्य चेष्टितम् ॥ २७॥
सर्वज्ञः सर्वदर्शी च सर्वगः सर्वचित्तवित् ।
भक्त्यैव तुष्यते देवो भावो हि तोषकारणम् ॥ २८॥
भक्त्या हृतं पलाशं च जलं पुष्पं मनोहरम् ।
तेनैव परितुष्टोऽसावात्मानं च प्रयच्छति ॥ २९॥
दम्भेन हेलया वापि लज्जयाऽपि परस्य वा ।
महाधनं महावित्तं रत्नानि विविधानि च ॥ ३०॥
काञ्चनं राजतं मुक्ता दत्तं सर्वं वृथा भवेत् ।
शमीपत्रेण तुष्टोऽसौ व्याधायाऽदात् सलोकताम् ॥ ३१॥
प्रसङ्गतोऽपि दत्तेन भावं कृत्वा दृढं हृदि ।
अनायासेन लब्धेन तस्माद् भक्तिर्गरीयसी ॥ ३२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भक्तिप्रशंसाकथनं नाम पञ्चविंशतितमोऽध्यायः ॥ २५॥
आदितः श्लोकानां समष्ट्यङ्काः ५२६६ + ३२ = ५२९८
२.०२६ भीमराक्षसमोक्षणं नाम षड्विंशति तमोऽध्यायः
मुनिरुवाच ।
किं कर्म कृतवान् व्याधः कथं पत्रं समर्पितम् ।
किं नामा स कथं प्राप्तः सालोक्यं तद्वदस्व मे ॥ १॥
क उवाच ।
विदर्भदेशे नगर मदिषाख्यं बभूव ह ।
विख्यातं त्रिषु लोकेषु कुबेरनगरोपमम् ॥ २॥
भीमो नामाभवद् व्याधो नगरे मांसविक्रयी ।
परेषां दोषकथने दोषो यद्यपि वर्तते ॥ ३॥
प्रश्ने कृते तु वक्तव्यो याथातथ्यान्न मत्सरात् ।
स भीमो दोषबहुलो बाणकोदण्डवान् वने ॥ ४॥
शरपूर्णेषुधी खड्गी चापं बिभ्रच्च शस्त्रिकाम् ।
अवधीत् प्राणिनो नित्यं कुटुम्बभरणे रतः ॥ ५॥
पथिकान् ब्राह्मणांश्चापि निर्दयो निर्जने वने ।
कदाचिन्नगरे तस्मिन् समारब्धो महोत्सवः ॥ ६॥
प्रातरेव वनं यातो बहुमांसजिघृक्षया ।
विक्रयेच्छुर्द्रव्यलुब्धो कुटुम्बस्यापि पोषकः ॥ ७॥
जघान मृगयूथाँस्तान्मांसभारयुतः पुरम् ।
यावत्प्रविशते तावदागतो राक्षसो महान् ॥ ८॥
मनुष्यगन्धहृष्टोऽसौ ययौ तस्यान्तिकं क्षणात् ।
पिङ्गाक्षो नामतः पिङ्गनेत्रःसर्वभयङ्करः ॥ ९॥
मनुष्यश्वापदाशी स दुष्पूर इव हव्यभुक् ।
च कम्पे स च तं दृष्ट्वा व्याधो भूमावथाऽपतत् ॥ १०॥
पतितानि च शस्त्राणि नेत्रेऽप्याच्छादिते बलात् ।
उन्मील्य नयनेऽपश्यच्छमीवृक्षं समीपतः ॥ ११॥
आरुरोह च भीमस्तं राक्षसोऽपि समारुहत् ।
तावच्चिक्षेप शाखांस तत्त्पत्रं वायुनेरितम् ॥ १२॥
पपात गणनाथस्य वामनस्थापितस्य ह ।
मस्तके तेन तुष्टोऽसावुभाभ्यां पूजितः स्फुटम् ॥ १३॥
वामनाय वरान् दातुं स्फुटो योभूद् गजाननः ।
बलिं विजेतुकामाय कश्यपस्यात्मजाय सः ॥ १४॥
अत्यन्तं तुष्यते देवो दूर्वया च शमीदलैः ।
रत्नकाञ्चनसंयुक्ता दिव्यवस्त्रसमन्विता ॥ १५॥
दुर्वाङ्कुरं विना पूजा निष्फला जायते नृणाम् ।
शमीपत्रेण वा सा स्यात् सफला नान्यथा क्वचित् ॥ १६॥
यज्ञदानव्रतैरन्यैस्तपोभिर्नियमैरपि ।
तथा न प्रीयते देवः काञ्चनै रत्नसञ्चयैः ॥ १७॥
दूर्वाभिश्च शमीपत्रैर्यथा सुप्रीयते विभुः ।
तयोस्तुष्टो देवदेवोऽप्रेषयद् यानमुत्तमम् ॥ १८॥
स्वरूपधारिभिर्युक्तं किङ्करैर्निजलोकतः ।
तेषां निरीक्षणान्नष्टाः पापपर्वत राशयः ॥ १९॥
कृपया च गणेशस्य तयो राक्षसभीमयोः ।
यथाग्निकणसम्पर्कान्नश्यन्ते तृणपर्वताः ॥ २०॥
त्यक्त्वा देहौ दिव्यदेहौ गृहीत्वा यानमास्थितौ ।
दूतैः सम्पूजितौ नानावतस्त्रभूषाविलेपनैः ॥ २१॥
नानावादित्रनिर्घोषैः स्त्रीगन्धर्वैयुतं महत् ।
नीतौ तौ देवनिकटे नेमतुस्तौ विनायकम् ॥ २२॥
अशेषपापनिर्मुक्तो प्रापतुस्तौ सरुपताम् ।
आकल्पं स्थापितौ तेन गणेशेन निजस्थले ॥ २३॥
एवं भावप्रियो देवः प्रीयते भक्तिभावतः ।
तथैव मुष्टिमात्रान्नात् सन्तुष्टोऽभूद् द्विजस्य सः ।
शुक्लस्य प्रददौ दिव्यमलकासदृशं गृहम् ॥ २४॥
तस्माद् दूर्वा शमीपत्रैर्विना पूजा वृथा भवेत् ।
न महत्या दाम्भिकया पूजया प्रीयते तथा ॥ २५॥
यथा भावेन कृतया स्वल्पयाऽसौ गजाननः ॥ २६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे भीमराक्षसमोक्षणं नाम षड्विंशतितमोऽध्यायः ॥ २६॥
आदितः श्लोकानां समष्ट्यङ्काः ५२९८ + २६ = ५३२४
२.०२७ बालचरिते सप्तविंशतीतमोऽध्यायः
व्यास उवाच ।
पूर्वजन्मनि व्याधोऽसौ क आसीद् राक्षसोऽपि सः ।
किं शीलं किं समाचारस्तन्ममाचक्ष्व नाभिज ॥ १॥
अनुष्ठानं कृतं तेन वामनेन कथं प्रभो ।
कथं तस्मै वरो दत्तो गजाननस्वरुपिणा ॥ २॥
लोको गणेशस्य कथं पृथगन्यत्र तिष्ठति ।
कथं शमी प्रिया तस्य सर्वमेतद् वदाशु मे ॥ ३॥
क उवाच ।
शृणु वक्ष्यामि ते सर्वं यद् यत् पृष्टं त्वया मुने ।
राजाऽसीत् पूर्वजनुषि स व्याधो वेदपारगः ॥ ४॥
सर्वशास्त्रप्रवक्ता च सर्वलक्षणलक्षितः ।
यज्वा विनीतो ह्रीमांश्च देवताऽतिथिपूजकः ॥ ५॥
गजाश्वरथपत्तीनां सङ्ख्या यस्य न विद्यते ।
दाता शूरश्च मेधावी समृद्धो मघवानिव ॥ ६॥
ध्वजश्च शत्रुजिद् यस्य प्रधानौ बुद्धिमत्तरौ ।
यतोऽधरीकृतः काव्यो गिरां पतिरपि स्फुटम् ॥ ७॥
यौ तौ क्षितितले जेतुं समर्थौ शस्त्रतेजसा ।
पत्नी सुलक्षणाऽस्यासीत् नाम्ना च मदनावती ॥ ८॥
पतिव्रता धर्मशीला सुमुखी सर्ववेदिनी ।
न तया सदृशी काचित्त्रिषु लोकेषु कामिनी ॥ ९॥
दीनानाथवृद्धजने कृपालुरतिथिष्वपि ।
यजतोर्ददतोरेवं रतयोः पूजने सताम् ॥ १०॥
तयोर्वृत्तेन तुतुषः पौराजानपदा जनाः ।
अमित्रा अपि गृह्णन्ति षड्गुणान् साधुसम्मतान् ॥ ११॥
एवं स पुण्यकीर्तिः सन् शशास पृथिवीमिमाम् ।
बहुसंवत्सरं दैवात् कालधर्ममुपेयिवान् ॥ १२॥
मरिष्यमाणश्चक्रेऽसौ गोसहस्रं यथाविधि ।
महादानान्यपि ददौ दशाष्टौ चेतराणि च ॥ १३॥
मृतेऽस्मिन्नगरी सर्वा शुशोच नृपतिं तदा ।
अपुत्रत्वात् सहैवास्य पत्नी सहगतिं ययौ ॥ १४॥
मन्त्रिणौ सर्वसंस्कारान् कारयामासतुर्द्विजैः ।
एकादशाहे दददुर्नाना दानानि भक्तितः ॥ १५॥
गते मासे मन्त्रयतो राज्यार्हं कुलजं नरम् ।
धीमन्तं सत्त्वसम्पन्नं शूरं सत्यपराक्रमम् ॥ १६॥
दुर्धर्षस्य सुतं तस्य दायादस्य महाबलम् ।
क्षेत्रजं साम्बनामानं राज्ञाशिष्टं च तावुभौ ॥ १७॥
अमात्यौ निश्चयं कृत्वा राज्यं दातुं तु तस्य ह ।
पौरजानपदान् सर्वान् ब्राह्मणान् परिपृच्छ्य च ॥ १८॥
शुभे मुहूर्ते लग्ने च नानासम्भारसञ्चयैः ।
कारयामासतुरुभावभिषेकं द्विजैः सह ॥ १९॥
मुनिरुवाच ।
कथं क्षेत्रात् समुत्पन्नः किञ्जातीयः पितामह ।
स साम्बस्तन्ममाचक्ष्व सर्वज्ञोऽसि कृपानिधे ॥ २०॥
क उवाच ।
दूर्धर्षेण कृता यत्नाः पुत्रार्थं बहुधा मुने ।
न च जातः सुपुत्रोऽस्य दुष्टदैवयुतस्य ह ॥ २१॥
तस्य पत्न्या प्रमदया कैवर्तासक्तचित्तया ।
जनितः सुमुहर्ते स न ज्ञातो जारजस्त्विति ॥ २२॥
यावन्ति राजचिन्हानि तावन्ति ददतुश्च तौ ।
निवेद्य कोशसहितं सर्व राज्यं सराष्ट्रकम् ॥ २३॥
अमात्यपदनिष्ठौ तो जातावास्तां यथा पुरा ।
स राज्यं प्राप्य दुर्द्धर्षसुतो मत्तः श्रियाऽभवत् ॥ २४॥
स्त्रीमांसमदिरासक्तो मत्तो गज इवालसः ।
दुराचाररतो नित्यं नयमार्गपराङमुखः ॥ २५॥
आदाय धनिनां सर्वं धनं तान् निरवासयत् ।
अपमानं चकाराशु ब्राह्मणानां सतामपि ॥ २६॥
बहिश्चकार तान् सर्वान् वृत्तिमाच्छिद्य सान्ततिम् ।
शिष्टः स्म प्रकृती नीतिं न तद्वाक्यं समाददे ॥ २७॥
वारंवारं यदा तौ तं शिष्टः स्म करुणायुतौ ।
अमात्यौ स बबन्धाशु निगडाभ्यां रुषान्वितः ॥ २८॥
शिक्षापयन्तौ पितरौ तस्य तं दुर्हृदं सुतम् ।
यत् प्रसादात् त्वया प्राप्तं राज्यं निहतकण्टकम् ॥ २९॥
विनिग्रहं कथं साध्योस्तयोस्त्वं कुरुषे खल ।
अनादृत्य तु तद्वाक्यं पीयूषमिव पामर ॥ ३०॥
शृङ्खलाभ्यां निबद्धौ तौ कारागारेऽध्यवासयत् ।
अतिदुष्टो दुष्टबुद्धिनामाऽभूत् तत् सखाऽनिशम् ॥ ३१॥
तमेव सचिवं चक्रे दत्त्वाऽश्वं काञ्चनं गजम् ।
रत्नानि दिव्यवासांसि राङ्कवास्तरणानि च ॥ ३२॥
दासीदासानसङ्ख्यातान् पानान्यन्नं च नारिकम् ।
न करोत्यस्य वाक्यं यस्तस्य छेत्स्ये शिरो बलात् ॥ ३३॥
इत्युक्त्वा सर्वलोकेषु साम्बोऽन्तःपुरमाययौ ॥ ३४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते साम्बदुःशासनवर्णनं नाम सप्तविंशतीतमोऽध्यायः ॥ २७॥
आदितः श्लोकानां समष्ट्यङ्काः - ५३२४ + ३४ = ५३५८
२.०२८ बालचरिते भीमराक्षसयोर्जन्मवर्णनं नामष्टाविंशतितमोऽध्यायः
क उवाच ।
स राजकार्यं कुरुते स्वयं भुङ्क्ते वरस्त्रियः ।
राष्ट्रे शृणोति रामां सोऽपति वा सपतिं तथा ॥ १॥
बलादानयते भोक्तुं क्रन्दतां रुदतामपि ।
न वा गणयते ज्ञातिभेदं विषयलम्पटः ॥ २॥
या चोन्नतकुचा नारी तस्य दृष्टिपथं गता ।
तामालिङ्ग्यत्यसौ कामी चुम्बतीमां यभत्यपि ॥ ३॥
परद्रव्याणि गृह्णाति स्त्रियोऽपि स बलात् पुनः ।
सोऽपि ताद्द्ग्गुणो मन्त्री दुष्टबुद्धिपथे रतः ॥ ४॥
एवं दुराचाररतौ न कन्यां न च मातरम् ।
न वर्जयन्तौ सम्भोगे भगिनीमपि निर्घृणौ ॥ ५॥
न ब्रह्महत्यां मनुतो न स्त्रीबालवधं तथा ।
एवं पापसमाचारौ पापस्य पर्वताविव ॥ ६॥
आस्तामुभौ दुष्टबुद्धी राजामात्यौ सुदुःसहौ ।
न ब्राह्मणो यतिर्वापि तद्गृहे याति भिक्षितुम् ॥ ७॥
न राष्ट्रे नाम तस्यापि गृह्णाति प्रकृतेरपि ।
एकदा मृगयार्थं तौ यातः स्म गहनं वनम् ॥ ८॥
घ्नतः स्म मृगयूथानि पक्षियूथान्यनेकशः ।
तानि प्रापय्य नगरमश्वारूढौ स्वयं पुनः ॥ ९॥
वैनायकं महास्थानं पथितौ पश्यतः स्म ह ।
यस्मिन् विराजिते मूर्तिर्जीणा वैनायकी शुभा ॥ १०॥
स्थापिता रामपित्रा सा पुत्रार्थं कुर्वता तपः ।
भक्त्या साक्षात्कृरो यत्र देवदेवो विनायकः ॥ ११॥
दशाक्षरेण मन्त्रेण ध्यायता बहुवासरम् ।
दत्त्वा तस्मै वरान् देवो विधते वाञ्छितानपि ॥ १२॥
ततो वसिष्ठहस्तेन तेनेयं स्थापिता दृढा ।
वरदेति च नामास्या वसिष्ठेन कृतं ततः ॥ १३॥
अस्य दर्शनतो नॄणां पुरूषार्थाश्चतुर्विधाः ।
स्मरणात् पूजनाद् वापि सेत्स्यन्ते नात्र संशयः ॥ १४॥
एवं वसिष्ठवाक्येन स्थानं तद् भुवि पप्रथे ।
गणेशभजनेनाऽस्य स्मरणेनाऽर्चनेन च ॥ १५॥
रामलक्ष्मणभरताः शत्रुघ्नसहिताः सुताः ।
जाता लोकेषु विख्याताः सर्वज्ञाः शूरसम्मताः ॥ १६॥
एवं दृष्ट्वा महारम्यं प्रासादं राजनिर्मितम् ।
उत्तरे तुरश्वपृष्ठाद् राजामात्यौ पुपूजतुः ॥ १७॥
पत्रैः पुष्पैर्नेमतुस्तं सर्वपापाहरं विभुम् ।
प्रदक्षिणीकृत्य विभुमीयतुः क्षणमात्रतः ॥ १८॥
एतदेव परं पुण्यं दैवाज्जातं तयोस्तदा ।
एवं पापसमाचारौ राज्यं कृत्वाऽथ मम्रतुः ॥ १९॥
बध्वा पाशैर्याम्यदूतैर्नीतौ तौ शमनान्तिकम् ।
चित्रगुप्तं समाहूय पप्रच्छ स शुभाशुभम् ॥ २०॥
तेनोक्तं न तयोरस्ति पुण्यलेशो रवेः सुत ।
पापानां गणना नास्ति दूतांश्चैवेदमब्रवीत् ॥ २१॥
बध्यतां बध्यतामेतौ लोहदण्डेन पात्यताम् ।
कुण्डे वीचिमये पङ्क्ति सहस्रपरिवत्सरान् ॥ २२॥
एकैकस्मिन् क्रमेणैतौ कुण्डे भुक्त्वाऽघसञ्चयान् ।
क्षिप्यतां मृत्युलोके च नीचयोनिगतावुभौ ॥ २३॥
अनयोः पुण्यलेशोऽस्ति दूताः शृणुत तत्कृतिम् ।
प्रसङ्गादर्चितो दृष्टो देव आभ्यां गजाननः ॥ २४॥
तेन पुण्येन सोऽप्येतावुद्धरिष्यती तत्र वै ।
एवमाकर्ण्य तद्वाक्यं दूतैर्बद्धौ हतौ दृढम् ॥ २५॥
कुम्भीपाके शोणितोदे निरये रौरवेऽपि तौ ।
निक्षिप्तौ कालकूटे च क्रमशः शतवत्सरान् ॥ २६॥
तामिस्रे चान्धतामिस्रे पूयशोणितकर्दमे ।
कण्टके तु क्षताङ्गौ तौ सन्तप्तौ तप्तवालुके ॥ २७॥
विक्षतौ कृमिभिस्तत्र भृशं सूचीमुखैरुभौ ।
असिपत्रवने घोरे ततो नीतावुभावपि ॥ २८॥
यत्र शस्त्राभिघातेन वर्ष्मभिद्यतिपापिनाम् ।
ततस्तप्तशिलायां तो निष्पिष्टौ घनघाततः ॥ २९॥
भुञ्जन्तौ नरकानेकविंशति बहुवासरम् ।
न दुःखं शक्यते वक्तुं शेषेणाऽशेषतस्तयोः ॥ ३०॥
एवं कति सहस्राणि भुक्त्वा भोगाननेकशः ।
निस्तीर्णभोगौ तौ पापशेषेण भुवमागतौ ॥ ३०॥
एको जातः काकयोनौ कौशिकोऽभूत् परोऽपि च ।
तत एको दर्दुरोऽभूदपरः सरटोऽभवत् ॥ ३१॥
तत एको विषधरोऽपरोऽभूद् वृश्चिकोऽपि च ।
तत्रापि कुर्वतः पापं नानालोकान्विदंशतः ॥ ३२॥
श्वमार्जारयोर्योनौ जातौ नकुलसूकरौ ।
वृकजम्बुकयोर्योनौ जातौ घोटकगर्दभौ ॥ ३३॥
तत उष्ट्रगजौ जातौ ततो नक्र महाझषौ ।
ततो व्याघ्रमृगौ जातौ ततो वृषभमाहिषौ ॥ ३४॥
एवं नानायोनिगतौ जातौ चाण्डालकीटकौ ।
राक्षसीभिल्लयोर्योनो ततश्चान्ते समीयतुः ॥ ३५॥
पिङ्गाक्षो दुर्बुद्धिरिति नाम्ना ख्यातौ च भूतले ।
आजन्मकृतपापस्य कथ्यते बहुदोषता ॥ ३६॥
यदा तो राजप्रकृती आस्तां पापरतौ पुरा ।
एकं पुण्यं तयोरासीन् मृगयायां प्रसर्पतोः ॥ ३७॥
विनायकस्य नमनं दर्शनं च प्रदक्षिणा ।
अर्चनं फलपुष्पाद्यैस्तुष्ट आसीद् गजाननः ॥ ३८॥
अगाधं तत्तयोः पुण्यमासीत् तज्जन्मसञ्चितम् ।
यदा पुरा राक्षसोऽसौ भीमं भक्षितुमागतः ॥ ३९॥
स आरूढः शमीवृक्षं तत्पत्राणि च मस्तके ।
पतितानि गणेशस्य तुष्टोऽभूत् स द्वयोरपि ॥ ४०॥
दिव्यदेहं तयोर्दत्त्वा स्वर्लोकं प्राप्रद् विभुः ।
एतत्ते कथितं पूर्वजन्मकर्म मया तयोः ॥ ४१॥
शमीपत्रार्चनादेव तुष्टोऽभूत् स गजाननः ।
यथाऽयं स्थापितस्तेन वामनेन तदप्यहम् ॥ ४२॥
कथयामि मुने सर्वं तदनुष्ठानमेव च ।
यथा च गणनाथोऽस्य प्रसन्नो वरदोऽभवत् ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भीमपिङ्गाक्षयोः पूर्वजन्मवर्णनं नामष्टाविंशतितमोऽध्यायः ॥ २८॥
आदितः श्लोकानां समष्ट्यङ्काः ५३५८ + ४४ = ५४०२
२.०२९ बालचरिते विरोचनवधो नामैकोत्रिंशोऽध्यायः
क उवाच ।
मयाज्ञप्तः कश्यपोऽसौ सृष्टिं नानाविधां कुरु ।
स विनीतो महाज्ञानी भूतभव्यभविष्यवित् ॥ १॥
अतिवैश्वानररवितेजाः सुतपसां निधिः ।
सृष्टिसामर्थ्यसम्प्राप्तौ तताप सुमहत् तपः ॥ २॥
षडक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् ।
दिव्यवर्षसहस्रान्ते स देवो वरदोऽभवत् ॥ ३॥
ईप्सितानस्य सर्वान् स ददौ नानावरान् शुभान् ।
ततोऽसौ मनसा यद् यदकल्पयत लाघवात् ॥ ४॥
तत्तदग्ने पश्यति स्म वरदानप्रभावतः ।
चतुर्दशसु पत्नीषु ऋतुदानादनेकधा ॥ ५॥
चकार तेजसा सर्वं जगत्स्थावरजङ्गमम् ।
तासु श्रेष्ठे च द्वे पत्न्यौ दित्यदितीतिनामतः ॥ ६॥
अदित्याऽपि तपस्तप्तं विष्णुप्रीणनहेतवे ।
संवत्सराणामयुतं ततस्तुष्टो जनार्दनः ॥ ७॥
जगत्याः पालनायासौ धर्मसंस्थापनाय च ।
शक्रादितत्सुतानां च दुष्टानां निग्रहाय च ॥ ८॥
पुत्रतामगमत् तस्यास्तया पूर्वं प्रसादितः ।
अथ सा स्वामिनं प्राह दितिर्होमाय सादरम् ॥ ९॥
ऋतुं मे देहि भगवन् बाधते मदनानलः ।
इत्याकर्ण्य वचस्तस्या मुनिस्तां प्राह सादरम् ॥ १०॥
अयं कालो घोररूपो होमकाल उपस्थितः ।
क्षणमाचर धैर्यं त्वं पश्चाद् रंस्ये त्वया सह ॥ ११॥
अस्मिन् काले भवेद्दुष्टमपत्यं देवधर्मध्रुक् ।
इति स्वामिवचः श्रुत्वा हस्ते धृत्वा ननाम तम् ॥ १२॥
उवाच रक्तनयना दग्धुकामा जगत्रयम् ।
इदानीमेव मे वाञ्छा न कृता चेत्त् त्वया मुने ॥ १३॥
देहत्यागं करिष्यामि विव्हला मदनाग्निना ।
यथा तथास्तां दैवान्मे ह्यपत्यं देवधर्मध्रुक् ॥ १४॥
इति तद्वचनं श्रुत्वा शरणागतवत्सलः ।
ददावृतुं तदा तस्यै होमं स्नात्वा चकार ह ॥ १५॥
ततश्चास्याः सुतो जज्ञे हिरण्याक्षो महाबलः ।
हिरण्यकशिपुश्चोभौ चेरतुस्तप उत्कटम् ॥ १६॥
पञ्चाक्षरं महामन्त्रं पितुस्तौ बहुवत्सरम् ।
एकाङ्गुष्ठस्थितौ वायुमात्रभक्षौ सवल्मिकौ ॥ १७॥
अथाययौ महादेवो वरं दातुं कृपानिधिः ।
तुष्टुवतुस्ततस्तं तौ भक्त्या देवं त्रिलोचनम् ॥ १८॥
कृताञ्जलीपुटौ चोभौ प्रणिपातपुरःसरम् ।
यथाशक्ति यथाज्ञानं तद्दर्शनस्फुरन्मती ॥ १९॥
यो देवो वृषवाहनो दशभुजश्चन्द्रार्धनागान्वितो
नानारूपगणैर्गिरीन्द्रतनयायुक्तो जगत्कारणम् ।
यो व्याघ्राजिनकृत्तिमांस्रिनयनो यः शूलधृक् कामहा
भक्तेच्छापरिपूरणैकनिलयो धर्मार्थमोक्षप्रदः ॥ २०॥
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
नमश्च चतुर्दैवं भक्तवाञ्छासुरद्रुमम् ॥ २१॥
तावुवाच ततस्तुष्टो वृणुतं वरमित्यसौ ।
वृणुतस्तौ वरान् देवादमृतिं यक्षरक्षसः ॥ २२॥
किन्नरैर्मानुषश्रेष्ठैः पिशाचैश्चारणादिभिः ।
न शस्त्रैर्नार्द्रशुष्कैश्च जन्तुभिर्जलजैरपि ॥ २३॥
स्थावरैर्जङ्गमैरन्यैर्न दिवा न निशासु च ।
न पृथिव्यां न चाकाशे नान्तराले तथोषसि ॥ २४॥
तथेति तावुवाचेशस्तथा चान्तर्दधे हरः ।
तदैव तावजयतां रोदसी च रसातलम् ॥ २५॥
देवस्थानानि सर्वाणि बलादाक्रम्य तौ स्थितौ ।
हिरण्यकशिपोर्जातः प्रल्हादो नाम नामतः ॥ २६॥
तनयो विष्णुभक्तेषु गरीयान् वंशकण्टकः ।
जपन्नारायणं देवं पित्रा सन्ताडितो भृशम् ॥ २७॥
अनेकयातनायां स रक्षितोऽनेकधाऽमुना ।
जले स्थले विषादग्नेर्विष्णुना करूणावता ॥ २८॥
हिरण्यकशिपुः सोऽयं सर्वलोकभयङ्करः ।
नारसिंहेन वपुषा नखरैः स विदारितः ॥ २९॥
वाराहेण हतः पूर्वो दंष्ट्रया वसुधा हृता ।
विरोचनसुतस्तस्य बलिस्तस्याऽभवत्सुतः ॥ ३०॥
विरोचनः सूर्यभक्तो मुकुटं प्राप्तवांस्ततः ।
ऊचिवांस्तं च सप्ताश्वः परहस्तो यदा स्पृश्येत् ॥ ३१॥
मुकुटस्य तदा ध्वंसो भविता नात्र संशयः ।
स सूर्यवरदानेन चक्रे त्रिभुवनं वशे ॥ ३२॥
च्युतस्थानास्ततो देवा अच्युतं शरणं ययुः ।
स चिन्तां महतीं कृत्वा निश्चयं नाध्यगच्छत ॥ ३३॥
ततस्तेन धृतं रूपं सर्वयोषिद्वरं स्त्रियः ।
तेन तं रमयामास बहुकालं विरोचनम् ॥ ३४॥
ततः स सुरतं कर्तुमुद्यतोऽभूत् कुबुद्धिमान् ।
ततस्तं सुदती प्राह ममैका वासनाऽस्ति भोः ॥ ३५॥
अभ्यङ्गं कुरु पूर्वं त्वं ततो हि रंस्यसे मया ।
इति श्रुत्वा स तद्वाक्यं कामासक्तोऽन्वमोदत ॥ ३६॥
उत्तार्य मुकुटं साऽथ मूर्ध्नि तैलं व्यमर्दयत् ।
स तदा शतचूर्णोऽभूत् सारूप्यं स आप्तवान् ॥ ३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विरोचनवधो नामैकोत्रिंशोऽध्यायः ॥ २९॥
आदितः श्लोकानां समष्ट्यङ्काः - ५४०२ + ३७ = ५४३९
२.०३० बालचरिते वामनावतारकथनं नाम त्रिंशोऽध्यायः
क उवाच ।
बलिस्तु हरिभक्तत्वान्न किञ्चिदन्वतप्यत ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ १॥
परनिन्दापरद्रव्यपरद्रोहपराङ्मुखः ।
दाता यज्वा मानयिता मान्यानां परमादरात् ॥ २॥
गच्छन्वदन्स्वपन्भुञ्जिस्तिष्ठन्नपि जपन्पिबन् ।
ध्यायति स्म हरि नित्यं भक्त्या संस्थिरचेतसा ॥ ३॥
एकदा शुक्रमाहूय पारपूज्य यथाविधि ।
पप्रच्छ तं बलिर्नीतिं शक्रो भुङ्क्त्तेऽमरावतीम् ॥ ४॥
कथं च भागो नास्माकं भ्रातृत्वे सततं स्थिते ।
इति मे संशयं प्राज्ञ छेत्तुमर्हस्यशेषतः ॥ ५॥
शुक्र उवाच ।
तव पूर्वैरतेदर्थं कृतं वैरं निरन्तरम् ।
सुरैः सार्द्धं महाभाग ते सर्वे नाशमापिताः ॥ ६॥
देवैर्विष्णुसहायैस्तु नानामायाबलाश्रयात् ।
त्यक्त्वा वैरं भवान्साधु यजतां शतसङ्ख्यया ॥ ७॥
तत्पुण्यस्य बलादैन्द्रं पदं पूर्णमवाप्स्यसि ॥
बलिरुवाच ।
सम्यगुक्तं त्वया ब्रह्मन् नीतिशास्त्रविशारद ॥ ८॥
साम्नो दानविधेर्भेदाज्जघन्यो निग्रहो मतः ।
सोऽपि पुण्यबलात् सिध्येत् तस्मात्पुणं दृढं मतम् ॥ ९॥
क उवाच ।
एवं स निश्चयं कृत्वा वसिष्ठादीन् समाह्वयत् ।
भृग्वादींश्च मुनीन्पूज्य सुमुहूर्ते समारभत् ॥ १०॥
यज्ञं महासमारम्भं सर्वानन्दकरं परम् ।
सर्वे ते यज्ञकुण्डानि प्राचीसाधनपूर्वकम् ॥ ११॥
चक्रुश्च कारयामासुर्यज्ञसम्भारसञ्चयान् ।
वेदिकामण्डपादाँश्च भूमिशोधनपूर्वकम् ॥ १२॥
कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम् ।
मातॄणां पूजनं कृत्वा स्थापयामासुरादरात् ।
मन्त्रैर्नानाविधैर्विप्राः सर्वा मण्डपदेवताः ॥ १३॥
रेजाते दम्पती तत्र श्वेतवस्त्रावलङ्कृतौ ।
अमात्यराजसुहृदां पौराणां च गणैर्वृतौ ॥ १४॥
सम्मानिताः स्त्रियोऽपश्यन् गवाक्षस्तं महोत्सवम् ।
अन्वारब्धा ब्राह्मणास्ते पूर्वाङ्गानि न्यवर्तयन् ॥ १५॥
आलभन्त पशुं वेदकल्पवाक्यानुसारतः ।
तत्तद्देवाय तन्मन्त्रैर्जुह्वति स्म विधानतः ॥ १६॥
यज्ञवाटे चतुद्वारे सर्वेषामनिवारिते ।
आयान्ति यान्ति सर्वेऽपि पूजितास्त्रिविधा जनाः ॥ १७॥
विवदन्ते महावादैरेकतो विदुषां जनाः ।
नृत्यन्त्यप्सरसोऽन्यत्र पठन्ते वैदिकाः किल ॥ १८॥
गायन्ति वैष्णवाः शैवा मृदङ्गतालवादनैः ।
भुञ्जते ब्राह्मणाः स्वेच्छाभोजनं षड्रसैः क्वचित् ॥ १९॥
कथयन्ति कथा नानाकथाः शृण्वन्ति मोदकाः ।
एवं सुवितते यज्ञे वसिष्ठाद्या महर्षयः ॥ २०॥
वेसोर्धारां सुमहतीं पातयामासुरग्निषु ।
उत्तराङ्गानि सम्पाद्य रथे तौ स्थाप्य दम्पती ॥ २१॥
कर्तुं चावभृथस्नानं सर्वे लोका विनिर्ययुः ।
नानावादित्रनिर्घोषैर्वरबन्दीरवैरपि ॥ २२॥
वेदघोषैर्बहुविधैः सामगानैर्हरिप्रियैः ।
स्नात्वाऽऽगत्य हरिं सोऽथ तोषयामास तान् द्विजान् ॥ २३॥
अनेकरत्ननिचयैर्धनैर्वस्त्रैरनेकशः ।
गोभिरश्वैर्गजैर्गन्ध्यैरिच्छाविषयपूरणैः ॥ २४॥
एकोनशतमेवं ते तस्य यज्ञानपारयन् ।
शते यज्ञे समारब्धे शक्रश्चिन्तां परां ययौ ॥ २५॥
कनीयांसं स शरणं स्वपदभ्रंशशङकया ।
क्षीरसागरमध्यस्थं शेषशायिनमीश्वरम् ॥ २६॥
मया संवाहितपदं सेव्यमानं सुरैरपि ।
गीयमानं नारदेन वीणाहस्तेन सादरम् ॥ २७॥
तुम्बरुप्रमुखैरन्यैरप्सरोगणकिन्नरैः ।
अस्तौदसौ हरिर्दृष्ट्वा तं हरि स्वेष्टसिद्धये ।
प्रणम्य सम्पुटं कृत्वा पाण्योर्भावेन सादरम् ॥ २८॥
शक्र उवाच ।
नमोऽनन्तशक्ते नमो विश्वयोने
नमो विश्वभर्त्रे नमो विश्वकर्त्रे ।
नमो दैत्यहन्त्रे नमोऽनेकरूप
नमः सक्तचित्तार्थदायास्तु नित्यम् ॥ २९॥
क उवाच ।
एवं स्तुत्वाऽब्रवीदेनं वासवो बलिचेष्टितम् ।
बलिर्विरोचनसुतो विख्यातो भुवनत्रये ॥ ३०॥
ग्रहीष्यति मम पदं मखाच्छतगुणादयम् ।
यावत्तस्य भवेद्वाणी सर्वं ज्ञातं तु विष्णुना ॥ ३१॥
तत ऊचे स भगवानिन्द्रं सङ्कटचिन्तया ।
मम भक्तो बलिः शक्र तपस्वी विजितेन्द्रियः ॥ ३१॥
तपसः फलमेतेन भोक्तव्यं श्रतिवाक्यतः ।
न जायते वृथा कर्म शुभं वा यदि वाऽशुभम् ॥ ३३॥
साधयिष्ये भवत्कार्यं स्थिरी कुरु मनोहरे ।
ततः स गर्भतां पेदे चादित्या जठरे विभुः ॥ ३४॥
सुषूवे नवमे मासि साऽदितिस्तनयं शुभम् ।
प्रभया तस्य ते दीपा निष्प्रभत्वमुपागताः ॥ ३५॥
स्नात्वा शीतजलेनाशु जातकर्म यथाविधि ।
चकार कश्यपो धीमान् स्वस्तिवाचनपूर्वकम् ॥ ३६॥
कृत्वा पितृमहायज्ञं मातृपूजनपूर्वकम् ।
ददर्श बालकं पश्चात् प्राशयित्वा घृतं मधु ॥ ३७॥
ह्रस्वं पृथुलमूर्धानं लघुपादं बृहत्तनुम् ।
दिव्यज्ञानसमायुक्तं दिव्य देहं चतुर्भुजम् ॥ ३८॥
नानालङ्कारसंयुक्तं ज्ञात्वा विष्णुमथानमत् ।
उवाच च प्रसन्नात्मा तपो वंशोऽद्य चक्षुषी ॥ ३९॥
ज्ञानं तथाऽऽश्रमो धन्यो धरा स्वर्गो रसातलम् ।
धन्यास्त्वद्दर्शनादेते सच्चिदानन्दरूपिणः ॥ ४०॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यमुवाच जगदीश्वरः ।
अदित्यास्तपसा तुष्टः पुत्रत्वमहमागतः ॥ ४१॥
हर्तुं भूभारमतुलं ज्येष्ठकार्यं च साधितुम् ।
इत्युक्त्वा प्राकृतो भूत्वाऽरुदत्स्तन्यं पपावथ ॥ ४२॥
नामनिष्क्रमणं कर्म चक्रेऽन्नप्राशनं मुनिः ।
तृतीये चौलमब्दे स पञ्चमे व्रतबन्धनम् ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते वामनावतारकथनं नाम त्रिंशोऽध्यायः ॥ ३०॥
आदितः श्लोकानां समष्ट्यङ्काः - ५४३९ + ४३ = ५४८२
२.०३१ बालचरिते एकत्रिंशोऽध्यायः
क उवाच ।
वेदाँश्च चतुरः साङ्गानध्यापयत तं मुनिः ।
एकस्मिन् दिवसे तातं वामनः पर्यपृच्छत ॥ १॥
केनोपायेन देवानां पदप्राप्तिर्भविष्यति ।
भूभारहरणं तन्मे यथावद्वक्तुमर्हसि ॥ २॥
कश्यप उवाच ।
उपदेशं करिष्यामि मन्त्रस्य सिद्धिदस्य ते ।
षडक्षरस्य विघ्नेशतोषकस्य ममात्मज ॥ ३॥
तस्मिन्प्रसन्ने विघ्नेशे जगत्स्थित्यन्तकारिणि ।
अनेकब्रह्माण्डविधौ सर्वकारणकारणे ॥ ४॥
सर्वे कामाः प्रसिध्यन्ति तदर्थे यत्नमाचर ।
क उवाच ।
एवमुक्त्वा ददौ तस्मै सुमुहुर्ते महामनुम् ॥ ५॥
तदैव चलितस्तस्मादाश्रमाद्धर्षसंयुतः ।
प्रणम्य तमनुज्ञाप्य जगाम तपसे शिशुः ॥ ६॥
भ्रमता ददृशे तेन विदर्भे स्थानमुत्तमम् ।
लतावृक्षसमाकीर्णं कासारपरिशोभितम् ॥ ७॥
तत्र पद्मासनं कृत्वा जजाप तं मनुं शुभम् ।
षडक्षरं वर्षमात्रं निराहारो जितेन्द्रियः ॥ ८॥
निर्वाणं तस्य तज्ज्ञात्वाऽऽविरासीत् सिद्धिबुद्धियुक् ॥ ९॥
मयूरवाहनो देवः शुण्डादण्डविराजितः ।
विलसद्दशदोर्दण्डो रत्नमाला विभूषितः ॥ १०॥
आशीविषलसन्नाभिर्नानालङ्कारशोभितः ।
आगतो दृढभक्तं तं धेनुर्वत्समिवादरात् ॥ ११॥
वामनस्तं पुरो दृष्ट्वा सर्वतेजोऽभिभाविनम् ।
सर्वसिद्धिकरं देवं सर्वविघ्ननिवारणम् ॥ १२॥
नुनाव परया भक्त्या देवदेवं गजाननम् ॥ १३॥
वामन उवाच ।
अव्यक्तं व्यक्तहेतुं निगमनुततनुं सर्वदेवाधिदेवं
ब्रह्माण्डानामधीशं जगदुदयकरं सर्ववेदान्तवेद्यम् ।
मायातीतं स्ववेद्यं स्थितिविलयकरं सर्वविद्यानिधानं
सर्वेशं सर्वरूपं सकलभयहरं कामदं कान्तरूपम् ॥ १४॥
तं वन्दे विघ्नराजं विधिहरमुनिभिः सेव्यमानं
सनागैस्तेजोराशि त्रिसत्यं त्रिगुणविरहितं तत्त्वमस्यादिबोध्यम् ।
भक्तेच्छोपात्तदेहं निजजनसुखदं तत्त्वबुद्धि प्रकाशं
साम्बाद्यैः स्तूयमानं सकलतनुगतं भुक्तिमुक्तिप्रदं तम् ॥ १५॥
क उवाच ।
इति स्तुतो देवदेवः प्रसन्नः प्राह वामनम् ।
वरं वरय तुष्टोऽयं यत्ते मनसि वर्तते ॥ १६॥
स्तोत्रेण तपसा चैव परितुष्टो ददामि तत् ।
वामन उवाच ।
न ते स्वरूपं विदुरब्जजाद्या ब्रह्मर्षयो ये सनकादिकाद्याः ।
दृष्टोऽसि स त्वं जगतामधीश त्वत्तः कमन्यं वरमद्य याचे ॥ १७॥
अथापि ते वाक्यभिदाभयात् वा याचे वरं तं मम नाथ देहि ।
पराजयो मे न भवेत् कदापि कार्येऽखिले विघ्नभयं न च स्यात् ॥ १८॥
उद्यतोऽस्ति बलिः शक्रपदमत्तुं क्रतोर्बलात् ।
स च मां शरणं यातस्तस्य सिद्धिर्यथा भवेत् ॥ १९॥
तथा कुरु जगत्कर्तर्यदि तुष्टोऽसि मेऽनघ ।
गजानन उवाच ।
एतत्ते भविता सर्वं स्मरणान् मम सुव्रत ॥ २०॥
सेत्स्यन्ति सर्वकार्याणि महान्ति च लघूनि च ।
क उवाच ।
एवमुक्त्वा गते देवे वामनोऽकारयच्छुभाम् ।
काश्मीरोपलजां सोऽथऽस्थापयन्मूर्तिमुत्तमाम् ॥ २१॥
चतुर्भुजां त्रिनयनां शुण्डादण्डविराजिताम् ।
प्रसन्नकरिहस्तेन भक्तानामभयप्रदाम् ॥ २२॥
स्मरणाद्दर्शनाद्ध्यानात्पूजनात्सर्वकामदाम् ।
प्रासादं कारयामास रत्नकाञ्चननिर्मितम् ॥ २३॥
तत्रैकं ब्राह्मणं स्थाप्य ग्रामं दत्वा धनानि च ।
त्रिकालं पूजनै तस्य कारयामास तेन सः ॥ २४॥
आगतः स्वगृहं नत्वा पितरं सर्वमब्रवीत् ।
तपश्च तत्फलं चाथ यज्ञं गन्तुमपृच्छत ॥ २५॥
कश्यपेनाऽभ्यनुज्ञातो वामनो दर्भदण्डभृत् ।
सूत्रकृष्णाजिनधरो मेखली यज्ञमाययौ ॥ २६॥
ह्रस्वाकृतिं मुनिं दृष्ट्वा मुनयो विस्मितास्तदा ।
नायं मुनिर्यतस्तेजो दृश्यते परमाद्भुतम् ॥ २७॥
तं दृष्ट्वा परमायान्तं बलिरुत्थाय सत्वरम् ।
कोऽसि त्वमिति पप्रच्छ नत्वा तं कुत आगतः ॥ २८॥
किं वाञ्छसि वद विभो पिता माता च कौ तव ।
वसतिस्तव कुत्रास्ति तत ऊचे स वामनः ॥ २९॥
न स्मरे पितरौ राजन्ननाथं विद्धि मां कृशम् ।
त्रैलोक्ये वसतिर्मेऽस्ति याचे भूमिं त्रिभिः पदैः ॥ ३०॥
मितां कर्तुं पर्णकुटीं शक्तिश्चेदस्ति दीयताम् ।
क उवाच ।
इति वाक्यं मुनेः श्रुत्वा हृदि ज्ञात्वा कृपायुतम् ॥ ३१॥
तं दातुमुद्यतं भूमिमूचे काव्यो बलिं तदा ।
शुक्र उवाच ।
न ब्राह्मणो हरिरयं कपटं रूपमास्थितः ॥ ३२॥
हरिष्यति त्रिभुवनं पदत्रयमिषेण तु ।
मा दीयतामस्य किञ्चिदिति सत्यं ब्रवीमि ते ॥ ३३॥
तमुवाच महादैत्यो मूढ किं वदसे वचः ।
हरिश्चेद् विमुखो गच्छेत् सर्वं मे सुकृतं नयेत् ॥ ३४॥
अस्मात् पात्रं किमन्यत् स्यादस्मै दत्तमनन्तकम् ।
इत्युक्त्वा तं पुनः प्राह वामनं दैत्यपुङ्गवः ॥ ३५॥
ब्रह्मन् दत्ता मया भूमिः सङ्कल्पः क्रियतामिति ।
वामनः प्राह राजानं सङ्कल्पयितुमुद्यतम् ॥ ३६॥
तावद्धारां निरुध्यैव स्थितः शक्रोऽन्यदेहतः ।
ददौ शलाकां तत्पात्रे भग्ननेत्रो बहिर्गतः ॥ ३७॥
ततः पाणितले तस्य वामनस्य जलं ददौ ।
स्मृत्वा गणेशं ववृधे वामनो हर्षनिर्भरः ॥ ३८॥
मूर्ध्नाक्रम्य स्वर्गलोकमेकपादेन रोदसी ।
पातालान्यपरेणापि दत्तं तन्मस्तकेऽपरम् ॥ ३९॥
तत ऊचे बलिं देवो गच्छ त्वं धरणीतलम् ।
त्वां विनाऽहं कथं यामीत्येवमाह बलिस्तु तम् ॥ ४०॥
इत्याकर्ण्य वचस्तस्य पुनस्तं प्राह वामनः ।
सान्निध्यं मम तत्रापि भविता त्वदनुग्रहात् ॥ ४१॥
इन्द्रो मां शरणं यातः प्रियं कार्यं हि तस्य मे ।
तवापि मम भक्तस्य प्रियं पश्चाद् भविष्यति ॥ ४२॥
ऐन्द्रे पदे निवृत्तेऽस्य पदं दास्ये तवैव तत् ।
ततो ब्रह्मादयो देवास्तुष्टुवुर्वामनं विभुम् ॥ ४३॥
मुमुचुः पुष्पवर्षाणि वाद्यानि ववदुः सुराः ।
पुपूजुस्तेऽपि सर्वे च जगुश्च ननृतुः परे ॥ ४४॥
ततश्चान्तर्दधे देवो वामनोऽनन्तविक्रमः ।
स्वं स्वं स्थानं गता देवा यथापूर्वं मुदान्विताः ॥ ४५॥
क उवाच ।
एवं तेन कृता मूर्तिविख्याताऽभूज्जगत्रये ।
गजाननस्य देवस्य सर्वेषां कामदा नृणाम् ॥ ४६॥
इत्येतत् कथितं सर्व प्रसङ्गाद् बलिचेष्टितम् ।
लाघवं वामनस्यापि महिमा सुमुखस्य ह ॥ ४७॥
अदोषाख्ये पुरे तेन स्थापितस्य महात्मना ।
दशबाहोः प्रसिद्धस्य देवदक्षिणभागतः ॥ ४८॥
प्रियत्वं तस्य शम्यास्ते कथयिष्येऽधुना स्फुटम् ॥ ४९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते वामनविक्रमोनामैकत्रिंशोऽध्यायः ॥ ३१॥
आदितः श्लोकानां समष्ट्यङ्काः - ५४८२ + ४९ =५५३१
२.०३२ बालचरिते नाम द्वाविंशोऽध्यायः
क उवाच ।
शृणुष्वावहितो ब्रह्मन्नितिहासं पुरातनम् ।
प्रियव्रतायाऽकथयत् स्वयमेव गजाननः ॥ १॥
गजानन उवाच ।
शमीपत्रस्य सहिमा शृणुष्वार्य महाफलम् । (महिमानं शृणुष्वार्य ! शमीपत्रस्य सत्फलम्)
न यज्ञैर्न च दानैश्च व्रतैः कोटिशतैरपि ॥ २॥
न जपैः पूजनैर्वापि मम तोषस्तथा भवेत् ।
न पद्मैर्नान्यकुसुमैः शमीपत्रैर्यथा भवेत् ॥ ३॥
शमीति कीर्तनादेव पापं नश्यति वाचिकम् ।
स्मरणान्मानसं पापं स्पर्शनात् कायजं तथा ॥ ४॥
नित्यं तत्पूजनाद्ध्यानाद् वन्दनाच्चैव भक्तितः ।
निर्विघ्नकरमायुष्यं ज्ञानं पापक्षयोऽपि च ॥ ५॥
वाञ्छासिद्धिरचापल्यं जायते नात्र संशयः ।
मुनिरुवाच ।
कोऽसौ प्रियव्रतो राजा किंशीलः कुत्र वाऽभवत् ॥ ६॥
कथं वै तस्य कथिता गुणाः शम्या महात्मना ।
एनं मे संशयं ब्रह्मन् कृपया नुद सुव्रत ॥ ७॥
क उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शङ्करस्य च संवादं पार्वत्या सह पुत्रक ॥ ८॥
पार्वत्युवाच ।
कथं शमी प्रिया देव सर्वज्ञ जगदीश्वर ।
गजाननस्य मे शंस यदि ते मय्यनुग्रहः ॥ ९॥
शङ्कर उवाच ।
शृणु प्रिये प्रवक्ष्यामि कथामेकां शुचिस्मिते ।
यथा प्रिया गणेशस्य शमीति ज्ञास्यते तथा ॥ १०॥
प्रियव्रतो नाम राजा पूर्वमासीन्महामतिः ।
सत्यवान् धर्मसम्पन्नो धर्मात्मा शंसितव्रतः ॥ ११॥
तेजस्वी च वदान्यश्च वेदशास्त्रार्थतत्त्ववित् ।
सर्वलक्षणसम्पन्नश्चतुरङ्गबलाधिकः ॥ १२॥
पालयामास पृथिवीं प्रजाः पुत्रानिवौरसान् ।
कीर्तिश्च प्रथम भार्या प्रभा तस्यापराऽभवत् ॥ १३॥
धूर्तश्च कुशलस्तस्य प्रकृती सम्बभूवतुः ।
कुशलौ नीतिशास्त्रेषु षडाननपराक्रमौ ॥ १४॥
बुद्धया पराक्रमेणापि रसा सर्वा वशीकृता ।
स तु राजा वंश नीतः प्रभया तस्य भार्यया ॥ १५॥
क्रीडतेऽहर्निशं सोऽथ नानालङ्कारशोभया ।
यौवनाक्रान्तवपुषा रम्भादिभ्योऽतिरम्यया ॥ १६॥
क्षणमात्रं न सहते वियोगं स तया सह ।
धिक्करोति सदा जेष्ठां तद्वचो न शृणोत्यपि ॥ १७॥
रुषा निरीक्षेत तां स तन्मृतिं चिन्तयत्यपि ।
स्वयं न भाषते किञ्चिन्नगृह्णाति तयाऽर्पितम् ॥ १८॥
ततस्तस्याऽभवत्पुत्रः प्रभायां पतिसन्निभः ।
जातकर्म च राजाऽस्य कृत्वा धर्ममनेकधा ॥ १९॥
नाम चास्याकरोत्पद्मनाभिरित्थं द्विजेरितम् ।
शुक्लपक्षे यथा चन्द्रो ववृधे सोऽपि बालकः ॥ २०॥
बुद्धिमान्कुशलो युद्धे पितृतोऽप्यधिकोऽभवत् ।
पञ्चमे व्रतबन्धं च चकाराऽस्य नृपस्तदा ॥ २१॥
प्रियवतो महाबुद्धिर्मद्राणामधिपो बली ।
पाञ्चालराजकन्यां स भार्यां तस्याप्यमेलयत् ॥ २२॥
अतिवैभवयुक्तौ तौ विवाहं चक्रतुस्तयोः ।
कदाचिदस्य सा पत्नी ज्येष्ठा दासीत्वमापिता ॥ २३॥
पादसंवाहनं कर्तुमागता भर्तृसन्निधिम् ।
निपपात महीपृष्ठे सपत्न्या चरणाहता ॥ २४॥
दुःखिता रुदती ह्रीणा जगाम निजमन्दिरम् ।
कमहं शरणं यायां को मे दुःख व्यपोहयेत् ॥ २५॥
सपत्न्याऽमानिताया मे त्राता स्याद्धरिरव्ययः ।
स्मृतमात्रस्तु यस्राता द्रौपद्या करुणानिधिः ॥ २६॥
यां नैव मनुते भर्ता न कोऽपि मनुतेऽपि ताम् ।
अतो न जीवितेनार्थः शोषयिष्ये कलेवरम् ॥ २७॥
पिबे हालाहालं वापि पते वापीं जलान्विताम् ।
न मनो निश्चयं याति तस्या विव्हलचेतसा ॥ २८॥
एतस्मिन्नत्तरे दैवाद् देवलो ब्राह्मणोत्तमः ।
पुरोहितः समायातः स जगाद गजाननीम् ॥ २९॥
उपासनां क्लेशहन्त्रीं सर्वकामफलप्रदाम् ।
सा तदैव प्रपद्याशु मूर्तिं मन्दारनिर्मिताम् ॥ ३०॥
गजाननस्य सम्पूज्य स्नात्वा शुद्धदिने तु सा ।
उपविष्टा पूजयितुं परमेण समाधिना ॥ ३१॥
त्यक्त्वा हरं हरिं चाम्बां तेजोयुक्तं परं रविम् ।
सर्वैः सम्पूज्यते देवदेव आदौ गजाननः ॥ ३२॥
विचार्यमाणे पञ्चानां भेदो नैवोपलभ्यते ।
यो भेदेनेक्षते चैतान् स याति नरकान् नरः ॥ ३३॥
एक एव परानन्दपूर्णोऽसौ परमेश्वरः ।
स्वेच्छया पञ्चधा जातो लोकानुग्रहकारणात् ।
एक एव पुमान् यद्वत् पुत्रमातुलनामभिः ॥ ३४॥
सा सम्यक् षोडशभिस्तमुपचारैः पुपूज ह ।
दूर्वापुष्पैर्दक्षिणाभिर्नमस्कारैरनेकधा ॥ ३५॥
कृत्वा करपुटं सा तु तुष्टाव जगदीश्वरम् ।
कीर्तिरुवाच ।
त्वमेव जगदाधारस्त्वमेव सर्वकारणम् ॥ ३६॥
त्वमेव ब्रह्मा विष्णुश्च बृहद् भानुस्त्वमेव हि ।
चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च ॥ ३७॥
त्वमेव सागरा नद्यो लताकुसुमसंहतिः ।
सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः ॥ ३८॥
इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् ।
त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक् ॥ ३९॥
त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः ।
त्वमेव प्रकृतिस्त्वं वै पुरुषो निर्गुणो महान् ॥ ४०॥
त्वमेव शशिरूपेण सर्वमाप्यायसे जगत् ।
त्वमेव भूतभव्यं च भाविभावात्मकः स्वराट् ॥ ४१॥
शरण्यः सर्वभूतानां शत्रूणां तापनः परः ।
कर्मकाण्डपरो यज्वा ज्ञानकाण्डपरः शुचिः ॥ ४२॥
सर्ववेत्ता सर्वविधिः सर्वसाक्षी च सर्वगः ।
सर्वव्यापी सर्वविष्णुः सर्वसत्यमयः प्रभुः ॥ ४३॥
सर्वमायामयः सर्वमन्त्रतन्त्रविधानवित् ॥ ४४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कीर्तिस्तवनं नाम द्वाविंशोऽध्यायः ॥ ३२॥
आदितः श्लोकानां समष्ट्यङ्काः - ५५३१ +४४ = ५५७५
२.०३३ बालसञ्जीवनं नाम त्रयस्त्रिंशोऽध्यायः
क उवाच ।
एवं साऽनुदिनं पूज्य तुष्टाव तं विनायकम् ।
एकस्मिन् दिवसे तस्याः सख्यो दूर्वार्थमाययुः ॥ १॥
शुक्रमासवशान्नापुः क्वापि दूर्वाङ्कुरान् शुभान् ।
शमीपत्राणि भूयांसि गृहित्वा तु तदन्तिकम् ॥ २॥
आययुः परमश्रान्ता दूर्वाऽभावं न्यवेदयन् ।
शमीपत्रैः पुपूजेनं सर्वोपचारपूर्वकम् ॥ ३॥
दूर्वां विना निराहाराऽतिष्ठत्सा नियमे रता ।
तस्य तुष्टिः परा जाता शमीपत्रैः समर्पितैः ॥ ४॥
अशेत तत्पुरः स्वप्नमपश्यत्सा महाद्भुतम् ।
अब्दान्ते सैव मूर्तिस्तामिमां वाचमुवाच ह ॥ ५॥
वरं ददामि ते सुभ्रु शमीपत्रैः सुतोषितः ।
सा नोवाच यदा किञ्चित् कीर्तिः सा तां पुनर्जगौ ॥ ६॥
मूर्तिरुवाच ।
वश्यस्ते भविता कान्तो भोगाश्वानेकशः शुभाः ।
त्वद्भक्तिनिरतः पुत्रो भविष्यति महाबलः ॥ ७॥
क्षिप्रप्रसादनेत्येवं कुरु नामास्य सुन्दरम् ।
तुर्येऽब्देऽस्य विषान्मृत्युर्भविष्यति पुनः क्षणात् ॥ ८॥
गृत्समदो द्विजोभेऽत्यं पुनस्तं जीवयिष्यति ।
राज्यकर्ता चिरायुश्च धर्मशीलो भविष्यति ॥ ९॥
इदं स्तोत्रं पठेद्यस्तु मम सन्तोषकारणम् ।
तस्य वश्यो भवेद् राजा किमन्यः प्राकृतो जनः ॥ १०॥
पुत्रवान् धनसम्पन्नौ वेदवेदाङपारगः ।
बुद्धिश्च वर्धते तस्य मेधावृद्धिर्भवेद् दृढा ॥ ११॥
वाच्छिताँल्लभते सोऽर्थान् त्रिसन्ध्यं यः पठेदिदम् ।
मम भक्तिर्दृढा तस्य मोक्षश्चान्ते भविष्यति ॥ १२॥
एवं दत्त्वा वरान् स्वप्ने स देवो पिदधे क्षणात् ।
जागृता साश्रुनयना विस्मिता मानसेऽवदत् ॥ १३॥
दीनानाथेन महती कृपा मयि नियोजिता ।
अनुग्रहो महान्मह्यं यद्दत्तं दर्शनं स्वयम् ॥ १४॥
विनायकेन देवेन पाविता परमादरात् ।
अद्याहं तेन देवेन सर्वभूतानुकम्पिना ॥ १५॥
इयमेवपरा सिद्धिरिदमेव तपःफलम् ।
अयमेव परो लाभो यदवोचन्मया सह ॥ १६॥
क उवाच ।
ततः प्रभाते स्नाता सा परमानन्दनिर्भरा ।
पुपूज परया भक्त्या गणेशं वरदं शुभम् ॥ १७॥
समाप्य नियमं मूर्तिं पूर्वस्थाने न्यवेशयत् ॥ १८॥
पुरोहितं समानीय पूजयामास भक्तितः ।
गणेशं मनसा ध्यात्वा वदन्ती नाममालिकाम् ॥ १९॥
स्मरन्ती तद्वरान् कीर्तिः समयं च प्रतीक्षती ।
ततः कालेन महता प्रभा सा निष्प्रभाऽभवत् ॥ २०॥
रक्तपित्तवती जाता प्रारब्धादीश्वरेच्छया ।
करौ पादौ च नासा च तस्याः क्षरति नित्यशः ॥ २१॥
अतिबीभत्सरूपां तां तत्याज मनसा पतिः ।
न वक्ति नेक्षते ज्ञात्वा प्रयत्नान् निष्फलान्बहून् ॥ २२॥
ततः कीर्तेर्गृहं यातस्तपसा सुन्दराकृतेः ।
कृपया गणराजस्य स्वयं वश्योऽभवच्च सः ॥ २३॥
स गृहीत्वा करे तां तु मञ्चकं समुपानयत् ।
चिक्रीड स्वेच्छया कीर्त्या तन्निष्ठस्तत्परायणः ॥ २४॥
न वियोगं क्षणं तस्याः सहते नृपसत्तमः ।
साऽपि भोगानलङकाराननन्तान् बुभुजे सती ॥ २५॥
साऽपि गर्भवती जाता कालेन सुषुवे सुतम् ।
शुभे मुहूर्ते राजाऽसौ ददौ दानान्यनेकशः ॥ २६॥
पुत्रजन्मप्रहृष्टः सन् ब्राह्मणेभ्यो यथार्हतः ।
दिक्षु स्थाप्य द्विजान्पञ्च जातकर्म चकार सः ॥ २७॥
क्षिप्रप्रसादनेत्येवं नाम चक्रे ततोऽस्य ह ।
तुतोष पुत्रं दृष्ट्वैव नानालङकारसंयुतम् ॥ २८॥
अतिप्रीतिमती कीर्तिरभवत् पुत्रदर्शनात् ।
प्रभा च दुःखिता पुत्रं सपत्न्या वीक्ष्य सुन्दरम् ॥ २९॥
एष एव भवेद् राजा ज्येष्ठपुत्रोऽयमित्यत ।
दध्योदनं तु सविषं कीर्तिपुत्राय सा ददौ ॥ ३०॥
स तु विव्हलतां यातो विवृत्तनयनः क्षणात् ।
प्रभैव च महाशब्दं कृत्वाऽरोदीद् भृशातुरा ॥ ३१॥
तस्या शब्दं समाकर्ण्य कीर्तिस्तमगमत् तदा ।
तमुदन्तं सा पतये न्यवेदयत सादरम् ॥ ३२॥
भिषजोऽपि ददुस्तस्मा औषधानि नृपाज्ञया ।
परीक्ष्य विषबाधां ते तस्मै राज्ञे न्यवेदयन् ॥ ३३॥
न गुणाय भवन्ति स्म नानामन्त्रौषधानि च ।
प्रभातु धिक्कृता भर्त्रा निरस्ता दूरतो गृहात् ॥ ३४॥
कीर्तिस्तं बालकं गृह्य सखीभिः काननं ययौ ।
नगराद् योजनं याति तावद् बालो ममार सः ॥ ३५॥
अङ्के कृत्वा तु तं बालं रुरोद शोकविव्हला ।
मूर्छिता पतिता भूमौ लतेव वायुनेरिता ॥ ३६॥
च्युतालङ्करणा ध्वस्तकङ्कणा मस्तकाञ्चला ।
क्षणेन किञ्चिदाश्वस्ता सस्मार द्विरदाननम् ॥ ३७॥
उत्पतेः स्मरती बालचेष्टितं निघ्नती स्वहृत् ।
दैवात् तेनैव मार्गेण प्रययौ मुनिसत्तमः ॥ ३८॥
नाम्ना गृत्समदः साधुः साक्षात्सूर्य इवापरः ।
गणेशभक्तप्रवरस्तपसां परमो निधिः ॥ ३९॥
स तस्थौ करुणाविष्टः सा कीर्तिः प्रणनामतम् ।
उवाच श्वसती सा तं गणनाथप्रसादजः ॥ ४०॥
अयं बालो मम मृतो जीवयैनं तपो बलात् ।
क्षिप्रप्रसादन इति नाम देवाज्ञया कृतम् ॥ ४१॥
सपत्न्या दुष्टभावेन विषमस्मै समर्पितम् ।
ततोऽनेन समप्रापि मुने मरणमीदृशम् ॥ ४२॥
न सतां दर्शनं व्यर्थमिति याचे तपोधन ।
शरणागतसन्त्यागं नेहन्ते साधवो जनाः ॥ ३३॥
इति तस्या वचः श्रुत्वा मुहूर्तं ध्यानतत्परः ।
अभवन्मुनिशार्दूलस्ततो गृत्समदोऽब्रवीत् ॥ ४४॥
शृणु देवि प्रवक्ष्येऽहमुपायं पुत्रजीवने ।
अज्ञानतः शमीपत्रैस्त्वयाऽपूजि विनायकः ॥ ४५॥
तत्पुण्यमस्य हस्ते त्वमर्पयस्व ममाज्ञया ।
तत्प्रसादादाशु सुत उत्थास्यति तवाधुना ॥ ४६॥
सा तु तद्वचनस्यान्ते कीर्तिहर्षसमन्विता ।
ददौ तस्मै शमीपूजासम्भवं पुण्यमुत्कटम् ॥ ४७॥
उत्तस्थौ सुकुमारोऽस्या अमृतेनोक्षितो यथा ।
सा तु हर्षान्मुनेः पादौ ववन्दे शिरसा पुनः ॥ ४८॥
उवाच तं मुनिं ज्ञातं कथं शम्या प्रपूजनम् ।
महिमानं वद मुने शमीपूजनसम्भवम् ॥ ४९॥
येन सञ्जीवितो बालो मुक्तश्च यमकिङ्करैः ।
ज्ञात्वा तं च करिष्यामि नित्यं शम्याः प्रपूजनम् ॥ ५०॥
येन वै बहुधा क्रूरा यमदूता दुरासदाः ।
निरस्ता गणनाथस्य दूतैर्बहु रणाजिरे ॥ ५१॥
जीवयित्वा शिशुं मे ते गता धाम गजाननम् ।
येन पुण्येन बालो मे विषं त्यक्त्वा सुखी पुनः ॥ ५२॥
सञ्जीवन्नुत्थितः शीघ्रं सुप्तोत्थित इवापरः ।
अतोऽहं परिपृच्छामि महिमानं शमीभवम् ॥ ५३॥
क उवाच ।
इति तद्वचनं श्रुत्वा प्रोचे गृत्समदस्तु ताम् ।
गृत्समद उवाच ।
उच्चारिते नाम्नि यस्याः कोटिपातकनाशनम् ॥ ५४॥
महिमानं हि कस्तस्याः साकल्पेन वदेद् भुवि ।
सङ्क्षेपेण तु वक्ष्यामि महिमानं यथामति ॥ ५५॥
व्रतदानतपोभिश्च नानातीर्थऽनिषेवणैः ।
पञ्चाग्निसाधनैरप्सु निवासैर्हिमकालिकैः ॥ ५६॥
न तत्फलमवाप्नोति यत् स्याच्छम्या प्रपूजने ।
प्रातःकाले त्रिसन्ध्यं वा शमीं नित्यं स्मरेत् तु यः ॥ ५७॥
वन्दयेदर्चयेद् वापि भक्तिभावसमन्वितः ।
ध्यात्वा गजाननं देवं तस्य तुष्टो विनायकः ॥ ५८॥
ददाति वाञ्च्छितानर्थानन्ते मोक्षं न संशयः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ५९॥
नारदस्य च संवादं शक्रस्य च महात्मनः ॥ ६०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालसञ्जीवनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३॥
आदितः श्लोकानां समष्ट्यङ्काः - ५५७५ + ६० = ५६३५
२.०३४ बालचरिते चतुस्त्रिंशोऽध्यायः
कीर्तिरुवाच ।
ब्रूहि ब्रह्मन्नशेषेण संवादं नारदेन्द्रजम् ।
श्रुत्वा तं संशयं त्यक्त्वा तृप्ताः स्याममृतादिव ॥ १॥
क उवाच ।
इति तस्या वचः श्रुत्वा वक्तुं समुपचक्रमे ।
स मुनिरितिहासं तं संवादं नारदेन्द्रजम् ॥ २॥
मुनिरुवाच ।
कदाचित् पर्यटन् सुभ्रु नारदो दिव्यदर्शनः ।
यदृच्छया गतः शक्रं त्रिलोकीभ्रमणेरतः ॥ ३॥
शक्रस्तं परिपूज्यैव पप्रच्छौरवचेष्टितम् ।
यदाह नारदो धीमांस्तच्छृणुष्व महामुने ॥ ४॥
नारद उवाच ।
देशे मालवसंज्ञात औरवो नाम वै द्विजः ।
वेदवेदाङ्गवित् साक्षाद्भानुरस्तं विना यथा ॥ ५॥
शक्तो यो मनसा स्रष्टुं पातुं हर्तुं चराचरम् ।
धर्मपत्नीरतो नित्यं समलोष्ठाश्मकाञ्चनः ॥ ६॥
मेधावी तपसा श्रेष्ठो जातवेदा इवापरः ।
सुमेधा नाम तस्यासीत् पत्नी परमधार्मिका ॥ ७॥
लावण्यलहरी कान्ता नानालङ्कारशोभना ।
रूपेण निर्जितरतिर्धिक्कृताप्सरसोगणाः ॥ ८॥
पतिशुश्रूषणरता लालिता परमादरात् ।
तयोःसमभवत् कन्या साऽपि ताभ्यां सुलालिता ॥ ९॥
नामास्याश्चक्रतुरुभौ शमीकेति निजेच्छया ।
यद् यद् प्रार्थयते सा तद् तां ददाति पिता विभुः ॥ १०॥
सा तु कन्या रूपवती सञ्जाता सप्तवार्षिकी ।
तदर्थं चिन्तयामास वरार्थमौरवो गतः ॥ ११॥
धौम्यपुत्रं स शुश्राव वेदशास्त्राङ्गपारगम् ।
शौनकस्य मुनेः शिष्यं तेजोराशिं परं मुनिम् ॥ १२॥
गुरुवाक्यरतं दान्तं गुरुशुश्रूषकं परम् ।
मन्दारनामकं शान्तं समाहूयं शुभे दिने ॥ १३॥
तां ददौ गृह्यविधिना पारिबर्हं ददौ बहु ।
जाते विवाहे मन्दारो ययौ स्वस्याश्रमं प्रति ॥ १४॥
यौवनस्थां तु तां ज्ञात्वा शमीकां पुनराययौ ।
मन्दारो मानितः सम्यग्गौरवेण सुपूजितः ॥ १५॥
सम्भोज्य सुमुहूर्तेन दत्त्वा वस्त्रादि काञ्चनम् ।
प्रास्थापयदुभौ विप्रो जामातरमथाब्रवीत् ॥ १६॥
इयं सुता मम ब्रह्मन् दत्ता तुभ्यं विधानतः ।
पालयस्व बहुस्नेहादद्ययावन्मया यथा ॥ १७॥
प्रणिपत्याथ श्वशुर ओमित्युक्त्वा जगाम सः ।
स्वमाश्रमपदं प्राप्य चिक्रीड निजभार्यया ॥ १८॥
कदाचिद् ऋषिमुख्योऽसौ भ्रुशुण्डी तस्य चाश्रमम् ।
मन्दारस्य समायातो द्विरदाननभक्तिमान् ॥ १९॥
रुष्टोऽसावनलः साक्षात् तुष्टश्चेदीश्वरोपमः ।
तपसा निर्गता शुण्डा भ्रुशुण्डीति च सोऽभवत् ॥ २०॥
स्थूलोदरो बृहत्कायो नानालङ्कारमण्डितः ।
ददर्शतुरुभौ तं तौ मन्दारः शमिका तदा ॥ २१॥
विरूपमिव तन्दृष्ट्वा जहसतुर्मुदा तदा ।
सोऽपमानभयात् त्रस्तश्चुकोपारुणलोचनः ॥ २२॥
उवाच तं मन्दमते न जानासि मदोद्धतः ।
अहसीद् विवृर्तैदन्तैः पत्न्या सह यतस्तु माम् ॥ २३॥
अतो यातं वृक्षयोनौ सर्वप्राणिविवजितौ ।
क उवाच ।
शापं श्रुत्वाऽतिकठिनं सन्तप्तौ तौ बभूवतुः ॥ २४॥
प्रणम्य प्रोचतुर्विप्रमुच्छापं वक्तुमर्हसि ।
तत ऊचे भ्रुशुण्डी स जानन् करुणया युतः ॥ २५॥
शुण्डां दृष्ट्वा कृतं हास्यं युवाभ्यां मूढभावतः ।
शुण्डावान् देवदेवोऽसौ सप्रसन्नो भवेद्यदा ॥ २६॥
तदा युवां निजं रूपं प्राप्स्येथे नात्र संशयः ।
एवमुक्त्वा गतो यावन्मुनिराश्रममण्डलम् ॥ २७॥
तावत्तौ वृक्षतां यातौ त्यक्त्वा देहौ तु मानुषो ।
मन्दारतां च मन्दारो ब्राह्मणः प्राप तत्क्षणात् ॥ २८॥
शमिका शमितां प्राप्ता सर्वतः कण्टकैर्वृता ।
उभौ वृक्षौ प्राणिमात्रैर्वर्जितौ मुनिवाक्यतः ॥ २९॥
अनागतौ तु तौ ज्ञात्वा शौनकश्चिन्तयान्वितः ।
मासमात्रे गते नैव याति कस्मान्महाबलः ॥ ३०॥
मन्दारो यामि तं दृष्टुं शिष्या यान्तुमया सह ।
शीघ्रमौरवमागम्य पप्रच्छ शनकैरिदम् ॥ ३१॥
आनेतुं शमिकां प्राप्तो मन्दारः क्वास्ति तद्वद ।
औरव उवाच ।
मयाऽप्रेषितदैवाशु दत्त्वा कन्यां तया सह ॥ ३२॥
नागतश्वेत्स्वाश्रमं स न जाने क्व गतो ह्यसौ ।
चिन्तयामासुरथ ते औरवः शौनकादयः ॥ ३३॥
किमुभौ भक्षितौ मार्गे वृकव्याघ्रतरक्षुभिः ।
अथवा निहतौ चोरैर्दष्टावाशीविषेण वा ॥ ३४॥
ततस्ते त्वरिता जग्मुस्तदुदन्तबुभुत्सया ।
क्वचित् क्वचिज्जना ऊचुर्मासमात्रमितो गतौ ॥ ३५॥
ततोऽरण्ये पदे दृष्टे स्त्रीपुंसोश्चारुरूपिणी ।
अनूपे ते तयोर्ज्ञात्वा स्नात्वा ध्यात्वा विलोकयन् ॥ ३६॥
ज्ञात्वा भ्रुशुण्डिना शप्तावुपहासरुषावशात् ।
वृक्षतां गमितौ सर्वपक्षिकीटविवर्जितौ ॥ ३७॥
मन्दारतां तु मन्दारः शमिका शमितामपि ।
शोचाते तावुभौ विप्रौ औरवः शौनकोऽपि च ॥ ३८॥
धौम्यपुत्रः साधुरयमध्ये तु समुपागतः ।
अधीतविद्यः स कथं गमितो द्रुमतां बलात् ॥ ३९॥
पिता श्रुत्वा त्यजेत्प्राणान् पृष्टः किं वा वदामि तम् ।
औरवोऽपि शुशोचैनां शमिकां निजकन्यकाम् ॥ ४०॥
क उवाच ।
तावुभौ परिचिन्त्यैवं न भेदो भक्तदेवयोः ।
गणेशं परिराध्यैवं मोचयाव इमावघात् ॥ ४१॥
जितेन्द्रियावूर्ध्वदृष्टी निराहारौ दृढव्रतो ।
एकाङ्गुष्ठस्थितावुर्व्यां तोषयामासतुर्मुदा ॥ ४२॥
ततस्तौ कृपयाविष्टौ तेपाते परमं तपः ।
षडक्षरेण मन्त्रेण देवदेवं विनायकम् ॥ ४३॥
एवं द्वादशवर्षाणि चेरतुस्तप उत्तमम् ।
औरवः कन्यकार्थं च शिष्यार्थं शौनकोऽपि च ॥ ४४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भ्रुशुण्डिशापवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
आदितः श्लोकानां समष्ट्यङ्काः - ५६३५ + ४४ = ५६७९
२.०३५ बालचरिते शमीमन्दारप्रशंसानाम पचत्रिंशोऽध्यायः
क उवाच ।
ततस्तुष्टः पाशपाणिर्दृष्ट्वा क्लेशं तथा तयोः ।
आविरासीन्महातेजा दशबाहुर्विनायकः ॥ १॥
किरीटं कुण्डले मालामङ्गदे कटिसूत्रकम् ।
बिभ्रत् सर्पोपवीतं च सिंहारूढोऽग्निसन्निभः ॥ २॥
पश्यतः स्म परां मूर्तिं कोटिसूर्यसमप्रभाम् ।
तुष्टवतुरुभौ देवं नत्वा बद्धाञ्जली उभौ ॥ ३॥
तावुचतुः ।
विश्वस्य बीजं परमस्य पाता नानाविधानन्दकरः स्वकानाम् ।
निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता ॥ ४॥
परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयातिगोपी (हृदयेतिगुप्तः) ।
सर्वश्रुतीनां च न गोचरोऽसि नमाव इत्थं निजदैवतं त्वाम् ॥ ५॥
न पद्मयोनिर्न हरो हरिश्च हरिः षडास्यो न सहस्रमूर्द्धा ।
मायाविनस्ते न विदुः स्वरूपं कथं न शक्यं परिनिश्चितुं तत् ॥ ६॥
तवानुकम्पा महती यदा स्याद् विभुञ्जतः कर्म शुभाशुभं स्वम् ।
कायेन वाचा मनसा नमे त्वां जीवंश्च मुक्तो नर उच्यते सः ॥ ७॥
त्वं भावतुष्टो विदधासि कामान् नानाविधाकारतयाऽखिलानाम् ।
संसृत्यकूपारविमुक्तिहेतुरतो विभुं त्वां शरणं प्रपद्ये ॥ ८॥
गणेश उवाच ।
तुष्टोऽहं परया भक्त्या तपसा परमेण च ।
अनया परया स्तुत्या ब्राह्मणौ वृणुतं वरान् ॥ ९॥
कुजन्मनाशकमिदं मम स्तोत्रं पठेत्तु यः ।
त्रिसन्ध्यं च त्रिवारं च सर्वान्कामानवाप्नुयात् ॥ १०॥
षण्मासाज्जायते विद्या लक्ष्मीर्नित्यजपादपि ।
पञ्चवारजपान्मर्त्य आयुरारोग्यमाप्नुयात् ॥ ११॥
क उवाच ।
श्रुत्वा गणेशवाक्यं तावूचतुः परमादृतौ ।
औरवस्य सुतो देव शमिका नामतः शुभा ॥ १२॥
मन्दाराय सुता दत्ता वेदशास्त्रार्थदर्शिने ।
शौनकस्य च शिष्याय धौम्यपुत्राय धीमते ॥ १३॥
उभौ प्रहसितौ मोहाद् दृष्ट्वा मार्गे भ्रुशुण्डिनम् ।
स च मत्वा निजावज्ञां शशाप परया रुषा ॥ १४॥
तच्छापाद्वृक्षतां यातौ मन्दारः शमिकाऽपि सा ।
तयोश्च मातापितरौ शोचन्तौ भृशदुःखितौ ॥ १५॥
आवां च क्लेशितौ देव सर्वेषां नः प्रियं कुरु ।
एतयोः कुजतां दूरीकुरु शीघ्रं गजानन ॥ १६॥
गजानन उवाच ।
असम्भावि वरं दास्ये कथं विप्रौ कथं वृथा ।
करिष्ये भक्तवचनं तस्मात्तुष्टो ब्रुवे वरम् ॥ १७॥
अद्यप्रभृति मन्दारमूले स्थास्यामि निश्चलः ।
मृत्युलोके स्वर्गलोके मान्योऽयं च भविष्यति ॥ १८॥
मन्दारमूलैर्मे मूर्तिं कृत्वा यः पूजयेन्नरः ।
शमीपत्रैश्च दूर्वाभिस्त्रितयं दुर्लभं भुवि ॥ १९॥
यतः शमीमधिष्ठाय सर्वदाऽहं स्थिरो मुनी ।
अयमेव वरो दत्तो वृक्षयोरतिदुर्लभः ॥ २०॥
भवद्वाक्यानुरोधेन न भ्रुशुण्डीवचोऽन्यथा ।
दूर्वाभावेऽथ मन्दारो द्वयाभावे शमी मता ॥ २१॥
उभयो सा फलं दद्यानात्र कार्या विचारणा ।
नानायज्ञैर्न तत्पुण्यं नानातीर्थव्रतैरपि ॥ २२॥
दानैश्च नियमैश्चैव पुण्यं तत्प्राप्नुयान्नरः ।
यत्स्यान्मम शमीपत्रैः पूजनेन द्विजोत्तमौ ॥ २३॥
नाहं प्रीये धनकनकचयैर्नान्नदानैर्न
वस्त्रैर्नानापुष्पैर्न च मणिगणैर्नैव मुक्ताफलैश्च ।
यद्वच्छम्या दलनिचयकृतैः पूजनैर्ब्राह्मणानां
मन्दाराणां कुसुमनिचयैः सर्वकालं मुनीन्द्रौ ॥ २४॥
यः शमीं प्रातरुत्थाय पश्येद् वन्देच्च पूजयेत् ।
स सङ्कष्टं च रोगं च न विघ्नं न च बन्धनम् ॥ २५॥
प्राप्नोति मत्प्रसादेन दारान्पुत्रधनानि च ।
पशूनन्यांश्च कामांश्च मुक्तिमन्ते मदाश्रयाम् ॥ २६॥
इदमेव फलं प्रोक्तं मन्दारैरपि पूजने ।
मन्दारमूर्तिपूजाभिरहं गृहगतोऽभवम् ॥ २७॥
नालक्ष्मीर्न च विघ्नानि नापमृत्युर्न च ज्वरः ।
नाग्निचोरभयं तत्र कदाचिदपि जायते ॥ २८॥
वेदवेदाङ्गविद्विप्रः क्षत्रियो विजयी भवेत् ।
वैश्यस्तु वृद्धिप्राप्नोति शूद्रः सद्गतिमाप्नुयात् ॥ २९॥
क उवाच ।
एवमुक्त्वा स्थितो देवो मूले मन्दारके तदा ।
शमीमूलेऽपि तस्थौ स देवदेवो विनायकः ॥ ३०॥
औरवोऽपि सपन्नीकस्तपस्तप्तुं स्थिरोऽभवत् ।
तस्य मूले तपस्तप्त्वा त्यक्त्वा देहं दिवं गतः ॥ ३१॥
शमीगर्भगतो दुःखादौरवो दृढ्योगतः ।
शमीगर्भ इति ख्यातो जातोऽसौ हव्यभुक्ततः ॥ ३२॥
अत एव शमीकाष्ठं मथ्नन्तीहाग्निहोत्रिणः ।
शौनकोऽपि वचः श्रुत्वा गजाननसमीरितम् ॥ ३३॥
कृत्वा मन्दारमूलस्य मूर्तिं चारुगजाननीम् ।
मन्दारैश्च शमीपत्रैर्दूर्वाभिश्चार्चयन्मुदा ॥ ३४॥
ददौ वरान् शौनकाय परितुष्टो गजाननः ।
ततः स्वमाश्रमं यातः सर्वदाऽपुपूजच्च तम् ॥ ३५॥
गृत्समद उवाच ।
तदारभ्य शमी तस्य गणेशस्य प्रियाऽभवत् ।
इति ते सर्वमाख्यातं पुनश्च कथयामि ते ॥ ३६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीमन्दारप्रशंसानाम पचत्रिंशोऽध्यायः ॥ ३५॥
आदितः श्लोकानां समष्ट्यङ्काः - ५६७९ + ३६ = ५७१५
२.०३६ बालचरिते षट्त्रिंशत्तमोऽध्यायः
गृत्समदुवाच ।
सहयाद्रिपर्वते देवो न्यवसद् गिरिजायुतः ।
स्वगणैर्मुनिभिर्युक्तः पुण्यक्षेत्रे महाबले ॥ १॥
दिदृक्षुः प्रययौ तत्र ब्रह्मा लोकपितामहः ।
पत्नीद्वयसमायुक्तो देवगन्धर्वकिन्नरैः ॥ २॥
दृष्टवा तु शङ्करं पूज्य स्वाभिप्रायं न्यवेदयत् ।
आकारयामास तदा परमर्षीन् सदाशिवः ॥ ३॥
जमदग्निं वसिष्ठं च मार्कण्डेयं च नारदम् ।
कपिलं पुलहं कण्वं विश्वामित्रं त्रितं द्वितम् ॥ ४॥
त आययुः शिवाहूता अन्ये सर्वे दिदृक्षवः ।
उषःकाले मुहूर्तं ते निष्कास्य प्रारभन् मखम् ॥ ५॥
त्वरावन्तोऽथ विस्मृत्य पूजां वैनायकीं शुभाम् ।
सावित्रीं गृहकार्येषु सक्तां त्यक्त्वा मुनीश्वराः ॥ ६॥
गायत्रीमुपवेश्यैव पुण्याहवाचनं च ते ।
कारयित्वाऽभ्युदयिकं मातपूजनपूर्वकम् ॥ ७॥
अस्थापयन्नग्निकुण्डे यावद् वैश्वानरं च ते ।
सावित्री तावदायातारम्भं दृष्ट्वा रुषान्विता ॥ ८॥
उवाच क्रोधरक्ता सा वीक्ष्य सर्वान् सभासदः ।
सावित्र्युवाच ।
मामनादृत्य यागोऽयं समारब्धो न सेत्स्यति ॥ ९॥
ऋषिरुवाच ।
मुञ्चन्ती मुखतो ज्वाला दग्धुकामा चराचरम् ।
शशाप सा देवमुनीन् जडा यूयं भविष्यथ ॥ १०॥
नियुक्त्वाऽनधिकारां तां गायत्रीं सर्व एव यत् ।
ततो देवाः प्रणम्यौच्चैः प्रार्थयामासुरुत्सुकाः ॥ ११॥
सावित्रीं सर्वजननी डलयोरैक्यतः शुभे ।
जलरूपा भविष्यामो नदीनदस्वरूपिणः ॥ १२॥
तथेत्युक्ते तया देव्या नदीरूपत्वमागताः ।
वेण्या नाम्ना महेशोऽभूत्कृष्णः कृष्णाऽभवन्नदी ॥ १३॥
तत्तन्नाम्ना बभूवुस्ते सरितः सर्वदेवताः ।
यत्र पूर्वं विघ्नराजो नार्च्यते ज्ञानदुर्बलैः ॥ १४॥
तत्र विघ्ना भवन्त्येवं शङ्करस्य यथा पुरा ।
पुरत्रयवधे जाता विघ्नास्तस्याप्रपूजनात् ॥ १५॥
ब्रह्मा चिन्तां परां प्राप मखविघ्न उपस्थिते ।
मन्निमित्तं सुराः सर्वे धुनीरूपमुपागताः ॥ १६॥
विमानं सर्वलोकेषु गमितः केन कर्मणा ।
सङ्कल्पबाधश्व कथमद्य प्राप्तो दुरत्ययः ॥ १७॥
विघ्नहर्ता जगन्नाथो न स्मृतो न च वाऽर्चितः ।
सर्वेषां चैव देवानां यतो मोहः समाविशत् ॥ १८॥
तं प्रसन्नं करिष्यामि ततो यज्ञो भविष्यति ।
एवं यावच्चिन्तयते ब्रह्मा तावत्सुराङ्गनाः ॥ १९॥
देवान् वै तादृशान् ज्ञात्वा समीयुर्ब्रह्मणोऽन्तिकम् ।
पुलोमजा च गिरिजा छायाऽपि कमलाऽपि च ॥ २०॥
अन्या अपि समूचुस्तं सर्वास्ताः कमलाननम् ।
कथं यज्ञः समारम्भि मान्या नो मानिता कथम् ॥ २१॥
नापूजि च कथं विघ्नहर्ता पूर्वं गजाननः ।
त्वयि विस्मरणं चैव न वाऽस्मारि सुरैः कथम् ॥ २२॥
किमस्माभिरनुष्ठेयं देवैर्वा जलरूपिभिः ।
कं याम शरणं देव त्वदृते कमलोद्भव ॥ २३॥
इति तासां वचः श्रुत्वा मा भयं कुरुतेति कः ।
ता उवाच यजिष्येऽहं यथा सर्वं भवेच्छुभम् ॥ २४॥
किमसाध्यं हि भक्तानां सुप्रसन्ने गजानने ।
सर्वाः कुरुध्वं तद्भक्तिं स वः सर्वप्रियं चरेत् ॥ २५॥
प्रसादयिष्येऽहमपि जगदीशं विनायकम् ।
अनादिनिधनं देवं सर्वकारणकारणम् ॥ २६॥
इत्युक्तास्ता गता दूरं देशं कर्णाटकं शुभम् ।
मन्दारमूलं विघ्नेशं स्थित्वा ध्यातुं तदीरिताः ॥ २७॥
रामेण स्थापितं पूर्वं वक्रतुण्डेति नामतः ।
यद्वरैर्विजयी रामो हत्वा राक्षसपुङ्गवान् ॥ २८॥
दशाननं च विख्यातं ययौ पत्न्या निजं पदम् ।
तेपुस्तत्र तपो घोरं सर्वास्ताः सुरयोषितः ॥ २९॥
काचिन्नामजपं चक्रे काचिन्मन्त्रजपं तथा ।
काचित्पद्मासनं तस्थौ ध्यायन्ती परमेश्वरम् ॥ ३०॥
काचिद् वीरासनगता निराहारा तथाऽपरा ।
सम्मार्जयन्ती द्वाराणि चत्वराणि गृहाणि च ॥ ३१॥
प्रदक्षिणानमस्कारैः कुर्वन्ती भक्तिमुत्तमाम् ।
काचिदेकाङ्गुष्ठगता तस्थौ ध्यात्वा विनायकम् ॥ ३२॥
काचिन्निमील्य नयने स्तोत्राण्येवाऽपठत्तदा ।
बहुकाले व्यतिक्रान्ते न तुतोष विनायकः ॥ ३३॥
तदा चिन्तां परां जग्मुः किं कुर्म इति विव्हलाः ।
ततः सुमनसां भारान् दूर्वाभारांस्तथाऽपराः ॥ ३४॥
समर्प्य पुपुजुर्दैवं धूपदीपान्नकाञ्चनैः ।
मन्दारपुष्पैरन्याश्च शमीपतत्रैरथापराः ॥ ३५॥
नभोवाणीं ततः श्रुत्वा शमीपत्रं विना विभुः ।
न सन्तुष्येदिति तदा सर्वा एव शमीदलैः ॥ ३६॥
पुपूजः परया भक्त्या देवदेवं गजाननम् ।
ततःपरमकारुण्यात्सुप्रसन्नः शमीदलैः ॥ ३७॥
आविरासीत्पुरस्तासां लसच्चारुचतुर्भुजः ।
किरीटकेयूरधरो हारकुण्डलमण्डितः ॥ ३८॥
लम्बकर्णो लसद्गण्डो विषाणद्वयमण्डितः ।
सिद्धिबुद्धियुतश्चाखुवाहनः पीतवस्त्रवान् ॥ ३९॥
सर्वास्ता ददृशुर्देवं कोटिसूर्यसमप्रभम् ।
निमील्य नयने नेमुर्दण्डवत् पृथिवीतले ॥ ४०॥
तुष्टुवुस्ताः करपुटं कृत्वा सौम्य महाव्रतम् ।
अतिप्रसन्नवदनाः परमानन्दनिर्भराः ॥ ४१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीपत्रार्पणप्रसन्नेन विनायकेन देवाङ्नाभ्यः स्वरूपदर्शनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६॥
आदितः श्लोकानां समष्ट्यङ्काः - ५७१५ + ४१ = ५७५६
२.०३७ बालचरिते शमीमन्दारमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः
कीर्तिरुवाच ।
कथं स्तुतिः कृता ताभिस्तां मे वद महामुने ।
मुनिरुवाच ।
श्रूयतां सा स्तुतिः कीर्ते शृणुष्वावहिता च ताम् ॥ १॥
ता ऊचुः ।
नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः ।
नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥ २॥
नमः सर्व विनाशाय नमस्तेऽनन्तशक्तये ।
नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥ ३॥
परब्रह्मस्वरूपाय निर्गुणाय नमो नमः ।
चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥ ४॥
मायाश्रयायामेयाय गुणातीताय ते नमः ।
सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥ ५॥
शरणागतपालाय दैत्यदानवभेदिने ।
नमो नानावताराय विश्वरक्षणतत्पर ॥ ६॥
अनेकायुधहस्ताय सर्वशत्रुनिबर्हण ।
अनेकवरदात्रे ते भक्तान्ना हितकारक ॥ ७॥
क उवाच ।
एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान् बहून् ।
देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः ॥ ८॥
नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि ।
गणेश उवाच ।
ददामि वाञ्छितं वोऽहमनुष्ठानवशीकृतः ॥ ९॥
स्तुत्याऽनयाशु सन्तुष्टस्तथाऽस्तु वचनं तु वः ।
सावित्र्या वचनाज्जाता जलभूताःसुराः शुभाः ॥ १०॥
तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः ।
निजं स्वरूपं यास्यन्ति स्थित्वांशेन तथाविधान् ॥ ११॥
स्वाधिकारान् प्रपत्स्यन्ते नान्यथा भाषितं मम ।
शमीपत्रैः पूजयन्तु यूयं देवास्तु मामिह ॥ १२॥
येनार्पितं शमीपत्रं भुवनं तेन चार्पितम् ।
सुवर्णशतभाराणां फलं प्राप्तं न संशयः ॥ १३॥
क उवाच ।
एवं ब्रुवति विघ्नेशे स्वरूपधारिणः सुराः ।
स्थिता अंशान्नदीरूपा ददृशुस्ते विनायकम् ॥ १४॥
तेऽपि सम्प्रार्थयामासुर्नत्वा स्तुत्वा गजाननम् ।
क्षमापराधं नो देव बुद्धिमोहव्यपाश्रयात् ॥ १५॥
त्यक्त्वा ज्येष्ठां भवन्तं च प्रारभामो यजिं च ताम् ।
दृष्टं तु तत्फलं सद्यः प्रसादात् ते पुनर्नवाः ॥ १६॥
जाताः स्म परमानन्दं प्राप्ताः स्म कृपया तव ।
एवमुक्त्वा पुपूजूस्ते शमीपत्रैर्विनायकम् ॥ १७॥
सोऽपि तान्प्रतिनन्द्याऽथ पिदधे विघ्ननाशनः ।
ततस्ते सुन्दरां मूर्तिं कृत्वा पाषाणतः शुभाम् ॥ १८॥
चतुर्भुजां करिकराननां हेरम्बनामतः ।
प्रासादं परमं कृत्वा स्थापयामासुरादरात् ॥ १९॥
ऊचुश्च सर्वलोकानामुपकाराय ते सुराः ।
इमं यः पूजयेद्भक्त्या विद्याधीशं सुपत्तने ॥ २०॥
तस्य प्रसन्नो भगवान् सर्वान्कामान्प्रदास्यति ।
वन्दनात्स्मरणाद्वापि नमनान्नात्र संशयः ॥ २१॥
या तत्रासीन्महामूर्तिर्मन्दारतरुनिर्मिता ।
तां गृहीत्वा ययाविन्द्रः स्वपुरं परमर्द्धिमत् ॥ २२॥
सपत्नीकः पूजयते भक्त्येदानीमपि प्रभुः ।
सर्वे देवाः स्वस्वपदे ततो मन्दारवृक्षजाम् ॥ २३॥
कृत्वा मूर्तिं गणेशस्य शमीपत्रैरपूजयन् ।
मुदं प्रापुः स्वयोषिद्भिरापुः कामाननुत्तमान् ॥ २४॥
ब्रह्मा द्वादशवर्षाणि तपः कृत्वा महत्तरम् ।
कृत्वा प्रसन्नं विघ्नेशं पुनर्यागमकारयत् ॥ २५॥
सोऽपि मन्दारजां मूर्तिं पुपूजे परमादरात् ।
विघ्नराजस्य वरदां शमीपत्रैरनेकधा ॥ २६॥
स्वर्णपत्रैश्च दूर्वाभिर्मन्दारैः केतकैरपि ।
श्वेतदूर्वाङ्कुरैश्चापि सर्वकामफलप्रदाम् ॥ २७॥
गृत्समद उवाच ।
एवं ते वर्णितो मातर्महिमा लेशतः शुभे ।
मन्दारस्य च शम्याश्च श्रवणात्पापनाशनः ॥ २८॥
ततःप्रभृति देवस्य प्रियाऽत्यन्तं शमी शुभा ।
अपूजि स त्वयाऽज्ञानात्तेनासौ पुत्र उत्थितः ॥ २९॥
मन्दारस्यापि महिमा मया सम्यङ्निरूपितः ।
इदानीमनुजानीहि गमिष्ये निजमन्दिरम् ॥ ३०॥
क उवाच ।
श्रुत्वा च महिमानं सा शमीमन्दारसम्भवम् ।
प्रणिपत्य मुनिं पुत्रजीवनं विससर्ज ह ॥ ३१॥
श्रुत्वेदमाख्यानवरं गणेशप्रीतिवर्द्धनम् ।
न स सङ्कष्टमाप्नोति सर्वाङ्कामाँल्लभेन्नरः ॥ ३२॥
यः स्मरेत्प्रातरुत्थाय शमीं मन्दारमेव च ।
गणेशं च सदा भक्त्या निष्पापः स सुखी भवेत् ॥ ३३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीमन्दारमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥
आदितः श्लोकानां समष्ट्यङ्काः - ५७५६ + ३३ = ५७८९
२.०३८ बालचरितेऽष्टतत्रिंशोऽध्यायः
कीर्तिरुवाच ।
सम्यगुक्तं त्वया ब्रह्मन् शमीमाहात्म्यमादरात् ।
मन्दारस्यापि कथितं तेन मे तुष्यते मनः ॥ १॥
जीवितश्च कुमारोऽयमुपदिष्टः षडक्षरम् ।
न चोच्चारयितुं शक्यं बालभावान्मुनीश्वर ॥ २॥
सुगमं सुप्रसादं च स्वराज्यप्रापकं मुने ।
जप्तुं शक्यं बालकेन मन्त्रमस्मै दिशाधुना ॥ ३॥
मुनिरुवाच ।
सम्यगदृष्टा तव मतिर्गजाननपदाम्बुजे ।
अतोऽहमस्य दास्यामि निज मन्त्रं सुखप्रदम् ॥ ४॥
सर्वस्य जगतो हेतुर्नाम यच्चतुरक्षरम् ।
शुभाशुभस्य च द्रष्टर्दुष्टदैत्यहरस्य च ॥ ५॥
सर्वधर्मपरित्रातुर्दिवोदासोपकारिणः ।
द्विजरूपधरस्यापि वाराणस्यां स्थितस्य ह ॥ ६॥
विश्वेश्वरस्याविमुक्तप्राप्त्यै यत्नं प्रकुर्वतः ।
सर्वान्तर्यामिणश्चापि विश्वेश्वरनुतस्य ह ॥ ७॥
जगतः पालनार्थाय जनार्दननुतस्य च ।
ध्यातस्य पूजितस्यापि ब्रह्मणा सृष्टिहेतवे ॥ ८॥
अर्चितस्य शिवेनापि सर्वसंहारहेतवे ।
पुलोमजाधवेनापि पूजितस्य सुभक्तितः ॥ ९॥
दैत्यानां निधनार्थाय देवराज्यसुखात्पये ।
सूर्येण वरुणेनापि शशिना च यमेन च ॥ १०॥
अग्निना वायुना स्वस्वगुणोत्कर्षाय पूजिताः ।
बृहस्पत्युशनोभ्यां च स्वस्वोत्कर्षाय पूजितः ॥ ११॥
शेषेणाराधितो ढुण्ढिर्धराधरणहेतवे ।
गन्धर्वकिन्नरा यक्षाः सिद्धचारणराक्षसाः ।
ऋषयः पशवः सर्वे स्थावरा जङ्गमाः शुभाः ॥ १२॥
आराधयन्ति विश्वेशं स्वस्वकार्यार्थसिद्धये ।
अपारगुणपारोऽयं ढुण्ढिराजोऽखिलेश्वरः ॥ १३॥
गुणान्तं न ययुर्यस्य ब्रह्मविष्णुशिवादयः ।
तस्मिन्स्तु पूजिते भक्त्या शमीपत्रेण भावतः ॥ १४॥
पुत्रस्ते भविता राज्यभागी शत्रुनिबर्हणः ।
कीर्तिरुवाच ।
श्रुतो मे महिमा ब्रह्मन् ढुण्ढिराजाश्रयोऽखिलः ॥ १५॥
किङ्कर्मा कथमुत्पन्नः कस्यांशः किपराक्रमः ।
केनास्य च कृतं नाम केनासौ पूजितः पुरा ॥ १६॥
इमं मे संशयं ब्रह्मन् छेत्तुमर्हस्यशेषतः ।
मुनिरुवाच ।
सम्यक्पृष्टं त्वया भद्रे ज्ञानाधिकतया शुभे ॥ १७॥
भक्त्या निवेदितश्चायं संशयस्मं नुदामि ते ।
यथा दुरासदो दैत्यो हतोऽनेन तु राक्षसः ॥ १८॥
मायावतारो मोहाय यातो दिवोदासं नृपम् ।
अविमुक्तं समानीतो यथा विश्वेश्वरो हरः ॥ १९॥
ढुण्डिराजेति नामास्य येन जातं नृपाङ्गने ।
तत्सर्वं कथयिष्यामि यथा स्कन्दाच्छ्रुतं मया ॥ २०॥
अगस्त्याय कथयता शृणुष्वैकमनाः शुभे ।
स्कन्द उवाच ।
शृणुष्वावहितो ब्रह्मन्नविमुक्ताश्रयां कथाम् ॥ २१॥
यस्याः श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
कश्यपाय हरिः प्राह सृज नानाविधाः प्रजाः ॥ २२॥
प्ररूढतपसा कायः ससृजेऽथ जरायुजा प्रजाः ।
एकविंशतिसाहस्रमण्डजाः स्वेदजास्तदा ॥ २३॥
उद्भिजाश्चैव तावन्त्यो मानष्यं तासु दुर्लभम् ।
पुण्येन लभते तच्च ब्राह्मण्यं बहपुण्यतः ॥ २४॥
तच्चेत्संरक्षितं सम्यग् धर्माधर्मव्यवस्थया ।
ददाति परमं स्थानं यद्गत्वा न निर्वतते ॥ २५॥
चतुराशीतिलक्षेषु नो चेत्पतितजन्मसु ।
दुराचारा नरा याम्ययातनासु पतन्ति वै ॥ २६॥
कर्मक्षये ततो जाते बहुकालेन ते पुनः ।
मृत्युलोकं समायान्ति काणाः कुब्जा दरिद्रिणः ॥ २७॥
तदेषामनुकम्पार्थं ब्रह्मेशानादयः सुराः ।
ऋषयश्व महाभागा नानातीर्थानि चक्रिरे ॥ २८॥
क्षेत्राणि च महार्हाणि प्राणिपापहराणि च ।
विलयन्तः स्थितास्तत्र पापं देवर्षयस्तदा ॥ २९॥
यत्र स्थितानां जन्तूनां पापस्य विलयो भवेत् ।
जन्तून् पापात् परित्रातुं स्थिता देवर्षयः सदा ॥ ३०॥
सर्वश्रेष्ठां सर्वगुणां भुक्तिमुक्तिप्रदां शुभाम् ।
विश्वेश्वरो निर्ममेऽथ ध्यातृज्ञातृविमुक्तिदाम् ॥ ३१॥
सर्वतीर्थमयीं रम्यां नाम्ना वाराणसीं पुरीम् ।
यत्र चक्रे सरः ख्यातं विष्णुना प्रभविष्णुना ॥ ३२॥
तपस्यता कृतं चारु स्नानमात्रेण मुक्तिदम् ।
यदृष्ट्वा कन्धराकम्पाच्छिवस्य कुण्डलान्मणिः ॥ ३३॥
पतितस्तत्र सञ्जाता नाम्ना सा मणिकर्णिका ।
ततो भगीरथाहूता जाता भागीरथी नदी ॥ ३४॥
अत्र कीटपतङ्गानां मुक्तिर्मरणतो भवेत् ।
त्रिवारनामस्मरणात् काशीवासफलप्रदा ॥ ३५॥
धन्यास्ता वीरुधो वल्ल्यस्तृणवृक्षा न चान्यतः ।
गछन्ति कमठा मत्स्या भूकैलासं विहाय तत् ॥ ३६॥
नित्यं यत्र स्थितो शम्भुर्नानारूपोऽथ रूपवान् ।
रविः शशी हरिर्ब्रह्मा स एव गिरिजापतिः ॥ ३७॥
विनायकः शक्तिरूपः कारणं जगतोऽपि सः ।
प्रलयेऽपि त्रिशूलाग्रे ध्रियते येन काशिका ॥ ३८॥
एकोऽयं पञ्चधा जातो लोकानुग्रहकाम्ययाः ।
भक्तो यां ध्यायति मूर्तिं सा तेन ध्रियते क्षणात् ॥ ३९॥
अत्र यो मनुते भेदं सोऽवीचीर्लभते नरः ।
स्तुतिमेकत्र निन्दां वा परत्र यः समाचरेत् ॥ ४०॥
स याति नरकानेकविंशतिं बहुवत्सरम् ।
अतो भस्मासुरसुतः ख्यातो नाम्ना दुरासदः ॥ ४१॥
स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ।
दिव्यवर्षसहस्रं स एकाङ्गुष्ठस्थितोऽभवत् ॥ ४२॥
निराहारः काष्ठभूतः सवल्मीकोऽस्थिशेषवान् ।
नेत्रमात्रावशिष्टोऽसौ जजाप परमं मनुम् ॥ ४३॥
आययौ तं वरं दातुं तत्क्लेशपरितोषितः ।
दशबाहुः पञ्चवक्त्रो रुण्डमालाविभूषितः ॥ ४४॥
त्रिशुलं डमरु बिभ्रज्जटाजूटविभूषितः ।
गङ्गाधरस्त्रिनयनश्चिताभस्माङ्गलेपनः ॥ ४५॥
वृषध्वजो वृषारूढः शशिरेखाविभूषितः ।
अपर्णाङ्ककृपाविष्टो जगाद दैत्यपुङ्गवम् ॥ ४६॥
शिव उवाच ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपसा क्लेशितो भृशम् ।
ईप्सितं ते प्रदास्यामि वरयस्व हृदि स्थितम् ॥ ४७॥
क उवाच ।
तत उन्मील्य नयने बद्ध्वाञ्जलिपुटोऽसुरः ।
प्रणम्य परितुष्टाव वरदं तं महेश्वरम् ॥ ४८॥
त्वं जगत्कारणं देव परमानन्दविग्रहः ।
क्षराक्षरातीततनुर्गुणत्रयविकारकृत् ॥ ४९॥
गुणातीतो ज्ञानमयो व्यक्ताव्यक्तविधानवित् ।
मुनिध्येयतनुः सर्वभक्तानुग्रहकारकः ॥ ५०॥
ब्रह्माण्डानामनन्तानां हेतुः श्रेयस्करः सताम् ।
अखण्डानन्दपूर्णस्त्वममोघफलदायकः ॥ ५१॥
सर्वाधारः सर्वसहः सर्वशक्त्युपबृंहितः ।
पृथिवीवायुसलिलवह्नितेजः स्वरूपवान् ॥ ५२॥
अद्य धन्यं तपो नेत्रे पितरौ जन्म ते यतः ।
दृष्ट स्वरूपं साक्षान्मे गतं पापं लयं परम् ॥ ५३॥
योगिहृच्छ्रुतिवाचो यो गोचरो न कदाचन ।
इदानीं वरये देव तन्मे त्वं दातुमर्हसि ।
शिव उवाच ।
निःशङ्कं वरयाशु त्वं सर्वं दास्येऽतिदुर्लभम् ॥ ५४॥
स्तोत्रेण तपसा चैव प्रणयेन सुतोषितः ।
मुनिरुवाच ।
ततो वव्रेऽभयं देवात्सुप्रसन्नात्सदाशिवात् ॥ ५५॥
चतुराकरजेभ्यो मे मा मृत्युः सम्भवेदिति ।
यक्षरक्षःपिशाचेभ्यो देवदानवकिन्नरात् ॥ ५६॥
मुनिमानवगन्धर्वसर्पेभ्यो हि वनेचरात् ।
दृष्ट्वा रूपं मदीयं तु त्रसेयू रणमूर्द्धनि ॥ ५७॥
सर्वे देवा महाभाग सुरराज्यं च यच्छ मे ।
संस्मृतिश्चरणे नित्यं भक्तिस्तेऽव्यभिचारिणी ॥ ५८॥
शिव उवाच ।
एकां शक्तिं विना सर्वदेवेभ्योऽदायितेऽभयम् ।
शक्तितेजोद्भवः कश्चिज्जित्वा सञ्जीवयिष्यति ॥ ५९॥
शिरसि स्थाप्य चरणं धरिष्यति निरन्तरन् ।
निष्काशितो यदा तेन चरणस्ते शिरो गतः ॥ ६०॥
तदा पुनस्त्रिलोकी त्वं बलाज्जेष्यसि तेजसा ।
भक्तिश्व मे दृढतरा स्मृतिस्ते वै भविष्यति ॥ ६॥
गृत्समद उवाच ।
एवं दत्त्वा वरांस्तस्मै शिवोऽन्तर्धानमन्वगात् ।
दुरासदोऽपि स्वगृहमाययौ हर्ष निर्भरः ॥ ६२॥
इदं स्तोत्रं पठेद्यस्तु सर्वान्कामानवाप्नुयात् ॥ ६३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदवरप्राप्तिवर्णनं नामाऽष्टतत्रिंशोऽध्यायः ॥ ३८॥
आदितः श्लोकानां समष्ट्यङ्काः - ५७८९ + ६३ = ५८५२
२.०३९ बालचरिते दुरासदोपाख्याने एकोनचत्वारिंशोऽध्यायः
मुनिरुवाच ।
ततस्तु वरगर्वेण शिवलब्धेन दैत्यराट् ।
न ममर्ष निजात्मानं मोहितः केवलं तु सः ॥ १॥
इयेष पृथिवीं जेतुं हयारूढोऽभवत्पुरा ।
निबद्ध केशहस्तस्तु विलसत्कर्णकुण्डलः ॥ २॥
असिहस्तो धनुष्पाणिर्निषङ्गद्वय शोभितः ।
रत्नमुक्तामणिमयीं बिभ्रन्मालां महाधनाम् ॥ ३॥
कस्तूरीतिलको दिव्यवस्त्रच्छन्नः सुकञ्चुकः ।
ताम्बूलविलसद्वक्त्रः प्रकृतिद्वयसंयुतः ॥ ४॥
याभ्यां स्वभुजवीर्येण जिता वीरा अनेकशः ।
उभयोः पार्श्वयोस्तस्य यौ गच्छेतां बलान्वितौ ॥ ५॥
चतुरङ्गं तु तत्सैन्यं पृथिवीविजयोद्यतम् ।
रजसाच्छादयद्व्योम विस्तीर्णं जलधेरिव ॥ ६॥
यो यो वीरोभवेत्स्फीतस्तं तमेवाजयच्च सः ।
तत आदाय रत्नानि द्रव्याणि च सहस्रशः ॥ ७॥
आस्थापयत्स तत्स्थाने स्वीयानाप्तान्महाबलान् ।
नानाधिकारे बलवान्वशे कृत्वाऽखिलान्नृपः ॥ ८॥
ये चाशस्त्राः करान् स्थाप्य तमेव शरणं ययुः ।
अत्यन्तं भीरवो ये तु त्यक्त्वा राज्यमपीपलन् ॥ ९॥
दूतैरेव वशे चक्रे तानपीत्थं दुरासदः ।
एवं भूमण्डलं जित्वा शक्रं जेतुमियेष सः ॥ १०॥
ससैन्यः सहसा प्रायान्नगरीं शक्रपालिताम् ।
ज्ञात्वा वरस्य सामर्थ्यं तस्य दुष्टस्य देवराट् ॥ ११॥
पलाय्य च गुहां यातः सामरः सकुटुम्बकः ।
तस्मिन्नेव क्षणे विष्णुः स्थानात् क्षीराब्धिमाययौ ॥ १२॥
अङ्के लक्ष्म्याः शिरः स्थाप्य शेते स्म मधुसूदनः ।
त्यक्त्वा कैलासशिखरं काशी यातस्तु शूलभृत् ॥ १३॥
तेनैव साकमगमद् चतुरश्चतुराननः ।
यो यो याति पदं त्यक्त्वा तत्र तत्र स दैत्यराट् ॥ १४॥
स्थापयत्येव बलिनं निजं दूतं सुहृत्तमम् ।
एवं निर्जित्य विबुधान् दर्पेणैव महाबलः ॥ १५॥
कैवर्तकानां विषये न्यवसद् भस्मके पुरे ।
मुकुन्दपुरमित्येव ख्यातं लोकेषु सर्वतः ॥ १६॥
यस्मिन् भस्मासुरोराजा पूर्वमासीद्बलान्वितः ।
शङ्करेण वरो यस्मै दत्त आश्चर्यकारकः ॥ १७॥
स मरिष्यति मूर्ध्नि त्वं यस्य हस्तं प्रदास्यसि ।
एवं दत्तवरो दैत्यो दुष्टभावप्रचोदितः ॥ १८॥
परोक्षार्थं वरस्याथ वरदातुस्तु मस्तके ।
करं दातुं ययौ दुष्टः पपाल गिरिजापतिः ॥ १९॥
स दृष्टश्चक्रहस्तेन विष्णुना प्रभविष्णुना ।
सुन्दरं मोहिनीरूपं धृत्वा यातस्तदन्तिकम् ॥ २०॥
उवाच मम वाक्ये चेत्स्थास्यसि त्वं नरोत्तम ।
अङ्गनाऽहं तदा ते स्यां हर्षादोमिति सोऽब्रवीत् ॥ २१॥
नृत्यति स्म तदा सा तु तद्वाक्यात् स ननर्त ह ।
सा यथाऽदर्शयद्भावं सोऽपि दर्शयते तथा ॥ २२॥
तयाऽस्थापि स्वशिरसि हस्तस्तेनापि तत्क्षणात् ।
भस्मसादभवदैत्यो दुष्टचेष्टितमन्तकृत् ॥ २३॥
मुकुन्दोऽपि स्थितस्तत्र तन्नाम्ना पप्रथे पुरम् ।
अनुष्ठानवतां नृणां सद्यः परमसिद्धिदम् ॥ २४॥
सा मोहिनी सर्वकामान् ददाति भक्तितो नृणाम् ।
तत्र स्थित्वा त्रिभुवनं शास्ति गर्वाद् दुरासदः ॥ २५॥
उवाच मन्त्रिणो गर्वात्कथं त्रिभुवनं मया ।
आक्रान्तं स्वप्रतापेन जयताऽसुरवैरिणः ॥ २६॥
ततोऽमात्याः समूचुस्ते विमुक्तं न जितं त्वया ।
दशमं खण्डमिति तत्तुल्यं नास्ति हि कुत्रचित् ॥ २७॥
यत्रात्ते शङ्करः सर्वसुरैरपि च सेव्यते ।
न जितं यत्पुरं यावत्तावत्ते पौरुषं वृथा ॥ २८॥
इति तद्वाक्यमाकर्ण्य मुदं लेभे रणप्रियः ।
उवाच तान् सद्य एव यामि तां वै ससैनिकः ॥ २९॥
विमानवरमास्थाय क्षणाद्यातः स काशिकाम् ।
प्रविष्टमात्रे दैत्येन्द्रे हाहाकारः पुरेऽभवत् ॥ ३०॥
तत्र ये विबुधा आसन्सर्वे चान्तर्दधुस्तदा ।
शिवस्तु निजभक्तात्वान्न चुकोपाथ किञ्चन ॥ ३१॥
दत्तं राज्यं कियत्कालमित्युक्त्वा परिवारवान् ।
केदारक्षेत्रमगमन्मुनयोऽपि पलायिताः ॥ ३२॥
जैगीषव्यं विना सर्वे क्षेत्रसंन्यासिनं शुभे ।
ततो बभञ्ज मूर्तिं स मोहाविष्टो दुरासदः ॥ ३३॥
प्रासादान्महतो भङ्क्त्वा ममुदे ज्ञानदुर्बलः ।
कोऽपि चेत्स्मरते देवं तं ताडय कुरुते बहिः ॥ ३४॥
न स्वाहा न वषट्कारः स्वधाकारो न च क्वचित् ।
न वेदाध्ययनं क्वापि न शास्त्राध्ययनं क्वचित् ॥ ३५॥
न पुराणं देवपूजा न व्रतं न प्रदक्षिणाः ।
दुरासदे दुष्टमतौ तत्र राज्यं प्रशासति ॥ ३६॥
कर्ममार्गे विलुप्ते तु धर्मोऽपि लयमाययौ ।
नष्टे धर्मे सुराः कीर्ते आसन्सर्वे बुभुक्षिताः ॥ ३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदोपाख्यानं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९॥
आदितः श्लोकानां समष्ट्यङ्काः - ५८५२ + ३७ = ५८८९
२.०४० बालचरिते चत्वारिंशोऽध्यायः
गृत्समद उवाच ।
ततः केदारमगमन्सर्वे देवर्षयस्तदा ।
व्यजिज्ञपुः पद्मभवं सशिवं सर्ववित्तमम् ॥ १॥
प्रणभ्य शिरसा सर्वे वागीन्द्राग्निपुरःसराः ।
देवर्षय ऊचुः ।
पदभ्रष्टा वयं देवाः स्वाचारन्मुनयोऽपि च ॥ २॥
दुरासदभिया देव स्नानं कर्तुं न च क्षमाः ।
केनास्मै हि वरो दत्तो येनासौ भुवनेश्वरः ॥ ३॥
जातो दुष्टो वधश्चास्य कस्मादेतद् विचिन्त्यताम् ।
येनैव सौख्यं लोकानां तत्कर्तव्यं दयालुभिः ॥ ४॥
क उवाच ।
इति तद्वचनं श्रुत्वा प्रोवाच चतुराननः ।
उपायं कथयिष्यामि तद्वधाय सुरर्षयः ॥ ५॥
यदा तेन तपस्तप्तं दारुणं बहुवासरम् ।
ददावस्मै वरान्देवो ह्यनन्तानम्बिकापतिः ॥ ६॥
एनं यो घातयेद्देवः स नास्ति भुवनत्रये ।
कदाचिद्देवदेवोऽसौ गुणत्रयविभागकृत् ॥ ७॥
अहं शिवश्च विष्णुश्च त्रेधा जाता यदाज्ञया ।
गुणत्रयविभागात्स गुणेश इति पप्रथे ॥ ८॥
विश्वव्यापी च मायावी विश्वकर्ताऽपहारकः ।
गुणातीतो गुणेशश्च परात्परतरः शिवः ॥ ९॥
बिभृयात्सोऽवतारं चेत्पार्वत्या जठरे विभुः ।
तदैव तस्य नाशः स्यान्नान्यथा सुरसत्तमः ।
स्तुवन्तु सर्वे तस्मात्तं विश्वचिन्ताकरं प्रभुम् ।
आदौ कुरुत तां देवीं प्रसन्नां भववल्लभाम् ॥ १०॥
तत्तेजःसम्भवो बालो दुरासदवधे भवेत् ।
एवमेव वरस्तेन शङ्करेण कृतोऽस्य ह ॥ ११॥
मुनिरुवाच ।
एवं वाक्यं ब्रह्ममुखाच्छ्रुत्वा देवा जहर्षिरे ।
तुष्टुवुर्भवकान्तां तां भवानीं भक्तवत्सलाम् ॥ १२॥
देवर्षय ऊचुः ।
नमामहे त्वां जगदेकहेतुं परात्परां विश्वविचित्रशक्तिम् ।
अचिन्त्यरूपां त्रिदशैरशेषैरशेषवन्द्यां त्रिगुणां गुणेशाम् ॥ १३॥
धराधरां त्वां धरणीस्वरूपामाधारभूतां स्थिरजङ्गमानाम् ।
त्रैलोक्यसारां त्रिगुणादिभूतां त्रयीतनुं तां त्रिदशस्वरूपाम् ॥ १४॥
नमामहे देवि वरप्रदां त्वां विष्णोर्विमोहां पददां सुराणाम् ।
भक्तार्तिहन्त्रीं सकलार्थदात्रीं त्रैलोक्यकर्त्रीं निखिलार्थगोप्त्रीम् ॥ १५॥
एवं स्तुत्वा तदा देवीं जगाद सुरसत्तमान् ।
वृणुध्वं वाञ्छितं देवाः स्तोत्रेणानेन तोषिता ॥ १६॥
ददामि सकलान्कामान्भवतां ये मनोगतान् ।
तत ऊचुः सुराः सर्वे वृत्तान्तं ब्रह्मणेरितम् ॥ १७॥
तत ऊचे च तान्देवी स्तुवन्तु गणनायकम् ।
शुभाशुभस्य यः कर्ता सर्वासिद्धिकरो विभुः ॥ १८॥
अवाप्तसर्वकामार्थः सर्वस्य जगतः पिता ।
ततस्ते तुष्टुवर्देवं भक्त्या सर्वे विनायकम् ॥ १९॥
देवर्षय ऊचुः ।
नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् ।
सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥ २०॥
अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् ।
दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥ २१॥
स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा ।
गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥ २२॥
एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् ।
शुण्डादण्डमुखं विघ्ननाशनं पापहारकम् ॥ २३॥
भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् ।
अनादिमध्यनिधनं भूतादिं भूतवर्धनम् ॥ २४॥
त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् ।
लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम् ॥ २५॥
एवं स्तुत्वा तु तं देव गणेशं सर्वसिद्धिदम् ।
शुश्रुवुस्ते नभोवाणीं माभूद् वो मानसो ज्वरः ॥ २६॥
दुरासदं महावीर्यं हनिष्यामि भयङ्करम् ।
इति श्रुत्वा नभोवाणीं पुनः शङ्करमाययुः ।
ध्याननिष्ठं च ते दृष्ट्वा प्रणम्योचुश्च पार्वतीम् ॥ २७॥
देवा ऊचः ।
न जानीमो नभोवाणीं केनेमामीरितां शुभे ।
हरस्य ध्याननिष्ठात्वात् कथं कुर्मोऽखिलेश्वरि ॥ २८॥
देव्युवाच ।
ततो देवा इदानीं यो निश्चयं स मरिष्यति ।
तस्याः क्रोधेन तप्ताया निश्वसन्त्याः पुनःपुनः ॥ २९॥
आस्यान्नासापुटान्नेत्रान्निःसृतं तेज उत्तमम् ।
ज्वालामालाकुलं दग्धुं ब्रह्माण्डमिव चोद्यतम् ॥ ३०॥
प्रत्याहतदृशः सर्वे ददृशुर्ज्ञानचक्षुषा ।
वैनायकीं महामूर्तिं दशहस्तां तमोनुदाम् ॥ ३१॥
बिभ्रतीं मुकुटं रत्नकोटिसूर्यसमप्रभाम् ।
विद्युत्पभामहारत्नकुण्डले रदनं शुभम् ॥ ३२॥
दिव्याम्बरे च सिन्दूरमायुधानि दशैव च ।
कस्तूरीतिलकं भाले मालां हृदि फलान्विताम् ॥ ३३॥
यत्तेजो व्यानशे विश्वं प्रलयानलसन्निभम् ।
व्यालयज्ञोपवीतं च ज्ञात्वा नेमुः सुरास्तदा ॥ ३४॥
प्रार्थयामासुरथ ते आनन्दघनमीश्वरम् ।
दृष्टोऽतियोगगम्यस्त्वमप्रतर्क्योऽव्ययःस्वराट् ॥ ३५॥
निरामयो निराभासो निर्विकल्पोऽजरोऽमरः ।
सर्वस्वरूपः सर्वेशःस्वप्रकाशो जगन्मयः ॥ ३६॥
अव्यक्तो जगदाधारो ब्रह्मरूपोऽखिलार्थदृक् ।
पुराणपुरुषो ज्ञानमूर्तिर्वाचामगोचरः ॥ ३७॥
वयं धन्या वयं धन्या दृष्ट्वा तं ननृतुः सुराः ।
मुनिरुवाच ।
यथा देवैर्वर्णितोऽसौ तेजोरूपी विनायकः ॥ ३८॥
एवमेव जगन्माता प्रशशंस गजाननम् ।
निर्गुणं यन्निराकारमव्यक्तं सर्वगं परम् ॥ ३९॥
ध्यानगम्यं चिदाभासं सच्चिदानन्दविग्रहम् ।
सर्वव्यापी जगद्धेतुरद्य यावद् विचिन्तितम् ॥ ४०॥
विनायकस्वरूपेण साकारं दृष्टमद्ययत् ।
अवतीर्णं मम गृहे हन्तुं दैत्याननेकशः ॥ ४१॥
जगतामुपकाराय पातुं विश्वं चराचरम् ।
पुपूज पार्वती भक्त्या ददौ सिंहं स्ववाहनम् ॥ ४२॥
वक्रतुण्डेति नामास्य दध्रे सर्वार्थदं नृणाम् ।
दुरासदस्य च वधं प्रार्थयामास तं तदा ॥ ४३॥
देवानां च पदप्राप्तिं निःसपत्नामयाचत् ॥ ४४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विनायकावतरणं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
आदितः श्लोकानां समष्ट्यङ्काः - ५८८९ + ४५ = ५९३४
२.०४१ बालचरिते एकचत्वारिंशोऽध्यायः
क उवाच ।
एवं प्रशंसितो देव्या देवैश्च स विनायकः ।
उवाच पार्वतीं प्रीत्या प्रणिपत्य मुदा युतः ॥ १॥
गणेश उवाच ।
देवानां सर्वलोकानां कर्तुं पालनमुत्तमम् ।
दुरासदं निहन्तुं च हर्तुं भूभारमेव च ॥ २॥
मातस्त्वां सेवितुं धर्मं कर्तुं कर्म च वैदिकम् ।
अवतीर्णोऽस्मि सर्वज्ञे यदब्रवीषि करोमि तत् ॥ ३॥
एवं ब्रुवति विघ्नेशे सुराः सर्वे तमूचिरे ।
पुनः स्तुत्वा च नत्वा ज जगत्कारणकारणम् ॥ ४॥
रजांसि विममेद्भूमेरुडूनि मिहिका अपि ।
जानीयात्स गुणांस्ते यो विममेत्सागरे जलम् ॥ ५॥
धन्यं चक्षुर्हि देवानां यद् दृष्टौ चरणौ विभोः ।
इदानीं नो गतं दुःखं प्राप्तं च स्वस्वकं पदम् ॥ ६॥
दुरासदं हरस्वैनं भूभारं चाखिलेश्वर ।
क उवाच ।
इति देववचः श्रुत्वा जहास स विनायकः ॥ ७॥
ऊचे सर्वं करिष्यामि दशायुधधरः प्रभुः ।
एवमुक्त्वा सुरान् देवो हर्षगद्गदया गिरा ॥ ८॥
सिंहारूढो ययौ शीघ्रं पुरीं वाराणसीं तदा ।
तमन्वयुर्देवगणा गिरिजा गिरिशोऽपि च ॥ ९॥
ज्ञात्वा दुरासदो दैत्यो विनायकमुपागतम् ।
देवसेनायुतं वीरो निर्ययौ नगराद् बहिः ॥ १०॥
दृष्ट्वा सेनां तु दैत्यस्य सामात्यां सायुधां दृढाम् ।
नानाविधायुधवतीं गर्जन्तीं घनवन्मुहुः ॥ ११॥
गुहाविदारयन्सर्वाः स जगर्ज विनायकः ।
उवाच तं महादैत्यं भ्रान्तोऽस्यद्यापि रे कथम् ॥ १२॥
त्वया बलाद्देवगणा निर्जिताश्च महीभुजः ।
मुनयो धिक्कृताः सर्वे तदाऽहं नाभवं खल ॥ १३॥
निर्भयेन त्वया दोषा बहवः सञ्चिताः पुरा ।
तेषां फलमिदानीं त्वं गणेशात् प्राप्तुमर्हसि ॥ १४॥
उपद्रुतास्त्वया लोकास्त्रैलोक्यवासिनोऽखिलाः ।
तदर्थमवतीर्णोऽहमुद्धर्तुं त्वां भुवो भरम् ॥ १५॥
शरणं याहि रे त्यक्त्वा मानं लज्जा सुदुस्त्यजाम् ।
यासी सङ्ग्रामशिरसि चेदिदानीं मरिष्यसि ॥ १६॥
शिवप्राप्तवरात्सर्वं त्रैलोक्यं पीडितं त्वया ।
एवमुक्त्वा दुष्टबुद्धिं गणेशो रणसंभ्रमः ॥ १७॥
परशुं तोलयामास ज्वालामालासुशोभितम् ।
आच्छाद्य भास्करं क्षोभात् प्रलयानलसन्निभः ॥ १८॥
जवेन हृदये तस्य त्यक्त्वा शस्त्रं कृतान्तवत् ।
परशुना हतस्तस्य रोमापि न चचाल ह ॥ १९॥
क्रोधसंरक्तनयन उदतिष्ठद्ग्रसन्निव ।
त्रैलोक्यं तमुवाचाथ देवदेवं दुरासदः ॥ २०॥
न देवा देवराजो वा दिक्पाला वा न मे पुरः ।
यातास्त्वं तु कथं यातो बालभावाद् व्रजाधुना ॥ २१॥
न बिभेम्यन्तकान्मूढ किमर्थं मर्तुमिच्छसि ।
एवमुक्त्वा ततः कोशान्निष्काश्यासिं महोज्ज्वलम् ॥ २२॥
क्षुरधारं यदाघातादद्रयश्चूर्णतां ययुः ।
दैत्यस्तेनाहनद्देवमङकुशेन न्यवारयत् ॥ २३॥
सोऽसिः परशुघातेन शतधा खण्डितोऽपतत् ।
भग्नासिर्मल्लयुद्धाय ययौ दैत्यो महाबलः ॥ २४॥
त्यक्त्वायुधानि देवोऽपि ववृधे तादृशो बलात् ।
ततो युद्धं तयोरासीत्तुमुलं रोमहर्षणम् ॥ २५॥
बाहुभ्यां कूर्पराभ्यां च मुष्टिभ्यां तौ प्रजघ्नतुः ।
पादाभ्यां जानुजङ्घाभ्यां पृष्ठाभ्यां च निजघ्नतुः ॥ २६॥
उड्डीय पेततुर्देहे पर्यायेण महास्वनौ ।
पार्ष्णिघातान् प्रकुर्वन्तौ घातान्कूर्परयोरपि ॥ २७॥
सक्थ्नोश्च जानुघातांस्तौ स्कन्धाघातान्परस्परम् ।
लुलुण्ठतुर्धरण्यां तौ धूलिधूसरितौ भृशम् ॥ २८॥
परस्परं जयन्तौ च लपन्तौ साधु साध्विति ।
एवं बहुदिनं युद्धं दृष्ट्वा देवा विसिस्मिरे ॥ २९॥
चेतसा बहु लज्जन्तौ ज्ञात्वा सामर्थ्यमस्य ह ।
तता विनायको मुष्टिं ललाटे दृढमाहनत् ॥ ३०॥
स्फुटितं मुखमस्याशु धरण्यां पतितस्य ह ।
द्विमुहूर्तं निपतितो वज्राहत इवाचलः ॥ ३१॥
स कथञ्चित्प्रबुद्धोऽभूत्त्यक्त्वा मूर्च्छां चिरागताम् ।
तदात्मानमशक्तं स मनुते स्म भृशातुरः ॥ ३२॥
आययौ सैन्यमध्ये स दिनान्ते स विनायकः ॥ ३३॥
य इदं शृणुयाद्युद्धं युद्धकाले उपस्थिते ।
स जयं प्राप्नुयान्मर्त्यो यथा देवो विनायकः ॥ ३४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते श्रीगणेशदुरासदयुद्धवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥
आदितः श्लोकानां समष्ट्यङ्काः - ५९३४ + ३४ = ५९६८
२.०४२ बालचरिते दुरासदजयो नाम द्विचत्वारिंशोऽध्यायः
गृत्समद उवाच ।
ज्ञात्वा पराक्रमं तस्य वक्रतुण्डस्य दैत्यराट् ।
आययौ धैर्यमालम्ब्य योद्धुमस्त्रैर्गजाननम् ॥ १॥
शिवं स्मृत्वा च मन्त्रं च वह्निदैवतमादरात् ।
अभिमन्त्र्य शरं तेन तत्याज स विनायके ॥ २॥
अग्निज्वालाभयाद्देवा देवपृष्ठमथागमन् ।
ततो विनायकोऽमुञ्चत् पर्जन्यास्त्रं हि सर्ववित् ॥ ३॥
करिशुण्डामिता धाराः प्रादुरासँस्ततः क्षणात् ।
शान्तोऽभूत् तत्क्षणाद्वह्निस्ततो दैत्यो रुषान्वितः ॥ ४॥
मारुतास्रं शीघ्रजवं वृष्टिवारणमासृजत् ।
च कम्पे धरणी वृक्षा गिरयः पतिता भुवि ॥ ५॥
तदस्त्रेण महामेघाः क्षयं नीताः क्षणार्द्धतः ।
पर्वतास्तं ततो देव आविश्चक्रे मनोर्बलात् ॥ ६॥
सर्वत्र पर्वता जाताः कुण्ठतामगमच्च तत् ।
विलीने मारुतास्त्रे तु रौद्रमस्त्रं ततोऽसृजत् ॥ ७॥
तस्मिन्विमुच्यमाने तु वक्रतुण्डोऽप्यवासृजत् ।
ब्रह्मास्त्रं तन्निवृत्त्यर्थमगात्सैन्यं हि भस्मसात् ॥ ८॥
परस्परमयुद्ध्येतामस्त्रे ते बहुवासरम् ।
तयोः सङ्घट्टनाद् वह्निर्न्यपतद् धरणीतले ॥ ९॥
तेन दग्धान्जनान् ज्ञात्वा केशाभ्यां वारिते शुभे ।
अमात्यानब्रवीदैत्यो ज्ञात्वोत्कृष्टं विनायकम् ॥ १०॥
तेनाभियुध्यतां सर्वैर्भुक्त्वा यामि पुना रणम् ।
ततोऽमात्याः सर्वसैन्यैर्विनायकमयोधयन् ॥ ११॥
विनायको गतश्चिन्तामेकाकित्वात् ततः क्षणात् ।
षट्पञ्चाशन्मिता मूर्तीश्चकारासौ स्वतेजसा ॥ १२॥
नानालङ्कारसंयुक्ता नानामालाविभूषिताः ।
सर्वे दिव्याङ्गदाङ्गास्ते सर्वे शशिविभूषणाः ॥ १३॥
केचिच्चतुर्भुजाः केचित्षड्भुजा दशहस्तकाः ।
सिंहारूढा बर्हिगताः केचिन्मूषकवाहनाः ॥ १४॥
सर्वे च युयुधुस्तत्र दारयन्तोऽरिसैनिकान् ।
केषाञ्चित्त्रोटिताः पादाः केषाञ्चिन्मस्तका अपि ॥ १५॥
केषाञ्चिद् बाहवो भिन्ना जानुजङ्घोदराणि च ।
हुङ्कारेणैव गर्जन्तः केचिच्च शरणं ययुः ॥ १६॥
केचित् पलायनपरा ययुर्जीवनहेतवे ।
केचित्प्रहारं कुर्वन्तो मम्रुः सम्मुखमेव च ॥ १७॥
ते तु स्वर्गं गता भेजुर्भोगानप्सरसोऽपि च ।
वाजिनश्च रथा नागा वाम्य उष्ट्रान्यनेकशः ॥ १८॥
नानाशस्त्राहताः पेतु खण्डदेहा गतासवः ।
असृङ्नद्यः प्रादुरासन् केशशैवलशोभिताः ॥ १९॥
आच्छूरिकासिमत्स्येभनक्रैः खेटककच्छपैः ।
रुण्डाब्जैश्च वसाफेनैर्मेदकर्दमसञ्चयैः ॥ २०॥
चापशस्त्रैरस्थिबकैश्चर्मपेशीसुदर्दुरैः ।
भल्लकाद्यैः शुशुभिरे मनस्विहृदयप्रियाः ॥ २॥
भुक्त्वागत्य ददर्शाथ सर्वं तद्रणमण्डलम् ।
सर्वस्मिन्निहते सैन्ये ततो दैत्योऽतिदुःखितः ॥ २२॥
संस्मार मनसा वाक्यं यदुक्तं शूलपाणिना ।
वरदानस्य समये जयस्ते शक्तिसम्भवात् ॥ २३॥
अयमेव भवेत्किं नु बालकः शक्तिसम्भवः ।
यदुत्कटं बलं दृष्टमस्मिन् त्रैलोक्यसारभृत् ॥ २४॥
कालोऽपि नैवं विजयेत् तत्र चान्यस्य का कथा ।
एवं मनसि कृत्वा स एकाकित्वात् पपाल च ॥ २५॥
वक्रतुण्डो गतश्चिन्तां न हन्तव्यो रिपुः पलन् ।
देवेभ्यो न मृतिश्चास्य यथाऽयं शङ्करोऽब्रवीत् ॥ २६॥
तस्माद्योगात्समास्थास्ये वैराटं रूपमुत्तमम् ।
ततो वैराटरूपेण स दधार करेण तम् ॥ २७॥
एकपादेन तस्थौ स काशीं तां रक्षितुं बलात् ।
एक पादं तु दैत्यस्य दधार मस्तके ततः ॥ २८॥
उवाच दैत्यं रे दैत्य वराच्छैवान्न ते मृतिः ।
अतोऽस्मिन्नगरे तिष्ठ पर्वतेव सुनिश्चलः ॥ २९॥
द्वारभूतः पुरस्यास्य यतः पूर्वं दृशिस्तव ।
दुष्टानां पीडको नित्यं नित्यं मे सन्निधिस्तव ॥ ३०॥
दैत्योऽपि परया भक्त्या तमेव वरमर्थयत् ।
दैत्य उवाच ।
एवमेव सदा तिष्ठ स्थाप्य पादं मयिस्थिरम् ॥ ३१॥
मुनिरुवाच ।
तथेति तमुवाचाथ स्थितः काश्यां विनायकः ।
एवं दुरासदं जित्वा चकार पृथिवीं शिवाम् ॥ ३२॥
तस्मिन्कृत्वा पुष्पवृष्टिं प्रणम्य सम्प्रपूज्य च ।
स्वस्वस्थानं गता देवा मुनयः स्वाश्रमानपि ॥ ३३॥
अन्ये ये ये तमर्चन्ति पूर्णकामा भवन्ति ते ।
एवं विनायकस्याथ काश्यां षट्पञ्चमूर्तयः ॥ ३४॥
तुण्डनाख्ये पुरे चापि एकपादविनायकः ।
संहृत्य च विराट् रूपं सर्वकामप्रदः स्थितः ॥ ३५॥
य इदं वरमाख्यानं शृणुयाद् भक्तिमान्नरः ।
सर्वान् कामानवाप्नोति गाणेशं पदमेति च ।
सर्वत्र जयमाप्नोति पुष्टिमारोग्यमेव च ॥ ३६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदजयो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२॥
आदितः श्लोकानां समष्ट्यङ्काः - ५९६८ + ३६ =६००४
२.०४३ बालचरिते ढुण्डिराजाख्यानं नाम त्रिचत्वारिंशोऽध्यायः
गृत्समद उवाच ।
विजिते तु गणेशेन दैत्ये तस्मिन् दुरासदे ।
दिक्पाला मुनयश्चैव शशी सूर्यो गुरुः कविः ॥ १॥
प्रशशंसुर्देवदेवं दुरासदरिपुं विभुम् ।
श्रुतिस्मृतिकृतो मार्गः स्थापितो निहितोऽसुरः ॥ २॥
स्थापना च कृताऽस्माकमशक्त्तानां दुरासदे ।
त्वमेव सृजसे विश्वं त्वमेव फलदायकः ॥ ३॥
समः सर्वेषु भूतेषु कर्मभिर्न च लिप्यसे ।
त्वदाश्रयाश्चतुर्वर्णा जन्तवश्च त्वदाश्रयाः ॥ ४॥
गवेषयंश्च नानार्थास्तत्तत्कर्मणि योजयन् ।
गवेषणे ढुण्ढिरयं धातुरुक्तो मनीषिभिः ॥ ५॥
स आस्ते ढुण्ढिरित्येव संज्ञा राजोत्तराऽस्तु च ।
तव यद्दर्शनं पूजा ध्यानं स्मरणमेव च ॥ ६॥
धर्मार्थकाममोक्षाणां साधनं पुत्रपौत्रदम् ।
इत्युत्वा पुपुजुस्तेऽमुं मन्दारैश्च शमीदलैः ॥ ७॥
दुर्वाङ्कुरैर्हरिद्भिश्च श्वेतैश्च कुसुमैरपि ।
नानापक्वान्ननैवेद्यैः फलैर्बहुविधैरपि ॥ ८॥
रत्नानां निचयैवप्रभोजनस्तमतोषयन् ।
एवं ते पूजिताः सर्वे सप्तावरणरूपिणः ॥ ९॥
स्थिता वाराणसीं त्रातुं षट्पञ्चाशद्विनायकाः ।
एकः पञ्चमुखस्तत्र विश्वेशद्वारि तिष्ठति ॥ १०॥
अन्ये च भिन्ननामानो व्याप्य वाराणसीं स्थिताः ।
स्थिते विश्वेश्वरे तत्र सर्वे तत्रैव संस्थिताः ॥ ११॥
आचन्द्रं स्वाधिकारेषु ब्रह्माद्या मुनयोऽखिलाः ।
अकुर्वन् सर्वकर्माणि सर्वे लोका यथा पुरा ॥ १२॥
इति ते सर्वमाख्यातं कीर्ते पृष्टं हि यत्त्वया ।
ढुण्ढिराजस्यावतारो धर्मकामसुखप्रदः ॥ १३॥
दिवोदासबहिर्भावं कथयिष्येऽधुना तव ॥ १४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते ढुण्डिराजस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
आदितः श्लोकानां समष्ट्यङ्काः - ६००४ + १४ = ६०१८
२.०४४ बालचरिते चतुश्चत्वारिंशोऽध्यायः
कीर्तिरुवाच ।
ढुण्डिराजावतारोऽयं ख्यातस्ते शक्तिसम्भवः ।
दुरासदवधार्थाय त्रिलोकीपालनाय च ॥ १॥
एकपादः स्थितस्तुण्डनगरे चैकपादतः ।
स्थितो दैत्यं समाक्रान्त्य वाराणस्यामिति श्रुतम् ॥ २॥
उभाभ्यामपि पादाभ्यामुभयत्र स्थितिः कथम् ।
एवं मे संशयं ब्रह्मन् नुद त्वं सर्वविद्यतः ॥ ३॥
मुनिरुवाच ।
किमसाध्यं विश्वरूपे विश्वकर्तरि विश्वपे ।
विश्वव्यापिनि विश्वेशे ढुण्डिराजे च शासति ॥ ४॥
विश्वान्तर्यामिणि परे विश्वसंहारकारिणि ।
सप्तपातालचरणे स्वर्गव्यापि शिरोरुहे ॥ ५॥
सर्वतः पाणिचरणे सर्वतः श्रोत्रचक्षुषि ।
मनसश्च श्रुतीनां च ब्रह्मादीनां च योगिनाम् ॥ ६॥
अगम्ये तत्त्वतो वायुपृथिवीजलरूपिणि ।
यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ॥ ७॥
भ्रमन्ति पवनोद्भूताः पतङ्गा इव व्योमनि ।
संशयो वा वितर्को वा तस्मिन् मातर्न विद्यते ॥ ८॥
अनेकरूपिणि विभौ प्रभुः कर्तुं चराचरम् ।
यदिच्छया भवेद् राज्ञि सुधा विषस्वरूपिणी ॥ ९॥
अमृतं विषरूपं च तत्र किं किं न सम्भवेत् ।
अवतारस्य देवस्य विचित्रा गतिरुच्यते ॥ १०॥
कियन्तो ह्यवतारा वै कदा कुत्रेति निश्चितुम् ।
न शक्यते सुरैः सर्वैः सशेषैरपि सर्वदा ॥ ११॥
अतस्त्यक्त्वा तु सन्देहं कथां शुणु मयेरिताम् ।
यां श्रुत्वा सर्वधर्मज्ञे मुच्यते पापसञ्चयात् ॥ १२॥
सूर्यवंशोद्भवो राजा दिवोदासोऽभवत्पुरा ।
वदान्यश्च महामानी मान्यो भूमण्डलेऽखिले ॥ १३॥
वक्ता बृहस्पतिसमः सर्वज्ञः सर्वदा शिवः ।
वेदशास्त्रपुराणानां ज्ञानी विज्ञजनप्रियः ॥ १४॥
कामिनीमोहनतनुर्जितेन्द्रियतया स्थितः ।
उपकारपरो नित्यं परद्रोहपराङ्मुखः ॥ १५॥
निस्पृहः परवित्तषु स्थूललक्ष्यः पराक्रमी ।
तपसा तस्य तुष्टेन ब्रह्मणा राज्यमुत्तमम् ॥ १६॥
काश्यां वृष्टिविहीनायां दत्तं लोकोपकारिणा ।
सर्वदेवबहिष्कारात् सोऽपि जग्राह बुद्धिमान् ॥ १७॥
स्वयमेवाभवत्सोऽथ रविरिन्द्रो हुताशनः ।
मरुच्चन्द्रश्च धर्मेण पालयामास तां पुरीम् ॥ १८॥
तपसा तस्य सञ्जाता वृष्टिर्लोका इतस्ततः ।
अविमुक्तं समायाताः प्रशशंसुर्नृपं च तम् ॥ १९॥
तस्य पत्नी सुशीला सा नाम्ना नाम पतिव्रता ।
धर्मशीला दानपरा पतिवाक्यपरायणा ॥ २०॥
आचारं व्यवहारं वा प्रायश्चित्तमसौ नृपः ।
पण्डितैः कारयामास राजदण्डं न चाददे ॥ २१॥
शिवेन मरुतः सर्वे मन्दारगिरिमन्वयुः ।
नापमृत्युर्न शोको वा नैव दुःखं हि कस्यचित् ॥ २२॥
उत्पातास्त्रिविधा नासँस्तस्मिन् राज्यं प्रशासति ।
हाहाकारः शमं यातो नाऽवृष्टिविहितो महान् ॥ २३॥
पशुपक्षिमनुष्याणां सस्यानि च बहून्यपि ।
यदा यत्तं प्राणिमात्रं जातानि वृष्टियोगतः ॥ २४॥
स्वाहास्वधावषट्काराः सर्व आसन् यथा पुरा ।
ते च देवाः सुखं प्राप्ता ये प्रार्थयन्नृपं पुरा ॥ २५॥
यं तुष्टुवुः सुराः सर्वे ब्रह्मवाक्यप्रणोदिताः ।
सोऽपि नाना स्तुतिं चक्रे देवानां दर्शनाद्भृशम् ॥ २६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दिवोदासोपाख्यानं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
आदितः श्लोकानां समष्ट्यङ्काः - ६०१८ + २६ = ६०४४
२.०४५ बालचरिते दिवोदासोपाख्याने पञ्चचत्वारिंशोऽध्यायः
कीर्तिरुवाच ।
कथं मुने सर्वदेवाः प्रयाता मन्दरं गिरिम् ।
शिवेन च कथं त्यक्ता रम्या वाराणसी पुरी ॥ १॥
एतन्मे शंस देवर्षे संशयोऽत्र महान्मुने ।
मुनिरुवाच ।
द्वादशाब्दमनावष्टौ नष्टे स्थावरजङ्गमे ॥ २॥
स्वाहास्वधावषट्कारविहीने च धरातले ।
ब्रह्मवाक्यप्रणुन्नैस्तु देवैः सम्प्रार्थितो हरः ॥ ३॥
महादेव जगन्नाथ करुणालय शङ्कर ।
आधास्य मन्दरगिरिं मरीचिस्तु तपस्यति ॥ ४॥
अब्दानामयुतं देव वरं दातुं प्रयाहि तम् ।
मुनिरुवाच ।
एवं सम्प्रार्थितो देवैर्महेशः करुणालयः ॥ ५॥
सर्वेः सुरगणैः सार्द्धमग्निचन्द्रार्यमादिभिः ।
वरं दातुं स सम्प्राप मरीचि तं महामुनिम् ॥ ६॥
अस्थिमात्रावशिष्टं च ददर्श स सदाशिवः ।
तस्मिन्क्षणे नागतश्वेत् स तु प्राणान् समुत्सृजेत् ॥ ७॥
तदुत्कटेन तपसा प्रीतोऽसौ गिरिजापतिः ।
निजं स्वरूपं दत्त्वा च विमानेन निजं पदम् ॥ ८॥
प्रापयामास सहसा गणैर्वादित्रनिस्वनैः ।
सर्वैर्देवगणैः शम्भुस्तस्थौ गिरिवरे शुभे ॥ ९॥
दिवोदासस्य नापश्यत् किञ्चिद् रन्ध्रं सदाशिवः ।
देवान् सम्प्रेषयामास द्रष्टुं तद् रन्ध्रमादृतः ॥ १०॥
यो यो देवो याति काशीं तस्य रन्ध्रं न पश्यति ।
स्वनाम्ना परिसंस्थाप्य लिगं तत्रैव तस्थिवान् ॥ ११॥
दिवोदासस्य राज्ये तु सर्वे वर्णाः स्वधर्मिणः ।
आश्रमस्था द्विजाः सर्वे यथोक्ताचारसंयुताः ॥ १२॥
गुरुशुश्रुषवः शिष्याः स्त्रिय आसन्पतिव्रताः ।
धर्मशीला दानपरा व्रतोपवासतत्पराः ॥ १३॥
यतयश्च त्रिषवणा व्रतिनो होममौनिनः ।
स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम् ॥ १४॥
आतिथ्यं वैश्वदेवं च स्वयमेव प्रकुर्वते ।
गृहस्थाः सर्व एवाष्टौ कर्माणि भक्तितोऽनघाः ॥ १५॥
अतो विवर्धते धर्मो वृष्टिश्चानुत्तमाऽभवत् ।
स्वर्गे देवा मुमुदिरे पितरश्च स्वधाभुजः ॥ १६॥
न वन्ध्या न च वाऽपुष्पा विधवा वा मृतप्रजा ।
नावृष्टिर्नातिवृष्टिश्च स्वचक्रं न परं तथा ॥ १७॥
शुकाश्च शलभा नासन् मूषका वा कदाचन ।
एवं च सर्वसस्यानां निष्पत्तिः समपद्यत ॥ १८॥
विश्वेश्वरं माधवं च ढुण्ढिं भैरवमेव च ।
दण्डपाणिं गुहं गङ्गामदृष्ट्वा वाऽनिमज्ज्य वा ॥ १९॥
मणिकर्णीं भवानीं वा यो भुङ्क्ते दण्ड्य एव सः ।
इति डिण्डीरवं नित्यमकरोन्नृपसत्तमः ॥ २०॥
न पापलेशस्तत्रासीदेवं नृपवरे स्थिते ।
विना रन्धं न तद्राज्यं जिघृक्षति सदाशिवः ॥ २१॥
वाराणसीवियोगेन परितप्तस्ततोऽभवत् ।
प्रेषयामास विघ्नाय ततोऽष्टावपि भैरवान् ॥ २२॥
उवाच तान् कारयन्तु राज्येऽस्याणुतु किल्बिषम् ।
आदास्ये तत एतस्मात् काशीराज्यं स संशयः ॥ २३॥
जग्मुस्ते त्वरया भद्रे आज्ञां प्राप्य सदाशिवात् ।
दृष्ट्वा वाराणसीं ते तु विश्रान्ताः स्नानकर्मणा ॥ २४॥
अदृष्ट्वा तस्य दुरितं काशीवासं प्रचक्रिरे ।
शिवश्चिन्तापरश्चासीदनागच्छत्सु तेषु तत् ॥ २५॥
ततोऽप्रेषयदादित्यान् रन्ध्रं द्रष्टुं नृपस्य ह ।
तेऽपि तत्पुण्यमालोक्य स्थिताः काश्यां मुदान्विताः ॥ २६॥
न कार्यं च हरस्यापि न त्याज्येयं पुरीति च ।
ततश्चतुष्षष्टिमिता अप्रेषयत योगिनीः ॥ २७॥
अणुमात्रमदृष्ट्वैनो दिवोदासस्य ता अपि ।
स्थिता वाराणसीं प्राप्यं यजन्त्यः शिवमव्ययम् ॥ २८॥
ततः सम्प्रेषयामास दुर्गां दुःखविनाशिनीम् ।
अदृष्ट्वा तदघं साऽपि तस्थौ ग्रामाद्बहिः किल ॥ २९॥
ध्यानेनातोषयद्देवं सर्वकामैश्च मानवान् ।
दिक्पालानथ शम्भुश्च प्रेषयामास सत्वरम् ॥ ३०॥
गता वाराणसीं ते तु नेक्षेरंस्तदघं लघु ।
स्वस्वनाम्ना प्रतिष्ठाप्य लिङ्गानि न्यवसन्मुदा ॥ ३१॥
ऋषयः प्रेषिताः पश्चादुत्सुकेन शिवेन ह ।
गतास्ते त्वरया हृष्टाः शिवेनापि प्रणोदिताः ॥ ३२॥
गत्वा तीर्थविधिं कृत्वा स्थित्वा वाराणसीमनु ।
आशीर्वादाय गच्छन्तः पश्यन्तस्तस्य चेष्टितम् ॥ ३३॥
भक्त्या तान् पूजयामास सर्वान् स धनवस्त्रकैः ।
नान्वगृह्णन्स्तद्धनं ते नैनोऽपि ददृशुर्लघु ॥ ३४॥
स्वस्वनाम्ना परिस्थाप्य तेपुस्ते परमं तपः ।
ततः सर्वेऽमरास्तेन प्रेषिताः कार्य सिद्धये ॥ ३५॥
तेऽपि नो ददृशस्तस्य दुष्कर्मधर्मचारिणः ।
नायाति कोऽपि काश्यान्तु यो यः सम्प्रेष्यते मया ॥ ३६॥
ततश्चिन्तापरो रुद्रो निश्चयं नाध्यगच्छत ।
मनसा चिन्तयामास कदा द्रक्ष्ये च तां पुरीम् ॥ ३७॥
दिवोदासस्य राज्ये च यदा पापं भविष्यति ।
तदैव प्राप्या काशी च नान्यथा च मया क्वचित् ॥ ३८॥
विना ढुण्ढिं माधवं च सर्वे देवा निरर्थकाः ।
नायान्ति च स्थितास्तत्र काश्यां ध्यानपरायणाः ॥ ३९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दिवोदासोपाख्याने शिवचिन्तावर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
आदितः श्लोकानां समष्ट्यङ्काः - ६०४४ + ३९ =६०८३
२.०४६ बालचरिते षट्चत्वारिंशोऽध्यायः
मुनिरुवाच ।
अविमुक्तवियोगेन परितप्तः शिवस्तदा ।
सर्वार्थवशगं ढुण्ढिं नत्वा प्रार्थयदातुरः ॥ १॥
शिव उवाच ।
पञ्चानामपि भूतानां कारणानां च कारणम् ।
चिदानन्दघनो विश्वध्येयो वेदान्तगोचरः ॥ २॥
प्रधानं पुरुषश्चासि गुणत्रयविभागकृत् ।
विश्वव्यापी विश्वनिधिर्विश्वरक्षणतत्परः ॥ ३॥
नानावतारकृच्चासि भूभारहरणोद्यतः ।
देवानां पालने शक्तो दैत्यानां निधने तथा ॥ ४॥
द्विजानां चैव धर्माणामार्तानां शरणैषिणाम् ।
स्वेच्छयाऽपत्यतां याते त्वयि ब्रह्मस्वरूपिणि ॥ ५॥
कमन्यं शरणं यामि काशीविरहदुःखितः ।
ढुण्डिरुवाच ।
अन्यानेव प्रेषयसि सर्वविद्याविशारदान् ॥ ६॥
सर्वदर्शी किमर्थं त्वं मोहमेषि सदाशिव ।
शिव उवाच ।
इदानीमेव गच्छ त्वमविमुक्तं गजानन ॥ ७॥
दिवोदासस्य विघ्नार्थं मम कार्यार्थसिद्धये ।
मायया मोहय जनं पुण्यं येनास्य हीयते ॥ ८॥
ढुण्डिरुवाच ।
यामि शीघ्रं महादेव न चिन्तां कर्तुमर्हसि ।
साधयिष्ये तव हितं दर्शयिष्ये निजां पुरीम् ॥ ९॥
बहिष्कृत्य दिवोदासं जनपापविभागिनम् ।
मुनिरुवाच ।
इत्युक्त्वा शिवमानम्य पार्वतीं च षडाननम् ॥ १०॥
प्रदक्षिणीकृत्य तथा नारदं गुरुमेव च ।
प्रस्थितोऽखिलविद्यानां कलानां च निधिर्विभुः ॥ ११॥
प्राप वाराणसीं पुण्यां पुण्यमेवास्य दृष्टवान् ।
ज्योतिर्विदभवत्सद्यस्तस्य पापमलक्ष्य सः ॥ १२॥
रुक्मकान्तिर्दिव्यदेहो मुक्तामालाविभूषितः ।
(रुक्ममुक्तामयेश्रोत्र द्वये बिभत्सु कुण्डले
द्वात्रिंशल्लक्षणयुतो भूतभव्यभविष्यवित् ।)
कटिसूत्रं च नाभौ तु महारत्नविभूषितम् ॥ १३॥
पीतवस्त्रपरीधानो दिव्यगन्धानुलेपनः ।
कामातिसुन्दरतनुः कामिनीजनमोहनः ॥ १४॥
पतिव्रताश्च या नार्यश्चकमुस्ता अपि द्विजम् ।
मनसा चिन्तितं प्रश्नं वदति स्माखिलं तु सः ॥ १५॥
अतः पतिव्रता नार्यः प्रश्न प्रष्टुं तमन्वयुः ।
विहाय बालकान् भर्तृन्भ्रातृनन्यान्सुहृज्जनान् ।
स्वप्नान् वदति लोकानां स्वमायादशितानसौ ॥ १६॥
सेवतां सर्वलोकानां ददाति सुबहून्वरान् ।
तद्वरस्य प्रभावेण दुष्टः कुष्ठो विनश्यति ॥ १७॥
पुत्रिण्यः सर्ववन्ध्याश्च जातास्तद्वरदानतः ।
हस्तं दृष्ट्वा महाभाग्यं कर्माणि कथयत्यसौ ॥ १८॥
यद् यद् येन च संभुक्त भोक्ष्यमाणं च तत्क्षणात् ॥ १९॥
विस्मितो नगरे लोकः सर्व आसीन्मुदान्वितः ।
नेदृशो ब्राह्मणोऽदर्शि सर्ववेत्ता गुणाकरः ॥ २०॥
न भूतो न भविष्यो वा इति लोका वदन्त्यमुम् ।
पूजयन्ति धनै रत्नैर्ज्ञात्वा प्रत्ययमस्य ते ॥ २१॥
हस्ते धृतानि वस्तूनि कथयत्येव तत्क्षणात् ।
दरिद्रस्याप्रयत्नस्य प्रष्टुं यातस्य वेत्त्यसौ ॥ २२॥
अभिप्रायं स्वयं तस्य ब्रूते त्रिदिनमन्तरा ।
भविष्यसि धनाढ्यस्त्वं तथैवासौ भवत्यपि ॥ २३॥
गतं नष्टं कथयति यथा यत् यत् तथा भवेत् ।
एवमाचक्षतस्तस्य ढुण्ढेर्विप्रस्वरूपिणः ॥ २४॥
द्वित्रिमासैर्गता वार्ता राजकर्णे जनेरिता ।
जना ऊचुः ।
राजपत्न्योऽपि याश्चान्याः पातिव्रत्यपरायणाः ॥ २५॥
एतावत्कालपर्यन्तं नो भजन्नन्यदेवताः ।
विना पतिं गतास्तास्तु विनाज्ञां तं निरीक्षितुम् ॥ २६॥
नो भविष्यति पुत्रो वा कन्या वेति विचारितुम् ।
सखीभिस्तु निषिद्धास्ता ढुण्डिरत्रागमिष्यति ॥ २७॥
आकार्यं तु ततस्तास्तु रहस्येतमुपानयन् ।
उपवेश्यासने रम्ये राजपत्न्यः प्रपूजिरे ॥ २८॥
प्रक्षाल्य चरणद्वन्द्वं तद्दर्शनसुविव्हलाः ।
कस्तुरीचन्दनं तस्य शरीरे पर्यमर्दयन् ॥ २९॥
निकटे तस्य काचित् तु भूत्वाऽदाद् वीटिकाः स्वयम् ।
पप्रच्छुर्बहुप्रश्नांस्तं सर्वानेवाब्रवीच्च सः ॥ ३०॥
प्रत्यये तु समुत्पन्ने सर्वास्तास्तु विसिस्मिरे ।
एवं ताः प्रत्यहं तस्य दर्शनं पूजनं स्वयम् ॥ ३१॥
त्यक्त्वा ता गृह्यकार्याणि चक्रुस्सर्वास्तु तत्पराः ।
नैतादृशो दृष्टपूर्वो भूतभव्यभविष्यवित् ॥ ३२॥
इत्यब्रुवन् स्तुवन्त्यस्तं सर्वज्योतिर्विदुत्तमम् ।
उत्थिते राज्ञि ताः शीघ्रं विससर्जुः क्षणादमुम् ॥ ३३॥
पतिभावं परित्यज्य तमेवाचिन्तयन्सदा ।
दिवोदासोऽपि तं ज्ञात्वा समाकार्य ननाम च ॥ ३४॥
स्वासने तं परिस्थाप्य पुपूजे विष्टरादिभिः ।
गामर्घ्यं च धनं वस्त्रमर्पयामास सादरम् ॥ ३५॥
यद् यद् तं परिपप्रच्छ तत्सर्वं स मुदाऽब्रवीत् ।
विस्मृत्य निजदेवं स तमेवाचिन्तयन्नृपः ॥ ३६॥
रहस्ये परिपप्रच्छ प्रश्नान् नानाविधान्बहून् ।
प्रत्यये तु समुत्पन्ने प्रार्थयामास सादरम् ॥ ३७॥
ग्रामान्धान्यं धनं दास्ये तिष्ठात्र निकटे मम ।
चमत्कारा बहुविधा दृष्टा यस्मान् मया त्वयि ॥ ३८॥
ततो जगाद ढुण्डिस्तं प्रपञ्चरहितो नृपम ।
स्त्रीपुत्रकन्यागारादि त्यक्त्वाय वाराणसीमगाम् ॥ ३९॥
न ग्रामा न धनं धान्यं रोचते मेऽस्पृहस्य ते ।
एकं वदामि ते वाक्यं हृदि तत्कर्तुमर्हसि ॥ ४०॥
इतः सप्तदशे राजन् दिने कोऽपि परः पुमान् ।
आगत्य स वदेद् यत् तत् कर्तव्यमविचारतः ॥ ४१॥
हितं ते परमं राजन् भविष्यति न संशयः ।
एतावता मया लब्धा ग्रामा धान्यं धनानि च ॥ ४२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते ज्योतिर्विद्रूपदर्शनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६॥
आदितः श्लोकानां समष्ट्यङ्काः - ६०८३ + ४२ =६१२५
२.०४७ सप्तचत्वारिंशोऽध्यायः
राजोवाच ।
अवश्यं मुनिशार्दूल करिष्ये वचनं तव ।
करवाण्यन्यथा चेन्मे शपथोऽस्ति हरस्य ह ॥ १॥
गृत्समद उवाच ।
एवं तेन सर्व जनाः काशिस्थाः स्ववशीकृताः ।
त्यक्त्वा सर्वाणि कर्माणि तमेव परिसेविरे ॥ २॥
भूतं भव्यं विप्रकृष्टं भविष्यं च विवृण्वता ।
ततो विष्णुर्बौद्धरूपी पञ्चक्रोशाद् बहिः स्थितः ॥ ३॥
आगत्य मायया मोहं जनयन् सर्व देहिनाम् ।
श्रुतिस्मतिविरुद्धं सोऽपाठीद् धर्मवृषं द्विषन् ॥ ४॥
सोऽपि स्ववचनात् सर्वान् वशे चक्रे महाजनान् ।
साकारभजनं सर्वं दूषयामास सादरम् ॥ ५॥
किमर्थं पार्थिवीं मूर्तिरर्च्यते तैजसीरपि ।
सर्वो जनो मूढमनाः परात्मनि हृदि स्थिते ॥ ६॥
वृक्षाणां जीवतां छेदः पशूनामपि हिंसनम् ।
कुरुते स्वस्य वित्तानि परस्मै यः प्रयच्छति ॥ ७॥
नष्टे देहेतु भूतानि लीयन्ते पञ्च पञ्चसु ।
स्वयमेव हि भोक्तव्यं पक्वान्नं सघृतं मुदा ॥ ८॥
देहात्मा परिपूज्योऽसौ नानाभोगैर्यथासुखम् ।
ततः सर्वे जनाः स्वं स्वं मार्ग मुक्त्वा तथाऽभवन् ॥ ९॥
ब्राह्मणानपि सन्त्यज्य बुभुजुर्भोगमुत्तमम् ।
तत्पत्नी कमला नाम पूरयन्ती मनोरथान् ॥ १०॥
स्थिता वाराणसीवासिस्त्रियःसर्वाव्यमोहयत् ।
बोधयामास यत्नेन दुष्टमार्गं दिनेदिने ॥ ११॥
भिद्यन्ते बुद्धयस्तेषां पुरग्रामनिवासिनाम् ।
स्वदेहे भर्तृदेहे योन्यस्य देहे स एव तु ॥ १२॥
न भिद्यते पुमान् यद्वन् मुखनासाकरादिभिः ।
तथात्मा नैव भिद्येत देहैरेतैश्चतुर्विधैः ।
एवं प्रलोभिताः कान्ताः पुंसोऽन्यानपि भेजिरे ॥ १३॥
ब्राह्मणा अग्निहोत्रेषु यज्ञेषु शिथिलादराः ।
व्रते दाने च होमे च देव ब्राह्मणपूजने ॥ १४॥
पशूनां यज्ञियानां च छेदने संशयं दधुः ।
परस्परं गृहेऽर्चन्तो बुभुजुर्भोगमुत्तमम् ॥ १५॥
स्वयमेव बुभुजिरे श्राद्धानि च व्रतानि च ।
एवं च धर्मलोपोऽभूदेनसो वृद्धिरेव च ॥ १६॥
ततो बौद्धो जगामाशु दिवोदासस्य मन्दिरम् ।
पूजितः परया भक्त्या स तेन स्वासने शुभे ॥ १७॥
तत ऊचे दिवोदासं वाक्यं वाक्य विशारदः ।
बौद्ध उवाच ।
शृणु राजन् हितं वच्मि श्रुत्वा तत्कुरु सादरम् ॥ १८॥
इयं वाराणसी शूलभृता निर्मायि तेजसा ।
प्रलयेऽपि त्रिशूलाग्रे ध्रियते सर्व जन्तुभिः ॥ १९॥
पुण्यवद्भिरिह स्थेयं मृतौ मोक्षमभीप्सुभिः ।
पापात्मानो भैरवेण क्रियन्ते बहिरेव च ॥ २०॥
रक्षणं पुण्यकर्तॄणां क्रियते तेन तेन च ।
तव पुण्यं स्थितं यावत् तावदत्र स्थितो भवान् ॥ २१॥
काश्यां राज्यं प्रकुर्वाण इदानीं न तथा भवान् ।
पापञ्च सम्प्रवृत्तं ते राज्ये नरककृन्नृपः ॥ २२॥
नृप उवाच ।
सम्यगुक्तं त्वया मह्यं करिष्ये वचनं तव ।
ज्योतिर्विदा ढुण्ढिना च प्रोक्तं तत्सत्यमेव तत् ॥ २३॥
वद मे त्वं च कश्चासि मद्धितार्थमिहागतः ।
यदि वेत्तुंया शक्यं तत्त्वन्ते पुरुषोत्तम ॥ २४॥
क उवाच ।
ततः स करुणाविष्टो दर्शयामास तं नृपम् ।
निजं चतुर्भुजं रूपं शङ्खचक्रगदाधरम् ॥ २५॥
समष्टिव्यष्टिरूपेण चिद्रूपञ्च प्रदर्शितम् ॥
धन्योऽहमिति तं प्राह पितृभ्यां सहितोऽनघ ॥ २७॥
पूर्वं राज्यं परित्यज्य तपस्तप्तं मया बहु ।
ब्रह्मणेदं बलान्मह्यं दत्तं राज्यमनुत्तमम् ॥ २८॥
त्वद्दर्शनाज्जन्ममृती गते मे नात्र संशयः ।
इदमेव परं याचे त्वमहं शरणं गतः ॥ २९॥
मुनिरुवाच ।
इत्युक्तः परमात्माऽसौ प्रोक्तवान् नृपसत्तमम् ।
विश्वेश्वर प्रसादाच्च तवापि राजसत्तम ॥ ३०॥
भविता परमा मुक्तिस्त्यक्त्वा राज्यं सुखी भव ।
भैरवो दण्डपाणिश्च बहिः कुर्यादतोऽन्यथा ॥ ३१॥
एवमाकर्ण्य तद्वाक्यं चिन्तां परमिकां ययौ ।
ध्यात्वा विचार्य तद्धेतुं बुबोध सर्वमेव सः ॥ ३२॥
ज्योतिर्विदं गणेशं च बौद्धं मायाविनं हरिम् ।
प्रणम्य शिरसा भक्त्या कोऽसीति निजगाद तम् ॥ ३३॥
सोऽपि बुद्धवा महाविष्णुर्निजं रूपं समास्थितः ।
चतुर्भुजं शङ्खचक्रगदापद्मधरं विभुम् ॥ ३४॥
पीताम्बरसमायुक्तं सर्वलोकाश्रयं परम् ।
उवाच तं नृपः पूज्य धन्योऽहं मम पूर्वजाः ॥ ३५॥
यन्मोक्षदं पदयुगं दृष्टं पुण्यप्रभावतः ।
देहि मे परमां मुक्तिं मुद्रामेतां गृहाण च ॥ ३६॥
बलाद्दत्तं ब्रह्मणा मे शास्तु राज्यं शिवो निजम् ।
ततो जगाद तं विष्णुः शिवो मुक्तिं प्रदास्यति ॥ ३७॥
क उवाच ।
एवमुक्त्वा दिवोदासं महायोगेश्वरो हरिः ।
अन्तर्हितः पुनर्यायाद् बौद्धरूपी निजाश्रमम् ॥ ३८॥
प्रेषयामास दूतं स शिवागमनहेतवे ।
दिवोदासस्य राज्ये मेऽधर्मवृद्धिः कृता बहुः ॥ ३९॥
ज्योतिर्विदा गणेशेन त्यक्तं राज्यं नृपेण ते ।
शीघ्रमायाहि विश्वेश निजां वाराणसीं पुरीम् ॥ ४०॥
ततो राजा राजचिन्हं त्यक्त्वा तेपे परन्तपः ।
प्रासादे परमे स्थाप्य शिवलिङ्गं सुविश्रुतम् ॥ ४१॥
स्वनाम्ना मोक्षदं पुंसां सकामानां तु कामदम् ।
प्रतीक्षन् दर्शनं तस्य शङ्करस्यार्थदायिनः ॥ ४२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे दिवोदासराज्यत्यागो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
आदितः श्लोकानां समष्ट्यङ्काः - ६१२५ + ४२ = ६१६७
२.०४८ कीर्तेवरप्रदनं नामाष्टचत्वारिंशोऽध्यायः
मुनिरुवाच ।
त्यक्तं राज्यमिति ज्ञात्वा निजं रूपं समाश्रितः ।
अवसत् सर्वलोकानां ढुण्ढिस्तत्रार्थदायकः ॥ १॥
दूतं च प्रेषयामास शीघ्रमागम्यतामिति ।
शङ्कराय महाबुद्धिस्ततः स हर्षनिर्भरः ॥ २॥
आरुह्य वृषभं देवो ययौ वाराणसीं पुरीम् ।
दिव्यवादित्रनिर्घोषैः स्वगणैः परिवारितः ॥ ३॥
जैगीषव्यं निराहारं वल्मीकमिव संस्थितम् ।
अनुगृह्य ययौ ढुण्ढिं प्रणम्य च उवाच तम् ॥ ४॥
शिव उवाच ।
त्वमेव विश्वेश्वर विश्वरूप विश्वं सृजस्यत्सि हि पासि देव ।
शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ॥ ५॥
ब्रह्मापि सृष्टिं कुरुतेङ्गितात्ते तद्रक्षणं चैव हरिस्थताऽहम् ।
संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥ ६॥
तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्धयै ।
त्वया विना वेदविधिर्वृथा स्यात् त्वदीयशक्त्या सुरशत्रुनाशः ॥ ७॥
अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान ।
यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष ॥ ८॥
त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च ।
वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितो हि ॥ ९॥
त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः ।
त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीनाः ॥ १०॥
अनेकरूपाङ्घ्रिविलोचनस्त्वमनेकशीर्षश्रुतिबाहुजिव्हः ।
अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः ॥ ११॥
तव प्रसादादविमुक्तमेतद् दृष्टं चिराद् यत्नवताऽखिलेश ।
मुनिरुवाच ।
एवं स्तुत्वा च संपूज्य प्रार्थयामास शङ्करः ॥ १२॥
गतं विरहदुःखं मे प्राप्य वाराणसीं पुरीम् ।
इदानीं सर्वदा रक्ष मद्भक्तांश्च पुरीमिमाम् ॥ १३॥
विना प्रसादं ते न स्यात् काशीवासः कदाचन ।
दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत् ॥ १४॥
तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा ।
माघे मासी चतुर्थ्यां यो भौमवारे विधूदये ॥ १५॥
अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् ।
संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन यो नुयात् ॥ १६॥
तस्यापि सकलान् कामान् यच्छ लक्ष्मीमनेकधा ।
य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः ॥ १७॥
पठेत्स्तोत्रं सकृद्वापि भुक्तिर्मुक्तिश्च तस्य च ।
अन्वेषयित्वा सर्वार्थान् विदधासि नृणामिह ॥ १८॥
अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ।
ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम् ॥ १९॥
स्मरणात्सर्वकार्याणां सिद्धिदं च भविष्यति ।
मुनिरुवाच ।
एवमुक्त्वाऽस्थापयात्स गण्डकीयशिलाकृताम् ॥ २०॥
मूर्तिं ढुण्ढेर्महादेवः प्रासादे चारु निर्मिते ।
ततो विवेश भवनं सर्वे देवाः स्वमन्दिरम् ॥ २१॥
दिवोदासस्य मुक्तिं स ददौ भक्तस्य शङ्करः ।
गृत्समद उवाच ।
एवं विमोहितस्तेन दिवोदासः स्वमायया ॥ २२॥
विष्णुना बौद्धरूपेण तस्यास्य च हितं कृतम् ।
सर्वं ते कथितं देव सामर्थ्यं ढुण्ढिना कृतम् ॥ २३॥
एवं प्रभावो देवोऽसौ यद्वरादुत्थितः सुतः ।
क उवाच ।
एवं गृत्समदः प्रोक्त्वा तस्यै ढुण्डिविचेष्टितम् ॥ २४॥
गृहीत्वाज्ञां ययौ शीघ्रं निजमाश्रममण्डलम् ।
तदानीमेव सा पुत्रमादाय प्रस्थिता ततः ॥ २५॥
ढुण्ढेरायतनं याता नानानारीनरैर्युतम् ।
महोत्सवं प्रकुर्वद्भिर्दृष्ट्वा कीर्तिर्ननाम तम् ॥ २६॥
ययौ वाराणसीं पुण्यां मरणान्मुक्तिदायिनीम् ।
माघमासे चतुर्थ्यां सा भौमवारे मुदान्विता ॥ २७॥
अनेकस्वर्णपात्रस्थैः पक्वान्नैः पायसादिभिः ।
पूजितं भक्तनिवहैर्नृत्यगीतविशारदैः ॥ २८॥
नानालङ्कारसंयुक्तं दिव्यमाल्याम्बरावृतम् ।
नानामणिगणोपेतं नानामुक्ताविभूषितम् ॥ २९॥
सुवर्णरत्ननिचयैर्दक्षिणार्थं निवेदितैः ।
न दृश्यते देवमुखमिति चिन्तापराऽभवत् ॥ ३०॥
मयाऽकिञ्चनयाऽस्मै किं निवेद्यमिति साऽनघ ।
सा दूर्वाशमिमन्दारकुसुमैमार्गसञ्चितैः ॥ ३१॥
पुपूज परया भक्त्या पुत्रोदयमयाचत ।
शमीमन्दारदूर्वाभिर्यथा तुष्टोऽभवत्तयोः ॥ ३२॥
न तथा द्रव्यनिचयैर्ढुण्डिराजस्तुतोष ह ।
ततो भक्ता गताः सर्वे स्वस्वमन्दिर मादृताः ॥ ३३॥
उभौ तौ जननीपुत्रौ सन्निधौ तत्र तस्थतुः ।
तयोर्निराहारतया भक्तिभावेन तोषितः ॥ ३४॥
आविरासीन्मूर्तिमध्यात् ढुण्डिराजो महोत्कटः ।
ऊचतुर्मुनिना प्रोक्तं यत्स्वरूपं महेशितुः ॥ ३५॥
तदेतत् पुण्यनिचयैर्दृष्टं साक्षात्सुभास्वरम् ।
सर्वालङ्कारसंयुक्तं मुकुटेन विराजितम् ॥ ३६॥
दशबाहुधरं चारु नेत्रपङ्कजशोभितम् ।
अनर्घ्यरत्नमुक्तानां बिभ्रद् दाम महत्तरम् ॥ ३७॥
पीताम्बरयुतं दन्तविराजितमनुत्तमम् ।
दृष्ट्वैवं परमं रूपं मग्नावानन्दसागरे ॥ ३८॥
विस्मृतौ पूजनं कर्तुं नमस्कारं च तावुभौ ।
उवाच भगवान् देवो वरं वरय सुत्रते ॥ ३९॥
सुप्रसन्नः प्रदास्यामि यत्ते मनसि वर्तते ।
मुक्ताफलैर्न रत्नैश्च द्रव्यैर्नानाविधैरहम् ॥ ४०॥
प्रीतो यथा शमीपत्रैर्मन्दारैरपि शोभने ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं कीर्तिस्तोषमियात्परम् ॥ ४१॥
देहभावं समासाद्य जगाद द्विरदाननम् ।
किं स्त्रिया वचनं कार्यं सर्वज्ञे सर्वरूपिणि ॥ ४२॥
आज्ञयाऽथ तथाऽप्यूचे सान्निध्याल्लब्धबोधया ।
कीर्तिरुवाच ।
निष्कलो निरहंकारो निर्गुणोऽसि जगत्प्रभुः ॥ ४३॥
पूर्णानन्दः परानन्दः पुराणश्च परात्परः ।
दिक्पालरूपी सोमार्कसरित्सागररूपवान् ॥ ४४॥
त्वमेव पृथिवी वायुराकाशस्तेज एव च ।
जलं तथाऽन्तरिक्षं च गन्धर्वोरगराक्षसाः ॥ ४५॥
चराचरस्वरूपस्त्वं दीनानाथकृपानिधिः ।
विनायकादिरूपेण व्यक्तिं प्राप्तोऽसि साम्प्रतम् ॥ ४६॥
अद्य मे नयने धन्ये जन्म भर्ता सुतोऽप्ययम् ।
पितरौ च कुलं शीलं रूपं ज्ञानं तपोऽपि च ॥ ४७॥
जन्मान्तरीयपुण्येन दृष्टः क्षिप्रप्रसादनः ।
तवैव चाज्ञया देव स्थापिताऽस्य तवाभिधा ॥ ४८॥
सपत्न्याऽस्य विषं दत्तं मृत उत्थापितः पुनः ।
गत्समदेन मुनिना तव भक्त्यैव विश्वराट् ॥ ४९॥
शमीपत्रैश्च पूजा ते कथिता तव लब्धये ।
मुनिप्रभावाद् दृष्टोऽसि तापत्रयनिवारणः ॥ ५०॥
प्रसन्नश्चेद् देहि नाथ भक्तिं मम सुतस्य ते ।
त्रैलोक्येऽपि यशश्चाग्र्यं राज्ये निःसङ्गवृत्तिताम् ॥ ५१॥
दीर्घायुः सद्गुणग्रामं बलं कीर्तिं सुखं क्षमाम् ।
विजयं सर्वसङ्ग्रामे द्विजे देवे रतिं पराम् ॥ ५२॥
ढुण्ढिरुवाच ।
ये ये वरास्त्वया प्रोक्तास्ते ते दत्ता मयाऽनघे ।
सहस्रयज्ञकर्ताऽसौ जीवन्वर्षसहस्रकम् ॥ ५३॥
शान्तो दान्तो हि मद्भक्तो राज्यं कर्ता सुतस्तव ।
चतुर्भिरप्युपायैः स वशे सर्वं करिष्यति ॥ ५४॥
मम ध्यानं नामजपः सर्वदाऽस्य भविष्यति ।
अन्ते मम स्मृतिं कृत्वा मत्स्वरूपं प्रपत्स्यते ॥ ५५॥
क उवाच ।
एवं तस्यै वरान्दत्त्वा परितुष्टो विनायकः ।
ददौ स्वपरशुं तस्य पर्शुबाहुरिति स्फुटम् ॥ ५६॥
चक्रे नाम स्वयं देवस्ततश्चान्तर्हितोऽभवत् ॥ ५७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कीर्तेवरप्रदानं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८॥
आदितः श्लोकानां समष्ट्यङ्काः - ६१६७ + ५७ =६२२४
२.०४९ शमीमन्दारफलवर्णनं नाम एकोनपञ्चाशत्तमोऽध्यायः
क उवाच ।
एवं लब्धवरा कीर्तिः शेषां रात्रि निनाय च ।
उषः स्नात्वा प्रपूज्याशु मूर्तिं पुत्रयुता ययौ ॥ १॥
हर्षिता दुःखिता देव विरहान्नगरं स्वकम् ।
नानाध्वजपताकाभिः सेकैर्धूपरलङकृतम् ॥ २॥
ढुण्डिनाम जपन्तौ तौ नृपपत्नीसुतावुभौ ।
ज्ञात्वा गतौ नृयानेन सेनया वाद्यनिस्वनैः ॥ ३॥
आनिन्ये नगरं कर्णपुरं नाम्ना सुविश्रुतम् ।
मूर्ध्न्याघ्रायाशु तनयं सस्वजे परमादरात् ॥ ४॥
उवाच परमप्रीतो हर्षगद्गदया गिरा ।
क्षिप्रप्रसादन सुत श्रान्तोऽसि बहुवासरम् ॥ ५॥
दृष्ट्वा त्वां परमाल्हादं प्राप्तो लब्ध्वा सुधामिव ।
विससर्जाखिलाँल्लोकान् दत्त्वा वस्त्राणि दक्षिणाः ॥ ६॥
कीर्तिश्च स नृपः पश्चात्परस्परमथोचतुः ।
साऽपि सर्वं नृपायास्मै वृत्तान्तं संन्यवेदयत् ॥ ७॥
परस्परालिङ्गनचुम्बनानि हास्यं विनोदं परिचक्रतुस्तौ ।
ताम्बूलविच्छेदमपि प्रहर्षात् कामस्य युद्धं निरपत्रपौ च ॥ ८॥
ततः कतिपयाहस्सु ज्ञात्वा पुत्रं गुणाकरम् ।
विनीतं सर्वधर्मज्ञं नीतिशास्त्रविशारदम् ॥ ९॥
अभिषेचनसम्भारान् कृत्वाहूय वरान् द्विजान् ।
सुहृदः सवैराजन्यानभिषेकं सुते ददौ ॥ १०॥
शुभे मुहूर्ते संलग्ने सप्तेष्टग्रहसंयुते ।
कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम् ॥ ११॥
नानाद्रव्ययुतैस्तोयैरभिषेकमकारयत् ।
नदत्सु सर्वतुर्येषु ऋग्यजुस्साममन्त्रतः ॥ १२॥
सन्तोष्य ब्राह्मणानन्यान् दक्षिणारत्नदानतः ।
स्वयं च वनवासीयदीक्षां गृह्य च पृच्छय च ॥ १३॥
विससर्जाखिलान् राजा निजसाधनसंस्थितः ।
ततः परशुबाहुः स प्रशशास महीमिमाम् ॥ १४॥
धर्मशास्त्रीयनीत्या च त्यागेन यश आर्जयत् ।
विख्यातस्त्रिषु लोकेषु पराक्रमबलादभूत् ॥ १५॥
मन्दारमूर्तिं ढुण्ढेः स कृत्वा कण्ठे दधार ह ।
शमीं दूर्वां विना पूजां न करोति कदाचन ॥ १६॥
नानाभोगान् स्त्रियो नैका बुभुजे धर्मतस्तु सः ।
उत्पाद्य पुत्रान् दानानि दत्त्वा वर्षसहस्रकम् ॥ १७॥
चकार राज्यं पश्चात् तत्पुत्रेन्यस्य दिवं ययौ ।
कल्पाननेकान्स्वर्गे स स्थितो ढुण्ढिस्वरूपवान् ॥ १८॥
मुनिरुवाच ।
एवं शम्याः प्रभावस्ते सङ्क्षेपेण निरूपितः ।
तत्पूजनस्य पुण्यं च मन्दारस्य प्रसङ्गतः ॥ १९॥
तस्मात् त्वयाऽपि पूज्योऽहं शमीमन्दारतो मुने ।
भक्त्या समर्पितं पुष्पं पत्रमिष्टं सुधायते ॥ २०॥
निषिद्धपत्रपुष्पादि समर्प्य नरकं व्रजेत् ।
यस्य यद् दैवतं मुख्यं तदिष्टमितरेषु वा ॥ २१॥
समर्पयन्नभेदेन भक्तो दोषं न चाप्नुयात् ।
एवं पञ्चापि सम्पूज्य देवाँस्तत्परतामियात् ॥ २२॥
सात्त्विको लीयते देवे राजसस्तु सरूपताम् ।
उभाभ्यां चैव सान्निध्यं तामसस्तु सलोकताम् ॥ २३॥
प्राप्नुयाद्भजमानस्तु त्रेधा भक्तिर्न वै वृथा ।
व्यास उवाच ।
विनायकस्य को लोकः कस्मिन्लोके च तिष्ठति ॥ २४॥
एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि साम्प्रतम् ।
कमन्यं परिपृच्छामि सर्वज्ञं त्वां विहाय भोः ॥ २५॥
ब्रह्मोवाच ।
मयाऽपि नारदायोक्तो मुद्गलाय च तेन च ।
काशीराजाय चाख्यातो लोको वैनायकः शुभः ॥ २६॥
स कामदायिनीशक्त्या तेनैव निर्मितः पुरा ।
निजलोकेतिनामास्य स्वयं चक्रे विनायकः ॥ २७॥
काशीराजो विमानस्थो दृष्ट्वांश्चर्मचक्षुषा ।
यं प्राप्य दुःखं न द्वन्द्वं प्राप्नुते स्त्री पुमानपि ॥ २८॥
ब्राह्मं कल्पं च वसति ज्योतिरूपं समाप्य च ।
इक्षुसागरसम्भोगं लभते तत्र यः स्थितः ॥ २९॥
महाप्रलयवेलायां तिष्ठत्येवाविनाशि यत् ।
तत्पीठं तस्य देवस्य निद्रास्थानं सनातनम् ॥ ३०॥
सेवेते सिद्धिबुद्धी तं सामवेदस्तु गायति ।
कल्पवृक्षो यच्छति तत् कल्पितं मनुजेन यत् ॥ ३१॥
अकल्पिताः सम्पदोऽत्र जायन्ते तत्प्रभावतः ।
मयैव वर्णिताः सर्वे देवलोका अनेकशः ॥ ३२॥
गणेशनिजलोकस्य शक्तिर्नो मम वर्णने ।
सङ्क्षेपेण ततोऽख्यायि किमन्यच्छ्रोतुमिच्छसि ॥ ३३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे शमीमन्दारसमर्पणजनितफलवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
आदितः श्लोकानां समष्ट्यङ्काः - ६२२४ + ३३ = ६२५७
२.०५० गणेशलोकवर्णनं नाम पञ्चाशत्तमोऽध्यायः
मुनिरुवाच ।
कथं च काशीराजेन प्राप्तं तत् स्थानमुत्तमम् ।
मुद्गलस्योपदेशेन तन्मे शंसितुमर्हसि ॥ १॥
क उवाच ।
तीर्थयात्राप्रसङ्गेन मुद्गलस्तं नृपं ययौ ।
स पूजयित्वा पप्रच्छ सर्वज्ञं तं मुनिं नृपः ॥ २॥
नृप उवाच ।
विनायकस्य लोकः कः प्राप्यते स कथं मया ।
मुनिरुवाच ।
स्वानन्दभुवनेत्येवं निजलोकेति च द्वयम् ॥ ३॥
वैनायकस्य लोकस्य विख्यातं नाम वर्तते ।
उत्पत्स्येते यदा दैत्यौ देवान्तकनरान्तकौ ॥ ४॥
विनायकोऽपि तौ हन्तुं मानुषेऽवतरिष्यति ।
स तु बालकरूपेण लीला अद्भुतविक्रमाः ॥ ५॥
करिष्यति नृलोकेऽस्मिन्स्वेच्छाचारी महाबलः ।
शुक्लस्य भक्तियुक्तस्य दरिद्रस्य गृहे यदा ॥ ६॥
भुक्त्वा दत्त्वामोघलक्ष्मीं शुक्लायेन्द्रस्य दुर्लभाम् ।
विवाहार्थं समानीतो दर्शयिष्यति पौरुषम् ॥ ७॥
यदा ते गृहमागच्छेत् तदा तद्भक्तितो नृप ।
काशीराज महाबाहो निजलोकमवाप्स्यसि ॥ ८॥
क उवाच ।
एवमुक्त्वा गते तस्मिन्काशीराजो महामतिः ।
गणेशभक्तिं कुर्वाणः कालाकाङ्क्षी बभूव ह ॥ ९॥
ततो बहुतिथे कालेऽवतीर्णोऽसौ विनायकः ।
कश्यपस्य गृहे यो वै लीलाविग्रहवान्विभुः ॥ १०॥
हता नानाविधा दैत्याः क्रीडा नानाविधाः कृताः ।
दारिद्र्यं हृतवान्सद्यः शुक्लस्यादत् गृहे तदा ॥ ११॥
काशिराजस्य भवनं पुनरागान्महाबलः ।
हतौ महाबलौ दैत्यौ देवान्तकनरान्तकौ ॥ १२॥
स्वानन्दभुवनं यातः क्षीरसागरमध्यगम् ।
काशीराजस्तु विरहाच्चिन्तयन् सर्वदा तु तम् ॥ १३॥
आलिङ्गति नरं कञ्चिदयमेव विनायकः ।
इति मत्वा सभामध्ये सर्वं तादात्मकं जगत् ॥ १४॥
पश्यति स्म दिवा रातौ सौऽपि तन्मयतामियात् ।
निराहारः कदाचित् स तिष्ठति स्म नृपस्तदा ॥ १५॥
ग्रासमात्रं कदाचित् स भुनक्ति च यथामति ।
कदाचिद्धसते क्वापि नृत्यति स्म नृपस्तदा ॥ १६॥
निद्राति बहुकालं तं पश्यन् स्वप्ने विनायकम् ।
एवं नृपे स्थितेऽमात्याश्चिन्तामापुः सुदारुणाम् ॥ १७॥
यदिलोका विजानीयुः परचक्रं पतेत् तदा ।
एवं चिन्तयतां तेषाममात्यानां नृपालये ॥ १८॥
तदैव मुद्गलो ध्यानं विसृज्य नृपतिं ययौ ।
तद्दर्शनप्राप्तबोधः प्रणनाम नृपो मुनिम् ॥ १९॥
उपवेश्यासनं पश्चात् सम्पूज्य च यथाविधि ।
बद्धाञ्जलिरुवाचाथ धन्यो वंशो जनुर्मम ॥ २०॥
पितरौ मन्दिरं नेत्रे धन्यं त्वद्दर्शनान्मुने ।
यत्प्रसादात्परं स्थानं संसारतारणं नृणाम् ॥ २१॥
अवमानान्महद् दुःखं तं त्वा पुण्येन दृष्टवान् ।
तमुवाच ततो विप्रो वाचा तस्य सुतोषितः ॥ २३॥
मुनिरुवाच ।
त्वादृशस्तु विनीतात्मा नैव दृष्टो न च श्रुतः ।
पूजनात् परितुष्टोऽहं वाञ्छितं ते ददाम्यहम् ॥ २३॥
क उवाच ।
तद्वाक्यपरितुष्टोऽसौ काशीराजो जगाद तम् ।
अनेनैव च देहेन स्वानन्दभुवनं मुने ॥ २४॥
इच्छेयं च चिरं तत्र स्थातुं नैव च सम्पदः ।
तत ऊचे मुद्गलोऽसौ परितुष्टस्तया गिरा ॥ २५॥
अनेन जडदेहेन स्वानन्दभुवनं नृप ।
प्राप्स्यसे त्वं गणेशस्य पुनरावृत्तिवर्जितः ॥ २६॥
भुक्त्वाऽत्रन्नसम्पदः पञ्चसहस्रपरिवत्सरान् ।
ब्रह्मकल्पमयं कालं ततः स्वानन्दमाप्स्यसि ॥ २७॥
नृप उवाच ।
कीदृक् स लोकः किन्नामा वद सत्यं मुने मम ।
केन पुण्येन गम्योऽसौ श्रुता लोका मयाऽखिलाः ॥ २८॥
मुद्गल उवाच ।
श्रृणु राजन् मयाऽश्रावि महिमा कपिलान्मुनेः ।
सामान्यतः सर्वलोकाः प्रसिद्धा ये श्रुतास्त्वया ॥ २९॥
गहना गतिरत्यन्तमस्य लोकस्य भूपते ।
दिव्यलोकेति नामास्य निजलोकेति चापरम् ॥ ३०॥
स कामदायिनीपीठे सन्तिष्ठति विनायकः ।
विस्तीर्णं पञ्चसाहस्रयोजनानि महामते ॥ ३१॥
रत्नकाञ्चनभूमौ स राजते भासयन्दिशः ।
स्वानन्दनामा दिव्योऽयमिक्षुसागरमध्यगः ॥ ३२॥
न वेदैर्न च दानैश्च व्रतैर्यज्ञैर्जपेरपि ।
तपोभिर्विविधैश्चायं प्राप्यते नैव कर्हिचित् ॥ ३३॥
विनायकस्य कृपया प्राप्यते नित्यभक्तितः ।
समष्टिव्यष्टिरूपोऽत्र सदा तिष्ठति विघ्नराट् ॥ ३४॥
पादैः स सप्तपातालं व्याप्य शेषशिरांसि च ।
कूर्मं च कमठं चैव श्रोत्राभ्यां च दिशोऽखिलाः ॥ ३५॥
केशैर्व्योमापि संरोध्य स्थित आधारपङ्कजे ।
भूमध्येऽप्यग्निचक्रे तं द्विपत्रे ध्याति पुण्यकृत् ॥ ३६॥
खेचरीमुद्रया युक्तो नान्यो ध्यातुं न च क्षमः ।
सहस्रपत्रं ब्रह्माण्डसरोजं विलसत्प्रभम् ॥ ३७॥
तत्र तेजःस्वरूपोऽस्ति हृदि द्वादशपत्रकम् ।
दशपत्रं नाभिचक्रं लिङ्गे षटपत्रकं शुभम् ॥ ३८॥
षोडशारं कण्ठदेशे तत्र सर्वत्र विघ्नराट् ।
तेजोरूपी दीप्यमानः सत्यलोके यथा विधिः ॥ ३९॥
द्वादशारं तु वैकुण्ठं तत्र विष्णुः सदा स्थितः ।
कण्ठाब्जे पञ्चवक्त्रोऽसौ कैलासे सगणो यथा ॥ ४०॥
सोमसूर्याग्निनेत्रोऽसौ भूमण्डलमहोदरः ।
एकविंशतिस्वर्गान् स व्याप्य चौषधिरोमवान् ॥ ४१॥
सरितः सागरा यस्य धर्मबिन्दुर्विभात्यसौ ।
ब्रह्माण्डे भान्ति यस्यैव ब्रह्माण्डानि तु रेणुवत् ॥ ४२॥
त्रयस्त्रिंशत्कोटिदेवा जीवा ये च सहस्रशः ।
औदुम्बरगता भान्ति मशका इव तद्गताः ॥ ४३॥
रचनां तस्य लोकस्यसङ्क्षेपेण ब्रुवे नृप ।
तुङ्गं यन्मेरुशिखरं तत्कैलासशिरस्पृहम् ॥ ४४॥
सहस्रयोजनं शून्यमगम्यं मुनिपुङ्गवैः ।
तत्र एका शक्तिरुच्चैर्भ्रामिका नाम नामतः ॥ ४५॥
यत्सम्मताद् भ्रमन्त्येव भ्रमराः शुभ्र एव च ।
पद्मासनगताधारशक्तिस्तन्मस्तके स्थिता ॥ ४६॥
चामीकरनिभा या तन्मस्तके कामदायिनी ।
कोटिसूर्यनिभा तस्या मूर्ध्नि पीठं महत्तरम् ॥ ४७॥
विकरालं जटाभारं बिभ्रती वदनं तथा ।
सहस्रसूर्यसङकाशा भासयन्ती दिशो दश ॥ ४८॥
विस्तीर्णं दशसाहस्रयोजनं तावदायतम् ।
असङ्ख्यसूर्यसंङकाशं तन्मध्ये योजनायतम् ॥ ४९॥
स्वानन्दभुवनं भाति यत्र काञ्च्चनरत्नजाः ।
असङ्ख्याता गृहा भान्ति भास्वरा गजमौक्तिकाः ॥ ५०॥
तस्यैव कृपया प्राप्यो तुःखमोहविवर्जितः ।
तदुत्तरे भाति परं इक्षुसागर एव तु ॥ ५१॥
सहस्रपत्रसंयुक्ता तन्मध्ये पद्मिनी शुभा ।
सहस्रपत्रं कमलं तस्यां भाति यथा शशी ॥ ५२॥
तत्कर्णिकागतस्तल्पो रत्नकाञ्चननिर्मितः ।
दिव्याम्बरयुतः शेते नृप तत्र विनायकः ॥ ५३॥
सिद्धिबुद्धी सदा तस्य पादसंवाहनं मुदा ।
कुर्वाते परया भक्त्या सामवेदस्त्रिमूर्तिमान् ॥ ५४॥
गानं करोति शास्त्राणि मूर्तिमन्ति स्तुवन्ति तम् ।
पुराणानि च सर्वाणि वर्णयन्त्यस्य सद्गुणान् ॥ ५५॥
बालरूपधरस्तत्र शुण्डादण्डविराजितः ।
कोमलाङ्गोऽरुणनिभो विशालाक्षो विषाणवान् ॥ ५६॥
मुकुटी कुण्डली राजत्कस्तूरीतिलकः स्वराट् ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ ५७॥
मुक्तामणिगणोपेतं सरत्नं दाम सन्दधत् ॥ ५८॥
अनन्तकोटिसूर्यौजाश्चन्द्रार्धकृतशेखरः ।
स्मरणात् पापहा सद्यः स्मृता गङ्गा यथा नृणाम् ॥ ५९॥
तेजोवती ज्वालिनी च शक्ती पर्यङकपार्श्वयोः ।
सहस्रादित्यसङ्काशे तिष्ठतो नृप सर्वदा ॥ ६०॥
न शीतं न जरा तत्र क्लमः स्वेदोऽथ तन्द्र्यपि ।
क्षुधा तृषा वा दुखं वा न कदाचन जायते ॥ ६१॥
आनन्दहृदमग्नास्ते तत्रासन् ये सुपुण्यतः ।
विश्वव्यापी बालरूपी यत्र तिष्ठति विश्ववित् ॥ ६२॥
मुद्गल उवाच ।
एवं ते कथितो लोको गणेशस्य यथामति ।
तस्मादनन्यभक्त्या त्वं तमेवाराधय प्रभो ॥ ६३॥
क उवाच ।
एवमुक्त्वा गतः स्थानं स्वकीयं मुद्गलो मुनिः ।
काशीराजो गणेशस्य भजने तत्परोऽभवत् ॥ ६४॥
सहस्रपञ्चवर्षाणि कृत्वा राज्यमनेन ह ।
देहेन यानमारुह्य गतः स्वानन्दधाम तत् ॥ ६५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशलोकवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५०॥
आदितः श्लोकानां समष्ट्यङ्काः - ६२५७ + ६५ = ६३२२
२.०५१ एकपञ्चाशत्तमोऽध्यायः
व्यास उवाच ।
कथमाराधितस्तेन काशीराजेन विघ्नराट् ।
कथं च चर्मदेहेन गतः स्थानमनुत्तमम् ॥ १॥
एतन्मे शंस भगवन् शृण्वन्स्तृप्यामि न क्वचित् ।
क उवाच ।
सम्यक् शृणु महाबुद्धे कथां पापप्रणाशिनीम् ॥ २॥
कथयामि महाबुद्धे इतिहासं पुरातनम् ।
यथा निर्वासनो भूपः स्वानन्दभुवनं गतः ॥ ३॥
महिमानं परिज्ञाय मुद्गलाज्ज्ञानसागरात् ।
कायेन मनसा वाचा गणेशे भक्तिमानभूत् ॥ ४॥
गोदानानि महाभक्त्या गजादानान्यनेकशः ।
रथाश्वगृहधान्यानि दश दानान्यजानपि ॥ ५॥
विनायकप्रीतये स ददात्येव दिने दिने ।
मिष्टान्नभोजनैर्विप्रांस्तोषयित्वा धनादिभिः ॥ ६॥
गणेशदृढभक्तिं स याचते स्म दिने दिने ।
माघशुक्लचतुर्थ्यां स भौमवारे शुभे दिने ॥ ७॥
स्नानं चक्र उषःकाले सन्ध्यां नित्यविधिं तथा ।
भूषयित्वा तथात्मानं नानालङ्करणांशुकैः ॥ ८॥
आकार्य सकलाँल्लोकान्ब्राह्मणान्सुहृदोऽपरान् ।
पूजयामास विविधैरत्नैरंशुकसञ्चयैः ॥ ९॥
वारंवार पश्यति स्म विमानागमनं नृपः ।
सभातो गन्तुकामाँस्तान्निषेधति मुहुर्मुहुः ॥ १०॥
ततो विनायको ज्ञान्वा कालं तस्य महात्मनः ।
प्रेषयामास दूताभ्यां विमानं द्युतिमत्तरम् ॥ ११॥
गणेश उवाच ।
प्रमोदामोद गत्वा तु काशीराजं धरातले ।
मद्भक्तमत्रानय तं विमानवरमास्थितम् ॥ १२॥
क उवाच ।
तदाज्ञां प्राप्य तं नत्वा दिवो लाकादुभौ तदा ।
दिव्यं विमानमादाय काशीराजं समीयतुः ॥ १३॥
तत्तेजोधर्षिता लोका मेनिरे प्रलयानलम् ।
केचिच्च मेनिरे व्यभ्रे विद्युत्पातमिवागतम् ॥ १४॥
तर्कयामासुरपरे पतन्तं रविमण्डलम् ।
घण्टानां चैव तूर्याणां गन्धर्वाप्सरसां स्वनम् ॥ १५॥
श्रुत्वाऽन्ये जज्ञिरे यानं गणेशकृपयागतम् ।
अङ्गणे काशिराजस्य समुत्तीर्णं श्रिया लसत् ॥ १६॥
आगतौ राजनिकटे प्रमोदामोदसंज्ञकौ ।
गणौ दिव्याम्बरधरौ दिव्यभूषाविराजितौ ॥ १७॥
दिव्यमाल्यानुलेपाद्यैः दिव्यदीप्त्या स्मराविव ।
विनायकस्वरूपौ तौ नत्वा राजा निजासने ॥ १८॥
उपवेश्य प्रपूज्याशु यावत्पृच्छति तौ नृपः ।
तावत् तावूचतुर्दूतौ सर्वलोकेऽथ शृण्वति ॥ १९॥
शृणु राजन्प्रवक्ष्यामि वाक्यं वैनायकं शुभम् ।
न भक्तस्त्रिषु लोकेषु त्वत्तः प्रीतिकरो नृपः ।
त्वां ध्यायन्ति दिवारात्रं त्वद्गुणान् वदतेऽनिशम् ॥ २०॥
धन्योऽसि जन्मसाफल्यं कृतं पुण्यवता त्वया ।
त्वद्दर्शनात्क्षिप्रतरं नष्टं पापं तमो महत् ॥ २१॥
न जानीवस्तपः किं ते कृतं जन्मान्तरेषु च ।
परब्रह्मस्वरूपोऽयं बालरूपी विनायकः ॥ २२॥
भवतां गृहमागत्य नानालीला अदर्शयत् ।
देवस्य देवभक्तस्य महिमा नैव गोचरः ॥ २३॥
यतो विनायको देवस्त्वां चिन्तयति सर्वदा ।
त्वदर्थं प्रेषितं यानं दिव्यं वैभवसंयुतम् ॥ २४॥
न यावो दिव्यलोकं त्वां तदाज्ञावशवर्तिनौ ।
शीघ्रमानयतां काशीराजमित्याह नौ विभुः ॥ २५॥
शृण्वत्सु सर्वलोकेषु शुश्राव स वचस्तयोः ।
अमृताब्धौ निमग्नोऽभूदानन्दाश्रु सृजन्मुहुः ॥ २६॥
देहावस्थां पुनर्लब्ध्वा प्रणम्य तौ उवाच सः ।
धन्यं जन्म च पितरौ निष्ठा भक्तिश्च सम्पदा ॥ २७॥
यद् दुर्लभो मया दृष्टौ चरणौ वां शुभावहौ ।
विनायकस्वरूपेण प्राप्तौ नेतुं परं स्थलम् ॥ २८॥
इक्षुसागरमध्यस्थं दुर्दर्शं चर्मचक्षुषाम् ।
यन्निर्गुणं चिदानन्दं परं ब्रह्म सनातनम् ॥ २९॥
विश्वोत्पत्तिस्थितिलयहेतुभूतमगोचरम् ।
यदणुभ्योऽप्यणुतरं स्थूलात्स्थूलतरं च यत् ॥ ३०॥
सर्वत्रगमसक्तं च साकारं गुणभोक्तृ च ।
नानारूपमरूपं च भूभारहरणोद्यतम् ॥ ३१॥
तेन मे रङ्कभूतस्य कृपेयं महती कृता ।
इत्युक्त्वा स नमस्कृत्य सर्वानालिङ्ग्य प्रेक्ष्य च ॥ ३२॥
दूतावूचे त्वारुहतं प्रणिपातपुरःसरम् ।
पश्चादहं समारोक्ष्ये विमानं मर्त्यदुर्लभम् ॥ ३३॥
अमात्याभ्यां नमस्कृत्य पुत्रं दत्वा तयोः करे ।
प्रजान्ना पालनं कार्यं धर्मेण च बलेन च ॥ ३४॥
मुद्गलेन च तत्प्रोक्तमनुभूतमिदं मया ।
इत्युक्त्वा चर्मदेहेन रुरोह यानमुत्तमम् ॥ ३५॥
अधिष्ठितं तु दूताभ्यां पूजिताभ्यामनेकधा ।
आरुढस्य च तत्रास्य देहोऽभूद् रविसन्निभः ॥ ३६॥
दिव्यैर्गन्धैरलङ्कारैस्ताभ्यां सम्पूजितोऽशुकैः ।
गतौ तौ वायुवेगेन दर्शयन्तौ च तौ नृपम् ॥ ३७॥
भूतप्रेतपिशाचानां लोकं दुष्कृतकर्मणाम् ।
यत्र ते विकृताकारा ऊर्ध्वपादा अधोमुखाः ॥ ३८॥
पृष्ठभागमुखाः केचिन्मस्तकाक्षास्तथाऽपरे ।
हृदिनेत्राः पृष्ठनेत्राः सूक्ष्मकण्ठा महोदराः ॥ ३९॥
यथा रश्मौ जालगते भ्रमन्ति परमाणवः ।
तथा भ्रमन्ति गगनेऽनेकरूपाः सुदुःखिनः ॥ ४०॥
कोऽयं लोको दूतवरौ ब्रूतं म इति सोऽब्रवीत् ॥ ४१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे स्वानन्दभुवननामपंस्थानं एकपञ्चाशत्तमोऽध्यायः ॥ ५१॥
आदितः श्लोकानां समष्ट्यङ्काः -६३२२ + ४१ = ६३६३
२.०५२ द्विपञ्चाशत्तमोऽध्यायः
दूतावूचतुः ।
प्रेतभूतपिशाचानां लोकोऽयं राजसत्तम ।
निन्दापैशून्यतास्तेयकृतो यान्त्यत्र भूपते ॥ १॥
ततोऽग्रे पश्यति स्मासौ लोकावसुररक्षसाम् ।
यत्र ते विविधाकारा ऊर्ध्वकेशा भयानकाः ॥ २॥
घोरास्याश्च ललज्जिव्हा मेघनादा धरोपमाः ।
अग्निकुण्डनिभांस्तान् स दृष्ट्वा पप्रच्छ तौ पुनः ॥ ३॥
केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः ।
तावुचतुरयं लोको दुष्टदानवरक्षसाम् ॥ ४॥
श्रौतस्मार्तक्रियाहीना अत्र तिष्ठन्ति पापिनः ।
तदग्रे स ददर्शाऽथ लोकं गन्धर्वसेवितम् ॥ ५॥
रौप्यस्वर्णगृहा यत्र रत्नकाञ्चनभूमयः ।
नरनार्यः कामरत्यो नृत्यगानविशारदाः ॥ ६॥
अतिसौख्यकरं तं स दृष्ट्वा पप्रच्छ तौ पुनः ।
केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः ॥ ७॥
तावूचतुः ।
गन्धर्वनगरं चेदं देवस्थानेषु गायकाः ।
प्राप्नुवन्ति महापुण्यादिदं पुरमनुत्तमम् ॥ ८॥
सिद्धचारणयक्षाणां गुह्यकानां पुरं महत् ।
नानाव्रतैस्तथा दानैर्गम्यं पुण्यसमुच्चयैः ॥ ९॥
दूतौ च तौ नृपं पश्चाद्दर्शयेतां गरीयसीम् । (दर्शयामासतुस्तौ च नृपं पश्चात् गरीयसीम् ।)
इन्द्रस्य नगरीं रम्यामश्वमेधशतार्जिताम् ॥ १०॥
सुवर्णरत्नगोदानरथाश्वगजदानतः ।
गम्यां तीर्थाभिषेकाद्यैः पुण्यैर्नानाविधैरपि ॥ ११॥
तत्रेन्द्रभवनं रम्यं तावदर्शयतां शुभम् ।
नृपो निरीक्ष्य तौ प्रोचे यच्छ्रुतं दृष्टमेव तत् ॥ १२॥
अग्निलोकं ततोऽग्रे तौ दर्शयन्तौ नृपं शुभम् ।
यत्राग्निहोत्रिणो वह्नितेजसो भान्त्यनेकशः ॥ १३॥
ततोऽदर्शयेतां भूपं यमलोकं शुभाशुभम् ।
यत्र पुण्यकृतो यान्ति तथा पापकृतोऽपि च ॥ १४॥
स धर्मः सुकृतां भाति क्रूरो दुष्कृतकर्मणाम् ।
सुकृतः सर्वभोगांस्तु दुष्कृतो नरकानपि ॥ १५॥
भुञ्जते प्राणिनः स्वस्वकर्मभोगाननेकशः ।
कुम्भीपाके च पच्यन्ते छिद्यन्ते चासिपत्रकैः ॥ १६॥
अयोघनेन ताड्यन्ते कृत्यन्ते कण्टकैरपि ।
तामिस्रे चान्धतामिस्रे कृमिकुण्डे सपूयके ॥ १७॥
पात्यन्ते नरके घोरे दुष्कृतः प्राणिनः स तान् ।
निरीक्ष्यामीलयन्नेत्रे यातं यातमिति ब्रुवन् ॥ १८॥
ततोऽग्रे दर्शयेतां तौ कौबेरं लोकमुत्तमम् ।
अत्याश्चर्यकरं शक्रलोकादतिवरं परम् ॥ १९॥
रत्नकाञ्चनयुक्तानि गृहाणि दीप्तिमन्ति च ।
रत्नकाञ्चनदानेन तुलादानैश्च कोटिशः ॥ २०॥
प्राप्नुवन्ति महाभागाः कौबेरं लोकमुत्तमम् ।
ततोऽदर्शयेतां तं तौ वारुणं लोकमुत्तमम् ॥ २१॥
तीर्थान्नदानतोलभ्यं कुबेरभवनातिगम् ।
अप्सु सर्वे शुष्कदेहा वसन्ति सुखभोगिनः ॥ २२॥
वापीकूपतडागानां दृश्यन्तेः जलदायिनः ।
ततोऽग्रे दर्शयेतां तौ वायुलोकं सुखावहम् ॥ २३॥
ददते व्यजनं ग्रीष्मे सौशीरं कर्पुरं जलम् ।
वसन्ति वायुलोके ते स्वेच्छायातिविहारिणः ॥ २४॥
ततोऽग्रेदर्शयेतां तौ सूर्यलोकं दुरासदम् ।
पञ्चाग्निसाधनरताः सूर्यभक्तिपरायणाः ॥ २५॥
अवाप्तकामा मुनयः सर्वे ते सूर्यवर्चसः ।
निवसन्ति निराबाधा ब्रह्मकल्पशतं नराः ॥ २६॥
नाक्षत्रं चन्द्रलोकं च दर्शयेतां नृपं ततः ।
मुक्ताफलसुवर्णानां दानेन सोमयागतः ॥ २७॥
प्राप्नुवन्ति महात्मानो लोकमेनं सुपुण्यतः ।
गोलोकं च ततोऽग्रे तौ दर्शयेतां नृपं तदा ॥ २८॥
गोसहस्राणि ये दद्युर्ब्राह्मणेभ्यो यथाविधि ।
रोमसङ्ख्यैस्तु कल्पैस्ते गोलोके निवसन्ति हि ॥ २९॥
सत्यलोकं ततोऽग्रे तौ दर्शयेतां चिरन्तनम् ।
सत्यव्रता वेदविदो वेदाध्ययनतत्पराः ॥ ३०॥
सदाचाराः शास्त्रविदः पुराणपाठकाश्च ये ।
अन्नदानरता यज्ञकर्तारस्तीर्थसेविनः ॥ ३१॥
अप्रतिग्राहका विप्राः परोपकृतिकारिणः ।
तपस्विनो दानपराः सत्यलोकं व्रजन्ति ते ॥ ३२॥
गव्यूत्यष्टसहस्रेण विस्तीर्णं तावदायतम् ।
यत्र ब्रह्मा मुनिगणैर्गणै राजर्षिणां परैः ॥ ३३॥
देवर्षीणां दानवानां गन्धर्वाप्सरसां तथा ।
स्तूयमानो दिवारात्रं सेव्यते भक्तितत्परैः ॥ ३४॥
यत्रेन्द्र भवनामानि गृहाणि परितो लसन् ।
तं दृष्ट्वा नृपतिर्लोकं विस्मितः प्राह तौ तदा ॥ ३५॥
नृप उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि गणेशेन कृपावता ।
भवद्भ्यांच यतो दृष्टाः स्वर्गलोकाः सुदुर्लभाः ॥ ३६॥
क उवाच ।
तं पुनर्दर्शयेतां तौ वैकुण्ठं विश्रुतं त्रिषु ।
लोकेषु तत्र गच्छन्ति वैष्णवा भक्तितत्पराः ॥ ३७॥
सर्वलोकेषु श्रेष्ठं तं नोपमा यस्य विद्यते ।
शेषो न वर्णने शक्तोऽनेकवक्त्रो न चात्मभूः ॥ ३८॥
उर्जस्नायी झषस्नायी मेषस्नायी तिलान्नदः ।
गोदो गीताध्ययनवान् प्राणिनाञ्चोपकृच्च यः ॥ ३९॥
विष्णुलोकं व्रजत्याशु सहस्र पञ्चयोजनम् ।
सूर्यचन्द्रप्रकाशानि विश्वकर्मकृतानि च ॥ ४०॥
मन्दिराणि प्रभासन्ति रत्नकाञ्चनराजतैः ।
येषु नो प्रविशत्येव तमो रत्नमरीचिभिः ॥ ४१॥
परिवारयुतो लक्ष्म्या यत्र तिष्ठति दैत्यहा ।
जहर्ष नृपवर्योऽसौ दृष्ट्वा तत्पुण्यसञ्चयात् ॥ ४२॥
ततोऽग्रे दर्शयेतां तौ कैलासं गिरिशालयम् ।
मेरोस्तु शिखरे रम्येऽयुतयोजनविस्तृते ॥ ४३॥
रविचन्द्रप्रकाशानि हर्म्याणि यत्र भान्ति च ।
यत्र पञ्चाक्षरजपा रुद्राध्यायजपाश्च ये ॥ ४४॥
अनेकसाधनरताः पुण्यवन्तो व्रजन्ति ह ।
तं दृष्ट्वा प्राह नृपतिर्विनायकप्रसादतः ॥ ४५॥
दृष्टवा सर्वे देवलोकाः पुण्यदा दर्शनान्नृणाम् ।
ततोऽग्रे न रविश्चन्द्रः सहस्रयोजनावधि ॥ ४६॥
विमानप्रभया याति न च पश्यन्ति किञ्चन ।
मेघनादनिभं शब्दं शुश्राव दुःसहं नृपः ॥ ४७॥
गिरिवर्यप्रकाशानां भ्रमराणां समन्ततः ।
कस्य शब्दः श्रूयतेऽयमिति पप्रच्छ तौ नृपः ॥ ४८॥
कदा द्रक्ष्यामि देवस्य पादपद्ममिति स्फुटम् ।
ददर्श पुरतो राजा शक्तिं भ्रामरिकां दृढाम् ॥ ४९॥
अनेकादित्यसङकाशां ब्रह्माण्डग्राससाहसाम् ।
प्रसारितमुखां भीमां दृष्ट्वा मूर्च्छामियान्नृपः ॥ ५०॥
आश्वास्य निन्यतुस्तं तु दूतावग्रे नृपं तदा ।
तत आधारशक्तिं स ततोऽप्यतिभयङकराम् ॥ ५१॥
दृष्टवा चकम्पे नृपतिर्भ्रामरीं मस्तके स्थिताम् ।
करालकेशां लम्बोष्ठी दीर्घजिव्हां प्रभायुताम् ॥ ५२॥
आश्वासितो व्रजन्नग्रे सोऽपश्यत् कामदायिनीम् ।
आधारशक्तिं संविष्टां योजनायुतविस्तृताम् ॥ ५३॥
भ्रमन्ति पर्वता यस्याः श्वासवायुविवर्तनात् ।
वज्रातिनिष्ठुरैर्देहैर्यस्यास्तिष्ठति सा पुरी ॥ ५४॥
वदतः स्म नृपं दूतौ पश्य स्वानन्दपत्तनम् ।
यद्ध्यानपरितृप्तोऽसि कोटिसूर्यनिभं शुभम् ॥ ५५॥
रत्नकाञ्चनसम्भिन्ना भाति यत्र गृहाः परे ।
मुक्तारजतसूर्याश्मनिर्मिताश्चसहस्रशः ॥ ५६॥
नीलाश्मकुट्टिमा यत्र पुमांसो यत्र वह्निभाः ।
यत्र वापीकूपतडागाश्च यत्र भान्ति सरांसि च ॥ ५७॥
स्वच्छशीताम्बुनीलानि पीतरत्नतटानि च ।
यदम्बुपानान्न जरा न क्षुद् रोगो नृणां भवेत् ॥ ५८॥
आक्रीडा विमला नानावृक्षवल्लीविराजिताः ।
दिव्यौषध्यो दिवा सूर्यकोटिभा भान्ति यत्र च ॥ ५९॥
चन्द्रपृष्ठे प्रपश्यन्ति कलङ्करहिते मुखम् ।
विलासिनीजना यत्र सर्वदाऽधोगते निशि ॥ ६०॥
यत्रपुष्पवनामोदः श्रमं हन्ति विहारिणाम् ।
इक्षुसागरतीरं तत्प्राप्योत्तरुर्मुदा युताः ॥ ६१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे स्वानन्दभुवनप्राप्तिवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥
आदितः श्लोकानां समष्ट्यङ्काः - ६३६३ + ६१ = ६४२४
२.०५३ राजस्वानन्दप्राप्तिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच ।
पपुरिक्षुरसं पुण्यनिचैयर्लभ्यमञ्जसा ।
तन्मध्ये पद्मिनी श्वेता सहस्रदलपद्मयुक् ॥ १॥
सहस्रकिरणप्रख्यं तस्यां यत्पद्ममुत्तमम् ।
तन्मध्ये तस्य देवस्य पर्यङ्कोतिमनोहरः ॥ २॥
दिव्यास्तरणसम्पन्नो दिव्यधूपैः सुधूपितः ।
दिव्यनानाकुसुमवान् स्वप्रभै रत्नसञ्चयैः ॥ ३॥
भासयन्प्रभया सर्वा दिशो विदिश एव च ।
व्यजनैर्वीज्यमानं स तत्र शेते विनायकः ॥ ४॥
कोटिचन्द्रनिभो नानालङ्कारो नागभूषणः ।
रम्भास्तम्भनिभं शुण्डादण्डं रदनसुन्दरम् ॥ ५॥
दधद्दिव्याम्बरच्छन्नो भालनेत्रः किरीटवान् ।
कुण्डले चाङ्गदे मुद्रां कटिसूत्रं महाधनम् ॥ ६॥
सिद्धिबुद्धी सिद्धिहेतू पादौ संवहतोऽस्य ह ।
अणिमागरिमाश्वेतचामरैर्वीजितः स्म ह ॥ ७॥
ज्वालिनी तेजिनी दीप्यमाने चोभयतः स्थिते ।
दिव्यगन्धेन लिप्ताङ्गो दिव्यमालाविभूषितः ॥ ८॥
महिमा प्रथिमादाय स्थिते दृष्टिसमीपतः ।
जलं गण्डूषपात्रं च छत्रं काञ्चनरत्नयुक् ॥ ९॥
ततो दूतौ करे धृत्वा तं नृपं पुरतोऽस्य तु ।
ईक्षेते वागवसरं ततो देवोऽन्वबुध्यत ॥ १०॥
तौ दूतावूचतुर्देवमानीतोऽयं तवाज्ञया ।
प्रणम्य च स्थितौ दूरं तदाज्ञापेक्षकावुभौ ॥ ११॥
तस्मिन्प्रबुद्धे राजा स प्रणनाम कृतां जलिः ।
उवाच परमप्रीत्या धन्यो वंशो ममाद्य ह ॥ १२॥
पितरौ जन्म विद्या च तपो दृष्टिः सुतादयः ।
येन मे दर्शितं ब्रह्म ध्येयं पदयुगं तव ॥ १३॥
न ब्रह्मलोके कैलासे शक्रलोकेऽपि वैभवः ।
एतादृशोऽदर्शि मया नान्यलोकेऽपि कश्चन ॥ १४॥
दूतावूच आस्यतां स ततस्तौ च निषेदतुः ।
तत्तोऽपश्यद् बालरूपं द्विभुजं स विनायकम् ॥ १५॥
येन तौ निहतौ दैत्यो देवान्तकनरान्तकौ ।
अतिगौरं कोमलाङ्गं हिमकर्पूरसन्निभम् ॥ १६॥
न शशाक तदा वक्तुं बाष्परुद्धमहागलः ।
आनन्दाश्रुनदीपूरैरासिञ्चंस्तत्पदद्वयम् ॥ १७॥
विज्ञाय तन्महाभक्तिमुत्थाप्यालिङ्ग्य विघ्नराट् ।
मूर्ध्न्याघ्रातश्च पितृवद् बहुकालगतः सुतः ॥ १८॥
देवोऽपि बाष्पकण्ठोऽभूदुभौ रोमाञ्चसंयुतौ ।
उभौ सुखाब्धि संमग्नौ देहातीतौ यथा मुनी ॥ १९॥
उवाच वचनं पश्चाद्बालरूपी विनायकः ।
त्वद्गृहेऽनेकधा तात क्रीडता यत्कृतं मया ॥ २०॥
तत्क्षान्तं हि त्वया सर्वं शुभं वा यदि वाऽशुभम् ।
निहता बहवो दैत्या धराभारश्च संहृतः ॥ २१॥
पालिताः साधुलोकाश्च स्थापिता धर्मसेतवः ।
तवाज्ञया पुनर्यातः कश्यपं सृष्टिकारकम् ॥ २२॥
प्रणम्य तं निजं लोकं प्राप्तोऽमुं सर्ववैभवम् ।
त्वामेव परिचिन्त्याहं विश्रान्तिं न लभे क्वचित ॥ २३॥
तवादिभावं ज्ञात्वाऽहं मुदगलं मुनिपुङ्गवम् ।
अप्रेषयं तव गृहं तदनुग्रहतस्त्वया ॥ २४॥
प्राप्तं स्थानं मुद्गलेन भक्तेनेदं त्वयाऽपि च ।
यदगम्यं सदा देवैर्ब्रह्माद्यैर्मुनिपुङ्गवैः ॥ २५॥
क उवाच ।
पीत्वा वागमृतं तस्य नृपो नत्वा पुनःपुनः ।
उवाच धैर्यमालम्ब्य तुष्टाव च यथामति ॥ २६॥
नृप उवाच ।
नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय ।
यत्पद्मपाशासिपरश्वधादिसुचिन्हितं विघ्नहरं निजानाम् ॥ २७॥
यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च ।
अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि ॥ २८॥
नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् ।
कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति ॥ २९॥
नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसङ्घम् ।
अनेकभक्ताभयदं सुरेश संसारकूपोत्तरणावलम्बम् ॥ ३०॥
त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य ।
तमोगुणाधारतया च हंसि चराचरं ते वशगं गणेश ॥ ३१॥
यः शुद्धचेता भजतेनिशं त्वामाक्रम्य विघ्नान् परिधावसि त्वम् ।
स त्वां वशे कृत्य सुखं हि शेते वत्सं यथा गौरिव धावसि त्वम् ॥ ३२॥
येऽन्ये भजन्तः समवाप्य तापान् संसारचक्रे बहुधा भ्रमन्तः ।
कदापि तेऽनुग्रहमाप्य तेऽपि भजन्ति मानुष्यमवाप्य तेऽपि ॥ ३३॥
धरारजः कोऽपि मिमीत नाके तारा गणं वारिमुचां च धाराः ।
नालं गुणानां गणानां हि कर्तुं शेषो विधाता तव वर्षपूगैः ॥ ३४॥
निराकृतेस्ते यदि नाकृतिः स्यादुपासनाकर्मविधिर्वृथा स्यात् ।
गुणप्रपञ्चः प्रकृतेर्विलासो जनस्य भोगश्च तथा कथं स्यात् ॥ ३५॥
सत्सङ्गतिश्चेत्सदनुग्रहः स्यात्सकर्मनिष्ठा सदनुस्मृतिश्च ।
चित्तस्य शुद्धिर्महती कृपा ते ज्ञानं विमुक्तिश्च न दुर्लभा स्यात् ॥ ३६॥
क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो विनायकः ।
उवाच काशीराजं स वरं वृणु हृदि स्थितम् ॥ ३७॥
नृप उवाच ।
जातं वरस्य कृत्यं मे यत्राहंहि समागतः ।
इतः पुनर्जन्ममृती न स्यातां तद्विधीयताम् ॥ ३८॥
क उवाच ।
स्तोत्रेण प्रीतस्तं प्राह तथेति दिव्यदेहिनम् ।
स्थापयामास निकटे कल्पकोटियुगावधि ॥ ३९॥
मुने स्तोत्रं मया तस्मात्प्राप्तं तस्य प्रसादतः ।
नारदाय मया प्रोक्तं नारदो गौतमाय च ॥ ४०॥
प्राह सोऽपि मुनीन्सर्वान्सर्वकामफलप्रदम् ।
ज्ञानदं मोक्षदं विघ्ननाशनं पावनं परम् ॥ ४१॥
यः पठेत्स लभेद्भक्तिं गणेशसन्निधौ नरः ।
विद्याकामो लभेद् विद्यां त्रिसन्ध्यं यः पठेन्नरः ॥ ४२॥
पुत्रकामो लभेत्पुत्रान् जयकामो लभेज्जयम् ।
एवं सर्वं समाख्यातं यद् यद् पृष्टं त्वया मुने ॥ ४३॥
आख्यानं काशिराजस्य किमन्यच्छ्रोतुमिच्छसि ।
भृगुरुवाच ।
इति श्रुत्वा ब्रह्मवाक्यं व्यासो निःसंशयो गिरम् ॥ ४४॥
पुनः पप्रच्छ सुमतिर्विस्तरेण कथान्तरम् ।
व्यास उवाच ।
शुक्लस्यातिदरिद्रस्य हृतं दारिद्र्यमादरात् ॥ ४५॥
भुक्त्वा कदन्नं तद्गेहे काशिराजं समेत्य च ।
किं चकार स देवोऽपि काशिराजश्च तद्वद ॥ ४६॥
कथं तौ निहतौ दैत्यौ भूभारश्च कथं हृतः ।
स्थापितश्च कथं धर्मस्तन्मे शंस यथाविधि ॥ ४७॥
क उवाच ।
कथयामि समासेन चरितं बालरूपिणः ।
हृत्वा शुक्लस्य दारिद्रयं यद्यतेन कृतं मुने ॥ ४८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे काशिराजस्य स्वानन्दप्राप्तिवर्णनं (स्वानन्दप्राप्तस्य काशिराजस्य श्रीगणेशदर्हनं) नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥
आदितः श्लोकानां समष्ट्यङ्काः - ६४२६ + ४८ = ६४७२
२.०५४ बालचरिते चतुःपञ्चाशत्तमोऽध्यायः
क उवाच ।
भुक्त्वा शुक्लगृहे देवो यावत्क्रीडति चत्वरे ।
क्षणं सुष्वाप मध्ये स ततो नागरिका जनाः ॥ १॥
भोजनाय समारम्भं कृत्वा मुनिसुतस्य ह ।
काशिराजगृहं तावदाकारयितुमागताः ॥ २॥
तानूचे काशिराजस्तु क्रीडन्क्रीडन्नितो गतः ।
पश्यन्ति स्म ततो लोका गृहेगृहे विनायकम् ॥ ३॥
शुक्लस्य स गृहं यात इति केचित् समूचिरे ।
ततो जना निनिन्दुस्तं देवं शुक्लमकिञ्चनम् ॥ ४॥
जना ऊचुः ।
उष्ट्रस्तु कण्टकान्भुङ्क्ते हित्वा कोमलपल्लवान् ।
अस्मानाढ्यान्विहायासौ दरिद्रस्य गृहं गतः ॥ ५॥
वृथैवेश्वरतां नीतो राज्ञा बालो यदीश्वरः ।
स्यादयं चेत्तदा कुर्यात्सन्तुष्टिं सर्वचेतसाम् ॥ ६॥
कदन्नं तदपि स्वल्पं कथं भोक्ष्यति बालकः ।
केचित्सत्पुरुषास्तेषु तमानयितुमुत्सुकाः ॥ ७॥
इतस्ततः प्रधावन्ति विज्ञातुं विनायकम् ।
पप्रच्छुर्मार्गगांल्लोङ्कान्क्वचिदृष्टो विनायकः ॥ ८॥
पृष्टा पृष्ट्वा व्रजन्ति स्म जनास्तद्भक्तितत्पराः ।
केचिदुचुः शुक्लगृहं गतः स्यादिति तान्प्रति ॥ ९॥
ते शीघ्रं तद्गृहं याता ज्ञात्वा सुप्तं विनायकम् ।
अतिष्ठन् सात्त्विकास्तूष्णीं प्रबुद्धः स्याद् यदा विभुः ॥ १०॥
तदैनं प्रार्थयामेति राजसास्तु तमब्रुवन् ।
उत्तिष्ठ याहि रे भोक्तुमन्नं पर्युषितं भवेत् ॥ ११॥
त्वदर्थं नगरे लोकाः कोलाहलं प्रकुर्वते ।
दरिद्रस्यास्य शुक्लस्य शुक्लभिक्षारतस्य ह ॥ १२॥
पर्याप्तिश्चास्य भिक्षाया जायते न कदाचन ।
न जलं कोऽपि पिबति तस्य गेहे कथं भवान् ।
भुक्तवान् कुत्सितं चान्नं कश्यपस्यात्मजोऽपि सन् ॥ १३॥
केचित्तं विविधैर्वाक्यैर्निनिन्दुस्तुष्टुवुः परे ।
मुनिरुवाच ।
एवं श्रुत्वा सर्ववाक्यमुवाच कश्यपात्मजः ॥ १४॥
देव उवाच ।
भक्त्योपपादितं चान्नं भुक्तमद्य यथेच्छतः ।
पदमात्रं हि गन्तुं मे शक्तिस्तृप्तस्य नास्ति च ॥ १५॥
ग्रासमात्रं हि भोक्तुं मे वाञ्छानास्त्यधुना जनाः ।
क उवाच ।
एवं निष्ठुरतां ज्ञात्वां जनास्ते विरसास्तदा ॥ १६॥
ऊचुः परस्परं केचित्कर्तव्यं किं हि बालके ।
सोऽपि विव्हलतां ज्ञात्वा पुरवासिजनस्य ह ॥ १७॥
एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् ।
जलकुम्भगतो यद्वत् सविताऽनेकरूपवान् ॥ १८॥
प्रतिगृहं गतो नानाक्रीडासक्तोऽभवद्विभुः ।
क्वचित् सोपानमार्गेषु क्वचिद् दोलागतोऽपि च ॥ १९॥
क्वचिच्च पर्यङ्कगत क्वचित्सौधगतोऽपि च ।
क्रीडते हसते क्वापि गृहबालैर्भुनक्ति च ॥ २०॥
अध्येति क्वापि शास्त्राणि पाठयत्यपि कुत्रचित् ।
तं दृष्ट्वा स्वगृहं यातं काशिराजेन संयुतम् ॥ २१॥
जहृषे स गृहस्वामी धन्योऽहमिति चाब्रवीत् ।
एवं सर्वगृहे राजसहितोऽसौ विनायकः ॥ २२॥
क्वचिदभ्यज्यते तैलैः स्नाति क्वापि शुभैर्जलैः ।
पादप्रक्षालनं क्वापि क्रियते परमादरात् ॥ २३॥
उपचारैः षोडशभिः पूज्यते क्वापि भक्तितः ।
भुज्यते परमान्नेन बालभावाद् यथा तथा ॥ २४॥
क्वचिन्नानापरिमलैः कस्तूरीचन्दनादिभिः ।
अर्च्यते सुमनोभिश्च नैवेद्यैर्विविधैरपि ।
सेव्यते गृहपत्नीभिः शिशुभिः सेवकैरपि ॥ २५॥
भुक्त्वा यथेष्टं सुष्वाप पादसंवाहनादिभिः ।
वेदापरायणरतः क्वापि गानरतस्तु सः ॥ २६॥
शृणोति सत्कथां क्वापि हरेरपि कथां क्वचित् ।
क्वचिच्च प्रमदानृत्यं पश्यति स्म नृपेण सः ॥ २७॥
आरार्तिक्यैश्च विविधैः क्वापि नीराज्यते विभुः ।
क्वचिच्च पाशहस्तोऽसौ क्रीडते क्षुद्रबालकैः ॥ २८॥
पुराणं वाच्यते क्वापि धर्मशास्त्रं स्मृतिस्तथा ।
एवं सर्वगृहे भुक्त्वा सर्वेषां कामपूरकः ॥ २९॥
यस्य यस्य यथा वाञ्च्छा तथा तां व्यदधाद् विभुः ।
सुप्रसन्नो महादेवो यथाकल्पद्रुमोऽपि च ॥ ३०॥
यथा चिन्तामणिः कामधेनुर्वाऽखिलकामदा ।
दीननाथेति यन्नाम कृतं तत् सार्थकं तदा ॥ ३१॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहे गृहे ।
दृष्ट्वेत्थं काशिराजाऽसौ भ्रान्त ऊचे निजान्प्रति ॥ ३२॥
अयं विनायको बालः सन्निधौ मम तिष्ठति ।
स कथं सर्वगृहगः पूज्यते सर्वमानवैः ॥ ३३॥
गृहे गृहे तु स कथं तिष्ठत्यत्रापि साम्प्रतम् ।
यो मामाकारयति तं वदामि च पुनः पुनः ॥ ३४॥
विना विनायकं यामि कथं भोक्तुं भवद्गृहे ।
गृहमध्यस्थितं चान्नं भुञ्जे काश्यपसंयुतः ॥ ३५॥
तं भुक्तवन्तं त्यक्त्वैव बहिस्थमथ दृष्टवान् ।
इतस्ततोऽब्रुवँल्लोका दृढविस्मितमानसाः ॥ ३६॥
नानागृहगतो भुङ्क्ते काशिराजयुतो विभुः ।
आकर्ण्य वचनं तेषां हसन्नूचे नृपः स तान् ॥ ३७॥
विना मां स कथं यातो भोक्तुं नानागृहानिति ।
ततो गृहाणि द्वित्रीणि गत्वा राजा हि दृष्टवान् ॥ ३८॥
स्वं च कश्यपपुत्रं च भुक्तवन्तं गृहे गृहे ।
एतस्मिन्नन्तरे प्राप्तौ स्नात्वा तौ मुनिसत्तमौ ॥ ३९॥
भुक्त्यर्थं भ्रममाणौ तौ सनकश्च सनन्दनः ।
पुरीं महोत्सवयुतां विनायकमयीं शुभाम् ॥ ४०॥
यद् यद् गृहं प्रविशतस्तत्र तत्र विनायकम् ।
पश्यतः स्मरतस्तौ तु यातः स्म बहिरेव च ॥ ४१॥
भुक्तं च भुक्तवन्तं च सुप्तं क्रीडन्तमेव च ।
जपन्तं च पठन्तं च पाठयन्तं च पश्यतः ॥ ४२॥
एवं सर्वत्र तं दृष्ट्वा परस्परमथोचतुः ।
न स्थलं भोजनार्थाय दृश्यतेऽथात्र निर्मलम् ॥ ४३॥
यावः शुक्लगृहं कर्ता स नानातिथ्यमादरात् ।
इत्युक्त्वा तद्गृहं यातो दृष्टस्तत्रापि काश्यपः ॥ ४४॥
अधोमुखौ क्षुधार्तौ तौ यातः स्म नगराद् बहिः ।
पश्यतः स्म परां मूर्ति स्फुटां वैनायकीं शुभाम् ॥ ४५॥
अन्तर्हृदि च नेत्रे स्वे निमील्योन्मील्य वा पुनः ।
अधश्चोर्ध्वं चान्तराले दिक्षु चैव विदिक्षु च ॥ ४६॥
तस्थतुस्तौ ततः पश्चाद् ध्यानस्तिमितवीक्षणौ ।
क्षणमुद्घाट्य नयने विनायकस्वरूपिणम् ॥ ४७॥
परस्परं पश्यति स्म सनकस्तं परोऽपि तम् ।
यं देवं तौ ध्यायतः स्म पश्यतस्तं विनायकम् ॥ ४८॥
सर्वव्यापी सर्वरूप आविरासित्तयोः पुरः ।
दशबाहुः सिंहगतः सिद्धिबुद्धि विराजितः ॥ ४९॥
सुप्रकाशं किरीटं च कुण्डले चाङ्गदे दधत् ।
दिव्यगन्धं च माल्यं च नागं चन्द्रार्द्धमेव च ॥ ५०॥
कस्तूरीतिलकं दिव्ये वसने दशनप्रभे ।
सौम्यतेजाः सुमनसां दुष्टानां दुर्निरीक्षणः ॥ ५१॥
त्यक्त्वा भ्रमं तु तत्त्वज्ञौ प्रणमेतां विनायकम् ।
बद्ध्वा करपुटं तौ तं तुष्टुवाते महामती ॥ ५२॥
तौ ऊचतुः ।
नित्यमद्वैतमपरं परं ब्रह्मं सनातनम् ।
तमेव परया भक्त्या पञ्चभूतात्मकं विभुम् ॥ ५३॥
चराचरगतं सर्वरूपिणं परमेश्वरम् ।
भ्रमन्ति यस्य रोमान्चगता ब्रह्माण्डकोटयः ॥ ५४॥
स कथं स्तवनीयोऽसौ वेदान्तानामगोचरः ।
आवयोर्वाञ्छितं देव त्वया ज्ञात्वा प्रपूरितम् ॥ ५५॥
न विद्मो महिमानं ते बालरूपधरस्य ह ।
भूभारहरणार्थाय काश्यपं रूपमुत्तमम् ॥ ५६॥
क उवाच ।
अन्तर्दधे तु तद्रुपमुभयोः स्तुवतोः पुरः ।
न पश्यतो यदा रूपं तदा तौ श्रमवर्जितौ ॥ ५७॥
प्रासादं परमं कृत्वा मूर्तिं वैनायकीं शुभाम् ।
ब्रह्मवादित्रघोषैश्च यथा दृष्टं शुभे दिने ॥ ५८॥
स्थापयामासतुर्नाम वररदोऽयं विनायकः ।
गणेशतीर्थमिति च तत्र यत् सर उत्तमम् ॥ ५९॥
स्थापितं नाम तस्यापि तत्र तत् ख्यातिमागमत् ।
अत्र स्नानेन दानेन गणेश पूजनेन च ॥ ६०॥
सर्वान् कामानवाप्नोति हित्वा पापं पुरातनम् ।
तत्रेयुर्मुनयः सर्वे देवाश्च सदिगीश्वराः ॥ ६१॥
दृष्ट्वा सम्पूजितं देवं स्तुत्वा नत्वा ययुः पुनः ।
मुनिरुवाच ।
एवं तौ बालरूपस्य प्रभावं द्रष्टुमागतौ ॥ ६२॥
दृष्टप्रभावौ सन्तुष्टौ स्वस्थानमापतुः परम् ।
य इदं शृणुयाद्भक्त्या बालस्य चरितं शुभम् ॥ ६३॥
सर्वान्कामानवाप्नोति प्रेत्यं ब्रह्ममयो भवेत् ।
न बालग्रहपीडा स्यात् सर्वत्र विजयी भवेत् ॥ ६४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते सनकसनन्दनस्तुतिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४॥
आदितः श्लोकानां समष्ट्यङ्काः - ६४७२ + ६४ =६५३६
२.०५५ दूतमोचनं नाम पञ्चपञ्चाशत्तमोऽध्यायः
मुनिरुवाच ।
तयोस्तु गतयोः पश्चान्मोहापन्नो महानृपः ।
काशिराजो हयारूढो भ्रमति स्म गृहे गृहे ॥ १॥
विनायकमचक्षाणः क्व गतो भोक्त्युमित्युत ।
विहाय मां कथं यातो मिष्ठान्नं भोक्तुमेकशः ॥ २॥
गृहे गृहे पर्यपृच्छत् क्व गतोऽसौ विनायकः ।
इदानीं बहिरायातो भुक्त्वा क्रीडितुमुत्सुकः ॥ ३॥
काशिराजेन सहितो वृथा त्वं पृच्छसे कथम् ।
एवं निराकृतः सर्वेः पुरवासिजनैरसौ ॥ ४॥
परमं श्रममापन्नो कुटुम्ब्यकिञ्चनो यथा ।
केचिदूचुः शुक्लगृहे क्रीडतेऽसौ विनायकः ॥ ५॥
ततो हर्षयुतः शुक्लगृहं यातो नृपस्तदा ।
ददर्श चाङ्गणे तस्य बालं वृषगतं विभुम् ॥ ६॥
दृष्ट्वा तं वृषभारूढं त्रिनेत्रमिव चापरम् ।
प्रणम्य परया भक्त्या बद्धाञ्जलिपुटोऽब्रवीत् ॥ ७॥
नृप उवाच ।
न बाले साधुचरितं न ज्ञानं स्नेह एव च ।
विहाय मां कथं भुक्तं मिष्टान्नं विविधं त्वया ॥ ८॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यमुवाच स विनायकः ।
यत्र यत्र मया भुक्तं तत्र भुक्तं त्वयाऽपि च ॥ ९॥
मिथ्या त्वं भाषसे मन्द बालस्त्वमसि बुद्धितः ।
वदिष्यन्ति जनाः सर्वे पृच्छेति च ससाक्षिकम् ॥ १०॥
श्रुत्वा वैनायकं वाक्यं जना ऊचुर्नुपं तदा ।
इदानीं हि त्वया भुक्तं विनायकसमीपतः ॥ ११॥
कथं मिथ्या भाषसे त्वं वृद्धः सन्नृपसत्तम ।
ततः प्रकृतिमापन्नो ज्ञातवान्स नृपोऽब्रवीत् ॥ १२॥
अज्ञेया ते परा माया योगिनामपि मोहिनी ।
धन्योऽसि सर्वरूपेण सर्वत्र मानितो यतः ॥ १३॥
क उवाच ।
रोमाञ्चाञ्चितगात्रः स ध्यानमेवान्वपद्यत ।
ततो वैनायकं रूपं स्वयमेवान्वपद्यत ॥ १४॥
यथा जले जलं क्षिप्तं जलत्वं प्रतिपद्यते ।
पुनर्मायाबलेनासौ भिन्नमूर्तिर्नृपोत्तमः ॥ १५॥
स तु तं शिबिकारूढं निनाय निजमन्दिरम् ।
नानावादित्रनिर्घोषैर्नृत्यैर्गीतैरनेकशः ॥ १६॥
शुशुभे बालकोऽतीव देवेषु मदनो यथा ।
अनुयाति सपत्नीको भक्त्या शुक्लः शनैः शनैः ॥ १७॥
परावर्त्य मुखं दृष्टो बालेन व्रीडता भृशम् ।
कथं प्रयातोऽदत्त्वाऽस्मैःवरं कं च न तोषकम् ॥ १८॥
इत्येवं मनसा तस्मै ददौ सम्पत्तिमुत्तमाम् ।
कुबेरसम्पदः श्रेष्ठां सर्वाश्चर्यकरीं विभुः ॥ १९॥
शुक्लः परावृतो दीनः सपत्नीको महामनाः ।
कदन्नभक्षणाद् देवो रुष्टः किन्त्विति चिन्तयन् ॥ २०॥
नापश्यत् तां पर्णकुटीं चिन्तां परमिकां ययौ ।
ततस्तु सेवकाः शुक्लं सुगन्धतैलमर्दनैः ॥ २१॥
स्नापयित्वाऽप्यलञ्चक्रुर्भूषणैः काञ्चनाशुकैः ।
तथैव तस्य पत्नीं च बलादिव नियोजिताः ॥ २२॥
अत्याश्चर्ययुतौ चोभौ पश्यतः सर्वसम्पदः ।
रत्नकाञ्चनभित्तीश्च मञ्चान् नानासनानि च ॥ २३॥
मुक्तामणिगणैश्चित्राण्यनेकानि स्थले स्थले ।
काञ्चनानि च भाण्डानि वस्त्राण्याच्छादनानि च ॥ २४॥
भक्ष्याण्यनेकरूपाणि खाद्यानि विविधानि च ।
दृष्ट्वेत्थं सकलं चौभौ परस्परमभाषताम् ॥ २५॥
किमिदं भवनं क्षुद्रं जातमिन्द्रगृहोपमम् ।
ततः शुक्लोऽब्रवीत् पत्नीं विनायकप्रसादतः ॥ २६॥
सर्वं जानीहि सुभगे न समक्षं महाविभुः ।
ददाति तु पराक्षेऽसौ अल्पमात्रेण तोषयन् ॥ २७॥
स्वयं दत्तं बहुतरमल्पमेव हि मन्यते ।
भक्त्योपपादितं स्वल्पं मन्यते बहुलं विभुः ॥ २८॥
तस्माद् भयेन कामेन स्नेहेन रिपुभावतः ।
स्मर्तव्यो नमनीयश्च स्तव्यः पूज्यो हिताय च ॥ २९॥
मुनिरुवाच ।
ततस्तु नगरे गुप्तौ नरान्तकसमीरितौ ।
आस्तां दूतौ चिरं कालं शूरश्च चपलस्तथा ॥ ३०॥
यच्चण्डशब्दात् त्रैलोक्यं कम्पतेऽश्वत्थपत्रवत् ।
यच्छिरःकम्पतः कम्पं यान्ति देवाः सवासवाः ॥ ३१॥
पराक्रमे बले शब्दे त्रैलोक्ये न समस्तयोः ।
अयं तु शिबिकामध्ये हन्तव्यो मुनिदेहजः ॥ ३२॥
यतोऽनेन हता दैत्या बलिनः पूर्वमागताः ।
तेषां प्रतिकृतिः कार्येत्येवमूचुः परस्परम् ॥ ३३॥
विद्युद्रूपं समास्थाय गर्जतः स्म महारवौ ।
तत्तेजसा प्रतिहतचक्षुषा वीरसञ्चयाः ।
किमिदं किमिदमिति चुक्रुशुर्भृशविव्हलाः ॥ ३४॥
एतस्मिन्नन्तरे प्राप्तौ शिबिकानिकटं तु तौ ।
वाहाः पलायिताः सर्वे त्यक्त्वा तं च विनायकम् ॥ ३५॥
धृतौ विनायकेनोभौ हस्ताभ्यां बलिनौ बलात् ।
उत्पाटितुं धरण्यां स भ्रामयामास तावुभौ ॥ ३६॥
करुर्णाद्रमनाः पश्चात् स्थापयामास भूतले ।
हन्तव्यः पुरुषेणासौ यः पराक्रमतोऽधिकः ॥ ३७॥
मशके निहते कः स्यात् पुमर्थः पुरुषस्य ह ।
ततः पप्रच्छ तौ कस्य दूतौ वा कथ्यतामिति ॥ ३८॥
स्वशक्त्या तु कृते यत्ने न दोषः पुरुषस्य ह ।
एवं तद्वचनं श्रुत्वा प्रोचतुः पुरतः स्थितौ ॥ ३९॥
करुणाब्धिर्भवान्ख्यातो दिननाथः पिताऽसि नः ।
सेककृच्चोपनेता च विद्यादोऽभयदोऽपरः ॥ ४०॥
अन्नदः पञ्च पितरो विख्याता भुवनत्रये ।
आवां दूतौ गुप्तरूपौ नरान्तकसमीरितौ ॥ ४१॥
तव विघ्नकरौ देव रक्षितौ कृपया त्वया ।
भूतं भव्यं भवच्चैव सर्वं जानासि सर्ववित् ॥ ४२॥
ये ये वैरेण त्वां याता हतास्ते क्षणमात्रतः ।
एतस्मिन्नन्तरे पौरा विनायकमथाब्रुवन् ॥ ४३॥
किमेतौ रक्षितौ देव दुष्टौ लोकभयङ्करौ ।
अनयोरुपकारस्तु कृतोऽपकृतये भवेत् ॥ ४४॥
पन्नगाय पयो दत्तं विषमेव हि जायते ।
मुनिरुवाच ।
तानुवाच ततो देवः पूर्वमेवानयोर्मया ॥ ४५॥
अभयं दत्तमधुना विपरीतं कथं भवेत् ।
इत्युक्त्वाऽमोचयत् तौ स ततो राजाऽब्रवीत् पुनः ॥ ४६॥
अपराधानसङ्ख्यातान् क्षान्त्वा तौ मोचितौ रिपू ।
मरणे जीवने जन्तोरिच्छा ते कारणं मता ॥ ४७॥
इत्युक्त्वा मन्दिरं प्राप्तौ काशिराजविनायकौ ।
नत्वा तौ सर्वलोकाश्च स्वं स्वं भवनमागमन् ॥ ४८॥
प्रशंसन्तो नृपं नानारूपिणं च विनायकम् ॥ ४९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे दूतमोचनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
आदितः श्लोकानां समष्ट्यङ्काः - ६५३६ + ४९ = ६५८५
२.०५६ नरान्तकनिर्गमनं नाम षट्पञ्चाशत्तमोऽध्यायः
मुनिरुवाज ।
तौ तु रौद्रपुरे रम्यां नरान्तकसभां गतौ ।
सहस्रस्तम्भरुचिरां मणिमुक्ताविभूषिताम् ॥ १॥
अनेकवीरसम्बधां नानाश्चर्यवतीं शुभाम् ।
शतयोजनविस्तीर्णां तावदायामसंयुताम् ॥ २॥
नानामणिमये रम्ये आसने स नरान्तकः ।
उपविष्टस्तत्समये तस्यामात्यौ वरासने ॥ ३॥
उभौ गगनसंलेहिमूर्द्धानौ बलिनां वरौ ।
नत्वा तौ वदतः शूरश्चपलश्च गुणान्बहून ॥ ४॥
वक्तव्यं दूतवर्येण यत्स्यात्साध्वितरच्च यत् ।
अन्यथा दूतदोषः स्यात् स्वमिकोपश्च दारुणः ॥ ५॥
श्रुत्वा तत्स्वामिना कार्यं विचार्य स्वहितं शुभम् ।
आवां विनायके विघ्नान् कर्तुं यातः पुरीं तु ताम् ॥ ६॥
अतिगुप्ततरौ तत्र स्थितौ बालप्रतीक्षकौ ।
विघण्टो दन्तुरश्चाथ प्रथमं बालरूपिणौ ॥ ७॥
ताभ्यामालिङ्गतस्तौ स भस्म चक्रे विनायकः ।
पतङ्गश्च विधूलश्च वायुरूपधरौ ततः ॥ ८॥
यातौ बालकमुत्क्षेप्तुं शिर आक्रम्य नाशितौ ।
पाषाणरूपी प्रबलः शतधा खण्डितोऽसुरः ॥ ९॥
कामक्रोधौ द्वावसुरौ रासभं रूपमास्थितौ ।
हन्तु बालं तु मार्गे तो चूणितौ धरणीतले ॥ १०॥
ततः कुण्डियास्तुवरः कौन्जरं रूपमास्थितः ।
मार्गमावृत्य सन्तस्थौ तत्कुम्भस्य विदारणात् ॥ ११॥
निहतः क्षणमात्रेण कुमारेण बलेन सः ।
धर्मदत्तगृहं पश्चाद् जृम्भिणी हन्तुमागता ॥ १२॥
नारिकेलेन शिरसि हता मृत्युमवाप सा ।
ज्वालासुरो व्याघ्रतुण्डस्तृतीयस्तु विदारणः ॥ १३॥
आगता नाशितुं बालमाद्यो जज्वाल तां पुरीम् ।
अन्त्यः साहाय्यमकरोद् वायुरूपतयाऽस्य ह ॥ १४॥
विदार्यास्यं व्याघ्रतुण्डोऽभक्षयच्चाखिलान् जनान् ।
त्रयोऽपि निहतास्तेन बालेनाऽनन्तमायया ॥ १५॥
मेघनामा महादैत्यो गाणकं रूपमास्थितः ।
निहतो मुद्रिकाघातात् तदद्भुतमिवाभवत् ॥ १६॥
कूपश्च कन्दरश्चोभौ निहतौ मायिनौ बलात् ।
अम्भासुरोऽन्धकस्तुङ्गो नाशितुं बालमागताः ॥ १७॥
एकेनाकारि तु तमो धाराभिर्ववृषे परः ।
अपरस्तुङ्गशिखरो न्यपतद्बालकोपरि ॥ १८॥
महाविहङ्गरूपेण दूरे क्षिप्तात्रयोऽपि च ।
तेषां प्रतिकृतिं कर्तुं भ्रमरा नाम राक्षसी ॥ १९॥
आगता भक्षितुं बालं दुष्टाशयवती शुभा ।
तदुरःस्थलमाक्रम्य प्राणान् जग्राह विघ्नराट् ॥ २०॥
तत आवां तडिद्रूपमास्थाय बालकं गतौ ।
विहन्तुं तेन विधृतौ करयोर्बलशालिना ॥ २१॥
कृपावता विमुक्तौ च पृष्ट्वा सर्व चिकीर्षितम् ।
कथयित्वोदन्तममुमागतौ स्वामिनं प्रति ॥ २२॥
एकदा नगरे तत्र सर्वैरेकः समाहृतः ।
भोजनाय च शुक्लेन दरिद्रेण विनायकः ॥ २३॥
विशीर्णमोदनं भुक्त्वा सह तैलेन प्राग्विभुः ।
पश्वाद् गतोऽनन्तकायो भोक्तुं सर्वगृहेष सः ॥ २४॥
सर्वत्र काशिराजेन सहितो बुभुजे हि सः ।
काशिराजेन मूढेन न ज्ञातं तद्विचेष्टितम् ॥ २५॥
स्वामिन्नेतादृशी शक्तिः क्वापि दृष्टा न च श्रुता ।
इदानीं यद्धितं ते स्यात् तद्धि सम्यग्विधीयताम् ॥ २६॥
जानीवहे न जेताऽस्य त्रैलोक्ये विद्यते पुमान् ।
मुनिरुवाच ।
इत्थं श्रुत्वा तयोर्वाक्यं प्रजज्वाल सुरान्तकः ।
वमति स्म मुखादग्निं विश्वमत्तुं प्रसारितात् ॥ २७॥
कपिरुड्डानशीलोऽपि न सिंहं बाधते क्वचित् ।
बद्ध्वा तु भ्रुकुटीमुग्रामुवाच स नरान्तकः ॥ २८॥
ग्रासशीलश्चाजगरो न महीं ग्रसते क्वचित् ।
आश्चर्यं ममचित्ते तु भवद्वाक्यादुपागतम् ॥ २९॥
खद्योतो राजते तावद्यावच्चन्द्रो न दृश्यते ।
चन्द्रोऽपि राजते तावद् यावत्सूर्यो न दृश्यते ॥ ३०॥
न दृश्यते यदा राहुस्तावत् सूर्योऽपि राजते ।
न दृष्टः कालरूपोऽहं तावद् बालो महानयम् ॥ ३१॥
सकाशिराजं तं बालं जानीयातां दिवं गतम् ।
यत्र ते निहता दैत्या गतास्तत्र गमिष्यति ॥ ३२॥
मुनिरुवाच ।
एवमुक्त्वा समुत्तस्थौ जगर्ज गर्जयन् दिशः ।
च कम्पे पृथिवी सर्वा तद्गर्जनरवाकुला ॥ ३३॥
तत आज्ञापयत् सर्वान्वीरान् सज्जीभवन्त्विति ।
काशिराजस्य नगरीं यामि युद्धाय दंशितः ॥ ३४॥
तस्मिन्वदति सेनेत्थं सन्नद्धा समुपागता ।
सर्वशान्तिकरा घोरा चतुरङ्गध्वजान्विता ॥ ३५॥
सैन्येन रजसा सर्वं व्याप्तमासीद् दिगन्तरम् ।
आच्छादिते दिनकरे न प्राज्ञायत किञ्चन ॥ ३६॥
पदातयोऽप्यसङ्ख्येयाः सिन्दूरारुणमस्तकाः ।
उड्डीयोड्डीय धावन्तो मिथ्यायुद्धं प्रचक्रिरे ॥ ३७॥
मुक्तकेशाः खड्गहस्ता भृशुण्डीचर्मपाणयः ।
पाषाणद्रुमखट्वाग्ङशक्तिपाशकराः परे ॥ ३८॥
ततो ययौ गजानीकं घण्टानादविभूषितम् ।
सिन्दूरारुणसद्गण्डं दन्तावरणराजितम् ॥ ३९॥
नानाधातुविचित्रो नु पर्वतानां व्रजो व्रजन् ।
चीत्कारेण नदद्दन्तैर्भिदन्निव गिरिव्रजम् ॥ ४०॥
आधोरणा यदा न स्युस्तदा सर्वं हतं भवेत् ।
दानोदकेन तु रजः प्रशान्तमभवत् तदा ॥ ४१॥
अश्वारोहास्तयोर्जग्मुर्मुकुटाटोपमस्तकाः ।
शस्त्रिकाचर्मनिस्त्रिंशधनुर्बाणविभूषिताः ॥ ४२॥
बृंहितैर्हेषितैर्व्योम कुर्वन्तः सगुणं भृशम् ।
कङ्कालैश्च तनुत्राणैस्त्रिशूलैश्च विराजिताः ॥ ४३॥
गदामुद्गरपट्टीशमहापरशुपाणयः ।
चक्रतोमरभल्लासिपाशसृणिकराः परे ॥ ४४॥
अश्वा अलङ्कृता नानालङ्कारैश्चामरैरपि ।
मनोजवा वायुवेगा व्योमैवाक्रान्तुमिच्छवः ॥ ४५॥
ततः सुवर्णरजतमुक्तामणिविभूषितम् ।
सुवर्णाक्षैर्ध्वजैर्युक्तं नानालङ्कृतवाजिभिः ॥ ४६॥
नानायुद्धसमूहैश्च धनुर्बाणशतैर्युतम् ।
कार्तस्वरमहाचक्रं किङ्किणीजालमण्डितम् ॥ ४७॥
महारथी महामात्यो रथमास्थाय निर्ययौ ।
कृष्णदेहो महाकायो वीरकङ्कणशोभितः ॥ ४८॥
लसत्कुण्डलसुश्रोत्रो महामुकुटमण्डितः ।
मुक्तासुवर्णमालाढ्यो मुद्रिकाखड्गमण्डितः ॥ ४९॥
केशरागरुकस्तूरीकर्पूराङ्गविलेपनः ।
शुचिरस्राणि सस्मार न प्रयुक्तानि कुत्रचित् ॥ ५०॥
वीरावेशेन स बभौ रोगी शोफां गतो यथा ।
नानावादित्रनिर्घोषैर्नादयन् विदिशो दिशः ॥ ५१॥
वीरा विनायकं जेतुं हृष्टा गर्जन्त्यनेकशः ।
बृंहितैर्हषितैःक्ष्वेडै रथनेमिस्वनैरपि ॥ ५२॥
निनादं तं समाकर्ण्य त्रस्ता देवा दरीं ययुः ।
एवं नरान्तकः काशीराजस्य नगरीं ययौ ॥ ५३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे नरान्तकनिर्गमनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६॥
आदितः श्लोकानां समष्ट्यङ्काः - ६५८५ + ५३ = ६६३८
२.०५७ राजनिग्रहनाम सप्तपञ्चाशत्तमोऽध्यायः
क उवाच ।
तस्मिन्प्रयाते दैत्येन्द्रे प्राग्गुल्मेषु गता नराः ।
धावमाना नृपं प्रोचुर्भुक्तवन्तं नरान्तकः ॥ १॥
आगतो दैत्यराजोऽसौ चतुरङ्गबलान्वितः ।
पौरा वादित्रनिर्घोषान् श्रुत्वा चक्रुर्महास्वनान् ॥ २॥
कोलाहलो महानासील्लोकानां नगरे भृशम् ।
पलायिता दश दिशो लोकाः प्राणपरीप्सया ॥ ३॥
राजाऽथ भोजनं त्यक्त्वा प्रोत्तस्थौ स्पर्शवानिव ।
कृत्वा युद्धक्षमं वेषं लोकानाज्ञापयत्पुरा ॥ ४॥
सज्जीभवन्तु युद्धाय भेरीशब्दमकारयत् ।
खङ्गचर्मधरो राजा निषङ्गी चापवान्बली ॥ ५॥
तनुत्राणी च कङ्काली पुपूजे तं विनायकम् ।
जयपूर्वं च तं स्मृत्वा नत्वा चाश्वं समारुहत् ॥ ६॥
तृतीयमानकारावं श्रुत्वा सेनाचरा ययुः ।
सन्नद्धास्त्वरमाणाश्च पत्त्यश्वस्यन्दनैर्गजैः ॥ ७॥
अतिप्रहृष्टास्ते योधास्त्रैलोक्यग्राससाहसाः ।
नगर्याः पूर्वभागे स वेदिकायां स्थितो नृपः ॥ ८॥
अमात्यान् सर्ववीरांश्च ददौ वस्त्रधनानि सः ।
उवाच समयोऽयं वो दर्शयन्तु पराक्रमम् ॥ ९॥
विनायकानुग्रहान्नो न भयं विद्यते कचित् ।
तथापि बलवान् दैत्यो बलाज्जिग्ये वसुन्धराम् ॥ १०॥
जयस्य नियमो नास्ति दैवाधीनाश्च पूरुषाः ।
न सेना लक्षभागेन विद्यतेऽतोऽब्रवीम्यहम् ॥ ११॥
क्व सागरः क्व कुम्भोदं क्व खद्योतः क्व वा रविः ।
तेनैव रक्षिताः साम्ना स्थिता राज्यश्रिया वयम् ॥ १२॥
अपराधाः सुबहवो जाता नो मस्तके ततः ।
कियन्तो निहता दैत्या विनायकबलेन च ॥ १३॥
त्यक्त्वा साम प्रयातोऽसौ विचारः क्रियतां हितः ।
मुनिरुवाच ।
तत्राब्रवीन्महामात्यो राजानं भयविव्हलम् ॥ १४॥
चतुर्भिर्बुद्धिमद्भिस्त्वं याहि दैत्यं नरान्तकम् ।
शरणं स्वस्वकार्यार्थे नीचानुशरणं शुभम् ॥ १५॥
बृहस्पतिमतं राजन् ब्रवीमि ते शृणुष्व तत् ।
श्रुत्वा तत्कुरू राजेन्द्र ततः क्षेमं भविष्यति ॥ १६॥
बृहस्पतिरुवाच ।
कन्याप्रदानसहभोजनवस्त्रदान-सामाभिधाननमनप्रणयप्रमाणैः ।
तत्कीर्तिकीर्तनतदाप्तजनानुवाद-मुख्यैरुपायनिचयैरहितान्विहंस्यात् ॥ १७॥
मुनिरुवाच ।
स चेद् विनायकं याचेद् दत्त्वा राज्यस्य रक्षणम् ।
कर्तव्यमिति मे भाति स्वहितं तद्विचिन्त्यताम् ॥ १८॥
ततः सर्वजनाः साधु साध्विति प्राब्रुवन्नृपम् ।
सम्यगुक्तममात्येन वैरच्छेदाय भो नृप ॥ १९॥
विचारयत्सु तेष्येवं दैत्यास्ते बलवत्तराः ।
रुरुधुस्तां पुरीं सैन्यै सर्वे ते शलभा इव ॥ २०॥
मध्ये गतान् नरान् दृष्ट्वा ददहुस्तां पुरीं खलाः ।
प्रजज्वाल महानग्निश्चतुर्दिक्षु विदिक्षु च ॥ २१॥
धूमेनाच्छादि तपनो न प्राज्ञायत किञ्चन ।
कल्पान्त इव तत्रासील्लोकानामतिदारुणः ॥ २२॥
ध्रीयन्ते ते परैर्येऽग्निभयाद् यान्ति बहिर्नराः ।
सबाला योषितश्चापि लिलिङ्गुश्च चुचुम्बिरे ॥ २३॥
पतिव्रतास्त्यजुः प्राणान् लज्जयाऽतिपरिप्लुताः ।
आरुह्य गोपुरं काश्चिद्देहत्यागं प्रचक्रिरे ॥ २४॥
अपरास्तत्यजुः प्राणान् शस्त्रैः पाशैर्विषैरपि ।
अतिरन्या धृता दूतैर्नीतास्ता स्वामिनं प्रति ॥ २५॥
नरान्तकेन भुक्त्वा ताः प्रेषिता नगरं स्वयम् ।
एवं तं प्रलयं दृष्ट्वाऽमात्यानूचे नृपः पुनः ॥ २६॥
अस्मत्समक्षं योषाश्चेन्नीता दुष्टैर्दुरात्मभिः ।
तदाऽयशो महन्नःस्यात्तस्माद्युध्यामहेऽसुरैः ॥ २७॥
एवमुक्त्वा स्वमश्वं स प्रेरयन्युद्धदुर्मदः ।
सज्जं कृत्वा धनुः सद्यो बाणवृष्टिमथाकरोत् ॥ २८॥
आच्छादितो रश्मिमाली दैत्या मोहमुपागमन् ।
धाराधरा यथा धारा विमुञ्चन्ति तथा धनुः ॥ २९॥
मुञ्चन्ति स्म शरैस्ते ते निहता दैत्य सञ्चयाः ।
केचिन्मृताश्च भग्नाश्च केचिन्निश्चरणाः कृताः ॥ ३०॥
केषाञ्चिदुदरं भग्नं परेषां बाहवो हताः ।
केषाञ्चि त्स्फोटिते नेत्रे केषाञ्चिदुरवोऽपि च ॥ ३१॥
अमात्याः सेनया सार्द्धं काशीराजं समन्वयुः ।
खड्गैः परश्चधैस्ते तान्परवीरान् निजघ्निरे ॥ ३२॥
तदाघातैर्हताः केचित्पतिता भूतले परे ।
तेऽपि दैत्या महाशस्त्रैर्निजघ्नुस्तान् रणाजिरे ॥ ३३॥
अन्धकारे महारौद्रे सेनाधूलिकृते परे ।
निजघ्नुरेव शस्त्रैस्ते वीरान् स्वाँश्च परानपि ॥ ३४॥
मल्लयुद्धं च चक्रुस्ते परस्परजिगीषया ।
अश्वारुढैर्गजारूढै रथारूढैः पदातिभिः ॥ ३५॥
पदाताश्च रथारूढा युयुधुः शस्त्रसायकैः ।
एवं सम्भ्रान्तमभवत् तद् युद्धं तुमुलं परैः ॥ ३६॥
प्रभग्ना दैत्यसेना सा तदा याता पराङ्गमुखी ।
सिंहनादं चकारोच्चैः काशिराजो जयान्वितः ॥ ३७॥
हर्षात् सेनान्तरं यातो निघ्नन् युद्धे वरान्वरान् ।
भिन्दन्सेनां महाघोरां युद्धावेशी गजो यथा ॥ ३८॥
शतं सहस्रं वीराणां सेनामध्ये जघान सः ।
निघ्नन्तं तं तथा दृष्ट्वा रुरुधुः परसैनिकाः ॥ ३९॥
राजाऽयमिति बुद्ध्वा ते सर्व एव समाययुः ।
तच्छराणां महावृष्टिं सोढ्वा दध्रुर्बलादमुम् ॥ ४०॥
अमात्ययोस्तु पुत्राभ्यां सह ते दैत्यपुङ्गवाः ।
सेनाचरा महाशब्दं धृतो राजेति चक्रिरे ॥ ४१॥
ततः सेनाचरा राज्ञो धृताः केचित्पलायिताः ।
मृताः केचित्क्षताः केचिच्छरणं केऽपि तान्ययुः ॥ ४२॥
महावने महोक्षेव बलवद्भिर्वृकैरिव ।
अमात्यपुत्रसहितं निन्युर्दूता नरान्तकम् ॥ ४३॥
दग्धा च नगरी सर्वा निवार्यैः सैनिकैस्तु सा ।
ततो नरान्तकः स्वीयान् जगाद वीरसत्तमान् ॥ ४४॥
यदर्थमागता वीरास्तत्कार्यं सिद्धमेव नः ।
न मेऽस्ति गणना तस्य मुनिपुत्रस्य साम्प्रतम् ॥ ४५॥
जिते प्रभौ जिता सेना जिते दुर्गे जितं पुरम् ।
काशिराजे जिते बालो जित एव न संशयः ॥ ४६॥
अथानेष्यति राजाऽयं बालं निग्रहतोऽधुना ।
एवमुक्त्वा ययौ वाद्यनिर्घोषैः स तथा पुरीम् ॥ ४७॥
काशिराजं पुरस्कृत्य स्तूयमानोऽथ बन्दिभिः ।
यच्छन् वस्तूनि बन्दिभ्यो ददौ विप्रेभ्य एव च ॥ ४८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे राजनिग्रहनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७॥
आदितः श्लोकानां समष्ट्यङ्काः - ६६३८ + ४८ = ६६८६
२.०५८ नरान्तकनिग्रहो नामाष्टपञ्चाशत्तमोऽध्यायः
क उवाच ।
अर्धमार्गं गतो यावद्धर्षेणाऽसौ नरान्तकः ।
तावदेव श्रुतं काशीराजपत्न्या धृतो नृपः ॥ १॥
अत्यन्तं सा शुशोचाथ पौरा ये चावशेषिताः ।
आक्रन्दः सुमहानासीन्मत्स्यानां निर्जले यथा ॥ २॥
अम्बा सा पतिता भूमौ धृते भर्तरि वैरिभिः ।
मूर्छिता च विवर्णाऽभूद् रम्भा वातहता यथा ॥ ३॥
सखीभिः सहिताऽरोदीद् रुदती प्राब्रवीत् तदा ।
अम्बोवाच ।
सिंहखेलो गजानीकहन्ता यो रिपुमर्दनः ॥ ४॥
शृगालतुल्यदैत्येन स कथं विधृतो बलात् ।
क्व गतं मत्तमातङ्गसहस्रम्बलशालिनः ॥ ५॥
बलं भर्तुर्मदीयस्य दैत्यकोटिहरस्य ह ।
कथं रुष्टो महेशो मे कदा द्रक्ष्ये निजं पतिम् ॥ ६॥
कं देवं शरणं यामि यस्तं शीघ्रं विमोचयेत् ।
कश्यपस्यास्य बालस्य वरायुद्धं कृतं वरम् ॥ ७॥
तद्धि सर्वं वृथा जातं राज्ञि मूढत्वमागतम् ।
यो बालवचनाच्छ्रेष्ठैर्विरोधं कृतवान् वृथा ॥ ८॥
को जयेत् तं महादैत्यं भर्तृग्राहं नरान्तकम् ।
विना सर्वैः कथं कल्पकालः प्राप्तो हताशया ॥ ९॥
अहं च धरणी चापि कथं वैधव्यमागता ।
न तादृशः क्वापि जातो करुणाब्धिः शरण्यदः ॥ १०॥
मुनिरुवाच ।
एवं तच्छोकमाकर्ण्य कश्यपस्यात्मजो बली ।
शब्देन महताऽगर्जद् ब्रह्माण्डस्फोटकारिणा ॥ ११॥
प्रतिशब्देन गगनं जगर्ज च दिशोऽपि च ।
चकम्पे धरणी सर्वा सपर्वतवनाकरा ॥ १२॥
पक्षिणः पतितास्तेन मृता भ्रान्ता जनास्तदा ।
ततः सिद्धिं समालोक्य क्रोधव्याकुललोचनः ॥ १३॥
क्व गताऽसि महायुद्धप्रसङ्गं प्राह तामिति ।
सा तदाशयमालक्ष्य चक्रे नानाविधां चमूम् ॥ १४॥
विकरालमुखा वीराः प्रादुरासन्सहस्रशः ।
हलदन्ताः सर्पजिह्वा नराः पर्वतमस्तकाः ॥ १५॥
दारितास्यास्तु भूगोलमकस्माद् ग्रसयिष्णवः ।
आस्यानलं विमुञ्चन्तः शतनेत्रा महाबलाः ॥ १६॥
येषां नासारन्ध्रगता न दृश्यन्ते महागजाः ।
सूर्याचन्द्रामसौ येषां श्वासान्निपतितौ भुवि ॥ १७॥
जटाभिः पृथिवी येषां सर्वा सम्मार्ज्यते भृशम् ।
सहस्रयोजनहस्ता द्विगुणाश्च तदङ्घ्रयः ॥ १८॥
तेषां तु नायकः क्रूरो विनायकसमीपतः ।
आगतः परिपप्रच्छ किं कार्यं वद मे प्रभो ॥ १९॥
देहि मे क्षुधितस्यादौ भक्ष्यं तृप्तिकरं प्रभो ।
इत्युक्तवन्तं पुरुषमुवाच स विनायकः ॥ २०॥
भक्षयस्व महासेनां नरान्तकसुपालिताम् ।
हत्वा तु तच्छिरो मह्यमानयस्व त्वरान्वितः ॥ २१॥
तत्सैन्येन न तृप्तिश्चेद् दास्ये भक्ष्यान्तरं तव ।
एवमाज्ञामनुप्राप्य नत्वा तं कश्यपात्मजम् ॥ २२॥
महाक्ष्वेडितशब्दं तु कृत्वा यातो नरान्तकम् ।
तस्य क्ष्वेडितशब्दस्य नादृग्रूपेण सैनिकाः ॥ २३॥
नरान्तकोऽपि भीतास्ते दुद्रुवुस्ते दिशो दश ।
हस्ते धृत्वा तु तान्सर्वान्मुखमध्ये समाक्षिपत् ॥ २४॥
उद्दुधूल रजो भौमं न प्राज्ञायत किञ्चन ।
अन्धकारे महाघोरे दीपिकाभिर्व्यलोकयन् ॥ २५॥
तं दृष्ट्वा पुरुषं घोरं कचित्प्राणान्प्रजह्रिरे ।
तांश्चापि जीवतः सर्वां स्त्वरया भक्षयत्यसौ ॥ २६॥
नरान्तकस्तु दृष्ट्वैवं सर्वसैन्याविनाशनम् ।
अतर्कयत्स्वमनसा कृतान्तस्यान्तकोऽपरः ॥ २७॥
आगतः किं मया कार्यं दृश्यते बलवानयम् ।
एवं वदन् ददर्शाऽथ सेनामर्द्धां तु भक्षिताम् ॥ २८॥
प्रलयानलवच्चायं पृतनां हरते बलात् ।
निःशेषामेव कर्ताऽमुमगस्त्य इव वारिधिम् ॥ २९॥
दैत्यसेनाचराः सर्व महाशब्दान्प्रचक्रिरे ।
केचिच्च भक्षितास्तेन चूर्णिताः पादघाततः ॥ ३०॥
श्वासानिलाहताः केचित्केचिद् भीत्यैव मम्रिरे ।
परस्परोपरि तदा वीरा निपतिताः परे ॥ ३१॥
याहि याहीहि वस्त्रातुं चुक्रुशुस्तं नरान्तकम् ।
कराघातेन निहतान्भक्षयत्येष तत्क्षणात् ॥ ३२॥
असङ्ख्यभक्षणादस्य न शान्तो जठरानलः ।
अश्वारोहा गजारोहाः पदाता रथसादिनः ॥ ३३॥
भक्षिता निहता वाहा गजाश्चानेकशो मुने ।
एवं कोलाहलं श्रुत्वा सज्जं कृत्वा धनुर्बलात् ॥ ३४॥
धरण्यां जानुनी स्थाप्य शरानुभयतस्तथा ।
आदाय धनुराकृष्य शरवृष्टिं तदाऽकरोत् ॥ ३५॥
ततोऽन्धकारमभवच्छरवृष्टिकृतं पुनः ।
पक्षिणः पतिता भूमौ राज्ञो भृत्या अनेकशः ॥ ३६॥
स गीलयति पुरुषो बाणान् दैत्यसमीरितान् ।
असङ्ख्याताः शरास्तस्य रोमकूपेषु निर्गताः ॥ ३७॥
स्रवन्तो रुधिरं सर्वे न जानात्यणु वेदनाम् ।
प्रादुश्चक्रे ततोऽस्राणि पौरुषेण नरान्तकः ॥ ३८॥
तान्यस्राण्यगिलत्सर्वाण्यडान्याजगरी यथा ।
कुण्ठितास्त्रः क्षीणशस्त्रो नष्टसायकसञ्चयः ॥ ३९॥
क्षीणशक्तिः पपालासौ दैत्यराजो नरान्तकः ।
स कालपुरुषस्तस्य पृष्ठ एवालगत्तदा ॥ ४०॥
बभ्राम भूतले दैत्योऽपश्यत्पृष्ठे तु तं यदा ।
तदा स्वर्गं जगामाशु भयात् तस्य नरान्तकः ॥ ४१॥
पुनः पृष्ठे च तं दृष्ट्वा पपात धरणीतले ।
तत्रापि तं ददर्शाथ प्राविशद्धरणीतलम् ॥ ४२॥
स कालपुरुषः केशे ततो दध्रे नरान्तकम् ।
बिलं विशन्तमुरगं गरुडोऽतिबलं यथा ॥ ४३॥
ततो नरान्तकं प्राह पुरुषः स बलान्वितः ।
क्व गमिष्यसि दृष्टः सन् ममाग्रे त्वं नरान्तक ॥ ४४॥
ईश्वरस्य वरान्मत्तो वृथा देवर्षिपीडनम् ।
मनुष्याणां च संहारमनन्तानां महाखल ॥ ४५॥
तव संहरणे दुष्टावतीर्णोऽस्ति विनायकः ।
अहङ्कारं च सकलं त्यक्त्वा तं शरणं व्रज ॥ ४६॥
अघानि ते विनश्यन्ति दृष्ट्वा तत्पादपङ्कजम् ।
इत्युक्त्वा तं बलाद् दैत्यमानिनाय नरान्तकम् ॥ ४७॥
विनायकस्य निकटे दैत्यराजं परं ततः ।
उवाचाथ प्रणम्यासौ स्वामिनं तं विनायकम् ॥ ४८॥
भक्षितं सर्वसैन्यं ते आज्ञां प्राप्य महत्तरम् ।
अत्यन्तं क्लेशितोऽनेन धृत्वैनं त्वां समानयम् ॥ ४९॥
मम निद्रास्थलं यच्छ श्रमापनुत्तये विभो ।
सर्वेषां च सुखायास्य मुक्तिं यच्छ विनायक ॥ ५०॥
एवं तद्वाक्यमाकर्ण्य तं विभुः प्रत्यभाषत ।
मम वक्त्रान्तर्गतस्त्वं निद्रां प्राप्नुहि स्वेच्छया ॥ ५१॥
इत्याकर्ण्य महावाक्यं विनायकमुखोद्गतम् ।
तन्मुखं प्रविवेशाथ तद्रूपं समपद्यत ॥ ५२॥
यथा गन्धो धराजातस्तत्रैव परिलीयते ।
तथा विनायकाज्जातस्तत्रैव लयमाप्तवान् ॥ ५३॥
य इदं शृणुयाद्भक्त्या महादाख्यानमुत्तमम् ।
सर्वान् कामानवाप्याथ मुक्तिं च लभते ध्रुवम् ॥ ५४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे नरान्तकनिग्रहो नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८॥
आदितः श्लोकानां समष्ट्यङ्काः - ६६८६ + ५४ = ६७४०
२.०५९ राजमोक्षणं नामैकोनषष्टितमोऽध्यायः
मुनिरुवाच ।
विनायकेन बालेन कुतः स पुरुषः कृतः ।
येन तद्भक्षितं सैन्यमानीतः स नरान्तकः ॥ १॥
एतन्मे प्रकटं ब्रूहि संशयोऽत्र महान्मम ।
क उवाच ।
यन्निर्गुणं परं ब्रह्म तदेतत् सगुणं बभौ ॥ २॥
विनायकस्वरूपेण ब्रह्मविष्णुशिवात्मकम् ।
भूभारहरणार्थाय दुष्टानां निधनाय च ॥ ३॥
पालनाय स्वधर्मस्य बिभ्रतेऽनन्तरूपताम् ।
स एव सृजते विश्वं पाति हन्ति स्वतेजसा ॥ ४॥
अपेक्षते स लोकानां निमित्तं नियतिं पराम् ।
न चात्र संशयः कार्योऽनेकमायामये विभौ ॥ ५॥
तदिच्छया सर्वमिदं जगद्धि परिवर्तते ।
इदानीं तस्य मायां ते कथयिष्यामि विस्तरात् ॥ ६॥
अमात्यपुत्रसहितो नरान्तकधृतो नृपः ।
यावन्न पत्तनं प्राप तावत्कालं पुमानसौ ॥ ७॥
भक्षयामास तां सेनां दैत्येन परिपालिताम् ।
विनायकेन पुरुषो मुखेऽसौ निहितस्तदा ॥ ८॥
राजामात्यकुमारौ च सोऽपि ते सर्व एव तु ।
जठरे तस्य देवस्य ददृशुः सकलं जगत् ॥ ९॥
सप्तद्वीपवतीं पृथ्वीं पर्वतद्रुमसंयुताम् ।
सरित्सागरवापीभिस्तडागैर्मानवैः श्रिताम् ॥ १०॥
देवगन्धर्वमुनिभिः सिद्धयक्षनिशाचरैः ।
पन्नगैरप्सरोभिश्च शोभितं स्वर्गमण्डलम् ॥ ११॥
पातालानि च सप्तानि भ्रमन्तो ददृशुस्तदा ।
एवं ते जठरे तस्य कोष्ठे कोष्ठे पृथक्पृथक् ॥ १२॥
ददृशुर्भ्रान्तमनसो ब्रह्माण्डनिचयान्बहून् ।
खिन्नास्ते शरणं जग्मुर्देवदेवं विनायकम् ॥ १३॥
मनसा प्रार्थयामासुस्तदा देवं विनायकम् ।
भ्रान्तानां खिन्नचित्तानां कृपां कुरू कृपानिधे ॥ १४॥
ततस्तान्बालरूपेण मार्गमादर्शयद्विभुः ।
ततो रोमाञ्चमार्गेण बहिर्याता यथा पुरा ॥ १५॥
ददर्श काशिराजः स्वं नगरं भद्रमेव च ।
कश्यपस्यात्मजं बालं क्रीडन्तं तं विनायकम् ॥ १६॥
तत्प्रसादादाप्तबुद्धिर्नुनाव परया मुदा ।
ज्ञाता ते परमा माया मया कुक्षिगतेन च ॥ १७॥
त्वमेव कर्ता देवानां मनुष्याणां दिशामपि ।
सर्गाणां सागराणां च सरितां बलिसद्मनाम् ॥ १८॥
यतस्ते रोमकूपेषु ब्रह्माण्डानां हि कोटयः ।
दृष्ट्वा भ्रान्तेन च मया प्रसादात्तव नाथ भो ॥ १९॥
आश्चर्यं बहुधा दृष्टं मया तव च विश्ववित् ।
अहं युद्धाय सम्प्राप्तो ध्वजिनी पुनरागता ॥ २०॥
नरान्तकस्य सैन्येन सा जिता तत्क्षणादनु ।
अमात्यपुत्रसहितो नरान्तकमुपाद्रवम् ॥ २१॥
विधृतस्तेन सहसा सैन्यं जित्वा ममक्षणात् ।
दग्धा च नगरी सर्वा दृष्टः स कालपूरुषः ॥ २२॥
तेनापि भक्षिता तस्य सेना नानाविधा क्षणात् ।
धृत्वा नरान्तकं यातः पुरुषः स तवान्तिकम् ॥ २३॥
सर्वे त्वदुदरं यातास्तत्र दुष्टोऽसि मे प्रभो ।
सर्व दृष्टं च तत्रापि जम्बुद्वीपं सविस्तरम् ॥ २४॥
एवं कोष्ठान्तरे दृष्टं भूतलं च सविस्तरम् ।
ततो हि खिन्नास्त्वां याताः शरणं जगदीश्वर ॥ २५॥
त्वदाज्ञया तु रोमाञ्चद्वारेण निर्गता बहिः ।
पुनर्दष्टोऽसि बालस्त्वं निजं च भवनं महत् ॥ २६॥
किमिदं कौतुकं देव मायाजालमिदं विभो ।
कश्चासौ पुरुषो देव येनाभक्षि महाचमूः ॥ २७॥
केनासौ विधृतो दैत्यो रक्षितश्चापि केन च ।
केनादर्शि च रोमाञ्चद्वारं निर्गमनाय च ॥ २८॥
इति मे संशयं देव नुद भक्तस्य यत्नतः ।
क उवाच ।
एवं तेन कृतः प्रश्नो मस्तके तस्य धीमतः ॥ २९॥
विनायकः करतलं कृपया निदधार ह ।
दिव्यज्ञानोऽभवद्राजा काशीराजस्तु तत्क्षणात् ॥ ३०॥
तुष्टाव परया भक्त्या देवदेवं विनायकम् ।
राजोवाच ।
त्वमेव ब्रह्मा विष्णुश्च महेशो भानुरेव च ॥ ३१॥
त्वमेव पृथिवि वायुरन्तरिक्षं दिशो द्रुमाः ।
पर्वतैः सहिताः सिद्धा गन्धर्वा यक्षराक्षसाः ॥ ३२॥
मुनयो मानवाश्चापि स्थावरं जङ्गमं जगत् ।
त्वमेव सर्वं देवेश सचेतनमचेतनम् ॥ ३३॥
जन्मान्तरीयपुण्येन दृष्टोऽसि कश्यपात्मज ।
क उवाच ।
एवं ब्रुवति राजेन्द्रे मोहयामास तत्क्षणात् ॥ ३४॥
ततो राजा पुपूजैनं विनायकमनामयम् ।
ततः पौरा हर्षयुता राजानं द्रष्टुमाययुः ॥ ३५॥
नत्वा नत्वा ददुस्तस्मै वस्त्राण्याभरणानि च ।
राजाऽपि दापयामास तेभ्यो वस्त्राण्यनेकशः ॥ ३६॥
विसृज्य लोकांस्तान्सर्वान् जननीमभ्यगात्ततः ।
तव प्रसादान्मातस्ते दृष्टं पादयुगं मया ॥ ३७॥
गृहीतो दैत्यराजेन देवदेवेन रक्षितः ।
ततो हर्षयुता माताऽऽलिलिङ्ग तं चिरागतम् ॥ ३८॥
अमात्यौ राजपत्नीं तां नत्वाहतुरुभौ तदा ।
तव पुण्यप्रभावेण दृष्टं ते चरणाम्बुजम् ॥ ३९॥
विनायकस्य मायाभिर्मोहिता मोचिताश्च ह ।
ततस्तत्र ययौ राजा भार्यामम्बा जगाद च ॥ ४०॥
निवृतेषु च लोकेषु हर्षगद्गगया गिरा ।
राजोवाच ।
परमं कष्टमापन्नो धृतो दैत्येन तत्क्षणात् ॥ ४१॥
मोचितो माययाऽनेन प्रापितो नगरं निजम् ।
क उवाच ।
शुशुभे नगरं तच्च नानावादित्रनिस्वनैः ॥ ४२॥
पताकाभिरनेकाभिर्विविधैश्च महोत्सवैः ।
प्रत्यानीतैः सर्वलोकैर्विनायकबलेन च ॥ ४३॥
कुमाराः कन्यकाश्चापि योषितः पतयोऽपि च ।
जनकाश्च जनन्यश्च पुत्राश्च भ्रातरस्तथा ॥ ४४॥
लिलिङ्गुश्च जहर्षुश्च ददुर्दानान्यनेकशः ।
बुभुजुर्भोजयामासुर्लुलोकुश्च पपुर्जगुः ॥ ४५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे राजमोक्षणं नामैकोनषष्टितमोऽध्यायः ॥ ५९॥
आदितः श्लोकानां समष्ट्यङ्काः - ६७४० + ४५ = ६७८५
२.०६० श्रीगणेशनरान्तकयुद्धवर्णनं नाम षष्टितमोऽध्यायः
क उवाच ।
ततो नरान्तको दृष्ट्वा विनायकविचेष्टितम् ।
मेधया तर्कयामास दृष्टमस्याद्भुतं महत् ॥ १॥
काशीराजे धृते तेन निर्मितः कालपुरुषः ।
अखिला वाहिनी तेन भक्षिता मम सर्वशः ॥ २॥
अमात्यपुत्रसहितो राजाऽसावुदरं गतः ।
अव्यङ्गी बहिरानीतोऽदर्शि विश्वं नृपस्य ह ॥ ३॥
अस्माद् भुक्तिश्च मुक्तिश्च भविता मे न संशयः ।
तस्मादेनं हनिष्यामि मामयं वा हनिष्यति ॥ ४॥
इत्येवं निश्चयं कृत्वा प्रोवाच स विनायकम् ।
दैत्य उवाच ।
ऐन्द्रजालिकविद्येयं दर्शिता बहुधा त्वया ॥ ५॥
नाहं बिभेमि तस्यास्तु मायावी च नरान्तकः ।
यस्य निश्वसितेनापि निपतन्ति महाद्रयः ॥ ६॥
भूक्षेपमात्रेण च मे ब्रह्माण्डं कम्पते भृशम् ।
यस्य हस्ततलाघाताद्भूगोलोऽपि द्विधा भवेत् ॥ ७॥
तेन त्वं बालरूपः सन् कथं युद्धं करिष्यसि ।
यो व्याघ्रसम्मुखं गच्छेत्स कथं सुखमेष्यति ॥ ८॥
क उवाच ।
इति ब्राह्मीं समाकर्ण्य नरान्तकसमीरिताम् ।
अब्रवीत् परमात्माऽसौ बालरूपी विनायकः ॥ ९॥
विनायक उवाच ।
किमर्थं वल्गसे मूढ यदा ते पृतनाऽखिला ।
भक्षिता क्व गता शक्तिर्यदर्थं कथ्यते मुहुः ॥ १०॥
शूराः शौर्यं दर्शयन्ति न गां परबलारुजाम् ।
वृश्चिकेनाल्पकायेन मृगेन्द्रो हन्यते क्षणात् ॥ ११॥
अल्पेन हि प्रदीपेन नश्यते प्रबलं तमः ।
यस्य सन्निहितो मत्युः सन्निपातात्स लीयते ॥ १२॥
अल्पेन मृणिना मत्तमातङ्गो हि नियम्यते ।
क उवाच ।
इति श्रुत्वा तु वाक्यानि देवप्रोक्तानि दैत्यराट् ॥ १३॥
चकम्पे परया भीत्या जगर्ज घनवद् दृढम् ॥ १४॥
भीषयन् रोदयन् रावैः कम्पयन्भूमिमण्डलम् ।
अधावत् परमावेशो हन्तुकामो विनायकम् ॥ १५॥
यथा पतङ्गो दीपार्चिर्हन्तुं याति त्वरान्वितः ।
त्रिवक्रां भ्रुकुटीं बद्ध्वा वमन्नास्येन पावकम् ॥ १६॥
तं तथा यान्तमालोक्य काशिराजो निजं धनुः ।
सज्जीचकार सहसा कर्णमाकृष्य सायकम् ॥ १७॥
उवाच साम्ना दैत्यं तं निर्लज्ज बद्धमोचितम् ।
मा जीवं त्यज दैत्येन्द्र जीवन्भद्राणि पश्यसि ॥ १८॥
परावृत्य प्रयाहि त्वं नो चेन्मृत्युं प्रयास्यसि ।
क उवाच ।
इति तद्वाक्यमाकर्ण्य प्राह दैत्यो रुषा ज्वलन् ॥ १९॥
नरान्तकेति मे नाम त्वादृशानां हि भक्षणात् ।
इदानीं शरणं याहि यदि जीवीतुमिच्छसि ॥ २०॥
पुनर्नृपोऽब्रवीद्वाक्यं मुमूर्षुं तं नरान्तकम् ।
विनाशसमये मूढ विपरीता मतिर्भवेत् ॥ २१॥
मित्राणि शत्रुतां यान्ति विपरी तेऽप्यनेहसि ।
त्वयाप्याचरितं पापं वरगर्वादनेकशः ॥ २२॥
वरस्यैव प्रभावेण न वज्रं गणितं त्वया ।
इदानीमवतीर्णोऽयं त्वादृशानां वधाय च ॥ २३॥
कश्यपस्यात्मजो भारं हर्तुं भूमिगतं दृढम् ।
वरः पुण्यं च शिथिलं जातं ते पापसञ्चयात् ॥ २४॥
भारतीमेवमाश्रुत्य च कम्पे हृदि दैत्यराट ।
धावयित्वा नृपकराज्जगृहे सशरं धनुः ॥ २५॥
बलाच्चिक्षेप भूमौ तच्छतधा च व्यशीर्यत ।
अहनन्मुष्टिघातेन तं नृपं स नरान्तकः ॥ २६॥
पतितः स धरापृष्ठे वज्राहत इवाचलः ।
दृष्ट्वा विनायकोऽधावत्सृणिहस्तो महाबलः ॥ २७॥
गर्जयन्गगनं सर्वं दिशश्च विदिशः स्वनैः ।
च कम्पे पृथिवी सर्वां दिशः प्रज्वलिता इव ॥ २८॥
तेजसा परशोस्तस्य सर्वदृष्टिहरेण च ।
तेनाहनद् दैत्यशिरो यथेन्द्रो गिरिमुत्कटम् ॥ २९॥
तथा हतो दैत्यराजो निपपात महीतले ।
मूर्छनां महतीं प्राप्तो मर्मभिन्नो यथाश्मना ॥ ३०॥
उदतिष्ठत्क्षणाद्दैत्यो हस्ताभ्यां पर्वतावुभौ ।
प्रगृह्य च प्रचिक्षेप विनायकजिघांसया ॥ ३१॥
शतधा चूणितौ तेन मुद्रा परशघातिना ।
मायया दैत्यराजोऽथ नानारूपधरोऽभवत् ॥ ३२॥
यद् यद् रूपं चकाराशु तद् तद् रूपं विनायकः ।
भग्नदर्पं चकाराशु तेन तेन महासुरम् ॥ ३३॥
शस्त्रैः शस्त्राणि संवार्य तथाऽस्रैरस्रसञ्चयम् ।
ततस्तु मल्लयुद्धेन युयुधाते परस्परम् ॥ ३४॥
चरणं चरणेनैव हस्तं हस्तेन जघ्नतुः ।
जानुभ्यां जानुनी चोभौ पुष्पिताविव किंशुकौ ॥ ३५॥
वक्षसा चैव वक्षश्च पेततुर्धरणीतले ।
पुनरुत्थाय बलिनौ कूर्पराभ्यां निजघ्नतुः ॥ ३६॥
पुनर्दैत्यो महादेवं स्मृत्वा वृक्षानवासृजत् ।
पृष्ठेन पुष्ठं धावन्तौ ललाटेन ललाटकम् ॥ ३७॥
स्रंवन्तौ रुधिरं चोभौ गुल्फाभ्यां गुल्फमेव च ॥ ३८॥
पर्वतांश्च सवृक्षांश्च विनायकजिघांसया ।
अप्राप्तानेव तान्सर्वांश्चिच्छेद स विनायकः ॥ ३९॥
पद्मपाशाङकुशाघातैः परशोर्दृढकर्मणा ।
तस्यां निवारितायान्तु दैत्योऽमुच्चत् तथा पराम् ॥ ४०॥
वृष्टिमन्यां तथा चान्यां निरस्तां वीक्ष्य चापराम् ।
काशिराजो ययौ दूरं मृतं ज्ञात्वा विनायकम् ॥ ४१॥
विनायकोऽपि सङ्क्लेशाहृदि चिन्तामथाकरोत् ।
असङ्ख्यातबलो दैत्यो जयोपायो न दृश्यते ॥ ४२॥
कदा देवाः स्वनिलयं प्राप्स्यन्ति निहतारयः ।
नरान्तकोऽपि सञ्जातो देवानामप्ययान्तकः ॥ ४३॥
एवं चित्ते चिन्तयति वारंवारं विनायके ।
तूणेषु पतिता बाणाः कालदण्डोपमा दृढाः ॥ ४४॥
पिनाकोऽष्टापदमयः पुरस्तस्य पपात ह ।
शोभयंस्तेजसां स्वेन दिशश्च विदिशोऽपि च ॥ ४५॥
कार्मुकं तु स्फुरत्कान्ति दृष्ट्वा सर्व जहर्ष सः ।
मेने जितं तं च दैत्यं सिद्धं च देवकाङ्क्षितम् ॥ ४६॥
जग्राह बाणान्कोदण्डं कृत्वा क्ष्वेडितमुच्चकैः ।
पिनाकं तोलयामास सज्जचक्रे धनुस्तदा ॥ ४७॥
पृथिव्या जानुनी स्थाप्य तूणौ चोभयतस्तथा ।
तद्धनुःशब्दमाकर्ण्य च कम्पे भुवनत्रयम् ॥ ४८॥
सव्यदक्षिणहस्ताभ्यामाकृष्य सायकद्वयम् ।
मुमोच दैत्यमालक्ष्य मुञ्चन्नग्निकणान्मुहुः ॥ ४९॥
पपातदैत्यभुजयोरकस्मात् सायकद्वयम् ।
गर्जत् प्रकाशयद्व्योम संहरज्जीवसञ्चयान् ॥ ५०॥
उल्कैव पात्तयामास भुजौ वृक्षाविवास्य तत् ।
यथेन्द्रो वज्रघातेन पर्वतस्येव सानुनी ॥ ५१॥
नरान्तकद्वारदेशे महानेकोऽपतत्करः ।
अपरस्तत्पितुर्द्वारि चूर्णयन्प्राणि सञ्चयान् ॥ ५२॥
अन्यावास्तां करौ तस्य ददर्श च विनायकः ।
अभ्यधावत्पुनर्दैत्यो व्यादितास्य इवान्तकः ॥ ५३॥
हस्ताभ्यां तत्र पादाभ्यां चिक्षेप पादपान्बहून् ।
द्रुमाणां च महावृष्टिं प्रक्षिपत्स विनायके ॥ ५४॥
अन्धकारं महच्चासीन्न प्राज्ञायत किञ्चन ।
ततोऽब्रवीत्यराजं दृष्ट्वा वीर्यं विनायकः ॥ ५५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशनरान्तकयुद्धवर्णनं नाम षष्टितमोऽध्यायः ॥ ६०॥
आदितः श्लोकानां समष्ट्यङ्काः - ६७८५ + ५५ = ६८४०
२.०६१ दैत्यदमनं विराङ्दर्शनं नामैकषष्टित्तमोऽध्यायः
विनायक उवाच ।
नेदृशो दृष्टपूर्वो मे बलि च वीर्यवत्तरः ।
इदानी पौरुषं पश्य मम बालस्य चेष्टितम् ॥ १॥
इत्युक्वा पुनरेवासौ बाणं तूणादकर्षयत् ।
आकर्णं धनुराककृष्य प्राक्षिपत्तं नरान्तकम् ॥ २॥
प्रकाशयन्व्योमतलं पातयन्वृक्षसञ्चयम् ।
आन्दोलयन्निव ययौ पुष्पवत् तं नरान्तकम् ॥ ३॥
स बाणोऽछेदयत्तस्य चरणौ स पपात ह ।
अर्धकाये निपतिते दैत्येऽगर्जद्विनायकः ॥ ४॥
चरणौ व्योममार्गेण भ्रमन्तौ पतितौ गृहे ।
देवान्तकस्य महति चूर्णयन्तौ बहून्जनान् ॥ ५॥
अर्द्धकायः स दैत्येन्द्रो मुखं कृत्वा भयानकम् ।
अभ्यधावद्बलेनासौ ग्रसन्निव जगत्त्रयम् ॥ ६॥
तथैव चरणावस्य मायया सम्बभूवतुः ।
विनायकस्य निकटे बभाषेऽभ्येत्य दैत्यराट् ॥ ७॥
त्वया यद्दर्शितं मह्यं पौरुषं कायभेदनात् ।
छेत्से तवापि चाङ्गानि पश्य मे पौरुषं तथा ॥ ८॥
श्रुत्वा वाक्यं पुनस्तस्य जगर्जासौ विनायकः ।
शरवृष्टिं पुना रौद्रां सोऽसृजद् दैत्यपुङ्गवे ॥ ९॥
सोऽपि तां भक्षयामास सङ्ख्यातीतां महाबलः ।
तत एक महाबाणमभिमन्त्र्य विनायकः ॥ १०॥
अग्नितुण्डं रुक्मपुङ्खं गर्जमानं भयानकम् ।
आकर्णज्यामपाकृष्प तत्याज दैत्यमस्तके ॥ ११॥
स ययौ वायुवेगेन दारयन्निव पर्वतान् ।
संहरन् पक्षिसङ्घातान् पातयन् वृक्षसञ्चयान् ॥ १२॥
श्रुत्वा तदीयनिनदं ययुः सेना दिशो दश ।
पपात दैत्यकण्ठे स गिरिसानौ यथा पविः ॥ १३॥
तदाघाताच्छिरोऽप्यस्य पक्षीवद् गगनं ययौ ।
न्यपतत् परिकूजत् तत् पितुर्गेहे भयानकम् ॥ १४॥
पुनरन्यच्छिरोऽस्याभूदच्छिन्नमिव पूर्वतत् ।
ततः कोपेन दैत्योऽपि चक्रे क्ष्वेडितमुच्चकैः ॥ १५॥
बिभ्युः सुराः पक्षिसङ्घाः सर्वे च जनसञ्चयाः ।
शरवृष्टिं पुना रौद्रा चक्रे तस्मिन्विनायके ॥ १६॥
स सर्वान् बाणवृष्ट्यैव मध्ये चिच्छेद लाघवात् ।
अहोरात्रमभूद्युद्धं गिरिबाणमयं नवम् ॥ १७॥
परिशश्राम देवोऽपि सोऽपि दैत्यो महाबलः ।
चिन्तामवाप महतीं प्रजज्वाल च तेजसा ॥ १८॥
ततो जग्राह परशुं ज्वालामालासमाकुलम् ।
तोलयामास बलवांश्चकम्पे धरणी तदा ॥ १९॥
विमानगाः सुराः सर्वे युद्धं द्रष्टुमुपागताः ।
चकम्पिरे तदा शेषो बिभाय च रसातले ॥ २०॥
अवासृजद् दैत्यपतौ स तस्याशु शिरोऽहरत् ।
पुनरन्यदभूच्चारुशिरोमुकुटकुण्डलम् ॥ २१॥
पुतस्तत् पातयामास शिरः क्रुद्धो विनायकः ।
पुनरन्यदभूत्तस्य छिन्ने तस्मिन् पुनःपुनः ॥ २२॥
एवं शतसहस्राणि शिरांसि सोऽच्छिनद् विभुः ।
पुनश्च चिन्तयामास मृतौ दैत्यस्य कारणम् ॥ २३॥
मोहयामास सहसा मायया तं नरान्तकम् ।
शिवस्य वरदानेन गर्वितं बलवत्तरम् ॥ २४॥
नाज्ञासीच्च तदा दैत्योऽपरं चात्मानमेव च ।
क्षणाच्च भासते रात्रिः क्षणाच्च दिनमेव च ॥ २५॥
क्षणाच्च भासते स्वर्गं पृथ्वी पातालमेव च ।
जागरश्च सुषुप्तिश्च तुरीया स्वप्न एव च ॥ २६॥
विनायकोऽपि देवो वा नारी वा पुरुषोऽपि वा ।
गुह्यको वास्थ सिद्धो वा यक्षो राक्षस एव च ॥ २७॥
स्वकीयो वा परो वापि पिता वा जननी तु वा ।
निर्जीवो वा सजीवो वा भ्रमादेवममन्यत ॥ २८॥
चिन्तां च परमामाप तर्कयामास चेतसि ।
एवं मे तु वरा दत्ताः शिवेन शूलधारिणा ॥ २९॥
अयं च समयः प्राप्तः प्रायो मृत्युर्भविष्यति ।
क उवाच ।
एवं यावच्चिन्तयते पुरस्तावद्ददर्श सः ॥ ३०॥
विनायकं विराङ्रूपं गगनोर्ध्वगमस्तकम् ।
पातालव्याप्तचरणं दिक्ष्रोत्रं वृक्षरोमकम् ॥ ३१॥
भ्रमद्ब्रह्माण्डरोमाञ्चं पयोधिश्रमबिन्दुकम् ।
नखाग्रे यस्य देवानां भान्ति त्रिंशस्त्रिकोटयः ॥ ३१॥
उदरे भान्त्येकदशे भुवनानि चतुर्दश ।
ततो विनायका दैत्यं मर्दयामास तत्क्षणात् ॥ ३३॥
पादाङ्गुष्ठनखाग्रेण मत्कुणं बालको यथा ।
ततो देवाश्च मुनयो जयशब्दैर्मुहुर्मुहुः ॥ ३४॥
तुष्टुवुर्मुमुचुः पुष्पवृष्टिं भक्त्या प्रहर्षिताः ।
अन्तर्हिते तु वैराटे रूपेऽगाद्धरणी विभुम् ॥ ३५॥
नत्वा प्रोवाच देवेश अर्धभारो हृतो मम ।
पूर्णे हृते परा प्रीतिर्मे स्यात्तस्मात्सदा कुरू ॥ ३६॥
तस्यामन्तहितायां तु काशीराजः पुपूज तम् ।
उवाच च प्रसन्नात्मा विनयावनतो नृपः ॥ ३७॥
अत्याश्चर्यं विभो दृष्टं मनोवाण्योरगोचरम् ।
अवतीर्णोऽसि भूभारं हर्तुं तच्च कृतं त्वया ॥ ३८॥
त्रयस्त्रिंशत्कोटिदेवैरवध्योऽयं हतो यतः ।
अतिपुण्येन दृष्टं ते विराङ्रूपं सुरेश्वर ॥ ३९॥
क उवाच ।
एवं ब्रुवति राजेन्द्रे पौराः सर्वेऽब्रुवन्स्तदा ।
धन्योऽसि बालभावेन सर्वान्नो भ्रामयस्यहो ॥ ४०॥
यशः प्रथयितुं सर्वं कृतमेतद् विभो त्वया ।
पुपूजुश्च महाभक्त्या प्रार्थयन्निति तं विभुम् ॥ ४१॥
भक्तिं ते देहि नो देव स्ववियोगं च मा कुरु ।
ततो राजा च ते लोका ददुर्दानान्यनेकशः ॥ ४२॥
ब्राह्मणान्प्रार्थयामासुरेवमेव जयोऽस्तु नः ।
उपायनानि च तदा ददू राज्ञे परस्परम् ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यदमनविराङ्रूपदर्शनं नामैकषष्टित्तमोऽध्यायः ॥ ६१॥
आदितः श्लोकानां समष्ट्यङ्काः - ६८४० + ४३ = ६८८३
२.०६२ नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः
क उवाच ।
रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा ।
विदर्भ्यामुपविष्टा सा सखीभिः कौतुकान्विता ॥ १॥ (वृष्यां समुपविष्टा)
नरान्तकस्य च शिरोऽकस्मात् ताभिर्ददर्श ह ।
पतितं प्राङ्गणे कर्णकुण्डलाभ्यां विराजितम् ॥ २॥
नादयत्पत्तनं सर्वं शिखरं पार्वतं यथा ।
श्यामलं हिमसंसृष्टं विशोभं कमलं यथा ॥ ३॥
बिभ्यतो रौद्रकेतुश्च शारदाघात विव्हला ।
सावधानौ ददृशतू रुदतः स्म भृशं तदा ॥ ४॥
लुण्ठतः स्म धरण्यां तौ ताडयन्तौ च वक्षसि ।
मूर्छामवापतुरुभौ मुहूर्तादिव चेतनाम् ॥ ५॥
माता शुशोच तदा हृदि स्थाप्य त तच्छिरः ।
चक्रन्दे विव्हला सा गौर्मृतवत्सा यथा भृशम् ॥ ६॥
शारदोवाच ।
वीरश्रिया व्याप्ततनू रणायैव समुत्सुकः ॥ ७॥
प्रोक्तवान्न हि किञ्चिन्मामिदानीं गिरमाहर ॥ ८॥
क्व गतः पूर्वकायस्ते शिरसैव समागतः ।
एकाकी कथमायतः क्व ते सैन्यं महत्तरम् ॥ ९॥
क्व ते जलधरा याताश्छत्रचामरधारिणः ।
यं दृष्ट्वा वरकामिन्यो म्लायन्ते विरहाग्निना ॥ १०॥
स कथं म्लानतां यातो रविरस्तानुगो यथा ।
किं मया ह्यपराद्धं ते पित्रा वा वत्सलेन च ॥ ११॥
किमर्थं वदसे नैव रुददश्रु प्रमार्ज्य नः ।
परार्ध्यास्तरणोपेते मञ्चके स्वापतत्परः ॥ १२॥
क्वेदानीं परिसुप्तोऽसि खिद्यते मे मनो भृशम् ।
विनाभूतौ त्वया नेशावास्यं सन्दर्शितुं सुत ॥ १३॥
क उवाच ।
शारदायाः शुचं श्रुत्वा रौद्रकेतुः शुशोच ह ।
विना वृत्तान्तकथनात् क्व गतोऽसि प्रियात्मज ॥ १४॥
प्रत्यहं सर्ववृत्तान्तं जातं भाविनमेव च ।
संश्रावयसि स्वस्थानमिदानीं किन्न भाषसे ॥ १५॥
यदि त्वं सम्मुखे युध्यन् ध्यारापूतो दिवं गतः ।
मामपृच्छ्य च मां त्यक्त्वा कथं त्वं परिजग्मिवान् ॥ १६॥
कथं त्वया कृता पित्रोः पुत्रता शत्रुतापि च ।
यदा त्वं सेवककरात् खड्गं गृह्णासि स्वं करे ॥ १७॥
तदा सपर्वतवना सस्वर्गा कम्पते च भूः ।
स केन पातितो मह्यां न जाने कालपर्ययम् ॥ १८॥
देवं हि बलवल्लोके पौरुषं तु निरर्थकम् ।
भूषणं मम वंशस्य लोकस्य च गतं क्व नु ॥ १९॥
लोकस्यापि च यः कालः पञ्चास्योऽरिगजस्य यः ।
स कथं त्वं द्विधाभूतो वाताहत इव द्रुमः ॥ २०॥
प्रतापसविता राजँस्तूलदाहहुताशनः ।
क उवाच ।
एवं नानाविधं शोकं रौद्रकेतुश्च शारदा ॥ २१॥
कृत्वा मूर्धानमादाय देवान्तकमगच्छताम् ।
भद्रासनात्समुत्थाय त्वरया तो तथाविधौ ॥ २२॥
दृष्ट्वा कण्ठं समालिङ्ग्य रुरोदावरजं तदा ।
तत्परीवारभूता ये दैत्याः कालयमोपमाः ॥ २३॥
रुरुदुःसुस्वरं तत्र दृष्ट्वा नारान्तकं शिरः ।
मातुर्हस्ताच्छिरो गृह्य तत्स्वे हृदि निधाय च ॥ २४॥
चक्रन्द कुररीवासौ भ्रातृस्नेहेन दुःखितः ।
देवान्तक उवाच ।
समं भुक्तं समं पीतं क्रीडितं सुप्तमुत्थितम् ॥ २५॥
समं तप्तं समं जप्तं क्व गतोऽसि विहाय माम् ।
यस्य ते दर्शनान्मर्त्याः सुरा यान्ति दिशो दश ॥ २६॥
स कथं निहतः केन दुष्टेन च बलीयसा ।
रसा रसातलं चैव तवैव च निवेदितम् ॥ २७॥
विहाय मां कथं स्वर्ग गतोऽसि भ्रातृवत्सल ।
यस्य ज्याघोषमाकर्ण्य कम्पते स्म चराचरम् ॥ २८॥
असङ्ख्याता नृपा यस्य साम्ने द्वारगता बभुः ।
स कथं पितरौ हित्वा गतश्च सुन्दरां त्रियम् ॥ २९॥
एवं तत्क्रन्दनं श्रुत्वा वीरलोका समाययुः ।
हेतुभिर्वारयामासुर्बलाद्धृत्वा तु तं करैः ॥ ३०॥
जना ऊचुः ।
न वीराः परिशोचन्ति वीरे युद्धे हते नृप ।
विघ्नन्ति तं बलाद्गत्वा येनासौ निहतो भवेत् ॥ ३१॥
मृत्युस्तु सर्वजन्तूनां सह देहेन जायते ।
सोऽद्य वर्षशतेनापि भविष्यति न संशयः ॥ ३२॥
स्वस्य वान्यस्य वा राजन् तत्र का परिदेवना ।
श्रुत्वा वाक्यं तु लोकानां तदा देवान्तकोऽसुरः ॥ ३३॥
सावधानमना भूत्वा पितरौ प्राह धर्मवित् ।
मा शोचतमहं यामि ग्रसितुं तं निजं रिपुम् ॥ ३४॥
वदतं क्व निवासोऽस्य येन बन्धुर्हतो मम ।
तं हत्वा सुखमेष्यामि बन्धुं यास्यामि वा मृतः ॥ ३५॥
मम भ्रूभङ्गमात्रेण कम्पते भुवनत्रयम् ।
मयि क्षुब्धे तु कस्राता लोकानां पितरौ यतः ॥ ३६॥
क उवाच ।
श्रुत्वा देवान्तकवचः आश्वस्तौ तावुभौ तदा ।
शोकसागरमग्नौ तावद्धृतौ तेन वाक्यतः ॥ ३७॥
ऊचतः परमं वाक्यं ज्येष्ठपृष्टौ सविस्तरम् ।
काशिराजेति विख्यातो राजापरमधार्मिकः ॥ ३८॥
वैवाहिको महोत्साहस्तद्गृहे समपद्यत ।
आकारिताः सर्वजनाः कश्यपस्यात्मजोऽपि च ॥ ३९॥
स बाल एव बलवान्विनायक इति स्मृतः ।
तेन मार्गे हतो भ्राता धूम्राक्षो मम पुत्रक ॥ ४०॥
तस्य प्रत्याम्नायकृते प्रेषिता वीरसम्मताः ।
धावमाना ययुस्ते च सहस्रार्द्ध निशाचराः ॥ ४१॥
सप्तवर्षेण ते सर्वे नाशिता मुनिसूनुना ।
तेषां प्रत्याम्नायकृते स्वयं यातो नरान्तकः ॥ ४२॥
अनेकशस्त्रसम्पन्नश्चतुरङ्गबलान्वितः ।
एकोऽपि नागतस्तस्मादकस्माद्ददृशे शिरः ॥ ३४॥
शोकं कृत्वा तव पुर आनीतं तच्छिरोऽधुना ।
क उवाच ।
इति तद्वाक्यमाकर्ण्य च कम्पे रक्तलोचनः ॥ ४४॥
देवान्तकश्चोदतिष्ठद् ग्रसन्निव जगत्त्रयम् ।
उवाच गर्वमोहेन पितरं वेगवत्तरम् ॥ ४५॥
कालं हनिष्येऽखिलघ्नं न्युब्जां पृथ्वीं विधाय च ।
करिष्ये क्रोधदृष्टयैव ब्रह्माण्डं भस्मसात्क्षणात् ॥ ४६॥
इत्युक्त्वा क्ष्वेडितं कृत्वा जगतीं कम्पयन्निव ।
देवाधिकारे ये दैत्यास्तान्सर्वान्नाजुहाव च ॥ ४७॥
नत्वा तौ पितरौ वाक्यं प्रोचे देवान्तकस्तदा ।
इदानीं मुनिपुत्रं तमानयिष्यामि सत्वरम् ॥ ४८॥
सहैव तेन दास्यामि मूर्ध्न्यस्य च धनञ्जयम् ।
एवमुक्त्वा बलात्सर्वे उड्डीय सहसा च ते ॥ ४९॥
देवान्तकोऽप्य सङ्ख्याता विहङ्गा इव शीघ्रगाः ।
काशिराजपुरीं प्राप्ये वेष्टयेयुः समन्ततः ॥ ५०॥
कोलाहलो महानासीद् रजसाच्छादिता दिशः ।
न प्रकाशो रवेरासीत्पौराश्च चुक्रुशुर्भृशम् ॥ ५१॥
नरान्तके हते द्वित्रिदिवसा नैव यद्गताः ।
तत्कथं पुनरायातः प्रलयोऽत्र जनापहः ॥ ५२॥
कोऽयं प्रचण्डदेहेन दुष्प्रेक्ष्यो वै समागतः ।
क्षमः कालं कलयितुं भक्षितुं वा जगत्त्रयम् ॥ ५३॥
दैत्यानां परिखा जाताः प्रेषिता दैत्यपुङ्गवाः ।
हतास्तेनाथ ते सर्वे गन्तुं मार्गो न विद्यते ॥ ५४॥
एवं तदस्तु पौरेषु तावद् दूताः समागताः ।
काशिराजं कथयितुं देवान्तकसमागमम् ॥ ५५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः ॥ ६२॥
आदितः श्लोकानां समष्ट्यङ्काः - ६८८३ + ५५ = ६९३८
२.०६३ बालचरिते शुक्रत्यागो नाम त्रिषष्टितमोऽध्यायः
दूता ऊचुः ।
देवान्तको महारौद्रो रौद्रेर्दैत्यैः समावृतः ।
असङ्ख्यैर्विविधैः कालभीतिदैर्व्योममस्तकैः ॥ १॥
वयं तद्दर्शनभ्रान्ताः पलाय्य त्वामुपागताः ।
नगरी वेष्टिता राजन् करिष्यसि तत्कुरु ॥ २॥
क उवाच ।
श्रुत्वा दूतमुखाद् राजा वृत्तात्तं समकम्पत ।
अतिम्लानतया यातो बालकं स विनायकम् ॥ ३॥
क्रीडन्तं शिशुमध्ये तं वृत्तान्तं सर्वमब्रवीत् ।
राजोवाच ।
परब्रह्मन्नमस्तेऽस्तु लीलामानुषविग्रह ॥ ४॥
चराचरगुरो नानालीलाकर नमोऽस्तु ते ।
अनेकशो वयं त्रातास्त्वया बालस्वरूपिणा ॥ ५॥
इदानीमपि रक्षास्मानस्माद्देवान्तकात्प्रभो ।
क उवाच ।
एवं सम्प्रार्थितस्तेन काशिराजेन बालकः ॥ ६॥
देहं कृत्वा विशालं स सिंहारूढो धनुष्करः ।
सिद्धिबुद्धियुतो गर्जन्नादयन् गिरिकन्दराः ॥ ७॥
तेजसा लोपयन्सूर्यं वमन्नग्निकणान्मुखात् ।
बाणं खड्गं च परशुं धनुर्हस्ते विधारयत् ॥ ८॥
नभोमार्गेण नगराद् बहिर्यातो विनायकः ।
क्ष्वेडितेन स दैत्यानां मनांसि परिकम्पयन् ॥ ९॥
ददर्श दुष्टसैन्यं तं देवान्तकममर्षणम् ।
असङ्ख्यातास्तदा दैत्या बभ्रमुः शलभा इव ॥ १०॥
दृष्ट्वा नानाविधं सैन्यं सिद्धिं प्रोवाच विघ्नराट् ।
एकाकिना न साध्येयं सेना नाना विधीयताम् ॥ ११॥
स्वकीया साधितुं दैत्यं कुरु शीघ्रमिदं वचः ।
क उवाच ।
ततः सिद्धिर्नमस्कृत्वा परमात्माङ्घ्रिपङ्कजम् ॥ १२॥
देवान्तकं योधयितुं ययौ चाथ जगर्ज च ।
निनादैः सर्वजन्तूनां दैत्यानां भयदायिनी ॥ १३॥
चचाल शेषो द्यौश्चापि पर्वता वृक्षसञ्चयाः ।
तद्गर्जितमहारावैः प्रतिशब्दैरनेकशः ॥ १४॥
सस्मार चाष्टसिद्धीः सा ताश्च याता मुदान्विताः ।
अणिमा प्रथमं प्राप्ता गरिमा तदन्तरम् ॥ १५॥
महिमा लघिमा चापि सम्प्राप्ते तदन्तरम् ।
प्राप्तिश्चैव तु प्राकाम्यं वशित्वं च समाययौ ॥ १६॥
ईशित्वं तदनु प्राप्तं तासां सैन्यमभूदनु ।
गजाश्वरथपादान्तं नानायुधविराजितम् ॥ १७॥
वर्षाकाले यथा नद्यः सागरं यान्ति सर्वतः ।
तथा सैन्यं दश दिशो याति स्म युद्धलालसम् ॥ १८॥
असङ्ख्यवाद्यनिर्घोषं वीरशब्दैर्नदद्भृशम् ।
कृतान्तसदृशान्वीरान् भूगोलप्राशनोत्सुकान् ॥ १९॥
दृष्ट्वा देवान्तकः स्वान्तं चिन्तयामास चेतसा ।
बालं क्षणेन जेष्यामीत्येवं युद्धाय चागतः ॥ २०॥
अकस्मादीदृशं सैन्यं कुत एतद्विनिर्गतम् ।
दृष्टं विचित्रसामर्थ्यं बालस्य मायया कृतम् ॥ २१॥
मरिष्ये मारयिष्ये वा जीवत्स्याज्यो यशो न हि ।
एवं वदति दैत्येन्द्र सेनान्यः प्राब्रुवन् वचः ॥ २२॥
वयं योत्स्यामहे सैन्यै रक्ष पृष्टं जयो भवेत् ।
पीत्वा वाक्यामृतं तेषां हृष्टो देवान्तकोऽब्रवीत् ॥ २३॥
सम्यगुक्तं महावीरा यान्तु युद्धाय यामि च ।
जयोऽस्तु मम वाक्येन भवतां पुण्यकर्मणाम् ॥ २४॥
आशिषं परिगृह्यैव नमस्कृत्वा सुरान्तकम् ।
कर्दमो नाम दैत्योऽथ ययौ व्यूहं रथाकृतिम् ॥ २५॥
दीर्घदन्तो ययौ चक्रव्यूहं परमदुर्जयम् ।
गरिम्णा वीरमुख्यैस्तु रचितं वीरमोहनम् ॥ २६॥
प्रथिम्ना पालितं व्यूहं तालजङ्घो ययौ मुदा ।
महिम्ना रचितं व्यूहं यक्ष्मनामा समाययौ ॥ २७॥
प्राप्त्या विरचितं व्यूहं ययौ घण्टासुरो महान् ।
प्राकाम्यरचितं व्यूहं रक्तकेशो बलान्वितम् ॥ २८॥
कालान्तको ययौ व्यूहं वशितारचितं परम् ।
ईशितारचितं व्यूहं दुर्जयोऽभिययौ बली ॥ २९॥
एतेषां वचसाऽशक्यं वक्तुं सामर्थ्यमञ्जसा ।
अष्टौ व्यूहानयुध्यन्त दैत्या अष्टौ महाबलाः ॥ ३०॥
परस्परं विनिघ्नन्तःपरान् परमदुर्जयान् ।
शरधारा विमुञ्चन्तो जलधारा यथा घनाः ॥ ३१॥
चिच्छिदुरुत्तमाङ्गानि शस्त्रैर्नानाविधैर्भटाः ।
निहतैश्च तदावीरैर्गजैरश्वैर्वसुन्धरा ॥ ३२॥
ऊरुभिर्जानुभिर्हस्तैश्छिन्नैरासीत्सुदुर्गमा ।
खेटानि पुरतः कृत्वा जघ्नुः पादांश्च केचन ॥ ३३॥
उड्डीय गिरिवत् केचित्पेतुर्वीरेषु चूर्णितुम् ।
रजोऽन्धकारे नाज्ञासीत्स्वीयः स्वीयं परस्परम् ॥ ३४॥
ततो निपेतुः सहसा दैत्या देवहता भुवि ।
देवा हताश्च दैत्याश्च कुर्वते भैरवान् रवान् ॥ ३५॥
कबन्धा युयुधुस्तत्र मुमुदुश्चाप्सरोगणाः ।
शुशुभुः शस्त्रसङ्घातैः पुष्पिताः किंशुका यथा ॥ ३६॥
शुक्रस्तत्र मृतान्दैत्यानुज्जीवयति विद्यया ।
अष्टौ व्यूहा ययुश्चिन्तां मृतशेषा बलान्विताः ॥ ३७॥
ईशितायै ततः प्रोचुः सर्वे ते शुक्रचेष्टितम् ।
तस्याः क्रोधवशादेका कृत्या स्यान्निर्गता पुरः ॥ ३८॥
कटाक्षेण तयाऽऽज्ञप्ता भार्गवं तु निजे भगे ।
कृत्वा तदाऽन्तर्दधे सा पश्चात्तत्याज बर्बरे ॥ ३९॥
तेन बर्बरदेशीयं तं वदन्ति मनीषिणः ।
ततो मुमुदिरे देवा युयुधुश्च बलान्विताः ॥ ४०॥
निहन्यमाना दैतेयाः पलायनपरा ययुः ।
केचिच्च शरणं प्राप्ता रक्ष रक्षेति चापरे ॥ ४१॥
प्रत्यूचुर्देवगन्धर्वानणिमादिकृतांस्तदा ।
कदा विजयिनो दैत्याः कदाचिद् देवतागणाः ॥ ४२॥
अभवन् युद्धनिरताः परस्परजयैषिणः ।
द्वन्द्वयुद्धमभूद् घोरं तस्मिन्नुपरते युधि ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्रत्यागो नाम त्रिषष्टितमोऽध्यायः ॥ ६३॥
आदितः श्लोकानां समष्ट्यङ्काः - ६९३८ + ४३ = ६९८१
२.०६४ बालचरिते चतुःषष्टितमोऽध्यायः
क उवाच ।
कालान्तकेन दैत्येन प्राकाम्येन परस्परम् ।
कालान्तको विजयेते प्राकाम्यं यावदेव हि ॥ १॥
तावत् साहाय्यमकरोद् वशित्वं वेगवत्तरम् ।
तत्याज गिरिशृङ्गं तन्मस्तके हस्तलाघवात् ॥ २॥
तेन कालान्तको भूमौ सहसा निपपात ह ।
रुधिराक्तं द्विधाभूतं दृष्ट्वा कालान्तकं तदा ॥ ३॥
हाहाकारो महानासीद् दैत्यसेनाचरेष्वथ ।
मुसलो नाम दैत्येशो भल्लश्चैवापरोऽसुरः ॥ ४॥
महिमा चैव चत्वारो ययुर्युद्धाय सादराः ।
प्राकाम्येन युयुधिरेऽनेकशस्त्रप्रहारिणः ॥ ५॥
असङ्ख्याता हता देवाः पतिता भग्नवृक्षवत् ।
असृग्जलप्रवाहिन्य आसन् नद्यः सहस्रशः ॥ ६॥
ईशिता च वशित्वं च विभूतिश्च ययुस्ततः ।
साहाय्यं चक्रिरे तस्य प्राकाम्यस्य तदा युधि ॥ ७॥
चत्वारः पर्वतास्ताभिश्चतुर्ष्वपि निपातिताः ।
तैश्च ते चूर्णिताः सर्वे गताः स्वर्गं सुदुर्लभम् ॥ ८॥
अणिमा तु शिखां धृत्वा कर्दमस्य रणे बलात् ।
अपाटि सहसा भूमौ शतधा स व्यशीर्यत ॥ ९॥
अस्रवद् रुधिरं वक्त्राल्लुठन् प्राणान् जहौ तदा ।
महिमा लघिमा चैव गरिमा वृक्षसञ्चयैः ॥ १०॥
यक्ष्मासुरं तालजङ्घं दीर्घदन्तं न्यपातयन् ।
ततो घण्टासुरो रक्तकेशो दैत्योऽथ दुर्जयः ॥ ११॥
आययुः सर्वसैन्यानि निश्वसन्तो महाबलाः ।
तैराहतं बलं दृष्ट्वा वशितासिद्धिबुद्धयः ॥ १२॥
मुष्टिघातैर्निजघ्नुस्ता भालदेशे दृढं तदा ।
तेऽपि भूमौ निपतिताः शतधा चूर्णितास्तदा ॥ १३॥
ततो जगर्जुः सर्वास्ता जयं लब्धा स्वशक्तितः ।
विनायको विजयते सर्वास्ता एवमूचिरे ॥ १४॥
अन्ये क्षुद्रतरा दैत्यास्तेऽपि ताभिर्विनाशिताः ।
पुनः सर्वे दैत्यसिंहाः सिद्धिसेनां व्यनाशयन् ॥ १५॥
कोलाहलो महानासीत् सेनयोरुभयोरपि ।
हन्तु निघ्नन्तु बध्नन्तु सावधाना भवन्त्विति ॥ १६॥
प्रादुरासीत् ततश्चाग्निः शस्त्रसङ्घट्टसम्भवः ।
भग्ने शस्त्रे मल्लयुद्धं चक्रुर्वीरा रुषान्विताः ॥ १७॥
पुनश्चानियतं युद्धं परस्परविनाशनम् ।
अभवत् तुमूलं सूर्यस्ततश्चास्तचलं गतः ॥ १८॥
अन्धकारेण महता दिशो व्याप्ताः समन्ततः ।
ततो दिव्यौषधीर्गुह्य निजघ्नुस्ते परस्परम् ॥ १९॥
अहोरात्रत्रयं घोरं युद्धमासीन्निरन्तरम् ।
असृङनद्यो दशदिशो याता वीरवहास्तदा ॥ २०॥
खेटकूर्माः खड्गझषाः शिरःकमलशोभिताः ।
गजग्राहाः प्रेतकाष्ठाः केशशैवलराजिताः ॥ २१॥
भीरुभीतिकरा वीरमहाहर्षविवर्द्धनाः ।
ततो जयत्सु देवेषु सर्वदा बलशालिषु ॥ २२॥
देवान्तको ययौ चिन्तां तर्कयामास चेतसि ।
येन सर्वे देवगणा जितास्ते स्वप्रभावतः ॥ २३॥
क्वेयं तत्र बालमाया सामान्या जनमोहिनी ।
अष्टसिद्धीः सर्वसैन्यमिदानीं नाशयाम्यहम् ॥ २४॥
धृत्वा विनायकं बालं गयिष्यामि स्वमालयम् ।
एवमुक्त्वा खड्गपाणिः स्वनेनापूरयन्दिशः ॥ २५॥
आययौ परसैन्यानि निघ्नन् खड्गेन सर्वशः ।
भयेन मूर्छिता देवा निपेतुर्धरणीतले ॥ २६॥
स्मृत्वा विनायकं देवं जहुः प्राणांस्तु केचन ।
असृङनदीवहाः केचित् केचित्स्वर्गं गताः सुराः ॥ २७॥
केचिद्दैत्यं विलोक्यैव जहुर्जीवितमात्मनः ।
ततो भग्ना देवसेना पपाल च दिशो दश ॥ २८॥
सोऽपि दैत्यः खड्गपाणिर्निघ्नन्पृष्ठे जघान ताम् ।
गरिमा तन्निरीक्ष्याथ पर्वतं वृक्षसङकुलम् ॥ २९॥
तत्याज दैत्यदेहे स खड़गेन शतधाऽच्छिनत् ।
ततोऽष्टसिद्धयः क्षुब्धा ववृषुः पर्वतान्बहून् ॥ ३०॥
चिच्छेद त्वरया तान् स खड्गाघातेन लाघवात् ।
उड्डीय महिमा तस्य स्कन्धे स्थित्वा तमाददे ॥ ३१॥
खड्गं दैत्यकराच्छीघ्रमन्तर्धानं ययौ तदा ।
बलाच्चिक्षेप तं खड्गं तस्य दैत्यस्य मस्तके ॥ ३२॥
स एवं शतधा जातो न तु मूर्द्धा तदद्भुतम् ।
शरवृष्टिं तदा दैत्यो भग्नपृष्ठश्चकार ह ॥ ३३॥
एकैकस्यां दशदशपञ्चसप्तशरानसौ ।
क्षिप्त्वा व्याकुलयाञ्चक्रे ततस्ता भुवि पेतिरे ॥ ३४॥
ततो देवा युयुधिरे पतितास्वष्टसिद्धिषु ।
मुहूर्तात् सावधानास्ता ययुर्देवं विनायकम् ॥ ३५॥
तमुदन्तं परिज्ञाय बुद्धि प्रोचे विनायकम् ।
कथं विचारस्तस्य स्याद्यत्र बुद्धिर्न दृश्यते ॥ ३६॥
पराजिताः सिद्धयस्ते देह्यनुज्ञां व्रजाम्यहम् ।
योद्धुं दैत्येन तेनाथ पौरुषं चास्य लक्षये ॥ ३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरितेऽष्टसिद्धिपराजयो नाम चतुःषष्टितमोऽध्यायः ॥ ६४॥
आदितः श्लोकानां समष्ट्यङ्काः - ६९८१ + ३७ = ७०१८
२.०६५ बुद्धिविजयो नाम पञ्चषष्टितमोऽध्यायः
क उवाच ।
श्रुत्वा बुद्धिवचो देवो हर्षं प्राप्य जगाद ताम् ।
देव उवाच ।
गच्छ युध्यस्व दैत्येन जहि तं यश आप्नुहि ॥ १॥
एवमुक्त्वा सुवासांसि ददौ तस्यै विनायक ।
सा च नत्वा तदा देवं ययौ दैत्यं रणं प्रति ॥ २॥
तस्याः क्ष्वेडितशब्देन कम्पितं भुवनत्रयम् ।
वदनान्निर्ययौ तस्या एका शक्तिर्गरीयसी ॥ ३॥
जटिला विकृतास्या च जगद्भक्षण लालसा ।
विशालाभ्यां तु नेत्राभ्यां त्यजन्ती ज्वालसञ्चयान् ॥ ४॥
दहन्ती दैत्यसेनां सा ययौ सा च पपाल ह ।
दर्शने पतिता दैत्यास्तस्याः केचिद् हृतासवः ॥ ५॥
अन्ये त्वतर्कयन् क्वाद्य गन्तव्यं क्व सुखं भवेत् ।
केचिदाहुर्धाव धाव देवान्तक मृता वयम् ॥ ६॥
एवं कोलाहलं श्रुत्वा ययौ देवान्तकः पुरः ।
सज्जं कृत्वा धनुः शीघ्रं शरानाशीविषोपमान् ॥ ७॥
ससर्ज तस्या गात्रेषु दर्शयन् पाणिलाघवम् ।
आच्छाद्य भानुं तन्मूर्ध्ना बाणजालैस्तथाविधैः ॥ ८॥
सा प्रसार्य महद्वक्त्रं बिसवद् गिलते शरान् ।
तूणीरास्तस्य दैत्यस्य सर्वे रिक्तास्तदाऽभवन् ॥ ९॥
न तस्यास्तृप्तिरभवद् राक्षसस्येव मानुषैः ।
देवान्तकं क्षीणशक्तिं दृष्ट्वा सा सैन्यमाययौ ॥ १०॥
भक्षयामास तान् दैत्यान् कांश्चिद्धस्तादपातयत् ।
कांश्चिद्गले विनिक्षिप्य चूर्णयामास चापरान् ॥ ११॥
असङ्ख्यकोटीर्दैत्यानां भक्षिताश्चूर्णिता हताः ।
चूर्णयन्ती पदाघातैः कांश्चिद्देवान्तकं ययौ ॥ १२॥
तमुवाच तदा सा तु विश मे भगगव्हरम् ।
यत्र ते शेरते दैत्या मातुर्गर्भं गता इव ॥ १३॥
ये भक्षिता मृतास्ते मे जठरे जीर्णतां गताः ।
तद्भित्या स पपालाशु मूत्रविड्गन्धविव्हलः ॥ १४॥
यत्र यत्र प्रलीनोऽभूत्तत्र तत्रापि सा ययौ ।
बभ्राम स्वर्गलोकान् स पातालानि दिशो दश ॥ १५॥
ततः शिखां समाक्रम्य धृत्वा तं प्राक्षिपद् भगे ।
तया सह ततो बुद्धिर्विनायकमुपाययौ ॥ १६॥
ननाम तां पुरस्कृत्य मदघूर्णिणितलोचनाम् ।
पातयन्तीमुभयतः स्तनाघाताद् वनस्पतीन् ॥ १७॥
शरधाराश्च घनवत् स्रवन्ती मन्दगामिनी ।
निराकरोत्करालां तां दृष्ट्वा देवो विनायकः ॥ १८॥
निराकृतायां तस्यां तद्भगाद्दैत्योऽपतद्भुवि ।
सोऽपि दुर्गन्धिरित्येव दूतैः सन्त्याजितो बहिः ॥ १९॥
स तु संज्ञां समासाद्य स्नात्वा तूष्णीं गृहं ययौ ।
व्रीडितोऽधोमुखश्चिन्तां यातो म्लानोऽतिदुःखितः ॥ २०॥
बुद्धया निवेदिता सा तु ननाम तं विनायकम् ।
तां दृष्ट्वा जहसुर्बिभ्युर्मम्लुः पेतुश्च केचन ॥ २१॥
तता सैनं जगादाशु भक्षिता दैत्यवाहिनी ।
सोऽपि देवान्तकः पायौ निक्षिप्य स्थापितो मया ॥ २२॥
इदानीं वसतिस्थानं देदि देव दयानिधे ।
देव उवाच ।
वन्चयित्वा गतो दैत्यो गृहं स्वं दैत्यनाशिनि ॥ २३॥
तवापि पौरुषं ज्ञातं शक्रादिभ्योऽधिकं मया ।
विशवक्त्रं ममैव त्वं विश्रान्तिं तत्र गच्छ च ॥ २४॥
अहं तं साधयिष्यामि मा चिन्तां कर्तुमर्हसि ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं दृष्ट्वा वक्त्रं विवेश सा ॥ २५॥
सुष्वाप परमप्रीता मातुरङके यथाऽर्भकः ।
उदरे देवदेवस्य सर्वलोकनिवासिनि ॥ २६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बुद्धिविजयो नाम पञ्चषष्टितमोऽध्यायः ॥ ६५॥
आदितः श्लोकानां समष्ट्यङ्काः - ७०१८ + २६ =७०४४
२.०६६ सिद्धिपराजयो नाम षट्षष्टितमोऽध्यायः
क उवाच ।
शारदा रौद्रकेतुश्च रात्रौ देवान्तकं सुतम् ।
एकाकिनं निरीक्ष्यैनं समालिङ्ग्य समूचतुः ॥ १॥
आच्छादयन्तं वदनं व्रीडितं भृशविव्हलम् ।
अभाषमाणं कम्पन्तं वातयुक्तमिव द्रुमम् ॥ २॥
पितोवाच ।
किमर्थं वदसे नैव स्वामवस्थां तु मूकवत् ।
ईप्सितं साधयिष्यामि यत्नात् त्रैलोक्यदुर्लभम् ॥ ३॥
क उवाच ।
पीत्वा वागमृतं तस्य सावधानमनाः सुतः ।
उवाच पितरं मातुर्निकटे निर्विशङ्कया ॥ ४॥
पुत्र उवाच ।
भवदाज्ञां गृहीत्वैव योद्धुं यातो विनायकम् ।
शरैराशीविषाकारैरसङ्ख्यर्नाशिताः सुराः ॥ ५॥
प्रवर्तिता असृङ्नद्यो भग्ना सेना तु काश्यपी ।
तत एका महाकृत्या दरीवक्त्रा नभःस्पृशी ॥ ६॥
करालकेशी पातालचरणा पर्वतस्तना ।
आगता देवसेनाया रक्षणार्थं ममान्तिकम् ॥ ७॥
खड्गेन निहता सा तु विव्यथे नैव किञ्चन ।
निक्षिप्ता सर्वसेना मे तया तात दरीभगे ॥ ८॥
भक्षयन्त्येव सर्वाणि शस्त्राणि शरसञ्चयान् ।
सा मां भगे विनिक्ष्यिप्य याता देवं विनायकम् ॥ ९॥
स्निग्धत्वात्तद्भगस्याहं चलितः पतितो भुवि ।
महान्धकारे न ज्ञातः पलाय्य गृहमागतः ॥ १०॥
स्नात्वा नदीजले तात व्रीडितोऽधोमुखस्ततः ।
क उवाच ।
एवं पुत्रवचः श्रुत्वा रौद्रकेतुर्जगाद तम् ॥ ११॥
उपायं ते वदाम्येकं न चिन्तां कर्तुमर्हसि ।
ततो मुहूर्तमालोक्य ददौ तस्मै महामनुम् ॥ १२॥
अघोरस्य सबीजं तमुवाच जनकः पुनः ।
शिवं ध्यात्वा च सम्पूज्य कुर्वनुष्ठानमुत्तमम् ॥ १३॥
होमं च तर्पणं विप्रभोजनं च दशांशतः ।
शिवे प्रसन्ने कुण्डाद्धि तुरङ्गो निःसरिष्यति ॥ १४॥
तमारुह्य व्रज रणं जयं प्राप्स्यसि निश्चितम् ।
क उवाच ।
एवं पितुर्वचः श्रुत्वा प्राह पुत्रो मुदा च तम् ॥ १५॥
उपदेशः कृतः सम्यग्विधिमस्य ब्रवीतु मे ।
ततो लोकं निवार्यैव जग्मतुर्गृहमध्यतः ॥ १६॥
उभावारक्तवसनौ रक्तचन्दनचर्चितौ ।
रक्तपुष्पाणि सन्नीय शिवं पुपूजतुस्तदा ॥ १७॥
अनुष्ठानं बहुदिनं चक्रतुः परमादरात् ।
अनुष्ठाने समाप्ते तु कुण्डं चक्रतुरादरात् ॥ १८॥
षट्कोणं लक्षणैर्युक्तं मेखलायोनिसंयुतम् ।
तत्राग्निं विधिवत्स्थाप्य पात्राणि च यथाविधि ॥ १९॥
पञ्चप्रेतासनगतौ जहुवुस्तौ हविस्तदा ।
स्वजानुभागमांसानि छित्त्वा छित्त्वा च भक्तितः ॥ २०॥
असृग्घृतेन मांसेन तप्तोऽभूत् पावकस्तदा ।
दशांशहोमे जाते तु पुपूजे वह्निदेवताम् ॥ २१॥
बलिदानं चकाराशु छित्त्वा पुत्रशिरस्तदा ।
तेन पूर्णाहुतिं चक्रे विससर्जाथ पावकम् ॥ २२॥
ईश्वरस्य प्रसादेन पुत्रोऽस्य पूर्ववद् बभौ ।
ब्राह्मणान्भोजयामास तर्पणान्ते यथाविधि ॥ २३॥
ततो रात्र्यां व्यतीतायामुदिते च दिवाकरे ।
ददर्श तुरगं कृष्णं स्निग्धाङ्गं बलवत्तरम् ॥ २४॥
मनोजवं हेषितेन कम्पयन्तं जगत्त्रयम् ।
पुपूज परया भक्त्या नीराज्यैनं यथाविधि ॥ २५॥
अलङ्कृत्यालङ्करणैर्मणिमुक्तामयैः शुभैः ।
नमस्कृत्य द्विजान् सम्यक् पितरं परिगृह्य च ॥ २६॥
आशिषोऽथ समारुह्य तमश्वं स सुरान्तकः ।
शेषसेनां समादाय ययौ शेषं प्रकम्पयन् ॥ २७॥
शस्त्रास्त्रैः कवचैः शूलैर्भाति सेना धनुःशरैः ।
आससाद रणस्तम्भं तया सह सुरान्तकः ॥ २८॥
क्रन्दत्सु सर्वसैन्येषु संत्रस्ता देववाहिनी ।
व्याप्ते तु राजसा व्योम्नि न प्राज्ञायत किञ्चन ॥ २९॥
पुनरप्यागतो दैत्यः सद्यः सेनाविघातकः ।
सिद्धिसेनाचराश्चैव प्राद्रवन् दुःखिता भृशम् ॥ ३०॥
दृष्ट्वा रणागतं तं तु सिद्धिसेना समुत्थिता ।
हेषाभिःसिंहनादैश्च नादयन्ती दिगन्तरम् ॥ ३१॥
ततः शत्रप्रहारैश्च विजघ्नुरितरेतरम् ।
सहस्व प्रहरामीति प्रबोध्य जघ्नुरोजसा ॥ ३२॥
भुवि जानुं विनिक्षिप्य शरानाशीविषोमपान् ।
आकर्णं धनुराकृष्य युयधुस्ते परस्परम् ॥ ३३॥
खेटानि चान्तरे कृत्वा युयुधुश्चापरे तदा ।
स्मृत्वा पूर्वप्रहारं च परिजघ्नुश्च केचन ॥ ३४॥
पूर्ववैरमनुस्मृत्य रिपुंश्चक्रे विरूपिणः ।
कोऽपि वीरश्रिया युक्तो रिपुं केशेषु चाग्रहीत् ॥ ३५॥
पार्ष्णिघातैर्मुष्टिघातैः पातयामास भूतले ।
कौचिन्मत्तौ शिरोघातं जघ्नतुरितरेतरम् ॥ ३६॥
ततो भग्नां दैत्यसेनां दृष्ट्वा स तु सुरान्तकः ।
अश्वं सम्प्रेषयामास सेनां सिद्धिविनिर्मिताम् ॥ ३७॥
अश्वहेषां समाकर्ण्य केचिन्मूर्छागता भुवि ।
पतिता अश्वचरणैश्चूर्णिताश्चापरेसुराः ॥ ३८॥
त्रिशूलेन हताश्चान्ये खड्गेन च तथा परे ।
बाणजालैरनेकैश्च पातयामास वै सुरान् ॥ ३९॥
सर्वस्मिन् हन्यमाने तु स्वसैन्ये सिद्धयस्तदा ।
पलायनं समालम्ब्य ययुः सर्वा विनायकम् ॥ ४०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिद्धिपराजयो नाम षट्षष्टितमोऽध्यायः ॥ ६६॥
आदितः श्लोकानां समष्ट्यङ्काः - ७०४४ + ४० = ७०८४
२.०६७ अस्त्रयुद्धं नाम सप्तषष्टितमोऽध्यायः
क उवाच ।
स तज्ज्ञात्वा महाश्चर्यं चकार निजचेतसि ।
ततो विनायकः क्रोधात् सिंहारूढो रणोत्सुकः ॥ १॥
स्वगर्जितेन च तदा गर्जयन् गगनं दिशः ।
कम्पयन् सर्वलोकानां मनांसि पर्वतानपि ॥ २॥
ययौ वेगेन महता देवान्तकसमीपतः ।
प्रहस्य तमुवाचाथ दैत्यो देवान्तकस्तदा ।
दैत्य उवाच ।
कथं यातः शुष्कतालुर्नवनीतादनक्षमः ।
युद्धाय बाल न स्थेयं गच्छ मातुः स्तनं पिब ॥ ३॥
अदित्यां कश्यपाज्जातः कथं मूढ त्वमागतः ।
यतो देवान्तकेनाद्य योद्धुमिच्छसि बालक ॥ ४॥
कालो बिभेति मां दृष्ट्वा वृथा त्वं मर्तुमिच्छसि ।
अतिकोमलगात्रत्वाद् ग्रासमात्रं भविष्यसि ॥ ५॥
क उवाच ।
इति दैत्यवचः श्रुत्वा क्रोधसंरक्तलोचनः ।
विनायकः प्रहस्याह वमन् वक्त्राद् हुताशनम् ॥ ६॥
देव उवाच ।
क्षीवोऽसि मद्यपानेन प्रायो वा सन्निपातवान् ।
असम्बद्धं युक्तिहीनं वल्गसे मूढभावतः ॥ ७॥
वह्निर्दहति सर्वं हि लघुर्वायुसमीरितः ।
त्वद्वाक्यनुन्नस्त्वां हन्यां दैत्याधम न बुध्यसे ॥ ८॥
इदानीं त्यज बुद्धिं तां नान्तको विद्यते मम ।
त्वदर्थमवतीर्णोऽहं ब्रह्मभूतः सनातनः ॥ ९॥
स्थाणोर्वरस्य गर्वेण कृतं ते सर्वपीडनम् ।
अवधिं तस्य सम्प्राप्तं बुद्धिहीन न बुध्यसे ॥ १०॥
त्रैलोक्यपीडया पापं यज्जातं तव दुर्मते ।
अलं ते कत्थनेनाद्य दर्शयस्व स्वपौरुषम् ॥ ११॥
शक्तिपायोर्विनिर्गत्य कस्त्वां वक्त्रं प्रदर्शयेत् ।
सहस्व प्रहरस्वाद्य यदि युद्धं त्वमिच्छसि ॥ १२॥
श्वोभाविनं मृत्युमद्य मूढभावात्त्वमिच्छसि ।
क उवाच ।
एवमाभाष्य तं दैत्यं सज्जं चक्रे धनुः प्रभुः ॥ १३॥
नरान्तगतिं तस्य दातुमिच्छन्विनायकः ।
टणत्कारेण धनुषश्चकम्पे भुवनत्रयम् ॥ १४॥
आकर्णं ज्यामथाकृष्य बाणं दैत्ये ससर्ज ह ।
दैत्येन शतधा भिन्नः स बाणः पतितो भुवि ॥ १५॥
ततो दैत्यो धनुः सज्यं कृत्वा चिक्षेप सायकान् ।
धनुषस्तस्य शब्देन विनेदुः पर्वता दिशः ॥ १६॥
हुङ्कारेण च तान् बाणान् पातयामास विघ्नराट् ।
पुनर्विनायको बाणान् बहूँश्चिक्षेप दैत्यपे ॥ १७॥
एकेन मुकुटं तस्य शरेण कर्णकुण्डले ।
भूमौ न्यपातयद्देवो बाहू द्वाभ्यां बिभेद च ॥ १८॥
ललाटं सायकेनैव ततो दैत्यो रुषान्वितः ।
चचर्व दन्तान्नेत्रे च विस्फार्यान्यान् शरान्बहून् ॥ १९॥
छादयन् गगनं काष्ठा विससर्ज विनायकम् ।
निरास्यैकेन बाणेन खमध्ये तान्विनायकः ॥ २०॥
स्वयं चक्रे मण्डपं स क्षणाद् बाणमयं विभुः ।
अन्धकारे घोरतरे युयुधाते परस्परम् ॥ २१॥
शरवृष्टया बाणवृष्टिं निजघ्नतू रुषान्वितौ ।
शतशस्तौ निराकृत्य बाणवृष्टी उभावपि ॥ २२॥
ततो दैत्यो महामन्त्रं जप्त्वाऽष्टशतसङ्ख्यया ।
मन्त्रयामास तेनाशु वारणास्रेण सायकम् ॥ २३॥
तत्याजाथ प्रादुरासन् वारणाः कोटिशस्ततः ।
चतुर्दन्ता गिरिनिभा मेरुमन्दरचूर्णिनः ॥ २४॥
येषां मदवहा नद्यः प्रादुरासन् समन्ततः ।
येषां बृंहितमात्रेण नादितं भुवनत्रयम् ॥ २५॥
यथा घनानां वर्षासु गर्जितेन महामुने ।
नाशयामासुरनिशं देवसैन्यानि ते गजाः ॥ २६॥
धावतां पृष्ठलग्नास्ते गजा यान्ति दिशो दश ।
पादाघातैश्च हस्तैश्च दन्ताग्रैर्वीरघातिनः ॥ २७॥
सेनायाः कदनं दृष्ट्वा सिंहास्रं प्राक्षिपद्विभुः ।
ततः सिंहाः प्रादुरासन्शतशोऽथ सहस्रशः ॥ २८॥
तेषां गर्जित शब्देन गजा निपतिता भुवि ।
सिंहा विदारयामासुर्गजगण्डस्थलानि ते ॥ २९॥
सिंहनादैर्बृंहितैश्च दैत्यशब्दैरनेकशः ।
त्रैलोक्यं कम्पितमभूद्देवाः सर्वे विसिस्मिरे ॥ ३०॥
उड्डीयोड्डीय सिंहास्ते गजकुम्भेष पेतिरे ।
एवं ते निहताः सर्वे करिणः सिंहसञ्चयैः ॥ ३१॥
विरेजुरिन्द्रनिहता वज्रेणेव महीधराः ।
ततः सिंहा ययुर्दैत्यान् भक्षयन्तो दिशो दश ॥ ३२॥
निहते सर्वसैन्ये तु चितामाप सुरान्तकः ।
अयं बालोऽपि बलवान् दृश्यते कश्यपात्मजः ॥ ३३॥
इदानीं दर्शयिष्येऽस्य यमस्य सदनं ध्रुवम् ।
एवमुक्त्वा पुनर्बाणं मन्त्रयामास दैत्यराट् ॥ ३४॥
योजयामास धनुषि शार्दूलप्रसवं तदा ।
आकर्णं धनुराकृष्य मुमोच देववाहिनीम् ॥ ३५॥
बाणः स च ययौ शीघ्रं नादयन्गगनं दिशः ।
यत्पुङ्खवायुना भग्ना निपेतुर्वक्षसञ्चयाः ॥ ३६॥
प्रादुरासन्ननेकाश्च ततः शार्दूलसञ्चयाः ।
सिंहास्ते भक्षयामासु सिंहास्तेऽन्तर्हितास्ततः ॥ ३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डेऽस्त्रयुद्धं नाम सप्तषष्टितमोऽध्यायः ॥ ६७॥
आदितः श्लोकानां समष्ट्यङ्काः - ७०८४ + ३७ = ७१२१
२.०६८ अस्त्रयुद्धं नामाष्टषष्टितमोऽध्यायः
क उवाच ।
ततो दैत्यो बाणयुगं मन्त्रयामास सादरम् ।
निद्रास्त्रेण तदा चैकं गन्धर्वांस्त्रेण चापरम् ॥ १॥
वामजानुं पुरः स्थाप्य ज्यामाकृष्य ससर्ज तौ ।
तयोः शब्देन सहसा च कम्पे भुवनत्रयम् ॥ २॥
एकः सैन्ये निपतितोऽपरो देवसमीपतः ।
ततस्ताला मृदगाँश्च गन्धर्वाम्प्सरसस्तथा ॥ ३॥
गाननृत्यानि चित्राणि पुरोऽपश्यद् विनायकः ।
पतितानि च शस्त्राणि न बुबोध करात्तदा ॥ ४॥
मोहितो मञ्जुलरवैः कर्तव्यं नाभ्यपद्यत ।
सैनिकाः सुषुपुः सर्वे निद्रास्त्रेण विमोहिताः ॥ ५॥
निशामुखे यथा बाला अव्यवस्थं हि शेरते ।
स्त्रियोऽपि चाथ ताः सर्वाः सुषपुर्विगतत्रपाः ॥ ६॥
देवान्तकोऽपश्यदेवं जहर्ष च जगर्ज च ।
ततः संस्थापयामास गुल्मानि परितो बहु ॥ ७॥
देवसैन्यस्य महतो बली वीरयुतानि च ।
चक्रे कुण्डं त्रिकोणं च भूमिसाधनपूर्वकम् ॥ ८॥
असृक्कुम्भान्समानीय शतसङ्ख्यान्प्रयत्नतः ।
स्नात्वा पद्मासनं चक्रे नानाप्रेतेषु सादरम् ॥ ९॥
दैत्यान्निहत्य शतशो मांसराशिं महत्तरम् ।
चकाराभिचरं दैत्यो वह्निं स्थाप्य यथाविधि ॥ १०॥
दिगम्बरो जुहावाथ मांसानि मन्त्रपूर्वकम् ।
सहस्रे तु हुते पश्चाद्बलिं पूर्णाहुतिं च यः ॥ ११॥
चकार कुण्डमध्ये सोऽपश्यच्छक्तिं क्षुधातुराम् ।
नरमांसानि तस्यै स ददौ पातुं च तान्घटान् ॥ १२॥
अतृप्तां तां परिज्ञाय प्रेतानन्यानथार्पयत् ।
ततः सा बहिरायाता व्योमकेशी भयङ्करा ॥ १३॥
विशालगर्तनेत्राऽतिकरालवदनाऽरुणा ।
उवाच परमप्रीता नादयन्ती दिशो दश ॥ १४॥
तृप्तास्मि रक्तमांसैस्ते न भयं विद्यते क्वचित् ।
तामुवाचाथ दैत्योऽपि पुपूजे भक्तिभावतः ॥ १५॥
उपचारैः षोडशभिः प्रणिपातपुरःसरम् ।
ततो दिव्याम्बरधरो नानालङ्कारभूषितः ॥ १६॥
देव्या अङ्कं समासाद्य जगर्ज बलवत्तरम् ।
सोड्डीय तेन सहिता नभस्येव स्थिताऽभवत् ॥ १७॥
नानाशस्त्रधरा सोऽपि धनुर्बाणधरो बभौ ।
तामुवाच रौद्रकेतुपुत्रः परमहर्षितः ॥ १८॥
कश्यपस्यात्मजो बालश्चञ्चलो बहुलं पुरा ।
इदानीमत्र किं तेन कर्तव्यं कुचरेण मे ॥ १९॥
इदानीं सर्वसैन्यानि नाशयिष्ये तवाग्रतः ।
एवं ब्रवति दैत्येन्द्र काशिराजोऽशृणोद्वचः ॥ २०॥
ततो विनायकं राजा बोधयामास सादरम् ।
काशीराजोवाच ।
भूतभव्यभविष्यज्ञ कथं मायां न बुध्यसे ॥ २१॥
गान्धर्वीं दैत्यरचितां कथं सक्तोऽसि तत्र वै ।
देवान्तकेनाभिचरान्निर्मितां राक्षसीमिव ॥ २२॥
सा हनिष्यति ते सैन्यं सावधानमना भव ।
क उवाच ।
एवं नृपवचः श्रुत्वा सावधानमना विभुः ॥ २३॥
बुद्ध्वा तज्ज्ञानदृष्ट्यैव सर्वं मायामयं तदा ।
शरद्वयं विनिष्कृष्य मन्त्राभ्यां परिमन्त्र्य च ॥ २४॥
घण्टास्त्रेण खगास्त्रेण श्रोत्राकर्षणसम्भ्रमात् ।
विनायको मुमोचाऽथ तौ बाणौ वेगवत्तरौ ॥ २५॥
गर्जन्तौ घनवद्रुक्मपुङ्खौ मारुतवेगिनौ ।
सहसाच्छादयन्तौ च सहस्रकरमण्डलम् ॥ २६॥
घण्टानादः समभवन् महान् सर्वविमोहनः ।
ततो घण्टास्वनान् श्रुत्वा प्रोत्तस्थुः सर्वसैनिकाः ॥ २७॥
सिद्धयः सर्ववीराश्च युयुधुः शस्त्रपाणयः ।
अपरस्तस्य सैन्येषु मुक्तो बाणः खगास्त्रतः ॥ २८॥
ततः खगाः प्रादुरासन्नानारूपा महौजसः ।
पक्षवातेन तेषां तद्गान्धर्वं लयमागतम् ॥ २९॥
अन्धकारं यथा सूर्यसारथेरुदयान्मुने ।
ततस्ते पक्षिणः सर्वे बभक्षुर्दैत्यसैनिकान् ॥ ३०॥
पक्षाघातहताः केचित् केचिच्चञ्च्वग्रविक्षताः ।
केचिद् भीत्येव पतिता दैत्याःप्राणान् विहाय च ॥ ३१॥
हाहाकारो महानासीद् दैत्यसैन्येषु सर्वशः ।
ततो देवान्तको रोषात् खड्गास्त्रं प्राहिणोत्तदा ॥ ३२॥
तस्य ध्वनिं समाकर्ण्य चुक्षुभे सैन्यसागरः ।
दिग्गजाश्च ततः खड्गा असङ्ख्याता विनिःसृताः ॥ ३३॥
वह्निमन्तश्च सङ्घट्टात् सेनयोरुभयोरपि ।
अग्निदग्धास्तदा दैत्या निपेतुर्धरणीतले ॥ ३४॥
खगाश्च निहताः केचित् केचिद् दग्धास्तथाग्निना ।
अपरे ययुरन्तर्द्धि दिशश्चाथ चकाशिरे ॥ ३५॥
असङ्ख्यखड्गप्रभया सेन्नाचक्षुर्महोमुषा ।
खड्गवृष्टया विनिहता देवाः पेतुर्धरातले ॥ ३६॥
केषाच्चिद् बाहवच्छिन्नाः केषाच्चिन्मस्तकाः कराः ।
जठरे जानुभागे च पृष्ठभागेऽपरा हताः ॥ ३७॥
निपेतुर्देवपुञ्जेषु मृतेषु च गतासवः ।
अष्टसिद्धिकृताः सर्वाः सेना एवं विनाशिताः ॥ ३८॥
असृङ्नद्यो दश दिशो याताः प्रेतवहास्तदा ।
विनायकस्ततो दृष्ट्वा दैत्यस्याद्भुतविक्रमम् ॥ ३९॥
बाणं निष्काश्य सुदृढं वज्रास्त्रेणाभिमन्त्र्य च ।
आक्रन्दनेन महता दैत्यसैन्ये मुमोच तम् ॥ ४०॥
पर्वताश्च द्रुमास्तस्य शब्देन पतिता भुवि ।
तदस्त्रानलसंयोगाद् दिग्दाहः समजायत ॥ ४१॥
देदीप्यमानं सहसाच्छादयन् रविमण्डलम् ।
पक्षिणो निहता दग्धास्तेजसा तस्य केचन ॥ ४२॥
खण्डितं तेन सहसा खड्गास्त्रं तत्सहस्रशः ।
निर्ददाह तदा दैत्यसेनां वज्रैरनेकशः ॥ ४३॥
सहस्रशो निहन्यन्ते एकया वज्रधारया ।
यतो यतोऽगमद् दैत्यस्तत्र तत्रापतच्च तत् ॥ ४४॥
चुचूर्ण मस्तकान् पादान् हस्तान् स्कन्धानुरूनपि ।
धरां भित्त्वा गता दैत्यास्तानप्यथ जघान तत् ॥ ४५॥
एवं सर्वे हता दैत्या वज्रैस्तीक्ष्णैः सहस्रशः ।
ततो देवान्तकं जग्मुस्तानि वज्राणि सर्वशः ॥ ४६॥
सोऽपि बाणं समादाय मन्त्रयामास यत्नतः ।
रौद्रास्त्रेणाथ संयोज्य धनुषः कर्षणेन तम् ॥ ४७॥
ससर्ज परसैन्येषु शिवनामाङ्कितं शुभम् ।
नादयन् गगनं सोऽथ दिशश्च विदिशोऽपि च ॥ ४८॥
वमन्नग्निकणान् दिक्षु प्रलयानलसन्निभः ।
भूलोका देवलोकाश्च भयाद् याता दिशो दश ॥ ४९॥
विनायकस्य सैन्येषु महाकोलाहलो ह्यभूत् ।
तस्मिन्निपतिते बाणे पुरुषो घोरदर्शनः ॥ ५०॥
निःसृतो भीषणमुखस्त्रैलोक्यं ग्रासयन्निव ।
जटिलो दीर्घहस्तश्च दीर्घपादो महोदरः ॥ ५१॥
धराधरो व्योमगोष्ठो गिरिजिव्हो भयानकः ।
वज्रास्त्रं भक्षयामास क्षणात् स पुरुषो महान् ॥ ५२॥
विनायकं हन्तुकामो ययौ तस्यान्तिकं क्षणात् ।
ततो विनायकः शीघ्रं ब्रह्मास्त्रं समयोजयत् ॥ ५३॥
मन्त्रेण शतसङ्ख्येन सायके वेगवत्तरे ।
आकर्णकर्षणाद् देवो मुमोच सहसा च तम् ॥ ५४॥
चकम्पे तस्य शब्देन तारेण भुवनत्रयम् ।
विस्फुलिङ्गैर्दिशो दग्धा न प्राज्ञायत किञ्चन ॥ ५५॥
ततोऽपि पुरुषो जज्ञे तादृशोऽतिभयानकः ।
तावुभौ युद्धतो व्योम्नि परस्परजयैषिणौ ॥ ५६॥
नानाविधं मल्लयुद्धं चक्रतुस्तौ महाबलौ ।
क्षणेनान्तर्हितो चोभौ न दृश्यतेऽथ कुत्रचित् ॥ ५७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे भयानकास्त्रयुद्धं नामाष्टषष्टितमोऽध्यायः ॥ ६८॥
आदितः श्लोकानां समष्ट्यङ्काः -७१२१ + ५७ = ७१७८
२.०६९ एकोनसप्ततितमोऽध्यायः
क उवाच ।
ततो देवान्तकोऽतीव विस्मितोऽतर्कयत् तदा ।
यथा यथा मया माया क्रियतेऽस्य निवृत्तये ॥ १॥
तथा तथाऽप्ययं बालो दर्शयत्येव पौरुषम् ।
कदायं निधनं यायात् कदा स्वप्स्ये गतश्रमः ॥ २॥
इत्येवं चिन्तयाविष्टो धनुः सज्यमथाकरोत् ।
अभिमन्त्र्य शरं घोरं विससर्ज विनायके ॥ ३॥
स सायको बाणवर्षमनन्तं कृतवान् विभौ ।
शक्तिं च निर्ममे घोरां त्रैलोक्यग्राससाहसाम् ॥ ४॥
ददर्श विघ्नराजस्तं तदङ्के दैत्यपुङ्गवम् ।
वर्षन्तं शरजालानि तीक्ष्णानि सुबहून्यपि ॥ ५॥
ततोऽष्टसिद्धयः शीघ्रमुड्डीय बलवत्तरम् ।
दध्रुस्तां सहसा शक्तिमानिन्युस्तां विनायकम् ॥ ६॥
आनीयमाना सा हस्तान्निःसृत्याऽथ पलायिता ।
रोषात् ताभिर्दैत्यपतिरानायि स कचग्रहात् ॥ ७॥
अणिमानं ततो दैत्यो जघान मुष्टिना दृढम् ।
मुष्टिघातं समासाद्य मूर्छिता निपपात ह ॥ ८॥
लघिमा गरिमा चाथ वशिमा तं महासुरम् ।
यावल्लत्ताप्रहारैस्तु निजघ्नुस्तावदेव हि ॥ ९॥
दैत्येन विधृताः वेगाच्चरणेषु पृथक्पृथक् ।
यावदास्फालयत् पृथ्व्यां निःसृतास्तावदेवताः ॥ १०॥
प्राकाम्यं चैव भूतिश्च जघ्नतुस्तं ततो बलात् ।
पपात भूतले दैत्यो वमन्नग्निं मुखात्ततः ॥ ११॥
क्षणाल्लभ्य ततः संज्ञामारुरोह हयं दृढम् ।
शस्त्रपाणिर्वायुवेगो निजघान विनायकम् ॥ १२॥
दृढासिघाताद् देवोऽथ किञ्चिन् मूर्च्छामवाप्तवान् ।
निमेषात्सावधानोऽभूदधावद् दैत्यनायकम् ॥ १३॥
हिरण्यकशिपुं विष्णुर्यथा वृत्रं शचीपतिः ।
शरं च कमलं पाशमङ्कुशं च चतुःकरैः ॥ १४॥
बिभ्राणः शुशुभे वीरश्रिया परमया ज्वलन् ।
गर्जित्वा घनवद् देवो जघान दैत्यपुङ्गवम् ॥ १५॥
चतुर्भिरायुधैर्वेगान्न चचाल तथापि सः ।
आश्चर्यं परमं प्राप दृष्ट्वा शस्त्रं वृथागतम् ॥ १६॥
वज्रात् सारतरं मेने दैत्यदैहं विनायकः ।
ततो देवो राक्षसस्य धूम्राक्ष्यस्य महायुधम् ॥ १७॥
वज्रं सञ्चूर्णयन् सूर्यमण्डलादागतं तु यत् ।
तदादायाऽहनत्तेन दैत्यं तच्छतधाऽभवत् ॥ १८॥
न रोमापि चचालाऽस्य तदप्याश्चर्यमुत्तमम् ।
ततो नानाशस्त्रघातैर्जघ्नतुस्तौ परस्परम् ॥ १९॥
मस्तके पृष्ठभागे च हृदये बाहुमण्डले ।
तयोः शस्त्रविघातेन जातो वह्निर्वसुन्धराम् ॥ २०॥
ददाह न च तौ भीतौ युद्धमेवान्वपद्यत ।
निशीथे तमसा व्याप्ते विरामं न समीयतुः ॥ २१॥
ततः कृत्रिमदीप्त्या तौ परस्परमयुध्यताम् ।
ततो मायां रौद्रकेतुश्चक्रे सुरविमोहिनीम् ॥ २२॥
अदितिं सुन्दरां कृत्वा दैत्यहस्ते न्यवेशयत् ।
पद्मनेत्रां पीनकुचां कुङ्कुमारक्तभालिकाम् ॥ २३॥
मुक्तहारां सुवलयां दिव्यांशुकविराजिताम् ।
लावण्यलहरीं रुक्मविलसद्दिव्यकञ्चुकाम् ॥ २४॥
विनायकं निरीक्ष्यैव रुरोद दैत्यहस्तगा ।
धाव धावेति तं प्राह त्रासिताऽहं किमीक्ष्यसे ॥ २५॥
एवं ब्रुवत्या दैत्योऽस्याश्चिच्छेद कञ्चुकीं बलात् ।
अंशुकं च चकर्षांस्या मदेनाविष्टचेतसा ॥ २६॥
उच्चैरुवाच देवं सा क्व गता पुरुषार्थता ।
लोकलज्जाभयान्मां त्वं निःस्नेहाशु विमोचय ॥ २७॥
विनायको निरीक्ष्यैतां बाष्पकण्ठो रुषान्वितः ।
न सस्मार विचारं स शस्त्राणि जगलुः करात् ॥ २८॥
शुशोच मम मातेयं कथमस्य करे गता ।
धिग्जन्म यस्य जननि गताऽवस्थां दुरत्ययाम् ॥ २९॥
देवानां जननी चैव सम्प्राप्ता दृष्टसङ्गतिम् ।
काशिराजोऽपि तं दृष्ट्वा शोचन्तं गणनायकम् ॥ ३०॥
स्वयं शुशोच बहुधा लोकोऽपि नगरे स्थितः ।
ततो देवान्तको देवं जगर्हे बहुधा तदा ॥ ३१॥
धिग्जन्म पौरुषं तेऽद्य न प्राणं त्यजसे कथम् ।
निर्लज्जोऽसि मुखं लोके दर्शयस्येव योऽधुना ॥ ३२॥
त्वत्समीपं हनिष्येऽस्याः शिरः कायात्खलाधुना ।
क उवाच ।
इति तं निष्ठुरं वाक्यं श्रुत्वा देवो विनायकः ॥ ३३॥
तर्कयामास मनसि सत्यमेव वदत्ययम् ।
प्राणत्यागाय किं कार्यं विषं वा पाशबन्धनम् ॥ ३४॥
उदरे शस्त्रसङ्घातः कार्यो वा मृत्युहेतवे ।
इत्थं यावच्चिन्तयते दुःखशोकसमन्वितः ॥ ३५॥
तावदाकाशवाणीं स शुश्राव च विनायकः ।
सोवाच ।
मायेयं रचिता देव दैत्येन दुष्टबुद्धिना ॥ ३६॥
अवधेहि रणंयत्तो भूत्वा जहि निजं रिपुम् ।
ततः स सावधानोऽभूज्ज्ञात्वा मायामयीं तु ताम् ॥ ३७॥
जहर्ष च महाबुद्धिर्दैत्यं हन्तुं प्रचक्रमे ।
स्मृत्वा च तद्वरं शम्भुदत्तं तस्मै दुरात्मने ॥ ३८॥
उषःकालं विना सर्वशस्त्रास्त्राणि वृथा त्वयि ।
एवं तस्य वरं ज्ञात्वा प्रातर्युद्धाय निर्ययौ ॥ ३९॥
दैत्योऽपि पुरतोऽपश्यद् युद्धान्ते तं विनायकम् ।
आरक्तनयनं भ्राजन्मुकुटं कुण्डलोज्वलम् ॥ ४०॥
दन्तप्रकाशरुचिरं मुक्तादामविभूषितम् ।
दिव्याम्बरं सुधामानं व्योमस्पृक्पुष्करं विभुम् ॥ ४१॥
दृष्ट्वा देवान्तको रूपं बिभाय च विसस्मरे ।
अर्द्धं नरशरीरं किमर्द्धं गजसमं परम् ॥ ४२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे मायाप्रदर्शनं नामैकोनसप्ततितमोऽध्यायः ॥ ६९॥
आदितः श्लोकानां समष्ट्यङ्काः - ७१७८ + ४२ = ७२२०
२.०७० बालचरिते पुरप्रवेशो नामसप्ततितमोऽध्यायः
क उवाच ।
एवं वदति यावत्स भयभ्रान्तः सुरान्तकः ।
तावद् देवो दधारैनमुत्सङ्गे लघुबालवत् ॥ १॥
कृत्वा पद्मासनं चारु गणेशः स्वप्रभावतः ।
उवाच चैनं दैत्येन्द्रं वरं स्मर निजं शुभम् ॥ २॥
स दैत्यो रदनं चास्य धृत्वा हस्तद्वयेन ह ।
दोलयामास देहं स्वमन्तरिक्षे मुहूर्मुहुः ॥ ३॥
यावत् पपात भूपृष्ठे भङ्क्त्वा दन्तं सुरान्तकः ।
तावद् दधार तं देवः स्वदन्तं लाघवाद् विभुः ॥ ४॥
अहनत् तेन दन्तेन मस्तके तं सुरान्तकम् ।
जगर्ज च महारावैर्गर्जयन् विदिशो दिशः ॥ ५॥
चालयन् पृथिवीं सर्वां पातालान्यखिलानि च ।
द्विजाघातेन शतधाऽकारि देहोऽस्य तत्क्षणात् ॥ ६॥
असृग्वृष्टिः पपाताशु गगनान्मेघवृष्टिवत् ।
उत्पातं मेनिरे लोकाः सर्वे भूतलवासिनः ॥ ७॥
दैत्यदेहगतं ज्योतिस्तं विवेश विनायकम् ।
पश्यतां सर्वदेवानां प्रधनालोकितं पुनः ॥ ८॥
देहस्तु निपपाताऽस्य धरापृष्ठे त्रियोजनम् ।
चूर्णयन्वृक्षसङ्घातान् पर्वतान् पादपैर्युतान् ॥ ९॥
एवं दृष्ट्वा गतिं तस्य सैनिकाश्च दिशो दश ।
याताश्च कतिचिन्नाशं प्राप्तास्तद्देहपाततः ॥ १०॥
मुमुचुः पुष्पवर्षं ते देवाः स्वस्थानमागताः ।
देवदुन्दुभयो नेदुर्नृपदुन्दुभिनिस्वनैः ॥ ११॥
दिशश्च विमला आसन् ववुर्वाताः सुखावहा ।
तेजांसि वह्नेर्लोकानां प्रसन्नानि तदाऽभवन् ॥ १२॥
प्रतिकूलवहा नद्य आसन्सन्मार्गगास्तथा ।
ततः शक्रादयो देवा मुनयस्तं पुपूजिरे ॥ १३॥
तुष्टुवुः परया भक्त्या देवदेवं विनायकम् ।
विमोचिता वयं बन्धाद् देवान्तककृताद् विभो ॥ १४॥
उपेन्द्र इव देवेन्द्र कार्यं यस्मात्कृतं त्वया ।
उपेन्द्र इति नाम्ना त्वं ख्यातिं लोके गमिष्यसि ॥ १५॥
वयं स्वस्वाधिकारेषु निरातङ्का वसामहे ।
स्वाहास्वधावषट्कारा भविष्यन्ति गृहे गृहे ॥ १६॥
एवमुक्त्वा नमस्कृत्य देवं ते च प्रदक्षिणम् ।
अनुज्ञाता ययुः सर्वे स्वं स्वं स्थानं मुदान्विताः ॥ १७॥
मुनयश्च तदा देवैर्हृषीकेशेति नाम च ।
कृत्वा नत्वा ययुः स्वं स्वमाश्रमं हर्षनिर्भराः ॥ १८॥
ततः सर्वे धराधीशाः सम्पूज्य च प्रणम्य च ।
ऊचुविनायकं देवमुद्धृता धरणी त्वया ॥ १९॥
दैत्यभार भराक्रान्ता तस्मात् त्वं धरणीधरः ।
इत्युक्त्वा ते गताः स्वस्वपत्तनानि तदाज्ञया ॥ २०॥
ततः पश्चात् पश्चति स्म काशिराजो विनायकम् ।
सिंहारूढं बालरूपं क्रीडन्तं बालकैः सह ॥ २१॥
बालोऽपितं नृपं दृष्ट्वा लिलिङ्ग परमादरात् ।
उभावानन्दभरितौ मुञ्चतोऽश्रूणि नेत्रतः ॥ २२॥
तत ऊचे नृपो देवं महद् भाग्यं ममोदितम् ।
ब्रह्मादीनामगम्यं यत्परं ब्रह्म सनातनम् ॥ २३॥
तन्मे दृग्गोचरं नित्यं पूर्वपुण्यफलोदयात् ।
विश्वस्य कारणानां च कारणं तद्विवर्जितम् ॥ २४॥
वेदान्तवेद्यं सत् ज्योतिर्ज्योतिषामपि भास्वरम् ।
नानारूपमरूपं यद् बालरूपेण मे गृहे ॥ २५॥
क्रीडते स्वेच्छया पृथ्वी भारहारि मनोहरम् ।
क उवाच ।
एवं श्रुत्वा स्तुतिं तस्य प्रमृज्याश्रूणि विघ्नराट् ॥ २६॥
उवाच न क्षणं त्वत्तो यामि दूरं कदाचन ।
ततो राजा पुपूजैनमुपचारैरनेकशः ॥ २७॥
ततो वादित्रनिर्घोषैर्बन्दिशब्दैर्विमिश्रितैः ।
सुरान्तकवधाद्धर्षयुक्तैः सेनाचरैः सह ॥ २८॥
विनायकं बालरूपं स्तुवद्भि स्वपुरं ययौ ।
विसृज्य सर्वलोकाँश्च दत्त्वा वासांसि चैकशः ॥ २९॥
ताम्बुलानि च केषाञ्चित् पुरस्कृत्य विनायकम् ।
विवेश स्वगृहं रम्यं हर्षनिर्भरमानसः ॥ ३०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते पुरप्रवेशो नामसप्ततितमोऽध्यायः ॥ ७०॥
आदितः श्लोकानां समष्ट्यङ्काः - ७२२० + ३० = ७२५०
२.०७१ विनायकाश्रमं प्रतिगमनं नामकसप्ततितमोऽध्यायः
क उवाच ।
अपरस्मिन्दिने ब्रह्मन् राजा भद्रासनं गतः ।
अमात्यान् वीरमुख्यांश्च वृद्धांश्च सुहृदो द्विजा ॥ १॥
आकार्य च नमस्कृत्य जगाद हृदि संस्थितम् ।
राजोवाच ।
विवाहाय तु पुत्रस्य समाहूतो विनायकः ॥ २॥
उत्पाता बहवो जातास्ते च तेन निराकृताः ।
अदित्यै च मया प्रोक्तं शीघ्रं ते तनयं शुभम् ॥ ३॥
आनयिष्ये तत्र बहुदिवसा जग्मुरञ्जसा ।
स्वस्थेषु त्रिषु लोकेषु विवाहोऽस्य विचिन्त्यताम् ॥ ४॥
अमात्या ऊचुः ।
सम्यगुक्तं महाराज विलम्बो विघ्नकारितः ।
जातो विवाहकार्येऽस्मिन् गतेऽस्मिन् स विधीयताम् ॥ ५॥
विनायकप्रसादेन सर्वमव्याकुलं जगत् ।
दूरस्थानां च सुहृदां प्रेष्यन्ता लग्नपत्रिकाः ॥ ६॥
दूतांश्च सर्वसम्भारान्कर्तुं ग्रामेषु युज्यताम् ।
क उवाच ।
इति प्रकृतिवाक्यानि श्रुत्वा लोकाः सभासदः ॥ ७॥
साधूक्तमिति तत्रोचुस्ततो राजा जहर्ष च ।
ज्योतिर्विद्भिर्लग्नदिनं निश्चिकाय तदैव सः ॥ ८॥
प्रेषयामास सुहृदो दूतानाकारितुं शुभान् ।
सामग्रीं कारयामास दूतैराप्तैर्यथाविधि ॥ ९॥
ततो मगधराजोऽपि सुतामादाय तां पुरीम् ।
आययुः सर्वसुहृदो नानादिग्भ्यः समागताः ॥ १०॥
उपायनानि भूरीणि ददुस्तेऽन्योन्यमादरात् ।
देवतास्थापनं तौ च चक्रतुः सुमहोत्सवान् ॥ ११॥
साङ्गोपाङ्ग विवाहं तौ सम्यक् सम्पाद्य यत्नतः ।
तोषयामासतुर्विप्रान् सर्वलोकान् धनादिभिः ॥ १२॥
विसृज्य सुहृदः सर्वांस्ततो राजा विनायकम् ।
भूषयामास विविधैर्भूषणैरंशुकैर्वरैः ॥ १३॥
अभ्यज्य भोजयामास स्वाद्वन्नं सह बन्धुभिः ।
ततो रथं समारुह्य सह तेन नुसत्तमः ॥ १४॥
ययौ वादित्रनिर्घोषैः कश्यपाश्रममुत्तमम् ।
ततो नागरिकाः सर्वे हित्वा कृत्यानि निर्ययुः ॥ १५॥
भोजनं पठनं निद्रा व्यासङ्ग तत्यजुस्तदा ।
अकृत्वा स्वस्ववेषं ते त्वरया निर्ययुः पुरात् ॥ १६॥
ततो बालसहस्राणि रुरुधुस्तं विनायकम् ।
अस्माँस्त्यक्त्वा कथं यासि कथं निष्ठुरतां गतः ॥ १७॥
गमिष्य इति पूर्वं नः कथं नोक्तं प्रसङ्गतः ।
अभुक्त्वाऽस्मद्गृहे यासि कथं तं निजमाश्रमम् ॥ १८॥
कश्चिद्बालो दधाराऽस्य पादपद्मं रुदन्मुहुः ।
कश्चित्स्नेहात्समालिङ्ग्य दधार करपङ्कजम् ॥ १९॥
पौराङ्गनास्तथैवैनं बाला मुन्धाः सयौवनाः ।
विपर्यस्य निजा भूषा आययुस्तं विलोकितुम् ॥ २०॥
यथा पाथोनिधिं सर्वां वर्षाकाले समुद्रगाः ।
यान्ति हंसा यथा मुक्तासमूहं मरुतो हरिम् ॥ २१॥
अतिप्रीतियुताः प्रोचुः कथं यासि विनायक ।
अकस्मात्स्नेहमुत्सृज्य कथं निष्ठुरतां गतः ॥ २२॥
क उवाच ।
रथादवतताराऽसौ दृष्ट्वा तान् नृपसंयुतः ।
परिश्रान्तान्धावमानान्स्खलतः पततोऽपि च ॥ २३॥
तानुवाच ततः सर्वान्मुहूर्तं त्वरया जनाः ।
नृपेण सहितः शीघ्रमागतो नगराद्बहिः ॥ २४॥
इदानीं प्रार्थये सर्वान् न त्याज्या करुणा मयि ।
अपराधास्तु क्षन्तव्या मया वः सदने कृताः ॥ २५॥
न च त्याज्यः परिचयो यदि वो दर्शनं भवेत् ।
एवं तद्वाक्यमाकर्ण्य पौराः सर्वे शुचान्विताः ॥ २६॥
रोमाञ्चाञ्चितगात्रास्ते प्रोचुर्गद्गदया गिरा ।
जना ऊचुः ।
न माया मायिनस्तेऽस्ति सर्वस्य जगतः पितुः ॥ २७॥
न पिता त्यजते बालान् सापराधानपि ध्रुवम् ।
न चन्द्र उष्णतां याति सुवर्णं नीलतामपि ॥ २८॥
कथं निष्ठुरतां यातः कथं गन्तुं समुत्सुकः ।
पूर्वमेव न चागाश्चेत्तदा शोको न सम्भवेत् ॥ २९॥
चोरयित्वा कथं यासि सर्वेषां नो मनांसि च ।
कथं कार्यं करिष्यामो नीतेषु नो मनस्सु च ॥ ३०॥
जले नष्टे जलचराः कथं जीवन्ति तद्वद ।
प्राणे गते शरीरेण किं प्रयोजनमस्ति नः ॥ ३१॥
कस्तत्र प्रतिकारः स्यादिक्षुश्चेत्स्रवते विषम् ।
तस्मान्नो नय यत्र त्वं यासि तत्र स्वकिङ्करान् ॥ ३२॥
तद्वचः परिकर्ण्याऽसौ प्रोचे गद्गदया गिरा ।
मुञ्चन्नेत्राश्रु बहुलं सर्वान् स्त्रीवृद्धबालकान् ॥ ३३॥
देव उवाच ।
न खेदः सर्वदा कार्यो न वियोगो मम क्वचित् ।
सर्वान्तर्यामिणोऽपायहीनस्यानन्दरूपिणः ॥ ३४॥
न चित्तस्य समाधानं भवेद्वै चिन्तनेन मे ।
मम मूर्तिं मृदा कृत्वा पूजयन्तु गृहे गृहे ॥ ३५॥
सङ्कटं वो यदा तु स्यात्स्मर्तव्योऽहं तदा जनाः ।
साक्षात्कारं प्रदास्यामि नाशयिष्यामि सङ्कटम् ॥ ३६॥
क उवाच ।
वचनं तत्समाकर्ण्य ननन्दु सर्वनागराः ।
नेमुः प्रदक्षिणीकृत्य जयशब्दैः प्रतुष्टुवुः ॥ ३७॥
गृहीत्वाज्ञां ययु सर्वे पौराः स्वं स्वं निवेशनम् ।
विनायकोऽपि शीघ्रं स रथारूढो ययौ पुरः ॥ ३८॥
काशिराजेन सहितो मातृदर्शनलालसः ।
स ददर्श परावृत्यं मुखं पौरकुमारकान् ॥ ३९॥
आक्रन्दतस्तानुवाच पुनर्यास्ये व्रजन्तु हि ।
चिन्ता न कार्या सत्यं वो ब्रवीमि नानृतं क्वचित् ॥ ४०॥
एवं तान् स परावृत्य क्षणात् स्वाश्रममाप्तवान् ॥ ४१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाश्रमप्रतिगमनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥
आदितः श्लोकानाम् समष्ट्यङ्काः - ७२५० + ४१ = ७२९१
२.०७२ विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः
क उवाच ।
पूर्वमेव च दूतेन कथितोऽसौ विनायकः ।
अदित्यै काशिराजेन रथस्थेन सहागतः ॥ १॥
ततः सा तद्वियोगेन धावमाना ययौ पुरः ।
औत्सुक्यत्वरिता वेद नाञ्चलं पतितं स्वकम् ॥ २॥
दृष्ट्वा तां मुनिपुत्रोऽपि रथात्प्रस्कन्द्य सत्वरः ।
आययौ मातुरभ्याशमालिलिङ्ग च तां मुदा ॥ ३॥
आनन्दाश्रु मुमोचासौ सोऽपि बाष्पं चिरागतः ।
मुहूर्तमेकभावं तौ प्रापतुः पयसी इव ॥ ४॥
ददौ स्नेहात्स्वस्थचित्ता स्तनपानं मुदाऽदितिः ।
प्रमृज्य नेत्रे प्रोवाच श्रान्तोऽसि बहुवासरम् ॥ ५॥
ततो ननाम तां राजा जगौ गद्गदभाषया ।
राजोवाच ।
नीत्वा विनायकं देवं यातास्तु बहुवासराः ॥ ६॥
अतो न मातः कोपं त्वं मयि कर्तुमिहार्हसि ।
वियोगमपि सोढुं च न शक्तोऽहं मुनिप्रिये ॥ ७॥
न तृप्तिरस्ति पीयूषे नौदासिन्यं निधावपि ।
दिने दिने नवप्रेम वर्धयत्येष नो गृहे ॥ ८॥
उत्पाता बहवोऽनेन पुरे नो विनिवारिताः ।
असङ्ख्याता हता दैत्या देवाश्च मुदमापिताः ॥ ९॥
बहुला च कृता कीर्तिः स्थापिता धर्मसेतवः ।
पौरुषं च तथाऽनेन कृतं नेन्द्रादिभिः कृतम् ॥ १०॥
क उवाच ।
एवं स सर्ववृत्तान्तं कथयामास सादरम् ।
ततोऽदितिस्तु दध्यन्नं भ्रामयित्वाऽत्यजद् बहिः ॥ ११॥
दुष्टदृष्टिनिपातस्य शान्तये बालकोपरि ।
ततो बालं स नृपतिं निनायाश्रममण्डलम् ॥ १२॥
कश्यपो हि बहिर्यातो दृष्ट्वा पुत्रं स भूपतिम् ।
तौ तं च नेमतुर्भक्त्या बद्धाञ्जलिपुटावुभौ ॥ १३॥
आलिलिङ्ग मुनिस्तौ च मूर्ध्न्याघ्राय मुदा तदा ।
उवाच रुद्धकण्ठोऽसावङ्के कृत्वा विनायकम् ॥ १४॥
काशिराज नोचितं ते बालं नीत्वा विलम्बनम् ।
शीघ्रमेवानयिष्येऽहमित्युक्त्वा नीतवान्कथम् ॥ १५॥
वियोगेनास्य तप्तानामङ्गानां मेऽधुना नृप ।
जाता शीतलता पुण्याद् दर्शनादस्य साम्प्रतम् ॥ १६॥
क उवाच ।
तत ऊचे काशिराजो निपीय मुनिभाषितम् ।
उपविश्यासने रम्ये प्राप्यानुज्ञां मुनेनृपः ॥ १७॥
नृप उवाच ।
अस्यैव मायया जाता सत्यता मे मुनीश्वर ।
मद्गृहं देव देवेन स्वकीयमिति निश्चितम् ॥ १८॥
अवाप्तकामो देवोऽयं स्वकामवशगो मुने ।
सम्पाद्य मम पुत्रस्य विवाहं समुपागतः ॥ १९॥
क उवाच ।
तस्य दैत्यवधादीनि कर्माण्यस्मै न्यवेदयत् ।
ततो जहर्षतुरुभौ मुनिपत्नी मुनिश्च सः ।
ज्ञात्वा पराक्रमं तस्य स्वपुत्रस्य गुणान्बहून् ॥ २०॥
ततस्ते भोजनं चक्रुः षड्रसान्नेन सादरम् ।
दत्त्वाशीर्वचनं तस्मै विससर्ज नृपं मुनिः ॥ २१॥
सोऽपि तान्प्रणनामाथ प्रादक्षिण्येन निर्ययौ ।
प्राप्यानुज्ञां नेत्रयुग्मान् मुञ्चन्नश्रु सुदुःखितः ॥ २२॥
स्मरन् गुणगणं तस्य स्नेहनिर्भरमानसः ।
शीघ्रं प्रयातो नगरं वाद्यघोषसमन्वितः ॥ २३॥
सर्वे नागरिका बाला विनायकदिदृक्षया ।
आगता ददृशुस्तत्र ततो दुःखितमानसाः ॥ २४॥
निरीक्ष्य तं काशिराजं ययुः स्वं स्वं निकेतनम् ।
अपरेद्युः सर्वपौराः पप्रच्छुस्तं नृपं मुदा ॥ २५॥
यास्य इत्युक्तवान् देवो नागतः स कथं नृप ।
त्वं तु निष्ठुरभावेन त्यक्त्वा तं कथमागतः ॥ २६॥
राजोवाच ।
अत्यन्तं प्रार्थितो देव उक्तवान्मां मुनिप्रियः ।
मन्मूर्तिस्थापनं कृत्वा सेवध्वं सर्व एव माम् ॥ २७॥
वियोगो न च सर्वान्तर्यामिणा वः कथञ्चन ।
ततस्ते कारयामासुर्मूर्तिं धातुमयीं शुभाम् ॥ २८॥
चतुर्भुजां त्रिनयनां सर्वभूषणभूषिताम् ।
शूर्पकर्णां गजमुखीं सर्वावयवसुन्दराम् ॥ २९॥
ढुण्ढिराजेति नाम्ना तां स्थापयामासुरादरात् ।
ऋत्विग्भिर्ब्राह्मणैरन्यैर्वेदशास्त्रविशारदैः ॥ ३०॥
प्रासादं परमं कृत्वा पुपूजुस्ते दिने दिने ।
येन येनैव कामेन पूजयेद् यो विनायकम् ॥ ३॥
तं तं ददाति तस्मै स भक्त्या सम्पूजितो विभुः ।
एवं नानामूर्तिधरो भ्राजते स्म विनायकः ॥ ३२॥
विश्वेश्वरे स्वनगरं याते सर्वसुरैः सह ।
दिवोदासे चाविमुक्ते काशिराजे सुखं स्थिते ॥ ३३॥
विनायको मुनिं प्राह कश्यपं मातरं च ताम् ।
अहं ते पुत्रतां यातस्तपसाराधितः पुरा ॥ ३४॥
भूभारश्च हृतः सम्यक् हतौ दैत्यौ महाबलौ ।
त्रैलोक्यपीडकौ दुष्टौ देवान्तकनरान्तकौ ॥ ३५॥
देवाश्च साधवश्चैव रक्षिताः स्थापिताः परे ।
इदानीं तु गमिष्यामि निजलोकं चिरन्तनम् ॥ ३६॥
क उवाच ।
श्रुत्वा वाक्यमुभौ खिन्नौ बाष्पकण्ठौ तमूचतुः ।
कदा ते दर्शनं देव पुनरत्र भविष्यति ॥ ३७॥
ततः स मातरं प्राह दर्शनं मे भविष्यति ।
भवान्या मन्दिरे मातः सत्यं मे प्रियभाषितम् ॥ ३८॥
एवं श्रुत्वा देववाक्यं पुनर्यावद् वदत्यसौ ।
तावदन्तर्हितो देवस्ततस्तौ खिन्नमानसौ ॥ ३९॥
कारयामासातुर्मूर्तिं प्रासादं चातिशोभनम् ।
विनायकेति नामाऽस्य चक्रतुर्भक्तितत्परौ ॥ ४०॥
तस्यां मूर्तौ ध्यातमात्रो नित्यं दर्शयते विभुः ।
स्वात्मानं सर्वगं नानारूपिणं स विनायकः ॥ ४१॥
गृत्समद उवाच ।
एवं कीर्ते समाख्यातं चरितं ते मया शुभम् ।
विनायकस्य देवस्य श्रवणात्सर्व सिद्धिदम् ॥ ४२॥
धन्यं यशस्यमायुष्यं सर्वोपद्रवनाशनम् ।
सर्वकामप्रदं सर्वपापसञ्चयनाशनम् ॥ ४३॥
पुनस्ते कथयिष्यामि सिन्धुदैत्यवधाय सः ।
अवतीर्णः शिवगृहे मयूरेश्वरसंज्ञितः ॥ ४४॥
बाल्यात्प्रभृत्यद्भुतानि नानाकर्माणि योऽकरोत् ॥ ४५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः ॥ ७२॥
आदितः श्लोकानां समष्ट्यङ्काः - ७२९१ + ४५ = ७३३६
२.०७३ सिन्धूत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः
व्यास उवाच ।
कथं ब्रह्मन् शिवगृहे मयूरेश्वर संज्ञितः ।
अवतीर्णः किमर्थं वा किं च तच्चरितं पितः ॥ १॥
मयरेश्वरसंज्ञा च कथं जाता विनायके ।
एतन्मे सर्वमाचक्ष्व शृण्वन्स्तृप्यामि न क्वचित् ॥ २॥
क उवाच ।
त्रेतायुगे महादैत्यः सिन्धुनामाऽभवत्पुरा ।
स हतस्तेन बलिनाऽवतीर्णे न शिवालये ॥ ३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शौनकस्य च संवादं राज्ञा च चक्रपाणिना ॥ ४॥
मैथिले विषये राजा गण्डकीनगरे शुभे ।
चक्रपाणिरिति ख्यातः साक्षाद् विष्णुरिवापरः ॥ ५॥
न गुणा वर्णितुं शक्याः शेषेणाऽस्य कदाचन ॥ ६॥
तेजसा लोपयन् भानुं लावण्येन च मन्मथम् ।
मत्या बृहस्पतिं स्कन्दं विक्रमेण बलेन च ॥ ७॥
येनेयं सकला पृथ्वी क्षणेन वशवर्तिनी ।
कृता सर्वे च राजानः सेवायां विनियोजिताः ॥ ८॥
तुरङ्गाणां गजानां च पदातीनां जयैषिणाम् ।
रथानां च न यस्यास्ति सङ्ख्यानं जगतीतले ॥ ९॥
साक्षाल्लक्ष्मीः स्थिरा यस्य गृहे दर्शनगोचरा ।
रत्नकाञ्चनमुक्ताभिरनिशं भासयन् दिशः ॥ १०॥
भद्रं भद्रकरं यस्य लोकनामलकोपमम् ।
यस्यामात्यौ महाबुद्धी साम्बश्चैव सुबोधनः ॥ ११॥
सेवन्तौ स्वामिकार्यार्थे तृणीकृत्य स्वजीवितम् ।
यस्यासीत् प्रमदा रम्या नाम्नोग्रा चारुहासिनी ॥ १२॥
कुमुदानि विकासन्ते दिवा यन्मुखचन्द्रतः ।
अनेकभूषादीप्त्या या नाशयित्वाऽखिलं तमः ॥ १३॥
पातिव्रत्य गुणान्द्रष्टुं यान्ति सर्वाः पतिव्रताः ।
एवं राजा बुधैर्मान्यः सदा विष्णुपरायणः ॥ १४॥
पुराणश्रवणे सक्तो धर्मशास्त्रपरायणः ।
सन्तत्या रहितः सोऽथ दुःखमाप दिवानिशम् ॥ १५॥
अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् ।
अनेकव्रतदानानि यज्ञांश्च कृतवान्बहून् ॥ १६॥
ततः स राजा कस्मिंश्चित्समये निजभार्यया ।
आकार्य प्रकृतीः पौरान्विरक्तो राज्यसंसदि ॥ १७॥
उवाच सर्वान्दण्डं च कोशं राज्यं त्यजेऽधुना ।
किमपुत्रस्य राज्येन स्वर्गहीनस्य मेऽधुना ॥ १८॥
यानि कर्माणि च मया पुत्रार्थे चरितानि च ।
ईश्वरार्पणबुद्ध्या चेत्कृतानि स्युर्यदा तदा ॥ १९॥
मुक्तिः स्यादुभयोः पूर्वजन्मकर्मक्षयोऽपि च ।
गतमायुर्वृथा लोका वनं यास्ये मुदाऽधुना ॥ २०॥
सर्वं प्रकृतिसात्कृत्वा यूयं तद्वाक्यकारिणः ।
गमिष्येऽहं वनं लोकास्तपस्तप्तुं हिताय वै ॥ २१॥
कदाचिदिष्टसिद्धिश्चेत्पुनर्यास्ये निजां पुरीम् ।
ध्रुवमाज्ञां मम पुनः प्रयच्छताधुना जनाः ।
एवं श्रुत्वा नृपवचः सर्वे दुःखितमानसाः ॥ २२॥
अश्रुधाराः प्रमुञ्चन्तः प्रोचुस्तं नृपसत्तमम् ।
पौरा ऊचः ।
जननी जनकस्त्वं नः कथं निष्ठुरतां गतः ।
किमर्थं त्यजसे नस्त्वमपराधं विना प्रभो ॥ २३॥
विना भवन्त नो जन्म वृथैव मातरं शिशोः ।
वयमप्यनुयास्यामो यत्र याति भवान् प्रभो ॥ २४॥
क उवाच ।
एवं वदत्सु लोकेषु नृपेणाथागतो मुनिः ।
शौनको मुनिशार्दूलो जातवेदा इवा परः ॥ २५॥
वेदवेदाङ्गशास्त्राणां वक्तात्रैलोक्यविश्रुतः ।
शक्रादिसुरवन्द्यो यो भूतभव्यभविष्यवित् ॥ २६॥
तं दृष्ट्वा पुरतो राजा ननामोत्थाय चासनात् ।
स्वासने तमुपावेक्ष्य पुपूज परया मुदा ॥ २७॥
भुक्तवन्तं च विश्रान्तं पादसंवाहनादिभिः ।
चक्रपाणिरथोवाच पुण्यं किं फलितं मम ॥ २८॥
यज्जातं दर्शनं तेऽद्य सर्वपापहरं शुभम् ।
सर्वकामप्रदं नृणां दुर्लभं पापकर्मणाम् ॥ २९॥
ततः प्रोचे मुनिश्चक्रपाणिं नृपतिसत्तमम् ।
सन्तुष्टः परया भक्त्या प्रश्रयेण दमेन च ॥ ३०॥
मुनिरुवाच ।
मा चिन्तां कुरु राजेन्द्र मा च राज्यं परित्यज ।
पुत्रस्ते भविता सम्यक् मद्वाक्यानात्र संशयः ॥ ३१॥
मया वाणी नोक्तपूर्वाऽनृता हासेऽपि कर्हिचित् ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं जहृषे राजसत्तमः ॥ ३२॥
अलङ्कारान्ददौ तस्मै रत्नकाञ्चननिर्मितान् ।
वस्त्राणि च महार्हाणि न च जग्राह वै मुनिः ॥ ३३॥
पुनः प्रोवाच नृपति वयं वल्कल धारिणः ।
निस्पृहाः सर्वभोगेषु सर्वभूतहिते रताः ॥ ३४॥
सृष्टिसंहारकरणे ससर्था करुणाब्धयः ।
साधूनां दर्शनरताः समलोष्ठश्मकाञ्चनाः ॥ ३५॥
विद्वत्सु नैव कमला स्थानं धत्ते कदाचन ।
तस्मान्नेदं ग्रहीष्यामि काञ्चनं वसनं शुभम् ॥ ३६॥
तीर्थयात्राप्रसङ्गेन त्वामहं समुपागतः ।
दिनानि च व्यतीतानि बहूनि तवदर्शने ॥ ३७॥
क उवाच ।
पुनस्तौ नेमतुः सम्यग्दम्पती शौनकं मुनिम् ।
पप्रच्छतुरुपायं तं सन्तानोत्पादने क्षमम् ॥ ३८॥
सर्वव्रततपोयज्ञान् मत्वा दानानि वै वृथा ।
ततोऽब्रवीन्मुनिः सौरं व्रतं सर्वार्थदं नृणाम् ॥ ३९॥
अनेकजन्मपापानां शमनं पुत्रपौत्रदम् ।
मुनिरुवाच ।
मासमात्रं व्रतं कार्यमारभ्य भानुसप्तमी ॥ ४०॥
कृत्वाऽभ्युदयिकं श्राद्धं मातृपूजनपूर्वकम् ।
अभ्यर्च्य गणनाथं च स्वस्तिवाच्य द्विजर्षभान् ॥ ४१॥
सुवर्णकलशेस्थाप्यः सौवर्णं रविमण्डलम् ।
उपचारैः षोडशभिर्भक्तिभावसमन्वितः ॥ ४२॥
रक्तचन्दनमिश्रैश्च तन्दुलैः कुसुमैरपि ।
रक्तैर्नानाविधै रत्नैः फलैश्च विविधैरपि ॥ ४३॥
अर्घ्यैर्द्वादशसङ्ख्यैश्च नमस्कारैः परिक्रमैः ।
स्तुतिभिः प्रार्थनाभिश्च प्रार्थयेत्परमेश्वरम् ॥ ४४॥
ततो लक्षनमस्कारान् कुर्वीत कारयीत वा ।
प्रत्यहं लक्षविप्रांस्तु भोजयेत्परया मुदा ॥ ४५॥
गामेकां प्रत्यहं दद्याद् वेदज्ञाय कुटुम्बिने ।
ब्रह्मचर्येण तिष्ठेच्च सपत्नीको नृपोत्तम ॥ ४६॥
दीनान्धकृपणेभ्यश्च दद्यादन्नं दयान्वितः ।
मासान्ते सर्वसम्भारान्ब्राह्मणाय समर्पयेत् ॥ ४७॥
एवं व्रते कृते राजन्पुत्रस्ते मत्प्रसादतः ।
भविष्यति महाख्यातः सूर्यभक्तियुतः शुचिः ॥ ४८॥
क उवाच ।
एवं व्रतं समादिश्य शौनकोऽन्तर्हितस्तदा ।
ततश्चकार नृपतिर्यथादिष्टं व्रतं तु तत् ॥ ४९॥
पत्न्या सह विनीतात्मा सूर्यभक्तिपरायणः ।
ब्राह्मणान् भोजयामास यथेच्छं लक्षसङ्ख्यया ॥ ५०॥
उपवासयुतः पत्न्या मासमात्रं बभूव सः ।
गोदानं च नमस्कारांश्चक्रे चाकारयद्विजैः ॥ ५१॥
सूर्यमन्त्रं जपन्नित्यं तन्नामस्मरणं सदा ।
ततः कदाचित् तत्पत्नी रात्रौ स्वप्ने ददर्श तम् ॥ ५२॥
निजभर्तृद्विजरूपं सवितारं मनोरमम् ।
चकमे कामरूपं तं मदनाग्निप्रपीडिता ॥ ५३॥
उवाच परितप्ताङ्गी कामो मे बाधते भृशम् ।
ऋतुं मे देहि भर्तस्त्वं नो चेन्मृत्युर्भवेन्मम ॥ ५४॥
सोऽपि वन्ध्यं विनिश्चित्य तत्पतिं कामुकां च ताम् ।
स्वप्न एव भर्तृरूपी सविता तामृतुं ददौ ॥ ५५॥
सा प्रबुद्धा ततः प्राह समुत्थाप्यनिजं पतिम् ।
नियमस्थेन किं ब्रह्मंस्त्वया मे ऋतुरर्पितः ॥ ५६॥
स उवाच ततस्तां तु नाहं व्रतमनाः शुभे ।
उपवासरतः क्षीणो रराम रविभक्तिमान् ॥ ५७॥
ततः पुनः प्राह सती नान्यं जाने कथञ्चन ।
त्वद्रूपेणैव ध्यायामि सवितारं व्रते स्थिता ॥ ५८॥
ऋतुजेन च दग्धाऽहं वह्निनाऽन्तर्गतेन ह ।
ततः पुनश्चक्रपाणिरूचे तां प्रियभाषिणीम् ॥ ५९॥
नृप उवाच ।
तुष्टोऽसौ सविताकान्ते नमस्कारैश्च भोजनैः ।
ब्राह्मणानां गवां दानैरुपवासैर्जपैरपि ॥ ६०॥
आवां सिद्धिं ददौ सम्यक् पुत्रस्तव भविष्यति ।
क उवाच ।
दिने दिने गर्भवृद्धौ तस्यास्तापोऽभिवर्द्धते ॥ ६१॥
सा मुमूर्षुश्चन्दनानि सोशीराणि निषेवते ।
लिलेपाऽङ्गे च कर्पूरं तापो नास्या शशाम च ॥ ६२॥
न चार्द्रवस्त्रपवनैस्ततः सा सखिभिः सह ।
तत्याज सिन्धुतीरे तं गर्भं गत्वा महत्तरम् ॥ ६३॥
आययौ साथ विश्रान्ता सखिर्निजमन्दिरम् ।
निवेद्य भर्त्रे त्यक्तं तं गृहकार्यरताऽभवत् ॥ ६४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धूत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३॥
आदितः श्लोकानां समष्ट्यङ्काः - ७३३६ + ६४ = ७४००
२.०७४ वरप्रदानं नाम चतुःसप्ततितमोऽध्यायः
क उवाच ।
त्यक्ते गर्भे तया सिन्धौ बालोऽजनि महाबलः ।
तेजस्वी विकरालास्यो दीर्घभालस्रिलोचनः ॥ १॥
रक्तकेशजटाभारश्चक्रपाणिस्त्रिशूलभृत् ।
बालशब्देन तस्याथ च कम्पे भुवनत्रयम् ॥ २॥
आजानुबाहुराकान्तुमियेष विष्टपत्रयम् ।
चुक्षुभे सागरस्तेन यादोभिर्मुनिसत्तम ॥ ३॥
तत्र स्थितस्तु बालोऽसौ समुद्रमुपशोषयत् ।
समुद्र उवाच ।
जीवनाय मम सुतं नेष्य एनं नृपालयम् ॥ ४॥
क उवाच ।
इत्यानिनाय तं बालं समुद्रो नृपमन्दिरम् ।
तव पत्न्याऽत्याजि गर्भो दुःसहत्वान्ममोदरे ॥ ५॥
दम्पत्योः पुरतः स्थाप्य प्रोच एवं द्विजस्तदा ।
उग्रो बालस्ततो जातोऽखिललोकभयङ्करः ॥ ६॥
यस्य प्रथमशब्देन कम्पितं भुवनत्रयम् ।
नेत्राभ्यां नेक्षितुं शक्योऽत एवैनमुपानयम् ॥ ७॥
इत्युक्त्वा बालकं मुक्त्वाऽन्तर्दधे सागरस्तदा ।
तत एनं कराभ्यां सा कटौ दध्रे नृपाङ्गना ॥ ८॥
स्थापयित्वा ददौ प्रेम्णा स्तनपानं मुदान्विता ।
उभावानन्दयुक्तौ तौ दम्पती पुत्रदर्शनात् ॥ ९॥
यथा चिरं योगनिष्ठो लब्ध्वा ब्रह्मामृतं परम् ।
तत आकारयामास ब्राह्मणान्सुहृदोऽपि च ॥ १०॥
ज्योतिर्विद्भिर्विचार्यास्य सिन्धुरित्यभिधां शुभाम् ।
राज्ञी चक्रे नृपश्चास्य जातकर्म यथाविधि ॥ ११॥
कृत्वा ददौ ततो दानमनेकं हर्षनिर्भरः ।
अनेकेभ्यो द्विजातिभ्यो वस्त्राणि विविधानि च ॥ १२॥
दापयामास नगरे पताकाभिरलङ्कृते ।
वाद्यत्सु सर्ववाद्येषु शकरां च गृहे गृहे ॥ १३॥
गतेषु सर्वलोकेषु रक्ताङ्ग इति नाम च ।
चक्रतुर्दम्पती स्नेहादथामात्यौ समूचतुः ॥ १४॥
उग्रायास्तनयश्चायमुग्रमुद्राधरोऽपि च ।
अयमुग्रेक्षण इति नाम्ना ख्यातो भविष्यति ॥ १५॥
विप्रप्रसादन इति पौरा नाम प्रचक्रिरे ।
ततः सर्वे पौरजना उपदा विविधास्तदा ॥ १६॥
ददुर्नृपाय सोऽप्येतान् दापयामास तत्क्षणात् ।
ववृधे बालकः सोऽथ शुक्लपक्षे यथा शशी ॥ १७॥
यथाऽग्निर्वायुवेगेन वर्धते क्षणमात्रतः ।
तथा स्वतेजसा बालः प्रवृद्धो गगनं स्पृशन् ॥ १८॥
क्रीडन्नेव सदा बालो वृक्षान् गृहगतान्बहून् ।
उत्पाट्य पातयामास वामहस्ततलेन ह ॥ १९॥
अरण्ये क्रीडता तेन पर्वताश्चूर्णिता द्रुमाः ।
उड्डीय चन्द्रहरिणं क्षणं जग्राह कार्हिचित ॥ २०॥
जलावतारमार्गे तु रुद्धे क्वापि करेणुना ।
मुष्टिघातेन बिभिदे गण्डमस्याः पपात सः ॥ २१॥
एवं तस्याद्भुतं कर्म दृष्ट्वा लोका विसिस्मिरे ।
जहर्ष जननी चास्य पिता ज्ञात्वाऽतिमानुषम् ॥ २२॥
एवं प्रवृद्धो बालोऽसौ सिन्धुनामा महाबलः ।
उवाच पितरं यास्ये तपस्तप्तुमहं नृप ॥ २३॥
अनुष्ठित्या स्वर्गलोकं भूलोकं च रसातलम् ।
आक्रमिष्ये वृथायुर्मे गच्छतीति मतिर्मम ॥ २४॥
एवमाकर्ण्य तद्वाक्यमूचतुः पितरौ च तम् ।
उत्कर्षं स्वस्य पुत्रस्य नित्यं प्रार्थयते पिता ॥ २५॥
जननी सर्वदेवेभ्यो व्रतदानादिनापि च ।
एवमाज्ञामवाप्यैव नत्वा तौ स ययौ वनम् ॥ २६॥
तत्र भ्रमन् ददर्शाथ कासारं जलजैर्युतम् ।
तत्र स्थातुं मनश्चक्रे विविक्तमिति हर्षितः ॥ २७॥
एकाङ्गुष्ठेन भूमिष्ठ ऊर्ध्वबाहू रविं स्मरन् ।
शुक्रोपदिष्टं तं मन्त्रं जपन् पर्वतनिश्चलः ॥ २८॥
दक्षिणे जानुनि सदा वामपादं निधाय च ।
अञ्जलिं हृदि विन्यस्य ध्यायन् दिनमणिं तदा ॥ २९॥
शीतवातातपजलवृष्टीनां सहनो दृढः ।
वायुमात्राशनस्तस्थौ वल्मीकाक्रान्तविग्रहः ॥ ३०॥
अस्थिमात्रावशिष्टोऽपि जपत्येव महामनुम् ।
एवं तस्य व्यतीताय शरदां द्विसहस्रकम् ॥ ३१॥
तस्य सिन्धोः शरीरोत्थास्तेपुर्भासो रविं तदा ।
एवमुग्रं ततो दृष्ट्वा प्रत्यक्षोऽभूद् दिवाकरः ॥ ३२॥
उवाच परमप्रीतोऽनुष्ठानेन तवाधुना ।
वरं वरय चित्तस्थं दास्यामि जीवितावधि ॥ ३३॥
सिन्धुस्तदाकर्ण्य वचो भाषितं भानुना स्वयम् ।
देहभावं गतौऽपश्यत् पुरतो भास्करं प्रभुम् ॥ ३४॥
नत्वा तत्पादकमलं बद्धाञ्जलिपुटोऽब्रवीत् ।
नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ॥ ३५॥
नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ॥ ३६॥
नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे ।
परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ३७॥
गुणातीताय गुरवे गुणक्षोभविधायिने ।
सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ॥ ३८॥
धन्यं मे जन्म देवेश वंशो मे जनकोऽपि च ।
जननी च तपश्चापि यज्जातं तव दर्शनम् ॥ ३९॥
वरदश्चेद्दिनेश त्वं देदि मे सर्वतोऽमृतिम् ।
तव प्रसादात् सङ्ग्रामे जयेयं सर्वदेवताः ॥ ४०॥
वर्तमानाद् देवगणान्न मे मृत्युर्भवेदिति ।
एवं तस्य वरान् श्रुत्वा परितुष्टो विभावसुः ।
उवाच निजभक्तं तमनुष्ठानभृशं कृशम् ॥ ४१॥
सूर्य उवाच ।
न भयं विद्यते देवयोनिभ्यो नृभ्य एव च ।
न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ॥ ४२॥
नोषःकाले न सन्ध्यायां मम वाक्याद्भविष्यति ।
मरणं ते नृपसुत गृहाणामृतभाजनम् ॥ ४३॥
इदं यावत्कण्ठगतं तावन्मृत्युर्न ते भवेत् ।
निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ॥ ४४॥
देवो योऽवतरेत्कोऽपि धुन्वन् केशाग्रतो दिवम् ।
यस्याङ्गुष्ठनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः ॥ ४५॥
स त्वां हनिष्यति विभुरन्यस्मादभयं तव ।
मद्वरस्य प्रसादेन सर्वं तृणमयं तव ॥ ४६॥
त्रैलोक्यराज्यं ते दत्तं नात्र कार्या विचारणा ।
क उवाच ।
एवं नानावरान् दत्त्वाऽन्तर्दधे सविता तदा ॥ ४७॥
सोऽप्यानन्दसमायुक्तो जगाम निजमन्दिरम् ।
जननी च पिता तस्य मूर्ध्न्याघ्रायापतुर्मुदम् ॥ ४८॥
ऊचतुस्तं तदा पुत्रं विरहात्तेऽन्नवर्जितौ ।
चिन्तया कृशतां यातौ पश्य पुत्रदशामिमाम् ॥ ४९॥
तयोः पादौ प्रणम्याह स पुत्रो हर्षनिर्भरः ।
प्रसन्नः सविता मह्यं त्रैलोक्यस्वामितामदात् ॥ ५०॥
साधयिष्ये तद्वरात् तां न चिन्तां कर्तुमर्हथः ॥ ५१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे वरप्रदानं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥
आदितः श्लोकानां समष्ट्यङ्काः - ७४०० + ५१ = ७४५१
२.०७५ सुरपराजयो नाम पञ्चसप्ततितमोऽध्यायः
क उवाच ।
बुद्धिमन्तं सुतं ज्ञात्वा सवितुर्वरदर्पितम् ।
राज्यं तस्मै ददौ सर्वं देशकोशबलान्वितम् ॥ १॥
पिता वनं ययौ तस्य स्वात्मसाधनलालसः ।
स तु पित्राभिषिक्तः सन् राज्यं कर्तुं मनो दधे ॥ २॥
श्रेणीमुख्यान् समाहूय प्रकृतीरधिकारिणः ।
आस्थापयत् स्वाधिकारे मानयित्वांऽशुकादिभिः ।
डिण्डिरवेण स्वाज्ञाया भङ्गदोषमघोषयत् ॥ ३॥
दिग्जयार्थं ततो वीरानाज्ञापयत सत्वरम् ।
तेजसाऽहेपयत् सूर्यमतिभीषणविग्रहः ॥ ४॥
वीरा अग्रे प्रयान्ति स्म विकरालारुणाननाः ।
नग्ननानाशस्त्रधरा रजश्छादितभास्कराः ॥ ५॥
ततो गजाश्चतुर्दन्ता नानावर्णविभूषिताः ।
ययुर्महाशृङ्खलिनः कम्पयन्तो वसुन्धराम् ॥ ६॥
महामात्रसमारूढाश्चञ्चलाः पर्वता इव ।
नानावर्णध्वजयुता दिग्गजान्भेत्तुमिच्छवः ॥ ७॥
घण्टाघोषेण महता नादयन्तो दिगन्तरम् ।
अश्वारोहा ययुः पश्चान्नानालङ्करणान्विताः ॥ ८॥
असङ्ख्यतूणधनुषां शस्त्राणां मण्डलान्विताः ।
सिन्धुदैत्यश्चमूमध्ये रराज हयपृष्ट्गः ॥ ९॥
मुक्तामालालसत्कण्ठो धनुर्बाणलसत्करः ।
खड्गखेटधरो गच्छंश्चूर्णयन्द्रुमपर्वतान् ॥ १०॥
यद् यन्नगरमुद्दिश्य याति दैत्यो महाबलः ।
तस्य तस्याधिपं वीरा धृत्वा निन्युर्निजाधिपम् ॥ ११॥
स्वकीयं नायकं चिन्हं मुद्रां तत्र न्यवेशयन् ।
ततोऽन्ये शरणं याता दासभावमुपागताः ॥ १२॥
करदाँस्तान् स कृत्वैव ररक्ष स्वपदे बलात ।
एवं सर्वान् वशं चक्रे दैत्यकोट्यस्ततोऽन्वयुः ॥ १३॥
शुम्भो निशुम्भो वृत्रश्च प्रचण्डः काल एव च ।
कदम्बासुरनामाच शम्बरः कमलासुरः ॥ १४॥
कोलासुरोऽब्रवीत् तत्र यथा त्रिपुरदैत्यराट् ।
विजित्य लोकत्रितयमधिकारान् हि नो ददौ ॥ १५॥
तथा यच्छाधिकारान्नो जित्वा त्रैलोक्यमोजसा ।
तस्मिन् हते शिवेनाऽद्य दृष्टोऽसि प्रबलोऽसुरः ॥ १६॥
न ते पराक्रमतुलां कृतान्तोऽपि लभेत् क्वचित् ।
तवाज्ञां कर्तुमिच्छामस्तव सेवां महाबल ॥ १७॥
एवमाकर्ण्य तद्वाक्यं सन्तुष्टः सिन्धुदैत्यराट् ।
ददावश्वान् गजान् तेभ्यो वस्त्राणि भूषणानि च ॥ १८॥
सिन्धुरुवाच ।
प्रबलस्तु तदाऽहं स्यां यदा जेष्येऽमरावतीम् ।
हरविष्णुसत्यलोकान् पातालानि च सप्त च ॥ १९॥
क उवाच ।
साधु साध्विति सर्वेषु ब्रुवत्सु सर्वदैत्यपाः ।
जगर्जुश्च जहृर्षश्च ब्रह्माण्डं पर्यकम्पयन् ॥ २०॥
न भूप युद्धात्कण्डूर्नो ह्यशमद् देवयुद्धतः ।
शमं यास्यत्यतो जग्मुः शीघ्रमेवावजन् दिवम् ॥ २१॥
रुरुधुस्ते शक्रपुरीं ब्राह्मणा इव वित्तदम् ।
मध्यं विविशुरपरे लुण्ठन्तो रत्नसञ्चयान् ॥ २२॥
कोलाहलो महानासीद् देवानां तत्र गर्जताम् ।
ततः सभामध्यगतो हरिर्दूतमुखात् ततः ॥ २३॥
शुश्राव दैत्याभिगमं वेष्टितां च निजां पुरीम् ।
शीघ्रमैरावतारूढो वज्रहस्तोऽमरान्वितः ॥ २४॥
आययौ तेन दैत्येन योद्धुकामः सुराधिपः ।
केचिदूचुः सुरास्तत्र नायं युद्धक्षमो हरे ॥ २५॥
विना रमापतिं चास्य न समो दृश्यते क्वचित् ।
यावद् वदत्सु तेष्वेवं तावद् दैत्यो महाबलः ॥ २६॥
शक्रं सुरगणैर्युक्तमविध्यच्छरवृष्टिभिः ।
तावद् देवगणाः केचित्पलायनपरा प्रयुः ॥ २७॥
ततोऽधावन् महेन्द्रोऽसौ गर्जमानो रुषान्वितः ।
ग्रसन् देत्यगणान् सर्वान् वज्रोद्यतकरोऽरिहा ॥ २८॥
अहनद् दैत्यराजं तं मस्तके वज्रतो दृढम् ।
स मूर्छां महतीं प्रायान् मुहूर्तात् पुनरुत्थितः ॥ २९॥
उवाच च हरिं गच्छ स्वक्षयं न क्षयं व्रज ।
मम मुष्टिप्रहारेण कालो मृत्युं गमिष्यति ॥ ३०॥
तत्र का गणना तेऽस्ति नाशृणोत्तद्धरिर्वचः ।
रोषाविष्टो महादैत्यस्ततो मुष्टिप्रहारतः ॥ ३१॥
बिभेदैरावतकटं रुधिरौघप्रवर्षितम् ।
तत उड्डीय दैत्यस्तच्चतुर्दन्तानधारयत् ॥ ३२॥
अपातयद् गजपतिमाश्चर्यं हरिराययौ ।
दधार च हरिं पादेऽपोथयद् यावदेव तम् ॥ ३३॥
तावत् सूक्ष्मेण वपुषा निर्गतो हस्तमध्यतः ।
ततोऽमरगणैः सार्द्धं शरणन्तं हरिं हरिः ॥ ३५॥
जगाम वपुषाऽन्येन विसृज्यैरावतं गजम् ।
सिन्धुदैत्यस्तु सेन्द्रेषु देवेषु विद्रुतेषु च ॥ ३६॥
इन्द्रासनसमारूढो दैत्यवृन्देन वेष्टितः ।
ददौ पदानि देवानां दैत्येभ्यः सकलानि सः ॥ ३७॥
ततः शुम्भादयो दैत्याः स्थित्तास्तेषु निराकुलाः ।
नमस्यन्तोऽसुरपतिं प्रशंसन्तो बलाधिकम् ॥ ३८॥
नानावादित्रनिर्घोषैर्नादयन्तस्त्रिविष्टपम् ॥ ३९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सुरपराजयो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५॥
आदितः श्लोकानां समष्ट्यङ्काः - ७४५१ + ३ ९ = ७४९०
२.०७६ षट्सप्ततितमोऽध्यायः
क उवाच ।
वैकुण्ठे सुखमासीनमागतोऽमरसंयुतः ।
हरिर्हरिं नमस्कृत्य निजगाद प्रयोजनम् ॥ १॥
इन्द्र उवाच ।
किं न जानासि गोविन्द सिन्धुदैत्यकृतामिमाम् ।
आपदं नोऽमरावत्यां दुष्टैराक्रमणं कृतम् ॥ २॥
तेन सार्द्धं कृतं युद्धं यथाशक्ति सुरैः सह ।
न स जेतुं क्षमो दैत्योऽतस्त्वां शरणमन्वियाम् ॥ ३॥
न त्वां विना गतिर्नोऽस्ति सर्वदा त्वं गतिर्हि नः ।
निर्दालयैनं नो देहि स्थानानि जगदीश्वर ॥ ४॥
क उवाच ।
श्रुत्वा हरिवचो विष्णुश्चिन्ताश्चर्यसमन्वितः ।
उवाच तं न भीः कार्या प्रविज्येष्येऽसुरं क्षणात् ॥ ५॥
एवमुक्त्वा हृषीकेशो रुरोह निजवाहनम् ।
तदुड्डानेन च तदा चकम्पे भुवनत्रयम् ॥ ६॥
पतिता अवनौ वृक्षाः पक्षिवृन्दसमन्विताः ।
किरीटकुण्डलधरो वनमालाविभूषितः ॥ ७॥
कौस्तुभार्चिर्लसद्वक्षाः कस्तूरीतिलकोज्ज्वलः ।
शङ्खचक्रगदापद्महस्तो यातोऽमरावतीम् ॥ ८॥
ज्ञात्वा देवगणान् प्राप्तान् गरुडासनसंयुतान् ।
युद्धायाजग्मुरसुरा नानाशस्त्रधरास्तदा ॥ ९॥
धनुश्चक्रधरो दैत्यः सतूणो हयसङ्गतः ।
सिन्धुरप्यागतो रोषाद् योद्धुकामो महाबलः ॥ १०॥
ततः कुबेरो वरुणो वायुरग्निः पुरन्दरः ।
सोमो मित्रश्च भौमश्च नासत्यौ मदनोऽपि च ॥ ११॥
ततोऽभवद् द्वन्द्वयुद्धं सिन्धुदैत्येपुरः स्थिते ।
प्रचण्डो वरुणेनाजौ कमलेन च यक्षराट् ॥ १२॥
वृत्रेण शतयज्वा च निशुम्भः पवनेन च ।
शुम्भोऽपि युयुधे तत्र विष्णुना प्रभविष्णुना ॥ १३॥
वह्निश्चण्डेन मुण्डेन सोमश्च युयुधे भृशम् ।
कदम्बेन च भौमश्च मदनेन च शम्बरः ॥ १४॥
नासत्यौ कालदैत्येन सर्व एव च सैनिकाः ।
शस्त्रैरस्त्रैः प्रजघ्नुस्ते मर्मस्थानानि चासकृत् ॥ १५॥
केचिद् युयुधिरे मल्ललीलया युद्धदुर्मदाः ।
परस्परं शस्त्रघातैः केचित् तत्र प्रपेदिरे ॥ १६॥
मृता मुमूर्षवः केचिद् व्यङ्गाश्चैव ववल्गिरे ।
जयं पराजयं तेन प्रापुः क्वचित्कमेव च ॥ १७॥
ततो वृत्रासुरः शक्रमहनन् मुष्टिघाततः ।
मस्तकं मस्तकेनैव निजघ्नतुरथौजसा ॥ १८॥
एवं हस्तेन हस्तं च पादं पादेन जघ्नतुः ।
वक्षःस्थलेन वक्षश्च ततो वज्रेण सोऽहनत् ॥ १९॥
जघान वृत्रः शक्रं तं सोऽपतन्मूर्च्छितो भुवि ।
यावत् पलायति सुरो वमन् रक्तं मुखाद्बहु ॥ २०॥
ततः पपात भूपृष्ठे हतो मूर्छां गतो भृशम् ।
पुनः संज्ञामवाप्यैव वज्रकल्पेन मुष्टिना ॥ २१॥
जघान वृत्रः शक्रं तं सोऽपतन्मूर्छितो भुवि ।
यावत्पलायति पुरो वमन् रक्तं मुखाद्बहु ।
तावद् दैत्या योद्धुकामाः समीयुः सर्वतोदिशम् ।
दृष्ट्वा पराक्रमं तेषां मघवाऽन्तर्दधे तदा ॥ २२॥
एवं ये ये द्वन्द्वयुद्धं कुर्वन्तो देवतागणाः ।
ते सर्वे भग्नदर्पास्तु पलायनमकुर्वत ॥ २३॥
एवं देवेषु भग्नेषु गरुडं प्राहिणोद्धरिः ।
चक्रदीप्त्या स्वदीप्त्या च भासयन्विदिशो दिशः ॥ २४॥
अहनच्चक्रधाराभिर्दैत्यश्रेणीरनेकशः ।
केचिद्भग्नानना दैत्याः केचिद्भग्नशिरोधराः ॥ २५॥
केचिच्च शतधा जाताः शीर्णजानूरुबाहवः ।
केचिच्च शरणं याता न ममार जनार्दनः ॥ २६॥
सर्वे महाबला दैत्या मुक्तिं हरिहता गताः ।
मेदोमांसवहा नद्यः सद्यस्तत्र प्रवर्तिताः ॥ २७॥
ततः शङ्खनिनादेन हरिः सर्वं व्यनादयत् ।
एवं जयति गोविन्दे सर्वे शुम्भादयोऽसुराः ॥ २८॥
तमेव योद्धुमायाता द्वन्द्वयुद्धं विहाय तत् ।
विराङ्रूपेण भगवान्धृत्वा तांश्चतुरोऽसुरान् ॥ २९॥
भिन्दीपालेन पाषाणं यथा क्षिपति मानवः ।
तथा चण्डं च मुण्डं च निशुम्भं शुम्भमेव च ॥ ३०॥
भ्रामयित्वाऽक्षिपद् दूरे मध्ये कृत्वा सरिद्वराम् ।
ते मूर्छां परिभूयैव पुनश्च वाहिनीं गताः ॥ ३१॥
हृदि प्रचण्डं पृष्ठे तु वृत्रं मुष्टिप्रहारतः ।
जघान हरिरव्यग्रः कालं कमलमेव च ॥ ३२॥
भौमासुरं च शिरसि कदम्बं चक्रघाततः ।
कोलासुरं च गदया विव्याध हृदि माधवः ॥ ३३॥
ततः सिन्धुरगात्तूर्णं कृतकोलाहलारवः ।
दिगन्तान् नादयन्प्रोचे बलं ते दर्शितं हरे ॥ ३४॥
ममापि पौरुषं पश्य न च गन्तुं त्वमर्हसि ।
न मे दृष्टिगतो जीवन् रिपुर्याति कदाचन ॥ ३५॥
भूतभव्यभविष्यज्ञ किं पूर्वं न विचारितम् ।
यस्य शब्देन च भृशं कम्पते भुवनत्रयम् ॥ ३६॥
तत्पुरः कथमायातः खद्योत इव पूषणम् ।
ततोऽमरगणाः प्रोचुर्वल्गन्तं सिन्धुदैत्यपम् ॥ ३७॥
शूरा न हि प्रजल्पन्ति दर्शयन्त्येव पौरुषम् ।
अस्माकं न हरेराज्ञा नो चेत्त्वं शतधा भवेः ॥ ३८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे देवदानवयुद्धवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६॥
आदितः श्लोकानां समष्ट्यङ्काः - ७४९० + ३८ = ७५२८
२.०७७ सप्तसप्ततितमोऽध्यायः
क उवाच ।
इति तद्वचनं श्रुत्वा क्रोधाद् वह्निकणान्वमन् ।
यथा सिंहो गजानीकं याति तद्वद् ययौ सुरान् ॥ १॥
सिन्धुर्मुष्टिप्रहारेण जघान बलसूदनम् ।
पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ २॥
भालदेशे कुबेरं च हनौ च वरुणं यमम् ।
पृष्ठ देशे जघानासौ चक्राघातेन दैत्यराट् ॥ ३॥
तालुदेशे पावकं च मन्मथं लत्तयाऽहनत् ।
अनिलं पादघातेन शनैश्चरमपोथयत् ॥ ४॥
सोमं भौमं भ्रामयित्वा तत्याज भूतले बलात् ।
पृष्ठभागेऽहनच्चैव सनकं च सनन्दनम् ॥ ५॥
नासत्यौ नारदश्चापि कुत्रापि च पलायिताः ।
ततः पलायिताः सर्वे दृष्ट्वा वीर्यं सुरास्तदा ॥ ६॥
पतिता मूर्छिताः केचिद्दैत्यश्चक्रेण माधवम् ।
मुष्टिदेशे जघानासौ चक्रं तस्यापतद्भुवि ॥ ७॥
माधवो गदया मूर्ध्नि दैत्येशं तमताडयत् ।
वञ्चयित्वा च शतधा गदां स्वां च व्यचिक्षिपत् ॥ ८॥
ज्ञात्वा पराक्रमं तस्य प्रोचे तं मधुसूदनः ।
वरयस्व वरं दैत्य यत्ते मनसि वर्तते ॥ ९॥
नेतादृशो मयाऽदर्शि पुरुषार्थोऽसुरे क्वचित् ।
ततोऽब्रवीद्देत्यपतिः परमाल्हादसंयुतः ॥ १०॥
यदितुष्टोऽसि देवेश यदि देयो वरो मम ।
गण्डकी नगरे मे त्वं परिवारयुतो हरे ॥ ११॥
सार्वकालं वसनिभो नान्यं याचे वरं परम् ।
तत ऊचे महाविष्णु स्थास्यामिनगरे तव ॥ १२॥
दत्तो वरो यतो नूनं ततोऽस्मि वशगस्तव ।
ततः स सत्य लोकेच कैलासे वैष्णवे पदे ॥ १३॥
आस्थापद् दैत्यपतीन् स्वयं शाक्रे पदेऽवसत् ।
तत्राप्यन्यं स्थापयित्वा रमापतियुतः स्वयम् ॥ १४॥
वाद्यदुन्दुभिनिर्घोषैः स्वपुरीं गण्डकीं ययौ ।
नुवन्ति बन्दिनस्तं तु नेदृशोऽभूत्पुमान्क्वचित् ॥ १५॥
येन विष्णुर्गृहं स्वीयं जित्वाऽनायि सुरान्बहून् ।
ददृशुर्नागरास्तस्य समीपे वरुणं हरिम् ॥ १६॥
कुबेरं देवमुख्यांश्च ततः स्वभवनं ययुः ।
ततः प्रोचे हरि दैत्यो गण्डकीनगरे सुखम् ॥ १७॥
विहरस्वामरैः सार्द्धं ततः सोऽपि तथाऽकरोत् ।
परितो दूरतो दैत्यो दैत्यानन्यान् न्यवेशयत् ॥ १८॥
ततो देवा हरिं प्रोचुः किं कृतं गरुडध्वज ।
त्यक्त्वा स्वविक्रमं किन्त्वं स्थितोऽत्यानन्दनिर्भरः ॥ १९॥
कथं कारागृहे प्राप्ता मृत्युलोकं गताः कथम् ।
कथमन्तो भवेदस्य भोगस्य जगदीश्वर ॥ २०॥
तत ऊचे हरिः सर्वान् कालोहि दुरतिक्रमः ।
कालेन जायते सर्वं ह्रसते वर्धतेऽपि वा ॥ २१॥
तस्मात्कालं प्रतीक्षध्वं काल एनं ग्रसिष्यति ।
एवं जित्वा त्रिलोकीं स महाबलपराक्रमः ॥ २२॥
ततो दैत्यो जगौ सर्वं वृत्तान्तं पितरौ मुद्रा ।
आशिषं ददतुस्तौ च ज्ञात्वा पौरुषमस्य ह ॥ २३॥
ततो दैत्यो दुष्टमतिर्भूतले समघोषयत् ।
देवद्विजगवामर्चा क्रियते येन केनचित् ॥ २४॥
स हन्तव्योऽथवा साधुरानेयो मम सन्निधौ ।
प्रतिमा यत्र यत्र स्यात् तां भङ्क्त्वा निक्षिपेज्जले ॥ २५॥
ममैव प्रतिमां कृत्वा पूजयन्तु गृहे गृहे ।
प्राबोधयन् सिन्धुवचो दूता एवं स्थले स्थले ॥ २६॥
भङ्क्त्वा प्रासादमूर्तीश्च तोऽयेगाधे च चिक्षिपुः ।
सिन्धोश्च प्रतिमां कृत्वाऽस्थापयन् परमादरात् ॥ २७॥
पूजार्थं राक्षसाश्चापि ततो याता निजं पतिम् ।
ऊचुर्वैनायकहरहरिभानुरमादिकाः ॥ २८॥
प्रतिमाः प्रविभज्याशु क्षिप्ताः सर्वा महाजले ।
तवैव प्रतिमास्तत्र स्थापिता राक्षसा अपि ॥ २९॥
पूजार्थं स्थापिताः स्वामिन् आगताश्च तवान्तिकम् ।
एवं धर्मस्य सर्वस्य विच्छित्तिः समजायत ॥ ३०॥
यज्ञदानस्वधास्वाहावषट्कारान् चाकरोत् ॥
देवद्विजगुरुणाञ्च पूजनं क्वापि नाऽभवत् ॥ ३१॥
मेरु याता ऋषिगणाः केचिद् भ्रंशमुपागताः ।
एवं त्रैलोक्यप्रबला दैत्या जाताश्च राक्षसाः ॥ ३२॥
विलीना निधनं प्राप्ताः साधवो देवतागणाः ।
यथा देवगणा मोक्षं सिन्धोः प्राप्ताः शृणुष्व तत् ॥ ३३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुदुःशासनवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७॥
आदितः श्लोकानां समष्ट्यङ्काः - ७५२८ + ३३ = ७५६१
२.०७८ सुरर्धिवरप्रदानं नामाष्टसप्ततितमोऽध्यायः
क उवाच ।
सर्वे निगृहिता देवाः सिन्धुना प्रभविष्णुना ।
तस्यैव च वधोपायं चिन्तयामासुरुत्सुकाः ॥ १॥
हरिरुवाच ।
सर्वेषां सम्मतं ज्ञात्वा कर्तव्यः कार्यनिश्चयः ।
तस्मात् सर्वे ब्रुवन्त्वद्य मतं यस्य यथा भवेत् ॥ २॥
क उवाच ।
इति शक्रवचः श्रुत्वाऽबुवन् ब्रह्मादयः सुराः ।
ईश्वरः सर्वकर्ताऽस्ति स कल्याणं करिष्यति ॥ ३॥
स येन तुष्यते देवः स उपायो विधीयताम् ।
स एनं परिभूत्वैव नः पदानि प्रदास्यति ॥ ४॥
ततो वक्तृप्रधानोऽसौ बृहस्पतिरभाषत ।
स्वल्पया पूजया सद्यः प्रसन्नो जायते विभुः ॥ ५॥
चराचरगुरुः सद्यः सर्वैः प्रार्थ्योऽसुरान्तकः ।
देवा ऊचुः ।
को देवः प्रार्थनीयस्ते मतो वाचस्पते वद ॥ ६॥
तस्य तुष्टिं करिष्यामः स्वपदप्राप्तयेऽखिलाः ।
गुरुरुवाच ।
सृजते पाति यो विश्वं हन्ति रूपत्रयात्मकः ॥ ७॥
अबीजो बीजभूतश्चाशेषवाचामगोचरः ।
नित्यो ब्रह्ममयो ज्योतिः स्वरूपः शास्त्रगोचरः ॥ ८॥
अनादिमध्यनिधनो निर्गुणो यो निरामयः ।
बहुरूपैकरूपश्च यस्य नामाखिला जनाः ॥ ९॥
गृहीत्वा सर्वकार्येषु सिद्धिं यान्ति निजेप्सिताम् ।
सङ्कष्टं हरते भक्त्या पूजितः स विनायकः ॥ १०॥
आराधयन्तु सर्वे तं स वः सिद्धिं विधास्यति ।
माघस्य कृष्णपक्षोऽयं सम्प्रवृत्तोऽधुना सुराः ॥ ११॥
चतुर्थी भौमयुक्ताऽस्य प्रिया विघ्नहरस्य ह ।
स एव प्रकटीभूय दास्यते स्वम्पदानि वः ॥ १२॥
सिन्धुं स सन्निहत्यैव नात्र कार्या विचारणा ।
यद् यत् कामयते यो यस्तत् तत्सर्वं प्रदास्यति ॥ १३॥
देवा ऊचुः ॥
सम्यगुक्तं गुरोवाक्यं येन तृप्तावयं मुने ।
महास्रोतोवहान्नस्त्वं कर्णधारोऽसिसाम्प्रतम् ॥ १४॥
कः उवाच ।
नतस्ते शक्रवरुणकुबेरमधुसूदनाः ।
गुरुभौमशशीनाश्च यमाग्न्यनिलकादयः ॥ १५॥
पञ्चामृतं गन्धमाल्यं शमीदूर्वाश्च पल्लवान् ।
फलान्यरण्यजातानि विविधानि च मृत्तिकाः ॥ १६॥
अशर्कराः समादाय गण्डकीं तां नदीं ययुः ।
मण्डपं विपुलं कृत्वा भङ्क्त्वा वृक्षाननेकशः ॥ १७॥
लताभिः कदलीस्तम्भैः सुच्छायं च सुशीतलम् ।
स्नात्वा नित्यक्रियाः कृत्वा मूर्तींश्चक्रुः सुशोभना ॥ १८॥
सिंहारूढा दशभुजा दशायुधविराजिताः ।
वैनायकीः करिकरा नानाभूषाविराजिताः ॥ १९॥
सिद्धिबुद्धियुताः पार्श्वे किरीटकुण्डलोज्वलाः ।
पीतवस्त्रपरीधानाः सर्पभूषाविराजिताः ।
तस्मिन्मण्डपमध्ये ताः स्थापयित्वा यथाविधि ।
पुपूजुः परया भक्त्या षोडशैरुपचारकैः ॥ २०॥
पञ्चामृतैः शुद्धजलैर्वस्त्रगन्धादिदीपकैः ।
नैवेद्यैर्विविधश्चैव फलैरारार्तिकः शुभैः ॥ २१॥
एवं सम्पूज्य ते मन्त्रं जेपुः सवितृतुष्टये ।
अस्तं याते सवितरि सन्ध्यां कृत्वाऽस्तुवन्विभुम् ॥ २२॥
सर्वे ऊचुः ।
दीननाथ दयासिन्धो योगिहृत्पद्मसंस्थित ।
अनादिमध्यरहितस्वरूपाय नमो नमः ॥ २३॥
जगद्भास चिदाभास ज्ञानगम्य नमो नमः ।
मुनिमानसविष्टाय नमो दैत्यविघातिने ॥ २४॥
त्रिलोकेश गुणातीत गुणक्षोभ नभो नमः ।
त्रैलोक्यपालन विभो विश्वव्यापिन् नमो नमः ॥ २५॥
मायातीताय भक्तानां कामपूराय ते नमः ।
सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते ॥ २६॥
अमेयशक्तये तुभ्यं नमस्ते चन्द्रमौलये ।
चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः ॥ २७॥
क उवाच ।
एवं स्तुवत्सु देवेषु तेजोराशिरभूत्पुरः ।
सर्वे हतदृशो देवा विस्मिता अभवँस्तदा ॥ २८॥
ततस्तत्कृपया देवः सौम्यतेजा अजायत ।
ततस्ते ददृशुर्दैवं सिंहारूढं विनायकम् ॥ २९॥
दशायुधधरं तावद्भुजं दिव्यकिरीटिनम् ।
नानाभूषाभिरामं च मुक्तादामविभूषितम् ॥ ३०॥
दिव्यगन्धानुलेपाढ्यं व्यालबद्धोदरं विभुम् ।
क्षुद्रघण्टाक्वणत्पादं कस्तूरीतिलकोज्ज्वलम् ॥ ३१॥
एवं दृष्ट्वा सुरा देवं नमस्कृत्योचिरे तदा ॥
यश्चिन्तितो गुरोर्वाक्यात् स एवायं विनायकः ॥ ३२॥
स एव दृष्टः साक्षात् तु वाङ्मनोऽगोचरो विभुः ।
जन्म धन्यं दृशिर्धन्या तपोदानं च नः सुराः ॥ ३३॥
तत ऊचे सुरान् देवस्तृप्तोऽहं भवतां स्तवैः ॥
पूजयाचैव भक्त्या च सङ्कष्टीव्रततोऽपिच ॥ ३४॥
सङ्कष्टहरमेतच्च स्तोत्रं ख्यातं भविष्यति ।
यः पठेत्प्रयतो नित्यं स मे मान्यो भवेत्सुराः ॥ ३५॥
तस्य दर्शनतः सर्वे नश्येयुर्यक्षराक्षसाः ।
भोगान्भुनक्ति विविधानन्ते मोक्षपदं लभेत् ॥ ३६॥
शृण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः ।
शरणं मे प्रपन्नाश्च यज्ञवेदाविवर्जिताः ॥ ३७॥
निरुद्धा गण्डकीदेशे स्वधास्वाहाविवर्जिताः ।
ततो ह्यस्य वधं कर्तुमवतारान्तरं मम ॥ ३८॥
गिरिजाया गृहे देवा भविष्यामि च साम्प्रतम् ।
मयूरेश्वरनाम्नाऽहं ख्यातिं यास्ये तदा च वः ॥ ३९॥
पदानामाश्रमाणां च प्राप्तिः सिन्धौ हते मया ।
भविष्यति न सन्देह यतः कृतयुगे सुराः ॥ ४०॥
सिंहारूढो दशभुजस्तेजोरूपी विनायकः ।
षड्भुजः शशिवर्णश्च त्रेतायां बर्हिवाहनः ॥ ४१॥
मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् ।
चतुर्बाहुराखुवाहो भूत्वा चाहं गजाननः ॥ ४२॥
ततः कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः ।
धूमकेतुरिति ख्यातो भविष्यामि सुरा अहम् ॥ ४३॥
शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः ।
क उवाच ।
एवं निवेद्य तान् देवस्तत्रैवाऽन्तर्दधे विभुः ॥ ४४॥
आनन्दं च सुरा प्रापुः स्वकार्य कृतनिश्चयाः ।
य इदं परमाख्यानं शृणुयाच्छ्रावयेच्च यः ॥ ४५॥
पठेच्च परया भक्त्या ध्यात्वा देवं विनायकम् ।
सर्वान् कामानवाप्नोति प्रेत्य ब्रह्ममयो भवेत् ॥ ४६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सुरर्द्धिवरप्रदानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८॥
आदितः श्लोकानां समष्ट्यङ्काः - ७५६१ + ४६ = ७६०७
२.०७९ गौरीमन्त्रप्रदानं नाम नवसप्ततितमोऽध्यायः
क उवाच ।
निर्जितान् सिन्धुना देवान् ज्ञात्वा शम्भुर्निजस्थलात् ।
सप्तकोटिगणाकीर्णस्त्रिसन्ध्याक्षेत्रमभ्यगात् ॥ १॥
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिताः ।
निवसन्ति भयात्सिन्धोर्गौतमाद्या महर्षयः ॥ २॥
दृष्ट्वा ते त्र्यम्बकं देवं परिवव्रुः समन्ततः ।
यथा तीर्थं विप्रवरा बालका जननीं यथा ॥ ३॥
प्रणम्य तं प्रपूज्यैव प्रोचुर्धन्यतमा वयम् ।
अनुष्ठानं दृशिर्जन्म धन्यं ज्ञानं यतो हरः ॥ ४॥
अगोचरो दृष्टिगतो दण्डकारण्यमागतः ।
दुरितं विलयं यातं पुण्यं च फलितं महत् ॥ ५॥
इदानीं न च दुःख नो दृष्टे देवे भविष्यति ।
यथोदिते दिवानाथे न ध्वान्तं दृश्यते क्वचित् ॥ ६॥
ततोऽब्रवीन् महादेवः सर्वांस्तान् मुनिपुङ्गवान् ।
शिव उवाच ।
सिन्धुनाऽक्रामि त्रैलोक्यं कृतो देव विनिग्रहः ॥ ७॥
मुनीनामपि केषाञ्चित्तेन खिन्नं मनो मम ।
विश्रान्ति न लभे स्थाने ततोऽहमिह चागतः ॥ ८॥
भवतां दर्शनेऽनाहं परितुष्टो मुदान्वितः ।
इदानीमवकाशं सपरिवारस्य दीयताम् ॥ ९॥
अतिपुण्येन वः प्राप्तं दर्शनं पापनाशनम् ।
यत्रस्थित्वा परं ध्यानं करिष्ये जगदीशितुः ॥ १०॥
क उवाच ।
इति शूलिवचः श्रुत्वा प्रोचुः सर्वे महर्षयः ।
सर्वेश्वरस्य ते देव दाता स्थानस्य को भवेत् ॥ ११॥
कल्मद्रुमस्य कः कामः केनासौ परिपूर्यते ।
क्षीरार्णवतृषा किं वा पल्लवेन गमिष्यति ॥ १२॥
तवैव रूपं पृथिवी तव वश्याऽत्र सर्वदा ।
त्वमीशः सर्वलोकस्य यथेच्छसि तथा कुरु ॥ १३॥
दर्शयामः सुरपते सुन्दरं तव चाश्रमम् ।
नानावृक्षलताकीर्णं रम्यवापीसरोजलम् ॥ १४॥
यादोभिः पक्षिभिर्युक्तं घनच्छायं सुविस्तृतम् ।
स्वादुकन्दफलोपेतं मृदुघाससमन्वितम् ॥ १५॥
यदीच्छाऽत्र वस त्र्यक्ष परिपालय नोऽखिलान् ।
क उवाच ।
तत्रावसन्महादेवो गङ्गौरीगणैर्युतः ॥ १६॥
कैलासादधिकं मेने मुनेराश्रममण्डलम् ।
तदाश्रयेण ते सर्वे गौतमाद्या महर्षयः ॥ १७॥
चेरुस्तपांसि विविधान्यासँस्ते विगतज्वराः ।
शिवोऽपि तप आरेभे गङ्गागौरिसहायवान् ॥ १८॥
ततो गणाश्च सामग्रीं तस्य चक्रुर्महात्मनः ।
कस्मिंश्चित्समये गौरी पृच्छति स्म सदाशिवम् ॥ १९॥
त्वमेव कर्ता हर्ता त्वं पाता विश्वस्य शङ्कर ।
अष्टमूर्तिरमूर्तिस्त्वं सर्वेशः सर्वभावनः ॥ २०॥
सर्वश्रेष्ठतमस्त्वं च सर्वेषां सर्वकामदः ।
अष्टानां कर्मणां देव फलदाताऽखिलार्थवित् ॥ २१॥
त्वत्तः श्रेष्ठतमः कोऽस्ति यं त्वं ध्यायसि तं वद ।
देवाश्च मुनयो नागा में यक्षमानुषराक्षसाः ॥ २२॥
यत्सत्तयाऽखिलं विश्वं त्वत्तः श्रेष्ठतमस्तु कः ।
त्रयस्त्रिंशत्कोटिदैवेः पूज्यसे सिद्धसाधकैः ॥ २३॥
क उवाच ।
इति तद्वचनं श्रुत्वा शिवो वचनब्रवीत् ।
शिव उवाच ।
सम्यक् पृष्टं त्वया देवि तुष्टो वाक्येन ते नऽघे ॥ २४॥
शृणुष्वाऽवहिता देवि विस्तरेण ब्रवीमि ते ।
अद्यापि न कथं ज्ञातो यं ध्यायामि सुरेश्वरि ॥ २५॥
तत्स्वरूपं निरुपिष्ये तव प्रीतिचिकीर्षया ॥
लोकानामुपकाराय संसारोत्तारणाय च ॥ २६॥
यो देवः सर्वभूतेषु गूढश्चरति विश्वकृत् ।
योऽनन्तशीर्षानन्तश्रीरनन्तचरणः स्वराट् ॥ २७॥
अनन्तश्रुतिनेत्रश्चानन्तनामा गुणातिगः ।
अनन्तरूपी यो देवो वेदकर्ताऽखिलार्थदः ॥ २८॥
योऽनन्तशक्तिर्विश्वात्माऽनुपमेयः पुरातनः ।
नोपमा शेषचन्द्राब्धिव्योम्नां नारायणस्य च ॥ २९॥
भारतस्य च वेदस्य व्यासस्य च मुनेरपि ।
यतो जीवा अनन्ताश्च जायन्तेऽम्बुमुचो यथा ॥ ३०॥
जलधारा यथाऽग्नेर्वा विस्फुलिङ्गा भवन्ति हि ।
ब्रह्माविष्णुशिवादीनां गुणत्रयप्रदः प्रभुः ॥ ३१॥
सृष्टिपालनसंहारानाज्ञापयत तैरिह ।
ततो गुणविभागेन गुणेश इति पप्रथे ॥ ३२॥
तमिमं परमात्मानं परात्पतरं विभुम् ।
गुणेशमनिशं ध्याये परब्रह्मस्वरूपिणम् ॥ ३३॥
गौर्युवाच ।
तुष्टाऽहं तव वाक्येन प्रत्ययो मे कथं भवेत् ।
तं गुणेशं कथं साक्षात्करोमि च भजामि च ॥ ३४॥
तमुपायं वद विभो यदि तुष्टोऽसि शङ्कर ।
क उवाच ।
इति तस्या वचः श्रुत्वा पुनरूचे महेश्वरः ॥ ३५॥
शिव उवाच ।
एकनिष्ठतया यावत् तपसाराधितो न ते ।
तावत्प्रत्यक्षतां देवि कथं यास्यति स प्रभुः ॥ ३६॥
देव्युवाच ।
कथं मया तपः कार्यं केनोपायेन वा विभो ।
यदि तुष्टोऽसि देवेश वद सत्यं ममानघ ॥ ३७॥
क उवाच ।
एवं तदादरं बुध्वा प्रोवाच गिरिजां हरः ।
येन तस्या भवेत्प्रीतो गुणेशो गुणवल्लभः ॥ ३८॥
एकाक्षरमनुं तस्यै ददौ सम्यग्घरस्तदा ।
द्वादशाब्दं कुरु तपस्ततस्तुष्टो भवेद्विभुः ॥ ३९॥
साक्षात्कारं गुणेशस्ते प्रदास्यति न संशयः ।
तदैव सा नमस्कृत्य गिरीशं हृष्टमानसा ॥ ४०॥
जगाम तपसे गौरी मन्त्रध्यानपरायणा ।
जीर्णापुरादुत्तरे तु लेखनादि मनोहरम् ॥ ४१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गौरीमन्त्रप्रदानं नाम एकोनाशीतितमोऽध्यायः ॥ ७९॥
आदितः श्लोकानां समष्ट्यङ्काः - ७६०७ + ४१ = ७६४८
२.०८० अशीतितमोऽध्यायः
क उवाच ।
तत्र सा काननं दृष्ट्वा रम्यं पुष्पजलान्वितम् ।
तस्थौ पद्मासनगता नासाग्रन्यस्तलोचना ॥ १॥
गणेशध्याननिरता प्राङ्गमुखी जपतत्परा ।
एकाक्षरस्य मन्त्रस्य शुष्कद्रुम इव स्थिता ॥ २॥
न फलं न जलं मूलं पर्णं कन्दं न मारुतम् ।
अत्ति सा निश्चला तत्र निर्वाणं परमं श्रिता ॥ ३॥
एवं सा द्वादशाब्दानि व्यतीतानि ततो विभुः ।
कृपयाऽऽविरभूत्प्रीतो गुणेशो गुणवल्लभः ॥ ४॥
किरीटकुण्डलधरो दशबाहुस्त्रिशूलभृत् ।
भालचन्द्रः शङ्खचक्रमुक्तामालाविभूषितः ॥ ५॥
अक्षमालां च कमलं कस्तूरीतिलकं दधत् ।
मध्ये नारायणमुखो दक्षिणे च शिवाननः ॥ ६॥
वामे ब्रह्ममुखः शेषे पद्मासनगतो विभुः ।
तत्फणामण्डलच्छायः कुन्दकर्पूरसन्निभः ॥ ७॥
उवाच जगदम्बां तां यं ध्यायसि दिवानिशम् ।
गुणेशो गुणेश इति सोऽहं ते दर्शनं गतः ॥ ८॥
तव निष्ठां च भक्ति च तप उग्रमवेक्ष्य च ।
मम स्वरूपं वक्ष्यामि प्रीतस्तव वरानने ॥ ९॥
त्रयस्त्रिंशत्कोटिदेवेष्वधिको न च मत्परः ।
गुणत्रयविभागाच्च गुणेश इति मां विदुः ॥ १०॥
त्रिदेहो गुणतश्चाहं सन्तुष्टस्तपसा च ते ।
वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते ॥ ११॥
असाध्यमपि दास्यामि त्रैलोक्येऽस्मिन् महेश्वरि ।
इति तद्वचनं श्रुत्वा हर्षगद्गदनिःस्वना ॥ १२॥
उन्मील्य नयने गौरी पश्यति स्म पुरो विभुम् ।
गुणशं त्रिगुणेशं च त्रितनुं प्रणनाम सा ॥ १३॥
उवाच जन्मनिष्ठा च तपो मन्त्रो हरोऽपि च ।
अद्य धन्यतमो जातो दृष्ट्वा ते पदपङ्कजम् ॥ १४॥
अद्य सिद्धिः परा प्राप्ता साक्षादृष्टो यतो भवान् ।
न काङ्क्षेऽन्यवरं कच्चित् त्वद्वाक्यं न च लङ्घये ॥ १५॥
अतस्त्वं पुत्रतां याहि मम प्रीतिकरो भव ।
निरन्तरं दर्शनं ते सेवनं पूजनं भवेत् ॥ १६॥
इति तस्या वचः श्रुत्वा गुणेशो हर्ष निर्भरः ।
उवाच गिरिजां तां स भविष्यामि सुतस्तव ॥ १७॥
वाञ्छितं पूरयिष्यामि लोकानां च तवापि च ।
एवमुक्त्वा गुणेशस्तामन्तर्धानमगात्क्षणात् ॥ १८॥
न ददर्श यदा देवी गुणेशं तं क्षणात्तदा ।
अमन्यत मया दृष्टः स्वप्ना किं सुखदःक्षणम् ॥ १९॥
ईश्वरस्योपदेशेन दृष्टो देवोऽखिलार्थदः ।
न सोढुं विरहं तस्य शक्तास्मीति व्यधाच्छिवा ॥ २०॥
गुणेशप्रतिमां कृत्वा स्थापयामास सादरम् ।
प्रासादं कारयामास चतुर्द्वारं सुशोभनम् ॥ २१॥
गिरिजात्मजेति तन्नाम स्थापयामास सुन्दरम् ।
सिद्धिक्षेत्रमिति ख्यातं भविष्यति नृणामिह ॥ २२॥
अनुष्ठानवतां सिद्धिर्भविष्यति न संशयः ।
इति दत्त्वा वरं तत्र सम्पूज्य च यथा विधि ॥ २३॥
प्रदक्षिणा नमस्कारान्कृत्वा च द्विजपूजनम् ।
दत्त्वा दानानि तेभ्यश्च गृहीत्वाशीर्वचो द्विजात् ।
त्रिसन्ध्याक्षेत्रमगमद् योगस्थं ददृशे हरम् ॥ २४॥
तत्पादपङ्कजे स्वीयं शिरःपद्मन्न्यधाच्छिवा ।
उवाच निजवृत्तान्तमाज्ञां प्राप्य विभो तव ॥ २५॥
उपदेशं मनोश्चापि द्वादशाब्दं कृतं तपः ।
अवायुभक्षया स्वामिन् ततस्तुष्टो गुणेश्वरः ॥ २६॥
उवाच परमप्रीतो भावं ज्ञात्वा परं मम ।
तवोदरेऽवतारं तु करिष्याम्यचलात्मजे ॥ २७॥
वाञ्छितं च करिष्यामि देवानां च तवापि च ।
एवमुक्त्वा क्षणेनाऽसौ तत्रैवाऽन्तर्दधे विभुः ॥ २८॥
ततोऽहं परमप्रीता मूर्तिं प्रासादमेव च ।
विधाय स्थापयित्वा तां तवान्तिकमुपागता ॥ २९॥
क उवाच ।
एवं श्रुत्वा प्रियावाक्यं प्रहृष्टमानसो हरः ।
प्रोत्फुल्लनयनः प्राह धन्याऽसि गिरिजात्मजे ॥ ३०॥
साक्षाद् दृष्टो गुणेशस्ते गृहे सोऽवतरिष्यति ॥ ३१॥
हनिष्यति महादैत्यं भूभारं च हरिष्यति ।
इन्द्रादिलोकपालानां स्वपदानि प्रदास्यति ॥ ३२॥
एतन्मम वचो देवि न च विस्मर्तुमर्हसि ।
क उवाच ।
एवमुक्त्वा शिवो देव आलिलिङ्ग शिवां तदा ॥ ३३॥
आनन्दाश्रूणि मुञ्चन्तौ रोमाञ्चिततनू उभौ ।
तिष्ठन्तौ परमाल्हादयुतावम्बामहेश्वरौ ॥ ३४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशदर्शनं नामऽशीतितमोऽध्यायः ॥ ८०॥
आदितः श्लोकानां समष्ट्यङ्काः - ७६४८ + ३४ = ७६८२
२.०८१ गणेशाविर्भावोनामैकाशीतितमोऽध्यायः
क उवाच ।
ततः सा पार्वती हृष्टा सखीजनमगान्निजम् ।
वृत्तान्तं सर्वमाचरख्यौ हृष्टरूपोऽपि सोऽभवत् ॥ १॥
ततः प्रभृति सा देवी गुणेशमानसाऽभवत् ॥
पश्यति स्माऽन्यबालं सा गुणेशोऽयं भवेदिति ॥ २॥
गृहितुं धावति तदा तन्मात्रा सा निषिध्यते ॥
न क्वापि विश्रमं याति गुणेशध्यानतत्परा ॥ ३॥
तन्नाम जपते नित्यं तन्मयं लोकते जगत् ।
पप्रच्छ च सखीः सर्व गुणेशो यास्यते कदा ॥ ४॥
पित्रा मे कथितं पूर्वं व्रतमीशाप्तये शुभम् ।
पार्थिवस्य गणेशस्य पूजनं च यथाविधि ॥ ५॥
तेन व्रतप्रभावेण प्राप्ताऽस्मि शङ्करं प्रियम् ।
पुनस्तदाचरिष्यामि गुणेशप्राप्तयेऽधुना ॥ ६॥
ततो भाद्रचतुर्थ्यां सा कृत्वा मूर्तिं मुदान्विता ।
उपचारैः षोडशभिः पुपूज च गजाननीम् ॥ ७॥
षड्भिर्ध्यानादिकैः पञ्चामृतैर्वस्त्रैरनेकशः ।
यज्ञोपवीतगन्धैश्च धूपदीपैर्यथाविधि ॥ ८॥
नानापुष्पैश्च नैवेद्यैर्नानाविधफलैरपि ।
ताम्बूलैरार्द्रपूगैश्च लवङ्गादिसमन्वितैः ॥ ९॥
दूर्वाभिश्च शमीपत्रैर्दक्षिणाभिरनेकशः ।
आरार्तिक्यैर्विचित्रैश्च मन्त्रपुष्पैः स्तवैरपि ॥ १०॥
प्रदक्षिणाप्रार्थनाभिर्बाह्मणानां च पूजनैः ।
परितुष्टा मूर्तिरसौ पार्थिवी चेतनामगात् ॥ ११॥
तदैव प्रभया तस्याः कोटिसूर्यप्रभा जिता ।
कल्पानलार्चिर्विजिताऽनन्तचन्द्रप्रभा हृता ॥ १२॥
हतनेत्रप्रभा गौरी मूर्छिता पतिता भुवि ।
मुहूर्तात् सावधाना सा प्रोवाच जगदीश्वरम् ॥ १३॥
किं मया विकृतं देवपूजनेन च तर्कये ।
अभिचारोऽथवा केन प्रयुक्तोऽयं न वेद्मि तं ॥ १४॥
कथं मे विफलो यत्नो जातो देव कृपानिधे ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्याः सौम्यतेजा अभूत्प्रभुः ॥ १५॥
सा तदैवाभवद् हृष्टा बालं वीक्ष्य पुरोगतम् ।
असङ्ख्यवक्त्रनयनमसङ्ख्याङ्घ्रिशिरोधरम् ॥ १६॥
असङ्ख्यमुकुटं सूर्यचन्द्राग्निलोचनं विभुम् ।
मुक्तामणिमयीं मालां बिभ्रन्तं दीप्तिमत्परम् ॥ १७॥
अनेकायुधहस्तं च सर्वावयवसुन्दरम् ।
दृष्ट्वा तु पार्वती रूपं पवित्रं परमाद्भुतम् ॥ १८॥
अतर्कयच्चेतसा सा निमील्य नयने शुभे ।
कम्पमानाङ्गयष्टिः सा कर्तव्यं नाभ्यपद्यत ॥ १९॥
चिन्तितं किं मया दृष्टमरिष्टमद्भुतं नु किम् ।
उन्मील्य नयनेऽपश्यद् दिव्यदृष्टिर्धरात्मजा ॥ २०॥
तावच्छिवोपदिष्टं तदवेदीच्च जगाद च ।
पार्वत्युवाच ।
अस्यैव मायया भ्रान्ता न जानामि विभुं प्रभुम् ॥ २१॥
पप्रच्छ तं ततः कस्त्वं कुत आगमनं तव ।
किमर्थं त्वं गुणेशश्चेद्द् भवितासि वदस्व माम् ॥ २२॥
क उवाच ।
इति तद्वचनं श्रुत्वाऽवदत् स पुरुषो महान् ।
स्वनेन नादयन्सर्वा दिशो विदिश एव च ॥ २३॥
देव उवाच ।
यं ध्यायसि दिवारात्रावनुष्ठानवती शुभे ।
सोऽहं गुणेशस्ते गेहेऽवतीर्णः परमः पुमान् ॥ २४॥
परात्परतरो यस्मादवदं त्वा वरार्थिनीम् ।
यास्ये ते पुत्रतां देवि यत्कृत्यं मे शृणुष्व तत् ॥ २५॥
उभयोः सेवनं कार्यं सिन्धुदैत्यविनाशनम् ।
अमराणां पदप्राप्तिं कृत्वा यास्ये निजं पदम् ॥ २६॥
क उवाच ।
पीत्वा वाक्यामृतं तस्य प्रीता सा गिरिजात्मजा ।
उवाचेह परं भाग्यं परमं मे तपःफलम् ॥ २७॥
नायकोऽनन्तकोटिनां ब्रह्माण्डानां विभुर्मया ।
दृष्टश्चिदानन्दघनो यस्मात् सृष्टमनेकशः ॥ २८॥
पञ्चभूतानि ब्रह्मेशौ हरिश्चन्द्रेन्द्रभास्कराः ।
नक्षत्राणि च गन्धर्वा यक्षा मुनिगणा द्रुमाः ॥ २९॥
शैलाः पक्षिगणाः सर्वे भुवनानि चतुर्दश ।
स्थावर जङ्गमं यस्मात्सचेतनमचेतनम् ॥ ३०॥
स त्वं मम कुमारत्वं प्राप्तोऽसीति विडम्बनम् ।
अथ त्वां प्रार्थये देव प्राकृतो भव साम्प्रतम् ॥ ३१॥
येन ते लालनं कुर्या सेवनं परमादरात् ।
क उवाच ।
यावद्वदति सैवं तु ददर्श पुरतस्तु तम् ॥ ३२॥
षड्भुजञ्चन्द्रसुभगं लोचनत्रयभूषितम् ।
सुनासं सुभ्रु वदनं स्थूलवक्षसमीश्वरम् ॥ ३३॥
ध्वजाङ्कुशोर्ध्वरेखाब्जचिन्हितं पादपङ्कजम् ।
कोटिस्फटिकसङ्काशं कोटिचन्द्रप्रभं विभुम् ॥ ३४॥
हेमतारानिभान् केशान्दधन्तं बालरूपिणम् ।
कुर्वन्तं प्रथमं शब्दं कम्पयन्तं वसुन्धराम् ॥ ३५॥
जनास्थानानि मर्यादां तत्यजुस्तस्य शब्दतः ।
नीरसा वृक्षनिचयाः सपल्लवचयास्तदा ॥ ३६॥
जाता गावो बहुक्षीरास्त्रैलोक्यं जहृषे पुनः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिरथापतत् ॥ ३७॥
दृष्ट्वा बालं तु गिरिजा हस्ताभ्यां जगृहे मुदा ।
स्नापयामास पयसा तप्तेन स्नेहभावतः ॥ ३८॥
प्रस्नुतौ पाययामास स्तनौ परमहर्षिता ।
शिवोऽपि जहृषे तेन शिशुना परमेण ह ॥ ३९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशाविर्भावो नामैकाशीतितमोऽध्यायः ॥ ८१॥
आदितः श्लोकानां समष्ट्यङ्काः - ७६८२ + ३९ = ७७२१
२.०८२ द्व्यशीतितमोऽध्यायः
क उवाच ।
ततः शिवगणाः शम्भुं वृत्तान्तं तन्यवेदयन् ।
आश्चर्यं परमं देवं शिवा पुत्रसमन्विता ॥ १॥
जाता पुत्रावलोकार्थं ततो याहि निज स्थलम् ।
एवं गणवचः श्रुत्वा तुतोष गिरिजापतिः ॥ २॥
आगत्य वीक्ष्य तं बालमद्भुतं शशिसन्निभम् ।
स्फटिकाद्रिनिभं कुन्दधवलं कज्जलोचनम् ॥ ३॥
आश्चर्यं परमं लेभे प्रोवाच च वचस्तदा ।
शिव उवाच ।
नायं बालोऽनादिसिद्धो जराजन्मविवर्जितः ॥ ४॥
लीलाविग्रहवानेष स्वप्रकाशो गुणातिगः ।
शुद्धसत्त्वमयः सर्वजीवेशो भुवनेश्वरः ॥ ५॥
मुनिध्येयोऽखिलाधारो ब्रह्मभूतोऽखिलप्रदः ।
क उवाच ।
एवमुक्त्वा कराभ्यां स बालमादत्त शङ्करः ॥ ६॥
लालयित्वा हृदि स्थाप्य सर्वहृत्स्थोऽपि यः सदा ।
पुनरूचे च गिरिजां शिवोऽशिवहरो विभुः ॥ ७॥
परमात्मा गुणातीतः पुत्रतां ते समागतः ।
परानुष्ठानतो देवि साक्षाद् दृष्टो विभुस्त्वया ॥ ८॥
क उवाच ।
ततो विप्रान् समाहूय पूजयित्वा गणाधिपम् ।
पुण्याहं वाचयित्वा च मातृपूजनपूर्वकम् ॥ ९॥
कृत्वाऽऽभ्युदयिकं श्राद्धं प्राशयित्वा घृतं मधु ।
अभिमन्त्र्य शिशुं भूमिं गिरिजा तं स्तनं ददौ ॥ १०॥
गौतमादीन् पूजयित्वा ददौ दानान्यनेकशः ।
ततस्ते तदनुज्ञाता नाम प्रोचुर्महर्षयः ॥ ११॥
अयं ते बालतां यातोऽनादिसिद्धोऽखिलेश्वरः ।
निर्माता सर्वलोकान्ना चराचरगरोर्गुरुः ॥ १२॥
मायावी वेदवेदान्ताऽगोचरो मध्यगे रवौ ।
अवतीर्णः सुमहूर्ते कीर्तिमाविष्करिष्यति ॥ १३॥
भाद्रशुक्लचतुर्थ्यां तु शशिवारे च वायुभे ।
सिंहलग्ने पञ्चशुभग्रहयुक्तेऽभवत्सुतः ॥ १४॥
श्रीमान् पराक्रमयुतोऽद्भुतकर्मा महाबलः ।
भविष्यति च लोकानां भक्तानामतिसौख्यदः ॥ १५॥
एकादशदिने शम्भो कुरुनामास्य सुन्दरम् ।
क उवाच ।
एवमुक्त्वा गताः सर्वे मुनयो निजमन्दिरम् ॥ १६॥
हरो बालं विनिक्षिप्य गिरिजाशयने शुभे ।
विसृज्य लोकानखिलान्बहिरायान्मुदान्वितः ॥ १७॥
ततः शेषो ययौ तत्र फणाच्छायामथाकरोत् ।
नीरजस्का धरां चक्रुर्मेघास्तत्र सुखाववुः ॥ १८॥
मारुतो मालतीगन्धो ननृतुश्चाप्सरोगणाः ।
जगुर्गन्धर्व सङ्घाश्चतुष्टुवुश्चारणा विभुम् ॥ १९॥
ततो मुनिगणाःसर्वेमृन्मूर्तिञ्च कुरुत्तमाम् ।
मण्डपं शोभनं कृत्वा कदलीपुष्पमण्डितम् ॥ २०॥
पुपूजुः परया भक्त्या पद्मासनगता मुदा ।
गुणेशेति गुणेशेति जेपुः सर्वे निरन्तरम् ॥ २१॥
अहोरात्रोषिताः सवे रात्रौ च जागरान्विताः ।
यथाशक्ति द्विजान्भोज्य चक्रुस्ते पारणं द्विजाः ॥ २२॥
एवं दशदिने विप्रान्भोजयामासुरादरात् ।
गृहे गृहे महोत्साहांश्चक्रुर्देवस्य तुष्टये ॥ २३॥
एकादशे तु दिवसे सर्व मुनिगणाः शिवम् ।
आहूता आययुर्नाम कर्तुं शिवसुतस्य ह ॥ २४॥
मानितास्तेन ते सम्यक् कारयामासुरुत्तमम् ।
सर्वेशत्वाद् गुणेशेति सर्वविघ्नहरं शुभम् ॥ २५॥
शिवोऽपि तान्मुनीन्प्राह सम्यङनाम समीरितम् ।
सर्वारम्भेषु पूज्योऽयमिति तस्मै वरं ददौ ॥ २६॥
पूजिता मुनयः सर्वे दत्त्वा दानानि सर्वशः ।
आज्ञां गृहीत्वा शम्भोस्ते स्वस्वाश्रमपदं ययुः ॥ २७॥
अन्तर्गृहगता देवी पुपूजे देवताः स्वयम् ।
तदादि सा तिथिःख्याता गुणेशस्य वरप्रदा ॥ २८॥
तस्यां महोत्सवः कार्यश्चतुर्थ्यां स्वशुभाप्तये ।
मृन्मयीं प्रतिमां कृत्वा पूजयेच्च यथाविधि ॥ २९॥
कृत्वा मण्डपिकां चारुमुपोष्य जागृयान्निशि ।
मोदकापूपलड्डूकैः पायसैः पूजयेद्विभुम् ॥ ३०॥
अपरस्मिन्दिने विप्रान्भोजयेच्च यथाविधि ।
एकविंशतिसङ्ख्याकान् यथाशक्ति च दक्षिणाम् ॥ ३१॥
दत्त्वा तेभ्यो नमस्कृत्य पश्चाद्भोजनमाचरेत् ।
यो न पूजयते चास्यां गणेशं मृन्मयं नरः ॥ ३२॥
स विघ्नैरभिभूतः सन्नानारोगैः प्रपीड्यते ।
न तस्य दर्शनं कुर्यात्पतितस्येव कर्हिचित् ॥ ३३॥
जाते तु दर्शने तस्य गणेशं नाम संस्मरेत् ।
चतुर्थ्या महिमानं नो न शक्यं सुनिरूपितुम् ॥ ३४॥
कर्माणि तु गुणेशस्य यथामति निरूपये ।
गुप्तरूपाः सिन्धुदूताः शङ्करालयसंस्थिताः ॥ ३५॥
तमुदन्तं तु ते गत्वा प्रावदन्सिन्धवे तदा ।
समासीनाय योधैश्च बहुभिर्वेष्टिताय च ॥ ३६॥
स्थापयित्वाऽप्सरोनृत्यं गानं गन्धर्वसम्भवम् ।
दूता ऊच ।
दक्षिणेदण्डकारण्ये त्रिसन्ध्याक्षेत्रसंज्ञिते ॥ ३७॥
गत्वा तत्र दृष्टवन्तो भगवन्तं शिवाभिधम् ।
अष्टाशीतिसहस्राणां मुनीनामाश्रमान्बहून् ॥ ३८॥
एकस्मिन्दिवसे बालं शिवा प्रासूत षडभुजम् ।
लावण्यकोशं त्रैलोक्येऽनुपमं महसोज्ज्वलम् ॥ ३९॥
दशाहस्सु महोत्साहैर्गतेषु मुनिपुङ्गवाः ।
चक्रुर्नाम गुणेशेति तस्य बालस्य शङ्करः ॥ ४०॥
वयं वादित्रनिर्घोषैर्बधिरा इव तस्थिम ।
यदि हन्तुं गमिष्यामः सप्तकोटिगणास्तदा ॥ ४१॥
एकैकस्य बलं घोरं पर्वतोन्मूलनक्षमम् ।
निहन्युः सहसाऽभ्येत्य वृत्तान्तं को निवेदयेत् ॥ ४२॥
क उवाच ।
एवं वदत्सु दूतेषु शुश्रुवे व्योमवाक् तदा ।
उत्पन्नः क्वापि ते हन्ता सिन्धो सावधतां व्रज ॥ ४३॥
सिन्धुरुवाच ।
वध्यतां वध्यतां कोऽयं ब्रूते दुष्टवचोऽत्र ह ।
क उवाच ।
केचिदुड्डीय पतिता धावयित्वाऽपरे ययुः ॥ ४४॥
तावद्दैत्यो महामूर्छां सम्प्राप्तः पतितो भुवि ।
चिन्तामग्नो म्लानमुखो निरुत्साहो हतप्रभः ॥ ४५॥
उवाच विस्खलद्वाचो मुहूर्त्तात्प्राप्य चेतनाम् ।
त्रैलोक्यकण्टकस्यापि कण्टकः कः उपस्थितः ॥ ४६॥
कथं हन्याद्गजः सिंहं मशको वाथवारणन् ।
त्रयस्त्रिंशत्कोटिदेवा निर्जिताः क्षणमात्रतः ॥ ४७॥
तस्यमे मरणं कस्माज्जायेत व्योमवाङमृषा ।
ऋताऽस्तु वा गमिष्यामि भक्षितुं तमहं रिपुम ॥ ४८॥
एवमुक्त्वा क्षणार्द्धात्स भद्रासनगतोऽभवत् ।
सर्वे वीरास्ततो याताः श्रुत्वा वार्तां तथाविधाम् ॥ ४९॥
त्वमेव मृत्योर्मृत्युश्च तव मृत्युः कथं भवेत् ।
इत्यूचुस्ते भवेद्वापि तं वयं घातयामहे ॥ ५०॥
स्वर्गे भूमौ तले वापि गगने वा वसेद् यदि ।
देह्याज्ञां नो गमिष्यामो दैत्यास्तानब्रवीदथ ॥ ५१॥
सखीनां सेवकानां च पीत्वा वाक्यामृतं परम् ।
प्रीतोऽहं यान्तु शीघ्रं तु यत्र मे स रिपुर्भवेत् ॥ ५२॥
अनेकमायया हत्वा रिपुं मम निवेद्यताम् ।
क उवाच ।
एवमाज्ञां गृहीत्वा ते सङ्ख्यातीता ययुस्ततः ॥ ५३॥
त्रिसन्ध्याक्षेत्रमासाद्य गुप्तरूपेण चावसन् ।
गौरीसुतं तत्र कुत्र मायया हन्म इत्युत ॥ ५४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गुणेशनामकरणं नाम द्व्यशीतितमोऽध्यायः ॥ ८२॥
आदितः श्लोकानां समष्ट्यङ्काः - ७७२१ + ५४ = ७७७५
२.०८३ त्र्यशीतितमोऽध्यायः
क उवाच ।
शुक्लचन्द्र इव ब्रह्मन् ववृधे स दिने दिने ।
ततो हिमालयः प्रायाच्छुत्वा गौरीसुतं शुभम् ॥ १॥
अलङ्कारान् समादाय मूल्यरत्नसमन्वितान् ।
अजिरे तं निरीक्ष्यैव धावयित्वा ययौ सुता ॥ २॥
आलिलिङ्ग मुदा गौरी बहुकालागतं च तम् ।
आनन्दाश्रूणि साऽमुञ्चत्सोऽपि सा तं ततोऽवदत् ॥ ३॥
गौर्युवाच ।
कथं निष्ठुरतां यातो वृत्तान्तं मम कर्हिचित् ।
न गृह्णासि न वा स्वीयं प्रेषयस्यपि निर्दय ॥ ४॥
हिमवानुवाच ।
सत्यं वदसि गौरि त्वं कण्ठे प्राणा मम स्थिताः ।
अतस्त्वद्दर्शनाकाङ्क्षी प्राप्तोऽहं हरवल्लभे ॥ ५॥
वत्से धेनुमनो यद्वत्तद्वत्त्वयि मनो मम ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं सा ददावासनं शुभम् ॥ ६॥
उपविष्टोब्रवीद्वाक्यं पुनर्गिरिवरः सुताम् ।
श्रुतो नारदवाक्येन पुत्रस्ते परमाद्भुतः ॥ ७॥
ततस्तं द्रष्टुमायातः सर्वविघ्नहरं शुभम् ।
क उवाच ।
पार्वती बालमादाय पितुरङ्के न्यवेशयत् ॥ ८॥
सोऽलङ्कारैरलङकृत्य महिमानं ततोऽबवीत् ।
स उवाच ।
अयं बालो महामायः करिष्यति महीमिमाम् ॥ ९॥
निष्कण्टकां यथा चन्द्रः शीतला स्वकरैरिमाम् ।
अयं देवगणान् सर्वान्स्वस्थाने स्थापयिष्यति ॥ १०॥
करिष्यत्यङ्घ्रिसेवां ते शिशोरस्य मुनीश्वराः ।
एतस्य सर्वरूपाणि स्थावराणि चराणि च ॥ ११॥
अयमेव सदा ध्येयो ब्रह्मादीनां सहस्रदृक् ।
सहस्राङ्घ्रिः सर्वजगत्कारणानां च कारणम् ॥ १२॥
सहस्रास्योऽनन्तमूर्तिः समष्टिव्यष्टिरूपवान् ।
त्रैलोक्ये नेदृशो बालो दृष्टः क्वापि शुभाङ्गवान् ॥ १३॥
अहं तन्मयतां यातो दृष्ट्वा तत्पादपङ्कजम् ।
यथाऽम्भसि पयः क्षिप्तं याति तन्मयतां क्षणात् ॥ १४॥
अस्य यत्नं कुरु शुभे निधिरेष पुरातनः ।
क उवाच ।
मस्तके मुकुटं चास्य स्वाङ्गदे भुजयोरपि ॥ १५॥
पङ्कजं हृदि श्रुत्योश्च कुण्डले रत्नभूषिते ।
कटिसूत्रं कटौ चाङ्घ्योर्महार्हाः क्षुद्रघण्टिकाः ॥ १६॥
एवं दत्त्वा भूषणानि नाम चक्रे शुभं गिरिः ।
हेरम्बेति महाविघ्नहरं भक्ताभयप्रदम् ॥ १७॥
ततो भुक्त्वा गृहीत्वाज्ञां ययौ स्वस्थानमद्रिराट्र ।
एकस्मिन्दिवसे बालश्चिक्रीड निजमन्दिरे ॥ १८॥
गृध्रासुरो गृध्ररूपी महाबलपराक्रमः ।
पक्षवातेन यस्याद्रिचयश्चूर्णत्वमीयिवान् ॥ १९॥
गण्डशैलाश्च वृक्षाश्च पादाघातेन तस्य च ।
सपक्षच्छायया बालमाच्छाद्य खेऽभ्रमत्तदा ॥ २०॥
नयनानि च सर्वेषां पक्षाघातरजःकणैः ।
आच्छादयन्महाशब्दैः श्रोत्रे बधिरतामिये ॥ २१॥
ततश्चञ्च्वा तु तं बालं गृहीत्वा गृध्रपुङ्गवः ।
व्योममार्गं गतो दूरं गरुडो भुजगं यथा ॥ २२॥
बभ्राम गगने दुष्टोऽजानन् बालपराक्रमम् ।
ततोऽपश्यद् गिरिसुता बालः कुत्र कुतो गतः ॥ २३॥
नापश्यच्चत्वरे तं तु ततः शोकाकुलाऽभवत् ।
केन नीतो मम सुतो दुष्टेन च दुरात्मना ॥ २४॥
उपविष्टा ततोऽपश्यद् व्योम्नि गृध्रमुखे सुतम् ।
मूर्च्छिता पतिता भूमौ धाव धावेति चाब्रवीत् ॥ २५॥
मम प्राणा गमिष्यन्ति विना पुत्रं सुरेश्वर ।
कथं ममोपरि व्योम पतितं शङ्करः कथम् ॥ २६॥
नैष्ठुर्यं परमं प्राप्तो मय्येव जगदीश्वरः ।
द्वादशाब्दं तपस्तप्तं निराहारतया मया ॥ २७॥
करुणाब्धिः स्वप्रकाशोऽवतीर्णोऽभून्ममालयम् ।
स गतो निधिरूपो मेऽभाग्यायाः पापसञ्चयात् ॥ २८॥
गते बाले गतं सर्वं सुखमात्यन्तिकं मम ।
क उवाच ।
एवं तस्यां तु शोचन्त्यां शुशुचुस्तत्सखीजनाः ॥ २९॥
ततस्ते तत्समाधानं चक्रुर्ज्ञानेन युक्तिभिः ।
अनादिनिधने बाले न शोकं कर्तुमर्हसि ॥ ३०॥
स्वप्रकाशेऽवतीर्णे ते बव्हनुष्ठानयोगतः ।
कुत्र वा मृन्मयी मूर्तिश्चेतनामगमद् वद ॥ ३१॥
स्थिरा भव क्षणेन त्वं द्रक्ष्यसे स्वसुतं शुभे ।
अन्तकस्यान्तको बालः पुनरेष्यति निष्ठया ॥ ३२॥
सखीजने वदत्येवं तावद् बालः स्वमुष्टिना ।
दधार चन्चु बलवान् यथा श्वासो न निर्ययौ ॥ ३३॥
श्वासरोधाद् गतासुः स गृध्रस्तेन समन्वितः ।
निपपात महीपृष्ठे वज्राहत इवाचलः ॥ ३४॥
पतमानो गृध्रदेहो दशयोजन विस्तृतः ।
चूर्णयामास गेहानि तच्चित्रमभवद् भृशम् ॥ ३५॥
चैत्यवृक्षेषु भग्नेषु ययुः पक्षिगणा दिशः ।
ततो दृष्ट्वा तु तं बालमवदत् स सखीगणः ॥ ३६॥
अयमक्षतदेहस्तु पतितो गिरिजासुतः ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्य त्वरिता बालमाददे ॥ ३७॥
गौरी निधाय हृदये परमानन्दमाप च ।
आश्चर्यं परमं प्राप्य ददौ दानान्यनेकशः ॥ ३८॥
गतमस्य महारिष्टमग्रे न स्यादिति द्विजाः ।
नमस्कृत्य द्विजान् प्रायान्मन्दिराभ्यन्तरं शिवा ॥ ३९॥
दशयोजनविस्तारः क्वासुरो बलवत्तरः ।
क्व बालः कोमलतनुर्लघुरूपो जघान तम् ॥ ४०॥
एतावतो बलमिदमग्रे किं वा करिष्यति ।
इत्युवाच सखीं गौरी स्तनपानं ददौ मुदा ॥ ४१॥
अयं लघुर्न मन्तव्यो यथा वह्निकणो दहेत् ।
महान्तं काष्ठनिचयं तथाऽनेन हतोऽसुरः ॥ ४२॥
ततस्तद्देहखण्डानि गणा दूरे निचिक्षिपुः ।
शृणुयादिदमाख्यानं सोऽसुरैर्नाभिभूयते ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गृध्रासुरवधो नाम त्र्यशीतितमोऽध्यायः ॥ ८३॥
आदितः श्लोकानां समष्ट्यङ्काः - ७७७५ + ४३ = ७८१८
२.०८४ बालासुरवधो नाम चतुरशीतितमोऽध्यायः
क उवाच ।
मासे द्वितीये गौरी तं सायमभ्यज्य बालकम् ।
स्थापयामास दोलायां गायति स्म मुदा बहु ॥ १॥
तावदाखू समायातौ मायारूपधरौ सुतम् ।
तौ क्षेमकुशलौ दैत्यौ तद्वधकाङ्क्षिणावुभौ ॥ २॥
नखदंष्ट्रायुधौ घोरौ मन्दिराभ्यन्तरं गतौ ।
युध्यन्तौ पालनाभ्याशे स्फुरदङ्गरुहौ खलौ ॥ ३॥
ययोश्चीत्कारशब्देन श्रुतयो बधिरीकृताः ।
पादाघातेन भूः सर्वा कृष्टक्षेत्रसमा कृता ॥ ४॥
ततो यष्टिं गृहित्वा सा भीषयामास तावुभौ ।
पलायनपरौ चोभावुपरिष्टाद् गतौ तदा ॥ ५॥
युध्यन्तौ पतितौ घोरौ बालकोपरि तावुभौ ।
उरःस्थलाभिघातात् स बुबुधे बालकोत्तमः ॥ ६॥
कृत्वा कर्कशशब्दं तु सा बिभाय तदा शिवा ।
बालभावेन हस्तौ स चालयामास भीतितः ॥ ७॥
तदाघातादुभौ नष्टजीवितौ पतितावधः ।
वमन्तौ रुधिरं वक्त्राद् दृष्ट्वा भ्रान्ता शिवाऽभवत् ॥ ८॥
किञ्चिज्जीवितशेषौ तौ बहिर्नीतौ गणैस्तदा ।
मोक्षं जग्मतुराघाताद् गणेशकरसम्भवात् ॥ ९॥
तद्देहौ पतितौ घोरौ दशयोजनविस्तृतौ ।
कोलाहलो महानासीद् दृष्ट्वा देहौ तथा गतौ ॥ १०॥
गणानां च सखीनां च पार्वत्या सुमहाँस्तदा ।
विध्वस्ता आश्रमा वृक्षाः पर्वता भुवनानि च ॥ ११॥
पतद्भयां तच्छरीराभ्यां निर्जीवाभ्यां महान्त्यपि ।
छित्त्वा छित्त्वा तु तद्देहौ गणा निन्युर्बहिस्तदा ॥ १२॥
पार्वती भयवित्रस्ता बालमादाय सत्वरम् ॥
पाययामास स्रेहेन स्तन्यं बालकवत्सला ॥ १३॥
ऋषिपत्न्यः समायाता पार्वतीमूचिरेऽनघाः ।
पुण्यं महत् तु ते गौरि येन विघ्नं विनश्यति ॥ १४॥
द्विमासिकेन बालेन हतौ दुष्टौ महासुरौ ।
अग्रे त्रिभुवनेऽनेन सदृशो न भविष्यति ॥ १५॥
मातः राक्षसभूरत्र यत्नः कार्यः शिशाविह ।
नेष्यन्ति राक्षसा गुप्ता असुरा मायिनः परे ॥ १६॥
क उवाच ।
एवमुक्त्वा गता देव्यो गणास्तां तु समूचिरे ।
अयं तु ते शिवे बालो हनिष्यति दिने दिने ॥ १७॥
अस्माभिस्तु कियत्कालं बहिः कार्या हतासुराः ।
ततस्तु मुनयो जग्मू रक्षां चक्रुरथार्भके ॥ १८॥
ददौ दानानि तेभ्यः सा विससर्ज प्रणम्य तान् ।
ततस्तृतीये मासे तु स्वस्वकार्यरते जने ।
मध्यान्हे पार्वती बालं गृहीत्वा मञ्चकेऽस्वपत् ॥ १९॥
तत्परीचारिकाः सुप्ताः काश्चित्कार्यान्तरे स्थिताः ।
चक्रुः काश्चिद् वारि वार्तामेतस्मिन्नन्तरेऽसुरः ॥ २०॥
क्रूराख्यश्चोतुवेषेण विवेश गिरिजालयम् ।
वञ्चयित्वा लोकदृष्टिं श्वेवदुष्टो महाबलः ॥ २१॥
स निरीक्ष्य शिवां सुप्तां जहृषे मनसा तदा ।
यावन्निद्राति गिरिजा तावन्नेष्ये शिशुं त्वहम् ॥ २२॥
लाघवान्मञ्चकारूढो बालमादाय मस्तके ।
मञ्चकाधः पपाताशु चुक्रोश बालकस्तदा ॥ २३॥
ततः प्रबुद्धा गिरिजा बिडालास्यगतं शिशुम् ।
निरीक्ष्य धाव धावेति प्राकोशद् भयविव्हला ॥ २४॥
निमील्य नयने मूर्च्छमगाद् दुःखेन भीतितः ।
कण्ठे दशति यावत् स तावद्बालो दधार तम् ॥ २५॥
कर्णयोरुभयोर्दोर्भ्यां स्वभावात् पादताडनात् ।
न्यपातयच्छिरोदेशे मञ्चकाधो महासुरम् ॥ २६॥
स भिन्नह्दयोऽधावद् बहिर्गत्वा पपात ह ।
महावातेन वृक्षात्तु पक्वं किञ्चित्फलं यथा ॥ २७॥
दुर्गन्धं रुधिरं तस्य पतितं धरणीतले ।
आच्छादयन्नासिकां सा गिरिजा शोकविव्हला ॥ २८॥
आदाय तस्मै प्रादात्सा स्तनपानं शिशोस्तदा ।
आगता बालशब्देन सर्वास्ताः परिचारिकाः ॥ २९॥
स्पृशन्ति स्म तदाङ्गानि प्रत्येकं कौतुकान्विताः ।
अजरामरतामस्य निश्चित्य मनसा तु ताः ॥ ३०॥
स तु दीर्घ बिडालोऽभूत्तदा द्वादशयोजनम् ।
कियत्यश्चूर्णिताः सख्यः कियत्यः परिचारिकाः ॥ ३१॥
गणाश्चैव समायाता ओतुं दृष्ट्वा तथाविधम् ।
आश्चर्यं परमं चक्रुर्बालकस्य पराक्रमे ॥ ३२॥
क्व दैत्यो मायिको दुष्टः क्व बालचरणाहतिः ।
इन्द्रादीनामवध्या ये हन्यन्तेऽनेन लीलया ॥ ३३॥
इत्यनुज्ञां गृहीत्वा ते गणा याता निजं पदम् ।
केचिच्च बलिनो दैत्यमाकृष्य तत्यजुर्बहिः ॥ ३४॥
कटिदेशे गृहीत्वैनं साऽविशन्निजमन्दिरम् ।
ततश्चुतर्थे मासे तु मुनिपत्न्यः समागताः ॥ ३५॥
नानासौभाग्यद्रव्याणि गृहीत्वोत्तरगे रवौ ।
अबालाश्च सबालाश्च पार्वत्या मन्दिरं शुभम् ॥ ३६॥
तासामासनसत्कारान्ददौ दाक्षायणी तदा ।
नमस्करोति ता नारीः कटौ बालं प्रगृह्य च ॥ ३७॥
परस्परं समर्च्यन्त्यो हरिद्राकुङ्कुमादिभिः ।
भूमौ संस्थाप्य बालानि गतिमन्त्यगतीनि च ॥ ३८॥
पार्वतीयस्ततस्तेषु कीडतेस्मापि बालकः ।
तेन सर्वे शुशुभिरे शशिनोडुगणो यथा ॥ ३९॥
दृष्ट्वा ता मुनिपत्न्यस्तमूचुर्गिरिसुतामिति ।
धन्याऽसि गौरि पुत्रेण शिवदत्तेन भास्वता ॥ ४०॥
तव बालस्य सान्निध्याद्भासन्ते नोऽपि बालकाः ।
निधिसङ्गेन हेमत्वं लोहेनापि समाप्यते ॥ ४१॥
एवं कौतुकयुक्तास्ता आनर्चुश्व परस्परम् ।
हरिद्राभिः कुङ्कुमेक्षुखण्डचन्दनगृञ्जकैः ॥ ४२॥
तिलैर्गुडैस्तालपत्रैर्नानापरिमलैरपि ।
काश्चिदङ्गे हरिद्रां च मुखेषु च लिलिम्पिरे ॥ ४३॥
एतस्मिन्नन्तरे दैत्यो नाम्ना बालासुरो महान् ।
बालरूपी समवयास्तन्मध्ये क्रीडितुं ययौ ॥ ४४॥
चिक्रीड पार्वतीयेन युद्ध्यन्निव विनोदतः ।
यथा सिंहेन क्रोष्टा तु महिषो वा गजेन च ॥ ४५॥
कण्ठेन कण्ठं सङ्घृष्य पेततुर्भुवि दारुणौ ।
मस्तके चरणाभ्यां सोऽहनद् दुष्टो गजाननम् ॥ ४६॥
कचादानाय हस्ताभ्यां विचकर्ष बलादमुम् ।
स्वयं च गर्जते दुष्टो वृद्धः क्रोष्टा यथा निशि ॥ ४७॥
दृष्ट्वा तथाविधौ तौ सा गिरिजा प्राहता स्त्रियः ।
कस्यर्षेर्दृढबालोऽयं ताडयित्वा शिशुं मम ॥ ४८॥
क्रन्दतेऽसौ खर इव प्रहरे प्रहरे खलः ॥
अर्भकाणां स्वभावोऽयमित्युपेक्षितवत्यसौ ॥ ४९॥
तौ तु भूमिगतौ बालौ लुण्ठतःस्मानुवत्सलौ ।
धृत्वा परस्परं केशानाकर्षन्तौ च सर्वशः ॥ ५०॥
हसन्तौ हासयन्तौ च बालकांश्च मुनिस्त्रियः ।
जानन्नपि महादैत्यं खेलति स्म विनायकः ॥ ५१॥
ततो बालासुरो दुष्टो हस्ताभ्यां बलवत्तरम् ।
जीवग्राहं कण्ठदेशे दधार गणनायकम् ॥ ५२॥
तथा तं सोऽपि जग्राह रुद्धश्वासोऽसुरोऽभवत् ।
विव्हलं दैत्यपुत्रं तं दृष्ट्वा दुश्चित्ततां स्रियः ॥ ५३॥
ययुश्च चुक्रुशुर्बालो निहतोऽतेन निश्चितम् ।
धावमाना ययुः काश्चिन्नाशकन्मोचितुं हि तौ ॥ ५४॥
स्त्रियश्व पुरुषाः सर्वे ततस्तामम्बिकां शुभाम् ।
ऊचुर्विमोचयैनं त्वं मनिपुत्रो मरिष्यति ॥ ५५॥
ततः सा पार्वती बालं मुञ्च मुञ्चेति साऽब्रवीत ।
अस्मिन्मृते शपिष्यन्ति मुनयो नस्तपोन्विताः ॥ ५६॥
जीवदानात्परं पुण्यं नास्ति ब्रह्माण्डगोलके ।
गमिष्यति महाशक्तिस्तव तेषां तु शापतः ॥ ५७॥
क उवाच ।
एवं यावत्प्रार्थयते गिरिजा तावदेव हि ।
नेत्रद्वारेण तत्प्राणा गता बुद्बुदवत्क्षणात् ॥ ५८॥
ददृशुस्तं ततः सर्वे दशयोजनमायतम् ।
करालवक्त्रं पतितं चूर्णयित्वा महाद्रुमान् ॥ ५९॥
ततः स्त्रियो ययुर्भीता बालमादाय सत्वराः ।
वृकवृन्दं हि दृष्ट्वैव धेनवोऽजा यथा भयात् ॥ ६०॥
गिरिजापि स्वकं गृह्य भ्रामयित्वा सुतं मृदम् ।
दत्त्वा स्तनं कारयित्वा शान्तिकं द्विजपुङ्गवैः ॥ ६१॥
ददौ दानानि तेभ्यः सा जगृहे आशिषो बहु ।
न जाने आसुरीं मायां कियन्तो यान्ति नाशितुम् ॥ ६२॥
ततस्ते विलयं यान्ति मम बालान्महाखलाः ।
ईश्वरे सानुकूले कः पीडितुं क्षमते जनम् ॥ ६३॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यं मुनिपत्न्यो ययुश्च ते ।
गणास्तं दूरतः क्षिप्त्वा स्नात्वा स्वं धाम लेभिरे ॥ ६४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बिडालसुरबालासुरवधो नाम चतुरशीतितमोऽध्यायः ॥ ८४॥
आदितः श्लोकानां समष्ट्यङ्काः - ७८१८ + ६४ = ७८८२
२.०८५ गणेशकवचं नाम पञ्चाशीतितमोऽध्याययः
क उवाच ।
श्रुत्वा मुनिमुखात्पुत्रं गिरिजाया महाबलम् ।
पञ्चमे मासि सम्प्राप्ते मरीचिर्वीक्षितुं ययौ ॥ १॥
भूतभव्यभविष्यज्ञः समलोष्ठाश्मकाञ्चनः ।
वेदशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥ २॥
संहारे रक्षणे सृष्टौ मनसा जगतः क्षमः ।
तं दृष्ट्वा पादयोस्तस्य पतिता सखिभिः सह ॥ ३॥
उपवेश्यासने पादौ क्षालयामास भक्तितः ।
तज्जलं पावनं पीत्वा सिषेचान्तर्गृहं मुदा ॥ ४॥
उपचारैः षोडशभिः पुपूजेश्वरभावना ।
उवाच पार्वती तुष्टाऽलभ्यं दृष्टं पदं हि ते ॥ ५॥
मुनिरुवाच ।
अहमात्ममना देवि न व्रजामि हि कुत्रचित् ।
अकस्माद्ध्यानविषयस्तव पुत्रो बभूव मे ॥ ६॥
तस्य ते दर्शनाकाङ्क्षी शिवस्याप्यहमागतः ।
क उवाच ।
एवमाकर्ण्य सा वाक्यं तस्यर्षेस्तनयं स्वकम् ॥ ७॥
अतिप्रीतिमना गौरी तस्याङ्के संन्यवेशत् ।
ऊचे सा तं महाभाग्यं फलितं दर्शनात्तव ॥ ८॥
पुण्यं च परमं प्राप्तं शुभमग्रे भविष्यति ।
मुनिरुवाच ।
गौरि तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९॥
षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १०॥
गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११॥
अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२॥
युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः ॥ १३॥
मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्वतुर्भुजः ॥ १४॥
गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा ॥ १५॥
एतस्य रक्षणं गौरि दैत्येभ्यः कुरु सर्वदा ।
गौर्युवाच ।
एषोऽतिचपलो बालो दैत्यान् हन्ति बहूनपि ॥ १६॥
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ।
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धमर्हसि ॥ १७॥
मुनिरुवाच ।
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेत्रायां तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ १८॥
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ १९॥
ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥ २०॥
जिव्हां पातु गणक्रीडश्चुबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ २१॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ २२॥
स्कन्धौ पातु गजस्कन्धः स्तनो विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान ॥ २३॥
धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ २४॥
गणक्रीडो जानुजङ्घा ऊरूमण्डलमूर्तिमान् । (जानुजङ्घे ऊरूमङ्गलमूर्तिमान्)
एकदन्तो महाबुद्धिः पादौ गुल्फो सदाऽवतु ॥ २५॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥ २६॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूमकेतुः सदाऽवतु ॥ २७॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ २८॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥ २९॥
कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ ३०॥
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥ ३१॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् ।
वपुर्धनं च धान्यं च गृहं दारान् सुतान्सखीन् ॥ ३२॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥ ३३॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ ३४॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥ ३५॥
युद्धकालेपठेद्यस्तु विजयं प्राप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ ३६॥
सप्तवारं पठेद् यस्तु दिननामेकविंशतिम् ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ ३७॥
एकविंशतिवारं च पठेत् तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ ३८॥
राजदर्शनवेलायां पठेद्यस्तु त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ॥ ३९॥
इदं गणेशकवचं मुद्गलेन समीरितम् ।
कश्यपाय च तेनाऽथ माण्डव्याय महर्षये ॥ ४०॥
सर्वरक्षाकरं सर्वकाम प्रपूरकम् ॥
मुद्गलायचते नाथ माण्डव्यायमहर्षये ॥ ४०॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ ४१॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ ४२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशकवचं नाम पञ्चाशीतितमोऽध्याययः ॥ ८५॥
आदितः श्लोकानां समष्ट्यङ्काः - ७८८२ + ४२ = ७९२४
२.०८६ भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः
क उवाच ।
ततोऽस्याङ्कात्सुतं गौरी नमस्कृत्य समाददे ।
आज्ञां गृहीत्वा प्रायात् स्वं मन्दिरं भृषहर्षिता ॥ १॥
सोऽप्यनुज्ञां ततो गृह्य शिवं नत्वाश्रमं ययौ ।
ततो गौरी चकाराऽस्य सुमहूर्ते शुभे दिने ॥ २॥
गौतमादीन्समाहूय ब्राह्मणानुपवेश्य च ।
द्विजेभ्यो नमयां चक्रे सा प्रणम्य स्वयं च तान् ॥ ३॥
सर्वे देवगणास्तत्र नानोपायनपाणयः ।
आययुस्तं गणाश्चापि गन्धर्वाप्सरसस्तथा ॥ ४॥
उवाच गौरी तान् विप्रानुपवेशनमस्य ह ।
विचार्य सर्वमुनिभिः कुर्वन्तु द्विजपुङ्गवाः ॥ ५॥
त ऊचुर्मुनयः सर्वे गुरुवारस्रयोदशी ।
पौष्णं नक्षत्रमद्यास्ति तस्मात्कार्यो महोत्सवः ॥ ६॥
ततो गृत्समदः शीघ्रं नानारत्नचयं भुवि ।
निधाय च चकाराशु चतुष्कं रत्ननिर्मितम् ॥ ७॥
गणेशपूजनं कृत्वा पुण्याहवाचनं तथा ।
दिव्यवस्त्रावृते तस्मिन्नुपवेश्य शिवासुतम् ॥ ८॥
नीराजयामास च तं पतिवत्स्त्रीभिरादरात् ।
रत्नप्रभाजालगतं नानालङ्कारदीपितम् ॥ ९॥
उपायनानि ते सर्वे शिवाभ्यां तत्सुताय च ।
वाद्यत्सु दिव्यवाद्येषु प्रददुर्भक्तितत्पराः ॥ १०॥
साऽपूजयत् ततो विप्रान् रत्नवस्त्रादिकाञ्चनैः ।
आशीर्वादाक्षताँस्तस्मिंश्चिक्षेप सकलार्पितान् ॥ ११॥
भवानि पूजयामास मुनिपत्नीः सकन्यकाः ।
ता ऊचुर्गिरिजे धन्या त्वदन्या नास्ति कुत्रचित् ॥ १२॥
एतादृशःसुतोवापि सर्वलक्षणमण्डितः ॥
क उवाच ।
एवं वदत्सु सर्वेषु स्त्रीजनेषु महाखलः ॥ १३॥
व्योमासुरो व्योमकर्णो नानामायाविशारदः ।
न बले सदृशस्तस्य कोऽपि त्रिभुवनेऽभवत् ॥ १४॥
स तु द्वारि स्थितं चूतं नानाशाखासमन्वितम् ।
अभेद्यं वारणशतैः कल्पान्तमारुतैरपि ॥ १५॥
प्रविवेश तदाव्योमो मायया स तदन्तरम् ।
यथा दृष्टिवशाद्भूतं विशते दुष्टचेष्टिते ॥ १६॥
दोलयामास तं वृक्षं कल्पान्ते मारुतो यथा ।
द्रुमपातभयात्सर्वे मुनयश्च समागताः ॥ १७॥
भीताः प्रोचुर्विना वायुं कम्पते किं महाद्रुमः ।
तावत्कटकटाशब्दं शुश्रुवुर्वृक्षसम्भवम् ॥ १८॥
स्त्रियो गणाश्च सर्वे ते चक्रिरे तु पलायनम् ।
विस्मृत्य बालकं भ्रान्ता गिरिजापि पलायिता ॥ १९॥
एतस्मिन्नन्तरे वृक्षो निपपातार्भके तदा ।
हस्ताभ्यां निहतस्तेन शतचूर्णोऽपतद्भुवि ॥ २०॥
यथा घननिपातेन क्रमुकं दृषदि स्थितम् ।
भ्रमन्ति स्म तदा व्योम्नि तच्छाखाः पल्लवान्विताः ॥ २१॥
ऋषीणामाश्रमाः केचिद्भग्नाः शाखानिपाततः ।
पलायिते जने पेतुः काश्चिच्छाखाः सपल्लवाः ॥ २२॥
ततो व्यामासुरो दुष्टो गतासुर्निपपात ह ।
व्यादायास्यं वमन् रक्तं शतधा तेन सोऽभवत् ॥ २३॥
आययुस्ते ततः सर्वे स्त्रियश्च बालकं तदा ।
ददृशुस्ते यथा पूर्वमुपविष्टं निराकुलम् ॥ २४॥
सुमेरूनिश्चलं स्वस्थं ततः सर्वे विसिस्मिरे ।
पञ्चामासेन बालेन महाबलपराक्रमः ॥ २५॥
लीलया हस्ततो दैत्यः स वृक्षः शतधा कृतः ।
हाहाकाररवा गौरी धावति स्म निजं सुतम् ॥ २६॥
मुनयस्तामथोचुस्ते हतदैत्यः सुतस्तवः ।
सा ददर्श ततो बालं हिमवत्पर्वतोपपम् ॥ २७॥
उत्थाय कटिदेशे तं धृत्वा स्तन्यं ददौ मुदा ।
मरीचिवाक्यं सस्मार प्रशशंस महेश्वरम् ॥ २८॥
यमीश्वरोऽवति सदा तं हन्तुं यः समीहते ।
स एव विलयं याति पतङ्ग इव दीपगः ॥ २९॥
मुनयो योषितः सर्वा ययुः स्वं स्वं निवेशनम् ।
ततो गणा ययुः केचिदक्षतं वीक्ष्य तत्सृतम् ॥ ३०॥
ऊचेर्धन्यतरा माता रक्षितस्ते सुतोऽसुरात् ।
दुष्टा एव लयं यान्ति साधुर्न क्वापि सीदति ॥ ३१॥
ततः सा शर्करां तेभ्यो दत्त्वाज्ञां प्रददौ शिवा ।
सर्वाभ्यश्च ततो याता दृष्टा तेन निजं गृहम् ॥ ३२॥
य इदं शृणुयात्पुण्यमाख्यानं भक्मिमान्नरः ।
न स बाधां लभेत्क्वापि सर्वत्रनिर्भयो भवेत् ॥ ३३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः ॥ ८६॥
आदितः श्लोकानां समष्ट्यङ्काः - ७९२४ + ३३ = ७९५७
२.०८७ कमठासुरवधो नाम सप्ताशीतितमोऽध्यायः
क उवाच ।
व्योमासुरस्य भगिनी तस्य दुःखेन दुःखिता ।
निशामुखे दर्शदिने समुत्पन्ना क्षुधातुरा ॥ १॥
भक्षयामास महिषान् शतसङ्ख्यान्महाबलान् ।
करालकेशीलम्बोष्ठी तालनासा दरीमुखा ॥ २॥
हलदन्ता कूपनेत्रा श्रोतावरणसंयुता ।
दीर्घस्तनी महाघोरा भूमिस्पृक्वचका खला ॥ ३॥
दीर्घबाहुर्निम्ननाभिर्गोधेव कर्कशा त्वचि ।
नाम चक्रुस्तदा लोकाः शतमाहिष भक्षणात् ॥ ४॥
अन्वर्थं भावदुष्टायाः स्फुटं तु शतमाहिषा ।
सा ययौ बन्धुहन्तारं हन्तुं बन्धुप्रियङ्करी ॥ ५॥
कमनीयतरा भूत्वा सर्वावयवसुन्दरा ।
नानालङ्कारसंयुक्ता गौरा षोडशवार्षिकी ॥ ६॥
कृत्वा षोडशशृङ्गारान्मोहयन्ती कटाक्षतः ।
सा ययौ दुष्टभावेन गिरिजालयमुत्तमम् ॥ ७॥
प्रणनाम शिवां चादौ प्रोवाच परमादरात् ।
धन्याऽहं कृतकृत्याऽहं प्राप्ताऽहमीप्सितं फलम् ॥ ८॥
यतस्त्वं सर्वजननी सर्वदेवमयी शुभा ।
सर्वध्येया सर्वसिद्धिः सर्वकारणकारणम् ॥ ९॥
जगन्मोहनदक्षा त्वं पुण्येन दृष्टिमागता ।
क उवाच ।
श्रुत्वा वाचं तदीयां सा प्रोवाच गिरिजा तु ताम् ॥ १०॥
उत्तिष्ठोत्तिष्ठ भद्रं ते सन्तुष्टाऽहं तवेक्षणात् ।
कस्यासि कुत आयासि किमर्थं च वराङ्गने ॥ ११॥
कामं ते पूरयिष्यामि वद सत्यं ममाग्रतः ।
शतमाहिषा उवाच ।
अहं चिरं वियोगार्ता शरणं त्वामुपागता ॥ १२॥
श्रुतं स्यादमरावत्या नायकोऽसुरवर्जितः ।
स लीनः क्वापि गिरिजे सर्वे देवगणा अपि ॥ १३॥
त्वं तु भाग्यवती देवि न वियोगो हरस्य ते ।
सह्यं भवेत्सर्वदुःखमसह्यं तु वियोगजम् ॥ १४॥
पार्वत्युवाच ।
बालोऽयं मम सुभगे हनिष्यति खलान्बलात् ।
मोचयिष्यति देवान्स कालः कश्चित्प्रतीक्ष्यताम् ॥ १५॥
एतदर्थं गणेशेन धृतो देहो ममालये ।
भूभारोत्तारणार्थाय मुनीनां पालनाय च ॥ १६॥
क उवाच ।
इत्युक्त्वा पूजयामास पादक्षालनपूर्वकम् ।
सखीभिः कुङ्कुमाद्यैश्च भोजयामास सादरम् ॥ १७॥
सापि भुक्त्वा शिवातल्पे सुष्वापोवाच तत्सखीः ।
गिरिजाबालकं सख्य आनयन्तु ममान्तिकम् ॥ १८॥
विश्वस्ताः सर्वसख्यस्ता ददुर्बालं तु तत्करे ।
लालयामास सा स्नेहान्मुखचुम्बनवल्गनैः ॥ १९॥
तज्जिघांसां स विज्ञाय सर्वज्ञः स शिवात्मजः ।
राक्षसीमिति निश्चित्य हस्ताभ्यां श्रोत्रयोरधात् ॥ २०॥
नासिकां च ततो भारं महापर्वतसन्निभम् ।
तदङ्गं पातयामास सा च श्वासनिरोधतः ॥ २१॥
विव्हला परिचिक्षेप पादाघातान् शिशौ भृशम् ।
मुञ्च मुञ्चेति भाषन्ती कौतुकं द्रष्टुमागताम् ॥ २२॥
कथं हंसि स्त्रियं दुष्ट त्वनागस्कां शिवासमाम् ।
क उवाच ।
तदाक्रन्दनमाकर्ण्य सखीभिः सह पार्वती ॥ २३॥
आगता मोचितुं पुत्रं नाशकत् तमुवाच सा ।
न मारयाशु मुञ्चैनां शक्रस्य महिषीं प्रियाम् ॥ २४॥
श्रुत्वा मातृवचो बालो दूरे चिक्षेप तां तदा ।
पपातोपरि व्याजेन क्षणात्सोऽभ्युदतिष्ठत ॥ २५॥
तत्कर्णं नासिकाहस्तो दृष्टः सासृक्स्रवोऽपि च ।
तदङ्घ्रिघातात्सा प्राणांस्तत्याज क्षणमात्रतः ॥ २६॥
गतासुं तां शुशोचाऽथ पार्वती स्नेहनिर्भरा ।
उवाच चपलो बालो दुर्यशोऽर्जितवानयम् ॥ २७॥
श्रुत्वा शचीं हतामिन्द्रः किं वागत्य करिष्यति ।
ददर्श पुरतो गत्वा राक्षसीं तां शिवाऽशिवाम् ॥ २८॥
दशयोजनविस्तीर्णां क्षतभूभूरुहां तदा ।
तत्याज शोकं जहृषे प्रशशंस निजं सुतम् ॥ २९॥
आदाय सुतमव्यङ्गं पार्वती मन्दिरं ययौ ।
विस्मापयत्यसौ बाला शङ्किता बालपौरुषम् ॥ ३०॥
विस्मयं पौरुषे तस्य समपद्यत पार्वती ।
तत्सख्यच्छिन्नकर्णां तां छिन्ननासां व्यलोकयन् ॥ ३१॥
कथमस्या लाघवं च कथमस्य बलं शिशोः ।
अहसन्प्रावदन्नित्थं दत्त्वा तालं परस्परम् ॥ ३२॥
ततस्तां राक्षसीं दूराच्चिक्षिपुः प्रमथास्तदा ।
अरिष्टे विहते गौरी ददौ दानानि भक्तितः ॥ ३३॥
ततस्तु सप्तमे मासे प्रवृत्ते निद्रिते जने ।
तमसा सर्वतो व्याप्ते दशदिङ्मण्डलेऽखिले ॥ ३४॥
निशीथेऽरण्यपशुषु रुवत्सु दर्दुरेषु च ।
पर्यङ्के परिसुप्तायां पार्वत्यां दिव्यसंस्तरे ॥ ३५॥
सखीजने निद्रिते च सेवकान्ना गणेतथा ।
एतस्मिन्नन्तरे दुष्टो नाम्ना यः कमठासुरः ॥ ३६॥
आच्छादयत्स्वदेहेन शिवाप्राङ्गणमद्भुतम् ।
यस्य स्पर्शेन सहसा शीर्यते वज्रसंहतिः ॥ ३७॥
अतिशीतलगात्रः स पार्वणश्चन्द्रमा इव ।
उदिते तु दिवानाथे तत्पृष्ठे विचरञ्जनाः ॥ ३८॥
केचित्स्नात्वा स्थिता जप्तुं केचिन्निद्रां प्रचक्रिरे ।
स्खलित्वा पतिताः केचिदतिकोमलदेहतः ॥ ३९॥
सिषिचुर्बालिका वारि गोमयैरङ्गमालिकाः ।
चक्रुस्ततो बहिर्याता सबाला गिरिजा तदा ॥ ४०॥
आस्वापयत्सुतं गौरी महार्हास्तरणेऽत्र सा ।
सखीस्तत्र च संस्थाप्य ययौ सा सेवितुं शिवम् ॥ ४१॥
एवं ज्ञात्वाऽसौ कमठः स्वस्य पृष्ठमचालयत् ।
भूमिकम्पः कथमिह किं वारिष्टं भविष्यति ॥ ४२॥
इत्यब्रुवंस्थितास्तत्र गणाश्चकितमानसाः ।
निद्रिताः प्रतिबुद्धास्ते किं जातमिति चाब्रुवन् ॥ ४३॥
तदैव तेन बालेन सर्वज्ञेन विवर्तता ।
उदरं तस्य पृष्ठे तु न्यधायि धर्षता भृशम् ॥ ४४॥
चतुर्दशभुवनजं भारं निदधताऽत्र च ।
निरुद्धश्वासवायुः सोंऽगानि स्वानि व्यचालयत् ॥ ४५॥
अस्रवद् रक्तमतुलमस्य देहात् तथाविधात् ।
उड्डानं कर्तुमारेभे नाशकत्कमठस्ततः ॥ ४६॥
ततो गणा ययुः सर्वे ये तत्रासन्सुखोषिताः ।
किमरिष्टं समुत्पन्नं मुहूर्भूश्चलते नु किम् ॥ ४७॥
सख्यश्च बालिकाः सर्वाः पार्वतीं सेवितुं ययुः ।
उत्तिष्ठ मातर्बालस्ते नीतः स्याद्वा मृतोऽपि वा ॥ ४८॥
त्वरया पार्वती याता धावमाना बहिः सुतम् ।
ददर्श निश्चलं गौरी सोत्थापयितुमुद्यता ॥ ४९॥
भूगोलभारसदृशं मत्वा तस्थौ विमानसा ।
ततो ममर्द सहसा बालस्तं स ममार च ॥ ५०॥
ततः सा ददृशे दैत्यं दशयोजनमायतम् ।
प्रसारितमुखं कूर्मं वमन्तं रुधिरं बहु ॥ ५१॥
चूर्णयामास सहसाऽऽश्रमान् नानाविधान्द्रुमान् ।
ततः सा बालमादाय स्तनपानं ददौ मुदा ॥ ५२॥
न ज्ञायतेऽसुराणां हि नानामायां प्रकुर्वताम् ।
त्रिलोचनप्रसादेन पुनर्लब्धः सुतो मया ॥ ५३॥
यतः कृतान्ताद्बलवान् निहतः कमठासुरः ।
सख्यश्च तद्गणाः प्रापुः पप्रच्छुः क्षेममर्भके ॥ ५४॥
क्षेममित्येवतान्गौरी निजगाद मुदान्विता ।
ततो गणाः खण्डशस्तं कृत्वा दूरतरं जहुः ॥ ५५॥
ववर्षुः पुष्पवर्षाणि तस्मिन्देवगणास्तदा ।
य इदं परमाख्यानं शृणुयाच्छ्रावयेत्तथा ॥ ५६॥
सर्वारिष्टविनिर्मुक्तः सर्वान्कामानवाप्नुयात् ॥ ५७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे शतमाहिषा-कमठासुरवधो नाम सप्ताशीतितमोऽध्यायः ॥ ८७॥
आदितः श्लोकानां समष्ट्यङ्काः - ७९५७ + ५७ = ८०१४
२.०८८ मञ्चकासुरवधो नामाष्टाशीतितमोऽध्यायः
व्यास उवाच ।
अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजात् ।
ब्रह्मन्नघौघहारीणि गुणेशेन कृतानि वै ॥ १॥
तथापि श्रोतुमिच्छा नो नापैति सर्ववित्तम ।
अतो बालस्य चरितं पुनर्मे ब्रूहि सादरम् ॥ २॥
ब्रह्मोवाच ।
शृणुष्वावहितोत ब्रह्मन् गुणेशस्य कथां पुनः ।
श्रुतिरन्याच पापानां संहर्त्रीं धर्ममोक्षदा ॥ ३॥
अष्टमे मासि मध्यान्हे ग्रीष्मर्तौ गिरिजा किल ।
ऊष्मणा पीडितां गेहे सा ययौ पुष्पवाटिकाम् ॥ ४॥
अशोकाश्चन्दना यत्र पनसाश्च बिभीतकाः ।
मालतीचम्पका जातीचिञ्चिणीपिचुमन्दकाः ॥ ५॥
पारिजातकवृक्षाश्च घनच्छायासमन्विताः ।
रम्यं शीतजलं चारु सरः कमलमण्डितम् ॥ ६॥
तत्र मञ्चकवर्ये सा सख्यानीते शुभास्तरे ।
सुष्वाप गिरिजा बालयुक्ता निःशङ्कचेतसा ॥ ७॥
सखीभ्यां वीजिता बालव्यजनेनाश्ममुष्टिना ।
सुषुप्तिमगमद् यावत्तावदैत्यो महाबलः ॥ ८॥
तल्पासुर इतिख्यातो वायुरूपोऽविशत्ततः ।
मञ्चकान्तर्गतः सोऽथ तेन साकं ययौ दिवम् ॥ ९॥
तस्य शब्देन सन्त्रस्ते ते सख्यौ पतिते भुवि ।
आक्रन्दं परमं चक्रे पर्यङ्कस्था तदा शिवा ॥ १०॥
व्योमस्था पर्यदेवत् सा धाव धावेति शङ्कर ।
किं मया विकृतं देव किमर्थं मामुपेक्षसे ॥ ११॥
अयं दैत्योऽतिबलवान् व्योमाक्रम्य प्रधावति ।
परहस्तगतां कान्तां शक्तः कथमुपेक्षसे ॥ १२॥
अस्य पुत्रस्य योगेन नानादुःखमभून्मम ।
अस्माद् दैत्यान्मृतिर्मे किं सपुत्राया विनिर्मिता ॥ १३॥
अयमेव न जातश्चेत्कथं बन्धनमाप्नुयाम् ।
क उवाच ।
एवामाक्रन्दनं श्रुत्वा उमाबालो महामनाः ॥ १४॥
तदा मुहुर्जगर्जासौ घनवद्गर्जयन्दिशः ।
चकम्पे धरणी तेन ससमुद्रवनाकरा ॥ १५॥
तामदृष्ट्वा तु शोचत्सु गणेषु प्रमथादिषु ।
पादाघातेन बालोऽथ मञ्चकं समताडयत् ॥ १६॥
बिभ्युर्भूतानि सहसा शतधेवाभवन्नभः ।
मञ्चकः खण्डशस्तेन भूत्वा निपतितो भुवि ॥ १७॥
ततस्तल्पासुरो दृश्यो जातो बालो दधार तम् ।
हस्तेनैकेन जननीं दधारासौ स्वलीलया ॥ १८॥
घनमुक्तं तोयबिन्दुं चञ्च्वैव चातकः क्षणात् ।
स्कन्धारूढां तु तां कृत्वा शिखां वामेन तस्य च ॥ १९॥
ततस्तत्याज भूदेशे तं बालः सहसा बलात् ।
पद्मासनं दैत्यदेहे कृत्वा योगीव तस्थिवान् ॥ २०॥
स भूमौ पतितो दूरान्मर्दितो बलवत्तरम् ।
प्राणांस्तत्याज दैत्योऽथ वमन्नास्यादसृङ्मुहुः ॥ २१॥
स तु दृष्टो जनैर्दैत्य एकविंशतियोजनः ।
चूर्णयन्वृक्षपाषाणानाश्रमान् शरणान्यपि ॥ २२॥
ततो दृष्टो बालकोऽसौ गणैः सखिजनैरपि ।
ऊचुस्ते गौरि बालोऽयं रमते कुशली बली ॥ २३॥
सा तु भ्रान्त्यैव नाजानाद्गगनं धरणीं शिशुम् ।
मुनयस्तामथोचुस्ते सावधानमना सति ॥ २४॥
भव दैत्यो हतस्तेन धृत्वा रूपं महत्तरम् ।
उन्मील्य नयने पश्य पुनर्बालं शिवं शुभम् ॥ २५॥
क उवाच ।
तद्वाक्यात् प्रतिबुद्धा साऽपश्यद् दैत्यं च बालकम् ।
गौर्युवाच ।
विपरीतं मया दृष्टं गूढो बालेन वा कथम् ॥ २६॥
हतोऽनेन महादैत्य एकविंशतियोजनः ।
मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः ॥ २७॥
इत्युक्त्वा बालमादाय कारयामास शान्तिकम् ।
दत्त्वा दानानि च ददौ स्तनपानं शिशोरपि ॥ २८॥
दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः ।
एतस्मिन्नन्तरे घोरं चक्रे शब्दं महासुरः ॥ २९॥
दुन्दुभेः सदृशं सोऽपि ख्यातो दुन्दुभिनामतः ।
यस्य पाणितलाघाताद्धरा चूर्णत्वमागता ॥ ३०॥
आच्छादितो दिनमणिर्देहेन गगनस्पृशा ।
गणबालस्वरूपेण गौरीबालं जुहाव सः ॥ ३१॥
इत एहि रमावोऽद्य सोऽपि यातस्तदैव तम् ।
स्वाङ्कं कृत्वा तु तं बालं हालाहलफलं ददौ ॥ ३२॥
अध्यद्धिति फलं बालं शीघ्रमित्यब्रवीच्च सः ।
दूरदेशात्समानीतं जन्ममृत्युजरापहम् ॥ ३३॥
स तु जानन्दुष्टभावं फलं तज्जगृहे ततः ।
अभक्षयदयाचत्स फलान्तरमभीः पुनः ॥ ३४॥
क उवाच ।
अमृत विषतां याति विषं तत्तां शिवेच्छया ।
धृत्वा वक्षः स्थलं तस्य तत्क्षणादुदतिष्ठत ॥ ३५॥
तज्जानुनोर्न्यस्य पादौ कराभ्यां जगृहे शिखाम् ।
पराभ्यांश्मश्रुणी गृह्य दोलयामास लीलया ॥ ३६॥
ननर्त जानुभागेऽस्य भूमण्डलभरान्वितः ।
स पीडित उवाचाऽथ जानुभागादवातर ॥ ३७॥
तव भारेण नृत्येन मम देहोऽतिपीडितः ।
मुञ्च मुञ्च गमिष्यामि स्वालयं गिरिजासुत ॥ ३८॥
क उवाच ।
एवं सम्प्रार्थितस्तेन न मोचयति बालकः ।
उदतिष्ठद्बलादैत्यो भग्नदेहस्तु पूर्वतः ॥ ३९॥
बलाच्चकर्ष बालोऽपिःमूर्धानमस्य तत्क्षणात् ।
कण्ठनालात् तच्छिरोऽपि बालहस्तगतं बभौ ॥ ४०॥
रुधिराक्ता मही सर्वा तत्क्षणं समपद्यत ।
शिरःकमलहस्तोऽसौ खेलते गिरिजासुतः ॥ ४१॥
शोणितेन विलिप्ताङ्गो गणा मात्रे न्यवेदयन् ।
सा गत्वा पश्यति स्माऽथ पुत्रं दृष्ट्वा तथाविधम् ॥ ४२॥
तच्छिरो दूरतः क्षिप्त्वा वस्त्रेण च ममार्ज तम् ।
स्नापयित्वा स्वयं स्नात्वा ददौ स्तन्यं तदा मुदा ॥ ४३॥
ततः सख्यो गणाश्चापुः पप्रच्छुः क्षेममर्भकम् ।
सोवाच परमं क्षेम बालके शिवभक्तितः ॥ ४४॥
मरीचिरक्षणाच्चापि कुशलं मम बालके ।
ततस्ते तं निरासुर्वै दुरतो दुष्टदानवम् ॥ ४५॥
ततो हर्षयुता जग्मुर्गणाः सख्यो निजं गृहम् ।
पार्वती हर्षसंयुक्ता सबाला प्राविशद्गृहम् ॥ ४६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे मञ्चक-दुन्दुभिवधो नामाष्टाशीतितमोऽध्यायः ॥ ८८॥
आदितः श्लोकानां समष्ट्यङ्काः - ८०१४ + ४६ = ८०६०
२.०८९ शलभासुरवधो नामैकोननवतितमोऽध्यायः
क उवाच ।
ततस्तु दशमे मासे त्रिमुहूर्तागते रवौ ।
किञ्चिच्च रिङ्गमाणोऽसौ रमते च शिवासुतः ॥ १॥
पादाभ्यां चालयन्क्वापि गूढं गूढं च भाषते ।
लुण्ठते नर्तते चापि रोदनं कुरुते च ताम् ॥ २॥
दृष्ट्वा शिवां च सहसा पृष्ठलग्नो व्रजत्यपि ।
दृष्ट्वा तथाविधं बालं जहृषे पार्वती तदा ॥ ३॥
एतस्मिन्नन्तरे दृष्टो दैत्य आजगराभिधः ।
वमदग्निकणान्दृष्ट्या वज्रसारतनुर्दृढः ॥ ४॥
ललज्जिव्हो दीर्घदेहो ग्रसन्निव महागिरिम् ।
उपविष्टो द्रुमतले द्वे जिव्हे लालयन्मुहुः ॥ ५॥
तं बालो बालभावेन रिङ्गित्वा विदधार ह ।
स निनाय च तं शीघ्रमास्यान्तः सह तेन च ॥ ६॥
अन्तःप्रविष्टे ओष्ठौ स न्यमीलयत वायुभुक् ।
नापश्यदङ्गणे बालं गौरी विव्हलमानसा ॥ ७॥
अत्र कीडन्स्थितो बालः केन नीतो हतो नु वा ।
शुशोच परमार्तासौ तताड मस्तकं निजम् ॥ ८॥
तावद् गणैर्निषिद्धा सा मा मातर्विमना भव ।
बालप्रभावो विज्ञातः शतशो बलवत्तरः ॥ ९॥
बालस्तदुदरगतो ववृधे च निरुध्य च ।
श्वासं तस्य तु दैत्यस्य पुच्छान्तं सोऽप्यचालयत् ॥ १०॥
प्राणवायुस्तु नेत्राभ्यां रुधिरेण विनिर्ययौ ।
विदार्य देहमस्यासौ बहिर्यातोऽम्बिकासुतः ॥ ११॥
चिक्रीड रुधिरार्द्राङ्गः किं नु पुष्पितकिंशुकः ।
ततो गणास्तं निरीक्ष्य लिहन्तं स्वाङ्गुलिं शिशुम् ॥ १२॥
उच्चैरुचुर्गिरिसुतामयं बालो विनिर्गतः ।
अस्यास्यान्मारयित्वा तं दैत्यमाजगरं खलम् ॥ १३॥
क उवाच ।
तद्वधानन्तरं बालमादाय सत्वरं शिवा ।
स्नापयामास सहसा लालयित्वा स्तनं ददौ ॥ १४॥
क्व गतोऽसि क्षणो बाल त्वां विनाब्दत्वमागतः ।
ततो ददर्शाजगरं विस्तीर्णं शतयोजनम् ॥ १५॥
भयानकमुखं दुष्टं वमन्तं रुधिरं बहु ।
पतितं वृक्षजालानि पातयित्वा गृहाणि च ॥ १६॥
गौर्युवाच ।
अस्मिन्स्थले कियन्तो नु भवेयुर्दैत्यराक्षसाः ।
कियन्तो निधनं प्राप्ता अस्य बालस्य विक्रमात् ॥ १७॥
ततस्तं चिक्षिपुः सर्वे गणा दूरे महासुरम् ।
ततस्त्वेकादशे मासे द्वारदेशे शिवा ययौ ॥ १८॥
पश्यन्ति सखीभिर्बालकौतुकानिबहून्यपि ।
कस्यचिद्वदनं बालश्चुम्बते चुम्बयत्यपि ॥ १९॥
आच्छादते चक्षुषी च कस्यचित्पृष्ठगः स्वयम् ॥
पिबते मातुरन्यस्याः स्तन्यं गत्वा बलादसौ ॥ २०॥
मुखमाच्छाद्य वस्त्रेण बिभीषयति चापरान् ॥
मुखं केशान्नासिकाञ्च कर्षते भूषणान्यपि ॥ २१॥
वदते स्खलितां वाणी परान् दृष्ट्वा स्वकानपि ।
एतस्मिन्नन्तरे दुष्टो दानवः शलभासुरः ॥ २२॥
ब्रह्मादीनागम्योऽसौ पर्वतस्कन्धमण्डलः ।
व्योमस्फोटिमहामूर्धा नीलवर्णो यथा घनः ॥ २३॥
जपाकुसुमनयनो मेघस्पृक्शृङ्गमण्डलः ।
बालान्तिकमुपायातो ग्रसन्निव जगत्त्रयम् ॥ २४॥
तं धर्तुं बालको याति यत्र यत्र स गच्छति ।
एवं तौ सुचिरं कालं भ्रमतः स्म महाजवौ ॥ २५॥
ततः श्रान्तोऽभवद्बालो रुषाऽधावत् तदन्तिकम् ।
दधार सहसा दैत्यं शलभं बलवत्तरम् ॥ २६॥
सपक्षौ स्फालयामास श्येनो हस्तगतो यथा ।
बाधते चरणाघातैस्तं बालं शलभासुरः ॥ २७॥
प्रसार्य नयने क्रूरे पश्यती स्म तदा शिशुम् ।
मुमुचे तं तदा बालो दधार च पुनःपुनः ॥ २८॥
दर्शयामास जननीं धरापृष्ठे व्यपोथयत् ।
शिवोवाच दयाविष्टा तं बालं क्रूरमानसम् ॥ २९॥
जीवघातो न कर्तव्यो मुञ्चनं प्राणिनं शिशो ।
बलात् पुनः शिलापृष्ठे हठाच्चिक्षेप बालकः ॥ ३०॥
स तदा शतधा जातो निपपात च भूतले ।
गर्जयन् गगनं वृक्षान्पातयन् गृहतोरणान् ॥ ३१॥
वमन् रक्तं बहु मुखाद् दशयोजनविस्तृतः ।
चूर्णयन्नाश्रमान् वृक्षांस्ततो माता निनाय तम ॥ ३२॥
बालं संस्थापयामास प्रादात् स्तन्यं च भोजनम् ।
सख्यो निरीक्ष्य तं बालं मृतं दैत्य तथाविधम् ॥ ३३॥
साधु साध्विति ताः प्रोचुस्तां च पर्वतकन्यकाम् ।
गृहं विवेश गिरिजाताश्च सख्यो मुदान्विताः ॥ ३४॥
चिक्षिपूर्दूरतो दैत्यं तदाज्ञावशगा गणाः ।
मुमुचुः पुष्पवर्षाणि बालं देवगणास्तदा ॥ ३५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे आजगरासुरशलभासुरवधो नामैकोननवतितमोऽध्यायः ॥ ८९॥
आदितः श्लोकानां समष्ट्यङ्काः - ८०६० + ३५ = ८०९५
२.०९० अविजयवधो नाम नवतितमोऽध्यायः
क उवाच ।
ततो द्वादशमासे तु गिरिजा सुतमद्भुतम् ।
उपविष्टालिभिःसार्धमङ्के कृत्वा स्वलङ्कृतम् ॥ १॥
कोटिसूर्यनिभं कोटिभूषणैश्च विराजितम् ।
ततस्तस्या महानासीदुत्सवो नृत्यदर्शने ॥ २॥
बालकानां हरस्याऽथ ज्ञात्वा वाञ्छां शिशुस्तदा ।
थेथीथेयीति शब्देन ननर्त गिरिजासुतः ॥ ३॥
श्रुत्वा तदीयं तं शब्दं हरो नर्तितुमागतः ।
शिवं नृत्यन्तमालोक्य ननर्त श्रीवरोऽपि च ॥ ४॥
तत इन्द्रादयो देवास्तत्र नर्तितुमागताः ।
स यथा नर्तते बालस्तेऽपि नृत्यन्ति तादृशम् ॥ ५॥
दर्शयन्ति तथा भावं स यथा दर्शयत्यपि ।
मनुष्याः पशवो वृक्षा यक्षराक्षसपन्नगाः ॥ ६॥
मुनयो मनवो भूपा भुवनानि चतुर्दश ।
एकविंशतिस्वर्गस्थाः सचेतनमचेतनम् ॥ ७॥
बालप्रभावान्ननृते बालच्छन्देन भूतलम् ।
मुनिपत्न्यो देवपत्न्यो ननृतुर्गिरिकन्यया ॥ ८॥
नूपुराणां सिञ्जितेन क्षुद्रघण्टारवेण च ।
पादाघातस्य शब्देन दिशो विदिश एव च ॥ ९॥
गगनं पर्वता आसन् नादयुक्तास्तदा मुने ।
चकम्पे धरणी शेषो रविश्चन्द्रश्च तारकाः ॥ १०॥
ततो नृत्यस्यातिशयं ज्ञात्वा गौरी न्यषेधयत् ।
न चक्रे बालको वाक्यं यदा गौरीसमीरितम् ॥ ११॥
नूपुराख्यो महादैत्यो महाकृष्णतनुर्दृढः ।
पातालचरणो व्योमसंस्पर्शिदृढमस्तकः ॥ १२॥
नूपुरान्तर्गतो दुष्टः सूक्ष्मरूपः शिशोरसौ ।
स बालस्तं बबन्धाशु मायया बलवत्तरम् ॥ १३॥
शृन्खलाभिश्चतुर्दन्तं यथा मदच्युतं गजम् ।
अङ्के जग्राह तं बालं पुनरेवाद्रिकन्यका ॥ १४॥
तद्भारेण पिपीडाऽथ भूभारेण समेन सा ।
उवाच वचसा गौरी कथं गुरुतरो भवान् ॥ १५॥
इदानीमेव जातोऽसि तस्मादुत्तर मेऽङ्कतः ।
मम प्राणा गमिष्यन्ति तव भारेण बालक ॥ १६॥
क उवाच ।
श्रुत्वा मातुर्वचो बालः पीडिता सा भृशं तदा ।
उत्ततार बलादङ्काद् दधावाङ्घ्रियुगं शिशुः ॥ १७॥
ततो निसृत्य दैत्योऽसौ व्योम्नि बभ्राम पक्षिवत् ।
तमसाऽव्यापि भूः सर्वा तेन सञ्छादिते रवौ ॥ १८॥
सोऽकस्मान्निपपातोर्व्यां शतधा चाभवत्खलः ।
ततस्ते मुनयो देवाः परमानन्दनिर्वृताः ॥ १९॥
तुष्टुवुर्बालरूपं तं परमात्मानमव्ययम् ।
देवर्षय ऊचुः ।
न जानीमो वयं देव रूपाणि तव यन्महः ॥ २०॥
लीलामायाश्च विविधा दैन्यदानवनाशिकाः ।
चरणात्याजितोदैत्यो रविमण्डललोपकः ॥ २१॥
भ्रमित्वा व्योमनि भृशं पतितः शतधाऽभवत् ।
संहृत्य जीवसङ्घातान् वृक्षानाश्रमपर्वतान् ॥ २२॥
तव नृत्यं ततो वीक्ष्य सर्वे नृत्यं प्रचक्रिरे ।
क उवाच ।
ततस्ते पुपुजुः सर्वे तं बालं विश्वरूपिणम् ।
नृत्योत्सवे निवृत्ते तु गौतमादीन् विसृज्य सा ॥ २३॥
पार्वती बालमादाय लालयित्वा स्तनं ददौ ।
स्त्रियः सर्वा विसृज्यार्थ विवेश निजमन्दिरम् ॥ २४॥
ततः पुनः कदाचित्स मुनिबालैः समन्वितः ।
गृहाद्बहिः क्रीडनार्थं ययौ चिक्रीड लीलया ॥ २५॥
मल्लयुद्धं च ते चक्रुर्द्वन्द्वशोऽनेकधा बहु ।
पातयामासुरागृह्य शिखायां ते परस्परम् ॥ २६॥
जघ्नुः शिरः शिरोभिश्च जानुभिर्जानुनी तथा ।
कूर्परं कूर्परेणैव चरणं चरणेन च ॥ २७॥
रुरुहुः पृष्ठभागं ते स्कन्धभागं परस्परम् ।
लत्ताप्रहारान्निर्जघ्नुरुदरे मस्तकेऽपि च ॥ २८॥
केचिच्च पुपुजुर्बालं गन्धपुष्पाक्षतादिभिः ।
केचिन्नीत्वाश्रमपदं भोजयामासुरन्धसा ॥ २९॥
नमश्चक्रुः पदयुगं केचिन्मालां ददुः शुभाम् ।
अविपुत्रस्वरूपेण दैत्यः सिन्धुप्रणोदितः ॥ ३०॥
यं दृष्ट्वा भयमभ्येति दण्डपाणिर्भयानकः ।
स्वबलेन जघानारींस्तीक्ष्णधारनखो बली ॥ ३१॥
बिरुदं बाहुदेशे स जित्वा सर्वान्न्बबन्ध ह ।
विशालाक्षो बृहच्छृङ्गो महागोत्रविदारणः ॥ ३२॥
पुच्छाघातेन जीवानां यश्चक्रे नाशनं खलः ।
उन्मूलयामास द्रुमान् शृङ्गाघातेन पर्वतान् ॥ ३३॥
पृष्ठलग्नो मनुष्याणां बलान्मारयते बली ।
स ययौ पार्वतीबालं हन्तुकामो महासुरः ॥ ३४॥
पृष्ठतो धावयित्वा स यावन्मारयते तु तम् ।
दधार शृङ्गयोर्बालो हस्ताभ्यां तावदेव हि ॥ ३५॥
रुरोह च स तत्पृष्ठे हयपृष्ठे यथाऽर्भकः ।
ततो मुनिसुताः केचित्पुच्छं धृत्वा व्यकर्षयन् ॥ ३६॥
केचिद्दण्डैश्च लगुडैर्निजघ्नुर्दैत्यपुङ्गवम् ।
सोऽवमत्य तु तान् जघ्ने पुच्छान्तेन स सत्वरम् ॥ ३७॥
निपेतुस्ते तदा भूमौ पुच्छाघातेन पीडिताः ।
दृष्टवा तस्य बलं बालोऽवतरच्च दधार तम् ॥ ३८॥
आस्फालयत्तदा पृष्ठे भ्रामयित्वा चिरं तु तम् ।
सहस्रधा विशीर्णाङ्गो ममार सहसाऽसुरः ॥ ३९॥
अन्त्यशब्देन तस्याथ बिभाय भुवनत्रयम् ।
वमन् रक्तं बहुमुखात्प्रसार्य विकृतं मुखम् ॥ ४०॥
ततो बाला मुनीनां तेऽकथयन्नचलोद्भवाम् ।
अनेन निधनं नीत अविजेयो महासुरः ॥ ४१॥
निहन्तुं नः समायातः क्रीडता बलशालिना ।
क उवाच ।
अम्बा निरीक्ष्य निहतं महादैत्यं सुतं च तम् ॥ ४२॥
आश्चर्यं परमं कृत्वा निनाय निजमन्दिरम् ।
दध्योदनं भ्रामयित्वा बालोपरि जलेन ह ॥ ४३॥
तत्याज दूरतो गेहात् स्तनपानं ततो ददौ ।
तानि खण्डानि दैत्यस्य तत्यजुर्दूरतो गणाः ॥ ४४॥
मुनयो मुनिपत्न्यश्च मुनिबालाः स्त्रियोऽपि च ।
प्रशशंसुः सुतं गौर्या देवाः पुष्पाणि तत्यजुः ॥ ४५॥
आशिषोऽपि ददुर्विप्रा नृत्यन्तेस्माप्सरोगणाः ॥ ४६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे नूपूरासुर-मेषासुरवधो नाम नवतितमोऽध्यायः ॥ ९०॥
आदितः श्लोकानां समष्ट्यङ्काः - ८०९५ + ४६ = ८१४१
२.०९१ वत्सशैलासुरवधो नामैकनवतितमोऽध्यायः
क उवाच ।
ततो द्वितीय वर्षे स बालो बालैरसङ्ख्यकैः ।
चिक्रीड वाटिकामध्ये नानाद्रुमलताकुले ॥ १॥
फलानि भक्षयामास खर्जूरीपनसानि च ।
ददौ तेभ्योऽतिबलात्स पातयित्वा बहून्यपि ॥ २॥
कटो नाम महादैत्यः कूटमायाकरः खलः ।
तत्तृषाकालमाज्ञाय वापिकायां विषाणि सः ॥ ३॥
लोडयामास दुर्बुद्धिः सर्वेषां हि जिघांसया ।
येषां तु स्पर्शमात्रेण म्रियन्ते प्राणिनः क्षणात् ॥ ४॥
यदुत्थवायुना स्पृष्टा निपतन्ति खगा भुवि ।
ततः कूटो गतस्तत्र तस्थौ नाशदिदृक्षया ॥ ५॥
ततस्ते बालकाः पातुमज्ञानात्तु जलं ययुः ।
पपुः सर्वे स्वचुलुकैरञ्जलीभिश्च केचन ॥ ६॥
मृतान् मत्स्यान्समादाय बहिर्याता मृतास्तदा ।
रक्षको ग्राममध्ये तु घोषयामास तन्मृतिम् ॥ ७॥
ततो महारवं कृत्वा तत्रायुः सर्वनागराः ।
घ्नन्तः पाणितलैर्वक्षः पाषाणैरपरे शिरः ॥ ८॥
हाहाकारो महानासीत् पुंवधूयोषितामपि ।
तेषामाक्रन्दनं श्रुत्वा शिवाया अपि बालकः ॥ ९॥
अजीवयद् दृष्टिपातैः सर्वांस्तान् पुरबालकान् ।
क्रूरदृष्ट्या कूटदैत्यं मृतं भूमौ न्यपतयत् ॥ १०॥
पञ्चयोजनविस्तीर्णां चूर्णितां तेन वाटिकाम् ।
ददृशुर्नागराः सर्वे कतिचिच्च पलायिताः ॥ ११॥
सोऽजीवयज्जलचरान्निर्विषां वापिका व्यधात् ।
स्वं स्वं बालं समादाय सर्वे ते स्वालयं ययुः ॥ १२॥
प्रशशंसुः शिवाबालं निनिन्दुर्नास्तिकाः खलाः ।
अस्य सङ्गादरिष्टानि नश्यन्तीति परेऽब्रुवन् ॥ १३॥
ततस्तृतीयवर्षे तु प्रातःकालेऽद्रिजासुतः ।
वञ्चयित्वा बहिर्यातो मुनिबालास्तमन्वयुः ॥ १४॥
अहोरात्रवियोगेन परस्परमथाश्लिषन् ।
त ऊचुर्निशि देव त्वां स्वप्ने पश्यामः सर्वदा ॥ १५॥
रात्रिर्युगसमा देव जायते त्वामपश्यताम् ।
इदानीं त्वां निरीक्ष्यैव प्रसन्नाः स्मोऽखिला वयम् ॥ १६॥
क्रीडामोऽद्य महासत्त्वं द्वन्द्वीभूय यथासुखम् ।
ततोऽर्ध एकतो भूत्वा परेऽर्धे परतोऽपि च ॥ १७॥
अभ्यघ्नन् पङ्कगोलेन नादयन्तोऽथ रोदसी ।
आह्लादेनाऽथ युध्यन्तो विकर्षन्तः परस्परम् ॥ १८॥
रमन्तस्ते ययुर्दूरमाश्रमं कस्यचिन्मुनेः ।
सरोवरे तत्र रेमुर्योजनायतविस्तरे ॥ १९॥
सिञ्चन्तोऽञ्जलिभिर्वारि द्वन्द्वीभूता यथा पुरा ।
निमज्य स्कन्धमारुहय मज्जयन्तो बलात्परम् ॥ २०॥
ततो दैत्यो मत्स्यरूपी तेषु क्रीडारतोऽभवत् ।
आस्फालयन् कराघातैस्तज्जलं तेषु पुच्छतः ॥ २१॥
कलुषात्तज्जलाद्भङ्गाज्जग्मुस्तीरं मुहुर्मुहुः ।
तीरे दृष्ट्वाऽद्रिजापुत्रं मत्स्यस्तन्निकटं ययौ ॥ २२॥
व्यादाय वदनं दध्रे तदङ्घ्री विचकर्ष च ।
निनाय धाव धावेति क्रोशयन्तं महाजले ॥ २३॥
निमज्ज्य स जले तेन चिरकालं महासुरः ।
अरोदिषुर्मुनिसुता मग्नं वीक्ष्याद्रिजासुतम् ॥ २४॥
हाहाकारं प्रकुर्वन्तः करपृष्ठोष्ठसंयुतम् ।
केचिद्गत्वा सरोरम्यं पश्यन्तो ददृशुर्न तम् ॥ २५॥
भवानीताडनाद् भीताः केचिद् बालाः पलायिताः ।
केचित् ते बालका गत्वाऽशंसन् मग्नं शिशुं च तम् ॥ २६॥
सर्वान्नः क्रीडतो हित्वा नीतो मत्स्येन बालकः ।
क उवाच ।
श्रुत्वा तद्वचनं गौरी मूर्छिता पतिता भुवि ॥ २७॥
मुहूर्ताच्चेतनां लब्ध्वा रोदमाना ययौ बहिः ।
मुञ्चन्ती नेत्रजं वारि मस्तकात् पतिताञ्चला ॥ २८॥
स्खलन्ती निश्वसन्ती च पतन्ती धरणीतले ।
सख्यस्तामन्वयुः काश्चिद्धित्वा कार्याणि सत्वराः ॥ २९॥
सरस्तीरं शीघ्रतरमागता सखिभिः सह ।
मुनयस्तमुदन्तं च श्रुत्वा याताः सरः प्रति ॥ ३०॥
अगाधेऽम्भसि ते केचिन्मग्ना नापुरुमासुतम् ।
तामचुर्जननीं केचिन्मग्ना नो बालका जले ॥ ३१॥
तैः पुनर्न च दृष्टश्च मत्स्योदरगतः सुतः ।
रोदनं पुनरारेभे गौरी श्रुत्वा तु तद्वचः ॥ ३२॥
उमोवाच ।
मम प्राणा गमिष्यन्ति विना तं सर्वसुन्दरम् ।
अतिक्लेशेन संलब्धमतिपौरुषमीश्वरम् ॥ ३३॥
चराचरगुरुं मायातीतं मायाविनं परम् ।
अनन्तकोटिब्रह्माण्डनायकं विश्वसम्भवम् ॥ ३४॥
ललाटं निजघानोरो वारं वारं करेण सा ।
रुरुदुर्मुनयो वीक्ष्य रुदतीं तां तथाविधाम् ॥ ३५॥
ततः कारुणिको देवो निशम्य करुणं वचः ।
स्वयमण्डजरूपोऽभूद् युयुधाते परस्परम् ॥ ३६॥
तदाघातेन जलजा मृतास्तीरे निपेतिरे ।
दंष्ट्राभ्यां दशतः स्मोभौ घ्नतः स्म पुच्छघाततः ॥ ३७॥
उदरं स्वोदरेणैव पृष्ठं पृष्ठेन जघ्नतुः ।
एवं चिरतरं युद्धं कृत्वा दारुणमोजसा ॥ ३८॥
मत्स्यरूपं गुणेशोऽथ बलाज्जघ्ने मुखे मुखम् ।
भग्नास्यो भग्नदर्पोऽसौ भग्ननेत्रोऽभवच्च सः ॥ ३९॥
पपाल जलमध्ये स पृष्ठेऽगात्स उमासुतः ।
यत्र यत्र ययौ सोऽथ तत्र तत्राप्यसौ ययौ ॥ ४०॥
क्वचिल्लीनं तु तं दृष्ट्वा पुच्छाघातैरताडयत् ।
तत्पुच्छं तु मुखे धृत्वा गुणेशो बहिरानयत् ॥ ४१॥
चुचूर्ण निजभारेण गतासुं विससर्ज सः ।
त्यजन्तं रुधिरं वक्त्रान्नदन्तं बलवत्तरम् ॥ ४२॥
तेन शब्देन महता चकम्पे भुवनत्रयम् ।
निर्ययौ जलमध्यात् स लिलिङ्गं पार्वतीं तदा ॥ ४३॥
आनन्दमग्ना गौरी तं स्तनपानं मुदा ददौ ।
मामपृष्ट्वाथ कुत्र त्वं गतोऽसि बालकैः सह ॥ ४४॥
यद् यदायाति विघ्नं ते तत्तद्दैवाद्विनश्यति ।
मरीचे रक्षणाच्छम्भोः कृपया जगदीशितुः ॥ ४५॥
कुरुषे किं चपलतां रक्षितव्यः कथं मया ।
त्वद्वियोगान्मम प्राणा गमिष्यन्ति प्रियार्भक ॥ ४६॥
क उवाच ।
ततो मुनिगणाः प्रोचुस्त्वां विना दुःखिता वयम् ।
इदानीं पुनरानन्दं प्राप्तास्त्वद्दर्शनाद्विभो ॥ ४७॥
पुपूजुर्मुनयो नानाद्रव्यैः सख्यः स्त्रियोऽपि च ।
नमस्कृत्य गुणेशं च प्रार्थयन्सर्व एव तम् ॥ ४८॥
वयं त्वदीया देवेश न नस्त्यक्तं त्वमर्हसि ।
ततोमा बालमादाय ययौ स्वस्थानमुत्तमम् ॥ ४९॥
अनन्तरं गणाः सख्यो मुनयो हर्षनिर्भराः ।
मार्गमध्ये परः शैलनामा दैत्यो महाबलः ॥ ५०॥
सर्वशत्रुहरो नक्रदृढाङ्गोऽशनिनाशनः ।
गिरीणां यस्य शब्देन दारणं जायते क्षणात् ॥ ५१॥
मार्गं निरुध्य सहसा संस्थितो रोदसी स्पृशत् ।
द्वियोजनमस्तकोऽसावधो द्वादशयोजनः ॥ ५२॥
सरस्तडागा वृक्षाश्च लता यत्र विभान्ति च ।
क्रीडन्ति सिंहशार्दुला वारणा यक्षराक्षसाः ॥ ५३॥
सर्वे ते विव्हलाः प्रोचुः किमिदं विघ्नमुत्थितम् ।
तदन्तिके स्थिता गौरी तेऽपि सर्वे स्थितास्तदा ॥ ५४॥
ततस्ते मुनयः प्रोचः कदा द्रक्ष्याम योषितः ।
अपत्यानि गुणेशस्य कदा स्यादत्र विक्रमः ॥ ५५॥
गमिष्यति वृथा होमकालोऽयं नः स्वधाक्रियाः ।
गौरी जगाद तान्सर्वान् खेदं कर्तुमर्हथ ॥ ५६॥
ममापि चिन्तः सम्प्राप्ता शङ्करस्य हि जायते ।
क उवाच ।
श्रुत्वा वाक्यानि तान्याशु गुणेशो बुद्धिमत्तरः ॥ ५७॥
प्रगृह्य तु विराङ्रूपं श्वासमात्रान्निराकरोत् ।
ददृशुर्न च तद्रूपं मोहिता मुनयोऽपि ते ॥ ५८॥
तच्छ्वासयोगात् स गिरिर्बभ्राम गगने तदा ।
आश्चर्यं परमं प्राप्ताः सर्वे ते तं प्रशंसिरे ॥ ५९॥
वात्यागतं यथा पत्रं ततोऽसौ पतितो भुवि ।
सहस्रधाऽभवच्छैलः पुनर्वृक्षानचूर्णयत् ॥ ६०॥
ततस्ते मुनयः प्रोचुः साधु साधु गुणेश्वर ।
दूरिकृतमरिष्टं नः स्वाश्रमस्था वयं सुखम् ॥ ६१॥
वसामस्त्वत्प्रसादेन स्वस्वकर्मरता भृशम् ।
क उवाच ।
एवमुक्त्वा च नत्वा च दृष्ट्वा सम्पूज्य तं ययुः ॥ ६२॥
पार्वती च तमादाय विवेशनिजमन्दिरम् ।
सख्यश्च मुनिपत्न्यश्च पृष्ट्वा तां स्वगृहं ययुः ॥ ६३॥
इदं यः शृणुयान् मर्त्यः सर्वत्र सुखमाप्नुयात् ।
आयुरारोग्यमैश्वर्यं सर्वत्र विजयं तथा ॥ ६४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कूटमत्स्यशैलासुरवधो नामैकनवतितमोऽध्यायः ॥ ९१॥
आदितः श्लोकानां समष्ट्यङ्काः - ८१४१ + ६४ = ८२०५
२.०९२ विश्वरूपदर्शनं नाम द्विनवतितमोऽध्यायः
क उवाच ।
ततः कदाचिद् गिरिजा प्रातः स्नात्वा त्वरान्विता ।
सुप्ते बाले चतुर्वर्षे लिङ्गपूजां चकार सा ॥ १॥
वामहस्ते निधायैव पार्थिवीं मूर्तिमुत्तमाम् ।
स उत्थाय रुदन् स्तन्यं ययाचे हठतत्परः ॥ २॥
क्षणं तिष्ठ क्षणं तिष्ठेत्येवं माता न्यषेधयत् ।
स रुषाऽपातयन्मूर्तिं तद्धस्ताद्धस्तघाततः ॥ ३॥
तं च सा हस्तघातेन जघान दृढ रोषतः ।
स रुषा पुनरागत्य ददंशाङ्गुलिमुल्बणम् ॥ ४॥
मञ्च मुञ्च मम प्राणा गमिष्यन्तीति साऽब्रवीत् ।
दष्टामङ्गुलिमृत्सृज्य पपाल दूरतोऽर्भकः ॥ ५॥
अस्रवद्रुधिरं तस्या अङ्गुलेर्बहुलं भुवि ।
यथा क्षीरकर्मवृक्षाद् दृढाघातेन पीडितात् ॥ ६॥
ततो यष्टिं समादाय ताडितुं सा सुतं ययौ ।
धावयित्वा दधारैनं ददर्श शिवरूपिणम् ॥ ७॥
पञ्चवक्त्रं दशभुजं त्रिनेत्रं शेषशोभितम् ।
त्रिशूलं डमरूं भस्म रुण्डमालां च बिभ्रतम् ॥ ८॥
वसानं चर्मणी हस्तिव्याघ्रयोः शशिशेखरम् ।
दृष्ट्वेत्थं लज्जिता यष्टिं तत्याजाधोमुखी शिवा ॥ ९॥
पुरो वा मन्दिरं वापि गन्तुं सा नाशकत् तदा ।
तच्चिन्तां स परिज्ञाय बभूवार्भकरूपवान् ॥ १०॥
क्रीडते मुनिपुत्रेषु मुनिबालस्वरूपवान् ।
अन्वयाद् गिरिजा बालं नापश्यत् तेषु तं सुतम् ॥ ११॥
पप्रच्छ तान् मुनिसुतान् मम बालः कुतो गतः ।
दष्ट्वाङ्गुलीं मदियां तु पपाल चपलोऽर्भकः ॥ १२॥
त ऊचुर्मुनिपुत्रास्ताभितो यातोऽर्भकस्तव ।
ततो जगाम गिरिजा पुरतः पुरतोऽपि च ॥ १३॥
विशीर्णकबरीभारा श्रमधर्मसमन्विता ।
इतस्ततो धावमाना स्रस्तवस्त्राञ्चला शिवा ।
तस्याः श्रमं स विज्ञाय ययौ पूर्वस्वरूपवान् ॥ १४॥
तदन्तिकं दधारैनं हस्ताभ्यां गिरिजा दृढम् ।
स्वीयाञ्चलेन तं बद्ध्वा ययौ हृष्टा स्वमन्दिरम् ॥ १५॥
उवाच रोषात् सम्यक्त्वं मम हस्ते समागतः ।
अपस्मारातिचपल मारयिष्येऽधुना भृशम् ॥ १६॥
शम्भवे वा निवेदिष्ये स त्वांवा ताडयिष्यति ।
श्रुत्वेत्थं वचनं मातुर्लुलुण्ठ धरणीतले ॥ १७॥
निःसृतं बन्धनं ज्ञात्वा पपाल त्वरया पुनः ।
पुनर्धावति सा पृष्ठे दुखिःता भृशविव्हला ॥ १८॥
एतस्मिन्नन्तरे दुष्टो दानवः कर्दमासुरः ।
द्विजरूपधरो मालां दधानो दक्षिणे करे ॥ १९॥
कमण्डलुं वारिपूर्णं भस्मोद्धूलितविग्रहः ।
अरुणार्कनिभे वस्त्रे वसानो मायिको भृशम् ॥ २०॥
स ऊचे वचनं बालं किमर्थं त्वं पलायसे ।
त्वद्भीतेवार्रणं सद्यः करिष्येऽहं न संशयः ॥ २१॥
नेष्ये त्वां यत्र ते माता न जानीयात् कथञ्चन ।
न च कालभयं तत्र न चान्यद्भयमण्वपि ॥ २२॥
क उवाच ।
तमुवाचार्भको भीतस्तथा कुरु यथा मम ।
न पश्येज्जननी तात शरणं त्वामुपागतः ॥ २३॥
एवं वदति यावत्तु ययौ बालस्वभावतः ।
गिगील तावदेवासौ तं दुष्टः कर्दमासुरः ॥ २४॥
रम्भाफलस्य पक्वस्य खण्ड कोमलमर्थकम् ।
तत्पादपद्मचिन्हानि भूमौ दृष्ट्वा ययौ शिवा ॥ २५॥
द्विजं ददर्श पुरतोऽपृच्छत् तं च ततोऽर्भकम् ।
स्वामिन् त्वया मम सुत इतो गच्छन्निरीक्षितः ॥ २६॥
इमानि पदपद्मानि चिन्हयुक्तानि पश्य भोः ।
इदानीं धावमानः स कुत्र गुप्तोऽभवद् द्विज ॥ २७॥
ततस्तामब्रवीद् विप्रो दुःखितां तद्धियोगतः ।
द्विज उवाच ।
किं नः प्रयोजनं मातस्तनयेन तवानघे ॥ २८॥
उदासीनतया मातस्तिष्ठतामीशचेतसाम् ।
तथापि नैव दृष्टस्ते तनयः क्वापि शैलजे ॥ २९॥
तनयः किं त्वया देवि मदधीनः कृतोऽभवत् ।
क उवाच ।
एवं वदति तस्मिंस्तु दुःखितां वीक्ष्य शैलजाम् ॥ ३०॥
आविरासीन्निर्विकारस्तन्मुखात् स गुणेश्वरः ।
सा प्राह तनयं दृष्ट्वा कथं मिथ्या ब्रवीषि रे ॥ ३१॥
तवैव निकटे पुत्रो दृष्टोऽयं गोपितस्त्वया ।
सन्तः प्राणात्यये प्राप्ते न भाषन्तेऽनृतं क्वचित् ॥ ३२॥
क उवाच ।
इति तस्या वचः श्रुत्वा स दैत्यो दीर्घदेहवान् ।
व्योमस्पृङमस्तको बालमादाय निर्ययौ ततः ॥ ३३॥
ततः सा पृष्ठतो लग्ना क्रन्दन्ती तनयं शिवा ।
गणेशोऽपि ततो दध्रे तस्माद्दीर्घतरं वपुः ॥ ३४॥
दृष्ट्वा दुःखं जनन्यास्तु प्रशोचन्त्या मुहुर्मुहुः ।
तद्देहं शतधा कृत्वा चुचूर्णाङ्घ्रिविघाततः ॥ ३५॥
पतमानोऽपि तद्देहश्चूर्णयामास शाखिनः ।
जनन्या अग्रतस्तस्थौ संहृत्येवं तु दानवम् ॥ ३६॥
गुणेशो मुनयो देवास्तत्पत्न्योऽथ समागताः ।
ऊचुस्तां पार्वतीं विघ्नाः कियन्तोऽस्य भवन्ति हि ॥ ३७॥
त एव नाशमायान्ति तव पुण्यात् सुरेश्वरि ।
सर्वेस्तैः पूजितं बालं गृहीत्वा स्वकटौ शिवा ॥ ३८॥
गृहं जगाम तैस्ताभिर्हर्षनिर्भरमानसा ।
पुरामरगणान् जित्वा गरुत्मानमृतं यथा ॥ ३९॥
उत्ततार शिवा बालं स्वाङ्गणे कटिदेशतः ।
स तु मूर्च्छाङ्गतो लुण्ठन्धरण्यां च पुनः पुनः ॥ ४०॥
वारं वारं ददौ जृम्भां प्रासार्य मुखपङ्कजम् ।
किं जातमधुनैवास्य धावयित्वा ययौ शिवा ॥ ४१॥
मुखमध्ये ददर्शास्य विश्वं विश्वस्वरूपिणः ।
सप्तद्वीपां वसुमतीं पुरग्रामवनाकरान् ॥ ४२॥
ब्रह्माणं भास्करं शेषं विष्णुं पर्वतसागरान् ।
गन्धर्वान्यक्षरक्षांसि मुनिन् पक्षिगणानपि ।
नदीवापीतडागानि मनूनष्टौ वसूनपि ॥ ४३॥
शशिसूर्यानलोडूनि सचेतनमचेतनम् ।
पातालान्यपि सप्तानि स्वर्गानप्येकविंशतीम् ॥ ४४॥
एवं त्रिभुवनं दृष्ट्वा मुमूर्च्छ गिरिजा तदा ।
निमील्य नयने भ्रान्ता मुहूर्तद्वयमास्थिता ॥ ४५॥
शिवं संस्मार मनसा सावधाना ततोऽभवत् ।
यथा पूर्वस्थितं बालं पश्यति स्म पुरःस्थितम् ॥ ४६॥
ततस्तं परितुष्टाव तत्प्रसादप्रसन्नधीः ।
पार्वत्युवाच ।
परमात्मा त्वमेवासि चराचरगुरुर्भवान् ॥ ४७॥
चिदानन्दघनो नित्यो नित्यानित्यस्वरूपवान् ।
त्वत्कुक्षौ परिदृष्टानि भुवनानि चतुर्दश ॥ ४८॥
देवा यक्षाश्च रक्षांसि सरितो वृक्षसञ्चयाः ।
सर्वं चराचरं दृष्टं मया वक्तुं न शक्यते ॥ ४९॥
भ्रान्ताऽहं पतिता भूमौ सावधाना शिवस्मृतेः ।
जाताऽहं बालरूपेणापश्यं त्वां प्राकृतं शिशुम् ॥ ५०॥
क उवाच ।
एवं स्तुवत्यां तस्यां तु मायामाविश्वकार सः ।
लालयित्वा कटौ गृह्य स्तनपानं ददौ शिवा ॥ ५१॥
गृहं प्रविष्टा गिरिजा गृहकार्यरताऽभवत् ।
मुनयो मुनिपत्न्यश्च ययुः स्वं स्वं निवेशनन् ॥ ५२॥
इदमाख्यानकं श्रुत्वा सर्वपापैः प्रपुच्यते ॥ ५३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम द्विनवतितमोऽध्यायः ॥ ९२॥
आदितः श्लोकानां समष्ट्यङ्काः - ८२०५ + ५३ = ८२५८
२.०९३ चञ्चलवधोनाम त्रिनवतितमोऽध्यायः
क उवाच ।
ततस्तु पञ्चमे वर्षे प्रवृत्ते मुनिबालकाः ।
उषःकाले गुणेशस्य समागम्य गृहं प्रति ॥ १॥
प्रातःकाले कथं शेषे प्रोत्तिष्ठोत्तिष्ठ हे सखे ।
उत्थापय निजं बालमित्यूचुस्ते शिवामपि ॥ २॥
तानुवाच शिवा वाक्यं निद्रा वो न समागता ।
क्रीडायामेव सक्तानां चपलानां दिवानिशम् ॥ ३॥
कथं याहीत्यनुदिते निर्लज्जा मूढभावतः ।
त ऊचुः ।
मातर्न तव वाक्येन कोपो नो जायते क्वचित् ॥ ४॥
वयं ते बालकाः किं न त्वं वा नो जननी न किम् ।
अस्मिंस्तव शिशौ सक्तं सर्वेषां मानसं सदा ॥ ५॥
एनं पश्माम पुरतो दिवानक्तं निरन्तरम् ।
विनैनं च समाधानं न नश्चेतसि जायते ॥ ६॥
श्रुत्वा वाक्यानि तेषां तु प्रोदतिष्ठत् तदा शिशुः ।
लिलिङ्ग बहिरागत्य गुणेशस्तैः परस्परम् ॥ ७॥
ययुर्बहिर्मुदा युक्ता धृत्वा हस्तान् परस्परम् ।
द्विभागीभूय चिक्रीडुर्नानायुद्धविचेष्टितैः ॥ ८॥
मस्तकं मस्तकेनैव वक्षसा वक्ष एव च ।
बाहुभ्यां चैव बाहू च निजघ्नुस्ते परस्परम् ॥ ९॥
जलेन रजसा चैव कन्दुकैर्मुष्टिभिस्तथा ।
कर्दमैर्गोमयैः केचिदान्दोलनविकर्षणैः ॥ १०॥
कोलाहलं प्रकुर्वन्तः शृङ्गवंशरवानपि ।
दैत्यभूता जयं प्रापुर्देवभूताः पराजयम् ॥ ११॥
एवं युध्यत्सु तेष्येवं खड्गनामा महासुरः ।
आययौ वृषरूपेण विशालेन नभस्पृशा ॥ १२॥
पुच्छवातेन महता पतिता वृक्षसञ्चयाः ।
शूलदन्तो ललज्जिव्हः पादेनामर्दयन्दिशः ॥ १३॥
स महान्तं रवं कृत्वा तमधावद्गुणेश्वरम् ।
प्रतिशब्देन सहसा नादयन्विदिशो दिशः ॥ १४॥
तं दृष्ट्वा विद्रुताः सर्वे मुनिपुत्रा भयातुराः ।
धाव धावेति तं बालं चुक्रुशः केचिदर्भकाः ॥ १५॥
तेषामाक्रन्दितं श्रुत्वा सहसा स गुणेश्वरः ।
कृत्वा महत्तरं रूपमुड्डीय तं जघान ह ॥ १६॥
मुष्टिघातेन शिरसि वज्रणेव महाचलम् ।
स भिन्नहृदयो दुष्टो वमन्रक्तं मुखाद्बहु ॥ १७॥
कृत्वा घोरं महाशब्दं पतितो धरणीतले ।
विचाल्य चरणान् ग्रीवामाक्रन्द्य च पुनः पुनः ॥ १८॥
स्वीयं देहं समास्थाय तत्याज जीवितं क्षणात् ।
दशाष्टयोजनायामः पातयन् वृक्षसञ्चयान् ॥ १९॥
उद्द्धूल रजो भौमं गगनं प्रावृतं क्षणात् ।
तद्देहपातात्पतिता जन्तवोऽथ पतत्रिणः ॥ २०॥
तं तथा पतितं दृष्ट्वा सर्व एव कुमारकाः ।
साधु साधु शिवापुत्र महादैत्यो निपातितः ॥ २१॥
दृष्ट्वा महान्तं तं दैत्यं वयं भीत्या पलायिताः ।
कथं त्वया महादैत्यः पौरुषेण कनीयसा ॥ २२॥
हतोऽयं विस्मितः सर्वे पुनस्तं समुपागताः ।
इत्युक्त्वा ते पुनः क्रीडां चक्रुः सर्वे यथा पुरा ॥ २३॥
कर्षयन्तोऽङ्घ्रिकमले धृत्वा केचित्परस्परम् ।
ततस्तस्य सखा प्रायान्मृतप्रतिकृतीच्छया ॥ २४॥
छायारूपं समास्थाय महाबलपराक्रमः ।
पादाघातेन तस्याशु चकम्पे शेषविग्रहः ॥ २५॥
व्योमस्पृङ्मस्तको दुष्टो गुणेशपृष्ठतो ययौ ।
छायां तदीयामाविश्य पातयामास तं तदा ॥ २६॥
इतरेषामदृश्योऽसौ मायावी बलवत्तरः ।
यथा यथा नृत्यते स तथा दैत्योऽपि नृत्यति ॥ २७॥
तं पतन्तं गुणेशं ते निरीक्ष्य मुनिबालकाः ।
ऊचुस्तं धाविताः केचित् केचिच्च दुःखिता भृशम् ॥ २८॥
कथंवा पतसे नाथ क्व सामर्थ्यं गतं तव ।
वारंवारं स्खलसि किं प्रियेषु च सखिष्वपि ॥ २९॥
ततो बालो ददर्शाशु दशदिक्षु समन्ततः ।
सामर्थ्यादग्रतो यातुमियेष नाशकच्च सः ॥ ३०॥
पुनश्च प्रणिधानेन समन्तादवलोकयन् ।
छायाप्रविष्टं तं दैत्यं ज्ञातवान् स गुणेश्वरः ॥ ३१॥
गण्डशैलं समादाय प्राक्षिपच्चोदरेऽस्य ह ।
उपरिष्टान्ननर्त्तासौ स मृतश्चूर्णतां गतः ॥ ३२॥
अन्तकाले महद्रूपं समास्थाय निजं खलः ।
चूर्णयामास वृक्षान् सपर्वतान्प्राणिसञ्चयान् ॥ ३३॥
तन्मेदसा च रक्तेन धरणी च गुणेश्वरः ।
रक्ततां समनुप्राप्तौ वसन्ते किंशुकाविव ॥ ३४॥
एवं तं विनिहत्त्याशु गुणेशो लीलयाऽरमत् ।
तत एको वृषस्कन्धः सूकरास्यो गजोदरः ॥ ३५॥
गण्डशैला रज इव श्वासासस्य चलन्ति च ।
चञ्चलाख्यो महादैत्यो बालरूपधरोऽविशत् ॥ ३६॥
तेषु नानाविधाः क्रीडा दर्शयामास लाघवात् ।
महाबलो महामायः पोधयामास कांश्चन ॥ ३७॥
चरणं कस्यचिद् धृत्वा चकर्ष मुनिबालकम् ॥
उभौ करौ विधृत्वैव कस्यचिन्मस्तकेऽहनत् ॥ ३८॥
यस्य नृत्ये धरा सर्वा कम्पते स्म स पर्वता ॥
ते धर्मे मृत्तिकां सर्वे चर्चयन्ति स्वविग्रहे ॥ ३९॥
सोऽपि चर्चयते स्वाङ्गं चन्दनेनेव भाग्यवान् ।
ततस्ते कन्दुकं कृत्वा तेन क्रीडामथारभन् ॥ ४०॥
कन्दुको व्योममार्गस्थो बालत्यक्तोऽस्पृशत्करम् ।
कृत्वाश्ववच्च तं बालमारोहेत् स सकन्दुकः ॥ ४१॥
आरोहको बलाद्भूमौ निक्षिपेत्तं च कन्दुकम् ।
अपरो धारयेदूर्ध्वमागतं सोऽपि वा पुनः ॥ ४२॥
यद्धस्ते कन्दुकः सोऽथ बालमारुह्य तं त्यजेत ।
भूमौ निपतितं बालमादाय तेन ताडयेत् ॥ ४३॥
तेषु मध्ये पलायत्सु यस्य लग्नः स कन्दुकः ।
तेनापि व्योममार्गस्थः कार्यो यस्य करं स्पृशेत् ॥ ४४॥
हस्ते नायाति चेत् सोऽपि व्योमगं तं तु कारयेत् ।
येन हस्ते धृतः सोऽमुमारुह्य् पूर्ववत् क्षिपेत् ॥ ४५॥
कदाचित्कन्दुकः क्षिप्तो गुणेशेन च व्योमनि ।
चञ्चलेन धृतो हस्ते तमारूढस्तदाऽसुरः ॥ ४६॥
भारेणाक्रम्य तं देवमुवाच दुष्टदानवः ।
सहस्व भारं मे दुष्ट वल्गसेऽर्भकसञ्चये ॥ ४७॥
त्यक्तं त्यक्तं कन्दुकं स गृह्णाति स्वकरे पुनः ।
मुहुर्तद्वयमेवं हि चिक्रीडे दुष्टदानवः ॥ ४८॥
प्राहसन्मुनिबालास्ते गुणेशं तं तथागतम् ।
ततो गुणेशो दैत्यं तमारूढो दृढविक्रमः ॥ ४९॥
चञ्चलश्चञ्चलो जातो नेतुं दूरे मुदान्वितः ।
व्योममार्गेण सहसा बाला भूमिगता ययुः ॥ ५०॥
विमानवत्पक्षिवच्च स जगाम त्वरान्वितः ।
ततो निवृत्तास्ते बालाःशोच माना ययुर्गृहान् ॥ ५१॥
स्थितास्तत्रैव केचिच्च प्रतीक्षन्तो गुणेश्वरम् ।
ततो गुणेशस्तं ज्ञात्वा मनसा दुष्टदानवम् ॥ ५२॥
हिमवत्सदृशं भारं चकार सहसा विभुः ।
भारेण पतितो दैत्यः प्रावदत् तं गुणेश्वरम् ॥ ५३॥
उत्तरस्व महाभारं गमिष्यन्ति ममासवः ।
दयां कुरुष्व दीने त्वं प्रपन्ने शरणं तव ॥ ५४॥
एवं वदन् मुमूर्च्छाऽसौ ततो बालो दधार तम् ।
भ्रामयामास बहुशो गरुडो भुजगं यथा ॥ ५५॥
तत्याज दूरदेशे तं चञ्चलं दुष्टदानवम् ॥ ५६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे खङ्ग-चञ्चलवधोनाम त्रिनवतितमोऽध्यायः ॥ ९३॥
आदितः श्लोकानां समष्ट्यङ्काः - ८२५८ + ५६ = ८३१४
२.०९४ चतुर्नवतितमोऽध्यायः
क उवाच ।
ततो मुनिसुता याताः प्रतीक्षन्तः स्थिताश्च ये ।
तेषां जयरवैर्व्योम गर्जितं च दिगन्तरम् ॥ १॥
चिक्रीडुस्ते पुनस्तत्र नानानृत्यैश्च गायनैः ।
एवं रमत्सु बालेषु सार्द्धयामे दिवाकरे ॥ २॥
पितरौ तानदृष्ट्वैव ग्राममध्ये क्वचिद्गृहे ।
प्रत्येकं यष्टिमादाय ययुः सर्वे शिशून्प्रति ॥ ३॥
रमन्तो विविधाः क्रीडा मध्ये कृत्वा गुणेश्वरम् ।
नृत्यन्तं नर्तयन्तं च तं च ते निरभर्त्सयन् ॥ ४॥
पितर ऊचुः ।
त्वया विना नो बालाश्च नाचरन् स्नानभोजने ।
आचाराध्ययने चापि ब्राह्मण्यं विनयं तथा ॥ ५॥
ततः परस्परं प्राहुर्गतक्रोधा निरीक्ष्यतम् ।
एतस्य ताडने बुद्धिर्गतैनं वीक्ष्य नः कुतः ॥ ६॥
कथयामो यदि शिवौ तावस्य किं करिष्यतः ।
अनेके निहता दैत्या बालेनैव महाबलाः ॥ ७॥
वयं देशान्तरं यामो भीत्या तव गुणेश्वर ।
क उवाच ।
एवं वदत्सु लोकेषु पिदधे स गुणेश्वरः ।
आविरासीद् दूरदेशे ततो बाला व्यलोकयन् ॥ ८॥
धावयित्वा पितॄंस्त्यक्त्वा गुणेशं ते ययुः पुनः ।
क्रीडन्तस्ते ययुः शीघ्रं गौतमाश्रममुत्तमम् ॥ ९॥
ध्यानस्थं तं मुनिं वीक्ष्य पचन्ती तत्स्रियं च ते ।
गुणेशोऽगान्मध्यदेशं जग्राहौदनपात्रकम् ॥ १०॥
ददौ तेभ्यो विभज्यान्नं प्रार्थयामास सादरम् ॥ ११॥
मत्सङ्गेन चिरङ्कालं यूयं सर्वे बुभुक्षिताः ।
सावकाशं प्रभुञ्जध्वं ततः क्रीडामहे पुनः ॥ १२॥
अहल्या तं चुकोपाशु ममान्नं स्पृष्टवान्कथम् ।
न कृतो वैश्वदेवो वा नैवेद्यं चपलार्भकाः ॥ १३॥
विसृज्य ध्यानं किं कुर्याद् गौतमो मुनिसत्तमः ।
उत्थापयामास तदा ध्यानस्थं मुनिसत्तमम् ॥ १४॥
स उत्थाय ददर्शाऽथ गौतमः सकलार्भकान् ।
जक्षतोऽन्नं क्षुधा युक्तान् बभाषे च गुणेश्वरम् ॥ १५॥
गौतम उवाच ।
महतोः पुत्रतां प्राप्य कथमन्यायकृद् भवान् ।
अत्यद्भुतानि कर्माणि श्रुत्वा ते त्वां वयं पुरा ॥ १६॥
परात्परतरं देवं परब्रह्मस्वरूपिणम् ।
मन्यामहे बालभावं कुरुषे त्वं गुणेश्वर ॥ १७॥
क उवाच ।
धृत्वा करं स च मुनिः पावत्या गृहमागमत् ।
करे धृत्वाऽन्नसहितं तत्पात्रं निजमन्दिरात् ॥ १८॥
उवाच मातस्ते बालो नित्यमन्यायकृन्मम ।
अद्य त्वां कथितुं यातः किं कार्यं गौर्यतः परम् ॥ १९॥
इतो वा गमनं दूरे मन्यसे यदि तद्वद ।
क उवाच ।
ततो रुषो समायुक्ता श्रुत्वा वाक्यं मुनीरितम् ॥ २०॥
ताडयामास यष्टया तं वमन्ती नेत्रतोऽनलम् ।
उवाच च मुनिं गौरी प्रणता क्रोधसंयुता ॥ २१॥
ममापि च मुने त्रासो जायतो जन्मतोऽस्य ह ।
द्रष्टव्या राक्षसकृताः कियन्तो विघ्नसञ्चयाः ॥ २२॥
स्त्रियः प्रवक्तुं कुत्रापि नायान्ति मुनिपुङ्गवाः ।
अयं तु सर्वतो दुष्टो मुनिपुत्रविभेदकः ॥ २३॥
ममात्मज इति जनो नैनं शापं प्रयच्छति ।
बद्ध्वैनं हस्तपादेषु तत्समक्षं शिवा सुतम् ॥ २४॥
गृहमध्ये तु संस्थाप्य तद्गृहं पिदधे दृढम् ।
मैवं मैवं वदन्यातो गौतमः स्वाश्रमं प्रति ॥ २५॥
ततस्ते बालकाः सर्वे शोचन्तस्तं गुणेश्वरम् ।
कथं नो दर्शनं चास्य भविष्यति कदा नु वा ॥ २६॥
द्वार दत्त्वा दृढं मध्ये स्थापितो गिरिकन्यया ।
एवं तेषु वदत्सेव तन्मध्ये स ययौ क्षणात् ॥ २७॥
जनन्याः कटिदेशेऽपि दृश्यते तद्गृहोऽपि च ।
ऊचुस्तां गौरि पुत्रस्ते निःसृतो गृहमध्यतः ॥ २८॥
पश्यति स्म गेहमध्ये बद्धमेव गुणेश्वरम् ।
बहिस्तान मुनिपुत्रान् सा तत्स्वरूपानपश्यत ॥ २९॥
यं कञ्चित्स्तनपानाय जुहाव विव्हला शिवा ।
निषिद्धा सा सुतैस्तैस्तु गृहमध्ये शिवे स्थितः ॥ ३०॥
उद्घाट्य द्वारं सा बालं मुक्त्वा स्तन्यं ददौ मुदा ।
गौतमः स्वाश्रमं यातो देवतार्चनमारभत् ॥ ३१॥
गुणेशरूपान्सोऽपश्यत् तृप्तान्देवांस्तथाऽखिलान् ।
पुरः प्रकीर्णमन्नं च ततो विस्मितमानसः ॥ ३२॥
चिन्तयामास मनसि दुर्बुद्धिस्तु कृता मया ।
उमायै कथितं सर्वमन्नपात्रं प्रदर्शितम् ॥ ३३॥
तया स ताडितो बद्धोऽव्यक्तो व्यक्तस्य कारणम् ।
परात्परतरो देवो यस्मिंस्तृप्ते महाफलम् ॥ ३४॥
आगत्य बुभुजे बालैः सार्द्धन्तु मुनिसम्भवैः ॥
मोहितो मायया चास्यऽपूर्वज्ञासिषं न तम् ॥ ३५॥
क उवाच ।
अहल्यापि पुनः पाकं चकाराद्भुतमानसा ।
सोऽपि ध्यानस्थितो भूत्वा नित्यकर्म समापयत् ॥ ३६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गौतमभोजनहरणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४॥
आदितः श्लोकानां समष्ट्यङ्काः - ८३१४ + ३६ = ८३५०
२.०९५ वृकासुरवधो नाम पञ्चनवतितमोऽध्यायः
क उवाच ।
षष्ठे वर्षे प्रवृत्ते तु क्वचिद्यातो बहिः शिशुः ।
उमाया बालकैः सार्द्धं चिक्रीडानेकधा पुनः ॥ १॥
तं दिदृक्षुर्विश्वकर्मा ययावन्तर्गृहं प्रति ।
पार्वती बहिरागत्य मानयामास तं बहु ॥ २॥
चित्रासने समावेश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ प्रादाद् गन्धं ताम्बूलमेव च ॥ ३॥
ततस्तदादरं दृष्ट्वा विश्वकर्मा तुतोष ह ।
तुष्टाव परया भक्त्या प्रणिपत्य शिवां मुदा ॥ ४॥
विश्वकर्मोवाच ।
नमामि विश्वेश्वरि विश्वरूपे ब्रह्मेन्द्ररुद्रार्यमविष्णुरूपे ।
त्वया ततं विश्वमनन्तशक्ते ब्रह्मादिदेवैरभिनन्द्यरूपे ॥ ५॥
त्वमेव विश्वं रजसा विधत्से सत्त्वेन मातः परिपासि तच्च ।
त्वमेव सर्वं तमसाऽथ हंसि त्रैगुण्यमेतत्तव नित्यरूपम् ॥ ६॥
त्वया हता दैत्यगणा विमुक्तिं ब्रह्मर्षयो ज्ञानबलात् प्रपन्नाः ।
त्वमेव विष्णोरतुलाऽसि शक्तिः सर्वस्य हेतुः परमाऽसि माया ॥ ७॥
सतोऽसतो यापि परासि शक्तिश्चराचरं त्वं विदधासि विश्वम् ।
सम्मोह्य लोकान्सकलान्सुरेशान्काष्ठाकलाभिश्च ददासि भोगम् ॥ ८॥
ये त्वां प्रपन्ना न भयं तु तेषां मृत्योस्तस्था दैत्यकृतं कदाचित् ॥ ९॥
त्वमेव लक्ष्मीः सुकृतामलक्ष्मीर्दुष्टात्मनां त्वं प्रमदास्वरूपा ।
विद्यास्वरूपासि जगत्त्रये त्वं प्रभास्वरूपा शशिसूर्ययोत्स्वम् ॥ १०॥
य आश्रितास्ते जगदाश्रयास्ते विपत्तिलेशो न च तेषु मातः ।
त्वमेव विश्वेश्वरि विश्वमेतद्धरस्यथाप्यायसि वारिरूपा ॥ ११॥
अनादिमध्याऽनिधनाप्यगम्या हरीशलोकेशसुरेश्वराणाम् ।
तेऽनुग्रहात्त्वाप्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके ॥ १२॥
अभक्तिकामान् विनिहंसि रुष्टा त्वामेव मातः शरणं प्रपन्नः ।
धन्ये ममैते नयनेऽथ विद्या जनुश्च माता पितृवंश एव ॥ १३॥
कुलं च धन्यं चरणौ त्वदीयौ दृष्टौ यतस्ते जगदम्बिके मया ।
क उवाच ।
एवं स्तुता जगन्माता वरमस्मै न्यवेदयत् ॥ १४॥
स वव्रे परमां भक्तिं सात तथेति तमब्रवीत् ।
इदं स्तोत्रं पठेद् यस्तु सर्वान् कामाँल्लभेच्च सः ॥ १५॥
सर्वत्र विजयं पुष्टिं विद्यामायुः सुखं शिवम् ।
शिवोवाच ।
विश्वकर्मन् महाबुद्धे ज्ञानवानसि सर्वतः ॥ १६॥
यच्छ्रुतं शिववाक्येन दृष्टं तत्सकलं त्वयि ।
सिन्धुना पीडिता देवाः सर्वे कारागृहे स्थिताः ॥ १७॥
शिवश्चात्र समायातः कैलासे तु हृते सति ।
दण्डकारण्यदेशेऽत्र कोऽप्याप्तो न हि दृश्यते ॥ १८॥
त्वं तु सम्यक् समायातो बहुकालेन दर्शनम् ।
विश्वकर्मोवाच ।
किमाश्चर्यं जगन्मातर्बालो मातरमाव्रजेत् ॥ १९॥
द्रष्टुं देवं महाभक्तो विद्याकामो गुरुं शिवे ।
पुत्रस्य ते श्रुतो मातर्महिमा परमाद्भुतः ॥ २०॥
तमहं द्रष्टुमायातो युवयोर्दर्शनोत्सुकः ।
क उवाच ।
एवं तयोस्तु वदतोरागतोऽसौ विनायकः ॥ २१॥
असङ्ख्यशशिसङ्काशो रजसाऽरुणविग्रहः ।
प्रसन्नवदनो बालसमूहपरिवारितः ॥ २२॥
तन्मध्ये शोभते स्मासौ मरुन्मध्ये यथा हरिः ।
तं दृष्ट्वा प्रणिपत्यासौ कृताञ्जलिपुटः स्थितः ॥ २३॥
तुष्टाव परमात्मानं ज्ञात्वा तं गिरिजासुतम् ।
विश्वकर्मोवाच ।
नमामि परमात्मानं सच्चिदानन्दविग्रहम् ॥ २४॥
चराचरगुरुं सर्वकारणानां च कारणम् ।
गुणेश च गुणातीतं सृष्टिस्थित्यन्तकारिणम् ॥ २५॥
सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम् ।
अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् ॥ २६॥
सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् ।
अभक्तकामदहनं सहस्ररविसन्निभम् ॥ २७॥
अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् ।
अनादिमव्ययं शान्तं जरामरणवर्जितम् ॥ २८॥
त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् ।
क उवाच ।
एवं स्तुतिं समाकर्ण्य सन्तुष्टः स गुणेश्वरः ॥ २९॥
स्वासने तमुपाविश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ गन्धमक्षतान् पुष्पमेव च ॥ ३०॥
धूपं दीपं च नैवेद्यं निवेद्य तमथा ब्रवीत् ।
गुणेश उवाच ।
विश्वकर्मन्नागतोऽसि मम दर्शनकाङ्क्षया ॥ ३१॥
किमानीतं मम मुदेह्युपायनमनुत्तमम् ।
विश्वकर्मोवाच ।
निजस्वानन्दपूर्णानां परवाञ्छाविधायिनाम् ॥ ३२॥
निस्पृहाणां सर्वकृतां सर्वशक्तिमतामपि ।
समलोष्टाश्महेम्नां च कल्पवृक्षाधरी कृताम् ।
कर्तुमकर्तुं शक्तानामन्यथाकर्तुमेव च ॥ ३३॥
स्वाधीनानां च तुष्टानां स्वसत्तावर्तिनामपि ।
पराधीनैरशक्तैश्चाकिञ्चनैर्मर्त्यधर्मभिः ॥ ३४॥
किं देयं परितोषाय स्वशक्त्या किञ्चिदाहृतम् ।
क उवाच ।
एवमुक्त्वा विश्वकर्माऽस्थापयत्पुरतः सृणिम् ॥ ३५॥
पद्मं च परशुं पाशं सहस्रादित्यसन्निभम् ।
सर्वशत्रुहरं तीक्ष्णं दधार स गुणेश्वरः ॥ ३६॥
उवाच विश्वकर्माणं कुत एतानि विश्वकृत् ।
आनीतानि मम प्रीत्यै तद्वदस्वाधुनाऽनघ ॥ ३७॥
विश्वकर्मोवाच ।
संज्ञा नामेति नाम्ना मे कन्या चारुस्वरूपिणी ॥ ३८॥
लज्जितो यन्मुखं वीक्ष्य सहसा शशलाञ्छनः ।
रमा शची च सावित्री शारदाऽरुन्धती रतिः ॥ ३९॥
त्रिलोक्यां न समा कापि परा यस्या गुणेश्वर ।
सा मया त्वये दत्ता त्रिवेदाय त्रिरूपिणे ॥ ४०॥
आगतेषु त्रिलोकेषु साङ्गोपाङ्गेषु सर्वशः ।
महोत्सवो महानासीद् दिनाष्टकमहर्निशम् ॥ ४१॥
यां दृष्ट्वा स्खलिता देवा लज्जयाऽधोमुखा गताः ।
सविता तामथादाय ययौ स्वस्थानमुत्तमम् ॥ ४२॥
तेजसा तस्य तप्ता मे कन्यका कृशतामगात् ।
सा ततो निर्ममे छायां संज्ञा तु स्वप्रभावतः ॥ ४३॥
सर्वं तस्यै निवेद्यैव सद्यो मम गृहं गता ।
गते कियति काले सा छाया ज्ञाता तु भानुना ॥ ४४॥
नेयं संज्ञेति स प्रायाद् गृहं सद्यो ममार्यमा ।
ततो भीता पुनः संज्ञा मामुवाच न मां पितः ॥ ४५॥
निवेदय रवेर्हस्ते तेजोऽहं न क्षमेऽस्य च ।
ततः पित्रा धिक्कृता सा बहिरेव ययौ किल ॥ ४६॥
अश्विनीरूपमास्थाय गुप्तरूपा वनेऽवसत् ।
ततस्तु विश्वकर्मा तामनवेक्ष्य क्वचिद्गृहे ॥ ४७॥
प्रोवाचार्यमणं सोऽथ तेजस्ते सोढुमक्षमा ।
क्व गता न च जाने तामुपायं ते ब्रवीमि च ॥ ४८॥
यदि ते तेजसो भागो न्यूनः किञ्चिद्भविष्यति ।
तदा सा प्रकटीभूयाद् विहरस्व ततस्तया ॥ ४९॥
रविरुवाच ।
यथा तव भवेच्चेतस्तथा कर्तुं त्वमर्हसि ॥
क उवाच ।
विश्वकर्मा ततश्चैनं यन्त्रे स्थाप्योल्लिलेख ह ॥ ५०॥
तेजोह्रासं चकाराशु किञ्चित्सौम्योऽभवच्च सः ॥
यत्र गुप्ताऽभवत्संज्ञा तत्र यातोऽर्यमा विभुः ॥ ५१॥
अश्वोभूत्वा तया रेमे सा नासत्यावसूत च ॥
तामादायार्यमा लोकं निजं हर्षयुतोऽगमत् ॥ ५२॥
विश्वकर्मोवाच ।
तेजःशेषेण तस्याथ प्रबलेन गुणेश्वर ।
निर्मितान्यायुधान्याशु त्वदर्थे जगदीश्वर ॥ ५३॥
अतितीक्ष्णानि कालस्य सदा जयकराण्यपि ।
चत्वारि ते प्रदत्तानि दत्ते चक्रगदे हरेः ॥ ५४॥
त्रिशूलः शम्भवे दत्तः सर्वशत्रुनिबहर्णम् ।
गुणेश उवाच ।
सम्यक् कृतं विश्वकर्मन्नायुधानि शुभानि मे ॥ ५५॥
दत्तानि दैत्यनाशाय परोपकृतये सताम् ।
क उवाच ।
एवमुक्त्वायुधान्याशु दधार च दुधाव च ॥ ५६॥
तदा चकम्पे पृथिवी पर्वताश्च वनानि च ।
शुशुभे सोऽपि तैः शस्त्रैः कोटिसूर्यनिभैर्विभुः ॥ ५७॥
विश्वकर्मा नमस्कृत्य ययौ स्वस्थानमाज्ञया ।
उमात्मजोऽपि चिक्रीड मुनिबालैर्वृतः पुनः ॥ ५८॥
तत्राययौ वृकोनाम महान् दुष्टतमोऽसुरः ।
भयङ्कराननो मत्तो ग्रसन्निव महाबली ॥ ५९॥
पुच्छाघातेन च भुवं कम्पयन् हलदन्तवान् ।
दुष्ट्वा भयङ्करं दैत्यं मुनिपुत्राः पलायिताः ॥ ६०॥
स आयुधानि गृह्ययाशु तं वृकं समताडयत् ।
अङकुशाघातमात्रेण पतितो भुवि सोऽसुरः ॥ ६१॥
वमन् रक्तं निजं रूपमास्थितश्चूर्णयन् द्रुमान् ।
संहरञ्जीवसङ्घातान् दशयोजनविस्तृतः ॥ ६२॥
स ततोऽस्तमिते सूर्ये ययौ बालयुतो गृहम् ।
बालाः प्राहुरुमायै तेऽनेनाद्य निहतोऽसुरः ॥ ६३॥
वृको नामाङ्कुशाघाताद् दशयोजनमायतः ।
तानुवाचाद्रिजा रोषाद् व्रजन्तु निजमन्दिरम् ॥ ६४॥
ततस्तद्वाक्यमाकर्ण्य ते बालाः स्वालयान् ययुः ॥ ६५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे वृकासुरवधो नाम पञ्चनवतितमोऽध्यायः ॥ ९५॥
आदितः श्लोकानां समष्ट्यङ्काः - ८३५० + ६५ = ८४१५
२.०९६ गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः
क उवाच ।
ततः कदाचिद्गिरिजा प्रसन्नं प्राह शङ्करम् ।
शिवोवाच ।
देवेश सप्तमं वर्षं प्रवृत्तं साम्प्रतं शिशोः ॥ १॥
क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवात् ।
शिव उवाच ।
सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेतोगतं मम ॥ २॥
सम्पादयिष्ये साध्वस्य व्रतबन्धं यथाविधि ।
क उवाच ।
इत्युक्ता गिरिजां देवः समाकार्य च गौतमम् ॥ ३॥
विचार्य सुदिने लग्नं सामग्री समपादयत् ।
मण्डपं च सुविस्तीर्णं सर्वान् ऋषिगणान्मुनीन् ॥ ४॥
आकार्य परिपूज्यैतांस्तदाज्ञावशगो हरः ।
यथाविधि चकारास्य व्रतबन्धं मुदा तदा ॥ ५॥
उपायनानि सर्वे ते शिवयोर्बालकस्य च ।
अष्टाशीतिसहस्रेभ्यो नमस्कृत्य हरोऽपि च ॥ ६॥
सम्पूज्य विधिवत् प्रादान्नानोपायनसञ्चयान् ।
त्रिंशस्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च ॥ ४७॥
किन्नरेभ्यश्चारणेभ्यो वाद्यघोष नदत्यपि ॥ ७॥
गायत्सु किन्नरेष्वाशु नर्तकीनां गणेषु च ।
नृत्यत्सु सर्वलोकेषु पश्यत्सु सुमहोत्सवम् ॥ ८॥
उपायनानि दानानि ददौ हर्षात्सदाशिवः ।
देवतास्थापनं कृत्वा भोजयामास चाखिलान् ॥ ९॥
प्रातःकाले बटुं स्नाप्य चौलकर्म समाप्य च ।
चतुर्भिर्ब्राह्मणैः सार्धं तं भोज्य संस्नाप्य वै पुनः ॥ १०॥
वेदिकायामन्तरा दु धृत्वा पटमनुत्तमम् ।
मुहूर्तं साधयामास मुनिभिर्मन्त्रवादिभिः ॥ ११॥
एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ ।
गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ ॥ १२॥
तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ ।
चीत्कारभीषितजनौ सिन्दूरारुणमस्तकौ ॥ १३॥
कम्पते पादघातेन ययोराशु वसुन्धरा ।
दन्ताघातेन युध्यन्तौ रजसाच्छाद्य रोदसी ॥ १४॥
सभाद्वारगतं शक्रकीरणं समुपागतौ ।
दन्तप्रहारैस्तद्गण्डं भिन्दन्तौ बलवत्तरम् ॥ १५॥
स्त्रवद्रक्तः पपातोर्व्यां मूर्छितो गजराट् क्षणात् ।
ऐरावतः पपालाशु मुहूर्तात्प्राप्य चेतनाम् ॥ १६॥
करिणौ पृष्ठलग्नौ तौ दन्ताघातैर्निजघ्नतुः ।
ततस्तौ मत्तमातङ्गौ सभामध्यं समीयतुः ॥ १७॥
शुण्डाभ्यां मण्डपं तौ तु ताडयामासतुस्तदा ।
उत्तस्थुः सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः ॥ १८॥
यतो यतो गच्छतः स्म ततो देवाः पलायिताः ।
मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः ॥ १९॥
गणा ऊचुः ।
शिवं तत्र समाचख्युर्विघ्नमेतदुपस्थितम् ।
सेन्द्रा सभा मुनियुता विध्वस्ता गजभीतितः ॥ २०॥
ततः पलायिता गौरी सखीभिर्गृहमागता ।
बालस्ततो निरीक्ष्यतौ दन्तिनौ बलवत्तरौ ॥ २१॥
जगर्ज घनवच्छीघ्रं तयोः शुण्डे दधार ह ।
उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रतुः ॥ २२॥
भ्रामयित्वास्फालयत्स एकस्मिन्नपरं गजम् ।
उभौ तौ शतधा जातौ पतितौ धरणीतले ॥ २३॥
धरा च कम्पे वृक्षाश्च निपेतुश्चूर्णिता भुवि ।
ततः खण्डानि तान्याशू दूरतश्चिक्षिपुर्गणाः ॥ २४॥
बटुं जग्राह जननी शीघ्रमागत्य स्वे कटौ ।
सर्वे पलायिता देवा मुनयोऽनेन दानवौ ॥ २५॥
बालेन निहतौ शीघ्रमित्युवाच शिवां सखी ।
ततस्ते मीलिता देवा इन्द्राद्या मुनयोऽपि च ॥ २६॥
ऊचुर्गुणेशं ते सर्वे स्वामिन् सर्वगुणाकर ।
सर्वप्राणहरौ दैत्यो कापटयाद्गजरूपिणौ ॥ २७॥
निहतौ लीलया देव मायिनौ बलवत्तरौ ।
इत्युक्त्वा शक्रमुनयो देवाश्च विविशुः सभाम् ॥ २८॥
उपविष्टेषु सर्वेषु ननृतुश्वाप्सरोगणाः ।
ततो वाद्यान्यवाद्यन्त ब्रह्मारुद्रसमीपगः ॥ २९॥
दत्त्वा परस्परं प्रैषं बबन्ध मेखलां शिशोः ।
यज्ञोपवीतमजिनं होमं च समिधामपि ॥ ३०॥
कारयामास विधिवत् सावित्रीवाचनं ततः ।
ततो माता ददौ भिक्षामंशुके भूषणानि च ॥ ३१॥
उत्तरीयं च रत्नानि मुक्ताफलयुतानि च ।
लड्डूकान्भक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः ॥ ३२॥
ददौ नाम चकारास्य भालचन्द्र इति स्फुटम् ।
शूलपाणिरिति परं ततश्चक्रं हरिर्ददौ ॥ ३३॥
शोचिष्कशेति नामास्य चक्रे सम्यङमहात्मनः ।
ततः पुरन्दरः पूज्य कण्ठे चिन्तामणिं ददौ ॥ ३४॥
नाम चिन्तामणिरिति चक्रे सर्वार्थदं शुभम् ।
ददौ तदैव कमलमभ्यर्च्य कमलासनः ॥ ३५॥
विधातेति च नामास्य स्थापयामास संसदि ।
ततः सर्वे सुरगणाः समभ्यर्च्य गुणेश्वरम् ॥ ३६॥
नानाविधानि नामानि चक्रुः स्वस्वेच्छया सुराः ।
अदितिः कश्यपश्चाथ तं पुपूजतुरादरात् ॥ ३७॥
दर्शयामास देवोऽपि पूर्वरूपं तयोश्शुभम् ।
भालचन्द्रं दशभुजं मुकुटेन विराजितम् ॥ ३८॥
दिव्याम्बरं दिव्यगन्धं दिव्याभरणभूषितम् ।
सिंहारूढं विराजन्तमुरगोदरबन्धनम् ॥ ३९॥
दृष्ट्वेत्थमदितिर्हृष्टाऽऽलिलिङ्ग स्नेहनिर्भरा ।
रोमाञ्चितशरीरा सा प्रेमगद्गदनिःस्वना ॥ ४०॥
विस्मयं परमं प्राप्ता स्त्रवदश्रुजलाविला ।
परमानन्दमग्नाऽभूत्स्नेहस्नुतपयोधरा ॥ ४१॥
तथैव कश्यपो देहभावं तत्याज तत्क्षणात् ।
ऊचतुस्तौ सुतस्नेहाद् वत्सावां ते वियोगतः ॥ ४२॥
कृशतां गमितौ तेऽद्य दर्शनात्पुष्टतां गतौ ।
नायन्तव सुतेदानीं दीनौ त्वच्चरणे रतौ ॥ ४३॥
गजानन उवाच ।
प्रतिश्रुतं मया मातर्दास्ये दर्शनमेकदा ।
तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि ॥ ४४॥
सर्वान्तर्यामिणो मे वै वियोगो न कदाचन ।
क उवाच ।
एवं तु वदतोरेव पार्वती समुपागता ॥ ४५॥
उवाच परमप्रीता दृष्ट्वा स्नेहं तयोः शिशौ ।
अदिते देहि मे पुत्रं गृहीतं चिरकालतः ॥ ४६॥
नायं तव सुतः सुभ्रु सम्यक् पश्य शुचिस्मिते ।
साऽपश्यत् पुनरेवैनं स्वस्यैव तनयं विभुम् ॥ ४७॥
अदितिरुवाच ।
त्वमेव गौरि पश्याशु तनयं मे पुरः स्थितम् ।
साऽपश्यत्पुनरेर्वेनं गुणेशं तनयं स्वकम् ॥ ४८॥
अदितिस्तां ममेत्याह पार्वती तां ममेति च ।
एवं विवदमाने तु प्राहुर्देवाः सुविस्मिताः ॥ ४९॥
अनादिनिधनो देवः सृष्टिस्थित्यन्तकारकः ।
अनन्तरूपोऽनन्तश्रीरनेकशक्तिसंयुतः ॥ ५०॥
कस्या अयं भवेत्पुत्र उभे भ्रान्तेऽस्य मायया ।
ते ऊचतुः ।
यस्या अयं भवेत्पुत्रस्तस्या हस्ते प्रदीयताम् ॥ ५१॥
क उवाच ।
ततो देवा निरीक्षैनं नानारूपिणमीश्वरम् ।
कश्चिदाह विधाताऽयं कश्चिद्विष्णुं चतुर्भुजम् ॥ ५२॥
कश्चित्रिलोचनं प्राह वरुणं विस्मिताः सुराः ।
ऊचुस्ते निश्चयोऽस्माभिर्विधातुं नैव शक्यते ॥ ५३॥
भवतीभ्यां विवेकेन ग्राह्योऽयं परमः पुमान् ।
ततो गौरी गृहाणाशु तं विभुं तनयं स्वकम् ॥ ५४॥ (ततो गौर्यगृह्णादाशु?)
स्तनपानं ददौ स्नेहाददितिर्नीरसाऽभवत् ।
ममचेद्बालकोऽयं स्यात्कथं यायात्परं प्रति ॥ ५५॥
अहं भ्रान्त्याऽभवं सक्ता परस्य तनये वृथा ।
मुनयः कश्यपश्चैनं पुपूजुस्ते गुणेश्वरम् ॥ ५६॥
नमस्कृत्याभ्यनुज्ञाप्य ययुः स्वं स्वं निवेशनम् ।
भवानी च गृहं याता पुत्रमादाय हर्षिता ॥ ५७॥
ततः समागताः सर्वे प्रागमन्निलयान्स्वकान् ॥ ५८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः ॥ ९६॥
आदितः श्लोकानां समष्ट्यङ्काः - ८४१५ + ५८ = ८४७३
२.०९७ सप्तनवतितमोऽध्यायः
मुनिरुवाच ।
त्वया विनायको देवो मयूरेश्वरसंज्ञितः ।
ततो गुणेशनाम्ना मे महिमाऽयं निरूपितः ॥ १॥
स कथं प्राप तन्नाम किं च तेन कृतं महत् ।
कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग्विभो ॥ २॥
क उवाच ।
यथा तेन कृतं कर्म मयूरेश्वरनाम च ।
प्रापद्विनायको देवो निरूपिष्येऽखिलं तव ॥ ३॥
पातालभवने शेषः सभामध्यगतोऽभवत् ।
वासुकिप्रमखैः सर्वेः समन्तात्परिवारितः ॥ ४॥
तत्तः कद्रूः समायाता तेजोरूपा सुरूपिणी ।
मुक्तामणियुतं चारु बिभ्रती कञ्चुकं शुभम् ॥ ५॥
बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता ।
तां दृष्ट्वा जननीं शेषो वासुकिप्रमुखाश्च ये ॥ ६॥
नेमुर्मातर्बहुदिनैरभवद् दर्शनं तव ।
काङ्क्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरतां गता ॥ ७॥
इत्युचुस्तां करे धृत्वाऽस्थापयन् पैत्र्य आसने ।
पुपूजुः परया भक्त्या ततः शेषोऽब्रवीत्तु ताम् ॥ ८॥
शेष उवाच ।
त्वं मातः कश्यपस्यापि पत्नी चारुतरा सती ।
सर्वविद्यानिधानस्य सृष्टिस्थित्यन्तकारिणः ॥ ९॥
ब्रह्मादयो देवगणास्तत्त्वं यस्य न वै विदुः ।
त्वं चापि सहसा शापानुग्रहे च क्षमा ह्यसि ॥ १०॥
तव पुत्रा वयं मातस्त्रैलोक्यग्राससाहसाः ।
सा कथं त्वमिहायाता किमुद्दिश्य प्रयोजनम् ॥ ११॥
कद्रूरुवाच ।
विना प्रयोजनं पुत्र कोऽपि नायाति किञ्चन ।
तच्च ते कथयिष्येऽहं शृणु सादरमात्मज ॥ १२॥
विनता मे सपत्नी या जननी पुत्र पक्षिणाम् ।
तस्या दर्शनकाङ्क्षा मे कदाचित्सम्बभूव ह ॥ १३॥
अनादृता तयाऽहन्तु तद्गृहं सहसा गता ।
नासनं न च सत्कारं स्वागतं न च साऽकरोत् ॥ १४॥
पूर्ववैरं स्मरन्ती सा जटायुं पुत्रमादिशत् ।
तेन चाकर्षिता वेणी विवस्त्राऽहं कृता क्षणात् ।
मामुवाच महादुष्टे नावलोक्यं मुखं तव ॥ १५॥
मम मातुस्तु दासी त्वं पूर्वमासीः कृतं त्वया ।
तदा न करुणालेशो धृतो मनसि कर्हिचित् ॥ १६॥
इतो गच्छन चेत् प्राणान् गृहीष्यामि महाखले ।
श्रुत्वा तदीयवाक्यानि दुःखिताऽहं फणीश्वर ॥ १७॥
आक्रन्दं परमं प्राप्ता प्राणत्यागे तु निश्चिता ।
आगताऽहं ततो युष्मद्दर्शनार्थं सुदुःखिताः ॥ १८॥
यदि वो मयि भक्तिः स्यात् साहाय्यं क्रियतां मम ।
सत्पुत्रा यदि मान्याऽहं तदा तस्या विनाशनम् ॥ १९॥
कर्तव्यं च सपत्न्या मे ततो हृदि सुखं भवेत् ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्वितः ॥ २०॥
जज्वालसहसा वह्निर्घृतेनेव प्रदीपितः ।
मम मातुः कृता पीडा विनतातनयैर्यदि ॥ २१॥
तदाऽहं तत्प्रतीकारं करिष्यामि न संशयः ।
एवमुक्त्वा स शेषोऽथ वासुकिप्रमुखैर्युतः ॥ २२॥
तत्र गन्तुं मनश्चक्रे यत्र सा विनताऽभवत् ।
वासुकिरुवाच ।
अहमेव गमिष्यामि कोटिलागैर्युतोऽनघ ॥ २३॥
विनतामानयिष्यामि तिष्ठ त्वं भुजगाधिप ।
क उवाच ।
एवमुक्त्वा ययौ शीघ्रं वासुकिर्विनताश्रमम् ॥ २४॥
असङ्ख्यानुरगान् दृष्ट्वा बिभाय विनता तदा ।
तदैव वेष्टिता सर्पैः क्रूरैर्दुष्टस्वभावकैः ॥ २५॥
निन्युस्ते शेषनिकटं सा च तानब्रवीत् तदा ।
विनतोवाच ।
किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः ॥ २६॥
अपराधविहिनायाः पापिष्ठा गदताशु मे ।
मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः ॥ २७॥
अतो मुञ्चन्तु मां नो चेत्स संहारं करिष्यति ।
क उवाच ।
धार्ष्टयं तेषां समीक्ष्यैव सस्मार गरुडं तु सा ॥ २८॥
सोऽपि ज्ञात्वा स्मृतिं तस्या आगतः पक्षिभिः सह ।
श्येनः सम्पातिरथ च जटायुः पक्षिपुङ्गवः ॥ २९॥
येषां पक्षसमीरेण च कम्पे भुवनत्रयम् ।
भुजगास्ते तु सर्वेऽपि वमद्विषकणाभवन् (बभुः) ॥ ३०॥
युद्धमासीन्महाघोरं भुजगेन्द्रपतत्त्रिणाम् ।
ततो जटायुं सम्पातिं श्येनं बद्ध्वानयंस्तु ते ॥ ३१॥
मातुः स्मृते तु सम्प्राप्तो गरुडः पक्षघाततः ।
कम्पयञ्जगतीं सर्वा पातयन् द्रुमपर्वतान् ॥ ३२॥
तद्गन्धं भुजगा घ्रात्वा पलायनपरा ययुः ।
पक्षवातेन गगने बभ्रमुर्भुजगाः परे ॥ ३३॥
मुक्ता तु विनता बन्धात् स्वस्थानं गन्तुमुद्यता ।
तां दृष्ट्वा वासुकिः कुद्धो दहन् व्योम वमन् विषम् ॥ ३४॥
पक्षाघातेन गरुडोऽपातयद् भूतले च तम् ।
विनता तु गता वेगात् स्वस्था स्वस्थानमुत्तमम् ॥ ३५॥
प्रतापं वासुकेर्दृष्ट्वा गरुडः सूक्ष्मरूपधृक् ।
विनतां रक्षितुं यातो याते तस्मिंश्चुकोप ह ॥ ३६॥
वासुकिर्विषमत्यन्तमसृजज्जगतीं दहन् ।
नागलोकं निनायाशु बद्ध्वा तान् विवरेऽक्षिपत् ॥ ३७॥
पिधायद्वारं शिलया ततो मातरमभ्यगात् ।
उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः ॥ ३८॥
शुशोच विनता श्रुत्वा बद्ध्वा नीतान् सुतांस्तुतान् ।
प्रययौ कश्यपं शीघ्रं नमस्कृत्याब्रवीदिदम् ॥ ३९॥
विपरीतमिदं जातं प्रत्यक् सूर्योदयो यथा ।
गृहे स्थितां मामनयत् सहसा वासुकी रिपुः ॥ ४०॥
पृष्ठतोऽनुययौ श्येनो जटायुर्मोचितुं च माम् ।
सम्पातिः सर्पसङ्घांस्ते मारयामासुरोजसा ॥ ४१॥
पराजितेषु तेष्वाशु भुजगैबहुभिर्मुने ।
गरुडं चास्मरं तेन जित्वा सर्पगणाँस्तु तान् ॥ ४२॥
मोचिता चाणुरूपेण तेनाप्यागमनं कृतम् ।
जटायुस्तेन सम्पातिः श्येनो वासुकिना बलात् ॥ ४३॥
नीताः पातालविवरे पिधाय स्थापिता दृढम् ।
गमिष्यन्ति मम प्राणास्तान् विना निश्चितं मुने ॥ ४४॥
एतावद्दुःखतप्ताऽहं त्वयि नाथे सति प्रभो ।
क उवाच ।
इति श्रुत्वा प्रिया वाक्यं प्राह तां कश्यपो मुनिः ॥ ४५॥
मुनिरुवाच ।
मा चिन्तां कुरु भद्रे त्वं व्यतु ते मानसो ज्वरः ।
ऋतुं तेऽहं प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति ॥ ४६॥
अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः ।
क्रीडन्भेत्स्यति पादाभ्यां ततः पुत्रो भवेत्तव ॥ ४७॥
स नीलकण्ठो बलवान् नीलकण्ठ इवापरः ।
श्रवणात् तस्य शब्दस्य भुजगास्ते पराभवम् ॥ ४८॥
यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरम् ।
हरिष्यति तदा पत्राः मोक्ष्यन्ते नागबन्धनात् ॥ ४९॥
एवमुक्त्वा मुनिस्तस्यै रहो नीत्वा ऋतुं ददौ ।
विनताथ ययौ हर्षात् काननं जन्तुवर्जितम् ॥ ५०॥
कालेन सुषुवे चाण्डमभेद्यं वज्रपर्वतैः ।
मृद्भाण्डे वल्कलैर्वेष्टय निक्षिप्याण्डं स्थिराऽभवत् ॥ ५१॥
यथा भूमिगतं द्रव्यं भुजगो बलवत्तरः ॥ ५२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कद्रूविनिताकलहप्रसङ्गे कश्यपद्वारा विनतायां गर्भाधानं नाम सप्तनवतितमोऽध्यायः ॥ ९७॥
आदितः श्लोकानां समष्ट्यङ्काः - ८४७३ + ५२ = ८५२५
२.०९८ शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः
क उवाच ।
एवं गतं सप्तमेऽब्दे त्वष्टमे स गुणेश्वरः ।
उषःस्नात्वा स्थितो ब्रह्म जपन्वेदचतुष्टयम् ॥ १॥
कस्तूरीतिलको नानाभूषणैः सुविराजितः ।
दिव्याम्बरधरो दिव्यगन्धमालाविभूषितः ॥ २॥
ततस्ते तापससुता आगतास्तं गुणेश्वरम् ।
तद्दीप्त्या भासिताः सर्वेऽरुणदीप्त्या यथा घनाः ॥ ३॥
तान्दृष्ट्वाऽध्ययने बुद्धिर्जाता तस्यार्भकैः सह ।
सर्वेषां मस्तके हस्तं न्यधात् तत्समये विभुः ॥ ४॥
त्रिचतुः पञ्चवर्षाणां वेदस्फूर्तिस्ततोऽभवनत् ।
विना तु चेतनां शब्दो नभोवाण्या हि श्रूयते ॥ ५॥
चतुर्णामपि वेदानां सर्वे पारायणं व्यधुः ।
नाभक्षयन् पशुगणा ग्रासं मुखगतं तदा ॥ ६॥
श्रवणे तत्परा जाताः शब्दानां वेदचारिणाम् ।
समाप्ते वेदद्वितये सामगानमथारभन् ॥ ७॥
हरिणाः सिंहशार्दूला भुजगाः पक्षिजातयः ।
गानस्य श्रवणे सक्ता अश्रुपातान् प्रसुस्रुवुः ॥ ८॥
अष्टाशीतिसहस्राणि मुनयः श्रवणे रताः ।
आनन्दहृदसम्मग्नाः शेरते स्म यथा निशि ॥ ९॥
प्रमथाद्या गणाः सर्वे शिवाद्या हर्ष निर्भराः ।
अस्रवच्चामृतं चन्द्रः शिवभालस्थितस्तदा ॥ १०॥
तत्संसर्गाद्रुण्डमालारुण्डानि पुरूषा बभुः ।
लज्जिताः किन्नराः सर्वे गन्धर्वाश्चास्य गानतः ॥ ११॥
स्मरतप्ताः स्त्रियः शान्ता आरार्तिक्यं व्यधुस्तदा ।
तत्राजगाम सहसा दैत्यश्चाभिनवाकृतिः ॥ १२॥
यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा ।
हलदन्तो वापिनासस्तडागनयनोऽरिहा ॥ १३॥
स तु श्वापदरूपेण बभ्राम तत्र तत्र ह ।
पञ्चनेत्रश्चतुःशृङ्गो वसुपादश्चतुःश्रुतिः ॥ १४॥
त्रिमुखश्च द्विपुच्छोऽसौ जहासोच्चैर्निरीक्ष्य तम् ।
पश्यन्तु कौतुकं बालाः प्रोवाचेति शिशुन् विभुः ॥ १५॥
अत्यद्भुतं दृष्टमिदमित्यूचुस्ते गुणेश्वरम् ।
ततो दैत्यो ननर्तोच्चैरुड्डीय न्यपतद् भुवि ॥ १६॥
क्षणं लीनः क्षणं तिष्ठन् दृश्यादृश्यस्वरूपधृक् ।
ध्रीयता ध्रीयतामेष इत्युवाच शिशून्विभुः ॥ १७॥
इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः ।
पलायति महादैत्यो याति पृष्ठे स बालकैः ॥ १८॥
महारण्यं गताः सर्वे यत्र वायुर्न सर्पति ।
गर्जन्तिसिंहशार्दूला गजसूकरवानराः ॥ १९॥
तं धर्तुं तत्र यातोऽसावुड्डीय दैत्यपुङ्गवः ।
क्वापि यातो दूरदेशं ततः खिन्नो गजाननः ॥ २०॥
क्रोधसंरक्तनयनो मुमोच पाशमुल्बणम् ।
चकम्पे धरणी व्योम भ्रमन्मेघमभूत्तदा ॥ २१॥
न्यपतन् भानि खात्पृथ्वीं ककुभो व्यनदन्स्वनात् ।
स पाशो दैत्यमाक्रम्य क्षणेनायाद्गुणेश्वरम् ॥ २२॥
श्वासरोधात् पपातोर्व्यां लुण्ठन्पादौ भुजौ मुखम् ।
नेत्रद्वारा गताः प्राणाः पश्यत्सु बालकेष्वपि ॥ २३॥
पतितो रूपमास्थाय चतुर्विंशतियोजनन् ।
सपाशकण्ठं तं केचिद् विचकर्षुरितस्ततः ॥ २४॥
गुदे काष्ठं मुखे धूलिं प्राक्षिपन्चपरेऽर्भकाः ।
केचिन्मूत्रं पुरीषं च चक्रुस्तन्मस्तकेऽर्भकाः ॥ २५॥
गुणेशनिकटे याताः सवे बालाः क्षुधातुराः ।
रसालानि बभक्षुस्ते केच्चित्तन्मस्तके गताः ॥ २६॥
आजघ्नुः फलघातेन भूमिस्था उपरिस्थितान् ।
पतितान्यपरे खादन् ददृशुर्विनतां ततः ॥ २७॥
अण्डमाच्छाद्य तिष्ठन्ती साऽधावद् बालकान्प्रति ।
पलायमानाँस्तान्दृष्ट्वा विनता पृष्ठतो ययौ ॥ २८॥
निघ्नती पक्षवातेन श्वापदानि द्रुमानपि ।
गुणेशस्तत्समालोक्य लीनो वृक्षस्य कोटरे ॥ २९॥
ददर्शाण्डं श्वेततरं मण्डलं शशिनो यथा ।
दधार हस्ते सहसा गुणेशो बलवत्तरम् ॥ ३०॥
अस्फुटत्तत्र ददृशे पतत्त्री नीलकण्ठवान् ।
दीर्घपक्षो विशालाक्षो वमन् ज्वालाकणान्मुखात् ॥ ३१॥
व्याधूनयदुभौ पक्षौ कम्पयन् जगतीतलम् ।
चेलुवेलामतिक्रम्य समुद्रास्तस्य शब्दतः ॥ ३२॥
चचाल मण्डलं भानोरर्भकास्ते पलायिताः ।
पृष्ठतोऽनुययौ सोऽथ पक्षघातेन ताडयन् ॥ ३३॥
तद् दृष्ट्वा कदनं तेषां योद्धुकामो गुणेश्वरः ।
जग्राह पक्षे तं क्रूरं ततो युद्धमवर्तत ॥ ३४॥
पक्षघातैश्चञ्चुपुटैर्जघान पक्षिपुङ्गवः ।
आरक्तनयनः सोऽपि तं जघ्ने मुष्टिघाततः ॥ ३५॥
अतिदार्ढ्यं तस्य दृष्ट्वा चतुर्भिरप्यथायुधैः ।
गुणेशस्तं जघानाशु तानि पेतुर्धरातले ॥ ३६॥
उड्डीय स पपालाशु बालानादाय सत्वरः ।
गुणेशस्तान्समुन्मुच्य समारूढोऽण्डजे ततः ॥ ३७॥
वशे तमण्डजं कृत्वा चारुरोह गुणेश्वरः ।
ततस्तमाययुर्बाला विनतापि समाययौ ॥ ३८॥
तुष्टाव परमात्मानं गुणेशं तं धिया स्वया ।
त्वं सृष्टिकर्ता रजसा ब्रह्मा सत्त्वेन पालकः ॥ ३९॥
विष्णुस्त्वमसि तमसा संहरन् शङ्करोऽपि च ।
न देवा नर्षयस्तत्त्वं विदुस्ते सगुणस्य ह ॥ ४०॥
निर्गुणस्य तु को वेद चराचरगुरोरपि ।
एवं स्तुत्वाऽवदत् सा तं प्रणता भक्तितत्परा ॥ ४१॥
कश्यपस्य मुनेर्भार्यां विनतां विद्धि मामिह ।
तस्य पुत्रः शिखण्डी च सेवकस्ते भविष्यति ॥ ४२॥
मुनिना पूर्वमुक्तं मे योऽण्डमेतद् भिनत्ति च ।
सोऽस्य स्वामी न सन्देहो मोचयिष्याति ते सुतान् ॥ ४३॥
प्रतीक्षन्त्या मया दृष्टं पादपद्मं चिरन्तव ।
जटायुः श्येनसम्पाती नीता कद्रूसुतैस्त्रयः ॥ ४४॥
तान्मोचय जगन्नाथ शीघ्रं दर्शय मे सुतान् ।
गणेश उवाच ।
मा चिन्तां कुरु मातस्त्वं दर्शयिष्ये सुताँस्तव ॥ ४५॥
क उवाच ।
एवमुक्त्वा तु विनतां बहुहर्षसमन्वितः ।
शिखिनं च ततः प्राह वरं मत्तो वृणीष्व ह ॥ ४६॥
मयूर उवाच ।
यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम ।
तदा मन्नामपूर्वं ते नामाख्यातं भवेद्भुवि ॥ ४७॥
एतत्मे देहि सर्वेश तव भक्तिं दृढां तथा ।
देव उवाच ।
साधु साधु त्वया प्रोक्तं निर्लोभेनान्तरात्मना ॥ ४८॥
त्वन्नामपूर्वं मन्नाम मयूरेश्वर इत्यथ ।
विख्यातं त्रिषु लोकेषु भक्तिर्मयि दृढा भवेत् ॥ ४९॥
क उवाच ।
एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ ।
शिखण्डिनं समारूढो मयूरेशो निजं गृहम् ॥ ५०॥
मयूरेश मयूरेश मयूरेशेति चासकृत् ।
गृह्णद्भिर्मुनिबालैस्तैरन्वितः शोभयन्दिशः ॥ ५१॥
मातरं प्रणिपत्याह वृत्तान्तं सर्वमञ्जसा ।
वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान्ययुः ॥ ५२॥
इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः ॥ ५३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ॥ ९८॥
आदितः श्लोकानां समष्ट्यङ्काः - ८५२५ + ५३ = ८५७८
२.०९९ नवनवतिमोऽध्यायः
क उवाच ॥ १०॥
अद्भुतं कृतवान्वर्षे नवमेऽसौ गुणेश्वरः ।
शिखण्डिनं समारुह्य चतुरायुधभूषितः ॥ १॥
नानालङ्कारसंयुक्तो मृगनाभिजशोभितः ।
दिव्याम्बरधरो बालः क्रीडितुं समुपाययौ ॥ २॥
पूर्णचन्द्रनिभः श्रीमान् जयशब्दैरभिष्टुतः ।
केचिन्नमन्ति तं बालाः केचिच्छत्रं ध्वजं परे ॥ ३॥
दध्रु केचिद् द्विजयन्तस्तद्दर्शनमहोत्सवाः ।
क्रीडन्तः सरसीं याताः पञ्चयोजनविस्तृताम् ॥ ४॥
अगाधोदां नक्रझषकूर्ममण्डूकसंयुताम् ।
लतातरुपरीवारां नानापक्षिगणैर्युताम् ॥ ५॥
उड्डीय पतिताः केचित्तस्यां केचिच्छनैर्ययुः ।
चूतं तत्तीरगं दृष्ट्वा विशालं फलसंयुतम् ॥ ६॥
आरुरोह मयूरेशो बालाः फलजिघत्सया ।
रसालैस्ते निजघ्नुस्तानभिन्नाङ्गान्न्पलायिताः ॥ ७॥
बालाः स्कन्धान् दारयन्तो निपेतुः केऽपि तज्जले ।
एवं क्रीडत्सु बालेषु दैत्योऽगादश्वरूपवान् ॥ ८॥
यस्य पादप्रहारेण चूर्णतां यान्ति पर्वताः ।
यस्य ह्रेषितशब्देन कम्पते भुवनत्रयम् ॥ ९॥
पुच्छचाञ्चल्यतो जीवान्हन्ति स्कन्धं जघर्ष ह ।
यस्मिंश्चूतेऽस्य शब्देन कम्पिते पतिताऽर्भके ॥ १०॥
केचित्पलायिता बालाः केचिद्भग्नाश्च मस्तके ।
केचिन्निपतिताश्चाशु गुणेशो पतिते जले ॥ ११॥
निमग्ने द्विमुहूर्तेऽस्मिन्प्रारुदन्मुनिबालकाः ।
किं वक्तव्यमुमायै च दर्शनीयं मुखं कथम् ॥ १२॥
शङ्करोऽपि रुषाविष्टो भस्मसान्नः करिष्यति ।
अगाधेऽस्मिजले मग्नं प्रवेष्टुं च न शक्नुमः ॥ १३॥
माता पिता पालयिता भ्राता त्राता सखा च नः ।
क उवाच ।
एवं शोचत्सु बालेषु मयूरेशो दधार तम् ॥ १४॥
कर्णयोर्जलमध्ये तु चकर्ष बलवान्विभुः ।
आरुरोह बलाद् दैत्यं भारेणामज्जयन्मुहुः ॥ १५॥
स दैत्यो निर्वमन्नेत्रान्मुखाद्बहु जलं मुहुः ।
जलपूर्णश्रुतिश्वासोऽत्यजत् प्राणान्महारवः ॥ १६॥
एकहस्तेन धृत्वा तं दोलयित्वा जलाद् बहिः ।
मयूरेशस्ततो बाला जहर्षुर्ननृतुर्भृशम् ॥ १७॥
भुवि ते शतधा जातं ददृशुर्दैत्यपुङ्गवम् ।
प्रशशंसुर्मयूरेशं महाबलपराक्रमम् ॥ १८॥
त ऊचुस्तं तदा देवं मृतं मत्वा रुदामहे ।
तावदेव हि दृष्टोऽसि हतदैत्यो बहिर्गतः ॥ १९॥
पुनस्ते जलमाविश्य प्रासिञ्चन्नञ्जलीन्मिथः ।
एकमत्या च सर्वे ते प्रासिञ्चन् गणनायकम् ॥ २०॥
वर्षाकाले यथा मेघा धरणीं पर्वतानपि ।
षड्भुजैः परिषिञ्चन् सन्नपर्याप्तोऽभवद् यदा ॥ २१॥
तदाऽसङ्ख्यभुजैर्वारी चिक्षेप बालकेषु सः ।
तदाश्चर्यं तु ते दृष्ट्वा परस्परमथाब्रुवन् ॥ २२॥
षड्भुजोऽयं कथमभूदनन्तभुजमण्डितः ।
मन्दीभूता मुनिसुताः क्व द्विहस्ता वयं विभो ॥ २३॥
असङ्ख्यभुजवीर्यौजाः क्व च त्वं भुवनेश्वर ।
पुनः सर्वे सिषिञ्चुस्ते मयूरेशं रुषान्विताः ॥ २४॥
सोऽनन्तरूपस्तान् सर्वान् सिषेचे गणनायकः ।
एकैकस्याग्रतो भूत्वा षड्भुजो निजतेजसा ॥ २५॥
तावच्छिखण्डिनिष्ठोऽसौ चतुरायुधभूषितः ।
प्रणेमुस्तेऽन्जलिपुटं बध्वा देवं गुणेश्वरम् ॥ २६॥
पश्यन्तस्तन्मुखे विश्वं सर्वस्वर्गान्वितं तु ते ।
गन्धर्वयक्षरक्षांसि सरिदब्धिमानपि ॥ २७॥
सर्वं चराचरं विश्वं सदेवासुरमानुषम् ।
प्रार्थयामासुरथ ते दृष्ट्वेत्थं ते भयातुराः ॥ २८॥
बाला ऊचुः ।
न विदामः स्वमात्मानं परं वा नापि किञ्चन ।
एकरूपो भव विभो कृपां कृत्वाऽखिलेश्वर ॥ २९॥
क उवाच ।
इति तत्प्रार्थनां श्रुत्वा जातोऽसौ पूर्ववद् विभुः ।
एतस्मिन्नन्तरे तत्र चिक्रीडुर्नागकन्यकाः ॥ ३०॥
या निरीक्ष्यावच्चाष्टनायिकानां त्रपा भृशम् ।
नेत्रे निरीक्ष्य ह्रीमन्त्यः प्रापलन् हरिणस्त्रियः ॥ ३१॥
अतिसुन्दरगात्रास्ताः सर्वालङ्कारभूषिताः ।
ता निरीक्ष्य मयूरेशं विव्हला मदनाग्निना ॥ ३२॥
ता ऊचुश्च मिथः सर्वा अयं भर्ता भवेद् यदि ।
सफलं नस्तदा जन्म जीवितं च वयोऽपि च ॥ ३३॥
धैर्यात् तमूचुस्ताः सर्वाः कुत आगमनं तव ।
दृष्ट्वा ते वदनं चेतो विव्हलं नोऽभिजायते ॥ ३४॥
विश्रान्तं कुरु चेतो नः स्वाङ्गसङ्गान्नृषूत्तम ।
देव उवाच ।
अहं शिवसुतो नाम्ना मयूरेश इति स्फुटम् ॥ ३५॥
विख्यातो मुनिपुत्रैस्तु मज्जितो बलवत्तरैः ।
दृष्टवान् पादकमलं भवतीनां प्रसङ्गतः ॥ ३६॥
ता ऊचुः ।
अस्मद्गृहे क्षणं स्थित्वा विश्रामं कर्तुमर्हसि ।
देव उवाच ।
पार्वती मद्वियोगेन परितप्येद् भृशं यतः ॥ ३७॥
अतो नायामि वः स्थानं गच्छन्तु नागकन्यकाः ।
क उवाच ।
एवं वदति तस्मिंस्तु धृत्वा निन्युर्गृहं तु ताः ॥ ३८॥
तमदृष्ट्वा पुनः शोकं व्यधुर्मुनिसुतास्तदा ।
बाला ऊचुः ।
कथं कठिनतां यातो दयालुः स गुणेश्वरः ॥ ३९॥
अमृतस्त्राविकिरणो न चन्द्र उष्णतां व्रजेत् ।
न पिता त्यजते बालानपराधायुते सति ॥ ४०॥
क्व गतोऽसि विना त्वां हि गमिष्यन्ति हि नोऽसवः ।
क उवाच ।
केचिन्निपतिता भूमौ केचिद्भालं निजघ्निरे ॥ ४१॥
केचिद् ययुः स्वाश्रमं ते पथि तस्य पदाम्बुजे ।
दृष्ट्वा नेमू रुदन्तस्ते ददृशुस्ते भगासुरम् ॥ ४२॥
मूर्धजाघाततो यस्य भानि भूमौ निपेतिरे ।
शतयोजनपादाब्जो भूमावास्यं प्रसार्य सः ॥ ४३॥
तेषां मार्गे प्रसुष्वाप ततस्ते शिशवो ययुः ।
ध्यायन्तस्तं मयूरेशं शोचन्तः पथि विव्हलाः ॥ ४४॥
उदरे तस्य ते याता आपगा जलधीनिव ।
भ्रान्ताः परस्परं चक्रुर्वार्ता नानाविधास्ततः ॥ ४५॥
मयूरेशो गतः क्वापि वयं कुत्र व्रजामहे ।
न जानीमो दिशं सर्वे नो दृश्यन्ते गृहाणि च ॥ ४६॥
इन्द्रियाणामधिपतिर्मनो नीतं तु तेन नः ।
विना नो मनसा ज्ञानं कथमुत्पत्स्यतेऽर्भकाः ॥ ४७॥
क्व मातरो भ्रातरो वा पितरः क्व गुणेश्वरः ।
एवं वदत्सु बालेषु मयूरेशोऽखिलार्थकृत् ॥ ४८॥
आविरासीत् पुरस्तेषां चतुरायुधभूषितः ।
गुणेश उवाच ।
मा शोचन्तु भवद्दुःखं ज्ञात्वाऽहं शीघ्रमागतः ॥ ४९॥
भगासुरोदरगता नात्मानं विदुरर्भकाः ।
क उवाच ।
निद्रया मोहयामास मुनिपुत्रान् गुणेश्वरः ॥ ५०॥
दैत्यदेहान्तरगतो ववृधे वामनौ यथा ।
विपाटय देहं तस्याशु शकले द्वे व्यधाद् विभुः ॥ ५१॥
ततोऽस्तमित आदित्ये नागतेष्वर्भकेषु च ।
मातरः पितरश्चैव चिन्तामापुः शुचान्विताः ॥ ५२॥
ऊचुः परस्परं ते तु शिवापुत्रो महाबलः ।
बालान् नीत्वा गतः कुत्र मृतो वा शिशुभिः सह ॥ ५३॥
जीवँश्चेदागतः स स्यात् सायंकाले बुभुक्षितः ।
केचित् प्राणान् विना तैस्तु तत्यजुर्मातरोऽपि च ॥ ५४॥
केचिदूचुरुमायै तद् वृत्तं सर्वं निवेद्य ताम् ।
केचित् तेषु वनं याता बभ्रमुर्वनपर्वतान् ॥ ५५॥
नापुस्तं च स्वकान् बालान् खिन्नाः प्रापुर्गृहान्पुनः ।
नानाकोलाहलं चक्रुर्जनन्यः पितृसोदराः ॥ ५६॥
तेषामाक्रन्दितं श्रुत्वा कृपालुः स मयूरराट् ।
तत्तद्रूपं स्वमात्मानं तत्तद्भूषासमन्वितम् ॥ ५७॥
तत्तद्वासःपरीधानं तत्तच्छीलगुणान्वितम् ।
तत्तदङ्गं चकाराशु विवेशासौ गृहे ततः ॥ ५८॥
कृत्वा तत्तद्वयोवेषं तत्तन्मानयुतं शुभम् ॥
जनन्यास्ताः समुस्थाय बालानादाय सत्वराः ॥ ५९॥
स्तनपानं ददुः प्रीत्या परमानन्दनिर्भराः ॥
ततो ददृशिरे बालाः पितृभिर्मातृभिस्तदा ॥ ६०॥
ता ऊचुः क्व स्थिता रोषादुषःकाले गताः कुतः ।
न स्नानं न च भुक्तं वा न चान्यद् वापि भक्षितम् ॥ ६१॥
मयूरेश्वरसङ्गेन नेदानीं गन्तुमर्हथ ।
क उवाच ।
एवं शिक्षाप्य तान् बालानालिङ्ग्य बुभुजुः सुखम् ॥ ६२॥
शिवापि पुरतोऽपश्यन्मयूरेशं समागतम् ।
आलिङ्ग्य परिपप्रच्छ किं भुक्तं वनगोचरे ॥ ६३॥
त्वद्वियोगजदुःखेन मया किञ्चिन्न भक्षितम् ।
स्तनौ पिब पयोवृद्धौ भोजनं च समाचर ।
ततः सर्वं चकारासौ मातृवाक्यं गुणेश्वरः ॥ ६४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे मयूरेशपातालप्रयाणं नाम नवनवतिमोऽध्यायः ॥ ९९॥
आदितः श्लोकानां समष्ट्यङ्काः - ८५७८ + ६४ = ८६४२
२.१०० भगासुरवधो नाम शततमोऽध्यायः
क उवाच ।
अनेकरूपवान् देवो मयूरेशोऽखिलेश्वरः ।
अतिसुन्दरदेहः सन्नागकन्याभिराहृतः ॥ १॥
गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तरात् ।
सुगन्धतैलोद्वर्तनैः स्नाप्योष्णैरपि तं जलैः ॥ २॥
दिव्यवस्त्रैरलङ्कारैश्चन्दनैरपि पूज्य च ।
धूपदीपैश्च नैवेद्यैः फलताम्बुलकाञ्चनैः ॥ ३॥
ऊचुः करपुटं बद्ध्वा वयं धन्यतमा विभो ।
यद् दृष्टन्ते पदं देव ब्रह्माद्यैरपि काङ्क्षितम् ॥ ४॥
नागलोको धन्यतमो जीवितं नः सुजीवितम् ।
आनन्दहृदमग्नं नो मानसं तापमत्यजत् ॥ ५॥
यद्यत्ते ईप्सितं देव तत्तदत्रापि गृह्यताम् ।
अत्र स्थित्वा कति दिनं पश्चात्त्वं गन्तुमर्हसि ॥ ६॥
मयूरेश उवाच ।
वाञ्च्छितं वो विधास्येऽहं गिरिजा मां प्रतीक्षते ।
मद्वियोगेन तप्ता सा न भक्षयति किञ्चन ॥ ७॥
यूयं कस्यात्मजास्तस्य दर्शनं चेद् भवेन्मम ।
क उवाच ।
तत ऊचुर्नागकन्या वासुकेः पुत्रिका वयम् ॥ ८॥
ब्रह्माद्या मुनयो देवा यान्ति यस्य गृहं सदा ।
यस्य विषभवा ज्वाला दहत् त्रिभुवनं विभो ॥ ९॥
क उवाच ।
इत्युक्त्वा तं पुरस्कृत्य पितरं प्रापुरङ्गनाः ।
रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युतम् ॥ १०॥
सूर्यकोटिनिभं रत्नमालया शोभितं तदा ।
मूर्धस्थरत्नकिरणैर्भासयन्तं दिशोऽखिलाः ।
तं दृष्ट्वा वासुकिं देवो गर्वितं बलवत्तरम् ॥ ११॥
उड्डीय तत्फणासंस्थं मणिं जग्राह सत्वरम् ।
येन पातालविवरे नान्धकारोऽभवत्किल ॥ १२॥
आन्दोलयामास शिरः कम्पयन् सप्तपर्वतान् ।
उदधीन् सप्तस्वर्गांश्च पातालानि रसातलम् ॥ १३॥
हस्तेनैकेन तं गृह्य मयूरेशः स्वलीलया ।
वासुकिं निजकण्ठे तं बबन्ध सर्पभूषणः ॥ १४॥
विख्यातः स्वर्गलोकेऽभूज्जगर्जानन्दतो विभुः ।
तद्गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयम ॥ १५॥
ततः सर्पगणाः शेषं नीतुं वासुकिमब्रुवन् ।
स च क्रोधसमाविष्टो विस्तार्य निखिलान्फणान् ॥ १६॥
विषाग्निमुत्सृजन्दग्धुं त्रैलोक्यमुपचक्रमे ।
उवाच कः क्षमो जेतुं मम बन्धुं तु वासुकिम् ॥ १७॥
आवेशेन ययौ रोषाद् दावानल इव ज्वलन् ।
शीघ्रं यातो मयूरेशं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १८॥
ततो नागकुलान्याशु तं शेषमन्वयुस्तदा ।
ततः पन्नगवृन्दं तं दृष्ट्वा देवो व्यतिष्ठत ॥ १९॥
शिखण्डिमस्तके हस्तं न्यधाद् युद्धाय पन्नगैः ।
स ययौ तं नमस्कृत्य ग्रसन्निव महाद्भुतः ॥ २०॥
दुधाव पक्षौ तद्वाताद् भ्रामयन् भुजगोत्तमान् ।
काँश्चित् स भक्षयामास चुचूर्ण चापरानपि ॥ २१॥
मारयामास कांश्चित्स भुजगान्बलवत्तरान् ।
निरीक्ष्य तं मृताः केचित् पन्नगा भयविव्हलाः ॥ २२॥
दृष्ट्वा पराक्रम तस्य शेषः श्वासमपासृजत् ।
शिखण्डी पतितस्तेन मूर्छितो धरणीतले ॥ २३॥
मयूरेशं ततः शेषो ययौ क्रोधाद् दहन्निव ।
त्रैलोक्यं विषवन्हिस्थं समालोक्य गुणेश्वरः ॥ २४॥
विराट्रूपं समास्थाय रुरोह तत्फणोपरि ।
उड्डीय बालभावेन गर्जन्मेघ इवापरः ॥ २५॥
ननर्त करतालेन पादाघातेन मर्दयन् ।
अनन्तकोटिब्रह्माण्डभारेण परिपीडितः ॥ २६॥
एकब्रह्माण्डवाही स कथं तद्भारमावहेत् ।
बबन्ध शेषं हि कटौ रज्जुं बालो यथा रमन् ॥ २७॥
ततस्ते भुजगाः सर्वे योद्धु कामास्तमन्वयुः ।
हुङ्कारेणैव तान् सर्वान् पातयामास विघ्नराट् ॥ २८॥
अबध्नान्मस्तके कांश्चित्कांश्चिच्च कर्णयोर्विभुः ।
परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरम् ॥ २९॥
न स्वरूपं विदुर्देवा ब्रह्माद्या मुनयोऽपि च ।
त्वमेव सृजसे विश्वं पासि हंसि त्वमेव हि ॥ ३०॥
नानावतारकर्ता त्वं नानादैत्यविमर्दनः ।
त्वमेव साक्षी सर्वस्य सर्वान्तर्यामितां दधत् ॥ ३१॥
सर्वत्रकारणं त्वं हि कारणानां च कारणम् ।
अज्ञानादभिमानेन योद्धुकामान् क्षमस्व नः ॥ ३२॥
सम्पातिञ्च जटायुं च श्येनमानीय सर्पराट् ।
निवेद्य च नमस्कृत्य शेषस्तूऽणीं बभूव ह ॥ ३३॥
तेऽपि तं प्रणिपत्याहुर्दीननाथ प्रसादतः ।
बन्धान्मुक्ताः सर्पकृतान्नमस्ते परमेश्वर ॥ ३४॥
क उवाच ।
एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः ।
आलिलिङ्गुर्मुदा युक्तास्तदा गद्गदभाषिणः ॥ ३५॥
पप्रच्छुः कुशलं मात्रे ते च क्षेममथाब्रुवन् ।
ततः शिखण्डिनं सोऽथ रुरोह गणनायकः ॥ ३६॥
पातालाद् धरणीं प्रायात् स्त्रीभिश्च संयुतो वशी ।
भगासुरं ददर्शार्द्धमार्गे शिशुहरं च तम् ॥ ३७॥
उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु ।
तत्याज कण्ठे तं तस्य पशुमारममारयत् ॥ ३८॥
तच्छिरः परिबभ्राम शृङ्गं वज्राहतं यथा ।
ततस्तदुत्थिता बाला योगमायाविमोहिताः ॥ ३९॥
मयूरेशः क्व चास्तीति प्राकोशन् सर्व एव ते ।
आसने क्रीडने स्वापे जागृतौ भोजनेऽपि च ॥ ४०॥
तमेव ध्यायमानास्ते तन्मुखाद्बहिराययुः ।
गर्भवासादिवोत्तीर्णा ददृशुस्तं गुणेश्वरम् ॥ ४१॥
दृष्ट्वा ते रुरुदुः स्नेहादालिलिङ्गुर्मदाखिलाः ।
ते ऊचुः ।
त्यक्त्वाऽस्मान्दैत्यजठरे मृतान् क्वास्ति गतो भवान् ॥ ४२॥
त्वत्स्मृतेस्तस्य जठरे जीविता निर्गतास्ततः ।
मयूरेश उवाच ।
सर्वव्यापी सर्वगतः सर्ववेत्ताऽखिलेश्वरः ॥ ४३॥
न त्यक्त्वान्कदाचिद् वो मा चिन्तां कर्तुमर्हथ ।
क उवाच ।
ततो ययौ मयूरेशो बालकैः परिवेष्टितः ॥ ४४॥
केचिद् धावन्ति पुरतो नानाशब्दकरा भृशम् ।
केचिच्छत्रधराः केचिद् दण्डचामरधारिणः ॥ ४५॥
धूलिध्वजं समालोक्य ययुर्मुनिगणा बहिः ।
शिख्यारूढं मयूरेशं बालकैः परिवेष्टितम् ॥ ४६॥
ऊचुः परस्परं सर्वे मुनयो विस्मयान्विताः ।
गृहेऽस्मिन् शिशवश्चामी कुतोऽन्येऽस्य समीपतः ॥ ४७॥
तांश्च तान् मीलिताः सर्वेऽपश्यन् ते देवरूपिणः ।
विचारेण च तान् सर्वे परब्रह्मस्वरूपिणः ॥ ४८॥
आनन्दहृदमग्नास्ते न विदुः स्वपरं पुनः ।
नापश्यँस्ते पुनस्ताँस्तान्भ्रान्ता इव व्यलोकयन् ॥ ४९॥
मायया मोहिताः सर्वे स्वान् स्वान् बालान् व्यलोकयन् ।
कश्चित् पितरमासाद्य पठति स्म यथा पुरा ॥ ५०॥
कश्चिन्मातरमासाद्य पिबतिस्म स्तनं मुदा ।
आलिलिङ्गाथ जननीं पितरं वापि कश्चन ॥ ५१॥
भ्रातरं ताडयित्वाऽन्यो रुरोद ताडनादिव ।
उमापि तनयं दृष्ट्वालिङ्ग्य प्रादात् स्तनं मुदा ॥ ५२॥
कथं चिरतरं यात इति क्रोधादभाषत ।
आदाय हस्ते गिरिजा मयूरेशं गृहं ययौ ॥ ५३॥
सर्वे ते मुनयो जग्मुः शिशुभिः स्वं स्वमाश्रमम् ॥ ५४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम शततमोऽध्यायः ॥ १००॥
आदित श्लोकानां समष्ट्यङ्काः ८६४२ + ५४ = ८६९६
२.१०१ दैत्यसेनावधो नाम एकशततमोऽध्यायः
क उवाच ।
ततस्तु दशमे वर्षे सुखासीनं महेश्वरम् ।
गिरिजासहितं वामे सप्तकोटिगणान्वितम् ॥ १॥
नृत्यन्तं तं मयूरेशं पश्यन्तं स्वाङ्गणे शिशुम् ।
आययुर्मुनयः सर्वे गौतमाद्याः प्रणम्य तम् ॥ २॥
ऊचुः प्रबुद्धमतयो महादेवं महौजसम् ।
यावत्कालं शिवात्र त्वं मयूरेशसमन्वितः ॥ ३॥
स्थितोऽसि तावद् दैत्यानामनन्तानां समागमः ।
वयं तेन प्रपीडयामोऽन्यत्र याहि शिवाधुना ॥ ४॥
वयं वाऽन्यत्र गच्छामो यद्याज्ञा ते भवेद्धर ।
शिव उवाच ।
भवत्सङ्गेन च मया नववर्षाणि सौख्यतः ॥ ५॥
अतिक्रान्ताति विघ्नानि मयूरेशेन तानि च ।
भवतां गमनेऽस्माकं स्थित्वा किन्नु प्रयोजनम् ॥ ६॥
अहमेव प्रयास्यामि स्थलमन्यन्निराकुलम् ।
क उवाच ।
इति शम्भुवचः श्रुत्वा मुनयस्तं प्रणम्य ते ॥ ७॥
जय देव मयूरेशेत्युक्त्वा स्वस्थानमाययुः ।
शिवोऽपि गणसंयुक्तो वृषारूढोऽम्बिकायुतः ॥ ८॥
बर्ह्यारूढं मयूरेशं पुरस्कृत्य मुदान्वितः ।
नानावादित्रनिर्घोषैर्नादयन्विष्टपं ततः ॥ ९॥
अन्वयुर्मुनयः सर्वे मयूरेशं शिवान्वितम् ।
पत्न्योऽपि बालकैः सार्द्धं स्नेहगद्गदभाषिभिः ॥ १०॥
रजसा व्योमनि तते न प्राज्ञायत किञ्चन ।
परावृत्य शिवः सर्वान्दक्षिणाभिमुखो ययौ ॥ ११॥
ददृशुर्मार्गमध्ये तं द्वादशाक्षौहिणीयुतम् ।
कमलासुरमायान्तं धूलिधूसरिताम्बरम् ॥ १२॥
गजाश्च पुरतो यान्ति रथाश्वपादचारिणः ।
न ज्ञायते रवेस्तेजः शस्त्रदीप्त्याथ किञ्चन ॥ १३॥
कोलाहलो महानासीद् गजाश्वरथपत्तिजः ।
नानाविधानां शस्त्राणां सङ्घट्टस्वनमिश्रितः ॥ १४॥
ददृशुस्तं महादैत्यं शिवचाराः पुरो गताः ।
शङ्खासुरस्य तं बन्धु नानाभूषाविराजितम् ॥ १५॥
नानायुधधरं प्रोचुरागत्य तु शिवं गणाः ।
पादाघातेन तस्याशु कम्पते कमठादयः ॥ १६॥
मुनयोऽग्रेचराः पेतुर्भयभीतास्तमब्रुवन् ।
मयूरेश महाभाग कथं रक्षसि नोऽखिलान् ॥ १७॥
क उवाच ।
इति तद्वचनं श्रुत्वा प्रावदत् स गुणेश्वरः ।
विद्यमाने शिवे चिन्ता न कार्या मुनिपुङ्गवा ॥ १८॥
मयूरेशो हरं प्राह नमस्कृत्य ततः पुनः ।
देव उवाच ।
महासेनायुतो दैत्यो नाम्नाऽसौ कमलासुरः ॥ १९॥
यदि तेऽनुग्रहो मे स्याद् युद्धायाशु व्रजाम्यहम् ।
शिव उवाच ।
सम्यगुक्तं त्वया पुत्र हृदयानन्दनं वचः ॥ २०॥
द्वादशाक्षौहिणीसेनायुतोऽसौ दैत्यपुङ्गव ।
एकाकी कथमायासि सप्तकोटिगणैर्युतः ॥ २१॥
व्रजाप्नुहि जयं शीघ्रं जहि शत्रुं महाबलम् ।
देव उवाच ।
तव प्रसादात् त्रैलोक्यं दहेयमिति मे मतिः ॥ २२॥
कियन्तो न हता दैत्या न ज्ञातास्ते त्वया नु किम् ।
अस्य का गणना स्वामिन्नायास्ये जयवानहम् ॥ २३॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यं शम्भूरालिङ्ग्य तं ददौ ।
त्रिशूलं पुत्रहस्ते तन्मूर्ध्नि न्यस्य करं शुभम् ॥ २४॥
आज्ञां ददौ स्वपुत्राय गणयुक्ताय शङ्करः ।
क्ष्वेडितैर्जयशब्दैश्च नादयन्स दिशो दश ॥ २५॥
प्रययौ प्रमथैर्युक्तो विघ्नहा युद्धलालसः ।
वृषारूढः शिवायुक्तो हरोऽपि द्रष्टुमन्वगात् ॥ २६॥
दृष्ट्वाऽपारां दैत्यसेनां मयूरेशः शरीरतः ।
निर्ममे बहुलां सेनां ततो युद्धमवर्तत ॥ २७॥
कालानुरूपास्ते वीरा ब्रह्माण्डाशनतत्पराः ।
मेरोरधिकमानास्ते शब्दतः शृङ्गपातिनः ॥ २८॥
परस्परं निजघ्नुस्ते तुमुले संयुगे ततः ।
अन्धकारो महानासीद् रजसाच्छादिता दिशः ॥ २९॥
विस्मयं चक्रिरे दैत्या इदानीमयमेकलः ।
अनेकतां कथं यातस्तस्मादेष परः पुमान् ॥ ३०॥
भूभारं हर्तुकामोऽयमवतीर्णः शिवालये ।
सोऽपि दीर्घतरं रूपं दधार सहसा विभुः ॥ ३१॥
दृष्ट्वा दीर्घं दैत्यरूपं योगमायासमावृतः ।
दशायुधधरो देवो दशहस्तो महाबलः ॥ ३२॥
मयूरेशश्च दैत्यश्च युध्यमानौ विरेजतुः ।
नानाशस्त्रप्रहरणैर्नानायुद्धविशारदैः ॥ ३३॥
व्यस्ताव्यस्तमयुध्यन्त गणाः सेनाचराश्च ते ।
मुष्टिप्रहारैर्दन्तैश्च शस्त्रास्त्रैरितरेतरम् ॥ ३४॥
केषाचिन् मस्तका भग्ना अपरेषां मुखानि च ।
जानुजङ्घाविरहिता निपेतुरपरे रणे ॥ ३५॥
गर्जयन्तो दश दिशः शस्त्रास्रघातनिस्वनैः ।
स्वामिस्वनामतो जघ्नुरन्धकारे रजस्कृते ॥ ३६॥
कबन्धामारयँस्तत्र परान्स्वानपि सम्मुखम् ।
दैत्यसेनाचरा भग्ना दैत्यमेवान्वयुस्तदा ॥ ३७॥
असङ्ख्यातान् मृतान्प्राहुर्नद्यस्तु रक्तसम्भवाः ।
दैत्य उवाच ।
इन्द्रादयो लोकपाला ब्रह्माद्या देवतागणाः ॥ ३८॥
निर्जिता येन तेनेह को युद्धं कुर्तुमुत्सहेत् ।
भूगोलं न्युब्जतां नेतुं कोऽन्यः शक्तो भविष्यति ॥ ३९॥
क उवाच ।
इत्युक्त्वान्दोलयामास शस्त्रान्दोलनतो जगत् ।
क्रोधसंरक्तनयनो मारयामास दैत्यराट् ॥ ४०॥
मयूरेशगणान् सर्वान् नानावाहनहेतिकान् ।
शिरःपादाकृत्तिहस्तान् भित्त्वाऽपातयदाहवे ॥ ४१॥
उत्कर्षं तस्य तं दृष्ट्वा मयूरेषो ययु पुरः ।
स्वर्गं च गर्जयन् व्योम दशशस्रैर्द्विषोऽहनत् ॥ ४२॥
असङ्ख्याता हता दैत्या मुक्तिं प्रापुः सुदुर्लभाम् ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यसेनावधो नामैकशततमोऽध्यायः ॥ १०१॥
आदितः श्लोकानां समष्ट्यङ्काः - ८६९६ + ४३ = ८७३९
२.१०२ कमलासुरसङ्ग्रामो नाम द्व्युत्तरशततमोऽध्यायः
क उवाच ।
विनष्टे बहुधा सैन्ये रुरोहाश्वं स दैत्यराट् ।
खड्गपाणिर्ययौ योद्धुं मयूरेशं रुषान्वितः ॥ १॥
तं दृष्ट्वा तु मयूरेशो रुरोह स्वं शिखण्डिनम् ।
तं दृष्ट्वा शीघ्रमायान्तं पन्नगास्त्रं स दैत्यराट् ॥ २॥
जप्त्वा मन्त्रं च शतधा भार्गवादिष्टमादरात् ।
ससर्ज पन्नगास्त्रं तत्तेजसा जज्वलुर्दिशः ॥ ३॥
सर्पसैन्यैरवेष्ट्यन्त देवसेनाचरा नराः ।
मृताः केचिद् गताः केचित् पातिताश्चापरेऽवनौ ॥ ४॥
ननन्द देवस्तं दैत्यमतिवीर्यपराक्रमम् ।
साधु युध्यसि दैत्येन्द्र नेदृशः कोऽपि वीक्षितः ॥ ५॥
एवमुक्त्वा रिपुं देवो गरुडास्त्रमवासृजत् ।
ततः पलायिताः सर्पाः प्रोत्तिष्ठँश्च चमूचराः ॥ ६॥
चक्रास्त्रमसृजद्देवो दैत्यसेनानिबर्हणम् ।
तेन केचिन्मृता दैत्याः केचिच्छिन्नाङ्घ्निमस्तकाः ॥ ७॥
विभिन्नजानुजङ्घाश्च छिन्नगुल्फाः परेऽपतन् ।
गर्जन्ति धाव धावेति पितर्मातः सुतेति च ॥ ८॥
मुक्तिं याता मयूरेशं दृष्ट्वा प्राणां जहुश्च ये ।
एवं सेना निरस्ताऽस्य ततो दैत्यो रुषाऽद्रवत् ॥ ९॥
खड्गपाणी रुषा गर्जन् वेगेनायाद्गजाननम् ।
तथाविधं रिपुं दृष्ट्वा परशुं जगृहे विभुः ॥ १०॥
ययौ दैत्यं महावेगमसृजत्परशुं च तम् ।
स दहं स्तेजसा व्योम दिशः पक्षिगणानपि ॥ ११॥
अच्छिनद् दैत्यहस्तं च खड्गं च शतधा जवात् ।
स चापं सहसा गृह्य सज्जं कृत्वा शरान्बहून् ॥ १२॥
असङ्ख्यातान्बलाद् विध्यन् छादयामास सैनिकान् ।
गगनं च दिशः सर्वा जगर्ज घननिस्वनः ॥ १३॥
शराघातेन बलवान्निवार्य शरपञ्जरम् ।
अन्धकारे बाणमये नाज्ञासीत्कोऽपि कञ्चन ॥ १४॥
मयूरेशोऽथ शीघ्रं तदश्वं भूमावपातयत् ।
ततोऽन्तरिक्षे तिष्ठन् स प्रोचे च गणनायकम् ॥ १५॥
अश्वो निपातितस्तस्य पश्यमे कौतुकं महत् ।
शिखण्डिनं हनिष्यामि पश्यतस्ते गुणेश्वर ॥ १६॥
उभयत्र निषङ्गस्थान् शरान् भूमौ व्यचिक्षिपत् ।
चापमाकृष्य कर्णान्तं चिक्षेप शरसञ्चयान् ॥ १७॥
मयूरेशस्य सेनायां मारयन्सर्व सैनिकान् ।
ववर्ष शरजालानि वर्षाकाले घना यथा ॥ १८॥
कियन्तो भिन्नसर्वाङ्गाः केचित्प्राणाञ्जहुः सुराः ।
एवं नश्यत्सु वीरेषु मयूरेषो रुषान्वितः ॥ १९॥
कमलासुरबाणैस्तु विद्धं त्यक्त्वा शिखण्डिनम् ।
पाशं करेण जग्राह तोलयित्वा स सादरम् ॥ २०॥
जगर्ज नादयन् व्योम तत्याज महसा युतम् ।
स पातयन् दैत्यगणान् ददाह रिपुसैनिकान् ॥ २१॥
कण्ठे च न्यपतत्तस्य दैत्यसेनाधिपस्य ह ।
रुरोध श्वासमस्यासौ दैत्यो रूपान्तरं श्रितः ॥ २२॥
मूर्ध्ना सञ्छादयामास तत्क्षणाद्रविमण्डलम् ।
अन्धकारे घोरतमे न प्रज्ञायत किञ्चन ॥ २३॥
उवाच सम्मुखो भूत्वा मयूरेशं रुषान्वितः ।
मया किं युध्यसे बाल गच्छ मातुः स्तनं पिब ॥ २४॥
रमस्व बालकैर्नोचेन्मरिष्यसि ममाग्रतः ।
मम चाक्रन्दनेनैव कम्पते भुवनत्रयम ॥ २५॥
पादे भूमौ स्थाप्यमाने शेषोऽपि चलते ह्यधः ।
मम मुष्टिप्रहारेण चूर्णी भूता महाचलाः ॥ २६॥
नखाग्रेण शिरस्तेऽहं गमयिष्ये रसातलम् ।
क उवाच ।
एवणाकर्ण्य दुर्बुद्धेर्वाक्यं प्रोचे गजाननः ।
पिशाचवन्मद्यपवत्किं वल्गसि ममाग्रतः ॥ २७॥
न जयं प्राप्नुते क्वापि देवद्विजविनिन्दकः ।
मम चेद् भविता क्रोधो ज्वालयेद् भुवनत्रयम् ॥ २८॥
यशस्ते ख्यापितुं लोके युद्धयामि हर्षनिर्भरः ।
नो चेद् हुङ्कारमात्रेण नीतः स्याद् यमसादनम् ॥ २९॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यं दैत्यः क्रोधानलाकुलः ।
क्ष्वेडितं प्रतिशब्देन नादयन् विदिशो दिशः ॥ ३०॥
तदा गार्भ निपतितास्तस्य शब्देन तत्क्षणात् ।
प्रमथाद्या गणाः केचिन्मूर्छिता धरणीं गताः ॥ ३१॥
आकर्णं धनुराकृष्य मुमोच कमलासुरः ।
शरवृष्टिं पुना रौद्रां मयूरेशे बलेऽपि च ॥ ३२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरसङ्ग्रामो नाम द्व्युत्तरशततमोऽध्यायः ॥ १०२॥
आदितः श्लोकानां समष्ट्यङ्काः - ८७३९ + ३२ = ८७७१
२.१०३ कमलासुरवधोनाम त्र्युत्तरशतत मोऽध्यायः
क उवाच ।
उत्कर्षं तस्य दैत्यस्य दृष्ट्वा देवस्त्वरान्वितः ।
आययौ पुरतो दैत्यं जघान शरवृष्टिभिः ॥ १॥
न्यवारयत दैत्योऽपि स्वशरैरतिवेगितैः ।
ततस्तुतोष भगवान्मयूरेशो गुणाग्रणीः ॥ २॥
दर्शयामास तस्मै स विश्वरूपमनन्तकम् ।
दश दिक्षु मयूरेशं ददर्श कमलासुरः ॥ ३॥
विस्मितश्छाद्य नयने हृदि तं परिदृष्टवान् ।
ततः पलायनपरो यावद्गच्छति दैत्यराट् ॥ ४॥
शिखामाक्रम्य देवोऽपि धृत्वा प्रोवाच तं पुनः ।
तिष्ठ युध्यस्व दैत्येन्द्र स्मर वाक्यानि तानि च ॥ ५॥
पुनर्ददर्श दैत्यस्तमेकमेव पुरः स्थितम् ।
अधावत् सहसा योद्धुं जगर्ज च महाबली ॥ ६॥
दशायुधधरो देवो योधयामास तं तदा ।
बिभेदास्य शरीरं स विघ्नराट् शस्त्रघाततः ॥ ७॥
यत्रास्य न्यपतद् रक्तबिन्दुस्तत्रासुरोऽभवत् ।
तद्रूपस्तद्बलश्चैवमसङ्ख्यातास्तदाऽसुराः ॥ ८॥
नानाशस्त्रैरथास्त्रैस्ते तं जघ्नुः शरवृष्टिभिः ।
ततः परावृतो देवो मयूरेशो रुषा ज्वलन् ॥ ९॥
सार्द्धकोटित्रयमितैः सिद्धिबुद्धी तदा बलैः ।
ईयतुः परमक्रुद्धे ततो युद्धमवर्त्तत ॥ १०॥
ऊचुतुर्गणराजं ते देहि भक्ष्यं क्षुधापहम् ।
त ऊचे भक्षतं देवो दैत्यासृग्जनितान्बहून् ॥ ११॥
इत्युक्ते ते तदा तेन मयूरेशेन सत्वरमम् ।
बभक्षतुर्भूतगणैस्तान् दैत्यानखिलानपि ॥ १२॥
देवो जघान खड्गेन तं दैत्यं कमलासुरम् ।
पुनश्च शतशो जाता दैत्यास्तद्रक्तसम्भवाः ॥ १३॥
बभक्षुस्तानपि ततो पिबन्रक्तं समन्ततः । (पिबन्तो रक्तमुल्बणम्)
ततः खिन्नो मयूरेशः शूलमुद्यम्य वेगवान् ॥ १४॥
तत्याज सहसा दैत्ये ययौ स प्रदहद् दिशः ।
चूर्णयन् पर्वतान् व्योम नादयन् भानि पातयन् ॥ १५॥
वेगेन पतितो दैत्यदेहं भित्वा द्विधाऽकरोत् ।
मस्तकस्तस्य पतितो भीमाया दक्षिणे तटे ॥ १६॥
कृष्णाया उत्तरे तीरे तस्थौ तत्र गुणेश्वरः ।
सर्वे सन्तुष्टमनसो जयशब्दैस्तमब्रुवन् ॥ १७॥
जय देव मयूरेश कुरु दुष्टविनाशनम् ।
ततस्तत्राययौ गौरीपतिर्गणपरीवृतः ॥ १८॥
गौतमाद्यैश्च मुनिभिः पार्वत्या च समायुतः ।
वाद्यत्सु सर्ववाद्येषु पुष्पवृष्टिः पपात खात् ॥ १९॥
आलिङ्ग्य पार्वती प्रादात् स्तनपानं मुदा तदा ।
मुनयस्तुष्टुवुश्चैनं मयूरेशं सुरेश्वरम् ॥ २०॥
कमलाकान्तहृदय हृद्दयानन्दवर्धन ।
कमलाकान्तनमित कमलासुरनाशन ॥ २१॥
कमलासेवितपद जय त्वं कमलाप्रद ।
कमलासनवन्द्येश कमलाकरशीतल ॥ २२॥
कमलाङ्कसुपादाब्ज कमलाङ्कितसत्कर ।
कमलाबन्धुतिलक भक्तानां कमलाप्रद ॥ २३॥
कमलासूनुरिपुज कमलासूनुसुन्दर ।
कमलापितृरत्नानां मालया जय शोभित ॥ २४॥
कमलासुरबाणानां कमलेन निवारक ।
कमलाक्रान्तकमलकोशजित्करपङ्कज ॥ २५॥
कमलापतिहस्तस्थपद्मकोशनिभेक्षण ।
सर्वहृत्कमलानन्द जय सर्वाघनाशन ॥ २६॥
कमलाङ्कुशहस्ताब्ज जयविघ्नहराव्यय ।
त्वया विनिहतः पापः शक्रादिभयदो रिपुः ॥ २७॥
वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः ।
एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः ॥ २८॥
दशभिर्दोर्भिरालिङ्ग्य पुपूज गिरिशोऽपि तम् ।
ततस्ते मुनयः प्रोचुर्मयूरेशं च शङ्करम् ॥ २९॥
अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः ।
पूरयन् भक्तकार्याणि वारयन्विघ्नसञ्चयान ॥ ३०॥
क उवाच ।
एवं तैः प्रार्थितौ देवौ सर्वदेवगणैर्युतौ ।
पूरयन्तौ भक्तकामान् हरन्तौ विघ्नसञ्चयान् ॥ ३१॥
स्थितौ तत्र मयूरेशशङ्करौ लोकशङ्करौ ।
विश्वकर्मा व्यधात् तत्र मन्दिरं सुन्दरं ततः ॥ ३२॥
असङ्ख्यशिखरद्वारमसङ्ख्याश्चर्यसंयुतम् ।
तत्राभून्नगरं चारु सर्वलोकसमन्वितम् ॥ ३३॥
मयूरेशपुरं तस्य नाम चक्रुर्महर्षयः ।
तपस्तेपुर्मुनिगणा नानाभरणसंश्रिताः ॥ ३४॥
हरोऽपि च तपस्तेपे गिरिजागणसंयुतः ।
तस्य ध्यानं पूजनं च स्मरणं ते व्यधुर्द्विजाः ॥ ३५॥
मयूरेशः पुनर्बालैः क्रीडति स्म यथा पुरा ॥ ३६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरवधोनाम त्र्युत्तरशतत मोऽध्यायः ॥ १०३॥
आदितः श्लोकानां समष्ट्यङ्काः - ८७७१ + ३६ = ८८०७
२.१०४ विश्वरूपदर्शनं नाम चतुरधिकशततमोऽध्यायः
क उवाच ।
अहं प्रयातस्तं द्रष्टुं गुप्तरूपो द्विजोत्तम ।
अदर्शं तत्र तं देवमुमया सहितं प्रभुम् ॥ १॥
स्नात्वासीनं जपन्तं च परं ब्रह्मसनातनम् ।
अहं तमस्तुवं देवं मयूरेश्वरसंज्ञकम् ॥ २॥
पुराणपुरुषं देवं नाना क्रीडाकरं मुदा ।
मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ ३॥
परात्परं चिदानन्दं निर्विकारं हृदिस्थितम् ।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ ४॥
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।
सर्वविघ्नहरन्देवं मयूरेशं नमाम्यहम् ॥ ५॥
इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।
सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥ ६॥
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ ०७॥
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ।
सर्वविद्या प्रवक्तारं मयूरेशं नमाम्यहम् ॥ ८॥
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥ ९॥
मुनिध्येयं मुनीनुतं मुनिकामप्रपूरकम् ।
समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥ १०॥
सर्वाऽज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥ ११॥
अनेककोटिब्रह्मांण्डनायकं जगदीश्वरम् ।
अनन्तविभवं विष्णु मयूरेशं नमाम्यहम् ॥ १२॥
त्वद्दर्शनेन पूतोऽहं परमानन्दनिर्भरः ।
आश्चर्यं परमं प्राप्तस्तस्य दैत्यस्य मारणात् ॥ १३॥
येन शक्रोऽन्तको देवा लोकपाला जिता बलात् ।
सहस्रशतयोधी योऽसङ्ख्यदेहो रणे हतः ॥ १४॥
त्रिधा भूतस्त्रिस्थलेषु पतितः कमलासुरः ।
तं समापूजयमहं सर्वतीर्थजलैः शुभैः ॥ १५॥
कमण्डुलगतैरेनोनाशकैरभिषेचयम् ।
दिव्यवस्त्रे दिव्यगन्धं दिव्यपुष्पमयीं शुभाम् ॥ १६॥
वनमालामस्य कण्ठे दत्त्वा नाम व्यधामहम् ।
वनमालीति लोकेषु विख्यातं सर्वमङ्गलम् ॥ १७॥
पूजाविधिं समाप्यैनं प्रदक्षिणामथो व्यधाम् ।
पादाघातेन मे तत्र न्युब्जतां गमितः क्षणात् ॥ १८॥
नानातीर्थजलैर्युक्तः स्थापितो मे कमण्डलुः ।
यतेऽहं तज्जलं भर्तुं ततो मामब्रवीद्विभुः ॥ १९॥
मयूरेश उवाच ।
इदं ब्रह्मकृतं स्तोत्रं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नॄणां सर्वोपद्रवनाशनम् ॥ २०॥
कारागृहगतानां च मोचनं दिनसप्तकात् ।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं विधे ॥ २१॥
स्थिरो भव विरिञ्चे त्वं नदीयं सर्वपावनी ।
कमण्डलुभवा नाम्ना ख्याता लोके भविष्यति ॥ २२॥
दर्शनाद् वाचिकं पापं स्पर्शनाच्च मनोमयम् ।
स्नानाच्च कायिकं सर्वं नाशयिष्यति निम्नगा ॥ २३॥
निरन्तरं सेवनाच्च मोक्षमेषा प्रदास्यति ।
क उवाच ।
एवं दत्ते वरे तेन सस्नुस्तत्र मुनीश्वराः ॥ २४॥
सदाराः सपरीवाराः सप्तकोटिगणा अहम् ।
तपस्तेपुस्तदा तत्र मुनयस्ते मया सह ॥ २५॥
ततोऽहं मायया तस्य मोहितः प्राब्रुवं बहून् ।
जगत्कर्ता जगद्वन्द्यः शक्रादिसुरपूजितः ॥ २६॥
बालमेकादशाब्दं तं कथं प्रणतवानहम् ।
अर्भकैः क्रीडमानं तमाचाररहितं शिशुम् ॥ २७॥
धिङ् मे ज्ञानं महत्वं च पैतामहपदं च धिक् ।
इमां सृष्टि विधायाऽहं स्थास्यामि गुप्तरूपधृक् ॥ २८॥
अयं चेत्परमात्मा स्यादपरां निर्ममेत् पुनः ।
एवं निश्चित्य मनसा सृष्टिमात्मानमेव च ।
अन्तर्धाय स्थितो यावत्तावद्देवो गजाननः ॥ २९॥
न ददर्श सखीन् बालांस्ततस्तेषां गृहानगात् ।
शून्यान्दृष्ट्वा गृहान्सर्वान् खिन्नो वृक्षानलोकयत् ॥ ३०॥
न ददर्श द्रुमान् जन्तून्पशुपक्षिगणान् यदा ।
तदा स्वर्गं गतो देवो नापश्यत् तत्र तान् सुरान् ॥ ३१॥
गन्धर्वान् किन्नरान् यक्षान् पितॄन् शशिरवी न च ।
अन्धकारे गाढतमे न प्राज्ञायत किञ्चन ॥ ३२॥
ततोऽसौ प्रणिधानेन ज्ञात्वा ब्रह्मकृतं च यत् ।
सामर्थ्यं निजमायां च आविश्चक्रेऽखिलात्मकः ॥ ३३॥
ब्रह्माण्डं निर्ममे देवो मयूरेशः स्वलीलया ।
विश्वं जराजरं तत्र मयूरेशपुरीमपि ॥ ३४॥
यथापूर्वं पश्यति स्म सर्वं त्रिभुवनं विभुः ।
स्वं च बालैः परिवृतं ब्रह्मांणं च तथाविधम् ॥ ३५॥
शङ्करं च भवानीं तामनुष्ठानगतान् मुनीन् ।
तपनं शशिनं भानि स्वर्गान्देवगणानपि ॥ ३६॥
पृथिवीं सर्ववृक्षांश्च समुद्रान् सरितोऽपि च ।
पातालानि मयूरेशो ददर्श पूर्ववद्विभुः ॥ ३७॥
क उवाच ।
ततोऽहं स्मृतिमापन्नोऽपश्यन् देवं चिदात्मकम् ।
कलाकाष्ठामुहुर्तादिदिनपक्षस्वरूपिणम् ॥ ३८॥
दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः ।
मासर्तुवर्षकल्पादिचराचरस्वरूपिणम् ॥ ३९॥
असङ्ख्यब्रह्माण्डयुतरोमाञ्चैरुपशोभितम् ।
देवर्षियक्षगन्धर्वसरित्सागररूपिणम् ॥ ४०॥
मनुष्यकिन्नरलतावृक्षपन्नगरूपिणम् ।
दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः ॥ ४१॥
पुनः पुनरपश्यं तं मयूरेशं किरीटिनम् ।
कुण्डलाभ्यां नूपुराभ्यामङ्गदाभ्यां विराजितम् ॥ ४२॥
शेषनाभिं सर्पकण्ठं दिव्यमालाम्बरावृतम् ।
दिव्यसिंहासनगतं सर्वदेवैरभिष्टुतम् ॥ ४३॥
सिद्धिबुद्धिसमायुक्तं विभूतिभिरुपासितम् ।
चराचरमयं सर्वनमस्यं तत्स्वरूपिणम् ॥ ४४॥
प्रत्येकं तत्र चात्मानं तद्रूपं स्वं व्यलोकयम् ।
ततस्तं स्तुतवान् नत्वाऽप्रार्थयं च पुनः पुनः ॥ ४५॥
क्षमापराधं मे देव त्वन्मायागर्वितस्य मे ।
प्रभावं द्रष्टुकामस्य दीनस्य शरणार्थिनः ॥ ४६॥
क्षणेनानन्तब्रह्माण्डकारिणे ते नमो नमः ।
एवं वदन्तं मां नासापवनात् स्वोदरेऽनयत् ॥ ४७॥
तत्रापश्यं सर्वलोकं यथा बहिः प्रदृष्टवान् ।
देवं तथाविधं चापि कोटिब्रह्माण्डरोमकम् ॥ ४८॥
सर्वं चराचरं विश्वं यथा भूमौ यथादिवि ।
एकस्मादण्डतश्चान्यद् ब्रह्माण्डान्तरमाविशम् ॥ ४९॥
तथैव दृष्टवान् सर्वानेवं नानाण्डमध्यगः ।
अपश्यं विश्वमखिलं स्वात्मानं देवमेव च ॥ ५०॥
ततःखिन्नोऽब्रुवं देवं नान्तं पश्यामि ते क्वचित् ।
कृपां कुरु मम विभो मायामेतां निवारय ॥ ५१॥
ततः स करुणाविष्टः सर्वमन्तर्दधे क्षणात् ।
पुनरेव मयूरेशमपश्यं बालकैर्वृतम् ॥ ५२॥
क्रीडन्तं पूर्ववन्नत्वाऽब्रुवं मायां न तेऽविदम् ।
अपराधसहस्रं मे मातृवत् त्वं क्षमस्व च ॥ ५३॥
मयूरेशोऽब्रवीन्मां हि मूर्ध्नि हस्तं निवेश्य ह ।
देव उवाच ।
न मे क्रोधो न भिन्ना धीः स्वीयः पर इति भ्रमः ॥ ५४॥
कस्मादपि भयं मे न न मत्तो भयमण्वपि ।
श्रुत्वेथं वचनं तस्य मयूरेशपुरं शिवम् ॥ ५५॥
भवानीमपि तत्सूनुमद्राक्षं मुनिबालकैः ।
गृहीत्वाज्ञां स्वकं स्थानमगमं हर्षनिर्भरः ॥ ५६॥
भवानी बालकैनायान्मन्दिरं स्वं च बालकाः ॥ ५७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम चतुरधिकशततमोऽध्यायः ॥ १०४॥
आदितः श्लोकानां समष्ट्यङ्काः - ८८०७ + ७ = ८८६४
२.१०५ विश्वदेवभेदबुद्धिनिरासो नामपञ्चाधिकशततमोऽध्यायः
क उवाच ।
ततो भाद्रचतुर्थ्यां तु ते सर्वे मुनिबालकाः ।
मृदमाहर्तुमायाता विमलां तामथानयन् ॥ १॥
स्वस्वबुद्ध्या विधायाशु मूर्तीर्नानाविधाः शुभाः ।
सिंहारूढा मयूरस्थाः काश्चिन्मूषकसंस्थिताः ॥ २॥
नानायुधधरा नानादिव्यालङ्कारसंयुताः ।
चतुर्भुजा गणेशस्य दिव्यगन्धाम्बराः शुभाः ॥ ३॥
भक्त्या परमयाऽपूजन्नुपचारैः पृथक्पृथक् ।
मण्डपे ताः प्रतिष्ठाप्य पुष्पादर्शप्रभायुजि ॥ ४॥
पद्मपुष्पयुता माला ददुस्ताः सुमनोहराः ।
वाद्यत्सु तूर्यघोषेषु नगरी हर्षमाप सा ॥ ५॥
गौरी तस्यां जन्मतिथौ द्वादशाब्दिकमर्भकम् ।
स्नापयामास च ददौ वायनानि सुवासिनीः ॥ ६॥
सम्पूज्य विधिवत् भक्त्या हरिद्राकुङ्कुमादिभिः ।
एतस्मिन्नन्तरे दैत्यो विश्वदेव इति श्रुतः ॥ ७॥
भगवद्रूपमास्थाय श्रीमुद्राङ्कितमाययौ ।
शङ्खचक्रगदापद्मवनमालालसत्तनुः ॥ ८॥
तुलसीदामरुचिरो दिव्यवस्त्रानुलेपनः ।
कमण्डलु वारिपूर्णं वेणुदण्डं दधौ करे ॥ ९॥
गौरी तमतिथिं द्वारि तिष्ठन्तं प्राह भक्तितः ।
कुत आगम्यते ब्रह्मँस्तुष्टाऽहं तव तेजसा ॥ १०॥
इत्युक्तः प्राह तां विप्रः श्रुतवानस्मि यत्पुरा ।
तदृष्ट्वा नयनाभ्यां ते परितुष्टं मनो मम ॥ ११॥
क्षुधया पीडितश्चाहं भवती गृहमागतः ।
पार्वत्युवाच ।
आस्यतां भुज्यतां स्वस्थं स च तत्रासनेस्थितः ॥ १२॥
आसीनस्यमयूरेशो विष्टरेऽक्षालयत्तदा ।
चरणौ तत्तीर्थजलैः सिषेच सर्वतोऽमलैः ॥ १३॥
अपोशानकरस्तूष्णीमासीच्चिन्तातुरो द्विजः ॥ १४॥
उमोवाच द्विजं पश्चाद् भुज्यतां भुज्यतामिति ।
यदि नान्नं मनोयोग्यं तदा दास्येऽतिवाञ्छितम् ।
वद तच्छीघ्रमान्यष्ये शङ्करस्य प्रभावतः ॥ १५॥
द्विज उवाच ।
क्षीरार्णवस्थितं देवं दृष्ट्वा नित्यं भुजन्म्यहम् ।
जलं पिबामि तच्चाद्य विस्मृतं मोहतो मया ॥ १६॥
उमोवाच ।
पूर्वमेव कथं नोक्तो नियमस्ते द्विजोत्तम ।
पात्रादुत्थाय गन्तासि कथं सत्त्वविलुम्पक ॥ १७॥
शङ्करः क्षोभमापन्नो न जाने किं करिष्यति ॥ १८॥
मयूरेशोऽब्रवीत् तत्र यदि भावो दृढो हृदि ।
तदात्रैव भवेत्पद्मनाभेर्दर्शनमाशु ते ॥ १९॥
प्रायोऽभाग्यं महद्दृष्टं यत्पक्वान्नं च पायसम् ।
त्यक्त्वा व्रजसि कुत्र त्वं मूढभावेन वा द्विज ॥ २०॥
बहुजन्मतपोभिर्यत्कटाक्षो भुवि लभ्यते ।
तया ते परिविष्टान्नं कथं त्यजसि सुव्रत ॥ २१॥
ब्रह्मादीनां न गम्या या दृष्टा साक्षात् त्वया शिवा ।
सर्वलोकस्य जननी सर्वयोषिद्वरा हि सा ॥ २२॥
सर्वेषामेव देवानां शक्तिः सा परमाद्भुता ।
तद्दर्शनेन देवस्य विष्णोर्जातं हि दर्शनम् ॥ २३॥
चकोरस्येवाग्निभुजो मिष्ठान्नं नैव रोचते ।
तथा किं ते न रोचेत देवान्नममृतोपमम् ।
मम वा सर्वरूपस्य दर्शने सा दृशिर्भवेत् ॥ २४॥
द्विज उवाच ।
रमापतेरहं दासो न नमस्यामि किञ्चन ।
यदि त्वं सर्वरूपोऽसि यदि सामर्थ्यमस्ति ते ॥ २५॥
तदा दर्शय विश्वेशं नारायणमनामयम् ।
एवं बुद्ध्वा दृढं तस्य निश्चयं स मयूरराट् ॥ २६॥
अन्तर्धाय प्रादुरासीन्नारायणस्वरूपवान् ।
पीताम्बरः शङ्खचक्रगदापद्मधरो विभुः ॥ २७॥
नानालङ्काररुचिरः सर्वालङ्कारसुन्दरः ।
कौस्तुभेन लसद्वक्षा वनमालाविभूषितः ॥ २८॥
शेषशायी महालक्ष्म्या संवाहितपदाम्बुजः ।
विश्वदेवश्च तं दृष्ट्वा ननाम परिपूज्य च ॥ २९॥
यातस्तन्मयतां भक्त्या विस्मृत्य च शरीरताम् ।
उवाच च चिदानन्दपरिपूर्णो द्विजोत्तमः ॥ ३०॥
अद्य धन्यं जनुर्मेऽद्य जीवितं च सुजीवितम् ।
अद्येयं नगरी धन्या धन्यौ तौ पितरौ मम ॥ ३१॥
मयूरेशोपदेशेन भवान्या दर्शनेन च ।
परात्परस्य विष्णोस्ते चराचरस्वरूपिणः ॥ ३२॥
लब्धं दर्शनमत्रैव सर्वान्तर्यामिणो विभोः ।
नारायणोऽपि तं भक्तं बाहुभिः परिषस्वजे ॥ ३३॥
उवाच च प्रसन्नात्मा बाष्पगद्गदया गिरा ।
मदर्थं त्यक्तवान्भुक्तिं क्षीराब्धेरहमागतः ॥ ३४॥
दृष्ट्वा ते निश्चयं भक्तिं दृढामव्यभिचारिणीम् ।
भक्तमार्गं प्रसिञ्चामि मारुतोद्धृतकण्टकम् ॥ ३५॥
भक्ततृषानिवृत्त्यर्थं जातोऽहं जलरूपधृक् ।
नानारूपधरो जातो भक्तानामार्तिनाशनः ॥ ३६॥
यथा भक्तः प्रियो नित्यमिति ते दर्शयाम्यहम् ।
अभूद् भाद्रचतुर्थ्यां हि मयूरेशमहोत्सवः ॥ ३७॥
मूर्तिं महीमयीं कृत्वा बर्ह्याखुसिंहगां पृथक् ।
नानालङ्कारशोभाढ्यां नानारङ्गैः सुशोभिताम् ॥ ३८॥
अनेकैः पूज्य तां सम्यग्बालकैर्मुनिसञ्चयैः ।
केचिदग्रे प्रगायन्ति केचिन्नृत्यन्ति भक्तितः ॥ ३९॥
वाचयन्ति पुराणानि प्रदक्षिणपराः परे ।
एतस्मिन्नन्तरे पौत्रो वसिष्ठस्य महात्मनः ॥ ४०॥
पराशर इतिख्यात आययौ स्वेच्छया मुनिः ।
स चतुर्वार्षिको मूर्तिं विदधे भक्तितत्परः ॥ ४१॥
शुष्कपर्णकृतां मालां कृत्वा तस्मै न्यवेदयत् ।
गन्धबुद्धया कर्दमेन तां व्यलेपयदादरात् ॥ ४२॥
मिष्टान्नानि च लड्डूकान् दक्षिणां च फलानि च ।
न्यवेदयत्तदा पत्रैरनेकैः कर्दमैरपि ॥ ४३॥
सङ्कल्पं लीलया चक्रे जङ्घावाद्यं शनैः शनैः ।
मुहूर्तं नर्तनं कृत्वा रुरोद भक्षयेति च ॥ ४४॥
सम्प्रार्थ्य मूर्तिं बहुधा ततः सा चेतनां ययौ ।
यद्यत्तेन यदुद्देशात्स्थापितं पुरतोऽभवत् ॥ ४५॥
तत्तथैव च सञ्जातं ततः साऽभक्षयत् तदा ।
लड्डूकान् मोदकान् नाना पक्वान्नं पायसान्वितम् ॥ ४६॥
विश्वदेवश्च तद् दृष्ट्वा मिथ्याभूतं यथार्थवत् ।
मृत्तिकान्नानि सत्यानि सर्वं पुष्पफलादिकम् ॥ ४७॥
सचेतनां च तां मूर्तिं षड्भुजां च पुनः पुनः ।
व्यलोकयद् विष्णुरूपां चतुर्बाहुविराजिताम् ॥ ४८॥
उवाच सततं देव किमिदं मृत्तिकाशनम् ।
मूर्तिरुवाच ।
भक्त्या यदर्पितं मह्यं सुधारससमं भवेत् ॥ ४९॥
अभक्तार्पितममृतं विषमेव भवेन्मम ।
क उवाच ।
एवं तद्वचनं श्रुत्वा विश्वदेवोऽब्रवीत्पुनः ॥ ५०॥
कस्ते भक्तो मम च तं दर्शयस्व सुरेश्वर ।
ततस्तस्य करं धृत्वा बहिरायान्मयूरराट् ॥ ५१॥
गृहे गृहे पूज्यमानं देवं तस्मै व्यदर्शयत् ।
शिखिनं स समारूढं मयूरेशमलोकयत् ॥ ५२॥
तत्रापि पर्यपश्यत् स विश्वदेवयुतं च तम् ।
नायं मम भवेत् स्वामीत्येवं बुद्धिं विसृज्यताम् ॥ ५३॥
गृहे गृहे विश्वदेवो नारायणमलोकयत् ।
सर्वत्र स ददर्शाऽथ पूज्यमानं गुणेश्वरम् ॥ ५४॥
क्वापि क्वापि मयूरेशं ददर्श विष्णुरूपिणम् ।
पुनरालोकयन् तत् तन्मयूरेशमलोकायत् ॥ ५५॥
भुजं स्वं परिगृह्यैव बहिर्यातं स्वलीलया ।
आक्षिप्य हस्तं स प्रायान्नायं स्वामी ममेति च ॥ ५६॥
अटन् गृहे गृहे सोऽथ पूज्यमानं ददर्श ह ।
मयूरेशं वाद्यघोषैर्नृत्यगीतैरनेकधा ॥ ५७॥
क्वापि दृष्ट्वा विष्णुरूपं नमस्कर्तुं यथावध ।
पुनर्मयूरेशरूपं ददर्श स शिखिस्थितम् ॥ ५८॥
गरुडारूढमन्यत्र शेषारूढं तथा क्वचित ।
नमस्कर्तुं यदा याति विश्वदेवो मुदा यतः ॥ ५९॥
तावद् सिंहमारूढं पश्यति स्म पुनः पुनः ।
भुञ्जन्तं च रमन्तं च स्वपन्तं च ददर्श सः ॥ ६०॥
ततः खिन्नो विश्वदेवो वसिष्ठद्वारमागमत् ।
ततोऽब्रवीमयूरेशः पश्य मे भक्तमुत्तमम् ॥ ६१॥
ततः पराशरं सोऽथ ददर्श पुरतः स्थितम् ।
मृन्मयैरुपचारैस्तं पूजयन्तं गुणेश्वरम् ॥ ६२॥
भक्षयन्तं च लड्डूकान् मृन्मयान् देवमेव च ।
पश्यति स्म पुनर्व्योम्नि जले भूमौ तमेव सः ॥ ६३॥
क्षणं नारायणं देवं मयूरेशं क्षणादपि ।
ततः स्वभेदबुद्धिं स्वां तत्याज भ्रान्तिमेव च ॥ ६४॥
सर्वभावेन तं नत्वा स्तुत्वाऽभेदधिया पुनः ।
अनुज्ञातो मुदा प्रायाद्विश्वदेवः स्वमाश्रमम् ॥ ६५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वदेवभेदबुद्धिनिरासो नामपञ्चाधिकशततमोऽध्यायः ॥ १०५॥
आदितः श्लोकानां समष्ट्यङ्काः - ८८६४ + ६५ = ८९२९
२.१०६ षडधिकशततमोऽध्यायः
क उवाच ।
ततस्रयोदशे वर्षे नमस्कृत्य महेश्वरम् ।
भस्माङ्गरागरुचिरं पञ्चास्यं दिग्भुजं शुभम् ॥ १॥
रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् ।
मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् ॥ २॥
क्रीडन् बहिः समायातो बालकैः परिवारितः ।
सुहृद्भिः परिनृत्यद्भिर्वद्भिश्च परस्परम् ॥ ३॥
एतस्मिन्नन्तरे तत्र दैत्यो मङ्गलसंज्ञकः ।
करालवदनः क्रोडी विजेता मरमाद्भुतः ॥ ४॥
वराहरूपो बलवान्दन्तच्छिन्नमहीरुहः ।
वज्रसारसटाभिः स भिन्दन्व्योमपदैर्धराम् ॥ ५॥
अञ्जनाद्रिरिव श्यामो वह्निकुण्डनिभेक्षणः ।
दृष्ट्वा तं विद्रुता बाला वर्षाघननिभस्वनः ॥ ६॥
न दृष्टः सूकरः क्वापीदृश इत्यब्रुवंश्च ते ।
यावन् मारयते बालांस्तावद् देवो मयूरराट् ॥ ७॥
दधार दन्तयोर्दुष्टं तदा सूकरदानवम् ।
अथापरेण हस्तेन दधाराधरपोत्रकम् ॥ ८॥
पाटयामास सहसा वंशखण्डमिवार्भकः ।
पूर्वदेहं समास्थाय दशयोजनविस्तृतम् ॥ ९॥
पतितश्चूर्णयन्वृक्षान्दारयन्धरणीतलम् ।
ततस्तमब्रुवन् बाला धन्योऽयं पार्वतीसुतः ॥ १०॥
क्षणेन नाशितो दैत्यो लीलयाऽसौ महाबलः ।
अस्य दर्शनतस्त्रस्ता वयं याता दिशो दश ॥ ११॥
पतमानेन येनेह चूर्णितानि गृहाणि च ।
क उवाच ।
ततः शिवो ललाटे स्वे नापश्यच्छशिनं यदा ॥ १२॥
क्रोधासंरक्तनयनो विष्टपं प्रदहन्निव ।
गणानूचे रुषाविष्टो रक्षणं क्रियते कथम् ॥ १३॥
केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी ।
क उवाच ।
ततो लीना गणाः सर्वे कम्पमाना भयातुराः ॥ १४॥
अपरे धैर्यमालम्ब्य वदन्ति स्म शिवं प्रति ।
उमाकान्त भवत्पुत्रो मयूरेश्वरसंज्ञकः ॥ १५॥
क्रीडितुं बहिरायातस्तस्य हस्ते विलोकितः ।
चन्द्रस्तेन कदा नीतो न जानीमो वयं विभो ॥ १६॥
इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः ।
कथं नु क्रियते रक्षा भवद्भिर्भक्ष्यतत्परैः ॥ १७॥
चन्द्रो वा चन्द्रहर्ता वा यद्यानीतस्तदा शुभम् ।
नो चेद्भस्मीकरिष्यामि सर्वेषां नात्र संशयः ॥ १८॥
ततस्ते क्षुब्धमनसो धावमानास्त्वरान्विताः ।
मयूरेशं समभेत्य प्राभणन् रुष्टचेतसः ॥ १९॥
याहि दुष्टं शिवं देवं चन्द्रं वा यच्छ तस्कर ।
गणवाक्यं परिश्रुत्य चुकोप गणनायकः ॥ २०॥
न मेऽस्ति गणना कापि भवतां तस्य वा गणाः ।
जगत् त्रय जनन्या मे तनयस्य प्रभाविनः ॥ २१॥
क उवाच ।
तस्य श्वासेन सर्वे ते वात्या पत्रमिवोद्धृताः ।
पेतुः शिवस्य पुरतो गणा दीनास्तदाऽखिलाः ॥ २२॥
अतिरोषान्महादेवः प्रमथादीनथाब्रवीत् ।
आनीयता स दुष्टात्माबद्ध्वोमातनयो लघुः ॥ २३॥
ते तु शीघ्रतरं याता यत्र क्रीडारतः शिशुः ।
ददृशुस्तं शिशुगतं क्रीडन्तमकुतो भयम् ॥ २४॥
वेष्टितुं तान्समायातान् मोहयित्वा विनायकः ।
अन्तर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन् ॥ २५॥
गृहे गृहे काननेषु नापश्यंस्ते विनायकम् ।
क्वचिदृष्ट्वा तु तं प्राहुरस्मदग्रे कथं भवान् ॥ २६॥
गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्याम तं शिवम् ।
एवमन्तर्हितो दृश्यो वारंवारं बभूव सः ॥ २७॥
ततः खिन्नान्गणान् दृष्ट्वा परमात्मा कृपान्वितः ।
तस्थौ तत्पुरतः सम्यग्दृष्ट्वा तं हर्षनिर्भराः ॥ २८॥
बबन्धुर्गिरिजासूनुं निन्युस्ते शङ्करं प्रति ।
पृथिवीभारसदृशमुपविष्टं तु ते गणाः ॥ २९॥
न शेकुरुत्थापयितुं ततो विस्मितमानसाः ।
हतोद्यमा गणाः सर्वे शिवमेत्य समूचिरे ॥ ३०॥
सर्वे वयं समानेतुमेकं शक्ता न शङ्कर ।
आज्ञापयामास शिवो नन्दिनं पुरतः स्थितम् ॥ ३१॥
झटित्यानय गच्छ त्वं मयूरेशं तु तस्करम् ।
नन्द्युवाच ।
शेषं सूर्यं शशाङ्कं च हनिष्येऽहं तवाज्ञया ॥ ३२॥
कनीयसो न मे काचिद् गणनाऽस्ति महेश्वर ।
क उवाच ।
इत्युक्त्वाऽगाद्वायुवेगो भञ्जन्वृक्षांश्च पर्वतान् ॥ ३३॥
क्रोधसंरक्तनयनस्तीक्ष्णशृङ्गोग्रसन् दिवम् ।
उवाच तं मयूरेशं याहि रे त्वं शिवं प्रति ॥ ३४॥
नो चेदद्य नयिष्यामि न समो हि गणैरहम् । (नो चेदद्यैव नेष्यामि)
एवं वदति तस्मिंस्तु मयूरेशो रुषान्वितः ॥ ३५॥
श्वासचक्रेऽक्षिपत्तं तु गमनागमसङ्कुले ।
तत्याज तं दृढं श्वासादतिखिन्न शिवान्तिके ॥ ३६॥
वमन्तं रुधिरं वक्त्रात् पृथिव्यां पतितं तु तम् ।
ब्रुवन्तं पौरुषं नाना मूर्च्छितं द्विमुहूर्ततः ॥ ३७॥
अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः ।
देदीप्यमानं वपुषादिव्यभूषासमन्वितम् ॥ ३८॥
गणा ऊचुः शिवं दृष्ट्वा भालचन्द्रं यथा पुरा ।
ललाटे ते शशीदेव वृथाज्ञप्ता वयं शिव ॥ ३९॥
मयूरेशं गणांश्चाह शशिनं वीक्ष्यमस्तके ।
शिव उवाच ॥
श्रान्तास्तेच गणास्त्वञ्च नन्दीचापि ममाज्ञया ॥ ४०॥
चन्द्रे स्थिते ललाटे मे वृथा युद्धमभूद्धि यत् ।
प्रमथा ऊचुः ।
अद्यप्रभृति देवेश स्वामी नोऽस्तु मयूरराट् ॥ ४१॥
क उवाच ।
तथेति शिव ऊचे तान्गणराजोऽभवत्तु सः ।
नत्वा शिवं गणेशं च गणेशजननीमपि ॥ ४२॥
प्रशंसयित्वा देवेशं मयूरेशं तथाविधम् ।
गर्जन्तोऽथ गणा जग्मुर्मुदा स्वं स्वं निवेशनम् ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे शिवललाटगतचन्द्रहरणं नाम षडधिकशततमोऽध्यायः ॥ १०६॥
आदितः श्लोकानां समष्ट्यङ्काः - ८९२९ + ४३ = ८९७२
२.१०७ सप्ताधिकशततमोऽध्यायः
क उवाच ।
ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः ।
आययुर्गिरिजागेहं नानागणयुतं शिवम् ॥ १॥
नमस्कृत्य च तानम्बा नानासनगतान्पुरः ।
पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः ॥ २॥
विघ्नभीत्या परित्यक्तं त्रिसन्ध्याक्षेत्रमुत्तमम् ।
अस्य बालस्य मे विघ्ना अत्रापि बहवोऽभवन् ॥ ३॥
दिशन्तु विघ्नरहितं कर्म वा स्थानमुत्तमम् ।
मुनय ऊचुः ।
इन्द्रयागे कृते देवि सर्वविघ्नं हरिष्यति ॥ ४॥
क उवाच ।
तदेव कारयामास मण्डपं बहुविस्तरम् ।
सम्भारान् कारयामास शक्रसन्तोषकारकान् ॥ ५॥
आज्ञां गृहीत्वा शम्म्भोः सा पार्वती हर्ष निर्भरा ।
कारयामास विधिवदिन्द्रयागं महर्षिभिः ॥ ६॥
ध्यानमावाहनं चक्रुरिन्द्रस्यैते महर्षयः ।
पुपूजुर्गिरिजादेशात् साङ्गमिन्द्रं गणानपि ॥ ७॥
कुण्डे वह्निं प्रतिष्ठाप्य मन्त्रैरेव द्विजर्षभाः ।
जपानां तद्दशांशेन जुहुवुस्तिलपायसम् ॥ ८॥
प्रणवाद्यैर्नमोऽन्तैश्च स्वाहान्तैर्मन्त्रसञ्चयैः ।
शान्तिपाठान् पठन्ति स्म चतुर्वेदभवान् द्विजाः ॥ ९॥
एतस्मिन्नन्तरे बालाः क्रीडित्वा बालकैः सह ।
यज्ञवाटमुखो याति दैत्यौ तु कलविङ्कलौ ॥ १०॥
तावत्सम्मुखतां यातौ माहिषं रूपमास्थितौ ।
महारवौ महाशृङ्गौ भीषयन्तौ जगत्त्रयम् ॥ ११॥
सटाभिन्नघनौ पुच्छाद् दारयन्तौ गिरीनथ ।
नासानिरोधपवनाच्चूर्णयन्तौ द्रुमानपि ॥ १२॥
उमासुतं हन्तुकामौ यातौ शीघ्रं तदन्तिकम् ।
प्रायुध्येतां तदा द्वौ तौ मत्ताविव महागजौ ॥ १३॥
तयोः शब्देन गगनं गर्जति स्म यथा घनैः ।
जयं भङ्गं क्रमेणोभौ प्रापतू रुधिरोक्षितौ ॥ १४॥
विद्रुता मुनिबालास्ते ताभ्यां भीता वृकादिव ।
दूराद् ददर्श गिरिजासुतस्तौ दैत्यपुङ्गवौ ॥ १५॥
कथमेतौ महादुष्टौ हनिष्यामीति चिन्तयन् ।
पश्यत्सु तेषु बालेषु चिक्षेप गगने च तौ ॥ १६॥
पुच्छे गृहीत्वाऽतिबलौ भ्रामयित्वा पुनः पुनः ।
मुहूर्तात् पतितौ पृथ्व्यां तान् विदार्य द्रुमानपि ॥ १७॥
शतधा देहखण्डानि तयोरादन् वृकादयः ।
ततस्ते मुनिबालास्तं ययुर्भक्त्या प्रतुष्टुवुः ॥ १८॥
यस्य तत्त्वं न जानन्ति ब्रह्माद्या मुनयोऽपि च ।
सर्वान्तर्यामिणस्ते तु कथं विद्यामहे वयम् ॥ १९॥
बाल्यात्प्रभृति दैत्यास्ते नाशिताः कोटिशस्त्वया ।
एतौ माहिषरूपेण हन्तुं त्वा समुपागतौ ॥ २०॥
मूषकाविव संत्यक्तौ पुच्छे धृत्वा स्वलीलया ।
ययोः श्वासेन चलिताः पर्वताश्च द्रुमाधराः ॥ २१॥
क उवाच ।
मयूरेशस्ततः प्रायाद् यज्ञवाटं रमन्रमन् ।
ददर्शेन्द्रमखं रुष्टो ध्वंसया मास तत्क्षणात् ॥ २२॥
दूरे क्षिप्त्वा शक्रमूर्तिं प्रोचे सर्वान्मुनीश्वरान् ।
वृतैर्मुनिसुतैः सर्वैः किं कर्म क्रियतेऽमलाः ॥ २३॥
किं तुष्टेन प्रदातव्यं वासवेनाखिलार्थिना ।
अजाप्रार्थनया किं नु कामधेनुफलं लभेत् ॥ २४॥
स आदच्छेषसामग्रीं कृत्वा शान्तं हुताशनम् ।
मुनयो विस्मितहृदो वीक्ष्य चापल्यमस्य तत् ॥ २५॥
उमानिविष्टहृदया नाशकन् तं गुणेश्वरम् ।
उपालब्धुं शिक्षितुं वा वक्तुं क्रोधेन किञ्चन ॥ २६॥
उमायै सर्वमाख्याय जग्मुः स्वं स्वं निवेशनम् ।
श्रुत्वेन्द्रे क्षुब्धहृदये यत्स्यात्तच्च भवत्विति ॥ २७॥
स्वापमाने परिज्ञाते शक्रश्चुक्रोध वै भृशम् ।
क्रोधसंरक्तनयनो दहन्निव जगत्त्रयम् ॥ २८॥
आकार्य देवनिचयानुवाच वाक्यमुत्तमम् ।
इन्द्र उवाच ।
मम यागो मुनिगणैरारब्धः परमादरात् ॥ २९॥
स विध्वस्तो गुणेशेन तस्य द्रक्ष्येऽद्य पौरुषम् ।
रुष्टे मयि भवेन्नष्टं त्रैलोक्यं सचराचरम् ॥ ३०॥
देवा ऊचुः ।
तवाज्ञा चेन्मयूरेशं बद्ध्वानीमः क्षणेन ह ।
शक्र उवाच ।
मयूरेशपुरे वह्नेः स्थानं मास्तु क्वचित्तव ॥ ३१॥
सर्वेषां जाठरोऽपि त्वं लीनो भव ममाज्ञया ।
क उवाच ।
इति श्रुत्वा वचस्तस्य शक्रस्य रुषितात्मनः ॥ ३२॥
वह्निरन्तर्हितस्तत्र पुरेऽपि जठरेऽपि च ।
नापश्यन्मुनयो वन्हिं ममन्थुर्होमहेतवे ॥ ३३॥
नायातीति परिज्ञाय तेऽपक्वं जक्षुरादरात् ।
न च तत्पच्यते तेन व्यथा भवति दुर्धरा ॥ ३४॥
ततस्ते मुनयो जग्मुर्मयूरेशं कृपाकरम् ।
नमस्कृत्याब्रुवन्सर्वे शक्राहूतो गतोऽनलः ॥ ३५॥
जाठरोऽपि गतो वह्निरिन्द्रयागे हते त्वया ।
इत्याकर्ण्य वचस्तेषां प्रत्येकं जठरेऽनलः ॥ ३६॥
सोऽभवत्क्षुधयाऽऽविष्टाः सर्वे जातास्तु तत्क्षणात् ।
महानसेषु कुण्डेषु तथैव ज्वलितोऽभवत् ॥ ३७॥
ततो वायुं निनायाशु शक्रः क्रुद्धो महाबलः ।
प्रेतभूता पुरी सर्वा पञ्चप्राणे गतेऽभवत् ॥ ३८॥
पञ्चप्राणमयो देवस्ततस्तान् समजीवयत् ।
तत इन्द्रोऽब्रवीत्सूर्यं तापयैनां पुरीं बहु ॥ ३९॥
ततः सूर्योऽतपत् सर्वं द्वादशादित्यरूपवान् ।
वापीकूपतडागेषु नद्यां जलमशोषयत् ॥ ४०॥
जज्वाल पृथिवी सर्वा पुरग्रामवनाकरा ।
ततः शीघ्रं मयूरेशो मेघो भूत्वा ववर्ष ह ॥ ४१॥
शमयामास तं वन्हिं मृतांश्च समजीवयत् ।
ततो हर्षयुता लोकाः साधु साध्वित्यपूजयन् ॥ ४२॥
क उवाच ।
प्रतिकूलं कृतं यद्य यत् यत् तत् सर्वं निराकृतम् ।
ज्ञात्वा शक्रो ययौ देवं मयूरेशं ननाम च ॥ ४३॥
बद्धाञ्जलिपुटो भूत्वा स्तोतुं सवेश्वरं विभुम् ।
शक्र उवाच ।
न वेदा नर्षयो जग्मुर्ब्रह्माद्यास्ते गतिं विभो ॥ ४४॥
सर्वान्तर्यामिणः सर्वरूपस्य ब्रह्मरूपिणः ।
ब्रह्मादीनां विश्वसृजां कारणानां च कारणम् ॥ ४५॥
अपराधान् क्षमस्वाद्य त्वामहं शरणं गतः ।
मस्तकं पादयोयर्न्यस्य प्रार्थयामास सादरम् ॥ ४६॥
क उवाच ।
निर्विकल्पं मन्नतस्य ज्ञात्वा प्राह गुणेश्वरः ।
उत्तिष्ठोत्तिष्ठ भद्रं ते पदे तिष्ठ सुखं स्वके ॥ ४७॥
ततः सम्पूज्य तं देवं नमस्कृत्य शचीपतिः ।
प्रदक्षिणीकृत्य ययौ दृष्टः सन्नमरावतीम् ॥ ४८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे इन्द्रमखभङ्गो नाम सप्ताधिकशततमोऽध्यायः ॥ १०७॥
आदितः श्लोकानां समष्ट्यङ्काः - ८९७२ + ४८ = ९०२०
२.१०८ रविजगर्वपरिहारो नामाष्टाधिकशततमोऽध्यायः
क उवाच ।
ततः पञ्चदशे वर्षे मयूरेशोऽर्भकैः सह ।
गतः स्नातुं नदीं पुण्यां नाम्ना ब्रह्मकमण्डलुम् ॥ १॥
स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् ।
उपचारैः पुपूजस्ते हृदिस्थं गणनायकम् ॥ २॥
केचित्पद्मासनगतं केचिद्बर्हिगतं च तम् ।
दिव्यगन्धैदिव्यवस्त्रैः दिव्यैः पुष्पैरपूजयन् ॥ ३॥
गार्ग्यो मुनिर्मन्दिरे तं ध्यात्वा रत्नान्वितेऽर्चयत् ।
एतस्मिन्नन्तरेऽकस्मात् पिदधे द्वारमस्य तत् ॥ ४॥
यावदुद्धाटत्येव तावत् तत् दृढतामगात् ।
तत्र आक्रन्दनं चक्रे स च ते बालका अपि ॥ ५॥
बालका ऊचुः ।
त्वमेव जननी तातः कथमभ्यन्तरे स्थितः ।
दत्त्वा कपाटं देवेश नोऽपराधान्क्षमस्व च ॥ ६॥
क उवाच ।
एतस्मिन्नन्तरे दैत्यो महाबलपराक्रमः ।
यस्य शब्देन महता कम्पते भुवनत्रयम् ॥ ७॥
सटाभिन्नघनो दुष्टो व्याघ्ररूपी समभ्यगात् ।
व्यादाय वदनं घोरं ग्रसन्निव जगत्त्रयम् ॥ ८॥
दृष्ट्वा तं दुद्रुवुर्बालाः क्रन्दन्तस्ते दिशो दश ।
स तु द्वारं विनिर्भिद्य मयूरेशं तमाययौ ॥ ९॥
शार्दूलसदृशं रूपं कृत्वायात्सोऽपि तं क्षणात् ।
पपाल सहसा व्याघ्रः पृष्ठे लग्नो ययौ च सः ॥ १०॥
भ्रमन्स तु वनं यातो निकुञ्जे लीयतस्थिवान् ।
देवो वृक्षं समारुह्य कुञ्जमध्ये पपात ह ॥ ११॥
उभाभ्यां वदनं तस्य कराभ्यां जगृहे दृढम् ।
अन्याभ्यां बहिरानीय ततः परशुनाऽच्छिनत् ॥ १२॥
नासिकां श्रवणे पादौ पुच्छमग्रभुवावुभौ ।
न मुखं दर्शयेत्युक्त्वा विससर्ज गुणेश्वरः ॥ १३॥
निजं रूपं समास्थाय तथैव विकृतोऽभवत् ।
एवमेव करिष्यामि त्वद्देहमित्युवाच तम् ॥ १४॥
ययौ निजालयं दैत्यो देवः स्वं धाम चाययौ ।
ततो मुनिसुता भ्रेमुः क्रदन्तः क्व मयूरराट् ॥ १५॥
अतिश्रान्ता द्रुमतले सुच्छाये प्रास्वपँस्तदा ।
अनेन यास्यति पथा द्रक्ष्यामस्तत्पदाम्बुजम् ॥ १६॥
पादौ दक्षिणतस्तेषां दृष्ट्वा चुक्रोध भानुजः ।
अत्यारक्तदृशौ रोषाद् ब्रह्माण्डग्राससाहसः ॥ १७॥
बद्धवा तान्स्वस्थलं यातो मयूरेशस्ततोऽगमत् ।
नापश्यत् तत्तटे बालान्विस्मयं परमं ययौ ॥ १८॥
चिन्तां परमिकां प्राप्तो विना तैः स मयूरराट् ।
न सुखं क्वापि सम्प्रायात्ततो मुनिगणा ययुः ॥ १९॥
मुनय ऊचुः ।
क्वास्माकं बालका देव प्रातर्नीतास्त्वयाऽखिलाः ।
विना तैर्नो गमिष्यन्ति प्राणास्त्वय्यागतेऽधुना ॥ २०॥
क उवाच ।
न किञ्चिदूचे तान्देवो मुञ्चन्नश्रु मुहुर्मुहुः ।
विचार्य भास्करीं यातः पुरीं दूतैर्निवेदितः ॥ २१॥
दूता ऊचुः ।
कोऽपि यातो योद्धुकामो लोकत्रयविनाशकृत् ।
उग्रारावो महाबाहुर्वार्यमाणो बलाद् यम ॥ २२॥
यम उवाच ।
ब्रह्माण्डं चूर्णतां याति दण्डाघातेन यस्य मे ।
तस्य मे पुरतो युद्धं कथं बालो विधास्यसि ॥ २३॥
देव उवाच ।
त्वमात्मानं वर्णयसे रङ्कवद्भासि मे यम ।
मम वक्रभुवा सर्वं ब्रह्माण्डं च विनश्यति ॥ २४॥
एवमुक्त्वा मयूरेशो यमस्कन्धं रुरोह सः ।
पातयामास महिषात्पपातोपरि तत्क्षणात् ॥ २५॥
पराक्रमं तस्य बुद्ध्वा बद्धाञ्जलिपुटो यमः ।
तुष्टाव परया भक्त्या मयूरेशं सुरेश्वरम ॥ २६॥
यम उवाच ।
न ते रूपं विदुर्देवा ब्रह्माद्याः सनकादयः ।
नेति नेति च वेदात्स्वां वदन्ति परमेश्वरम् ॥ २७॥
स्रष्टारं पालकं सृष्टेः संहर्तारं निजेच्छया ।
दैत्यानां सर्वदुष्टानां नाशकं सर्वरूपिणम् ॥ २८॥
अकस्मादपराधं नः कृतं क्षन्तुं त्वमर्हसि ।
क उवाच ।
एवमुक्त्वा पुपूजासौ वस्त्रैः रत्नैः फलैरमुम् ॥ २९॥
बालानानीय तद्धस्ते निवेद्य पुरतः स्थितः ।
आलिलिङ्गुर्मुदा सर्वे परस्परमथाऽब्रुवन् ॥ ३०॥
बाला ऊचुः ।
श्रान्तास्त्वद्दर्शनार्थाय बद्ध्वा नीता यमेन ह ।
त्वद्दर्शनाद् बन्धमुक्ता यास्यामो निजमन्दिरम् ॥ ३१॥
क उवाच ।
ततस्ते स्वाश्रमं प्राप्ता मयूरेशपुरस्कृताः ।
मयूरेशपूरं याता नानावादित्रसङ्कुलम् ॥ ३२॥
नानाध्वजपताकाढ्यं पुष्पमालाविभूषितम् ।
यमोऽपि पृष्ठतो याति द्रष्टुं तत्कौतुकं महत् ॥ ३३॥
सम्मुखं तस्य ते सर्वे मुनयोऽपि ययुस्तदा ।
पुपूजुस्तुष्टुवुर्देवं लिलिङ्गुर्बालकानपि ॥ ३४॥
उवाचदेवतान्सर्वान् मुनीन्पूर्वं प्रकुप्यतः ।
आनीता बालका लोकाद् यमस्य क्षणमात्रतः ॥ ३५॥
मुनय ऊचुः ।
सर्वत्र रक्षसे त्वं हि सर्वशक्तिः सदा च नः ।
क उवाच ।
इत्युक्त्वा तमनुज्ञाप्य स्वाश्रमान्मुनयो ययुः ॥ ३६॥
यमोऽपि तं नमस्कृत्य स्वालयं मुदितोऽगमत् ।
देवोऽपि स्वालयं प्राप्य हर्षयामास मातरम् ॥ ३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे यमगर्वपरिहारो (रविजगर्वपरिहारो) नामाष्टाधिकशततमोऽध्यायः ॥ १०८॥
आदितः श्लोकानां समष्ट्यङ्काः - ९०२० + ३७ = ९०५७
२.१०९ राक्षसवधो नाम नवाधिकशततमोऽध्यायः
कदाचित्पार्वती प्राह सुखासीनं महेश्वरम् ।
गतानि तु महादेव वर्षाणि दशपञ्च च ॥ १॥
विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् ।
सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी ॥ २॥
पिकवाक् सुनसा तन्वी वधूः क्वापि विचार्यताम् ।
मन्मथातुलदेहस्य सर्वाङ्गसुन्दरस्य ह ॥ ३॥
क उवाच ।
इति तद्वचनं श्रुत्वा साधु साध्वित्यभाषत ।
सोऽचिन्तयच्छुभां कन्यां मनसा नापकुत्रचित् ॥ ४॥
ततश्चिन्तां परां प्राप तावन्नारद आगतः ।
सम्पूज्य चोपवेश्यैनमासने शम्मुरब्रवीत् ॥ ५॥
शम्भुरुवाच ।
आल्हादं परमं प्राप्तस्तवागमनतो मुने ।
चिरागतोऽसि च मुने दिनं स्थातुं त्वमर्हसि ॥ ६॥
अतिसुन्दरकायस्य तनयस्य ममानघ ।
गवेषय वधूं विप्र यतस्त्रैलोक्यगो भवान् ॥ ७॥
क उवाच ।
तथैव पार्वती प्राह वधूं शीघ्रं विचारय ।
नारद उवाच ।
न स्थातुं शक्यते स्वामिन् कर्मणा द्विमुहूर्तकम् ॥ ८॥
एतदर्थमहं प्राप्तो ब्रह्मणा प्रेषितः शिव ।
तव पुत्रप्रभावश्च लावण्यं वय एव च ॥ ९॥
ज्ञातं धात्रा सिद्धिबुद्धी तस्मै दातुमभीप्सता ।
अनसूया शची चापि तयो रूपेण लज्जिते ॥ १०॥
संज्ञाऽभूद्दण्डकारण्ये शिलाऽहल्यापि सा ह्यभूत् ।
जालन्धरस्य या पत्नी वृन्दा माधवमोहिनी ॥ ११॥
सापि वृक्षत्वमापन्ना यद्रूपदर्शनाद् हर ।
अन्ये नानावरा गौरि नागता ब्रह्मणो हृदि ॥ १२॥
नैतादृशं क्वापि देवि सौन्दर्यं शौर्यमेव च ।
तयोर्योगेन च तव सुतः शोभामवाप्नुयात् ॥ १३॥
रत्नकाञ्चनयोर्यद्वद्यथा मुक्ताप्रवालयोः ।
क उवाच ।
एवं नारदवाक्येन स तुतोष हरः शिवा ॥ १४॥
शिव उवाच ।
सम्यगुक्तं मुने वाक्यं वाञ्छितार्थकरं शुभम् ।
क उवाच ।
शिवोऽपि तत्क्षणादेव वृषारूढः समाह्वयत् ॥ १५॥
इन्द्रादीदेवनिचयान्गौतमादीन्मुनीनपि ।
अर्धाङ्गे पार्वतीं गृह्य ययौ हर्षसमन्वितः ॥ १६॥
शिखण्डिनं समारुह्य मयूरेशः पुरो ययौ ।
नारदस्तु तपोयोगादन्तरिक्षचरो ययौ ॥ १७॥
सप्तकोटिगणाः क्रीडां कुर्वन्तोऽभिययुस्तदा ।
नानायुधधरा हर्षाद् गर्जयन्तो दिशोदश ॥ १८॥
वाद्यत्सु सर्ववाद्येषु रजसाच्छादिते रवौ ।
अष्टाशीतिसहस्राणि मुनयोऽपि ययुर्मुदा ॥ १९॥
गण्डकीनगरं सर्वं गन्तुकामा व्यलोकयन् ।
गुल्मं मार्गे रक्षसां ते सप्तकोटि गणान्वितम् ॥ २०॥
नभस्पर्शिमुखानां च सर्वदा कालधिक्कृताम् ।
निशाचराः शुश्रुवुस्ते सेनायास्तु रवं दृढम् ॥ २१॥
सुप्तोत्थिताश्च सन्नद्धा ययू रणविधित्सया ।
राक्षसा ऊचुः ।
कस्य यूयं कुतो याथ कृत आगमनं च वः ॥ २२॥
न विज्ञाय पुरे गन्तुं दास्यामः स्वामिनश्च नः ।
मयूरेश उवाच ।
स्वतन्त्रा अन्तका दैत्यरक्षसां साधुपालकाः ॥ २३॥
अत्तो यच्छन्तु नो मार्गं नो चेन्नाशं व्रजिष्यथ ।
क उवाच ।
एतस्मिन्नन्तरे प्राप्तो विकृतो हेमनामकः ॥ २४॥
असुरोऽथाब्रवीद् देवमेकाकी प्रहितः पुरा ।
इदानीं राक्षसैः सार्द्धमादास्ये जीवितं तव ॥ २५॥
उवाच राक्षसान् सोऽथ नानादैत्या हता बलात् ।
अहं च विकृतोऽनेन यतोऽहं हन्यते जवात् ॥ २६॥
क उवाच ।
इति तद्वचनं श्रुत्वा चुक्रोध स मयूरराट् ।
मुनिपुत्रान्समाज्ञाप्य युध्यध्वं मे ह्यनुग्रहात् ॥ २७॥
कुशानुद्यम्य ते हर्षात् युद्धं कर्तुं समुद्यताः ।
उवाच पृष्ठतो देवो घ्नन्तु बालाः कुशैरिमान् ॥ २८॥
मन्त्रितास्ते कुशास्तेषां मस्तकानच्छिनन् बहून् ।
तेषां शस्त्राणि कुण्ठानि जातानि तदनुग्रहात् ॥ २९॥
जायन्ते तावदेते तान् कुशैर्जघ्नुस्तु राक्षसान् ।
खण्डशस्ते निपेतुर्वै छिन्नबाहूरुजानवः ॥ ३०॥
व्यस्मयन्त च रक्षांसि तृणैर्मृत्युं व्रजन्ति किम् ।
एवं सर्वे हता बालैरखिला राक्षसास्तदा ॥ ३१॥
जगर्जुस्ते मयूरेशं प्रापुर्नत्वाऽप्यपूजयन् ।
बाला ऊचुः ।
आज्ञया निहताः सर्वे राक्षसास्त्वत्प्रसादः ।
पनराज्ञां नः प्रयच्छ करिष्यामो गुणेश्वर ॥ ३२॥
आश्चर्यं परमं जग्मुर्मुनयो ये समागताः ।
दृष्ट्वा बालैर्हतान्त्सर्वान् राक्षसान्कुशसञ्चयैः ॥ ३३॥
पार्वती वृषभात् तस्मादवरुह्यालिलिङ्ग तम् ।
शिवोऽपि प्राब्रवीद्देवं दृष्टस्तेऽद्य पराक्रमः ॥ ३४॥
तव शस्त्रहताः पूर्वं निहता बालकैः कुशैः ।
ब्रह्मादीनामगम्यस्ते प्रभावो गिरिजासुत ॥ ३५॥
न ज्ञायते मया वापि किं किमग्रे करिष्यसि ॥ ३६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे राक्षसवधो नाम नवाधिकशततमोऽध्यायः ॥ १०९॥
आदितः श्लोकानां समष्ट्यङ्काः - ९०५७ + ३६ = ९०९३
२.११० दशाधिकशततमोऽध्यायः
क उवाच ।
जयशाली मयूरेशो यात्यग्रे हर्षनिर्भरः ।
पृष्ठतो यान्ति बालास्ते ततो वृषगतः शिवः ॥ १॥
गौतमाद्या मुनिगणा लग्नसिद्ध्यै ययुस्ततः ।
गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च ॥ २॥
योजनावधि गण्डक्या अवरुह्य शिखण्डिनः ।
अतिष्ठत् स मयूरेशो महार्घासनमुत्तमम् ॥ ३॥
ततः सर्वानुपावेश्य शिवं गणमुनीश्वरान् ।
वाद्यत्सु सर्ववाद्येषु तानाह स मयूरराट् ॥ ४॥
सिन्धुना निहिताः कारागृहे शक्रादिदेवताः ।
विना तन्मोचनं लग्नसिद्धिर्नैव भविष्यति ॥ ५॥
अतस्तन्मोचनार्थाय प्रेष्यतां सिन्धवे महान् ।
बुद्धिमान् स गृहीत्वा चेदागच्छेत् तान् सुरानथ ॥ ६॥
तदा साम्नैव सर्वेषां कुशलं हि भविष्यति ।
नो चैद्युद्धेन जष्यामो रणे सिन्धु महाबलम् ॥ ७॥
मोचयिष्याम तान् देवाँस्ततो लग्नं भविष्यति ।
क उवाच ।
एवं तद्वचनं श्रुत्वा प्राहुः सर्वे गुणेश्वरम् ॥ ८॥
सम्यगुक्तं मयूरेश सुधया सदृशं वचः ।
बालभाऽवेपि ते बुद्धिर्बृहस्पतिसमा शुभा ॥ ९॥
पुष्पदन्तं महाबुद्धिं नीतिशास्त्रविशारदम् ।
प्रेष्यतां सिन्धुनिकटे देवमोचनहेतवे ॥ १०॥
वक्तारं बलिनं श्रेष्ठं स्तोत्रसन्तोषितेश्वरम् ।
क उवाच ।
तत ऊचे पुष्पदन्तो मयूरेशं सुरेश्वरमः ॥ १॥
महिमा ते मयूरेश मनोवाचामगोचरः ।
जानन्ति न जना मायामोहितास्तव नित्यदृक् ॥ १२॥
भूभारहरणार्थं त्वमवतीर्णः शिवालये ।
न मां प्रेषय तत्र त्वमन्यं प्रेषय साम्प्रतम् ॥ १३॥
अपारसेनया युक्तं सिन्धुदैत्यं महाबलम् ।
उद्धृतं बलिनं द्रष्टुमहं शक्क्ष्यामि न क्वचित् ॥ १४॥
युद्धमेव करिष्यामि ततो दोर्दण्डतेजसा ।
यदि साम्ना भवेत्कार्यं युद्धं तत्र वृथा मतम् ॥ १५॥
दानं भेदो वृथा दण्डो नीतिरेषा सनातनी ।
एवमाकर्ण्य तद्वाक्यमुवाच पार्वतीपतिः ॥ १६॥
सम्यगुक्तः पुष्पदन्त नीतिमार्गः पुरातनः ।
क्रोधवान् क्षमः साम्नि केवलं बलवान् परः ॥ १७॥
धरिष्यति महादुष्टं प्रेषितश्चेत् षडाननः ।
प्रेषितो वीरभद्रश्चेत्क्रोधमेव करिष्यति ॥ १८॥
शृङ्गी चेत्प्रेषितस्तत्र संहारं स विधास्यति ।
प्रमथः प्रेषितो मत्तो न जाने किं करिष्यति ॥ १९॥
प्रेषितश्चेद् भूतराजो भाषयिष्यति तां सभाम् ।
स्त्रीसम्भोगरतः स्यात्तु प्रेषितो रक्तलोचनः ॥ २०॥
ततोऽब्रवीन्मयूरेशो निरस्तेषु च तेषु च ।
नन्दी समुद्रगम्भीरो धैर्ये पर्वतसन्निभः ॥ २१॥
बुद्ध्या बृहस्पतिसमो जम्भारिसदृशो बलम् ।
धूर्तः पराशयज्ञाता प्रेष्यतां सामहेतवे ॥ २२॥
शिव उवाच ।
सम्यगुक्तं मयूरेश ज्ञातासि गुणदोषयोः ।
नन्दिने दीयतां वस्त्रं रत्नानि विविधानि च ॥ २३॥
ततो ददौ मयूरेशस्तानि तस्य शिवाज्ञया ।
आज्ञापयामास च तं गच्छ सिन्धुं महाबलम् ॥ २४॥
यथा देवा विमुच्यन्ते तथा नीतिर्विधीयताम् ।
स तु नत्वा मयूरेशं स शिवां शिवमेव च ॥ २५॥
गणान्सर्वान्महावाक्यैः स्तुत्वा तं च शिवं शिवाम् ।
उवाच बुद्धिसम्पन्नो दिष्टयोचितमिदं वचः ॥ २६॥
नन्द्युवाच ।
स महान् जायते लोके यस्य वः स्यादनुग्रहः ।
अतोऽहं श्रेष्ठतां नीतः साधयिष्ये प्रयोजनम् ॥ २७॥
वः प्रसादेन भूगोलं विधास्ये न्युब्जमञ्जसा ।
शेषं सूर्यं वो निकटे आनयिष्ये न संशयः ॥ २८॥
क उवाच ।
एवमुक्त्वा ययौ नन्दी सिन्धुदैत्यं बलान्वितः ।
गतः स नगरद्वारं मनोवेगेन धैर्यवान् ॥ २९॥
ध्यायन्गणेशं शम्भुं च शिवां सर्वार्थसाधिकाम् ।
ऋतां कर्तुं प्रतिज्ञां तां प्रार्थयामास चेतसि ॥ ३०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे दूतप्रेषणं नाम दशाधिकशततमोऽध्यायः ॥ ११०॥
आदितः श्लोकानां समष्ट्यङ्काः - ९०९३ + ३० = ९१२३
२.१११ विचारवर्णनं नामैकादशाधिकशततमोऽध्यायः
क उवाच ।
प्रायात्सभां महारम्यां द्वारपालनिवेदितः ।
नन्दी ननन्द तं दृष्ट्वा दैत्यं सिन्धु सभागतम् ॥ १॥
महावीरैः परिवृतं नानाशस्त्रेषु पाणिभिः ।
वाराङ्गनानृत्यरतं वीज्यमानं नृभिर्मुदा ॥ २॥
वाद्यत्सु सर्ववाद्येषु नादनादितदिक्षु च ।
दृष्ट्वा तं नन्दिनं केचिन्मेनिरे रविमागतम् ॥ ३॥
महाकायं महावीरं वीक्ष्य केचिच्चकम्पिरे ।
जगर्जुरपरे तत्र भीषयन्तो बलादमुम् ॥ ४॥
न बिभेति महाधैर्यान्नन्दी स्वबलगर्वितः ।
करसंज्ञार्पितं नन्दी भेजे आसनमुत्तमम् ॥ ५॥
सर्वे तटस्थतां याताश्चित्रगा इव पुत्तलाः ।
बुद्ध्वा तदिङ्गितं प्राह नन्दी वाचस्पतिः परः ॥ ६॥
नानासभा दृष्टपूर्वा नेदृशास्तासु मूढकाः ।
यूयं सर्वेतिबलिनः श्रिया परमशोभिताः ॥ ७॥
सुन्दराः कामसदृशा बुद्ध्या हीना वृका इव ।
सभायामागतः साधुरसाधुर्दुर्बलो बली ॥ ८॥
प्रष्टव्यो माननीयश्च नीतिरेषा सनातनी ।
न सा दृष्टा सभामध्ये ह्यतो मे विस्मितं मनः ॥ ९॥
वृथा सभासदः सवें वृथाऽमात्याश्च नागराः ।
नायं धर्मो राज्ञ एव सभ्यानां कृत्यमेव तत् ॥ १०॥
क उवाच ।
इति तद्वचनं श्रुत्वा सिन्धुः प्रोवाच नन्दिनम् ।
पद्मयोनेरिव तव मतिर्दृष्टा गुणाकर ॥ ११॥
कस्य त्वं कुत आयातः किमर्थं वा वृषेश्वर ।
तेजसा वह्निसदृशः पञ्चास्य इव विक्रमे ॥ १२॥
नन्द्युवाच ।
सुरभेः कामरूपाया अपत्यं नन्दिनामकम् ।
विद्धि मां गिरिजानाथवाहं ब्रह्माण्डभेदिनम् ॥ १३॥
मयूरेशो धराभारहरो दुष्टनिबर्हणः ।
अवतीर्णः शिवगृहे बाल्यात् प्रभृति दैत्यहा ॥ १४॥
शेषो मूकोऽभवत् तस्य प्रतापवर्णनेऽब्जजः ।
समुद्रमथनाद् यद्वद् रत्नजातं बहिर्ययौ ॥ १५॥
तद्वन्नीतिं विमथ्याऽद्य कार्यसिद्धिं विचारय ।
आज्ञां शृणु मयूरेशप्रेषितां बलवत्तराम् ॥ १६॥
आज्ञाभङ्गे तस्य भवद् विनाशो यस्य कस्यचित् ।
यतः स सृजते विश्वं पाति हन्ति चराचरम् ॥ १७॥
त्वया विनिहिताः कारागृहे देवगणा बलात् ।
पदानि तेषां लब्धानि भाग्यं स्यात् किमतः परम् ॥ १८॥
इदानीं वैरनिर्मोकं विचार्य कर्तुमर्हसि ।
मोचयाशु सुरान् सर्वानाज्ञया स्वामिनो मम ॥ १९॥
त्रिपुरेण कृतं वरं शिवेन सह तत्क्षणात् ।
हिरण्यकशिपुं स्तम्भेऽवतीर्य हतवान् हरिः ॥ २०॥
तारकेण जिता देवा अतिष्ठत् तत्पदे स्वयम् ।
स्कन्देन निहतो युद्धे क्षणेन तारको बलात् ॥ २१॥
अतो दत्त्वा सुरान्मह्यं तिष्ठ स्थाने सुखं चिरम् ।
क उवाच ।
एवं नन्दिवचः श्रुत्वा चुक्रोध सिन्धुदैत्यराट् ॥ २२॥
उवाच रक्तनयनो वमन्निव हुताशनम् ।
सिन्धुरुवाच ।
चातुर्यं बहुधा दृष्टं त्वदीयं वृषनन्दन ॥ २३॥
प्रसङ्गं नैव जानासि यतो वाचस्पतेरपि ।
अज्ञानात् प्रकृतार्थस्य वचो याति वृथार्थताम् ॥ २४॥
बालस्य तव वाक्येन स्वामिनस्तेऽपि वाक्यतः ।
मोचयेयं कथं देवान् यावत्सोऽपि न निर्जितः ॥ २५॥
प्रमाणं किन्नु ते वाक्यं तृणादवनचारिणः ।
क्व ते गिरीशस्तत्पुत्रो वृथा भीतिः प्रदर्श्यते ॥ २६॥
लाङ्गले योजयाम्यद्य दौत्येन नागतो यदि ।
यदि मे वक्रतां यायाद् भृकुटी क्रोधतो वृष ॥ २७॥
तदा त्रिभुवनं नश्येत् का तत्र गणना तयोः ।
रुष्टः शृगालः किं कुर्यादप्रियं सिंहनागयोः ॥ २८॥
क उवाच ।
एवं शब्दशरैर्विद्धो नन्दी क्रोधादथाब्रवीत् ।
नन्द्युवाच ।
विपरीतां मतिं तेऽद्य लक्षयाम्य सुराधम ॥ २९॥
सन्निपातीव विकलं वल्गसे मरणोन्मुखः ।
पूर्वं साम प्रयोक्तव्यमिति तेनाहमीरितः ॥ ३०॥
त्वयि नीतिर्वृथा जाता ह्युपदेशो यथा खले ।
यदि निन्दा प्रयुक्ता ते मयूरेशे शिवेऽपि च ॥ ३१॥
क्षीयमायुस्तया तेऽद्य न युद्धे जयमेष्यसि ।
इदानीं हन्मि त्वां मूढ नाज्ञाऽस्ति स्वामिनो मम ॥ ३२॥
नायकेन न हन्तव्यो दूतस्तेनापि नायकः ।
इत्युक्त्वा पातयन् दैत्यान् नन्दी निश्वासवायुना ॥ ३३॥
क्रोधेन तमपृष्ट्वैव प्रतस्थे हर्षनिर्भरः ।
सान्निध्यं प्राप्य देवस्य मयूरेशस्य तत्क्षणात् ॥ ३४॥
दूराद् ददर्श देवोऽपि प्राह नन्दी समागतः ।
प्रणिपत्याब्रवीद् देवं वृत्तान्तं सर्वमादितः ॥ ३५॥
नन्द्युवाच ।
बहुधा बोधितो दैत्यो न स्वीचक्रे वचो मम ।
निर्भर्त्सितो बहुविधं तेनाहं च मया च सः ॥ ३६॥
न्युब्जे घटे यथा बिन्दुस्तस्मिन्सर्वं वृथा भवेत् ।
क उवाच ।
इति तद्वचनं श्रुत्वा प्रयातस्य यथागतम् ॥ ३७॥
जहर्ष स मयूरेशो दैत्यमर्दनलालसः ।
आज्ञापयत्स युद्धाय प्रमथादीदान् गणांस्तथा ॥ ३८॥
इदानीं सिन्धुनगरे युद्धं कर्तुं समुत्सुकाः ।
गर्जन्तु वीरशब्दैश्च मोचितुं बन्धनात् सुरान् ॥ ३९॥
हत्वा सिन्धुं च सबलं मोचितुं चाखिलान्सुरान् ।
मुनीनां त्वरमाणानां गन्तुं स्वाश्रममण्डलम् ॥ ४०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विचारवर्णनं नामैकादशाधिकशततमोऽध्यायः ॥ १११॥
आदितः श्लोकानां समष्ट्यङ्काः - ९१२३ + ४० = ९१६३
२.११२ द्वादशाधिकशततमोऽध्यायः
क उवाच ।
शिखण्डिनं समारुह्य मयूरेशः परे दिने ।
आयुधानि च चत्वारि प्रगृह्य करपङ्कजे ॥ १॥
जगर्ज घनवद् घोरं ययौ रणचिकीर्षया ।
शिवोऽपि गर्जन् सहसा वृषारूढो ययौ तदा ॥ २॥
सप्तकोटिगणाः पश्चात्सन्नद्धा ययुरोजसा ।
ततो नन्दी प्राह तत्र न गन्तुं सहसाऽर्हथ ॥ ३॥
गणानां नायके वीरभद्रे च मयि तिष्ठति ।
प्रमथे वा विद्यमाने शक्ते हन्तुं सुरद्विषाम ॥ ४॥
पश्यन्तु सेवकमहस्ततो यान्तु सुसंयुगम् ।
क उवाच ।
भारतीमेवमाकर्ण्य देवो नन्दीरितां तदा ॥ ५॥
उवाच परमप्रीतः साधु साधु त्वयोदितम् ।
पराक्रमवतः सिन्धोर्द्रष्टव्यस्तु पराक्रमः ॥ ६॥
इति यामि पुरो नन्दिन् यूयं यान्तु सहैव नः ।
ततस्तु भूतराजोऽथ पुष्पदन्तोऽपि वीर्यवान् ॥ ७॥
ईयतुः पुरतस्तस्य कोटिसङ्ख्यायुता गणाः ।
वीर्यश्रिया दीप्यमानाः सर्वे वीरा मदान्विताः ॥ ८॥
आक्रमन्तो दिगन्तान् वै गर्जन्तो घनवद् भृशम् ।
भारेण शेषशीर्षाणि नामयन्तो धरामपि ॥ ९॥
क्रोधानलं वमन्तस्ते प्रापुस्तां गण्डकीं पुरीम् ।
दैत्यगुल्मे निपेतुस्ते दशकोटयसुरैर्युते ॥ १०॥
ततस्तत्राभवद्युद्धं तुमुलं रोमहर्षणम् ।
शस्त्रास्त्रैर्बाणनिचयैर्भिण्डिपालपरश्वघैः ॥ ११॥
केषाञ्चिन्मस्तका भिन्नाः पादा हस्तास्तथोरवः ।
जानुजङ्घाश्च गुल्फाश्च भग्नाः केऽपि गतासवः ॥ १२॥
निपत्य पुनरुत्थाय प्रायुध्यन् स्वपरैः सह ।
एवं निपतिता दैत्या असङ्ख्याता गतासवः ॥ १३॥
पलाय्य निर्गताः केचिदाचख्युः सिन्धवेऽखिलम् ।
सभामध्ये वीरगणैरुपविष्टाय केचन ॥ १४॥
शस्त्राघतैः स्रवद्रक्ताः पुष्पिता इव किंशुकाः ।
तत्रागत्य मृताः केचित् केचित् धैर्यात्तमब्रुवन् ॥ १५॥
नगरद्वारगुल्मे तु दशकोटिनिशाचराः ।
निवृत्ताः शस्त्रसङ्घातैर्युद्धं कृत्वा परस्परम् ॥ १६॥
यदा शैलभिदो युद्धमभूत्तत्र जयोऽभवत् ।
उपविष्टोऽसि किं तूष्णीं सिन्धो स्वहितमाचर ॥ १७॥
आरामा रिपुभिर्दग्धा गृहाणि च प्रतोलिकाः ।
अन्धकारे धूलिकृते प्रापलन्वह्नितेजसा ॥ १८॥
भुञ्जन्तो निद्रिताः केचिन्निर्ययुर्नगराद्बहिः ।
बालानादाय पपलुस्त्यक्त्वा भोगं च केचन ॥ १९॥
विस्रस्तवसनाः केचिद्ध्यानस्था वह्निना हुताः ।
तत्रापि निधनं जग्मुर्नानाशस्त्रप्रहारतः ॥ २०॥
धनञ्जयं सर्वदिक्षु वीक्ष्य पौरा भयातुराः ।
मेनिरे प्रलयं प्राप्तं दह्यते सकला पुरी ॥ २१॥
क उवाच ।
एवं दूतमुखाच्छुत्वा सिन्धुर्जृम्भामथाकरोत् ।
खादन्निव मृगान्सिंहः पर्वतेन्द्रविनिर्गतः ॥ २२॥
उवाच दुर्धरा सेना दृश्यते किं भविष्यति ।
दिदीपे क्रोधानलतो ग्रसन्निव त्रिविष्टपम् ॥ २३॥
सिंहस्याग्रे किं शशकः करिष्यति पराक्रमम् ।
मेरोः किं शलभः कुर्याच्चालनं जम्बुकोऽपि वा ॥ २४॥
कालस्य मम किं कुर्याद्बालोऽयं तु मयूरराट् ।
इत्युक्त्वा क्ष्वेडितेनासौ नादयन्विदिशो दिशः ॥ २५॥
चिन्तातुरः क्षणं तस्थौ मुनिर्मौनमिवास्थितः ।
ततो वीरा सिन्धुदैत्यं प्राब्रुवन्क्रोधमूर्छिताः ॥ २६॥
आज्ञां देहि मयूरेश जेष्यामः क्षणमात्रतः ।
तव प्रतापात्त्रैलोक्यं वशं नेष्याम साम्प्रतम ॥ २७॥
सिन्धुरुवाच ।
सम्यगुक्तं महावीरा ममापि रिपुदर्शने ।
मन उत्कण्ठितं यस्मात्सैन्येन युद्धयतामिह ॥ २८॥
ततः सर्वे पुरो याता गर्जन्तो वीरसत्तमाः ।
असङ्ख्याताः शस्त्रधराश्चतुरङ्गबलान्विताः ॥ २९॥
हयारूढः सिन्धुदैत्यः क्रोधहर्षसमन्वितः ।
वमन्क्रोधानलं वक्त्रान्नेत्राभ्यां रणदुर्मदः ॥ ३०॥
ययावश्वं पुरोधाय मनोवेगं महाधनम् ॥ ३१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे द्वादशाधिकशततमोऽध्यायः ॥ ११२॥
आदितः श्लोकानां समष्ट्यङ्काः - ९१६३ + ३१ = ९१९४
२.११३ मित्रकौस्तुभवधो नाम त्रयोदशाधिकशततमोऽध्यायः
क उवाच ।
पदातयः पुरो यान्ति कम्पयन्तो वसुन्धराम् ।
विकरालमुखा वीराः सिन्दूरारुणमस्तकाः ॥ १॥
केचिन्निबद्धकवचा मुक्तकेशाः सुदारुणाः ।
केचिन्निबद्धकटयः केचिच्चन्दनचर्चिताः ॥ २॥
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ।
पुरो यान्ति गजा मत्ता धातुचित्रा इवादयः ॥ ३॥
दीर्घदन्ता विभान्ति स्म भूषणैर्विविधैरपि ।
घण्टानादैर्जनं सर्वं बधिरं चक्रुरञ्जसा ॥ ४॥
चूर्णयन्तो गिरीन् वृक्षान् ययुः शुण्डाप्रहारतः ।
लसत्कुम्भाः पताकाढ्याश्चित्रध्वजविराजिताः ॥ ५॥
ततोऽश्वाश्च खुराघातैश्चूर्णयन्तो वसुन्धराम् ।
हेषितैर्नादयन्तो वै गगनं च दिशो दश ॥ ६॥
सुवर्णरत्नमुक्ताभिर्भूषिता व्योमचारिणः ।
अधिष्ठिता महायोधैस्तनुत्राणप्रशोभिभिः ॥ ७॥
नानाशस्त्रधरैर्वीरैः परसेनाविमर्दिभिः ।
ततस्तु रथिनो जग्मुः शस्त्रास्त्रै रिपुघातिनः ॥ ८॥
सहिता युद्धमार्गज्ञैर्वरैः सारथिभिर्मृधे ।
मुक्तामणिमया माला वहन्तो गन्धमालिनः ॥ ९॥
धनुस्कन्धास्तूणभृतो भल्लहस्ताः सखङ्गकाः ।
शस्त्रप्रभाभिर्नेत्राणि छादयन्तो जनस्य ह ॥ १०॥
एवं सेना समायाता गर्जयन्ती दिशो दश ।
भूतराजेन सा दृष्टा पुष्पदन्तेन वाहिनी ॥ ११॥
मयूरेशमुभौ यातौ ततो भीत्या पलायितौ ।
तावूचतुः ।
तवाज्ञया पुरो यातावावाभ्यां निहता चमूः ॥ १२॥
गुल्मस्था नगरद्वारि दग्धं च नगरं बहु ।
प्रतापं नौ समाकर्ण्य सिन्धुः स्वयमुपागतः ॥ १३॥
चतुरङ्गा चमूं गृह्य नानाशस्त्रास्रधारिणीम् ।
ततो भीत्या भवन्तं च समायातौ महाबल ॥ १४॥
क उवाच ।
सिन्धुसैन्यसमुद्रोऽथ वदतोरेवमेतयोः ।
ददृशे पूर्वदिग्भागे दुस्तरः शस्त्रयोधिभिः ॥ १५॥
ततो हर्षयुतो ज्ञात्वा दैत्यवृत्तं समासतः ।
नीलकण्ठं समारुह्य मयूरेशो ययौ पुरः ॥ १६॥
आयुधानि च चत्वारि चतुर्दोषु प्रगृह्य सः ।
सन्नद्धा गणकोटयस्ता धनुर्बाणासिपाणयः ॥ १७॥
परिवार्य स्थिता देवं नीलकण्ठं वृषस्थितम् ।
मुनीश्वराः स्तुवन्ति स्म ददुराशीर्वचोऽपि तम् ॥ १८॥
उभयोः सेनयोर्वाद्यघोषकोलाहलो महान् ।
परस्परं सम्पदं तां वीक्ष्यसेने सुविस्मिते ॥ १९॥
असङ्ख्यात बलं वीक्ष्य तुतोष स मयूरराट् ।
यदुक्तं नन्दिना पूर्वं तदृष्टं सर्वमेवहि ॥ २०॥
ततो नन्दी मयूरेशं नत्वा गर्जन्मुहुर्ययौ ।
नभोमार्गेण सैन्येषु चिच्छेद वीरमस्तकान् ॥ २१॥
शृङ्गाघातेन महता हयमस्याहनद् दृढम् ।
शीघ्रमुड्डीय च ययौ मयूरेशं यथाऽक्षतः ॥ २२॥
आश्चर्यं चक्रिरे सर्वे गणाः साध्विति शंसिरे ।
छत्रं च पातयामास नन्दी शृङ्गप्रहारतः ॥ २३॥
पतितेऽश्वे च छत्रे च सिन्धुरश्वान्तरे गतः ।
धारयामास च तदा छत्रमन्यन्महाधनम् ॥ २४॥
आश्चर्यं परमं मेने नन्दिनः कर्मणाऽसुरः ।
चुक्रोध स महावीरान्क्व गतो वः पराक्रमः ॥ २५॥
एवमाकर्ण्य तद्वाक्यं कौस्तुभो मैत्र एव च ।
अमात्यौ तं नमस्कृत्य सेनया चतुरङ्गया ॥ २६॥
मा चिन्तां करु सिन्धो त्वं विधास्यावो रिपुक्षयम् ।
अन्यथा न मुखं नाथ दर्शयावः कथञ्चन ॥ २७॥
एवमुक्त्वा प्रचलितौ परसैन्यनिबर्हणौ ।
पदातीनां गणा याता ब्रह्माण्डास्फोटतत्पराः ॥ २८॥
न्युब्जतामिच्छवो नेतुं भूगोलं रणदुर्मदाः ।
कौस्तुभोऽथ मयूरेशं यातो मैत्रश्च पातितुम् ॥ २९॥
शरवर्षैः परिच्छाद्य यातावस्यान्तिकं यदा ।
वीरभद्रस्तदायातो योद्धुं स च षडाननः ॥ ३०॥
असङ्ख्यसेनया युक्तौ गर्जयन्तौ दिशोदश ।
निजघ्नतुरुभौ रोषात् सिन्धुं नानाप्रहारतः ॥ ३१॥
कौस्तुभोप्यथ मैत्रश्च जघ्नतुस्तौ परस्परम् ।
सहस्व मारयस्वेति व्याहरन्तः परस्परम् ॥ ३२॥
शस्त्रैरस्त्रैरनेकैश्च ताभ्यां युद्धमकुर्वताम् ।
शरव्रातैर्भिभिण्डिपालैः परिघैर्मुसलैरपि ॥ ३३॥
नानासेनाचरा जघ्नुः परस्परवधेप्सवः ।
नष्टेषु सर्वशस्त्रेषु शरेषु च परस्परम् ॥ ३४॥
मल्लयुद्धं प्रचक्रुस्ते जीवग्राहममारयन् ।
व्यसवः पतिताः केचिद् केचिद् रक्तं मुखाद् बहु ॥ ३५॥
पादं पादेन जघ्नुस्ते स्कन्धं स्कन्धेन चापरे ।
पृष्ठं पृष्ठेन केचिच्च हस्तं हस्तेन चापरे ॥ ३६॥
मस्तकं मस्तकेनैव कूर्परं कूर्परेण च ।
पतिताः पात्यमानश्च मृता भग्नाश्च चूर्णिताः ॥ ३७॥
छिन्नकण्ठा भिन्नभुजा भग्नजड़घोरुबाहवः ।
एवं नष्टेषु सैन्येषु सिन्धुसेना जयं ययौ ॥ ३८॥
जयशब्दैः स्तूयमानैर्बन्दिभिर्वाद्यनिस्वनैः ।
सिन्धुदैत्येश्वरं यातौ अमात्यौ मित्रकोस्तुभौ ॥ ३९॥
मयूरेशं समायातौ वीरभद्रषडाननौ ।
ततोऽस्तमगमत्सूर्यस्ततो युद्धमुपारमत् ॥ ४०॥
अपरेऽह्नि न्यध्यन्त देवसैन्येन दानवाः ।
पलायमानां तां सेनां निजघ्नुः शरसञ्चयैः ॥ ४१॥
पुनरावेशमापन्नौ वीरभद्रषडाननौ ।
गर्जन्तौ गर्जयन्तौ च गगनं च दिशो दश ॥ ४२॥
निघ्नन्तौ रिपुसेनां तां निदर्हन्तौ कृतान्तवत् ।
अन्धकारे महाघोरे न प्राज्ञायत किञ्चन ॥ ४३॥
स्वान् परानपि जघ्नुस्ते युध्यमाना महाबलाः ।
भग्नायां सिन्धुसेनायां चक्रतुर्जयनिस्वनम् ॥ ४४॥
दैत्यामात्यौ पुनर्यातौ मरणे कृतनिश्चयौ ।
प्रेरयामासतुरुभौ निजाश्वौ परवाहिनीम् ॥ ४५॥
किरन्तौ शरजालानि जघ्नतुः करवालतः ।
ततः षडाननो दृष्ट्वा तयोरतिपराक्रमम् ।
मुष्टिघातेन तौ हत्वा निजसेनामगाज्जवात् ॥ ४६॥
मित्रस्तु भूमिमगमद् वमनक्तं मुखाद्बहु ।
तथाविधं च तं दृष्ट्वा कौस्तुभो योद्धुमागतः ॥ ४७॥
षडाननमथो रोषान्निजघ्ने करवालतः ।
तस्मिन् मूर्च्छामवाप्ते तु वीरभद्रोऽप्ययुध्यत ॥ ४८॥
कौस्तुभः प्राहनद् रोषाच्छराघातैरनेकशः ।
सोऽपि तं प्राहनन्मुष्टया भूमौ चैनमघातयत् ॥ ४९॥
हते तस्मिन्ननन्दासौ वीरभद्रो महाबलः ।
पपाल दैत्यसेना सा हते मित्रे च कौस्तुभे ॥ ५०॥
तमुदन्तं शस्त्रहताः स्रवन्तो रुधिरं बहु ।
न्यवेदयन् दैत्यराजसिन्धवे देवशत्रवे ॥ ५१॥
वाचा विस्पष्टया दुःखाच्छस्राघातकृताद् भृशम् ।
जयमाकाङ्क्षते नित्यं मित्रकौस्तुभयोर्भृशम् ॥ ५२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे मित्रकौस्तुभवधो नाम त्रयोदशाधिकशततमोऽध्यायः ॥ ११३॥
आदितः श्लोकानां समष्ट्यङ्काः - ९१९४ + ५२ = ९२४६
२.११४ चतुर्दशोत्तरशततमोऽध्यायः
वीरा ऊचुः ।
नानाशस्त्रप्रहरणौ मृतौ तौ मित्रकौस्तुभौ ।
असङ्ख्याता हता सेना ताभ्यां निशि दिवाऽपि च ॥ १॥
ततो रिपुबलाद् दृष्टौ वीरौ द्वौ समुपस्थितौ ।
ताभ्यां बलिभ्यां निहता निजसेना विमर्दिता ॥ २॥
ययोः करप्रहाराभ्यां गतौऽतौ यमसादनम् ।
दृष्टा नानाविधा सेना न दृष्टौ तादृशौ सुरौ ॥ ३॥
सिन्धुरुवाच ।
यौ दृष्ट्वा स बिभेति स्म कृतान्तो भूतहारकः ।
तौ कथं शरघातेन मृतौ शंसथ सैनिकाः ॥ ४॥
पराक्रममिदानीं मे पश्यन्तु सर्वसैनिकाः ।
रणभूमौ नर्तयिष्ये शिरः शत्रोर्नसंशयः ॥ ५॥
चक्रयुद्धं करिष्यामि चक्रपाणेर्यतः सुतः ।
इत्युक्त्वा हृयमारुह्य मयूरेशं ययौ खलः ॥ ६॥
असङ्ख्यकोटयो दैत्यानां पुरो याता महाबलाः ।
योद्धुकामाः सुरेन्द्रेण शिवपुत्रेण दुर्धराः ॥ ७॥
ततो नन्दिपुष्पदन्तौ योद्धुं यातौ महाबलौ ।
भूतराजश्च विकटो दशलक्षैश्च योद्धृभिः ॥ ८॥
चपलोऽप्यर्धलक्षेण योद्धुकामोऽभिनिर्ययौ ।
षडाननो वीरभद्रोऽसङ्ख्यसेनासमायुतौ ॥ ९॥
ईयतुर्युद्धबलिनौ नानाशस्त्रधरावुभौ ।
सप्त व्यूहान् समालोक्य प्राव्यूहन् दैत्यसैनिकान् ॥ १०॥
गन्धासुरोऽथ मदनः कान्तो वीरो ध्वजस्तथा ।
महाकायश्च शार्दूलो धूर्तनामाथ सप्तमः ॥ ११॥
सप्तव्यूहान् पुरस्कृत्य युयुधुस्तान् समागतान् ।
बाणवृष्टया समाच्छाद्य भल्लाग्रैस्तान् निजघ्निरे ॥ १२॥
भिण्डिपालहताः केचिन्निपेतुर्धरणीतले ।
षडाननेन युयुधे बलाद् गन्धासुरो बली ॥ १३॥
वीरभद्रेण मदनकान्तोऽपि युयुधे रणे ।
नन्दी च वीरराजश्च युयुधाते परस्परम् ॥ १४॥
ध्वजासुरपुष्पदन्तौ शस्त्रास्त्रैर्बाणसञ्चयैः ।
भूतराजो महाकायो युयुधाते परस्परम् ॥ १५॥
धूर्तश्च विकटश्चैव द्वन्द्वयुद्धमकुर्वतान् ।
चपलेनं हतो रोषाच्छार्दूलो न्यपतद् भुवि ॥ १६॥
पुनः संज्ञामवाप्यैनं सोऽपि खड्गेन चाहनत् ।
मूर्च्छामवाप महतीं चपलश्चपलो युधि ॥ १७॥
प्रवृत्ते द्वन्द्वयुद्धे तु युयुधाते बले ह्युभे ।
जघ्नतुः शस्त्रसङ्घातैर्बाणजालैः परस्परम् ॥ १८॥
सहस्व जहि मा भैस्त्वं हतः स्वर्गं समेष्यसि ।
क्षीणेषु शस्त्रबाणेषु लत्ताभिर्मुष्टिभिः पुनः ॥ १९॥
ययधुः सर्वसैन्यानि नाशयन्ति परस्परम् ।
कश्चिच्च चरणौ धृत्वा पोथयामासं वैरिणम् ॥ २०॥
कश्चिदुड्डीय न्यपतच्चूर्णयामास वै परम् ।
कश्चिच्चिच्छेद च शिरः कश्चिद्बाहुं रिपो रणे ॥ २१॥
कश्चित्पादौ जानुनी चगुल्फौ चिच्छेद चापरः ।
शरवृष्टिं परे केचित् परस्परमवासृजन् ॥ २२॥
स्रवद्रक्तः शस्त्रहतो मरणावध्ययुध्यत ।
कबन्धा युयुधुस्तत्र जघ्नुः स्वांश्च परानपि ॥ २३॥
अपरे सहसा पेतुर्विदीर्णवक्षसो नराः ।
परस्पराघातहतौ मृतौ कौचिद् रणाजिरे ॥ २४॥
एकाप्सरः प्राप्तिकृते स्वर्गयुद्धमकुर्वताम् ।
असृङ्नद्यभवन् तत्र केशशैवलसंयुता ॥ २५॥
खड्ग मत्स्यवती खेटमहाकूर्मा दुरत्यया ।
प्रेतकाष्ठवहा घोरा चामरतृणसंयुता ॥ २६॥
कञ्चुकग्राहशोभाढ्या महाकटकभेकिका ।
शूरमोदकरा भीरूमहाभयविवर्धिनी ॥ २७॥
मेदोजला दुःखतरा मांसकर्दमशालिनी ।
ततोऽस्तमित आदित्ये न प्राज्ञायत किञ्चन ॥ २८॥
न हन्तव्या वयं दैत्यवाहिनीचारिणः सुराः ।
न हन्तव्या वयं देववाहिनीचारिणोऽसुराः ॥ २९॥
एवं कोलाहलैस्तत्र प्रायुध्यन्त परस्परम् ।
आशिषोऽथ ददुस्तत्र श्वापदा भूतराक्षसाः ॥ ३०॥
शृगालाः पतगाः श्येनास्तृप्ता पार्वतिनन्दनम् ।
दिनत्रयमभूदेवं दिवारात्रौ महारणः ॥ ३१॥
वाद्यशब्दैर्जयं रात्रौ घोषयन्तः परस्परम् ।
एवं गन्धासुरोऽयुध्यत् सेनान्या बहुविस्तरम् ॥ ३२॥
मद्यपानेन मत्तोऽसौ त्यक्त्वा शस्त्राणि वेगवान् ।
अहनद् मुष्टिघातेन सहसा तं षडाननम् ॥ ३३॥
न्यपतत् स तदा भूमौ वज्राहत इवाचलः ।
अधावत् सोऽपि लब्ध्वाशु सपक्ष इव पर्वतः ॥ ३४॥
संज्ञां द्वादशभिर्हस्तैरविध्यत् तं महासुरम् ।
शरजालान्यनेकानि विसृजन् षड्रधनुर्वरैः ॥ ३५॥
निवार्य शरजालानि छादयामास तं शरैः ।
गन्धासुरो महावेगात् षडाननमनामयम् ॥ ३६॥
तन्निवार्य दधारैनं चरणे स षडाननः ।
अकस्माद् भ्रामयित्वैनं पातयामास भूतले ॥ ३७॥
तस्याङ्गं शतधा जातं गतासोर्दृढघातः ।
तस्मिन्हते तस्य सेना ययौ व्यग्रा दिशोदश ॥ ३८॥
पृष्ठलग्नो निन्दति स्म सेनां तां स षडाननः ।
सेनश्च क्रोधनश्चैव शतघ्नो योद्धुमाययुः ॥ ३९॥
येषां शब्दो महानासीद् घनानामिव गर्जताम् ।
ऊचुः षडाननं दुष्ट सेना नो निहना बहु ॥ ४०॥
इदानीं याहि भवनं हतो रविसुतस्य ह ।
तत आच्छादयामासुर्युगपत् ते षडाननम् ॥ ४१॥
ग्रामसिंहा यथा सिंह बहवो बलवत्तराः ।
षड्धनुर्मोचितैर्बाणैर्न्यहनत् तान्षडाननः ॥ ४२॥
ततस्ते मूर्छिताः पेतुर्मुहूर्तादुत्थिता पुनः ।
पाशं क्षिप्त्वा स्कन्दगले निन्युस्तं पशुवत्त्रयः ॥ ४३॥
ज्ञात्वा नीतं षण्मुखं तमाधावंस्ते त्रयो जवात् ।
हिरण्यगर्भो बलवान् श्यामलो रक्तलोचनः ॥ ४४॥
त्रिभिस्ते मुष्टिघातेन हताः पेतुर्धरातले ।
ततो मदनकान्तोऽपि वीरभद्रो महाबलम् ॥ ४५॥
न्यहनच्छस्रघातेन स मूर्छां महतीं ययौ ।
त्यक्त्वा मूर्छां वीरभद्रो दण्डघातान्न्यपातयत् ॥ ४६॥
मृतं मदनकान्तं तं वीरराजो महाबलः ।
ज्ञात्वा प्रायान्निहन्तुं तांस्त्रीन् सुरान्बलवत्तरान् ॥ ४७॥
ततस्तान् न्यहनद् रोषाच्छृङ्गाभ्यां नन्दिकेश्वरः ।
अस्रवद् रुधिरं वक्त्राच्छतधा भूतलेऽपतत् ॥ ४८॥
तं हतं तु विलोक्याशु चत्वारोऽसुरसत्तमाः ।
आययुर्नन्दिनं हन्तुं शार्दूलोऽथ ध्वजासुरः ॥ ४९॥
महाकायो धृतश्चैव सर्वदेवजितो रणे ।
नानाशस्त्रैर्निजघ्नुस्ते नन्दिनं बलवत्तरम् ॥ ५०॥
पतिते नन्दिनि ततश्चत्वारो युद्धदुर्मदाः ।
पुष्पदन्तो भूतराजो विकटश्चपलोऽपि च ॥ ५१॥
ते तु शैलान् समादाय तोलयित्वा निचिक्षिपुः ।
सर्वेषां मस्तका भिन्नाश्चूर्णीभूताश्च केचन ॥ ५२॥
शराघातेन ते सर्वे धरायां पतिता रणे ।
केचिच्च सिन्धुमगमन् शस्त्रघातप्रपीडिताः ॥ ५३॥
पराजयं स्वसैन्यानां प्राहुर्देवजयं तथा ।
जयं प्राप्ता देवसेना बहुवाद्यान्यवादयत् ॥ ५४॥
मयूरेश मयूरेश जय त्वं जय सर्वदा ।
इत्यब्रवीद् हर्षयुता स्वानन्देन ननर्त च ॥ ५५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशसेनाविजयवर्णनं नाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४॥
आदितः श्लोकानां समष्ट्यङ्काः - ९२४६ + ५५ = ९३०१
२.११५ सिन्धुवैरुप्यकरणं नाम पञ्चदशाधिकशततमोऽध्यायः
क उवाच ।
श्रुत्वा सेनाजयं दैत्यौ ययौ चिन्तां महत्तराम् ।
अत्यन्तम्लानवदनो निमग्नो दुःखसागरे ॥ १॥
मनसा परितप्तेन चिन्तयामास दैत्यराट् ।
सिन्धुरुवाच ।
विपरीतमिदं कस्माज्जातं न ज्ञायते मया ॥ २॥
पिपीलिका ग्रसेत् किं नु ब्रह्माण्डं लोकसङ्कुलम् ।
यस्याग्रे मशका देवा आसन्निन्द्रादयो मम ॥ ३॥
शिवार्भकेन तस्याद्य कथं सेना विनिर्जिता ।
क उवाच ।
इत्युक्त्वा हयमारुह्य धनुर्बाणासिचर्मभृत् ॥ ४॥
अहत्वा तं मयूरेशं दर्शयिष्ये मुखं न च ।
इत्युक्त्वाऽभिययौ सिन्धू रणभूमौ पतङ्गवत् ॥ ५॥
सज्जं चकार च धनुर्नादयन् गगनं दिशः ।
व्यसृजद् बाणजालानि तीक्ष्णान्यग्निमुखानि सः ॥ ६॥
च कम्पे पृथिवी सर्वा मूर्छिता जन्तवोऽखिलाः ।
प्राक्षिपद् देवसेनायामसङ्ख्याताँश्च पत्रिणः ॥ ७॥
छिन्ना भिन्नाः सुराः पेतुस्तच्छस्राघातपीडिताः ।
पलायन्तः सुराः पेतुस्तेऽपि पृष्ठे शरैर्हताः ॥ ८॥
ततः सर्वा मयूरेशवाहिनी व्यग्रतामियात् ।
द्विधाभूता जानुपादाः केषाञ्चिन्मस्तका अपि ॥ ९॥
शरवृष्टया सिन्धुहस्तमुक्तया रणमूर्धनि ।
अभवत् तुमुलं युद्धमनिवार्यं भयावहम् ॥ १०॥
सिन्धोश्चैव गणेशस्य सेनयोरुभयोरपि ।
कोलाहले महाघोरे ध्वान्ते गाढे रजःकृते ॥ ११॥
पुरोगान् जघ्निरे सर्वे परान् स्वानपि ते तदा ।
शस्त्राघातैर्हता सेना देवसेनाचरैः परा ॥ १२॥
ततः सिन्धुर्हयात् तस्मादवरुह्य पदेऽग्रहीत् ।
पातयामास सहसा वीरभद्रं च वेगतः ॥ १३॥
अहनन्मस्तके सोऽथ नन्दिनं बलवत्तरम् ।
भूतराजं च खड्गेन मारयन्सहसाकटौ ॥ १४॥
पुष्पदन्तस्योदरं च बिभेद बलवत्तरम् ।
शिखामाक्रम्य प्राकर्षद्धिरण्यगर्भमोजसा ॥ १५॥
श्यामलस्य ललाटं स बिभेद शरघाततः ।
चपलस्य हनू रोषाज्जघान विकटं रणे ॥ १६॥
लम्बकर्णस्य कण्ठं स बिभेद बाणसञ्चयैः ।
धृत्वा तु चरणौ रक्तलोचनं च न्यपातयत् ॥ १७॥
हस्तान्निस्तीर्य सहसा सुमुखः प्रापलज्जवात् ।
सोमं लत्ताप्रहारेण रणभूमावपातयत् ॥ १८॥
जठरं दारयामास भृङ्गिणोऽसिप्रहारतः ।
दावानलस्य च शिरो भेदयामास सायकैः ॥ १९॥
पञ्चाननस्य पृष्ठे सोऽवधीच्च चपलो युधि ।
एवं सर्वे महावीरा निहता रणमूर्धनि ॥ २०॥
द्रुतं पलायिताश्चान्ये ततः सिन्धुः पुरो यरौ ।
जगर्ज घनवद् घोरं नादयन् भुवनत्रयम् ॥ २१॥
स विव्याध मयूरेशं शरजालैरनेकधा ।
तस्य देहं समालोक्य विकरालं भयानकम् ॥ २२॥
विरूपाक्षादयः सर्वे पलायनमकुर्वत ।
मुनियुक्तो गणेशश्च युयुधे संयुगे तदा ॥ २३॥
स चकम्पे करिशिशुः सिंहस्येवास्य दर्शनात् ।
ततोऽब्रवीद् रोषवशात् सिन्धुस्तं तु गुणेश्वरम् ॥ २४॥
सिन्धुरुवाच ।
दुरात्तेऽश्रावि बहुशः पुरुषार्थः शिवार्भक ।
प्रत्यक्षं दृश्यसे रे त्वं जम्बूक इव दुर्बलः ॥ २५॥
कथं मे सहसे मूढ तलाघातं शिलाभिदम् ।
त्वया मातुः स्तनं पीत्वा नर्तव्यं हि गृहाङ्गणे ॥ २६॥
शक्रादयो जिता येन तस्य ते गणनाऽत्र का ।
निवारयति मां मूढ कृपा त्वां हन्तुमुत्सुकम् ॥ २७॥
कथं ते कोमलाङ्गेषु विध्ये तीक्ष्णेतरान् शरान् ।
देव उवाच ।
किमर्थं वल्गसे मूढभावेनाधम पामर ॥ २८॥
नावतारं गृहिष्येऽहं यदि जानेऽल्पकं वपुः ।
तवेदानीं हनिष्यामि क्षणेन देहमल्पकम् ॥ २९॥
सूर्यदत्ताद् वराद् दुष्ट दुष्कर्मनिरतो भवान् ।
इदानी स गतः कालो मत्युकाल उपस्थिते ॥ ३०॥
वल्गनाकुशलस्त्वं किं युद्धमद्य करिष्यसि ।
त्वा हन्तुं मोचितुं देवान्धृतं रूपमिदं मया ॥ ३१॥
अन्तकाले सन्निहिते पुरुषार्थो वृथा भवेत् ।
मया हते महास्थानं मम प्राप्स्यसि दुर्लभम् ॥ ३२॥
सिन्धुरुवाच ।
यावन्नच्छेद्मि ते मूढ कोमलं देहमुत्तमम् ।
तावद्वल्गसि यो यस्य भक्तः स्यात् स मृतो व्रजेत् ॥ ३३॥
तस्य लोकं वृथा हि त्वं न प्रशंसां वदात्मनः ।
क उवाच ।
एवमुक्त्वा महादैत्यः सायकं परभेदिनम् ॥ ३४॥
न कदाचित् प्रकटितमतितीक्ष्णं जयावहम् ।
स्मृत्वा सूर्यं धनुर्गृह्य सज्जं कृत्वा न्ययोजयत् ॥ ३५॥
टणत्कारेण धनुषो नादितं भुवनत्रयम् ।
मुमोच बाणं तं देवे मयूरेशे बलात्खलः ॥ ३६॥
स जज्वाल दिशः सर्वा गगनं विदिशोऽपि च ।
तं दृष्ट्वा स मयूरेशस्तत्याज परशुं निजम् ॥ ३७॥
वज्रात् सारतरं सर्ववैरिदर्पहरं परम् ।
अदहत् सोऽपि त्रींल्लोकान्प्रलयानलसन्निभः ॥ ३८॥
परशुः खण्डयामास नभस्येव च तं शरम् ।
धरायां पात्य शतधा दैत्यहस्तमथाच्छिनत् ॥ ३९॥
धनुर्भारसहं घोरं नभस्यैव गतं करात् ।
ततः क्रोधेन दैत्यः स चक्रं तत्याज शस्त्रवे ॥ ४०॥
शतहृदेव तच्छब्दं चकार गर्जयन्दिशः । (शतधारञ्च)
दृष्ट्वा तत्र मयूरेशः शूलमुग्रं मुमोच ह ॥ ४१॥
ददाह भुवनं तच्च पपात दैत्यमस्तके ।
मुकुटं कुण्डले कर्णौ खण्डयित्वा ययौ पुनः ॥ ४२॥
मयूरेशकरं शीघ्रं यथा न त्याजितं तथा ।
ततः क्रोधादुवाचैनं छिन्नकर्णो महासुरः ॥ ४३॥
पौरुषं दर्शितं तेऽद्य दर्शयिष्ये तवापि च ।
इदानीं शरघातेन छिनद्मि नासिकां तव ॥ ४४॥
इत्युक्त्वा खड़गहस्तोऽसौ तं जगाम गुणेश्वरम् ।
मयूरेशस्तदा चक्रे नाना रूपाणि सर्वतः ॥ ४५॥
आयुधानि च चत्वारि बिभ्रत् करचतुष्टये ।
ततः स विस्मयाविष्टो दशदिक्षु व्यलोकयत् ॥ ४६॥
ददर्श तत्र तं देवं चतुरायुधभूषितम् ।
ततः स लज्जितो गेहं निजं गन्तुं मनोदधे ॥ ४७॥
तथापि पुरतोऽपश्यन्मयूरेशं तथाविधम् ।
आच्छाद्य नेत्रे स ययौ हृद्येनं समलोकयन् ॥ ४८॥
उन्मीस्य नेत्रे सोऽपश्यत्पुर एनं शिखण्डिनि ।
ततो दैत्यो बुबोधैनं स्वान्ते रविप्रसादतः ॥ ४९॥
रणस्थलात्पुरीं यात आच्छाद्य वदनाम्बुजम् ।
हतशेषैश्च वीरैश्च तादृशैः परिवारितः ॥ ५०॥
पर्यङ्के न्यपतच्चिन्तापर्याकुलितमानसः ।
विरास्ते स्वगृहं याताश्चिन्ताव्याकुलचेतसः ॥ ५१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवैरुप्यकरणं नाम पञ्चदशाधिकशततमोऽध्यायः ॥ ११५॥
आदितः श्लोकानां समष्ट्यङ्काः - ९३०१ + ५१ = ९३५२
२.११६ रणशोधनं नाम षोडशाधिक शततमोऽध्यायः
क उवाच ।
जयं प्राप्ते मयूरेशे ययुस्तत्र मुनिश्वराः ।
शिवोऽपि गिरिजायुक्तो ययौ तं च निरीक्षितुम ॥ १॥
औत्स्युक्यात् पार्वती चैनं समालिङ्ग्याऽब्रवीत्तदा ।
पार्वत्युवाच ।
अतिश्रान्तोऽसि दैत्यस्य कठिनस्य रणे सुत ॥ २॥
कोमलानि तवाङ्गानि कथं शस्त्राणि सेहिरे ।
कृतान्तसदृशो दैत्यो मायावी बलवत्तरः ॥ ३॥
स कथं कोमलाङ्गेन त्वया युधि विनिर्जितः ।
प्रारुदत् करुणं देवी धृत्वाङ्गे निजबालकम् ॥ ४॥
ततो मुनिगणाः शम्भुर्वारयामास तां शिवाम् ।
शिव उवाच ।
न जानीषे मयूरेशं सर्वकारणकारणम् ॥ ५॥
अनादिनिधनं देवं वेदान्तागोचरं विभुम् ।
त्रयस्त्रिंशत्कोटिदेवैर्नुतं देवारिदारणम् ॥ ६॥
सृष्टिस्थितिज्ञानहेतुं लयहेतुमनामयम् ।
भूभारोत्तारणार्थाय नानारूपधरं परम् ॥ ७॥
ब्रह्माण्डव्याप्तरोमाङ्कमेकानेकस्वरूपिणम् ।
तपोबलसमायुक्तं योगशास्त्रसमन्विम् ॥ ८॥
मायाविभेदकं देवं मायिनामपि मायिनम् ।
बालभावेऽपि दैत्यानां हन्तारं किं न वेत्सि तम् ॥ ९॥
क उवाच ।
एवं स्तुतिं समाकर्ण्य हृष्टा सा पार्वती तदा ।
ततो हृष्टो मयूरेशो मुनीन् प्राह शिवं शिवाम् ॥ १०॥
मयूरेश उवाच ।
न भयं वज्रहस्तान्मे अन्यस्मात् तत् कथं भवेत् ।
सर्वेषां नमनान्मातर्मुनीनामाशिषोऽपि च ॥ ११॥
शिवस्य वरदानेन सिन्धुदैत्यो जितो मया ।
स्कन्दादयो जिता येन युध्यन्ते न हि तेन ते ॥ १२॥
असङ्ख्याता हता देवा दैत्यसेनाचरैर्नरैः ।
असृङ्गनद्यः सम्प्रवृत्ता वीरहर्षकरा बहु ॥ १३॥
रणे निपतितान् देवान् विचिन्वानो मुनीश्वराः ।
क उवाच ।
एवं मयूरेशवचो निशम्य प्राह धर्मवित् ॥ १४॥
वसिष्ठो मुनिवर्यस्तं यामः सर्वे चलन्तु वै ।
ततो ययौ रणे द्रष्टुं मुनिभिस्तैर्मयूरराट् ॥ १५॥
मज्जारक्तवसागन्धो घ्रातुं यत्र न शक्यते ।
अतिभीषणकायांस्तान् छिन्नभिन्नाननेकशः ॥ १६॥
दृष्ट्वा बीभत्सरूपांस्तान् प्रफुल्लान् किशुकानिव ।
विकृतिं परियातानि मनांसि दानवद्विषाम् ॥ १७॥
पश्यतां वीरराशींस्तान् वीरो परि प्रतिष्ठितान् ।
कांश्चिच्च जीवतः कांश्चिन्मूर्छितान्शस्त्रघाततः ॥ १८॥
कांश्चिच्च प्रविशीर्णाङ्गान् देवान् देवा व्यकर्षयन् ।
सहसा न विदुर्देवा देवान् वा दानवानपि ॥ १९॥
अब्रुवंस्तत्र केचिच्च त्वदर्थं मृत्युमागताः ।
अन्ते ते दर्शनं प्राप्तमियुक्त्वा व्यसृजन्नसून् ॥ २०॥
क उवाच ।
एवं श्रुत्वा तु तद्वाक्यं साश्रुकण्ठो मयूरराट् ।
भ्रमन् भ्रमन् ददर्शाग्रे मूर्छितं तु षडाननम् ॥ २१॥
पतदश्रुर्मयूरेशः स्नेहात् तच्चाब्रवीदिति ।
उत्तिष्ठोत्तिष्ठभद्रन्ते किं शेषे प्राकृतोयथा ॥ २२॥
श्रान्तोऽसि दैत्यहननात् यच्छालिङ्गनमद्य मे ।
प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठत ॥ २३॥
अपश्यन्निकटे देवपादपद्मं भयापहम् ।
उवाच च मयूरेशं दर्शनात् ते गतं मम ॥ २४॥
सर्वदुःखं श्रमश्चैव विश्रान्तश्चास्मि साम्प्रतम् ।
आलिलिङ्ग मयूरेशं दोर्भिर्द्वादशभिस्तदा ॥ २५॥
उभौ यातौ रणं द्रष्टुं गृहित्वा च परस्परम् ।
अपश्यतां पुरः सुप्तं वीरभद्रमिषुक्षतम् ॥ २६॥
नन्दिनं च शराघातैः पीडितं बलवत्तरम् ।
भूतराजं च पुरतो विभिन्नमस्तकं तदा ॥ २७॥
क्रन्दन्तं विकटं चैव पुष्पदन्तं भृशार्दितम् ।
ललाटे दृढविद्धं च हिरण्यगर्भमेव च ॥ २८॥
मृतप्रायं च चपलं मृतं श्यामलमेव च ।
लम्बकर्णो न चाज्ञासीद् भ्रान्त्या कञ्चन सङ्गरे ॥ २९॥
उदानवायुनाक्रान्तः सुमुखस्तत्र चाभवत् ।
परमं खेदमापन्नः सोमश्च रक्तलोचनः ॥ ३०॥
शेते स्म मूर्छयाः भृङ्गी पञ्चास्यश्च मुमूर्षया ।
शङ्खः प्रेतत्वमापन्नो भयकृत् सर्वयोधिनाम् ॥ ३१॥
एवं दृष्ट्वा सर्ववीरान् हतप्रायान् हतानपि ।
चिन्तया परयाविष्टः पप्रच्छ तं षडाननम् ॥ ३२॥
मयूरेश उवाच ।
असुराश्च स्वकीयाश्च महावीरा हता मृधे ।
निजधामगताः सर्वे जीवतामत्र का गतिः ॥ ३३॥
स्कन्द उवाच ।
अनन्तकोटिब्रह्माण्डनायकस्त्वं गुणेश्वर ।
चतुर्दशानां विद्यानां सर्वासां च स्वयं निधिः ॥ ३४॥
कलानां तत्र किं प्रश्नं करोषि त्वं ममान्तिके ।
नाहं मन्त्रं विजानामि वेत्थ त्वं हि न वै सुराः ॥ ३५॥
विवर्द्धयसि कीर्तिं त्वं नानादैत्यविभञ्जनात् ।
यथामति ब्रवीमि त्वामाज्ञया च स्मृतेर्बलात् ॥ ३६॥
पूर्वं तु त्रिपुरवधे शिवेन युद्धमद्भुतम् ।
कृतं तत्र मृतान्देवान् द्रोणाद्रिवल्लिजं रसम् ॥ ३७॥
देवः क्षतेषु संयोज्य जीवयामास तत्क्षणात् ।
क उवाच ।
श्रुत्वेत्थं वचनं देवो जगाद तं षडाननम् ॥ ३८॥
इदानीं दैत्यकोटयस्तु युद्धार्थं बलवत्तराः ।
आयास्यन्ति तदा कोऽत्र युद्धेत ताभिः षडानन ॥ ३९॥
कश्चानेतुं व्रजेदद्रिं वल्लीरसमनुत्तमम् ।
एवं ब्रुवन्मयूरेशो मायामाविश्चकार ह ॥ ४०॥
उज्जीवयामास तदा निजाङ्गवायुस्पर्शतः ।
ततस्ते हर्षसम्पन्नाः प्रणेमुस्तं गुणेश्वरम् ॥ ४१॥
आलिलिङ्गु पुनर्युद्धं कर्तुं तं च विजिज्ञपुः ।
त्वद्दृष्टिविनिपातेन तेजो नो द्विगुणीकृतम् ॥ ४२॥
गुणेश्वर उवाच ।
ब्रह्मादयो देवगणाः स्तुवन्ति वः पराक्रमम् ।
तारकासुरमुख्याश्च निहता दैत्यदानवः ॥ ४३॥
क उवाच ।
ततस्तैः सहिता देवैर्मयूरेशः शिवं ययौ ।
नमस्कृत्य शिवं गौरीं युद्धाय गन्तुमुद्यतः ॥ ४४॥
आलिलिङ्ग मुदा गौरी शिवस्तं च गुणेश्वरम् ।
ततः षडाननाद्यास्ते शिवमालिङ्गिरे मुदा ॥ ४५॥
वयं रणे निपतिताः पुनः सञ्जीविता हर ।
मयूरेशाङ्गसम्भूत वायुनाऽद्भुतकारिणा ॥ ४६॥
पुनर्युद्धाय यास्यामोऽनेन सार्द्धं शिवाधुना ।
प्रसादात्तव जेष्यामः सर्वानेवासुरान् युधि ॥ ४७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे रणशोधनं नाम षोडशाधिक शततमोऽध्यायः ॥ ११६॥
आदितः श्लोकानां समष्ट्यङ्काः - ९३५२ + ४७ = ९३९९
२.११७ दुर्गावाक्यं नाम सप्तदशाधिकशततमोऽध्यायः
क उवाच ।
सिन्धुस्तल्पगतश्चिन्तामवाप महतीं तदा ।
अग्निसंतप्तहृदयो विचारान् नान्वपद्यत ॥ १॥
निर्हर्षो म्लानवदनो निस्तेजः निष्कलोऽपि सः ।
तत उग्रात्मजा दुर्गा लावण्यलहरी शुभा ॥ २॥
चिन्ताशाविषदग्धं तं श्रुत्वाऽगान् मञ्चकस्थितम् ।
असङ्ख्यभूषणैर्यस्याः कबरी भाति मस्तके ॥ ३॥
कस्तूरीतिलकं यस्या ललाटे भाति सुन्दरम् ।
कण्ठे हारं कटौ काञ्चि बिभ्रतीं रत्नसंयुताम् ॥ ४॥
सर्वालङ्कारसंयुक्तां सर्वावयवसुन्दराम् ।
आगतां तु निरीक्ष्यैव मञ्चकाभ्याशमुत्सुकाम् ॥ ५॥
बहिस्तत्सेवका यातास्ततः सा पतिमब्रवीत् ।
दुर्गोवाच ।
किं चिन्तां कुरुषे स्वामिन् यद् भाव्यं तद्भविष्यति ॥ ६॥
ईश्वरस्य वशे लोको न स्वतन्त्रः कदाचन ।
सर्वेषां मानसं त्वं किमुद्वेजयसि मेऽपि च ॥ ७॥
को हेतुस्ते वद विभो ततो युक्तिं वदामि ते ।
क उवाच ।
प्रिया वाक्यं समाकर्ण्य गण्डकीनायकस्तदा ॥ ८॥
सावधानमना भूत्वा वृत्तान्तं तामथाब्रवीत् ।
सिन्धुरुवाच ।
किं वदामि प्रिये श्लाघ्ये मनःखेदकरं परम् ॥ ९॥
युद्ध्यतो मे रणे कर्णौ मयूरेशेन सादितौ ।
सप्तकोटिमिता सेना निहता पौरुषेण ह ॥ १०॥
स्कन्दादयो महावीराः पतिताः शरवृष्टिभिः ।
अकस्मान्मे हृतौ कर्णौ त्रिशूलं प्रेष्य शत्रुणा ॥ ११॥
आच्छाद्य मुखमायातो वाससा निजमन्दिरम् ।
येनोपायेन मे शत्रुवधः स्यात्तं वदस्व मे ॥ १२॥
दुर्गोवाच ।
वीरधर्मः कृतः सम्यङ् निहताः सर्वसैनिकाः ।
न यशः प्राप्यते स्वामिन् गोब्राह्मणसुरद्विषाम् ॥ १३॥
तद्द्वेषाच्चैव कल्याणं कस्यापि हि न जायते ।
सेवनाद् वन्दनाद् ध्यानात्स्मरणात्पूजनादपि ॥ १४॥
देवैरिन्द्रादिभिः स्थानान्याप्तानि च स्थिराणि च ।
यः समः सर्वभूतेषु शुभाशुभफलप्रदः ॥ १५॥
तत्सेवयाऽभिष्टसिद्धिः कामधेनोरिवाभवत् ।
अङ्कुरो जायते तादृग्यादृग्बीजं हि उप्यते ॥ १६॥
अशुभात्कर्मणो दुःखं सुखं स्याच्छुभकर्मणः ।
अतः सन्तः प्रकुर्वन्ति शुभं कर्मसदादरात् ॥ १७॥
हितं च सर्वजन्तूनां कायेन मनसा गिरा ।
भवता पुरुषार्थेन पीडितास्ते सुरर्षयः ॥ १८॥
पुरुषार्थः स विज्ञेयो यश्चतुर्णां हि साधकः ।
यन्मनो नार्थलुब्धं स्यात् परदारेषु न क्वचित् ॥ १९॥
स एव पुरुषार्थः स्याद् यश्चानिन्द्यं न निन्दति ।
शरणागतरक्षायां दृढो धर्मपरायणः ॥ २०॥
समः सर्वेषु भूतेषु पुरुषार्थः स गम्यते ।
स्वामिन् मे परमं वाक्यं शृणु ते हितकारकम् ॥ २१॥
अदुष्टवाक् सत्यशीलः स्वगुणानामकीर्तकः ।
परोपकरणे सक्तः परपैशून्यवर्जितः ॥ २२॥
तत्कुरुष्व महाभाग मम प्रीतिं यदीच्छसि ।
मोचयस्व सुरान् सर्वान् प्रबद्धान् शक्रसंयुतान् ॥ २३॥
प्रयास्यति मयूरेशोऽखिललोकप्रपालकः ।
वत्स्यावः सुसुखं स्वामिन् नान्यथा तु सुखं भवेत् ॥ २४॥
क उवाच ।
एवं वाक्यामृतं तस्यास्तदभूद् विषसन्निभम् ।
मुमूर्षोरौषधं यद्वद्ग्रहरोगाप्लुतस्य ह ॥ २५॥
क्रोधसंरक्तनयनो दुर्गां तां सिन्धुरब्रवीत् ।
न दध्रे हृदि तस्याः स उपदेशं हितावहम् ॥ २६॥
सिन्धुरुवाच ।
सम्यगुक्तं त्वया भद्रे लोकनिन्दाकरं वचः ।
चातुर्यं तव विज्ञातं कार्याकार्यविदा मया ॥ २७॥
न शत्रुं भजते कोऽपि रिपुर्मानपरायणः ।
नारभेत्कृत्यमन्याय्यमारब्धं चेन्न तत् त्यजेत् ॥ २८॥
ततो दुःखं सुखं वा स्यादयशो यश एव च ।
लाभो वाप्यथवाऽलाभो जीवनं मृत्युरेव वा ॥ २९॥
पूर्वं भद्रे मया सन्धिः साम्ना तेन न वै कृतः ।
इदानीं भविता यद् यत् तद् भवत्येव सर्वथा ॥ ३०॥
पूर्वमेवहि यज्जन्तोर्लिखितं साध्वसाधु वा ।
कश्चिन्न पुरुषार्थेन कर्तुं शक्तोऽन्यथा सति ॥ ३१॥
रणे मृतस्य स्वर्गोऽथ ख्यातिः स्याद् विष्टपत्रये ।
यातस्य शरणं शत्रोरयशो नरकेऽपि च ॥ ३२॥
पूर्वजैः सहितस्याशु जायते नात्र संशयः ।
जानामि तं मयूरेशं देवदेवं जगद्गुरुम् ॥ ३३॥
सम्भूतं मम नाशाय रावणे राघवं यथा ।
पातयिष्ये शिरोऽस्याहमिति मे निश्चिता मतिः ॥ ३४॥
त्यजन्ति जीवितं शूरा नाभिमानं कदाचन ।
न मेऽस्ति गणना सुभ्रु कृतान्तस्यापि कर्हिचित् ॥ ३५॥
तत्र का गणनाऽन्येषां लज्जा मे कर्णतः कृता ।
कः उवाच ।
एवमुक्त्वा भूषणानि वस्त्राणि च दधार सः ॥ ३६॥
केयूरं मुकुटं रत्नयुक्तं हारं च कुण्डले ।
तूणौ खड्गं च खेटं च चापं सज्जं च शस्त्रिकाम् ॥ ३७॥
आछाद्य कर्णौ रौक्मीयवस्त्रमुष्णीषमेव च ।
आययावुपविष्टः स भद्रासनमुत्तमम् ॥ ३८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे दुर्गासिन्धुसंवादो नाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७॥
आदितः श्लोकानां समष्ट्यङ्काः - ९३९९ + ३८ = ९४३७
२.११८ कलविकलवधो नामाष्टादशोत्तरशततमोऽध्यायः
क उवाच ।
युद्धावेशदुराधर्षः उपविष्टो महासने ।
स तदा वीरमुख्यांस्तानुपविष्टानथाब्रवीत् ॥ १॥
सिन्धुरुवाच ।
गतौ मम प्रधानौ तौ त्रैलोक्याकर्षणक्षमौ ।
न तादृशोऽस्ति वीरोऽत्र यो मे हन्याद् रिपुं बलात् ॥ २॥
नेतादृशौ बुद्धिमन्तौ पराक्रमजयैषिणौ ।
वीरा ऊचस्ततः सिन्धुं मा चिन्तां कुरु सर्वथा ॥ ३॥
यावद्वयं प्राणवन्तो लघुकृत्य उपस्थिते ।
किमर्थं चिन्ताकुलतां तावद् व्रजसि दैत्यराट् ॥ ४॥
स्वापं कुरु महाभाग पर्यङ्के पुष्यसंस्तरे ।
कृतान्तस्ताडितो याभ्यां तयोः कस्माद् भयं भवेत् ॥ ५॥
एवमुक्त्वा कलः सिन्धुं विकलश्च महाबलौ ।
श्यालकौ तस्य दैत्यस्य निर्यातौ युद्धुदुर्मदौ ॥ ६॥
नानायुद्धेषु कुशलौ नानायुधधरावुभौ ।
नानाभूषणवस्त्राढ्यौ नानासेनासमन्वितौ ॥ ७॥
नानागर्जनतो व्योम चक्रतुर्नादसंयुतम् ।
देवकोटिनिहन्तारौ असङ्ख्यवाहिनीयुतौ ॥ ८॥
ययुस्तत्पुरतोवीराः सिन्दूरारुणमस्तकाः ।
अग्निशस्त्रधरा मुक्तकेशपाशाः सचन्दनाः ॥ ९॥
लसच्छस्त्रधराः सर्वे यममत्तुमिवोद्यताः ।
ततः करिघटा याता नानाधातुविचित्रिताः ॥ १०॥
अधिष्ठाता महामात्रैर्नानाभूषाविराजिताः ।
तीक्ष्णदन्ताः सिन्दुरिता घण्टानादनिनादिताः ॥ ११॥
ततोऽश्वसादिनो यातास्तनुत्राणविराजिताः ।
धनुर्बाणधराः सर्वे लसच्छत्रविभूषिताः ॥ १२॥
अनेकयुद्धसम्भार रथा यातास्ततः परम् ।
अनेकवीरसंयुक्ता नानासूतविराजिताः ॥ १३॥
एवं तौ शालकौ यातौ रणस्थानं रुषान्वितौ ।
ददृशाते मयूरेशमाशीविषभुजि स्थितम् ॥ १४॥
षडाननादिभिर्वीरैरन्यैश्च परिवारितम् ।
दृष्टा तैस्तु तयोः सेना घोरा सा चतुरङ्गिणी ॥ १५॥
असङ्ख्यातं बलं तस्य समायातं विचित्रितम् ।
प्रेषितो देवप्रवरैर्दूतो नीतिविशारदः ॥ १६॥
ज्ञात्वा वृत्तान्तमायातः स जगाद सुरान्प्रति ।
दूत उवाच ।
कलश्च विकलश्चैव नानासेनासमायुतौ ॥ १७॥
जेतुं सुरान् समायातौ नानायुद्धविशारदौ ।
ताभ्यां युद्धाय सम्प्राप्तौ पुष्पदन्तवृषावुभौ ॥ १८॥
धनुषी सज्जतां नीत्वा षष्टया बाणैरविध्यताम् ।
दैत्यौ बाणान् निवार्यैव तावुभौ बाणवृष्टिभिः ॥ १९॥
छादितौ शरघातेन घ्नतः स्म देवसैनिकान् ।
कलस्य खड्गं खड्गेन बिभेद स महावृषः ॥ २०॥
सैन्यमादाय तस्याशु खड्गं छित्त्वा न्यपातयत् ।
विकलस्य पुष्पदन्तो धनुश्चिच्छेद सायकैः ॥ २१॥
ततस्तौ मल्लयुद्धेन परस्परमयुध्यताम् ।
ते सेनेऽयुद्ध्यतां तत्र नानाशस्त्रास्त्रपत्रिभिः ॥ २२॥
मायाभिर्विविधाभिश्च परस्परजयेच्छया ।
ततः पपाल दैत्यानां सेना शस्त्रार्दिता भृशम् ॥ २३॥
केऽपि देवाः पृष्ठलग्ना मारयन्त्यसुरांश्च तान् ।
पादाघातेन निहता दैत्यसेनाचरा नराः ॥ २४॥
मृतासृक्प्रवहा तत्र वाहिनी भीरुभीतिदा ।
सम्प्रवृत्ता महाघोरा भूतपक्षिप्रमोदिनी ॥ २५॥
ततो वेगात् समुड्डीय कलश्च विकलश्च ह ।
शस्त्रवृष्टि महोग्रां तौ चक्रतुर्युद्धदुर्मदौ ॥ २६॥
तया हता देवसेना स्रवद्रक्ता पपाल ह ।
ततो वृषोऽहनत् सेनां शृङ्गाभ्यां च तयोर्भृशम् ॥ २७॥
लत्ताभिश्च जघानाशु फूत्कारेण न्यपातयत् ।
पुच्छाघातेन कांश्चिच्च चूर्णयामास दैत्यपान् ॥ २८॥
एवं तेन हता सेना नानादैत्यसमाकुला ।
हाहाकारो महानासीद् दैत्यानां तत्र नश्यताम् ॥ २९॥
ततोऽतिबलिनौ वीरौ कलश्च विकलश्च ह ।
जगर्जतुरुभौ रोषाद् गर्जयन्तौ दिशो दश ॥ ३०॥
निनिन्दतुस्तौ वृषभं किं त्वं युध्यसि नौ पुरः ।
तृणादनेषु शक्रस्त्वं तृणरूपोऽसि साम्प्रतम् ॥ ३१॥
दध्रात एवमुक्त्वा तौ तस्य शृङ्गे महाबलौ ।
विकृष्य प्रापतुरुभौ स्वसेनां चतुरङ्गिणीम् ॥ ३२॥
तं मोचितुं पुष्पदन्तोऽभिययौ सहसा जवात् ।
ततस्तं विकलो लत्ताप्रहारैः पातयन् भुवि ॥ ३३॥
ननर्द वाद्यघोषेण हर्षनिर्भरमानसः ॥
स मूर्च्छितो मुहूर्त्तात्तु संज्ञां प्रापदनातुरः ॥ ३४॥
ततो योद्धुं समायातौ वीरभद्रषडाननौ ॥
कलः पर्वतघातेन शतधान्यपतद् भुवि ॥ ३५॥
वीरभद्रस्तु विकलं तलघातादपातयत् ।
दृष्ट्वा स्कन्देन निहतं कलं दैत्यं महाद्रिणा ॥ ३६॥
ततो ययुः स्वशिबिरं गणास्ते जयशालिनः ।
ततः शस्त्रहताः केचिज्जीवन्तो गण्डकीं ययुः ॥ ३७॥
शशंसुर्दैत्यराजाय नानासेनायुतः कलः ।
विकलश्च हतो रोषाद् वीरभद्रादिभिर्गणैः ॥ ३८॥
गतास्ते शिबिरं देवगणास्तु जयशालिनः ॥ ३९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कलविकलवधो नामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८॥
आदितः श्लोकानां समष्ट्यङ्काः - ९४३७ + ३९ = ९४७६
२.११९ एकोनविंशोत्तरशततमोऽध्यायः
क उवाच ।
कलं च विकलं श्यालं देवसेनाविघातिनम् ।
निहतं वीरभद्रेण पर्वतेन महासुरम् ॥ १॥
षडाननेन विकलं हतं तलप्रहारतः ।
श्रुत्वा भद्रासनगतो नानावीरसमन्वितः ॥ २॥
प्राप सिन्धुर्महाचिन्तां स्मरंन् शिवसुतं तदा ।
किं करिष्यति देवोऽसौ नाशमित्थं सुरद्विषाम् ॥ ३॥
इत्येवं चितयाविष्टो मूर्च्छामाप महत्तराम् ।
तावदाजग्मतुरुभौ पुत्रावस्य महाबलौ ॥ ४॥
धर्माधर्मौ भद्रपीठे जनकं वाक्यमाहतुः ।
कथं बिभेषि जनक शिवाया अर्भकाल्लघोः ॥ ५॥
नावाज्ञां देहि दैत्येन्द्र हनिष्यावः क्षणादमुम् ।
सम्मुखे तौ हतौ वीरौ मातुलौ नौ दिवं गतौ ॥ ६॥
उत्तीर्णौ तौ स्वामिकार्ये कीर्तिं कृत्वा महत्तराम् ।
हत्वाऽनेकविधां सेनां नानावीरैः प्रपालिताम् ॥ ७॥
आवामपि प्रयुध्यावो यावो हत्वा रिपुं बलात् ।
अथवा मोक्षमायावो निहतौ तेन चेद् रणे ॥ ८॥
यावदावां हि जीवावश्चिन्तां तावच्च मा कुरू ।
इन्द्रादय सुरगणाः कारागारेऽधुना तव ॥ ९॥
यदा त्वं विजिताः पूर्वं पितरस्तत्र केऽभवन् ।
आनयाव मस्तकं तस्य रिपोस्तव न संशयः ॥ १०॥
अन्यथा दर्शयिष्यावो मुखं लोकेषु न क्वचित् ।
क उवाच ।
एवं तयोः समाकर्ण्य वचनं हर्षमाप्तवान् ॥ ११॥
तावूचे परमं युद्धं प्राप्नुतं यश उत्तमम् ।
नाशयित्वा रिपुं घोरं यातं शीघ्रं ममान्तिकम् ॥ १२॥
एवमाकर्ण्य तद्वाक्यमीयतुर्युद्धलालसौ ।
नमस्कृत्य पितुः पादौ मातुर्गृह्य तदाशिषः ॥ १३॥
दशकोटिमिता सेनां प्रत्येकं गृह्य सत्वरौ ।
रथाश्वहस्तिपादातैर्नानाशस्त्रधरैर्युताम् ॥ १४॥
पत्तयोऽपि ययुर्हृष्टाः सिन्दूरारूणमस्तकाः ।
गजा नानागिरिनिभा नानाधातुध्वजान्विताः ॥ १५॥
अश्वाः सादिभिरारूढा नानाशस्त्रासिपाणिभिः ।
गर्जद्भिर्मेघसदृश गर्जयद्भिर्दिशोदश ॥ १६॥
ततः सेनामध्यगतौ रेजतुर्भ्रातरावुभौ ।
नानालङ्कार संयुक्तौ नानायुधधरावुभौ ॥ १७॥
रत्नकाञ्चनसंयुक्तकुण्डलाभ्यां विराजितौ ।
किरीटाभ्यां सुतेजोभ्यां भ्राजमानौ महाबलौ ॥ १८॥
मुक्तामणि मयौ हारौ बिभ्रन्तौ युद्धदुर्मदौ ।
प्रापतू रणभूमिं तौ नानावादित्रनिस्वनैः ॥ १९॥
ददृशुर्वीरभद्राद्यास्तौ च तां वाहिनीमपि ।
निकटे तौ समालोक्य मयूरेशप्रचोदिताः ॥ २०॥
आज्ञयाऽभिययुर्वीरभद्रोऽसौ च षडाननः ।
हिरण्यगर्भः सङ्क्रुद्धो भूतराजो विशालदृक् ॥ २१॥
असङ्ख्यसेनया सार्द्धं ततो युद्धमवर्त्तत ।
परस्परमयुध्यन्त ततः सेनाचरा भृशम् ॥ २२॥
घ्नन्तः शिरांसि पादांश्च बाहूरूदरकन्दराः ।
निहताश्च निहन्यन्ते तमसाच्छादिते रवौ ॥ २३॥
केचिच्चक्राणि मुमुचुर्भिण्डिपालांस्तथाऽपरे ।
बाणवृष्टिं परे चापि नानाशस्त्राणि केचन ॥ २४॥
मल्लयुद्धं च तत्रासीत् सैनिकानां परस्परम् ।
एवं सा संहृता सेना मयूरेशप्रपालिता ॥ २५॥
पपाल तत्र शेषा या विव्हला तु दिशो दश ।
ततः षडाननः क्रुद्धो द्वादशायुधभूषितः ॥ २६॥
तैरायुधैर्जघानाशु सेनां तां दैत्यपालिताम् ।
केषाच्चिद्बाहवो भिन्नाः केऽपि मध्ये द्विधाकृताः ॥ २७॥
केषाचिन्मस्तका भिन्नाः केषाचिच्च रणाङ्गणे ।
एवं सा नाशिता सेना हस्त्यश्वरथसङ्कुला ॥ २८॥
केऽपि स्वर्गं गताः केचिद् रूपं प्रापुः षडाननम् ।
निरीक्ष्य ये मयूरेशं जहुः प्राणान् प्रहारिताः ॥ २९॥
जग्मुस्ते तत्प्रसादेन निजधाम महाबलाः ।
तद् दृष्टिपातात् तदघं नष्टं सर्वं जनुःकृतम् ॥ ३०॥
दृष्ट्वा विशाखविशिखैः सशिखैर्निहतां स्वकाम् ।
सेनां तस्य सुतौ वीरावधर्मो धर्म एव च ॥ ३१॥
युयधाते बहुविधं शस्त्रैरस्त्रैः शरव्रजैः ।
चक्रतुर्मल्लयुद्धं तौ महासेनेन तत्क्षणात् ॥ ३२॥
तयोर्बलं निरीक्ष्यैव कार्तिकेयो महाबलः ।
शिखयोस्तौ दधाराशु षड्बाहुः षट्करैर्बलात् ॥ ३३॥
भ्रामयामास बहुधा पोथयामास भूतले ।
शतखण्डानि जातानि तयोस्तु पततोर्भुवि ॥ ३४॥
जयं प्राप्ते शिवसुते नेदुर्वाद्यानि सर्वशः ।
जय त्वं हि मयूरेश जगुः सर्वेऽपि सैनिकाः ॥ ३५॥
चत्वारस्ते ययुर्देवं मयूरेशं निजं प्रभुम् ।
आलिलिङ्गुर्मुदा ते तु परस्परमथाऽब्रुवन् ॥ ३६॥
प्राप्ता इव पुनर्जन्म मुमुदुस्ते परस्परम् ।
शशंसुः सर्व सर्ववृत्तान्तं शिवायै च शिवाय च ॥ ३७॥
सेनां च निहतां सिन्धोः पुत्रौ च बलवत्तरौ ॥ ३८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे धर्माधर्मवधो नामैकोनविंशोत्तरशततमोऽध्यायः ॥ ११९॥
आदितः श्लोकानां समष्ट्यङ्काः - ९४७६ + ३८ = ९५१४
२.१२० पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः
क उवाच ।
हतशिष्टाः केऽपि वीराः स्रवद्रक्ताः सुदुःखिता ।
सिन्धुं सभागतं चेत्थं भीत भीता अथाब्रुवन् ॥ १॥
वीरा ऊचः ।
धनुर्धर निबोधेदमतिदुःखकरं वचः ।
धर्माधर्मौ तव सुतौ कृत्वा युद्धं महत्तरम् ॥ २॥
निन्यतुर्देवसेनां तौ हत्वा हत्वा यमक्षयम् ।
ततः कोऽपि महावीरो मुखैः षड्भिर्विराजितः ॥ ३॥
सोऽपि ताभ्यां रणे घोरे पातितो धरणीतले ।
पुनस्तेन धृतौ वीरौ शिखायां तावुभावपि ॥ ४॥
भ्रामयित्वा बहुतरं पातितौ तौ धरातले ।
शतधा शीर्णदेहौ तौ गतौ तौ स्वर्गमुत्तमम् ॥ ५॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यं न्यपतद्दैत्यपुङ्गवः ।
शोकसागरमग्नोऽभूद् वज्राहत इवाचलः ॥ ६॥
धावमानैः सुहृद्वर्गैः स आशूत्थापितो बलात् ।
मुहूर्तात्प्रकृतिं यातः शुशोच बहुदुःखितः ॥ ७॥
सिन्धुरुवाच ।
शक्रादयो लोकपाला जिता याभ्यां रणे पुरा ।
तौ हतौ नु कथं वीरौ षडास्येन महाबलौ ॥ ८॥
विहाय मृत्युलोके मां कथं स्वर्गं गतावुभौ ।
सुरसेनानिहन्तारौ कृतान्तस्यान्तकावुभौ ॥ ९॥
नानेष्ये शत्रुमूर्द्धानं तदाऽऽस्यं दर्शये न च ।
गमनावसरे प्रोक्तं तत्सत्यं किं कृतं त्वया ॥ १०॥
अथ दुर्गासखीभिस्तु वृत्तान्तोऽन्तः पुरे तदा ।
कथितो विस्तरेणैव रुदतीभिः सुदुःखतः ॥ ११॥
सख्युवाच ।
भर्त्ता रोदिति ते सुभ्रु धर्माधमौं मृताविति ।
साथ पर्यङ्कसुगता न्यपतत् पृथिवीतले ॥ १२॥
रम्भेव वातनिहता कोमलारुणपल्लवा ।
सखीदुष्टवचोभिः सा बाणैरिव हृदि क्षता ।
विस्रस्तकेशाभरणा साप्यरोदीत्तदा भृशम् ॥ १३॥
विस्रस्तवस्त्रा विकसत् बिल्वचारूपयोधरा ।
अश्रुश्यामलगण्डा सा शोकानलहतप्रभा ॥ १४॥
जघ्ने मुखं सा पाणिभ्यां दन्तासृक्सिक्तभूतला ।
निरस्तदेहभावा सा का विकला विगतत्रपा ॥ १५॥
सभाङ्गणगताऽलुण्ठद्धठकृद् बालको यथा ।
सर्वे ततः सभ्यवरा रुरुदुर्दुःखकर्षिताः ॥ १६॥
प्रस्रवन्नेत्रसलिलाःप्राब्रवीत् तान् सभासदः ।
राज्ञी उवाच ।
कथं सर्वेषु वीरेषु जीवत्सु तौ सुतौ मम ॥ १७॥
प्रेषितौ रणभूमिं तौ मामपृष्ट्वा तु कोमलौ ।
मयाशीश्चेन्नियुक्ता स्यान्न तयोर्मरणं भवेत् ॥ १८॥
न हि मे वचनं धाता मिथ्या कर्तुं समीहते ।
याभ्यां जिता देवगणास्तौ कथं निधनं गतौ ॥ १९॥
क्व द्रक्ष्याम्यहमेतौ यौ जिग्यतुर्मदनं रुचा ।
बुद्धीना यौ सरस्वन्तौ तौ मां त्यक्त्वा कथं गतौ ॥ २०॥
तयोः शोकाग्निना दग्धा मरिष्याम्यहमद्य वै ।
इत्युक्त्वा न्यपतद् भूमौ निघ्नती हृदये मुहुः ॥ २१॥
ततः सख्यो नागराश्च बोधयामासुरञ्जसा ।
न मातः कोऽपि शोकेन यो मृतः पुनरागतः ॥ २२॥
मृत्युलोके चिरं स्थाता नेक्षितो न श्रुतोऽपि च ।
विहाय हनुमन्तं च कृपं शारद्वतं बलिम् ॥ २३॥
व्यासं परशुरामं च बिभीषणमथापि च ।
द्रौणिं नान्यश्चिरं स्थायी न भूतो न भविष्यति ॥ २४॥
ब्रह्मादीनां भवेन्मृत्युः का तत्र गणनात्मनः ।
रोदनं तेन कर्तव्यं न स्यान्मृत्युः कदाऽस्य चेत् ॥ २५॥
क्षीणे ऋणानुबन्धे च स्त्री पुत्रः पशुरेव च ।
न तिष्ठति ध्रुवं तत्र कृतः शोको वृथा भवेत् ॥ २६॥
यथा काष्ठं काष्ठगतं पुरेणैव वियुज्यते ।
तद्वज्जन्तुर्वियोगं च योगं च प्राप्नुतेवशः ॥ २७॥
नानापक्षिगणा रात्रावेकवृक्षागता यथा ।
प्रातर्दशदिशो यान्ति तत्र किं परिवेदनम् ।
क उवाच ।
एवं प्रबोधिता दुर्गा सिन्धुश्च जन एव च ॥ २८॥
हठाच्छोकं निगृह्यासावासने संविवेश ह ।
उपहासं करिष्यन्ति सपत्ना रुदतामिति ॥ २९॥
दुर्गां धृत्वा बलाल्लोका निन्युरन्तःपुरं हि ताम् ।
निश्वसन्ती पपातासौ पर्यङ्के शोककर्षिता ॥ ३०॥
स सिन्धुः क्रोधसंयुक्तो जग्राह शस्त्रसञ्चयम् ।
पुत्रयोनिष्कृतिं कर्तुं हयारूढो ययौ रणम् ॥ ३१॥
याते तस्मिन्महासैन्यं चतुरङ्ग रणोत्सुकम् ।
उड्डीयोड्डीय धावन्तो ययुः पूर्वं पदातयः ॥ ३२॥
नानावर्णा एकरूपा नानाशस्त्रास्रपाणयः ।
ततो वारणसङ्घाता नानाधातुविचित्रिताः ॥ ३३॥
घण्टाभरणशोभाढ्या दानोदकप्रवर्षिणः ।
चीत्कारभीषितपरा महारावभयङ्कराः ॥ ३४॥
ततोऽश्वा प्रागमन् सादियुक्ता वायुजवा रणम् ।
खुराघाताद् विस्फुलिङ्गान् पातयन्तो धरातले ॥ ३५॥
शुशुभुः सादिनस्तत्र खेटकुन्तासिपाणयः ।
चन्दनागरुलिप्ताङ्गा नानामालाविभूषिताः ॥ ३६॥
तनुत्राणभृतः सर्वे कङ्कटभ्राजिमस्तकाः ।
ग्रसन्त इव चाकाशं नादयन्तो दिशो दश ॥ ३७॥
रथास्ततोऽगमन्नानामहावीरैरधिष्ठिताः ।
नानाशस्त्रास्त्रसम्पूर्णा धनुस्तूणीरसंयुताः ॥ ३८॥
तन्मध्ये शुशुभे सिन्धुर्महामुकुटकुण्डलः ।
नानाशस्त्रधनुः पाणिस्तूणीरकृतभूषणः ॥ ३९॥
वीरकङ्कणशोभाढ्यः कटिसूत्राङ्गदप्रभः ।
क्रोधसंरक्तनयनो लोकत्रयबुभुक्षया ॥ ४०॥
वाद्यस्तु सर्ववाद्येषु बन्दिषु च स्तुवत्सु च ।
यावद्याति महावेगात् तावद् दूतस्तमब्रवीत् ॥ ४१॥
पिता ते याति दैत्येश तं प्रतीक्षस्व सुव्रत ।
परावृत्येक्षते यावत् तावदश्वगतं सुतम् ॥ ४२॥
अपश्यदभ्याशगतं नमश्चक्रे स चापि तम् ।
ददौ पिता तत्र सुतं दुर्गं कृत्वा चमूचरैः ॥ ४३॥
उपदेशं च कृतवान् सुखायामुत्र चेह च ।
चक्रपाणिरुवाच ।
गर्वेण वर्तसे पुत्र श्रिया मत्तो न बुध्यसे ॥ ४४॥
अथज्ञाने महावृद्धाः प्रष्टव्या भूतिमिच्छता ।
अग्रे शुभेच्छया पूर्वमशुभं न समाचरेत् ॥ ४५॥
अल्पेन कर्मणा नाशं पुण्यमेत्य शुभेन ह ।
अणुरग्निर्दहेत् सर्वं पुण्यं दोषस्तथा सुत ॥ ४६॥
न लाभो दृश्यते पुत्र बद्धेषु तेषु ते क्वचित् ।
स एव पुत्रो यो मातृपितृवाक्यकरोऽनिशम् ॥ ४७॥
तस्य चोल्लङ्घने पुण्यं नाशमेति च जायते ।
दोषजालं मोहजालं नानानिरयदं सुत ॥ ४८॥
अतः शृणु हितं वाक्यं मोचयाशु सुरान् सुत ।
मुक्तेषु तु भवेन्मित्रं मयूरेशोऽखिलार्थदः ॥ ४९॥
न चेह द्वेषतः कश्चित् सुखं प्राप्तो धरातले ।
विनाशं प्रापिता देवैर्हिरण्याक्षादयोऽसुराः ॥ ५०॥
क उवाच ।
इति पितृवचः श्रुत्वा चुकोपातितरां सुतः ।
धिक्कृत्य पितरं प्राह मम भ्रान्तिरभूत्पुरा ॥ ५१॥
चतुरस्त्वं पिता मे वै ज्ञानं सम्यक् प्रकाशितम् ।
भाषसे मूढवत् तात कृत्वां श्यामं मुखं व्रज ॥ ५२॥
येन मे निहता सेना परार्धगणितापितः ।
तेनेदानीं कथं साम कर्त्तव्यमयशस्करम् ॥ ५३॥
कुशाक्षमाला धरणं राजधर्मेहि नेष्यते ॥
तस्माद् दया नरेन्द्रेण न कार्या शत्रुसञ्चये ॥ ५४॥
निर्दयत्वमरावेव स्मृतं नीत्याऽऽमये यथा ।
एवमुक्त्वा नमस्कृत्य पितरं सिन्धुदैत्यराट् ॥ ५५॥
परावृत्य बलात्तं स ययौ योद्धं रणोत्सुकः ॥ ५६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः ॥ १२०॥
आदितः श्लोकानां समष्ट्यङ्काः - ९५१४ + ५६ = ९५७०
२.१२१ एकविंशोत्तरशततमोऽध्यायः
क उवाच ।
वीरभद्रादिभिर्वीरैः सुखासीनं गणेश्वरम् ।
आययुर्वेगतो देवा भीताः श्वासमाकुलाः ॥ १॥
न्यवेदयन्त वृत्तान्तं स्वयं सिन्धुः समागतः ।
मेनिरे ते पुनः प्राप्तं कालं संहर्त्तुमात्मनः ॥ २॥
ततो हर्षान्मयूरेशो रुरोह शिखिनं तदा ।
आयुधानि च चत्वारि प्रगृह्य च जगर्ज च ॥ ३॥
नमस्कृत्य शिवं वेगाद् ययौ स द्योतयन्दिशः ।
तदाशीःकवचो वीरसहितो वाहिनीयुतः ॥ ४॥
यावत्स पुरतो याति सिधुं हन्तुं समुद्यतः ।
तावत्षडाननः प्राह यामि युद्धाय विघ्नराट् ॥ ५॥
तिष्ठत्सु बहुवीरेषु कथं युद्धाय यास्यसि ।
पौरुषं पश्य सर्वषां तस्मिन् क्षीणे रणं कुरु ॥ ६॥
एवमुक्त्वा नमस्कृत्य ययौ युद्धाय षण्मुखः ।
चतुरङ्गबलं गृह्य सिन्धुसेनामथाऽवधीत् ॥ ७॥
सोऽपि तां न्यहनत् सेनां नानाशस्त्रैः शरव्रजैः ।
सहस्व प्रहरस्वाद्य हन्मि सम्मुखतां व्रज ॥ ८॥
एवं कोलहलोऽप्यासीद् वीराणां तत्र युद्ध्यताम् ।
पेतुर्वीराः शस्त्रहताः शरजालगतासवः ॥ ९॥
छिन्नाङ्गा भिन्नपादाश्च छिन्नबाहूरुमस्तकाः ।
असिभिर्भिण्डिपालैश्च कुन्तैर्मुद्गरसञ्चयैः ॥ १०॥
मारयन्तः स्थिरा वीरास्तान्परान् युद्धदुर्मदान् ।
कोलाहलो महानासीत्क्ष्वेडितैर्हेषितैरपि ॥ ११॥
वाद्यध्वनिप्रतिध्वानैर्बृंहितै रथनेमिभिः ।
असम्बद्धमभूद् युद्धं सेनयोरुभयोरपि ॥ १२॥
यथाप्रतिज्ञं वीरास्ते निजघ्नुर्मस्तकं मुखम् ।
नेत्रे बाहूदरं नाभिं पादौ गुल्फौ च जानुनी ॥ १३॥
कोऽपि हस्तेन पादेन कोऽपि खड्गेन नाशयन् ।
असिना केऽप्यरिगणानन्धकारे महत्यपि ॥ १४॥
अस्तं याते दिनकरे दृष्ट्वा पृष्ट्वा निजघ्निरे ।
देवान् ज्ञात्वाऽसुरा जघ्नुरितरानितरेऽपि च ॥ १५॥
असृक्प्रवाहस्तत्रासीत्प्रधने तुमुले तदा ।
वहन् प्रेतानिषज्जीवान् हुङ्कारेण च तान्परे ॥ १६॥
बलान्निष्काशयामासुर्विशल्यांश्चक्रिरे यथा ।
इतो न सेने पञ्चाहविरामं युद्धलम्पटे ।
एवं पदाताः सिन्धोस्ते कोटिशोऽथ हताः सुरैः ॥ १७॥
ततोऽगात् तद्गजानीकमसङ्ख्यं शस्त्रसंयुतम् ।
धिष्ठितं सादिभिर्वीरेर्नानायुद्धविशारदैः ॥ १८॥
वीरभद्रादयो जघ्नुर्गजसेनां दुरत्ययाम् ।
केषाञ्चिन्मस्तका भिन्नाः केषाचिच्च करा द्विजाः ॥ १९॥
अग्निशस्त्रधरैः केचित्पातिता वीरसंयुताः ।
वीरभद्रोऽतिवीर्येण गजेनैवाहनद् गजम् ॥ २०॥
पेततुरष्टधा भिन्नावुभावपि तदा गजौ ।
ततः षडाननो निघ्नन् गजानीके व्यरोचत ॥ २१॥
वीरैस्तु सहितान् मत्ताननन्तान् करिसञ्चयान् ।
शक्त्या शरैरनेकैः सोऽनाशयत् षड्धनुश्च्युतैः ॥ २२॥
हिरण्यगर्भोऽनेकवीरयुतांस्तानप्यपातयत् ।
भूतराजोऽपि शस्त्रैस्तान् गजान्नानाविधान् रणे ॥ २३॥
न्यपातयद् वीरयुक्तान् नाराचक्षतजीवितान् ।
सिंहो भूत्वा पुष्पदन्तो दारयामास तान् गजान् ॥ २४॥
नन्दी तु गजरूपेण बभञ्ज तान् गहान् बहून् ।
अन्यैश्च शरसङ्घातैः सर्वे ते विनिपातिताः ॥ २५॥
कञ्चित् पुच्छे गृहित्वेभं भ्रामयित्वा परेऽक्षिपत् ।
उभावपि लयं यातौ दृढाघातेन चूर्णितौ ॥ २६॥
ततोऽश्वचारा युयुधुर्गजानीके निवारिते ।
असङ्ख्यातान् निजघ्नुस्तान् सुरान्नानायुधै रणे ॥ २७॥
पतिता मूर्छिता देवाः पुनः संज्ञां च लेभिरे ।
ततो विव्यधुरश्वस्थान् वीरानश्वानथो रुषा ॥ २८॥
क्रोधेन देवाघ्नन्ति स्म हयारूढा महासुराः ।
सुरांस्तान् निन्युरन्तं ते शस्त्रास्त्रशरवृष्टिभिः ॥ २९॥
षड्वीराः पुनरायाताः श्रुत्वा देवान् हतान् युधि ।
ततस्ते पुनराजघ्नुर्दैते यानश्वसादिनः ॥ ३०॥
चत्वारस्ते चतुर्दिक्षु प्रायुध्यन् बलवत्तरम् ।
ररक्षतुरुभौ सैन्यं स्वीयं देवगणैर्युतम् ॥ ३१॥
मारयामासुरश्वांस्तानश्वस्थान् वीरसंयुतान् ।
अयुध्यन् पादचारेण निघ्नन्तोऽरिगणान् बहून् ॥ ३२॥
कोटिकोटिमितास्तत्र पेतुस्ते तु शरार्दिताः ।
नन्दी भृङ्गी हतानश्वान् पतितान् वीक्ष्य सादिनः ॥ ३३॥
पादाघातेन तेनाशु पातयन् नन्दिकेश्वरः ।
वीरभद्रोऽप्यसङ्ख्यातान् अश्वयोधान् न्यपातयत् ॥ ३४॥
हतेषु मुख्यवीरेषु चतुर्भिः सर्वतो दिशम् ।
कल्पान्त इव तत्रासीद् दैत्यानां रणकर्मणाम् ॥ ३५॥
ततः केचित्सुरगणान् पेदिरे शरणं तदा ।
हाहाकारो महानासीद् दैत्यसैन्याश्वसादिषु ॥ ३६॥
एवं हत्वाऽखिलां सेनां षड्वीरास्ते मुदं ययु ।
वाद्यत्सु सर्ववाद्येषु जगर्जुस्तुष्टुवुर्विभुम् ॥ ३७॥
जयः प्राप्तो मयूरेशप्रभावात्स्मरणान्नतेः ।
ततः सिन्धुः समाकर्ण्य शरणागतवाक्यतः ॥ ३८॥
वृत्तान्तं हतसेनाया हस्त्यश्वरथ संयुतः ।
अमात्यान्सर्ववीरांश्च प्रोवाच युद्धलालसः ॥ ३९॥
सिन्धुरुवाच ।
ये ये गच्छन्ति योद्धारस्तान् शृणोमि हतान्परैः ।
इदानीं यामि तं हन्तुं गुणेशं च स्वयं बलात् ॥ ४०॥
क उवाच ।
इत्युक्त्वा क्ष्वेडितेनासौ गगनं च दिशो दश ।
नादयामास त्रींल्लोकान् ग्रसन्भूस्वर्गमण्डलम् ॥ ४१॥
योजयित्वाऽक्षिपत् बाणमाकर्णकर्षणाज्जवात् ।
सेनायां वीरभद्रादिपालितायां महाबलैः ॥ ४२॥
निरीक्ष्य सर्ववीरान् स बाणं धनुषि सन्दधे ।
अस्त्रमन्त्रेण सहसा शतजप्तेन दैत्यराट् ॥ ४३॥
कृपीटयोनिः सहसा तस्माज्जातो ददाह ताम् ।
देवसेनां च पृथिवीं सवनां च सपर्वताम् ॥ ४४॥
ततोऽपश्यन् सैनिकास्ते दह्यमानान्कृशानुना ।
पुरुषं वह्निसम्भूतं जटिलं दीप्ततेजसम् ॥ ४५॥
विद्युज्जिव्हं करालास्यं गिलन्तं देवसैनिकान् ।
षडाननादयो भीता दुद्रुवुस्ते दिशो दश ॥ ४६॥
यं यं स भक्षति स्माजौ स स प्राप स्मरन्मुदा ।
निजधाम मयूरेशमेव मत्ताऽखिला चमूः ॥ ४७॥
यतो यतो याति सेना ततस्तद्वक्त्रसम्भवः ।
तनूनपाद् दहत्येनां प्रलयाग्निरिव ज्वलन् ॥ ४८॥
एवं सा वह्निना दग्धा मयूरेशस्य वाहिनी ।
धूमान्धकारे महति न प्राज्ञायत किञ्चन ॥ ४९॥
ततः सर्वे मयूरेशपृष्ठभागं समाश्रिताः ।
त्राहि त्राहीति जल्पन्तो दग्धास्ते जातवेदसा ॥ ५०॥
अनिवार्यं महास्त्रं तद्दृष्ट्वा देवो मयूरराट् ।
निस्तेजाश्चिन्तयामास भीतो लोके लघुत्वतः ॥ ५१॥
शिवः प्रसादं चेत् कुर्यात् तदैवात्र जयो भवेत् ।
इत्युक्त्वा परशुं गृह्य मन्त्रयित्वाऽक्षिपन्बलात् ॥ ५२॥
महसा जितसूर्यः स गर्जयन् गगनं दिशः ।
यातो दहन्वैरिसेनां जगत्कल्पानलो यथा ॥ ५३॥
तस्मादपि महानेकः पुरुषः समजायत ।
यस्यास्ये सर्वभूगोलः किन्नु मास्यति साम्बरः ॥ ५४॥
पुरुषः पुरुषेणासावस्त्रमस्त्रेण वै तदा ।
अयुध्यतां ततो जग्मुर्द्रष्टुं देवर्षयस्तदा ॥ ५५॥
दैत्यास्त्रं भक्षितं तेन कृतान्तास्त्रेण सत्वरम् ।
ययौ सेनां च निर्दग्धुं ज्वालामालिव हव्यभुक् ॥ ५६॥
दैत्यराजोऽपि तं दृष्ट्वा बाणवृष्टिमवासृजत् ।
एकस्मान्मन्त्रिताद् बाणादनन्ता निःसृताः शराः ॥ ५७॥
देवसेनाचरास्तेषु निमग्ना वेगशालिनः ।
मयूरेशः क्रोधवशान्नानाऽस्राणि तदाऽसृजत् ॥ ५८॥
तैरस्त्रैर्दैत्यराजस्य निरस्यास्त्राणि सर्वशः ।
अभक्षय द्दैत्यसेनां स कालपुरुषः पुनः ॥ ५९॥
यतो यतः पलायन्तेऽसुरास्तत्र च याति सः ।
चिन्ताक्रान्तस्ततो दैत्यः कर्तव्यं नाभ्यपद्यत ॥ ६०॥
किं कर्तव्यं क्व गन्तव्यं क्व न स्थेयमचिन्तयत् ।
अस्तं याते दिनकरे स्वधाम प्रत्यपद्यत ॥ ६१॥
गच्छन् स्खलन्पतन्भूमौ नष्टकुण्डलभूषणः ।
नगरं प्राविशदसौ ततः शम्भुरिवापरः ॥ ६२॥
गुप्त एवावसत् क्वापि स्त्रीणां चैवानुजीविनाम् ।
जगर्ज सगणो देवो ज्ञात्वा तद्वृत्तमाशु सः ॥ ६३॥
तेन नादेन सहसा नादितं भुवनत्रयम् ।
सञ्जहार कृतान्तास्त्रं मन्त्रविद्भुजगं यथा ॥ ६४॥
स्वनिवेशं जगामाशु मयूरेशो गणैर्वृताः ॥ ६५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे युध्दवर्णनं नामैकविंशोत्तरशततमोऽध्यायः ॥ १२१॥
आदितः श्लोकानां समष्ट्यङ्काः - ९५७० + ६५ = ९६३५
२.१२२ द्वाविंशोत्तरशततमोऽध्यायः
क उवाच ।
सिंहासनस्थे देवेश मयूरेशे गणैर्वृते ।
गौतमाद्या मुनिगणाः प्रशशंसुर्गुणेश्वरम् ॥ १॥
ऋषय ऊचुः ।
येन शक्रो जितः सङ्ख्ये नागैः शेषो धरातले ।
तस्य का गणनान्येषां सोऽपि युद्धे जितस्त्वया ॥ २॥
रक्षिता बहवस्तस्मात् सिन्धोर्दुष्टात्सुरेश्वर ।
गणानां सर्वलोकानामन्यथा जीवनं कथम् ॥ ३॥
क उवाच ।
इत्थं तेषु वदत्स्वेव तत्कीर्तिं गिरिजऽऽययौ ।
आलिङ्ग्य प्राह पुत्रं सा श्रान्तोऽसि युद्धलालसः ॥ ४॥
ततः शीघ्रं समायातो भर्गो देवं स सस्वजे ।
उवाचेन्द्रादिभिर्देवैरसाध्यं कृतवानसि ॥ ५॥
परब्रह्मस्वरूपस्य चराचरगुरोरपि ।
सर्वज्ञस्य धराभारोद्धरणे निरतस्य ते ॥ ६॥
महिमानं स्वरूपाणि ब्रह्माद्या न विदुः सुराः ।
गौतमाद्याश्च मुनयः शक्तिः का तत्र नो भवेत् ॥ ७॥
क उवाच ।
इत्थं वदति देवेशे शिवेऽथ पार्वतीं जगौ ।
नारदो मुनिवर्योऽसौ मातः शृणु वचो मम ॥ ८॥
बहवो वासरा जाता अत्र स्थाने कदा शिवे ।
मोक्षमेष्यति दैत्योऽसौ सिन्धुर्दुष्टतमोऽनघे ॥ ९॥
कदा विवाहो भविता मयूरेशस्य सुव्रते ।
वासवाद्या जिता येन नाशं स कथमेष्यति ॥ १०॥
आज्ञां देहि गमिष्यामः पुनरेष्याम सत्वरम् ।
कदा स्युः सिन्धुदैत्यात्ते देवाश्च मुक्तबन्धनाः ॥ ११॥
दैत्यस्य मरणं मातरसाध्यं दृश्यते मया ।
क उवाच ।
सुरर्षेर्वाक्यमाकर्ण्य प्रोचुस्तं ते गणास्तदा ॥ १२॥
षडाननादयो वीरा नारदं देवदर्शनम् ।
उद्दीपयन्तं तं देवं मयूरेशं सुरेश्वरम् ॥ १३॥
आश्चर्यं नारदमुने सर्वज्ञस्यापि तेऽनघ ।
एतदर्थं समायातो निजधाम्नो भुवं विभुः ॥ १४॥
अवाप्तसकलार्थोऽसौ मयूरेशोऽखिलार्थकृत् ।
अगुणस्य गुणेशस्य गुणक्षोभविधायिनः ॥ १५॥
स्वरूपं किं न जानासि ब्रह्माद्यैरनिरूपितम् ।
मयूरेशस्य वीर्यं च भूभारोत्तारणैषिणः ॥ १६॥
इन्द्राद्यवध्यानसुरन्निघ्नतो बलशालिनः ।
अनन्तकोटिब्रह्माण्डनायकस्याखिलात्मनः ॥ १७॥
उत्पत्तिस्थितिसंहारकारिणो जगतामपि ।
क उवाच ।
इति तद्भारती श्रुत्वा पुनः प्रोवाच नारदः ॥ १८॥
यदा द्रक्ष्यामि तं दैत्यं निहतं मुक्तिमागतम् ।
तदा सर्वं वचः सत्यं मन्येऽहं नान्यथा क्वचित् ॥ १९॥
निशम्यत्थं वचस्तस्य चुक्रोध स मयूरराट् ।
जगर्ज क्रोधदीप्तोऽसौ नादयन्भुवनत्रयम् ॥ २०॥
दहन्निव त्रिलोकीं स शीर्णयन् पृथिवीमपि ।
मेघगम्भीरया वाचा बभाण तं मुनिं तदा ॥ २१॥
मयूरेश उवाच ।
मान्योऽसि ब्रह्मपुत्रत्वात् सर्वज्ञत्वान्मुनीश्वर ।
अतस्त्वां प्रब्रवीम्यद्य मर्यादां परिपालयन् ॥ २२॥
तव प्रसादात् ब्रह्माण्डं प्राशयिष्येऽन्तकं क्षणात् ।
भूगोलं न्युब्जतां नेष्ये शोषयिष्येऽम्बुधीनपि ॥ २३॥
चालयिष्ये तथा मेरुं मुने निश्वासवायुना ।
शृणु नारद सत्यां मे प्रतिज्ञामद्य सर्वग ॥ २४॥
हनिष्ये सिन्धुदैत्यं तं नात्र कार्या विचारणा ।
क उवाच ।
इत्युक्त्वा प्रययौ योद्धुं बर्ह्यारुढो विनायकः ॥ २५॥
आहतुस्तं तदा नन्दी भृङ्गी चौभौ विनायकम् ।
आवां युद्धं करिष्यावो पश्य नौ रणकौशलम् ॥ २६॥
इत्युक्त्वा वायुवेगेन गतौ तौ गण्डकीं पुरीम् ।
वीरभद्रो भूतराजो ययौ श्रुत्वा तयोर्गतिम् ॥ २७॥
तदा च कम्पे धरणी शेषो विव्हलतां ययौ ।
ददृशुस्ते च चत्वारो दुर्गं दुर्गं सुरेश्वरैः ॥ २८॥
पर्यङ्के सुखमासीनं सिन्धुं चारा न्यवेदयन् ।
चत्वारः पर्वताकारा गर्जयन्तो दिशो नभः ॥ २९॥
वीरास्तव पुरीं याताः किं स्थितोऽसि महासुर ।
श्रुत्वेत्थं वचनं सिन्धुर्मग्नश्चिन्तार्णवे क्षणात् ।
दुर्गापि चिन्तयाविष्टा सा सोऽपि श्यामतामियात् ॥ ३०॥
अधोमुखतया चोभौ दुःखं प्रापतुरञ्जसा ।
दुर्गा प्रोचे महाराज मयोक्तं न कृतं त्वया ॥ ३१॥
तस्येदं हि फलं प्राप्तमिदानीं किं नु चिन्तया ।
एवं वदति सा वाक्यं तावत्ते वीरसत्तमाः ॥ ३२॥
नानाश्चर्ययुतं नानारत्नकाञ्चननिर्मितम् ।
अनेक शिखरं तस्य सभामण्डपमाययुः ॥ ३३॥
उडीय सहसा भृङ्गी तस्थौ क्रुद्धस्तु मण्डपे ।
बभञ्ज मण्डपं सद्यः स बलेन महाबलः ॥ ३४॥
अङ्गणे तस्य खण्डानि पतितानि समन्ततः ।
तत्तस्त्रयोऽपि ते वीरा भृङ्गिनं समुपागताः ॥ ३५॥
युद्धावेशारुणमुखाः ससैन्यं तं ग्रसिष्णवः ।
दृष्ट्वा तत्कर्म तेषां तु सिन्धुसेना ययौ पुरः ॥ ३६॥
खड्गचर्मधनुर्बाणकुन्तमुद्गरधारिणी ।
घ्नन्तु घ्नन्तु महावेगांश्चतुरो वीरपुङ्गवान् ॥ ३७॥
इत्युक्त्वा चतुरो हन्तुमागता दैत्यसैनिकाः ।
असङ्ख्याताश्चतुर्भिस्तैर्युयुधुर्जातसम्भ्रमाः ॥ ३८॥
हन्मि त्वां जहि मह्यं चेत्यत्र कोलाहलोऽभवत् ।
ततोऽभूत्तुमुलं युद्धं चतुर्भिदैत्यसेनया ॥ ३९॥
रजोऽन्धकारे शस्त्रांणां प्रकाशनावलोकयन् ।
शतकोटि हता दैत्याश्चतुर्भिः संयुगे तदा ॥ ४०॥
असङ्ख्यातान् महावीरान् पोथयामासुरोजसा ।
गृहीत्वा पादयोस्ते तान् भ्रामयित्वा पुनः पुनः ॥ ४१॥
नभोऽक्षिपन्महावीरास्ते भूमौ शतधाऽपतन् ।
शरैरस्त्रैश्च शस्त्रैश्च पादेन करघाततः ॥ ४२॥
नाशिता सर्वसेना सा दैतेयी रणमण्डले ।
ततस्ते तद्गृहं गत्वा सिन्धुं पर्यङ्कसंस्थितम् ॥ ४३॥
रणस्तम्भं समानिन्युर्धृत्वा केशेषु वेगतः ।
ततः सिन्धुर्महास्त्रैः स चक्रे युद्धं तु तैः सह ॥ ४४॥
व्यसृजत् पन्नगास्त्रं स भुजगैर्वेष्टितास्त्रयः ।
गरुडास्त्रं च सहसा भृङ्गिणाऽमोचि तत्क्षणात् ॥ ४५॥
अग्न्यस्त्रे मोचिते तेन पर्जन्यास्त्रं च सोऽसृजत् ।
वाय्वस्त्रे मोचिते तेन पर्वतास्त्रं च तेऽसृजन् ॥ ४६॥
ततस्ते मल्लयुद्धेन योधयामासुरादरात् ।
नन्दी तु पातयामास मुकुटं दैत्यमस्तकात् ॥ ४७॥
भृङ्गी तु ताडयामास पृष्ठे दैत्यं महारुषा ।
वीरभद्रोऽग्रहीद् भार्यां कचे तस्याथ पश्यतः ॥ ४८॥
भूतराजो जघानैनं लत्तया वैरभावतः ।
दुर्गा नेत्रे निमील्यैव नापश्यत्तं तथाविधम् ॥ ४९॥
निन्दन्ती तस्य कर्माणि पपाल निजमन्दिरम् ।
आवेशात्सिन्धुदैत्योऽपि वीरभद्रं पदेऽग्रहीत् ॥ ५०॥
मुष्टिना नन्दिनं हत्वा शिखामाक्रम्य भृङ्गिणः ।
अपातयद् भूमितले भूतराजो मुमूर्छ ह ॥ ५१॥
मुकुटं मस्तकेन्यस्य मुक्ताहारं गले तथा ।
तुरङ्गवरमारुह्य शेषानाहूय सैनिकान् ॥ ५२॥
हनिष्येऽद्य मयूरेशमित्युक्त्वा युयुधे पुनः ।
जगर्ज सहसा दैत्यो गर्जयन्विदिशो दिशः ॥ ५३॥
गतेषु तेषु वीरेषु चतुर्षु गणनायकम् ।
वदत्सु दैत्यसेनायां सर्वेषां नाशनं कृतम् ॥ ५४॥
आनीतः सिन्धुदैत्योऽपि रणभूमिं गणेश्वर ।
अल्पसेनाचरैर्युक्तं मोचयैनं भवार्णवात् ॥ ५५॥
वयमेव हनिष्यामो नाज्ञासीत् तव विघ्नराट् ॥ ५६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशसेनाविजयवर्णनं नाम द्वाविंशोत्तरशततमोऽध्यायः ॥ १२२॥
आदितः श्लोकानां समष्ट्यङ्काः - ९६३५ + ५६ = ९६९१
२.१२३ त्रयोविंशत्युत्तरशततमोऽध्यायः
क उवाच ।
आगतं सिन्धुमाकर्ण्य जहृषे स मयूरराट् ।
नीलकण्ठं समारुह्य ययौ युद्धाय सत्वरः ॥ १॥
चतुर्भिरायुधैः सर्वाभासन् विदिशो दिशः ।
कल्पान्तमेघसदृशनादेन नादयन्नभः ॥ २॥
ददर्श पुरतः सिन्धुं युद्धाय कृतनिश्चयम् ।
सोऽप्येनं समरे दृष्ट्वा पश्यति स्म पुनः पुनः ॥ ३॥
यथा सिहं नागराजो गरुडं चाथ वायुभुक् ।
मधुकैटभौ यथा विष्णुं त्रिपुरो वा शिवापतिम् ॥ ४॥
शुम्भो वापि निशुम्भो वा जगदम्बां महाबलाम् ।
ततो युद्धं प्रकुर्वाते नानाशस्त्रैः परस्परम् ॥ ५॥
जपाकुसुमसङ्काशौ देहौ जातो तदा तयोः ।
ददाह पृथिवीं साद्रिं शस्त्रसङ्घट्टजोऽनलः ॥ ६॥
च कम्पे पृथिवी सर्वा साब्धिद्वीपा सपर्वता ।
बाणमादाय सिन्धुः स वह्नयस्त्रेणाभिमन्त्र्य च ॥ ७॥
ससर्ज दग्धुं तं देवं मयूरेशं रणाङ्गणे ।
स दहन् देवसेनां तां दशदिक्षु ससर्प ह ॥ ८॥
ततः पाशं मयूरेशो मेघास्रेण सुयोज्य च ।
न्यक्षिपद् दैत्यसेनायां कम्पयन् भुवनत्रयम् ॥ ९॥
अशमच्च ततो वह्निर्जलधाराऽभिवृष्टिभिः ।
प्रभूतेनाथ तमसा दिशो व्याप्ता दशापि च ॥ १०॥
विशीर्णाः पर्वतास्ताभिः पतिता वृक्षसञ्चयाः ।
अयं किं प्रलयः प्राप्त इत्यशोचत् स दैत्यराट् ॥ ११॥
पवनास्त्रेण तान्मेघांस्तदा सिन्धुर्न्यवारयत् ।
स वायुः कम्पयामास गगनं च दिशो दश ॥ १२॥
ततो देवोऽमन्त्रयत्स कमलं निजहस्तके ।
पर्वतास्त्रेण सहसा तत्याज दैत्यपुङ्गवे ॥ १३॥
उन्मूल्य तद् द्रुमान् व्योम द्योतयच्च दिशो दश ।
अगच्छद् दैत्यसेनायां प्रासुवत् पर्वतान्बहून् ॥ १४॥
असङ्ख्यातैर्गिरिवरैश्छादितं पृथिवीतलम् ।
न स्थातुमवकाशोऽभून्न च गन्तुमथापि च ॥ १५॥
पवनं कुण्ठितं दृष्ट्वा पर्वतान्सर्वतोऽपि च ।
वज्रास्त्रं प्रेरयामास ततो वज्राणि निर्ययुः ॥ १६॥
असङ्ख्यातैश्च वज्रैश्च पर्वताश्चूर्णितास्तदा ।
ततोऽकुशं मयूरेशो वज्रास्त्रेण न्यमन्त्रयत् ॥ १७॥
ससर्ज तेषु वज्रेषु वज्रयुद्धमभूत् तदा ।
तच्छब्देन च कम्पे भूः पातालानि दिशो नभः ॥ १८॥
न्यपदत् वज्रघातेन वह्निर्लोकान्ददाह सः ।
परस्परं निरस्तानि वज्राण्यन्तर्दधुस्तदा ॥ १९॥
ततोऽवदन्महादैत्योऽमात्यान् प्रति महारुषा ।
किमनेन प्रयोगेण भस्म कुर्यां क्षणादमुम् ॥ २०॥
शिवबालं शिवास्तन्यपानदक्षं शिवोचितम ।
इत्युक्त्वाऽभिद्रवद्दैत्यो हन्तुं तं स गुणेश्वरम् ॥ २१॥
दधार तं निरीक्ष्यैवमायान्तं दैत्यपुङ्गवम् ।
विराड्रूपो मयूरेशो बिभेद सहसा नभः ॥ २२॥
चरणाक्रान्त पातालः श्रोत्रव्याप्तदिगन्तरः ॥ २३॥
सहस्रपादं सहसा निरीक्ष्य सहस्रनेत्रं च सहस्रशीर्षम् ।
खं रोदसी व्याप्य च तिष्ठमानं सिन्धुर्मुमूर्छाथ पतँश्च भूमौ ॥ २४॥
आच्छादयन्तं हस्तेन व्योम सर्वं सुरेश्वरम् ।
सावधानमनाः किञ्चित् सस्मार रविजं वरम् ॥ २५॥
सिन्धुरुवाच ।
रविणा पूर्वमुक्तोऽहं वरदाने महौजसा ।
आच्छादयेद् यो गगनमेकहस्तेनरेऽसुर ॥ २६॥
स ते मुक्तिपदं सद्यो नेष्यते बहुकालतः ।
अतोऽनेन रणेनाऽलं यद् भाव्यं तद्भविष्यति ॥ २७॥
पुनर्निरीक्ष्यमाणोऽसौ ह्रस्वकायं ददर्श तम् ।
षड्भुजं तु मयूरेशं परं विस्मयमायमौ ॥ २८॥
ततोऽवरुह्य देवेशो मयूरेशः शिखण्डिनः ।
उपस्पृश्य जलं शुद्धं जजाप परमं मनुम् ॥ २९॥
परशुं मन्त्रयामास महोव्याप्तं दिगन्तरम् ।
लक्षीकृत्य रिपोर्नाभिं सुधामन्त्रेण संयुतम् ॥ ३०॥
स्फोटयन्निव ब्रह्माण्डं क्रोधसंरक्तलोचनः ।
ज्वालामालाकुलं तं स मुमोच गिरिजासुतः ॥ ३१॥
स मोच्यमानो गगनं नादयन् विदिशो दिशः ।
भासयन् महसा पृथ्वीं सपर्वतवनाकराम् ॥ ३२॥
दृष्ट्वा दैत्यः समायान्तं परशुं कालसन्निभम् ।
शीघ्रं चक्रे धनुर्घोरं शरं यावद्धियोज्यते ॥ ३३॥
तावत्स बिभिदे नाभिममृताभियुतं लघु ।
अमृते निःसृते दैत्यो वाताहत इव द्रुमः ॥ ३४॥
पपात सहसा भूमौ वज्राहत इवाचलः ।
प्रसार्य वक्त्रं रुधिरं वमन्प्राणान्विसृज्य सः ॥ ३५॥
मयूरेशप्रतापेन मुक्तिं प्राप सुदुर्लभाम् ।
पश्यतां सर्वलोकानां तद्भुतमिवाभवत् ॥ ३६॥
अवतेरुर्विमानानि युद्धं द्रष्टुं स्थितानि ह ।
पपात पुष्पवृष्टिश्च शनैर्मेघा जगर्जिरे ॥ ३७॥
अशीशमद् रजो भौमं ववौ वातः सुखावहः ।
प्रसेदुश्च दिशः सर्वा गन्धर्वा मधुरं जगुः ॥ ३८॥
ननृतुश्चाप्सरः सङघास्तुष्टवुर्मुनिदेवताः ।
षडाननादयो वीरा मयूरेशं मुदा युताः ॥ ३९॥
सर्वे ऊचुः ।
परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् ।
गुणाब्धि गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४०॥
जगद्वन्द्यमेकं परोङ्कारमेकं गुणानां परं कारणं निर्विकल्पम् ।
जगत्पालकं हारकं तारकं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४१॥
महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।
सदा भक्तपोषं परं ज्ञानकोशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४२॥
अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् ।
सुरार्यन्न्तकं भुक्तिमुक्तिप्रदं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४३॥
परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।
असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४४॥
अनेकक्रियाकारणं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।
क्रिया सिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४५॥
महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।
जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४६॥
महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् ।
सदाकामरूपं कृपाम्भोनिधिं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४७॥
सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो
यतस्त्वं लोकानां परमकरुणामाशु तनुषे ।
षडूर्मीणां वेगं सुरवर सदा नाशय विभो
ततो मुक्तिः श्लाघ्या तव भजनतोऽनन्तसुखदात् ॥ ४८॥
किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं
विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् ।
न चास्माकं शक्तिस्तव गुणगणं वर्णितुमहो
त्वदीयोऽयं वारां निधिरिव जगत्सर्जनविधिः ॥ ४९॥
कः उवाच ।
एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् ।
यदुक्तं ते मयूरेश तत्कृतं परमं वचः ॥ ५०॥
सर्वेषां सुरसङ्घानामवध्योऽयं हतोऽसुरः ।
ततोऽगात् पार्वती तत्र जहृषे चालिलिङ्ग तम् ॥ ५१॥
शिवोऽपि प्रययौ तत्र समालिङ्ग्य च तमब्रवीत् ।
सम्यक् कृतं त्वया वत्स त्रैलोक्यं हर्ष निर्भरम् ॥ ५२॥
सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः ।
पराक्रमवतः सर्वलोकरक्षारतस्य च ॥ ५३॥
चतुर्वेदानिरुप्यस्य सर्वविद्यानिधेरपि ।
एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः ॥ ५४॥
मयूरेशं नमस्कृत्य ततो देवाब्रुवँश्च तम् ।
इदं यः पठते स्तोत्रं स कामाल्लभतेऽखिलान् ॥ ५५॥
सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ।
अयुतावर्तनान्मर्त्योऽसाध्यं यत्साधयेत् क्षणात् ॥ ५६॥
सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् ।
पुत्रवान्धनवांश्चैव वशतामखिलं नयेत् ॥ ५७॥
क उवाच ।
एवमुक्त्वा ह्यनुज्ञाताः साध्वित्युक्त्वा ययुः सुराः ।
मयूरेशो गणैर्युक्तः स्वधाम प्रत्यपद्यत ॥ ५८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवदो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३॥
आदितः श्लोकानां समष्ट्यङ्काः - ९६९१ + ५८ = ९७५९
२.१२४ चतुर्विंशत्युत्तरशततमोऽध्यायः
क उवाच ।
पतिते सिन्धुदैत्ये तु हतशेषा रणे स्थिताः ।
आययुर्गण्डकीं यावत्तावत्ते चिन्तयायुताः ॥ १॥
उग्रा दुर्गा चक्रपाणिरतिष्ठन् विह्वला भृशम् ।
तावत् तेषां दुष्टचिन्हं बभूव विविधं तदा ॥ २॥
उदक्शिराः प्रसुष्वाप काश्चित्तत्राशुभावहः ।
जानुनोर्मस्तकं न्यस्य तस्थौ तूष्णीं चलन्निव ॥ ३॥
हनौ पाणितलं न्यस्य तस्थौ काचिन्मुदं विना ।
एतस्मिन्नन्तरे दूता यमदूता इवाययुः ॥ ४॥
अतिम्लानमुखा दीना नाब्रुवन्मूकतां गताः ।
पृष्टास्ते प्राहुरपरे वृत्तान्तं रणभूगतम् ॥ ५॥
दूता ऊचुः ।
असङ्ख्यातान् महावीरान् हत्वा सिन्धुर्दिवं गतः ।
बालानस्मान् परित्यज्य तेन हीना रुदामहे ॥ ६॥
निरीक्ष्य देवान् निहतान् क्रुद्धोऽगाद् गिरिजासुतः ।
अस्त्रैरस्त्राणि संवार्य मुमोच परशुं शितम् ॥ ७॥
तेन सिन्धुर्मृतस्तत्र पतितो धरणीतले ।
मुमूर्छस्तत्र सर्वेऽपि तदीया नागराश्च ह ॥ ८॥
श्रुत्वा वार्तां दूतमुखाद् रुरुदुः सर्व एव ते ।
विललापाथ दुर्गा सा जघान शिर उत्कटम् ॥ ९॥
मुक्तकेशा मुहुर्वक्त्रं निघ्नती गतभूषणा ।
उग्रा च जननी चास्य चक्रपाणिः पिता तदा ॥ १०॥
पौराश्च रुरुदुस्तत्र निघ्नन्तः पाणिना मुखम् ।
अवनौ शिर आस्फाल्य लुलुण्ठर्घोरनिस्वनाः ॥ ११॥
कश्चिद्धूलिं निचिक्षेप मुखे शिरसि दुःखितः ।
हस्तपृष्ठं ददंशान्यास्ताभ्यां भूमिमथाहनत् ॥ १२॥
अशपन् निगरिजापुत्रं स्त्रियो भङ्क्त्वा कराङ्गुलीः ।
उग्रोवाच ।
नानायत्नैस्तपसा सूर्यतुष्ट्या नत्या स्तुत्या लङघनैः सर्वदानैः ।
प्रातःकालान् मा हतस्त्वं कथञ्चिच्छूरो मानी केन नीतोऽसि रें त्वम् ॥ १३॥
त्रिलोकनायकेनाऽहं श्लाघ्या त्रैलोक्यमण्डले ।
शपिष्यन्ति च मां लोका हतभाग्यासि साम्प्रतम् ॥ १४॥
जितः कृतान्तः पूर्वं ते कथं तेन समागमः ।
प्राप्तस्त्वया कथं पुत्र न जितः पुनरेव सः ॥ १५॥
सकामो गिरिजापुत्रस्त्वयि याते दिवं सुत ।
मामपृष्ट्वा कथं यातः स्वर्ग लोकं सुखावहम् ॥ १६॥
दुःखितायां मयि सुत कथं सन्तोषमेष्यसि ।
गर्जन्ति नैव जीमूतत्स्त्वयि गर्जति पुत्रक ॥ १७॥
निःशब्दः स कथं पुत्र पतितस्त्वं रणागणे ।
दुर्गोवाच ।
देहैक्यं कृतवान् धाता दम्पत्योर्वेददर्शनात् ॥ १८॥
प्राणैक्यं न कृतं कस्माद्ब्रह्मणा मूढबुद्धिना ।
नाहं शचीं च सावित्रीं सौभाग्यमदगर्विता ॥ १९॥
गणयामि न चान्याश्च सा कथं विधवाऽभवम् ।
स्वहस्तेन च कस्तूरीं चन्दनं च यदा भवान् ॥ २०॥
चर्चति स्म तदाङ्गानि शीतलानि ममाऽभवन् ।
इदानीं दह्यमानानि शोकेन तानि निर्वप ॥ २१॥
न भक्षयसि पूर्वं त्वं मद्विना विषमण्वपि ।
स कथं मां विना स्वर्गसुखं भोक्ष्यसि तादृशम् ॥ २२॥
अपराधं विना भृत्ये नोदासीना भवन्ति हि ।
साधवः समशीलाश्च तत्कथं मामुपेक्षसे ॥ २३॥
उपाधिरहितं प्रेम कृतं नानाविधं पुरा ।
अनिर्वाच्यं कथं त्यक्त्वा तद्गतोऽसि सुरान्तक ॥ २४॥
क उवाच ।
तपोवृद्धा ज्ञानवृद्धाः प्राब्रुवन्निष्ठुरं वचः ।
न रोदनं प्रशंसन्ति धर्मशास्त्रविदो जनाः ॥ २५॥
यदश्रु सुहृदामास्ये प्रेतस्य तत्पतेद् धृवम् ।
तस्मात्तस्य हितं यत् स्यात् तत् कर्तव्यं दयावता ॥ २६॥
विचार्यमाणे तस्यापि मोक्षोऽदायि कृपावता ।
निर्गुणेन चिदानन्दघनेन ब्रह्मरूपिणा ॥ २७॥
दयापरवशाज्जन्म बिभ्रता लोकशङ्कृता ।
मयूरेशेन सङ्ग्रामे निघ्नता सम्मुखं च तम् ॥ २८॥
आत्मनो नैव मरणं नोत्पत्तिः क्वापि विद्यते ।
अनादित्वान्निर्गुणत्वान्नित्यत्वाद् वेदनिश्चयात् ॥ २९॥
स्वार्थं हि रोदते जन्तुर्हितं प्रेतस्य नेहते ।
असङ्ख्य भारवाड्देवी न भारं सहते धरा ॥ ३०॥
प्रेतस्य शेषः कमठो वराहोऽसौ धराधरः ।
इत्युक्त्वा ते तदा शोकं विजहुर्बुद्धवाक्यतः ॥ ३१॥
उग्रा च चक्रपाणिश्च दुर्गा च सखिभिः सह ।
नागराश्चापि शोचन्तो ययुः सङ्ग्राममण्डलम् ॥ ३२॥
ददृशुः सेवकैः सिन्धुं वीज्यमानं रणाङ्गणे ।
पतितं वक्त्रकमलं व्यादाय सितलोचनम् ॥ ३३॥
असृक्स्रवन्तं दुर्गन्धं पक्षिश्वापदसङकुलम् ।
उपविष्टास्तु परितः शोचन्तो भृशदुःखिताः ॥ ३४॥
अङ्के कृत्वा शिरस्तस्य दुर्गाऽशोचत् खरस्वना ।
पादसंवाहनं नाथ हस्ताभ्याम् पूर्वमाचरम् ॥ ३५॥
जनमध्ये न तच्छक्यमुत्तिष्ठ प्राणनायक ।
शत्रौ जीवति निद्रां त्वं कथं विराधिगच्छसि ॥ ३६॥
तन्मुखे स्थापयित्वास्यं हाहाकारं च साऽकरोत् ।
न्यषेधन् वृद्धविज्ञास्तां तत उग्राऽब्रवीद् वचः ॥ ३७॥
चक्रपाणिः पिता चास्यं क्षालयन्तौ शुशोच तम् ।
उत्तिष्ठ वत्स किं शेषे शेषे रिपुगणे सति ॥ ३८॥
वज्री वज्राहत इव पतितो धरणीतले ।
इदानीं बाल युद्धे त्वं कथं निपतितो भुवि ॥ ३९॥
जितः कृतान्तो भूक्षेपात् तद्वशं कथमागतः ।
किञ्चिद्वाक्यं वद विभो हृदयानन्दकारकम् ॥ ४०॥
यस्य शब्देन त्रैलोक्यं कम्पते स्म पुराऽनघ ।
कथं स्ववचनं नाद्य वदसे मन्दविक्रम ॥ ४१॥
नावाभ्यामपराद्धं ते येन मौनं त्वमाश्रितः ।
न भाषसे रोषवशात् सेनाशेषसमन्वितः ॥ ४२॥
कथं विव्हलतां यातः कामं यो जितवान् रुचा ।
ततो विज्ञाश्च वृद्धाश्च नानादृष्टान्तदर्शनैः ॥ ४३॥
समादध्युः प्ररुदतो मृतानुमरणं न हि ।
रामो दाशरथिः किं नु लोकान्तरगतो न हि ॥ ४४॥
विक्रमेण रिपूं जित्वा गतः किं न रघूत्तमः ।
अन्येऽपि शतशो भूपास्त्वत्कृते मरणं गताः ।
कीर्तिं नानाविधां कृत्वा स्वर्गस्थाः सुखमश्नुते ॥ ४५॥
क उवाच ।
ततस्ते संस्कृतिं चक्रुर्बिल्वचन्दनदारुभिः ।
दुर्गा सहैव संयाता पातिव्रत्यगुणान्विता ॥ ४६॥
ततो ययौ मयूरेशं चक्रपाणिः सनागरः ।
नमस्कृत्य प्रतुष्टाव बद्धाञ्जलिपुटः शनैः ॥ ४७॥
राजोवाच ।
निर्गुणस्त्वं परात्मासि चराचरगतिर्विभो ।
त्रयीगम्यो गुणाध्यक्षो विरजो विश्वनायकः ॥ ४८॥
तवैव मायया देवा मोहितस्त्वां न ते विदुः ।
अहं धन्यो नागरिका धन्यास्त्वद्दर्शनाद्विभो ॥ ४९॥
क उवाच ।
एवं तेन स्तुतो देवः करुणाब्धिर्मयूरराट् ।
उवाच परमप्रीतः सर्वशास्त्रार्थतत्त्ववित् ॥ ५०॥
देव उवाच ।
वरं वरय मत्तस्त्वं चक्रपाणे हतार्भक ।
राजोवाच ।
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥ ५१॥
तदा गृहानुपागच्छ पुनीहि नगरीमिमाम् ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं बर्हिणं स समारुहत् ॥ ५२॥
ययौ स नगरं पश्चात् त्र्यम्बको गिरिजायुतः ।
अग्रतस्ते गणाः सर्वे मुनयो हर्षनिर्भराः ॥ ५३॥
वाद्यत्सु सर्ववाद्येषु युयुस्ते गण्डकीं पुरीम् ।
नानाध्वजपताकाभिर्युतां संसिक्तपद्धतिम् ॥ ५४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुनिरुद्धदेवगणमोचनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४॥
आदितः श्लोकानां समष्ट्यङ्काः - ९७४९ + ५४ = ९८०३
२.१२५ पञ्चविंशोत्तरशततमोऽध्यायः
क उवाच ।
सभां संवारयामास चक्रपाणिः पुरो गतः ।
परार्ध्यास्तरणैर्वस्त्रैः पताकाध्वजचामरैः ॥ १॥
नानारत्नेषु दीप्तेषु भूमिस्तम्भगतेषुच ।
अनन्तो दृश्यते यत्र सङ्क्रान्तप्रतिमो नरः ॥ २॥
ददर्श नगरीं देवो नानाध्वजविराजिताम् ।
प्रासादशिखरारूढाः पश्यन्ति स्माऽसुरस्त्रियः ॥ ३॥
ततो मुक्ताः सुरास्ते तं सम्मुखं चक्रपाणिना ।
आयर्युमाधवः शक्रोऽनल ऐलविलोऽपि च ॥ ४॥
मरुद् रविः शशी चान्ये वाद्यघोषेण सत्वरम् ।
स्वस्ववाहात् समुत्तीर्य प्रणेमुः सर्व एव तम् ॥ ५॥
आलिलिङ्गुर्मयूरेशं देवाः पौराश्च सादरम् ।
माधवश्च मयूरेशं दृष्ट्वा हर्षसमन्वितः ॥ ६॥
प्रशशंसुः सिन्धुवधात् सर्वे हर्यादयः सुराः ।
देवा ऊचुः ।
आक्रान्तं विष्टपं येन सहतः क्षणमात्रतः ॥ ७॥
दत्तानि स्वपदान्याशु नेदृग्दृष्टो न वा श्रुतः ।
अत्र ये वैष्णवाः शैवाः शाक्ताः सौराश्च तेऽप्यमुम् ॥ ८॥
तत्तद्रूपं निरीक्ष्यैव पुपूजुः परया मुदा ।
मयूरेश जयस्वेति श्रुत्वा वाचः सुविस्मिताः ॥ ९॥
बालकाश्च सुसम्पन्ना मुग्धाः प्रौढाश्च योषितः ।
पुपूजुर्मनसा देवं वृद्धाश्च तरुणास्तदा ॥ १०॥
चक्रपाणिगृहे देवो मध्ये सिंहासने शुभे ॥ ११॥
उपविष्टो मयूरेशो विबुधाश्च समन्ततः ।
मुनयश्च गणाः सर्वे सप्तकोटिमिता मुने ॥ १२॥
नुनुवुर्बन्दिनः सर्वै धन्या देवा नृपास्तथा ।
ननृतुश्चाप्सरःसङ्घा जगुस्ते नारदादयः ॥ १३॥
चक्रपाणिस्ततः सर्वान् सम्पूज्य विधिवत् तदा ।
उवाच च सभामध्ये धन्यं मे जन्म कर्म च ॥ १४॥
इन्द्रादयो लोकपालाः समितौ यस्य मेऽधुना ।
शतजन्मार्जितैः पुण्यैर्मयूरेशो निरीक्षितः ॥ १५॥
क उवाच ।
इन्द्रो दृष्ट्वा मयूरेशं प्रथमं पूजितं रुषा ।
अब्रवीत् सहसा भ्रान्तो मायया जगदीशितुः ॥ १६॥
शक्र उवाच ।
चतुर्मुखोऽपि लक्ष्मीशो जगदुत्पत्तिकारकः ।
मूढोऽसि चक्रपाणे त्वमर्भस्य प्रपूजनात् ॥ १७॥
अस्मान् धिक्कृत्य यन्मोहात् पूजितो बालकस्त्वया ।
जनकं सर्वलोकानां त्यज्य संहारकारकम् ॥ १८॥
त्रैलोक्यजननीमम्बां सृष्टिस्थित्यन्तकारिणीम् ।
रविं त्रैलोक्यनेतारं त्रयीकर्मप्रवर्तकम् ॥ १९॥
हित्वा सम्पूचितो बालो नेदं सम्यक्कृतं त्वया ॥ २०॥
क उवाच ।
एवं वदति देवेन्द्रे चक्रपाणिस्तदाऽब्रवीत् ।
रुद्रात्सूर्यात्कुबेराच्च शक्राच्च मरुतोऽनलात् ॥ २१॥
दृष्टः पराक्रमोऽतीव सिन्धुदैत्यविनाशनात् ।
मोक्षात्सर्वसुराणाञ्च कारागाराद् गुणेश्वरः ॥ २२॥
योवऽतीर्णो भुवो भारं हर्तुं शिवनिवेशने ।
परमात्मानन्तशक्तिर्नानादैत्यविभञ्जनः ॥ २३॥
क उवाच ।
एवं वदति तस्मिंस्तु श्रुतः शब्दः सुरैर्महान् ।
मूर्छिताः पतिताः केचिद् ब्रह्माण्डस्फोटशङ्कया ॥ २४॥
च कम्पे धरणी सर्वा न प्राज्ञायत किचन ।
कोटिसूर्यप्रकाशेन सहसाच्छादितं जगत् ॥ २५॥
ततस्तैस्त्रिदशैस्तत्र दृष्टो देवोऽतिसुन्दरः ।
नानालङ्कारसंयुक्तो दशबाहुर्गजाननः ॥ २६॥
एवं दृष्ट्वा स्वरूपं ते विस्मितास्त्रिदशास्तदा ।
पुनस्तमेव ददृशुः पञ्चरूपिणमीश्वरम् ॥ २७॥
पद्मासनगतं मध्ये वक्रतुण्डं शिवं पुनः ।
आग्नेय्यां नैऋते सूर्यं पार्वतीं मारुतेऽपि च ॥ २८॥
नारायणं तथेशान्ये ततो भ्रममिताः सुराः ।
ततस्ते शुश्रुवुर्व्योमवाणीं भ्रमनिवारिकाम् ॥ २९॥
आराध्योऽयं सर्वजनैरेको जातः स पञ्चधा ।
अनादिनिधनो देवो जगद्व्यापी गजाननः ॥ ३०॥
अयमेव सदा पूज्यः सर्वविघ्नविनाशनः ।
देवैर्मनुष्यैर्यक्षैश्च नागै रक्षोभिरेव च ॥ ३१॥
एतास्मिन्पूजिते पञ्चपूजनं च भविष्यति ।
न बुद्धिभेदं तनुयादेतस्मिन् नरकाय सा ॥ ३२॥
क उवाच ।
श्रुत्वैवं ते मयूरेशं शुण्डादण्डविराजितम् ।
ददृशुर्वज्रिमुख्यास्ते आद्यमोङ्काररूपिणम् ॥ ३३॥
ततः प्रबुद्धास्ते देवास्त्यक्त्वा भ्रान्तिस्मयं च तम् ।
पुपूजुर्जयशब्दैस्तं सर्वान्तर्यामिणं विभुम् ॥ ३४॥
ततः पुपूजे हर्षेण चक्रपाणिर्गुणेश्वरम् ।
पञ्चामृतैः शुद्धजलैर्दिव्यवस्त्रैश्च भूषणैः ॥ ३५॥
पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि ।
फलताम्बूलनिचयैर्दक्षिणाभिरनेकशः ॥ ३६॥
नीराजनैर्मन्त्रपुष्पैर्नतिभिः स्तुतिभिस्तदा ।
तथैव पूजयामास भक्त्या सर्वसुरानपि ॥ ३७॥
उवाच तान् नृपवरो धन्योऽहं च प्रपूजनात् ।
यतो नैतादृशः क्वापि जातः सर्वसमागमः ॥ ३८॥
ततस्तत्राब्रवीत् हृष्टो नारदश्चतुराननम् ।
नारद उवाच ।
सिद्धिबुद्धि विवाहार्थमाज्ञया तेऽब्जसम्भव ॥ ३९॥
शिवं शिवां च विज्ञाप्य निश्चयः प्राङ्मया कृतः ।
मयूरेशाय सम्यक्ते दातव्ये बहुलक्षणे ॥ ४०॥
ततः सर्वे सुरा देवं ब्रह्माणं मन्मथातुराः ।
प्रत्येकं ते ह्ययाचन्त मम देहीति सादरम् ॥ ४१॥
ततो ब्रह्मा तयोर्हस्ते मालां दत्त्वाऽब्रवीदिदम् ।
क उवाच ।
त्रयस्त्रिंशत्कोटिसुरेष्वेको यो भासते हृदि ॥ ४२॥
तमेव वृणुतं देव्यौ मालाभ्यां मत्समक्षतः ।
त्यक्वा सर्वान्सुराँस्तेतु सिद्धिबुद्धी उभे अपि ॥ ४३॥
मयूरेशगले माले निक्षिपेतां मुदा तदा ।
विमनस्कास्ततो देवा असृजन् श्वासमारुतम् ॥ ४४॥
ताभ्यां जानुगताभ्यां तु शुशुभे स मयूरराट् ।
ब्रह्मा यथाविधि तयोर्विवाहमकरोत्तदा ॥ ४५॥
उवाच च सभामध्ये मया लब्धं हृदि स्थितम् ।
न्यवेदयत् तं देवेशं मयूरेशं विधानतः ॥ ४६॥
अद्य यावन्मयैते वै पालिते बहुयत्नतः ।
इदानीं ते मया दत्ते रक्षस्व बहुयत्नतः ॥ ४७॥
तत इन्द्रादयो देवा मयूरेशं व्यजिज्ञपुः ।
तव प्रसादाद् देवेश मुक्ताः कारागृहात् ततः ॥ ४८॥
ततः सिन्धुर्गतो मोक्षं स्वस्थानं कृपया तव ।
यास्यामो देह्यनुज्ञां नो मुनिभिर्गौतमादिभिः ॥ ४९॥
क उवाच ।
ददावाज्ञां मयूरेशो यातुकामान्मुदा तदा ।
पार्वती च स्नुषे चोभे स्वाङ्कमारोप्य सादरम् ॥ ५०॥
मयूरेशं च परमं हर्षमाप शिवान्विता ।
ददौ दानान्यनेकानि वासांस्याभरणानि च ॥ ५१॥
य इदं शृणुयान्मर्त्यो विवाहं च वयं शुभम् ।
सिन्धोर्जय गणेशस्य सर्वकामाल्लँभेन्नरः ॥ ५२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशविवाहवर्णनं नाम पञ्चविंशोत्तरशततमोऽध्यायः ॥ १२५॥
आदितः श्लोकानां समष्ट्यङ्काः - ९८०३ + ५२ = ९८५५
२.१२६ षड्विंशत्युत्तरशततमोऽध्यायः अथ गजाननचरितं द्वापरयुग ।
क उवाच ।
सिद्धे विवाहे च ततो मयूरेशः शिखण्डिनम् ।
आरुह्य सहसा गन्तुं नगरीं स्वामियेष सः ॥ १॥
स्वं स्वं वाहनमारुढा गीर्वाणास्तत्क्षणेन च ।
यान्ति स्म पुरतस्तस्य मुनयः पृष्ठतो ययुः ॥ २॥
अन्वयुर्नागराः सर्वे स्रियश्च बालकानि च ।
आनन्दयुक्ता नगरात् सहसा चक्रपाणिना ॥ ३॥
वाद्यत्सु सर्ववाद्येषु ननृतुश्चाप्सरोगणाः ।
रणभूमिं गतो यावन्मयूरेशोऽखिलैर्वृतः ॥ ४॥
तावत्स्कन्दादयो वीराः प्रार्थयां चक्रिरे विभुम् ।
वीरा ऊचुः ।
सेनाचरा दैत्यगणैर्निहता युद्धसम्भ्रमात् ॥ ५॥
उत्तस्थुः सर्व एवैते त्वत्कटाक्षामृतोक्षिताः ।
तान्दृष्ट्वा जीवितांस्तेन सर्वे देवाश्च नागराः ॥ ६॥
विस्मयं परमं प्राप्ताः साधु साध्वब्रुवंस्तदा ।
ततो योजनमात्रं च दत्वा मार्गमवस्थितः ॥ ७॥
देवोऽब्रवीच्चक्रपाणिं मूर्ध्निं दत्त्वा करं शुभम् ।
आलिङ्ग्य दशदोर्दण्डैः शत्रुपक्षभयङ्करैः ॥ ८॥
देव उवाच ।
त्वं याहि गण्डकी शीघ्रं नागरैर्मम वाक्यतः ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं मुमोचाश्रूणि सत्वरम् ॥ ९॥
नागराश्च प्रणम्योच्चैरुचुर्वाक्यं शुचान्विताः ।
यत्र यासि नयास्मांस्त्वमत्र त्यक्तुं न चार्हसि ॥ १०॥
नागतः स्यात् पूर्वमेव तदा दुःखं न नो भवेत् ।
एवमुक्त्वा नमस्कृत्य ययुः सर्वे तदाज्ञया ॥ ११॥
चक्रपाणिरपि तदा नमस्कृत्य ययौ पुरः ।
वर्णयन्तो गुणगणांस्तदीयानद्भुतान् बहून् ॥ १२॥
क्षणेन नगरीं प्राप्य चक्रपाण्यनुमोदिताः ।
नागराः स्वगृहं प्राप्ताश्चक्रपाणिर्निजालयम् ॥ १३॥
पञ्चानामपि देवानां प्रासादानप्यकारयत् ।
पञ्चायतनमूर्तिं च स्थापयामास तेषु च ॥ १४॥
प्रत्यहं पूजयामास भक्तिभावसमन्वितः ।
मयूरेशपुरीं प्राप्तो मयूरेशोऽपि तत्क्षणात् ॥ १५॥
आश्चर्यं परमं प्राप्ता गणाः सर्वे निरीक्ष्यतम् ।
यस्यां रत्नमया स्तम्भा भित्तयोऽष्टापदान्विताः ॥ १६॥
एको ना दृश्यते तत्रा सङ्ख्यातजनसंयुतः ।
प्रविश्य स सभां रम्या ब्रह्मादीनुपवेश्य च ॥ १७॥
मध्ये विवेश च ततो लोकयन् सर्वतः स्वयम् ।
ददर्श पूर्वभागे से मन्मथं रति संयुतम् ॥ १८॥
देवीं मार्जारनाम्नीं तां लोके ख्यातां सुखप्रदाम् ।
दक्षिणस्यां दिशि तदा लोकयत् पार्वतीशिवौ ॥ १९॥
तत्पुरो विरजां देवीं भक्तकामप्रपूरिकाम् ।
पश्चिमायां दिशिततो वाराहं धरणीयुतम् ॥ २०॥
आश्रयां नाम देवीं च सर्वविघ्नहरां शुभाम् ।
उत्तरस्यां दिशि तदा श्रीहरिं समलोकयत् ॥ २१॥
मुक्तादेवीं च विख्यातां सर्वमुक्तिप्रदां ततः ।
त्रयस्त्रिंशत्कोटिसुराः स्थितास्तद्दर्शनेच्छया ॥ २२॥
भाद्रशुद्धप्रतिपदि स्नात्वाऽभ्यर्च्य गजाननम् ।
गत्वा तु पूर्वदिग्भागे मार्जारीं पूजयेत् ततः ॥ २३॥
दत्वा दानानि विप्रेभ्यः स्मृत्वा ध्यात्वा गजाननम् ।
मौनं व्रतं समास्थाय न श्रुत्वा पादजध्वनिम् ॥ २४॥
कृमिकीटपतङ्गादीन् न हिंसेत प्रयतः शुचिः ।
पुनः स्नात्वा समभ्यर्चेद् देवदेवं गजाननम् ॥ २५॥
पूर्ववत्तु द्वितीयेऽन्हि तृतीये च ततः क्रमात् ।
तथैव दक्षिणद्वारि विरजां द्वितयेऽहनि ॥ २६॥
तृतीये पश्चिमद्वारि तथैवाश्रमसंज्ञिताम् ।
नत्वाऽर्चयेच्चतुर्थ्यां तु तद्वदुत्तरतो नरः ॥ २७॥
मुक्तां देवी समभ्यर्च्य मयूरेशं च तद्दिने ।
पूजामहोत्सवं कुर्याद् रात्रौ जागरणं चरेत् ॥ २८॥
एवं यः कुरुते भक्त्या द्वाराणि चोपवासतः ।
स सर्वाल्लँभते कामान् मयूरेशप्रसादतः ॥ २९॥
चतुर्थ्यामेव चत्वारि शक्तो द्वाराणि पूर्ववत् ।
आद्यन्तमज्जनादेवदर्शनं च करोति यः ॥ ३०॥ (नद्यन्तर्मज्जनं देवदर्शनं)
तस्य सद्यः फलं दद्यात् परितुष्टो गजाननः ।
तस्माच्छुद्धप्रतिपदमारभ्य ब्रह्मचर्यवान् ॥ ३१॥
ततश्चतुर्थ्यामुषसि स्नानं कृत्वा विधानतः ।
नित्यं सम्पाद्य विधिवन्मयूरेशं समर्चयेत् ॥ ३२॥
प्रदक्षिणा नमस्कारान् कुर्यादेवैकविंशतिम् ।
पूर्वद्वारे नमस्कृत्य मार्जारीं त्वरयान्वितः ॥ ३३॥
एवं शिवावाश्रयां च मुक्तादेवीं नमेत्पराम् ।
प्रारभेद् दिनशेषे तु मयूरेश्वरपूजनम् ॥ ३४॥
षोडशैरुपचारैस्तु पूजयेत्सुसमाहितः ।
रात्रौ जागरणं कुर्याद् गीतवादीत्रनिस्वनैः ॥ ३५॥
प्रभाते विमले स्नात्वा पुनर्देवं समर्चयेत् ।
ब्राह्मणैः सह कुर्वीत पारणं स्वस्य शक्तितः ॥ ३६॥
तेभ्यो दद्याद् हिरण्यं च वासो धान्यं गवादिकम् ।
एवं यः कुरुते मर्त्यो दुःसाध्यमपि साधयेत् ॥ ३७॥
पुत्रपौत्रयुतो भोगान् भुक्त्वा चान्ते व्रजेद्दिवम् ।
इन्द्रादयो लोकपालाः पूजयिष्यन्ति तं नरम् ॥ ३८॥
सेवन्ते पादकमलं तस्य या अष्टनायिकाः ।
अन्धस्तु लभते दष्टिं मूको वाचं लभेद्ध्रुवम् ॥ ३९॥
बधिरः श्रुतिमाप्नोति पङ्गुश्च चरणावपि ।
भार्यार्थी लभते भार्या विद्यार्थी लभते मतिम् ॥ ४०॥
एतदेव फलं प्रोक्तं द्वारेषु चोपवासतः ।
ततः कदाचिद् देवेशो मयूरेशोऽखिलान् सुरान् ॥ ४१॥
उवाच श्लक्ष्णया वाचा हरिब्रह्मशिवादिकान् ।
मयूरेश उवाच ।
यदर्थमवतीर्णोहं तत्कार्यं नः कुतं सुराः ॥ ४२॥
निहता बहवो दैत्या भूभारश्च कृतो लघुः ।
सिन्धोः कारागृहात्सर्वे मोचिता अमृतान्धसः ॥ ४३॥
स्वाहास्वधावषट्कारा भविष्यन्ति यथापुरा ।
भवतामाज्ञया देवा यास्ये स्वं धाम साम्प्रतम् ॥ ४४॥
एवमाकर्ण्य तद्वाक्यं देवाः सर्वे शुचान्विताः ।
त्यजन्तोऽश्रूणि सम्प्रोचुः परस्परमुखेक्षणाः ॥ ४५॥
अस्मांस्त्यक्त्वा मयूरेश क्व वा गन्तुं समीहसे ।
कथं स्नेहं परित्यज्य नैष्ठुर्यं परमं गतः ॥ ४६॥
ततस्तत् पार्वती श्रुत्वा सहसा शोककर्षिता ।
पपात मूर्छिता भूमौ मुहूर्तादवदच्च सा ॥ ४७॥
पार्वत्युवाच ।
दीननाथ दयासिन्धो सिन्धुदैत्यविमर्दन ।
क्व यास्यसि जगन्नाथ हित्वा मा जननीं तव ॥ ४८॥
न स्थास्यन्ति मम प्राणास्त्वयि याते सुरेश्वर ।
देव उवाच ।
द्वापरे पुनरेवाहं यास्ये त्वत्पुत्रतां शुभे ॥ ४९॥
न मिथ्या वचनं मे स्यान्न चिन्तां कर्तुमर्हसि ।
ममापि दुःखमतुलं वियोगात्तव जायते ॥ ५०॥
नैकत्र सर्वदा मातः सुहृदां वसतिर्भवेत् ॥
सिन्दूरोनाम दैत्योऽपि भविष्यति सुदारुणः ॥ ५१॥
अवध्यः सर्वदेवानां तदाऽहं स्यान्तवार्भकः ॥
स्मृतमात्रस्तवाग्रेऽहं स्थास्यामि शिवनन्दिनि ॥ ५२॥
ततः षडाननः प्राह नय मां यत्र यास्यसि ।
बालके कृपणे दीने नौदासिन्यं हि युज्यते ॥ ५३॥
देव उवाच ।
न चिन्तां कुरु बन्धो त्वमत्रायास्याम्यहं पुनः ।
भवतो न वियोगो मे सर्वान्तर्यामिणः खलु ॥ ५४॥
तस्मै ददौ मयूरं तं मयूरेशः स्वबन्धवे ।
मयूरध्वज इत्येव नामचक्रेऽस्य तत्क्षणात् ॥ ५५॥
आरुरोह मयूरं तं स्कन्दो बन्धोरथाज्ञया ।
तस्मिन्नेव क्षणे देवोऽन्तर्दधे स मयूरराट् ॥ ५६॥
तस्मिन्नन्तर्हिते केशा अपश्यन्न्हृदि तं सदा ।
ततो ब्रह्मा वालुकाभिः कृत्वा मूर्तिं गजाननीम् ॥ ५७॥
स्थापयामास विधिवत्प्रासादे सुमनोहरे ।
पुपूजुः सर्वलोकास्तमुपचारैर्यथाविधि ॥ ५८॥
वसिष्ठाद्या मुनिगणाः सस्नुर्ब्रह्मकमण्डलौ ।
सर्वं नित्यविधिं कृत्वा ययुर्मूर्तिं सुशोभनीम् ॥ ५९॥
उपोष्य केचिद् पिदधुर्द्वाराणि धामलब्धये ।
स्नात्वा नत्वा मयूरेशं धावमानास्तथाऽपरे ॥ ६०॥
ऊचुः परस्परं देवा मुनयोऽपि मुदा तदा ।
नैतादृशं पुण्यक्षेत्रं यत्र देवः स्थितः स्वयम् ॥ ६१॥
मयूरेशो विघ्नहरो भक्तानां कामपूरकः ।
पूजायित्वैवमुक्त्वा तु जग्मुस्ते स्वं स्वमाश्रमम् ॥ ६२॥
ब्रह्मादयः सुराः स्वं स्वं पदमभ्यागमंस्तदा ।
शङ्करः सपरीवारः कैलासमगमन्मुदा ॥ ६३॥
स्वधास्वाहावषट्कारैरिन्द्राद्या मुमुदुस्तदा ।
क उवाच ।
एवं ते सर्वमाख्यातं त्रेतायुगकृतं मुने ॥ ६४॥
मयूरेशस्य चरितं श्रवणात्सर्वकामदम् ।
धन्यं यशस्यमायुष्यं सर्वपापहरं नृणाम् ॥ ६५॥
पुत्रदं धनदं विद्याप्रदं दुःखनिवारणम् ।
आधिव्याधिहरं कुष्ठ दुष्टरोगादिनाशनम् ॥ ६६॥
पठतां शृण्वतां पुंसां भुक्तिमुक्तिप्रदं शुभम् ।
विजयश्रीपदं नॄणां क्षत्रियाणां विशामपि ॥ ६७॥
शूद्राणामपि सर्वेषां श्रीप्रदं पुष्टिवर्धनम् ।
यद् यत् ते परिपृष्ठं मे ततत्ते कथितं मुने ॥ ६८॥
गजाननस्य चरितं पुनः श्रोष्यसि मन्मुखात् ॥ ६९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे मयूरेशान्तर्न्धानवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६॥
अथ गजाननचरितं द्वापरयुग ।
आदितः श्लोकानां समष्ट्यङ्काः - ९८५५ + ६९ = ९९२४
२.१२७ सिन्दूरोत्पत्तिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः
व्यास उवाच ।
चतुरानन देवेश गुणेशचरितं शुभम् ।
कथितं विस्तराद् देव नाहं तृप्तोऽस्मि तच्छ्रवात् ।
सुधया तु विरक्तः स्यान्न कथा श्रवणान्नरः ।
त्रेतायुगकथा सर्वा गुणेशस्य श्रुता मया ॥ २॥
गजाननेति नामास्य द्वापपरे तु कुतोऽभवत् ।
मूषको वाहनं चास्य कथं यातो महाविभो ॥ ३॥
कृपया संशयममुं छिन्धि त्वं कमलासन ।
क उवाच ।
सम्यक्पृष्टं त्वया वत्स मम चित्तगतं मुने ॥ ४॥
यतः श्रोता च वक्ता च पृच्छकः सिद्धिमाप्नुयात् ।
तां कथा कथयिष्यामि विनायककृतां मुने ॥ ५॥
द्वापरे यत्कृतं तेन चरितं शृणु साम्प्रतम् ।
यथा गजाननो देवो रक्तवर्णश्चतुर्भुजः ॥ ६॥
गजाननश्चाखुवाहस्तत्सर्वं कथयामि ते ।
कदाचिद्ब्रह्मभुवनं यातः शम्भुर्यदृच्छया ॥ ७॥
उत्थापयामास तदा प्रसुप्तं कमलासनम् ।
स उत्थितो महाजृम्भां चकार क्रोधसंयुतः ॥ ८॥
तत एको महाघोरः पुरुषः समपद्यत ।
स च चक्रे महाघोरं शब्दं सर्वभयङ्करम् ॥ ९॥
च कम्पे पृथिवी तेन साब्धिद्वीपा सपर्वता ।
दिक्पालाश्चकिताः सर्वे शेषः क्षुब्धोऽसृजद् विषम् ॥ १०॥
विशीर्णा गिरयः सर्वे भूतान्याकुलतां ययुः ।
कल्पान्त इव तत्रासीत् त्रैलोक्यवासिनां नृणाम् ॥ ११॥
ब्रह्माण्डं मस्तकेनासौ स्फोटयन्निव तस्थिवान् ।
यद्देहतश्चारुगन्धो व्यानशे भुवनत्रयम् ॥ १२॥
जपाकुसुमदेहस्य प्रभयारुणिता दिशः ।
अयं किं मदनो जातो द्वितीयो ब्रह्मसम्भवः ॥ १३॥
कामस्तु लज्जितस्तस्य सद्यो रूपनिरीक्षणात् ।
पुरस्तं सन्निरीक्ष्यैनं विस्मितः कमलासनः ॥ १४॥
कस्य त्वं कुत उत्पन्नः किं चिकीर्षसि तद्वद ।
पुरुष उवाच ।
अनेकानि सुरेश त्वं ब्रह्माण्डानि सृजस्यपि ॥ १५॥
विभ्रान्त इव कस्मान्मां सर्वज्ञः सन् हि पृच्छसि ।
जृम्भायास्ते समुत्पन्नं कथं मां नावबुध्यसे ॥ १६॥
अनुगृह्णिष्व पुत्रं मा देहि नाम यथामति ।
स्थानं च देहि मे नाथ भक्ष्यं कार्यं च मे वद ॥ १७॥
इत्याकर्ण्य वचस्तस्य प्रोवाच चतुराननः ।
रक्तं वपुर्यतस्तेऽस्ति सिन्दुराख्यो भविष्यसि ॥ १८॥
सामर्थ्यं च महत् ते स्यात् त्रैलोक्याकर्षणक्षमम् ।
क्रोधादालिङ्गसे यं त्वं शतधा स भविष्यति ॥ १९॥
पञ्चभ्योऽपि च भूतेऽभ्यो न भयं ते कदाचन ।
देवदानवयक्षेभ्यो मानुषेभ्यो भयं न ते ॥ २०॥
इन्द्रादिलोकपालेभ्यः कालादपि भयं न ते ।
न नागेभ्यो न रक्षोभ्यो नाहोरात्रे भयं न ते ॥ २१॥
सजीवान्न च निर्जीवाद् भयं सिन्दूर ते भवेत् ।
वस यत्र मनस्ते स्यात् स्थातुं त्रिभुवनेष्वपि ॥ २२॥
ततः स वरदानेन तुतोष चतुरास्यजः ।
चक्रन्द कम्पयन् शब्दैस्त्रैलोक्यं सचराचरम् ॥ २३॥
चुक्षुभुः सागराः सर्वे लोकपालाश्च दुद्रुवुः ।
उवाच स तदा देवं नमस्कृत्य पितामहम् ॥ २४॥
सिन्दूर उवाच ।
तव वाक्यामृतेनाहं प्रीतो ब्रह्माण्डनायक ।
त्वमेव विश्वं सृजसि पासि हंसि गुणैस्त्रिधा ॥ २५॥
त्वयि सुप्ते जगत्सुप्तमन्धकारश्च जायते ।
महत्भाग्यं मम विभो तपोदानव्रतैर्विना ॥ २६॥
पुत्रस्नेहात्प्रसन्नस्त्वं नान्यथा ते प्रसन्नता ।
कल्पकोटिततोभिस्त्वं प्रसन्नो जायसे विभो ॥ २७॥
क उवाच ।
इत्युक्त्वा तं प्रणम्यासौ कृत्वापि च प्रदक्षिणम् ।
जगाम मनसा भूमिं मार्गे तर्कमथाकरोत् ॥ २८॥
न मे तपो वा ध्यानं वा जपः स्वाध्याय एव च ।
कथं तेन वरा दत्ताः सत्या उत वृथा नु ते ॥ २९॥ (मिथ्या उत ऋता नु ते)
गत्वा द्रक्ष्यामि पितरमित्युक्त्वाऽगात् पितामहम् ।
तुलयित्वा तु दोर्दण्डौ जगर्ज स भयानकः ॥ ३०॥
तमेवालिगितुं चैच्छत् तत ऊचे पितामहः ।
पुत्रस्नेहान्मया दत्ता वरा अन्यस्य दुर्लभाः ॥ ३१॥
दुष्टभावान्ममैव त्वमपकर्तुमिहागतः ॥ ३२॥
भुजगस्य पयो दत्तं विषमेव हि जायते ।
दुष्टभावं गतो यस्मात् तस्माद्दैत्यो भविष्यसि ॥ ३३॥
परमात्माऽवतीर्याशु हनिष्यति गजाननः ।
तवान्तं सुरभि ज्ञात्वा स्वाङ्गे तन्मर्दयिष्यति ॥ ३४॥
सिन्दूरारुणदेहश्च सिन्दूरप्रिय एव च ।
भविष्यति स देवोऽपि सिन्दूरवध एव च ॥ ३५॥
एवमुक्त्वा पपालाशु भयेन कमलासनः ।
मनोवायुमहावेगो निश्वासश्वाससङ्कुलः ॥ ३६॥
दैत्योऽपि पृष्ठतो याति शापमाकर्ण्य मन्युमान् ।
स्वेदेनार्द्रतनुर्दुष्टो दृष्ट्वा दृष्ट्वा पुरो व्रजन् ॥ ३७॥
धरिष्यामि पदेऽन्यस्मिन्निति दैत्योऽभ्यधावत ।
वैकुण्ठमगमद् ब्रह्मा कम्पमानस्त्वरान्वितः ॥ ३८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्दूरोत्पत्तिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७॥
आदितः श्लोकानां समष्ट्यङ्काः - ९९२४ + ३८ = ९९६२
२.१२८ अष्टाविंशत्युत्तरशततमोऽध्यायः
क उवाच ।
स ददर्श समासीनं नारायणमनामयम् ।
रत्नकाञ्चनविलसत्पद्मासनगतं विभुम् ॥ १॥
सोऽपि तं पुरतो वीक्ष्य विवर्णवदनं तदा ।
तत्पृष्ठतो महादैत्यं गगनस्पर्धिमस्तकम् ॥ २॥
उदतिष्ठत वेगेन दयालुः कमलापतिः ।
धृत्वा करं समालिङ्ग्य स्वासने कं न्यवेशयत् ॥ ३॥
सम्पूज्य परिपप्रच्छ किं ते कार्यमुपस्थितम् ।
कथं च म्लानवदनः श्वासवांश्च हतप्रभः ॥ ४॥
मम खेदः समुत्पन्नो दृष्ट्वैव त्वां पितामह ।
इति तद्वचनं श्रुत्वा जगाद कमलासनः ॥ ५॥
क उवाच ।
प्रबोधितः शिवेनाहं प्रतिसुप्तो निजालये ।
ततो मे जृम्भतो वक्त्रान्निर्गतः पुरुषो महान् ॥ ६॥
पतन्ति भूतले भानि यन्मस्तकविधानतः ।
तस्य सौरभगन्धेन सर्व देवा विसिस्मिरे ॥ ७॥
यस्य लावण्यमीक्ष्यैव लज्जितो मदनोऽभवत् ।
यस्य क्रन्दितशब्देन च कम्पे भुवनत्रयम् ॥ ८॥
स नमस्कृत्य मां देव विनीतः पुरतः स्थितः ।
ततस्तस्मै वरा दत्ताः पुत्रस्नेहेन माधव ॥ ९॥
यं यं त्वमालिङ्ग्यसि स स मृत्युमुपैष्यति ।
कालोऽपि न रणे स्थातुं तव शक्तो भविष्यति ॥ १०॥
स्थानं च स्वेच्छया तस्य दत्तं देव मया ततः ।
नमस्कृत्य गतो दूरं वितर्कात् पुनरागतः ॥ ११॥
मामेवालिङ्गितुं यातोऽपलमस्माद् भयादहम् ।
हंसमारुह्य सहसा वेगेन त्वामुपागतः ॥ १२॥
दृष्ट्वा दृष्ट्वा पृष्ठगतं कम्पःश्वासश्च मेऽभवत् ।
विना त्वां शरणं कं वा यामि सर्वेश्वरेश्वर ॥ १३॥
ततोऽब्रवीन्महाविष्णुर्ब्रह्माणं शरणागतम् ।
देव उवाच ।
पूर्वं दत्वा वरान् देव सङ्कटं प्राप्य बुद्धितः ॥ १४॥
इदानीं चिन्तया किं स्याद् यद् भाव्यं तद्भविष्यति ।
स पीडां त्रिषु लोकेषु विधातुमुद्यतो भवेत् ॥ १५॥
क उवाच ॥
यावत्तौ चिन्तयाविष्टौ स्थितौ ब्रह्महरी तदा ।
तावत् स पुरतोऽतिष्ठद् दृष्ट्वा ताभ्यां महासुरः ॥ १६॥
जगर्ज गर्जयामास त्रैलोक्यं बलवत्तरम् ।
ब्रह्माण्ड कम्पयामास ब्रह्माणं च तदा खलः ॥ १७॥
सोऽवदद् रक्ष रक्षेति विष्णुं त्रैलोक्यरक्षकम् ।
ततो विष्णुर्जगौ दैत्यं वाचा मधुरया तदा ॥ १८॥
हरिरुवाच ।
न त्वया वरदानेज मत्तेन योद्धुमुत्सहे ।
अहं सत्त्वगुणोपेतः पालने निरतः सदा ॥ १९॥
अयं च ब्राह्मणो ब्रह्मा तेन योद्धुं न चार्हसि ।
तव युद्धप्रदो देवः ख्यातोऽसौ मदनान्तकः ॥ २०॥
तेन युद्ध्यस्व ते कीर्तिर्महती स्यात्त्रिलोकगा ।
क उवाच ।
इत्याकर्ण्य वचस्तस्य जहृषे दैत्यपुङ्गवः ॥ २१॥
उड्डीय प्रययौ सद्यः कम्पयन् भुवनत्रयम् ।
पातयन् पर्वतान् वृक्षांश्चूर्णयन्सहसा बहून् ॥ २२॥
दिग्गजाश्चलिताः सर्वे सञ्जग्मुर्विदिशो दिशः ।
एवमुपत्यकां यातः कैलासस्य महागिरेः ॥ २३॥
ददर्शाधित्यकायां स ध्यानस्थं गिरिशं खलः ।
नन्दिभृङ्गिगणाकीर्णं पार्वत्या सेवितं विभुम् ॥ २४॥
व्याघ्रचर्मपरीधानमर्धचन्द्रविभूषणम् ।
भस्माङ्गरागशोभाढ्यं करिचर्मोत्तरीयकम् ॥ २५॥
दृष्ट्वा देवं तदा दैत्यो निनिन्द सहसा हरम् ।
अनेन किं मया युद्धं कर्त्यव्यं तापसेन ह ॥ २६॥
एतस्य सुन्दरीं भार्यां नीत्वा यामि यदृच्छया ।
एवं निश्चित्य मनसा गौरीमन्तिकमाययौ ॥ २७॥
तदा च कम्पे गिरिजा कल्पान्ते जगती यथा ।
निमील्य नयने मूर्छामापाशु भयविव्हला ॥ २८॥
दधार तां केशपाशे स दैत्यो दुष्टमानसः ।
उड्डीय चलितो वेगाच्छुशोच गिरिजा तदा ॥ २९॥
रावणेन नीयमाना यथा सा धरणीसुता ।
गिरिजोवाच ।
औदासीन्यं कथं यातो मयि देवोऽखिलार्थवित् ॥ ३०॥
ध्यानं कथं गतोऽस्यर्धे ह्रीयमाणे त्वदङ्गके ।
नाकारि दास्यं न्यूनं ते येन काठिन्यमागतः ॥ ३१॥
कः सखा मोचयेन्मां हि प्राणदाता भवेच्च कः ।
पुनर्मे शङ्करं को नु दर्शयेद् बलवत्तरः ॥ ३२॥
क उवाच ।
ततः शोकाकुलां वीक्ष्य तां गणाः प्राबुवँस्तदा ।
अनेन योद्धुं शक्तिर्नो त्रैलोक्यनाशिनाऽधुना ॥ ३३॥
शिवश्च ध्याननिष्ठोऽभूद् दैवादस्यानुकूलता ।
नीता नो जननी विश्वसृष्टिस्थित्यन्तकारिणी ॥ ३४॥
मोहिनी सर्वदेवानां सर्व दुःखविनाशनी ।
लावण्यलहरी नीता सर्वयोषिद्वरा शुभा ॥ ३५॥
रत्नभूता कथं नीता कथं सा पुनरेष्यति ।
ध्यानस्थे शङ्करे सर्वनाशनं नेत्रवह्नितः ॥ ३६॥
तस्मिन् यास्यति लोभेन पुत्रानिव जनन्यथ ।
एवं शोकं प्रकुर्वत्सु हाहाकारै रुदत्सु च ॥ ३७॥
गणेषु विससर्जाशु ध्यानं क्रोधान्महेश्वरः ॥
क्रोधानलेन ब्रह्माण्डं दहन्निव दिशो दश ॥ ३८॥
पप्रच्छ तान्गणान् शम्भुः सङ्कटं किमुपस्थितम् ।
भस्मसात्तं करिष्यामि येन वः कदनं कृतम ॥ ३९॥
इति तद्वचनं श्रुत्वा प्रोचुस्तं ते गणास्तदा ।
त्वयि ध्यानस्थित देव मन्दराचलसन्निभः ॥ ४०॥
कृतान्तसमरूपः सन्नागतो दैत्यपुङ्गवः ।
यस्य श्वासानिलहता अचलाश्चलतां गताः ॥ ४१॥
सम्मोहं प्रापिता देवा दर्शनादेव शङ्कर ।
ततः स गिरिजां धृत्वा केशपाशे महाबलः ॥ ४२॥
निनाय सत्वरं व्योममार्गेण जननीं हि नः ।
नीयमाना शिवा प्राह धावधावेति सत्वरम् ॥ ४३॥
मूर्छिता पतिता भूमौ वयं सर्वे विमूर्छिताः ॥
तथाविधां समादाय ययौ स दुष्टमानसः ॥ ४४॥
श्रुत्वा तेषां वचःशम्भुर्जज्वाल परमंरुषा ॥
कुर्वन् भस्मेव लोकानामारुहो वृषं निजम् ॥ ४५॥
त्रिशूलादीनि शस्त्राणि दधानो दशभिर्भुजैः ॥
नभोमार्गेण प्रययौ गर्जयन् विदिशो दिशः ॥ ४६॥
यत्रासीत् सिन्दुरो दैत्यस्तं देशमगमत् क्षणात् ।
अहनत् पृष्ठदेशे तं तस्थौ स सम्मुखं तदा ॥ ४७॥
मुञ्च भार्यां महादुष्ट दृष्टः सन् क्व गमिष्यसि ।
इत्युक्तः स रुषाविष्ट त्रिलोकीं भस्मतां नयन् ॥ ४८॥
बाहुभ्यां मारयन्नेव प्रययौ शिवसन्निधौ ।
उवाच च महादैत्यो गर्वेण परिमोहितः ॥ ४९॥
नाहं मशकवाक्येन बिभेमि भुवनाधिपः ।
यस्य श्वासानिलेनाशु कम्पते मेरुपर्वतः ॥ ५०॥
तस्य मे गणना नास्ति मुखं मां मा प्रदर्शय ।
यदि शक्तिर्मया सार्धं युद्धं कर्तुं तदा कुरु ॥ ५१॥
नो चेदन्यां परिणिय ततः सौख्यमवाप्स्यसि ।
किं मया सह योद्धव्यं मशकेन त्वया लघो ॥ ५२॥
एवमुक्त्वा बाहुयुद्धं कर्तुं शङ्करमाययौ ।
दुर्गा देवी तु संस्मार मयूरेशं स्वचेतसि ॥ ५३॥
द्विजरूपधरो देवो मयूरेशस्ततस्तयोः ।
अन्तराले प्रादुरासीत् कोटिसूर्यनिभःक्षणात् ॥ ५४॥
सर्वाङ्गसुन्दरो नानाभूषणैरूपशोभितः ।
परशुं मध्यतः कृत्वा वारयामास दैत्यपम् ॥ ५५॥
उवाचश्लक्ष्णया वाचा सिन्दूरं तं द्विजोत्तमः ।
त्रैलोक्यजननीं गौरीं स्थापयाशु ममान्तिके ॥ ५६॥
युध्यस्व शङ्करेण त्वं यावज्जयपराजयौ ।
जयो यस्य भवेत्तेन ग्राह्येति नान्यथा वचः ॥ ५७॥
क उवाच ।
द्विजवाक्यं समाकर्ण्य सिन्दूरो हृष्टमानसः ।
स्थापयामासगिरिजां युद्धाय बहुलालसः ॥ ५८॥
तयोस्तु पश्यतोरेव तावुभावप्य युध्यताम् ।
सिन्दूरश्च महेशश्च नानायुद्धविशारदौ ॥ ५९॥
क्रोधसंरक्तनयनौ तुल्यतेनःपराक्रमौ ।
बाहुभ्यां वेष्टितुं यावदियेष सोऽसुरो हरम् ॥ ६०॥
अदृश्य एव परशुरस्य जघ्ने बलादुरः ।
क्षीणशक्तिं ततो दैत्यं त्रिशूलेनाहनद्धरः ॥ ६१॥
ततोऽशक्तं द्विजवरो वदति स्म हितं वचः ।
त्रैलोक्यनायकेन त्वं न युद्धं कर्तुमर्हसि ॥ ६२॥
गिरिजाशां विहायाशु व्रजस्व निजमन्दिरम् ।
नो चेदयं शिवो भस्म करिष्यति तवाधुना ॥ ६३॥
एवमुक्तो द्विजेनाऽसौ वाञ्छां त्यक्त्वा भुवं ययौ ।
ततः सा पार्वती प्राह द्विजं प्राप्ते जयं शिवे ॥ ६४॥
कोऽसि त्वं मुनिशार्दूल येनाहं मोचिता खलात् ।
निजं में दर्शय स्वीयं रूपं नेदं स्वभावजम् ॥ ६५॥
ममप्राणाधिकोऽसि त्वं सखा प्राणप्रदो यतः ।
न भवेदुपकारस्ते प्राणे त्यक्ते द्विजोत्तम् ॥ ६६॥
एवमाश्रुत्य तां वाचमुवाच स मुनीश्वरः ।
न च मातर्मयाकारि किञ्चिदत्र महेश्वरः ॥ ६७॥
अजयत् सिन्दुरं दैत्यं मोचिता त्वं शिवेन ह ।
इत्युक्त्वा पूर्वरूपं स आविश्चक्रे विनायकः ॥ ६८॥
दशदोर्दण्डरुचिरं कर्णकुण्डलमण्डितम् ।
कस्तूरीतिलकं रत्नमुक्तामालाविभूषितम् ॥ ६९॥
नानालङ्कार रुचिरं शेषकण्ठमणिप्रभम् ।
दृष्ट्वैवं परमात्मानं ननन्द गिरिजा तदा ॥ ७०॥
ननाम पादयोस्तस्य स उत्थाप्य च तां जगौ ।
विनायक उवाच ।
त्रेतायुगे प्राब्रुवं त्वां दास्यामि दर्शनं पुनः ॥ ७१॥
अवतीर्य द्वापरे ते गृहे नाम्ना गजाननः ।
भविष्यामि हनिष्यामि सिन्दूरं दैत्यमोजसा ।
क उवाच ।
मुनिरूपधरो देव उक्त्वा चान्तरधीयत ।
ततः शुशोच गिरिजा मूर्छां सा परमां ययौ ॥ ७३॥
तत ऊचे विश्वनाथो मनः स्वस्थं कुरु प्रिये ।
पश्य त्वं हृदि तं देवं विनायकमनामयम् ॥ ७४॥
न मिथ्या भाषितं तस्य यदुक्तं तत्करिष्यति ।
एवमुक्त्वा महादेवो वृषारूढस्तया सह ॥ ७५॥
आययौ परमं प्रीतः कैलासं पर्वतेश्वरम् ॥ ७६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननदर्शनं नामाऽष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८॥
आदितः श्लोकानां समष्ट्यङ्काः - ९९६२ + ७६ = १००३८
२.१२९ गौरीदोहदवर्णनं नामैकोनत्रिंशोत्तरशततमोऽध्यायः
क उवाच ।
ततो दैत्यो मृत्युलोकं गतो गर्वादगर्जत ।
कम्पिताः पर्वताः सर्वे वृक्षा निपतिता भुवि ॥ १॥
पक्षि सिंहाः श्वापदानि बभ्रमुः कानने तदा ।
ततो जिगाय नृपतीन् सर्वान् वीरांश्च दानवः ॥ २॥
ब्रह्मादयो जिता येन तेनायुध्यन् कथं नृपाः ।
केचिद् द्विधा कृतास्तेन केचिन्नभसि बभ्रमुः ॥ ३॥
केचिच्च सम्मुखे युद्धं कृत्वा स्वर्गं गता नृपाः ।
केचिच्च शरणं याताः सेवकत्वमुपागताः ॥ ४॥
केचिद्भ्रष्टपदा जग्मुरभिमानेन काननम् ।
एवं जित्वा नृपान् सर्वान् मुनीनामाक्रमे मतिम् ॥ ५॥
अकरोद् दुष्टबुद्धिः स बबन्ध सहसा च तान् ।
तदा केचिन्मुनिगणास्त्यक्त्वा देहं दिवं गताः ॥ ६॥
केचिच्च मेरुकन्दर्यां न्यवसन्विगतज्वराः ।
केचिच्च निहतास्तेन केचिच्च ताडिता भृशम् ॥ ७॥
प्रासादाः सकलास्तेन विध्वस्ता देवता अपि ।
एवं तु प्रलये जातेऽलुप्यन् क्रियाश्च वैदिकी ॥ ८॥
स्वाहास्वधावषट्कारा हाहाकारोऽप्यजायत ।
देवा गिरिगुहास्थास्ते मुनयो यक्षकिन्नराः ॥ ९॥
न्यमन्त्रयन्त कार्यार्थं तत्र प्राह बृहस्पतिः ।
विद्यमानेभ्यो देवेभ्यस्तेभ्यः सर्वेभ्य एव च ॥ १०॥
न भयं विद्यते तस्य तस्माद् देवं विनायकम् ।
प्रार्थयध्वं यदा विप्राःप्रादुर्भावं शिवालये ॥ ११॥
गजाननेति नाम्ना स करिष्यति च साम्प्रतम् ।
हनिष्यति बलाद्दैत्यं सिन्दूरं नात्र संशयः ॥ १२॥
निराबाधं जगत्सर्वं भविष्यति तदा सुराः ।
एवमुक्तास्तु जीवेन ते तु देवादयोऽखिलाः ।
भक्त्या परमया युक्तास्तुष्टुवुस्तं विनायकम् ॥ १३॥
देवा ऊचुः ।
जगतः कारणं योऽसौ रविनक्षत्रसम्भवः ।
सिद्धसाध्यगणाः सर्वे यत एव च सिन्धवः ॥ १४॥
गन्धर्वाः किन्नरा यक्षा मनुष्योरगराक्षसाः ।
यतश्चराचरं विश्वं तं नमामि विनायकम् ॥ १५॥
यतो ब्रह्मादयो देवा मुनयश्च महर्षयः ।
यतो गुणास्त्रयो जातास्तं नमामि विनायकम् ॥ १६॥
यतो नानावताराश्च यश्च सर्वहृदि स्थितः ।
यं स्तोतुं नैव शक्नोति शेषस्तं गणपं भजेत् ॥ १७॥
सिन्दूरो निर्मितः केन विश्वसंहारकारकः ।
तेनार्तौ प्रापितं विश्वं त्वयि स्वामिनि जाग्रति ॥ १८॥
अन्यं कं शरणं यामः को नु पास्यति नोऽखिलान् ।
जह्येनं दुष्टबुद्धिं त्वमवतीर्य शिवालये ॥ १९॥
इत्युक्त्वा परितेपुस्ते नानानुष्ठानतत्पराः ।
निराहारा यताहाराः प्राणायामपरायणाः ॥ २०॥
धूमपानरताः केचित् केऽपि मौनावलम्बिनः ।
एकपादास्थिताः केचिज्जलमध्ये स्थिताः परे ॥ २१॥
ऊर्ध्वबाहुतया केचित्केचिच्च योगमास्थिताः ।
केचिच्चकृतुः स्वान्देहान्केचिच्च मस्तकानपि ॥ २२॥
एवं तेषां निरीक्ष्यैव तपांसि गणराट् तदा ।
आविरासीत् कोटिसूर्यप्रलयानलसन्निभः ॥ २३॥
दृष्ट्वा तेजोमयं रूपं जहृषुस्ते सुरास्तदा ।
यश्चिन्तितः स एवायमाविर्भूतोऽखिलेश्वरः ॥ २४॥
अपनेष्यति नो दुःखं नात्र कार्या विचारणा ।
तत ऊचे स भगवांस्तान् सुरांश्चिन्तया युतान् ॥ २५॥
हनिष्ये सिन्दुरं देवा मा चिन्तां कर्तुमर्हथ ।
दुःखप्रशमनं नाम स्तोत्रं वः ख्यातिमेष्यति ॥ २६॥
अतो दुःखविनाशो वा जातोऽस्मान्मदनुग्रहात् ।
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ॥ २७॥
कदाचिन्न भवेदस्य दुःखं त्रिविधमण्वपि ।
अहं तु साम्प्रतं देवा अवतीर्य शिवालये ॥ २८॥
नाम्ना गजानन इति ख्यातः सर्वार्थसाधकः ।
भविष्यामि हनिष्यामि सिन्दूरादीन्महासुरान् ॥ २९॥
करिष्यामि शिवादास्यं कौतुकानि प्रदर्शयन् ।
क उवाच ।
एवमुक्त्वा ततो देवांस्तत्रैवान्तरधीयत ॥ ३०॥
ततोऽकस्माद् हैमवती शिवानुग्रहतो दधौ ।
तद् गर्भं ववृधेऽत्यन्तं दिने दिने यथा शशी ॥ ३१॥
ततस्तत्तेजसा तप्ता नानादोहदकाङ्क्षिणी ।
उवाच शङ्करं गौरी सन्तप्ता गर्भतेजसा ॥ ३२॥
अतिशीतस्थलं यत्र तत्र मां नय शङ्कर ।
ततोऽसौ वृषभारूढः पृष्ठे तामुपवेश्य ह ॥ ३३॥
भासयन्ती महातेजःपुञ्जेन विदिशो दिशः ।
वाद्यत्सु सर्ववाद्येषु ययौ स क्षितिमण्डलम् ॥ ३४॥
नानागणैः समायुक्तो बभ्राम काननानि सः ।
भ्रमता तेन दृष्टं हि पर्यलोकाननं महत् ॥ ३५॥
तत्र विश्रान्तिमकरोत् पार्वत्यानुमते तदा ।
नानापुष्पसमाकीर्णं नानाद्रुमफलान्वितम् ॥ ३६॥
सरोवापीयुतं सान्द्रतरुच्छायं मनोरमम् ।
यत्रोस्त्राणां न प्रवेशः कैलासशिखरोपमम् ॥ ३७॥
नन्दनादधिशोभं तद् वनं चैत्ररथादपि ।
तद्वीक्ष्य गिरिजा प्रोच इच्छया सदृशं शिवम् ॥ ३८॥
वनं प्राप्तं महादेव क्रीडावोऽत्र चिरं विभो ।
गणानामपि सर्वेषां प्रीतिस्तत्र ह्यभूत्तदा ॥ ३९॥
ततो गणा मण्डपं ते चक्रुस्तत्प्रियकाम्यया ।
नानावेदीगृहयुतं नानोपस्करसंयुतम् ॥ ४०॥
तत ऊचे शिवो देवीं वसात्र त्वं गणैर्युता ।
यद्यते प्रार्थितं तत्ते दास्यन्ति मदनुग्रहात् ॥ ४१॥
ततः स्वयं जगामाशु ध्यानस्थोऽभूद्धिमालये ।
सखीभिः पार्वती तत्र चिक्रीडे सा यथारुचि ॥ ४२॥
अरक्षंस्तां कोटिगणाः समन्तादावृतास्तदा ।
तदाज्ञावशगाः सर्वे कन्दमूलफलाशिनः ॥ ४३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गौरीदोहदवर्णनं नामैकोनत्रिंशोत्तरशततमोऽध्यायः ॥ १२९॥
आदितः श्लोकानां समष्ट्यङ्काः - १००३८ + ४३ = १००८१
२.१३० गजाननाविर्भावो नामत्रिंशाधिकशततमोऽध्यायः
क उवाच ।
ततस्तु नवमे मासि पूर्णे साऽसूत बालकम् ।
चारुचन्द्राननं पद्मशोभाजिन्नयनं शुभम् ॥ १॥
किरीटकेयूरधरं कोटिसूर्यसमप्रभम् ।
प्रवालाधरशोभाढ्यं चतुर्बाहुर्विराजितम् ॥ २॥
मुक्ताहारधरं चारुकङ्कणैरूपशोभितम् ।
परशुं कमलं माला मोदकांश्च करैर्दधत् ॥ ३॥
ध्वजाङ्कुशाब्जविलसत्पादपद्मसमन्वितम् ।
किङ्किणीजालविलसच्चारगुल्फयुतं शुभम् ॥ ४॥
भालचन्द्रं कोटिचन्द्रनिभं वह्निसमप्रभम् ।
एवं दृष्ट्वा स्वरूपं सा चकम्पे हर्षनिर्भरा ॥ ५॥
किमिदं तेज उदितं नयनाच्छादकं महत् ।
कोऽसि त्वं वद मे चेतो नन्दयस्व कृपां कुरु ॥ ६॥
इत्युक्त्वा तं नमश्चक्रे स्मरन्ती पूर्वकं वचः ।
तत ऊचे महोमूर्तिर्मा मातर्विमना भव ॥ ७॥
गुणशोऽहमनेकानां ब्रह्माण्डानां विनायकः ।
असङ्ख्याता मेऽवतारा न ज्ञायन्तेऽमरैरपि ॥ ८॥
इच्छया सृष्टिसंहारपालनानि करोम्यहम् ।
त्रिधा रूपं विधायाहं विश्वस्य शिवनन्दिनि ॥ ९॥
त्रेतायुगेऽवतीर्णेन त्वद्गृहे लीलया पुरा ।
अनेकानि चरित्राणि कृतानि सिन्धुनाशनम् ॥ १०॥
मयूरेश्वरनामाहं षड्भुजोऽर्जुनवर्णकः ।
तदा मया वचो दत्तं द्वापरे ते सुतः पुनः ॥ ११॥
भवेयं सेवकश्चाहं सिन्दूरान्मोचिता मया ।
द्विजरूपेण सहसा स्मर सर्वं शुचिस्मिते ॥ १२॥
तदापि तनयस्तेऽहं भवीष्यामीत्यथाब्रुवम् ।
तदिदं वचनं सत्यं मयाऽसम्पादि पार्वति ॥ १३॥
भूभारं च हरिष्यामि सिन्दूरं च महाबलम् ।
सेवनं च करिष्यामि तव मातर्गजाननः ॥ १४॥
विख्यातोऽहं भविष्यामि भक्तानां कामपूरकः ।
क उवाच ।
एवं श्रुत्वा वचो गौरी स्मृत्वा सर्वं पुरातनम् ॥ १५॥
नत्वा तुष्टाव देवेशं विश्वेशं विघ्ननाशकम् ।
गौर्युवाच ।
निर्विकल्पचिदानन्दघनं ब्रह्मस्वरूपिणम् ॥ १६॥
भक्तप्रियं निराकारं साकारं गुणभेदतः ।
नमाम्यहमतिस्थूलमणुभ्योऽणुतरं विभुम् ॥ १७॥
अव्यक्तं व्यक्तिमापन्नं रजःसत्त्वतमोगुणम् ।
मायाविनं मायिनं च सर्वमायाविदं प्रभुम् ॥ १८॥
सर्वान्तर्यामिणं नित्यं सर्वाधारं परात्परम् ।
चतुर्णामपि देवानां मानसस्याप्यगोचरम् ॥ १९॥
महद् भाग्यं ममविभो स त्वं मे पुत्रतां गतः ।
प्रतीक्षन्त्या मम विभो प्रत्यक्षं दर्शनं गतः ।
इदानीं त्वद्वियोगो मे न स्याद्देव तथा कुरु ॥ २०॥
एवं वदन्त्या तस्यां तु देवो रूपान्तरं दधौ ।
चतुर्भुजं भालचन्द्र शुण्डादण्डविराजितम् ॥ २१॥
अनेकभूषणयुतं चिन्तामणियुतं हृदि ।
दिव्याम्बरं दिव्यगन्धं सिद्धिबुद्धियुतं तदा ॥ २२॥
रुरोद बालवच्चाज्ञो ददृशे गिरिजा तु तम् ।
शुशोच बहुधा तन्वी निधिः केन हृतो मम ॥ २३॥
न बालस्त्रिषु लोकेषु दृष्टः शुण्डाविराजितः ।
ब्रह्मादयो हसिष्यन्ति लोकाश्चेक्ष्येदृशं शिशुम् ॥ २४॥
एवं बहुविध शोकं श्रुत्वाऽगाच्छङ्करो गृहम् ।
सगणस्तं शिशुं गृह्य प्राह तां शृणु मे प्रिये ॥ २५॥
अनादिनिधनो देवः शुण्डादण्डविराजितः ।
यत्र कुण्ठाश्चतुर्वेदाः शास्त्राणि मुनयोऽमराः (मुनयो वराः) ॥ २६॥
प्रपञ्चे गुम्फिता येन नानाकार्यवता प्रिये ।
सर्वान्तर्याम्यनेकानां ब्रह्माण्डानां च कारकः ॥ २७॥
चत्वार्यस्य च रूपाणि चतुर्षु च युगेषु च ।
कृते दशभुजो नाम्ना विनायक इति श्रुतः ॥ २८॥
त्रेतायुगे शुक्लवर्णः षड्भुजोऽसौ मयूरराट् ।
सिन्धुं हत्वाऽपालयत् सोऽवतीर्य स्वालये प्रिये ॥ २९॥
स एवायं रक्तवर्णश्चतुर्बाहुविराजितः ।
अवतीर्णो गृहे नौ हि सिन्दूरं निहनिष्यति ॥ ३०॥
आरुह्य मूषकं देवो भूभारं च हरिष्यति ।
नाम्ना गजानन इति त्रैलोक्ये ख्यातिमेष्यति ॥ ३१॥
अयं कलियुगे देवि धूम्रकेतुरिति प्रथाम् ।
चतुर्बाहुश्चारुनेत्रो यास्यते रुचिरां भुवि ॥ ३२॥
निशम्य शिववाक्यं स उवाच बालकः स्फुटम् ।
बाल उवाच ।
सम्यग्बुद्धं स्वरूपं मे सम्यगुक्तं त्वया शिव ॥ ३३॥
अवतीर्णस्तव गृहे सेवा कर्तुं च सिन्दुरम् ।
निहन्तुं च निहन्तारं देवानां सर्वभुभूजाम् ॥ ३४॥
मर्दनं भूधराणां च त्रैलोक्यजयशालिनम् ।
हत्वा तं विश्वसन्तोषं करिष्यामि च शङ्कर ॥ ३५॥
भक्तानां कामपूरश्च वेदकर्मप्रवर्तकः ।
भविष्यामि वरेण्यस्य वरदो ज्ञानदायकः ॥ ३६॥
मयि भक्तिर्भवेत् तस्य मम ध्यानपरायणः ।
देवद्विजातिथीनां च पूजकः पञ्चयज्ञकृत् ॥ ३७॥
पुराणश्रवणे सक्तः स्वाचारः सत्यवान् शुचिः ।
पुष्पिका नाम यस्यापि पत्नी धर्मपरायणः ॥ ३८॥
पतिव्रता पतिप्राणा पतिवाक्य परायणा ।
ताभ्यां द्वादशवर्षाणि तपस्तप्तं सुदारुणम् ॥ ३९॥
तयोर्मया वरो दत्त एष्ये वां पुत्रतां ध्रुवम् ।
पुष्पिकायां प्रसूताया मद्यैव राक्षसैः शिशुः ॥ ४०॥
नीतश्च त्यक्ष्यते प्राणांस्तस्मान्मां नय तत्र ह ।
एवमाकर्ण्य तद्वाक्यं शिवोहर्षसमन्वितः ॥ ४१॥
नानावाङ्मयपुष्पैस्तं पूजयामास भक्तितः ॥ ४२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननाविर्भावो नामत्रिंशाधिकशततमोऽध्यायः ॥ १३०॥
आदितः श्लोकानां समष्ट्यङ्काः - १००८१ + ४२ = १०१२३
२.१३१ गन्धर्वपराजयो नामकत्रिशत्तरशततमोऽध्यायः
क उवाच ।
ततश्चिन्तां चकारासौ तत्र नेतुं तु बालकम् ।
तज्ज्ञात्वा प्राह तं नन्दी स्वामिन् युष्मत्प्रसादतः ॥ १॥
शोषयिष्ये समुद्रांस्तु चूर्णयिष्ये गिरीनपि ।
आज्ञापय ततो मह्यं भवान्कार्यं हृदि स्थितम् ॥ २॥
क उवाच ।
भणितं तस्य तच्छुत्वा तुष्टः प्राह हरः स तम् ।
हर उवाच ।
साधु साधु त्वया प्रोक्तमाशयं मे विवृण्वता ॥ ३॥
पौरुषं ते मया ज्ञातं शतशो नन्दिकेश्वर ।
इदानीमथ यत्कार्यं वदामि तत्कुरुष्व भोः ॥ ४॥
माहिष्मत्यां महापुर्यामास्ते राजा महाबलः ।
वरेण्य इति विख्यातो नाना धर्मपरायणः ॥ ५॥
यस्य पत्नी महाभागा पुष्पिका नाम नामतः ।
तस्यां सद्यः प्रसूतायां सुप्तायां कापि राक्षसी ॥ ६॥
निन्ये बालं तत्पुरतो नेयो बालस्त्वया लघु ।
नीत्वा स्थाप्यस्तत्पुरतो यावन्निद्राति सा शुभा ॥ ७॥
क उवाच ।
एवमाज्ञां समाकर्ण्य शङ्करेण समीरिताम् ।
शीघ्रं बालं समादाय नभोमार्गेण सत्वरः ॥ ८॥
प्राक्षिपत्पुरतो बाल सा न सुप्ता बुबोध तम् ।
शीघ्रमुड्डीय स प्रायान्नन्दिकेशो महेश्वरम् ॥ ९॥
उवाच निजवृत्तान्तं मार्गे स्वयमनुष्ठितम् ।
अकस्माद्गगनादेवं राक्षसी घोरदर्शना ॥ १०॥
भक्षयन्ती बालमांसं मामाश्रित्य स्थिता विभो ।
तव प्रसादात्पुच्छेन वेष्टिता राक्षसी मया ॥ ११॥
भ्रामयित्वा विनिक्षिप्ता महापर्वतमस्तके ।
शतधा खण्डिता सा तु त्वन्नामोच्चारणात्प्रभो ॥ १२॥
ततोऽपश्यं महाव्रातं गन्धर्वाणां दुरात्मनाम् ।
कथं मया तैर्योद्धव्यं रक्षितव्यः कथं शिशुः ॥ १३॥
इति चिन्ताकुलतया स्मृतस्त्वं हृदि शङ्कर ।
ततः पुच्छेन शृङ्गाभ्यां क्रोधोच्छ्वासैश्च लत्तया ॥ १४॥
हुङ्कारेण च तान्सर्वान्निवार्य बलवत्तरान् ।
मृताः केचिद् हताः केचित् केचिद्भग्नशिरोङ्घ्रयः ॥ १५॥
पतिताः शतधा भूमौ पुष्पवृष्टिस्ततोऽपतत् ।
ततोऽहमगमद्देव कृत्वा कार्यं त्वयेरितम् ॥ १६॥
तवेच्छाविषयं को नु हन्यात् त्रैलोक्यमण्डले ।
अतस्त्वन्नामतो देव जयं प्राप्तः स बालकः ॥ १७॥
ततः शिवो हर्षयुतो लिलिङ्ग नन्दिकेश्वरम् ।
उवाच च प्रसन्नात्मा ज्ञातं ते पौरुषं दृढम् ॥ १८॥
नास्ति त्रिभुवने कोऽपि त्वत्समो नन्दिकेश्वर ।
क उवाच ।
ततः प्रणम्य विश्वेशं पार्वतीमगमच्च सः ॥ १९॥
प्रणम्य तां योज्य हस्तौ प्रोचे मधुरया गिरा ।
मातः शिवाज्ञया बालो नीतो माहिष्मतीं पुरीम् ॥ २०॥
वरेण्यपत्न्याः पुरतः पुष्पिकाया न्यधायि सः ।
यतस्तेन पुरा दत्तो वरस्तस्य बभूव ह ॥ २१॥
अहं पुत्रत्वमेष्यामि ब्रह्मज्ञानप्रकाशकः ।
निशम्य वचनं तस्य सर्वज्ञा पार्वती तदा ॥ २२॥
जहर्ष जननी तस्य शिशोर्वीर्यमनन्तकम् ।
उवाच परया भक्त्या ज्ञातं ते पौरुषं सुत ॥ २३॥
हता त्वया महाघोरा राक्षसी घोरनिस्वना ।
गन्धर्वाश्च हता दुष्टा रक्षितश्चैव बालकः ॥ २४॥
अज्ञातस्थापितस्तत्र महाकार्यमिदं कृतम् ।
इत्युक्त्वा विससर्जामुं विश्रान्तिं चाकरोत्तदा ॥ २५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गन्धर्वपराजयो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१॥
आदितः श्लोकानां समष्ट्यङ्काः - १०१२३ + २५ = १०१४८
२.१३२ कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः
क उवाच ।
ततः कदाचिद् दैत्येन्द्र सिन्दूरो मदगर्वितः ।
सभासनगतः प्राह वृथा मे पौरुषं कृतम् ॥ १॥
इन्द्राऽदयो न मे युद्धं ददुर्ब्रह्मादयो हरिः ।
राज्ञां तु गणना नैव मृत्यु लोकनिवासिनाम् ॥ २॥
कुलीनाया यथा नार्या यौवनं हि पतिं विना ।
तथा मे पौरुषं व्यर्थं योद्धृभिर्हि विनाभवत् ॥ ३॥ (योद्ध्राऽभवत् खलु)
ततोऽन्तरिक्ष वाणीं स शुश्राव परमाद्भुताम् ।
आकाशवाण्युवाच ।
किमर्थं वल्गसे मूढ जातोऽस्ति तव युद्धदः ॥ ४॥
पार्वत्या उदराद्गर्भो वरेण्यगृहगोऽधुना ।
वर्द्धतेऽनन्तलीलोऽसौ यथेन्दुः शुक्लपक्षगः ॥ ५॥
क उवाच ।
श्रुत्वेत्थं सहसा वाणीं मुमूर्च्छ सिन्दुरस्तदा ।
विहर्षश्चिन्तयामास किमिदं केन भाषितम् ॥ ६॥
यदि दृश्यो भवेन्मह्यं खादेयं तं समस्तकम् ।
कालस्य मे कथं मृत्युः पश्चात्सूर्योदयो यथा ॥ ७॥
एवमुक्त्वोदतिष्ठत् स गर्जयन् विदिशो दिशः ।
उड्डीय सहसा प्रायात् कैलासं गिरिजालयम् ॥ ८॥
चूर्णयन् पर्वतान् वृक्षान् पातयन् स्वाग्ङमारुतात् ।
चेलतुः कूर्मशेषौ च चकम्पे च वसुन्धरा ॥ ९॥
न ददर्श शिवं तत्र पुनः सर्वसहां ययौ ।
बभ्राम वसुधां सर्वां शिवं वेगात् गवेषयन् ॥ १०॥
पर्यल्याख्यं महारण्यमाजगामरुषान्वितः ।
ददर्श दूरतो गौरीसहितं शङ्करं तदा ॥ ११॥
मण्डपं च गणांश्चैव सरांसि चोत्पलानि च ।
ततो जगाम सहसारिष्टं गौर्ये प्रकल्पितम् ॥ १२॥
अदृष्ट्वा तत्र बालं स चुकोपाग्निरिव ज्वलन् ।
ततः स तर्कयामास न वाणी नभसो मृषा ॥ १३॥
अस्यः सुतो मां हि हन्यान्न जातश्चेद् भविष्यति ।
तस्मादेनां निहन्म्यद्य मूलच्छेदस्ततोभवेत् ॥ १४॥
क उवाच ।
एवं निश्चित्य मनसा ततः शस्त्रमुपाददे ।
यावदुमां हन्ति दुष्टस्तावद् दृष्टः शिशुः पुरः ॥ १५॥
चतुर्भुजोऽतिरुचिरो मुकुटाङ्गदभूषितः ।
परशुं कमलं मालां दधद् विस्मयदायकः ॥ १६॥
कटौ शेषं गले हारं नूपुरौ चाङ्घ्रियुग्मयोः ।
निवृत्तस्तद्वधात् सद्यस्तां च सुप्ताममन्यत ॥ १७॥
दधार बालकं हस्तेऽकाङ्क्षत् क्षेप्तुं महोदधौ ।
एवं निश्चितसङ्कल्पस्ततोऽसौ चकितः पुरा ॥ १८॥
ततः स बालो ववृधे हिमाचल इवापरः ।
सिन्दूरोऽपि च कम्पेऽसौ मदाभारातुरः क्षणात् ॥ १९॥
श्वासाकुलः पुरो गन्तुं न शशाक स्वशक्तितः ।
ततस्तत्याज तं बालं दैत्यो विव्हलतां गतः ॥ २०॥
बाले तु पतिते भूमौ महारावविराविणि ।
चेलुश्च पर्वता नादैश्चकम्पे च वसुन्धरा ॥ २१॥
बभ्रुमुर्विहगा व्योम्नि नानारावविराविणः ।
अर्णवाः क्षोभिताः सप्त ब्रह्माण्डमपि पुस्फुटे ॥ २२॥
स बालः पतितो रेवाजलान्ते मुनिसन्निधौ ।
तत्र तीर्थमभूच्छ्रेष्ठं गणेशकुण्डमित्युत ॥ २३॥
अस्या आजन्मतः पापं नाशमेति स्मृतेः क्षणात् ।
दर्शनाद् दशजन्मीयं स्नानाच्च शतजन्मजम् ॥ २४॥
सेवनं मोक्षदं यस्य अनुष्ठानवतां नृणाम् ।
तद्देहरुधिरात् तत्र प्रस्तरा रक्ततां गताः ॥ २५॥
त एव नार्मदाः ख्याता गणेशाः पापनाशनाः ।
दर्शनात् पूजनात् सर्वकामदा भक्तिकारिणाम् ॥ २६॥
नर्मदामहिला सर्वो वर्णितुं नैव शक्यते ।
ततः स जहृषे दैत्यो रिपुर्मे नाशतां गतः ॥ २७॥
तावत् कुण्डात् समुद्भूतो भीषणः पुरुषो महान् ।
जटाभारेण सञ्छन्नो वल्लीछन्नो धरो यथा ॥ २८॥
दंष्ट्राकरालवदनो जिव्हाव्यालीसमावृतः ।
दीर्घपाण्यङ्घ्रियुगलः श्वासव्याकुललोचनः ॥ २१॥
दृष्ट्वा तथाविधं तं तु क्रोधव्याकुललोचनः ।
उवाच दैत्यः सिन्दुरो न चास्य गणना मम ॥ ३०॥
एवमुक्त्वा खङ्गहस्तो ययौ हन्तुं तु तं रुषा ।
खड्गेन हन्ति तं यावत् तावत् स ददृशेऽम्बरे ॥ ३१॥
उवाच दैत्यं रे दैत्य वृथा मां त्यक्तवान् क्षितौ ।
तवान्तकस्तु रे मूढ वर्धितः क्वचिदेव हि ॥ ३२॥
हनिष्यत्येव नूनं त्वां साधुरक्षणतत्परः ।
अन्तर्दधे ततो भीम एवमुक्त्वा स पूरुषः ॥ ३३॥
ततो दैत्यो महारोषादुवाच निजसेवकान् ।
ध्रियतां ध्रियतामेष येनोक्तं पौरुषं वचः ॥ ३४॥
यदा तं क्वाऽपि नापश्यत् तदा स्वस्थानमागमत् ।
द्रक्ष्यामि तं यदा शत्रुं जयिष्य इत्यमन्यत ॥ ३५॥
एतावच्चरितं तस्य पार्वत्याऽज्ञायि नैव तत् ।
तस्यैव मायामोहेन प्राप्तया मोहमुत्तमम् ॥ ३६॥
ततः प्रोवाच गिरिशं पार्वती विनयान्विता ।
अत्र पीडा दैत्यकृता प्रारब्धा जगदीश्वर ॥ ३७॥
कैलासं गन्तुमिच्छामि तवेच्छा चेन्नयस्व माम् ।
एवमाकर्ण्य तद्वाक्यं जहृषे शङ्करोऽपिच ॥ ३८॥
आरुह्य नन्दिनं सद्यः पार्वत्या सह शङ्करः ।
सप्तकोटिगणाकीर्णः कैलासं प्राप तत्क्षणात् ॥ ३९॥
प्रविश्य स्वालयं गौरी परमं हर्षमाययौ ॥ ४०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ॥ १३२॥
आदितः श्लोकानां समष्ट्यङ्काः - १०१४८ + ४० = १०१८८
२.१३३ पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः
व्यास उवाच ।
पुष्पिकानिकटे त्यक्तो वरेण्यस्य गृहे स किम् ।
चकार तन्ममाचक्ष्व कार्यं विस्तरतोऽब्जज ॥ १॥
क उवाच ।
सम्यक् पृष्टं त्वया वत्स हृदयानन्दकारकम् ।
कथयिष्ये विधानेन तत्सर्वं पापनाशनम् ॥ २॥
तस्यां निशायां व्युष्टायां ददर्श पुष्पिका सुतम् ।
चतुर्बाहुं रक्तवर्णं गजवक्त्रमलङ्कृतम् ॥ ३॥
कस्तूरीतिलकं मुक्तामालया सुविराजितम् ।
पीतवस्त्रपरीधानं चारुचन्दनचर्चितम् ॥ ४॥
देदीप्यमानं वपुषा नानालङ्कारसंयुतम् ।
ततः सा पुष्पिका दृष्ट्वा बालकं तु तथाविधम् ॥ ५॥
विस्मिता दुःखिता चापि भयभीताऽभवत्तदा ।
घ्नती वक्षो बहिर्याता पाणिभ्यां शोककर्शिता ॥ ६॥
तदाक्रन्दितमाकर्ण्य मीलिताः परिचारिकाः ।
ताभिरत्यद्भुतं दृष्ट्वा बालकं तं तथाविधम् ॥ ७॥
नृपोऽपि ज्ञातवृत्तान्तः सगणोऽभिययौ गृहे ।
ततस्तेऽपि भयोद्विग्ना दृष्ट्वा बालं तथाविधम् ॥ ८॥
अधीराः पपलुस्तस्य केचिन्मूर्छामुपाययुः ।
केचिच्च नृपतिं प्राहुर्न जातो न भविष्यति ॥ ९॥
न दृष्टो न श्रुतः क्वापि बाल एतादृशो नृणाम् ।
नैवायं स्थापनीयस्ते वंशच्छेदकरो गृहे ॥ १०॥
एवमाकर्ण्य सर्वेषां वाक्यं मेने स भूपतिः ।
दूतानुवाच बालोऽयं त्यज्यतां गहने वने ॥ ११॥
ततो दूता गता मध्ये गृहीत्वा बालकं तु तत् ।
गहनं काननं दृष्ट्वा वायुस्पर्शविवर्जितम् ॥ १२॥
तीरे तु सरसस्तत्र क्षिप्त्वा ते पर्णसञ्चयैः ।
आच्छाद्य प्रययुः शीघ्रं वरेण्यं नृपतिं पुनः ॥ १३॥
सभामध्ये नृपं दृष्ट्वा नमस्कृत्वाऽब्रुवंस्तदा ।
आज्ञया तव राजेन्द्र सिंहव्याघ्रनिषेविते ॥ १४॥
त्यक्त्वा बालं समायाता भक्षितः स्याद् वनेचरैः ।
क उवाच ।
यावच्च भक्षितुं याता जम्बुकास्तावदेव तम् ॥ १५॥
पराशरो मुनिवरो ददर्श करुणानिधिः ।
चतुर्भुजं गजास्यं तं कोटिसूर्यनिभं शिशुम् ॥ १६॥
नानालङ्कारसंयुक्तं दिव्याम्बरविभूषितम् ।
सर्पवेष्टितसन्नाभिं चिन्तामणिविभूषितम् ॥ १७॥
मुमोह मायसा तस्म सर्वज्ञाननिधिर्मुनिः ।
शुशोच किमिदं विघ्नं मम नाशाय निर्मितम् ॥ १८॥
इन्द्रेण मे तपोनाशं काङ्क्षता स्वार्थसाधनम् ।
अकारि न मया किञ्चिद् दुष्कृतं पापभीरुणा ॥ १९॥
दीननाथं चन्द्रचूड रक्ष मां महतो भयात् ।
एवं शोचन्तमालोक्य गजास्यः करुणायुतः ॥ २०॥
निराकरोन्मोहजालं तं ततोऽलक्षयत्पुरः ।
तमेव परमात्मानं परब्रह्मस्वरूपिणम् ॥ २१॥
भक्तानां रक्षणं कर्तुम्मीदृशं वेषमास्थितम् ।
धन्यं मेऽद्य जनुर्मातापितरौ च तपो महत् ॥ २२॥
निरस्तौ जन्ममृत्यू मे प्राप्तं वाञ्छितमुत्तमम् ।
केनायं हतभाग्येन बालस्त्यक्तो वनान्तरे ॥ २३॥
क उवाच ।
एवमुक्त्वा मुनिः सोऽथ निन्ये बालं स्वमाश्रमम् ।
वत्सलाऽस्य ततः पत्नी दृष्ट्वा बालं तथाविधम् ॥ २४॥
आनीतं स्वामिना ज्ञात्वा ननन्द स्नेहनिर्भरा ।
हृदये विनिवेश्यैनं प्राह प्राणपतिं तदा ॥ २५॥
बहुकालकृतं स्वामिंस्तपस्ते फलितं गुरु ।
यस्य स्वरूपं न ब्रह्मा न हरो न श्रियः पतिः ॥ २६॥
मुनयो न विदुः साक्षाद् दर्शनं जातमद्य नौ ।
यः कर्त्ता रक्षिता हन्ता सर्वस्य जगतः प्रभुः ॥ २७॥
अवतीर्णो भुवो भारं हर्तुं नानावतारकृत् ।
महद्भाग्यं हि नौ स्वामिन्ननायासेन विश्वभृत् ॥ २८॥
अक्षिगोचरतां यातो मवोवाचामगोचरः ।
क उवाच ।
तस्य बालस्य स्पर्शेन स्तनौ पीनपयोधरौ ॥ २९॥
जातौ पपौ ततो बालः सा चानन्दमवाप ह ।
ततः शुश्राव राजाऽसौ वरेण्यो बालकं तु तम् ॥ ३०॥
पराशरेण मुनिना पालितं दिव्यचक्षुषा ।
वाद्यघोषेण महता शर्करां च गृहे गृहे ॥ ३१॥
दापयामास हर्षेण ब्राह्मणान् सहृदोऽपि च ।
तोषयामास वस्त्राद्यैः काञ्चनै रत्नसञ्चयैः ॥ ३२॥
गावः कामदुघा जाताः शुष्कवाप्यो जलान्विताः ।
आश्रमे तु मुनेस्तस्य शुष्कवृक्षाः फलान्विताः ॥ ३३॥
य इदं शृणुयान्मर्त्यः पुत्रवान्धनवान्भवेत् ॥ ३४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः ॥ १३३॥
आदितः श्लोकानां समष्ट्यङ्काः - १०१८८ + ३४ = १०२२२
२.१३४ चतुस्त्रिंशाधिकशततमोऽध्यायः
क उवाच ।
बालः स ववृधे तत्र दिवसे दिवसे शशी ।
आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ १॥
व्यास उवाच ।
वद ब्रह्मन् गुणेशस्य चरितं द्वापरोद्भवम् ।
श्रुत्वा पूर्वचरित्राणि न तृप्तिर्मेऽभवत्प्रभो ॥ २॥
गजाननेति नामास्य वाहनं मूषकः कथम् ।
एतत्सर्वं सविस्तारं वद मे चतुरानन ॥ ३॥
क उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
प्रल्हादस्य च संवादं भार्गवस्य कवेरपि ॥ ४॥
एवमेव पुरा पृष्टः प्रल्हादेन महामुनिः ।
तस्मै प्रोवाच भगवान् कविस्तच्छृणु साम्प्रतम् ॥ ५॥
शृणु प्रल्हाद येनास्य वाहनं मूषकोऽभवत् ।
तदहं सम्प्रवक्ष्यामि श्रवणात्सर्वकामदम् ॥ ६॥
पुरा शक्रसभामध्ये क्रौञ्चौ गन्धर्वसत्तमः ।
वामदेवमुनिं सोऽथ त्वरावान्प्रपदाऽहनत् ॥ ७॥
स शशाप च गन्धर्वं मूषकस्त्वं भविष्यसि ।
कल्पयिष्यति वाहत्वे त्वामाक्रम्य गुणेश्वरः ॥ ८॥
स एव करुणायुक्तो मोक्षं नेष्यति विश्वकृत् ।
पराशराश्रमे सोऽथ पपात मूषकाकृतिः ॥ ९॥
गिरिशृङ्गनिभो घोरो महारोमा महारवः ।
महावीर्यो महादंष्ट्रो महास्वनविराजितः ॥ १०॥
तस्याश्रमे महाघोरमुपद्रवमथाकरोत् ।
भक्षयामास धान्यानि भङक्त्वा मृत्पात्रसञ्चयान् ॥ ११॥
पुस्तकानि च वस्त्राणि वल्कलानि महान्त्यपि ।
स सारभूतं यत्सर्वं भक्षयामास मूषकः ॥ १२॥
पुच्छाघातेन वृक्षान् स पातयामास भूतले ।
चुञ्चुकारेण शब्देन गर्जयामास विष्टपम् ॥ १३॥
ज्ञात्वा तथाविधं तं तु चिन्तामास मुनीश्वरः ।
दुर्जनस्य बलात्कारैः स्थानं त्याज्यं न संशयः ॥ १४॥
अधुना क्वा नु गन्तव्यं कस्मिन्स्थाने सुखं भवेत् ।
प्राणत्यागे महद्दोषं वदन्ति शास्त्रचिन्तकाः ॥ १५॥
कथं सुखाश्रमे दुःखं प्राप्तं कर्मप्रसङ्गतः ।
कस्य वा स्मरणं कार्यं को वा दुःखात्प्रमोक्ष्यति ॥ १६॥
क एनं नाशयेदत्र कः समर्थो भवेद् वधे ।
कमद्य शरणं यायां को नस्राता भविष्यति ॥ १७॥
एवं पितृवचः श्रुत्वा बालकोऽनन्तविक्रमः ।
उवाच मधुरं वाक्यं चिन्तां मा कुरु सर्वथा ॥ १८॥
मयि तिष्ठति दुष्टानां संहारिणि महाप्रभौ ।
पुत्रतां ते प्रयातोऽस्मि विधास्ये ते प्रियं तु यत् ॥ १९॥
यस्य मे क्रन्दितेनेयं पृथिवी शीर्णतामियात् ।
पर्वताश्चूर्णतामापुः पादाघातेन मे मुने ॥ २०॥
पश्य मे कौतुकं तात नयाम्येनं तु वाहताम् ।
एवमुक्त्वाऽसृजत्पाशं कोटिसूर्यनिभं शिशुः ॥ २१॥
मेघेष्विव तडित्पुञ्जः शुशुभे सोऽन्तरिक्षगः ।
तत्यजुर्भयतो देवा स्वानि धिष्ण्यानि तत्क्षणात् ॥ २२॥
स ययौ वह्निवदनो दशदिग्भ्रमणे रतः ।
पाताले मूषकं कण्ठे बध्वा बहिरकाशयत् ॥ २३॥
मूर्छामवाप महतीमाखुः पाशबलार्दितः ।
शुशोच परमक्रुद्धो निरुद्धश्वासमारुतः ॥ २४॥
कथं कालस्य मरणमागतं दैवनिर्मितम् ।
भवितव्यं भवत्येव पुरुषार्थो निरर्थकः ॥ २५॥
येन दंष्ट्राग्रमात्रेण दारिताः पर्वता बहु ।
न मया गणिता देवा नासुरा राक्षसा नराः ॥ २६॥
तस्य मे केन पाशेन कण्ठोऽक्रामि गतायुषः ।
क उवाच ।
मूषके प्रब्रुवत्येवं यावत् तावद् गजाननः ॥ २७॥
चकर्ष मनसा तं स सोऽगान् मूषकसंयुतः ।
यथा गारूडशास्त्रज्ञः सर्पं कर्षति तत्क्षणात् ॥ २८॥
स तं दृष्ट्वा पाशकण्ठो मूषको लब्धधीः क्षणात् ।
नमस्कृत्य विभुं देवं गजाननमनामयम् ॥ २९॥
तुष्टाव परया भक्त्या चिदानन्दघनं प्रभुम् ।
त्वमेव जगतां नाथः कर्ता हर्त्ता प्रपालकः ॥ ३०॥
गुणत्रयविहीनश्च गुणत्रयसहायकृत् ।
मायातीतोऽपि मायावी मायिनामपि मोहकृत् ॥ ३१॥
ब्रह्मादीनामगम्यस्त्वं मुनिहृत्पद्मसंस्थितः ।
कारणं करणं कर्त्ता कारणानां च कारणम् ॥ ३२॥
सोऽद्य दृष्टः स्वचक्षुर्भ्यामतो धन्यं जनुर्मम ।
धन्या मे पितरौ नेत्रे तपो विद्या व्रतं जपः ॥ ३३॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यं प्रीतोऽसौ द्विरदाननः ।
प्राह भक्तिं दृढां ज्ञात्वा भक्तं तं मूषकं विभुः ॥ ३४॥
तवैव पुरुषार्थेन देवद्विजद्रुहोऽनघ ।
निर्गुणोऽहं गुणी जातो दुष्टनाशनहेतवे ॥ ३५॥
साधूनां रक्षणार्थाय यतस्त्वं शरणं गतः ।
अतस्ते दत्तमभयं वरं वृणुयमिच्छसि ॥ ३६॥
मूषक उवाच ।
नाहं वृणे गजास्य त्वां त्वमेव वृणु वाञ्छितम् ।
क उवाच ।
इत्युक्तो मूषकेनासौ गर्वितेन गजाननः ॥ ३७॥
वाहतां मम याहि त्वं यदि सत्यं वचस्तव ।
तथेत्युक्ते स पिङ्गाक्षो रुरोहाक्रम्य तत्क्षणात् ॥ ३८॥
भारेण चूर्णयंस्तं तु पुनर्देवं स याचत ।
अहं ते वाहनं जातो लघुभूतो भव प्रभो ॥ ३९॥
याचतस्तस्य वचसा लघुभारोऽभवद्विभुः ।
एतदृष्ट्वा महाश्चर्यं प्रणम्य मुनिरब्रवीत् ॥ ४०॥
ना बाले पौरुषं क्वापि मया दृष्टं जगत्त्रये ।
यच्छब्दात्पर्वताः शीर्णा लोकपालाश्च्युतस्थलाः ॥ ४१॥
स त्वया क्षणमात्रेण नीतो वाहनतां बलात् ।
तत आगत्य माताऽस्य वत्सला गृह्य तं शिशुम् ॥ ४२॥
प्रस्नुतौ पाययामास स्तनौ माता मुदा युता ।
उवाच न च जाने ते स्वरूपं च पराक्रमम् ॥ ४३॥
जन्मजन्मान्तरीयेण पुण्येन नौ गृहं गतः ।
ततः स मूषकं बद्धवा चिक्रीडे प्राकृतो यथा ॥ ४४॥
एवं ते कथिता चास्य यथा मूषकवाहता ॥ ४५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे मूषकवाहनरूपधारणं नाम चतुस्त्रिंशाधिकशततमोऽध्यायः ॥ १३४॥
आदितः श्लोकानां समष्ट्यङ्काः - १०२२२ + ४५ = १०२६७
२.१३५ क्रौञ्चशापवर्णनं नाम पञ्चत्रिंशोत्तरशततमोऽध्यायः
व्यास उवाच ।
किमनेन कृतं पूर्वं पुण्यं पापं च पद्मज ।
येनायं मौषकं जन्म पाप देवस्य वाहताम् ॥ १॥
क उवाच ।
सम्यक्पृष्टं त्वया वत्स ममापि मनसः प्रियम् ।
ब्रवीमि सकलं तच्च तदिहैकमनाः शृणु ॥ २॥
सुमेरुशिखरे रम्यः सौभरेराश्रमो महान् ।
अभूद् वृक्षसमाकीर्णो नानापक्षिगणान्वितः ॥ ३॥
वसिष्ठाद्या मुनिगणा देवा इन्द्रपुरोगमाः ।
आयान्ति सौभरेस्तस्य दर्शनार्थं दिने दिने ॥ ४॥
महत्तपोवृद्धिदीप्तेरत्यग्निरवितेजसः ।
ख्यातस्य सर्वलोकेषु ध्याननिष्ठस्य चेश्वरे ॥ ५॥
तस्य पत्नी महाभागा मनोमयीति विश्रुता ।
पतिव्रतासुसर्वासु विख्याता भर्त्तृवल्लभा ॥ ६॥
रम्यता तु रतेस्तस्या जिता रम्यतयाऽखिला ।
शचीप्रभृतयः सर्वा न प्रापुः समतालवम् ॥ ७॥
कदाचित् सौभरिर्होमशालायां प्रातरुत्थितः ।
कृत्वा होमं वनं यातः समिदर्थं गृहे स्थिता ॥ ८॥
मनोमयी सुशीला सा गृहकार्यरताऽभवत् ।
तदा दुष्टस्तु गन्धर्वः क्रौञ्चनामा समागतः ॥ ९॥
विश्रान्तिरभवत्तस्य दृष्ट्वाश्रममनुत्तमम् ।
नानाशालासमाकीर्णं बहुच्छायं सुशीतलम् ॥ १०॥
एतादृशो रम्यतर आश्रमो यस्य स प्रभुः ।
धन्यं जपस्तपस्तस्य क्षणेनायं सुखप्रदः ॥ ११॥
चिरस्थानान्मुक्तिदः स्यादित्युक्त्वा तद्गृहं ययौ ।
ददर्श मुखचन्द्रं स मनोमय्या मनोरमम् ॥ १२॥
यस्यादर्शनमात्रेण हरोऽपि स्मरसाद्भवेत् ।
तस्याः कटाक्षपातेन मदनानिलविव्हलः ॥ १३॥
स बभूव तदासक्तो दधार सहसा करे ।
तत्करस्पर्शमात्रेण च कम्पे सा मुमूर्च्छ च ॥ १४॥
मनोमयी न शशाप भर्तृस्मरणतत्परा ।
म्लाना च शुष्ककण्ठा च सस्वेदाक्षिस्रवज्जला ॥ १५॥
बभूव परमोद्विग्ना मुमोह च शुशोच च ।
कमद्य शरणं यामि कोऽस्माद्दुष्टात्प्रमोक्ष्यते ॥ १६॥
न कृतं दुष्क्रतं किञ्चिदिह जन्मनि संस्मरे ।
जन्मान्तरीयपापेन सुखदुःखमुपस्थितम् ॥ १७॥
दुष्टभावं तु तं ज्ञात्वा सान्त्वयन्त्यब्रवीदिदम् ।
अहं दुहितृतुल्या ते जनकेन समोऽसि मे ॥ १८॥
ज्ञानवानसि पापे त्वं मा वर्तस्व गतत्रप ।
पापिनो यान्ति नरकं वर्षकोटिगणान्बहून् ॥ १९॥
तस्मान् मुञ्च महाभाग कृपणां पुत्रिकोपमाम् ।
नो चेदहं करिष्यामि प्राणत्यागं न संशयः ॥ २०॥
स्त्रीहत्यादोषसम्भूतं पापं ते स्यान्महत्तरम् ।
मम भर्ता महाभागो वनादायास्यतेऽधुना ॥ २१॥
तस्य क्रोधानलस्त्वां हि भस्मत्वं नेष्यते क्षणात् ।
विज्ञानां तस्य नो किञ्चित्कार्यं कार्यं मया लघु ॥ २२॥
नो चेत्त्वां भस्मसात्कुर्यां सृष्टिं च ब्रह्मणोऽपि च ।
एवं वदन्त्यां तस्यां तु सौभरिः समुपागतः ॥ २३॥
तं दृष्ट्वा स्वाङ्गणगत मध्यान्हरविसन्निभम् ।
मुमोच तेजसा तत्र धर्षितोऽसौ करं तदा ॥ २४॥
अधोऽपश्यच्चकम्पे च मम्लाय च बिभाय च ।
मुनिः प्रोवाच सहसा प्रलयाग्निरिव ज्वलन् ॥ २५॥
उत्ससर्ज तदा शापं गन्धर्वं प्रति दुःसहम् ।
मुनिरुवाच ।
असमक्षं यतो मे त्वं पत्नीं धर्षितवानसि ॥ २६॥
असमक्षचरो मूढ मूषकस्त्वं भविष्यसि ।
चौरवत्पृथिवीं दार्य स्वोदरं पूरयिष्यसि ॥ २७॥
क्रौञ्च उवाच ।
न मया बुद्धिपूर्वं ते धर्षितेयं मनोमयी ।
प्रसङ्गादभवत्सङ्गो दृष्ट्वेमां चाररूपिणीम् ॥ २८॥
करमात्रधृता चेयं तावत्त्वमपि दृष्टवान् ।
तेजसा ते प्रभीतेन मया मुक्ताऽनघा मुने ॥ २९॥
अतोऽपराधं मे क्षन्तुमर्हसि त्वं कृपानिधे ।
कुरुष्वानुग्रहं मह्यं शरणागतवत्सल ॥ ३०॥
अहं त्वा शरणं यामि कृपां कुरु ममोपरि ।
त्रैलोक्ये नेदृशी दृष्टा पतिव्रत्यगुणान्विता ॥ ३१॥
मुनिरुवाच ।
प्लवते सागरे मेरुरुदियात् पश्चिमे रविः ।
न मे वचोऽन्यथा भूयाद् वह्निः शीतत्वमाप्नुयात् ॥ ३२॥
अथापि प्रब्रवीम्यद्य दुष्ट तच्छृणु सादरम् ।
पराशरगृहे देवी द्वापरेऽवतरिष्यति ॥ ३३॥
गजानन इति ख्यातस्तस्य वाहत्वमेष्यसि ।
तदा ब्रह्मादयो देवा मानयिष्यन्ति सादरम् ॥ ३४॥
तस्य हस्तगतः स्वर्गं पुनरेष्यसि सत्वरम् ।
एवमाकर्ण्य तद्वाक्यं दुःखहर्षसमन्वितः ॥ ३५॥
क उवाच ।
पपात पृथिवीपृष्ठे महामूषकरूपधृक् ।
पराशरस्याश्रमे तु द्वापरे समुपस्थिते ॥ ३६॥
महाबलो महावीर्यो महापर्वतसन्निभः ।
मुनेराशीर्बलेनासौ गजाननसमीपगः ॥ ३७॥
अभवद्वाहरूपेण मूषकोऽसौ महाबलः ।
एतत्ते कथितं सर्व यन्मे पृष्टं त्वयाऽनघ ॥ ३८॥
गजाननस्य वाहत्वं मूषकस्य यथाऽभवत् ।
मुनिरुवाच ।
सिन्दुरस्य वधं ब्रह्मन् कथं स कृतवान्विभुः ॥ ३९॥
गणेशस्तन्ममाचक्ष्व विस्तराच्चतुरानन ।
श्रुत्वा वचो न मे तृप्तिर्जायतेऽमृतपानवत् ॥ ४०॥
भक्त्या शृणोमि देवेश सर्वज्ञस्त्वं वदस्व मे ॥ ४१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे क्रौञ्चशापवर्णनं नाम पञ्चत्रिंशोत्तरशततमोऽध्यायः ॥ १३५॥
आदितः श्लोकानां समष्ट्यङ्काः - १०२६७ + ४१ = १०३०८
२.१३६ बालचरिते सिन्दूरनिर्गमो नाम षट्त्रिंशोत्तरशततमोऽध्यायः
क उवाच ।
एकस्मिन् दिवसे देवो जगाद मुनिसत्तमम् ।
पराशरं महाभाग्यं परदुःखप्रपीडितः ॥ १॥
गजानन उवाच ।
सिन्दुरेण तु दुष्टेन पीडितं सकलं जगत् ।
स्वाहास्वधावषट्कारैर्वर्जितं वेदघोषतः ॥ २॥
स्थानभ्रष्टा देवगणा भ्रष्टा ऋषिगणास्तथा ।
गजाननस्वरूपेण करिष्ये दुष्टनाशनम् ॥ ३॥
साधूनां पालनं चैव भूभारहरणं तथा ।
स्थापनं सर्वदेवानामानन्दं जगतोऽपि च ॥ ४॥
निधेहि मस्तके तात पाणिं मेऽभयदं शुभम् ।
अनुग्रहप्रसादात्ते हनिष्ये दुष्टदानवान् ॥ ५॥
मुनिरुवाच ।
आश्चर्यं परमं बाल बालभावात्प्रभाषसे ।
बालकः कौतुकाविष्टो याचते चन्द्रमण्डलम् ॥ ६॥
असाध्यं त्रिदशैः सर्वैः कर्म कर्तुं तथेच्छसि ।
यस्य श्वासेन गिरयः पतन्ति शतशो भुवि ॥ ७॥
पादाघातेन यस्याशु कम्पते भुवनत्रयम् ।
कथं त्वं युध्यसे तेन बिसतन्तुशरीरवान् ॥ ८॥
चरित्वा नववर्षाणि पूर्णानि तव साम्प्रतम् ।
ममानुग्रहमात्रेण त्वं चेच्छक्तो भविष्यसि ॥ ९॥
तदाऽयं निहितो हस्तो मस्तकेऽभयदायकः ।
क उवाच ।
ततो हर्षयुतो देवो नमस्कृत्य मुनिं तदा ॥ १०॥
जननीमपि दुर्गां च श्रीहरि हरमेव च ।
ययौ योद्धुं मूषकं तमारुह्य स गजाननः ॥ ११॥
अङकुशं परशुं पाशं कमलं च चतुर्भुजैः ।
दधानो गर्जनेनाशु कम्पयन् भुवनत्रयम् ॥ १२॥
प्रज्वलंस्तेजसा स्वेन प्रलयानलसन्निभः ।
क्षणेन प्राप सिन्दूरनगरं स गजाननः ॥ १३॥
घृसृणेश्वरसान्निध्यात् सिद्धसिन्दूरवाडकम् ।
तत्रस्थः प्रशशासासौ सिन्दूरो भुवनत्रयम् ॥ १४॥
तदुत्तरे स्थितो देवो जगर्ज गर्जयन्दिशः ।
चुक्षुभुः सागराः सप्त विशीर्णा गिरयोऽपि च ॥ १५॥
श्रुत्वा निनादं तस्याशु सर्वदैत्याश्चकम्पिरे ।
मुमूर्च्छुर्भीरवः सर्वे केचिन्मृत्युमुपाययुः ॥ १६॥
सिन्दूरोऽपि मुमूर्च्छाशु क्षणेन प्रकृतिं ययौ ।
उवाच सेवकान् सर्वान्कोऽयं गर्जति दृश्यताम् ॥ १७॥
मूर्छा प्राप्ता मया कस्माद्यच्छब्देन पुरः कथम् ।
स्थास्यामि तत्पुरः स्थातुं कस्य शक्तिर्भविष्यति ॥ १८॥
ततस्ते सेवका जग्मुस्तदा बालसमीपतः ।
तद्रूपं ते निरीक्ष्यैव सिंहस्य करिणो यथा ॥ १९॥
बिभ्युश्चैव चकम्पुश्च केचिद् धैर्यात्तमब्रुवन् ।
कस्य त्वं कुत आयातः किमर्थं तव नाम किम् ॥ २०॥
सिन्दूरो विश्व संहाररसिकः क्रोधसंयुतः ।
श्रुत्वा ते क्रन्दितं सर्वं कम्पितं च ससिन्दुरः ॥ २१॥
बालोऽपि बलवान् भासि चतुःपञ्चाब्दिकोऽपि च ।
दृश्यसे सर्वसंहारकारणाय क्षमः क्षणात् ॥ २२॥
एवमाकर्ण्य तद्वाक्यं प्रोवाच स च तान्विभुः ।
अहं शिवसुतः ख्यातः पराशरगृहे वसन् ॥ २३॥
दुष्टसंहाररसिको भक्तपालनतत्परः ।
नानावतारकुशलो ब्रह्मादीनामगोचरः ॥ २४॥
गजाननेति मे नाम युद्धं कर्तुं समागतः ।
स्वामिनं वोऽथ गच्छन्तु तस्मै सर्वं ब्रुवन्तु च ॥ २५॥
तस्मिन् हते मानसं मे तोषमेष्यति दुर्जये ।
क उवाच ।
ततस्ते निर्ययुः शीघ्रं सिन्दूरं प्राब्रुवन्वचः ॥ २६॥
दूता ऊचुः ।
वयं शीघ्रतरं याताः पुरुषं भवदाज्ञया ।
कृतान्तसदृशं तं तु दृष्ट्वा सर्वे च कम्पिता ॥ २७॥
ततोऽभवत्प्रतापेन तदग्रे प्राब्रुवाम च ।
तस्तेन समाख्यातं निजं सर्वं समासतः ॥ २८॥
गजानननेति नामास्य शिवपुत्रत्वमेव च ।
दुष्टदैत्यविनाशाय साधूनां पालनाय च ॥ २९॥
साम्प्रतं तु त्वया सार्द्धं युद्धाय समुपागतः ।
स चतुर्वार्षिको बालो वल्गते बहु विस्तरम् ॥ ३०॥
इदानीं स्वस्वभावेन जहि शत्रुं निजं लघुम् ।
तव तु श्वासमात्रेण दूरे गच्छेदयं शिशुः ॥ ३१॥
यस्य ते दर्शनात् स्वामिंश्चकम्पुः शिवकादयः ।
तस्य ते गणना कास्ति बालकस्याल्पमेधसः ॥ ३२॥
क उवाच ।
एवं दूतवचः श्रुत्वा सिन्दूरश्चिन्तयातुरः ।
बभूव म्लानतुण्डश्च क्रोधारुणविलोचनः ॥ ३३॥
उद्वमन् नयनाद्वह्निं प्रलयानलसन्निभम् ।
उवाच दूतान्क्रोधेन हर्षेण च समन्वितः ॥ ३४॥
स उवाच ।
आश्चर्यं परमं दूता भवद्वचसि मेऽभवत् ।
सिंहेन सह योद्धुं वै मशकः कथमेष्यति ॥ ३५॥
चतुर्वर्षेण बालेन योद्धव्यं किं मया सह ।
यूयं ततः कथं भीता न जाने तत्र कारणम् ॥ ३६॥
मयिक्रुद्धे जगन्नश्येत् तत्र का गणनाऽस्य ह ।
जगर्ज गर्जयन् व्योम दिशोऽपि विदिशोऽपि च ॥ ३७॥
धृत्वा शस्त्राणि चास्त्राणि निर्ययौ युद्धलालसः ।
तत ऊचुरमात्यास्तं नमस्कृत्यासुराधिपम् ॥ ३८॥
सत्सु बलेष्वमात्येषु कथं यासि स्वयं रणम् ।
वयं तं हि हनिष्यामः प्रतापात्तव दैत्यप ॥ ३९॥
समयार्थं महत्सैन्यं पाल्यते सोऽयमागतः ।
प्राणांस्त्यक्ष्यामहे सर्वे तव हेतोर्महाप्रभो ॥ ४०॥
अनुजानीहि यास्यामो हन्तुं बालं रिपुं तव ।
सिन्दूर उवाच ।
यामि सर्वे प्रपश्यन्तु पौरुषं मम सैनिकाः ॥ ४१॥
इत्युक्त्वा प्रययो शीघ्रं बालं हन्तुं सुमत्सुकः ।
स प्राप क्षणमात्रेण यत्र बालः स्थितोऽभवत् ॥ ४२॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते सिन्दूरनिर्गमो नाम षट्त्रिंशोत्तरशततमोऽध्यायः ॥ १३६॥
आदितः श्लोकानां समष्ट्यङ्काः - १०३०८ + ४२ = १०३५०
२.१३७ वरेण्योपदेशो नाम सप्तत्रिशदधिकशततमोऽध्यायः
क उवाच ।
तं दृष्ट्वा बालकं प्राह सिन्दूरो मदगर्वितः ।
लज्जा मे जायते मन्द युध्यतो बालकेन ह ॥ १॥
याहि शीघ्रं गृहं बाल पिब मातुः स्तनं मुदा ।
वृथा मच्छरपातेन सद्यो मृत्युमुपैष्यसि ॥ २॥
पलायन्ते हि मां दृष्ट्वा केशाद्यास्त्रिदिवौकसः ।
मृते त्वयि तव स्नेहात्पितरौ ते मरिष्यतः ॥ ३॥
अतो गच्छ न मे स्वास्यं दर्शयस्व किशोरक ।
यस्य मे तलघातेन ब्रह्माण्डं शतधा भवेत् ॥ ४॥
देव उवाच ।
सत्यमुक्तं त्वया दुष्ट न चेतसि विचारितम् ।
न ज्ञातं मम सामर्थ्यं रूपं वा विविधं त्वया ॥ ५॥
यस्य मे क्रोधदृष्टयैव भ्रष्टाः स्युः सुरनायकाः ।
स्वेच्छयाऽहं सृजे भावैस्त्रिभिरेव हरामि च ॥ ६॥
विश्वं चराचरं नानारूपवांस्तु युगे युगे ।
भूमिभारं महाघोरं हरामि दुष्टनाशनात् ॥ ७॥
न लघुर्लघुतामेति पराक्रमयुतोऽपि चेत् ।
अणुमात्रो दहेद्वह्निः सकलं नगरं महत् ॥ ८॥
जिजीविषुश्चेद् गच्छ त्वं नत्वा मां निजमन्दिरम् ।
मानिनो नैव निघ्नन्ति नतं च शरणागतम् ॥ ९॥
नो चेन्मच्छस्त्रपातेन स्वर्गलोकं गमिष्यसि ।
हते त्वयि सुखं यास्ये त्वया यत्पीडितं जगत् ॥ १०॥
ब्रह्मणो वरदानेन मा गर्वं कुरु दैत्यराट् ।
विपरीतं भवेत्सर्वं विपरीतं यथा पुरा ॥ ११॥
स्तम्भेऽवतीर्णो न्यहनत् हिरण्यकशिपुं विभुः ।
सुग्रीवेण हतो बन्धू राममाश्रित्य कालतः ॥ १२॥
विपरीता मतिर्जाता तवापि कालयोगतः ।
अतिस्थूलो लघुतरो भाससे मम साम्प्रतम् ॥ १३॥
धृत्वा धैर्यं च लज्जां च युद्धं कुरु मया सह ।
क उवाच ।
एवमुक्त्वा दधाराशु विराङ्रूपं गजाननः ॥ १४॥
ब्रह्माण्डदूर्ध्वमगमन्मस्तकश्चरणौ तथा ।
पातालानि च सप्तानि भित्त्वा यातौ श्रुती दिशः ॥ १५॥
पश्यति स्म यदा दैत्यो बालं तं विश्वरूपिणम् ।
सहस्रशिरसं देवं सहस्राक्षं दिवो भुवम् ॥ १६॥
सहस्रपादं व्याप्याशु स्थितं व्याप्य दिशोदश ।
दिव्याम्बरं दिव्यगन्धं दिव्यालङ्कारभूषितम् ॥ १७॥
असङ्ख्यसूर्यसदृशमसङ्ख्यरूपिणं विभुम् ।
एवं दृष्ट्वा विराङ् रूपं च कम्पे दैत्यमानसम् ॥ १८॥
धृत्वा धैर्यं पुनर्दैत्यो ययौ देवस्य सन्निधौ ।
जगर्ज गर्जयन् व्योम दिशोऽपि विदिशोऽपि च ॥ १९॥
उद्यम्य खड्गं सहसा देवं हन्तुमियेष सः ।
ययौ तत्पुरतः क्रोधात्पतङ्गो ज्वलनं यथा ॥ २०॥
देव उवाच ।
नायं मूढो विजानीते स्वरूपं मम दुर्लभम् ।
अहमेव विमोक्ष्यामीत्युक्त्वा कण्ठे दधार तम् ॥ २१॥
ममर्द सिन्दुरं तं स कराभ्यां बलवत्तरम् ।
ततस्तदसृजाङ्गानि विलिलिम्पारुणेन सः ॥ २२॥
ततः सिन्दूरवदनः सिन्दूरप्रिय एव च ।
अभवज्जगतीख्यातो भक्तकामप्रपूरकः ॥ २३॥
सिन्दूरे निहते देवा मुदा पुष्पाण्यवाकिरन् ।
अवाद्यञ्जयवाद्यानि ननृतुश्चाप्सरोगणाः ॥ २४॥
आययुस्तत्र मुनयो वसिष्ठप्रमुखाः सुराः ।
ब्रह्माद्याः सकलाः शक्रपुरोगा वस्तुपाणयः ॥ २५॥
जयशब्दैर्नमः शब्दैः पूरयन्तो दिशो दश ।
ततः सर्वे भूमिपाला ययुस्तत्र मुदान्विताः ॥ २६॥
षोडशैरुपचारैस्तमानर्चुः परमेश्वरम् ।
गजाननं चतुर्बाहुं सर्वाभरणभूषितम् ॥ २७॥
दिव्याम्बरं दिव्यगन्धमाखुवाहनमीश्वरम् ।
प्रार्थयामासुरिन्द्राद्याः स्तोतुं त्वां न हि शक्नुमः ॥ २८॥
यत्र कुण्ठाश्चतुर्वेदा ब्रह्माद्याश्च मुनीश्वराः ।
त्वं कर्ता कारणं कार्यं रक्षकः पोषकोऽपि च ॥ २९॥
संहर्ता मोहनश्चास्य विश्वस्य ज्ञानदः क्वचित् ।
सरितः सागरा वृक्षाः पर्वताः पशवोऽखिलाः ॥ ३०॥
वायुराकाशपृथिवी वह्निर्वारि त्वमेव च ।
ब्रह्मा विष्णुः शिवः शक्रो मरुतो मुनयोऽपि च ॥ ३१॥
गन्धर्वाश्चारणाः सिद्धा यक्षराक्षसपन्नगाः ।
अप्सरकिन्नरा देव त्वमेव स चराचरम् ॥ ३२॥
वयं धन्या यतो दृष्टः प्रत्यक्षं मोक्षसाधनः ।
सिन्दूरे तु हते देव सुखं प्राप्ता सुरोत्तमाः ॥ ३३॥
राजानो मुनयो लोकाः स्वस्वकार्ये मुदा रताः ।
भविष्यन्ति स्वधास्वाहावषट्काराश्रिताः क्रियाः ॥ ३४॥
नानावतारैः कुरुषे पालनं त्वं विशेषतः ।
दुष्टानां नाशनं सद्यो भक्तानां कामपूरकः ॥ ३५॥
क उवाच ।
एवमुक्त्वा सुरास्तं तु व्यदधुः सर्व एव ते ।
प्रासादं रम्यशिखरं स्थापयित्वा गजाननम् ॥ ३६॥
यस्य दर्शनमात्रेण मुच्यते पातकाज्जनः ।
कुलानि तारयेत्सप्त स्मरणादस्य मानवः ॥ ३७॥
पूजयित्वा प्रणम्यैनं परितृप्तिं ययुः सुराः ।
ततस्तं मुनयः सर्वे पुपूजुः परमादरात् ॥ ३८॥
सिन्दूरहेति नामास्य चक्रुः सिन्दूरनाशनात् ।
अतिसन्तुष्टमनसो नत्वा जग्मुः स्वमाश्रमम् ॥ ३९॥
ततः सर्वे मुनिवरा नत्वा देवं सुभक्तितः ।
पुपूजः परमात्मानं नानाद्रव्यैरनेकशः ॥ ४०॥
राजसदनमिति ते क्षेत्रं ख्यातिमुपैष्यति ।
वरेण्यस्तं विलोक्यैव निजपुत्रमबुध्यत ॥ ४१॥
यतो राज्ञां पदान्याशु हत्वा दैत्यं सुदारुणम् ।
दत्तानि भवता नाथसिन्दूरं लोककण्टकम् ॥ ४२॥
दैत्यविमर्दन इति नाम ख्यातिमुपैष्यति ।
पुपूज तनयं स्नेहात् तदा दृष्टपराक्रमम् ॥ ४३॥
मुमोच स्नेहजं चाश्रु न शशाक प्रभाषितुम् ।
अतिगद्गदकण्ठत्वाद्रुरोद भृशदुःखितः ॥ ४४॥
वरेण्य उवाच ।
मूढभावेन सन्त्यक्तो विघ्नभीतेन पापिना ।
यं त्वां पुजयितुं याता ब्रह्मशक्रपुरोगमाः ॥ ४५॥
अनन्तकोटिब्रह्माण्डनायकं त्वां न विद्महे ।
कामधेनुं निधिं कल्पवृक्षं मूढो यथा त्यजेत् ॥ ४६॥
मायया मोहितस्तेऽहमत्यजं त्वां तथा गृहात् ।
क उवाच ।
इति तच्छुचमाकर्ण्य कृपया परमेश्वरः ॥ ४७॥
आलिलिङ्ग वरेण्यं तं चतुर्बाहुभिरादरात् ।
उवाच परया भक्त्या वरेण्यनृपतिं विभुः ॥ ४८॥
देव उवाच ।
पुराकल्पे महारण्ये तपस्तप्तं सुदारुणम् ।
उभाभ्यां पक्वपर्णानि भक्षयित्वा वटस्य ह ॥ ४९॥
दिव्यवर्षसहस्रेण प्रसन्नोऽहं तदाभवम् ॥
भवद्भ्यांहि वृतः पुत्रो न मोक्षो मूढभावतः ॥ ५०॥
सोऽहं पुत्रत्वमापन्नो भूभारहरणायच ॥
सिन्दूरस्य वधं कर्त्तुं साधूनां पालनं तथा ॥ ५१॥
अन्यथा न शरीरं मे निराकारस्य साक्षिणः ।
वचनं तु कृतं सत्यं त्रैलोक्यस्यापि तोषणम् ॥ ५२॥
यास्येऽधुना निजं धाम न त्वं शोके मनः कृथाः ।
वरेण्य उवाच ।
संसारे बहुदुःखानि दृष्टानि दुःसहानि च ॥ ५३॥
इदानीं मोक्षमार्गं मे कृपया दिश दुःखहन् ।
साक्षात्कारे कथं बन्धस्तव स्याद् द्विरदानन ॥ ५४॥
मुक्तिं येनोपदेशेन यास्यामि तद्वदस्व मे ।
योगं तं येन सन्त्यक्ष्ये कामं क्रोधं मृतेर्भयम् ॥ ५५॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यं कृपया स गजाननः ।
उपवेश्य स्वासने तं हस्तं शिरसि चादधत् ॥ ५६॥
गणेशगीतां तस्मै स उपदेष्टं प्रचक्रमे ।
निरस्य सर्वसन्देहान् विश्वरूपं प्रदर्श्य च ॥ ५७॥
गीतासारं स बुध्वैवः गणेशस्योपदेशतः ।
स्थाप्य राज्यममात्येषु तपसे वनमाययौ ॥ ५८॥
अतिवैराग्यसंयुक्तो दध्यौ तं च गजाननम् ।
आवर्तयत् सदा गीतामनन्य विषयःकृती ॥ ५९॥
यथा जलं जले क्षिप्तं जलमेव हि जायते ।
तथा तद्ध्यानतः सोऽपि तन्मयत्वमुपाययौ ॥ ६०॥
मुनिरुवाच ।
चतुरानन देवेश कृपया परया वद ॥ ४॥
गीतां तां तु गणेशस्य सर्वाऽज्ञानविनाशनीम् ॥ ६१॥
इति श्रीगणेशपुराणे क्रीडाखण्डे वरेण्योपदेशो नाम सप्तत्रिशदधिकशततमोऽध्यायः ॥ १३७॥
आदितः श्लोकानां समष्ट्यङ्काः - १०३५० + ६१ = १०४११
२.१३८ साङ्ख्ययोगसारार्थयोगोनाम प्रथमोऽध्यायः
अष्टत्रिशदधिकशततमोऽध्यायः ।
क उवाच ।
एवमेव पुरा पृष्टः शौनकेन महात्मना ।
स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् ॥ १॥
सूत उवाच ।
अष्टादशपुराणोक्तममृतं प्राशितं मया ।
ततोऽतिरसवत् पातुमिच्छाम्यमृतमुत्तमम् ॥ २॥
येनामृतमयो भूत्वा पुमान् ब्रह्मामृतं यतः ।
योगामृतं महाभाग तन्मे करुणया वद ॥ ३॥
व्यास उवाच ।
अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् ।
नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ॥ ४॥
वरेण्य उवाच ।
विघ्नेश्वर महाबाहो सर्वविद्याविशारद ।
सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि ॥ ५॥
गजानन उवाच ।
सम्यग्व्यवसिता राजन् मतिस्तेऽनुग्रहान् मम ।
शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ॥ ६॥
न योगं योगमित्याहुर्योगो योगो न च श्रियः ।
न योगो विषयैर्योगो न च मात्रादिभिस्तथा ॥ ७॥
योगो यः पितृमात्रादेर्न स योगो नराधिप ।
यो योगो बन्धुपुत्रादेर्यश्चाष्ट भूतिभिः सह ॥ ८॥
न स योगः स्त्रिया योगो जगदद्भुतरूपया ।
राज्ययोगश्च नो योगो न योगो गजवाजिभिः ॥ ९॥
योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः ।
योगो यः सत्यलोकस्य न स योगो मृतो मम ॥ १०॥
शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः ।
न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ॥ ११॥
नानिलत्वं नानलत्वं नामरत्वं न कालता ।
न वारुण्यं न नैरृत्यं योगो न सार्वभौमता ॥ १२॥
योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्तुतम् ।
भवन्ति वितृषा लोके जिताहारा विरेतसः ॥ १३॥
पानयन्त्यखिलाँन्लोकान्वशीकृतजगत्त्रयाः ।
करुणापूर्णहृदया बोधयन्ति च काँश्चन ॥ १४॥
जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि ।
निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् ॥ १५॥
ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम् ।
भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते ॥ १६॥
येन केनचिदाच्छिन्ना येन केन चिदाहताः ।
येन केन चिदाकृष्टा येन केनाचिदाश्रिताः ॥ १७॥
करुणापूर्णहृदया भ्रमन्ति धरणीतले ।
अनुग्रहाय भूतानां जितक्रोधा जितेन्द्रियाः ॥ १८॥
देहमात्रभृतो भूप समलोष्ठाश्मकाञ्चनाः ।
एतादृशा महाभागाः स्युश्चक्षुर्गोचराः प्रिय ॥ १९॥
तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् ।
श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् ॥ २०॥
शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप ।
याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम ॥ २१॥
अहमेव जगद् यस्मात्सृजामि पालयामि च ।
कृत्वा नानाविधं वेषं संहरामि स्वलीलया ॥ २२॥
अहमेव महाविष्णुरहमेव सदाशिवः ।
अहमेव महाशक्तिरहमेवार्यमा प्रिय ॥ २३॥
अहमेको नृणां नाथो जातः पञ्चविधः पुरा ।
अज्ञानान्मां न जानन्ति जगत्कारणकारणम् ॥ २४॥
मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ ।
ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश ॥ २५॥
वसवो मनवो गावो मुनयः पशवोऽपि च ।
सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि ॥ २६॥
तथैकविंशतिस्वर्गा नागाः सप्तवनानि च ।
मनुष्याः पर्वताःसाध्याः सिद्धा रक्षोगणास्तथा ॥ २७॥
अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः ।
अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः ॥ २८॥
अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप ।
मोयत्यखिलान् माया श्रेष्ठान्मम नरानमून् ॥ २९॥
सर्वदा षड्विकारेषु तानियं योजयेद्भृशम् ।
हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः ॥ ३०॥
विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः ।
अच्छेद्यं शस्त्रसङघातैरदाह्यमनलेन च ॥ ३१॥
अक्लेद्यं भूपभुवनैरशोष्यं मारुतेन च । (अक्लेद्यं पञ्च पवनैरशोष्यं)
अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ॥ ३२॥
यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् ।
त्रयीवादरता मूढास्ततोऽन्यन्मन्वतोऽपि न ॥ ३३॥
कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् ।
स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ॥ ३४॥
सम्पादयन्ति ते भूयः स्वात्मना निजबन्धनम् ।
संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः ॥ ३५॥
यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् ।
ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ॥ ३६॥
चित्तशुद्धिश्च महती विज्ञानसाधका भवेत् ।
विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः ॥ ३७॥
तस्मात् कर्माणि कुर्वीत बुद्धियुक्तो नराधिप ।
नत्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ॥ ३८॥
जहाति यदि कर्माणि ततः सिद्धिं न विन्दति ।
आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ॥ ३९॥
कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति ।
स च योगः समाख्यातोऽमृतत्वाय हि कल्पते ॥ ४०॥
योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् ।
पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ॥ ४१॥
बहिर्दृष्टया च समया हृत्स्थया लोकयेत्पुमान् ।
सुखे दुःखे तथामर्षे हर्षे भीतौ समो भवेत् ॥ ४२॥
रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च ।
श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ॥ ४३॥
समो मां वस्तुजातेषु पश्यन्नन्तर्बहिः स्थितम् ।
सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथाऽनिले ॥ ४४॥
द्विजे हृदि महानद्यां तीर्थ क्षेत्रेऽघनाशिनि ।
विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ॥ ४५॥
गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च ।
सततं मां हि यः पश्येत् सोऽयं योगविदुच्यते ॥ ४६॥
सम्परीहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः ।
सर्वत्र समताबुद्धिः स योगो भूप मे मतः ॥ ४७॥
आत्मनात्मविवेकेन या बुद्धिर्दैवयोगतः ।
स्वधर्मासक्तचित्तस्य तद् योगो योग उच्यते ॥ ४८॥
धर्माधर्मौ जहातीह तया त्यक्त उभावपि ।
अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ॥ ४९॥
धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्दियः ।
जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् ॥ ५०॥
यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति ।
तदाऽसौ याति वैराग्यं वेदवाक्यादिषु क्रमात ॥ ५१॥
त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा ।
परात्मन्यचला बुद्धिस्तदा स योगमाप्नुयात् ॥ ५२॥
मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय ।
स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते ॥ ५३॥
वितृष्णाः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे ।
गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ॥ ५४॥
यथाऽयं कमठोऽङगानि सङ्कोचयति सर्वतः ।
विषयेभ्यस्तथा खानि सङ्कर्षेद्योगतत्परः ॥ ५५॥
व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः ।
विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ॥ ५६॥
विपश्चिद् यतते भूप स्थितिमास्थाय योगिनः ।
मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ॥ ५७॥
युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत् ।
संयतानीन्द्रियाणीह यस्य स कृतधीर्मतः ॥ ५८॥
सञ्चिन्तयतो विषयान्सङ्गस्तेषूपजायते ।
कामःसञ्जायते तस्मात्ततः क्रोधोऽभिवर्द्धते ॥ ५९॥
क्रोधादज्ञानसम्भूतिर्विभ्रमस्तु ततः स्मृतेः ।
भ्रंशात्स्मृतेर्मतेर्ध्वं सस्तद्ध्वंसात् सोऽपि नश्यति ॥ ६०॥
विना द्वेषं च रागं च गोचरान् यस्तु खैश्चरेत् ।
स्वाधीनहृदयो वश्यैः सन्तोषं स समृच्छति ॥ ६१॥
त्रिविधस्यापि दुःखस्य सन्तोषे क्षेपणं भवेत् ।
प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ॥ ६२॥
विना प्रसादं न मतिर्विना मत्या न भावना ।
विना तां न शमो भूप विना तेन कुतः सुखम् ॥ ६३॥
इन्द्रियाश्वान् विचरतो विषयाननुवर्तते ।
यन्मनस्तन्मतिं हन्यादप्सुनावं मरुद्यथा ॥ ६४॥ (हन्यादश्वो नावं)
या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः ।
न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ॥ ६५॥
सरितां पतिमायान्ति वनानि सर्वतो यथा ।
आयान्ति तं तथा कामाः स नाशान्तिं क्वचिल्लभेत् ॥ ६६॥ (स न शान्तिं सदा लभेत्)
अतस्तानीह संरुद्ध्य सर्वतः खानि मानवः ।
स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरातथा ॥ ६७॥
ममताऽहङ्कृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् ।
नित्यं ज्ञानरतो भूयात् ज्ञानान्मुक्तिं प्रयास्यति ॥ ६८॥
एनां ब्रह्मधियं भूप यो विजानाति दैवतः ।
तुरीयावस्थां प्राप्यापि शीलान्मुक्तिं स ऋच्छति ॥ ६९॥ (शीलान्मुक्तिं प्रयास्यसि)
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदार्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे साङ्ख्ययोगसारार्थयोगोनाम प्रथमोऽध्यायः ॥ १॥
इति श्रीगणेशपुराणे क्रीडाखण्डे साङ्ख्ययोगसारार्थयोगोनाम अष्टत्रिशदधिकशततमोऽध्यायः ॥ १३८॥
आदितः श्लोकानां समष्ट्यङ्काः - १०४११ + ६९ = १०४८०
२.१३९ कर्मयोगोनाम द्वितीयोऽध्यायः २ नवत्रिशदधिकशततमोऽध्यायः
वरेण्य उवाच ।
ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो ।
अवधार्य वदैकं मे निश्रेयसकरं नु किम् ॥ १॥
गजानन उवाच ।
अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।
साङ्ख्यानां बुद्धियोगेन वैधयोगेन कर्मणाम् ॥ २॥
अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।
न सिद्धिं याति सन्त्यागात् केवलात् कर्मजान्नृप ॥ ३॥
कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।
अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ॥ ४॥
कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन् पुमान् ।
तद्गोचरान्मन्दचित्तो धिगाचारः स भण्यते ॥ ५॥
तद्ग्रामं सन्नियम्यादौ मनसा कर्म चारभेत् ।
इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ॥ ६॥
अकर्मणः श्रेष्ठतमं कर्मानीच्छाकृतं तु यत् ।
वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ॥ ७॥
असमर्प्य निबध्यन्ते कर्म तेन जना मयि ।
कुर्वीत सततं कर्माऽनाषङ्गो हि मदर्पणम् ॥ ८॥
मदर्थं यानि कर्माणि तानि बध्नन्ति न क्वचित् ।
सवासनमिदं कर्म बध्नाति देहिनं बलात् ॥ ९॥
वर्णान्सृष्ट्वाऽवदं चाहं सयज्ञांस्तान्पुरा प्रिय ।
यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् ॥ १०॥
सुरांश्चानेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः ।
लभध्वं परमं स्थानमन्योन्यप्रीणनात् स्थिरम् ॥ ११॥
इष्टा देवाः प्रदास्यन्ति भोगानिष्टान् सुतर्पिताः ।
तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः ॥ १२॥
हुतावशिष्टभोक्तारो मुक्ताःस्युः सर्वपातकैः ।
अदन्त्येनो महापापा आत्महेतोः पचन्ति ये ॥ १३॥
उर्जो भवन्ति भूतानि देवादन्नस्य सम्भवः ।
यज्ञाच्च देवसम्भूतिस्तदुत्पत्तिश्च वैधतः ॥ १४॥
ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः ।
अतो यज्ञे च विश्वस्मिन्स्थितं मां विद्धि भूमिप ॥ १५॥
संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।
स मुदा प्राणिति भूपेन्द्रियक्रीडोऽधमो जनः ॥ १६॥ (मुदा प्रीण ते)
अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।
आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते ॥ १७॥
कार्याकार्यकृतीनां स नैवाप्नोति शभाशुभे ।
किञ्चिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा ॥ १८॥
अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः ।
सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः ॥ १९॥
परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः ।
सङ्ग्रहाय हि लोकानां तादृशं कर्म चारभेत् ॥ २०॥
श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः ।
मनुते यत्प्रमाणं स तदेवानुसरत्यसौ ॥ २१॥
विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप ।
अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् ॥ २२॥
न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः ।
करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते ॥ २३॥
भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः ।
हन्ता स्यामस्य लोकस्य विधाता सङ्करस्य च ॥ २४॥
कामिनो हि सदा कामैरज्ञानात् कर्मकारिणः ।
लोकानां सङ्ग्रहायैतद्विद्वान्कुर्यादसक्तधीः ॥ २५॥
विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् ।
योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत् ॥ २६॥
अविद्यागुणसाचिव्यात् कुर्वन्कर्माण्यतन्द्रितः ।
अहङ्कारान्मन्दबुद्धिरहं कर्तेति योऽब्रवीत् ॥ २७॥
यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद् गुणकर्मणोः ।
करणं विषये वृत्तमिति मत्वा न सज्जते ॥ २८॥
कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः ।
अविश्वज्ञाः स्वात्मद्रुहो विश्वविन्नैव लङघयेत् ॥ २९॥
नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद् द्बुधः ।
त्यक्त्वाऽहं ममताबुद्धिं परां गतिमवाप्नुयात् ॥ ३०॥
अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् ।
अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ॥ ३१॥
ये चैव नानुतिष्ठन्ति अशुभा हतचेतसः ।
ईर्ष्यमाणान् महामूढान्नष्टांस्तान्विद्धि मे रिपून् ॥ ३२॥
तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।
अनुयाति च तामेवग्रहस्तत्र मुधा मतः ॥ ३३॥
कामश्चैव तथा क्रोधः खानामर्थेषु जायते ।
नैतयोर्वश्यतां यायादस्य विध्वंसकौ यतः ॥ ३४॥
शस्तोऽगुणो निजो धर्मः साङ्गादन्यस्य धर्मतः ।
निजे तस्मिन्मृतिः श्रेयो परत्र भयदः परः ॥ ३५॥
वरेण्य उवाच ।
पुमान् यत् कुरुते पापं सहि केन नियुज्यते ।
अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ॥ ३६॥
श्रीगजानन उवाच ।
कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ ।
नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ ॥ ३७॥
आवृणोति यथा माया जगद्बाष्पो जलं यथा ।
वर्षामेघो यथा भानुं तद्वत् कामोऽखिलांश्च रुट् ॥ ३८॥
प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा ।
इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा ॥ ३९॥
आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति ।
तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ॥ ४०॥
तस्मानियम्य तान्यादौ स मनांसि नरो जयेत् ।
ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ॥ ४१॥
यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः ।
ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ॥ ४२॥
बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना ।
हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ॥ ४३॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``कर्मयोगो'' नाम द्वितीयोऽध्यायः ॥ २॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कर्मयोगोनाम नवत्रिशदधिकशततमोऽध्यायः ॥ १३९॥
आदितः श्लोकानां समष्ट्यङ्काः - १०४८० + ४३ = १०५२३
२.१४० ब्रह्मार्पणयोगोनाम तृतीयोऽध्यायः ३ चत्वारिंशादधिकशततमोऽध्यायः
श्रीगजानन उवाच ।
पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरहम् ।
निर्माय चैनमवदं विष्णवे योगमुत्तमम् ॥ १॥
अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरेनं महर्षयः ॥ २॥
कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।
अश्रद्धयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ॥ ३॥
एनं पुराभवं योगं श्रुतवानसि मन्मुखात् ।
गुह्याद्गुह्यतमं वेदहरस्यं परमं शुभम् ॥ ४॥
वरेण्य उवाच ।
साम्प्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।
प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ॥ ५॥
श्रीगजानन उवाच ।
अनेकानि च ते जन्मान्यतीतानि ममापि च ।
संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ॥ ६॥
मत्त एव महाबाहो जाताविष्णवादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥ ७॥
अहमेव परो ब्रह्मा महारुद्रोऽहमेव च ।
अहमेव जगत्सर्वं स्थावरं जङ्गमं च यत् ॥ ८॥
अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥ ९॥
अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून्संरक्षितुं दुष्टांस्ताडितु सम्भवाम्यहम् ॥ १०॥
उच्छिद्याधर्म निचयं धर्मं संस्थापयाम्यहम् ।
हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ॥ ११॥
वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् ।
एवं यो वेत्ति सम्भूतीं मम दिव्यां युगे युगे ॥ १२॥
तत्तत्कर्म च वीर्यं च मम रूपं समासतः ।
त्यक्त्वाहं ममताबुद्धिं न पुनर्भूः स जायते ॥ १३॥
निरीहा निर्भयारोषा मत्परा मद्यपाश्रयाः ।
विज्ञान तपसा शुद्धा अनेके मामुपागताः ॥ १४॥
येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥ १५॥
जनाः स्युरितरे राजन् मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥ १६॥
कुर्वन्ति देवताप्रीतिं वाञ्छन्तं कर्मणां फलम् ।
प्राप्नुवन्तीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् ॥ १७॥
चत्वारो हि मया वर्णा रजःसत्त्वतमोंऽशतः ।
कर्मां शतश्च संसृष्टा मृत्युलोके मया नृप ॥ १८॥
कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः ।
अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥ १९॥
निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् ।
चक्रुः कर्माणि बुद्ध्वैवं पूर्वं पूर्वं मुमुक्षवः ॥ २०॥
वासनासहितादाद्यात् संसारकारणाद् दृढात् ।
अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् ॥ २१॥
तदकर्म च कर्मापि कथयाम्यधुना तव ।
यत्र मौनं गता मोहात् ऋषयो बुद्धिशालिनः ॥ २२॥
तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि सुनिम्नैषां गतिप्रिय ॥ २३॥
क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्यस्यात्सहि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थकृत् ॥ २४॥
कर्माङ्कुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥ २५॥
फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः ।
उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः ॥ २६॥
निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वै गृहं कर्माचरन्नायाति पातकम् ॥ २७॥
अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः ।
यथाप्राप्त्येह सन्तुष्टः कुर्वन् कर्म न बध्यते ॥ २८॥
अखिलैविषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते ॥ २९॥
अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः ॥ ३०॥
योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ॥
ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ॥ ३१॥
संयमाग्नौ परेभूप इन्द्रियाण्युपजुह्वति ॥
खाग्निष्वन्ये तद्विषयान् शब्दादीनुपजुव्हति ॥ ३२॥
प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः ।
निजात्मरसिरूपेऽग्नौ ज्ञानदीप्ते प्रजुव्हति ॥ ३३॥
द्रव्येण तपसा वापि स्वाध्याये नापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥ ३४॥
प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्ध्वा गतीश्चोभयोस्ते प्राणायामपरायणाः ॥ ३५॥
जित्वा प्राणान् प्राणगतीरूपजुव्हति तेषु च ।
एवं नाना यज्ञरता यज्ञध्वंसितपातकाः ॥ ३६॥
नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः । (यज्ञाशेषामृताशिनः)
अयज्ञकारिणो लोकोनायमन्यः कुतो भवेत् ॥ ३७॥
कायिकादित्रिधाभूतान् यज्ञान् वेदे प्रतिष्ठितान् ।
ज्ञात्वा तानखिलान् भूप मोक्ष्यसेऽखिलबन्धनात् ॥ ३८॥
सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ॥ ३९॥
तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् ।
शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः ॥ ४०॥
नानासङ्गान् जनः कुर्वन्नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः ॥ ४१॥
सत्सङ्गाद्गुणसम्भूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिहलोके परत्र च ॥ ४२॥
इतरत्सुलभं राजन् सत्सङ्गोऽतीवदुर्लभः ।
यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं ततस्ततः ॥ ४३॥
ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते ॥ ४४॥
विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ॥ ४५॥
न ज्ञान समतामेति पवित्रमितरन्नृप ।
आत्मन्येवावगच्छन्ति योगात् कालेन योगिनः ॥ ४६॥
भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् ।
लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ॥ ४७॥
भक्तिहीनोऽश्रद्दधानः सर्वत्रसंशयी तु यः ।
तस्य शं नापि विज्ञातमिह लोके न चापरे ॥ ४८॥
आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् ।
योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ॥ ४९॥
ज्ञानखड्गप्रहारेण सम्भूतामज्ञतां बलात् ।
छित्त्वाऽन्तःसंशयं तस्माद् योगयुक्तो भवेन्नरः ॥ ५०॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ब्रह्मार्पणयोगोनाम तृतीयोऽध्यायः ॥ ३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे ब्रह्मार्पणयोगोनाम चत्वारिंशादधिकशततमोऽध्यायः ॥ १४०॥
आदितः श्लोकानां समष्ट्यङ्काः - १०५२३ + ५० = १०५७३
२.१४१ ``कर्मसंन्यास''योगोनाम चतुर्थोऽध्यायः
४ एकचत्वारिंशादधिकशततमोऽध्यायः ।
वरेण्य उवाच ।
संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया ।
उभयोर्निश्चितं त्वेकं श्रेयो यद् वद मे प्रभो ॥ १॥
श्रीगजानन उवाच ।
क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने ।
तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥ २॥
द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किञ्चन ।
मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान् सुखम् ॥ ३॥
वदन्ति भिन्नफलकौ कर्मणस्त्यागसङ्ग्रहौ ।
मूढाल्पज्ञानतश्चैकं संयुञ्जीत विचक्षणः ॥ ४॥ (मूढाल्पज्ञानस्तयोरेकं)
यदेव प्राप्यते त्यागात्तदेव योगतः फलम् ।
सङ्ग्रहं कर्मणो योगं यो विन्दति स विन्दति ॥ ५॥
केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।
कुर्वन्ननिच्छया कर्मयोगी ब्रह्मैव जायते ॥ ६॥
निर्मलो यतचित्तात्मा जितखो योगतत्परः ।
आत्मानं सर्वभूतस्थं पश्यन् कुर्वन् न लिप्यते ॥ ७॥
तत्त्वविद् योगयुक्तात्मा करोमीति न मन्यते ।
एकादशानीन्द्रियाणि कुर्वन्ति कर्मसङ्ख्यया ॥ ८॥
तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः ।
न लिप्यते पुण्यपापैरभ्रैर्भानुर्यथाभ्रगः ॥ ९॥
कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा ।
त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये ॥ १०॥
योगहीनो नरः कर्म फलेहया करोत्यलम् ।
बद्ध्यते कर्मबीजैः स ततो दुःखं समश्नुते ॥ ११॥
मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् ।
न कुर्वन् कारयन् वापि नन्दन् स्वभ्रे सुपत्तने ॥ १२॥
न क्रिया न च कर्तृत्वं कस्यचित्सृज्यते मया ।
न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम् ॥ १३॥
कस्यचित् पुण्यपापानि न स्पृशामि विभुर्नृप ।
ज्ञानमूढा विमुह्यन्ति मोहेनावृतबुद्धयः ॥ १४॥
विवेकेनात्मनो ज्ञानं येषां नाशितमात्मना ।
तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥ १५॥
मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः ।
अपुनर्भवमायान्ति विज्ञाननाशितैनसः ॥ १६॥
ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु ।
समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि ॥ १७॥
वश्यःस्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।
यतोऽदोषं ब्रह्मसमं तस्मात् तैर्विषयीकृतम् ॥ १८॥ (तैस्तद्वशीकृतम्)
प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।
ब्रह्माश्रिता असम्मूढा ब्रह्मज्ञाः समबुद्धयः ॥ १९॥
वरेण्य उवाच ।
किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।
भगवन्कृपया तन्मे वद विद्याविशारद ॥ २०॥
गणेश उवाच ।
आनन्दमश्नुते सक्तः स्वात्मारामो निजात्मनि ॥ २०॥
अविनाशि सुखं तद्धि न सुखं विषयादिषु ॥
विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः ॥ २१॥
उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ॥
कारणे सति कामस्य क्रोधस्य सहते च यः ॥ २२॥
तौ जेतुं वर्ष्मविरहात् स सुखं चिरमश्नुते ॥
अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तोरतिर्लभेत् ॥ २३॥
असन्दिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥
जेतारः षड् रिपूणां ये शमिनो दमिनस्तथा ॥ २४॥
तेषां समं ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥
आसनेषु समासीनस्त्यक्त्वेमान् विषयान्बहिः ॥ २५॥
संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥
प्राणायामं तु संरोधं प्राणापानसमुद्भवम् ॥ २६॥
वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ॥
प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम् ॥ २७॥
दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुःस्मृतः ॥
चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः ॥ २८॥
षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥
सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा ॥ २९॥
नयन्ति प्राणिनस्तद्वत् प्राणापानौ सुसाधयेत् ॥
पीडयन्ति मृगांस्ते न लोकान् वश्यं गता नृप ॥ ३०॥
दहत्येनस्तथा वायः संस्तब्धो न च तत्तनुम् ॥
यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् ॥ ३१॥
तथा तथा वशीकुर्यात् प्राणापानौ हि योगवित् ॥
पूरकं कुम्भकं चैव रेचकं च ततोभ्यसेत् ॥ ३२॥
अतीतानागतज्ञानी ततः स्याज्जगतीतले ॥
प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता ॥ ३३॥
योगस्तु धारणे द्वे स्याद् योगीशस्ते सदाऽभ्यसेत् ॥
एवं यः कुरुते राजं त्रिकालज्ञः स जायते ॥ ३४॥
अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ॥
ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि ॥ ३५॥
एवं योगश्च संन्यासः समानफलदायिनौ ॥
जन्तूनां हितकर्तारं कर्मणां फलदायिनम् ॥ ३६॥
मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥ ३७॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``कर्मसंन्यास''योगोनाम चतुर्थोऽध्यायः ॥ ४॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कर्मसंन्यासयोगोनाम एकचत्वारिंशादधिकशततमोऽध्यायः ॥ १४१॥
आदितः श्लोकानां समष्ट्यङ्काः - १०५७३ + ३७ = १०६१०
२.१४२ योगावृत्ति प्रशंसनायोगोनाम पञ्चमोऽध्याय
५ द्वेचत्वारिंशादधिकशततमोऽध्यायः ।
श्री गजानन उवाच ।
श्रौतस्मार्त्तानि कर्माणि फलं नेच्छन् समाचरेत् ।
शस्तः स योगी राजेन्द्र अक्रियाद् योगमाश्रितात् ॥ १॥
योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् ।
सिद्धयोगस्य संसिद्ध्यै हेतू शमदमौ मतौ ॥ २॥
इन्द्रियार्थांश्च सङ्कल्प्य कुर्वन्स्वस्य रिपुर्भवेत् ।
एताननिच्छन् यः कुर्वन् सिद्धिं योगी स सिद्ध्यति ॥ ३॥
सुहृत्त्वे च रिपुत्वे च उद्धारे चैव बन्धने ।
आत्मनैवात्मनो ह्यात्माऽनात्मा भवति कश्चन ॥ ४॥
मानेऽपमाने दुःखे च सुखे सुहृदि साधुषु ।
मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने ॥ ५॥
समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः ।
अभ्यसेत्सततं योगं तदा युक्ततमो हि सः ॥ ६॥
तप्तः श्रान्तो व्याकुलो वा क्षुधितोऽव्यग्रचित्तकः ।
कालेऽनिशीतेऽत्युष्णे वाऽनिलाग्न्यम्बुसमाकुले ॥ ७॥
सध्वनावतिजीर्णे गोस्थाने साग्नौ जलान्तिके ।
कूपकूले श्मशाने च नद्यां भिन्नौ च मर्मरे ॥ ८॥
चैत्ये सवल्मिके देशे पिशाचादिसमावृते ।
नाभ्यसेद् योगविद्योगं योगीध्यानपरायणः ॥ ९॥
स्मृतिलोपश्च मूकत्वं बाधिर्यमन्धता ज्वरः ।
जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः ॥ १०॥
एते दोषाः परित्याज्या योगाभ्यासेनशालिना ।
अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ॥ ११॥
नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः ।
नातिजाग्रत सिद्धिमेति भूप योगं सदाऽभ्यसन् ॥ १२॥
सङ्कल्पजांस्त्यजेत्कामान् नियताहारजागरः ।
नियम्य खगणं बुद्धया विरमेत शनैः शनैः ॥ १३॥
ततस्ततः कृषदेतद् यत्र यत्रानुगच्छति ।
धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः ॥ १४॥
एवं कुर्वन् सदा योगी परां निर्वृतिमृच्छति ।
विश्वस्मिन् निजमात्मानं विश्वं च स्वात्मनीक्षते ॥ १५॥
योगेन यो मामुपैति तमुपैम्यहमादरात् ।
मोचयामि न मुञ्चामि तमहं मां न स त्यजेत् ॥ १६॥
सुखेदुःखेतरेद्वेषे क्षुधि तोषे समस्तृषि ।
आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ॥ १७॥
जीवन्मुक्तः स योगीन्द्रः केवलं मयि सङ्गतः ।
ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्त्रये ॥ १८॥
वरेण्य उवाच ।
द्विविधोऽपि हि योगोऽयमसम्भाव्यो हि मे मतः ।
यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ॥ १९॥
श्री गजानन उवाच ।
यो निग्रहं दुर्ग्रहस्य मनसा सम्प्रकल्पयेत् ।
घटीयन्त्रसमादस्मान्मुक्तिः संसृतिचक्रकात् ॥ २०॥
विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् ।
जनश्छेत्तुं न शक्नोति कर्मकीलैः सुसंवृतम् ॥ २१॥
अतिदुःखं च वैराग्यं भोगाद् वैतृष्ण्यमेव च ।
गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी ॥ २२॥
अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये ।
वरेण्य दुर्लभो योगो विनाऽस्य मनसो जयात् ॥ २३॥
वरेण्य उवाच ।
योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् ।
विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् ॥ २४॥
श्री गजानन उवाच ।
दिव्यदेहधरो योगात् भ्रष्टः स्वर्भोगमुत्तमम् ।
भुक्त्वा योगिकुले जन्म लभेद् बुद्धिमतां कुले ॥ २५॥
पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात् ।
न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते ॥ २६॥
ज्ञाननिष्ठः तपोनिष्ठः कर्मनिष्ठो नराधिप ।
श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः ॥ २७॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे योगावृत्ति प्रशंसनयोगोनाम पञ्चमोऽध्याय ॥ ५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे प्रशंसनयोगोनाम द्वेचत्वारिंशादधिकशततमोऽध्यायः ॥ १४२॥
आदितः श्लोकानां समष्ट्यङ्काः - १०६१० + २७ = १०६३७
२.१४३ ``बुद्धियोगो'' नाम षष्टोऽध्यायः
६ त्रिचत्वारिंशादधिकशततमोऽध्यायः ।
गजानन उवाच ।
ईदृशं विद्धि मे तत्त्वं मद्गतेनाऽन्तरात्मना ।
यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् ॥ १॥
तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया ।
अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप ॥ २॥
ज्ञेया मत्प्रकृतिः पूर्वं ततः स्याज्ज्ञानगोचरः ।
ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत् ॥ ३॥
क्वनलौ खमहङ्कारः कं चित्तं धीः समीरणः ।
रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ॥ ४॥
अन्यां मत्प्रकृतिं वृद्धां मुनयः सङ्गिरन्ति च ।
तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयाऽनया ॥ ५॥
आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् ।
सङ्गाद्विश्वस्य सम्भूतिः परित्राणं लयोऽप्यहम् ॥ ६॥
तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि ।
वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा ॥ ७॥
साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च ।
मत्तोऽन्यन्नेक्षते किञ्चिन्मयि सर्वं च वीक्षते ॥ ८॥
क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु ।
प्रभारूपेण पुष्ण्यब्जे रसरूपेण चाप्सु च ॥ ९॥
धीरूपो बलिनां चाहं धीस्तपो बलमेव च ।
त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ॥ १०॥
न मां विन्दन्ति पापीयान् मायामोहितचेतसः ।
त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ॥ ११॥
यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् ।
अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः ॥ १२॥
अन्ये नानाविधान् देवान्भजन्ते तान् व्रजन्ति ते ।
यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ॥ १३॥
तथा तथाऽस्य तं भावं पूरयाम्यहमेव तम् ।
अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते ॥ १४॥
अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः ।
नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ॥ १५॥
यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः ।
स यात्यपुनरावृतिं प्रसादान्मम भूभुज ॥ १६॥
यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् ।
तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप ॥ १७॥
अतश्चाहर्निशं भूप स्मर्त्तव्योऽनेकरूपवान् ।
सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा ॥ १८॥
ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् ।
यो मामुपैत्यसन्दिग्धः पतनं तस्य न क्वचित् ॥ १९॥
अनन्यशरणो यो मां भक्त्या भजति भूमिप ।
योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ॥ २२॥
द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा तथा नृप ।
एकया परमं ब्रह्म परया याति संसृतिम् ॥ २१॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजानवरेण्यसंवादे ``बुद्धियोगो'' नाम षष्टोऽध्यायः ॥ ६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बुद्धियोगोनाम त्रिचत्वारिंशादधिकशततमोऽध्यायः ॥ १४३॥
आदितः श्लोकानां समष्ट्यङ्काः - १०६३७ + २१ = १०६५८
२.१४४ ``उपासना योगो'' नाम सप्तमोऽध्याय
७ चतुर्थोचत्वारिंशादधिकशततमोऽध्यायः ।
वरेण्य उवाच ।
का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन ।
किं ब्रह्मसंसृतिः का मे वक्तुमर्हस्यनुग्रहात् ॥ १॥
गजानन उवाच ।
अग्निर्ज्योतिरहः शुक्लकर्मार्हमयनं गतिः ।
चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् ॥ २॥
कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती ।
दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ॥ ३॥
क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् ।
उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ॥ ४॥
अनेकजन्मसम्भूतिः संसृतिः परिकीर्तिता ।
संसृतिः प्राप्नुवन्त्येते ये तु मां गणयन्ति न ॥ ५॥
ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते ।
ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः ॥ ६॥
स्नानवस्त्राद्यलङ्कारसुगन्धधूपदीपकैः ।
नैवेद्यैः फलताम्बूलैर्दक्षिणाभिश्च योऽर्चयेत् ॥ ७॥
भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् ।
एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्पयेत् ॥ ८॥
अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा ।
अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ।
पूजयेन्मां प्रयत्नेन तत्तदिष्टफलं लभेत् ॥ ९॥
त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ।
साप्युत्तमा मता पूजाऽनिच्छया या कृता मम् ॥ १०॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ।
एकां पूजां प्रकुर्वाणोप्यन्यो वा सिद्धिमृच्छति ॥ ११॥
मदन्यं देवं यो भक्त्या द्विषन्मामन्यदेवताम् ।
सोऽपि मामेव यजते परं त्वविधितो नृप ॥ १२॥
यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ।
याति कल्पसहस्रं स निरयान्दुःखभाक् सदा ॥ १३॥
भूतशुद्धिं विधायादौ प्राणानां स्थापनं तथा ।
आकृष्य चेतसो वृत्तिं ततो न्यासमुपक्रमेत् ॥ १४॥
कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ।
न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् ॥ १५॥
स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखोद्गतम् ।
जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा ॥ १६॥
एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ।
य उपासनया हीनो धिङनरो व्यर्थजन्मभाक् ॥ १७॥
यज्ञोऽहमौषधं मन्त्रोऽग्नि राज्यं च हविर्हुतम् ।
ध्यानं ध्येयः स्तुतिः स्तोत्रं नतिर्भक्तिरुपासना ॥ १८॥
त्रयी ज्ञेयं पवित्रं च पिताच प्रपितामहः ।
ओङ्कारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः ॥ १९॥
उत्पत्तिः पोषको बीजं शरणं वास एव च ।
असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च ॥ २०॥
दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ।
यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत् ॥ २१॥
योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ।
मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः ॥ २२॥
न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ।
प्रभवं मे विभूतीश्च न देवा ऋषयो विदुः ॥ २३॥
नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ।
यद्यच्छ्रेष्ठतमं लोके सा विभूतिर्निबोध मे ॥ २४॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``उपासनायोगो'' नाम सप्तमोऽध्याय ॥ ७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे उपासनायोगोनाम चतुर्थोचत्वारिंशादधिकशततमोऽध्यायः ॥ १४४॥
आदितः श्लोकानां समष्ट्यङ्काः - १०६८५ + २४ = १०६८२
२.१४५ ``विश्वरूपदर्शनन्नाम'' अष्टमोऽध्यायः
८ पञ्चचत्वारिंशादधिकशततमोऽध्यायः ।
वरेण्य उवाच ।
भगवन्नारदो मह्यं तव नानाविभूतयः ।
उक्तवांस्ता अहं वेद न सर्वाःसोऽपि वेत्ति ताः ॥ १॥
त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन ॥
निजं रूपमिदानीं मे व्यापकं चारु दर्शय ॥ २॥
श्री गजानन उवाच ॥
एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् ॥
नानाश्चर्याणि दिव्यानि पुरा दृष्टानि केनचित् ॥ ३॥
ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः ॥
चर्मचक्षुःकथं पश्येन्मां विभुमजमव्ययम् ॥ ४॥
व्यास उवाच ।
ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत ।
ईशितुः परमं रूपं गजास्यस्य महाद्भुतम् ॥ ५॥
असङ्ख्यवक्त्रं ललितमसङ्ख्याङ्घ्रिकरं महत् ।
अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् ॥ ६॥
असङ्ख्यनयनं कोटिसूर्यरश्मिधृतायुधम् ।
तद्वर्ष्मणि त्रयो लोका दृष्टास्तेन पृथग्विधाः ॥ ७॥
दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोऽब्रवीत् ।
वरेण्य उवाच ।
वीक्षेऽहं तव देहेऽस्मिन् देवानृषिगणान्पितॄन् ॥
पातालानां समुद्राणां द्वीपानां चैव भूभृताम् ॥ ८॥
महर्षीणां सप्तकं च नानार्थैः सङ्कुलं विभो ॥
भुवोऽन्नरिक्षं स्वर्गांश्च मनुष्योरगराक्षसान् ॥ ९॥
ब्रह्मविष्णुमहेशेन्द्रान् देवान् जन्तूननेकधा ॥
अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम् ॥ १०॥
प्रदीप्तानलसङ्काशमप्रमेयं पुरातनम् ॥
किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् ॥ ११॥
एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् ॥
सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः ॥ १२॥
नृत्यद्भिरप्सरोभिश्च गन्धवैर्गानतत्परैः ॥
वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः ॥ १३॥
सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः ।
वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् ॥ १४॥
पातालानि दिशः स्वर्गान् भुवं व्याप्याखिलं स्थितम् ॥
भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम् ॥ १५॥
नाना दंष्ट्राकरालं च नानाविद्याविशारदम् ॥
प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् ॥
दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम् ॥ १६॥
देवा मनुष्या नागाद्याःखलास्त्वदुदरेशयाः ॥
नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च ॥ १७॥
अब्धेरुत्पद्यमानास्ते यथा जीमूतबिन्दवः ॥
त्वमिन्द्रोऽग्निर्यमश्चैव निरृतिर्वरुणो मरुत् ॥ १८॥
गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् ॥
नमामि त्वामतः स्वामिन्प्रसादं कुरु मे धुना ॥ १९॥
दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् ।
को वेद लीलास्ते भूमन् क्रियमाणा निजेच्छया ॥ २०॥
अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् ।
ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम ॥ २१॥
श्रीगजानन उवाच ।
नेदं रूपं महाबाहो मम पश्यन्ति योगिनः ।
सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् ॥ २३॥
चतुर्वेदार्थतत्त्वज्ञाश्चतुःशास्त्रविशारदाः ।
यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते ॥ २४॥
शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः ।
त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् ॥ २५॥
मद्भक्तो मत्परः सर्वसङ्गहीनो मदर्थकृत् ।
निष्क्रोधः सर्वभूतेषु समो मामेति भुभूज ॥ २६॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``विश्वरूपदर्शनं नाम'' अष्टमोऽध्यायः ॥ ८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम पञ्चचत्वारिंशादधिकशततमोऽध्यायः ॥ १४५॥
आदितः श्लोकानां समष्ट्यङ्काः - १०६८२ + २६ = १०७०८
२.१४६ ``क्षेत्रक्षेत्रज्ञविवेकयोगो'' नाम नवमोऽध्यायः
९ षट्चत्वारिंशादधिकशततमोऽध्यायः ।
वरेण्य उवाच ।
अनन्यभावस्त्वां सम्यक् मूर्तिमन्तमुपासते ।
योऽक्षरं परम व्यक्तं तयोः कस्ते मतोऽधिकः ॥ १॥
असि त्वं सर्ववित् साक्षी भूतभावन ईश्वरः ।
अतस्त्वां परिपृच्छामि वद मे कृपया विभो ॥ २॥
श्रीगजानन उवाच ।
यो मां मूर्तिन्धरं भक्त्या मद्भक्तः परिसेवते ।
स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ॥ ३॥
खगणं स्ववशं कृत्वाऽखिलभूतहितार्थकृत् ।
ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम् ॥ ४॥
सोऽपि मामेत्य निर्देश्यं मत्परो य उपासते ।
संसारसागरादस्मादुद्धरामि तमप्यहम् ॥ ५॥
अव्यक्तोपासनादुःखमधिकं तेन लभ्यते ।
व्यक्तस्योपासनासाध्यं तदेवाव्यक्तभक्तितः ॥ ६॥
भक्तिश्चैवादरश्चात्र कारणं परमं मम ।
सर्वेषां विदुषां श्रेष्ठो ह्य किञ्चिज्ज्ञोऽपि भक्तिमान् ॥ ७॥
भजन् भक्त्या विहीनो यः स चाण्डालोऽभिधीयते ।
चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मम ॥ ८॥
शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः ।
भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ॥ ९॥
अतो भक्त्या मयि मनो निधेहि बुद्धिमेव च ।
भक्त्या यजस्व मां राजँस्ततो मामेव यास्यसि ॥ १०॥
असमर्थोऽर्पितुं स्वान्तं ध्रुवं मयि नराधिप ।
अभ्यासेन च योगेन ततो गन्तुं यतस्व माम् ॥ ११॥
तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् ।
ममानुग्रहतश्चैवं परां निर्वृतिमेष्यसि ॥ १२॥
अथैवमप्यनुष्ठातुं न शक्नोषि तदा कुरु ।
प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ॥ १३॥
श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं वरं मतम् ।
ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ॥ १४॥
निरहं ममताबुद्धिरद्वेषः करुणःसमः ।
लाभालाभे सुखेदुःखे मानामाने स मे प्रियः ॥ १५॥
यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।
उद्वेगभीकोपमुद्भीरहितो यः स मे प्रियः ॥ १६॥
रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् ।
मौनी निश्चलधीर्भक्तो ह्यसङ्गः स च मे प्रियः ॥ १७॥
संशीलयति यश्चैनमुपदेशं मया कृतम् ।
स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ॥ १८॥
अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ न च तुष्यति ।
क्षेत्रतज्ज्ञौ च यो वेत्ति स मे प्रियतमो भवेत् ॥ १९॥
वरेण्य उवाच ।
किं क्षेत्रं कश्चतद्वेत्ति किं तज्ज्ञानं गजानन ।
एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ॥ २०॥
श्रीगणेश उवाच ।
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ।
अहङ्कारो मनो बुद्धिः पञ्चज्ञानेद्रियाणि च ।
इच्छाऽव्यक्तं धृतिद्वेषो सुखदुःखे तथैव च ॥ २१॥
चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ।
तज्ज्ञं त्वं विद्धि मां भूप सर्वान्न्तर्यामिणं विभुम् ॥ २२॥
अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ।
आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः ॥ २३॥
शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ।
समदृष्टीर्दृढा भक्तिरेकान्तित्वं शमो दमः ॥ २४॥
एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ।
तज्ज्ञानविषयं राजन् ब्रवीमि त्वं शृणुष्व मे ॥ २५॥
यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ।
यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् ॥ २६॥
अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् ।
विश्वभृच्चाखिलव्यापि एकं नानेव भासते ॥ २७॥
बाह्याभ्यन्तरतः पूर्णमसङ्गं तमसः परम् ।
दुर्ज्ञेयं चाति सूक्ष्मत्वाद् दीप्तानामपि भासकम् ॥ २८॥
ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ।
एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः ॥ २९॥
गुणान्प्रकृतिजान् भ्ङ्क्ते पुरुषः प्रकृतेः परः ।
गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् ॥ ३०॥
यदा प्रकाशः क्षान्तिश्च वृद्धे सत्त्वं तदाऽधिकम् ।
लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः ॥ ३१॥
मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ।
सत्त्वाधिकः सुखं ज्ञानं कर्मसङ्गो रजोधिकः ॥ ३२॥
तमोधिकश्च लभते निद्रालस्यं सुखेतरत् ।
एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतिः ॥ ३३॥
प्रयान्ति मानवा राजंस्तस्मात् सत्त्वयुतो भव ।
ततश्च सर्वभावेन भज त्वं मां नरेश्वर ॥ ३४॥
भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ।
अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् ॥ ३५॥
विदुषी ब्राह्मणे तेजो विद्धि तन्मामकं नृप ।
अहमेवाखिलं विश्वं सृजामिविसृजामिच ॥ ३६॥
ओषधीस्तेजसासर्वा विश्वं चाप्याययाम्यहम् ।
सर्वेन्द्रियाण्यधिष्ठाय जाठरञ्च धनञ्जयम् ॥ ३७॥
भुनज्मिचाखिलान् भोगान् पुण्यपापविवर्जितः ।
अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः ॥ ३८॥
इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ।
येन येन हि रूपेण जनो मां पर्युपासते ॥ ३९॥
तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ।
इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् ॥ ४०॥
अखिलं भूपते सम्यगुपपन्नाय पृच्छते ॥ ४१॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतर्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``क्षेत्रक्षेत्रज्ञविवेकयोगो'' नाम नवमोऽध्यायः ॥ ९॥
इति श्रीगणेशपुराणे क्रीडाखण्डे क्षेत्रक्षेत्रज्ञविवेकयोगोनाम षट्चत्वारिंशादधिकशततमोऽध्यायः ॥ १४६॥
आदितः श्लोकानां समष्ट्यङ्काः - १०७०८ + ४१ = १०७४९
२.१४७ ``उपदेशयोगो'' नाम दशमोऽध्यायः
१० सप्तचत्वारिंशादधिकशततमोऽध्यायः ।
श्रीगजानन उवाच ।
दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् ।
तासां फलानि चिन्हानि सङ्क्षेपात्तेऽधुना ब्रुवे ॥ १॥
आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।
चिन्हं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु ॥ २॥
अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् ।
तेजोऽभयहिंसा च क्षमा शौचममानिता ॥ ३॥
इत्यादिचिन्हमाद्याया आसुर्याः शृणु साम्प्रतम् ।
अतिवादोऽभिमानश्च दर्पोऽज्ञानं सकोपता ॥ ४॥
आसुर्या एवमाद्यानि चिन्हानि प्रकृतेर्नृप ।
निष्ठुरत्वं मदो मोहोऽहङ्कारो गर्व एव च ॥ ५॥
द्वेषो हिंसा दया क्रोध औद्धत्यं दुर्विनीतता ।
आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ॥ ६॥
अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ।
निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ॥ ७॥
मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ।
पाखण्डवाक्ये विश्वासः सङ्गतिर्मलिनात्मनाम् ॥ ८॥
सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ।
अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ॥ ९॥
परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ।
इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ॥ १०॥
पृथिव्या स्वर्गलोके च परिवृत्य वसन्ति ते ।
मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥ ११॥
तामसीं ये श्रिता राजन् यान्ति ते रौरवं ध्रुवम् ।
अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ॥ १२॥
दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः ।
जात्यन्धाः पङ्गवो दीनाहीनजातिषु ते नृप ॥ १३॥
पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।
उत्पतन्ति हि मद्भक्ता यां काञ्चिद् योनिमाश्रिताः ॥ १४॥
लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्च भूमिप ।
सुलभा सा सकामानां मयि भक्तिः सुदुर्लभा ॥ १५॥
विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।
अहं हर्ता अहं कर्ता अहं भोक्तेति वादिनः ॥ १६॥
अहमेवेश्वरःशास्ता अहं वेत्ता अहं सुखी ।
एतादृशी मतिर्नॄणामधःपातयतीह तान् ॥ १७॥
तस्मादेतत् समुत्सृज्य दैवीं प्रकृतिमाश्रय ।
भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा ॥ १८॥
सापि भक्तिस्त्रिधा राजन् सात्त्विकी राजसीतरा ।
यद्देवान् भजते भक्त्या सात्त्विकी सा मता शुभा ॥ १९॥
राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।
यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः ॥ २०॥
वेदेनाविहितं क्रूरं साहङ्कारं सदम्भकम् ।
भजन्ते प्रेतभूतादीन् कर्म कुर्वन्ति कामुकम् ॥ २१॥
शोषयन्तो निजं देहमन्तस्थं मां दृढाग्रहाः ।
तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा ॥ २२॥
कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमि ।
महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् ॥ २३॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``उपदेशयोगो'' नाम दशमोऽध्यायः ॥ १०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे उपदेशयोगोनाम सप्तचत्वारिंशादधिकशततमोऽध्यायः ॥ १४७॥
आदितः श्लोकानां समष्ट्यङ्काः - १०७४९ + २३ = १०७७२
२.१४८ त्रिविधवस्तुनिरूपणन्नामैकादशोऽध्यायः
११ अष्टचत्वारिंशादधिकशततमोऽध्यायः ।
श्रीगजानन उवाच ।
तपोऽपि त्रिविधं राजन् कायिकादिप्रभेदतः ।
ऋजुतार्जवशौचाश्च ब्रह्मचर्यमहिंसनम् ॥ १॥
गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ॥ २॥
मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम ॥ ३॥
अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईदृशम् ॥ ४॥
अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् ।
रुढ्यैसत्कारपूजार्थं सदम्भं राजसं तपः ॥ ५ ॥ (विधिवाक्यप्रमाणार्थं सदम्भं राजसं तपः)
तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते ॥ ६॥
विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद्दानं तत्सात्त्विकं मतम् ॥ ७॥
उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः ।
क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते ॥ ८॥
अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।
असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ॥ ९॥
ज्ञानं च त्रिविधं राजन्शणुष्व स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसङ्गतः ॥ १०॥
नानाविधेषु भूतेषु मामेकं वीक्ष्यते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप ॥ ११॥
तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥ १२॥
हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदल्पार्थविषयं तामसं ज्ञानमुच्यते ॥ १३॥
भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।
कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्मयत् ॥ १४॥
कृत विना फलेच्छां यत् कर्म सात्त्विकमुच्यते ।
यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया ॥ १५॥
क्रियमाणं नृभिर्दम्भात् कर्म राजसमुच्यते ।
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ॥ १६॥
अज्ञानात् क्रियमाणं यत्कर्म तामसमीरितम् ।
कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ॥ १७॥
धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः ।
अहङ्कारविमुक्तो यः स कर्ता सात्त्विको नृप ॥ १८॥
कुर्वन्हर्षं च शोकं च हिंसा फलस्पृहां च यः ।
अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ॥ १९॥
प्रमादाज्ञानसहितः परोच्छेदपरः शठः ।
अलसस्तर्कवान् यस्तु कर्ताऽसौ तामसो मतः ॥ २०॥
सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥ २१॥
विषवद् भासते पूर्वं दुःखस्यान्तकरं च यत् ।
इच्छयमानं तथा वृत्या यदन्तेऽमृतवद्भवेत् ॥ २२॥
प्रसादात्स्वस्य बुद्धेर्यत् सात्त्विकं सुखमीरितम् ।
विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ॥ २३॥
हालाहालमिवान्ते यद् राजसं सुखमीरितम् ।
तन्द्रिप्रमादसम्भूतमालस्यप्रभवं च यत् ॥ २४॥
सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् ।
न तदस्ति यदेतैर्यन्मुक्तं स्यात्त्रिविधैर्गुणैः ॥ २५॥
राजन्ब्रह्मापि त्रिविधमोन्तत्सदिति भेदतः ।
त्रिलोकेषु त्रिधाभूतमखिलं भूप वर्तते ॥ २६॥
ब्रह्मक्षत्रियविट्शुद्राः स्वभावाद्भिन्नकर्मिणः ।
तानि तेषां तु कर्माणि सङ्क्षेपात्तेऽधुना वदे ॥ २७॥
अन्तर्बाह्येन्द्रियाणां च वशत्व मार्जवं क्षमा ।
नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥ २८॥
वेदशास्त्रपुराणानां स्मृतिनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ॥ २९॥
दार्ढ्यं शौर्य च दाक्ष्यं च युद्धे पृष्ठप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥ ३०॥
प्रभुता मन औन्नत्यं सुनीतिर्लोकपालनम् ।
पञ्चकर्माधिकारित्वं क्षत्रकर्म समीरितम् ॥ ३१॥
नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम् ॥ ३२॥
दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् ।
एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥ ३३॥
स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥ ३४॥
इति ते कथितो राजन् प्रसादाद् योग उत्तमः ।
सागोपाङ्गः सविस्तारोऽनादिसिद्धौ मया प्रिय ॥ ३५॥
युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप ।
गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥ ३६॥
क उवाच ।
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम् ॥ ३७॥
त्यक्त्वा राज्यं कुटुम्बं च कातारं प्रययौ रयात् ।
उपदिष्टं यथायोगमास्थाय मुक्तिमाप्तवान् ॥
इमं योगोत्तमं योगं शृणोति श्रद्धया तु यः ॥ ३८॥
सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥
य इमं श्रावयेद्योगं कृत्वाऽस्यार्थं सुबुद्धिमान् ॥ ३९॥
यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥
यो गीतां सम्यगभ्यस्य ज्ञात्वाचार्थं गुरोर्मुखात् ॥ ४०॥
कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ॥ ४१॥
ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥
न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः ॥ ४२॥
न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहाङ्गकैः ।
पुराणश्रवणैर्नै व न शास्त्रैः साधुचिन्तनैः ॥ ४३॥
प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ।
ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगमोऽपि यः ॥ ४४॥
चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥
स्त्रीहिंसा गोवधादीनां कर्तारो ये च पापिनः ॥ ४५॥
ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥
यः पठेत्प्रयतो नित्यं स गणेशो न संशयः ॥ ४६॥
चतुर्थ्यां यः पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ॥
तत्तत्क्षेत्रं समासाद्य स्नात्वाऽभ्यर्च्य गजाननम् ॥ ४७॥
सकृद्गीतां पठेद्भक्त्या ब्रह्मभूयाय कल्पते ॥
भाद्रे मासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः ॥ ४८॥
कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ॥
सवाहनां सायुधां च समभ्यर्च यथाविधि ॥ ४९॥
यः पठेत् सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥
ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम् ॥ ५०॥
पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः ॥
विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात् ॥ ५१॥
कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ॥ ५२॥
ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे गुणत्रयकृतियोगोनामैकादशोऽध्यायः ११॥
इति श्रीगणेशपुराणे क्रीडाखण्डे गुणत्रयकृतियोगोनाम अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८॥
आदितः श्लोकानां समष्ट्यङ्काः - १०७७२ + ५२ = १०८२४
२.१४९ मुनिविसर्जनं नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः
क उवाच ।
एवं पूजां सम्प्रगृह्य तत्रैव न्यवसद्विभुः ।
भक्तानां पूरयन्कामान्सदने राजपूजिते ॥ १॥
मुनिरुवाच ।
विनायकस्य माहात्म्ये कथा भिन्ना निरूपिताः ।
अवतीर्य वरेण्यस्य गृहे विघ्नासुरो हतः ॥ २॥
गजासुरमुखप्राप्तिर्वर्णिता चतुरानन ।
अत्रैव पार्वती गर्भादाविर्भावो निरूपितः ॥ ३॥
गजाननतया देव संशयोऽतो ममाभवत् ।
त्वदन्यः संशयेच्छेत्ता नास्त्येव भुवनत्रये ॥ ४॥
क उवाच ।
न कार्यः संशयो व्यास नानाशक्तियुते विभौ ।
निजेच्छावशतोऽनेकरूपकः कल्पभेदतः ॥ ५॥
शम्भुवक्त्राच्च क्रोधाच्च प्रादुर्भूतो गजाननः ।
गौर्याश्च तेजसो जात उदराच्च क्वचिन्मुने ॥ ६॥
क्वचिद् गौरीमलाच्चापि द्विमुखो द्विकरः क्वचित् ।
क्वचित् पञ्चमुखः क्वापि षण्मुखो दशबाहुकः ॥ ७॥
क्वचिद् द्वादशहस्तश्च सहस्रभुजमण्डितः ।
आगमेषु समस्तेषु नानाध्यानानि सन्ति हि ॥ ८॥
न चात्र संशयः कार्यो विस्मयो वा मुने प्रभौ ।
शिवाद्ब्रह्मा च विष्णुश्च लैङ्गे जातौ निरूपितौ ॥ ९॥
स्कन्दे विधातुर्नेत्राच्च शिवोत्पत्तिर्निरूपिता ।
विष्णुः शिवं ध्यायति च शिवोऽपि विष्णुमेव च ॥ १०॥
पञ्चाक्षरं समन्त्रं च तारकं वदति प्रभुः ।
शतकोटिमितं रामचरितं च त्रिधाकृतम् ॥ ११॥
मर्त्यलोके तारकं स स्थापयामास शङ्करः ।
क्वचिच्छिवात् सृष्टिरुक्ता ब्रह्मणश्च क्वचिद्धरेः ॥ १२॥
भगवत्याः क्वचित्प्रोक्ता क्वचित् सूर्याद्गजाननात् ।
क्वचिच्च ब्राह्मणः प्रोक्ता सर्वं तच्छास्त्रसम्मतम् ॥ १३॥
संशय कुरूते यस्तु स याति नरकं ध्रुवम् ।
क उवाच ।
एवं त्रेतायुगकथा प्रोक्ता सर्वा मुने तव ॥ १४॥
इदानीमभिधास्यानि कथां कलियुगाश्रिताम् ।
कलिप्रान्ते मुने लोका भ्रष्टाचारास्तथानृताः ॥ १५॥
ब्राह्मणा वेदरहिताः स्नानसन्ध्याविवर्जिताः ।
यजनं याजनं दानं न करिष्यन्ति कर्हिचित् ॥ १६॥
प्रतिग्रहं च दुष्टानां करिष्यन्ति सुदुर्लभम् ।
परापवादं तन्निन्दां परस्रीधर्षणं तथा ॥ १७॥
करिष्यन्ति जनाः सर्वे विधिलोपं च सर्वशः ।
विश्वासघातं सर्वत्र कुर्वन्ति च जना ध्रुवम् ॥ १८॥
विधिलोपे च शपथं करिष्यन्ति धरातले ।
न करिष्यन्ति मेघाश्च वृष्टिं क्वापि मुनीश्वर ॥ १९॥
महानदीतीरदेशे करिष्यन्ति कृषिं जनाः ।
यो बलि सोप्यबलिनो हरिष्यन्ति धनं बलात् ॥ २०॥
हरिष्यतस्ततो द्वौ च त्रयस्ताभ्यां बलात् पुनः ।
शुद्रा वेदं पठिष्यन्ति ब्राह्मणाः शूद्रकर्मिणः ॥ २१॥
क्षत्रियावैश्यकर्माणो वैश्याश्च शूद्रकर्मिणः ।
प्रतिग्रहं करिष्यन्ति चाण्डालस्य द्विजातयः ॥ २२॥
दरिद्राश्च भविष्यन्ति हाहाभूता विचेतसः ।
वदिष्यन्ति च न मया गृहीतं धनमण्वपि ॥ २३॥
गृहीत्वापि च कृत्याय याचितारो धनं परात् ।
उत्कोचं च गृहीत्वैव वृथा साक्ष्यं ब्रुवन्ति च ॥ २४॥
सतां निन्दा करिष्यन्ति मैत्री चासद्भिरेव च ।
वृथा मांसस्य भक्ष्यं च करिष्यन्ति द्विजातयः ॥ २५॥
उच्छेदः सज्जनानां स्यादितरेषां च वैभवम् ।
हित्वा देवान् भविष्यन्ति जनाः सर्वे तथैन्द्रियाः ॥ २६॥
भूतप्रेतपिशाचानां भजने सक्तमानसाः ।
वेषान्नानाविधान् कृत्वा भक्षयिष्यन्ति वाडवाः ॥ २७॥
केचिच्च क्षत्रिया भिक्षां चरिष्यन्त्यकुलोचिताम् ।
व्रतानि नियमांश्चापि नाचरिष्यन्ति कर्हिचित् ॥ २८॥
वर्णसङ्करकारीणि कर्ता कर्माणि भूजनः ।
पतिवव्रता भ्रष्टव्रता भविष्यन्ति कलौ युगे ॥ २९॥
म्लेच्छप्रायाः सर्वलोकाः परद्रव्यापहारिणः ।
निर्दयाः कुपथासक्ताः सर्वदा सत्यवर्जिताः ॥ ३०॥
धरित्री सस्यहीना च रसहीना महीरुहाः ।
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्यां प्रसूयते ॥ ३१॥
षोडशाब्दपरं चायुर्भविष्यति तदा युगे ।
तीर्थानि गुप्तरूपाणि देवतायतनानि च ॥ ३२॥
एवं पापे प्रवृद्धे तु धर्मो विश्वार्थमात्रकः ।
भविष्यन्ति तदा देवा उपवासपरायणाः ॥ ३३॥
स्वधास्वाहावषट्कारैर्वर्जिता भयविव्हलाः ।
यास्यन्ति शरणं देवं गजाननमनामयम् ॥ ३४॥
स्तुतिं नानाविधां तस्य करिष्यन्ति नतिं बहु ।
प्रार्थयिष्यन्ति देवेशं सर्वविघ्नविनाशनम् ॥ ३५॥
एवं सर्वं विचार्यासौ आविर्भावं करिष्यति ।
गजाननः शूर्पकर्णो धूम्रवर्णोऽपि नामतः ॥ ३६॥
नीलमश्वं समारुह्य खड्गहस्तो रुषा ज्वलन् ।
कल्पयिष्यति सेनां स नानारूपां निजेच्छया ॥ ३७॥
शस्त्राणि च महास्राणि कल्पयिष्यत्ययत्नतः ।
वधिष्यति महाम्लेछान् सेनया स्वेन तेजसा ॥ ३८॥
म्लेच्छभूतांस्तथा लोकान् वधिष्यति तदाऽखिलान् ।
लीलान्कन्दरदेशेषु ब्राह्मणान् वन्यभक्षिणः ॥ ३९॥
समानाय्य प्रपूज्यैतान्भूमिं दास्यति देवराट् ।
सत्कर्मकारिणः सर्वान् विधास्यति च सज्जनान् ॥ ४०॥
तदा धर्ममयं विश्वं भविष्यति कृते युगे ।
एवं कृत्वा धूम्रवर्णस्ततोऽन्तर्द्धानमेष्यति ॥ ४१॥
एवं चतुर्युगे व्यास विघ्नेशस्य महात्मनः ।
कथितानि च नामानि रूपाणि च तवानघ ॥ ४२॥
कर्माण्यद्भुतरूपाणि तस्य चोक्तानि सर्वशः ।
येषां श्रवणमात्रेण मुच्यन्ते सर्वजन्तवः ॥ ४३॥
अनन्यस्याणि रूपाणि न वक्तुं शक्तिरस्ति मे ।
यत्र वेदाश्च चत्वारो विकुण्ठास्तत्र का कथा ॥ ४४॥
मम वा मद्विधस्यापि महिम्नस्तस्य वर्णने ।
अनुष्ठानाय गच्छ त्वं व्यवसायं करोम्यहम् ॥ ४५॥
भृगुरुवाच ।
एवं श्रुत्वा सोमकान्त व्यासो ब्रह्ममुखात् कथाम् ।
अतिप्रीतमनाः प्राह सर्वपापप्रणाशिनीम् ॥ ४६॥
मुनिरुवाच ।
न तृप्तिमधिगच्छामि श्रुत्वाख्यानं महाद्भुतम् ।
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया सर्वसंशयाः ॥ ४७॥
दूरीकृताः कथासङ्गाद् गणेशचरिताश्रयात् ।
अमृतस्येव मे तृप्तिः श्रुत्वा श्रुत्वा न जायते ॥ ४८॥
अस्य श्रवणमात्रेण जन्मजन्मान्तरार्जितम् ।
वृजिनं नाशमायाति सर्वे कामा भवन्ति च ॥ ४९॥
पूर्वपुण्यबलादस्य श्रवणं जायते नृणाम् ।
न श्राव्यं दुर्जनायेदं पुराणं सर्वसिद्धिदम् ॥ ५०॥
एवमुक्त्वा नमस्कृत्य परिक्रम्य स्वयं भुवम् ।
गृहीत्वाज्ञां ययौ व्यासस्तपसे वनमुत्तमम् ॥ ५१॥
यत्र कन्दफलान्यासन्नुत्तमानि जलानि च ।
न वायुः प्रबलो यत्र नातपो नाग्निरेव च ॥ ५२॥
तत्रापविष्टैकनिष्ठो जपन्नैकाक्षरं मनुम् ।
व्यतीयुर्द्वादशाब्दानि मुनेस्तस्य तपस्यतः ।
ततः प्रादुरभूत्तस्य पुरतस्तु गजाननः ॥ ५३॥
इति श्रीगणेशपुराणे क्रीडाखण्डे कलिदोषनिरूपण-मुनिविसर्जनं नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥ १४९॥
आदितः श्लोकानां समष्ट्यङ्काः - १०८२४ + ५३ = १०८७७
२.१५० व्यासानुग्रहसिद्धिक्षेत्रवर्णनं नाम पञ्चाशदुत्तरशततमोऽध्यायः
सोमकान्त उवाच ।
कथं प्रादुरभूद्देवः पुरस्तस्य महात्मनः ।
भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः ॥ १॥
भृगुरुवाच ।
यथा तत्पुरतः प्रादुरासीद् देवो गजाननः ।
तत्सर्वं कथयिष्येऽहं सादरं शृणु भूमिप ॥ २॥
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ।
गजाननोऽब्जनयनः सिन्दूरारुणमस्तकः ॥ ३॥
अनेकसूर्यसङ्काशो दिव्यकुण्डलमण्डितः ।
अङ्गदे मुकुटं बिभ्रत् कङ्कणे शेषमेव च ॥ ४॥
मुनिरित्थं निरीक्ष्यैनं निमील्य नयने पुनः ।
चकम्पे भयसंत्रस्तः स्मृत्वा मन्त्रं मुमूर्च्छ च ॥ ५॥
ततोऽब्रवीन्नागमुखो मा भैस्त्वं मुनिसत्तम ।
यं ध्यायसि दिवारात्रौ सोऽहं त्वां समुपागतः ॥ ६॥
ब्रह्मादीनामगम्यो यो वरं दातुं मुने तव ।
भृगुरुवाच ।
श्रुत्वेत्थं मधुरां वाणीं जहर्ष मुनिपुङ्गवः ॥ ७॥
मूर्द्धानं न्यस्य तत्पादे धन्योऽहं पितरौ तपः ।
धन्योऽहं धरणी वृक्षाः पुनः पुनरवीवदत् ॥ ८॥
यतो दृष्टः सर्वरूपो गुणातीतोऽखिलाश्रयः ।
चिदानन्दघनोऽनन्तोऽखिलकारणकारणम् ॥ ९॥
एवं स्तुत्वा प्रार्थयन् स वरदन्तं गजाननम् ।
मुनिरुवाच ।
निरस्य भ्रान्ति सर्वां मे यच्छ भक्तिं दृढां त्वयि ॥ १०॥
अष्टादशपुराणानां यथा स्यां करणे क्षमः ।
तवापि स्तवने शक्तिः स्याद्यथा तत्कुरुष्व भोः ॥ ११॥
हृदये वस देवेश प्रसन्नश्चेन्ममानघ ।
गजानन उवाच ।
त्वया यत्प्रार्थितं वत्स सर्वमद्य भविष्यति ॥ १२॥
सर्वमान्यो व्यासनामा सर्वपावनपावनः ।
अपरोक्षज्ञानवांश्च भविष्यसि गुरोर्गुरुः ॥ १३॥
नारायणपरः ख्यात्या गुणैः कीर्त्या श्रियापि च ।
अष्टादशपुराणानां कर्ता त्वं हि भविष्यसि ॥ १४॥
तथैवोपपुराणानां तावतां च मुनीश्वर ।
त्वया पूर्वं दम्भवशान्न कृतं मम पूजनम् ॥ १५॥
स्मरणं वा ततः स्तम्भो जातो वाण्या महाद्भुतः ।
धातुर्मुखाच्छ्रुतो यस्मान्महिमा तेन मेऽनघ ॥ १६॥
विलीनं सर्वमधुना प्रविशामि तवोदरम् ।
भृगुरुवाच ।
एवमुक्त्वा प्राविशत् स तन्मुनेरुदरं विभुः ॥ १७॥
प्रकाशमतुलं लेभे सूर्यकोटिसमं मुनिः ।
दीपयामास ककुभस्ततो मूर्तिं विधाय सः ॥ १८॥
गजाननस्य महतीं प्रासादेऽस्थापयच्च सः ।
पूजयामास विविधैरुपचारैः पृथक्पृथक् ॥ १९॥
सिद्धिक्षेत्रमिदं सर्वलोकानां पावनं दृशोः ।
अनुष्ठानवतां मन्त्रनानासिद्धिप्रदं शुभम् ॥ २०॥
एवमुक्त्वाप्यनुज्ञाप्य व्यासो नारायणस्तदा ।
पुराणं तद्गणेशस्य यच्छ्रुतं ब्रह्मणो मुखात् ॥ २१॥
प्राह वैशम्पायनाय ततस्तद्भुवि पप्रथे ।
तदेतदखिलं तेऽद्य मयापि कथितं नृप ॥ २२॥
नानेन सदृशं किञ्चित् पावनं त्रिषु विद्यते ।
लोकेषु परमानन्ददायकं नृपसत्तम ॥ २३॥
सोमकान्त न चाख्येममिदं दुष्टजने त्वया ।
विनीतेषु च भक्तेषु त्वयाख्येयं प्रयत्नतः ॥ २४॥
मया निरन्तरमिदं जप्यते स्मर्यतेऽपि च ।
तवापि करुणायोगात् कथितं राजसत्तम ॥ २५॥
गजाननध्यानपरो नित्यं जपपरोभव ॥ २६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे व्यासानुग्रहसिद्धिक्षेत्रवर्णनं नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५०॥
आदितः श्लोकानां समष्ट्यङ्काः - १०८७७ + २६ = १०९०३
२.१५१ सोमकान्तविमानप्राप्ति वर्णनं नाम एकपञ्चाशदधिकशततमोऽध्यायः
सूत उवाच ।
एवं श्रुत्वा कथां नित्यं सोमकान्तो मुनीश्वरात् ।
शुष्काम्रमूले तत्पुण्यं न्यक्षिपज्जलतो नृपः ॥ १॥
गते संवत्सरे चूतः पल्लवैः कुसुमैः फलैः ।
शुशुभेऽतीवरुचिरः पुराणश्रुतिपुण्यतः ॥ २॥
सोमकान्तो दिव्यकान्तिस्त्यक्त्वा कुष्ठभवां रुजम् ।
अक्षतश्चाभवत् पूतिगन्धं त्यक्त्वा सुगन्धवान् ॥ ३॥
निःखेदः सुरभेर्गन्धाद् दशदिक्षु प्रसारिणः ।
दिव्यदेहं सूर्यकान्तिं कोटिचन्द्रनिभं नृपम् ॥ ४॥
दृष्ट्वा विसिस्मिरे लोकाः कथमीदृक् च तादृशः ॥
गणेशाख्यपुराणस्य महिम्ना दोषहारिणा ॥ ५॥
भृगुरुवाच ॥
सिद्धिस्ते नृपशार्दूल पुराणश्रवणादभूत् ।
व्रजेदानीं निजं पुत्रं सामात्यं जनमेव च ॥ ६॥
चिरोत्कण्ठं वर्षमध्ये दृष्ट्वा हर्षमवाप्स्यसि ॥
सूत उवाच ।
एवमाकण्यं तद्वाक्यं पादयोर्न्यपतन्मुनेः ॥ ७॥
आनन्दार्णवमग्नः स सोमकान्तोऽवदद्भृगुम् ।
राजोवाच ।
अद्भुतस्तपसस्तेऽद्य महिमैक्षि मया मुने ॥ ८॥
पुराणश्रवणस्यापि येनाहं पतितोऽपि च ।
गलत्कुष्ठो दिव्यदेहो जातो माता पिता मम ॥ ९॥
अस्य देहस्य निर्माता त्वमेव मुनिसत्तम ।
नीरसश्चूतवृक्षोऽपि फलपुष्पयुतोऽभवत् ॥ १०॥
त्यक्तुं नेच्छाम्यतोऽहं त्वां किं मे पुत्रजनैर्भवेत् ।
एवं निशम्य तद्वाक्यं भृगुः पुनरथाब्रवीत् ॥ ११॥
भृगुरुवाच ।
जन्मान्तरीयपुण्येन पुराणश्रवणं तव ।
सञ्जातं मन्मुखाद्धन्यं दुरितं येन तेऽनशत् ॥ १२॥
गणेशस्य पुराणस्य महिमा केन वर्ण्यते ।
न मां विस्मर गच्छ त्वं जनेश नगरं निजम् ॥ १३॥
एवं तयोः संवदतोस्तेजसो ज्वलदद्भुतम् ।
विमानं ददृशे ताभ्यां सूर्यकोटिनिभं महत् ॥ १४॥
भृगुरुवाच ।
त्वदर्थं यानमायातमिदं नृप महाद्भुतम् ।
इदमारुह्य गच्छ त्वं गणनाथस्य सन्निधिम् ॥ १५॥
न प्राप्नुवन्त्यनुष्ठानाद्विमानं यन्मुनीश्वराः ।
तत्पुराणश्रवाद् राजँस्त्वया प्राप्तं गणेश्वरात् ॥ १६॥
विमानं वदतोरेवं भूमण्डलमगात्क्षणात् ।
विनायकगणैर्युक्तं चतुर्बाहुविराजितैः ॥ १७॥
मुकुटाङ्गदहारादि भूषणैरूप शोभितैः ।
दिव्यचन्दनवस्त्रादिपद्मपरशुशोभिभिः ॥ १८॥
नृत्यत्किन्नरकन्याभिर्मृदङ्गतालपाणिभिः ।
किन्नरैर्गायनैर्युक्तं दृष्ट्वा राजाऽब्रवीत्पुनः ॥ १९॥
राजोवाच ।
श्रुतासीद् बहुधा वार्ता विमानानां मुनीश्वर ।
तदृष्टं पुरतो ब्रह्मन् तपोवीर्यबलात्तव ॥ २०॥
महिमा श्रुयते कर्णैर्बहुधा बहुवक्त्रतः ।
अनुभूतो मया सोऽपि पुराणश्रवणात्तव ॥ २१॥
एवं ब्रुवति भूपे तु दूता उत्तीर्य यानतः ।
प्रणिपत्याखिलाः प्रोचुः सोमकान्तं नृपं तदा ॥ २२॥
परात्परेण देवेन तव पुण्यात् स्मृतिः कृता ।
गजाननेन शुद्धात्मन् पुराणश्रवणादिना ॥ २३॥
वयं दूता आज्ञयाऽस्य विमानेन समागताः ।
नेतुं त्वां पुण्यकीर्तिं च याहि लोकमनुत्तमम् ॥ २४॥
तद्दर्शनाज्जन्ममृतेर्मुक्तस्तत्सन्न्निधिं गतः ।
सुखमात्यन्तिकं तत्र प्राप्स्यसे तत्प्रसादतः ॥ २५॥
निशम्य दूतवाक्यं तद् देहातीत इवाभवत् ।
रोमाञ्चाञ्चितसर्वाङ्गः प्राह गद्गदया गिरा ॥ २६॥
परात्परेण देवेन चराचरकृताऽमुना ।
निर्गुणेन गुणक्षोभकारिणा विश्वयोनिना ॥ २७॥
दीननाथेन भो दूताः स्मृतोऽहं कृपयाऽनघाः ।
ब्रह्माद्या न विदुर्यं हि ध्यात्वा च सनकादयः ॥ २८॥
अनन्तगणपूर्णः सोऽप्रेषयद् यानमुत्तमम् ।
नानावतारान् नानारूपी परममायिकः ॥ २९॥
तेन मे स्मरणं कस्मात् कृतमाश्चर्यकारकम् ।
एवमुक्त्वा नमस्कृत्य भृगुं तं प्राह भूमिपः ॥ ३०॥
आज्ञया ते गमिष्यामि दूतैः सह विमानगः ।
प्रसादात् ते च देवस्य न मां विस्मर्तुमर्हसि ॥ ३१॥
सूत उवाच ।
निशम्य गदितं तस्य भृगुः सम्भ्रमविव्हलः ।
आनन्दाश्रुः सरोमाञ्चः कण्ठे धृत्वा नृपस्य सः ॥ ३२॥
प्राहाहं नृपते विप्रोऽभाग्यवांस्त्वं महाफलः ।
गणेशपुरगो भूत्वा न मां विस्मर कर्हिचित् ॥ ३३॥
एवमुकत्वा बहिर्यातौ धृत्वा हस्तावुभावपि ।
नमस्कृत्य विमानं तन्नृपो मुनिवरं च तम् ॥ ३४॥
आरुहत्परमप्रीतो दूतवाक्यात् त्वरान्वितः ।
द्वावमात्यौ सुधर्मा च रुरुहुर्यानमुत्तमम् ॥ ३५॥
ततो दूताश्च वाद्यानां घोषैर्व्याप्तं दिगन्तरम् ।
विमानशोभां वीक्ष्यैव सोमकान्तो ननन्द ह ॥ ३६॥
जन्मान्तरीयपुण्येन प्राप्तमेतदमन्यत ।
ततोऽस्मिन् पश्यति भृगौ विमानं यानमम्बरे ॥ ३७॥
सर्वोत्तमपदं प्राप्तं मर्त्यदेहेन वीक्ष्य च ।
विस्मयं परमं प्राप नत्वा दूतान् ययौ पदम् ॥ ३८॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तविमानप्राप्तिवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥ १५१॥
आदितः श्लोकानां समष्ट्यङ्काः - १०९०३ + ३८ = १०९४१
२.१५२ हेमकण्ठदर्शनं नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः
सूत उवाच ।
उपरिष्टाद् ददर्शाऽथ नृपो दैवपुरं निजम् ।
जहर्ष गोपुराट्टालशोभां दृष्ट्वाथ काञ्चनीम् ॥ १॥
ततः सुधर्मा सस्मार सभां रम्यां समीक्ष्य ह ।
निजं पुत्रं स्नेहवशात् प्राह गद्गदभाषिणी ॥ २॥
हेमकण्ठो मम सुतो भद्रासनगतो भवेत् ।
पित्रोर्मार्गं प्रतीक्षन्स जाते संवत्सरेऽधुना ॥ ३॥
स्वामिन् कृपानिधे तस्य दर्शनं दातुमर्हसि ।
स्त्रियो वाक्यं निशम्यैवं शुशोच नृपतिस्तदा ॥ ४॥
नृप उवाच ।
हेमकण्ठो मम सुतो जीवन् स्याद् वा मृतो भवेत् ।
उक्तमासीन्मया चास्मै वत्सराद् दर्शनं भवेत् ॥ ५॥
अनृतात् कुत्र गच्छेयं नोक्तमासीत् कदाचन ।
न तत्र गन्तुं नो हातुं शक्तोऽहं परमं पदम् ॥ ६॥
विरुद्धं कथमेतद्धि घटेतेत्यरुदद् भृशम् ॥
दृष्ट्वा दूतास्तयोः शोकमब्रुवन् राजसत्तमम् ॥ ७॥
युवयो रोदनं श्रुत्वा कृपा नः समुपागता ॥
क्षणमुत्तारयामोऽत्र दृष्ट्वा तं यात सत्वरम् ॥ ८॥
जाते भवत्समाधाने सन्तोषो नः परो भवेत् ।
तत उत्तारयामासुर्दूता देवपुरादुदक् ॥ ९॥
विमानं तद्गणेशस्य पुराणश्रवणागतम् ।
नगरं प्रभया व्याप्तं वाद्यघोषैश्च नादितम् ॥ १०॥
सुबलो ज्ञानगम्यश्च नमस्कृत्य नृपं गणान् ।
ईयतुर्हेमकण्ठं तं सर्ववृत्तान्तमीरितुम ॥ ११॥
क्षणाद् भद्रासनगतं हेमकण्ठमपश्यताम् ।
सन्नद्धैर्वीरमुख्यैश्च परिवीतं महाबलैः ॥ १२॥
अमात्यनागरैर्युक्तमीक्षन्तं नृत्यमुत्तमम् ।
तदमात्यौ ज्ञानगम्यं सुबलं समपश्यताम् ॥ १३॥
उत्तस्थुः सर्ववीराश्व सामात्यो हेमकण्ठकः ।
आलिङ्गनाय ते सर्वे तयोः प्रापुः सुसम्भ्रमम् ॥ १४॥
तेषामालिङ्गने जाते ततो नृपसुतो ययौ ।
हर्षेण महता युक्तः सरोमाञ्चोऽब्रवीच्च तौ ॥ १५॥
मम माता पिताऽमात्यौ क्षेमयुक्तौ न वा क्वचित् ।
त्यक्त्वा तौ पितरौ यातो युवामेकाकिनौ कथम् ॥ १६॥
एवमुक्त्वा स्वासने तावुपवेश्य प्रपूज्य च ।
वस्त्रचन्दनभूषादिफलताम्बूलकाञ्चनैः ॥ १७॥
तयोर्विना मम प्राणाः कण्ठमात्रावलम्बिनः ।
अहर्निशं तयोर्ध्यानं नान्यस्य मम मानसे ॥ १८॥
पिता मे प्रावदत् पूर्वमेकदा दर्शनं पुनः ।
दास्यामीति कथं तच्चानृतं वाक्यं करिष्यति ॥ १९॥
तावूचतुः ।
मा कुरुष्व वृथा चिन्तां पित्रोस्ते कुशलं नृप ।
तयोः पुण्यप्रभावं को जानाति भुवनत्रये ॥ २०॥
अनुज्ञां भवतो गृह्य निर्गता नगराद् वयम् ।
चत्वारोऽपि पितुस्तेऽभूत् सौकुमार्यादिकं महत् ॥ २१॥
क्षुधया पीडितोऽत्यन्तं रक्तस्रावि पदाम्बुजम् ।
कन्दमूलैः फलैस्तृप्तिर्न चासीत् तस्य भूपतेः ॥ २२॥
मातुस्तेऽपि यथावस्था चेलतुर्न पदं तदा ।
भ्रमद्भिर्बहुधा पश्चाद् दृष्टं चारु सरो महत् ॥ २३॥
शीतलं वृक्षवल्लीभिस्तत्र सुष्वाप भूमिपः ।
सुधर्मा पादसंवाहं चकार श्रमकर्षिता ॥ २४॥
आवां तु कन्दमूलार्थे यातस्तत्राययौ मुनिः ॥
च्यवनो मुनिशार्दूलो जलार्थे तौ ददर्शह ॥ २५॥
तयोर्हार्दं स गृह्यैव निजमाश्रममाययौ ॥
तत आवां समायातौ गृह्य मूलफलं बहु ॥ २६॥
सर्वे तदाश्रमे याता मुनिना पूजिता भृशम् ।
भोजिताः षड्रसैश्चान्नैर्विश्रान्तिं परमां गताः ॥ २७॥
ततःकथाप्रसङ्गोऽभून्मुनिना च नृपेण च ।
सर्वं चाकथयद्राजा वृत्तान्तं मुनये तदा ॥ २८॥
ततो मुनिर्ध्यानबलात् पूर्वं जन्मास्य सञ्जगौ ।
दुरितं तच्छमोपायमब्रवीत् करुणायुतः ॥ २९॥
दुरितश्रवणेचास्य सन्त्रासो नौ नृपाभवत् ।
स सन्दिग्धमना यावत् तावद् देहाद् विनिर्गताः ॥ ३०॥
पक्षिणः श्वेतवर्णास्तमारब्धा भक्षितुं नृपम् ।
तेषां चञ्चुप्रहारेण विव्हलः पतितो नृपः ॥ ३१॥
रक्ष रक्षेति कारुण्यात्प्रोक्तः प्रार्थनया मुनिः ।
तस्य प्रेक्षणमात्रेण पक्षिणोऽन्तर्दधुः क्षणात् ॥ ३२॥
स तु हस्तयुगं बद्धवा तस्थौ मुनिमुखो नृपः ।
महज्ज्ञात्वा नृपैनः स भावयामास भक्तितः ॥ ३३॥
गणेशस्य पुराणं यद् वर्षमात्रं कृपानिधिः ।
अष्टोत्तरशतेनादौ देवनाम्ना प्रसिच्य च ॥ ३४॥
तदङ्गात् पुरुषं घोरं निष्कास्य तपसो बलात् ।
व्योमकेशो ललज्जिव्हो व्याकुलः क्षुधया भृशम् ॥ ३५॥
भक्ष्यं ययाचे स भृगुं सोऽवदत् तं पुरस्थितम् ।
भक्षयस्वाम्रवृक्षं त्वं महान्तं शुष्कमेव च ॥ ३६॥
तेन स्पृष्ट आम्रवृक्षो भस्मसादभवत् क्षणात् ।
ततस्तं धीवरं प्राह भक्षयस्वेत्यसौ मुनिः ॥ ३७॥
ततो नृपं मुनिः प्राह पुराणश्रवणं महत् ।
श्रेयो निक्षिप नित्यं त्वमस्मिन् भस्मनि भूमिप ॥ ३८॥
यावच्चूतस्य वक्षोऽत्र भवेदन्यो यथा पुरा ।
ततस्त्वमपि राजेन्द्र दिव्यदेहो भविष्यसि ॥ ३९॥
तथैव स नृपश्चक्रे स्नात्वा श्रुत्वा कथां बहु ।
न्यक्षिपत् प्रत्त्यहं श्रेयस्तस्मिन् भस्मनि भक्तितः ॥ ४०॥
संवत्सरान्ते वृक्षोऽसौ भवन्नृप यथा पुरा ।
गणेशस्य पुराणे तु समाप्ते फलपुष्पवान् ॥ ४१॥
नपोऽपि दिव्यकान्तिः स शशिसूर्यनिभोऽभवत् ।
यावन्नृपो मुनिं स्तौति विमानं तावदागतम् ॥ ४२॥
नृत्यगीतसमायुक्तं वाद्यघोषनिनादितम् ।
गणेशदूतसंयुक्तमाश्रमान्तिकमास्थितम् ॥ ४३॥
यच्छोभां पश्यतोर्नाथ दृशो नौ सफलाः किल ।
अतिपुण्यात् पितुस्ते ते दूता देवाज्ञया नृपम् ॥ ४४॥
न्यक्षिपन् यानमध्ये नौ नृपेक्षणप्रणोदिताः ।
सुधर्मा च मुनेराज्ञां गृह्य याता विमानगा ॥ ४५॥
दृष्टं देवपुरं यावत् तावत् त्वत्स्मृतिरागता ।
अत उत्तारितं यानं उत्तरे नगरान्नृप ॥ ४६॥
दिदृक्षया पितृभ्यां ते तौ यातौ त्वां निवेदितुम् ।
तयोः शीघ्रं दर्शनाय याहि नो चेद् गमिष्यति ॥ ४७॥
तयोर्वाक्यं निशम्यत्थं हेमकण्ठस्त्वरान्वितः ।
रोमाञ्चाश्रुसमायुक्तो धावमानः श्रुताखिलः ॥ ४८॥
ययौ तद्दर्शनौत्सुक्यात् पुरस्कृत्य तदा तु तौ ।
विशीर्णभूषणगणो नागरैः सेवकैर्वृतः ॥ ४९॥
गलदश्रुः क्षणात् प्राप विमानं गणसङ्कुलम् ॥ ५०॥
इति श्रीगणेशपुराणे क्रीडाखण्डे हेमकण्ठदर्शनं नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२॥
आदितः श्लोकानां समष्ट्यङ्काः - १०९४१ + ५० = १०९९१
२.१५३ सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः
सूत उवाच ।
तदमात्याश्च चत्वारः सोमकान्तं पुरो ययुः ।
प्रणिपत्याखिलान् प्रोचुरागतस्ते सुतो नृप ॥ १॥
सर्ववीरैर्नागरिकैरिन्द्रः सुरगणैरिव ।
वृतो हर्षेण शोकेन दृष्ट्वा नृयानमेव च ॥ २॥
एवं निवेदितोऽमात्यैः सोऽपि शीघ्रं समागतः ।
आबालवनितावृद्धैः सेवकैश्च समन्वितः ॥ ३॥
दृष्ट्वा शोभां विमानस्य सर्व आनन्दनिर्भराः ।
तन्मध्ये सोमकान्तं ते दृष्ट्वा नेमुर्धरातले ॥ ४॥
युक्तं दूतैर्गणेशस्य कान्तयाप्यतिकान्तया ।
तत उत्तीर्य यानात् स आलिलिङ्ग सुतं मुदा ॥ ५॥
आनन्दाश्रूणि मुञ्चन्तौ सरोमाञ्चावुभावपि ।
विदेहाविव सञ्जातौ न किञ्चिदूचतुः क्षणम् ॥ ६॥
तत ऊचे पिता पुत्रं स्नेहेन वत्सरागतम् ।
त्वामेव नित्यं ध्यायामि सत्पुत्रं वंशभूषणम् ।
न त्वया सदृशं पश्ये पुत्रेषु जनवर्तिषु ।
ततः सुधर्मा सस्नेहा धावमाना सुतं ययौ ।
आलिलिङ्ग मुदा युक्ता गलदश्रू उभावपि ।
तत ऊचे सुतं माता चिरदृष्टोऽसि बालक ।
न में सुखीं किञ्चिदभूत् त्वदुत्कण्ठितचेतसः ।
इदानीं ते मुखं दृष्ट्वा सानन्दं मे मनोऽभवत् ॥ ७॥
वियोगेन च ते देहो मम जातः कृशो भृशम् ।
तत आलिङ्गनं चक्रुर्नागरा नामधारकाः ॥ ८॥
केचित् प्रदिक्षिणां चक्रुः केचित् पादौ तदाऽस्पृशन् ।
केचिच्च दर्शनादेव प्रतियाताः पुरं प्रति ।
तत ऊचे नृपः सर्वान् भृगुणाऽनुग्रहान्मम ।
गणेशस्य पुराणं यच्छ्रावितं पापनाशनम् ॥ ७॥
अभवं तेन निष्पापो दिव्यदेहो विमानगः ।
सर्वेषां दर्शनं जातं पुनर्यास्यामि यानगः ॥ ८॥
कृपावता गणेशेन यानं मे प्रेषितं भुवि ।
राज्यं च परिभुक्तं मे स्वेच्छया सम्पदः सुत ॥ ९॥
धामं यास्यामि परमं प्रसादाद् भृगुसम्भवात् ।
एवं ते शुश्रुवुर्वाणीं सोमकान्तसमीरताम् ॥ १०॥
रुरुदुः सुस्वरं सर्वे पतिता भुवि केचन ।
श्रेणी मुख्यास्ततः प्रोचुः सोमकान्तं कृपानिधम् ॥ ११॥
नो विना जगतीपाल कथं यास्यसि धाम तत् ।
प्राणांस्त्यक्त्वा वयं सर्वे यास्यामोऽप्यनु ते नृप ॥ १२॥
हत्या त्वन्मस्तके राजन्सर्वेषां नो भविष्यति ।
न नः पुण्यं तथा येन द्रक्ष्यामस्तं गुणेश्वरम् ॥ १३॥
तव प्रसादाद् देवस्य यास्यामो लोकमुत्तमम् ।
न संसारे सुखं किञ्चिदायुर्नाशो वृथाऽत्र हि ॥ १४॥
अस्माकं न भवेत् किञ्चित्साधनं धामसाधनम् ।
ततोऽवदद् हेमकण्ठो जनकं वाक्यमादृतः ॥ १५॥
कथं त्यक्त्वाऽर्भकं तात यासि द्रष्टुं गजाननम् ।
मन राज्येन को हेतु राज्ञया तव वत्सरम् ॥ १६॥
पालितं राज्यमखिलं नेच्छेदानीं ममापि च ।
शपथस्ते तथा राजन् अतो नेतुं ममार्हसि ॥ १७॥
सोमकान्त उवाच ।
सर्वेषामेव सन्द्रष्टुमिच्छा देवपदाम्बुजम् ।
अहं च परवानत्र कथं कार्यं मया जनाः ॥ १८॥
भवत्स्नेहन शोचामि पुत्रस्नेहाद्विशेषतः ।
अत एवोर्ध्वगं यानमुत्तार्य द्रष्टुमागतः ॥ १९॥
सूत उवाच ।
ततः शोचत्सु लोकेषु सोमकान्ते रुदत्यपि ।
पुत्रे च देवदूतानां दया प्रादुरभूत् तदा ॥ २०॥
ते ऊचुः सोमकान्तं तं धन्यो राजन् यतो जनाः ।
त्वयि सङ्कल्पितप्राणा यथा त्वं जगदीश्वरे ॥ २१॥
अतः सर्वान् गृहीत्वैव यामः शीघ्रं गजाननम् ।
राजोवाच ।
यदि सर्वा पुरी नीता तदा कीर्तिर्दृढा मम ॥ २२॥
भविष्यति रसायां मे नान्यथा तु भविष्यति ।
सूत उवाच ।
एवमुक्त्वा पुराणस्य गणेशस्य श्रवोद्भवम् ॥ २३॥
पुण्यं हस्ते जले नैषां ददौ राजा तदाज्ञया ।
तोये हस्ते गते लोका निष्पापाः पुण्यमूर्तयः ॥ २४॥
आबालवनितावृद्धा रुरुहुर्यानमुत्तमम् ।
गणेशस्य तु ये दूतास्ततोऽगुरुर्ध्वमार्गतः ॥ २५॥
ततः केचिन्नराः पापा यैर्नापि च जलं करे ।
ते पुनर्नगरे याताः शशंसुः शेषितं जनम् ॥ २६॥
ततो ददृशिरे सर्वे उर्ध्वगं नगरं बहु ।
ऊचुः परस्परं शेषा द्रव्यलाभेन तोषिणः ॥ २७॥
नानाव्यवसायरता बभूवुर्हृष्टमानसाः ।
कांश्चित्पलायनपरान् दूता दण्डप्रहारिणः ॥ २८॥
बलाद्गृहीत्वा प्राक्षिपन् यानमध्येति कौतुकात् ।
नानामिषेण जग्मुर्ये तांस्तथैव निचिक्षिपुः ॥ २९॥
उपविष्टा मध्यदेशे राजपत्नीसुतादयः ।
अमात्याः परितो लोका नागरा विविशुः सुखम् ॥ ३०॥
मयूरेश मयूरेश जय त्वमिति घोषिणः ।
वाद्यत्सु देववाद्येषु नृत्यत्यप्सरसां गणे ॥ ३१॥
प्रतिनादेन गर्जन्ति मण्डलानि दिशामपि ।
अतिवेगेन ते प्राप्ता गणेशस्य पदं शुभम् ॥ ३२॥
सुषमां परिपश्यन्तो विस्मयेनाब्रुवन्निति ।
अहो महत् पुण्यमस्य येन दृष्टो गजाननः ॥ ३३॥
समीपतां ययुः सर्वे राजा सायुज्यमाप च ।
सूत उवाच ।
एवं वः कथिता विप्रा गणेशस्य पुराणना ॥ ३४॥
कथा सर्वजनस्यापि श्रवणात्पापनाशिनि ।
शृणुध्वं देवदूतेभ्यो विमाने पृष्टवान् नृपः ।
तत्सर्वं भवतां विप्राः कथयामि कथानकम् ॥ ३५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५३॥
आदितः श्लोकानां समष्ट्यङ्काः - १०९९१ + ३५ = ११०२६
२.१५४ षट्पञ्चाशद्विनायकवर्णनं नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः
ऋषय ऊचुः ।
किं पृष्टं सोमकान्तेन विमानवर्तिनाऽनघ ।
तद्वयं श्रोतुमिच्छामो वद सर्वमशेषतः ॥ १॥
सूत उवाच ।
गच्छता व्योममार्गेण पृष्टा दूता महात्मना ।
वाराणसीस्थितानां तु गणेशानां महात्मनाम् ॥ २॥
नामानि परिवाराणां तानि नः शृणुतानघाः ।
राजोवाच ।
दूता वदन्तु कृपया विश्वेशपरिवारगान् ॥ ३॥
गणेशान्मम कार्त्स्न्येन स्मरणात्सर्वसिद्धिदान् ।
दूता ऊचुः ।
कथयामः समासेन विश्वेशावरणे गतान् ॥ ४॥
गणेशान् क्रमशो राजन् शृणु सर्वभयापहान् ।
दुर्गा विनायकोऽथार्क भीमचण्डी विनायकः ॥ ५॥
देहलीगणपश्चाथ तथोद्दण्डविनायकः ।
पाशपाणिः सर्वविघ्नहरणोऽथ विनायकः ॥ ६॥
प्रथमावरणे सिद्धसिद्धिरूपो विनायकः ।
लम्बोदरः कूटदन्तः शूलटङ्क विनायकः ॥ ७॥
कूष्माण्डाख्यश्चतुर्थश्च पञ्चमो मुण्डसंज्ञकः ।
विकटद्विजसंज्ञस्तु राजपुत्रविनायकः ॥ ८॥
प्रणवाख्योऽथापरश्च द्वितीयावरणे स्थिताः ।
वक्रतुण्ड एकदन्तस्त्रिमुखश्च विनायकः ॥ ९॥
विघ्नराजश्चतुर्थोऽथ वरदश्च विनायकः ।
पञ्चास्यश्चापरश्चात्र हेरम्बश्च विनायकः ॥ १०॥
मोदकप्रिय इत्येव तृतीयावरणे स्थिताः ।
विनायकोऽभयप्रदः सिंहतुण्डविनायकः ॥ ११॥
कुणिताक्षश्चापरश्च क्षिप्रप्रसादसंज्ञकः ।
चिन्तामणिरिति ख्यातो दन्तहस्तविनायकः ॥ १२॥
प्रचण्डश्चाप्यपरश्चोद्दण्डमुण्डविनायकः ।
चतुर्थावरणे ज्ञेया अष्टावेते विनायकाः ॥ १३॥
स्थूलदन्तो द्वितीयस्तु कलिप्रियविनायकः ।
चतुर्दन्तो द्वितुण्डश्च ज्येष्ठो गजविनायकः ॥ १४॥
कालाख्यश्च तथा ज्ञेयो नागेशाख्योपरोऽपि च ।
पञ्चमावरणे ज्ञेया अष्टावेते विनायकः ॥ १५॥
मणिकर्णविनायक आशासृष्टिविनायकः ।
यक्षाख्यो गजकर्णाख्यश्चित्रघण्टविनायकः ॥ १६॥
सुमङ्गलश्च मित्राख्य एते षष्ठे विनायकः ।
मोदः प्रमोदः सुमुखो दुर्मुखश्च विनायकः ॥ १७॥
गणपाख्योऽथापरश्च तथा ज्ञान विनायकः ।
सप्तमावरणे ज्ञेयास्तथा द्वारविनायकः ॥ १८॥
अविमुक्तोऽष्टमो यत्र मोक्षदोऽथ विनायकः ।
अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः ॥ १९॥
कपर्दीति परो ज्ञेयस्तथा बिन्दुविनायकः ।
एतेषां स्मरणं नित्यं सर्वकामफलप्रदम् ॥ २०॥
प्रातरुत्थाय यश्चैतान् पठते शुद्धमानसः ।
न तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु ॥ २१॥
एकैकनाम्ना राजेन्द्र दूर्वाभिस्तण्डुलैरपि ।
तिलैः शमीदलैश्चैतान् पूजयेद् भक्तिमान्नरः ॥ २२॥
असाध्यं साधयेत्कार्यं सर्वत्र विजयी भवेत् ।
आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धनमुत्तमम् ॥ २३॥
इदं ते कथितं सर्वं यद्धि पृष्टं त्वया नृप ।
तूष्णीं ययुर्देवदूतास्ततो धाम निजं मुदा ॥ २४॥
सूत उवाच ।
इदं तत्कथितं विप्रा विश्वेशावरणं मया ।
इदानीं कथयिष्यामि पुराणस्य फलश्रुतिम् ॥ २५॥
इति श्रीगणेशपुराणे क्रीडाखण्डे षट्पञ्चाशद्विनायकवर्णनं नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४॥
आदितः श्लोकानां समष्ट्यङ्काः - ११०२६ + २५ = ११०५१
२.१५५ फलश्रुति निरूपणं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः
सूत उवाच ।
जन्ममृतिः न च स्यातां पुराणस्यास्य संश्रयात् ।
एकशो बहुशश्चेत् स्याद् यद्यस्य श्रवणं द्विजाः ॥ १॥
न शक्नुतामलं वक्तुं शेषपद्मासनावपि ।
यो ददाति कुरुक्षेत्रे सोमसूर्यग्रहे नरः ॥ २॥
हेमभारसहस्राणि विप्रेभ्यो भक्तिभावतः ।
तदस्य श्रवणात् पुण्यं प्राप्नुयाद् भक्तिमान् नरः ॥ ३॥
यज्ञानां साङ्गजातानां सर्वेषां दक्षिणावताम् ।
फलं कस्तुलयामास पुराणश्रवणस्य च ॥ ४॥
पुराणश्रणस्यास्य पुण्यं तस्माद् विशेषवत् ।
व्रतानां जलदानानां तत्र का गणना मता ॥ ५॥
कोटिकन्याप्रदानानां गोदानानां सहस्रशः ।
तत्पुण्यं कोटिगुणितं श्रवणादस्य जायते ॥ ६॥
चतुर्णामपि वेदानां साङ्गानां पठनात्सदा ।
शास्त्राणां व्याकृतेर्वापि सदा सत्सेवनादपि ॥ ७॥
तत्पुण्यं कोटिगुणितं तदस्य श्रवणाद् भवेत् ।
भारतस्य पुराणस्य सम्पूर्णस्य श्रवादपि ।
यत्पुण्यं कोटिगुणितं तदस्य श्रवणाद् भवेत् ॥ ८॥
यस्य गेहे गणेशस्य पुराणं लिखितं भवेत् ।
न तत्र राक्षसा भूताः प्रेताश्च पूतनादयः ॥ ९॥
ग्रहा बालग्रहा नैव पीडां कुर्वन्ति कर्हिचित् ।
तद्गृहं हि गणेशेन रक्ष्यते सर्वदा स्वयम् ॥ १०॥
इदं पुराणं शृणुयात् पूजयेद् वा समाहितः ।
तस्य दर्शनतः पूता भवन्ति पतिता नराः ॥ ११॥
ब्रह्मादीनां मुनीनां स मान्यो भवति मानवः ।
क्रुद्धो दहेत् स भुवनं तुष्टो दद्यान्महत् पदम् ॥ १२॥
अष्टसिद्धीः समाप्नोति श्रवणात्प्रत्यहं नरः ।
न दारिद्रयं समाप्नोति न सङ्कष्टं नरः क्वचित् ॥ १३॥
ईप्सितं समवाप्नोती पद्मादींश्च निधीनपि ।
कल्पद्रुमः कामधेनुर्निधिश्चिन्तामणिस्तथा ॥ १४॥
तस्य वश्यत्वमभ्येति सोऽपि वन्द्यो भवत्यपि ।
जारणं मारणं स्तम्भं उच्चाटनमथापि च ॥ १५॥
अस्य स्मरणमात्रेण निरस्तं स्यात् क्षणेन ह ।
गणेशनिकटे स्थित्वा पुराणं शृणुयान् नरः ॥ १६॥
महापापाद् विनिर्मुक्तः स्त्रीबालहत्ययापि च ।
सान्निध्यमाप्नुयादन्ते गणेशस्य न संशयः ॥ १७॥
शूद्रोऽपि मध्ये संस्थाप्य ब्राह्मणान् शृणुयादिदम् ।
क्रमेण लभते वर्णान् वैश्यक्षत्रद्विजाह्वयान् ॥ १८॥
नित्यनैमित्तिकर्मभ्यश्च्युतो यः शृणुयादिदम् ।
कर्मसाद्गुण्यमाप्नोति गणेशस्य प्रसादतः ॥ १९॥
भाद्रे शुक्लचतुर्थ्यां यः कृत्वा मूर्तिं महीमयीम् ।
मण्डपे तोरणे रम्ये सम्पूज्य परमादरात् ॥ २०॥
पुराणं शृणुयात् सद्यस्तस्य तुष्टो विनायकः ।
ददाति निखिलान् कामानन्ते मोक्षं च विघ्नपः ॥ २१॥
स्तोत्राण्यत्र च यावन्ति तावन्ति प्रत्यहं नरः ।
पठते यदि यो भक्त्या स सिद्धः स्यान्न संशयः ॥ २२॥
असाध्यमपि यत् किञ्चित् तेषां पाठाल्लभेन्नरः ।
अनुष्ठानविधानेन मासमात्रं जपेत्तु यः ॥ २३॥
ब्राह्मणान् भोजयेद् भक्त्या सोऽपि तन्मयतामियात् ।
ऋषय ऊचुः ।
कथमस्य श्रवात् पुण्यं केन प्राप्तं पुराऽनघ ॥ २४॥
तन्नः शंस महाभाग पृच्छतां सूतनन्दन ।
सूत उवाच ।
शृण्वन्तु मुनयः पूर्वं कश्चिन्मूकोऽभवन्मुनिः ॥ २५॥
ब्रह्मलोकं गतोऽकस्माल्लोमशोऽपि यदृच्छया ।
नमस्कृत्य च लोकेशमुपविष्टस्तदाज्ञया ॥ २६॥
पूजितः परया भक्त्या लोमशोऽथाब्रवीद् विधिम् ।
लोमश उवाच ।
व्यासाय कथितं देव पुराणं पुण्यवर्धनम् ॥ २७॥
गणेशस्य महाभाग तन्मे वक्तुमिहार्हसि ।
ब्रह्मोवाच ।
शृणु लोमश यत्नेन सर्वपापहरं शुभम् ॥ २८॥
पुराणं हि गणेशस्य काममोक्षप्रदं नृणाम् ।
सूत उवाच ।
ततः स कथयामास ब्रह्मा स्वीयेन यामतः ॥ २९॥
लोमशाय गणेशस्य पुराणं काममोक्षदम् ।
मूकेन नादलुब्धेन श्रुतं भक्त्याऽखिलं तु तत् ॥ ३०॥
ततः स वागीश्वरवत् प्रोवाच भारतीं मुनिः ।
अधीत्य पाठतः कृत्वा श्रावयामास चेतरान् ॥ ३१॥
भुक्त्वा भोगान् यथा कामान् पुत्रान् पौत्रानवाप्य च ।
अन्ते जगाम परमं धाम गाणेश्वरं शुभम् ॥ ३२॥
पुनः शृण्वन्तु मुनय इतिहासं पुरातनम् ।
इक्ष्वाकुकुलसम्भूतो राजा शुद्धात्मकः शुचिः ॥ ३३॥
यज्वा दानप्रदो नित्यं स्वाध्यायपरमोऽरिहा ।
आख्याता सर्वधर्माणां प्रजानां पालने रतः ।
षष्ठांशभागी लोकानां मान्यः प्रियतरोऽपि च ॥ ३४॥
विख्यातः त्रिषु लोकेषु गोप्ता संवरणाभिधः ।
अनपत्यः स पुत्रार्थे पुत्रीयामिष्टिमाहरत् ॥ ३५॥
साङ्गां सदक्षिणामन्नदानैः सुविहितां ततः ।
न लेभे सन्ततिं राजा हरिवंशमथाशृणोत् ॥ ३६॥
पूजयित्वा द्विजानन्ते वाचकं परितोष्य च ।
वस्त्रधेनुहिरण्याद्यै रत्नमूलफलादिभिः ॥ ३७॥
ततोऽपि नाभवत् पुत्रो दैवान्मूकस्तु तद्गृहम् ।
समायातस्तु विख्यातो गणेशाख्यपुराणवित् ॥ ३८॥
स्थापितः प्रार्थयित्वा च राज्ञा संवरणेन सः ।
श्रुत्वा पुराणं तद्वक्त्राद्गणेशाख्यं मुदा नृपः ॥ ३९॥
तदन्ते तोषयामास मूकं तं द्विजपुङ्गवम् ।
रत्नमुक्ताफलैर्वस्त्रैर्भूषणैर्हेमनिर्मितैः ॥ ४०॥
लेभे ततः कुमारं स गणेशे तत्परोऽभवत् ।
भुक्त्वानेकसुखान् प्राप गाणेशं पदमुत्तमम् ॥ ४१॥
भगिनी तस्य वन्ध्यासीत् त्रिंशद्वर्षा रजस्वला ।
यथाकालं भवत्येव श्रुत्वा तस्याथ सन्ततिम् ॥ ४२॥
गणेशाख्यपुराणस्य श्रवाज्जातां च तं मुनिम् ।
आकार्य परिशुश्राव पुराणं तन्मुखाच्छुभम् ॥ ४३॥
लेभे पुत्रं महाशूरं गणेशभजने रता ।
पुत्रान् पौत्रान् समावाप्य भुक्त्वा भोगान्मनोहरान् ॥ ४४॥
जगाम सा गणेशस्य निजधामावसानतः ।
सगरस्य तु पुत्राणामेकः पङगुरभूत्सुतः ॥ ४५॥
तेनापीदं श्रुतं पुण्यं पुराणं लोमशात्पुरा ।
भक्त्या द्वादशवर्षेण विनीतेनाथ भक्तितः ॥ ४६॥
सन्तोष्य लोमशं द्रव्यैस्ततोङ्घ्रि समवाप सः ।
विजयं पुष्टिमायुष्यं प्राणान्ते धामतत्परः ॥ ४७॥
अष्टादशपुराणानां श्रवणे यत्फलं लभेत् ।
तदेकस्य पुराणस्य गणेशस्य श्रुतेर्भवेत् ॥ ४८॥
काकवन्ध्या बहुसुता श्रवणादस्य जायते ।
स्रवद्गर्भा भवेद्विप्रा दृढगर्भा भवत्यपि ॥ ४९॥
मूको वागीशतां याति श्रवणान्मुनिपुङ्गवाः ।
वेदाध्ययनसम्पन्नो मान्योऽपि द्विजपुङ्गवः ॥ ५०॥
शुद्रो वैश्यत्वमाप्नोति वैश्यः क्षत्रियतामियात् ।
क्षत्रियो द्विजतां याति स्मरणादप्यमुष्य हि ॥ ५१॥
कन्या तु लभते चास्याप्येकाध्यायस्य संश्रवात् ।
गणवन्तं कुलीनं च पतिं साधुं धनान्वितम् ॥ ५२॥
जात्यन्धो लभते दृष्टिं पुराणस्यास्य संश्रयात् ।
सर्वतीर्थेषु यः स्नायाद् दद्दाद् दानानि सर्वशः ॥ ५३॥
तत्फलं समवाप्नोति भक्त्या यः शृणुयादिदम् ।
पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् ॥ ५४॥
वर्षास्वाकाशवासं यः कुरुते बहुवत्सरम् ।
तत्फलं प्राप्नुयान्मर्त्यः संश्रुतेऽध्यायपञ्चके ॥ ५५॥
अग्निहोत्रं सदा यस्तु सेवते भक्तिमान् नरः ।
तत्फलं हि पुराणस्य श्रवणादस्य जायते ॥ ५६॥
एकाङ्गुष्ठेन यस्तिष्ठेद् वर्षाणामयुतं नरः ।
दशाध्यायश्रुतेरस्य पुराणस्य तथा फलम् ॥ ५७॥
लभते मानवो भक्त्या निश्चितं नात्र संशयः ।
आजन्ममरणान्नित्यं शृणुयान्मानवो भुवि ॥ ५८॥
पुराणं तु गणेशस्य चक्रवर्ती भवेत् तु सः ।
आजन्ममरणाद् यस्तु काशीवासं करोति यः ॥ ५९॥
तत्पुण्यं लभते मर्त्यो गणेशस्य पुराणतः ।
सहस्रं माघमासान् यः प्रयागे स्नाति मानवः ॥ ६०॥
तत्फलं लभते मर्त्यः पुराणस्यास्य संश्रवात् ।
गोमतीसङ्गमे तद्वत् स्नानं भक्त्या करोति यः ॥ ६१॥
तत्फलं कोटिगुणितं लभते चास्य संश्रवात् ।
गणेशस्य पुराणं यः शृणुयाद् भक्तिमान्नरः ॥ ६२॥
न भयं तस्य शूलात् तु वज्राच्च चक्रिचक्रतः ।
इदं वः कथितं सर्वं पुराणं च सविस्तरम् ॥ ६३॥
सम्पूर्णो महिमा वक्तुं न शक्यो वर्षकोटिभिः ।
ब्रह्मणा षण्मुखेनापि शेषेणापि मुनीश्वराः ॥ ६४॥
युष्माभिः परिपृष्टं यत् सर्वपापप्रणाशनम् ।
सर्वं कामप्रदं भुक्तिमुक्तिदं पुण्यवर्धनम् ॥ ६५॥
गणेशस्य परेशस्य नानालीलाधरस्य च ।
वक्तृश्रोत्रोरघहरं किमन्यच्छ्रोतुमिच्छथ ॥ ६६॥
इति श्रीगणेशपुराणे क्रीडाखण्डे फलश्रुतिनिरूपणं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५५॥
आदितः श्लोकानां समष्ट्यङ्काः - ११०५१ + ६६ = ११११७ (उत्तरखण्डे श्लोकसङ्खा ७०२१)
इति श्रीमद्गणेशमहापुराणे उत्तरखण्डं (क्रीडाखण्डं) समाप्तम् ।
॥ श्रीगजाननार्पणमस्तु ॥
॥ शुभं भवतु ॥
इति श्रीगणेशपुराणं समाप्तम् ।
(Continued from the first part उपासनाखण्डम् in a separate file.)
Proofread by Manish Gavkar