श्रीमहाभारतस्य खिलभागो हरिवंशपुराणम्
हरिवंशपर्व
१.१ प्रथमोऽध्यायः
आदिसर्गः First creation
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं
पुण्यम्पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं
किं तस्य पुष्करजलैरभिषेचनेन ॥ २॥
जयति पराशरसूनुः
सत्यवतीहदयनन्दनो व्यासः ।
यस्यास्यकमलगलितं
वाङ्मयममृतं जगत् पिबति ॥ ३॥
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे बहुविश्रुताय ।
पुण्यां च भारतकथां शृणुयाच्च तद्वत्
तुल्यं फलं भवति तस्य च तस्य चैव ॥ ४॥
शताश्वमेधस्य यदत्र पुण्यं
चतुःसहस्रस्य शतक्रतोश्च ।
भवेदनन्तं हरिवंशदानात्
प्रकीर्तितं व्यासमहर्षिणा च ॥ ५॥
यद् वाजपेयेन तु राजसूयाद्
दृष्टं फलं हस्तिरथेन चान्यत् ।
तल्लभ्यते व्यासवचः प्रमाणं
गीतं च वाल्मीकिमहर्षिणा च ॥ ६॥
यो हरिवंशं लेखयति
यथाविधिना महातपाः सपदि ।
च जयति हरिपदकमलं
मधुपो हि यथा रसेन लुब्धः ॥ ७॥
पितामहाद्यं प्रवदन्ति षष्ठं
महर्षिमक्षय्यविभूतियुक्तम् ।
नारायणस्यांशजमेकपुत्रं
द्वैपायनं वेद महानिधानम् ॥ ८॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ ९॥
असच्च सदसच्चैव यद्विश्वं सदसत्परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ १.१.१०॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ ११॥
नैमिषारण्ये कुलपतिः शौनकस्तु महामुनिः ।
सौतिं पप्रच्छ धर्मात्मा सर्वशास्त्रविशारदः ॥ १२॥
शौनक उवाच ।
सौते सुमहदख्यानं भवता परिकीर्तितम् ।
भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १३॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १४॥
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ १५॥
कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं सौते प्रीणात्यमृतसम्मितम् ॥ १६॥
तत्र जन्म कुरूणां वै त्वयोक्तं लौमहर्षणे ।
न तु वृष्ण्यन्धकानां च तद् भवान् वक्तुमर्हति ॥ १७॥
सौतिरुवाच ।
जनमेजयेन यत्प्रष्टः शिष्यो व्यासस्य धर्मवित् ।
तत् तेऽहं सम्प्रवक्ष्यामि वृष्णीनां वंशमादितः ॥ १८॥
श्रुत्वेतिहासं कार्त्स्न्येन भारतानां स भारतः ।
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत् ॥ १९॥
जनमेजय उवाच ।
महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।
कथितं भवता पूर्वं विस्तरेण मया श्रुतम् ॥ १.१.२०॥
तत्र शूराः समाख्याता बहवः पुरुषर्षभाः ।
नामभिः कर्मभिश्चैव वृष्ण्यन्धकमहारथाः ॥ २१॥
तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम ।
तत्र तत्र समासेन विस्तरेणैव मे प्रभो ॥ २२॥
न च मे तप्तिरस्तीह कथ्यमाने पुरातने ।
एकश्चैव मतो राशिर्वृष्णयः पाण्डवास्तथा ॥ २३॥
भवांश्च वंशकुशलस्तेषां प्रत्यक्षदर्शिवान् ।
कथयस्व कुलं तेषां विस्तरेण तपोधन ॥ २४॥
यस्य यस्यान्वये ये ये तांस्तानिच्छामि वेदितुम् ।
स त्वं सर्वमशेषेण कथयस्व महामुने ।
तेषां पूर्वविसृष्टिं च विचिन्त्येमां प्रजापतेः ॥ २५॥
सौतिरुवाच ।
सत्कृत्य परिपृष्टस्तु स महात्मा महातपाः ।
विस्तरेणानुपूर्व्या च कथयामास तां कथाम् ॥ २६॥
वैशम्पायन उवाच ।
शृणु राजन् कथां दिव्यां पुण्यां पापप्रमोचनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम् ॥ २७॥
यश्चेमां धारयेद् वापि शृणुयाद् वाऽप्यभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ २८॥
अव्यक्तं कारणं यत् तन्नित्यं सदसदात्मकम् ।
प्रधानं पुरुषं तस्मान्निर्ममे विश्वमीश्वरम् ॥ २९॥
तं वै विद्धि महाराज ब्रह्माणममितौजसम् ।
स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.१.३०॥
अहङ्कारस्तु महतस्तस्माद् भूतानि जज्ञिरे ।
भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ ३१॥
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।
कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम् ॥ ३२॥
धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुःप्रवर्धनम् ।
कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥ ३३॥
तस्मात्कल्पाय ते कल्पः समग्रं शुचये शुचिः ।
आ वृष्णिवंशाद् वक्ष्यामि भूतसर्गमनुत्तमम् ॥ ३४॥
ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ ३५॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ३६॥
हिरण्यवर्णमभवत् तदण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ॥ ३७॥
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।
तदण्डमकरोद् द्वैधं दिवं भुवमथापि च ॥ ३८॥
तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः ।
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे ॥ ३९॥
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ।
ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् ॥ १.१.४०॥
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजाः सोऽसृजत्सप्त मानसान् ॥ ४१॥
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम् ॥ ४२॥
ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसम्भवम् ।
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ॥ ४३॥
सप्तैते जनयन्ति स्म प्रजा रुद्रश्च भारत ।
स्कन्दः सनत्कुमारश्च तेजः सङ्क्षिप्य तिष्ठतः ॥ ४४॥
तेषां सप्त महावंशा दिव्या देवगणान्विताः ।
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ॥ ४५॥
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।
वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ॥ ४६॥
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ।
मुखाद् देवानजनयत्पितॄंश्चेशोऽपि वक्षसः ॥ ४७॥
प्रजनाच्च मनुष्यान् वै जघनान्निर्ममेऽसुरान् ।
साध्यानजनयद् देवानित्येवमनुशुश्रुम ॥ ४८॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥ ४९॥
सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ।
द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् ॥ १.१.५०॥
अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः ।
दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठतः ॥ ५१॥
विराजमसृजद्विष्णुः सोऽसृजत्पुरुषं विराट् ।
पुरुषं तं मनुं विद्धि तद् वै मन्वन्तरं स्मृतम् ॥ ५२॥
द्वितीयमापवस्यैतन्मनोरन्तरमुच्यते ।
स वैराजः प्रजासर्गे ससर्ज पुरुषः प्रभुः ।
नारायणविसर्गः स प्रजास्तस्याप्ययोनिजाः ॥ ५३॥
आयुष्मान् कीर्तिमान् धन्यः प्रजावाञ्छ्रुतवांस्तथा ।
आदिसर्गं विदित्वेमं यथेष्टां गतिमाप्नुयात् ॥ ५४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आदिसर्गकथने प्रथमोऽध्यायः ॥ १॥
१.२ द्वितीयोऽध्यायः
दक्षोत्पत्तिः Emergence of daksha
वैशम्पायन उवाच ।
स सृष्टासु प्रजास्वेवमापवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १॥
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव महाराज शतरूपा व्यजायत ॥ २॥
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३॥
स वै स्वायम्भुवस्तात पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ ४॥
वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ ५॥
काम्या नाम महाबाहो कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्तु चत्त्वारः संराट्कुक्षिर्विराट् प्रभुः ।
प्रियव्रतं समासाद्य पतिं सा सुषुवे सुतान् ॥ ६॥
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
उत्तानपादाच्चतुरः सूनृताजनयत् सुतान् ॥ ७॥
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ ८॥
ध्रुवं व कीर्तिमन्तं च शिवं शान्तमयस्पतिम् ।
उत्तानपादोऽजनवाॅय्त् सूनृतायां प्रजापतिः ॥ ९॥
ध्रुवो वर्षसहस्त्राणि त्रीणि दिव्यानि भारत ।
तपस्तेपे महाराज प्रार्थयन् सुमहद् यशः ॥ १.२.१०॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानमप्रतिमं भुवि ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ ११॥
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य च ।
देवासुराणामाचार्यः श्लोकमप्युशना जगौ ॥ १२॥
अहोऽस्य तपसो वीर्यमहो श्रुतमहो बलम् ।
यदेनं पुरतः कृत्वा भुवं सप्तर्षयः स्थिताः ॥ १३॥
तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥ १४॥
रिपुं रिपुञ्जयं पुण्यं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ १५॥
अजीजनत् पुष्करिण्यां वीरण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायामरण्यस्य महात्मनः ॥ १६॥
मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायामभवञ्छ्रेष्ठा वैराजस्य प्रजापतेः ॥ १७॥
ऊरुः पुरुः शतद्युम्नस्तस्तपस्वी सत्यवान् कविः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ १८॥
अभिमन्युश्च दशमो नड्वलायाः सुताः स्मृताः ।
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ १९॥
अङ्गात् सुनीथापत्यं वै वेनमेकमजायत ।
अपचारात्तु वेनस्य प्रकोपः सुमहानभूत् ॥ १.२.२०॥
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ।
वेनस्य पाणौ मथिते बभूव मुनिभिः पृथुः ॥ २१॥
तं दृष्ट्वा ऋषयः प्राहुरेष वै मुदिताः प्रजाः ।
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥ २२॥
स धन्वी कवची खड्गी तेजसा निर्दहन्निव ।
पृथुर्वैन्यस्तदा चेमां ररक्ष क्षत्रपूर्वजः ॥ २३॥
राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः ।
तस्माच्चैव समुत्पन्नौ निपुणौ सुतमागधौ ॥ २४॥
तेनेयं गौर्महाराज दुग्धा सस्यानि भारत ।
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ॥ २५॥
पितृभिर्दानवैश्चैव गन्धर्वैः साप्सरोगणैः ।
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ॥ २६॥
तेषु तेषु च पाशेषु दुह्यमाना वसुन्धरा ।
प्रादाद् यथेप्सितं क्षीरं तेन प्राणानधारयन् ॥ २७॥
पृथुपुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिपालितौ ।
शिखण्डिनी हविर्धानमन्तर्धानाद व्यजायत ॥ २८॥
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ।
प्राचीनबर्हिषं शुक्लं गयं कृष्णं व्रजाजिनौ ॥ २९॥
प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः ।
हविर्धानान्महाराज येन संवर्द्धिता प्रजाः ॥ १.२.३०॥
प्राचीनाग्राः कुशास्तस्य पृथिव्यां जनमेजय ।
प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणः ॥ ३१॥
समुद्रतनयायां तु कृतदारोऽभवत्प्रभुः ।
महतस्तपसः पारे सवर्णायां महीपतिः ॥ ३२॥
सवर्णाऽऽधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ ३३॥
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ ३४॥
तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ ३५॥
नाशकन्मारुतो वातुं वृतं खमभवद् द्रुमैः ।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ ३६॥
तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः ।
मुखेभ्यो वायुमग्निं च तेऽसृजञ्जातमन्यवः ॥ ३७॥
उन्मूलानथ तान्कृत्वा वृक्षान्वायुरशोषयत् ।
तानग्निरदहद्घोरं एवमासीद् द्रुमक्षयः ॥ ३८॥
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥ ३९॥
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ १.२.४०॥
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तत्त्वं धृता गर्भेण वै मया ॥ ४१॥
मारिषा नाम कन्येयं वृक्षाणामिति निर्मिता ।
भार्या वोऽस्तु महाभागाः सोमवंशविवर्द्धिनी ॥ ४२॥
युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः ।
अस्यामुत्पत्स्यते पुत्रो दक्षो नाम प्रजापतिः ॥ ४३॥
य इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ ४४॥
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ ४५॥
मारिषायां ततस्ते वै मनसा गर्भमादधुः ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत ॥ ४६॥
पुत्रानुत्पादयामास सोमवंशविवर्धनान् ।
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
स दृष्ट्वा मनसा दक्षः पश्चादप्यसृजत् स्त्रियः ॥ ४७॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
शिष्टाः सोमाय राज्ञेऽथ नक्षत्राख्या ददौ प्रभुः ॥ ४८॥
तासु देवाः खगा नागा गावो दितिजदानवाः ।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥ ४९॥
ततः प्रभृति राजेन्द्र प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ १.२.५०॥
जनमेजय उवाच ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ॥ ५१॥
अङ्गुष्ठाद् ब्रह्मणो जातो दक्षः प्रोक्तस्त्वयानघ ।
वामाङ्गुष्ठात् तथा चैव तस्य पत्नी व्यजायत ॥ ५२॥
कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।
एतन्मे संशयं विप्र सम्यगाख्यातुमर्हसि ।
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ ५३॥
वैशम्पायन उवाच ।
उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु पार्थिव ।
ऋषयोऽत्र न मुह्यन्ति विद्वांसश्चैव ये जनाः ॥ ५४॥
युगे युगे भवन्त्येते सर्वे दक्षादयो नृप ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ ५५॥
ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वे नासीज्जनाधिप ।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥ ५६॥
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।
प्रजावानापदुत्तीर्णः स्वर्गलोके महीयते ॥ ५७॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि प्रजासर्गे दक्षोत्पत्तिकथने द्वितीयोऽध्यायः ॥ २॥
१.३ तृतीयोऽध्यायः
मरुतुत्पत्तिकथनम् Emergence of marut-gaNaas
दक्ष प्रजापति द्वारा सृष्टि-विस्तार, नारदजी का दक्ष के पुत्रों को विरक्त कर देना,
दक्ष की साठ कन्याओं और उनकी सन्तति का वर्णन
जनमेजय उवाच ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेमां वैशम्पायन कीर्तय ॥ १॥
वैशम्पायन उवाच ।
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा शृणु महीपते ॥ २॥
मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः ।
ऋषीन्देवान् सगन्धर्वानसुरानथ राक्षसान् ।
यक्षभूतपिशाचांश्च वयःपशुसरीसृपान् ॥ ३॥
यदास्य तास्तु मानस्यो न व्यवर्द्धन्त वै प्रजाः ।
अपध्याता भगवता महादेवेन धीमता ॥ ४॥
ततः सञ्चिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः ।
स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः ॥ ५॥
असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ ६॥
अथ पुत्रसहस्राणि वीरण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास दक्ष एव प्रजापतिः ॥ ७॥
तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ।
देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् ।
नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ८॥
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥ ९॥
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिना ।
असिक्न्यामथ वीरण्यां भूयो देवर्षिसत्तमः ।
तं भूयो जनयामास पितेव मुनिपुङ्गवम् ॥ १.३.१०॥
तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ।
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ॥ ११॥
तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ।
महर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ॥ १२॥
ततोऽभिसन्धिं चक्रुस्ते दक्षस्तु परमेष्ठिना ।
कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ॥ १३॥
ततो दक्षस्तु तां प्रादात्कन्यां वै परमेष्ठिने ।
स तस्यां नारदो जज्ञे दक्षशापभयादृषिः ॥ १४॥
जनमेजय उवाच ।
कथं विनाशिताः पुत्रा नारदेन महर्षिणा ।
प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः ॥ १५॥
वैशम्पायन उवाच ।
दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह ॥ १६॥
बालिशा बत यूयं वै नास्या जानीथ वै भुवः ।
प्रमाणं स्रष्टुकामाः स्थ प्रजाः प्राचेतसात्मजाः ।
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ १७॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ।
प्रमाणं द्रष्टुकामस्ते गताः प्राचेतसात्मजाः ॥ १८॥
वायोरनशनं प्राप्य गतास्ते वै पराभवम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १९॥
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरण्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ॥ १.३.२०॥
विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा ।
पूर्वोक्तं वचनं तात नारदेनैव नोदिताः ॥ २१॥
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ॥ २२॥
ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ।
एकाग्राः स्वस्थमनसा यथावदनुपूर्वशः ॥ २३॥
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ २४॥
नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽवदद् वचः ।
नारदं नाशमेहीति गर्भवासं वसेति च ॥ २५॥
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणं नृप ।
प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ॥ २६॥
तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
षष्टिं भूयोऽसृजत् कन्या वीरण्यामिति नः श्रुतम् ॥
तास्तदा प्रतिजग्राह भार्यार्थे कश्यपः प्रभुः ।
सोमो धर्मश्च कौरव्य तथैवान्ये महर्षयः ॥ २८॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥ २९॥
द्वे चैव भृगुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १.३.३०॥
अरुन्धती वसुर्यामी लभ्या भानुर्मरुत्वती ।
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भारत ।
धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे शृणु ॥ ३१॥
विश्वेदेवाश्च विश्वायाः साध्यान् साध्या व्यजायत ।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥ ३२॥
भानोस्तु भानवस्तात मुहूर्ताया मुहूर्तजाः ॥ ३३॥
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ॥ ३४॥
सङ्कल्पायास्तु सर्वात्मा जज्ञे सङ्कल्प एव हि ।
गवीथ्याश्च यामिन्या वृषलम्बा व्यजायत ॥ ३५॥
राजन् सोमपत्न्यस्तु दक्षः प्राचेतसो ददौ ।
सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्तिताः ॥ ३६॥
ये'' त्वन्ये ख्यातिमन्तो वै देवा ज्योतिःपुरोगमाः ।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ३७॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ३८॥
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ ३९॥
सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ १.३.४०॥
अनिलस्य शिवा भार्या यस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ ४१॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियान्वितः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ ४२॥
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ।
स्कन्दः सनत्कुमारश्च सृष्टः पादेन तेजसः ॥ ४३॥
प्रत्यूषस्य विदुः पुत्रमृष्टिं नाम्ना च देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ तपस्विनौ ॥ ४४॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह ॥ ४५॥
प्रभासस्य च सा भार्या वसूनामष्टमस्य च ।
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ॥ ४६॥
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥ ४७॥
यः सर्वासां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ४८॥
सुरभी कश्यपाद् रुद्रानेकादश विनिर्ममे ।
महादेवप्रसादेन तपसा भाविता सती ॥ ४९॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्राश्च भारत ।
त्वष्टुश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः ॥ १.३.५०॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ ५१॥
मृगव्याधश्च सर्पश्च कपाली च विशाम्पते ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ५२॥
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
पुराणे भरतश्रेष्ठ यैर्व्याप्ताः सचराचराः ॥ ५३॥
लोका भरतशार्दूल कश्यपस्य निबोध मे ।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा ॥ ५४॥
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च राजेन्द्र तास्वपत्यानि मे शृणु ॥ ५५॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ ५६॥
उपस्थितेऽतियशसि चाक्षुषस्यान्तरे मनोः ।
हितार्थं सर्वसत्त्वानां समागम्य परस्परम् ॥ ५७॥
आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥ ५८॥
वैशम्पायन उवाच ।
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यपाज्जातास्तेऽदित्या दक्षकन्यया ॥ ५९॥
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा च भारत ॥ १.३.६०॥
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ६१॥
चाक्षुषस्यान्तरे पूर्वमासन् ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ ६२॥
सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।
तासामपत्याभ्यभवन् दीप्तान्यमिततेजसाम् ॥ ६३॥
अरिष्टनेमिपन्तीनामपत्यानीह षोडश ।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ६४॥
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।
कृशाश्वस्य तु राजर्षेर्देवप्रहरणानि च ॥ ६५॥
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वदेवगणास्तात त्रयस्त्रिंशत् तु कामजाः ॥ ६६॥
तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते ॥ ६७॥
यथा सूर्यस्य गगने उदयास्तमने इह ।
एवं देवनिकायस्ते सम्भवन्ति युगे युगे ॥ ६८॥
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥ ६९॥
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।
सैंहिकेया इति ख्यातास्तस्याः पुत्रा महाबलाः ।
गणैश्च सह राजेन्द्र दशसाहस्रमुच्यते ॥ १.३.७०॥
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
असङ्ख्याता महाबाहो हिरण्यकशिपोः शृणु ॥ ७१॥
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।
अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान् ॥ ७२॥
संह्रादश्च चतुर्थोऽभूद्ध्रादपुत्रो ह्रदस्तथा ।
संह्रादपुत्रः सुन्दश्च निसुन्दस्तावुभौ स्मृतौ ॥ ७३॥
अनुह्रादसुतौ ह्यायुः शिबिकालस्तथैव ह ।
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ ७४॥
बले पुत्रशतं त्वासीद् बाणज्येष्ठं नराधिप ।
धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चेन्द्रतापनः ॥ ७५॥
कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः ।
बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ७६॥
पुराकल्पे हि बाणेन प्रसाद्योमापतिं प्रभुम् ।
पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ ७७॥
बाणस्य चेन्द्रदमनो लोहित्यामुपपद्यत ।
गणास्तथासुरा राजञ्छतसाहस्रसम्मिताः ॥ ७८॥
हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः ।
झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥ ७९॥
अभवन् दनुपुत्राश्च शतं तीव्रपराक्रमाः ।
तपस्विनो महावीर्याः प्राधान्येन निबोध तान् ॥ १.३.८०॥
द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरा विभुः ।
शङ्कुकर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा ।
अयोमुखः शम्बरश्च कपिलो वामनस्तथा ॥ ८१॥
मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ।
विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ ॥ ८२॥
इन्द्रजित् सत्यजिच्चैव वज्रनाभस्तथैव च ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥ ८३॥
एकचक्रो महाबाहुस्तारकश्च महाबलः ।
वैश्वानरः पुलोमा च विद्रावणमहासुरौ ॥ ८४॥
स्वर्भानुर्वृषपर्वा च तुहुण्डश्च महासुरः ।
सूक्ष्मश्चैवातिचन्द्रश्च ऊर्णनाभो महागिरिः ॥ ८५॥
असिलोमा च केशी च शठश्च बलको मदः ।
तथा गगनमूर्धा च कुम्भनाभो महासुरः ॥ ८६॥
प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्यवान् ।
वैसृपः सविरूपाक्षः सुपथोऽथ हराहरौ ॥ ८७॥
हिरण्यकशिपुश्चैव शतमायश्च शम्बरः ।
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥ ८८॥
एते सर्वे दनोः पुत्राः कश्यपादभिजज्ञिरे ।
विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ॥ ८९॥
एतेषां यदपत्यं तु तन्न शक्यं नराधिप ।
प्रसङ्ख्यातुं महीपाल पुत्रपौत्राद्यनन्तकम् ॥ १.३.९०॥
स्वर्भानोस्तु प्रभा कन्या पुलोम्नश्च सुतात्रयम् ।
उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी ॥ ९१॥
पुलोमा कालिका चैव वैश्वानरसुते उभे ।
बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहः ॥ ९२॥
तयोः पुत्रसहस्राणि षष्टिं दानवनन्दनान् ।
चतुर्दशशतानन्यान् हिरण्यपुरवासिनः ॥ ९३॥
मारीचिर्जनयामास महता तपसान्वितः ।
पौलोमाः कालकेयाश्च दानवास्ते महाबलाः ॥ ९४॥
अवध्या देवतानां च हिरण्यपुरवासिनः ।
कृताः पितामहेनाजौ निहताः सव्यसाचिना ॥ ९५॥
प्रभाया नहुषः पुत्रः सृञ्जयश्च शचीसुतः ।
पूरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तमुपदानवी ॥ ९६॥
ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ।
सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तदा ॥ ९७॥
दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।
सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥ ९८॥
व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः ।
वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा ॥ ९९॥
आञ्जिको नरकश्चैव कालनाभस्तथैव च ।
शुकः पोतरणश्चैव वज्रनाभश्च वीर्यवान् ॥ १.३.१००॥
राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रविमर्दनः ।
मूकश्चैव तुहुण्डश्च ह्रादपुत्रौ बभूवतुः ॥ १०१॥
मारीचः सुन्दपुत्रश्च ताडकायां व्यजायत ।
शिवमाणस्तथा चैव सुरकल्पश्च वीर्यवान् ॥ १०२॥
एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ १०३॥
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।
समुत्पन्नाः सुतपसा महान्तो भावितात्मनः ॥ १०४॥
तिस्रः कोट्यः सुतास्तेषां मणिमत्यां निवासिनाम् ।
तेऽप्यवध्यास्तु देवानामर्जुनेन निपातिताः ॥ १०५॥
षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।
काकी श्येनी च भासी च सुग्रीवी शुचि गृध्रिका ॥ १०६॥
काकी काकानजनयदुलूकी प्रत्युलूककान् ।
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ॥ १०७॥
शुचिरौदकान् पक्षिगणान् सुग्रीवी तु परन्तप ।
अश्वानुष्ट्रान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥ १०८॥
विनतायास्तु पुत्रौ द्वावरुणो गरुडस्तथा ।
सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥ १०९॥
सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ।
अनेकशिरसां तात खेचराणां महात्मनाम् ॥ १.३.११०॥
काद्रवेयाश्च बलिनः सहस्रममितौजसः ।
सुपर्णवशगा नागा जङिरेऽनेकमस्तकाः ॥ १११॥
तेषां प्रधानाः सततं शेषवासुकितक्षकाः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ ११२॥
एलापत्रस्तथा शङ्खः कर्कोटकधनञ्जयौ ।
महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ॥ ११३॥
कुहरः पुष्पदष्ट्रश्च दुर्मुखः सुमुखस्तथा ।
शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा ॥ ११४॥
नहुषः शङ्खरोमा च मणिरित्येवमादयः ।
तेषां पुत्राश्च पौत्राश्च गरुडेन निपातिताः ॥ ११५॥
चतुर्दश सहस्राणि क्रूराणां पवनाशिनाम् ।
गणं क्रोधवशं विद्धि तस्य सर्वे च दंष्ट्रिणः ११६॥
स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ।
गास्तु वै जनयामास सुरभिर्महिषांस्तथा ॥ ११७॥
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ।
कशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ॥ ११८॥
अरिष्टा तु महासत्त्वान् गन्धर्वानमितौजसः ।
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ॥ ११९॥
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ॥ १.३.१२०॥
वैवस्वते तु महति वारुणे वितते क्रतौ ।
जुह्वानस्य ब्रह्मणो वै प्रजासर्गं इहोच्यते ॥ १२१॥
पूर्वं यत्र तु ब्रह्मर्षीनुत्पन्नान् सप्त मानसान् ।
पुत्रत्वे कल्पयामास स्वयमेव पितामहः ॥ १२२॥
ततो विरोधे देवानां दानवानां च भारत ।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ॥ १२३॥
तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ।
वरेण च्छन्दयामास सा च वव्रे वरं ततः ॥ १२४॥
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ।
स च तस्यै वरं प्रादात् प्रार्थितं सुमहातपाः ॥ १२५॥
दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत ।
भविष्यति सुतस्तेऽयं यद्येवं धारयिष्यसि ॥ १२६॥
इन्द्रं सुतो निहन्ता ते गर्भं वै शरदां शतम् ।
यदि धारयसे शौचं तत्परा व्रतमास्थिता ॥ १२७॥
तथेत्यभिहितो भर्ता तया देव्या महातपाः ।
धारयामास गर्भं तु शुचिः सा वसुधाधिप ॥ १२८॥
ततोऽभ्युपागमद् दित्यां गर्भमाधाय कश्यपः ।
रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ॥ १२९॥
तेजः सम्भृत्य दुर्धर्षमवध्यममरैरपि ।
जगाम पर्वतायैव तपसे शंसितव्रतः ॥ १.३.१३०॥
तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः ।
ऊने वर्षशते चास्या ददर्शान्तरमच्युतः ॥ १३१॥
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां च कारयामास तस्याः कुक्षिं प्रविश्य सः ॥ १३२॥
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तत ।
स पाट्यमानो वज्रेण गर्भस्तु प्ररुरोद ह ॥ १३३॥
मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् ।
सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ १३४॥
एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः ।
मरुतो नाम देवास्ते बभूवुर्भरतर्षभ ॥ १३५॥
यथैवोक्तं मघवता तथैव मरुतोऽभवन् ।
देवा एकोनपञ्चाशत् सहाया वज्रपाणिनः ॥ १३६॥
तेषामेवं प्रवृद्धानां भूतानां जनमेजय ।
रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ॥ १३७॥
निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् ।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि भारत ॥ १३८॥
स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस्तपनोऽव्यक्तस्तस्य सर्वमिदं जगत् ॥ १३९॥
भूतसर्गमिमं सम्यग्जानतो भरतर्षभ ।
मरुतां च शुभं जन्म शृण्वतः पठतोऽपि वा ।
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ १.३.१४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मरुदुत्पत्तिकथने तृतीयोऽध्यायः ॥ ३॥
१.४ चतुर्थोऽध्यायः
पृथूपाकायनम् Emergence of pRithu
पृथु का उपाख्यान, राज्यवितरण और दिक्पालों की प्रतिष्ठा
वैशम्पायन उवाच ।
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १॥
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ २॥
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।
बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् ॥ ३॥
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४॥
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ ५॥
वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ ६॥
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥ ७॥
विप्रचित्तिं तु राजानं दानवानामथादिशत् ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ ८॥
शैलानां हिमवन्तं च नदीनामथ सागरम् ।
गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
शब्दाकाशवतां चैव वायुं च बलिनां वरम् ॥ ९॥
गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ १.४.१०॥
कारणानां च राजानमैरावतमथादिशत् ।
उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ११॥
मृगाणामथ शार्दूलं गोवृषं च गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ॥ १२॥
सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ॥ १३॥
सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् ।
सरीसृपाणां सर्पाणां राजानं चैव तक्षकम् ॥ १४॥
गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानां दिवसानां तथैव च ॥ १५॥
पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ १६॥
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
एवं विभज्य राज्यानि क्रमेण स पितामहः ॥ १७॥
दिशापालानथ ततः स्थापयामास भारत ।
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ॥ १८॥
दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ॥ १९॥
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥ १.४.२०॥
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥ २१॥
उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥ २२॥
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।
राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः ।
वेददृष्टेन विधिना राजराज्ये नराधिप ॥ २३॥
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् ।
तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ॥ २४॥
तवानुकूल्याद् राजेन्द्र यदि शुश्रूषसेऽनघ ।
महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् ।
धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ॥ २५॥
जनमेजय उवाच ।
विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय ।
यथा महात्मना तेन दुग्धा चेयं वसुन्धरा ॥ २६॥
यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ २७॥
यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा ॥ २८॥
तेषां पात्रविशेषांश्च वैशम्पायन कीर्तय ।
वत्सान् क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ २९॥
यस्माच्च कारणात् पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ १.४.३०॥
वैशम्पायन उवाच ।
हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् ।
एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय ॥ ३१॥
नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च ।
कीर्तनीयमिदं राजन् कृतघ्नायाहिताय वा ॥ ३२॥
स्वर्यं यशस्यमायुष्यं धर्म्य वेदेन सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं शृणु राजन् यथातथम् ॥ ३३॥
यश्चैनं कथयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतैः ॥ ३४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने चतुर्थोऽध्यायः ॥ ४॥
१.५ पञ्चमोऽध्यायः
पृथूपाख्यानम् Legend of emperor pRithu
पृथु का उपाख्यान--वेन का अत्याचार करके नष्ट होना और पृथु का जन्म तथा चरित्र
वैशम्पायन उवाच ।
आसीद् धर्मस्य गोप्ता वै पूर्वमत्रिसमः प्रभुः ।
अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ १॥
तस्य पुत्रोऽभवद् वेनो नात्यर्थं धर्मकोविदः ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ २॥
स मातामहदोषेण वेनः कालात्मजाऽऽत्मजः ।
स्वधर्मं पृष्ठतः कृत्वा कामाल्लोभेष्ववर्तत ॥ ३॥
मर्यादां स्थापयामास धर्मापेतां स पार्थिवः ।
वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥ ४॥
निःस्वाध्यायवषट्कारास्तस्मिन् राजनि शासति ।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ५॥
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ६॥
अहमिज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह ।
मयि यशो विधातव्यो मयि होतव्यमित्यपि ॥ ७॥
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ८॥
वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् ।
अधर्मं कुरु मा वेन नैष धर्मः सनातनः ॥ ९॥
निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम् ।
प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः ॥ १.५.१०॥
तांस्तदा ब्रुवतः सर्वान् महर्षीनब्रवीत् तदा ।
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ ११॥
वेन उवाच ।
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ।
श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ १२॥
प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
सम्मूढा न विदुर्नूनं भवन्तो मामचेतसः ॥ १३॥
इच्छन् दहेयं पृथिवीं प्लावयेयं तथा जलैः ।
खं भुवं चैव रुन्धेयं नात्र कार्या विचारणा ॥ १४॥
यदा न शक्यते मोहादवलेपाच्च पार्थिवः ।
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥ १५॥
निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् ।
ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ १६॥
तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान् ।
ह्रस्वाऽतिमात्रः पुरुषः कृष्णश्चाति बभूव ह ॥ १७॥
स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय ।
तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत् तदा ॥ १८॥
निषादवंशकर्तासौ बभूव वदतां वर ।
धीवरानसृजच्चाथ वेनकल्मषसम्भवान् ॥ १९॥
ये चान्ये विन्ध्यनिलयास्तुषारास्तुम्बरास्तथा ।
अधर्मरुचयो ये च विद्धि तान् वेनसम्भवान् ॥ १.५.२०॥
ततः पुनर्महात्मानः पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरब्धा ममन्थुस्ते महर्षयः ॥ २१॥
पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसन्निभः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ २२॥
स धन्वी कवची जातः पृथुरेव महायशाः ।
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥ २३॥
तस्मिञ्जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।
समापेतुर्महाराज वेनश्च त्रिदिवं गतः ॥ २४॥
समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना ।
त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात्तदा ॥ २५॥
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ २६॥
पितामहश्च भगवान् देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ २७॥
समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराज्येन प्रजापालं महाद्युतिम् ॥ २८॥
सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ।
आदिराज्ये तदा राज्ञां पृथुर्वैन्यः प्रतापवान् ॥ २९॥
पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
अनुरागात् ततस्तस्य नाम राजेत्यजायत ॥ १.५.३०॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ३१॥
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥ ३२॥
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ३३॥
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
पृथोः स्तवार्थे तौ तत्र समाहूतौ सुरर्थिभिः ॥ ३४॥
तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैतदनुरूपं वां पात्रं चायं नराधिपः ॥ ३५॥
तानूचतुस्तदा सर्वांस्तानृषीन् सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ ३६॥
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ ३७॥
ऋषिभिस्तौ नियुक्तौ च भविष्यैः स्तूयतामिति ।
यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः ॥ ३८॥
सत्यवाग् दानशीलोऽयं सत्यसन्धो नरेश्वरः ।
श्रीमाञ्जैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥ ३९॥
धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषणः ।
मान्यो मानयिता यज्वा ब्रह्मण्यः सत्यसङ्गरः ॥ १.५.४०॥
शमः शान्तश्च निरतो व्यवहारस्थितो नृपः ।
ततः प्रभृति लोकेषु स्तवेषु जनमेजय ।
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ४१॥
तयोः स्तवैस्तैः सुप्रीतः पृथुः प्रादात् प्रजेश्वरः ।
अनूपदेशं सूताय मगधान् मागधाय च ॥ ४२॥
तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर्महर्षयः ।
वृत्तीनामेष वो दाता भविष्यति जनेश्वरः ॥ ४३॥
ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः ।
त्वं नो वृत्तिविधत्स्वेति महर्षिवचनात् तदा ॥ ४४॥
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।
धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद् बली ॥ ४५॥
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ ४६॥
सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा ।
प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम् ॥ ४७॥
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ।
महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ४८॥
अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ॥ ४९॥
उवाच वैन्यं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।
कथं धारयिता चासि प्रजा राजन् विना मया ॥ १.५.५०॥
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ५१॥
न त्वमर्हसि मां हन्तुं श्रेयश्चेत् त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ ५२॥
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।
उपायं पश्य येन त्वं धारयेथाः प्रजा नृप ॥ ५३॥
हत्वापि मां न शक्तस्त्वं प्रजा धारयितुं नृप ।
अनुभूता भविष्यामि यच्छ कोपं महाद्युते ॥ ५४॥
अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ।
सत्त्वेषु पृथिवीपाल न धर्मे त्यक्तुमर्हसि ॥ ५५॥
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
कोपं निगृह्य धर्मात्मा वसुधामिदमव्रवीत् ॥ ५६॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने पञ्चमोऽध्यायः ॥ ५॥
१.६ षष्ठोऽध्यायः
पृथूपाख्यानम् Legend of pRithu
पृथुका उपाख्यान-पृथ्वी का पृथुकी पुत्री वनकर अनेक प्रकार के दूध
देना तथा अनेक पात्रो एवं दुहनेवालों का वर्णन
पृथुरुवाच ।
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
बहून् वै प्राणिनो लोके भवेत् तस्येह पातकम् ॥ १॥
सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे ।
तस्मिन्नास्ति हते भद्रे पातकं चोपपातकम् ॥ २॥
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेम तत्र पुण्यप्रदो वधः ॥ ३॥
सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ ४॥
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं प्रजा धारयिता चिरम् ॥ ५॥
सा त्वं शासनमास्थाय मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ ६॥
दुहितृत्वं च मे गच्छ तत एनमहं शरम् ।
नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम् ॥ ७॥
पृथिव्युवाच ।
सर्वमेतदहं वीर विधास्यामि न संशयः ।
ण समारब्धाः सर्वे द्वि ॥ ८॥
उपायं पश्य येन त्वं धारयेथाः प्रजा इमाः ।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ९॥
समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विस्पन्दमान्ं मे क्षीरं सर्वत्र भावयेत् ॥ १.६.१०॥
वैशम्पायन उवाच ।
तत उत्सारयामास शैलाञ्छतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्द्धिताः ॥ ११॥
इत्थं वैन्यस्तदा राजा महीं चक्रे समां ततः ।
मन्वन्तरेष्वतीतेषु विषमासीद् वसुन्धरा ॥ १२॥
स्वभावेनाभवन् ह्यस्याः समानि विषमाणि च ।
चाक्षुषस्यान्तरे पूर्वमासीदेव तदा किल ॥ १३॥
न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां च ग्रामाणां वा तदाभवत् ॥ १४॥
न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः ।
नैव सत्यानृतं तत्र न लोभो न च मत्सरः ॥ १५॥
वैवस्वतेऽन्तरे चास्मिन् साम्प्रतं समुपस्थिते ।
वैन्यात् प्रभृति राजेन्द्र सर्वस्यैतस्य सम्भवः ॥ १६॥
यत्र यत्र समं त्वस्या भूमेरासीदिहानघ ।
तत्र तत्र प्रजाः सर्वाः संवासं समरोचयन् ॥ १७॥
आहारः फलमूलानि प्रजानामभवत् तदा ।
कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ १८॥
सङ्कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पुरुषश्रेष्ठ दुदोह पृथिवीं ततः ।
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रतापवान् ॥ १९॥
तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ।
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ १.६.२०॥
वत्सः सोमोऽभवत्तेषां दोग्धा चाङ्गिरसः सुतः ।
बृहस्पतिर्महातेजाः पात्रं छन्दांसि भारत ।
क्षीरमासीदनुपमं तपो ब्रह्म च शाश्वतम् ॥ २१॥
पुनर्देवगणैः सर्वैः पुरन्दरपुरोगमैः ।
काञ्चनं पात्रमादाय दुग्धेयं श्रूयते मही ॥ २२॥
वत्सस्तु मघवानासीद्दोग्धा च सविता प्रभुः ।
क्षीरमूर्जस्करं चैव वर्तन्ते येन देवताः ॥ २३॥
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।
राजतं पात्रमादाय स्वधाममितविक्रमैः ॥ २४॥
यमो वैवस्वतस्तेषामासीद् वत्सः प्रतापवान् ।
अन्तकश्चाभवद् दोग्धा कालो लोकप्रकालनः ॥ २५॥
नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ।
अलाबुं पात्रमादाय विषं क्षीरं नरोत्तम ॥ २६॥
तेषामैरावतो दोग्धा धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ सर्पाणां च महीपते ॥ २७॥
तेनैव वर्तयन्त्युग्रा महाकाया विषोल्बणाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तदुपाश्रयाः ॥ २८॥
असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।
आयसं पात्रमादाय मायां शत्रुनिबर्हिणीम् ॥ २९॥
विरोचनस्तु प्राह्रादिर्वत्सस्तेषामभूत् तदा ।
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ॥ १.६.३०॥
तथैते माययाद्यापि सर्वे मायाविनोऽसुराः ।
वर्तयन्त्यमितप्रज्ञास्तदेवाममितं बलम् ॥ ३१॥
यक्षैश्च श्रूयते तात पुनर्दुग्धा वसुन्धरा ।
आमपात्रे महाराज पुरान्तर्द्धानमक्षयम् ॥ ३२॥
वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तदा ।
दोग्धा रजतनाभस्तु पिता मणिवरस्य यः ॥ ३३॥
यक्षानुजो महातेजास्त्रिशीर्षः सुमहातपाः ।
तेन ते वर्तयन्तीति परमर्षिरुवाच ह ॥ ३४॥
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ।
शावं कपालमादाय प्रजा भोक्तुं नरर्षभ ॥ ३५॥
दोग्धा रजतनाभस्तु तेषामासीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य क्षीरं रुधिरमेव च ॥ ३६॥
तेन क्षीरेण यक्षाश्च राक्षसाश्चामरोपमाः ।
वर्तयन्ति पिशाचाश्च भूतसङ्घास्तथैव च ॥ ३७॥
पद्मपत्रे पुनर्दुग्धा गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा शुचीन् गन्धान्नरर्षभ ॥ ३८॥
तेषां च सुरुचिस्त्वासीद्दोग्धा भरतसत्तम ।
गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः ॥ ३९॥
शैलैश्च श्रूयते राजन् पुनर्दुग्धा वसुन्धरा ।
औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥ १.६.४०॥
वत्सस्तु हिमवानासीन्मेरुदोङ्ग्धा महागिरिः ।
पात्रं तु शैलमेवासीत्तेन शैला विवर्धिताः ॥ ४१॥
वीरुद्भिः श्रूयते राजन् पुनर्दुग्धा वसुन्धरा ।
पालाशं पात्रमादाय दग्धच्छिन्नप्ररोहणम् ॥ ४२॥
दुदोह पुष्पितः सालो वत्सः प्लक्षोरऽभवत्तदा ।
सेयं धात्री विधात्री च पावनी च वसुन्धरा ॥ ४३॥
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ।
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी ॥ ४४॥
आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता ।
तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥ ४५॥
ततोऽभ्युपगमाद् राज्ञः पृथोर्वैन्यस्य भारत ।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
पृथुना प्रविभक्ता च शोधिता च वसुन्धरा ॥ ४६॥
सस्याकरवती स्फीता पुरपत्तनमालिनी ।
एवम्प्रभावो वैन्यः स राजासीद् राजसत्तमः ॥ ४७॥
नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ॥ ४८॥
पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।
पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः ॥ ४९॥
आदिराजो नमस्कार्यः पृथुर्वैन्यः पृप्रवेभ्यः प्रतापवान् ।
योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि ।
पृथुरेव नमस्कार्यो योधानां प्रथमो नृपः ॥ १.६.५०॥
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् सङ्ग्रामान् क्षेमी तरति कीर्तिमान् ॥ ५१॥
वैश्यैरपि च वित्ताख्यैः पण्यवृत्तिमनुष्ठितैः ।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ ५२॥
तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः ।
आदिराजो नमस्कार्यः श्रेयः परमभीप्सुभिः ॥ ५३॥
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते ॥ ५४॥
य इदं शृणुयान्नित्यं पृथोश्चरितमादितः ।
पुत्रपौत्रसमायुक्तो मोदते सुचिरं भुवि ॥ ५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने षष्ठोऽध्यायः ॥ ६॥
१.७ सप्तमोऽध्यायः
मन्वन्तरादि कीर्तनम् Time-cycles - explained
मन्वन्तर, मनु, देवता और ऋषियों का पृथक् पृथक् वर्णन
जनमेजय उवाच ।
मन्वन्तराणि सर्वाणि विस्तरेण तपोधन ।
तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय ॥ १॥
यावन्तो मनवश्चैव यावन्तं कालमेव च ।
मन्वन्तरं तथा ब्रह्मञ्छ्रोतुमिच्छमि तत्त्वतः ॥ २॥
वैशम्पायन उवाच ।
न शक्यो विस्तरस्तात वक्तुं वर्षशतैरपि ।
मन्वन्तराणां कौरव्य सङ्क्षेपं त्वेव मे शृणु ॥ ३॥
स्वायम्भुवो मनुस्तात मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ४॥
वैवस्वतश्च कौरव्य साम्प्रतो मनुरुच्यते ।
सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च ॥ ५॥
तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः ।
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ ६॥
कीर्तिता मनवस्तात मयैते तु यथाश्रुतम् ।
ऋषींस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ॥ ७॥
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ८॥
उत्तरस्यां दिशि तथा राजन् सप्तर्षयोऽपरे ।
देवाश्च शान्तरजसस्तथा प्रकृतयः परे ।
यामा नाम तथा देवा आसन्स्वायम्भुवेऽन्तरे ॥ ९॥
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च ॥ १.७.१०॥
मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ।
एतत् ते प्रथमं राजन् मन्वन्तरमुदाहृतम् ॥ ११॥
और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
प्राणा बृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा ॥ १२॥
एते महर्षयस्तात वायुप्रोक्ता महाव्रताः ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ॥ १३॥
हविर्ध्नः सुकृतिर्ज्योतिरापोमूर्तिरयस्मयः ।
प्रथितश्च नभस्यश्च नभ ऊर्जस्तथैव च ॥ १४॥
स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः ।
कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः ॥ १५॥
द्वितीयमेतत् कथितं तव मन्वन्तरं मया ।
इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप ॥ १६॥
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः ॥ १७॥
ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोध मे ।
औत्तमेयान् महाराज दश पुत्रान् मनोरमान् ॥ १८॥
इष ऊर्जस्तनूजश्च मधुर्माधव एव च ।
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ॥ १९॥
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ।
मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु ॥ १.७.२०॥
काव्यः पृथुस्तथैवाग्निर्जन्युर्धाता च भारत ।
कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे ॥ २१॥
पुराणे कथितास्तात पुत्राः पौत्राश्च भारत ।
सत्या देवगणाश्चैव तामसस्यान्तरे मनोः ॥ २२॥
पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप ।
द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः ॥ २३॥
तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।
तामसस्य मनोरेते दश पुत्रा महाबलाः ॥ २४॥
वायुप्रोक्ता महाराज पञ्चमं तदनन्तरम् ।
वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ २५॥
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः ।
सत्यनेत्रस्तथाऽऽत्रेय एते सप्तर्षयोऽपरे ॥ २६॥
देवाश्चाभूतरजसस्तथा प्रकृतयोऽपरे ।
पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ २७॥
अथ पुत्रानिमांस्तस्य निबोध गदतो मम ।
धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ २८॥
अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कविः ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ २९॥
षष्ठं ते सम्प्रवक्ष्यामि तन्निबोध नराधिप ।
भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ १.७.३०॥
अतिनामा सहिष्णुश्च सप्तैते वै महर्षयः ।
चाक्षुषस्यान्तरे तात मनोर्देवानिमाञ्छृणु ॥ ३१॥
आद्याः प्रभूता ऋभवः पृथग्भावा दिवौकसः ।
लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः ।
ऋचेरङ्गिरसः पुत्रा महात्मानो महौजसः ॥ ३२॥
नाडवलेया महाराज दश पुत्राश्च विश्रुताः ।
ऊरुप्रेभृतयो राजन् षण्डं मन्वन्तरं स्मृतम् ॥ ३३॥
अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ३४॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ ३५॥
साध्या रुद्राश्च विश्वे च मरुतो वसवस्तथा ।
आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ ॥ ३६॥
मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे ।
इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ३७॥
एतेषां कीर्तितानां तु महर्षीणां महौजसाम् ।
राजन् पुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत ॥ ३८॥
मन्वन्तरेषु सर्वेषु प्राग्दिशः सप्तसप्तकाः ।
स्थिता लोकव्यवस्थार्थं लोकसंरक्षणाय च ॥ ३९॥
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ १.७.४०॥
ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत ।
अतीता वर्तमानाश्च क्रमेणैतेन भारत ॥ ४१॥
एतान्युक्तानि कौरव्य सप्तातीतानि भारत ।
मन्वन्तराणि षट् चापि निबोधानागतानि मे ॥ ४२॥
सावर्णा मनवस्तात पञ्च तांश्च निबोध मे ।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ४३॥
परमेष्ठिसुतास्तात मेरुसावर्णतां गतः ।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप ।
महान्तस्तपसा युक्ता मेरुपृष्ठे महौजसः ॥ ४४॥
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ।
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ॥ ४५॥
अनागताश्च सप्तैते स्मृता दिवि महर्षयः ।
मनोरन्तरमासाद्य सावर्णस्य ह ताञ्छृणु ॥ ४६॥
रामो व्यासस्तथाऽऽत्रेयो दीप्तिमानिति विश्रुतः ।
भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ४७॥
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।
कौशिको गालवश्चैव रुरुः काश्यप एव च ॥ ४८॥
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः ॥ ४९॥
अभिजात्याथ तपसा मन्त्रव्याकरणैस्तथा ।
ब्रह्मलोकप्रतिष्ठास्तु स्मृताः सप्तर्षयोऽमलाः ॥ १.७.५०॥
भूतभव्यभवज्ज्ञानं बुद्ध्वा चैव तु ये स्वयम् ।
तपसा वै प्रसिद्धा ये सङ्गताः प्रविचिन्तकाः ॥ ५१॥
मन्त्रव्याकरणाद्यैश्च ऐश्वर्यात् सर्वशश्च ये ।
एतान् भार्यान् द्विजो ज्ञात्वा नैष्ठिकानि च नाम च ॥ ५२॥
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ।
दीर्घायुषो मन्त्रकृत ईश्वरा दीर्घचक्षुषः ॥ ५३॥
बुद्ध्या प्रत्यक्षधर्माणो गोत्रप्रावर्तकास्तथा ।
कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः ॥ ५४॥
प्रावर्तयन्ति ते वर्णानाश्रमांश्चैव सर्वशः ।
सप्तर्षयो महाभागा सत्यधर्मपरायणाः ॥ ५५॥
तेषां चैवान्वयोत्पन्ना जायन्तीह पुनः पुनः ।
मन्त्रब्राह्मणकर्तारो धर्मे प्रशिथिले तथा ॥ ५६॥
यस्माच्च वरदाः सप्त परेभ्य एव याचिताः ।
तस्मान्न कालो न वयः प्रमाणमृषिभावने ॥ ५७॥
एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप ।
सावर्णस्य मनोः पुत्रान् भविष्याञ्छृणु सत्तम ॥ ५८॥
वरीयांश्चावरीयांश्च सम्मतो धृतिमान् वसुः ।
चरिष्ण्व्यधृष्णुश्च वाजः सुमतिरेव च ।
सावर्णस्य मनोः पुत्रा भविष्या दश भारत ॥ ५९॥
प्रथमे मेरुसावर्णे प्रवक्ष्यामि मुनीञ्छृणु ।
मेधातिथिस्तु पौलस्त्यो वसुः काश्यप एव च ॥ १.७.६०॥
ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।
सावनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ ६१॥
पौलहः सप्त इत्येते मुनयो रोहितेऽन्तरे ।
देवातानां गणास्तत्र त्रय एव नराधिप ॥ ६२॥
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥ ६३॥
पृथुः श्रवा भूरिधामा ऋचीकोऽष्टहतो गयः ।
प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः ॥ ६४॥
दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः ।
हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः ॥ ६५॥
आपोमूर्तिस्तथाऽऽत्रेयो वासिष्ठश्चाष्टमः स्मृतः ।
पौलस्त्यः प्रमितिश्चैव नभोगश्चैव काश्यपः ।
अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः ॥ ६६॥
देवतानां गणौ द्वौ तौ ऋषिमन्त्राश्च ये स्मृताः ।
मनोः सुतोत्तमौजाश्च निकुषञ्जश्च वीर्यवान् ॥ ६७॥
शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश्च दश त्वेते मनोः सुताः ॥ ६८॥
एकादशेऽथ पर्याये तृतीयस्यान्तरे मनोः ।
तस्य सप्त ऋषींश्चापि कीर्त्यमानान्निबोध मे ॥ ६९॥
हविष्मान् काश्यपश्चापि हविष्मान् यश्च भार्गवः ।
तरुणश्च तथाऽऽत्रेयो वासिष्ठस्त्वनघस्तथा ॥ १.७.७०॥
अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्यो निश्चरस्तथा ।
पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः ॥ ७१॥
ब्रह्मणस्तु सुता देवा गणास्तेषां त्रयः स्मृताः ।
संवर्तकः सुशर्मा च देवानीकः पुरूद्वहः ॥ ७२॥
क्षेमधन्वा टृढायुश्च आदर्शः पण्डको मनुः ।
सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥ ७३॥
चतुर्थस्य तु सावर्णेरृषीन् सप्त निबोध मे ।
द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ ७४॥
अङ्गिरास्तपसो मूर्तिस्तपस्वी काश्यपस्तथा ।
तपोऽशनश्च पौलस्त्यः पौलहश्च तपो रविः ॥ ७५॥
भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोधृतिः ।
पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश्च ते ॥ ७३॥
देववायुरदूरश्च देवश्रेष्ठो विदूरथः ।
मित्रवान् मित्रदेवश्च मित्रसेनश्च मित्रकृत् ।
मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ॥ ७७॥
त्रयोदशेऽथ पर्याये भाव्ये मन्वन्तरे मनोः ।
अङ्गिराश्चैव धृतिमान्पौलस्त्यो हव्यपस्तु यः ॥ ७८॥
पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः ।
निष्प्रकम्पस्तथाऽऽत्रेयो निर्मोहः काश्यपस्तथा ॥ ७९॥
सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः ।
त्रय एव गणाः प्रोक्ता देवतानां स्वयम्भुवा ॥ १.७.८०॥
त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः ।
चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः ॥ ८१॥
सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्रा अन्तरे तु त्रयोदशे ॥ ८२॥
चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः ।
भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा ॥ ८३॥
युक्तश्चैव तथाऽऽत्रेयः शुक्रो वासिष्ठ एव च ।
अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते ॥ ८४॥
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।
यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ ८५॥
अतीतानागतानां वै महर्षीणां सदा नरः ।
देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ ॥ ८६॥
तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च ।
अभिमानी प्रवीणश्च जिष्णुः सङ्क्रन्दनस्तथा ॥ ८७॥
तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः ।
भौत्यस्यैवाधिकारे तु पूर्णे कल्पस्तु पूर्यते ॥ ८८॥
इत्येते नामतोऽतीता मनवः कीर्तिता मया ।
तैरियं पृथिवी तात समुद्रान्ता सपत्तना ॥ ८९॥
पूर्णं युगसहस्रं तु परिपाल्या नराधिप ।
प्रजाभिश्चैव तपसा संहारस्तेषु भागशः ॥ १.७.९०॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मन्वन्तरवर्णनं नाम सप्तमोऽध्यायः ॥ ७॥
१.८ अष्टमोऽध्यायः
निमिषादि कल्पान्त संख्यः Divison of time-cylces
चारों युगों, मन्वन्तरों और व्रह्माजी के दिन एवं वर्ष का मान
जनमेजय उवाच ।
मन्वन्तरस्य सङ्ख्यानं युगानां च महामते ।
ब्रह्मणोऽह्नः प्रमाणं च वक्तुमर्हसि मे द्विज ॥ १॥
वैशम्पायन उवाच ।
अहोरात्रं भजेत् सूर्यो मानवं लौकिकं परम् ।
तामुपादाय गणनां शृणु सङ्ख्यामरिन्दम ॥ २॥
निमेषैः पञ्चदशभिः काष्ठा त्रिंशत् तु ताः कलाः ।
त्रिंशत्कलो मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥ ३॥
अहोरात्रमिति प्राहुश्चन्द्रसूर्यगतिं नृप ।
विशेषेण तु सर्वेषु अहोरात्रे च नित्यशः ॥ ४॥
अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः ।
द्वौ पक्षौ तु स्मृतो मासो मासौ द्वावृतुरुच्यते ॥ ५॥
अब्दं द्व्ययनमुक्तं च अयनं त्वृतुभिस्त्रिभिः ।
दक्षिणं चोत्तरं चैव सङ्ख्यातत्त्वविशारदैः ॥ ६॥
मानेनानेन यो मासः पक्षद्वयसमन्वितः ।
पितॄणां तदहोरात्रमिति कालविदो विदुः ॥ ७॥
कृष्णपक्षस्त्वहस्तेषां शुक्लपक्षस्तु शर्वरी ।
कृष्णपक्षं त्वहः श्राद्धं पितॄणां वर्तते नृप ॥ ८॥
मानुषेण तु मानेन यो वै संवत्सरः स्मृतः ।
देवानां तदहोरात्रं दिवा चैवोत्तरायणम् ।
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः ॥ ९॥
दिव्यमब्दं दशगुणमहोरात्रं मनोः स्मृतम् ।
अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥ १.८.१०॥
पक्षो दशगुणो मासो मासैर्द्वादशभिर्गुणैः ।
ऋतुर्मनूनां सम्प्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः ।
ऋतुत्रयेण त्वयनं तद्द्वयेनैव वत्सरः ॥ ११॥
चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ।
तावच्छती भवेत् सन्ध्या सन्ध्यांशश्च तथा नृप ॥ १२॥
त्रीणि वर्षसहस्राणि त्रेता स्यात्परिमाणतः ।
तस्याश्च त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १३॥
तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १४॥
कलिर्वर्षसहस्रं च सङ्ख्यातोऽत्र मनीषिभिः ।
तस्यापि शतिका सन्ध्या सन्ध्यांशश्चैव तद्विधः ॥ १५॥
एषा द्वादशसाहस्री युगसङ्ख्या प्रकीर्तिता ।
दिव्येनानेन मानेन युगसङ्ख्यां निबोध मे ॥ १६॥
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगी ।
युगं तदेकसप्तत्या गणितं नृपसत्तम ॥ १७॥
मन्वन्तरमिति प्रोक्तं सङ्ख्यानार्थविशारदैः ।
अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥ १८॥
मनुः प्रलीयते यत्र समाप्ते चायने प्रभोः ।
ततोऽपरो मनुः कालमेतावन्तं भवत्युत ॥ १९॥
समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै ।
तदेव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना ॥ १.८.२०॥
ब्रह्मणस्तदहः प्रोक्तं कल्पश्चेति स कथ्यते ।
सहस्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः ॥ २१॥
निमज्जत्यप्सु यत्रोर्वी सशैलवनकानना ।
तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम ॥ २२॥
ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ।
युगानि सप्ततिस्तानि साग्राणि कथितानि ते ॥ २३॥
कृतत्रेतानिबद्धानि मनोरन्तरमुच्यते ।
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥ २४॥
वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।
प्रजानां पतयो राजन् धन्यमेषां प्रकीर्तनम् ॥ २५॥
मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥ २६॥
विसर्गस्य प्रजानां वै संहारस्य च भारत ।
मन्वन्तरेषु संहाराः श्रूयन्ते भरतर्षभ ॥ २७॥
सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।
तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः ॥ २८॥
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।
तत्र सर्वाणि भूतानि दग्धान्यादित्यतेजसा ॥ २९॥
ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्विभुम् ।
योगं योगीश्वरं देवमजं क्षेत्रज्ञमच्युतम् ।
प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम् ॥ १.८.३०॥
यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ३१॥
तत्र संवर्तते रात्रिः सकलैकार्णवे तदा ।
नारायणो दधे निद्रां ब्राह्मं वर्षसहस्रकम् ॥ ३२॥
तावन्तमिति कालस्य रात्रिरित्यभिशब्दिता ।
निद्रायोगमनुप्राप्तो यस्यां शेते पितामहः ॥ ३३॥
सा च रात्रिरपक्रान्ता सहस्रयुगपर्यया ।
तदा प्रबुद्धो भगवान् ब्रह्मा लोकपितामहः ॥ ३४॥
पुनः सिसृक्षया युक्तः सर्गाय विदधे मनः ।
सैव स्मृतिः पुराणेयं तद्वृत्तं तद्विचेष्टितम् ॥ ३५॥
देवस्थानानि तान्येव केवलं च विपर्ययः ।
ततो दग्धानि भूतानि सर्वाण्यादित्यरश्मिभिः ॥ ३६॥
देवर्षियक्षगन्धर्वाः पिशाचोरगराक्षसाः ।
जायन्ते च पुनस्तात युगे भरतसत्तम ॥ ३७॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्राह्मीषु रात्रिषु ॥ ३८॥
निष्क्रमित्वा प्रजाकारः प्रजापतिरसंशयम् ।
ये च वै मानवा देवाः सर्वे चैव महर्षयः ॥ ३९॥
ते सङ्गताः शुद्धसङ्गाः शश्वद्धर्मविसर्गतः ।
न भवन्ति पुनस्तात युगं भरतसत्तम ॥ १.८.४०॥
तत्सर्वं क्रमयोगेन कालसङ्ख्याविभागवित् ।
सहस्रयुगसङ्ख्यानं कृत्वा दिवसमीश्वरः ॥ ४१॥
रात्रिं युगसहस्रान्तां कृत्वा च भगवान् विभुः ।
संहरत्यथ भूतानि सृजते च पुनः पुनः ॥ ४२॥
व्यक्ताव्यक्तो महादेवो हरिर्नारायणः प्रभुः ।
तस्य ते कीर्तयिष्यामि मनोर्वैवस्वतस्य ह ॥ ४३॥
विसर्गं भरतश्रेष्ठ साम्प्रतस्य महाद्युते ।
वृष्णिवंशप्रसङ्गेन कथ्यमानं पुरातनम् ॥ ४४॥
यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ।
सर्वासुरविनाशाय सर्वलोकहिताय च ॥ ४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मन्वन्तरगणनायामष्टमोऽध्यायः ॥ ८॥
१.९ नवमोऽध्यायः
वैवस्वतोल्पत्तिः Emergence of vaivasvata-manu
वैवस्वत मनु, यम, यमी (यमुना), अश्विनीकुमारों एवं शनैश्चर की उत्पत्ति
वैशम्पायन उवाच ।
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यामरिन्दम ।
तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः ॥ १॥
सुरेणुरिति विख्याता त्रिषु लोकेषु भाविनी ।
सा वै भार्या भगवती मार्तण्डस्य महात्मनः ॥ २॥
भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी ।
संज्ञा नाम सुतपसा दीप्तेनेह समन्विता ॥ ३॥
आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा ।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ४॥
न खल्वयं मृतोऽण्डस्य इति स्नेहादभाषत ।
अज्ञानात् कश्यपस्तस्मान्मार्तण्ड इति चोच्यते ॥ ५॥
तेजस्त्वभ्यधिकं तात नित्यमेव विवस्वतः ।
येनातितापयामास त्रीँल्लोकान्कश्यपात्मजः ॥ ६॥
त्रीण्यपत्यानि कौरव्य संज्ञायां तपतां वरः ।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ७॥
मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।
यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ८॥
सा विवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती च स्वां छायां सवर्णा निर्ममे ततः ॥ ९॥
मायामयी तु सा संज्ञा तस्याश्छाया समुत्थिता ।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर ॥ १.९.१०॥
उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ११॥
संज्ञोवाच ।
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
त्वयेह भवने मह्यं वस्तव्यं निर्विकारया ॥ १२॥
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ १३॥
छायोवाच ।
आ कचग्रहणाद् देवि आ शापान्नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥ १४॥
वैशम्पायन उवाच ।
समादिश्य सवर्णां तां तथेत्युक्ता च सा तया ।
त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ॥ १५॥
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता तदा ।
भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ १६॥
अगच्छद्वडवा भूत्वाऽऽच्छाद्य रूपमनिन्दिता ।
कुरूनथोत्तरान् गत्वा तृणान्येव चचार ह ॥ १७॥
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ १८॥
पूर्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः ।
सवर्णत्वान्मनोर्भूयः सावर्ण इति चोक्तवान् ॥ १९॥
मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ।
द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः ॥ १.९.२०॥
संज्ञा तु पार्थिवी तात स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ॥ २१॥
मनुस्तस्याक्षमत्तत्तु यमस्तस्या न चक्षमे ।
तां स रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
पदा सन्तर्जयामास संज्ञां वैवस्वतो यमः ॥ २२॥
तं शशाप ततः क्रोधात् सावर्णजननी नृप ।
चरणः पततामेष तवेति भृशदुःखिता ॥ २३॥
यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यप्रतोदितः ॥ २४॥
शापोऽयं विनिवर्तेत प्रोवाच पितरं तदा ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ २५॥
सेयमस्मानपाहाय यवीयांसं बुभूषति ।
तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ २६॥
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ।
यस्मात्ते पूजनीयाहं लङ्घितास्मि त्वया सुत ॥ २७॥
तस्मात् तवैष चरणः पतिष्यति न संशयः ।
अपत्यं दुरपत्यं स्यान्नाम्बा कुजननी भवेत् ॥ २८॥
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ २९॥
विवस्वानुवाच ।
असंशयं पुत्र महद् भविष्यत्यत्र कारणम् ।
येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥ १.९.३०॥
कृमयो मांसमादाय यास्यन्ति धरणीतलम् ॥ ३१॥
तव पादान्महाप्राज्ञ ततस्त्वं प्राप्स्यसे सुखम् ।
कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति ॥ ३२॥
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ।
आदित्योऽथाब्रवीत् संज्ञां किमर्थं तनयेषु वै ॥ ३३॥
तुल्येष्वभ्यधिकः स्नेहः क्रियतेऽति पुनः पुनः ।
सा तत्परिहसन्ती तु नाचचक्षे विवस्वते ॥ ३४॥
आत्मानं सुसमाधाय योगात् तथ्यमपश्यत ।
तां शप्तुकामो भगवान् नाशाय कुरुनन्दन ॥ ३५॥
मूर्धजेषु च जग्राह समयेऽतिगतेऽपि च ।
सा तत् सर्वं यथावृत्तमाचचक्षे विवस्वते ॥ ३६॥
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ।
त्वष्टा तु तं यथा न्यायमर्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ ३७॥
त्वष्टोवाच ।
तवातितेजसाविष्टमिदं रूपं न शोभते ।
असहन्ती च तत् संज्ञा वने चरति शाद्वले ॥ ३८॥
द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम् ।
नित्यं तपस्यभिरतां वडवारूपधारिणीम् ॥ ३९॥
पर्णाहारां कृशां दीनां जटिलां ब्रह्मचारिणीम् ।
हस्तिहस्तपरिक्लिष्टां व्याकुलां पद्मिनीमिव ।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ १.९.४०॥
अनुकूलं तु देवेश यदि स्यान्मम तन्मतम् ।
रूपं निर्वर्तयाम्यद्य तव कान्तमरिन्दम ॥ ४१॥
रूपं विवस्वतश्चासीत् तिर्यगूर्ध्वसमं तु वै ।
तेनासौ सम्भृतो देवरूपेण तु विभावसुः ॥ ४२॥
तस्मात् त्वष्टुः स वै वाक्यं वहु मेने प्रजापतिः ।
समनुज्ञातवांश्चैव त्वष्टारं रूपसिद्धये ॥ ४३॥
ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ।
भ्रमिमारोप्य तत् तेजः शातयामास भारत ॥ ४४॥
ततो निर्भासितं रूपं तेजसा संहृतेन वै ।
कान्तात् कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ ४५॥
मुखे निर्वर्तितं रूपं तस्य देवस्य गोपतेः ।
ततः प्रभृति देवस्य मुखमासीत् तु लोहितम् ।
मुखरागं तु यत्पूर्वं मार्तण्डस्य मुखच्युतम् ॥ ४६॥
आदित्या द्वादशैवेह सम्भूता मुखसम्भवाः ।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ ४७॥
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्तथा ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ ४८॥
हर्षं लेभे ततो देवो दृष्ट्वाऽऽदित्यान् स्वदेहजान् ।
गन्धैः पुष्पैरलङ्कारैर्भास्वता मुकुटेन च ॥ ४९॥
एवं सम्पूजयामास त्वष्टा वाक्यमुवाच ह ।
गच्छ देव निजां भार्यां कुरूंश्चरति सोत्तरान् ॥ १.९.५०॥
वडवारूपमास्थाय वने चरति शाद्वले ।
स तथा रूपमास्थाय स्वभार्यारूपलीलया ॥ ५१॥
ददर्श योगमास्थाय स्वां भार्यां वडवां ततः ।
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ५२॥
वडवावपुषा राजंश्चरन्तीमकुतोभयाम् ।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ ५३॥
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया ।
सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः ॥ ५४॥
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ५५॥
मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ।
संज्ञायां जनयामास वडवायां स भारत ।
तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ५६॥
सा च दृष्ट्वैव भर्तारं तुतोष जनमेजय ।
यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ ५७॥
धर्मेण रञ्जयामास धर्मराज इव प्रजाः ।
स लेभे कर्मणा तेन परमेण महाद्युतिः ॥ ५८॥
पितॄणामाधिपत्यं च लोकपालत्वमेव च ।
मनुः प्रजापतिस्त्वासीत् सावर्णः स तपोधनः ॥ ५९॥
भाव्यः सोऽनागते काले मनुः सावर्णिकेऽन्तरे ।
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ॥ १.९.६०॥
भ्राता शनैश्चरश्चास्य ग्रहत्वमुपलब्धवान् ।
नासत्यौ यौ समाख्यातौ स्वर्वैद्यौ तौ बभूवतुः ॥ ६१॥
सेवतोऽपि तथा राजन्नश्वानां शान्तिदोऽभवत् ।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ ६२॥
तदप्रतिहतं युद्धे दानवान्तचिकीर्षया ।
यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥ ६३॥
अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ।
मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ ६४॥
द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः ।
ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितम् ॥ ६५॥
य इदं जन्म देवानां शृणुयाद् वापि धारयेत् ।
आपद्भ्यः स विमुच्येत प्राप्नुयाच्च महद्यशः ॥ ६६॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि वैवस्वतोत्पत्तौ नवमोऽध्यायः ॥ ९॥
१.१० दशमोऽध्यायः
ऐलोत्पत्तिवर्णनं Emergence of ila
वैवस्वत मनु के वंशजों का वर्णन और पुरूरवा की उत्पत्ति
वैशम्पायन उवाच ।
मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश्चैव नाभागो धृष्णुः शर्यातिरेव च ॥ १॥
नरिष्यंश्च तथा प्रांशुर्नाभागारिष्टसप्तमाः ।
करूषश्च पृषध्रश्च नवैते भरतर्षभ ॥ २॥
अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ।
मित्रावरुणयोस्तात पूर्वमेव विशाम्पते ॥ ३॥
अनुत्पन्नेषु नवसु पुत्रेष्वेतेषु भारत ।
तस्यां तु वर्तमानायामिष्ट्यां भरतसत्तम ॥ ४॥
मित्रावरुणयोरंशे मुनिराहुतिमाजुहोत् ।
आहुत्यां हूयमानायां देवगन्धर्वमानुषाः ॥ ५॥
तुष्टिं तु परमां जग्मुर्मुनयश्च तपोधनाः ।
अहोऽस्य तपसो वीर्यमहोऽस्य श्रुतमद्भुतम् ॥ ६॥
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यसंहनना चैव इला जज्ञे इति श्रुतिः ॥ ७॥
तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ।
अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह ।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ८॥
इलोवाच ।
मित्रावरुणयोरंशे जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि न मां धर्मो हतोऽवधीत् ॥ ९॥
सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला ।
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ १.१०.१०॥
अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् ।
मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ ११॥
तां तथावादिनीं साध्वीमिलां धर्मपरायणाम् ।
मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत् ॥ १२॥
अनेन तव धर्मेण प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ १३॥
आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ।
मनोर्वंशधरः पुत्रस्त्वमेव च भविष्यसि ॥ १४॥
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः ॥ १५॥
निवृत्ता सा तु तच्छुत्वा गच्छन्ती पितुरन्तिकम् ।
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥ १६॥
सोमपुत्राद् बुधाद् राजंस्तस्यां जज्ञे पुरूरवाः ।
जनयित्वा सुतं सा तमिला सुद्युम्नतां गता ॥ १७॥
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।
उत्कलश्च गयश्चैव विनताश्वश्च भारत ॥ १८॥
उत्कलस्योत्कला राजन् विनताश्वस्य पश्चिमा ।
दिक् पूर्वा भरतश्रेष्ठ गयस्य तु गया पुरी ॥ १९॥
प्रविष्टे तुं मनौ तात दिवाकरमरिन्दम ।
दशधा तद्दधत्क्षत्रमकरोत् पृथिवीमिमाम् ॥ १.१०.२०॥
यूपाङ्किता वसुमती यस्येयं सवनाकरा ।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ २१॥
कन्याभावाच्च सुद्युम्नो नैनं गुणमवाप्तवान् ।
वसिष्ठवचनाच्चासीत् प्रतिष्ठाने महात्मनः ॥ २२॥
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य कुरूद्वह ।
तत्पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ २३॥
सुद्युम्नः कारयामास प्रतिष्ठाने नृपक्रियाम् ।
उत्कलस्य त्रयः पुत्रास्त्रिषु लोकेषु विश्रुताः ।
धृष्टकश्चाम्बरीषश्च दण्डश्चेति सुतास्त्रयः ॥ २४॥
यश्चकार महात्मा वै दण्डकारण्यमुत्तमम् ।
वनं तल्लोकविख्यातं तापसानामनुत्तमम् ॥ २५॥
तत्र प्रविष्टमात्रस्तु नरः पापात् प्रमुच्यते ।
सुद्युम्नश्च दिवं यात ऐलमुत्पाद्य भारत ॥ २६॥
मानवेयो महाराज स्त्रीपुंसोर्लक्षणैर्युतः ।
धृतवान् य इलेत्येव सुद्युम्नश्चातिविश्रुतः ॥ २७॥
नरिष्यतः शकाः पुत्रा नाभागस्य तु भारत ।
अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥ २८॥
धृष्णोस्तु धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ २९॥
सहस्रं क्षत्रियगणो विक्रान्तः सम्बभूव ह ।
नाभागारिष्टपुत्राश्च क्षत्रिया वैश्यतां गताः ॥ १.१०.३०॥
प्रांशोरेकोऽभवत् पुत्रः शर्यातिरिति विश्रुतः ।
नरिष्यतस्य दायादो राजा दण्डधरो दमः ।
शर्यातेर्मिथुनं चासीदानर्तो नाम विश्रुतः ॥ ३१॥
पुत्रः कन्या सुकन्याख्या या पत्नी च्यवनस्य ह ।
आनर्तस्य तु दायादो रेवो नाम महाद्युतिः ॥ ३२॥
आनर्तविषयश्चासीत् पुरी चास्य कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ३३॥
ज्येष्ठः पुत्रशतस्यासीद् राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥ ३४॥
मुहूर्तभूतं देवस्य गतं बहुयुगं प्रभो ।
आजगाम युवैवाथ स्वां पुरीं यादवैर्वृताम् ॥ ३५॥
कृतां द्वारवतीं नाम्ना बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः ॥ ३६॥
ततः स रैवतो ज्ञात्वा यथातत्त्वमरिन्दम ।
कन्यां तां बलदेवाय सुव्रतां नाम रेवतीम् ॥ ३७॥
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।
रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिवर्णनं नाम दशमोऽध्यायः ॥ १०॥
१.११ एकादशोऽध्यायः
धुन्धुवधः Elimination of demon dundhu
धुन्धुमार की कथा
जनमेजय उवाच ।
कथं बहुयुगे काले समतीते द्विजोत्तम ।
न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ १॥
मेरुं गतस्य वा तस्य शार्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥ २॥
वैशम्पायन उवाच ।
न जरा क्षुत्पिपासे वा न मृत्युर्भरतर्षभ ।
ऋतुचक्रं न भवति ब्रह्मलोके सदानघ ॥ ३॥
ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह ।
हता पुण्यजनैस्तात राक्षसैः सा कुशस्थली ॥ ४॥
तस्य भ्रातृशतं चासीद्धार्मिकस्य महात्मनः ।
तद् वध्यमानं रक्षोभिर्दिशः प्राद्रवदच्युतम् ॥ ५॥
विद्रुतस्य तु राजेन्द्र तस्य भ्रातृशतस्य वै ।
तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र ह ॥ ६॥
अन्ववायस्तु सुमहांस्तत्र तत्र विशाम्पते ।
येषामेते महाराज शार्याता इति विश्रुताः ॥ ७॥
क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः ।
सर्वशः पर्वतगणान् प्रविष्टाः कुरुनन्दन ॥ ८॥
नाभागारिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ९॥
प्रांशोरेकोऽभवत् पुत्रः प्रजातिरिति नः श्रुतम् ।
पृषध्रो हिंसयित्वा तु गुरोर्गाम जनमेजय ॥ १.११.१०॥
शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ।
वैवस्वतस्य तनया मनोर्वै भरतर्षभ ॥ ११॥
क्षुवतश्च मनोस्तात इक्ष्वाकुरभवत् सुतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ १२॥
तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ।
प्राप्तः परमधर्मज्ञः सोऽयोध्याधिपतिः प्रभुः ॥ १३॥
शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशदुत्तमाः ।
उत्तरापथदेशस्था रक्षितारो महीपते ॥ १४॥
चत्वारिंशदथाष्टौ च दक्षिणस्यां तथा दिशि ।
शशादप्रमुखाश्चान्ये रक्षितारो विशाम्पते ॥ १५॥
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ।
मांसमानय श्राद्धार्थं मृगान् हत्वा महाबलः ॥ १६॥
श्राद्धकर्मणि चोद्दिष्टमकृते श्राद्धकर्मणि ।
भक्षयित्वा शशं तात शशादो मृगयागतः ॥ १७॥
इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः ।
इक्ष्वाकौ संस्थिते तात शशादः पुरमावसत् ॥ १८॥
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान् ॥ १९॥
पूर्वं देवासुरे युद्धे ककुत्स्थस्तेन हि स्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः ॥ १.११.२०॥
विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ।
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्य तु चात्मजः ॥ २१॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २२॥
कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ।
यः स धुन्धुवधाद् राजा धुन्धुमारत्वमागतः ॥ २३॥
जनमेजय उवाच ।
धुन्धोर्वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
यदर्थं कुवलाश्वः सन् धुन्धुमारत्वमागतः ॥ २४॥
वैशम्पायन उवाच ।
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ २५॥
बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुवलाश्वं सुतं राज्ये बृहदश्वो न्ययोजयत् ॥ २६॥
पुत्रसङ्क्रामितश्रीस्तु वनं राजा समाविशत् ।
तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ २७॥
उत्तङ्क उवाच ।
भवता रक्षणं कार्यं तत् तावत् कर्तुमर्हसि ।
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोषि पार्थिव ॥ २८॥
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ २९॥
पालने हि महान् धर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये मा ते भूद् बुद्धिरीदृशी ॥ १.११.३०॥
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ।
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥ ३१॥
ममाश्रमसमीपे हि समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्णं उज्जानक इति श्रुतः ।
देवतानामवध्यश्च महाकायो महाबलः ॥ ३२॥
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ।
राक्षसस्य मधोः पुत्रो धुन्धुनामा महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ३३॥
संवत्सरस्य पर्यन्ते स निःश्वासं प्रमुञ्चति ।
यदा तदा भूश्चलति सशैलवनकानना ॥ ३४॥
तस्य निःश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ३५॥
सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ।
तेन तात न शक्नोमि तस्मिन् स्थातुं स्वकाश्रमे ॥ ३६॥
तं मारय महाकायं लोकानां हितकाम्यया ।
लोकाः स्वस्थाभवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥ ३७॥
त्वं हि तस्य वधायैकः समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ ॥ ३८॥
यस्त्वं महासुरं रौद्रं हनिष्यसि महाबलम् ।
तस्य त्वं वरदानेन तेज आप्याययिष्यसि ॥ ३९॥
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ।
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥ १.११.४०॥
स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे ॥ ४१॥
बृहदश्व उवाच ।
भगवन् न्यस्तशस्त्रोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ४२॥
स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।
जगाम पर्वतायैव तपसे संशितव्रतः ॥ ४३॥
कुवलाश्वस्तु पुत्राणां शतेन सह पार्थिवः ।
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य विनिग्रहे ॥ ४४॥
तमाविशत् तदा विष्णुर्भगवांस्तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद् वै लोकस्य हितकाम्यया ॥ ४५॥
तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति ॥ ४६॥
दिव्यैर्माल्यैश्च तं देवाः समन्तात् समवाकिरन् ।
देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ॥ ४७॥
स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् ।
समुद्रं खानयामास वालुकार्णवमव्ययम् ॥ ४८॥
नारायणेन कौरव्य तेजसाऽऽप्यायितः स वै ।
बभूव स महातेजा भूयो बलसमन्वितः ॥ ४९॥
तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्हितस्तदा ।
धुन्धुरासादितो राजन्दिशमावृत्य पश्चिमाम् ॥ १.११.५०॥
मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव ।
वारि सुस्राव वेगेन महोदधिरिवोदये ॥ ५१॥
सोमस्य भरतश्रेष्ठ धारोर्मिकलिलं महत् ।
तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ ५२॥
ततः स राजा कौरव्य राक्षसं तं महाबलम् ।
आससाद महातेजा धुन्धुं धुन्धुनिबर्हणः ॥ ५३॥
तस्य वारिमयं वेगमापीय स नराधिपः ।
योगी योगेन वह्निं च शमयामास वारिणा ॥ ५४॥
निहत्य तं महाकायं बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ ५५॥
उत्तङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने ।
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ ५६॥
धर्मे रतिं च सततं स्वर्गवासं तथाक्षयम् ।
पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये रक्षसाहताः ॥ ५७॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि धुन्धुवधे एकादशोऽध्यायः ॥ ११॥
१.१२ द्वादशोऽध्यायः
गालवोत्पत्तिः Legend of gAlava
धुन्धुमारके वंश का वर्णन और गालव की उत्पत्ति
वैशम्पायन उवाच ।
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
चन्द्राश्वकपिलाश्वौ तु कुमारौ द्वौ कनीयसौ ॥ १॥
धौन्धुमारिर्दृढा श्वस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥ २॥
संहताश्वो निकुम्भस्य पुत्रो रणविशारदः ।
अकृशाश्वः कृशाश्वश्च संहताश्वसुतौ नृप ॥ ३॥
तस्य हैमवती कन्या सतां माता दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ ४॥
लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ५॥
तस्याः पुत्रो महानासीद्युवनाश्वो महीपतिः ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ६॥
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ७॥
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च धार्मिकं
पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः ॥ ९॥
नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः ।
सम्भूतस्य तु दायादः सुधन्वा नाम पार्थिवः ॥ १.१२.१०॥
सुधन्वनः सुतश्चासीत्त्रिधन्वा रिपुमर्दनः ।
राज्ञस्त्रिधन्वनस्त्वासीद् विद्वांस्त्रय्यारुणः सुतः ॥ ११॥
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
पाणिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः ॥ १२॥
येन भार्या हृता पूर्व कृतोद्वाहा परस्य वै ।
बाल्यात् कामाच्च मोहाच्च संहर्षाच्चापलेन च ॥ १३॥
जहार कन्यां कामात्स कस्यचित्पुरवासिनः ।
अधर्मशङ्कुना तेन राज्ञा त्रय्यारुणोऽत्यजत् ॥ १४॥
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ।
पितरंसोऽब्रवीत्त्यक्तः क्व गच्छामीति वै मुहुः ॥ १५॥
पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥ १६॥
इत्युक्तः स निराक्रामन्नगराद् वचनात्पितुः ।
न च तं वारयामास वसिष्ठो भगवानृषिः ॥ १७॥
स तु सत्यव्रतस्तात श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता तस्य वनं ययौ ॥ १८॥
ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा ॥ १९॥
दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ॥ १.१२.२०॥
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै ॥ २१॥
तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा मोक्षयामास भारत ॥ २२॥
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥ २३॥
सोऽभवद् गालवो नाम गलबन्धान्महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥ २४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि गालवोत्पत्तौ द्वादशोऽध्यायः ॥ १२॥
१.१३ त्रयोदशोऽध्यायः
त्रिशङ्कुचरितं Legend of trisha~Nku
त्रिशङ्कु के चरित्र का वर्णन तथा उनके वंश र्मे हरिश्चन्द्र आदि का उत्पन्न होना
वैशम्पायन उवाच ।
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तद् बभार विनये स्थितः ॥ १॥
हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध सः ॥ २॥
उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादवसत् तस्मिन् वनगते नृपे ॥ ३॥
अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसम्बन्धाद् वसिष्ठः पर्यरक्षत ॥ ४॥
सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वा बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास वै तदा ॥ ५॥
पित्रा तु तं तदा राष्ट्रात् त्यज्यमानं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ ६॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ७॥
जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भारत ।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८॥
गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ९॥
तस्मिन्नपरितोषो यः पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥ १.१३.१०॥
तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिस्तात कृता सा वै भवेदिति ॥ ११॥
न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवं मतिर्मुनेः ॥ १२॥
स तु द्वादशवर्षाणि दीक्षां तामुद्वहद् बली ।
उपांशुव्रतमास्थाय महत् सत्यव्रतो नृप ॥ १३॥
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ।
सर्वकामदुघां दोग्ध्रीं ददर्श स नृपात्मजः ॥ १४॥
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधार्दितः ।
दशधर्मान् गतो राजा जघान जनमेजय ॥ १५॥
तच्च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ।
भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ।
क्रुद्धस्तु भगवान् वाक्यमिदमाह नृपात्मजम् ॥ १६॥
वसिष्ठ उवाच ।
पातयेयमहं क्रूर तव शङ्कुमसंशयम् ।
यदि ते द्वाविमौ शङकू न स्यातां वै कृतौ पुनः ॥ १७॥
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १८॥
वैशम्पायन उवाच ।
एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥ १९॥
विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
स तु तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥ १.१३.२०॥
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो मुनिः ॥ २१॥
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
राज्येऽभिषिच्य पित्र्ये तु याजयामास तं मुनिः ॥ २२॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं तु दिवमारोपयत् प्रभुः ॥ २२॥
तस्य सत्यरथा नाम भार्या कैकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ २४॥
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य स संराडिति विश्रुतः ॥ २५॥
हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम वीर्यवान् ।
येनेदं रोहितपुरं कारितं राज्यसिद्धये ॥ २६॥
कृत्वा राज्यं स राजर्षिः पालयित्वा त्वथ प्रजाः ।
संसारासारतां ज्ञात्वा द्विजेभ्यस्तत्पुरं ददौ ॥ २७॥
हरितो रोहितस्याथ चञ्चुर्हारीत उच्यते ।
विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ॥ २८॥
जेता क्षत्त्रस्य सर्वस्य विजयस्तेन संस्मृतः ।
रुरुकस्तनयस्तस्य राजधर्मार्थकोविदः ॥ २९॥
रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ।
शकैर्यवनकाम्बोजैः पारदैः पह्लवैः सह ॥ १.१३.३०॥
हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।
नात्यर्थं धार्मिकस्तात स हि धर्मयुगेऽभवत् ॥ ३१॥
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण च ।
और्वस्याश्रममागम्य भार्गवेणाभिरक्षितः ॥ ३२॥
आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ।
जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् ॥
शकानां पह्लवानां च धर्मं निरसदच्युतः ।
क्षत्रियाणां कुरुश्रेष्ठ पारदानां स धर्मवित् ॥ ३४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रिशङ्कुचरितकथनं नाम त्रयोदशोऽध्यायः ॥ १३॥
१.१४ चतुर्दशोऽध्यायः
सगरोत्पत्तिः Emergence of emperor sagara
सगरकी उत्पत्ति और चरित्र तथा सगरपुत्रों के उद्योग से समुद्र का ``सागर'' होना
जनमेजय उवाच ।
कथं स सगरो जातो गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ १॥
धर्मं कुलोचितं क्रुद्धो राजा निरसदच्युतः ।
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन ॥ २॥
वैशम्पायन उवाच ।
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत् किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं विशाम्पते ॥ ३॥
यवनाः पारदाश्चैव काम्बोजाः पह्लवाः खसाः ।
एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ४॥
हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ ।
पत्न्या चानुगतो दुःखी वने प्राणानवासृजत् ॥ ५॥
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् ।
सपत्न्या च गरस्तस्यै दत्तः पूर्वमभूत् किल ॥ ६॥
सा तु भर्तुश्चितां कृत्वा वने तामध्यरोहत ।
और्वस्तां भार्गवस्तात कारुण्यात् समवारयत् ॥ ७॥
तस्याश्रमे च तं गर्भं गरेणैव सहाच्युतम् ।
व्यजायत महाबाहुं सगरं नाम पार्थिवम् ॥ ८॥
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ९॥
आग्नेयं तु महाघोरममरैरपि दुःसहम् ।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ १.१४.१०॥
हैहयान्निजघानाशु क्रुद्धो रुद्रः पशूनिव ।
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ११॥
ततः शकान्सयवनान्काम्बोजान्पारदांस्तथा ।
पह्लवांश्चैव निःशेषान् कर्तुं व्यवसितस्तदा ॥ १२॥
ते वध्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ १३॥
वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ १४॥
सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च ।
धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥ १५॥
अर्द्धं शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ १६ (
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ १७॥
शका यवनकाम्बोजाः पारदाश्च विशाम्पते ।
कोलिसर्पाः समहिषा दार्द्याश्चोलाः सकेरलाः ॥ १८॥
सर्वे ते क्षत्रियास्तात धर्मस्तेषां निराकृतः ।
वसिष्ठवचनाद् राजन् सगरेण महात्मना ॥ १९॥
खसांस्तुषारांश्चोलांश्च मद्रान्किष्किन्धकांस्तथा ।
कौन्तलांश्च तथा वङ्गान्साल्वान् कौङ्कणकांस्तथा ॥ १.१४.२०॥
स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं वै प्रेरयामास वाजिमेधाय दीक्षितः ॥ २१॥
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ २२॥
स तं देशं तदा पुत्रैः खानयामास पार्थिवः ।
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ॥ २३॥
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषोत्तमम् ॥ २४॥
तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः ।
दग्धास्ते वै महाराज चत्वारस्त्ववशेषिताः ॥ २५॥
बर्हकेतुः सुकेतुश्च तथा धर्मरथो नृपः ।
शूरः पञ्चजनश्चैव तस्य वंशकरो नृपः ॥ २६॥
प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरान् ।
अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तनीम् ॥ २७॥
पुत्रं समुद्रं च विभुः स्वर्गवासं तथाक्षयम् ।
पुत्राणां चाक्षयाँल्लोकांस्तस्य ये चक्षुषा हताः ॥ २८॥
समुद्रश्चार्घ्यमादाय ववन्दे तं महीपतिम् ।
सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥ २९॥
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ।
आजहाराश्वमेधानां शतं स सुमहायशाः ।
पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ १.१४.३०॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सगरोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥ १४॥
१.१५ पञ्चदशोऽध्यायः
अदित्यस्य वंशानुकीर्तनम् Dynasty of solar kings
सूर्यवंश का वर्णन
जनमेजय उवाच ।
सगरस्यात्मजा वीराः कथं जाता महात्मनः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज ॥ १॥
वैशम्पायायन उवाच ।
द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता ॥ २॥
कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ३॥
और्वस्ताभ्यां वरं प्रादात् तं निबोध जनाधिप ।
षष्टिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी ॥ ४॥
एकं वंशधरं त्वेका यथेष्ठं वरयत्विति ।
तत्रैका जगृहे पुत्राँल्लुब्धा शूरान् बहूंस्तथा ॥ ५॥
एकं वंशधरं त्वेका तथेत्याह च तां मुनिः ।
केशिन्यसूत सगरादसमञ्जसमात्मजम् ॥ ६॥
राजा पञ्चजनो नाम बभूव सुमहाबलः ।
इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ॥ ७॥
तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ।
सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम् ॥ ८॥
घृतपूर्णेषु कुम्भेषु तान्गर्भान् निदधे पिता ।
धात्रीश्चैकैकशः प्रादात् तावतीरेव पोषणे ॥ ९॥
ततो दशसु मासेषु समुत्तस्थुर्यथासुखम् ।
कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ॥ १.१५.१०॥
षष्टिः पुत्रसहस्राणि तस्यैवमभवन् नृप ।
गर्भादलाबुमध्याद् वै जातानि पृथिवीपते ॥ ११॥
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ १२॥
सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्त्वस्य खट्वाङ्ग इति विश्रुतः ॥ १३॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ ॥ १४॥
दिलीपस्य तु दायादो महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥ १५॥
कीर्तिमान् स महाभागः शक्रतुल्यपराक्रमः ।
समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत् ।
तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ॥ १६॥
भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।
नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः ॥ १७॥
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत,
अयुताजित्तु दायादःसिन्धुद्वीपस्य वीर्यवान् ॥ १८॥
अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥ १९॥
ऋतुपर्णसुतस्त्वासीदार्तुपर्णिर्महीपतिः ।
सुदासस्तस्य तनयो राजात्विन्द्रसखोऽभवत् ॥ १.१५.२०॥
सुदासस्य सुतस्त्वासीत्सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ २१॥
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः ॥ २२॥
अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ।
अनमित्रो रघुश्चैव पार्थिवर्षभ सत्तमौ ॥ २३॥
अनमित्रस्य धर्मात्मा विद्वान् दुलिदुहोऽभवत् ।
दिलीपस्तनयस्तस्य रामप्रप्रपितामहः ॥ २४॥
दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत् सुतः ।
अयोध्यायां महाराजो रघुश्चासीन्महाबलः ॥ २५॥
अजस्तु रघुतो जज्ञे अजाद् दशरथोऽभवत् ।
रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः ॥ २६॥
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ २७॥
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ २८॥
क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकसुतः प्रभुः ॥ २९॥
अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः ॥ १.१५.३०॥
उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः ॥ ३१॥
शङ्खस्तस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः ।
पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः ॥ ३२॥
सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् ।
अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः ॥ ३३॥
मरुस्तु योगमास्थाय कलापद्वीपमास्थितः ।
तस्यासीद् विश्रुतवतः पुत्रो राजा बृहद्बलः ॥ ३४॥
नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ३५॥
इक्ष्वाकुवंशप्रभवाः प्राधान्येनेह कीर्तिताः ।
एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ३६॥
पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ३७॥
प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ।
विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आदित्यस्य वंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥ १५॥
१.१६ षोडशोऽध्यायः
श्राद्धकल्पप्रसङ्गः Beatification of manes
श्राद्धकल्प-जनमेजय द्वारा पिता का श्राद्ध तथा पितृस्वरूपनिर्णयसम्बन्धी प्रश्न, शन्तनु का अपने श्राद्ध में स्वयं हाथ बढाकर भीष्म से पिण्ड माँगना
जनमेजय उवाच ।
कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।
श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम् ॥ १॥
पितॄणामादिसर्गं च क एते पितरः स्मृताः ।
एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः ॥ २॥
स्वर्गस्थाः पितरो ये च देवानामपि देवताः ।
इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् ॥ ३॥
ये च तेषां गणाः प्रोक्ता यच्च तेषां बलं परम् ।
यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥ ४॥
प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ।
एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम् ॥ ५॥
वैशम्पायन उवाच ।
हन्त ते कथयिष्यामि पितॄणां सर्गमुत्तमम् ।
यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।
प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ॥ ६॥
मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।
अपृच्छद् धर्मराजो हि शरतल्पगतं पुरा ।
एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि ॥ ७॥
तत् तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ ८॥
युधिष्ठिर उवाच ।
पुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते ।
एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति ॥ ९॥
भीष्म उवाच ।
श्राद्धैः प्रीणाति हि पितॄन् सर्वकामफलैस्तु यः ।
तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥ १.१६.१०॥
पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥ ११॥
युधिष्ठिर उवाच ।
वर्तन्ते पितरः स्वर्गे केषाञ्चिन्नरके पुनः ।
प्राणिनां नियतं वापि कर्मजं फलमुच्यते ॥ १२॥
श्राद्धानि चैव कुर्वन्ति फलकामा सदा नराः ।
अभिसन्धाय पितरं पितुश्च पितरं तथा ॥ १३॥
पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः ।
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥ १४॥
कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।
के वा ते पितरोऽन्ये स्म कान् यजामो वयं पुनः ॥ १५॥
देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥ १६॥
स भवान् कथयत्वेतां कथाममितबुद्धिमान् ।
यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥ १७॥
भीष्म उवाच ।
अत्र ते कीर्तयिष्यामि यथाश्रुतमरिन्दम ।
ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः ।
पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥ १८॥
श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।
तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ १९॥
हस्ताभरणपूर्णेन केयूराभरणेन च ।
रक्ताङ्गुलितलेनाथ यथा दृष्टः पुरा मया ॥ १.१६.२०॥
नैष कल्पे विधिर्दृष्ट इति सञ्चिन्त्य चान्यहम् ।
कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ॥ २१॥
ततः पिता मे सुप्रीतो वाचा मधुरया तदा ।
उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥ २२॥
त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च ।
सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥ २३॥
मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत ।
व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ ॥ २४॥
यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता ॥ २५॥
प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः ।
प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥ २६॥
त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः ।
कृताः प्रमाणं प्रीतिश्च मम निर्वर्तितातुला ॥ २७॥
तस्मात् तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।
ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम् ॥ २८॥
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता तव ॥ २९॥
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।
तद् ब्रूहि भरतश्रेष्ठ यत् ते मनसि वर्तते ॥ १.१६.३०॥
इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः ।
अब्रवं कृतकृत्योऽहं प्रसन्ने त्वयि सत्तम ॥ ३१॥
यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते ।
प्रश्नमिच्छामि वै किञ्चिद् व्याहृतं भवता स्वयम् ॥ ३२॥
स मामुवाच धर्मात्मा ब्रूहि भीष्म यदिच्छसि ।
छेत्तास्मि संशयं सर्वं यन्मां पृच्छसि भारत ॥ ३३॥
अपृच्छं तमहं तातं तत्रान्तर्हितमेव च ।
गतं सुकृतिनां लोकं कौतूहलसमन्वितः ॥ ३४॥
भीष्म उवाच ।
श्रूयन्ते पितरो देवा देवानामपि देवताः ।
वाश्च पितरोऽन्ये वा कान् यजामो वयं पुनः ॥ ३५॥
कथं च दत्तमस्माभिः श्राद्धं प्रीणात्यथो पितॄन् ।
लोकान्तरगतांस्तात किन्नु श्राद्धस्य वा फलम् ॥ ३६॥
न् यजन्ति स्म लोका वै सदेवनरदानवाः ।
सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥ ३७॥
अत्र मे संशयस्तीव्रः कौतूहलमतीव च ।
तद् ब्रूहि मम धर्मज्ञ सर्वज्ञौ ह्यसि मे मतः ।
एतच्छ्रुत्वा वचस्तस्य भीष्मस्योवाच वै पिता ॥ ३८॥
शन्तनुरुवाच ।
सङ्क्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत ।
पितरश्च यथोद्भूताः फलं दत्तस्य चानघ ॥ ३९॥
पितॄणां कारणं श्राद्धे शृणु सर्वै समाहितः ।
दिदेवसुतास्तात पितरो दिवि देवताः ॥ १.१६.४०॥
तान् यजन्ति स्म वै लोका सदैवासुरमानुषाः ।
सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥ ४१॥
आप्यायिताश्च ते श्राद्धे पुनराप्याययन्ति च ।
जगत् सदेवगन्धर्वमिति ब्रह्मानुशासनम् ॥ ४२॥
तान् यजस्व महाभाग श्राद्धैरग्र्यैरतन्द्रितः ।
ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः ॥ ४३॥
त्वया चाराध्यमानास्ते नामगोत्रादिकीर्तनैः ।
अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत ॥ ४४॥
मार्कण्डेयस्तु ते शेषमेतत् सर्वं प्रवक्ष्यति ।
एष वै पितृभक्तश्च विदितात्मा च भारत ॥ ४५॥
उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै ।
एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत ॥ ४६॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि श्राद्धकल्पप्रसङ्गो नाम षोडशोऽध्यायः ॥ १६॥
१.१७ सप्तदशोऽध्यायः
पितृकल्पः - १ Beatification of manes - 1
पितृकल्प-भीष्म मार्कण्डेयसंवाद और मार्कण्डेयजी के साथ सनत्कुमारजी की बातचीत
भीष्म उवाच ।
ततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः ।
प्रश्नं तमेवान्वपृच्छं यन्मे पृष्टः पुरा पिता ॥ १॥
स मामुवाच धर्मात्मा मार्कण्डेयो महातपाः ।
भीष्म वक्ष्यामि कार्त्स्न्येन शृणुष्व प्रयतोऽनघ ॥ २॥
अहं पितृप्रसादाद् वै दीर्धायुष्ट्वमवाप्तवान् ।
पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः ॥ ३॥
सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके ।
अधिरुह्य गिरिं मेरुं तपोऽतप्यं सुदुश्चरम् ॥ ४॥
ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा ।
विमानं महदायान्तमुत्तरेण गिरेस्तदा ॥ ५॥
तस्मिन् विमाने पर्यङ्के ज्वलितादित्यसन्निभम् ।
अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम ॥ ६॥
अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।
सोऽहं तस्मै नमस्कृत्वा प्रणम्य शिरसा विभुम् ॥ ७॥
सन्निविष्टं विमानस्थं पाद्यार्घ्याभ्यामपूजयम् ।
अपृच्छं चैव दुर्धर्षं विद्याम त्वां कथं विभो ॥ ८॥
तपोवीर्यात् समुत्पन्नं नारायण गुणात्मकम ।
दैवतं ह्यसि देवानामिति मे वर्तते मतिः ॥ ९॥
स मामुवाच धर्मात्मा स्मयमान इवानघ ।
न ते तपः सुचरितं येन मां नावबुध्यसे ॥ १.१७.१०॥
क्षणेनैव प्रमाणं स बिभ्रदन्यदनुत्तमम् ।
रूपेण न मया कृश्चिद् दृष्टपूर्वः पुमान् क्वचित् ॥ ११॥
सनत्कुमार उवाच ।
विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं विभोः ।
तपोवीर्यसमुत्पन्नं नारायणगुणात्मकम् ॥ १२॥
सनत्कुमार इति यः श्रुतो देवेषु वै पुरा ।
सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते ॥ १३॥
ये त्वन्ये ब्रह्मणः पुत्रा यवीयांसस्तु ते मम ।
भ्रातरः सप्त दुर्धर्षास्तेषां वंशाः प्रतिष्ठिताः ॥ १४॥
क्रतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः ।
मरीचिस्तु तथा धीमान् देवगन्धर्वसेविताः ।
त्रीँल्लोकान् धारयन्तीमान देवगन्धर्वपूजिताः ॥ १५॥
वयं तु यतिधर्माणः संयोज्यात्मानमात्मनि ।
प्रजाधर्मं च कामं च व्यपहाय महामुने ॥ १६॥
यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् ।
तस्मात् सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥ १७॥
मद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया ।
एष दृष्टोऽस्मि भवता कं कामं करवाणि ते ॥ १८॥
इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् ।
अनुज्ञातो भगवता प्रीयमाणेन भारत ॥ १९॥
ततोऽहमेनमर्थं वै तमपृच्छं सनातनम् ।
पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ ॥ १.१७.२०॥
चिच्छेद संशयं भीष्म स तु देवेश्वरो मम ।
स मामुवाच धर्मात्मा कथान्ते बहुवार्षिके ।
रमे त्वयाहं विप्रर्षे शृणु सर्वं यथातथम् ॥ २१॥
देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव ।
तमुत्सृज्य तथात्मानमयजंस्ते फलार्थिनः ॥ २२॥
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा दिवौकसः ।
न स्म किञ्चिद् विजानन्ति ततो लोकोऽप्यमुह्यत ॥ २३॥
ते भूयः प्रणताः शप्ताः प्रायाचन्त पितामहम् ।
अनुग्रहाय लोकानां ततस्तानब्रवीदिदम् ॥ २४॥
प्रायश्चितं चरध्वं वै व्यभिचारो हि वः कृतः ।
पुत्रांश्च परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ २५॥
प्रायश्चित्तक्रियार्थं ते पुत्रान् पप्रच्छुरार्तवत् ।
तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा ॥ २६॥
प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै ।
शंसन्ति कुशला नित्यं चक्षुर्भ्यामपि नित्यशः ॥ २७॥
प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः ।
गम्यन्तां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा ॥ २८॥
अभिशप्तास्तु ते देवाः पुत्रवाक्येन निन्दिताः ।
पितामहमुपागच्छन् संशयच्छेदनाय वै ॥ २९॥
ततस्तानब्रवीद् देवो यूयं वै ब्रह्मवादिनः ।
तस्माद् यदुक्तं युष्माकं तत्तथा न तदन्यथा ॥ १.१७.३०॥
यूयं शरीरकर्तारस्तेषां देवा भविष्यथ ।
ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥ ३१॥
अन्योन्यं पितरो यूयं ते चैवेति न संशयः ।
देवाश्च पितरश्चैव तद् बुध्यध्वं दिवौकसः ॥ ३२॥
ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः ।
ब्रह्मणा च्छिन्नसन्देहाः प्रीतिमन्तः परस्परम् ॥ ३३॥
यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ।
धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् ॥ ३४॥
यदुक्तं चैव युष्माभिस्तत् तथा न तदन्यथा ।
उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् ।
तस्माद् भवन्तः पितरो भविष्यन्ति न संशयः ॥ ३५॥
योऽनिष्ट्वा तु पितॄञ्छ्राद्धैः क्रियाः काश्चित् करिष्यति ।
राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् ॥ ३६॥
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।
आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यदा ॥ ३७॥
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
समुद्रपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥ ३८॥
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ ३९॥
श्राद्धे ये च प्रदास्यन्ति त्रीन् पिण्डान्नामगोत्रतः ।
सर्वत्र वर्तमानांस्तान् पितरः सपितामहान् ।
भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥ १.१७.४०॥
एवमाज्ञापितं पूर्वे ब्रह्मणा परमेष्ठिना ।
इति तद्वचनं सत्यं भवत्वद्य दिवौकसः ।
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ ४१॥
सनत्कुमार उवाच ।
त एते पितरो देवा देवाश्च पितरस्तथा ।
अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ॥ ४२॥
इति खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे सप्तदशोऽध्यायः ॥ १७॥
१.१८ अष्टादशोऽध्यायः
पितृकल्पः - २ Institution of fatherly gods
पितृकल्प-मार्कण्डेय सनत्कुमार संवाद में पितरो के गण, लोक, शक्ति और कन्याओं का वर्णन तथा पितरो के प्रभाव को देखने के लिये मार्कण्डेयजी को दिव्य दृष्टि की प्राप्ति
मार्कण्डेय उवाच ।
इत्युक्तोऽहं भगवता देवदेवेन भास्वता ।
सनत्कुमारेण पुनः पृष्टवान् देवमव्ययम् ॥ १॥
सन्देहममरश्रेष्ठं भगवन्तमरिन्दमम् ।
निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः ॥ २॥
कियन्तो वै पितृगणाः कस्मिंल्लोके प्रतिष्ठिताः ।
वर्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ॥ ३॥
सनत्कुमार उवाच ।
सप्तैते यजतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ॥ ४॥
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छृणु ।
प्रभावं च महत्त्वं च विस्तरेण तपोधन ॥ ५॥
धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः ।
तेषां नामानि लोकांश्च कथयिष्यामि तच्छृणु ॥ ६॥
लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ ७॥
विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः ।
यजन्ति तान् देवगणा विधिदृष्टेन कर्मणा ॥ ८॥
एते वै योगविभ्रष्टा लोकान् प्राप्य सनातनान् ।
पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥ ९॥
ते तु प्राप्य स्मृतिं भूयः साङ्ख्यं योगमनुत्तमम् ।
यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ॥ १.१८.१०॥
एते स्युः पितरस्तात योगिनां योगवर्द्धनाः ।
आप्याययन्ति ये पूर्वं सोमं योगबलेन च ॥ ११॥
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।
एष वै प्रथमः सर्गः सोमपानां महात्मनाम् ॥ १२॥
एतेषां मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥ १३॥
मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः पुत्रो नानारत्नसमन्वितः ॥ १४॥
तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥ १५॥
तपश्चरन्त्यः सुमहद् दुश्चरं देवदानवैः ।
लोकान् सन्तापयामासुस्तास्तिस्रः स्थाणुजङ्गमान् ॥ १६॥
आहारमेकपर्णेन एकपर्णा समाचरत् ।
पाटलापुष्पमेकं च आदधावेकपाटला ॥ १७॥
एका तत्र निराहारा तां माता प्रत्यषेधयत् ।
``उ ``मा'' इति निषेधन्ती मातृस्नेहेन दुःखिता ॥ १८॥
सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
उमेत्येवाभवत् ख्याता त्रिषु लोकेषु सुन्दरी ॥ १९॥
तथैव नाम्ना तेनेह विश्रुता योगधर्मिणी ।
एतत्तु त्रिकुमारीकं जगत्स्थास्यति भार्गव ॥ १.१८.२०॥
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥ २१॥
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥ २२॥
असितस्यैकपर्णा तु देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन् योगाचार्याय धीमते ॥ २३॥
जैगीषव्याय तु तथा विद्धि तामेकपाटलाम् ।
एते चापि महाभागे योगाचार्यावुपस्थिते ॥ २४॥
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ।
पितरो यत्र वर्तन्ते देवास्तान् भावयन्त्युत ॥ २५॥
अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः ।
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ॥ २६॥
अच्छोदं नाम विख्यातं सरो यस्याः समुत्थितम् ।
तया न दृष्टपूर्वास्ते पितरस्तु कदाचन ॥ २७॥
अप्यमूर्तानथ पितॄन् सा ददर्श शुचिस्मिता ।
सम्भूता मनसा तेषां पितॄन् स्वान् नाभिजानती ॥ २८॥
व्रीडिता तेन दुःखेन बभूव वरवर्णिनी ।
सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम् ॥ २९॥
अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् ।
अद्रिकाप्सरसायुक्तं विमानेऽधिष्ठितं दिवि ॥ १.१८.३०॥
सा तेन व्यभिचारेण मनसः कामरूपिणी ।
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ॥ ३१॥
त्रीण्यपश्यद् विमानानि पतमाना दिवश्च्युता ।
त्रसरेणुप्रमाणानि सापश्यत्तेषु तान् पितॄन् ॥ ३२॥
सुसूक्ष्मानपरिव्यक्तानग्नीनग्नीष्विवाहितान् ।
त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्शिराः ॥ ३३॥
तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता ।
ततः प्रसादयामास तान् पितॄन् दीनया गिरा ॥ ३४॥
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यो व्यतिक्रमात् ।
भ्रष्टश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ॥ ३५॥
यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि दैवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥ ३६॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं तपसः पुत्रि प्रेत्येदं प्राप्स्यसे फलम् ॥ ३७॥
इत्युक्ता पितृभिः सा तु पितॄन्प्रासादयत्स्वकान् ।
ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया ॥ ३८॥
अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तु ताम् ।
अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि ॥ ३९॥
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ।
कन्या च भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान् ॥ १.१८.४०॥
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ।
स वेदमेकं ब्रह्मर्षिश्चतुर्धा विभजिष्यति ॥ ४१॥
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्तिवर्द्धनौ ।
विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं शुभम् ॥ ४२॥
एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि ।
व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम् ॥ ४३॥
अस्यैव राज्ञः कन्या त्वमद्रिकाया भविष्यसि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ ४४॥
एवमुक्ता तु दाशेयी जाता सत्यवती तदा ।
मत्स्ययोनौ समुत्पन्ना राज्ञस्तस्य वसोः सुता ॥ ४५॥
वैभ्राजा नाम ते लोका दिवि सन्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः ॥ ४६॥
तान् वै देवगणाः सर्वे यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः ॥ ४७॥
एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः ।
महात्मनो महाभागास्तेजोयुक्तास्तपस्विनः ॥ ४८॥
एतेषां मानसी कन्या पीवरी नाम विश्रुता ।
योगा च योगिपत्नी च योगिमाता तथैव च ॥ ४९॥
भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा ।
पराशरकुलोद्भूतः शुको नाम महातपाः ॥ १.१८.५०॥
भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः ।
व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन् ॥ ५१॥
स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश्च चतुरो योगाचार्यान्महाबलान् ॥ ५२॥
कृष्णं गौरं प्रभुं शम्भुं कृत्वीं कन्यां तथैव च ।
ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च ॥ ५३॥
एतानुत्पाद्य धर्मात्त्मा योगाचार्यान्महाव्रतान् ।
श्रुत्वा स्वजनकाद् धर्मान्व्यासादमितबुद्धिमान् ॥ ५४॥
महायोगी ततो गन्ता पुनरावर्तिनीं गतिम् ।
यत्तत्पदमनुद्विग्नमव्ययं ब्रह्म शाश्वतम् ॥ ५५॥
अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने ।
कथा यत्रेयमुत्पन्ना वृष्ण्यन्धककुलान्वया ॥ ५६॥
सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
निरता दिवि लोकेषु ज्योतिर्भासिषु भासुराः ।
सर्वकामसमृद्धेषु द्विजास्तान् भावयन्त्युत ॥ ५७॥
तेषां वै मानसी कन्या गौर्नाम्ना दिवि विश्रुता ।
तवैव वंशे या दत्ता शुकस्य महिषी प्रिया ।
एकशृङ्गेति विख्याता साध्यानां कीर्तिवर्द्धिनी ॥ ५८॥
मरीचिगर्भांस्ताँल्लोकान् समाश्रित्य व्यवस्थिताः ।
ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा ॥ ५९॥
तान् क्षत्रियगणास्तात भावयन्ति फलार्थिनः ।
तेषां तु मानसी कन्या यशोदा नाम विश्रुता ॥ १.१८.६०॥
पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः ।
राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥ ६१॥
तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः ।
तदा देवयुगे तात वाजिमेधे महामखे ॥ ६२॥
अग्नेर्जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः ।
दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः ।
सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः ॥ ६३॥
सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नास्तु पुलहान्महात्मानो द्विजर्षभाः ॥ ६४॥
लोकेषु दिवि वर्तन्ते कामगेषु विहङ्गमाः ।
तांश्च वैश्यगणास्तात भावयन्ति फलार्थिनः ॥ ६५॥
तेषां वै मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी ब्रह्मन् महिषी नहुषस्य च ॥ ६६॥
त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां ते सोमपा वै कवेः सुताः ।
हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत ॥ ६७॥
मानसा नाम ते लोका यत्र तिष्ठन्ति ते दिवि ।
तेषां वै मानसी कन्या नर्मदा सरितां वरा ॥ ६८॥
या भावयति भूतानि दक्षिणापथगामिनी ।
पुरुकुत्सस्य या पत्नी त्रसद्दस्योर्जनन्यपि ॥ ६९॥
तेषामथाभ्युपगमान्मनुस्तात युगे युगे ।
प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः ॥ १.१८.७०॥
पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम ।
तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै ॥ ७१॥
सर्वेषां राजतं पात्रमथ वा रजसान्वितम् ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥ ७२॥
सोमस्याप्यायनं कृत्वा अग्नेर्वैवस्वतस्य च ।
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ॥ ७३॥
पितॄन् प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ॥ ७४॥
स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥ ७५॥
देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् ।
शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् ॥ ७६॥
स्थिरप्रसादाश्च सदा तान् नमस्यस्व भार्गव ।
पितृभक्तोऽसि विप्रर्षे मद्भक्तश्च विशेषतः ॥ ७७॥
श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् ।
दिव्यं चक्षुः सविज्ञानं प्रदिशामि च तेऽनघ ॥ ७८॥
गतिमेतामप्रमत्तो मार्कण्डेय निशामय ।
न हि योगगतिर्दिव्या पितॄणां च परा गतिः ॥ ७९॥
त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा ।
स एवमुक्त्वा देवेशो मामुपस्थितमग्रतः ॥ १.१८.८०॥
चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् ।
जगाम गतिमिष्टां वै द्धितीयोऽग्निरिव ज्वलन् ॥ ८१॥
तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम् ।
प्रसादात्तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः ॥ ८२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे अष्टादशोऽध्यायः ॥ १८॥
१.१९ एकोनविंशोऽध्यायः
पितृकल्पः - ३ योग-भ्रंश- निरूपण About subsidence of ascetic merit
पितृकल्प- भरद्वाज के पुत्रों की कथा, योगभ्रष्ट पुरुषों की गति, योगसिद्धि के अधिकारी
पुरुषों के लक्षण तथा मार्कण्डेय सनत्कुमार संवाद की समाप्ति
मार्कण्डेय उवाच ।
आसन् पूर्वयुगे तात भरद्वाजात्मजा द्विजाः
योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ १॥
अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः ।
महतः सरसः पारे मानसस्य विसंज्ञिताः ॥ २॥
तमेवार्थमनुध्यायन्तो नष्टमप्स्विव मोहिताः ।
अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा ॥ ३॥
ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः ।
जाताः कौशिकदायादाः कुरुक्षेत्रे नरर्षभाः ॥ ४॥
हिंसया विहरिष्यन्तो धर्मं पितृकृतेन वै ।
ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम् ॥ ५॥
तेषां पितृप्रसादेन पूर्वजातिकृतेन वै ।
स्मृतिरुत्पत्स्यते प्राप्य तां तां जतिं जुगुप्सिताम् ॥ ६॥
ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः ।
ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा ॥ ७॥
ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः ।
भूयः सिद्धिमनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम् ॥ ८॥
एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः ।
योगधर्मे च नितरां प्राप्स्यसे बुद्धिमुत्तमाम् ॥ ९॥
योगो हि दुर्लभो नित्यमल्पप्रज्ञैः कदाचन ।
लब्ध्वापि नाशयन्त्येनं व्यसनैः कटुतामिताः ।
अधर्मेष्वेव वर्तन्ते प्रार्दयन्ते गुरूनपि ॥ १.१९.१०॥
याचन्ते न त्वयाच्यानि रक्षन्ति शरणागतान् ।
नावजानन्ति कृपणान् माद्यन्ते न धनोष्मणा ॥ ११॥
युक्ताहारविहाराश्च युक्तचेष्टाः स्वकर्मसु ।
ध्यानाध्ययनयुक्ताश्च न नष्टानुगवेषिणः ॥ १२॥
नोपभोगरता नित्यं न मांसमधुभक्षणाः ।
न च कामपरा नित्यं न विप्रासेविनस्तथा ॥ १३॥
नानार्यसङ्कथासक्ता नालस्योपहतास्तथा ।
नात्यन्तमानसंसक्ता गोष्ठीषु निरतास्तथा ॥ १४॥
प्राप्नुवन्ति नरा योगं योगो वै दुर्लभो भुवि ।
प्रशान्ताश्च जितक्रोधा मानाहङ्कारवर्जिताः ॥ १५॥
कल्याणभाजनं ये तु ते भवन्ति यतव्रताः ।
एवंविधास्तु ते तात ब्राह्मणा ह्यभवंस्तदा ॥ १६॥
स्मरन्ति ह्यात्मनो दोषं प्रमादकृतमेव तु ।
ध्यानाध्ययनयुक्ताश्च शान्ते वर्त्मनि संस्थिताः ॥ १७॥
योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् ।
वरिष्ठः सर्वधर्माणां तमेवाचर भार्गव ॥ १८॥
कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः ।
तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि ॥ १९॥
इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ।
अष्टादशैव वर्षाणि त्वेकाहमिव मेऽभवत् ॥ १.१९.२०॥
उपासतस्तं देवेशं वर्षाण्यष्टादशैव मे ।
प्रसादात् तस्य देवस्य न ग्लानिरभवत्तदा ॥ २१॥
न क्षुत्पिपासे कालं वा जानामि स्म तदानघ ।
पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे एकोनविंशोऽध्यायः ॥ १९॥
१.२० विंशोऽध्यायः
पूजनीयोपाख्यानम् - चटकाख्यानम् Legends of rebellious warrior ugrAyudha and a lady bird called pUjanIyA
पितृकल्प-ब्रह्मदत्त और उग्रायुध के वंश तथा पूजनीया चिडिया द्वारा शुक्रनीति का वर्णन
मार्कण्डेय उवाच ।
तस्मिन्नन्तर्हिते देवे वचनात् तस्य वै प्रभोः ।
चक्षुर्दिव्यं सविज्ञानं प्रादुरासीत् तदा मम ॥ १॥
ततोऽहं तानपश्यं वै ब्राह्मणान् कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम ॥ २॥
ब्रह्मदत्तोऽभवद् राजा यस्तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा ॥ ३॥
शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम् ।
अणुहात् पार्थिवश्रेष्ठात् काम्पिल्ये नगरोत्तमे ॥ ४॥
भीष्म उवाच ।
यथोवाच महाभागो मार्कण्डेयो महातपाः ।
तस्य वंशमहं राजन् कीर्तयिष्यामि तच्छृणु ॥ ५॥
युधिष्ठिर उवाच ।
अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः ॥ ६॥
ब्रह्मदत्तो नरपतिः किंवीर्यः स बभूव ह ।
कथं च सप्तमस्तेषां स बभूव नराधिपः ॥ ७॥
न ह्यल्पवीर्याय शुको भगवाँल्लोकपूजितः ।
कन्याप्रदद्याद्योगात्मा कृर्त्वी कीर्तिमतीं प्रभुः ॥ ८॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं तद् भवान् वक्तुमर्हति ॥ ९॥
यथा च वर्तमानास्ते संसारे च द्विजातयः ।
मार्कण्डेयेन कथितास्तद् भवान् प्रब्रवीतु मे ॥ १.२०.१०॥
भीष्म उवाच ।
प्रतीपस्य तु राजर्षेस्तुल्यकालो नराधिपः ।
पितामहस्य मे राजन् बभूवेति मया श्रुतम् ॥ ११॥
ब्रह्मदत्तो महाभागो योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः ॥ १२॥
सखाऽऽस गालवो यस्य योगाचार्यो महायशाः ।
शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः ।
कण्डरीकश्च योगात्मा तस्यैव सचिवो महान् ॥ १३॥
जात्यन्तरेषु सर्वेषु सखायः सर्व एव ते ।
सप्तजातिषु सप्तैव बभूवुरमितौजसः ।
यथोवाच महाभागो मार्कण्डेयो महातपाः ॥ १४॥
तस्य वंशमहं राजन् कीर्तयिष्यामि तच्छृणु ।
ब्रह्मदत्तस्य पौराणां पौरवस्य महात्मनः ॥ १५॥
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः ।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥ १६॥
तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम् ।
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः ॥ १७॥
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।
अजमीढस्य धूमिन्यां जज्ञे बृहदिषुर्नृप ।
बृहद्धनुर्बृहदिषोः पुत्रस्तस्य महायशाः ॥ १८॥
बृहद्धर्मेति विख्यातो राजा परमधार्मिकः ।
सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ॥ १९॥
पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः ।
पुत्राः सेनजितश्चासंश्चत्वारो लोकविश्रुताः ॥ १.२०.२०॥
रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ।
वत्सश्चावन्तको राजा यस्यैते परिवत्सकाः ॥ २१॥
रुचिरस्य तु दायादः पृथुसेनो महायशाः ।
पृथुसेनस्य पारस्तु पारान्नीपस्तु जज्ञिवान् ॥ २२॥
नीपस्यैकशतं तात पुत्राणाममितौजसाम् ।
महारथानां राजेन्द्र शूराणां बाहुशालिनाम् ।
नीपा इति समाख्याता राजानः सर्व एव ते ॥ २३॥
तेषां वंशकरो राजा नीपानां कीर्तिवर्द्धनः ।
काम्पिल्ये समरो नाम सचेष्टसमरोऽभवत् ॥ २४॥
समरस्य परः पारः सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः परपुत्रः पृथुर्बभौ ॥ २५॥
पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः ॥ २६॥
विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः ॥ २७॥
पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत् प्रभुः ।
योगात्मा तस्य तनयो विष्वक्सेनः परन्तपः ॥ २८॥
विभ्राजः पुनरायातः स्वकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य पुत्रोऽन्यः सर्वसेन इति श्रुतः ॥ २९॥
चक्षुषी तस्य निर्भिन्ने पक्षिण्या पूजनीयया ।
सुचिरोषितया राजन् ब्रक्षदत्तस्य वेश्मनि ॥ १.२०.३०॥
अथास्य पुत्रस्त्वपरो ब्रह्मदत्तस्य जज्ञिवान् ।
विष्वक्सेन इति ख्यातो महाबलपराक्रमः ॥ ३१॥
विश्वक्सेनस्य पुत्रोऽभूद् दण्डसेनो महीपतिः ।
भल्लाटोऽस्य कुमारोऽभूद् राधेयेन हतः पुरा ॥ ३२॥
दण्डसेनात्मजः शूरो महात्मा कुलवर्द्धनः ।
भल्लाटपुत्रो द्रुर्वुद्धिरभवच्च युधिष्ठिर ॥ ३३॥
स तेषामभवद् राजा नीपानामन्तकृन्नृप ।
तेन उग्रायुधस्यार्थे सर्वे नीपा विनाशिताः ॥ ३४॥
उग्रायुधो मदोत्सिक्तो मया विनिहतो युधि ।
दर्पान्वितो दर्परुचिः सततं चानये रतः ॥ ३५॥
युधिष्ठिर उवाच ।
उग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् ।
किमर्थं चैव भवता निहतस्तद् ब्रवीहि मे ॥ ३६॥
भीष्म उवाच ।
अजमीढस्य दायादो विद्वान् राजा यवीनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥ ३७॥
जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः ॥ ३८॥
आसीत् सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः पृथिव्यामेकराड् विभुः ॥ ३९॥
तस्यान्ववाये महति महान् पौरवनन्दनः ।
महतश्चापि पुत्रस्तु राजा रुक्मरथः स्मृतः ॥ १.२०.४०॥
पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥ ४१॥
सुमतेरपि धर्मात्मा सन्नतिर्नाम वीर्यवान् ।
तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः ॥ ४२॥
शिष्यो हिरण्यनाभस्य कौशलस्य महात्मनः ।
चतुर्विंशतिधा तेन सप्राच्याः सामसंहिताः ॥ ४३॥
स्मृतास्ते प्राच्यसामानः कार्तयो नाम सामगाः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥ ४४॥
बभूव येन विक्रम्य पृषतस्य पितामहः ।
नीपो नाम महातेजाः पञ्चालाधिपतिर्हतः ॥ ४५॥
उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ।
क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः ॥ ४६॥
नृपञ्जयाद् बहुरथ इत्येते पौरवाः स्मृताः ।
स चाप्युग्रायुधस्तात दुर्बुद्धिरभवत् तदा ॥ ४७॥
प्रवृद्धचक्रो वलवान् नीपान्तकरणो महान् ।
सदर्पपूर्णो हत्वाऽऽजौ नीपानन्यांश्च पार्थिवान् ॥ ४८॥
पितर्युपरते मह्यं श्रावयामास किल्बिषम् ।
माममात्यैः परिवृतं शयानं धरणीतले ॥ ४९॥
उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् ।
अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् ।
स्त्रीरत्नं मय भार्यार्थे प्रयच्छ कुरुपुङ्गव ॥ १.२०.५०॥
एवं राज्यं च ते स्फीतं धनानि च न संशयः ।
प्रदास्यामि यथाकाममहं वै रत्नभाग् भुवि ॥ ५१॥
मम प्रज्वलितं चक्रं निशम्येदं सुदुर्जयम् ।
शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत ॥ ५२॥
राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा ।
शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा ॥ ५३॥
अधः प्रस्तारशयने शयानस्तेन चोदितः ।
दूतान्तर्हितमेतद् वै वाक्यमग्निशिखोपमम् ॥ ५४॥
ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत ।
आज्ञापयं वै सङ्ग्रामे सेनाध्यक्षांश्च सर्वशः ॥ ५५॥
विचित्रवीर्यं बालं च मदुपाश्रयमेव च ।
दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे ॥ ५६॥
निगृहीतस्तदाहं तैः सचिवैर्मन्त्रकोविदैः ।
ऋत्विग्भिर्वेदकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ॥ ५७॥
स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने ।
कारणं भावितश्चास्मि युक्तरूपं तदानघ ॥ ५८॥
मन्त्रिण ऊचुः ।
प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो युद्धं नाम कदाचन ॥ ५९॥
ते वयं सामपूर्वं वै दानं भेदं तथैव च ।
प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च ॥ १.२०.६०॥
कृतस्वस्त्ययनो विप्रैर्वह्नीन्सम्पूज्य च द्विजान् ।
ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै ॥ ६१॥
अस्त्राणि न प्रयोज्यानि न प्रवेश्यश्च सङ्गरः ।
अशौचे वर्तमाने तु वृद्धानामिति शासनम् ॥ ६२॥
सामदानादिभिः पूर्वमपि भेदेन वा ततः ।
तं हनिष्यसि विक्रम्य शम्बरं मघवानिव ॥ ६३॥
प्राज्ञानां वचनं काले वृद्धानां च विशेषतः ।
श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप ॥ ६४॥
ततस्तैः सङ्क्रमः सर्वैः प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन् काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम् ॥ ६५॥
स सामादिभिरेवादावुपायैः प्राप्तचिन्तितैः ।
अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते ॥ ६६॥
प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै ।
परदाराभिलाषेण सद्यस्तात निवर्तितम् ॥ ६७॥
न त्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् ।
हतं स्वकर्मणा तं तु पूर्वं सद्भिश्च निन्दितम् ॥ ६८॥
कृतशौचः शरी चापी रथौ निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् ॥ ६९॥
ततः संसर्गमागम्य बलेनास्त्रबलेन च ।
त्र्यहमुन्मत्तवद् युद्धं देवासुरमिवाभवत् ॥ १.२०.७०॥
स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि ।
पपाताभिमुखः शूरस्त्यक्त्वा प्राणानरिन्दम ॥ ७१॥
एतस्मिन्नन्तरे तात काम्पिल्ये पृषतोऽभ्ययात् ।
हते नीपेष्वरे चैव हते चोग्रायुधे नृपे ॥ ७२॥
आहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः ।
द्रुपदस्य पिता राजन् ममैवानुमते तदा ॥ ७३॥
ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे ।
आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् ॥ ७४॥
प्रतिगृह्य ततो द्रोण उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव प्रायच्छद् विदितं तव ॥ ७५॥
एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्न्येन वै प्रोक्तो नीपस्योग्रायुधस्य च ॥ ७६॥
युधिष्ठिर उवाच ।
किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका ।
अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो ॥ ७७॥
चिरोषिता गृहे चापि किमर्थं चैव यस्य सा ।
चकार विप्रियमिदं तस्य राज्ञो महात्मनः ॥ ७८॥
पूजनीया चकारासौ किं सख्यं तेन चैव ह ।
एतन्मे संशयं छिन्धि सर्वमुक्त्वा यथातथम् ॥ ७९॥
भीष्ं उवाच ।
शृणु सर्वं महाराज यथावृत्तमभूत् पुरा ।
ब्रह्मदत्तस्य भवने तन्निबोध युधिष्ठिर ॥ १.२०.८०॥
काचिच्छकुन्तिका राजन् ब्रह्मदत्तस्य वै सखी ।
शितिपक्षा शोणशिराः शितिपृष्ठा शितोदरी ॥ ८१॥
सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा ।
तस्याः कुलायमभवद् गेहे तस्य नरोत्तम ॥ ८२॥
सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् ।
चचाराम्भोधितीरेषु पल्लवेषु सरस्सु च ॥ ८३॥अ
नदीपर्वतकुञ्जेषु वनेषूपवनेषु च ।
प्रफुल्लेषु तडागेषु कह्लारेषु सुगन्धिषु ॥ ८४॥
कुमुदोत्पलकिञ्जल्कसुरभीकृतवायुषु ।
हंससारसघुष्टेषु कारण्डवरुतेषु च ॥ ८५॥
चरित्वा तेषु सा राजन् निशि काम्पिल्यमागमत् ।
नृपतेर्भवनं प्राप्य ब्रह्मदत्तस्य धीमतः ॥ ८६॥
राज्ञा तेन सदा राजन् कथायोगं चकार सा ।
आश्चर्याणि च दृष्टानि यानि वृत्तानि कानिचित् ॥ ८७॥
चरित्वा विविधान् देशान् कथयामास सा निशि ।
कदाचित् तस्य नृपतेर्ब्रह्मदत्तस्य कौरव ॥ ८८॥
पुत्रोऽभूद् राजशार्दूल सर्वसेनेति विश्रुतः ।
पूजनीयाथ सा तस्मिन्प्रासूताण्डमथापि च ॥ ८९॥
तस्मिन्नीडे पुरा ह्येकं तत्किल प्रास्फुटत् तदा ।
स्फुटितो मांसपिण्डस्तु बाहुपादास्यसंयुतः ॥ १.२०.९०॥
बभ्रुवक्त्रश्चक्षुहीनो बभूव पृथिवीपते ।
चक्षुष्मानप्यभूत् पश्चादीषत्पक्षोत्थितश्च ह ॥ ९१॥
अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः ।
मुख्यस्नेहात्प्रीतिमती दिवसे दिवसेऽभवत् ॥ ९२॥
आजहार सदा सायं चञ्च्वामृतफलद्वयम् ।
अमृतास्वादसदृशं सर्वसेनतनूजयोः ॥ ९३॥
स बालो ब्रह्मदत्तस्य पूजनीयासुतश्च ह ।
ते फले भक्षयित्वा च पृथुकौ प्रीतमानसौ ॥ ९४॥
अभूतां नित्यमेवेह खादेतां तौ च ते फले ।
तस्यां गतायामथ च पूजन्यां वै सदाहनि ॥ ९५॥
शिशुना चटकेनाथ धात्री तं तु शिशुं नृप ।
तेन प्रक्रीडयामास ब्रह्मदत्तात्मजं सदा ॥ ९६॥
नीडात्तमाकृष्य तदा पूजनीयाकृतात्ततः ।
क्रीडता राजपुत्रेण कदाच्चिच्चटकः स तु ॥ ९७॥
निगृहीतः कन्धरायां शिशुना दृढमुष्टिना ।
दुर्भङ्गमुष्टिना राजन्नसून् सद्यस्त्वजीजहत् ॥ ९८॥
तं तु पञ्चत्वमापन्नं व्यात्तास्यं बालघातितम् ।
कथञ्चिन्मोचितं दृष्ट्वा नृपतिर्दुःखितोऽभवत् ॥ ९९॥
धात्रीं तस्य जगर्हे तां तदाश्रुपरमो नृपः ।
तस्थौ शोकान्वितो राजञ्छोचंस्तं चटकं तदा ॥ १.२०.१००॥
पूजनीयापि तत्काले गृहीत्वा तु फलद्वयम् ।
ब्रह्मदत्तस्य भवनमाजगाम वनेचरी ॥ १०१॥
अथापश्यत्तमागम्य गृहे तस्मिन् नराधिप ।
पञ्चभूतपरित्यक्तं शावं तं स्वतनूद्भवम् ॥ १०२॥
मुमोह दृष्ट्वा तं पुत्रं पुनः संज्ञामथालभत् ।
लब्धसंज्ञा च सा राजन् विललाप तपस्विनी ॥ १०३॥
पूजनीयोवाच ।
न तु त्वमागतां पुत्र वाशन्ती परिसर्पसि ।
कुर्वंश्चाटुसहस्राणि अव्यक्तकलया गिरा ॥ १०४॥
व्यादितास्यः क्षुधार्तश्च पीतेनास्येन पुत्रक ।
शोणेन तालुना पुत्र कथमद्य न सर्पसि ॥ १०५॥
पक्षाभ्यां त्वां परिष्वज्य ननु वाशामि चाप्यहम् ।
चीचीकूचीति वाशन्तं त्वामद्य न शृणोमि किम् ॥ १०६॥
मनोरथो यस्तु मम पश्येयं पुत्रकं कदा ।
व्यात्तास्यं वारि याचन्तं स्फुरत्पक्षं ममाग्रतः ॥ १०७॥
स मे मनोरथो भग्नस्त्वयि पञ्चत्वमागते ।
विलप्यैवं बहुविधं राजानमथ साब्रवीत् ॥ १०८॥
ननु मूर्धाभिषिक्तस्त्वं धर्मं वेत्सि सनातनम् ।
अथ कस्मान्मम सुतं धात्र्या घातितवानसि ॥ १०९॥
तव पुत्रेण चाकृष्य क्षत्रियाधम शंस मे ।
न च नूनं श्रुता तेऽभूदियमाङ्गिरसी श्रुतिः ॥ १.२०.११०॥
शरणागतः क्षुधार्तश्च शत्रुभिश्चाप्युपद्रुतः ।
चिरोषितश्च स्वगृहे पातव्यः सर्वदा भवेत् ॥ १११॥
अपालयन्नरो याति कुम्भीपाकमसंशयम् ।
कथमस्य हविर्देवा गृह्णन्ति पितरः स्वधाम् ॥ ११२॥
एवमुक्त्वा महाराज दशधर्मगता सती । -हंसं, -ऽ, अं-,
शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा ॥ ११३॥
कराभ्यां राजपुत्रस्य ततस्तच्चक्षुरस्फुटत् ।
कृत्वा चान्धं चृपसुतमुत्पपात ततोऽम्बरम् ॥ ११४॥
अथ राजा सुतं दृष्ट्वा पूजनीयामुवाच ह ।
विशोका भव कल्याणि कृतं ते भीरु शोभनम् ॥ ११५॥
गतशोका निवर्तस्व अजर्यं सख्यमस्तु ते ।
पुरेव वस भद्रं ते निवर्तस्व रमस्व च ॥ ११६॥
पुत्रपीडोद्भवश्चापि न कोपः परमस्त्वयि ।
ममास्ति सखि भद्रं ते कर्तव्यं च कृतं त्वया ॥ ११७॥
पूजनीयोवाच ।
आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्यहम् ।
न चाहं वस्तुमिच्छामि तव पुत्रमचक्षुषम् ।
कृत्वा वै राजशार्दूल त्वद् गृहे कृतकिल्बिषा ॥ ११८॥
गाथाश्चाप्युशनोगीता इमाः शृणु मयेरिताः ।
कुमित्रं च कुदेशं च कुराजानं कुसौहृदम् ।
कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत् ॥ ११९॥
कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः ।
कुतः पिण्डः कुपुत्रे वै नास्ति सत्यं कुराजनि ॥ १.२०.१२०॥
कुसौहृदे क विश्वासः कुदेशे न तु जीव्यते ।
कुराजनि भयं नित्यं कुपुत्रे सर्वतोऽसुखम् ॥ १२१॥
अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ १२२॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १२३॥
राजसेविषु विश्वासं गर्भसङ्करितेषु च ।
यः करोति नरो मूढो न चिरं स तु जीवति ॥ १२४॥
अप्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्यसन्देहमाहैवमुशना नृप ॥ १२५॥
अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्लिर्महाद्रुमम् ॥ १२६॥
मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ॥ १२७॥
अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
जघान नमुचिं पश्चादपां फेनेन पार्थिव ॥ १२८॥
सुप्तं मत्तं प्रमत्तं वा घातयन्ति रिपुं नराः ।
विषेण वह्निना वापि शस्त्रेणाप्यथ मायया ॥ १२९॥
न च शेषं प्रकुर्वन्ति पुनर्वैरभयान्नरा ।
घातयन्ति समूलं हि श्रुत्वेमामुपमां नृप ॥ १.२०.१३०॥
शत्रुशेषमृणाच्छेषं शेषमग्नेश्च भूमिप ।
पुनर्वर्धेत सम्भूय तस्माच्छेषं न शेषयेत् ॥ १३१॥
हसते जल्पते वैरी एकपात्रे भुनक्ति च ।
एकासनं चारोहति स्मरते तच्च किल्बिषम् ॥ १३२॥
कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा न हि ।
पुलोमानं जघानाजौ जामाता सञ्शतक्रतुः ॥ १३३॥
निधाय मनसा वैरं प्रियं वक्तीह यो नरः ।
उपसर्पेन्न तं प्राज्ञः कुरङ्ग इव लुब्धकम् ॥ १३४॥
न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ ।
पातयेत् तं समूलं हि नदीरय इव द्रुमम् ॥ १३५॥
अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥ १३६॥
इत्येता ह्युशनोगीता गाथा धार्या विपश्चिता ।
कुर्वता चात्मरक्षां वै नरेण पृथिवीपते ॥ १३७॥
मया सकिल्बिषं तुभ्यं प्रयुक्तमतिदारुणम् ।
पुत्रमन्धं प्रकुर्वन्त्या तस्मान्नो विश्वसे त्वयि ॥ १३८॥
एवमुक्त्वा प्रदुद्राव तदाऽऽकाशं पतङ्गिनी ।
इत्येतत् ते मयाख्यातं पुराभूतमिदं नृप ॥ १३९॥
ब्रह्मदत्तस्य राजेन्द्र यद् वृत्तं पूजनीयया ।
श्राद्धं च पृच्छसे यन्मां युधिष्ठिर महामते ॥ १.२०.१४०॥
अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ १४१॥
श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च ।
तन्निबोध महाराज सप्तजातिषु भारत ॥ १४२॥
सगालवस्य चरितं कण्डरीकस्य चैव हि ।
ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् ॥ १४३॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पूजनीयोपाख्याने चटकाख्यानं नाम विंशोऽध्यायः ॥ २०॥
१.२१ एकविंशोऽध्यायः
पितृकल्पः - ५ - श्राद्ध महात्म्यम् Efficacy of beatification of manes
पितृकल्प-मार्कण्डेयजी द्वारा श्राद्ध की महिमा का वर्णन, श्राद्ध के फल से
कौशिक-पुत्रों को उत्तम जन्म की प्राप्ति
मार्कण्डेय उवाच ।
श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते ।
हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् ॥ १॥
ब्रह्मदत्तेन यत् प्राप्तं सप्तजातिषु भारत ।
त एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः ॥ २॥
पीडयाप्यथ धर्मस्य कृते श्राद्धे परानघ ।
यत् प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते ॥ ३॥
ततोऽहं तानधर्मिष्ठान् कुरुक्षेत्रे पितृव्रतान् ।
सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् ॥ ४॥
दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः ।
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
खसृमः पितृवर्ती च नामभिः कर्मभिस्तथा ॥ ५॥
कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत ।
पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् ॥ ६॥
विनियोगाद् गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।
समानवत्सां कपिलां सर्वे न्यायागतां तदा ॥ ७॥
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।
क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा ॥ ८॥
तान् कविः खसृमश्चैव याचेते नेति वै तदा ।
न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ॥ ९॥
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।
स सर्वानब्रवीद् भ्रातॄन् कोपाद्धर्मे समाहितः ॥ १.२१.१०॥
यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमाम् ।
प्रकुर्वीमहि गां सम्यक् सर्व एव समाहिताः ॥ ११॥
एवमेषापि गौर्धर्मे प्राप्स्यते नात्र संशयः ।
पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान् भविष्यति ॥ १२॥
तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः ।
पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत ॥ १३॥
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।
शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति ॥ १४॥
आर्जवात् स तु तं वत्सं प्रतिजग्राह वै द्विजः ।
मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः ।
कालेन समयुज्यन्त सर्व एवायुषः क्षये ॥ १५॥
ते वै क्रूरतया हिंस्रा अनार्यत्वाद् गुरौ तथा ।
उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः ॥ १६॥
लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः ।
पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा ॥ १७॥
स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ १८॥
स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः ।
तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम् ॥ १९॥
शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत् ।
नामधेयानि चाप्येषामिमान्यासन्नराधिप ॥ १.२१.२०॥
निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च ।
वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः ॥ २१॥
तैरवमुषितैस्तात हिंसाधर्मरतैः सदा ।
माता च पूजिता वृद्धा पिता च परितोषितः ॥ २२॥
यदा माता पिता चैव संयुक्तौ कालधर्मणा ।
तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् ॥ २३॥
शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः ।
त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ॥ २४॥
उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः ।
पण्डितो घस्मरो नादी नामतस्तेऽभवन् मृगाः ॥ २५॥
तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।
आसन् वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥ २६॥
ते सर्वे शुभकर्माणः सधर्माणो वनेचराः ।
योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह ॥ २७॥
जहुः प्राणान्मरुं साध्य लघ्वाहारास्तपस्विनः ।
तेषां मरुं साधयतां पदस्थानानि भारत ।
तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ॥ २८॥
कर्मणा तेन ते तात शुभेनाशुभवर्जिताः ।
शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ॥ २९॥
शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।
त्यक्त्वा सहचरीधर्मं मुनयो ब्रह्मचारिणः ॥ १.२१.३०॥
निःस्पृहो निर्ममः क्षान्तो निर्द्वन्द्वो निष्परिग्रहः ।
निर्वृत्तिर्निभृतश्चैव शकुना नामतः स्मृताः ॥ ३१॥
ते तत्र पक्षिणः सर्वे शकुना धर्मचारिणः ।
निराहारा जहुः प्राणांस्तपोयुक्ताः सरित्तटे ॥ ३२॥
अथ ते सोदरा जाता हंसा मानसचारिणः ।
जातिस्मराः सुसंयुक्ताः सप्तैव ब्रह्मचारिणः ॥ ३३॥
विप्रयोनौ यतो मोहान्मिथ्योपचरितो गुरुः ।
तिर्यग्योनौ ततो जाताः संसारे परिबभ्रमुः ॥ ३४॥
यतश्च पितृवाक्यार्थः कृतः स्वार्थे व्यवस्थितैः ।
ततो ज्ञानं च जातिं च ते हि प्रापुर्गुणोत्तराम् ॥ ३५॥
सुमनाः शुचिवाक्छुद्धः पञ्चमश्छिद्रदर्शनः ।
सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः स्मृताः ॥ ३६॥
पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत ।
षष्ठस्तु कण्डरीकोऽभूद् ब्रह्मदत्तस्तु सप्तमः ॥ ३७॥
तेषां तु तपसा तेन सप्तजातिकृतेन वै ।
योगस्य चापि निर्वृत्या प्रतिभानाच्च शोभनात् ॥ ३८॥
पूर्वजातिषु यद् ब्रह्म श्रुतं गुरुकुलेषु वै ।
तथैवावस्थिता बुद्धिः संसारेष्वपि वर्तताम् ॥ ३९॥
ते ब्रह्मचारिणः सर्वे विहङ्गा ब्रह्मवादिनः ।
योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह ॥ १.२१.४०॥
तेषां तत्र विहङ्गानां चरतां सहचारिणाम् ।
नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः ॥ ४१॥
विभ्राजमानो वपुषा प्रभावेन समन्वितः ।
श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह ॥ ४२॥
स्वतन्त्रश्च विहङ्गोऽसौ स्पृहयामास तं नृपम् ।
दृष्ट्वाऽऽयान्तं श्रियोपेतं भवेयमहमीदृशः ॥ ४३॥
यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा ।
खिन्नोऽऽस्मि ह्युपवासेन तपसा निष्फलेन च ॥ ४४॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकविंशोऽध्यायः ॥ २१॥
१.२२ द्वाविंशोऽध्यायः
पितृकल्पः - ६ -चक्रवाक वर्णनम् Portrayal of chakravAka birds
पितृकल्प, शुचिवाक पक्षी का स्वतन्त्र आदि तीन पक्षियों को शाप देना, सुमना
पक्षी का अनुग्रहपूर्वक उन्हें शाप से मुक्त करना
मार्कण्डेय उवाच ।
ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ ।
आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ ॥ १॥
तथेत्युक्त्वा च तस्यासीत्तदा योगात्मिका मतिः ।
एवं ते समयं चक्रुः शुचिवाक् तमुवाच ह ॥ २॥
यस्मात् कामप्रधानस्त्वं योगधर्ममपास्य वै ।
एवं वरं प्रार्थयसे तस्माद् वाक्यं निबोध मे ॥ ३॥
राजा त्वं भविता तात काम्पिल्ये नात्र संशयः ।
भविष्यतः सखायौ च द्वाविमौ सचिवौ तव ॥ ४॥
शप्त्वा चानभिभाष्यांस्तांश्चत्वारश्चक्रुरण्डजाः ।
तांस्त्रीनभीप्सतो राज्यं व्यभिचारप्रदर्शितान् ॥ ५॥
शप्ताः खगास्त्रयस्ते तु योगभ्रष्टा विचेतसः ।
तानयाचन्त चतुरस्त्रयस्ते सहचारिणः ॥ ६॥
तेषां प्रसादं ते चक्रुरथैतान्सुमनाऽब्रवीत् ।
सर्वेषामेव वचनात्प्रसादानुगतं वचः ॥ ७॥
अन्तवान् भविता शापो युष्माकं नात्र संशयः ।
इतश्च्युताश्च मानुष्यं प्राप्य योगमवाप्स्यथ ॥ ८॥
सर्वसत्त्वरुतज्ञश्च स्वतन्त्रोऽयं भविष्यति ।
पितृप्रसादो ह्यस्माभिरस्य प्राप्तः कृतेन वै ॥ ९॥
गां प्रोक्षयित्वा धर्मेण पितृभ्य उपकल्प्यताम् ।
अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः ॥ १.२२.१०॥
इमं च वाक्यसन्दर्भश्लोकमेकमुदाहृतम् ।
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ ॥ ११॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे द्वाविंशोऽध्यायः ॥ २२॥
१.२३ त्रयोविंशतितमोऽध्यायः
पितृकल्पः - ७ - हंस वर्णनम् Portrayal of swans
हंसों का काम्पिल्यनगर में ब्रह्मदत्त आदि के रूप में उत्पन्न होना और चार हंसो का अपने पिता से आज्ञा लेकर मुक्त हो जाना
मार्कण्डेय उवाच ।
ते योगधर्मनिरताः सप्त मानसचारिणः ।
पद्मगर्भोऽरविन्दाक्षः क्षीरगर्भः सुलोचनः ॥ १॥
उरुबिन्दुः सुबिन्दुश्च हैमगर्भस्तु सप्तमः ।
वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन् ॥ २॥
राजा विभ्राजमानस्तु वपुषा तद् वनं तदा ।
चचारान्तःपुरवृतो नन्दनं मघवानिव ॥ ३॥
स तानपश्यत्खचरान् योगधर्मात्मकान् नृप ।
निर्वेदाच्च तमेवार्थमनुध्यायन् पुरं ययौ ॥ ४॥
अणुहो नाम तस्याऽऽसीत्पुत्रः परमधार्मिकः ।
अणुधर्मरतिर्नित्यमणुं सोऽभ्यगमत्पदम् ॥ ५॥
प्रादात्कन्यां शुकस्तस्मै कृत्वीं पूजिललक्षणाम् ॥
सत्यशीलगुणोपेतां योगधर्मरतां सदा ॥ ६॥
सा ह्युद्दिष्टा पुरा भीष्म पितृकन्या मनीषिणी ।
सनत्कुमारेण तदा सन्निधौ मम शोभना ॥ ७॥
सत्यधर्मभृतां श्रेष्ठा दुर्विज्ञेया कृतात्मभिः ।
योगा च योगपत्नी च योगमाता तथैव च ॥ ८॥
यथा ते कथितं पूर्वं पितृकल्पेषु वै मया ।
विभ्राजस्त्वणुहं राज्ये स्थापयित्वा नरेश्वरः ॥ ९॥
आमन्त्र्य पौरान्प्रीतात्मा ब्राह्मणान् स्वस्ति वाच्य च ।
प्रायात् सरस्तपश्चर्तुं यत्र ते सहचारिणः ॥ १.२३.१०॥
स वै तत्र निराहारो वायुभक्षो महातपाः ।
त्यक्त्वा कामांस्तपस्तेपे सरसस्तस्य पार्श्वतः ॥ ११॥
तस्य सङ्कल्प आसीच्च तेषामेकतरस्य वै ।
पुत्रत्वं प्राप्य योगेन युज्येयमिति भारत ॥ १२॥
कृत्वाभिसन्धिं तपसा महता स समन्वितः ।
महातपाः स विभ्राजो विरराजांशुमानिव ॥ १३॥
ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ।
सरस्तच्च कुरुश्रेष्ठ वैभ्राजमिति संज्ञितम् ॥ १४॥
तत्र ते शकुना राजंश्चत्वारो योगधर्मिणः ।
योगभ्रष्टास्त्रयश्चैव देहन्यासकृतोऽभवन् ॥ १५॥
काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।
जाताः सप्त महात्मानः सर्वे विगतकल्मषाः ॥ १६॥
ज्ञानध्यानतपःपूजावेदवेदाङ्गपारगाः
स्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ॥ १७॥
स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्मदत्तो महायशाः ।
यथा ह्यासीत्पक्षिभावे सङ्कल्पः पूर्वचिन्तितः ।
ज्ञानध्यानतपःपूतो वेदवेदाङ्गपारगः ॥ १८॥
छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः ।
जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ ॥ १९॥
सहायौ ब्रह्मदत्तस्य पूर्वजातिसहोषितौ ।
पाञ्चालः पाञ्चिकश्चैव कण्डरीकस्तथापरः ॥ १.२३.२०॥
पाञ्चालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ।
द्विवेदः कण्डरीकस्तु छन्दोगोऽध्वर्युरेव च ॥ २१॥
सर्वसत्त्वरुतज्ञस्तु राजाऽऽसीदणुहात्मजः ।
पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा ॥ २२॥
ते ग्राम्यधर्माभिरताः कामस्य वशवर्तिनः ।
पूर्वजातिकृतेनासन् धर्मकामार्थकोविदाः ॥ २३॥
अणुहस्तु नृपश्रेष्ठो ब्रह्मदत्तमकल्मषम् ।
राज्येऽभिषिच्य योगात्मा परां गतिमवाप्तवान् ॥ २४॥
ब्रह्मदत्तस्य भार्या तु देवलस्यात्मजाभवत् ।
असितस्य हि दुर्धर्षा सन्नतिर्नाम नामतः ॥ २५॥
तामेकभावसम्पन्नां लेभे कन्यामनुत्तमाम् ।
सन्नतिं सन्नतिमतीं देवलाद् योगधर्मिणीम् ॥ २६॥
पञ्चमः पाञ्चिकस्तत्र सप्तजातिषु भारत ।
षष्ठस्तु कण्डरीकोऽभूद् ब्रह्मदत्तश्च सप्तमः ॥ २७॥
शेषा विहङ्गमा ये वै काम्पिल्यं सहचारिणः ।
ते जाताः श्रोत्रियकुले सुदरिद्रे सहोदराः ॥ २८॥
धृतिमान् सुमना विद्वांस्तत्त्वदर्शी च नामतः ।
वेदाध्ययनसम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥ २९॥
तेषां संवित्तथोत्पन्ना पूर्वजातिकृता तदा ।
ये योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि ॥ १.२३.३०॥
आमन्त्र्य पितरं तात पिता तानब्रवीत् तदा ।
अधर्मं एव युष्माकं यन्मां त्यक्त्वा गमिष्यथ ॥ ३१॥
दारिद्रयमनपाकृत्य पुत्रार्थांश्चैव पुष्कलान् ।
शुश्रूषामप्रयुज्यैव कथं वै गन्तुमर्हथ ॥ ३२॥
ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव च ।
करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि ॥ ३३॥
इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम् ।
श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम् ॥ ३४॥
प्रीतात्मा दास्यति स ते ग्रामान् भोगांश्च पुष्कलान् ।
यथेप्सितांश्च सर्वार्थान् गच्छ तात यथेप्सितम् ॥ ३५॥
एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् ।
योगधर्ममनुप्राप्य परां निर्वृतिमाययुः ॥ ३६॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे त्रयोविंशोऽध्यायः ॥ २३॥
१.२४ चतुर्विशतितमोऽध्यायः
पितृकल्पः - ८ - पितृकल्प समाप्तिः Legend of Brahmadatta
विभ्राज का ब्रह्मदत्त का पुत्र बनकर उत्पन्न होना, रानी सन्नति का ब्रह्मदत्त से रूठना, एक ब्राह्मण के कहे हुए श्लोकों से ब्रह्मदत्त, पाञ्चाल्य और कण्डरीक को अपने पूर्वजन्म का ज्ञान होना तथा ब्रह्मदत्त आदि का तप करके मुक्त हो जाना
मार्कण्डेय उवाच ।
ब्रह्मदत्तस्य तनयः स विभ्राजस्त्वजायत ।
योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः ॥ १॥
कदाचिद् ब्रह्मदत्तस्तु भार्यया सहितो वने ।
विजहार प्रहृष्टात्मा यथा शच्या शचीपतिः ॥ २॥
ततः पिपीलिकरुतं स शुश्राव नराधिपः ।
कामिनीं कामिनस्तस्य याचतः क्रोशतो भृशम् ॥ ३॥
श्रुत्वा तु याच्यमाना तां क्रुद्धां सूक्ष्मां पिपीलिकाम् ।
ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥ ४॥
ततः सा सन्नतिर्दीना व्रीडितेवाभवत्तदा ।
निराहारा बहुतिथं बभूव वरवर्णिनी ॥ ५॥
प्रसाद्यमाना भर्त्रा सा तमुवाच शुचिस्मिता ।
त्वया च हसिता राजन् नाहं जीवितुमुत्सहे ॥ ६॥
स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् ।
उवाच चैनं कुपिता नैष भावोऽस्ति मानुषे ॥ ७॥
को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति ।
ऋते देवप्रसादाद् वा पूर्वजातिकृतेन वा ॥ ८॥
तपोबलेन वा राजन् विद्यया वा नराधिप ।
यद्येष वै प्रभावस्ते सर्वसत्त्वरुतज्ञता ॥ ९॥
यथाहमेतज्जानीयां तथा प्रत्याययस्व माम् ।
प्राणान् वापि परित्यक्ष्ये राजन् सत्येन ते शपे ॥ १.२४.१०॥
तत् तस्या वचनं श्रुत्वा महिष्याः परुषाक्षरम् ।
स राजा परमापन्नो देवश्रेष्ठमगात् ततः ॥ ११॥
शरण्यं सर्वभूतेशं भक्त्या नारायणं हरिम् ।
समाहितो निराहारः षड्रात्रेण महायशाः ॥ १२॥
ददर्श दर्शने राजा देवं नारायणं प्रभुम् ।
उवाच चैनं भगवान् सर्वभूतानुकम्पकः ॥ १३॥
ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि ।
इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ॥ १४॥
चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् ।
श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥ १५॥
स राजानमथान्विच्छन्सहमन्त्रिणमच्युतम् ।
न ददर्शान्तरं किञ्चिच्छोकं श्रावयितुं तदा ॥ १६॥
अथ राजा सरःस्नातो लब्ध्वा लब्ध्वा नारायणाद्वरम् ।
प्रविवेश पुरीं प्रीतो रथमारुह्य काञ्चनम् ॥ १७॥
तस्य रश्मीन्प्रत्यगृह्णात्कण्डरीको द्विजर्षभः ।
चामरं व्यजनं चापि बाभ्रव्यः समवाक्षिपत् ॥ १८॥
इदमन्तरमित्येव ततः स ब्राह्मणस्तदा ।
श्रावयामास राजानं श्लोकं तं सचिवौ च तौ ॥ १९॥
सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वी हंसाः सरसि मानसे ॥ १.२४.२०॥
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥ २१॥
तच्छ्रुत्वा मोहमगमद् ब्रह्मदत्तो नराधिपः ।
सचिवश्चास्य पाञ्चाल्यः कण्डरीकश्च भारत ॥ २२॥
स्रस्तरश्मिप्रतोदौ तौ पतितव्यञ्जनावुभौ ।
दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा ॥ २३॥
मुहूर्तमेव राजा स सह ताभ्यां रथे स्थितः ।
प्रतिलभ्य ततः सङ्गं प्रत्यागच्छदरिन्दमः ॥ २४॥
ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ।
ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ॥ २५॥
अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् ।
जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह ॥ २६॥
अथैनं सन्नतिर्धीरा देवलस्य सुता तदा ।
उवाच परमप्रीता योगाद् वनगतं नृपम् ॥ २७॥
जानन्त्या ते महाराज पिपीलिकरुतज्ञताम् ।
चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया ॥ २८॥
इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् ।
तव चान्तर्हितो योगस्ततः संस्मारितो मया ॥ २९॥
स राजा परमप्रीतः पत्न्याः श्रुत्वा वचस्तदा ।
प्राप्य योगं बलादेव गतिं प्राप सुदुर्लभाम् ॥ १.२४.३०॥
कण्डरीकोऽपि धर्मात्मा साङ्ख्ययोगमनुत्तमम् ।
प्राप्य योगगतिं सिद्धो विशुद्धस्तेन कर्मणा ॥ ३१॥
क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् ।
योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः ॥ ३२॥
एवमेतत् पुरावृत्तं मम प्रत्यक्षमच्युत ।
तद् धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः ॥ ३३॥
ये चान्ये धारयिष्यन्ति तेषां चरितमुत्तमम् ।
तिर्यग्योनिषु ते जातु न गमिष्यन्ति कर्हिचित् ॥ ३४॥
श्रुत्वा चेदमुपाख्यानं महार्थं महतां गतिम् ।
योगधर्मो हृदि सदा परिवर्तति भारत ॥ ३५॥
स तेनैवानुबन्धेन कदाचिल्लभते शमम् ।
ततो योगगतिं याति शुद्धां तां भुवि दुर्लभाम् ॥ ३६॥
वैशम्पायन उवाच ।
एवमेतत् पुरा गीतं मार्कण्डेयेन धीमता ।
श्राद्धस्य फलमुद्दिश्य सोमस्याप्यायनाय वै ॥ ३७॥
सोमो हि भगवान् देवो लोकस्याप्यायनं परम् ।
वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे ॥ ३८॥
ति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पसमाप्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४॥
१.२५ पञ्चविंशतितमोऽध्यायः
सोमोत्पत्तिवर्णनम् Emergence of soma, the moon
चन्द्रमा की उत्पत्ति और राजसूय यज्ञ, देवासुरसङ्ग्राम तथा बुध की उत्पत्ति
वैशम्पायन उवाच ।
पिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः ।
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ १॥
तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्युतः ।
कर्मणा मनसा वाचा शुभान्येव चचार सः ॥ २॥
अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः ।
काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः ॥ ३॥
अनुत्तरं नाम तपो येन तप्तं महत् पुरा ।
त्रीणि वर्षसहस्त्राणि दिव्यानीति हि नः श्रुतम् ॥ ४॥
तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह ।
सोमत्वं तनुरापेदे महासत्त्वस्य भारत ॥ ५॥
ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयद् दिशः ॥ ६॥
तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ७॥
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः ।
पपात भासयँल्लोकाञ्छीतांशुः सर्वभावनः ॥ ८॥
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः सहैवाशु निपपात वसुन्धराम् ॥ ९॥
पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ॥ १.२५.१०॥
स हि वेदमयस्तात धर्मात्मा सत्यसङ्ग्रहः ।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥ ११॥
तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥ १२॥
तथैवाङ्गिरसस्तत्र भृगुरेवात्मजैः सह ।
ऋग्भिर्यजुर्भिर्बहुलैरथर्वाङ्गिरसैरपि ॥ १३॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं लोकांस्त्रीन् भासयामास सर्वशः ॥ १४॥
स तेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥ १५॥
तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत ॥ १६॥
ताभिर्धार्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः ।
पोष्टा हि भगवान् सोमो जगतो जगतीपते ॥ १७॥
स लब्धतेजा भगवान् संस्तवैस्तैश्च कर्मभिः ।
तपस्तेपे महाभाग पद्मानां दशतीर्दश ॥ १८॥
हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत् ।
निधिस्तासामभूद्देवः प्रख्यातः स्वेन कर्मणा ॥ १९॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च जनमेजय ॥ १.२५.२०॥
सोऽभिषिक्तो महाराज राजराज्येन राजराट् ।
लोकांस्त्रीन् भासयामास स्वभासा भास्वतां वरः ॥ २१॥
सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ २२॥
स तत् प्राप्य महद्राज्यं सोमः सोमवतां वरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ २३॥
होतास्य भगवानत्रिरध्वर्युर्भगवान् भृगुः ।
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥ २४॥
सदस्यस्तत्र भगवान् हरिर्नारायणः स्वयम् ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २५॥
दक्षिणामददात्सोमस्त्रील्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येम्यः सदस्येभ्यश्च भारत ॥ २६॥
तं सिनिश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।
कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ २७॥
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥ २८॥
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यं मुनिसत्कृतम् ।
विबभ्राम मतिस्तात विनयादनयाऽऽहता ॥ २९॥
बृहस्पतेः स वै भार्या तारां नाम यशस्विनीम् ।
जहार तरसा सर्वानवमत्याङ्गिरःसुतान् ॥ १.२५.३०॥
स याच्यमानो देवैश्च तथा देवर्षिभिः सह ।
नैव व्यसर्जयत् तारां तस्मा आङ्गिरसे तदा ।
स संरब्धस्ततस्तस्मिन् देवाचार्यो बृहस्पतिः ॥ ३१॥
उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ।
स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः ॥ ३२॥
तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः ।
पार्ष्णिग्राहोऽभवद् देवः प्रगृह्याजगवं धनुः ॥ ३३॥
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः ॥ ३४॥
तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ॥ ३५॥
तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत ।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ३६॥
ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।
ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ३७॥
तामन्तःप्रसवां दृष्ट्वा तारां प्राह बृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ ३८॥
अयोनावुत्सृजत् तं सा कुमारं दस्युहन्तमम् ।
इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम् ॥ ३९॥
जातमात्रः स भगवान् देवानामक्षिपद् वपुः ।
ततः संशयमापन्ना इमामकथयन् सुराः ॥ १.२५.४०॥
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।
पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा ॥ ४१॥
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।
तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ॥ ४२॥
यदत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ।
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥ ४३॥
सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ।
ततस्तं मूर्ध्न्युपाघ्राय सोमो धाता प्रजापतिः ॥ ४४॥
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।
प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ४५॥
उत्पादयामास ततः पुत्रं वै राजपुत्रिका ।
तस्यापत्यं महाराजो बभूवैलः पुरूरवाः ॥ ४६॥
उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा ॥ ४७॥
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणार्थाय पितरं सोऽत्रिमेव तु ॥ ४८॥
तस्य तत्तापशमनं चकारात्रिर्महातपाः ।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वतः ॥ ४९॥
एवं सोमस्य वै जन्म कीर्तितं कीर्तिवर्धनम् ।
वंशमस्य महाराज कीर्त्यमानं च मे शृणु ॥ १.२५.५०॥
धन्यमारोग्यमायुष्यं पुण्यं सङ्कल्पसाधनम् ।
सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ५१॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सोमोत्पत्तिकथने पञ्चविंशोऽध्यायः ॥ २५॥
१.२६ षडविंशोऽध्यायः
ऐलोल्पत्तिः Legend of uravashi-purUrava
महाराज पुरूरवा के चरित्र और वंश का वर्णन, राजा पुरूरवा का त्रेताग्नि की
रचना करना और गन्धर्वो के लोक में जाना
वैशम्पायन उवाच ।
बुधस्य तु महाराज विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १॥
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ २॥
सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु यशसाप्रतिमस्तदा ॥ ३॥
तं ब्रह्मवादिनं क्षान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ ४॥
तया सहावसद् राजा वर्षाणि दश पञ्च च ।
पञ्च षट्सप्त चाष्टौ च दश चाष्टौ च भारत ॥ ५॥
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥ ६॥
उत्तरान् स कुरून् प्राप्य मनोरथफलद्रुमान् ।
गन्धमादनपादेषु मेरुपृष्ठे तथोत्तरे ॥ ७॥
एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥ ८॥
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
राज्यं च कारयामास प्रयागं पृथिवीपतिः ॥ ९॥
तस्य पुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः ॥ १.२६.१०॥
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥ ११॥
जनमेजय उवाच ।
गान्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।
देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ १२॥
वैशम्पायन उवाच ।
ब्रह्मशापाभिभूता सा मानुषं समपद्यत ।
ऐलं तु सा वरारोहा समयात्समुपस्थिता ॥ १३॥
आत्मनः शापमोक्षार्थं समयं सा चकार ह ।
अनग्नदर्शनं चैव सकामायां च मैथुनम् ॥ १४॥
द्वौ मेषौ शयनाभ्याशे सदा बद्धौ च तिष्ठतः ।
घृतमात्रो तथाऽऽहारः कालमेकं तु पार्थिव ॥ १५॥
यद्येष समयो राजन् यावत्कालं च ते दृढः ।
तावत्कालं तु वत्स्यामि त्वत्तः समय एष नः ॥ १६॥
तस्यास्तं समयं सर्वं स राजा समपालयत् ।
एवं सा वसते तत्र पुरूरवसि भामिनी ॥ १७॥
बर्षाण्येकोनषष्टिस्तु तत्सक्ता शापमोहिता ।
उर्वश्यां मानुषस्थायां गन्धर्वाश्चिन्तयान्विताः ॥ १८॥
गन्धर्वा ऊचुः ।
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
समागच्छेत् पुनर्देवानुर्वशी स्वर्गभूषणम् ॥ १९॥
ततो विश्वावसुर्नाम तत्राह वदतां वरः ।
मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ॥ १.२६.२०॥
व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा ।
तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ॥ २१॥
ससहायो गमिष्यामि युष्माकं कार्यसिद्धये ।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ २२॥
निशायामथ चागम्य मेषमेकं जहार सः ।
मातृवद् वर्तते सा तु मेषयोश्चारुहासिनी ॥ २३॥
गन्धर्वागमनं श्रुत्वा शापान्तं च यशस्विनी ।
राजानमब्रवीत् तत्र पुत्रो मेऽह्रियतेति सा ॥ २४॥
एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत् ॥ २५॥
ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः ।
द्वितीये तु हृते मेषे ऐलं देव्यब्रवीदिदम् ॥ २६॥
पुत्रो मेऽपहृतो राजन्ननाथाया इव प्रभो ।
एवमुक्तस्तथोत्थाय नग्नो राजा प्रधावितः ॥ २७॥
मेषयोः पदमन्विच्छन् गन्धर्वैर्विद्युदप्यथ ।
उत्पादिता सुमहती ययौ तद्भवनं महत् ॥ २८॥
प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।
नग्नं दृष्ट्वा तिरोभूता साप्सरा कामरूपिणी ॥ २९॥
उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहे ।
अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः ॥ १.२६.३०॥
चचार पृथिवीं सर्वां मार्गमाण इतस्ततः ।
अथापश्यत् स तां राजा कुरुक्षेत्रे महाबलः ॥ ३१॥
प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥ ३२॥
तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ।
सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः ॥ २३॥
उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।
यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ॥ ३४॥
समाविग्नास्तु ताः सर्वाः पुनरेव नराधिपः ।
जाये ह तिष्ठ मनसा घोरे वचसि तिष्ठ ह ॥ ३५॥
एवमादीनि सूक्तानि परस्परमभाषत ।
उर्वशी चाब्रवीदैलं सगर्भाहं त्वया प्रभो ॥ ३६॥
संवत्सरात् कुमारास्ते भविष्यन्ति न संशयः ।
निशामेकां च नृपते निवत्स्यसि मया सह ॥ ३७॥
हृष्टो जगाम राजाथ स्वपुरं तु महायशाः ।
गते संवत्सरे भूय उर्वशी पुनरागमत् ॥ ३८॥
उषितश्च तया सार्द्धमेकरात्रं महायशाः ।
उर्वश्यथाब्रवीदैलं गन्धर्वा वरदास्तव ॥ ३९॥
तान् वृणीष्व महाराज ब्रूहि चैनांस्त्वमेव हि ।
वृणीष्व समतां राजन् गन्धर्वाणां महात्मनाम् ॥ १.२६.४०॥
तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।
पूरयित्वाग्निना स्थालीं गन्धर्वाश्च तमब्रुवन् ॥ ४१॥
अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ।
तानादाय कुमारांस्तु नगरायोपचक्रमे ॥ ४२॥
निक्षिप्याग्निमरण्ये तु सपुत्रस्तु गृहं ययौ ।
स त्रेताग्निं तु नापश्यदश्वत्थं तत्र दृष्टवान् ॥ ४३॥
शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा ।
गन्धर्वेभ्यस्तदाशंसदग्निनाशं ततस्तु सः ॥ ४४॥
श्रुत्वा तमर्थमखिलमरणीं तु समादिशन् ।
अश्वत्थादरणीं कृत्वा मथित्वाग्निं यथाविधि ॥ ४५॥
मथित्वाग्निं त्रिधा कृत्वा अयजत्स नराधिपः ।
इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥ ४६॥
गन्धर्वेभ्यो वरं लब्ध्वा त्रेताग्निं समकारयत् ।
एकोऽग्निः पूर्वमेवासीदैलस्त्रेतामकारयत् ॥ ४७॥
एवम्प्रभावो राजासीदैलस्तु नरसत्तम ।
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ॥ ४८॥
राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ ४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिर्नाम षड्विंशोऽध्यायः ॥ २६॥
१.२७ सप्तविंशोऽध्यायः
अमावसुवंशकीर्तनम् Dynasty of amAvasu
पुरूरवा के द्वितीय पुत्र अमावसु के वंश का वर्णन, विश्वामित्र और परशुराम की उत्पत्ति
वैशम्पायन उवाच ।
ऐलपुत्रा बभूवुस्ते सर्वे देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः ॥ १॥
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥ २॥
अमावसोश्च दायादो भीमो राजाथ नग्नजित् ।
श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ ३॥
सौहोत्रिरभवज्जह्नुः केशिन्या गर्भसम्भवः ।
आजह्रे यो महत्सत्रं सर्वमेधमहामखम् ॥ ४॥
पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह ।
नेच्छतः प्लावयामास तस्य गङ्गां च तत्सदः ।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ ५॥
सौहित्रिरब्रवीद् गङ्गां क्रुद्धो भरतसत्तम ॥ ६॥
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ ७॥
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् ॥ ८॥
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ ९॥
जह्नुस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।
कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १.२७.१०॥
अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ ११॥
कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।
कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १२॥
पह्लवैः सह संवृद्धिं राजा वनचरैस्तदा ।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् ।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जक्षिवान् ॥ १३॥
पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्यपश्यत ।
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ॥ १४॥
समर्थः पुत्रजनने स्वमेवांशमवासयत् ।
पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥ १५॥
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम् ।
पौरुकुत्स्यभवद् भार्या गाधिस्तस्यामजायत ॥ १६॥
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ।
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥ १७॥
तस्याः प्रीतोऽभवद् भर्ता भार्गवो भृगुनन्दनः ।
पुत्रार्थं कारयामास चरुं गाधेस्तथैव च ॥ १८॥
उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा ।
उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव ॥ १९॥
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ।
अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ १.२७.२०॥
तवापि पुत्रं कल्याणि धृतिमन्तं तपोनिधिम् ।
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ २१॥
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ।
तपस्यभिरतो नित्यमरण्यं प्रविवेश ह ॥ २२॥
गाधिः सदारस्तु तदा ऋचीकावासमभ्यगात् ।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं जनेश्वरः ॥ २३॥
चरुद्वयं गृहीत्वा तदृषेः सत्यवती तदा ।
चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ॥ २४॥
माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ ।
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥ २५॥
अथ सत्यवती गर्भे क्षत्रियान्तकरं तदा ।
धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ २६॥
तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च ।
तामब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥ २७॥
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ।
जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ॥ २८॥
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ।
विश्वं हि ब्रह्म तपसा मया तस्मिन्समर्पितम् ॥ २९॥
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् ।
ब्राह्मणापसदस्तत्र इत्युक्तो मुनिरब्रवीत् ॥ १.२७.३०॥
नैष सङ्कल्पितः कामो मया भद्रे तथास्त्विति ।
उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ।
पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् ॥ ३१॥
इच्छँलोकानपि मुने सृजेथाः किं पुनः सुतम् ।
शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ॥ ३२॥
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ।
यद्यन्यथा न शक्यं वै कर्तुमेतद् द्विजोत्तम ॥ ३३॥
ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ।
भद्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रं भविष्यति ॥ ३४॥
ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ॥ ३५॥
भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
यजनाद् वैष्णवेऽथांशे जमदग्निरजायत ॥ ३६॥
सा हि सत्यवती पुण्या सत्यधर्मपरायणा ।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥ ३७॥
इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ।
तस्य कन्या महाभागा कामली नाम रेणुका ॥ ३८॥
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ।
आर्चीको जनयामास जामदग्न्यं सुदारुणम् ॥ ३९॥
सर्वविद्यानुगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ १.२७.४०॥
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ।
जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥ ४१॥
मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ।
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ॥ ४२॥
जनयामास पुत्रं तु तपोविद्याशमात्मकम् ।
प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः ॥ ४३॥
विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः ॥ ४४॥
विश्वामित्रस्य च सुता देवरातादयः स्मृताः ।
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥ ४५॥
देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।
शालावत्यां हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ॥ ४६॥
साङ्कृतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।
मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः ॥ ४७॥
कच्छपो हारितश्चैव विश्वामित्रस्य वै सुताः ।
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥ ४८॥
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।
पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः ॥ ४९॥
लोहिता यामदूताश्च तथा कारीषवः स्मृताः ।
सौश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः ॥ १.२७.५०॥
देवला रेणवश्चैव याज्ञवल्क्याघमर्षणाः ।
औदुम्बरा ह्यभिष्णातास्तारकायनचुञ्चुलाः ॥ ५१॥
शालावत्या हिरण्याक्षाः साङ्कृत्या गालवास्तथा ।
बादरायणिनश्चान्ये विश्वामित्रस्य धीमतः ॥ ५२॥
ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ।
पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य च ।
सम्बन्धोऽन्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥ ५३॥
विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ ५४॥
विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवत्किल ।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ ५५॥
देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।
देवैर्दत्तः स वै यस्माद् देवरातस्ततोऽभवत् ॥ ५६॥
देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश्चापि विश्वामित्रात् तथाष्टकः ॥ ५७॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ ५८॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्यमावसुवंशकीर्तनं नाम सप्तविंशोऽध्यायः ॥ २७॥
१.२८ अष्टाविंशोऽध्यायः
आयुवंशकथनम् Legend of Ayu
राजा रजि और उनके पुत्रों का चरित्र, इन्द्र का अपने स्थान से भ्रष्ट होकर पुनः उस पर प्रतिष्ठित होना
वैशम्पायन उवाच ।
आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः ।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ॥ १॥
नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।
रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ २॥
रजिः पुत्रशतानीह जनयामास पञ्च वै ।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ३॥
यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ४॥
आवयोर्भगवन् युद्धे को विजेता भविष्यति ।
ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः ॥ ५॥
ब्रह्मोवाच ।
येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते जयिष्यन्ति त्रींल्लोकान्नात्र संशयः ॥ ६॥
यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।
यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ७॥
ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये ।
अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभ ॥ ८॥
स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
राजा परमतेजस्वी सोमवंशप्रवर्धनः ॥ ९॥
ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ १.२८.१०॥
अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।
स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११॥
रजिरुवाच ।
यदि दैत्यगणान् सर्वाञ्जित्वा शक्रपुरोगमाः ।
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ १२॥
देवाः प्रथमतो भूयः प्रत्यूचुर्दृष्टमानसाः ।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ १३॥
श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा ।
पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ १४॥
दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह ।
प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः १५॥
अस्माकमिन्द्रः प्रह्लादो यस्यार्थे विजयामहे ।
अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम ॥ १६॥
तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।
भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः ।
जघान दानवान् सर्वान् ये वध्या वज्रपाणिनः ॥ १७॥
स विप्रणष्टां देवानां परमश्रीः श्रियं वशी ।
निहत्य दानवान् सर्वानाजहार रजिः प्रभुः ॥ १८॥
ततो रजिं महावीर्यं देवैः सह शतक्रतुः ।
रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः ॥ १९॥
इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ।
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ॥ १.२८.२०॥
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।
तथेत्येवाब्रवीद् राजा प्रीयमाणः शतक्रतुम् ॥ २१॥
तस्मिंस्तु देवसदृशे दिवं प्रान्ते महीपतौ ।
दायाद्यमिन्द्रादाजह्रुराचारात् तनया रजेः ॥ २२॥
पञ्चपुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ।
समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ २३॥
ततो बहुतिथे काले समतीते महाबलः ।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥ २४॥
इन्द्र उवाच ।
बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा ॥ २५॥
ब्रह्मन् कृशोऽहं विमना हृतराज्यो हृताशनः ।
हृतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो ॥ २६॥
बृहस्पतिरुवाच ।
यद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि ।
नाभविष्यस्यत्प्रियार्थमकर्तव्यं ममानघ ॥ २७॥
प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च नचिरात् प्रतिलप्स्यसे ॥ २८॥
तथा तात करिष्यामि मा भूत्ते विक्लवं मनः ।
ततः कर्म चकारास्य तेजसो वर्धनं तदा ॥ २९॥
तेषां च बुद्धिसम्मोहमकरोद् द्विजसत्तमः ।
नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् ॥ १.२८.३०॥
परमं तर्कशास्त्राणामसतां तन्मनोऽनुगम् ।
न हि धर्मप्रधानानां रोचते तत्कथान्तरे ॥ ३१॥
ते तद् बृहस्पतिकृतं शास्त्रं श्रुत्वाल्पचेतसः ।
पूर्वोक्तधर्मशास्त्राणामभवन् द्वेषिणः सदा ॥ ३२॥
प्रवक्तुर्न्यायरहितं तन्मतं बहु मेनिरे ।
तेनाधर्मेण ते पापाः सर्व एव क्षयं गताः ॥ ३३॥
त्रैलोक्यराज्यं शक्रस्तु प्राप्य दुष्प्रापमेव च ।
बृहस्पतिप्रसादाद्धि परां निर्वृतिमभ्ययात् ॥ ३४॥
ते यदा तु सुसम्मूढा रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ॥ ३५॥
ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ॥ ३६॥
य इदं च्यावनं स्थानात् प्रतिष्ठां च शतक्रतोः ।
शृणुयाद् धारयेद्वापि न स दौरात्म्यमाप्नुयात् ॥ ३७॥
इति श्रीगहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं नामाष्टाविंशोऽध्यायः ॥ २८॥
१.२९ एकोनत्रिंशोऽध्यायः
काश्यपवर्णनम् Legend of divodasa, king of kAshi
अनेनसः वंशवर्णनम्, धन्वन्तरेः काशिराजस्य धन्वस्य पुत्ररूपेण अवतरणम्, दिवोदास्य राज्यकाले शिवाज्ञया गणेश्वर निकुम्भेन वाराणसीं जनशून्यं कर्तुं प्रयत्नम्, तत्र शिवपार्वत्योः निवासं, दिवोदासस्य वाराणस्योपरि अधिकारः एवं अलर्कस्य प्रशंसा
अनेना के वंश का वर्णन, धन्वन्तरि का काशिराज धन्व के यहाँ पुत्ररूप में अवतार, दिवोदास के
राज्यकाल में भगवान् शिव की आज्ञा से गणेश्वर निकुम्भ के द्वारा वाराणसी को
जनशून्य वनाने का प्रयत्न, वहाँ
शिव और पार्वती का निवास,
दिवोदास का वाराणसी पर अधिकार और अलर्क की प्रशंसा
वैशम्पायन उवाच ।
रम्भोऽनपत्यस्तत्रासीद् वंशं वक्ष्याम्यनेनसः ।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ १॥
प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः ।
सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ २॥
विजयस्य कृतिः पुत्रस्तस्य हर्यश्वतः सुतः ।
हर्यश्वतसुतो राजा सहदेवः प्रतापवान् ॥ ३॥
सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ ४॥
सङ्कृतेरपि धर्मात्मा क्षत्रधर्मा महायशाः ।
अनेनसः समाख्याताः क्षत्रवृद्धस्य मे शृणु ॥ ५॥
क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ६॥
ञ्ज्रात्रस्य दायादास्त्रयः परमधाआमकाः तं ६॥
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकाः ॥ ७॥
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।
शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काशकः ॥ ८॥
काशस्य काशयो राजन् पुत्रो दीर्घतपास्तथा ।
धन्वस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ॥ ९॥
तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
पुनर्धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ॥ १.२९.१०॥
जनमेजय उवाच ।
कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।
एतद् वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् ॥ ११॥
वैशम्पायन उवाच ।
धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ ।
जातः स हि समुद्रात्तु मथ्यमाने पुरामृते ॥ १२॥
उत्पन्नः कलशात् पूर्वं सर्वतश्च श्रिया वृतः ।
अभ्यसन्सिद्धिकार्ये हि विष्णुं दृष्ट्वा हि तस्थिवान् ॥ १३॥
अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।
अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो ॥ १४॥
विधत्स्व भागं स्थानं च मम लोके सुरेश्वर ।
एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः ॥ १५॥
कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ।
देवेषु विनियुक्तं हि विद्धि होत्रं महर्षिभिः ॥ १६॥
न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन ।
अर्वाग्भूतोऽसि देवानां पुत्र त्वं तु नहीश्वरः ॥ १७॥
द्वितीयायां तु सम्भूत्यां लोके ख्यातिं गमिष्यसि ।
अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति ॥ १८॥
तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो ।
चरुमन्त्रैर्व्रतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः ॥ १९॥
अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि ।
अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥ १.२९.२०॥
द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।
इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः ॥ २१॥
द्वितीये द्वापरं प्राप्ते सौनहोत्रिः स काशिराट् ।
पुत्रकामस्तपस्तेपे धन्यो दीर्घं तपस्तदा ॥ २२॥
प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति ।
अब्जं देवं सुतार्थाय तदाऽऽराधितवान्नृपः ॥ २३॥
ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् ।
यदिच्छसि वरं ब्रूहि तत् ते दास्यामि सुव्रत ॥ २४॥
नृप उवाच ।
भगवन् यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान् भव ।
तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥ २५॥
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराज सर्वरोगप्रणाशनः ॥ २६॥
आयुर्वेदं भरद्वाजात्प्राप्येह भिषजां क्रियाम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ २७॥
धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ २८॥
सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ २९॥
एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ।
शून्यां निवासयामास क्षेमको नाम राक्षसः ॥ १.२९.३०॥
शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्री नात्र संशयः ॥ ३१॥
तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ ३२॥
भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसीत्यभूत् ।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ३३॥
हत्वा निवेशयामास दिवोदासो नरर्षभः ।
भद्रश्रेण्यस्य तद् राज्यं हृतं तेन बलीयसा ॥ ३४॥
जनमेजय उवाच ।
वाराणसीं निकुम्भस्तु किमर्थं शप्तवान् प्रभुः ।
निकुम्भकश्च धर्मात्मा सिद्धिक्षेत्रं शशाप यः ॥ ३५॥
वैशम्पायन उवाच ।
दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
वसति स्म महातेजाः स्फीतायां तु नराधिपः ॥ ३६॥
एतस्मिनेव काले तु कृतदारो महेश्वरः ।
देव्याः स प्रियकामस्तु न्यवसच्छ्वशुरन्तिके ॥ ३७॥
देवाज्ञया पार्षदा ये त्वधिरूपास्तपोधनाः ।
पूर्वोक्तैरुपदेशैश्च तोषयन्ति स्म पार्वतीम् ॥ ३८॥
हृष्यते वै महादेवी मेना नैव प्रहृष्यति ।
जुगुप्सत्यसकृत् तां वै दैवीं देवं तथैव सा ॥ ३९॥
सपार्षदस्त्वनाचारस्तव भर्ता महेश्वरः ।
दरिद्रः सर्वदैवासौ शीलं तस्य न वर्तते ॥ १.२९.४०॥
मात्रा तथोक्ता वरदा स्त्रीस्वभावाच्च चुक्रुधे ।
स्मितं कृत्वा च वरदा भवपार्श्वमथागमत् ॥ ४१॥
विवर्णवदना देवी महादेवमभाषत ।
नेह वत्स्याम्यहं देव नय मां स्वं निकेतनम् ॥ ४२॥
त्रधृह्मन्दक्त्रप्ययखम।आङ्कर ॥
तथा कर्तुं महादेवः सर्वलोकानवैक्षत ।
वासार्थं रोचयामास पृथिव्यां कुरुनन्दन ॥ ४३॥
वाराणसीं महातेजाः सिद्धिक्षेत्रं महेश्वरः ।
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥ ४४॥
पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् ।
गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ॥ ४५॥
मृदुनैवाभ्युपायेन ह्यतिवीर्यः स पार्थिवः ।
ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं तदा ॥ ४६॥
स्वप्ने निदर्शयामास कण्डुकं नाम नापितम् ।
श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ॥ ४७॥
मद्रूपां प्रतिमां कृत्या नगर्यन्ते तथैव च ।
ततः स्वप्ने यथोद्दिष्टं सर्वं कारितवान् नृप ॥ ४८॥
पुरीद्वारे तु विज्ञाप्य राजानं च यथाविधि ।
पूजां तु महतीं तस्य नित्यमेव प्रयोजयत् ॥ ४९॥
गन्धैश्च धूपमाल्यैश्च प्रोक्षणीयैस्तथैव च ।
अन्नपानप्रयोगैश्च अत्यद्भुतमिवाभवत् ॥ १.२९.५०॥
एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः ।
ततो वरसहस्रं तु नागराणां प्रयच्छति ।
पुत्रान्हिरण्यमायुश्च सर्वान् कामांस्तथैव च ॥ ५१॥
राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता ।
पुत्रार्थमागता देवी साध्वी राज्ञा प्रचोदिता ॥ ५२॥
पूजां तु विपुलां कृत्वा देवी पुत्रमयाचत ।
पुनः पुनरथागत्य बहुशः पुत्रकारणात् ॥ ५३॥
न प्रयच्छति पुत्रं हि निकुम्भः कारणेन हि ।
राजा तु यदि नः कुप्येत्कार्यसिद्धिस्ततो भवेत् ॥ ५४॥
अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ।
भूत एष महान्द्वारि नागराणां प्रयच्छति ॥ ५५॥
प्रीतो वरान् वै शतशो मम किं न प्रयच्छति ।
मामकैः पूज्यते नित्यं नगर्यां मे सदैव हि ॥ ५६॥
विज्ञापितो मयात्यर्थं देव्या मे पुत्रकारणात् ।
न ददाति च पुत्रं मे कृतघ्नः केन हेतुना ॥ ५७॥
ततो नार्हति सत्कारं मत्सकाशाद् विशेषतः ।
तस्मात्तु नाशयिष्यामि स्थानमस्य दुरात्मनः ॥ ५८॥
एवं स तु विनिश्चित्य दुरात्मा राजकिल्बिषी ।
स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥ ५९॥
भग्नमायतन दृष्ट्वा राजानमशपत् प्रभुः ।
यस्मादनपराधस्य त्वया स्थानं विनाशितम् ।
पुर्यकस्मादियं शून्या तव नूनं भविष्यति ॥ १.२९.६०॥
ततस्तेन तु शापेन शून्या वाराणसी तदा ।
शप्त्वा पुरीं निकुम्भस्तु महादेवमथागमत् ॥ ६१॥
अकस्मात्तु पुरी सा तु विद्रुता सर्वतोदिशम् ।
तस्यां पुर्यां ततो देवो निर्ममे पदमात्मनः ॥ ६२॥
रमते तत्र वै देवो रममाणो गिरेः सुताम् ।
न रतिं तत्र वै देवी लभते गृहविस्मयात् ।
वसाम्यत्र न पुर्यां तु देवी देवमथाब्रवीत् ॥ ६३॥
देव उवाच ।
नाहं वेश्मनि वत्स्यामि अविमुक्तं हि मे गृहम् ।
नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति ॥ ६४॥
सन्नुवाच भगवांस्त्र्यन्तकस्त्रिपुरान्तकः ।
तस्मात् तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ ६५॥
एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम् ॥ ६६॥
यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः ।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥ ६७॥
अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः ।
अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।
एवं वाराणसी शप्ता निवेशं पुनरागता ॥ ६८॥
भद्रश्रेण्यस्य पुत्रो वै दुर्दमो नाम विश्रुतः ।
दिवोदासेन बालेति घृणया स विवर्जितः ॥ ६९॥
हैहयस्य तु दायाद्यं कृतवान् वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ १.२९.७०॥
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ॥ ७१॥
दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
तेन पुत्रेण बालेन प्रहतं तस्य वै पुनः ॥ ७२॥
प्रतर्दनस्य पुत्रौ द्वौ वत्सभार्गौ बभूवतुः ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ ७३॥
अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ।
अलर्कं प्रति राजर्षि श्लोको गीतः पुरातनैः ॥ ७४॥
षष्टिवर्षसहस्राणि षष्टिं वर्षशतानि च ।
युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः ॥
लोपामुद्राप्रसादेन परमायुरवाप सः ।
तस्यासीत् सुमहद्राज्यं रूपयौवनशालिनः ॥ ७६॥
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ ७७॥
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः ॥ ७८॥
क्षेम्यस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः ।
सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ ७९॥
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ १.२९.८०॥
आनर्तस्तु विभोः पुत्रः सुकुमारस्तु तत्सुतः ।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ।
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ॥ ८१॥
वेणुहोत्रसुतश्चापि भर्गो नाम प्रजेश्वरः ।
वत्सस्य वत्सभूमिस्तु भृगुभूमिस्तु भार्गवात् ॥ ८२॥
एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्यास्तयोः पुत्राः सहस्रशः ।
इत्येते काशयः प्रोक्ता नहुषस्य निबोध मे ॥ ८३॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि एकोनत्रिंशोऽध्यायः ॥ २९॥
१.३० त्रिंशोऽध्यायः
ययातिचरित्रकथनम् Legend of yayAti together with deva-s kashyapa and aditi go to brahma
नहुष एवं ययातेः वंशस्य वर्णनम्, ययातेः चरित्रं
नहुष एवं ययाति के वंश का वर्णन तथा ययाति का चरित्र
वैशम्पायन उवाच ।
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ १॥
यतिर्ययातिः संयातिरायातिः पाञ्चिको भवः ।
सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् ।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ २॥
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥ ३॥
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्यामवाप सः ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ ४॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ५॥
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ॥ ६॥
युक्तं मनोजवैः शुभ्रैर्येन भार्यामुवाह सः ।
स तेन रथमुख्येन षड्रात्रेनाजयन्महीम् ।
ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥ ७॥
स रथः पौरवाणां तु सर्वेषामभवत् तदा ।
यावत्तु वसुनाम्नो वै कौरवाज्जनमेजय ॥ ८॥
कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह ।
जगाम स रथो नाशं शापाद् गार्ग्यस्य धीमतः ॥ ९॥
गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
वाक्छूरं हिंसयामास ब्रह्महत्यामवाप सः ॥ १.३०.१०॥
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ ११॥
ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् ।
इन्द्रोतः शौनकं राजा शरणं प्रत्यपद्यत ॥ १२॥
याजयामास चेन्द्रोतं शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥ १३॥
स लोहगन्धो व्यनशत् तस्यावभृथमेत्य ह ।
स च दिव्यो रथो राजन् वसोश्चेदिपतेस्तदा ।
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ॥ १४॥
बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ।
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् ॥ १५॥
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।
सप्तद्वीपां ययातिस्तु जित्वा पृध्वी ससागराम् ॥ १६॥
व्यभजत् पञ्चधा राजन् पुत्राणां नाहुषस्तदा ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ॥ १७॥
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च नाहुषः ।
दिशि पूर्वोत्तरस्यां वै यदुं ज्येष्ठं न्ययोजयत् ॥ १८॥
मध्ये पूरुं च राजानमभ्यषिञ्चत नाहुषः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १९॥
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
प्रणास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम ॥ १.३०.२०॥
धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
जरावानभवद् राजा भारमावेश्य बन्धुषु ॥ २१॥
निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः ।
प्रीतिमानभवद् राजा ययातिरपराजितः ।
एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ॥ २२॥
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ।
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ २३॥
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥ २४॥
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥ २५॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ २६॥
स एवमुक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥ २७॥
क आश्रयस्तवान्योऽस्ति को वा धर्मो विधीयते ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ २८॥
एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् ।
अराज्ञ्या ते प्रजा मूढ भवित्रीति नराधम ॥ २९॥
स तुर्वसुं च द्रुह्युं चाप्यनुं च भरतर्षभ ।
एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ॥ १.३०.३०॥
शशाप तानतिक्रुद्धो ययातिरपराजितः ।
यथा ते कथितं पूर्वं मया राजर्षिसत्तमः ॥ ३१॥
एवं शप्त्वा सुतान् सर्वांश्चतुरः पूरुपूर्वजान् ।
तदेव वचनं राजा पूरुमप्याह भारत ॥ ३२॥
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे ॥ ३३॥
स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान् ।
ययातिरपि रूपेण पूरोः पर्यचरन्महीम् ॥ ३४॥
स मार्गमाणः कामानामन्तं भरतसत्तम ।
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ ३५॥
यदावितृष्णः कामानां भोगेषु स नराधिपः ।
तदा पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥ ३६॥
तत्र गाथा महाराज शृणु गीता ययातिना ।
याभिः प्रत्याहरेत्कामान् सर्वतोऽङ्गानि कूर्मवत् ॥ ३७॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ३८॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ॥ ३९॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ १.३०.४०॥
यदानेभ्यो न बिभ्येत यदाचास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ ४१॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ४२॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ ४३॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ ४४॥
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ।
कालेन महता वापि चचार विपुलं तपः ॥ ४५॥
भृगुतुङ्गे तपस्तप्त्वा तपसोऽन्ते महातपाः ।
अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ ४६॥
तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः ।
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ ४७॥
यदोस्तु शृणु राजर्षेर्वंशं राजर्षिसत्कृतम् ।
यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ ४८॥
धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः ।
ययातेश्चरितं पुण्यं पठञ्छृण्वन् नराधिप ॥ ४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ययातिचरिते त्रिंशोऽध्यायः ॥ ३०॥
१.३१ एकत्रिंशोऽध्यायः
कक्षेयुवंशवर्णनम् Dynasty of kakSheyu
पूरोः वंशपरम्परावर्णनं
पूरुकी वंशपरम्पराका वर्णन
जनमेजय उवाच ।
पूरोर्वंशमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ॥ १॥
वृष्णिवंशप्रसङ्गेन स्वं वशं पूर्वमेव तु ।
विस्तरेणानुपूर्व्या च तद् भवान्वक्तुमर्हति ॥ २॥
वैशम्पायन उवाच ।
शृणु पूरोर्महाराज वंशमुत्तमपौरुषम् ।
विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव ॥ ३॥
हन्त ते कीर्तयिष्यामि पूरोर्वंशमनुत्तमम् ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च नराधिप ॥ ४॥
पूरोः पुत्रो महावीर्यो राजाऽऽसीज्जनमेजयः ।
प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद् दिशम् ॥ ५॥
प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ ६॥
तथैवाभयदस्यासीत् सुधन्वा तु महीपतिः ।
सुधन्वनो बहुगवः शम्यातिस्तस्य चात्मजः ॥ ७॥
शम्यातेस्तु रहस्याती रौद्राश्वस्तस्य चात्मजः ।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ ८॥
ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च ।
कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ ९॥
दशार्णेयुर्जलेयुश्च स्थलेयुश्च महायशाः ।
धनेयुश्च वनेयुश्च पुत्रिकाश्च दश स्त्रियः ॥ १.३१.१०॥
रुद्रा शूद्रा च भद्रा च मलदा मलहा तथा ।
खलदा चैव राजेन्द्र नलदा सुरसापि च ।
तथा गोचपला तु स्त्रीरत्नकूटा च ता दश ॥ ११॥
ऋषिर्जातोऽत्रिवंशे तु तासां भर्ता प्रभाकरः ।
रुद्रायां जनयामास सुतं सोमं यशस्विनम् ॥ १२॥
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ।
तमोऽभिभूते लोके च प्रभा येन प्रवर्तिता ॥ १३॥
स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः ।
वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् ॥ १४॥
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रेर्धनं चैव सुरैर्यस्य प्रवर्तितम् ॥ १५॥
स तासु जनयामास पुत्रिकासु सनामकान् ।
दश पुत्रान् महात्मा स तपस्युग्रे रतान्सदा ॥ १६॥
ते तु गोत्रकरा राजन्नृषयो वेदपारगाः ।
स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिधनवर्जिताः ॥ १७॥
कक्षेयोस्तनयाश्चासंस्त्रय एव महारथाः ।
सभानरश्चाक्षुषश्च परमन्युस्तथैव च ॥ १८॥
सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ।
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ॥ १९॥
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज पुरञ्जयसुतोऽभवत् ॥ १.३१.२०॥
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ।
देवेषु स परित्रातः प्रतिष्ठितयशा भुवि ॥ २१॥
महामना नाम सुतो महाशालस्य धार्मिकः ।
जज्ञे वीरः सुरगणैः पूजितः सुमहायशाः ॥ २२॥
महामनास्तु पुत्रौ द्वौ जनयामास भारत ।
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ॥ २३॥
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ।
नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ॥ २४॥
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ।
तपसा वै सुमहता जाता वृद्धस्य भारत ॥ २५॥
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ।
नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ॥ २६॥
दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ।
शिबेस्तु शिबयस्तात यौधेयास्तु नृगस्य ह ॥ २७॥
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठा शिबिपुत्रान्निबोध मे ॥ २८॥
शिबेश्च पुत्राश्चत्वारो वीरास्त्रैलोक्यविश्रुताः ।
वृषदर्भः सुवीरश्च मद्रकः कैकयस्तथा ॥ २९॥
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ।
वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजाः शृणु ॥ १.३१.३०॥
तैतिक्षवोऽभवद् राजा पूर्वस्यां दिशि भारत ।
उषद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत् ॥ ३१॥
फेनात् तु सुतपा जज्ञे सुतः सुतपसो बलिः ।
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ॥ ३२॥
महायोगी स तु बलिर्बभूव नृपतिः पुरा ।
पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि ॥ ३३॥
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्यस्तथैव च ।
पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ॥ ३४॥
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन भारत ॥ ३५॥
महायोगित्वमायुश्च कल्पस्य परिमाणतः ।
सङ्ग्रामे वाप्यजेयत्वं धर्मे चैव प्रधानता ॥ ३६॥
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ।
बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३७॥
चतुरो नियतान् वर्णोस्त्वं च स्थापयिता भुवि ।
इत्युक्तो विभुना राजा बलिः शान्तिं परा ययौ ॥ ३८॥
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिपुङ्गवात् ।
सम्भूता दीर्घतपसो सुदेष्णायां महौजसः ॥ ३९॥
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान् ।
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य स प्रभुः ॥ १.३१.४०॥
अधृष्यः सर्वभूतानां कालापेक्षी चरन्नपि ।
कालेन महता राजन् स्वं च स्थानमुपागमत् ॥ ४१॥
तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्यकाः ।
कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य मे शृणु ॥ ४२॥
अङ्गपुत्रो महानासीद् राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ ४३॥
पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः ।
विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥ ४४॥
तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना ॥ ४५॥
अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ ४६॥
तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ॥ ४७॥
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ ४८॥
चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा ।
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ ४९॥
ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ १.३१.५०॥
हर्यङ्गस्य तु दायादो राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ॥ ५१॥
बृहद्दर्भः सुतस्तस्य तस्माज्जज्ञे बृहन्मना ।
बृहन्मनास्तु राजेन्द्र जनयामास वै सुतम् ॥ ५२॥
नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः ।
आसीद् दृढरथस्यापि विश्वजिज्जनमेजय ॥ ५३॥
दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः ।
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ॥ ५४॥
बृहद्दर्भसुतो यस्तु राज्ञा नाम्ना बृहन्मनाः ।
तस्य पत्नीद्वयं चासीच्चैद्यस्यैते सुते शुभे ।
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ॥ ५५॥
जयद्रथस्तु राजेन्द्र यशोदेव्यां व्यजायत ।
ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः ॥ ५६॥
विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ।
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः ॥ ५७॥
सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।
यः कर्णं प्रतिजग्राह ततः कर्णस्तु सूतजः ॥ ५८॥
एतत् ते कथितं सर्वं कर्णं प्रति महाबलम् ।
कर्णस्य वृषसेनस्तु वृषस्तस्यात्मजः स्मृतः ॥ ५९॥
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः प्रज्ञावन्तो महारथाः ॥ १.३१.६०॥
ऋचेयोस्तु महाराज रौद्राश्वतनयस्य ह ।
शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव ॥ ६१॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कुक्षेयुवंशानुकीर्तनं नाम एकत्रिंशोऽध्यायः ॥ ३१॥
१.३२ द्वात्रिंशोऽध्यायः
पुरुवंशानुकीर्तनम् Dynasty of puru
पूरोः वंशान्तर्गतं ऋचेयोः वंशपरम्परा - अजमीढवंशः, पाञ्चाल सोमकवंशं च, कौरववंशः, तुर्वसोः, द्रुह्योः एवं अनोः सन्ततिवर्णनं
वैशम्पायन उवाच ।
अनाधृष्यस्तु राजर्षिरृचेयुश्चैकराट् स्मृतः ।
ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥ १॥
तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः ।
मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः ॥ २॥
तंसुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः ।
गौरी कन्या च विख्याता मान्धातृजननी शुभा ॥ ३॥
सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः ।
सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः ॥ ४॥
पुत्रः प्रतिरथस्यासीत् कण्वः समभवन्नृपः ।
मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः ॥ ५॥
ईलिनी भूप यस्यासीत् कन्या वै जनमेजय ।
ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत ॥ ६॥
तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः ।
ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ ७॥
उपदानवी सुताँल्लेभे चतुरस्त्वैलिकात्मजान् ।
दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ ८॥
दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम नागायुतबलो महान् ॥ ९॥
चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः ॥ १.३२.१०॥
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥ ११॥
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ॥ १२॥
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।
भरतस्य विनष्टेषु तनयेषु महीपतेः ॥ १३॥
मातॄणां तात कोपेन मया ते कथितं पुरा ।
बृहस्पतेराङ्गिरसः पुत्रो राजन् महामुनिः ।
सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥ १४॥
अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।
धर्मसङ्क्रमणं चापि मरुद्भिर्भरताय वै ॥ १५॥
अयाजयद् भरद्वाजो मरुद्भिः क्रतुभिर्हि तम् ।
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ॥ १६॥
ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ १७॥
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स राजा वितथः पुत्राञ्जनयामास पञ्च वै ॥ १८॥
सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ॥ १९॥
काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ॥ १.३२.२०॥
काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ।
आजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभ ॥ २१॥
सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः ।
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ॥ २२॥
अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ।
नीलिनी केशिनी चैव धूमिनी च वराङ्गना ॥ २३॥
अजमीढस्य नीलिन्यां सुशान्तिरुदपद्यत ।
पुरुजातिः सुशान्तेस्तु वाह्याश्वः पुरुजातितः ॥ २४॥
वाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः ॥ २५॥
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुः स्मृतः ।
यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ॥ २६॥
पञ्चैते रक्षणायालं देशानामिति विश्रुताः ।
पञ्चानां विद्धि पञ्चालान्स्फीतैर्जनपदैर्वृतान् ॥ २७॥
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ।
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ॥ २८॥
सर्व एते महात्मानः क्षत्रोपेता द्विजातयः ।
एते ह्यङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः ॥ २९॥
मौद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः ।
इन्द्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ॥ १.३२.३०॥
वध्र्यश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः ।
दिवोदासश्च राजर्षिरहल्या च यशस्विनी ॥ ३१॥
शरद्वतस्तु दायादमहल्या समसूयत ।
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः ॥ ३२॥
पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ।
तस्य सत्यधृते रेतो दृष्ट्वाप्सरसमग्रतः ॥ ३३॥
अवस्कन्नं शरस्तम्बे मिथुनं समपद्यत ।
कृपया तच्च जग्राह शन्तनुर्मृगयां गतः ॥ ३४॥
कृपः स्मृतः स वै तस्माद् गौतमी च कृपी तथा ।
एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः ॥ ३५॥
अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ।
दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृप ॥ ३६॥
मैत्रायणस्ततः सोमो मैत्रेयास्तु ततः स्मृताः ।
एते हि संश्रिताः पक्षं क्षत्रोपेतास्तु भार्गवाः ॥ ३७॥
आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः ।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ ३८॥
सोमदत्तस्य दायादः सहदेवो महायशाः ।
सहदेवसुतश्चापि सोमको नाम पार्थिवः ॥ ३९॥
अजमीढात् पुनर्जातः क्षीणवंशे तु सोमकः ।
सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ १.३२.४०॥
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः ।
धृष्टद्युम्नस्तु द्रुपदाद् धृष्टकेतुश्च तत्सुतः ॥ ४१॥
अजमीढाः स्मृता ह्येते महात्मानस्तु सोमकाः ।
पुत्राणामजमीढस्य सोमकत्वं महात्मनः ॥ ४२॥
महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी ।
तृतीया तव पूर्वेषां जननी पृथिवीपते ॥ ४३॥
सा तु पुत्रार्थिनी देवी व्रतचर्यासमन्विता ।
ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ ४४॥
हुत्वाग्निं विधिवत् सा तु पवित्रमितभोजना ।
अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय ॥ ४५॥
धूमिन्या स तया देव्या त्वजमीढः समेयिवान् ।
ऋक्षं सञ्जनयामास धूमवर्णं सुदर्शनम् ॥ ४६॥
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा ।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥ ४७॥
तद्वै तत्स महाभागो वर्षाणि सुबहून्यथ ।
तप्यमाने तदा शक्रो यत्रास्य वरदो बभौ ॥ ४८॥
पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ।
तस्यान्ववायःसुमहांस्तस्य नाम्ना स्थ कौरवाः ॥ ४९॥
कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा ।
परीक्षिच्च भहाबाहुः प्रवरश्चारिमेजयः ॥ १.३२.५०॥
सुधन्वनस्तु दायादः सुहोत्रो मतिमांस्ततः ।
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः ॥ ५१॥
च्यवनात् कृतयज्ञस्तु इष्ट्वा यत्रैः स धर्मवित् ।
विश्रुतं जनयामास पुत्रमिन्द्रसमं नृपः ॥ ५२॥
चैद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ।
चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान् ॥ ५३॥
महारथो मगधराड् विश्रुतो यो बृहद्रथः ।
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ॥ ५४॥
मारुतश्च यदुश्चैव मत्स्यः काली च सत्तमः ।
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ॥ ५५॥
कुशाग्रस्यात्मजो विद्वान् वृषभो नाम वीर्यवान् ।
वृषभस्य तु दायादः पुष्पवान्नाम धार्मिकः ॥ ५६॥
दायादस्तस्य विक्रान्तो राजा सत्यहितः स्मृतः ॥ ५७॥
तस्य पुत्रोऽथ धर्मात्मा नाम्ना ऊर्जस्तु जज्ञिवान् ।
ऊर्जस्य सम्भवः पुत्रो यस्य जज्ञे स वीर्यवान् ॥ ५८॥
शकले द्वे स वै जातो जरया सन्धितः स तु ।
जरया सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ॥ ५९॥
सर्वक्षत्रस्य जेतासौ जरासन्धो महाबलः ।
जरासन्धस्य पुत्रो वै सहदेवः प्रतापवान् ॥ १.३२.६०॥
सहदेवात्मजः श्रीमानुदायुः स महायशाः ।
उदायुर्जनयामास पुत्रं परमधार्मिकम् ॥ ६१॥
श्रुतधर्मेति नामानं मगधान् योऽवसद् विभुः ।
परीक्षितस्तु दायादो धार्मिको जनमेजयः ॥ ६२॥
जनमेजयस्य दायादास्त्रय एव महा रथाः ।
श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ॥ ६३॥
एते सर्वे महाभागा विक्रान्ता बलशालिनः ।
जनमेजयस्य पुत्रौ तु सुरथो मतिमांस्तथा ॥ ६४॥
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ।
विदूरथस्य दायाद ऋक्ष एव महारथः ॥ ६५॥
द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः ।
द्वावृक्षौ तव वंशेऽस्मिन्द्वावेव तु परीक्षितौ ॥ ६६॥
भीमसेनास्त्रयो राजन् द्वावेव जनमेजयौ ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ॥ ६७॥
प्रतीपो भीमसेनस्य प्रतीपस्य तु शन्तनुः ।
देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ ६८॥
शन्तनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव ।
बाह्लिकस्य तु राज्यं वै सप्तवाह्यं नरेश्वर ॥ ६९॥
बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ॥ १.३२.७०॥
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ।
च्यवनस्य कृतः पुत्र इष्टश्चासीन्महात्मनः ॥ ७१॥
शन्तनुस्त्वभवद् राजा कौरवाणां धुरन्धरः ।
शान्तनोः सम्प्रवक्ष्यामि यत्र जातोऽसि पार्थिव ॥ ७२॥
गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः ।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ ७३॥
काली विचित्रवीर्यं तु जनयामास भारत ।
शन्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ ७४॥
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ ७५॥
धृतराष्ट्रश्च गान्धार्यां पुत्रानुत्पादयच्छतम् ।
तेषां दुर्योधनः श्रेष्ठः सर्वेषामेव स प्रभुः ॥ ७६॥
पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः ।
अभिमन्योः परीक्षित् तु पिता तव जनेश्वर ॥ ७७॥
एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव ।
तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ ७८॥
सुतस्तु तुर्वसोर्वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो राजा त्रैसानुरपराजितः ॥ ७९॥
करन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वावीक्षितो राजा मरुत्तः कथितस्तव ॥ १.३२.८०॥
अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः ।
दुहिता सम्मता नाम तस्यासीत् पृथिवीपते ॥ ८१॥
दक्षिणार्थं स्म वै दत्ता संवर्ताय महात्मने ।
दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ ८२॥
एवं ययातेः शापेन जरासङ्क्रमणे तदा ।
पौरवं तुर्वसोर्वंशं प्रविवेश नृपोत्तम ॥ ८३॥
दुष्यन्तस्य तु दायादः करुत्थामः प्रजेश्वरः ।
करुत्थामात्तथाऽऽक्रीडश्चत्वारस्तस्य चात्मजाः ॥ ८४॥
पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः ।
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ८५
द्रुह्योश्च तनयो राजन् बभ्रुः सेतुश्च पार्थिवः ।
अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ॥ ८६॥
यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ।
युद्धं सुमहदस्यासीन्मासान्परि चतुर्दश ॥ ८७॥
अङ्गारस्य तु दायादो गान्धारो नाम भारत ।
ख्यायते तस्य नाम्ना वै गान्धारविषयो महान् ॥ ८८॥
गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ।
अनोस्तु पुत्रो धर्मोऽभूद् धृतस्तस्यात्मजोऽभवत् ॥ ८९॥
धृतात् तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः सुचेतास्तु कीर्तितो ह्यानवो मया ॥ १.३२.९०॥
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्यात्तु गदतो मे निशामय ॥ ९१॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पूरुवंशानुकीर्तने द्वात्रिंशोऽध्यायः ॥ ३२॥
१.३३ त्रयस्त्रिंशोऽध्यायः
यदुवंशवर्णनं Yadu dynasty; emergence of kArtavIrya-arjuna
यदोःवंशस्य वर्णनम्, कार्तवीर्यस्य उत्पत्तिः चरित्रं च, ययातेः पञ्चानां पुत्राणां वंशवर्णनस्य श्रवणस्य महिमा
वैशम्पायन उवाच ।
बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ॥ १॥
सहस्रदस्य दायादास्त्रयः परमधार्मिकाः ।
हैहयश्च हयश्चैव राजन् वेणुहयस्तथा ॥ २॥
हैहयस्याभवत् पुत्रो धर्मनेत्र इति स्मृतः ।
धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः ॥ ३॥
साहञ्जनी नाम पुरी येन राज्ञा निवेशिता ।
साहञ्जस्य तु दायादो महिष्मान् नाम पार्थिवः ॥ ४॥
माहिष्मती नाम पुरी येन राज्ञा निवेशिता ।
आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ॥ ५॥
वाराणस्यधिपो राजा कथितः पूर्वमेव तु ।
भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः ॥ ६॥
दुर्दमस्य सुतो धीमान्कनको नाम वीर्यवान् ।
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ ७॥
कृतवीर्यः कृतौजाश्च कृतवर्मा तथैव च ।
कृताग्निस्तु चतुर्थोऽभूत्कृतवीर्यात्तथार्जुनः ॥ ८॥
यस्तु बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् ।
जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ ९॥
स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् ॥ १.३३.१०॥
तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ॥ ११॥
अधर्मे वर्तमानस्य सद्भिस्तत्र निवारणम् ।
उग्रेण पृथिवीं जित्वा स्वधर्मेणानुरञ्जनम् ॥ १९॥
सङ्ग्रामान् सुबहून्कृत्वा हत्वा नारीन्सहस्रशः ।
सङ्ग्रामे वर्तमानस्य वधं चाप्यधिकाद् रणे ॥ १३॥
तस्य बाहुसहस्रं तु युध्यतः किल भारत ।
योगाद् योगेश्वरस्येव प्रादुर्भवति मायया ॥ १४॥
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १५॥
तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय ॥ १६॥
सर्वे यज्ञा महाबाहोस्तस्यासन् भूरिदक्षिणाः ।
सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ १७॥
सर्वैर्देवैर्महाराज विमानस्थैरलङ्कृताः ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १८॥
यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा ।
वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥ १९॥
नारद उवाच ।
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च ॥ १.३३.२०॥
स हि सप्तसु द्वीपेषु खङ्गी चर्मी शरासनी ।
रथी द्वीपाननुचरन् योगी सन्दृश्यते नृभिः ॥ २१॥
अनष्टद्रव्यता चैव न शोको न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ २२॥
पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिपः ।
स सर्वरत्नभाक् संराट् चक्रवर्ती बभूव ह ॥ २२॥
स एव यज्ञपालोऽभूत् क्षेत्रपालः स एव च ।
स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत् ॥ २४॥
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ।
भाति रश्मिसहस्रेण शरदीव दिवाकरः ॥ २५॥
स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ।
कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् ॥ २६॥
स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ।
क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह ॥ २७॥
लुण्ठिता क्रीडिता तेन फेनस्रग्दाममालिनी ।
चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा ॥ २८॥
तस्य बाहुसहस्रेण क्षुभ्यमाणे महोदधौ ।
भयान्निलीना निश्चेष्टाः पातालस्था महासुराः ॥ २९॥
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ।
मारुताविद्धफेनौघमावर्तक्षोभदुःसहम् ॥ १.३३.३०॥
प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ।
देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः ॥ ३१॥
मन्दरक्षोभचकिता अमृतोद्भवशङ्किताः ।
सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ ३२॥
नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ।
सायाह्ने कदलीखण्डाः कम्पितास्तस्य वायुना ॥ ३३॥
स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ।
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
निर्जित्यैव समानीय माहिष्मत्यां बबन्ध तम् ॥ ३४॥
श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन तु ।
ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ।
मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुयाचितः ॥ ३५॥
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।
युगान्ते त्वम्बुदस्येव स्फुटतो ह्यशनेरिव ॥ ३६॥
अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ।
राज्ञो वाहुसहस्रं तु हैमं तालवनं यथा ॥ ३७॥
तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ।
स भिक्षामददाद् वीरः सप्तद्वीपान्विभावसोः ॥ ३८॥
पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ।
जज्वाल तस्य सर्वाणि चित्रभानुर्दिधक्षया ॥ ३९॥
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ।
ददाह कार्तवीर्यस्य शैलांश्चैव वनानि च ॥ १.३३.४०॥
स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ।
ददाह वनवद् भीतश्चित्रभानुः सहैहयः ॥ ४१॥
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ।
वसिष्ठं नाम स मुनिः ख्यात मापव इत्युत ॥ ४२॥
यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ।
यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥ ४३॥
तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति ।
रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् ॥ ४४॥
छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा वली ।
तपस्वी ब्राह्मणश्च त्वां वधिष्यति स भार्गवः ॥ ४५॥
वैशम्पायन उवाच ।
अनष्टद्रव्यता यस्य बभूवामित्रकर्शन ।
प्रभावेण नरेन्द्रस्य प्रजा धर्मेण रक्षतः ॥ ४६॥
रामात्ततोऽस्य मृत्युर्वै तस्य शापान्मुनेर्नृप ।
वरश्चैव हि कौरव्य स्वयमेव वृतः पुरा ॥ ४७॥
तस्य पुत्रशतस्यासन् पञ्च शेषा महात्मनः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥ ४८॥
शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च ।
जयध्वजश्च नाम्नाऽऽसीदावन्त्यो नृपतिर्महान् ॥ ४९॥
कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः ।
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः ॥ १.३३.५०॥
तस्य पुत्राः शतं ख्यातास्तालजङ्घा इति श्रुताः ॥
तेषां कुले महाराज हैहयानां महात्मनाम् ॥ ५१॥
वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ।
तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च ॥ ५२॥
भरताश्च सुता जाता बहुत्वान्नानुकीर्तिताः ।
वृषप्रभृतयो राजन् यादवाः पूर्णकर्मिणः ॥ ५३॥
वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः ।
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥ ५४॥
वृषणाद् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ।
यादवा यदुना चाग्रे निरुच्यन्ते च हैहयाः ॥ ५५॥
न तस्य वित्तनाशोऽस्ति नष्टं प्रतिलभेच्च सः ।
कार्तवीर्यस्य यो जन्म कीर्तयेदिह नित्यशः ॥ ५६॥
एते ययातिपुत्राणां पञ्च वंशा विशाम्पते ।
कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै ॥ ५७॥
भूतानीव महाराज पञ्च स्थावरजङ्गमान् ।
श्रुत्वा पञ्चविसर्गं तु राजा धर्मार्थकोविदः ॥ ५८॥
वशी भवति पञ्चानामात्मजानां तथेश्वरः ।
लभेत् पञ्च वरांश्चैव दुर्लभानिह लौकिकान् ॥ ५९॥
आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूमिमेव च ।
धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत ॥ १.३३.६०॥
क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपौरुषं
यदोर्वंशधरस्याथ यज्वनः पुण्यकर्मणः ॥ ६१॥
क्रोष्टुर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ ६२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ ३३॥
१.३४ चतुस्त्रिंशोऽध्यायः
वृष्णिवंशवर्णनम् Dynasty of vRiShNi
वृष्णिवंशस्य वर्णनं - अक्रूर, वसुदेव, कुन्ती, सात्यकि, उद्धव, चारुदेष्ण, एकलव्यादीनां परिचयं
वैशम्पायन उवाच ।
गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥ १॥
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ २॥
माद्र्याः पुत्रस्य जज्ञाते सुतौ वृष्ण्यन्धकावुभौ ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ ३॥
श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षभयमप्युत ॥ ४॥
कदाचित् काशिराजस्य विभोर्भरतसत्तम ।
त्रीणि वर्षाणि विषये नावर्षत् पाकशासनः ॥ ५॥
स तत्र वासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवर्ते चं ववर्ष हरिवाहनः ॥ ६॥
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीं नाम सा गां तु ददौ विप्रेषु नित्यशः ॥ ७॥
सा मातुरुदरस्था तु बहून् वर्षगणान् किल ।
निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ ८॥
जायस्व शीघ्रं भद्रं ते किमर्थमिह तिष्ठसि ।
प्रोवाच चैनं गर्भस्था कन्या गां च दिने दिने ॥ ९॥
यदि दद्यां ततोऽद्याहं जाययिष्यामि तां पिता ।
तथेत्युवाच तं चास्याः पिता काममपूरयत् ॥ १.३४.१०॥
दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥ ११॥
उपासङ्गस्तथा मद्गुर्मृदुरश्चारिमेजयः ।
अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः ॥ १२॥
धर्मधृग्यतिधर्मा च गृध्रो भोजोऽन्धकस्तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १३॥
अक्रूरेणोग्रसेनायां सुगात्र्यां कुरुनन्दन ।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४॥
चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ १५॥
अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा ।
सुवाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १६॥
अश्मक्यां जनयामास शूरं वै देवमीढुषः ।
महिष्यां जज्ञिरे शूराद् भोज्यायां पुरुषा दश ॥ १७॥
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १८॥
आकानां च संह्रादः सुमहानभवद् दिवि ।
पपात पुष्पवर्षं च शूरस्य भवने महत् ॥ १९॥
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १.३४.२०॥
देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः कनवको वत्सावानथ गृञ्जिमः ॥ २१॥
श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः ॥ २२॥
राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन ॥ २३॥
शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ ।
तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा ॥ २४॥
अन्त्यस्य श्रुतदेवायां जगृहुः सुषुवे सुतः ।
श्रुतश्रवायां चैद्यस्य शिशुपालो महाबलः ॥ २५॥
हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा ।
पृथुकीर्त्यां तु तनयः सञ्जज्ञे वृद्धशर्मणः ॥ २६॥
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ २७॥
यस्यां स धर्मविद् राजा धर्माज्जज्ञे युधिष्ठिरः ।
भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥ २८॥
लोकेऽप्रतिरथो वीरः शक्रतुल्यपराक्रमः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ २९॥
शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः ।
असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः ॥ १.३४.३०॥
भूमेर्युगधरः पुत्र इति वंशः समाप्यते ।
उद्धवो देवभागस्य महाभागः सुतोऽभवत् ।
पण्डितानां परं प्राहुर्देवश्रवसमुद्धवम् ॥ ३१॥
अश्मक्यां प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं देवश्रवा व्यजायत ॥ ३२॥
देवश्रवाः प्रजातस्तु नैषादिर्यः प्रतिश्रुतः ।
एकलव्यो महाराज निषादैः परिवर्धितः ॥ ३३॥
वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ ३४॥
गण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुचारुं च पञ्चालं कृतलक्षणम् ॥ ३५॥
असङ्ग्रामेण यो चीरो नावर्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान् पुरुषर्षभ ॥ ३६॥
वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।
चारुमांसानि भोक्ष्यामश्चारुदेष्णहतानि तु ॥ ३७॥
तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु ।
वीरश्चाश्वहनश्चैव वीरौ तावथ गृञ्जिमौ ॥ ३८॥
श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् ।
जुगुप्समानौ भोजत्वाद् राजसूयमवाप सः ।
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ॥ ३९॥
वसुदेवसुतान्वीरान्कीर्तयिष्यामि ताञ्छृणु ॥ १.३४.४०॥
वृष्णेस्त्रिविधमेतत् तु बहुशाखं महौजसम् ।
धारयन् विपुलं वंशं नानर्थैरिह युज्यते ॥ ४१॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि वृष्णिवंशकीर्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
१.३५ पञ्चत्रिंशोऽध्यायः
कृष्णवंशवर्णनम् Dynasty of kRiShNa
श्रीकृष्णस्य अवतरणम्, श्रीकृष्णस्य अन्येषां भ्रातृभगिनीनां एवं कुटुम्बिनां वर्णनं एवं कालयवनस्य उत्पत्तिः
वैशम्पायन उवाच ।
याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः ।
पौरवी रोहिणी नाम इन्दिरा च तथा वरा ॥ १॥
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी ।
सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ॥ २॥
वृकदेव्युपदेवी च देवकी चैव सप्तमी ।
सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ ३॥
पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ।
ज्येष्ठा पत्नी महाराज दयिताऽऽनकदुन्दुभेः ॥ ४॥
लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च ।
दुर्दमं दमनं श्वभ्रं पिण्डारकमुशीनरम् ॥ ५॥
चित्रां नाम कुमारीं च रोहिणीतनया दश ।
चित्रा सुभद्रेति पुनर्विख्याता कुरुनन्दन ॥ ६॥
वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः ।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ ७॥
सुभद्रायां रथी पार्थादभिमन्युरजायत ।
अक्रूरात् काशिकन्यायां सत्यकेतुरजायत ॥ ८॥
वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूरा नामतस्तान् निबोध मे ॥ ९॥
भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ ।
वृकदेवः सुनामायां गदश्चास्ता सुतावुभौ ॥ १.३५.१०॥
उपासङ्गवरं लेभे तनयं देवरक्षिता ।
अगावहं महात्मानं वृकदेवी व्यजायत ॥ ११॥
कन्या त्रिगर्तराजस्य भर्ता वै शैशिरायणः ।
जिज्ञासां पौरुषे चक्रे न चस्कन्देऽथ पौरुषम् ॥ १२॥
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ।
मिथ्याभिशप्तो गार्ग्यस्तु मन्युनाभिसमीरितः ॥ १३॥
गोपकन्यामुपादाय मैथुनायोपचक्रमे ।
गोपाली त्वप्सरास्तस्य गोपस्त्रीवेषधारिणी ॥ १४॥
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ।
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ॥ १५॥
स कालयवनो नाम जज्ञे राजा महाबलः ।
वृषपूर्वार्धकायास्तमवहन् वाजिनो रणे ॥ १६॥
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
यवनस्य महाराज स कालयवनोऽभवत् ॥ १७॥
स युद्धकामी नृपतिः पर्यपृच्छद् द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य नारदोऽकथयद् विभुः ॥ १८॥
अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ।
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् ॥ १९॥
ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ।
समेता मन्त्रयामासुर्यवनस्य भयात् तदा ॥ १.३५.२०॥
कृत्वा च निश्चयं सर्वे पलायनपरायणाः ।
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ॥ २१॥
कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ।
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः ।
पर्वसु श्रावयेद् विद्वाननृणः स सुखी भवेत् ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि श्रीकृष्णजन्मानुकीर्तनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥
१.३६ षट्त्रिंशोऽध्यायः
क्रोष्टुवंशवर्णनम् Dynasty of kroShTu
क्रोष्टोः वंशवर्णनम्, पुरोहितगोत्रेण क्षत्रियस्य गोत्रस्य प्रतिस्थापनं
वैशम्पायन उवाच ।
क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान्महायशाः ।
वृजिनीवत्सुतश्चापि स्वाहिः स्वाहाकृतां वरः ॥ १॥
स्वाहिपुत्रोऽभवद् राजा रुषद्गुर्वदतां वरः ।
महाक्रतुभिरीजे यो विविधैभूरिदक्षिणैः ॥ २॥
सुतप्रसूतिमन्विच्छन् रुषद्गुः सोऽग्र्यमात्मजम् ।
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ ३॥
आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।
शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ ४॥
पृथुश्रवाः पृधुयशा राजाऽऽसीच्छशबिन्दुजः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमुत्तरम् ॥ ५॥
अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत् ।
उशतो यज्ञमखिलं स्वधर्ममुशतां वरः ॥ ६॥
शिनेयुरभवत् सूनुरुशतः शत्रुतापनः ।
मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ॥ ७॥
मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
चचार विपुलं धर्मममर्षात् प्रेत्यभागपि ॥ ८॥
सुतप्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ ९॥
निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १.३६.१०॥
जज्ञेऽथ रुक्मकवचात् पराजित् परवीरहा ।
जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः ॥ ११॥
रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १२॥
रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रितः ।
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोऽवसदाश्रमे ॥ १३॥
प्रशान्तः स वनस्थस्तु ब्राह्मणैश्चावबोधितः ।
जिगाय रथमास्थाय देशमन्यं ध्वजी रथी ॥ १४॥
नर्मदाकूलमेकाकी नगरीं मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५॥
ज्यामघस्याभवद् भार्या शैब्या बलवती सती ।
अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत ॥ १६॥
तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः ।
भार्यामुवाच सन्त्रस्तः स्नुषेति स नरेश्वरः ॥ १७॥
एतच्छ्रुत्वाब्रवीद् देवी कस्य चेयं स्नुषेति वै ।
अब्रवीत् तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ १८॥
यस्ते जनिष्यते पुत्रस्तस्य भार्योपदानवी ।
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥ १९॥
राजपुत्र्यां तु विद्वांसौ स्तुषायां क्रथकौशिकौ ।
पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ १.३६.२०॥
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् ।
लोमपादात्मजो बभ्रुराह्वतिस्तस्य चात्मजः ॥ २१॥
आह्वतेः कौशिकश्चैव विद्वान् परमधार्मिकः ।
चेदिः पुत्रः कौशिकस्य तस्माच्चैद्या नृपाः स्मृताः ॥ २२॥
भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत्
कुन्तेर्धृष्टसुतो जज्ञे रणधृष्टः प्रतापवान् ।
धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ॥ २३॥
आवन्तश्च दशार्हश्च बली विषहरश्च यः ।
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ॥ २४॥
जीमूतपुत्रो बृहतिस्तस्य भीमरथः सुतः ।
अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा ॥ २५॥
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भः कारम्भिर्देवरातोऽभवन्नृपः ॥ २६॥
देवक्षत्रोऽभवत् तस्य दैवक्षत्रिर्महायशाः ।
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ॥ २७॥
मधूनां वंशकृद् राजा मधुर्मधुरवागपि ।
मधोर्जज्ञेऽथ वैदर्भो पुत्रो मरुवसास्तथा ॥ २८॥
आसीन्मरुवसः पुत्रः पुरुद्वान् पुरुषोत्तमः ।
मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः ॥ २९॥
ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत ।
सत्त्वान् सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः ॥ १.३६.३०॥
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परया कीर्त्या प्रजावांश्च भवेन्नरः ॥ ३१॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि षट्त्रिंशोऽध्यायः ॥ ३६॥
१.३७ सप्तत्रिंशोऽध्यायः
बभ्रुवंशवर्णनम् Dynasty of babhru
बभ्रुवंशस्य वर्णनं
वैशम्पायन उवाच ।
सत्त्वतात्सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् ।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १॥
अन्धकं च महावाहु वृष्णिं च यदुनन्दनम् ।
तेषां विसर्गाश्चत्वारो विस्तरेणेह ताञ्छृणु ॥ २॥
भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका ।
आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ ३॥
कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः ।
एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ ४॥
अयुताजित्सहस्राजिच्छताजिच्चाथ दाशकः ।
उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ ५॥
यज्वा देवावृधो राजा चचार विपुलं तपः ।
पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ॥ ६॥
संयुज्यात्मानमेवं तु पर्णाशाया जलं स्पृशन् ।
सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ ७॥
चिन्तयाभिपरीता सा जगामैकाभिनिश्चयम् ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ८॥
नाध्यगच्छत तां नारीं यस्यामेवंविधः सुतः ।
जायेत्तस्मात्स्वयं हन्त भवाम्यस्य सहव्रता ॥ ९॥
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
वरयामास नृपतिं तामियेष च स प्रभुः ॥ १.३७.१०॥
तस्यामाधत्त गर्भं च तेजस्विनमुदारधीः ।
अथ सा दशमे मासि सुषुवे सरितां वरा ॥ ११॥
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १२॥
गुणान् देवावृधस्याथ कीर्तयन्तो महात्मनः ।
यथैवाग्रे समं दूरात् पश्याम च तथान्तिके ॥ १३॥
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च ॥ १४॥
एतेऽमृतत्वं सम्प्राप्ता बभ्रुर्देवावृधावपि ।
यज्वा दानपतिर्विद्वान् ब्रह्मण्यः सुदृढायुधः ॥ १५॥
कीर्तिमांश्च महातेजाः सात्त्वतानां महावरः ।
तस्यान्ववायः सुमहान्भोजा ये मार्तिकावताः ॥ १६॥
अन्धकात्काश्यदुहिता चतुरोऽलभतात्मजान् ।
कुकुरं भजमानं च शमिं कम्बलबर्हिषम् ॥ १७॥
कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा ।
कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ॥ १८॥
जज्ञे पुनर्वसुस्तस्मादभिजित् तु पुनर्वसोः ।
तस्य वै पुत्रमिथुनं बभूवाभिजितः किल ॥ १९॥
आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ ।
इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् ॥ १.३७.२०॥
श्वेतेन परिवारेण किशोरप्रतिमो महान् ।
अशीतिचर्मणा युक्तः स नृपः प्रथमं व्रजेत् ॥ २१॥।
नापुत्रवान् नाशतदो नासहस्रशतायुषः ।
नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् ॥ २२॥
पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् ।
सोपासङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ॥ २३॥
रथानां मेघघोषाणां सहस्राणि दशैव तु ।
रूप्यकाञ्चनकक्षाणां सहस्राणि दशापि च ॥ २४॥
तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि ।
आ भूमिपालान्भोजाः स्वानुपतिष्ठन्किङ्किणीकिणः ॥ २५॥
आहुकी चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ।
आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः ॥ २६॥
देवकश्चोग्रसेनश्च देवपुत्रसमावुभौ ।
देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः ॥ २७॥
देववानुपदेवश्च सुदेवो देवरक्षितः ।
कुमार्यः सप्त चाप्यासन् वसुदेवाय ता ददौ ॥ २८॥
देवकी शान्तिदेवा च सुदेवा देवरक्षिता ।
वृकदेव्युपदेवी च सुनासी चैव सप्तमी ॥ २९॥
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुः सुभूमिपः ॥ १.३७.३०॥
राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् ।
तेषां स्वसारः पञ्चाऽऽसन्कंसा कंसवती तथा ॥ ३१॥
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥ ३२॥
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ।
आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥ ३३॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सप्तत्रिंशोऽध्यायः ॥ ३७॥
१.३८ अष्टत्रिंशोऽध्यायः
स्यमन्तक कथ Dynasty of bhajamAna - legend of syamantaka jewel
भजमानवंशस्य वर्णनम्, स्यमन्तकमणेः कथा
वैशम्पायन उवाच ।
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १॥
राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।
दत्तातिदत्तबलिनौ शोणाश्वः श्वेतवाहनः ॥ २॥
शमी च दण्डशर्मा च दण्डशत्रुश्च शत्रुजित् ।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ ३॥
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद्धृदीकः सम्बभूव ह ॥ ४॥
तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वाथ मध्यमः ॥ ५॥
देवर्षेर्वचनात् तस्य भिषग् वैतरणश्च यः ।
सुदान्तश्च विदान्तश्च कामदा कामदन्तिका ॥ ६॥
देववांश्चाभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।
असमौजास्तथा वीरो नासमौजाश्च तावुभौ ॥ ७॥
अजातपुत्राय सुतान् प्रददावसमौजसे ।
सुदंष्ट्रं चारुरूपं च कृष्णमित्यन्धकास्त्रयः ॥ ८॥
एते चान्ये च बहवो अन्धकाः कथितास्तव ।
अन्धकानामिमं वंशं धारयेद् यस्तु नित्यशः ॥ ९॥
आत्मनो विपुलं वंशं लभते नात्र सशयः ।
गान्धारी चैव माद्री च क्रोष्टुर्भार्ये बभूवतुः ॥ १.३८.१०॥
गान्धारी जनयामास अनमित्रं महाबलम् ।
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् ॥ ११॥
अनमित्रममित्राणां जेतारमपराजितम् ।
अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ १२॥
प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ।
प्रसेनो द्वारवत्यां तु निवसन्त्यां महामणिम् ॥ १३॥
दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् ।
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ १४॥
स कदाचिन्निशापाये रथेन रथिनां वरः ।
अब्धिकूलमुपस्प्रष्टुमुपस्थातुं ययौ रविम् ॥ १५॥
तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
अस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् प्रभूः ॥ १६॥
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैवं व्योम्नि पश्यामि सदा त्वां ज्योतिषाम्पते ॥ १७॥
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ।
को विशेषोऽस्ति मे त्वत्तः सख्येनोपागतस्य वै ॥ १८॥
एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्यैव एकान्ते न्यस्तवान् विभुः ॥ १९॥
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ॥ १.३८.२०॥
तमपि प्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
लोकानुद्भासयस्येतान् येन त्वं सततं प्रभो ।
तदेतन्मणिरत्नं मे भगवन् दातुमर्हसि ॥ २१॥
ततः स्यमन्तकमणिं दत्तवांस्तस्य भास्करः ।
स तमाबद्ध्य नगरीं प्रविवेश महीपतिः ॥ २२॥
तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।
पुरीं विस्मापयित्वा च राजा त्वन्तःपुरं ययौ ॥ २३॥
तत् प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २४॥
स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ २५॥
लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके ।
गोविन्दो न च तल्लेभे शक्तोऽपि न जहार सः ॥ २६॥
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात ॥ २७॥
अथ सिंहं प्रधावन्तमृक्षराजो महाबलः ।
निहत्य मणिरत्नं तदादाय बिलमाविशत् ॥ २८॥
ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर्बुद्ध्या सर्व एव शशङ्किरे ॥ २९॥
स शङ्क्यमानो धर्मात्मा नकारी तस्य कर्मणः ।
आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १.३८.३०॥
यत्र प्रसेनो मृगयामाचरत् तत्र चाप्यथ ।
प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ ३१॥
ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् ।
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥ ३२॥
साश्वं हतं प्रसेनं वै नाविन्दच्चेच्छितं मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ ३३॥
ऋक्षेण निहतो दृष्टः पादैरृक्षश्च सूचितः ।
पादैरन्वेषयामास गुहामृक्षस्य माधवः ॥ ३४॥
महत्यृक्षबिले वाणीं शुश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जाम्बवतो नृप ।
क्रीडापयन्त्या मणिना मा रोदीरित्यथेररिताम् ॥ ३५॥
धात्र्युवाच ।
सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ ३६॥
सुव्यक्तीकृतशब्दस्तु तूष्णीं बिलमथाविशत् ।
प्रविश्य चापि भगवांस्तमृक्षबिलमञ्जसा ॥ ३७॥
स्थापयित्वा बिलद्वारि यदूंल्लाँङ्गलिना सह ।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श ह ॥ ३८॥
युयुधे वासुदेवस्तु बिले जाम्बवता सह ।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥ ३९॥
प्रविष्टे तु बिलं कृष्णे बलदेवपुरःसराः ।
पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ १.३८.४०॥
वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् ।
भेजे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ।
मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये ॥ ४१॥
अनुनीयर्क्षराजानं निर्ययौ च तदा बिलात् ।
द्वारकामगमत् कृष्णः श्रिया परमया युतः ॥ ४२॥
एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ।
ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि ॥ ४३॥
एवं मिथ्याभिशप्तेन कृष्णेनामित्रघातिना ।
आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् ॥
सत्राजितो दश त्वात्सन्भार्यास्तासां शतं सुताः ।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः ॥ ४५॥
वीरो वातपतिश्चैव उपस्वावांश्च ते त्रयः ।
कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता नराधिप ॥ ४६॥
सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ ॥ ४७॥
समाक्षो भङ्गकारस्य नारेयश्च नरोत्तमौ ।
जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा ॥ ४८॥
माद्रीपुत्रस्य जज्ञेऽथ पृश्निः पुत्रो युधाजितः ।
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकस्तथा ॥ ४९॥
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीं नाम तस्याश्च सदा गाः प्रददौ पिता ॥ १.३८.५०॥
तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः ।
अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः ॥ ५१॥
उपासङ्गस्तथा मद्गुर्मृदुरश्चारिमेजयः ।
अविक्षिपस्तथोपेक्षः शत्रुहा चारिमर्दनः ॥ ५२॥
धर्मधृग् यतिधर्मा च गृध्रो भोजोऽन्धकस्तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ ५३॥
विश्रुता साम्बमहिषी कन्या चास्य वसुन्धरा ।
रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा ॥ ५४॥
अक्रूरेणोग्रसेन्यां तु सुतौ द्वौ कुरुनन्दन ।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ ५५॥
चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ ५६॥
अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत् तथा ।
सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ ५७॥
इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ।
वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ ५८॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्यष्टत्रिंशोऽध्याथः ॥ ३८॥
१.३९ एकोनचत्वारिंशोऽध्यायः
अक्रूरचरितम् Legend of akrUra - legend of syamantaka jewel
स्यमन्तकमणिकारणेन प्रसेन, सत्राजित् एवं शतधन्वनोः मृत्युः, बलदेवस्य
दुर्योधनाय गदाविद्यायाः शिक्षा, अकूरस्य श्रीकृष्णाय मणिप्रदानम्,
श्रीकृष्णस्य पुनः अक्रूराय मणिप्रदानं
वैशम्पायन उवाच ।
यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
अदात् तद्धारयामास बभ्रुर्वै शतधन्वना ॥ १॥
सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरोऽन्तरमन्विच्छन् मणिं चैव स्यमन्तकम् ॥ २॥
सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ ३॥
अक्रूरस्तु ततो रत्नमादाय भरतर्षभ ।
समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत ॥ ४॥
वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् ।
ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयं ५॥
हते पितरि दुःखार्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ ६॥
सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ ७॥
पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ ८॥
ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ ९॥
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो ॥ १.३९.१०॥
तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति ॥ ११॥
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततोऽक्रूरमवैक्षत् सर्वतो दिशम् ॥ १२॥
संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत ॥ १३॥
अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
योजनानां शतं साग्रं हयया प्रत्यपद्यत ॥ १४॥
विख्याता हृदया ``नाम शतयोजनगामिनी ।
भोजस्य वडवा राजन् यया कृष्णमयोधयत् ॥ १५॥
क्षीणां जवन च हयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य ता वृद्धिं शतधन्वा समत्यजत् ॥ १६॥
ततस्तस्या हयायास्तु श्रमात् खेदाच्च भारत ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७॥
तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १८॥
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलामभितो राजन् जघान परमास्त्रवित् ॥ १९॥
स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ॥ १.३९.२०॥
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम् ॥ २१॥
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २२॥
प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
सर्वकामैरुपहृतैमैथिलेनाभिपूजितः ॥ २३॥
एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान् क्रतून् सर्वानाजहार निरर्गलान् ॥ २४॥
दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ २५॥
अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ॥ २६॥
अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २७॥
अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २८॥
प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २९॥
अक्रूरस्त्वन्धकैः सार्धमपायाद् भरतर्षभ ।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलम् ॥ १.३९.३०॥
ज्ञातिभेदभयात् कृष्णस्तमुपेक्षितवानथ ।
अपयाते तथाक्रूरे नावर्षत् पाकशासनः ॥ ३१॥
अनावृष्ट्या यदा राज्यमभवद् बहुधा कृशम् ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ ३२॥
पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
प्रववर्ष सहस्राक्षः कच्छे जलनिधेस्तदा ॥ ३३॥
कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थं कुरुनन्दन ॥ ३४॥
अथ विज्ञाय योगेन कृष्णो बभ्रूगतं मणिम् ।
सभामध्ये गतं प्राह तमक्रूरं जनार्दनः ॥ ३५॥
यत् तद् रत्नं मणिवरं तव हस्तगतं विभो ।
तत् प्रयच्छस्व मानार्ह मयि मानार्यकं कृथाः ॥ ३६॥
षष्टिवर्षे गते काले यद्रोषोऽभून्ममानघ ।
स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान् ॥ ३७॥
ततः कृष्णस्य वचनात् सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ ३८॥
ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ ३९॥
स कृष्णहस्तात्सम्प्राप्तं मणिरन्तं स्यमन्तकम् ।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ १.३९.४०॥
यस्त्वेवं शृणुयान्नित्यं शुचिर्भूत्वा समाहितः ।
सुखानां सकलानां च फलभागीह जायते ॥ ४१॥
आ ब्रह्मभुवनाश्चापि यशःख्यातिर्न संशयः ।
भविष्यति नृपश्रेष्ठ सत्यमेतद् ब्रवीमि ते ॥ ४२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्येकोनचत्वारिंशोऽध्यायः ॥ ३९॥
१.४० चत्वारिंशोऽध्यायः
वराहोत्पत्तिवर्णनम् - जनमेजय प्रश्नम् Advent of sacred-boar - enquiry of janamejaya
जनमेजयेन भगवतः वराह, नृसिंह, परशुराम, श्रीकृष्णादीनां अवताराणां रहस्यस्य पृच्छा
जनमेजय उवाच ।
प्रादुर्भावान् पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतामेव वाराह इति नः श्रुतम् ॥ १॥
न जाने तस्य चरितं न विधिं नैव विस्तरम् ।
न कर्मगुणसन्तानं न हेतुं न मनीषितम् ॥ २॥
किमात्मको वराहः स का मूर्तिः का च देवता ।
किमाचारः प्रभावो वा किं वा तेन पुरा कृतम् ॥ ३॥
यज्ञार्थं समवेतानां मिषतां च द्विजन्मनाम् ।
महावराहचरितं कृष्णद्वैपायनेरितम् ॥ ४॥
यथा नारायणो ब्रह्मन् वाराहं रूपमास्थितः ।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिसूदनः ॥ ५॥
विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः ।
श्रोतुमिच्छाम्यशेषेण हरेः कृष्णस्य धीमतः ॥ ६॥
कर्मणामानुपूर्व्याच्च प्रादुर्भावाश्च ये विभोः ।
या चास्य प्रकृतिर्ब्रह्मंस्तां मे व्याख्यातुमर्हसि ॥ ७॥
कथं च भगवान् विष्णुः सुरशत्रुनिषूदनः ।
वसुदेवकुले धीमान् वासुदेवत्वमागतः ॥ ८॥
अमरैरावृतं पुण्यं पुण्यकृद्भिर्निषेवितम् ।
देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः ॥ ९॥
देवमानुषयोर्नेता यो भुवः प्रभवो विभुः ।
किमर्थं दिव्यमात्मानं मानुष्ये संन्ययोजयत् ॥ १.४०.१०॥
यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ।
मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥ ११॥
गोपायनं यः कुरुते जगतः सार्वलौकिकम् ।
स कथं गां गतो देवो विष्णुर्गोपत्वमागतः ॥ १२॥
महाभूतानि भूतात्मा यो दधार चकार च ।
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥ १३॥
येन लोकान् क्रमैर्जित्वा त्रिभिस्त्रींस्त्रिदशेप्सया ।
स्थापिता जगतो मार्गास्त्रिवर्गप्रभवास्त्रयः ॥ १४॥
योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ।
लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ॥ १५॥
यः पुराणे पुराणात्मा वाराहं रूपमास्थितः ।
विषाणाग्रेण वसुधामुज्जहारारिसूदनः ॥ १६॥
यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययः ।
ददौ जित्वासुरगणान् सुराणां सुरसत्तमः ॥ १७॥
येन सैंहं वपुः कृत्वा द्विधा कृत्वा च तत् पुनः ।
पूर्वं दैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ १८॥
यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ।
पातालस्थोऽर्णवगतं पपौ तोयमयं हविः ॥ १९॥
सहस्रशिरसं ब्रह्मन् सहस्राक्षं सहस्रदम् ।
सहस्रचरणं देवं यमाहुर्वै युगे युगे ॥ १.४०.२०॥
नाभ्यारण्यां समुत्पन्नं यस्य पैतामहं गृहम् ।
एकार्णवजलस्थस्य नष्टे स्थावरजङ्गमे ॥ २१॥
येन ते निहता दैत्याः सङ्ग्रामे तारकामये ।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ २२॥
गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः ।
निर्जितश्च मयो दैत्यस्तारकश्च महासुरः ॥ २३॥
उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधेः ।
यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ २४॥
सुरारणिर्गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धं गर्भावसाने निभृतं चकार ॥ २५॥
पदानि यो लोकमयानि कृत्वा चकार दैत्यान् सलिलेशयांस्तान् ।
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं त्रिदशाधिपत्ये ॥ २६॥
पात्राणि दक्षिणा दीक्षा चमसोलूखलानि च ।
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा ॥ २७॥
अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम् ।
प्रोक्षणीयं ध्रुवां चैव आवभृथ्यं तथैव च ॥ २८॥
सुधात्रीणि च यश्चक्रे हव्यकव्यप्रदान् द्विजान् ।
हव्यादांश्च सुरान् यज्ञे क्रव्यादांस्तु पितॄनपि ॥ २९॥
भागार्थे मन्त्रविधिना यश्चक्रे यज्ञकर्मणि ।
यूपान्समित्स्रुचं सोमं पवित्रान् परिधीनपि ॥ १.४०.३०॥
यज्ञियानि च द्रव्याणि यज्ञांश्च सचयानलान् ।
सदस्यान् यजमानांश्च मेध्यादींश्च क्रतूत्तमान् ॥ ३१॥
विबभाज पुरा सर्वं पारमेष्ठ्येन कर्मणा ।
युगानुरूपान् यः कृत्वा लोकाननुपराक्रमत् ॥ ३२॥
क्षणा लवाश्च काष्ठाश्च कलास्त्रैकाल्यमेव च ।
मुहूर्तास्तिथयो मासाः पक्षाः संवत्सरास्तथा ३३॥
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु ।
आयुः क्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥ ३४॥
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि त्रयोऽपायास्त्रयो गुणाः ॥ ३५॥
त्रयो लोकाः पुरा सृष्टा येनानन्त्येन कर्मणा ।
सर्वभूतगणस्रष्टा सर्वभूतगुणात्मकः ॥ ३६॥
नृणामिन्द्रियपूर्वेण यागेन रमते च यः ।
गतागताभ्यां यो नेता सर्वत्र जगदीश्वरः ॥ ३७॥
यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्चातुर्होत्रस्य रक्षिता ॥ ३८॥
चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः ।
दिगन्तरो नभोभूतो वायुरापो विभावसुः ॥ ३९॥
यश्चन्द्रसूर्ययोर्ज्योतिर्योगीशः क्षणदान्तकः ।
यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते तपः ॥ १.४०.४०॥
यं परं प्राहुरपरं यः परः परमात्मवान् ।
नारायणपरा वेदा नारायणपराः क्रियाः ॥ ४१॥
नारायणपरो धर्मो नारायणपरा गतिः ।
नारायणपरं सत्यं नारायणपरं तपः ॥ ४२॥
नारायणपरो मोक्षो नारायणपरायणम् ।
आदित्यादिस्तु यो दिव्यो यश्च दैत्यान्तको विभुः ॥ ४३॥
युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ४४॥
वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।
सोमभूतस्तु सौम्यानामग्निभूतोऽग्निवर्चसाम् ॥ ४५॥
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ।
सर्गाणां सर्गकारश्च लोकहेतुरनुत्तमः ॥ ४६॥
विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि ।
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥ ४७॥
देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ।
रसाद् वै शोणितं जातं शोणितान्मांसमुच्यते ॥ ४८॥
मांसात्तु मेदसो जन्म मेदसोऽस्थीनि चैव हि ।
अस्थ्नो मज्जा समभवन्मज्जातः शुक्रमेव च ॥ ४९॥
शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा ।
तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते ॥ १.४०.५०॥
गर्भोष्मसम्भवोऽग्निर्यो द्वितीयो राशिरुच्यते ।
शुक्रं सोमात्मकं विद्यादार्तवं विद्धि पावकम् ॥ ५१॥
भागौ रसात्मकौ ह्येषां वीर्यं च शशिपावकौ ।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥ ५२॥
कफस्य हदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ।
देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ।
नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः ॥ ५३॥
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ।
पित्तमग्निः स्मृतं ह्येतदग्नीषोमात्मकं जगत् ॥ ५४॥
एवं प्रवर्तिते गर्भे वर्द्धितेऽम्बुदसन्निभे ।
वायुः प्रवेशं सञ्चक्रे सङ्गतः परमात्मना ॥ ५५॥
ततोऽङ्गानि विसृजति बिभर्ति परिवर्द्धयन् ।
स पञ्चधा शरीरस्थो भिद्यते वर्द्धते पुनः ॥ ५६॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
प्राणः स प्रथमं स्थानं वर्द्धयन् परिवर्तते ॥ ५७॥
अपानः पश्चिमं कायमुदानोर्ध्वं शरीरिणः ।
व्यानो व्यायच्छते येन समानः सन्निवर्तयेत् ।
भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरात् ॥ ५८॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
तस्येन्द्रियाणि विष्टानि स्वं स्वं योगं प्रचक्रिरे ॥ ५९॥
पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ।
छिद्राण्याकाशयोनीनि जलात् स्रावः प्रवर्तते ॥ १.४०.६०॥
ज्योतिश्चक्षुश्च तेजात्मा तेषां यन्ता मनः स्मृतः ।
ग्रामाश्च विषयाश्चैव यस्य वीर्यात् प्रवर्तिताः ॥ ६१॥
इत्येवं पुरुषः सर्वान्सृजँल्लोकान् सनातनान् ।
कथं लोके नैधनेऽस्मिन् नरत्वं विष्णुरागतः ॥ ६२॥
एष मे संशयो ब्रह्मन्नेवं मे विस्मयो महान् ।
कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ॥ ६३॥
श्रुतो मे स्वस्य वंशस्य पूर्वेषां चैव सम्भवः ।
श्रोतुमिच्छामि विष्णोस्तु वृष्णीनां च यथाक्रमम् ॥
आश्चर्य परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ।
विष्णोरुत्पत्तिमाश्चर्यं ममाचक्ष्य महामुने ॥ ६५॥
एतदाश्चर्यमाख्यानं कथयस्व सुखावहम् ।
प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ।
कर्म चाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् ॥ ६६॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि वराहोत्पत्तिवर्णने चत्वारिंशोऽध्यायः ॥ ४०॥
१.४१ एकचत्वारिंशोऽध्यायः
विष्ण्ववतारवर्णनम् Incarnations of viShNu
भगवतः विष्णोः वाराहः, नृसिंहः, वामनः, दत्तात्रेयः, परशुरामः, श्रीरामः, श्रीकृष्णः,
व्यासः एवं कल्कि अवताराणां सङ्क्षिप्त कथा
वैशम्पायन उवाच ।
प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि ।
यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ १॥
विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता ।
हन्त विष्णोः प्रवृत्तिं च शृणु दिव्या मयेरिताम् ॥ २॥
सहस्राक्षं सहस्रास्यं सहस्रचरणं च यम् ।
सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥ ३॥
सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ ४॥
सवनं हवनं चैव हव्यं होतारमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम् ॥ ५॥
स्रुक्सोमं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ ६॥
यूपं समित्कुशं दर्वीं चमसोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् ॥ ७॥
ह्रस्वान्यतिप्रमाणानि चराणि स्थावराणि च ।
प्रायश्चित्तानि चार्थं च स्थण्डिलानि कुशांस्तथा ॥ ८॥
मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रेभुजं सोमभुजं घृतार्चिषमुदायुधम् ॥ ९॥
आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं विभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ १.४१.१०॥
प्रादुर्भावसहस्राणि अतीतानि न संशयः ।
भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः ॥ ११॥
यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।
यदर्थं भगवान् विष्णुः सुरेशो रिपुसूदनः ।
देवलोकं समुत्सृज्य वसुदेवकुलेऽभवत् ॥ १२॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणु सर्वमशेषतः ।
वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः ॥ १३॥
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ।
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ॥ १४॥
प्रादुर्भावांश्च वक्ष्यामि पुण्यान् दिव्यगुणैर्युतान् ।
छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतान् ॥ १५॥
शुचिः प्रयतवाग् भूत्वा निबोध जनमेजय ।
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम् ॥ १६॥
हन्त ते कथयिष्यामि विष्णोर्दिव्यां कथां शृणु ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
धर्मसंस्थापनार्थाय तदा सम्भवति प्रभुः ॥ १७॥
तस्य ह्येका महाराज मूर्तिर्भवति सत्तमा ।
नित्यं दिविष्ठा या राजंस्तपश्चरति दुश्चरम् ॥ १८॥
द्वितीया चास्य शयने निद्रायोगमुपाययौ ।
प्रजासंहारसर्गार्थं किमध्यात्मविचिन्तकम् ॥ १९॥
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् ।
पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः ॥ १.४१.२०॥
पितामहो लोकपालाश्चन्द्रादित्यौ हुताशनः ।
ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च ॥ २१॥
देवाः सप्तर्षयश्चैव त्र्यम्बकश्च महायशाः ।
वायुः समुद्राः शैलाश्च तस्य देहं समाश्रिताः ॥ २२॥
सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान् प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २३॥
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ॥ २४॥
योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ ।
हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम् ॥ २५॥
पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे यत्र सम्भूता देवाः सर्षिगणाः पुरा ॥ २६॥
एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः ॥ २७॥
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥ २८॥
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ २९॥
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ १.४१.३०॥
धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः ॥ ३१॥
उद्गात्रन्त्रो होमलिङ्गः फलबीजमहौषधिः ।
वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥ ३२॥
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिराचितः ॥ ३३॥
दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ॥ ३४॥
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मेरुशृङ्ग इवोच्छ्रितः ॥ ३५॥
महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः ॥ ३६॥
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो देवादिश्चकार पृथिवीं पुनः ॥ ३७॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी सर्वा सागराम्बुधरा पुरा ॥ ३८॥
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ ३९॥
पुरा कृतयुगे राजन् सुरारिर्बलदर्पितः ।
दैत्यानामादिपुरुषश्चचार तप उत्तमं ॥ १.४१.४०॥
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जपोपवासनिरतः स्थानमौनदृढव्रतः ॥ ४१॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतोऽभवत् तस्य तपसा नियमेन च ॥ ४२॥
तं वै स्वयम्भूर्भगवान् स्वयमागत्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ ४३॥
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ ४४॥
दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ ४५॥
देवर्षिभिस्तपोवृद्धैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैश्चाप्सरोगणैः ॥ ४६॥
चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ४७॥
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ४८॥
हिरण्यकशिपुरुवाच ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मां कथञ्चन ॥ ४९॥
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम् ॥ १.४१.५०॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ॥ ५१॥
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति ॥ ५२॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ ५३॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ ५४॥
एवमुक्तस्तु दैत्येन स्वयम्भूर्भगवांस्तदा ।
उवाच दैत्यराजं तं प्रहसन् नृपसत्तम ॥ ५५॥
ब्रह्मोवाच ।
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वान् कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥ ५६॥
एवमुक्त्वा तु भगवाञ्जगामाकाशमेव हि ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ ५७॥
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वा ते पितामहमुपस्थिताः ॥ ५८॥
विभुं विज्ञापयामासुर्देवा इन्द्रपुरोगमाः ॥ ५९॥
देवा ऊचुः ।
वरेणानेन भगवन् बाधयिष्यति नोऽसुरः ।
ततः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम् ॥ १.४१.६०॥
भवान् हि सर्वभूतानां स्वयम्भूरादिकृद् विभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥ ६१॥
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान् वाक्यं सर्वान् देवगणांस्तदा ॥ ६२॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ॥ ६३॥
एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजसम्भवात् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ ६४॥
लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ ६५॥
आश्रमेषु महाभागान् मुनीन् वै शंसितव्रतान् ।
सत्यधर्मरतान् दान्तान् पुरा धर्षितवांस्तु सः ॥ ६६॥
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ ६७॥
यदा वरमदोन्मत्तो न्यवसद् दानवो दिवि ।
यज्ञियान् कृतवान्दैत्यान्देवांश्चैवाप्ययज्ञियान् ॥ ६८॥
आदित्याश्च ततो रुद्रा विश्वे च मरुतस्तथा ।
शरण्यं शरणं विश्वमुपाजग्मुर्महाबलम् ॥ ६९॥
वेदयज्ञमयं ब्रह्म ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
नारायणं विभुं देवाः शरणं शरणागताः ॥ १.४१.७०॥
देवा ऊचुः ।
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥ ७१॥
त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ।
उत्फुल्लाम्बुजपत्राक्षः शत्रुपक्षभयङ्करः ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवस्व नः ॥ ७२॥
विष्णुरुवाच ।
भयं त्यजध्वममरा ह्यभयं वो ददाम्यहम् ।
तथैवं त्रिदिवं देवाः प्रतिपत्स्यथ माचिरम् ॥ ७३॥
एष तं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ७४॥
वैशम्पायन उवाच ।
एवमुक्त्वा स भगवान् विसृज्य त्रिदशेश्वरान् ।
हिरण्यकशिपो राजन्नाजगां हरिः सभाम् ॥ ७५॥
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेण वपुषा पाणिं निष्पिष्य पाणिना ॥ ७६॥
जीमूतघनसङ्काशो जीमूतघननिःस्वनः ।
जीमूतघनदीप्तौजा जीमूत इव वेगवान् ॥ ७७॥
दैत्यं सोऽतिबलं दीप्तं दृप्तशार्दूलविक्रमम् ।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥ ७८॥
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमाश्रित्य रूपं दैत्यविनाशकृत् ॥ ७९॥
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ १.४१.८०॥
पर्वकालब्धं सबशक्तिमान्भगवान्वाझारूपधाण-
विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च ।
अयःशिरा शङ्कुशिरा हयग्रीवश्च वीर्यवान् ॥ ८१॥
वेगवान् केतुमानुग्रः सोमव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव वेपनश्च महारथः ॥ ८२॥
बृहत्कीर्तिर्महाजिह्वः साश्वोऽश्वपतिरेव च ।
प्रह्लादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः शङ्करो रुजः ॥ ८३॥
शरभः शलभश्चैव कुपनः कोपनः क्रथः ।
बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥ ८४॥
दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः ।
बायुर्यविष्ठो नमुचिः शम्बरो विज्वरो महान् ॥ ८५॥
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः ॥ ८६॥
गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
इन्द्रतापनवातापी केतुमान् बलदर्पितः ॥ ८७॥
असिलोमा पुलोमा च वाक्कलः प्रमदो मदः ।
खसृमः कालवदनः करालः कैशिकः शरः ॥ ८८॥
एकाक्षश्चन्द्रहा राहुः संह्रादः सृमरः खनः ।
शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः ॥ ८९॥
महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ।
अस्मयन्त्रायुधोपेता भिन्दिपालायुधास्तथा ॥ १.४१.९०॥
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
पाशमुद्गरहस्ता वै तथा मुसलपाणयः ॥ ९१॥
नानाप्रहरणा घोरा नानावेषा महाजवाः ।
कृर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ ९२॥
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ॥ ९३॥
मार्जारगजवक्त्राश्च महावक्त्रास्तथापरे ।
नक्रमेषाननाः शूरा गोऽजाविमहिषाननाः ॥ ९४॥
गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ ९५॥
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतदेहाश्च तथा वल्कलवाससः ॥ ९६॥
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेषधरा दैत्या नानामाल्यसुलेपनाः ॥ ९७॥
स्वान्यायुधानि सङ्गृह्य प्रदीप्तान्यतितेजसा ।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥ ९८॥
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ ९९॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ ॥ १.४१.१००॥
परं प्रक्रममाणस्य जानुदेशे स्थितावुभौ ।
विष्णोरतुलवीर्यस्य वदन्त्येवं द्विजातयः ॥ १०१॥
हृत्वा स पृथिवीं कृत्स्नां जित्वा चासुरपुङ्गवान् ।
ददौ शक्राय त्रिदिवं विष्णुर्बलवतां वरः ॥ १०२॥
एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिद्विजैरेव कथ्यते वैष्णवं यशः ॥ १०३॥
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ १०४॥
तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये तु सङ्कीर्णे धर्मे शिथिलतां गते ॥ १०५॥
अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ १०६॥
सहयज्ञक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥ १०७॥
तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ १०८॥
एतद् वाहुद्वयं यत्ते मृधे मम कृतेऽनघ ।
शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ १०९॥
पालयिष्यसि कृत्स्नां च वसुधां वसुधाधिप ।
दुर्निरीक्ष्योऽरिवृन्दानां धर्मज्ञश्च भविष्यसि ॥ १.४१.११०॥
एष ते वैष्णवः श्रीमान् प्रादुर्भावोऽद्भुतः शुभः ।
कथितो वै महाराज यथाश्रुतमरिन्दम ॥ १११॥
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ।
यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे ।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥ ११२॥
रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि ।
धर्षयित्वा यथाकामं क्रोशमानं च मेघवत् ॥ ११३॥
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ ११४॥
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ ११५॥
कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ ११६॥
तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम् ॥ ११७॥
वारुणांस्तुरगाञ्छीघ्रान् रथं च रथिनां वरः ।
हिरण्यमक्षयं धेनूर्गजेन्द्रांश्च महामनाः ।
ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः ॥ ११८॥
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ।
चरमाणस्तपो दीप्तं जामदग्न्यः पुनः पुनः ।
तिष्ठते देववद् धीमान् महेन्द्रे पर्वतोत्तमे ॥ ११९॥
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ १.४१.१२०॥
चतुर्विंशे युगे चापि विश्वामित्रपुरस्सरः ।
राज्ञो दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ १२१॥
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥ १२२॥
प्रसादनार्थं लोकस्य रक्षसां निधनाय च ।
धर्मस्य च विवृद्धद्यर्थं जज्ञे तत्र महायशाः ॥ १२३॥
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ।
यस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता ॥ १२४॥
वधार्थं देवशत्रूणां दुर्धराणि सुरैरपि ।
यज्ञविध्नकरो येन मुनीनां भावितात्मनाम् ॥ १२५॥
मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ।
निहतौ च निराशी च कृतौ तेन महात्मना ॥ १२६॥
वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ १२७॥
यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् ।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥ १२८॥
रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः ।
पूर्वोचिता तस्य लक्ष्मीर्भर्तारमनुगच्छति ॥ १२९॥
चतुर्दश तपस्तप्त्वा वने वर्षाणि राघवः ।
जनस्थाने वसन् कार्यं त्रिदशानां चकार ह ॥ १.४१.१३०॥
सीतायाः पदमन्विच्छल्लँक्ष्मणानुचरो विभुः ।
विराधं च कबन्धं च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रौ गन्धर्वौ शापवीक्षितौ ॥ १३१॥
हुताशनार्केन्दुतडिद्घनाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारैः शरैः शरीरेण वियोजितौ बलात् ॥ १३२॥
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतो युद्धे सुग्रीवश्चाभिषेचितः ॥ १३३॥
देवासुरगणानां हि यक्षगन्धर्वभोगिनाम् ।
अवध्यं राक्षसेन्द्रं तं रावणं युद्धदुर्मदम् ॥ १३४॥
युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ।
त्रैलोक्यरावणं घोरं रावणं राक्षसेश्वरम् ॥ १३५॥
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥ १३६॥
जघान सचिवैः सार्द्धं ससैन्यं रावणं युधि ।
महाभ्रघनसङ्काशं महाकायं महाबलम् ॥ १३७॥
तमागस्कारिणं घोरं पौलस्त्यं युधि दुर्जयम् ।
सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिश्चयम् ॥ १३८॥
रावणं निजघानाशु रामो भूतपतिः पुरा ।
मधोश्च तनयो दृप्तो लवणो नाम दानवः ॥ १३९॥
हतो मधुवने वीरो वरदृप्तो महासुरः ।
समरे युद्धशौण्डेन तथा चान्येऽपि राक्षसाः ॥ १.४१.१४०॥
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ १४१॥
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
न वित्तहरणं त्वासीद् रामे राज्यं प्रशासति ॥ १४२॥
पर्यदेवन्न विधवा नानर्थास्ताभवंस्तदा ।
सर्वमासीज्जगद् दान्तं रामे राज्यं प्रशासति ॥ १४३॥
न प्राणिनां भयं चापि जलानलनिघातजम् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ १४४॥
ब्रह्म पर्यचरत् क्षत्र विशः क्षत्रमनुव्रताः ।
शूद्राश्चैव हि वर्णांस्त्रीञ्छुश्रूषन्त्यनहङ्कृताः ।
नार्यो नात्यचरन्भर्तॄन् भार्यां नात्यचरत् पतिः ॥ १४५॥
सर्वमासीञ्जगद् दान्तं निर्दस्युरभवन्मही ।
राम एकोऽभवद् भर्त्ता रामः पालयिताभवत् ॥ १४६॥
आयुर्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
अरोगाः प्राणिनश्चासन् रामे राज्यं प्रशासति ॥ १४७॥
देवतानामृषीणां च मनुष्याणां च सर्वशः ।
पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति ॥ १४८॥
गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः ।
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ॥ १४९॥
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १.४१.१५०॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥ १५१॥
ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ॥ १५२॥
सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
अति चन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥ १५३॥
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
हित्वायोध्यां दिवं यातो राघवः समहाबलः ॥ १५४॥
एवमेष महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः ॥ १५५॥
वैशम्पायन उवाच ।
अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ १५६॥
यत्र शाल्वं च मैन्दं च द्विविदं कंसमेव च ।
अरिष्टमृषभं केशिं पूतनां दैत्यदारिकाम् ॥ १५७॥
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान् मानुषदेहस्थान्सूदयामास वीर्यवान् ॥ १५८॥
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
नरकश्च हतः सङ्ख्ये यवनश्च महाबलः ॥ १५९॥।
हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश्च निहताः पार्थिवाश्च महीतले ॥ १.४१.१६०॥
नवमे द्वापरे विष्णुरष्टाविंशे पुराभवत् ।
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरस्सरः ॥ १६१॥
एको वेदश्चतुर्धा तु कृतस्तेन महात्मना ।
जनितो भारतो वंशः सत्यवत्याः सुतेन च ॥ १६२॥
एते लोकहितार्थाय प्रादुर्भावा महात्मनः ।
अतीताः कथिता राजन्कथ्यन्ते चाप्यनागताः ॥ १६३॥
कल्किर्विष्णुयशा नाम शम्भले ग्रामके द्विजः ।
सर्वलोकहितार्थाय भूयश्चोत्पत्स्यते प्रभुः ॥ १६४॥
दशमे भाव्यसम्पन्नो याज्ञवल्क्यपुरस्सरः ।
क्षपयित्वा च तान्सर्वान्भाविनार्थेन चोदितान् ॥ १६५॥
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ।
ततः कुले व्यतीते तु सामात्ये सहसैनिके ॥ १६६॥
नृपेष्वथ प्रणष्टेषु तदा त्वप्रग्रहाः प्रजाः ।
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥ १६७॥
परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः ।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशके तदा ।
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन ह ॥ १६८॥
क्षीणे कलियुगे तस्मिंस्ततः कृतयुगं पुनः ।
प्रपत्स्यते यथान्यायं स्वभावादेव नान्यथा ॥ १६९॥
एते चान्ये च बहवो दिव्या देवगुणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥ १.४१.१७०॥
यत्र देवाश्च मुह्यन्ति प्रादुर्भावानुकीर्तने ।
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ॥ १७१॥
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः ॥ १७२॥
प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ।
विष्णोरतुलवीर्यस्य यः शृणोति कृताञ्जलिः ॥ १७३॥
एतास्तु योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः ।
ऋद्धिं समृद्धिं विपुलांश्च भोगान् प्राप्नोति सर्वं भगवत्प्रसादात् ॥ १७४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि प्रादुर्भावानुसङ्ग्रहो नामैकचत्वारिंशोऽध्यायः ॥ ४१॥
१.४२ द्विचत्वारिंशोऽध्यायः
विष्णोरीश्वरत्वकथनम् Godhood of viShNu
भगवतः विष्णोः ईशित्वस्य वर्णनम्, अद्भुततारकामयस्य सङ्ग्रामस्य कथा भगवान् विष्णुके ईश्वरत्वका वर्णन एवं अद्भुततारकामय सङ्ग्रामकी कथा
वैशम्पायन उवाच ।
विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु कृप्णत्वं मानुषेषु च ॥ १॥
ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ।
अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान् प्रभुः ।
नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ॥ ३॥
एष नारायणो भूत्वा हरिरासीत्कृते युगे ।
ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ॥ ४॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ॥ ५॥
प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ ६॥
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः ।
सोऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ॥ ७॥
ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् ।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥ ८॥
एतदाश्चर्यभूतस्य विष्णोर्नामानुकीर्तनम् ।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥ ९॥
वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।
आसीत् त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥ १.४२.१०॥
तत्रासन् दानवा घोराः सर्वे सङ्ग्रामदर्पिताः ।
घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान् ॥ ११॥
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ॥ १२॥
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः ।
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥ १३॥
चञ्चद्विद्युद्गणाविद्धा घोरा निर्ह्रादकारिणः ।
अन्योन्यवेगाभिहताः प्रववुः सप्त मारुताः ॥ १४॥
दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
ररास घोरैरुत्पातैर्दह्यमानमिवाम्बरम् ॥ १५॥
पेतुरुलेकैसहस्राणि मुहुराकाशगान्यपि ।
न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥ १६॥
चतुर्युगान्तपर्याये लोकानां यद् भयं भवेत् ।
तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ॥ १७॥
तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन ।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥ १८॥
निशेव रूपिणी काली कालमेघावगुण्ठिता ।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥ १९॥
तान्घनौघान्सतिमिरान्दोर्भ्यामुत्क्षिप्य स प्रभुः ।
वपुः सन्दर्शयामास दिव्यं कृष्णवपुर्हरिः ॥ १.४२.२०॥
बलाहकाञ्जननिभं बलाहकतनूरुहम् ।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥ २१॥
दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ॥ २२॥
चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषणम् ।
चामीकरकराकारैरायुधैरुपशोभितम् ॥ २३॥
चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् ।
नन्दकानन्दितकरं शराशीविषधारिणम् ॥ २४॥
शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥ २५॥
हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररुचिरे मन्दराक्षधृतान्तरे ॥ २६॥
अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ॥ २७॥
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ॥ २८॥
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥ २९॥
स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।
मनश्चक्रे विनाशाय दानवानां महामृधे ॥ १.४२.३०॥
आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ॥ ३१॥
शान्तिं भजत भद्रं वो मा भैष्ट मरुतां गणाः ।
जिता मे दानवाः सर्वे त्रैलोक्यं प्रतिगृह्यताम् ॥ ३२॥
ते तस्य सत्यसन्धस्य विष्णोर्वाक्ये न तोषिताः ।
देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ॥ ३३॥
ततस्तमः संह्रियते विनेशुश्च बलाहका ।
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश ॥ ३४॥
सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि चक्रुरर्के प्रदक्षिणम् ॥ ३५॥
न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिन्धवः ।
नीरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः ॥ ३६॥
यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥ ३७॥
महर्षयो वीतशोका वेदानुच्चैरधीयते ।
यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः ॥ ३८॥
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
प्रीत्या परमया युक्ता देवदेवस्य भूपते ।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि द्विचत्वारिंशोऽध्यायः ॥ ४२॥
१.४३ त्रिचत्वारिंशोऽध्यायः
दैत्यसेनवर्णनम् About the army of daityAs together with deva-s kashyapa and aditi go to brahma
देवेभिः सार्द्धं युद्धाय उद्यतस्य दैत्यसैन्यस्य वर्णनं
वैशम्पायन उवाच ।
ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ॥ १॥
मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।
चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ॥ २॥
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।
खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ॥ ३॥
स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।
ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।
दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥ ४॥
गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ।
हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ॥ ५॥
सपताकध्वजोदग्रं सादित्यमिव मन्दरम् ।
गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ॥ ६॥
युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ॥ ७॥
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।
तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥ ८॥
शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् ।
काललोहाष्टचरणं लोहेषायुगकूबरम् ।
तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम् ॥ ९॥
लोहजालेन महता सगवाक्षेण दंशितम् ।
आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ॥ १.४३.१०॥
प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ॥ ११॥
उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् ।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥ १२॥
विरोचनस्तु सङ्क्रुद्धो गदापाणिरवस्थितः ।
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥ १३॥
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।
स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ १४॥
व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत् ।
वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥ १५॥
खरस्तु विक्षरन् दर्पान्नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः सङ्ग्रामं सोऽभ्यकाङ्क्षत ॥ १६॥
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।
व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ॥ १७॥
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥ १८॥
अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।
युद्धायातिष्ठदायस्तो धराधर इवापरः ॥ १९॥
किशोरस्त्वतिसंहर्षात् किशोर इव चोदितः ।
अभवद् दैत्यसैन्यस्य मध्ये रविरिवोदितः ॥ १.४३.२०॥
लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥ २१॥
स्वर्भानुर्वक्रयोधी तु दशनौष्ठेक्षणायुधः ।
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ॥ २२॥
अन्ये हयगता भान्ति नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ॥ २३॥
केचित् खरोष्ट्रयातारः केचित् तोयदवाहनाः ।
नानापक्षिगताश्चान्ये केचित् पवनवाहनाः ॥ २४॥
पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।
एकपादा द्विपादाश्च नर्दन्तो युद्धकाङ्क्षिणः ॥ २५॥
प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् ।
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः ॥ २६॥
ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।
बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥ २७॥
प्रासैः पाशैश्च खड्गैश्च तोमराङ्कुशपट्टिशैः ।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥ २८॥
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।
चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् ॥ २९॥
एवं तद् दानवं सैन्यं सर्वे युद्धबलोत्कटम् ।
देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ॥ १.४३.३०॥
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयावकीर्णं युयुत्सयोन्मत्तमिवावभासे ॥ ३१॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
१.४४ चतुश्चत्वारिंशोऽध्यायः
देवसेनावर्णनम् About army of gods
आश्चर्यमये तारकामयसङ्ग्रामे देवसेनायाः युद्धाय उद्यमं
वैशम्पायन उवाच ।
श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे ।
सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥ १॥
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ ।
सबलाः सानुगाश्चैव सन्नह्यन्त यथाबलम् ॥ २॥
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ।
ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् ॥ ३॥
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरवेगवान् ।
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥ ४॥
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥ ५॥
वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः ।
गुप्तो बलाहकगणैः कामगैरिव पर्वतैः ॥ ६॥
समारूढः स भगवान् पर्येति मघवा गजम् ।
हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः ॥ ७॥
स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु ।
इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः ॥ ८॥
केतुना वंशजातेन राजमानो यथा रविः ।
युक्तो हरिसहस्रेण मनोमारुतरंहसा ॥ ९॥
स स्यन्दनवरो भाति युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥ १.४४.१०॥
यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके दैत्यान् नादेन भीषयन् ॥ ११॥
चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः ।
शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥ १२॥
कालपाशं समाविध्य हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः कुर्वंल्लीलाः सहस्रशः ॥ १३॥
पाण्डुरोद्धूतवसनः प्रवालरुचिराधरः ।
मणिश्यामोत्तमवपुर्हारभारार्पितोदरः ॥ १४॥
वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् ।
युद्धवेलामभिलषत् भिन्नवेल इवार्णवः ॥ १५॥
यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।
मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ॥ १६॥
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत ॥ १७॥
विमानयोधी धनदो विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे युद्धार्थी नरवाहनः ।
प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयम् ॥ १८॥
पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् ।
वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ॥ १९॥
चतुर्षु युक्ताश्चत्वारो लोकपाला बलोत्कटाः ।
स्वासु दिक्ष्वभ्यरक्षन् वै तस्य देवबलस्य ह ॥ १.४४.२०॥
सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥ २१॥
उदयास्तमयं चक्रे मेरुपर्यन्तगामिना ।
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥ २२॥
सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा ।
चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥ २३॥
सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥ २४॥
तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् ।
जगच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥ २५॥
ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् ।
ओषधीनां परित्राणं निधानममृतस्य च ॥ २६॥
जगतः प्रथमं भागं सौम्यं शीतमयं रसम ।
ददृशुर्दानवाः सोमं हिमप्रहरणस्थितम् ॥ २७॥
यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्त्रीन्दधार चराचरान् ॥ २८॥
यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् ।
सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते ॥ २९॥
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् ।
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् ॥ १.४४.३०॥
स वायुः सर्वभूतायुरुद्भूतः स्वेन तेजसा ।
ववौ प्रव्यथयन् दैत्यान् प्रतिलोमः सतोयदः ॥ ३१॥
मरुतो देवगन्धर्वा विद्याधरगणैः सह ।
चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥ ३२॥
सृजन्तः सर्पपतयस्तीव्रं रोषमयं विषम् ।
शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि ॥ ३३॥
पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः ।
उपतस्थुः सुरगणान् प्रहर्तुं दानवं बलम् ॥ ३४॥
यः स देवो इषीकेशः पद्मनाभस्त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥ ३५॥
समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः ।
भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा ॥ ३६॥
जगद्योनिर्जगद्बीजो जगद्गुरुरुदारधीः ।
सोऽर्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम् ॥ ३७॥
अरिघ्नममरानीके चक्रं चक्रगदाधरः ।
सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा ॥ ३८॥
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥ ३९॥
शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः ।
दधारायुधजालानि शार्ङ्गादीनि महायशाः ॥ १.४४.४०॥
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम् ।
पवनाधिकसम्पातं गगनक्षोभणं खगम् ।
भुजगेन्द्रेण वदने निविष्टेन विराजितम् ॥ ४१॥
अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।
देवासुरविमर्देषु शतशो दृष्टविक्रमम् ॥ ४२॥
महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ।
शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् ।
विचित्रपक्षवसनं धातुमन्तमिवाचलम् ॥ ४३॥
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा ।
भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥ ४४॥
पक्षाभ्यां चारुचित्राभ्यामावृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥ ४५॥
नीललोहितपीताभिः पताकाभिरलङ्कृतम् ।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥ ४६॥
अरुणावरजं श्रीमानारुह्य समरे हरिः ।
सुवर्णं स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥ ४७॥
तमन्वयुर्देवगणा मुनयश्च तपोधनाः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥ ४८॥
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरस्सरम् ।
वारिराजपरिक्षिप्तं देवराजविराजितम् ॥ ४९॥
चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् ।
पवनाबद्धनिर्घोषं सम्प्रदीप्तहुताशनम् ॥ १.४४.५०॥
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् ।
बलं बलवदुद्भूतं युद्धाय समवर्तत ॥ ५१॥
स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्गिराऽब्रवीत् ।
स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे ॥ ५२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
१.४५ पञ्चचत्वारिंशोऽध्यायः
देवासुरसङ्ग्रामवर्णनम् About war of gods and demons
देवासुरसङ्ग्रामः एवं और्वाग्नेः उत्पत्तिः
वैशम्पायन उवाच ।
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा ।
सुराणामसुराणां च परस्परजयैषिणाम् ॥ १॥
दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यताः ।
समीयुर्युध्यमाना वै पर्वताः पर्वतैरिव ॥ २॥
तत् सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥ ३॥
ततो रथैः प्रजविभिर्वाहनैश्च प्रचोदितैः ।
उत्पतद्भिश्च गगनं सासिहस्तैः समन्ततः ॥ ४॥
विक्षिप्यमाणैर्मुसलैः सम्प्रेष्यद्भिश्च सायकैः ।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥ ५॥
तद् युद्धमभवद् घोरं देवदानवसङ्कुलम् ।
जगतस्त्रासजननं युगसंवर्तकोपमम् ॥ ६॥
स्वहस्तमुक्तैः परिघैः क्षिप्यमाणैश्च पर्वतैः ।
दानवाः समरे जघ्नुर्देवानिन्द्रपुरोगमान् ॥ ७॥
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः ।
विषण्णमनसो देवा जग्मुरार्तिं परां मृधे ॥ ८॥
तेऽस्त्रजालैः प्रमथिताः परिघैर्भिन्नमस्तकाः ।
भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु ॥ ९॥
स्पन्दिताः पाशजालैश्च निर्यत्नाश्च शरैः कृताः ।
प्रविष्टा दानवी माया न शेकुस्ते विचेष्टितुम् ॥ १.४५.१०॥
संस्तम्भितमिवाभाति निष्प्राणसदृशाकृति ।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥ ११॥
मायापाशान् विकर्षंश्च भिन्दन् वज्रेण ताञ्शरान् ।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥ १२॥
स दैत्यान् प्रमुखे हत्वा तद् दानवबलं महत् ।
तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥ १३॥
तेऽन्योन्यं नावबुध्यन्त देवान् वा दानवानपि ।
घोरेण तमसाऽऽविष्टाः पुरुहूतस्य तेजसा ॥ १४॥
मायापाशैर्विमुक्ताश्च यत्नवन्तः सुरोत्तमाः ।
वपूंषि दैत्यसङ्घानां तमोभूतान्यपातयन् ॥ १५॥
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसः ।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाचलाः ॥ १६॥
दैत्यानां तद्घनीभूतमन्धकारमहार्णवम् ।
प्रविष्टं बलमुत्त्रस्तं तमोभूतमिवाबभौ ॥ १७॥
तदासृजन्महामायां मयस्तां तामसीं दहन् ।
युगान्ताग्निमिवात्युग्रां सृष्टामौर्वेण वह्निना ॥ १८॥
सा ददाह तमः सर्वं माया मयविकल्पिता ।
दैत्याश्च दीप्तवपुषः सद्य उत्तस्थुराहवे ॥ १९॥
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः ।
भेजिरे चन्द्रविषयं शीतांशुसलिले शयात् ॥ १.४५.२०॥
ते दह्यमाना ह्यौर्वेण तेजसा भ्रष्टतेजसः ।
शशंसुर्वज्रिणे देवाः सन्तप्ताः शरणैषिणः ॥ २१॥
सन्तप्ते मायया सैन्ये दह्यमाने च दानवैः ।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥ २२॥
वरुण उवाच ।
पुरा ब्रह्मर्षिजः शक्र तपस्तेपेऽतिदारुणम् ।
ऊर्वो मुनिः स तेजस्वी सदृशो ब्रह्मणो गुणैः ॥ २३॥
तं तपन्तमिवादित्यं तपसा जगदव्ययम् ।
उपतस्थुर्मुनिगणा देवा ब्रह्मर्षिभिः सह ॥ २४॥
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ।
ऋषिं विज्ञापयामास पुरा परमतेजसम् ॥ २५॥
तमूचुर्ब्रह्मऋषयो वचनं ब्रह्मसम्मितम् ।
ऋषिवंशेषु भगवञ्छिन्नमूलमिदं कुलम् ॥ २६॥
एकस्त्वमनपत्यश्च गोत्रं यन्नानुवर्तसे ।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥ २७॥
बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् ।
एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः ॥ २८॥
कुलेषूच्छिन्नमूलेषु तेषु नो नास्ति कारणम् ।
भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः ॥ २९॥
तत् प्रवर्तस्व वंशाय वर्द्धयात्मानमात्मना ।
त्वमाधत्स्वोर्जितं तेजो द्वितीयां वै तनुं कुरु ॥ १.४५.३०॥
स एवमुक्तो मुनिभिमुनिर्मनसि ताडितः ।
जगर्हे तानृषिगणान् वचनं चेदमब्रवीत् ॥ ३१॥
यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा ।
सदाऽऽर्षं सेवतां कर्म वन्यमूलफलाशिनाम् ॥ ३२॥
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यानुवर्तिनः ।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥ ३३॥
द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः ।
अस्माकं तु वनं वृत्तिर्वनाश्रमनिवासिनाम् ॥ ३४॥
अम्बुभक्षा वायुभक्षा दन्तोलूखलिकास्तथा ।
अश्मकुट्टा दशनपाः पञ्चातपतपाश्च ये ॥ ३५॥
एते तपसि तिष्ठन्तो व्रतैरपि सुदुष्करैः ।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ते परां गतिम् ॥ ३६॥
ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।
एवमाहुः परे लोके ब्रह्म ब्रह्मविदो जनाः ॥ ३७॥
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणास्ते दिवि स्थिताः ॥ ३८॥
नास्ति योगं विना सिद्धिर्नास्ति सिद्धिं विना यशः ।
नास्ति लोके यशोमूलं ब्रह्मचर्यात् परं तपः ॥ ३९॥
तन्निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चमम् ।
ब्रह्मचर्येण वर्तेत किमतः परमं तपः ॥ १.४५.४०॥
अयोगे केशहरणमसङ्कल्पे व्रतक्रिया ।
अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञितम् ॥ ४१॥
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः ।
यदेयं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ ४२॥
यद्यस्ति तपसो वीर्यं युष्माकममितात्मनाम् ।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥ ४३॥
मनसा निर्मिता योनिराधातव्या तपस्विना ।
न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् ॥ ४४॥
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः ।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतिः ॥ ४५॥
वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् ।
दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् ॥ ४६॥
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति ।
वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥ ४७॥
ऊर्वस्तु तपसाऽऽविष्टो निवेश्योरुं हुताशने ।
ममन्थैकेन दर्भेण पुत्रस्य प्रभवारणिम् ॥ ४८॥
तस्योरुं सहसा भित्त्वा ज्वालामाली निरिन्धनः ।
जगतो निधनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥ ४९॥
ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः ।
दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥ १.४५.५०॥
उत्पन्नमात्रश्चोवाच पितरं दीप्तया गिरा ।
क्षुधा मे बाधते तात जगद् भक्षे त्यजस्व माम् ॥ ५१॥
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
निर्दहन्निव भूतानि ववृधे सोऽन्तकोऽनलः ॥ ५२॥
एतस्मिन्नन्तरे ब्रह्मा सर्वलोकपतिः प्रभुः ।
आजगाम मुनिर्यत्र व्यसृजत् पुत्रमुत्तमम् ॥ ५३॥
स ददर्शोरुमूर्वस्य दीप्यमानं सुताग्निना ।
और्वकोपाग्निसन्तप्ताँल्लोकांश्च ऋषिभिः सह ॥ ५४॥
तमुवाच ततो ब्रह्मा मुनिमूर्वं सभाजयन् ।
धार्यतां पुत्रजं तेजो लोकानां हितकाम्यया ।
अस्यापत्यस्य ते विप्र करिष्ये साह्यमुत्तमम् ॥ ५५॥
वासं चास्य प्रदास्यामि प्राशनं चामृतोपमम् ।
तथ्यमेतन्मम वचः शृणु त्वं वदतां वर ॥ ५६॥
ऊर्व उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि यन्ममाद्य भवाञ्छिशोः ।
मतिमेतां ददातीह परमानुग्रहाय वै ॥ ५७॥
प्रभावकाले सम्प्राप्ते काङ्क्षितव्ये समागमे ।
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥ ५८॥
कुत्र चास्य निवासो वै भोजनं च किमात्मकम् ।
विधास्यति भवानस्य वीर्यतुल्यं महौजसः ॥ ५९॥
ब्रह्मोवाच ।
वडवामुखेऽस्य वसतिः समुद्रास्ये भविष्यति ।
मम योनिर्जलं विप्र तच्च तोयमयं वपुः ॥ १.४५.६०॥
तद्धविस्तव पुत्रस्य विसृजाम्यालयं तु तत् ।
तत्रायमास्तां नियतः पिबन् वारिमयं हविः ॥ ६१॥
ततो युगान्ते भूतानामेव चाहं च सुव्रत ।
सहितौ विचरिष्यावो लोकानिति पुनः पुनः ॥ ६२॥
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।
दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥ ६३॥
एवमस्त्विति सोऽप्यग्निः संवृतज्वालमण्डलः ।
प्रविवेशार्णवमुखं निक्षिप्य पितरि प्रभाम् ॥ ६४॥
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः ।
और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिमुपाश्रिताः ॥ ६५॥
हिरण्यकशिपुर्दृष्ट्वा तदद्भुतमपूजयत् ।
ऊर्वं प्रणतसर्वाङ्गो वाक्यं चेदमुवाच ह ॥ ६६॥
भगवन्नद्भुतमिदं निर्वृत्तं लोकसाक्षिकम् ।
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥ ६७॥
अहं तु तव पुत्रस्य तव चैव महाव्रत ।
भृत्य इत्यवगन्तव्यः श्लाघ्योऽस्मि यदि कर्मणा ॥ ६८॥
तन्मां पश्य समापन्नं तवैवाराधने रतम् ।
यदि सीदे मुनिश्रेष्ठ तवैव स्यात् पराजयः ॥ ६९॥
ऊर्व उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुर्मतः ।
नास्ति ते तपसानेन भयमद्येह सुव्रत ॥ १.४५.७०॥
इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम् ।
निरिन्धनामग्निमयीं दुःस्पर्शां पावकैरपि ॥ ७१॥
एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे ।
रक्षिष्यत्यात्मपक्षं सा परांश्च प्रहरिष्यति ॥ ७२॥
एवमस्त्विति तां गृह्य प्रणम्य मुनिपुङ्गवम् ।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥ ७३॥
वरुण उवाच ।
सैषा दुर्विषहा माया देवैरपि दुरासदा ।
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥ ७४॥
तस्मिंस्तु व्युत्थिते दैत्ये निर्वीयैषा न संशयः ।
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥ ७५॥
यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान् सुखी ।
दीयतां मे सखा शक्र तोययोनिर्निशाकरः ॥ ७६॥
तेनाहं सह सङ्गम्य यादोभिश्च समावृतः ।
मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः ॥ ७७॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि और्वाग्निसम्भवो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
१.४६ चत्वारिंशोऽध्यायः
दैत्यपराजयः Of demons defeat
इन्द्रेण चन्द्रमसः स्तुतिः, चन्द्रेण एवं वरुणेन दैत्यसैन्यस्य संहारः, मयदानवेन मायायाः प्रयोगः, दैत्यसैन्येन सह पवनस्य एवं अग्निदेवस्य सङ्ग्रामम्, कालनेमिनः रणे आगमनम् ।
इन्द्रद्वारा चन्द्रमाकी स्तुति, चन्द्रदेव और वरुणदेवके द्वारा दैत्यसेनाका संहार,
मयदानवद्वारा मायाका प्रयोग, पवन और अग्निदेवका दैत्यसेनाके
साथ सङ्ग्राम और कालनेमिका रणमे आगमन
वैशम्पायन उवाच ।
एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्द्धनः ।
सन्दिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥ १॥
शक्र उवाच ।
गच्छ सोम सहायत्वं कुरु पाशधरस्य वै ।
असुराणां विनाशाय जयाय च दिवौकसां २॥
त्वमप्रतिमवीर्यश्च ज्योतिषां चेश्वरेश्वरः ।
त्वन्मयं सर्वलोकानां रसं रसविदो विदुः ॥ ३॥
क्षयवृद्धी तवाव्यक्ते सागरस्येव मण्डले ।
परिवर्तस्यहोरात्रं कालं जगति योजयन् ॥ ४॥
लोकच्छायामयं लक्ष्म तवाङ्के शशसंशितम् ।
न विदुः सोमदेवाऽपि ये च नक्षत्रयोगिनः ॥ ५॥
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः ।
तमश्चोत्सार्य वपुषा भासयस्यखिलं जगत् ॥ ६॥
श्वेतभानुर्हिमतनुर्ज्योतिषामधिपः शशी ।
अब्दकृत्कालयोगात्मा ईज्यो यज्ञ्ररसोऽव्ययः ॥ ७॥
ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक् ।
शीतांशुरमृताधारश्चपलः श्वेतवाहनः ॥ ८॥
त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम् ।
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् ॥ ९॥
तद् गच्छ त्वं सहानेन वरुणेन वरूथिना ।
शमयस्वासुरीं मायां यया दह्याम सङ्गरे ॥ १.४६.१०॥
सोम उवाच ।
यन्मां वदसि युद्धार्थे देवराज जगत्पते ।
एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥ ११॥
एतान्मच्छीतनिर्दग्धान्पश्य त्वं हिमवेष्टितान् ।
विमायान् विमदांश्चैव दानवांस्त्वं महामृधे ॥ १२॥
वैशम्पायन उवाच ।
ततो हिमकरोत्सृष्टाः सबाष्पा हिमवृष्टयः ।
वेष्टयन्ति स्म तान्घोरान्दैत्यान् मेघगणा इव ॥ १३॥
तौ पाशशुक्लांशुधरौ वरुणेन्दू महारणे ।
जघ्नतुर्हिमपातैश्च पाशघातैश्च दानवान् ॥ १४॥
द्वावम्बुनाथौ समरे तौ पाशहिमयोधिनौ ।
मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ॥ १५॥
ताभ्यामाप्लावितं सैन्यं तद् दानवमदृश्यत ।
जगत् संवर्तकाम्भोदैः प्रवृष्टैरिव संवृतम् ॥ १६॥
तावुद्यतांशुपाशौ द्वौ शशाङ्कवरुणौ रणे ।
शमयामासतुर्मायां देवौ दैतेयनिर्मिताम् ॥ १७॥
शीतांशुजयनिर्दग्धाः पाशैश्च प्रसिता रणे ।
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः ॥ १८॥
शीतांशुनिहतास्ते तु पेतुर्दैत्या हिमार्दिताः ।
हिमप्रावृतसर्वाङ्गा निरूष्माण इवाग्नयः ॥ १९॥
तेषां तु दिवि दैत्यानां विपरीतप्रभाणि च ।
विमानानि विचित्राणि निपतन्त्युत्पतन्ति च ॥ १.४६.२०॥
तान् पाशहस्तग्रथिताञ्च्छादितान्हिमरश्मिना ।
मयो ददर्श मायावी दानवान् दिवि दानवः ॥ २१॥
स शिलाजालविततां गण्डशैलाट्टहासिनीम् ।
पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ॥ २२॥
सिंहव्याघ्रगजाकीर्णां नदन्तीमिव यूथपैः ।
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥ २३॥
निर्मितां स्वेन पुत्रेण क्रौञ्चेन दिविकामगाम् ।
प्रथितां पार्वतीं मायां ससृजे दानवोत्तमः ॥ २४॥
सास्मशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः ।
निजघ्ने देवसङ्घांस्तान् दानवांश्चाप्यजीवयत् ॥ २५॥
नैशाकरी वारुणी च मायेऽन्तर्दधतस्ततः ।
अश्मभिश्चायसघनैः कीर्णा देवगणा रणे ॥ २६॥
साश्मसङ्घातविषमा द्रुमपर्वतसङ्कटा ।
अभवद् घोरसञ्चारा पृथिवी पर्वतैरिव ॥ २७॥
नानाहतोऽश्मभिः कश्चिच्छिलाभिश्चाप्यताडितः ।
नानिरुद्धो द्रुमगणैर्देवोऽदृश्यत संयुगे ॥ २८॥
तदपभ्रष्टधनुषं भग्नप्रहरणाविलम् ।
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ॥ २९॥
स हि युद्धगतः श्रीमानीशो न स्म व्यकम्पत ।
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः ॥ १.४६.३०॥
कालज्ञः कालमेघाभः समैक्षत् कालमाहवे ।
देवासुरविमर्दं स द्रष्टुकामो जनार्दनः ॥ ३१॥
ततो भगवताऽऽदिष्टौ रणे पावकमारुतौ ।
शमनार्थं प्रवृद्धाया मायाया मयसृष्टया ॥ ३२॥
ततः प्रवृद्धावन्योन्यं प्रबुद्धौ ज्वालवाहिनौ ।
चोदितौ विष्णुवाक्येन तां मायां व्यपकर्षताम् ॥ ३३॥
ताभ्यामुद्भ्रान्तवेगाभ्यां प्रवृद्धाभ्यां महाहवे ।
दग्धा सा पार्वती माया भस्मीभूता ननाश ह ॥ ३४॥
सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः ।
दैत्यसेनां ददहतुर्युगान्तेष्विव मूच्छितौ ॥ ३५॥
वायुः प्रधावितस्तत्र पश्चादग्निश्च मारुतात् ।
चेरतुर्दानवानीके क्रीडन्तावनलानिलौ ॥ ३६॥
भस्मावयवभूतेषु प्रपतच्छपतत्सु च ।
दानवेषु विनष्टेषु कृतकर्मणि पावके ॥ ३७॥
वातस्कन्धापविद्धेषु विमानेषु समन्ततः ।
मायाबन्धे विनिर्वृत्ते स्तूयमाने गदाधरे ॥ ३८॥
निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने ।
सम्प्रहृष्टेषु देवेषु साधु साध्विति सर्वशः ॥ ३९॥
जये दशशताक्षस्य मयस्य च पराजये ।
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मसंस्तरे ॥ १.४६.४०॥
अपावृत्ते चन्द्रपथे अयनस्थे दिवाकरे ।
प्रकृतिस्थेषु लोकेषु नृषु चारित्रबन्धुषु ॥ ४१॥
अभिन्नबन्धने मृत्यौ हूयमाने हुताशने ।
यज्ञभागिषु देवेषु स्वर्गार्थं दर्शयत्सु च ॥ ४२॥
लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु ।
भावे तपसि शुद्धानामभावे दुष्टकर्मणाम् ॥ ४३॥
देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति ।
त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे ॥ ४४॥
अपावृतमहाद्वारे वर्तमाने च सत्पथे ।
स्वधर्मस्थेषु वर्णेषु लोकेऽल्मिन्नाश्रमेषु च ॥ ४५॥
प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु ।
गीयमानासु गाथासु देवसंस्तवनादिषु ॥ ४६॥
प्रशान्तकलुषे लोके शान्ते तपसि दारुणे ।
अग्निमारुतयोस्तस्मिन् वृत्ते सङ्ग्रामकर्मणि ।
तन्मया विमलालोकास्ताभ्यां जयकृतप्रियाः ॥ ४७॥
पूर्वदेवभयं श्रुत्वा मारुताग्निकृतं महत् ।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत ॥ ४८॥
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः ।
मन्दराचलसङ्काशो महारजतसंवृतः ॥ ४९॥
शतप्रहरणोदग्रः शतबाहुः शताननः ।
शतशीर्षा स्थितः श्रीमाञ्छतशृङ्ग इवाचलः ॥ १.४६.५०॥
कक्षे महति संवृद्धो हिमान्त इव पावकः ॥ ५१॥
धूम्रकेशो हरिच्छ्मश्रुर्दंष्ट्रालोष्ठपुटाननः ।
त्रैलोक्यान्तरविस्तारो धारयन् विपुलं वपुः ॥ ५२॥
बाहुभिस्तुलयन् व्योम क्षिपन्पद्भ्यां महीधरान् ।
ईरयन् मुखनिःश्वासैर्वृष्टिमन्तो बलाहकान् ॥ ५३॥
तिर्यगायतरक्ताक्षं मन्दरोश्ग्रवर्चसम् ।
दिधक्षन्तमिवायान्तं सर्वान् देवगणान्मृधे ॥ ५५४॥
तर्जयन्तं सुरगणांश्छादयन्तं दिशो दश ।
संवर्तकाले क्षुधितं दृप्तं मृत्युमिवोत्थितम् ॥ ५५॥
सुतलेनोच्छ्रितवता विपुलाङ्गुलिपर्वणा ।
माल्याभरणपूर्णेन किञ्चिच्चलितवर्मणा ॥ ५६॥
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता ।
दानवान् देवनिहतानुत्तिष्ठध्वमिति ब्रुवन् ॥ ५७॥
तं कालनेमिं समरे द्विषतां कालसन्निभम् ।
वीक्षन्ति स्म सुराः सर्वे भयविक्लवमानसाः ॥ ५८॥
तं स्म वीक्षन्ति भूतानि क्रमन्तं कालनेमिनम् ।
त्रिविक्रमं विक्रमन्तं नारायणमिवापरम् ॥ ५९॥
सोच्छ्रयन् प्रथमं पादं मारुताघूर्णिताम्बरः ।
प्राक्रामदसुरो युद्धे त्रासयन् सर्वदेवताः ॥ १.४६.६०॥
स मयेनासुरेन्द्रेण परिष्वक्तः क्रमन् रणे ।
कालनेमिर्बभौ दैत्यः विष्णुनेव पुरन्दरः ॥ ६१॥
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः ।
दृष्ट्वा कालमिवायान्तं कालनेमिं भयावहम् ॥ ६२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कालनेमिप्रक्रमणे षट्चत्वारिंशोऽध्यायः ॥ ४६॥
१.४७ सप्तचत्वारिंशोऽध्यायः
कालनेमि पराक्रमः Valour of kAlanemi
कालनेमिनः युद्धं एवं प्रभावं
वैशम्पायन उवाच ।
दानवांश्चापि पिप्रीषुः कालनेमिर्महासुरः ।
व्यवर्धत महातेजास्तपान्ते जलदो यथा ॥ १॥
त्रैलोक्यान्तर्गतं तं तु दृष्ट्वा तै दानवेश्वराः ।
उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम् ॥ २॥
ते वीतभयसन्त्रासा मयतारपुरोगमाः ।
तारकामयसङ्ग्रामे सततं जयकाङ्क्षिणः ।
रेजुरायोधनगता दानवा युद्धकाङ्क्षिणः ॥ ३॥
अस्त्रमभ्यस्यतां तेषां व्यूहं च परिधावताम् ।
प्रेक्षतां चाभवत् प्रीतिर्दानवं कालनेमिनम् ॥ ४॥
ये तु तत्र मयस्यासन् मुख्या युद्धपुरस्सराः ।
तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः ॥ ५॥
मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ।
विप्रचित्तिसुतः श्वेतः खरलम्बावुभावपि ॥ ६॥
अरिष्टो बलिपुत्रस्तु किशोरोष्ट्रौ तथैव च ।
स्वर्भानुश्चामरप्रख्यो वक्रयोधी महासुरः ॥ ७॥
एतेऽस्त्रविदुषः सर्वे सर्वे तपसि सुव्रताः ।
दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम् ॥ ८॥
ते गदाभिश्च गुर्वीभिञ्चक्रैश्च सपरश्वधैः ।
अश्मभिश्चाद्रिसदृशैर्गण्डशैलैश्च दंशितैः ॥ ९॥
पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायुधैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥ १.४७.१०॥
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः ।
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः ॥ ११॥
दोर्भिश्चायतपीनांसैः पाशैः प्रासैश्च मूर्च्छितैः ।
सर्पैर्लेलिह्यमानैश्च विसर्पद्भिश्च सायकैः ॥ १२॥
वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः ।
विकोशैश्चासिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः ॥ १३॥
ते वै सन्दीप्तमनसः प्रगृहीतोत्तमायुधाः ।
कालनेमिं पुरस्कृत्य तस्थुः सङ्ग्राममूर्धनि ॥ १४॥
सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः ।
द्यौर्निमीलितनक्षत्रा सघनेवाम्बुदागमे ॥ १५॥
देवतानामपि चमू रुरुचे शक्रपालिता ।
दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करवर्चसा ॥ १६॥
वायुवेगवती सौम्या तारागणपताकिनी ।
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ॥ १७॥
यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमता ।
सम्प्रदीप्ताग्निपवना नारायणपरायणा ॥ १८॥
सा समुद्रौघसदृशी दिव्या देवमहाचमूः ।
रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी ॥ १९॥
तयोश्चम्वोस्तदा तत्र बभूव स समागमः ।
द्यावापृथिव्योः संयोगो यथा स्याद् युगपर्यये ॥ १.४७.२०॥
तद् युद्धमभवद् घोरं देवदानवसङ्कुलम् ।
क्षमापराक्रममयं दर्पस्य विनयस्य च ॥ २१॥
निश्चक्रमुर्बलाभ्यां तु ताभ्यां भीमाः सुरासुराः ।
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः ॥ २२॥
ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः ।
वनाभ्यां पर्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः ॥ २३॥
समाजघ्नुस्ततो भेरीः शङ्खान् दध्मुश्च नैकशः ।
स शब्दो द्यां भुवं चैव दिशश्च समपूरयत् ॥ २४॥
ज्याघाततलनिर्घोषो धनुषां कूजितानि च ।
दुन्दुभीनां निनदतां दैत्यानां निर्दधुः स्वनान् ॥ २५॥
तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ।
बभञ्जुर्बाहुभिर्बाहून् द्वन्द्वमन्ये युयुत्सवः ॥ २६॥
देवतास्त्वशनीर्घोराः परिघांश्चोत्तमायसान् ।
ससर्जुराजौ निस्त्रिंशान् गदा गुर्वीश्च दानवाः ॥ २७॥
गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ।
परिपेतुर्भृशं केचिन्द्रब्जाः केचित् ससर्जिरे ॥ २८॥
ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः ।
समीयुस्ते नु संरब्धा रोषादन्योन्यमाहवे ॥ २९॥
संवर्तमानाः समरे विवर्तन्तस्तथापरे ।
रथा रथैर्निरुध्यन्ते पदाताश्च पदातिभिः ॥ १.४७.३०॥
तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् ।
बभूवाथ प्रसक्तानां नभसीव पयोमुचाम् ॥ ३१॥
बभञ्जिरे रथान् केचित् केचित् सम्मृदिता रथैः ।
सम्बाधमेके सम्प्राप्य न शेकुश्चलितुं रथाः ॥ ३२॥
अन्योन्यस्याभिसमरे दोर्भ्यामुत्क्षिप्य दर्पिताः ।
संह्रादमानाभरणा जघ्नुस्तत्रासिचर्मिणः ॥ ३३॥
अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि ।
क्षरज्जलानां सदृशा जलदानां समागमे ॥ ३४॥
तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ।
देवदानवसङ्क्षुब्ध सकुलं युद्धमाबभौ ॥ ३५॥
तद् दानवमहामेघं देवायुधतडित्प्रभम् ।
अन्योन्यबाणवर्ष तद् युद्धं दुर्दिनमाबभौ ॥ ३६॥
एतस्मिन्नन्तरे क्रुद्धः कालनेमिर्महासुरः ।
व्यवर्द्धत समुद्रौघैः पूर्यमाण इवास्तुदः ॥ ३७॥
तस्य विद्युच्यला पीडाः प्रदीप्ताशनिवर्षिणः ।
गात्रे नगशिरः प्रख्या विनिष्पेषुर्बलाहकाः ॥ ३८॥
क्रोधान्निःश्वररतस्तस्य भ्रूभेदस्वेदवर्षिणः ।
साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः ॥ ३९॥
तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः ।
पञ्चास्याः कृष्णवपुषो लेलिहाना इवोरगाः ॥ १.४७.४०॥
सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
दिव्यैराकाशमावव्रे पर्वतैरुच्छ्रितैरिव ॥ ४१॥
सोऽनिलोद्धूतवसनस्तस्थौ सङ्ग्राममूर्धनि ।
सन्ध्यातपग्रस्तशिखः सार्चिर्मेरुरिवापरः ॥ ४२॥
ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः ।
अपातयद् देवगणान् वज्रेणेव महागिरीन् ॥ ४३॥
बाहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवाः कालनेमिहता युधि ॥ ४४॥
मुष्टिभिर्निहताः केचित् केचिच्च विदलीकृताः ।
यक्षगन्धर्वपतयः पेतुः सह महोरगैः ॥ ४५॥
तेन वित्रासिता देवाः समरे कालनेमिना ।
न शेकुर्यत्नवन्तोऽपि प्रतिकर्तुं विचेतसः ॥ ४६॥
तेन शक्रः सहस्राक्षः स्तम्भितः शरबन्धनैः ।
ऐरावतगतः सङ्ख्ये चलितुं न शशाक ह ॥ ४७॥
निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः ।
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥ ४८॥
रणे वैश्रवणस्तेन परिघैः कालरूपिभिः ।
व्यलपल्लोकपालेशस्त्याजितो धनदक्रियाम् ॥ ४९॥
यमः सर्वहरस्तेन दण्डप्रहरणो रणे ।
याम्यामवस्थां समरे नीतः स्वां दिशमाविशत् ॥ १.४७.५०॥
स लोकपालानुत्साद्य कृत्वा तेषां च कर्म तत् ।
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ॥ ५१॥
स नक्षत्रपथे गत्वा दिव्यं स्वर्भानुदर्शितम् ।
जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत् ॥ ५२॥
चालयामासदीप्तांशुं स्वर्गद्वारात्स भास्करम् ।
सायनं चास्य विषयं जहार दिनकर्म च ॥ ५३॥
सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखे स्वयम् ।
वायुं च तरसा जित्वा चकारात्मवशानुगम् ॥ ५४॥
ससमुद्राः समानीय सर्वाश्च सरितो बलात् ।
चकारात्मवशे वीर्याद् देहभूताश्च सिन्धवः ॥ ५५॥
अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ।
स्थापयामास जगतीं सुगुप्तां धरणीधरैः ॥ ५६॥
स स्वयम्भूरिवाभाति महाभूतपतिर्महान् ।
सर्वलोकमयो दैत्यः सर्वलोकभयावहः ॥ ५७॥
स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् ।
पावकानिलसङ्घातो रराज युधि दानवः ॥ ५८॥
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवाप्यये ।
तुष्टुवुस्तं दैत्यगणा देवा इव पितामहम् ॥ ५९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
१.४८ अष्टचत्वारिंशोऽध्यायः
कालनेमिवधः Eimination of kAlanemi
कालनेमिनः विष्णुना सह संवादं, विष्णुना कालनेमेः वधं एवं देवानां आश्वासयित्वा ब्रह्मलोके प्रस्थानम् ।
वैशम्पायन उवाच ।
पञ्च तं नाभ्यवर्तन्त विपरीतेन कर्मणा ।
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥ १॥
स तेषामनुपस्थानात् सक्रोधो दानवेश्वरः ।
वैष्णवं पदमन्विच्छन् ययौ नारायणान्तिकम् ॥ २॥
स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम् ।
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम् ॥ ३॥
सजलाम्भोदसदृशं विद्युत्सदृशवाससम् ।
स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम् ॥ ४॥
दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् ।
दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः ॥ ५॥
अयं स रिपुरस्माकं पूर्वेषां दानवर्षिणाम् ।
अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ॥ ६॥
मयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते ।
येन नः संयुगेष्वाद्या बहवो दानवा हताः ॥ ७॥
अयं स निर्घृणो युद्धेऽस्त्री बालनिरपत्रपः ।
येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥ ८॥
अयं स विष्णुर्देवानां वैकुण्ठश्च दिवौकसाम् ।
अनन्तो भोगिनामप्सु स्वयम्भूश्च स्वयम्भुवः ॥ ९॥
अयं स नाथो देवानामस्माकं विप्रिये स्थितः ।
अस्य क्रोधेन महता हिरण्यकशिपुर्हतः ॥ १.४८.१०॥
अस्यच्छायां समासाद्य देवा मखमुखे स्थिताः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥ ११॥
अयं स निधने हेतुः सर्वेषां देवविद्विषाम् ।
यस्य तेजःप्रविष्टानि कुलान्यस्माकमाहवे ॥ १२॥
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः ।
सवितुस्तेजसा तुल्यं चक्रं क्षिपति शत्रुषु ॥ १३॥
अयं स कालो दैत्यानां कालभूते मयि स्थिते ।
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः ॥ १४॥
दिष्ट्येदानीं समक्षं मे विष्णुरेव समागतः ।
अद्य मद्बाणनिष्पिष्टो मामेव प्रणमिष्यति ॥ १५॥
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे ।
इमं नारायणं हत्वा दानवानां भयावहम् ॥ १६॥
क्षिप्रमेव वधिष्यामि रणे नारायणाश्रितान् ।
जात्यन्तरगतोऽप्येष मृधे बाधति दानवान् ॥ १७॥
एषोऽनन्तः पुरा भूत्वा पद्मनाभ इति स्मृतः ।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ ।
विनिवेश्य स्वके ऊरौ निहतौ दानवेश्वरौ ॥ १८॥
द्विधाभूतं वपुः कृत्वा सिंहार्धं नरसंस्थितम् ।
पितरं मे जघानैको हिरण्यकशिपुं पुरा ॥ १९॥
शुभं गर्भमधत्तेममदितिर्देवतारणिः ।
यज्ञकाले बलेर्यो वै कृत्वा वामनरूपताम् ।
त्रीँल्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः ॥ १.४८.२०॥
भूयस्त्विदानीं समरे सम्प्राप्ते तारकामये ।
मया सह समागम्य सह देवैर्विनङ्क्ष्यति ॥ २१॥
स एवमुक्त्वा बहुधा क्षिपन्नारायणं रणे ।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ॥ २२॥
क्षिप्यमाणोऽसुरेन्द्रेण न चुकोप गदाधरः ।
क्षमाबलेन महता सस्मितं वाक्यमब्रवीत् ॥ २३॥
अल्पदर्पबलो दैत्य स्थितः क्रोधादसद्वदन् ।
हतस्त्वमात्मनो दोषैः क्षमां योऽतीत्य भाषसे ॥ २४॥
अधमस्त्वं मम मतो धिगेतत् तव वाग्बलम् ।
न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः ॥ २५॥
अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम् ।
प्रजापतिकृतं सेतुं को भित्त्वा स्वस्तिमान्भवेत् ॥ २६॥
अद्य त्वां नाशयिष्यामि देवव्यापारकारकम् ।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥ २७॥
वैशम्पायन उवाच ।
एवं ब्रुवति यद् वाक्यं मृधे श्रीवत्सधारिणि ।
जहास दानवः क्रोधाद्धस्तांश्चक्रे च सायुधान् ॥ २८॥
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे ।
क्रोधाद् द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ॥ २९॥
दानवाश्चापि समरे मयतारपुरोगमाः ।
उद्यतायुधनिस्त्रिंशा दृष्ट्वा विष्णुमथाद्रवन् ॥ १.४८.३०॥
स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ॥ ३१॥
संसक्तश्च सुपर्णेन कालनेमी महासुरः ।
सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः ॥ ३२॥
मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि ।
कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागतः ॥ ३३॥
यदा तस्य सुपर्णस्य पतिता मूर्घ्नि सा गदा ।
तदाऽऽगमत्पदा भूमिं पक्षी व्यथितविग्रहः ॥ ३४॥
सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः ।
क्रोधात् संरक्तनयनो वैकुण्ठश्चक्रमाददे ॥ ३५॥
व्यवर्धत च वेगेन सुपर्णेन समं प्रभुः ।
भुजाश्चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश ॥ ३६॥
स दिशः प्रदिशश्चैव खं च गां चैव पूरयन् ।
ववृधे स पुनर्लोकान् क्रान्तुकाम इवौजसा ॥ ३७॥
तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले ।
ऋषयः सह गन्धर्वैस्तुष्टुवुर्मधुसूदनम् ॥ ३८॥
स द्यां किरीटेन लिखन् साभ्रमम्बरमम्बरैः ।
पद्भ्यामाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः ॥ ३९॥
सूर्यस्य रश्मितुल्याभं सहस्रारमरिक्षयम् ।
दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम् ॥ १.४८.४०॥
सुवर्णनेमिपर्यन्तं वज्रनाभं भयावहम् ।
मेदोमज्जास्थिरुधिरैर्दिग्धं दानवसम्भवैः ॥ ४१॥
अद्वितीयं प्रहारेषु क्षुरपर्यन्तमण्डलम् ।
स्रग्दाममालाविततं कामगं कामरूपिणं ४२॥
स्वयं स्वयम्भुवा सृष्टं भयदं सर्वविद्विषाम् ।
महर्षिरोषैराविष्टं नित्यमाहवदर्पितम् ॥ ४३॥
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ।
क्रव्यादानि च भूतानि तृप्तिं यान्ति महाहवे ॥ ४४॥
तमप्रतिमकर्माणं समानं सूर्यवर्चसा ।
चक्रमुद्यम्य समरे क्रोधदीप्तो गदाधरः ॥ ४५॥
सम्मुष्णन् दानवं तेजः समरे स्वेन तेजसा ।
चिच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः ४४६॥
तञ्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासिनम् ।
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः ॥ ४७॥
स च्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।
कबन्धोऽवस्थितः सङ्ख्ये विशाख इव पादपः ॥ ४८॥
तं वितत्य महापक्षी वायोः कृत्वा समं जवम् ।
उरसा पातयामास गरुडः कालनेमिनम् ॥ ४९॥
स तस्य देहो विमुखो विशाखः खात्परिभ्रमन् ।
निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम् ॥ १.४८.५०॥
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ।
साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन् ॥ ५१॥
अपरे ये तु दैत्या वै युद्धे दुष्टपराक्रमाः ।
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे ॥ ५२॥
कांश्चित्केशेषु जग्राह कांश्चित्कण्ठेऽभ्यपीडयत् ।
पाटयत्कस्यचिद् वक्त्रं मध्ये कांश्चिदथाग्रहीत् ॥ ५३॥
ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः ।
गगनाद् भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले ॥ ५४॥
तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः ।
तस्थौ शक्रप्रियं कृत्वा कृतकर्म्मा गदाधरः ॥ ५५॥
तस्मिन् विमर्दे निर्वृत्ते सङ्ग्रामे तारकामये ।
तं देशमाजगामाशु ब्रह्मा लोकपितामहः ॥ ५६॥
सर्वैर्ब्रह्मर्षिभिः सार्धं गन्धर्वैः साप्सरोगणैः ।
देवदेवो हरिं देवं पूजयन् वाक्यमब्रवीत् ॥ ५७॥
ब्रह्मोवाच ।
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ।
वधेनानेन दैत्यानां वयं हि परितोषिताः ॥ ५८॥
योऽयं हतस्त्वया विष्णो कालनेमी महासुरः ।
त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते ॥ ५९॥
एष देवान् परिभवँल्लोकांश्च सचराचरान् ।
ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति ॥ १.४८.६०॥
तदनेन तवोग्रेण परितुष्टोऽस्मि कर्मणा ।
यदयं कालतुल्याभः कालनेमी निपातितः ॥ ६१॥
तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमम् ।
ब्रह्मर्षस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः ॥ ६२॥
अहं महर्षयश्चैव तत्र त्वां वदतां वर ।
विधिवश्चार्चयिष्यामो गीर्भिर्दिव्याभिरच्युत ॥ ६३॥
किं चाहं तव दास्यामि वरं वरभृतां वर ।
सुरेष्वपि सदैत्येषु वराणां वरदो भवान् ॥ ६४॥
निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ।
अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने ॥ ६५॥
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ।
देवाञ्छक्रमुखान् सर्वानुवाच शुभया गिरा ॥ ६६॥
विष्णुरुवाच ।
श्रूयतां त्रिदशाः सर्वे यावन्तोऽत्र समागताः ।
श्रवणावहितैर्देहैः पुरस्कृत्य पुरन्दरम् ॥ ६७॥
अस्मिन्नः समरे सर्वे कालनेमिमुखा हताः ।
दानवा विक्रमोपेताः शक्रादपि महत्तराः ॥ ६८॥
तस्मिन् महति सङ्क्रन्दे द्वावेव तु विनिस्सृतौ ।
वैरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः ॥ ६९॥
तदिष्टां भजतां शक्रो दिशं वरुण एव च ।
याम्यां यमः पालयतामुत्तरां च धनाधिपः ॥ १.४८.७०॥
ऋक्षैः सह यथायोगं काले चरतु चन्द्रमाः ।
अब्दं चतुर्मुखं सूर्यो भजतामयनैः सह ॥ ७१॥
आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ।
हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा ॥ ७२॥
देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः ।
श्राद्धेन पितरश्चैव तृप्तिं यान्तु यथा पुरा ॥ ७३॥
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ।
त्रयो वर्णाश्च लोकांस्त्रीन् वर्द्धयन्त्यात्मजैर्गुणैः ॥ ७४॥
क्रतवः सम्प्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ।
दक्षिणाश्चोपवर्तन्तां यथार्हं सर्वसत्रिणाम् ॥ ७५॥
गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु ।
तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश्च कर्मभिः ॥ ७६॥
यथावदानुपूर्व्येण महेन्द्रसलिलोद्भवाः ।
त्रैलोक्यरमातरः सर्वाः सागरं यान्तु निम्नगाः ॥ ७७॥
दैत्येभ्यस्त्यज्यतां भीश्च शान्तिं व्रजत देवताः ।
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम् ॥ ७८॥
स्वगृहे सर्वलोके वा सङ्ग्रामे वा विशेषतः ।
विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः ॥ ७९॥
अपने घरमे अथवा समन्त जगच्च या विशेपतः
छिद्रेषु प्रहरन्त्येते न चैषां संस्थितिर्ध्रुवा ः
सौम्यानामृजुभावानां भवतां चार्जवे मतिः ॥ १.४८.८०॥
अहं तु दुष्टभावानां युष्मासु सुदुरात्मनाम् ।
असम्यग्वर्तमानानां मोहं दास्यामि देवताः ॥ ८१॥
यदा च सुदुराधर्षं दानवेभ्यो भयं भवेत् ।
तदा समुपगम्याशु विधास्ये वस्ततोऽभयम् ॥ ८२॥
वैशम्पायन उवाच ।
एवमुक्त्वा सुरगणान् विष्णुः सत्यपराक्रमः ।
जगां ब्रह्मणा सार्धं व्रह्मलोकं महायशाः ॥ ८३॥
एतदाश्चर्यमभवत् सङ्ग्रामे तारकामये ।
दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि ॥ ८४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कालनेमिवधेऽष्टचत्वारिंशोऽध्यायः ॥ ४८॥
१.४९ एकोनपञ्चाशत्तमोऽध्यायः
लोकवर्णनम् An account of the worlds
ब्रह्मलोके भगवतः विष्णोः सत्कारं
जनमेजय उवाच ।
ब्रह्मणा देवदेवेन सार्धं सलिलयोनिना ।
ब्रह्मलोकगतो ब्रह्मन् वैकुण्ठः किं चकार ह ॥ १॥
किमर्थे चादिदेवेन नीतः कमलयोनिना ।
विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः ॥ २॥
ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः ।
कं वा दधार नियमं स विभुर्भूतभावनः ॥ ३॥
कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् ।
श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् ॥ ४॥
कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे ।
कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकीम् ॥ ५॥
चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि ।
विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् ॥ ६॥
वैशम्पायन उवाच ।
शृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः ।
ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते ॥ ७॥
कामं तस्य गतिः सूक्ष्मा देवैरपि दुरासदा ।
यत् तु वक्ष्याम्यहं राजंस्तन्मे निगदतः शृणु ॥ ८॥
एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः ।
एष देवमयश्चैव देवाश्चैतन्मया दिवि ॥ ९॥
तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः ।
एष पारं परं चैव लोकानां वेद माधवः ॥ १.४९.१०॥
अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः ।
शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् ॥ ११॥
स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् ।
ववन्दे तानृषीन् सर्वान् विष्णुरार्षेण कर्मणा ॥ १२॥
सोऽग्निं प्राक्सवने दृष्ट्वा हूयमानं महर्षिभिः ।
अवन्दत महातेजाः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ १३॥
स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः ।
भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम् ॥ १४॥
अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् ।
परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥ १५॥
स ददर्शोच्छ्रितान् यूपांश्चषालाग्रविभूषितान् ।
मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥ १६॥
आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् ।
यज्ञैरिज्यन्तमात्मानं पश्यंस्तत्र चचार ह ॥ १७॥
ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः ।
अर्घ्योद्यतभुजाः सर्वे पवित्रान्तरपाणयः ॥ १८॥
देवेषु वर्तते यद् वै तद्धि सर्वं जनार्दनात् ।
यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् ॥ १९॥
अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः ।
तं सोममग्निं लोकं च वेद विष्णुं सनातनम् ॥ १.४९.२०॥
क्षीराद् यथा दधि भवेद्दध्नः सर्पिर्भवेद् यथा ।
मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥ २१॥
यथेन्द्रियैश्च भूतैश्च परमात्मा विधीयते ।
तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः ॥ २२॥
यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् ।
तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी ॥ २२॥
सत्रिणां सत्रफलदः पवित्रं परमात्मवान् ।
लोकतन्त्रधरो ह्येष मन्त्रैमन्त्र इवोच्यते ॥ २४॥
ऋषय ऊचुः ।
स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते ।
इदं यज्ञियमातिथ्यं मन्त्रतः प्रतिगृह्यताम् ॥ २५॥
त्वमस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः ।
अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सततं मतः ॥ २६॥
त्वयि योद्धुं गते विष्णौ न प्रावर्तन्त नः क्रियाः ।
अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥ २७॥
सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं लभेत् ।
अद्यात्मानमिहास्माभिरिज्यमानं निरीक्षसे ॥ २८॥
एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् ।
मुमुदे ब्रह्मलोकस्थो ब्रह्मा लोकपितामहः ॥ २९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि लोकवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
१.५० पञ्चाशत्तमोऽध्यायः
नारायणाश्रमवर्णनम् Description of the reclusion of nArAyaNa
पञ्चाशत्तमोऽप्यायः
नारायणाश्रमे भगवतः विष्णोः शयनं उत्थानं च, निकटवर्तिभ्यः ब्रह्मादि देवेभ्यः तेषां आगमनस्य प्रयोजनस्य पृच्छा ।
वैशम्पायन उवाच ।
ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः ।
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् ॥ १॥
स तद् विवेश हृष्टात्मा तानामन्त्र्य सदोगतान् ।
प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये ॥ २॥
स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् ।
प्रविशन्नेव भगवानायुधानि व्यसर्जयत् ॥ ३॥
स तत्राम्बुपतिप्रख्यं ददर्शालयमात्मनः ।
स्वधिष्ठितं देवगणैः शाश्वतैश्च महर्षिभिः ॥ ४॥
संवर्तकाम्बुदोपेतं नक्षत्रस्थानसङ्कुलम् ।
तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः ॥ ५॥
न तत्र विषयो वायोर्नेन्दोर्न च विवस्वतः ।
वपुषः पद्मनाभस्य स देशस्तेजसाऽऽवृतः ॥ ६॥
स तत्र प्रविशन्नेव जटाभारं समुद्वहन् ।
सहस्रशीर्षो भूत्वा तु शयनायोपचक्रमे ॥ ७॥
लोकानामन्तकालज्ञा काली नयनशालिनी ।
उपतस्थे महात्मानं निद्रा तं कालरूपिणी ॥ ८॥
स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले ।
हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः ॥ ९॥
तं शयानं महात्मानं भवाय जगतः प्रभुम् ।
उपासाञ्चक्रिरे विष्णुं देवाः सर्षिगणास्तथा ॥ १.५०.१०॥
तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् ।
आद्यं तस्यासनं पद्मं ब्रह्मणः सूर्यवर्चसम् ।
सहस्रपत्रं वर्णाढ्यं सुकुमारं सुपुष्पितम् ॥ ११॥
ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः ।
आवर्तयति लोकानां सर्वेषां कालपर्ययम् ॥ १२॥
विवृतात् तस्य वदनान्निःश्वासपवनेरिताः ।
प्रजानां पङ्क्तयो ह्युच्चैर्निष्पतन्त्युत्पतन्ति च ॥ १३॥
ते सृष्टाःप्राणिनो मेध्या विभक्ता ब्रह्मणा स्वयम् ।
चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा ॥ १४॥
न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः ।
विष्णोर्निद्रामयं योगं प्रविष्टं तमसावृतम् ॥ १५॥
ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः ।
न विदुस्तं क्वचित् सुप्तं क्वचिदासीनमासने ॥ १६॥
जागर्ति कोऽत्र कः शेते कश्च शक्तश्च नेङ्गते ।
को भोगवान्कोद्युतिमान्कृष्णात्कृष्णतरश्च कः ॥ १७॥
विमृशन्ति स्म तं देवा दिव्याभिरुपपत्तिभिः ।
न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा ॥ १८॥
गाथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः ।
पुराणास्तं पुराणेषु ऋषयः सम्प्रचक्षते ॥ १९॥
श्रूयते चास्य चरितं देवेष्वपि पुरातनम् ।
महापुराणात् प्रभृति परं तस्य न विद्यते ॥ १.५०.२०॥
यच्चास्य देवदेवस्य चरितं स्वप्रभावजम् ।
तेनेमाः श्रुतयो व्याप्ता वैदिक्यो लौकिकाश्च याः ॥ २१॥
भवकाले भवत्येष लोकानां लोकभावनः ।
दानवानामभावाय जागर्ति मधुसूदनः ॥ २२॥
यत्रैनं वीक्षितुं देवा न शेकुः सुप्तमव्ययम् ।
ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये ॥ २३॥
स हि वेदाश्च यज्ञाश्च यज्ञाङ्गानि च सर्वशः ।
या तु यज्ञगतिः प्रोक्ता स एष पुरुषोत्तमः ॥ २४॥
तस्मिन् सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः ।
शरत्प्रवृत्तयज्ञोऽयं जागर्ति मधुसूदनः ॥ २५॥
तदिदं वार्षिकं चक्रं कारयत्यम्बुदेश्वरः ।
वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरन्दरः ॥ २६॥
या ह्येषा गह्वरा माया निद्रेति जगति स्थिता ।
साकस्माद् द्वेषिणी घोरा कालरात्रिर्महीक्षिताम् ॥ २७॥
तस्यास्तनुस्तमोद्वारा निशा दिवसनाशिनी ।
जीवितार्धहरा घोरा सर्वप्राणभृतां भुवि ॥ २८॥
नैतया कश्चिदाविष्टो जृम्भमाणो मुहुर्मुहुः ।
शक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ॥ २९॥
अन्नजा भुवि मर्त्यानां श्रमजा वा कथञ्चन ।
सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥ १.५०.३०॥
स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनाम् ।
मृत्युकाले च भूतानां प्राणान् नाशयते भृशम् ॥ ३१॥
देवेष्वपि दधारैनां नान्यो नारायणादृते ।
सखी सर्वहरस्यैषा माया विष्णुशरीरजा ॥ ३२॥
सैषा नारायणमुखे दृष्टा कमललोचना ।
लोकानल्पेन कालेन ग्रसते लोकमोहिनी ॥ ३३॥
एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना ।
ध्रियते सेवनीया हि पत्येव च पतिव्रता ॥ ३४॥
स तया निद्रया च्छन्नस्तस्मिन् नारायणाश्रमे ।
स्वपिति स्म तदा विष्णुर्मोहयञ्जगदव्ययः ॥ ३५॥
तस्य वर्षसहस्त्राणि शयानस्य महात्मनः ।
जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् ॥ ३६॥
स तु द्धापरपर्यन्ते ज्ञात्वा लोकान् सुदुःखितान् ।
प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः ॥ ३७॥
ऋषय ऊचुः ।
जहीहि निद्रां सहजां भुक्तपूर्वामिव स्रजम् ।
इमे ते ब्रह्मणा सार्धं देवा दर्शनकाङ्क्षिणः ॥ ३८॥
इमे त्वां ब्रह्मविद्वांसो ब्रह्मसंस्तववादिनः ।
वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः ॥ ३९॥
एतेषामात्मभूतानां भूतानां भूतभावन ।
शृणु विष्णो शुभा वाचो भूव्योमाग्न्यनिलाम्भसाम् ॥ १.५०.४०॥
इमे त्वा सप्त मुनयः सहिता मुनिमण्डलैः ।
स्तुवन्ति देव दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा ॥ ४१॥
उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते ।
कारणं किञ्चिदुत्पन्नं देवानां कार्यगौरवात् ॥ ४२॥
वैशम्पायन उवाच ।
स सङ्क्षिप्य जलं सर्वं तिमिरौघं विदारयन् ।
उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन् ॥ ४३॥
स ददर्श सुरान्सर्वान्समेतान्सपितामहान् ।
विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान् ॥ ४४॥
तानुवाच हरिर्देवो निद्राविश्रान्तलोचनः ।
तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया ॥ ४५॥
श्रीभगवानुवाच ।
कुतो वो विग्रहो देवाः कुतो वो भयमागतम् ।
कस्य वा केन वा कार्यं किं वा मयि न वर्तते ॥ ४६॥
किं खल्वकुशलं लोके वर्तते दानवोत्थितम् ।
नृणामायासजननं शीघ्रमिच्छामि वेदितुम् ॥ ४७॥
एष ब्रह्मविदां मध्ये विहाय शयनोत्तमम् ।
शिवाय भवतामर्थे स्थितः किं करवाणि वः ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि विष्णोर्योगशयनोत्थाने पञ्चाशत्तमोऽध्यायः ॥ ५०॥
१.५१ एकपञ्चाशत्तमोऽध्यायः
भारावतरणम् Dialog of viShNu with gods
ब्रह्मणा भगवन्तं विष्णुं जगतः वर्तमानायाः अवस्थायाः वर्णनं कृत्वा पृथिव्याः भारं उद्धरणाय मन्त्रणं
ब्रह्माजीका भगवान् विष्णुसे जगत्की वतमान अवस्थाका वर्णन करते हुए
पृध्वीका भार उतारनेके लिये मन्त्रणा करनेका अनुरोध
वैशम्पायन उवाच ।
तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः ।
उवाच परमं वाक्यं हितं सर्वदिवौकसाम् ॥ १॥
नास्ति किञ्चिद्भयं विष्णो सुराणामसुरान्तक ।
येषां भवानभयदः कर्णधारो रणे रणे ॥ २॥
शक्रे जयति देवेशे त्वयि चासुरसूदने ।
धर्मे प्रयतमानानां मानवानां कुतो भयम् ॥ ३॥
सत्ये धर्मे च निरतान् मानवान् विगतज्वरान् ।
नाकाले धर्मिणो मृत्युः शक्नोति प्रसमीक्षितुम् ॥ ४॥
मानवानां च पतयः पार्थिवाश्च परस्परम् ।
षड्भागमुपभुञ्जाना न भयं कुर्वते मिथः ॥ ५॥
ते प्रजानां शुभकराः करदैरविगर्हिताः ।
सुकरैर्विप्रयुक्तार्थाः कोशमापूरयन्त्युत ॥ ६॥
स्फीताञ्जनपदान् सर्वान् पालयन्तः क्षमापराः ।
अतीक्ष्णदण्डांश्चतुरो वर्णाञ्जुगुपुरञ्जसा ॥ ७॥
नोद्वेजनीया भूतानां सचिवैः साधुपूजिताः ।
चतुरङ्गबलैर्गुप्ताः षड्गुणानुपयुञ्जते ॥ ८॥
धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः ।
यजन्ते च यथाकालं यज्ञैर्विपुलदक्षिणैः ॥ ९॥
वेदानधीत्य दीक्षाभिर्महर्षीन् ब्रह्मचर्यया ।
श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान् ॥ १.५१.१०॥
नैषामविदितं किञ्चित्त्रिविधं भुवि दृश्यते ।
वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च ॥ ११॥
ते परावरदृष्टार्था महर्षिसमतेजसः ।
भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः ॥ १२॥
तेषामेव प्रभावेण शिवं वर्षति वासवः ।
यथार्थं च ववुर्वाता विरजस्का दिशो दश ॥ १३॥
निरुत्पाता च वसुधा सुप्रचाराश्च खे ग्रहाः ।
चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः ॥ १४॥
अनुलोमकरः सूर्यस्त्वयने द्वे चचार ह ।
हव्यैश्च विविधैस्तप्तः शुभगन्धो हुताशनः ॥ १५॥
एवं सम्यक् प्रवृत्तेषु विवृद्धेषु मखादिषु ।
तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः ॥ १६॥
तेषां ज्वलितकीर्तीनामन्योन्यवशवर्तिनाम् ।
राज्ञां बलैर्बलवता पीड्यते वसुधातलम् ॥ १७॥
सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः ।
पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा ॥ १८॥
युगान्तसदृशै रूपैः शैलोच्चलितबन्धना ।
जलोत्पीडाकुला स्वेदं धारयन्ती मुहुर्मुहुः ॥ १९॥
क्षत्रियाणां वपुर्भिश्च तेजसा च बलेन च ।
नृणां च राष्ट्रैर्विस्तीर्णैः श्राम्यतीव वसुन्धरा ॥ १.५१.२०॥
पुरे पुरे नरपतिः कोटिसङ्ख्यैर्बलैर्वृतः ।
राष्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः ॥ २१॥
भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः ।
ग्रामायुताढ्यै राष्ट्रैश्च भूमिर्निर्विवराकृता ॥ २२॥
सेयं निरामयं कृत्वा निश्चेष्टा कालमग्रतः ।
प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः ॥ २३॥
कर्मभूमिर्मनुष्याणां भूमिरेषा व्यथां गता ।
यथा न सीदेत् तत् कार्यं जगत्येषा हि शाश्वती ॥ २४॥
अस्या हि पीडने दोषो महान् स्यान्मधुसूदन ।
क्रियालोपश्च लोकानां पीडितं च जगद् भवेत् ॥ २५॥
श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता ।
सहजां या क्षमां त्यक्त्वा चलत्वमचला गता ॥ २६॥
तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् ।
भारावतरणार्थं हि मन्त्रयाम सह त्वया ॥ २७॥
सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः ।
नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः ॥ २८॥
सर्वं सत्यपरं वाक्यं वर्णा धर्मपरास्तथा ।
सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः ॥ २९॥
एवं जगति वर्तन्ते मनुष्या धर्मकारणात् ।
यथा धर्मवधो न स्यात् तथा मन्त्रः प्रवर्त्यताम् ॥ १.५१.३०॥
सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् ।
राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये ॥ ३१॥
तदागच्छ महाभाग सह वै मन्त्रकारणात् ।
व्रजामो मेरुशिखरं पुरस्कृत्य वसुन्धराम् ॥ ३२॥
एतावदुक्त्वा राजेन्द्र ब्रह्मा लोकपितामहः ।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि भारावतरणे एकपञ्चाशत्तमोऽध्यायः ॥ ५१॥
१.५२ द्विपञ्चाशत्तमोऽध्यायः
धरणीवाक्यम् Appeal of mother earth to viShNu
भगवतः विष्णोः सर्वैः देवेभिः सह मेरुपर्वतस्य दिव्यां सभायां उपस्थानम्, तत्र पृथिव्या भगवन्तं भारस्य उद्धरणाय प्रार्थनं
भगवान् विष्णु तथा सव देवताओका मेरुपर्वतकी दिव्य सभामे उपस्थित होना
और वहाँ पृध्वीका भगवान् से भार उतारनेके लिये प्रार्थना करना
वैशम्पायन उवाच ।
बाढमित्येव सह तैर्दुर्दिनाम्भोदनिःस्वनः ।
प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः ॥ १॥
समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् ।
सजटामण्डलं कृत्स्नं स बिभ्रच्छ्रीधरो हरिः ॥ २॥
स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान् ।
श्रीवत्सो राजते श्रीमांस्तनद्वयमुखाञ्चितः ॥ ३॥
पीते वसानो वसने लोकानां गुरुरव्ययः ।
हरिः सोऽभवदालक्ष्यः स सन्ध्याभ्र इवाचलः ॥ ४॥
तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् ।
अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः ॥ ५॥
नातिदीर्घेण कालेन सम्प्राप्ता रत्नपर्वतम् ।
दडशुर्देवतास्तत्र तां सभां कामरूपिणीम् ॥ ६॥
मेरोः शिखरविन्यस्तां संयुक्तां सूर्यवर्चसा ।
काञ्चनस्तम्भरचितां वज्रसन्धानतोरणाम् ॥ ७॥
मनोनिर्माणचित्राढ्यां विमानशतमालिनीम् ।
रत्नजालान्तरवतीं कामगां रत्नभूषिताम् ॥ ८॥
क्लृप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम् ।
देवमायाधरां दिव्यां विहितां विश्वकर्मणा ॥ ९॥
तां हृष्टमनसः सर्वे यथास्थानं यथाविधि ।
यथानिदेशं त्रिदशा विविशुस्ते सभां शुभाम् ॥ १.५२.१०॥
ते निषेदुर्यथोक्तेषु विमानेष्वासनेषु च ।
भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च ॥ ११॥
ततः प्रभञ्जनो वायुर्ब्रह्मणा साधु चोदितः ।
मा शब्दमिति सर्वत्र प्रचक्रामाथ तां सभाम् ॥ १२॥
निःशब्दस्तिमिते तस्मिन्समाजे त्रिदिवौकसाम् ।
बभाषे धरणी वाक्यं खेदात् करुणभाषिणी ॥ १३॥
धरण्युवाच ।
त्वया धार्या त्वहं दैव त्वया वै धार्यते जगत् ।
त्वं धारयसि भूतानि भुवनानि बिभर्षि च ॥ १४॥
यत् त्वया धार्यते किञ्चित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया यत्नाच्च धार्यते ॥ १५॥
त्वया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद् विद्यते भूतं यत् त्वया नानुधार्यते ॥ १६॥
त्वमेव कुरुषे देव नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया ॥ १७॥
तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥ १८॥
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयास्ये सनातनम् ॥ १९॥
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशो ह्युपलक्षये ॥ १.५२.२०॥
अहमादौ पुराणस्य सङ्क्षिप्ता पद्मयोनिना ।
मां च बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ ॥ २१॥
कर्णस्रोतोद्भबौ तौ हि विष्णोरस्य महात्मनः ।
महार्णवे प्रस्वपतः काष्ठकुण्ड्यसमौ स्थितौ ॥ २२॥
तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ।
दिवं प्रच्छादयन्तौ तु ववृधाते महासुरौ ॥ २३॥
वायुप्राणौ तु तौ गृह्य ब्रह्मा पर्यमृशच्छनैः ।
एकं मृदुतरं मेने कठिनं वेद चापरम् ॥ २४॥
नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः ।
मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् ॥ २५॥
तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पिन्तौ ।
सर्वमेकार्णवं लोकं योद्धुकामौ सुदुर्जयौ ॥ २६॥
तावागतौ समालोक्य ब्रह्मा लोकपितामहः ।
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ॥ २७॥
स पद्मे पद्मनाभस्य नाभिमध्यात् समुत्थिते ।
रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः ॥ २८॥
तावुभौ जलगर्भस्थौ नारायणपितामहौ ।
बहून् वर्षगणानप्सु शयानौ न चकम्पतुः ॥ २९॥
अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ ।
आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः ॥ १.५२.३०॥
दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ ।
ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै तदा ।
उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः ॥ ३१॥
तद् युद्धमभवद् घोरं तयोस्तस्य च वै तदा ।
एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ॥ ३२॥
तदाभूत् तुमुलं युद्धं वर्षसङ्ख्या सहस्रशः ।
न च तावसुरौ युद्धे तदा श्रममवापतुः ॥ ३३॥
अथातो दीर्घकालस्य तौ दैत्यौ युद्धदुर्मदौ ।
ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् ॥ ३४॥
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ ३५॥
हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम ।
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ ॥ ३६॥
स तु गृह्य मृधे दोर्भ्यां दैत्यौ तावभ्यपीडयत् ।
जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ ॥ ३७॥
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ।
मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः ॥ ३८॥
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे ततः ।
नारायणश्च भगवानसृजत् स पुनः प्रजाः ॥ ३९॥
दैत्ययोर्मेदसाच्छना मेदिनीति ततः स्मृता ।
प्रभावात्पद्मनाभस्य शाश्वती जगती कृता ॥ १.५२.४०॥
वराहेण पुरा भूत्वा मार्कण्डेयस्य पश्यतः ।
विषाणेनाहमेकेन तोयमध्यात् समुद्धृता ॥ ४१॥
हृताहं क्रमता भूयस्तदा युष्माकमग्रतः ।
बलेः सकाशाद्दैत्यस्य विष्णुना प्रभविष्णुना ॥ ४२॥
साम्प्रतं खिद्यमानाहमेनमेव गदाधरम् ।
अनाथा जगतो नाथ शरण्यं शरणं गता ॥ ४३॥
अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः ।
नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः ॥ ४४॥
यदहं धारयाम्येका जगत् स्थावरजङ्गमम् ।
मया धृतं धारयते सर्वमेतद् गदाधरः ॥ ४५॥
जामदग्न्येन रामेण भारावतरणेप्सया ।
रोषात् त्रिःसप्तकृत्वोऽहं क्षत्रियैर्विप्रयोजिता ॥ ४६॥
सास्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः ।
भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ॥ ४७॥
मांसमेदोऽस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः ।
रजस्वलेव युवतिः कश्यपं समुपस्थिता ॥ ४८॥
स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी ।
वीरपत्नीव्रतमिदं धारयन्ती विषीदसि ॥ ४९॥
साहं विज्ञापितवती कश्यपं लोकभावनम् ।
पतयो मे हता ब्रह्मन् भार्गवेण महात्मना ॥ १.५२.५०॥
साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः ।
विधवा शून्यनगरा न धारयितुमुत्सहे ॥ ५१॥
तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः ।
रक्षेत् सग्रामनगरां यो मां सागरमालिनीम् ॥ ५२॥
स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः ।
ततो मां मानवेन्द्राय मनवे स प्रदत्तवान् ॥ ५३॥
सा मनुप्रभवं दिव्यं प्राप्येक्ष्वाकुकुलं नृपम् ।
विपुलेनास्मि कालेन पार्थिवात् पार्थिवं गता ॥ ५४॥
एवं दत्तास्मि मनवे मानवेन्द्राय धीमते ।
भुक्ता राजसहस्रैश्च महर्षिकुलसम्मितैः ॥ ५५॥
बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः ।
ते च कालवशं प्राप्य मय्येव प्रलयं गताः ॥ ५६॥ अ ।
मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च ।
क्षत्रियाणां बलवतां सङ्ग्रामेष्वनिवर्तिनाम् ॥ ५७॥
एतद् युष्मत्प्रवृत्तेन दैवेन परिपाल्यते ।
जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये ॥ ५८॥
यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् ।
एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु ॥ ५९॥
यमहं भारसन्तप्ता सम्प्राप्ता शरणार्थिनी ।
भारो यद्यवरोप्तव्यो विष्णुरेष ब्रवीतु माम् ॥ १.५२.६०॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि धरणीवाक्ये द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥
१.५३ त्रिपञ्चाशत्तमोऽध्यायः
अंशावतरणम् Prototypal incarnations of gods
ब्रह्मणः आज्ञया देवानां अंशावतरणं
वैशम्पायन उवाच ।
ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः ।
तदर्थकृत्यं सञ्चिन्त्य पितामहमथाब्रुवन् ॥ १॥
भगवन् ह्रियतामस्या धरण्या भारसन्ततिः ।
शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः ॥ २॥
यत् कर्तव्यं महेन्द्रेण यमेन वरुणेन च ।
यद् वा कार्यं धनेशेन स्वयं नारायणेन वा ॥ ३॥
यद् वा चन्द्रमसा कार्यं भास्करेणानिलेन वा ।
आदित्यैर्वसुभिर्वापि रुद्रैर्वा लोकभावनैः ॥ ४॥
अश्विभ्यां देववैद्याभ्यां साध्यैर्वा त्रिदशालयैः ।
बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा ॥ ५॥
महेश्वरेण वा ब्रह्मन् विशाखेन गुहेन वा ।
यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः ॥ ६॥
पतङ्गैः पर्वतैश्चापि सागरैर्वा महोर्मिभिः ।
गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर ॥ ७॥
शीघ्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् ।
यदि ते पार्थिवं कार्यं कार्यं पार्थिवविग्रहे ॥ ८॥
कथमंशावतरणं कुर्मः सर्वे पितामह ।
अन्तरिक्षगता ये च पृथिव्यां पार्थिवाश्च ये ॥ ९॥
सदस्यानां च विप्राणां पार्थिवानां कुलेषु च ।
अयोनिजाश्चैव तनूः सृजामो जगतीतले ॥ १.५३.१०॥
सुराणामेककार्याणां श्रुत्वैतन्तिश्चितं मतम् ।
देवैः परिवृतः प्राह वाक्यं लोकपितामहः ॥ ११॥
रोचते मे सुरश्रेष्ठा युष्माकमपि निश्चयः ।
सृजध्वं स्वशरीरांशांस्तेजसाऽऽत्मसमान्भुवि ॥ १२॥
सर्व एव सुरश्रेष्ठास्तेजोभिरवरोहत ।
भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम् ॥ १३॥
पार्थिवे भारते वंशे पूर्वमेव विजानता ।
पृथिव्यां सम्भ्रममिमं श्रूयतां यन्मया कृतम् ॥ १४॥
समुद्रेऽहं पुरा पूर्वे वेलामासाद्य पश्चिमाम् ।
आसं सार्धं तनूजेन कश्यपेन महात्मना ॥ १५॥
कथाभिः पूर्ववृत्ताभिर्लोकवेदानुगामिभिः ।
इतिवृत्तैश्च बहुभिः पुराणप्रभवैर्गुणैः ॥ १६॥
कुर्वतस्तु कथास्तास्ताः समुद्रः सह गङ्गया ।
समीपमाजगामाशु युक्तस्तोयदमारुतैः ॥ १७॥
स वीचिविषमा कुर्वन् गतिं वेगतरङ्गिणीम् ।
यादोगणविचित्रेण सच्छन्नस्तोयवाससा ॥ १८॥
शङ्खमुक्तामलतनुः प्रवालमणिभूषणः ।
युक्तश्चन्द्रमसा पूर्णः साभ्रगम्भीरनिःस्वनः ॥ १९॥
स मां परिभवन्नेव स्वां वेलां समतिक्रमन् ।
क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ॥ १.५३.२०॥
तं च देशं व्यवसितः समुद्रोऽद्भिर्विमर्दितुम् ।
उक्तः संरब्धया वाचा शान्तोऽसीति मया तदा ॥ २१॥
शान्तोऽसीत्युक्तमात्रस्तु तनुत्वं सागरो गतः ।
संहतोर्मितरङ्गौघः स्थितो राजश्रिया ज्वलन् ॥ २२॥
भूयश्चैव मया शप्तः समुद्रः सह गङ्गया ।
सकारणां मतिं कृत्वा युष्माकं हितकाम्यया ॥ २३॥
यस्मात् त्वं राजतुल्येन वपुषा समुपस्थितः ।
गच्छार्णव महीपालो राजेव त्वं भविष्यसि ॥ २४॥
तत्रापि सहजां लीलां धारयन् स्वेन तेजसा ।
भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः ॥ २५॥
शान्तोऽसीति मयोक्तस्त्वं यच्चासि तनुतां गतः ।
सुतनुर्यशसा लोके शान्तनुस्त्वं भविष्यसि ॥ २६॥
इयमप्यायतापाङ्गी गङ्गा सर्वाङ्गशोभना ।
रूपिणी च सरिच्छ्रेष्ठा तत्र त्वामुपयास्यति ॥ २७॥
एवमुक्तस्तु मां क्षुब्धः सोऽभिवीक्ष्यार्णवोऽब्रवीत् ।
मां प्रभो देवदेवानां किमर्थं शप्तवानसि ॥ २८॥
अहं तव विधेयात्मा त्वत्कृतस्त्वत्परायणः ।
अशपोऽसदृशैर्वाक्यैरात्मजं मां किमात्मना ॥ २९॥
भगवंस्त्वत्प्रसादेन वेगात् पर्वणि वर्धितः ।
यद्यहं चलितो ब्रह्मन् कोऽत्र दोषो ममात्मनः ॥ १.५३.३०॥
क्षिप्ताभिः पवनैरद्भिः स्पृष्टो यद्यसि पर्वणि ।
अत्र मे किं नु भगवन् विद्यते शापकारणम् ॥ ३१॥
उद्धतैश्च महावातैः प्रवृद्धैश्च बलाहकैः ।
पर्वणा चेन्दुयुक्तेन त्रिभिः क्षुब्धोऽस्मि कारणैः ॥ ३२॥
एवं यद्यपराद्धोऽहं कारणैस्त्वत्प्रकल्पितैः ।
क्षन्तुमर्हसि मे ब्रह्मञ्छापोऽयं विनिवर्त्यताम् ॥ ३३॥
एवं मयि निरालम्बे शापाच्छिथिलतां गते ।
कारुण्यं कुरु देवेश प्रमाणं यद्यवेक्षसे ॥ ३४॥
अस्यास्तु देवगङ्गाया गां गतायास्त्वदाज्ञया ।
मम दोषात् सदोषायाः प्रसादं कर्तुमर्हसि ॥ ३५॥
तमहं श्लक्ष्णया वाचा महार्णवमथाब्रवम् ।
अकारणज्ञं देवानां त्रस्तं शापानलेन तम् ॥ ३६॥
शान्तिं व्रज न भेतव्यं प्रसन्नोऽस्मि महोदधे ।
शापेऽस्मिन् सरितां नाथ भविष्यं शृणु कारणम् ॥ ३७॥
त्वं गच्छ भारते वंशे स्वं देहं स्वेन तेजसा ।
आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम् ॥ ३८॥
महोदधे महीपालस्तत्र राजश्रिया वृतः ।
पालयंश्चतुरो वर्णान् रंस्यसे सलिलेश्वर ॥ ३९॥
इयं च ते सरिच्छ्रेष्ठा बिभ्रती रूपमुत्तमम् ।
तत्कालं रमणीयाङ्गी गङ्गा परिचरिष्यति ॥ १.५३.४०॥
अनया सह जाह्नव्या मोदमानो ममाऽऽज्ञया ।
इमं सलिलसङ्क्लन्दं विस्मरिष्यसि सागर ॥ ४१॥
त्वरता चैव कर्तव्यं त्वयेदं मम शासनम् ।
प्राजापत्येन विधिना गङ्गया सह सागर ॥ ४२॥
वसवः प्रच्युताः स्वर्गात् प्रविष्टाश्च रसातलम् ।
तेषामुत्पादनार्थाय त्वं मया विनियोजितः ॥ ४३॥
अष्टौ ताञ्जाह्नवी गर्भानपत्यार्थं दधात्वियम् ।
विभावसोस्तुल्यगुणान्सुराणां प्रीतिवर्धनान् ॥ ४४॥
उत्पाद्य त्वं वसूञ्छीघ्रं कृत्वा कुरुकुलं महत् ।
प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम् ॥ ४५॥
एवमेतन्मया पूर्वं हितार्थं वः सुरोत्तमाः ।
भविष्यं पश्यता भारं पृथिव्याः पार्थिवात्मकम् ॥ ४६॥
तदेष शान्तनोर्वंशः पृथिव्यां रोपितो मया ।
वसवो ये च गङ्गायामुत्पन्नास्त्रिदिवौकसः ॥ ४७॥
अद्यापि भुवि गाङ्गेयस्तत्रैव वसुरष्टमः ।
सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते ॥ ४८॥
द्वितीयायां स सृष्टायां द्वितीया शान्तनोस्तनुः ।
विचित्रवीर्यो द्युतिमानासीद् राजा प्रतापवान् ॥ ४९॥
वैचित्रवीर्यौ द्वावेव पार्थिवौ भुवि साम्प्रतम् ।
धृतराष्ट्रश्च पाण्डुश्च विख्यातौ पुरुषर्षभौ ॥ १.५३.५०॥
तत्र पाण्डोः श्रिया जुष्टे द्वे भार्ये सम्बभूवतुः ।
शुभे कुन्ती च माद्री च देवयोषोपमे तु ते ॥ ५१॥
धृतराष्ट्रस्य राज्ञस्तु भार्यैका तुल्यचारिणी ।
गान्धारी भुवि विख्याता भर्तुर्नित्यं व्रते स्थिता ॥ ५२॥
तत्र वंशा विभज्यन्तां विपक्षाः पक्ष एव च ।
पुत्राणां हि तयो राज्ञोर्भविता विग्रहो महान् ॥ ५३॥
तेषां विमर्दे दायाद्ये नृपाणां भविता क्षयः ।
युगान्तप्रतिमं चैव भविष्यति महद् भयम् ॥ ५४॥
सबलेषु नरेन्द्रेषु शान्तयत्स्वितरेतरम् ।
विविक्तपुरराष्ट्रौघा क्षितिः शैथिल्यमेष्यति ॥ ५५॥
द्वापरस्य युगस्यान्ते मया दृष्टं पुरातनम् ।
क्षयं यास्यन्ति शस्त्रेण मानवैः सह पार्थिवाः ॥ ५६॥
तत्रावशिष्टान् मनुजान् सुप्तान् निशि विचेतसः ।
धक्ष्यते शङ्करस्यांशः पावकेनास्त्रतेजसा ॥ ५७॥
अन्तकप्रतिमे तस्मिन् निवृत्ते क्रूरकर्मणि ।
समाप्तमिदमाख्यास्ये तृतीयं द्वापरं युगम् ॥ ५८॥
महेश्वरांशेऽपसृते ततो माहेश्वरं युगम् ।
शिष्यं प्रवर्तते पश्चाद् युगं दारुणदर्शनम् ॥ ५९॥
अधर्मप्रायपुरुषं स्वल्पधर्मप्रतिग्रहम् ।
उत्सन्नसत्यसंयोगं वर्धितानृतसञ्चयम् ॥ १.५३.६०॥
महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः ।
भविष्यन्ति नराः सर्वे लोके न स्थविरायुषः ॥ ६१॥
तदेष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः ।
अंशावतरणं सर्वे सुराः कुरुत मा चिरम् ॥ ६२॥
धर्मस्यांशस्तु कुन्त्यां वै माद्रयां च विनियुज्यताम् ।
विग्रहस्य कलिर्मूलं गान्धार्यां विनियुज्यताम् ॥ ६३॥
एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः ।
जातरागाः पृथिव्यर्थे सर्वे सङ्ग्रामलालसाः ॥ ६४॥
गच्छत्वियं वसुमती स्वां योनिं लोकधारिणी ।
सृष्टोऽयं नैष्ठिको राज्ञामुपायो लोकविश्रुतः ॥ ६५॥
श्रुत्वा पितामहवचः सा जगाम यथागतम् ।
पृथिवी सह कालेन वधाय पृथिवीक्षिताम् ॥ ६६॥
देवानचोदयद् ब्रह्मा निग्रहार्थे सुरद्विषाम् ।
नरं चैव पुराणर्षि शेषं च धरणीधरम् ॥ ६७॥
सनत्कुमारं साध्यांश्च सुरांश्चाग्निपुरोगमान् ।
वरुणं च यमं चैव सूर्याचन्द्रमसौ तदा ॥ ६८॥
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाश्विनौ ।
ततोंऽशानवनिं देवाः सर्व एवावतारयन् ॥ ६९॥
यथा ते कथितं पूर्वमंशावतरणं मया ।
अयोनिजा योनिजाश्च ते देवाः पृथिवीतले ॥ १.५३.७०॥
दैत्यदानवहन्तारः सम्भूताः पुरुषेश्वराः ।
क्षीरिकावृक्षसङ्काशा वज्रसंहननास्तथा ॥ ७१॥
नागायुतबलाः केचित्केचिदोघबलान्विताः ।
गदापरिघशक्तीनां सहाः परिघबाहवः ॥ ७२॥
गिरिशृङ्गप्रहर्तारः सर्वे परिघयोधिनः ।
वृष्णिवंशसमुत्पन्नाः शतशोऽथ सहस्रशः ॥ ७३॥
कुरुवंशे च ते देवाः पञ्चालेषु च पार्थिवाः ।
याज्ञिकानां समृद्धानां ब्राह्मणानां च योनिषु ॥ ७४॥
सर्वास्त्रज्ञा महेष्वासा वेदव्रतपरायणाः ।
सर्वर्द्धिगुणसम्पन्ना यज्वानः पुण्यकर्मिणः ॥ ७५॥
आचालयेयुर्ये शैलान् क्रुद्धा भिन्द्युर्महीतलम् ।
उत्पतेयुरथाकाशं क्षोभयेयुर्महोदधिम् ॥ ७६॥
एवमादिश्य तान् सर्वान् भूतभव्यभवत्प्रभुः ।
नारायणे समावेश्य लोकाञ्छान्तिमुपागमत् ॥ ७७॥
भूयः शृणु यथा विष्णुरवतीर्णो महीतले ।
प्रजानां वै हितार्थाय प्रभुः प्राणिहितेश्वरः ॥ ७८॥
ययातिवंशजस्याथ वसुदेवस्य धीमतः ।
कुले पूज्ये यशस्कर्मा जज्ञे नारायणः प्रभुः ॥ ७९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि देवानामंशावतरणे त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥
१.५४ चतुष्पञ्चाशत्तमोऽध्यायः
नारदवाक्यम् NArada's appeal to viShNu
भगवतः विष्णोः प्रति देवर्षेः नारदस्य वचनं - भूर्लोकस्य वर्तमानावस्थायाः परिचयं दत्त्वा भगवन्तं अवतारग्रहणाय प्रेरणं
वैशम्पायन उवाच ।
कृतकार्ये गते काले जगत्यां च यथानयम् ।
अंशावतरणे वृत्ते सुराणां भारते कुले ॥ १॥
भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च ।
अश्विनोर्देवभिषजोर्भागे वै भास्करस्य च ॥ २॥
पूर्वमेवावनिगते भागे देवपुरोधसः ।
वसूनामष्टमे भागे प्रागेव धरणीं गते ॥ ३॥
मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च ।
भागे शुक्रस्य सोमस्य वरुणस्य च गां गते ॥ ४॥
शङ्करस्य गते भागे मित्रस्य धनदस्य च ।
गन्धर्वोरगयक्षाणां भागांशेषु गतेषु च ॥ ५॥
भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् ।
तिष्ठन्नारायणस्यांशे नारदः समदृश्यत ॥ ६॥
ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः ।
सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन् ॥ ७॥
चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषितः ।
वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ॥ ८॥
कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः साक्षाच्छक्र इवापरः ॥ ९॥
भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः ।
गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् ।
महर्षिर्विग्रहरुचिर्विद्वान् गान्धर्वकोविदः ॥ १.५४.१०॥
वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः ।
देवगन्धर्वलोकानामादिवक्ता महामुनिः ॥ ११॥
स नारदोऽथ ब्रह्मर्षिर्ब्रह्मलोकचरोऽव्ययः ।
स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत् ॥ १२॥
अंशावतरणं विष्णो यदिदं त्रिदशैः कृतम् ।
क्षयार्थे पृथिवीन्द्राणां सर्वमेतदकारणम् ॥ १३॥
यदेतत् पार्थिवं क्षत्रं स्थितं त्वयि यदीश्वर ।
नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे ॥ १४॥
न युक्तं जानता देव त्वया तत्त्वार्थदर्शिना ।
देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम् ॥ १५॥
त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः ।
श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि ॥ १६॥
देवभागान् गतान्दृष्ट्वा किं त्वं सर्वाश्रयो विभुः ।
वसुन्धरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे ॥ १७॥
त्वया सनाथा देवांशास्त्वन्मयास्त्वत्परायणाः ।
जगत्यां सञ्चरिष्यन्ति कार्यात् कार्यान्तरं गताः ॥ १८॥
तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् ।
तव सञ्चोदनार्थं वै शृणु चाप्यत्र कारणम् ॥ १९॥
ये त्वया निहता दैत्याः सङ्ग्रामे तारकामये ।
तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् ॥ १.५४.२०॥
पुरी पृथिव्यां मुदिता मथुरानामतः श्रुता ।
निविष्टा यमुनातीरे स्फीता जनपदायुता ॥ २१॥
मधुर्नाम महानासीद् दानवो युधि दुर्जयः ।
त्रासनः सर्वभूतानां बलेन महतान्वितः ॥ २२॥
तस्य तत्र महच्चासीन्महापादपसङ्कुलम् ।
घोरं मधुवनं नाम यत्रासौ न्यवसत् पुरा ॥ २३॥
तस्य पुत्रो महानासील्लवणो नाम दानवः ।
त्रासनः सर्वभूतानां महाबलपराक्रमः ॥ २४॥
स तत्र दानवः क्रीडन् वर्षपूगाननेकशः ।
स दैवतगणाँल्लोकानुद्वासयति दर्पितः ॥ २५॥
अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते ।
राज्यं शासति धर्मज्ञे राक्षसानां भयावहे ॥ २६॥
स दानवो बलश्लाघी घोरं वनमुपाश्रितः ।
प्रेषयामास रामाय दूतं प्ररुषवादिनम् ॥ २७॥
विषयासन्नभूतोऽस्मि तव राम रिपुश्च ह ।
न च सामन्तमिच्छन्ति राजानो बलदर्पितम् ॥ २८॥
राज्ञा राज्यव्रतस्थेन प्रजानां हितकाम्यया ।
जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता ॥ २९॥
अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया ।
जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः ॥ १.५४.३०॥
सम्यग् वर्तितुकामस्य विशेषेण महीपतेः ।
नयानामुपदेशेन नास्ति लोकसमो गुरुः ॥ ३१॥
व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः ।
बलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम् ॥ ३२॥
सहजैर्बाध्यते सर्वः प्रवृद्धैरिन्द्रियादिभिः ।
अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः ॥ ३३॥
यत् त्वया स्त्रीकृते मोहात्सगणो रावणो हतः ।
नैतदौपयिकं मन्ये महद् वै कर्म कुत्सिनम् ॥ ३४॥
वनवासप्रवृत्तेन यत् त्वया व्रतशालिना ।
प्रहृतं राक्षसानीके नैव दृष्टः सतां विधिः ॥ ३५॥
सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् ।
यत् त्वया निहता मोहाद् दूषिताश्चाश्रमौकसः ॥ ३६॥
स एष रावणो धन्यो यस्त्वया व्रतचारिणा ।
स्त्रीनिमित्ते हतो युद्धे ग्राम्यान् धर्मानवेक्षता ॥ ३७॥
यदि ते निहतः सङ्ख्ये दुर्बुद्धिरजितेन्द्रियः ।
युध्यस्वाद्य मया सार्धं मृधे यद्यसि वीर्यवान् ॥ ३८॥
तस्य दूतस्य तच्छ्रुत्वा भाषितं रूक्षवादिनः ।
धैर्यादसम्भ्रान्तवपुः सस्मितं राघवोऽब्रवीत् ॥ ३९॥
असदेतत् त्वया दूत भाषितं तस्य गौरवात् ।
यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम् ॥ १.५४.४०॥
यद्यहं सत्पथे मूढो यदि वा रावणो हतः ।
यदि वा मे हृता भार्या का तत्र परिदेवना ॥ ४१॥
न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः ।
जागर्ति च यथा देवः सदा सत्स्वितरेषु च ॥ ४२॥
कृतं दूतेन यत्कार्यं गच्छ त्वं दूत मा चिरम् ।
नात्मश्लाघिषु नीचेषु दृढे प्रहरन्तीह मद्विधाः ॥ ४३॥
अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः ।
तस्य दैत्यस्य दुर्बुद्धेर्मृधे प्रतिकरिष्यति ॥ ४४॥
एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह ।
अनुज्ञातो नरेन्द्रेण राघवेण महात्मना ॥ ४५॥
स शीघ्रयानः सम्प्राप्तस्तद् दानवपुरं महत् ।
चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः ॥ ४६॥
ततो दूतस्य वचनात् स दैत्यः क्रोधमूर्च्छितः ।
पृष्ठतस्तद्वनं कृत्वा युद्धायाभिमुखः स्थितः ॥ ४७॥
तद् युद्धमभवद् घोरं सौमित्रेर्दानवस्य च ।
उभयोरेव बलिनोः शूरयो रणमूर्धनि ॥ ४८॥
तौ शरैः साधु निशितैरन्योन्यमभिजघ्नतुः ।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ ४९॥
अथ सौमित्रिणा बाणैः पीडितो दानवो युधि ।
ततः स शूलरहितः पर्यहीयत दानवः ॥ १.५४.५०॥
स गृहीत्वाङ्कुशं चैव दैवैर्दत्तवरं रणे ।
कर्षणं सर्वभूतानां लवणो विररास ह ॥ ५१॥
शिरोधरायां जग्राह सोऽङ्कुशेन चकर्ष ह ।
प्रवेशयितुमारब्धो लवणो राघवानुजम् ॥ ५२॥
स रुक्मत्सरुमुद्यम्य शत्रुघ्नः खड्गमुत्तमम् ।
शिरश्चिच्छेद खङ्गेन लवणस्य महामृधे ॥ ५३॥
स हत्वा दानवं सङ्ख्ये सौमित्रिर्मित्रवत्सलः ।
तद् वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् ॥ ५४॥
छित्त्वा वनं तत् सौमित्रिर्निवेशं सोऽभ्यरोचयत् ।
भवाय तस्य देशस्य पुर्याः प्ररूमधर्मवित् ॥ ५५॥
तस्मिन् मधुवनस्थाने मथुरा नाम सा पुरी ।
शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे ॥ ५६॥
सा पुरी परमोदारा साट्टप्राकारतोरणा ।
स्फीता राष्ट्रसमाकीर्णा समृद्धबलवाहना ॥ ५७॥
उद्यानवनसम्पन्ना सुसीमा सुप्रतिष्ठिता ।
प्रांशुप्राकारवसना परिखाकुलमेखला ॥ ५८॥
चयाट्टालककेयूरा प्रासादवरकुण्डला ।
सुसंवृतद्वारमुखा चत्वरोद्गारहासिनी ॥ ५९॥
अरोगवीरपुरुषा हस्त्यश्वरथसङ्कुला ।
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ॥ १.५४.६०॥
पुण्यापणवती दुर्गा रत्नसञ्चयगर्विता ।
क्षेत्राणि सस्यवन्त्यस्याः काले देवश्च वर्षति ॥ ६१॥
नरनारीप्रमुदिता सा पुरी स्म प्रकाशते ।
निविष्टविषयश्चैव शूरसेनस्ततोऽभवत् ॥ ६२॥
तस्य पुर्यां महावीर्यो राजा भोजकुलोद्वहः ।
उग्रसेन इति ख्यातो महासेनपराक्रमः ॥ ६३॥
तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः ।
कालनेमिर्महादैत्यः सङ्ग्रामे तारकामये ॥ ६४॥
कंसो नाम विशालाक्षो भोजवंशविवर्धनः ।
राजा पृथिव्यां विख्यातः सिंहविस्पष्टविक्रमः ॥ ६५॥
राज्ञां भयकरो घोरः शङ्कनीयो महीक्षिताम् ।
भयदः सर्वभूतानां सत्पथाद् बाह्यतां गतः ॥ ६६॥
दारुणाभिनिवेशेन दारुणेनान्तरात्मना ।
युक्तस्तेनैव दर्पेण प्रजानां रोमहर्षणः ॥ ६७॥
न राजधर्माभिरतो नात्मपक्षसुखावहः ।
नात्मराज्ये प्रियकरश्चण्डः कररुचिः सदा ॥ ६८॥
स कंसस्तत्र सम्भूतस्त्वया युद्धे पराजितः ।
क्रव्यादो बाधते लोकानासुरेणान्तरात्मना ॥ ६९॥
योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः ।
केशी नाम हयो जातः स तस्यैव जघन्यजः ॥ १.५४.७०॥
स दुष्टो ह्रेषितपटुः केसरी निरवग्रहः ।
वृन्दावने वसत्येको नृणां मांसानि भक्षयन् ॥ ७१॥
अरिष्टो बलिपुत्रश्च ककुद्मी वृषरूपधृक् ।
गवामरित्वमापन्नः कामरूपी महासुरः ॥ ७२॥
रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः ।
स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः ॥ ७३॥
लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः ।
प्रलम्बो नाम दैत्योऽसौ वटं भाण्डीरमाश्रितः ॥ ७४॥
खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः ।
घोरं तालवनं दैत्यश्चरत्युद्वासयन् प्रजाः ॥ ७५॥
वाराहश्च किशोरश्च दानवौ यो महाबलौ ।
मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ ॥ ७६॥
यौ तौ मयश्च तारश्च दानवौ दानवान्तक ।
प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ ॥ ७७॥
एते दैत्या विनिहतास्त्वया विष्णो निराकृताः ।
मानुषं वपुरास्थाय बाधन्ते भुवि मानुषान् ॥ ७८॥
त्वत्कथाद्वेषिणः सर्वे त्वद्भक्तान् घ्नन्ति मानुषान् ।
तव प्रसादात् तेषां वै दानवानां क्षयो भवेत् ॥ ७९॥
त्वत्तस्ते बिभ्यति दिवि त्वत्तो बिभ्यति सागरे ।
पृथिव्यां तव बिभ्यन्ति नान्यतस्तु कदाचन ॥ १.५४.८०॥
दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर ।
दिवश्च्युतस्य दैत्यस्य गतिर्भवति मेदिनी ॥ ८१॥
व्युत्थितस्य च मेदिन्यां हतस्य नृशरीरिणः ।
दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव ॥ ८२॥
तदागच्छ स्वयं विष्णो गच्छामः पृथिवीतलम् ।
दानवानां विनाशाय विसृजात्मानमात्मना ॥ ८३॥
मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः ।
तासु सृष्टास्त्वया देवाः सम्भविष्यन्ति भूतले ॥ ८४॥
तवावतरणे विष्णो कंसः स विनशिष्यति ।
सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता ॥ ८५॥
त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणम् ।
तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान् ॥ ८६॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि नारदवाक्ये चतुष्पञ्चाशत्तमोऽऽध्यायः ॥ ५४॥
१.५५ पञ्चपञ्चाशत्तमोऽध्यायः
पितामहवाक्यम् Brahma's reply to viShNu
भगवतः विष्णुना नारदस्य कथनस्योत्तरं, ब्रह्मणा भगवन्तं तस्य अवतारतारयोग्यस्थानस्य एवं पितामातादीनां परिचयं
वैशम्पायन उवाच ।
नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।
प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः ॥ १॥
त्रैलोक्यस्य हितार्थाय यन्मां वदसि नारद ।
तस्य सम्यक्प्रवृत्तस्य श्रूयतामुत्तरं वचः ॥ २॥
विदिता देहिनो जाता मयैते भुवि दानवाः ।
यां च यस्तनुमादाय दैत्यः पुष्यति विग्रहम् ॥ ३॥
जानामि कंसं सम्भूतमुग्रसेनसुतं भुवि ।
केशिनं चापि जानामि दैत्यं तुरगविग्रहम् ॥ ४॥
नागं कुवलयापीडं मल्लौ चाणूरमुष्टिकौ ।
अरिष्टं चापि जानामि दैत्यं वृषभरूपिणम् ॥ ५॥
विदितो मे खरश्चैव प्रलम्बश्च महासुरः ।
सा च मे विदिता विप्र पूतना दुहिता बलेः ॥ ६॥
कालियं चापि जानामि यमुनाह्रदगोचरम् ।
वैनतेयभयाद् यस्तु यमुनाह्रदमाविशत् ॥ ७॥
विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् ।
प्राग्ज्योतिषपुरे वापि नरकं साधु तर्कये ॥ ८॥
मानुषे पार्थिवे लोके मानुषत्वमुपागतम् ।
बाणं च शोणितपुरे गुहप्रतिमतेजसम् ॥ ९॥
दृप्तं बाहुसहस्रेण देवैरपि सुदुर्जयम ।
मय्यासक्तां च जानामि भारतीं महतीं धुरम् ॥ १.५५.१०॥
सर्वं तच्च विजानामि यथा योत्स्यन्ति ते नृपाः ।
क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया ।
एषां पुरुषदेहानामपरावृत्तदेहिनां गं ११॥
सम्प्रवेक्ष्याम्यहं योगमात्मनश्च परस्य च ।
सम्प्राप्य पार्थिवं लोकं मानुषत्वमुपागतः ॥ १२॥
कंसादींश्चापि तान्सर्वान् वधिष्यामि महासुरान् ।
तेन तेन विधानेन येन यः शान्तिमेष्यति ॥ १३॥
अनुप्रविश्य योगेन तास्ता हि गतयो मया ।
अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि ॥ १४॥
जगत्यर्थे कृतो योऽयमंशोत्सर्गो दिवौकसैः ।
सुरदेवर्षिगन्धर्वैरितश्चानुमते मम ॥ १५॥
विनिश्चयो प्रागेव नारदायं कृतो मया ।
निवासं ननु मे ब्रह्मन् विदधातु पितामहः ॥ १६॥
यत्र देशे यथा जातो येन वेषेण वा वसन् ।
तानहं समरे हन्यां तन्मे ब्रूहि पितामह ॥ १७॥
ब्रह्मोवाच ।
नारायणेमं सिद्धार्थमुपायं शृणु मे विभो ।
भुवि यस्ते जनयिता जननी च भविष्यति ॥ १८॥
यत्र त्वं च महाबाहो जातः कुलकरो भुवि ।
यादवानां महद् वंशमखिलं धारयिष्यसि ॥ १९॥
तांश्चासुरान्समुत्पाट्य वंशं कृत्वाऽऽत्मनो महत् ।
स्थापयिष्यसि मर्यादां नृणां तन्मे निशामय ॥ १.५५.२०॥
पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः ।
जहार यज्ञिया गा वै पयोदास्तु महामखे ॥ २१॥
अदितिः सुरभिश्चैते द्वे भार्ये कश्यपस्य तु ।
प्रदीयमाना गास्तास्तु नैच्छतां वरुणस्य वै ॥ २२॥
ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा ततः ।
उवाच भगवन् गावो गुरुणा मे हृता इति ॥ २३॥
कृतकार्यो हि गास्तास्तु नानुजानाति मे गुरुः ।
अन्ववर्तत भार्ये द्वे अदितिं सुरभिं तथा ॥ २४॥
मम ता ह्यक्षया गावो दिव्याः कामदुहः प्रभो ।
चरन्ति सागरान् सर्वान्रक्षिताः स्वेन तेजसा ॥ २५॥
कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते ।
अक्षयं वा क्षरन्त्यग्र्यं पयो देवामृतोपमम् ॥ २६॥
प्रभुर्वा व्युत्थितो ब्रह्मन् गुरुर्वा यदि वेतरः ।
त्वया नियम्याः सर्वे वै त्वं हि नः परमा गतिः ॥ २७॥
यदि प्रभवतां दण्डो लोके कार्यमजानताम् ।
न विद्यते लोकगुरो न स्युर्वै लोकसेतवः ॥ २८॥
यथा वास्तु तथा वास्तु कर्तव्ये भगवान् प्रभुः ।
मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् ॥ २९॥
या आत्मदेवता गावो या गावः सत्त्वमव्ययम् ।
लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम् ॥ १.५५.३०॥
त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् ।
गोब्राह्मणपरित्राणे परित्रातं जगद् भवेत् ॥ ३१॥
इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ।
गवां कारणतत्त्वज्ञः कश्यपे शापमुत्सृजम् ॥ ३२॥
येनांशेन हृता गावः कश्यपेन महर्षिणा ।
स तेनांशेन जगतीं गत्वा गोपत्वमेष्यति ॥ ३३॥
या च सा सुरभिर्नाम अदितिश्च सुरारणिः ।
तेऽप्युभे तस्य भार्ये वै तेनैव सह यास्यतः ॥ ३४॥
ताभ्यां च सह गोपत्वे कश्यपो भुवि रंस्यते ।
स तस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ॥ ३५॥
वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ।
गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः ॥ ३६॥
तत्रासौ गोषु निरतः कंसस्य करदायकः ।
तस्य भार्याद्वयं जातमदितिः सुरभिश्च ते ॥ ३७॥
देवकी रोहिणी चेमे वसुदेवस्य धीमतः ।
सुरभी रोहिणी देवी चादितिर्देवकी त्वभूत् ॥ ३८॥
तत्र त्वं शिशुरेवाङ्कौ गोपालकृतलक्षणः ।
वर्धयस्व मूहाबाहो पुरा त्रैविक्रमे यथा ॥ ३९॥
छादयित्वाऽऽत्मनाऽऽत्मानं मायया योगरूपया ।
तत्रावतर लोकानां भवाय मधुसूदन ॥ १.५५.४०॥
जयाशीर्वचनैस्त्वेते वर्धयन्ति दिवौकसः ।
आत्मानमात्मना हि त्वमवतार्य महीतले ॥ ४१॥
देवकीं रोहिणीं चैव गर्भाभ्यां परितोषय ।
गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् ॥ ४२॥
गाश्च ते रक्षतो विष्णो वनानि परिधावतः ।
वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः ॥ ४३॥
विष्णौ पद्मपलाशाक्षे गोपालवसतिं गते ।
बाले त्वयि महाबाहो लोको बालत्वमेष्यति ॥ ४४॥
त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः ।
गोषु गोपा भविष्यन्ति सहायाः सततं तव ॥ ४५॥
वने चारयतो गाश्च गोष्ठेषु परिधावतः ।
मज्जतो यमुनायां च रतिं प्राप्स्यन्ति ते त्वयि ॥ ४६॥
जीवितं वसुदेवस्य भविष्यति सुजीवितम् ।
यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्यति ॥ ४७॥
अथवा कस्य पुत्रत्वं गच्छेथाः कश्यपादृते ।
का च धारयितुं शक्ता त्वां विष्णो अदितिं विना ॥ ४८॥
योगेनात्मसमुत्थेन गच्छ त्वं विजयाय वै ।
वयमप्यालयान्स्वान्स्वान्गच्छामो मधुसूदन ॥ ४९॥
वैशम्पायन उवाच ।
स देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये ।
जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥ १.५५.५०॥
तत्र वै पार्वती नाम गुहा मेरोः सुदुर्गमा ।
त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता ॥ ५१॥
पुराणं तत्र विन्यस्य देहं हरिरुदारधीः ।
आत्मानं योजयामास वसुदेवगृहे प्रभुः ॥ ५२॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितामहवाक्ये पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
हरिवंशपर्व सम्पूर्ण ।
विष्णुपर्वः)
श्रीपरमात्मने नमः ।
२.१ प्रथमोऽध्यायः
नारदागमनम् Advent of nArada and kaMsa's response
मङ्गलाचरणम्, नारदस्य मथुरायां आगत्वा कंसाय भावी भयस्य कथनम्, कंसस्य अनर्गल वार्तालापं
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
वैशम्पायन उवाच ।
ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।
विनाशशंसी कंसस्य नारदो मथुरां ययौ ॥ १॥
त्रिविष्टपादापतितो मथुरोपवने स्थितः ।
प्रेषयामास कंसस्य दूतं स मुनिपुङ्गवः ॥ २॥
स दूतः कथयामास मुनेरागमनं वने ।
स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः ॥ ३॥
निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।
स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम् ॥ ४॥
तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।
सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि ॥ ५॥
आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।
निषसादासने तस्मिन् स वै शक्रसखो मुनिः ॥ ६॥
उवाच चोग्रसेनस्य सुतं परमकोपनम् ।
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ॥ ७॥
यते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।
अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान् ॥ ८॥
गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ।
सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् ॥ ९॥
आप्लुतं सर्वतीर्थेषु सरित्सु सह दैवतैः ।
दिव्या त्रिधारा दृष्टा मे पुण्या त्रिपथगा नदी ॥ २.१.१०॥
स्मरणादेव सर्वेषामंहसा या विभेदिनी ।
उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ॥ ११॥
दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।
देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् ॥ १२॥
सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ।
सङ्गृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् ॥ १३॥
सोऽहं तत्र सितोष्णीषान् नानारत्नविभूषितान् ।
दिव्यासनगतान् देवानपश्यं सपितामहान् ॥ १४॥
तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः ॥ १५॥
तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।
योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥ १६॥
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥ १७॥
परश्चैवापरस्तेषां स्वयम्भूश्च दिवौकसाम् ।
ततस्ते तन्महद्भूतं दिव्यं च कथयाभ्यहम् ॥ १८॥
श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।
यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने ॥ १९॥
एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।
भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम्।२.१.२०॥
इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।
जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् ॥ २१॥
प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।
हास्यः खलु स सर्वेषु नारदो न विशारदः ॥ २२॥
नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।
आसनस्थः शयानो वा प्रमत्तो मत्त एव च ॥ २३॥
योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।
कोऽस्ति मां मानुषे लोके यः क्षोभयितुमुत्सहेत् ॥ २४॥
अद्यप्रभृति देवानामेवं देवानुवर्तिनाम् ।
नृपक्षिपशुसङ्घानां करोमि कदनं महत् ॥ २५॥
आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा ।
अरिष्टो वृषभश्चैव पूतना कालियस्तथा ॥ २६॥
अटध्वं पृथिवीं कृत्स्नां यथेष्टं कामरूपिणः ।
प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः ॥ २७॥
गर्भस्थानामपि गतिर्विज्ञेया चैव देहिनाम् ।
नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ॥ २८॥
भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।
मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम् ॥ २९॥
स तु केलिकिलो विप्रो भेदशीलश्च नारदः ।
सुश्लिष्टानपि लोकेऽस्मिन् भेदयँल्लभते रतिम् ॥ २.१.३०॥
कण्डूयमानः सततं लोकानटति चञ्चलः ।
घटमानो नरेन्द्राणां तन्त्रैवराणि चैव हि ॥ ३१॥
एवं स विलपन्नेव वाङ्मात्रेणैव केवलम् ।
विवेश कंसो भवनं दह्यमानेन चेतसा ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदागमने कंसवाक्ये प्रथमोऽध्यायः ॥ १॥
२.२ द्वितीयोऽध्यायः
कंससंकेतः आर्यानुशासनं च KaMsa's fear, and viShNu's instruction to yogamAya
वैशम्पायन उवाच ।
सोऽज्ञापयतसंरब्धः सचिवानान्मनो हि तान् ।
यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने ॥ १॥
प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि ।
मूलादेव तु हन्तव्यः सोऽनर्थो यत्र संशयः ॥ २॥
देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता ।
स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम् ॥ ३॥
मासान् वै पुष्पमासादीन्गणयन्तु मम स्त्रियः ।
परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ॥ ४॥
वसुदेवस्तु संरक्ष्यः स्त्रीसनाथासु भूमिषु ।
अप्रमत्तैर्मम हितै रात्रावहनि चैव हि ।
-
स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न तु कारणम् ॥ ५॥
एष मानुष्यको यत्नो मानुषैरेव साध्यते ।
श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥ ६॥
मन्त्रग्रामैः सुविहितैरौषधैश्च सुयोजितैः ।
यस्तेन चानुकूलेन दैवमप्यनुलोम्यते ॥ ७॥
वैशम्पायन उवाच ।
एवं स यत्नवान् कंसो देवकीगर्भकृन्तने ।
भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै ॥ ८॥
एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् ।
अन्तर्धानं गतो विष्णुश्चिन्तयामास वीर्यवान् ॥ ९॥
सप्तेमान् देवकीगर्भान् भोजपुत्रो वधिष्यति ।
अष्टमे च मया गर्भे कार्यमाधानमात्मनः ॥ २.२.१०॥
तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः ।
यत्र ते गर्भशयनाः षड्गर्भा नाम दानवाः ॥ ११॥
विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः ।
अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः ॥ १२॥
ते ताततातं सन्त्यज्य हिरण्यकशिपुं पुरा ।
उपासाञ्चक्रिरे दैत्याः पुरा लोकपितामहम् ॥ १३॥
तप्यमानास्तपस्तीव्रं जटामण्डलधारिणः ।
तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरं ददौ ॥ १४॥
ब्रह्मोवाच ।
भो भो दानवशार्दूलास्तपसाहं सुतोषितः ।
ब्रूत वो यस्य यः कामस्तस्य तं तं करोम्यहम् ॥ १५॥
ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् ।
यदि नो भगवान् प्रीतो दीयतां नो वरो वरः ॥ १६॥
अवध्याः स्याम भगवन् दैवतैः समहोरगैः ।
शापप्रहरणैश्चैव स्वस्ति नोऽस्तु महर्षिभिः ॥ १७॥
यक्षगन्धर्वपतिभिः सिद्धचारणमानवैः ।
मा भूद् वधो नो भगवन्ददासि यदि नो वरम् ॥ १८॥
तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना ।
भवद्भिर्यदिदं प्रोक्तं सर्वमेतद् भविष्यति ॥ १९॥
षड्गर्भाणां वरं दत्त्वा स्वयम्भूस्त्रिदिवं गतः ।
ततो हिरण्यकशिषुः सरोषो वाक्यमब्रवीत् ॥ २.२.२०॥
मामुन्मृज्य वरो यस्माद्धृतो वः पद्मसम्भवात् ।
तस्माद् वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम्।२१॥
षङ्गर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः ।
स एव वो गर्भगतान् पिता सर्वान्वधिष्यति ॥ २२॥
षडेव देवकीगर्भे षड्गर्भा वै महासुराः ।
भविष्यथ ततः कंसो गर्भस्थान्वो वधिष्यति ॥ २३॥
वैशम्पायन उवाच ।
जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः ।
षङ्गर्भाः संयताः सन्ति जले गर्भगृहेशयाः ॥ २४॥
सन्ददर्श जले सुप्तान् षड्गर्भान् गर्भसंस्थितान् ।
निद्रया कालरूपिण्या सर्वानन्तर्हितान्स वै ॥ २५॥
स्वप्नरूपेण तेषां वै विष्णुर्देहानथाविशत् ।
प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा ॥ २६॥
तां चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः ।
गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् ॥ २७॥
इमान्प्राणेश्वरान् गृह्य षड्गर्भान् दानवोत्तमान् ।
षङ्गर्भान् देवकोगर्भे योजयस्व यथाक्रमम् ॥ २८॥
जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम् ।
कंसस्य विफले यत्ने देवक्याः सफले श्रमे ॥ २९॥
प्रसादं ते करिष्यामि मत्प्रभावसमं भुवि ।
येन सर्वस्य लोकस्य देवि देवी भविष्यसि ॥ २.२.३०॥
सप्तमो देवकीगर्भो योंऽशः सौम्यो ममाग्रजः ।
स सङ्क्रामयितव्यस्ते सप्तमे मासि रोहिणीम् ॥ ३१॥
सङ्कर्षणात्तु गर्भस्य स तु सङ्कर्षणो युवा ।
भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः ॥ ३२॥
पतितो देवकीगर्भः सप्तमोऽयं भयादिति ।
अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति ॥ ३३॥
या तु सा नन्दगोपस्य दयिता भुवि विश्रुता ।
यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा ॥ ३४॥
तस्यास्त्वं नवमो गर्भः कुलेऽस्माकं भविष्यसि ।
नवम्यामेव सञ्जाता कृष्णपक्षस्य वै तिथौ ॥ ३५॥
अहं त्वभिजितो योगे निशायां यौवने स्थिते ।
अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् ॥ ३६॥
अष्टमस्य तु मासस्य जातावावां ततः समम् ।
प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य नाशने ॥ ३७॥
अहं यशोदां यास्यामि त्वं देवि भज देवकीम् ।
आवयोर्गर्भसंयोगे कंसो गच्छतु मूढताम् ॥ ३८॥
ततस्त्वां गृह्य चरणे शिलायां पातयिष्यति ।
निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम् ॥ ३९॥
मच्छवीसदृशी कृष्णा सङ्कर्षणसमानना ।
बिभ्रती विपुलौ बाहूपमौ दिवि ॥ २.२.४०॥
त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् ।
पात्रीं च पूर्णं मधुना पङ्कजं च सुनिर्मलम् ॥ ४१॥
नीलकौशेयसंवीता पीतेनोत्तरवाससा ।
शशिरस्मिप्रकाशेन हारेणोरसि राजता ॥ ४२॥
दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ।
चन्द्रसापत्नभूतेन मुखेन त्वं विराजिता ॥ ४३॥
मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभैर्भुजैर्भीमैर्भूषयन्ती दिशो दश ॥ ४४॥
ध्वजेन शिखिबर्हेण उच्छ्रितेन विराजता ।
अङ्गजेन मयूराणामङ्गदेन च भास्वता ॥ ४५॥
कीर्णा भूतगणैर्घोरैर्मन्नियोगानुवर्तिनी ।
कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि ॥ ४६॥
तत्र त्वां शतदृक्छक्रो मत्प्रदिष्टेन कर्मणा ।
अभिषेकेण दिव्येन दैवतैः सह योक्ष्यसे ॥ ४७॥
तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः ।
कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि ॥ ४८॥
स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् ।
ततः स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि ॥ ४९॥
त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचना ।
चरिष्यसि महाभागे वरदा कामरूपिणी ॥ २.२.५०॥
तत्र शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ।
तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि ॥ ५१॥
कृत्वानुयात्रां भूतैस्त्वं सुरामांसबलिप्रिया ।
तिथौ नवम्यां पूजां त्वं प्राप्स्यसे सपशुक्रियाम् ॥ ५२॥
ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः ।
तेषां न दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ ५३॥
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ ५४॥
त्वां तु स्तोष्यन्ति ये भक्त्या स्तवेनानेन वै शुभे ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुअर्वणि भारावतरणे निद्रासंविज्ञाने द्वितीयोऽध्यायः ॥ २॥
२.३ तृतीयोऽध्यायः
आर्यास्तवः Hymn to Arya
आर्यायाः स्तुतिः
वैशम्पायन उवाच ।
आर्यास्तवं प्रवक्ष्यामि यथोक्तमृषिभिः पुरा ।
नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ॥ १॥
त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या सन्नतिर्मतिः ।
सन्ध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ॥ २॥
आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य उग्रचारी महाबला ॥ ३॥
जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥ ४॥
बहुरूपा विरूपा च अनेकविधिचारिणी ।
विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥ ५॥
पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।
वासस्ते च महादेवि वनेषूपवनेषु च ॥ ६॥
शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता ।
मयूरपिच्छध्वजिनी लोकान् क्रमसि सर्वशः ॥ ७॥
कुकुटैश्छागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला ।
घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ॥ ८॥
त्रिशूलपट्टिशधरा सूर्यचन्द्रपताकिनी ।
नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा ॥ ९॥
भगिनी बलदेवस्य रजनी कलहप्रिया ।
आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥ २.३.१०॥
नन्दगोपसुता चैव देवानां विजयावहा ।
चीरवासाः सुवासाश्च रौद्री सन्ध्याचरी निशा ॥ ११॥
प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।
लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥ १२॥
सावित्री चापि देवानां माता भूतगणस्य च ।
कन्यानां ब्रह्मचर्यं त्वं सौभाग्यं प्रमदासु च ॥ १३॥
अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ।
कर्षकाणां च सीतेति भूतानां धरणीति च ॥ १४॥
सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च ॥।
यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥ १५॥
ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा ।
ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥ १६॥
राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च ।
पूर्णा च पूर्णिमा चन्द्रे कृत्तिवासा इति स्मृता ॥ १७॥
सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा ।
ऋषीणां धर्मबुद्धिस्तु देवानां मानसी तथा ॥ १८॥
सुरा देवी तु भूतेषु स्तूयसे त्वं स्वकर्मभिः ।
इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च ॥ १९॥
तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ।
क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च ॥ २.३.२०॥
स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती ।
आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम् ॥ २१॥
दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ।
शकुनी पूतना त्वं च रेवती च सुदारुणा ॥ २२॥
निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा ।
विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा ॥ २३॥
नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः ।
अरुन्धती च साध्वीनां प्रजापतिवचो यथा ॥ २४॥
पर्यायनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता ।
त्वया व्याप्तमिदं सर्वं जगत् स्थावरजङ्गमम् ॥ २५॥
सङ्ग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ।
नदीतीरेषु चौरेषु कान्तारेषु भयेषु च ॥ २६॥
प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ।
प्रणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः ॥ २७॥
त्वयि मे हदयं देवि त्वयि चित्तं मनस्त्वयि ।
रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि ॥ २८॥
इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् ।
यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ॥ २९॥
त्रिभिर्मासैः काङ्क्षितं च फलं वै सम्प्रयच्छसि ।
षड्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छसि ॥ २.३.३०॥
अर्चिता तु त्रिभिर्मासैर्दिव्यं चक्षुः प्रयच्छसि ।
संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छसि ॥ ३१॥
सत्यं ब्रह्म च दिव्यं च द्वैपायनवचो यथा ।
नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् ॥ ३२॥
व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि ।
भविष्यसि महाभागे वरदा कामरूपिणी ॥ ३३॥
मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् ।
अहमप्यात्मनो वृत्तिं विधास्ये गोषु गोपवत् ॥ ३४॥
समृद्ध्यर्थमहं चैव करिष्ये कंसगोपताम् ।
एवं तां स समादिश्य गतोऽन्तर्धानमीश्वरः ॥ ३५॥
सा चापि तं नमस्कृत्य तथास्त्विति च निश्चिता ॥ ३६॥
यश्चैतत् पठते स्तोत्रं शृणुयाद् वाप्यभीक्ष्णशः ।
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः ॥ ३७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने आर्यास्तुतौ तृतीयोऽध्यायः ॥ ३॥
२.४ चतुर्थोऽध्यायः
विश्न्ववतारवर्णनम् ViShNu's incarnation
कंसेन देवक्याः नवजातानां शिशूनां हननम्, योगमायया देवक्याः सप्तमस्य गर्भस्य सङ्कर्षणम्, श्रीकृष्णस्य प्राकट्यं नन्दभवने प्रवेशं च, कंसेन नन्दकन्यायाः हननस्य चेष्टा एवं तस्याः दिव्यरूपस्य दर्शनम्, कंसेन क्षमाप्रार्थना एवं देवक्या तस्मै क्षमादानं
वैशम्पायन उवाच ।
कृते गर्भविधाने तु देवकी देवतोपमा ।
जग्राह सप्त तान्गर्भान्यथावत् समुदाहृतान् ॥ १॥
षङ्गर्भान् निस्सृतान् कंसस्ताञ्जघान शिलातले ।
आपन्तं सप्तमं गर्भं सा निनायाथ रोहिणीम् ॥ २॥
अर्धरात्रे स्थितं गर्भं पातयन्ती रजस्वला ।
निद्रया सहसाऽऽविष्टा पपात धरणीतले ॥ ३॥
सा स्वप्नमिव तं दृष्ट्वा गर्भं निःसृतमात्मनः ।
अपश्यन्ती च तं गर्भं मुहूर्ते व्यथिताभवत् ॥ ४॥
तामाह निद्रा संविग्नां नैशे तमसि रोहिणीम् ।
रोहिणीमिव सोमस्य वसुदेवस्य धीमतः ॥ ५॥
कर्षणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै ।
सङ्कर्षणो नाम सुतः शुभे तव भविष्यति ॥ ६॥
सा तं पुत्रमवाप्यैवं हृष्टा किञ्चिदवाङ्मुखी ।
विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा ॥ ७॥
तस्य गर्भस्य मार्गेण गर्भमाधत्त देवकी ।
यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः ॥ ८॥
तं तु गर्भं प्रयत्नेन ररक्षुस्तस्य मन्त्रिणः ।
सोऽप्यत्र गर्भवसतौ वसत्वात्मेच्छया हरिः ॥ ९॥
यशोदापि समाधत्त गर्भं तदहरेव तु ।
विष्णोः शरीरजां निद्रां विष्णुनिर्देशकारिणीम् ॥ २.४.१०॥
गर्भकाले त्वसम्पूर्णे अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च सुषुवाते समं तदा ॥ ११॥
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलोद्वहः ।
तामेव रजनीं कन्यां यशोदापि व्यजायत ॥ १२॥
नन्दगोपस्य भार्यैका वसुदेवस्य चापरा ।
तुल्यकालं च गर्भिण्यौ यशोदा देवकी तथा ॥ १३॥
देवक्यजनयद्विष्णुं यशोदा तां तु दारिकाम् ।
मुहूर्तेऽभिजिति प्राप्ते सार्धरात्रे विभूषिते ॥ १४॥
सागराः समकम्पन्त चेलुश्च धरणीधराः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ १५॥
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद् रजः ।
ज्योतींष्यतिव्यकाशन्त जायमाने जनार्दने ॥ १६॥
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ।
मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥ १७॥
अव्यक्तः शाश्वतः सूक्ष्मो हरिर्नारायणः प्रभुः ।
जायमानो हि भगवान्नयनैर्मोहयन् प्रभुः ॥ १८॥
अनाहता दुन्दुभयो देवानां प्राणदन् दिवि ।
आकाशात् पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥ १९॥
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः ॥ २.४.२०॥
जायमाने हृषीकेशे प्रहृष्टमभवज्जगत् ।
इन्द्रश्च त्रिदशैः सार्धं तुष्टाव मधुसूदनम् ॥ २१॥
वसुदेवश्च तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः ।
उवाच वसुदेवस्तु रूपं संहर वै प्रभो ॥ २२॥
भीतोऽहं देव कंसस्य तस्मादेवं ब्रवीम्यहम् ।
मम पुत्रा हतास्तेन तव ज्येष्ठाम्बुजेक्षण ॥ २३॥
वैशम्पायन उवाच ।
वसुदेववचः श्रुत्वा रूपं चाहरदच्युतः ।
अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय ॥ २४॥
वसुदेवस्तु सङ्गृह्य दारकं क्षिप्रमेव च ।
यशोदाया गृहं रात्रौ विवेश सुतवत्सलः ॥ २५॥
यशोदायास्त्वविज्ञातस्तत्र निक्षिप्य दारकम् ।
प्रगृह्य दारिकां चैव देवकीशयने न्यसत् ॥ २६॥
परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् ॥ २७॥
उग्रसेनसुतायाथ कंसायानकदुन्दुभिः ।
निवेदयामास तदा तां कन्यां वरवर्णिनीम् ॥ २८॥
तच्छ्रुत्वा त्वरितः कंसो रक्षिभिः सह वेगिभिः ।
आजगाम गृहद्वारं वसुदेवस्य वीर्यवान् ॥ २९॥
स तत्र त्वरितं द्वारि किं जातमिति चाब्रवीत् ।
दयितां शीघ्रमित्येवं वाग्भिः समभितर्जयत् ॥ २.४.३०॥
ततो हाहाकृताः सर्वा देवकीभवने स्त्रियः ।
उवाच देवकी दीना बाष्पगद्गदया गिरा ॥ ३१॥
दारिका तु प्रजातेति कंसं समभियाचती ।
श्रीमन्तो मे हताः सप्त पुत्रगर्भास्त्वया विभो ॥ ३२॥
दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे ।
दृष्ट्वा कंसस्तु तां कन्यामाकृष्यत मुदा युतः ॥ ३३॥
हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः ।
सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा ॥ ३४॥
कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा ।
स चैनां गृह्य पुरुषः खमाविध्यावधूय च ॥ ३५॥
उद्यच्छन्नेव सहसा शिलायां समपोथयत् ।
सावधूता शिलापृष्ठेऽनिष्पिष्टा दिवमुत्पतत् ॥ ३६॥
हित्वा गर्भतनुं सा तु सहसा मुक्तमूर्धजा ।
जगाम कसमादिश्य दिव्यस्रगनुलेपना ॥ ३७॥
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषिता ।
कन्यैव साभवन्नित्यं दिव्या देवैरभिष्टुता ॥ ३८॥
नीलपीताम्बरधरा गजकुम्भोपमस्तनी ।
रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा ॥ ३९॥
विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा ।
पयोधरस्तनवती सन्ध्येव सपयो धरा ॥ २.४.४०॥
सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले ।
नृत्यती हसती चैव विपरीतेन भास्वती ॥ ४१॥
विहायसि गता रौद्रा पपौ पानमनुत्तमम् ।
जहास च महाहासं कंसं च रुषिताब्रवीत् ॥ ४२॥
कंस कंसात्मनाशाय यदहं घातिता त्वया ।
सहसा च समुत्क्षिप्य शिलायामभिपोथिता ॥ ४३॥
तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर्देहमुष्णं पास्यामि शोणितम् ॥ ४४॥
एवमुक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना ।
खं सा देवालयं देवी सगणा विचचार ह ॥ ४५॥
सा कन्या ववृधे तत्र वृष्णिसङ्घसुपूजिता ।
पुत्रवत् पाल्यमाना सा वसुदेवाज्ञया तदा ॥ ४६॥
विद्धि चैनामथोत्पन्नामंशाद् देवीं प्रजापतेः ।
एकानंशां योगकन्यां रक्षार्थं केशवस्य तु ॥ ४७॥
तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद् दिव्यवपुषा कृष्णः संरक्षितो यया ॥ ४८॥
तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः ।
विविक्ते देवकीं चैव व्रीडितः समभाषत ॥ ४९॥
कंस उवाच ।
मृत्योः स्वसः कृतो यत्नस्तव गर्भा मया हताः ।
अन्य एवान्यतो देवि मम मृत्युरुपस्थितः ॥ २.४.५०॥
नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया ।
दैवं पुरुषकारेण न चातिक्रान्तवानहम् ॥ ५१॥
त्यज गर्भकृतां चिन्तां सन्तापं पुत्रजं त्यज ।
हेतुभूतस्त्वहं तेषां सति कालविपर्यये ॥ ५२॥
काल एव नृणां शत्रुः कालश्च परिणामकः ।
कालो नयति सर्वं वै हेतुभूतस्तु मद्विधः ॥ ५३॥
आगमिष्यन्ति वै देवि यथाभागमुपद्रवाः ।
इदं तु कष्टं यज्जन्तुः कर्ताहमिति मन्यते ॥ ५४॥
मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज ।
एवं प्रायो नृणां योनिर्नास्ति कालस्य संस्थितिः ॥ ५५॥
एष ते पादयोर्मूर्ध्ना पुत्रवत् तव देवकि ।
मद्गतस्त्यज्यतां रोषो जानाम्यपकृतं त्वयि ॥ ५६॥
इत्युक्तवन्तं कंसं सा देवकी वाक्यमब्रवीत् ।
साश्रुपूर्णमुखा दीना भर्तारमुपवीक्षती ।
उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती ॥ ५७॥
देवक्युवाच ।
ममाग्रतो हता गर्भा ये त्वया कामरूपिणा ।
कारणं त्वं न वै पुत्र कृतान्तोऽप्यत्र कारणम् ॥ ५८॥
गर्भकर्तनमेतन्मे सहनीयं त्वया कृतम् ।
पादयोः पतता मूर्ध्ना स्वं च कर्म जुगुप्सता ॥ ५९॥
गर्भे च नियतो मृत्युर्बाल्येऽपि न निवर्तते ।
युवापि मृत्योर्वशगः स्थविरो मृत एव तु ॥ २.४.६०॥
कालपक्वमिदं सर्वं हेतुभूतस्तु त्वद्विधः ।
अज्ञाते दर्शनं नास्ति यथा वायुस्तथैव च ॥ ६१॥
जातोऽप्यजाततां याति विधात्रा यत्र नीयते ।
तद् गच्छ पुत्र मा ते भून्मद्गतं मृत्युकारणम् ॥ ६२॥
मृत्युना प्रहृते पूर्वं शेषो हेतुः प्रवर्तते ।
विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः ॥ ६३॥
मातापित्रोस्तु कार्येण जन्मतस्तूपपद्यते ।
वैशम्पायन उवाच ।
निशम्य देवकीवाक्यं स कंसः स्वं निवेशनम् ॥ ६४॥
प्रविवेश ससंरब्धो दह्यमानेन चेतसा ।
कृत्ये प्रतिहते दीनो जगाम विमना भृशम् ॥ ६९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णजन्मनि चतुर्थोऽध्यायः ॥ ४॥
२.५ पञ्चमोऽध्यायः
गोव्रजगमनम् Nanda relocating to vraja
वसुदेवेन नन्दाय व्रजे प्रत्यागमनस्य सम्मतिः, नन्दस्य गोव्रजस्य शोभायाः अवलोकनं तत्रागमनं च ।
वैशम्पायन उवाच ।
प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् ।
प्रज्ञातां पुत्रमेवाग्रे चन्द्रात् कान्ततराननम् ॥ १॥
स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा ।
गच्छानया सहैव त्वं व्रजमेव यशोदया ॥ २॥
तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।
योजयित्वा व्रजे तात संवर्धय यथासुखम् ॥ ३॥
रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे ।
अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ॥ ४॥
योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।
ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि सतो मम ॥ ५॥
अस्माद्धि मे भयं कंसान्निर्घृणाद् वै शिशोर्वधे ।
तद्यथा रौहिणेयं त्वं नन्दगोप ममात्मजम् ॥ ६॥
गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु ।
विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ॥ ७॥
स च पुत्रो मम ज्यायान् कनीयांश्च तथाप्ययम् ।
उभावपि समं नाम्ना निरीक्षस्व यथासुखम् ॥ ८॥
वर्धमानामुभावेतौ समानवयसौ यथा ।
शोभेतां गोव्रजे तस्मिन् नन्दगोप तथा कुरु ॥ ९॥
बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः ।
बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव ॥ २.५.१०॥
न च वृन्दावने कार्यो गवां घोषः कथञ्चन ।
भेतव्यं तत्र वसतः केशिनः पापदर्शिनः ॥ ११॥
सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च ।
गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू ॥ १२॥
नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः ।
इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणाः ॥ १३॥
रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना ।
यानं यशोदया सार्धमारुरोह मुदान्वितः ॥ १४॥
कुमारस्कन्धवाह्यायां शिबिकायां समाहितः ।
संवेशयामास शिशुं शयनीयं महामतिः ॥ १५॥
जगाम च विविक्तेन शीतलानिलसर्पिणा ।
बहूदकेन मार्गेण यमुनातीरगामिना ॥ १६॥
स ददर्श शुभे देशे गोवर्धनसमीपगे ।
यमुनातीरसम्बद्धं शीतमारुतसेवितम् ॥ १७॥
विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम् ।
गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलङ्कृतम् ॥ १८॥
समप्रचारं च गवां समतीर्थजलाशयम् ।
वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम् ॥ १९॥
भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः ।
सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम् ॥ २.५.२०॥
शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् ।
स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम् ॥ २१॥
गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् ।
हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम् ॥ २२॥
शकटावर्तविपुलं कण्टकीवाटसङ्कुलम् ।
पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः ॥ २३॥
वत्सानां रोपितैः कीलैर्दामभिश्च विभूषितम् ।
करीषाकीर्णवसुधं कटच्छन्नकुटीमठम् ॥ २४॥
क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् ।
दामनीपाशबहुलं गर्गरोद्गारनिःस्वुनम् ॥ २५॥
तक्रनिःस्रावबहुलं दधिमण्डार्द्रमृत्तिकम् ।
मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् ॥ २६॥
काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम् ।
सार्गलद्वारगोवाटं मध्ये गोस्थानसङ्कुलम् ॥ २७॥
सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ।
नीलपीताम्बराभिश्च तरुणीभिरलङ्कृतम् ॥ २८॥
वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् ।
शिरोभिर्धृतकुम्भाभिर्बद्धैरग्रस्तनाम्बरैः ॥ २९॥
यमुनातीरमार्गेण जलहारीभिरावृतम् ।
स तत्र प्रविशन् हृष्टो गोव्रजं गोपनादितम् ॥ २.५.३०॥
प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च ।
निवेशं रोचयामास परिवर्ते सुखाश्रये ॥ ३१॥
सा यत्र रोहिणी देवी वसुदेवसुखावहा ।
तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोव्रजगमनं नाम पञ्चमोऽध्यायः ॥ ५॥
२.६ षष्ठोऽध्यायः
शकटभङ्गपूतनावधौ Elimination of shakaTAsura and pUtanA
शकटभञ्जनं पूतनावधं च
वैशम्पायन उवाच ।
तत्र तस्यासतः कालः सुमहानत्यवर्तत ।
गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ॥ १॥
दारकौ कृतनामानौ ववृधाते सुखं च तौ ।
ज्येष्ठः सङ्कर्षणो नाम कनीयान् कृष्ण एव तु ॥ २॥
मेघकृष्णस्तु कृष्णोऽभूद् देहान्तरगतो हरिः ।
व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः ॥ ३॥
शकटस्य त्वधः सुप्तं कदाचित् पुत्रगृद्धिनी ।
यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ॥ ४॥
शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् ।
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ॥ ५॥
स तत्रैकेन पादेन शकटं पर्यवर्तयत् ।
न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥ ६॥
एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा ।
स्नाता प्रस्रवदिग्धाङ्गी बद्धवत्सेव सौरभी ॥ ७॥
सा ददर्श विपर्यस्तं शकटं वायुना विना ।
हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ॥ ८॥
न सा बुबोध तत्त्वेन शकटं परिवर्तितम् ।
स्वस्ति मे दारकायेति प्रीता भीता च साभवत् ॥ ९॥
किं तु वक्ष्यति ते पुत्र पिता परमकोपनः ।
त्वय्यधःशकटे सुप्ते अकस्माच्च विलोडिते ॥ २.६.१०॥
किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् ।
पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम् ॥ ११॥
एतस्मिन्नन्तरे गोभिराजगाम वनेचरः ।
काषायवाससी बिभ्रन् नन्दगोपो व्रजान्तिकम् ॥ १२॥
स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् ।
अपास्तधूर्विभिन्नाक्षं शकटं चक्रमौलिनम् ॥ १३॥
भीतस्त्वरितमागत्य सहसा साधुलोचनः ।
अपि मे स्वस्तिपुत्रायेत्यसकृद् वचनं वदन् ॥ १४॥
पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः ।
वृषयुद्धं विना केन पर्यस्तं शकटं मम ॥ १५॥
प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी ।
न विजानाम्यहं केन शकटं परिवर्तितम् ॥ १६॥
अहं नदी गता सौम्य चैलप्रक्षालनार्थिनी ।
आगता च विपर्यस्तमपश्यं शकटं भुवि ॥ १७॥
तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः ।
अनेन शिशुना यानमेतत् पादेन लोडितम् ॥ १८॥
अस्माभिः सम्पतद्भिश्च दृष्टमेतद् यदृच्छया ।
नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ॥ १९॥
प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् ।
न च ते श्रद्दधुर्गोपाः सर्वे मानुषबुद्धयः ॥ २.६.२०॥
आश्चर्यमिति ते सर्वे विस्मयोत्फुल्ललोचनाः ।
स्वे स्थाने शकटं स्थाप्य चक्रबन्धमकारयन् ॥ २१॥
वैशम्पायन उवाच ।
कस्यचित्त्वथ कालस्य शकुनी वेषधारिणी ।
धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥ २२॥
पूतना नाम शकुनी घोरा प्राणिभयङ्करी ।
आजगामार्द्धरात्रे वै पक्षौ क्रोधाद् विधुन्वती ॥ २३॥
ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत ।
व्याघ्रगम्भीरनिर्घोषं व्याहरन्ती पुनः पुनः ॥ २४॥
निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी ।
ददौ स्तनं च कृष्णाय तस्मिन् सुप्ते जने निशि ॥ २५॥
तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च ।
छिन्नस्तनी तु सहसा पपात शकुनी भुवि ॥ २६॥
तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात् ।
स नन्दगोपो गोपा वै यशोदा च सुविक्लवा ॥ २७॥
ते तामपश्यन् पतितां विसंज्ञां विपयोधराम् ।
पूतनां पतितां भूमौ वज्रेणेव विदारिताम् ॥ २८॥
इदं किं त्विति सन्त्रस्ताः कस्येदं कर्म चेत्यपि ।
नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन् ॥ २९॥
नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन ।
आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान् ॥ २.६.३०॥
गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् ।
यशोदां नन्दगोपस्तु पप्रच्छ गतसम्भ्रमः ॥ ३१॥
कोऽयं विधिर्न जानामि विस्मयो मे महानयम् ।
पुत्रस्य मे भयं तीव्रं भीरुत्वं समुपागतम् ॥ ३२॥
यशोदा त्वब्रवीद् भीता नार्य जानामि किं त्विदम् ।
दारकेण सहानेन सुप्ता शब्देन बोधिता ॥ ३३॥
यशोदायामजानन्त्यां नन्दगोपः सबान्धवः ।
कंसाद् भयं चकारोग्रं विस्मयं च जगाम ह ॥ ३४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां शकटभङ्गपूतनावधे षष्ठोऽध्यायः ॥ ६॥
२.७ सप्तमोऽध्यायः
यमलार्जुनभङ्गः The snapping of yamala-arjuna trees
श्रीकृष्णबलरामाभ्यां व्रजे जानुभ्यां रिङ्गणं एवं श्रीकृष्णेन
आत्मानं उलूखले बद्ध्वा यमलार्जुनभङ्गकरणं
वैशम्पायन उवाच ।
काले गच्छति तौ सौम्यौ दारकौ कृतनामकौ ।
कृष्णसङ्कर्षणौ चोभौ रिङ्गिणौ समपद्यताम् ॥ १॥
तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ ।
एकमूर्तिधरौ कान्तौ बालचन्द्रार्कवर्चसौ ॥ २॥
एकनिर्माणनिर्मुक्तावेकशय्यासनाशनौ ।
एकवेषधरावेकं पुष्यमाणौ शिशुव्रतम् ॥ ३॥
एककार्यान्तरगतावेकदेहौ द्विधाकृतौ ।
एकचर्यौ महावीर्यावेकस्य शिशुतां गतौ ॥ ४॥
एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ ।
कृत्स्नस्य जगतो गोपौ संवृत्तौ गोपदारकौ ॥ ५॥
अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ ।
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे ॥ ६॥
विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ ।
रेजतुः पांसुदिग्धाङ्गौ दृप्तौ कलभकाविव ॥ ७॥
क्वचिद् भस्मप्रदीप्ताङ्गौ करीषप्रोक्षितौ क्वचित् ।
तौ तत्र पर्यधावेतां कुमाराविव पावकी ॥ ८॥
क्वचिज्जानुभिरुद्घृष्टैः सर्पमाणौ विरेजतुः ।
क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ ॥ ९॥
शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः ।
जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित्क्वचित् ॥ २.७.१०॥
तौ तत्र कौतूहलिनौ मूर्धजव्याकुलेक्षणौ ।
रेजतुश्चन्द्रवदनौ दारकौ सुकुमारकौ ॥ ११॥
अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ ।
नाशकत् तौ वारयितुं नन्दगोपः सुदुर्मदौ ॥ १२॥
ततो यशोदा सङ्क्रुद्धा कृष्णं कमललोचनम् ।
आनाय्य शकटीमूले भर्त्सयन्ती पुनः पुनः ॥ १३॥
दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुलूखले ।
यदि शक्तोऽसि गच्छेति तमुक्त्वा कर्म साकरोत् ॥ १४॥
व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् ।
शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम् ।
सोऽङ्गणान्निःसृतः कृष्णः कर्षमाण उलूखलम् ॥ १५॥
यमलाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन् वने ।
मध्यान्निश्चक्राम तयोः कर्षमाण उलूखलम् ॥ १६॥
तत्तस्य कर्षतो बद्धं तिर्यग्गतमुलूखलम् ।
लग्नं ताभ्यां समूलाभ्यामर्जुनाभ्यां चकर्ष च ॥ १७॥
तावर्जुनौ कृष्यमाणौ तेन बालेन रंहसा ।
समूलविटपौ भग्नौ स तु मध्ये जहास वै ॥ १८॥
निदर्शनार्थं गोपानां दिव्यं स्वबलमास्थितः ।
तद्दाम तस्य बालस्य प्रभावादभवद् दृढम् ॥ १९॥
यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् ।
क्रन्दन्त्यो विस्मयन्त्यश्च यशोदां ययुरङ्गनाः ॥ २.७.२०॥
तास्तु सम्भ्रान्तवदना यशोदामूचुरङ्गनाः ।
एह्यागच्छ यशोदे त्वं सम्भ्रमात् किं विलम्बसे ॥ २१॥
यौ तावर्जुनवृक्षौ तु व्रजे सत्योपयाचनौ ।
पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ ॥ २२॥
दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे ।
जहास वृक्षयोर्मध्ये तव पुत्रः स बालकः ॥ २३॥
उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि ।
पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव ॥ २४॥
सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती ।
तं देशमगमद् यत्र पातितौ तावुभौ द्रुमौ ॥ २५॥
सा ददर्श तयोर्मध्ये द्रुमयोरात्मजं शिशुम् ।
दाम्ना निबद्धमुदरे कर्षमाणमुलूखलम् ॥ २६॥
सगोपीगोपवृद्धश्च समुवाच व्रजस्तदा ।
पर्यागच्छन्त ते द्रष्टुं गोपेषु महदद्भुतम् ॥ २७॥
जजल्पुस्ते यथाकामं गोपा वनविचारिणः ।
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥ २८॥
विना वातं विना वर्षं विद्यत्प्रपतनं विना ।
विना हस्तिकृतं दोष केनेमौ पातितौ द्रुमौ ॥ २९॥
अहो बत न शोभेतां विमूलावर्जुनाविमौ ।
भूमौ निपतितौ वृक्षौ वितोयौ जलदाविव ॥ २.७.३०॥
यदीमौ घोषरचितौ घोषकल्याणकारिणौ ।
नन्दगोप प्रसन्नौ ते द्रुमावेवं गतावपि ।
यच्च ते दारको मुक्तो विपुलाभ्यामपि क्षितौ ॥ ३१॥
औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह ।
पूतनाया विनाशश्च द्रुमयोः शकटस्य च ॥ ३२॥
अस्मिन् स्थाने च वासोऽयं घोषस्यास्य न युज्यते ।
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ॥ ३३॥
नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुलूखलात् ।
निवेश्य चाङ्के सुचिरं मृतं पुनरिवागतम् ॥ ३४॥
नातृप्यत् प्रेक्षमाणो वै कृष्णं कमललोचनम् ।
ततो यशोदां गर्हन् वै नन्दगोपो विवेश ह ॥ ३५॥
स च गोपजनः सर्वो व्रजमेव जगाम ह ।
स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥ ३६॥
एतदाश्चर्यभूतं हि बालस्यासीद् विचेष्टितम् ।
कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा ॥ ३७॥
इति श्रीमहाभारते खिलमागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां यमलार्जुनभङ्गो नाम सप्तमोऽध्यायः ॥ ७॥
२.८ अष्टमोऽध्यायः
वृकवर्णनम् Attack by wolves
श्रीकृष्णबलरामयोः बालचर्या, श्रीकृष्णेन व्रजं अन्यत्र नेतुं चेष्टा,
स्वदेहात् वृकाणां उत्पत्तिं कृत्वा सर्वस्य व्रजस्य भीतिकरणं
वैशम्पायन उवाच ।
एवं तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ।
तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुः ॥ १॥
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ ॥ २॥
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ।
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ॥ ३॥
मयूराङ्गदकर्णौ तु पल्लवापीडधारिणौ ।
वनमालाकुलोरस्कौ द्रुमपोताविवोद्गतौ ॥ ४॥
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ।
सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ ॥ ५॥
क्वचिद्धसन्तावन्योन्यं क्रीडमानौ क्वचित्क्वचित् ।
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरेक्षणौ ॥ ६॥
एवं वत्सान् पालयन्तौ शोभयन्तौ महावनम् ।
चञ्चूर्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥ ७॥
अथ दामोदरः श्रीमान् सङ्कर्षणमुवाच ह ।
आर्य नास्मिन् वने शक्यं गोपालैः सह क्रीडितुम् ॥ ८॥
अवगीतमिदं सर्वमावाभ्यां भुक्तकाननम् ।
प्रक्षीणतृणकाष्ठं च गोपैर्मथितपादपम् ॥ ९॥
घनीभूतानि यान्यासन् काननानि वनानि च ।
तान्याकाशनिकाशानि दृश्यन्तेऽद्य यथाऽसुखम् ॥ २.८.१०॥
गोवाटेष्वपि ये वृक्षाः परिवृत्तार्गलेषु च ।
सर्वे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः ॥ ११॥
सन्निकृष्टानि यान्यासन्काष्ठानि च तृणानि च ।
तानि दूरावकृष्टासु मार्गितव्यानि भूमिषु ॥ १२॥
अरण्यमिदमल्पोदमल्पकक्षं निराश्रयम् ।
अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम् ॥ १३॥
अकर्मण्येषु वृक्षेषु स्थितविप्रस्थितद्विजम् ।
संवासस्यास्य महतो जनेनोत्सादितद्रुमम् ॥ १४॥
निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् ।
निर्विहङ्गमिदं शून्यं निर्व्यञ्जनमिवाशनम् ॥ १५॥
विक्रीयमाणैः काष्ठैश्च शाकैश्च वनसम्भवैः ।
उच्छिन्नसञ्चयतृणैर्घोषोऽयं नगरायते ॥ १६॥
शैलानां भूषणं घोषो घोषाणां भूषणं वनम् ।
वनानां भूषणं गावस्ताश्चास्माकं परा गतिः ॥ १७॥
तस्मादन्यद् वनं यामः प्रत्यग्रयवसेन्धनम् ।
इच्छन्त्यनुपभुक्तानि गावो भोक्तुं तृणानि च ॥ १८॥
तस्माद् वनं नवतृणं गच्छन्तु धनिनो व्रजाः ।
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।
प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः ॥ १९॥
शकृन्मूत्रेषु तेष्वेव जातक्षाररसायनम् ।
न तृणं भुञ्जते गावो नापि तत् पयसे हितम् ॥ २.८.२०॥
स्थलीप्रायासु रथ्यासु नवासु वनराजिषु ।
चरावः सहितौ गोभिः क्षिप्रं संवाह्यतां व्रजः ॥ २१॥
श्रूयते हि वनं रम्यं पर्याप्ततृणसंस्तरम् ।
नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम् ॥ २२॥
अझिल्लिकण्टकवनं सर्वैर्वनगुणैर्युतम् ।
कदम्बपादपप्रायं यमुनातीरसंश्रितम् ॥ २३॥
स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम् ।
गोपीनां सुखसञ्चारं चारुचित्रवनान्तरम् ॥ २४॥
तत्र गोवर्धनो नाम नातिदूरे गिरिर्महान् ।
भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः ॥ २५॥
मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः ।
भाण्डीरो नाम शुशुभे नीलमेघ इवाम्बरे ॥ २६॥
मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती ।
प्रयाता नन्दनस्येव नलिनी सरितां वरा ॥ २७॥
तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।
कालिन्दीं च नदीं रम्यां द्रक्ष्यावश्चरतः सुखम् ॥ २८॥
तत्रायं कल्प्यतां घोषस्त्यज्यतां निर्गुणं वनम् ।
सन्त्रासयावो भद्रं ते किञ्चिदुत्पाद्य कारणम् ॥ २९॥
एवं कथयतस्तस्य वासुदेवस्य धीमतः ।
प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः ॥ २.८.३०॥
घोराश्चिन्तयतस्तस्य स्वतनूरुहजास्तदा ।
विनिष्पेतुर्भयकराः सर्वशः शतशो वृकाः ॥ ३१॥
निष्पतन्ति स्म बहवो व्रजस्योत्सादनाय वै ।
वृकान् निष्पतितान्दृष्ट्वा गोषु वत्सेष्वथो नृषु ॥ ३२॥
गोपीषु च यथाकामं व्रजे त्रासोऽभवन्महान् ।
ते वृकाः पञ्चबद्धाश्च दशबद्धास्तथा परे ॥ ३३॥
त्रिंशद्विंशतिबद्धाश्च शतबद्धास्तथा परे ।
निश्चेरुस्तस्य गात्रेभ्यः श्रीवत्सकृतलक्षणाः ॥ ३४॥
कृष्णस्य कृष्णवदना गोपानां भयवर्धनाः ।
भक्षयद्भिश्च तैर्वत्सांस्त्रासयद्भिश्च गोव्रजान् ॥ ३५॥
निशि बालान् हरद्भिश्च वृकैरुत्साद्यते व्रजः ।
न वने शक्यते गन्तुं न गाश्च परिरक्षितुम् ॥ ३६॥
न वनात्किञ्चिदाहर्तुं न च वा तरितुं नदीम् ।
त्रस्ता ह्युद्विग्नमनसोऽगतास्तस्मिन्वनेऽवसन् ॥ ३७॥
एवं वृकैरुदीर्णैस्तु व्याघ्रतुल्यपराक्रमैः ।
व्रजो निष्पन्दचेष्टः स एकस्थानचरः कृतः ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां वृकदर्शनेऽष्टमोऽध्यायः ॥ ८॥
२.९ नवमोऽध्यायः
वृन्दावनप्रवेशम् Moving to vRindAvana
वृकाणां उत्पातकारणेन व्रजवासिनां तं स्थानं त्यज्य वृन्दावने गमनं भेदियोके उत्पातसे व्रजवासियोङ्का उसस्यानको छोवकर श्रीवृन्दावनमे जाना
वैशम्पायन उवाच ।
एवं वृकांश्च तान् दृष्ट्वा वर्धमानान्दुरासदान् ।
सस्त्रीपुमान्स घोषो वै समस्तोऽमन्त्रयत्तदा ॥ १॥
स्थानेनेह न नः कार्यं व्रजामोऽन्यन्महद्वनम् ।
यच्छिवं च सुखोष्यं च गवां चैव सुखावहम् ॥ २॥
अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः ।
यावद् वृकैर्वधं घोरं न नः सर्वो व्रजो व्रजेत् ॥ ३॥
एषां धूम्रारुणाङ्गानां दंष्ट्रिणां नखकर्षिणाम् ।
वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम् ॥ ४॥
मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मम ।
वृकैर्व्यापादिता ह्येवं क्रन्दन्ति स्म गृहे गृहे ॥ ५॥
तासां रुदितशब्देन गवां हम्भारवेण च ।
व्रजस्योत्थापनं चक्रुर्घोषवृद्धाः समागताः ॥ ६॥
तेषां मतमथाज्ञाय गन्तुं वृन्दावनं प्रति ।
व्रजस्य विनिवेशाय गवां चैव हिताय च ॥ ७॥
वृन्दावननिवासाय तांज्ञात्वा कृतनिश्चयान् ।
नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे ॥ ८॥
अद्यैव निश्चयप्राप्तिर्यदि गन्तव्यमेव नः ।
शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत मा चिरम् ॥ ९॥
ततोऽवघुष्यत तदा घोषे तत् प्राकृतैर्जनैः ।
शीघ्रं गावः प्रकल्प्यन्तां भाण्डं समभिरोप्यताम ॥ २.९.१०॥
वत्सयूथानि काल्यन्तां युज्यन्तां शकटानि च ।
वृन्दावनमितः स्थानान्निवेशाय च गम्यताम् ॥ ११॥
तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम् ।
उदतिष्ठद् व्रजः सर्वः शीघ्रं गमनलालसः ॥ १२॥
प्रयाह्युत्तिष्ठ गच्छामः किं शेषे याहि योजय ।
उत्तिष्ठति व्रजे तस्मिन् गोपकोलाहलो ह्यभूत् ॥ १३॥
उत्तिष्ठमानः शुशुभे शकटीशकटस्तु सः ।
व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् ॥ १४॥
गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तम्भितैर्घटैः ।
निष्पपात व्रजात्पङ्क्तिस्तारापङ्क्तिरिवाम्बरात् ॥ १५॥
नीलपीतारुणैस्तासां वस्त्रैरग्रस्तनोच्छ्रितैः ।
शक्रचापायते पङ्क्तिर्गोपीनां मार्गगामिनी ॥ १६॥
दामनीदामभारैश्च केचित् कायावलम्बिभिः ।
गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः ॥ १७॥
स व्रजो व्रजता भाति शकटौघेन भास्वता ।
पोतैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः ॥ १८॥
क्षणेन तद् व्रजस्थानमीरिणं समपद्यत ।
द्रव्यावयवनिर्धूतं कीर्णं वायसमण्डलैः ॥ १९॥
ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् ।
निवेशं विपुलं चक्रे गवां चैव हिताय च ॥ २.९.२०॥
शकटावर्तपर्यन्तं चन्द्रार्द्धाकारसंस्थितम् ।
मध्ये योजनविस्तीर्णं तावद्द्विगुणमायतम् ॥ २१॥
कण्टकीभिः प्रवृद्धाभिस्तथा कण्टकितद्रुमैः ।
निखातोच्छ्रितशाखाग्रैरभिगुप्तं समन्ततः ॥ २२॥
मन्थैरारोप्यमाणैश्च मन्थबन्धानुकर्षणैः ।
अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिरितस्ततः ॥ २३॥
कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः ।
स्तम्भनीभिर्धृताभिश्च शकटैः परिवर्तितैः ॥ २४॥
नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु ।
छादनार्थं प्रकीर्णैश्च कटकैस्तृणसङ्कटैः ॥ २५॥
शाखाविटङ्कैर्वृक्षाणां क्रियमाणैरितस्ततः ।
शोध्यमानैर्गवां स्थानैः स्थाप्यमानैरुलूखलैः ॥ २६॥
प्राङमुखैः सिच्यमानैश्च सन्दीप्यद्भिश्च पावकैः ।
सवत्सचर्मास्तरणैः पर्यङ्कैश्चावरोपितैः ॥ २७॥
तोयमुत्तारयन्तीभिः प्रेक्षन्तीभिश्च तद् वनम् ।
शाखाश्चाकर्षमाणाभिर्गोपीभिश्च समन्ततः ॥ २८॥
युवभिः स्थविरैश्चैव गोपैर्व्यग्रकरैर्भृशम् ।
विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि ॥ २९॥
तद् व्रजस्थानमधिकं शुशुभे काननावृतम् ।
रम्यं वननिवेशं वै स्वादुमूलफलोदकम् ॥ २.९.३०॥
तास्तु कामदुघा गावः सर्वपक्षिरुतं वनम् ।
वृन्दावनमनुप्राप्ता नन्दनोपमकाननम् ॥ ३१॥
पूर्वमेव तु कृष्णेन गवां वै हितकारिणा ।
शिवेन मनसा दृष्टं तद् वनं वनचारिणा ॥ ३२॥
पश्चिमे तु ततो रूक्षे घर्मे मासे निरामये ।
वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत ॥ ३३॥
न तत्र वत्साः सीदन्ति न गावो नेतरे जनाः ।
यत्र तिष्ठति लोकानां भवाय मधुसूदनः ॥ ३४॥
ताश्च गावः स घोषस्तु स च सङ्कर्षणो युवा ।
कृष्णेन विहितं वासं तमध्यासत निर्वृताः ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृन्दावनप्रवेशे नवमोऽध्यायः ॥ ९॥
२.१० दशमोऽध्यायः
प्रावृड्वर्णनम् Description of the rainy season
वर्षाऋतुवर्णनं
वैशम्पायन उवाच ।
तौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ ।
चेरतुर्वत्सयूथानि चारयन्तौ सुरूपिणौ ॥ १॥
पूर्णस्तु घर्मसमयस्तयोस्तत्र वने सुखम् ।
क्रीडतोः सह गोपालैर्यमुनां चावगाहतोः ॥ २॥
ततः प्रावृडनुप्राप्ता मनसः कामदीपिनी ।
प्रववर्षुर्महामेघाः शक्रचापाङ्कितोदराः ॥ ३॥
बभूवादर्शनः सूर्यो भूमिश्चादर्शना तृणैः ।
पतता मेघवातेन नवतोयानुकर्षिणा ॥ ४॥
सम्मार्जिततला भूमिर्यौवनस्थेव लक्ष्यते ॥ ५॥
नववर्षावसिक्तानि शक्रगोपकुलानि च ।
नष्टदावाग्निधूमानि वनानि प्रचकाशिरे ॥ ६॥
नृत्यव्यापारकालश्च मयूराणां कलापिनाम् ।
मदरक्ताः प्रवृत्ताश्च केकाः पटुरवास्तथा ॥ ७॥
नवप्रावृषि कान्तानां षट्पदाहारदायिनाम् ।
यौवनस्थकदम्बानां नवाभ्रैर्भ्राजते वपुः ॥ ८॥
हासितं कुटजैर्वृक्षैः कदम्बैर्वासितं वनम् ।
नाशितं जलदैरुष्णं तोषिता वसुधा जलैः ॥ ९॥
सन्तप्ता भास्करकरैरभितप्ता दवाग्निभिः ।
जलैर्बलाहकोत्सृष्टैरुच्छ्वसन्तीव पर्वताः ॥ २.१०.१०॥
महावातसमुद्भूतं महामेघगणार्पितम् ।
महीमहाराजपुरैस्तुल्यमापद्यते नभः ॥ ११॥
क्वचित्कदम्बहासाख्यं शिलीन्ध्राभरणं क्वचित् ।
सम्प्रदीप्तमिवाभाति फुल्लनीपद्रुमं वनम् ॥ १२॥
ऐन्द्रेण पयसा सिक्तं मारुतेन च विस्मृतम् ।
पार्थिवं गन्धमाघ्राय लोकः क्षुभितमानसः ॥ १३॥
दृप्तसारङ्गनादेन दर्दुरव्याहृतेन च ।
नवैश्च शिखिविक्रुष्टैरवकीर्णा वसुन्धरा ॥ १४॥
भ्रमत्तूर्णमहावर्ता वर्षप्राप्तमहारयाः ।
हरन्त्यस्तीरजान् वृक्षान्विस्तारं यान्ति निम्नगाः ॥ १५॥
सन्ततासारनिर्यत्नाः क्लिन्नयत्नोत्तरच्छदाः ।
न त्यजन्ति नगाग्राणि श्रान्ता इव पतत्त्रिणः ॥ १६॥
तोयगम्भीरलम्बेषु स्रवत्सु च नदत्सु च ।
उदरेषु नवाभ्राणां मज्जतीव दिवाकरः ॥ १७॥
महीरुहैरुत्पतितैः सलिलोत्पीडसङ्कुला ।
अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी ॥ १८॥
वज्रेणेवावरुग्णानां नगानां नगशालिनाम् ।
स्रोतोभिः परिकृत्तानि पतन्ति शिखराण्यधः ॥ १९॥
पतता मेघवर्षेण यथा निम्नानुसारिणा ।
पल्वलोत्कीर्णमुक्तेन पूर्यन्ते वनराजयः ॥ २.१०.२०॥
हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः ।
भ्रान्तातिवृष्ट्या मातङ्गा गां गता इव तोयदाः ॥ २१॥
प्रावृट्प्रवृत्तिं सन्दृश्य दृष्ट्वा चाम्बुधरान् घनान् ।
रौहिणेयो मिथः काले कृष्णं वचनमब्रवीत् ॥ २२॥
पश्य कृष्ण घनान् कृष्णान् बलाकोज्ज्वलभूषणान् ।
गगने तव गात्रस्य वर्णचोरान् समुच्छ्रितान् ॥ २३॥
तव निद्राकरः कालस्तव गात्रोपमं नभः ।
त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम् ॥ २४॥
एतन्नीलाम्बुदश्यामं नीलोत्पदलप्रभम् ।
सम्प्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः ॥ २५॥
पश्य कृष्ण जलोदग्रैः कृष्णैरुद्ग्रथितैर्घनैः ।
गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः ॥ २६॥
पतितेनाम्भसा ह्येते समन्तान्मददर्पिताः ।
भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः ॥ २७॥
एतान्यम्बुप्रहृष्टानि हरितानि मृदूनि च ।
तृणानि शतपत्राक्ष पत्रैर्गूहन्ति मेदिनीम् ॥ २८॥
क्षरज्जलानां शैलानां वनानां जलदागमे ।
ससस्यानां च सीमानां न लक्ष्मीर्व्यतिरिच्यते ॥ २९॥
शीघ्रवातसमुद्भूताः प्रोषितौत्सुक्यकारिणः ।
दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः ॥ २.१०.३०॥
हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम ।
विबाणज्येन रचितं तवेदं मध्यमं पदम् ॥ ३१॥
नभस्येष नभश्चक्षुर्न भात्येव चरन्नभः ।
मेघैः शीतातपकरो विरश्मिरिव रश्मिवान् ॥ ३२॥
द्यावापृथिव्योः संसर्गः सततं विततैः कृतः ।
अव्यवच्छिन्नधारौघैः समुद्रौघसमैर्घनैः ॥ ३३॥
नीपार्जुनकदम्बानां पृथिव्यां चातिवृष्टिभिः ।
गन्धैः कोलाहला वान्ति वाता मदनदीपनाः ॥ ३४॥
सम्प्रवृत्तमहावर्षं लम्बमानमहाम्बुदम् ।
भात्यगाधमपर्यन्तं ससागरमिवाम्बरम् ॥ ३५॥
धारानिर्मलनाराचं विद्युत्कवचवर्मिणम् ।
शक्रचापायुधधरं युद्धसज्जमिवाम्बरम् ॥ ३६॥
शैलानां च वनानां च द्रुमाणां च वरानन ।
प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः ॥ ३७॥
गजानीकैरिवाकीर्णं सलिलोद्गारिभिर्घनैः ।
वर्णसारूप्यतां याति गगनं सागरस्य च ॥ ३८॥
समुद्रोद्धूतजनिता लोलशाद्वलकम्पिनः ।
शीताः सपृषतोद्दामाः कर्कशा वान्ति मारुताः ॥ ३९॥
निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः ।
मग्नसूर्यस्य नभसो न विभान्ति दिशो दश ॥ २.१०.४०॥
चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः ।
न घृणीनां न रम्याणां विवेकं यान्ति कृष्टयः ॥ ४१॥
घर्मदोषपरित्यक्तं मेघतोयविभूषितम् ।
पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा ॥ ४२॥
एवं प्रावृड्गुणान् सर्वाञ्छ्रीमान् कृष्णस्य पूर्वजः ।
कथयन्नेव बलवान् व्रजमेव जगाम ह ॥ ४३॥
अन्योन्यं रममाणौ तु कृष्णसङ्कर्षणावुभौ ।
तत्कालज्ञातिभिः सार्द्धं चेरतुस्तद् वनं महत् ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रावृड्वर्णने दशमोऽध्यायः ॥ १०॥
२.११ एकादशोऽध्यायः
यमुनावर्णनम् Description of yamunA
श्रीकृष्णस्य अङ्गच्छटा, भाण्डीर वटः, यमुना एवं कालियदहस्य वर्णनम्,
श्रीकृष्णेन कालियनागस्य निग्रहविचारणं
वैशम्पायन उवाच ।
कदाचित् तु तदा कृष्णो विना सङ्कर्षणेन वै ।
चचार तद् वनं रम्यं कामरूपी वराननः ॥ १॥
काकपक्षधरः श्रीमाञ्छ्यामः पद्मदलेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥ २॥
साङ्गदेनाग्रहस्तेन पङ्कजोद्भिन्नवर्चसा ।
सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना ॥ ३॥
पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे ।
सूक्ष्मे वसानो वसने ससन्ध्य इव तोयदः ॥ ४॥
वत्सव्यापारयुक्ताभ्यां व्यग्राभ्यां गण्डरज्जुभिः ।
भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः ॥ ५॥
सदृशं पुण्डरीकस्य गन्धेन कमलस्य च ।
रराज चास्य तद् बाल्ये रुचिरौष्ठपुटं मुखम् ॥ ६॥
शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् ।
वृतं षट्पदपङ्क्तीभिर्यथा स्यात् पद्ममण्डलम् ॥ ७॥
तस्यार्जुनकदम्बाख्या नीपकन्दलमालिनी ।
रराज माला शिरसि नक्षत्राणां यथा दिवि ॥ ८॥
स तया मालया वीरः शुशुभे कण्ठसक्तया ।
मेघमालाम्बुदश्यामो नभस्य इव मूर्तिमान् ॥ ९॥
एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।
रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥ २.११.१०॥
क्वचिद्गायन्क्वचित्क्रीडंश्चञ्चूर्यंश्च क्वचित्क्वचित् ।
पर्णवाद्यं श्रुतिसुखं वादयंश्च क्वचिद् वने ॥ ११॥
गोपवेणुं सुमधुरं कामात् तमपि वादयन् ।
प्रह्लादनार्थं च गवां क्वचिद् वनगतो युवा ॥ १२॥
गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान् प्रभुः ।
रेमे च तत्र रम्यासु चित्रासु वनराजिषु ॥ १३॥
मयूररवघुष्टासु मदनोद्दीपनीषु च ।
मेघनादप्रतिव्यूहेर्नादितासु समन्ततः ॥ १४॥
शाद्वलच्छत्रमार्गासु शिलीन्ध्राभरणासु च ।
कन्दलामलपत्रासु स्रवन्तीषु नवं जलम् ॥ १५॥
केसराणां नवैर्गन्धैर्मदनिःश्वसितोपमैः ।
अभीक्ष्णं निःश्वसन्तीषु कामिनीष्विव नित्यशः ॥ १६॥
सेव्यमानो नवैर्वातैर्द्रुमसङ्घातनिःसृतैः ।
तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु ॥ १७॥
स कदाचिद् वने तस्मिन्गोभिः सह परिभ्रमन् ।
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥ १८॥
स्थितं धरण्यां मेघाभं निबिडं पत्रसञ्चयैः ।
गगनार्धोच्छ्रिताकारं पर्वताभोगधारिणम् ॥ १९॥
नीलचित्राङ्गवर्णैश्च सेवितं बहुभिः खगैः ।
फलैः प्रवालैश्च घनैः सेन्द्रचापघनोपमम् ॥ २.११.२०॥
भवनाकारविटपं लतापुष्पसुमण्डितम् ।
विशालमूलावनतं पवनाम्भोदधारिणम् ॥ २१॥
आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् ।
कुर्वाणं शुभकर्माणं निरावर्षमनातपम् ॥ २२॥
न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ।
दृष्ट्वा तत्र मतिं चक्रे निवासाय ततः प्रभुः ॥ २३॥
स तत्र वयसा तुल्यैर्वत्सपालैः सहानघ ।
रेमे वै वासरं कृष्णः पुरा स्वर्गगतो यथा ॥ २४॥
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् ।
रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा ॥ २५॥
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।
गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः ॥ २६॥
तेषां स गायतामेव वादयामास वीर्यवान् ।
पर्णवाद्यान्तरे वेणुं तुम्बीं वीणां च तत्र ह ॥ २७॥
कदाचिच्चारयन्नेव गाः स गोवृषभेक्षणः ।
जगाम यमुनातीरं लतालङ्कृतपादपम् ॥ २८॥
तरङ्गापाङ्गकुटिलां वारिस्पर्शसुखानिलाम् ।
तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम् ॥ २९॥
सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम् ।
तोयवातोद्यतैर्वेगैरवनामितपादपाम् ॥ २.११.३०॥
हंसकारण्डवोद्घुष्टा सारसैश्च निनादिताम् ।
अन्योन्यमिथुनैश्चैव सेवितां मिथुनेचरैः ॥ ३१॥
जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुणैः ।
जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ॥ ३२॥
प्रसृतस्रोतचरणां पुलिनश्रोणिमण्डलाम् ।
आवर्तनाभिगम्भीरां पद्मरोमानुरञ्जिताम् ॥ ३३॥
तटच्छेदोदरां कान्तां त्रितरङ्गवलीधराम् ।
फेनप्रहृष्टवदनां प्रसन्नां हंसहासिनीम् ॥ ३४॥
रुचिरोत्पलरक्तोष्ठीं नतभ्रूं जलजेक्षणाम् ।
ह्रददीर्घललाटान्तां कान्तां शैवलमूर्द्धजाम् ॥ ३५॥
चक्रवाकस्तनतटीं तीरपार्श्वायताननाम् ।
दीर्घस्रोतायतभुजामाभोगश्रवणायुताम् ॥ ३६॥
कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम् ।
तटजाभरणोपेतां मीननिर्मलमेखलाम् ॥ ३७॥
वारिप्लवप्लवक्षौमां सारसारावनूपुराम् ।
काशचामीकरं वासो वसानां हंसलक्षणम् ॥ ३८॥
भीमनक्रानुलिप्ताङ्गीं कूर्मलक्षणभूषिताम् ।
निपानश्वापदापीडां नृभिः पीतपयोधराम् ॥ ३९॥
श्वापदोच्छिष्टसलिलामाश्रमस्थानसङ्कुलाम् ।
तां समुद्रस्य महिषीमीक्षमाणः समन्ततः ॥ २.११.४०॥
चचार रुचिरं कृष्णो यमुनामुपशोभयन् ।
तां चरन्स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम् ॥ ४१॥
दीर्घं योजनविस्तारं दुस्तरं त्रिदशैरपि ।
गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् ॥ ४२॥
तोयजैः श्वापदैस्त्यक्तं शून्यं तोयचरैः खगैः ।
अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम् ॥ ४३॥
दुःखोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलैः ।
विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम् ॥ ४४॥
अभोग्यं तत् पशूनां हि अपेयं च जलार्थिनाम् ।
उपभोगैः परित्यक्तं सुरैस्त्रिषवणार्थिभिः ॥ ४५॥
आकाशादप्यसञ्चार्यं खगैराकाशगोचरैः ।
तृणेष्वपि पतत्स्वप्सु ज्वलन्तमिव तेजसा ॥ ४६॥
समन्ताद्योजनं साग्रं देवैरपि दुरासदम् ।
विषानलेन घोरेण ज्वालाप्रज्वलितद्रुमम् ॥ ४७॥
व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये ।
तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम् ॥ ४८॥
अगाधं द्योतमानं च कस्यायं महतो ह्रदः ।
अस्मिन् स कालियो नाम कालाञ्जनचयोपमः ॥ ४९॥
उरगाधिपतिः साक्षाद्ध्रदे वसति दारुणः ।
उत्सृज्य सागरावासं यो मया विदितः पुरा ॥ २.११.५०॥
भयात् पतगराजस्य सुपर्णस्योरगाशिनः ।
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ॥ ५१॥
भयात् तस्योरगपतेर्नायं देशो निषेव्यते ।
तदिदं दारुणाकारमरण्यं रूढशाद्वलम् ॥ ५२॥
सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः ।
रक्षितं सर्पराजस्य सचिवैराप्तकारिभिः ॥ ५३॥
वनं निर्विषयाकारं विषान्नमिव दुःस्पृशम् ।
तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम् ॥ ५४॥
शैवालनलिनैश्चापि वृक्षैः क्षुद्रलताकुलैः ।
कर्तव्यमार्गौ भ्राजेते हृदस्यास्य तटावुभौ ॥ ५५॥
तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया ।
यथेयं सरिदम्भोदा भवेच्छिवजलाशया ॥ ५६॥
व्रजोपभोग्या च यथा नागे च दमिते मया ।
सर्वत्र सुखसञ्चारा सर्वतीर्थसुखाश्रया ॥ ५७॥
एतदर्थं च वासोऽयं व्रजेऽस्मिन् गोपजन्म च ।
अमीषामुत्पथस्थानां निग्रहार्थं दुरात्मनाम् ॥
एनं कदम्बमारुह्य तदेव शिशुलीलया ।
विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम् ॥ ५९॥
एवं कृते बाहुवीर्ये लोके ख्यातिं गमिष्यति ॥ २.११.६०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बालचरिते यमुनावर्णनं नामैकादशोऽध्यायः ॥ ११॥
२.१२ द्वादशोऽध्यायः
कालियदमनम् Subjugation of kAliya
श्रीकृष्णेन कालियनागस्य दमनं, तस्य समुद्रं प्रति प्रस्थानं एवं
गोपेभिः श्रीकृष्णस्य महत्तायाः अनुभवं
वैशम्पायन उवाच ।
सोपसृत्य नदीतीरं बद्ध्वा परिकरं दृढम् ।
आरोहच्चपलः कृष्णः कदम्बशिखरं मुदा ॥ १॥
कृष्णः कदम्बशिखराल्लम्बमानो घनाकृतिः ।
ह्रदमध्येऽकरोच्छब्दं निपतन्नम्बुजेक्षणः ॥ २॥
कृष्णेन तत्र पतता क्षुभितो यमुनाह्रदः ।
सम्प्रासिच्यत वेगेन भिद्यमान इवाम्बुदः ॥ ३॥
तेन शब्देन सङ्क्षुब्धं सर्पस्य भवनं महत् ।
उदतिष्ठज्जलात् सर्पो रोषपर्याकुलेक्षणः ॥ ४॥
स चोरगपतिः क्रुद्धो मेघराशिसमप्रभः ।
ततो रक्तान्तनयनः कालियः समदृश्यत ॥ ५॥
पञ्चास्यः पावकोच्छ्वासश्चलज्जिह्वोऽनलाननः ।
पृथुभिः पञ्चभिर्घोरैः शिरोभिः परिवारितः ॥ ६॥
पूरयित्वा ह्रदं सर्वं भोगेनानलवर्चसा ।
स्फुरन्निव च रोषेण ज्वलन्निव च तेजसा ॥ ७॥
क्रोधेन ज्वलतस्तस्य जलं शृतमिवाभवत् ।
प्रतिस्रोताश्च भीतेव जगाम यमुना नदी ॥ ८॥
तस्य क्रोधाग्निपूर्णेभ्यो वक्त्रेभ्योऽभूच्च मारुतः ।
दृष्ट्वा कृष्णं ह्रदगतं क्रीडन्तं शिशुलीलया ॥ ९॥
सधूमाः पन्नगेन्द्रस्य मुखान्निश्चेरुरर्चिषः ।
सृजता तेन रोषाग्निं समीपे तीरजा द्रुमाः ॥ २.१२.१०॥
क्षणेन भस्मसान्नीता युगान्तप्रतिमेन वै ।
तस्य पुत्राश्च दाराश्च भृत्याश्चान्ये महोरगाः ॥ ११॥
वमन्तः पावकं घोरं वक्त्रेभ्यो विषसम्भवम् ।
सधूमं पन्नगेन्द्रास्ते निपेतुरमितौजसः ॥ १२॥
प्रवेशितश्च तैः सर्पैः स कृष्णो भोगबन्धनम् ।
निर्यत्नचरणाकारस्तस्थौ गिरिरिवाचलः ॥ १३॥
अदशन् दशनैस्तीक्ष्णैर्विषोत्पीडजलाविलैः ।
ते कृष्णं सर्पपतयो न ममार च वीर्यवान् ॥ १४॥
एतस्मिन्नन्तरे भीता गोपालाः सर्व एव ते ।
क्रन्दमाना व्रजं जग्मुर्वाष्पगद्गदया गिरा ॥ १५॥
गोपा ऊचुः ।
एष मोहं गतः कृष्णो मग्नो वै कालिये ह्रदे ।
भक्ष्यते सर्पराजेन तदागच्छत मा चिरम् ॥ १६॥
नन्दगोपाय वै क्षिप्रं सबलाय निवेद्यताम् ।
एष ते कृष्यते कृष्णः सर्पेणेति महाह्रदे ॥ १७॥
नन्दगोपस्तु तच्छ्रुत्वा वज्रपातोपमं वचः ।
आर्तः स्खलितविक्रान्तस्तं जगाम ह्रदोत्तमम् ॥ १८॥
सबालयुवतीवृद्धः स च सङ्कर्षणो युवा ।
आक्रीडं पन्नगेन्द्रस्य जलस्थं समुपागमत् ॥ १९॥
नन्दगोपमुखा गोपास्ते सर्वे साश्रुलोचनाः ।
हाहाकारं प्रकुर्वन्तस्तस्थुस्तीरे ह्रदस्य वै ॥ २.१२.२०॥
व्रीडिता विस्मिताश्चैव शोकार्ताश्च पुनः पुनः ।
केचित्तु पुत्र हा हेति हा धिगित्यपरे पुनः ॥ २१॥
अपरे हा हताः स्मेति रुरुदुर्भृशदुःखिताः ।
स्त्रियश्चैव यशोदां तां हा हतासीति चुक्रुशुः ॥ २२॥
या पश्यसि प्रियं पुत्रं सर्पराजवशं गतम् ।
स्पन्दितं सर्पभोगेन कृष्यमाणं यथा मृतम् ॥ २३॥
अश्मसारमयं नूनं हृदयं ते विलक्ष्यते ।
पुत्रं कथमिमं दृष्ट्वा यशोदे नावदीर्यसे ॥ २४॥
दुःखितं बत पश्यामो नन्दगोपं ह्रदान्तिके ।
न्यस्य पुत्रमुखे दृष्टिं निश्चेतनमवस्थितम् ॥ २५॥
यशोदामनुगच्छन्त्यः सर्पावासमिमं ह्रदम् ।
प्रविशामो न यास्यामो विना दामोदरं व्रजम् ॥ २६॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः ।
विना कृष्णं न यास्यामो विवत्सा इव धेनवः ॥ २७॥
तासां विलपितं श्रुत्वा तेषां च व्रजवासिनाम् ।
विलापं नन्दगोपस्य यशोदारुदितं तथा ॥ २८॥
एकभावशरीरज्ञ एकदेहो द्विधा कृतः ।
सङ्कर्षणस्तु सङ्क्रुद्धो बभाषे कृष्णमव्ययम् ॥ २९॥
कृष्ण कृष्ण महाबाहो गोपानां नन्दवर्द्धन ।
दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ॥ २.१२.३०॥
इमे नो बान्धवास्तात त्वां मत्वा मानुषं विभो ।
परिदेवन्ति करुणं सर्वे मानुषबुद्धयः ॥ ३१॥
तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् ।
विक्रम्यास्फोटयद् बाहू भित्त्वा तन्नागबन्धनम् ॥ ३२॥
तस्य पद्भ्यामथाक्रम्य भोगराशिं जलोत्थितम् ।
शिरस्तु कृष्णो जग्राह स्वहस्तेनावनाम्य च ॥ ३३॥
तस्यारुरोह सहसा मध्यमं तन्महच्छिरः ।
सोऽस्य मूर्ध्नि स्थितः कृष्णो ननर्त रुचिराङ्गदः ॥ ३४॥
मृद्यमानः स कृष्णेन शान्तमूर्धा भुजङ्गमः ।
आस्यैः सरुधिरोद्गारैः कातरो वाक्यमब्रवीत् ॥ ३१५॥
अविज्ञानान्मया कृष्ण रोषोऽयं सम्प्रदर्शितः ।
दमितोऽहं हतविषो वशगस्ते वरानन ॥ ३६॥
तदाज्ञापय किं कुर्यां सदा सापत्यबान्धवः ।
कस्य वा वशतां यामि जीवितं मे प्रदीयताम् ॥ ३७॥
पञ्चमूर्द्धानतं दृष्ट्वा सर्पं सर्पारिकेतनः ।
अक्रुद्ध एव भगवान् प्रत्युवाचोरगेश्वरम् ॥ ३८॥
तवास्मिन् यमुनातोये नैव स्थानं ददाम्यहम् ।
गच्छार्णवजलं सर्प सभार्यः सहबान्धवः ॥ ३९॥
यश्चेह भूयो दृश्येत स्थाने वा यदि वा जले ।
तव भृत्यस्तनूजो वा क्षिप्रं वध्यः स मे भवेत् ॥ २.१२.४०॥
शिवं चास्य जलस्यास्तु त्वं च गच्छ महार्णवम् ।
स्थाने त्विह भवेद् दोषस्तवान्तकरणो महान् ॥ ४१॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धसु सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ ४२॥
गृह्य मूर्ध्ना तु चरणौ कृष्णस्योरगपुङ्गवः ।
पश्यतामेव गोपानां जगामादर्शनं ह्रदात् ॥ ४३॥
निर्जिते तु गते सर्पे कृष्णमुत्तीर्य धिष्ठितम् ।
विस्मितास्तुष्टुवुर्गोपाश्चक्रुश्चैव प्रदक्षिणम् ॥ ४४॥
ऊचुः सर्वे च सम्प्रीता नन्दगोपं वनेचराः ।
धन्योऽस्यनुगृहीतोऽसि यस्य ते पुत्र ईदृशः ॥ ४५॥
अद्यप्रभृति गोपानां गवां गोष्ठस्य चानघ ।
आपत्सु शरणं कृष्णः प्रभुश्चायतलोचनः ॥ ४६॥
जाता शिवजला सर्वा यमुना मुनिसेविता ।
तीरे चास्याः सुखं गावो विचरिष्यन्ति नः सदा ॥ ४७॥
व्यक्तमेव वयं गोपा वने यत् कृष्णमीदृशम् ।
महद्भूतं न जानीमश्छन्नमग्निमिव व्रजे ॥ ४८॥
एवं ते विस्मिताः सर्वे स्तुवन्तः कृष्णमव्ययम् ।
जग्मुर्गोपगणा घोषं देवाश्चैत्ररथं यथा ॥ ४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां कालियदमने द्वादशोऽध्यायः ॥ १२॥
२.१३ त्रयोदशोऽध्यायः
धेनुकवधः Elimination of dhenuka
बलरामेण धेनुकासुरस्य वधं एवं भयरहिते तालवने गवां गोपानां च विचरणं
वैशम्पायन उवाच ।
दमिते सर्पराजे तु कृष्णेन यमुनाह्रदे ।
तमेव चेरतुर्देशं सहितौ रामकेशवौ ॥ १॥
आजग्मतुस्तौ सहितौ गोधनैः सह गामिनौ ।
गिरिं गोवर्द्धनं रम्यं वसुदेवसुतावुभौ ॥ २॥
गोवर्द्धनस्योत्तरतो यमुनातीरमाश्रितम् ।
ददृशाते च तौ वीरौ रम्यं तालवनं महत् ॥ ३॥
तौ तालपर्णप्रतते रम्यै तालवने रतौ ।
चेरतुः परमप्रीतौ वृषपोताविवोद्धतौ ॥ ४॥
स तु देशः सदा स्निग्धो लोष्टपाषाणवर्जितः ।
दर्भप्रायस्थलीभूतः सुमहान् कृष्णमृत्तिकः ॥ ५॥
तालैस्तैर्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्वभिः ।
फलाग्रशाखिभिर्भाति नागहस्तैरिवोच्छ्रितैः ॥ ६॥
तत्र दामोदरो वाक्यमुवाच वदतां वरः ।
अहो तालफलैः पक्वैर्वासितेयं वनस्थली ॥ ७॥
स्वादून्यार्य सुगन्धीनि श्यामानि रसवन्ति च ।
पक्वतालानि सहितौ पातयावो लघुक्रमौ ॥ ८॥
यद्येषामीदृशो गन्धो माधुर्यघ्राणतर्पणः ।
रसेनामृतकल्पेन भवितव्यं च मे मतिः ॥ ९॥
दामोदरवचः श्रुत्वा रौहिणेयो हसन्निव ।
पातयन् पक्वतालानि चालयामास तांस्तरून् ॥ २.१३.१०॥
तत्तु तालवनं नृणामसेव्यं दुरतिक्रमम् ।
निर्माणभूतमिरिणं पुरुषादालयोपमम् ॥ ११॥
दारुणो धेनुको नाम दैत्यो गर्दभरूपधृक् ।
खरयूथेन महता वृतः समनुसेवते ॥ १२॥
स तु तालवनं घोरं गर्दभः परिरक्षति ।
नृपक्षिश्वापदगणांस्त्रासयानः सुदुर्मतिः ॥ १३॥
तालशब्दं स तं श्रुत्वा सङ्घुष्टं फलपातनात् ।
नामर्षयत् स सङ्क्रुद्धस्तालस्वनमिव द्विपः ॥ १४॥
शब्दानुसारी सङ्क्रुद्धो दर्पाविद्धसटाननः ।
स्तब्धाक्षो ह्रेषितपटुः खुरैर्निर्दारयन्महीम् ॥ १५॥
आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः ।
आपतन्नेव ददृशे रौहिणेयमुपस्थितम् ॥ १६॥
तालानां तमधो दृष्ट्वा स ध्वजाकारमव्ययम् ।
रौहिणेयं खरो दुष्टः सोऽदशद् दशनायुधः ॥ १७॥
पद्भ्यामुभाभ्यां च पुनः पश्चिमाभ्यां पराङ्मुखः ।
जघानोरसि दैत्येन्द्रो रौहिणेयं निरायुधम् ॥ १८॥
ताभ्यामेव च जग्राह पद्भ्यां तं दैत्यगर्दभम् ।
आवर्जितमुखस्कन्धं प्रेरयंस्तालमूर्धनि ॥ १९॥
सम्भग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः ।
खरस्तालफलैः सार्धं पपात धरणीतले ॥ २.१३.२०॥
त'' गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम् ।
ज्ञातींस्तथापरांस्तस्य तृणराजनि सोऽक्षिपत् ॥ २१॥
सा भूर्गर्दभदेहैश्च तालैः पक्वैश्च पातितैः ।
बभासे छन्नजलदा द्यौरिवाव्यक्तशारदी ॥ २२॥
तस्मिन् गर्दभदैत्ये तु सानुगे विनिपातिते ।
रम्यं तालवनं तद्धि भूयो रम्यतरं बभौ ॥ २३॥
विप्रमुक्तभयं शुभ्रं विविक्ताकारदर्शनम् ।
चरन्ति स्म सुखं गावस्तत् तालवनमुत्तमम् ॥ २४॥
ततः प्रविष्टास्ते सर्वे गोपा वनविचारिणः ।
वीतशोकभयायासाश्चञ्चूर्यन्ते समन्ततः ॥ २५॥
ततः सुखं प्रकीर्णासु गोषु नागेन्द्रविक्रमौ ।
द्रुमपर्णासनं कृत्वा तौ यथार्हं निषीदतुः ॥ २६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां धेनुकवधे त्रयोदशोऽध्यायः ॥ १३॥
२.१४ चतुर्दशोऽध्यायः
प्रलम्बवधः Elimination of pralamba
बलरामेण प्रलम्बासुरस्य वधं
वैशम्पायन उवाच ।
अथ तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
तत् तालवनमुत्सृज्य भूयो भाण्डीरमागतौ ॥ १॥
चारयन्तौ विवृद्धानि गोधनानि शुभानि च ।
स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च ॥ २॥
क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् ।
नामभिर्व्याहरन्तौ च सवत्सा गाः परन्तपौ ॥ ३॥
निर्योगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणौ ।
वनमालाकुलोरस्कौ बालशृङ्गाविवर्षभौ ॥ ४॥
सुवर्णाञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ ।
महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ ॥ ५॥
कुशाग्रकुसुमानां च कर्णपूरौ मनोरमौ ।
वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ ॥ ६॥
गोवर्धनस्यानु चरौ वने सानुचरौ तु तौ ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥ ७॥
तावेवं मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ ८॥
तौ तु भाण्डीरमाश्रित्य बालक्रीडानुवर्तिनौ ।
प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् ॥ ९॥
तत्र त्वान्दोलिकाभिश्च युद्धमार्गविशारदौ ।
अश्मभिः क्षेपणीयैश्च तौ व्यायाममकुर्वताम् ॥ २.१४.१०॥
युद्धमार्गैश्च विविधैर्गोपालैः सहितावुभौ ।
मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः ॥ ११॥
तयो रमयतोरेव तल्लिप्सुरसुरोत्तमः ।
प्रलम्बोऽभ्यागमत्तत्र च्छिद्रान्वेषी तयोस्तदा ॥ १२॥
गोपालवेषमास्थाय वन्यपुष्पविभूषितः ।
लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा ॥ १३॥
सोऽवगाहत निश्शङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः ॥ १४॥
प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा ।
गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम् ॥ १५॥
स तु च्छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः ।
दृष्टिं प्रणिदधे कृष्णे रौहिणेये च दारुणाम् ॥ १६॥
अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् ।
रौहिणेयवधे यत्नमकरोद् दानवोत्तमः ॥ १७॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥ १८॥
कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ।
सङ्कर्षणस्तु प्लुतवान् प्रलम्बेन सहानघ ॥ १९॥
गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह ।
प्रद्रुता लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः ॥ २.१४.२०॥
श्रीदाममजयत् कृष्णः प्रलम्बं रोहिणीसुतः ।
गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः ॥ २१॥
ते वाहयन्तस्त्वन्योन्यं संहर्षात् सहसा द्रुताः ।
भाण्डीरस्कन्धमुद्दिश्य मर्यादां पुनरागमन् ॥ २२॥
सङ्कर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
द्रुतं जगाम विमुखः सचन्द्र इव तोयदः ॥ २३॥
स भारमसहंस्तस्य रौहिणेयस्य धीमतः ।
ववृधे सुमहाकायः शक्राक्रान्त इवाम्बुदः ॥ २४॥
स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् ।
स्वं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः ॥ २५॥
पञ्चस्तबकयुक्तेन मुकुटेनार्कवर्चसा ।
दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः ॥ २६॥
महाननो महाग्रीवः सुमहानन्तकोपमः ।
रौद्रः शकटचक्राक्षो नमयंश्चरणैर्महीम् ॥ २७॥
स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः ।
वीरः प्रलम्बः प्रययौ लम्बतोय इवाम्बुदः ॥ २८॥
स जहाराथ वेगेन रौहिणेयं महासुरः ।
सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः ॥ २९॥
ह्रियमाणः प्रलम्बेन स तु सङ्कर्षणो बभौ ।
उह्यमान इवाकाशे कालमेघेन चन्द्रमाः ॥ २.१४.३०॥
स सन्दिग्धमिवात्मानं मेने सङ्कर्षणस्तदा ।
दैत्यस्कन्धगतः श्रीमान् कृष्णं चेदमुवाच ह ॥ ३१॥
ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा ।
प्रदर्शयित्वा महतीं मायां मानुषरूपिणीम् ॥ ३२॥
कथमस्य मया कार्यं शासनं दुष्टचेतसः ।
प्रलम्बस्य प्रवृद्धस्य दर्पाद् द्विगुणवर्चसः ॥ ३३॥
तमाह सस्मितं कृष्णः साम्ना हर्षाकुलेन वै ।
अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ॥ ३४॥
अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते ।
यस्त्वं जगन्मयं देवं गुह्याद् गुह्यतरं गतः ॥ ३५॥
स्मर नारायणात्मानं लोकानां त्वं विपर्यये ।
अवगच्छात्मनाऽऽत्मानं समुद्राणां समागमे ॥ ३६॥
पुरातनानां देवानां ब्रह्मणः सलिलस्य च ।
आत्मवृत्तप्रभावाणां संस्मराद्यं च वै वपुः ॥ ३७॥
शिरः खं ते जलं मूर्त्तिः पादौ भूर्दहनो मुखम् ।
वायुर्लोकायुरुछ्वासो मनः सोमो ह्यभूत्तव ॥ ३८॥
सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः ।
सहस्रपद्मनाभस्त्वं सहस्रांशुधरोऽरिहा ॥ ३९॥
यत्त्वया दर्शितं लोके तत् पश्यन्ति दिवौकसः ।
यत् त्वया नोक्तपूर्वं हि कस्तदन्वेष्टुमर्हति ॥ २.१४.४०॥
यद् वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् ।
विदितं यत् तवैकस्य देवा अपि न तद् विदुः ॥ ४१॥
आत्मजं ते वपुर्व्योम्नि न पश्यन्त्यात्मसम्भवम् ।
यत् तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः ॥ ४२॥
देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः ।
त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः ॥ ४३॥
त्वय्येव जगतः स्तम्भे शाश्वती जगती स्थिता ।
अचला प्राणिनां योनिर्धारयत्यखिलं जगत् ॥ ४४॥
चतुःसागरभोगस्त्वं चातुर्वर्ण्यविभागवित् ।
चतुर्युगेषु लोकानां चातुर्होत्रफलाशनः ॥ ४५॥
यथाहमपि लोकानां तथा त्वं तच्च मे मतम् ।
उभावेकशरीरौ स्वो जगदर्थे द्विधाकृतौ ॥ ४६॥
अहं वा शाश्वतः कृष्णस्त्वं वा शेषः पुरातनः ।
लोकानां शाश्वतो देवस्त्वं हि शेषः सनातनः ।
आवयोर्देहमात्रेण द्विधेदं धार्यते जगत् ॥ ४७॥
अहं यः स भवानेव यस्त्वं सोऽहं सनातनः ।
द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ ॥ ४८॥
तदास्से मूढवत् त्वं किं प्राणेन जहि दानवम् ।
मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना ॥ ४९॥
वैशम्पायन उवाच ।
संस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् ।
बलेनापूर्यत तदा त्रैलोक्यान्तरचारिणा ॥ २.१४.५०॥
ततः प्रलम्बं दुर्वृत्तं स बद्धेन महाभुजः ।
मुष्टिना वज्रकल्पेन मूर्ध्नि चैनं समाहनत् ॥ ५१॥
तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह ।
जानुभ्यां चाहतः शेते गतासुर्दानवोत्तमः ॥ ५२॥
जगत्यां विप्रकीर्णस्य तस्य रूपमभूत् तदा ।
प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः ॥ ५३॥
तस्य भग्नोत्तमाङ्गस्य देहात् सुस्राव शोणितम् ।
बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम् ॥ ५४॥
तं निहत्य प्रलम्बं तु संहृत्य बलमात्मनः ।
पर्यष्वजत वै कृष्णं रौहिणेयः प्रतापवान् ॥ ५५॥
तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः ।
तुष्टुवुर्निहते दैत्ये जयाशीर्भिर्महाबलम् ॥ ५६॥
बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा ।
विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः ॥ ५७॥
बलदेवेति नामास्य देवैरुक्तं दिवि स्थितैः ।
बलं तु बलदेवस्य तदा भुवि जना विदुः ॥ ५८॥
कर्मजं निहते दैत्ये देवैरपि दुरासदे ॥ ५९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां प्रलम्बवधे चतुर्दशोऽध्यायः ॥ १४॥
२.१५ पञ्चदशोऽध्यायः
कृष्णं प्रति गोपवाख्यम् Gopa-s explain to Krishna
इन्द्रोत्सवविषये श्रीकृष्णस्य जिज्ञासा एवं एकेन वृद्धगोपेन तस्यावश्यकताप्रतिपादनं
वैशम्पायन उवाच ।
तयोः प्रवृत्तयोरेवं कृष्णस्य च बलस्य च ।
वने विचरतोर्मासौ व्यतियातौ स्म वार्षिकौ ॥ १॥
व्रजमाजग्मतुस्तौ तु व्रजे शुश्रुवतुस्तदा ।
प्राप्तं शक्रमहं वीरौ गोपांश्चोत्सवलालसान् ॥ २॥
कौतूहलादिदं वाक्यं कृष्णः प्रोवाच तत्र तान् ।
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ॥ ३॥
तत्र वृद्धतमस्त्वेको गोपो वाक्यमुवाच ह ।
श्रूयतां तात शक्रस्य यदर्थं ध्वज इज्यते ॥ ४॥
देवानामीश्वरः शक्रो मेघानां चारिसूदन ।
तस्य चायं महः कृष्ण लोकनाथस्य शाश्वतः ॥ ५॥
तेन सञ्चोदिता मेघास्तस्य चायुधभूषिताः ।
तस्यैवाज्ञाकराः सस्यं जनयन्ति नवाम्बुभिः ॥ ६॥
मेघस्य पयसो दाता पुरुहूतः पुरन्दरः ।
सम्प्रहृष्टः स भगवान् प्रीणयत्यखिलं जगत् ॥ ७॥
तेन सम्पादितं सस्यं वयमन्ये च मानवाः ।
वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ ८॥
देवे वर्षति लोकेऽस्मिंस्ततः सस्यं प्रवर्धते ।
पृथिव्यां तर्पितायां तु सामृतं लक्ष्यते जगत् ॥ ९॥
क्षीरवत्यस्त्विमा गावो वत्सवत्यश्च निर्वृताः ।
तेन संवर्धितैस्तात तृणैः पुष्टाः सपुङ्गवाः ॥ २.१५.१०॥
नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ ११॥
दुदोह सवितुर्गा वै शक्रो दिव्याः पयस्विनीः ।
ताः क्षरन्ति नवं क्षीरं मेध्यं मेघौघधारितम् ॥ १२॥
वाय्वीरितं तु मेघेषु करोति निनदं महत् ।
जवेनावर्तितं चैव गर्जतीति जना विदुः ॥ १३॥
तस्य चैवोह्यमानस्य वायुयुक्तैर्बलाहकैः ।
वज्राशनिसमाः शब्दाः श्रूयन्ते नगभेदिनः ॥ १४॥
तज्जलं वज्रनिष्पेषैर्विमुञ्चति नभोगतैः ।
बहुभिः कामगैर्मेघैः शक्रो भृत्यैरिवेश्वरः ॥ १५॥
क्वचिद् दुर्दिनसङ्काशैः क्वचिच्छिन्नाभ्रसन्निभैः ।
क्वचिद् भिन्नाञ्जनाकारैः क्वचिच्छीकरवर्षिभिः ॥ १६॥
मण्डयतीव देवेन्द्रो विश्वमेवं नभो घनैः ।
क्वचिच्छीकरमुक्ताभं कुरुते गगनं घनः ॥ १७॥
एवमेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्यः सर्वभूतानां भवाय भुवि वर्षति ॥ १८॥
यस्मात्प्रावृडियं कृष्ण शक्रस्य भुवि भाविनी ।
तस्मात्प्रावृषि राजानः सर्वे शक्रं मुदा युताः ।
महैः सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ १९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां गोपवाक्ये पञ्चदशोऽध्यायः ॥ १५॥
२.१६ षोडशोऽध्यायः
शरद्वर्णनम् Description of autumn season
श्रीकृष्णेन गिरियज्ञ एवं गोपूजनस्य प्रस्तावं, शरद् ऋतु वर्णनं
वैशम्पायन उवाच ।
गोपवृद्धस्य वचनं श्रुत्वा शक्रपरिग्रहे ।
प्रभावज्ञोऽपि शक्रस्य वाक्यं दामोदरोऽब्रवीत् ॥ १॥
वयं वनचरा गोपाः सदा गोधनजीविनः ।
गावोऽस्मद्दैवतं विद्धि गिरयश्च वनानि च ॥ २॥
कर्षुकाणां कृषिर्वृत्तिः पण्यं विपणिजीविनाम् ।
गावोऽस्माकं परा वृत्तिरेतत् त्रैविद्यमुच्यते ॥ ३॥
विद्यया यो यया युक्तस्तस्य सा दैवतं परम् ।
सैव पूज्यार्चनीया च सैव तस्योपकारिणी ॥ ४॥
योऽन्यस्य फलमश्नानः करोत्यन्यस्य सत्क्रियाम् ।
द्वावनर्थौ स लभते प्रेत्य चेह च मानवः ॥ ५॥
कृष्यन्ता प्रथिता सीमा सीमान्तं श्रूयते वनम् ।
वनान्ता गिरयः सर्वे ते चास्माकं गतिर्ध्रुवा ॥ ६॥
श्रूयन्ते गिरयश्चापि वनेऽस्मिन् कामरूपिणः ।
प्रविश्य तास्तास्तनवो रमन्ते स्वेषु सानुषु ॥ ७॥
भूत्वा केसरिणः सिंहा व्याघ्राश्च नखिनां वराः ।
वनानि स्वानि रक्षन्ति त्रासयन्तो वनच्छिदः ॥ ८॥
यदा चैषां विकुर्वन्ति ते वनालयजीविनः ।
घ्नन्ति तानेव दुर्वृत्तान् पौरुषादेन कर्मणा ॥ ९॥
मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्च कर्षुकाः ।
गिरियज्ञास्तथा गोपा इज्योऽस्माभिर्गिरिर्वने ॥ २.१६.१०॥
तन्मह्यं रोचते गोपा गिरियज्ञः प्रवर्तताम् ।
कर्म कृत्वा सुखस्थाने पादपेष्वथवा गिरौ ॥ ११॥
तत्र हत्वा पशून् मेध्यान् वितत्यायतने शुभे ।
सर्वघोषस्य सन्दोहः क्रियतां किं विचार्यते ॥ १२॥
तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम् ।
गावो गिरिवरं सर्वास्ततो यान्तु पुनर्व्रजम् ॥ १३॥
प्राप्ता किलेयं हि गवां स्वादुतोयतृणा गुणैः ।
शरत् प्रमुदिता रम्या गतमेघजलाशया ॥ १४॥
प्रियकैः पुष्पितैर्गौरं श्याम बाणासनैः क्वचित् ।
कठोरतृणमाभाति निर्मयूररुतं वनम् ॥ १५॥
विजला विमला व्योम्नि विबलाका विविद्युतः ।
विवर्धन्ते जलधरा विदन्ता इव कुञ्जराः ॥ १६॥
पटुना मेघवातेन नवतोयानुकर्षिणा ।
पर्णोत्करघनाः सर्वे प्रसादं यान्ति पादपाः ॥ १७॥
सितवर्णाम्बुदोष्णीषं हंसचामरवीजितम् ।
पूर्णचन्द्रामलच्छत्रं साभिषेकमिवाम्बरम् ॥ १८॥
हंसैः प्रहसितानीव समुत्कृष्टानि सारसैः ।
सर्वाणि तनुतां यान्ति जलानि जलदक्षये ॥ १९॥
चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः ।
हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाः ॥ २.१६.२०॥
कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम् ।
सममभ्युत्स्मयन्तीव शर्वरीष्वितरेतरम् ॥ २१॥
मत्तक्रौञ्चावघुष्टेषु कलमापक्वपाण्डुषु ।
निर्विष्टरमणीयेषु वनेषु रमते मनः ॥ २२॥
पुष्करिण्यस्तडागानि वाप्यश्च विकचोत्पलाः ।
केदाराः सरितश्चैव सरांसि च श्रियाज्वलन् ॥ २३॥
पङ्कजानि च ताम्राणि तथान्यानि सितान्यपि ।
उत्पलानि च नीलानि भेजिरे वारिजां श्रियम् ॥ २४॥
मदं जहुः सितापाङ्गा मन्दं ववृधिरेऽनिलाः ।
अभवद् व्यभ्रमाकाशमभूच्च निभृतोऽर्णवः ॥ २५॥
ऋतुपर्यायशिथिलैर्वृत्तनृत्यसमुज्झितैः ।
मयूराङ्गरुहैर्भूमिर्बहुनेत्रेव लक्ष्यते २६॥
स्वपङ्कमलिनैस्तीरैः काशपुष्पलताकुलैः ।
हंससारसविन्यासैर्यमुना भाति शोभना ॥ २७॥
कलमापाकरम्येषु केदारेषु जलेषु च ।
सस्यादा जलजादाश्च मत्ता विरुरुवुः खगाः ॥ २८॥
सिषिचुर्यानि जलदा जलेन जलदागमे ।
तानि सस्यानि बालानि कठिनत्वं गतानि वै ॥ २९॥
त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः ।
एष वै विमले व्योम्नि हृष्टो वसति चन्द्रमाः ॥ २.१६.३०॥
क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः ।
वनानां द्विगुणा लक्ष्मीः सस्यैर्गुणवती मही ॥ ३१॥
ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च ।
मनांसि च मनुष्याणां प्रसादमुपयान्ति वै ॥ ३२॥
असृजत्सविता व्योम्नि निर्मुक्तो जलदैर्भृशम् ।
शरत्प्रज्वलितं तेजस्तीक्ष्णरश्मिर्विशोषयन् ॥ ३३॥
नीराजयित्वा सैन्यानि प्रयान्ति विजिगीषवः ।
अन्योन्यराष्ट्राभिमुखाः पार्थिवाः पृथिवीक्षितः ॥ ३४॥
बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च ।
मनस्तिष्ठति कान्तासु चित्रासु वनराजिषु ॥ ३५॥
वनेषु च विराजन्ते पादपा वनशोभिनः ।
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ॥ ३६॥
इषुसाह्वा निकुम्भाश्च प्रियकाः स्वर्णकास्तथा ।
सृमराः पेचकाश्चैव केतक्यश्च समन्ततः ॥ ३७॥
व्रजेषु च विशेषेण गर्गरोद्गारहासिषु ।
शरत्प्रकाशयोषेव गोष्ठेष्वटति रूपिणी ॥ ३८॥
नूनं त्रिदशभूयिष्ठं मेघकालसुखोषितम् ।
पतत्त्रिकेतनं देवं बोधयन्ति दिवौकसः ॥ ३९॥
शरद्येवं सुसस्यायां प्राप्तायां प्रावृषः क्षये ।
नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः ॥ २.१६.४०॥
फलैः प्रवालैश्च घनमिन्द्रचापघनोपमम् ।
भवनाकारविटपं लतापरममण्डितम् ॥ ४१॥
विशालमूलावनतं पवनाभोगमण्डितम् ।
अर्चयामो गिरिं देवं गाश्चैव च विशेषतः ॥ ४२॥
सावतंसैर्विषाणैश्च बर्हापीडैश्च दंशितैः ।
घण्टाभिश्च प्रलम्बाभिः पुष्पैः शारदिकैस्तथा ॥ ४३॥
शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्त्यताम् ।
पूज्यतां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम् ॥ ४४॥
कारयिष्यामि गोयज्ञं बलादपि न संशयः ।
यद्यस्ति मयि वः प्रीतिर्यदि वा सुहृदो वयम् ।
गावो हि पूज्याः सततं सर्वेषां नात्र संशयः ॥ ४५॥
यदि साम्ना भवेत् प्रीतिर्भवतां वैभवाय च ।
एतन्मम वचस्तथ्यं क्रियतामविचारितम् ॥ ४६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शरद्वर्णने षोडशोऽध्यायः ॥ १६॥
२.१७ सप्तदशोऽध्यायः
गोवर्धनमहोत्सवः Performance of mountain-sacrifice
गोपेभिः श्रीकृष्णस्य वार्तां स्वीकृत्व गिरियज्ञस्य अनुष्ठानं एवं भगवता
दिव्यरूपं धारयित्वा तेषां पूजाग्रहणं एवं तेभ्यः वरप्रदानं
वैशम्पायन उवाच ।
दामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः ।
तद्वागमृतमासाद्य प्रत्यूचुरविशङ्कया ॥ १॥
तवैषा बाल महती गोपानां हितवर्द्धिनी ।
प्रीणयत्येव नः सर्वान् बुद्धिर्वृद्धिकरी गवाम् ॥ २॥
त्वं गतिस्त्वं रतिश्चैव त्वं वेत्ता त्वं परायणम् ।
भयेष्वभयदस्त्वं नस्त्वमेव सुहृदां सुहृत् ॥ ३॥
त्वत्कृते कृष्ण घोषोऽयं क्षेमी मुदितगोकुलः ।
कृत्स्नो वसति शान्तारिर्यथा स्वर्गं गतस्तथा ॥ ४॥
जन्मप्रभृति कर्मैतद् देवैरसुकरं भुवि ।
बोद्धव्याश्चाभिमानाच्च विस्मितानि मनांसि नः ॥ ५॥
बलेन च परार्ध्येन यशसा विक्रमेण च ।
उत्तमस्त्वं मनुष्येषु देवेष्विव पुरन्दरः ॥ ६॥
प्रतापेन च तीक्ष्णेन दीप्त्या पूर्णतयापि च ।
उत्तमस्त्वं च मर्त्येषु देवेष्विव दिवाकरः ॥ ७॥
कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च ।
उत्तमस्त्वं च मर्त्येषु देवेष्विव निशाकरः ॥ ८॥
बलेन वपुषा चैव बाल्येन चरितेन च ।
स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥ ९॥
यत् त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो ।
कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधिः ॥ २.१७.१०॥
स्थितः शक्रमहस्तात श्रीमान् गिरिमहस्त्वयम् ।
त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् ॥ ११॥
भाजनान्युपकल्प्यन्तां पयसः पेशलानि च ।
कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः ॥ १२॥
पूर्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः ।
भक्ष्यं भोज्यं च पेयं च तत्सर्वमुपनीयताम् ॥ १३॥
भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च ।
त्रिरात्रं चैव सन्दोहः सर्वघोषस्य गृह्यताम् ॥ १४॥
विशस्यन्तां च पशवो भोज्या ये महिषादयः ।
प्रवर्त्यतां च यज्ञोऽयं सर्वगोपसुसङ्कुलः ॥ १५॥
आनन्दजननो घोषो महान् मुदितगोकुलः ।
तूर्यप्रणादघोषैश्च वृषभाणां च गर्जितैः ॥ १६॥
हम्भारवैश्च वत्सानां गोपानां हर्षवर्धनः ।
दध्नो ह्रदो घृतावर्तः पयःकुल्यासमाकुलः ॥ १७॥
मांसराशिः प्रभूताढ्यः प्रकाशौदनपर्वतः ।
सम्प्रावर्तत यज्ञोऽस्य गिरेर्गोभिः समाकुलः ।
तुष्टगोपजनाकीर्णो गोपनारीमनोहरः ॥ १८॥
भक्ष्याणां राशयस्तत्र शतशश्चोपकल्पिताः ।
गन्धमाल्यैश्च विविधैर्धूपैरुच्चावचैस्तथा ॥ १९॥
अथाधिशृतपर्यन्ते सम्प्राप्ते यज्ञसंविधौ ।
यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह ॥ २.१७.२०॥
यजनान्ते तदन्नं तु तत् पयो दधि चोत्तमम् ।
मांसं च मायया कृष्णो गिरिर्भूत्वा समश्नुते ॥ २१॥
तर्पिताश्चापि विप्राग्र्यास्तुष्टाः सम्पूर्णमानसाः ।
उत्तस्थुः प्रीतमनसः स्वस्ति वाच्यं यथासुखम् ॥ २२॥
भुक्त्वा चावभृथे कृष्णः पयः पीत्वा च कामतः ।
सन्तृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै ॥ २३॥
तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् ।
गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः ॥ २४॥
भगवानपि तेनैव रूपेणाच्छादितः प्रभुः ।
सहितैः प्रणतो गोपैर्ववन्दात्मानमात्मना ॥ २५॥
तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् ।
भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म किङ्कराः ॥ २६॥
स उवाच ततो गोपान् गिरिप्रभवया गिरा ।
अद्यप्रभृति चेज्योऽहं गोषु यद्यस्तु वो दया ॥ २७॥
अहं वः प्रथमो देवः सर्वकामकरः शुभः ।
मम प्रभावाश्च गवामयुतान्येव भोक्ष्यथ ॥ २८॥
शिवश्च वो भविष्यामि मद्भक्तानां वने वने ।
रंस्ये च सह युष्माभिर्यथा दिविगतस्तथा ॥ २९॥
ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः ।
एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ॥ २.१७.३०॥
पर्याप्नुवन्तु क्षिप्रं मां गावो वत्ससमाकुलाः ।
एवं मम परा प्रीतिर्भविष्यति न संशयः ॥ ३१॥
क्तो नीराजनार्थं हि वृन्दशो गोकुलानि तम् ।
परिवव्रुर्गिरिवरं सवृषाणि समन्ततः ॥ ३२॥
ता गावः प्रद्रुता हृष्टाः सापीडस्तबकाङ्गदाः ।
सस्रजापीडशृङ्गाग्राः शतशोऽथ सहस्रशः ॥ ३३॥
अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ।
भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतसिताम्बराः ॥ ३४॥
मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः ।
मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः ॥ ३५॥
बभ्राजुरधिकं गोपाः समवाये तदाद्भुते ।
अन्ये वृषानारुरुहुर्नृत्यन्ति स्म परे मुदा ॥ ३६॥
गोपालास्त्वपरे गाश्च जगृहुर्वेगगामिनः ।
तस्मिन् पर्यायनिर्वृत्ते गवां नीराजनोत्सवे ॥ ३७॥
अन्तर्धानं जगामाशु तेन देहेन सोऽचलः ।
कृष्णोऽपि गोपसहितो विवेश व्रजमेव ह ॥ ३८॥
गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मिताः ।
गोपाः सबालवृद्धा वै तुष्टुवुर्मधुसूदनम् ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गिरियज्ञप्रवर्तने सप्तदशोऽध्यायः ॥ १७॥
२.१८ अष्टादशोऽध्यायः
गोवर्द्धनधारणम् Hoisting the govardhana mountain
इन्द्रेण संवर्तकमेघेभ्यः वर्षणं कारयित्वा गोभ्यः गोपेभ्यः च कष्टदानं, श्रीकृष्णेन
गोवर्धनधारणं एवं तस्याधः गवां गोपानां च गमनं
वैशम्पायन उवाच ।
महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः ।
संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १॥
भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् ।
यदि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम् ॥ २॥
एते वृन्दावनगता दामोदरपरायणाः ।
नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ॥ ३॥
आजीवो यः परस्तेषां गोपत्यं च यतः स्मृतम् ।
ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः ॥ ४॥
ऐरावतगतश्चाहं स्वयमेवाम्बु दारुणम् ।
स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ॥ ५॥
भवद्भिश्चण्डवर्षेण चरता मारुतेन च ।
हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम् ॥ ६॥
एवमाज्ञापयामास सर्वाञ्जलधरान् प्रभुः ।
प्रत्याहते वै कृष्णेन शासने पाकशासनः ॥ ७॥
ततस्ते जलदाः कृष्णा घोरनादा भयावहाः ।
आकाशं छादयामासुः सर्वतः पर्वतोपमाः ॥ ८॥
विद्युत्सम्पातजननाः शक्रचापविभूषिताः ।
तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा ॥ ९॥
गजा इवान्यसंयुक्ताः केचिन्मकरवर्चसः ।
नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः ॥ २.१८.१०॥
तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः ।
दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् ॥ ११॥
नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः ।
धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः ॥ १२॥
समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः ।
दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् ॥ १३॥
नैवापतन् वै खगमा दुद्रुवुर्मृगजातयः ।
पर्वताभेषु मेघेषु खे नन्दन्तु समन्ततः ॥ १४॥
नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुणैः ।
अतिवृष्टेन लोकस्य विरूपमभवद् वपुः ॥ १५॥
मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् ।
चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् ॥ १६॥
वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् ।
आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा ॥ १७॥
विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः ।
विवृद्धिं निम्नगा याताः प्लवगाः सम्प्लवं गताः ॥ १॥
गर्जितेन च मेघानां पर्जन्यनिनदेन च ।
तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ॥ १९॥
प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही ।
इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ॥ २.१८.२०॥
तेनोत्पाताम्बुवर्षेण गावो विप्रहता भृशम् ।
हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः ॥ २१॥
निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः ।
हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः ॥ २२॥
काश्चित् प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः ।
काश्चित्सवत्साः पतिता गावः शीकरवेजिताः ॥ २३॥
काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः ।
विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः ।
पेतुरार्ता वेपमाना गावो वर्षपराजिताः ॥ २४॥
वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः ।
त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः ॥ २५॥
गवां तत् कदनं दृष्ट्वा दुर्दिनागमजं महत् ।
गोपांश्चासन्ननिधनान् कृष्णः कोपं समादधे ॥ २६॥
स चिन्तयित्वा संरब्धो दृष्टो योगो मयेति च ।
आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः ॥ २७॥
अद्याहमिममुत्पाट्य सकाननवनं गिरिम् ।
कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ॥ २८॥
अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः ।
त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति ॥ २९॥
एवं स चिन्तयित्वा तु कृष्णः सत्यपराक्रमः ।
बाह्वोर्बलं दर्शयिष्यन् समीपं तं महीधरम् ।
दोर्भ्यामुत्पाटयामास कृष्णो गिरिरिवापरः ॥ २.१८.३०॥
स धृतः सङ्गतो मेघैर्गिरिः सव्येन पाणिना ।
गृहभावं गतस्तत्र गृहाकारेण वर्चसा ॥ ३१॥
भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु ।
शिलाः प्रशिथिलाश्चेलुर्विनिष्पेतुश्च पादपाः ॥ ३२॥
शिखरैर्घूर्णमानैश्च सीदमानैश्च पादपैः ।
विधूतैश्चोच्छ्रितैः शृङ्गैरगमः खगमोऽभवत् ॥ ३३॥
चलत्प्रस्रवणैः पार्श्वैर्मेघोघैरेकतां गतैः ।
भिद्यमानाश्मनिचयश्चचाल धरणीधरः ॥ ३४॥
न मेघानां प्रवृष्टानां न शैलस्याश्मवर्षिणः ।
विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः ॥ ३५॥
मेघैः सशैलसंस्थानैर्नीलैः प्रस्रवणार्पितैः ।
मिश्रीकृत इवाभाति गिरिरुद्दामबर्हवान् ॥ ३६॥
आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः ।
गन्धर्वाप्सरसश्चैव वाचो मुञ्चन्ति सर्वशः ॥ ३७॥
सहस्ततलविन्यस्तो मुक्तमूलः क्षितेस्तलात् ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥ ३८॥
कानिचिच्छिथिलानीव सञ्च्छिन्नार्द्धानि कानिचित् ।
गिरेर्मेघप्रविष्टानि तस्य शृङ्गाणि चाभवन् ॥ ३९॥
गिरिणा कम्पमानेन कम्पितानां तु शाखिनाम् ।
पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः ॥ २.१८.४०॥
निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूषिताः ।
द्विजिह्वपततः क्रुद्धाः खेचराः खे समन्ततः ॥ ४१॥
आर्तिं जग्मुः खगगणा वर्षेण च भयेन च ।
उत्पत्त्योत्पस्य गगनात् पुनः पेतुरवाङ्मुखाः ॥ ४२॥
रेसुरारोषिताः सिंहाः सजला इव तोयदाः ।
गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुङ्गवाः ॥ ४३॥
विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः ।
व्यावृत्तदेहः च गिरिरन्य एवोपलक्ष्यते ॥ ४४॥
अतिवृष्टस्य तैर्मेघैस्तस्य रूपं बभूव ह ।
स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि ॥ ४५॥
बाहुदण्डेन कृष्णस्य विधृतं सुमहत्तदा ।
नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ ॥ ४६॥
स्वप्नायमानो जलदैर्निमीलितगुहामुखः ।
बाहूपधाने कृष्णस्य प्रसुप्त इव खे गिरिः ॥ ४७॥
निर्विहङ्गरुतैर्वृक्षैर्निर्मयूररुतैर्वनैः ।
निरालम्ब इवाभाति गिरिः स्वशिखरैर्वृतः ॥ ४८॥
पर्यस्तैर्घूर्णमानैश्च प्रचलद्भिश्च सानुभिः ।
सज्वराणीव शैलस्य वनानि शिखराणि च ॥ ४९॥
उत्तमाङ्गगतास्तस्य मेघाः पवनवाहनाः ।
त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम् ॥ २.१८.५०॥
स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः ।
चक्रारूढ इवाभाति देशो नृपतिपीडितः ॥ ५१॥
स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह ।
पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् ॥ ५२॥
निवेश्य तं करे शैलं तोलयित्वा च सस्मितम् ।
प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः ॥ ५३॥
एतद् दैवैरसम्भाव्यं दिव्येन विधिना मया ।
कृतं गिरिगृहं गोपा निर्वातं शरणं गवाम् ॥ ५४॥
क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये ।
निर्वातेषु च देशेषु निवसन्तु यथासुखम् ॥ ५५॥
यथाश्रेष्ठं यथायूथं यथासारं यथासुखम् ।
विभज्यतामयं देशः कृतं वर्षनिवारणम् ॥ ५६॥
शैलोत्पाटनभूरेषा महती निर्मिता मया ।
पञ्चक्रोशप्रमाणेन क्रोशैकविस्तरो महान् ।
त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम् ॥ ५७॥
ततः किलकिलाशब्दो गवां हम्भारवैः सह ।
गोपानां तुमुलो जज्ञे मेघनादश्च बाह्यतः ॥ ५८॥
प्राविशन्त ततो गावो गोपैर्यूथप्रकल्पिताः ।
तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् ॥ ५९॥
कृष्णोऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः ।
दधारैकेन हस्तेन शैलं प्रियमिवातिथिम् ॥ २.१८.६०॥
ततो व्रजस्य भाण्डानि युक्तानि शकटानि च ।
विविशुर्वर्षभीतास्ते तद् गृहं गिरिनिर्मितम् ॥ ६१॥
अतिदैवं तु कृष्णस्य दृष्ट्वा तत् कर्म वज्रभृत् ।
मिथ्याप्रतिज्ञो जलदान् वारयामास वै विभुः ॥ ६२॥
सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवः ।
जगाम संवृतो मेघैर्वृत्रहा स्वर्गमुत्तमम् ॥ ६३॥
निवृत्ते सप्तरात्रं तु निष्प्रयत्ने शतक्रतौ ।
गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे ॥ ६४॥
गावस्तेनैव मार्गेण परिजग्मुर्यथागतम् ।
स्वं च स्थानं ततो घोषः प्रत्ययात् पुनरेव सः ॥ ६५॥
कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् ।
प्रीतो निवेशयामास शिवाय वरदो विभुः ॥ ६६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोवर्धनधारणेऽष्टादशोऽध्यायः ॥ १८॥
२.१९ एकोनविंशोऽध्यायः
गोविन्दाभिषेकः Krishna honoured
देवराजेन्द्रस्यागमनम्, श्रीकृष्णस्य गोविन्दपदे अभिषेकः, इन्द्रेण श्रीकृष्णं भावीकार्यं कथयित्वा अर्जुनस्य क्षेमाय बोधनम्, श्रीकृष्णेन तस्य स्वीकृतिः
वैशम्पायन उवाच ।
धृतं गोवर्द्धनं दृष्ट्वा परित्रातं च गोकुलम् ।
कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः ॥ १॥
स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम् ।
आरुह्यैरावतं नागमाजगाम महीतलम् ॥ २॥
स ददर्शोपविष्टं वै गोवर्द्धनशिलातले ।
कृष्णमक्लिष्टकर्माणं पुरुहूतः पुरन्दरः ॥ ३॥
तं वीक्ष्य बालं महता तेजसा दीप्तमव्ययम् ।
गोपवेषधरं विष्णुं प्रीतिं लेभे पुरन्दरः ॥ ४॥
तं सोऽम्बुजदलश्यामं कृष्णं श्रीवत्सलक्षणम् ।
पर्याप्तनयनः शक्रः सर्वैर्नेत्रैरुदैक्षत ॥ ५॥
दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् ।
सूपविष्टं शिलापृष्ठे शक्रः स व्रीडितोऽभवत् ॥ ६॥
तस्योपविष्टस्य मुखं पक्षाभ्यां पक्षिपुङ्गवः ।
अन्तर्द्धानं गतश्छायां चकारोरगभोजनः ॥ ७॥
तं विविक्ते वनगतं लोकवृत्तान्ततत्परम् ।
उपतस्थे गजं हित्वा कृष्णं बलनिषूदनः ॥ ८॥
स समीपगतस्तस्य दिव्यस्रगनुलेपनः ।
रराज देवराजो वै वज्रपूर्णकरः प्रभुः ॥ ९॥
किरीटेनार्कतुल्येन विद्युदुदद्योतकारिणा ।
कुण्डलाभ्यां स दिव्याभ्यां सततं शोभिताननः ॥ २.१९.१०॥
पञ्चस्तबकलम्बेन हारेणोरसि भूषितः ।
सहस्रपत्रकान्तेन देहभूषणकारिणा ।
ईक्षमाणः सहस्रेण नेत्राणां कामरूपिणाम् ॥ ११॥
त्रिदशाज्ञापनार्थेन मेघनिर्घोषकारिणा ।
अथ दिव्येन मधुरं व्याजहार स्वरेण तम् ॥ १२॥
इन्द्र उवाच ।
कृष्ण कृष्ण महाबाहो ज्ञातीनां नन्दिवर्द्धन ।
अतिदिव्यं कृतं कर्म त्वया प्रीतिमता गवाम् ॥ १३॥
मयोत्सृष्टेषु मेघेषु युगान्तावर्तकारिषु ।
यत्त्वया रक्षिता गावस्तेनास्मि परितोषितः ॥ १४॥
स्वायम्भुवेन योगेन यश्चायं पर्वतोत्तमः ।
धृतो वेश्मवदाकाशे को ह्येतेन न विस्मयेत् ॥ १५॥
प्रतिषिद्धे मम महे मयेयं रुषितेन वै ।
अतिवृष्टिः कृता कृष्ण गवां वै साप्तरात्रिकी ॥ १६॥
सा त्वया प्रतिषिद्धेयं मेघवृष्टिर्दुरासदा ।
देवैः सदानवगणैर्दुर्निवार्या मयि स्थिते ॥ १७॥
अहो मे सुप्रियं कृष्ण यत् त्वं मानुषदेहवान् ।
समग्रं वैष्णवं तेजो विनिगूहसि रोषितः ॥ १८॥
साधितं देवतानां हि मन्येऽहं कार्यमव्ययं ११
त्वयि मानुष्यमापन्ने युक्ते चैव स्वतेजसा ॥ १९॥
सेत्स्यते सर्वकार्यार्थो न किञ्चित् परिहास्यते ।
देवानां यद् भवान् नेता सर्वकार्यपुरोगमः ॥ २.१९.२०॥
एकस्त्वमसि देवानां लोकानां च सनातनः ।
द्वितीयं नात्र पश्यामि यस्तेषां च धुरं वहेत् ॥ २१॥
यथा हि पुङ्गवः श्रेष्ठो ह्यग्रे धुरि नियोज्यते ।
एवं त्वमसि देवानां मग्नानां द्विजवाहनः ॥ २२॥
त्वच्छरीरगतं कृष्ण जगत्प्रकरणं त्विदम् ।
ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् ॥ २३॥
स्वयं स्वयम्भूर्भगवान् बुद्ध्याथ वयसापि वा ।
न त्वानुगन्तुं शक्नोति पङ्गुर्द्रुतगतिं यथा ॥ २४॥
स्थाणुभ्यो हिमवाञ्छ्रेष्ठो ह्रदानां वरुणालयः ।
गरुत्मान् पक्षिणां श्रेष्ठो देवानां च भवान् वरः ॥ २५॥
अपामधस्ताल्लोको वै तस्योपरि महीधराः ।
नागानामुपरिष्टाद् भूः पृथिव्युपरि मानुषाः ॥ २६॥
मनुष्यलोकादूर्ध्वं तु खगानां गतिरुच्यते ।
आकाशस्योपरि रविर्द्वारं स्वर्गस्य भानुमान् ॥ २७॥
देवलोकः परस्तस्माद् विमानगमनो महान् ।
यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदम् ॥ २८॥
स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।
तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥ २९॥
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥ २.१९.३०॥
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ ३१॥
लोकस्त्वधो दुष्कृतिनां नागलोकस्तु दारुणः ।
पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः ॥ ३२॥
खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् ।
गतिः शमदमाख्यानां स्वर्गः सुकृतकर्मणाम् ॥ ३३॥
ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु गोलोको दुरारोहा हि सा गतिः ॥ ३४॥
स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ ३५॥
तदहं समनुप्राप्तो गवां वाक्येन चोदितः ।
ब्रह्मणश्च महाभाग गौरवात् तव चागतः ॥ ३६॥
अहं भूतपतिः कृष्ण देवराजः पुरन्दरः ।
अदितेर्गर्भपर्याये पूर्वजस्ते पुराकृतः ॥ ३७॥
स्वतेजस्तेजसा चैव यत् ते दर्शितवानहम् ।
देवरूपेण तत् सर्वं क्षन्तुमर्हसि मे विभो ॥ ३८॥
एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा ।
ब्रह्मणः शृणु मे वाक्यं गवां च गजविक्रम ॥ ३९॥
आह त्वां भगवान् ब्रह्मा गावश्चाकाशगा दिवि ।
कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः ॥ २.१९.४०॥
भवता रक्षिता गावो गोलोकश्च महानयम् ।
यद् वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा ॥ ४१॥
कर्षकान् पुङ्गवैर्बाह्यैर्मेध्येन हविषा सुरान् ।
श्रियं शकृत्प्रवृत्तेन तर्पयिष्याम कामदाः ॥ ४२॥
तदस्माकं गुरुस्त्वं हि प्राणदश्च महाबलः ।
अद्यप्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ॥ ४३॥
तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ।
एभिरद्याभिषिञ्चस्व मया हस्तावनामितैः ॥ ४४॥
अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥ ४५॥
ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥ ४६॥
ये चेमे वार्षिका मासाश्चत्वारो विहिता मम ।
एषामर्द्धं प्रयच्छामि शरत्कालं तु पश्चिमम् ॥ ४७॥
अद्यप्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः ।
वर्षार्द्धे च ध्वजो मह्यं ततः पूजामवाप्स्यसि ।
ममाम्बुप्रभवं दर्पं तदा त्यक्ष्यन्ति बर्हिणः ॥ ४८॥
अल्पवाचो गतमदा ये चान्ये मेघनादिनः ।
शान्तिं सर्वे गमिष्यन्ति मम कालविचारिणः ॥ ४९॥
त्रिशङ्क्वगस्त्यचरितामाशां च प्रचरिष्यति ।
सहस्ररश्मिरादित्यस्तापयन् स्वेन तेजसा ॥ २.१९.५०॥
ततः शरदि युक्तायां मौनकामेषु बर्हिषु ।
याचमाने खगे तोयं विप्लुतेषु प्लवेषु च ॥ ५१॥
हंससारसपूर्णेषु नदीनां पुलिनेषु च ।
मत्तक्रौञ्चप्रणादेषु प्रमत्तवृषभेषु च ॥ ५२॥
गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु ।
निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम् ॥ ५३॥
आकाशे शस्त्रसङ्काशे हंसेषु च चरत्सु च ।
जातपद्मेषु तोयेषु वापीषु च सरस्सु च ॥ ५४॥
तडागेषु च कान्तेषु तोयेषु विमलेषु च ।
कलमावनताग्रासु कृष्णकेदारपङ्क्तिषु ॥ ५५॥
मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च ।
सुसस्यायां च सीमायां मनोहर्यां मुनेरपि ॥ ५६॥
पृथिव्यां पृथुराष्ट्रायां रम्यायां वर्षसङ्क्षये ।
श्रीमत्सु पङ्क्तिमार्गेषु फलवत्सु तृणेषु च ।
इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च ॥ ५७॥
ततः प्रवर्त्यते पुण्या शरत् सुप्तोत्थिते त्वयि ।
लोकेऽस्मिन् कृष्ण निखिले यथैव त्रिदिवे तथा ॥ ५८॥
नरास्त्वां चैव मां चैव ध्वजाकारासु यष्टिषु ।
महेन्द्रं चाप्युपेन्द्रं च महयन्ति महीतले ॥ ५९॥
ये चावयोः स्थिरे वृत्ते महेन्द्रोपेन्द्रसंज्ञिते ।
मानवाः प्रणमिष्यन्ति तेषां नास्त्यनयागमः ॥ २.१९.६०॥
ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान् ।
अभिषेकेण गोविन्दं योजयामास योगवित् ॥ ६१॥
दृष्ट्वा तमभिषिक्तं तु गावस्ताः सह यूथपैः ।
स्तनैः प्रस्रवयुक्तैश्च सिषिचुः कृष्णमव्ययम् ॥ ६२॥
मेघाश्च दिवि युक्ताभिः सामृताभिः समन्ततः ।
सिषिचुस्तोयधाराभिरभिषिच्य तमव्ययम् ॥ ६३॥
वनस्पतीनां सर्वेशं सुस्रावेन्दुनिभं पयः ।
ववर्षुः पुष्पवर्षं च नेदुस्तूर्याणि चाम्बरे ॥ ६४॥
अस्तुवन् मुनयः सर्वे वाग्भिर्मन्त्रपरायणाः ।
एकार्णवे विविक्तं च दधार वसुधा वपुः ॥ ६५॥
प्रसादं सागरा जग्मुर्ववुर्वाता जगद्धिताः ।
मार्गस्थोऽपि बभौ भानुश्चन्द्रो नक्षत्रसंयुतः ॥ ६६॥
ईतयः प्रशमं जग्मुनिर्वैररचना नृपाः ।
प्रवालपत्रशबलाः पुष्पवन्तश्च पादपाः ॥ ६७॥
मदं प्रसुस्रुवुर्नागा यातास्तोषं वने मृगाः ।
अलङ्कृता गात्ररुहैर्धातुभिर्भान्ति पर्वताः ॥ ६८॥
देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव ।
आसीत्कृष्णाभिषेको हि दिव्यस्वर्गरसोक्षितः ॥ ६९॥
अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् ।
दिव्यमाल्याम्बरधरं देवदेवोऽब्रवीदिदम् ॥ २.१९.७०॥
एष ते प्रथमः कृष्ण नियोगो गोषु यः कृतः ।
श्रूयतामपरं कृष्ण ममागमनकारणम् ॥ ७१॥
क्षिप्रं प्रसाध्यतां कंसः केशी च तुरगाधमः ।
अरिष्टश्च मदाविष्टो राजराज्यं ततः कुरु ॥ ७२॥
पितृष्वसरि जातस्ते ममांशोऽहमिव स्थितः ।
स ते रक्ष्यश्च मान्यश्च सख्ये च विनियुज्यताम् ॥ ७३॥
त्वया ह्यनुगृहीतः स तव वृत्तानुवर्तकः ।
त्वद्वशे वर्तमानश्च प्राप्स्यते विपुलं यशः ॥ ७४॥
भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः ।
भविष्यत्यनुरूपश्च त्वदृते न च रंस्यते ॥ ७५॥
भारतं त्वयि चायत्तं तस्मिंश्च पुरुषोत्तमे ।
उभाभ्यामपि संयोगे यास्यन्ति निधनं नृपाः ॥ ७६॥
प्रतिज्ञातं मया कृष्ण ऋषिमध्ये सुरेषु च ।
मया पुत्रोऽर्जुनो नाम सृष्टः कुन्त्यां कुलोद्वहः ॥ ७७॥
सोऽस्त्राणां पारतत्त्वज्ञः श्रेष्ठश्चापविकर्षणे ।
तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः ॥ ७८॥
अक्षौहिणीस्तु शूराणां राज्ञां सङ्ग्रामशालिनाम् ।
स एकः क्षत्रधर्मेण योजयिष्यति मृत्युना ॥ ७६॥
तस्यास्त्रचरितं मार्गं धनुषो लाघवेन च ।
नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो ॥ २.१९.८०॥
स ते बन्धुः सहायश्च सङ्ग्रामेषु भविष्यति ।
तस्य योगो विधातव्यस्त्वया गोविन्द मत्कृते ॥ ८१॥
द्रष्टव्यश्च यथाहं वै त्वया मान्यश्च नित्यशः ।
ज्ञाता त्वमेव लोकानामर्जुनस्य च नित्यशः ॥ ८२॥
त्वया च नित्यं संरक्ष्य आहवेषु महत्सु सः ।
रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति ॥ ८३॥
अर्जुनं विद्धि मां कृष्ण मां चैवात्मानमात्मना ।
आत्मा तेऽहं यथा शश्वत् तथैव तव सोऽर्जुनः ॥ ८४॥
त्वया लोकानिमाञ्जित्वा बलेर्हस्तात् त्रिभिः क्रमैः ।
देवतानां कृतो राजा पुरा ज्येष्ठक्रमादहम् ॥ ८५॥
त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम् ।
सत्वेनोपेत्य देवा वै योजयन्ति रिपुक्षये ॥ ८६॥
सोऽर्जुनो नाम मे पुत्रः पितुस्ते भगिनीसुतः ।
इह सौहार्दमायातु भूत्वा सहचरस्तव ॥ ८७॥
तस्य ते युध्यतः कृष्ण स्वस्थानेऽपि गृहेऽपि वा ।
वोढव्या पुङ्गवेनेव धूः सदा रणमूर्धनि ॥ ८८॥
कंसे विनिहते कृष्ण त्वया भाव्यर्थदर्शिना ।
अभितस्तन्महद् युद्धं भविष्यति महीक्षिताम् ॥ ८९॥
तत्र तेषां नृवीराणामतिमानुषकर्मणाम् ।
विजयस्यार्जुनो भोक्ता यशसा त्वं च योक्ष्यसे ॥ २.१९.९०॥
एतन्मे कृष्ण कार्त्स्न्येन कर्तुमर्हसि भाषितम् ।
यद्यहं ते सुराश्चैव सत्यं च प्रियमच्युत ॥ ९१॥
शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः ।
प्रीतेन मनसा युक्तः प्रतिवाक्यं जगाद ह ॥ ९२॥
प्रीतोऽस्मि दर्शनाद् देव तव शक्र शचीपते ।
यत् त्वयाभिहितं चेदं न किञ्चित्परिहास्यते ॥ ९३॥
जानामि भवतो भावं जानाम्यर्जुनसम्भवम् ।
जाने पितृष्वसारं च पाण्डोर्दत्तां महात्मनः ॥ ९४॥
युधिष्ठिरं च जानामि कुमारं धर्मनिर्मितम् ।
भीमसेनं च जानामि वायोः सन्तानजं सुतम् ॥ ९५॥
अश्विभ्यां साधु जानामि सृष्टं पुत्रद्वयं शुभम् ।
नकुलं सहदेवं च माद्रीकुक्षिगतावुभौ ॥ ९६॥
कानीनं चापि जानामि सवितुः प्रथमं सुतम् ।
पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम् ॥ ९७॥
धार्तराष्ट्राश्च मे सर्वे विदिता युद्धकाङ्क्षिणः ।
पाण्डोरुपरमं चैव शापाशनिनिपातजम् ॥ ९८॥
तद्गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम् ।
नाजुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ ९९॥
अर्जुनार्थे च तान्सर्वान्पाण्डवानक्षतान्युधि ।
कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे ॥ २.१९.१००॥
यच्च वक्ष्यति मां शक्र तनूजस्तव सोऽर्जुनः ।
भृत्यवत्तत् करिष्यामि तव स्नेहेन यन्त्रितः ॥ १०१॥
सत्यसन्धस्य तच्छ्रुत्वा प्रियं प्रीतस्य भाषितम् ।
कृष्णस्य साक्षात् त्रिदिवं जगाम त्रिदशेश्वरः ॥ १०२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोविन्दाभिषेके एकोनविंशोऽध्यायः ॥ १९॥
२.२० विंशोऽध्यायः
हल्लीसकक्रीडनम् Krishna and gopi-s play music
श्रीकृष्णस्य अलौकिकं चरित्रं दृष्ट्वा आशङ्कितानां गोपानां कृष्णात् प्रश्नं,
श्रीकृष्णेन उत्तरं एवं तस्य रासलीलायाः सङ्क्षेपतः वर्णनं
वैशम्पायन उवाच ।
गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।
गोवर्धनपरः श्रीमान् विवेश व्रजमेव ह ॥ १॥
तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
धन्याः स्मोऽनुगृहीताः स्मस्त्वद्वृत्तेन नयेन च ॥ २॥
गावो वर्षभयात् तीर्णा वयं तीर्णा महाभयात् ।
तव प्रसादाद् गोविन्द देवतुल्यपराक्रम ॥ ३॥
अमानुषाणि कर्माणि तव पश्याम गोपते ।
धारणेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम् ॥ ४॥
कस्त्वं भवसि रुद्राणां मरुतां च महाबलः ।
वसूनां वा किमर्थे च वसुदेवः पिता तव ॥ ५॥
बलं च बाल्ये क्रीडा च जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥ ६॥
किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥ ७॥
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥ ८॥
केनचिद् यदि कार्येण वससीह यदृच्छया ।
वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥ ९॥
वैशम्पायन उवाच ।
गोपानां वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः ।
प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान् ॥ २.२०.१०॥
मन्यन्ते मां यथा सर्वे भवन्तो भीमविक्रमम् ।
तथाहं नावमन्तव्यः स्वजातीयोऽस्मि बान्धवः ॥ ११॥
यदि त्ववश्यं श्रोतव्यं कालः सम्प्रतिपाल्यताम् ।
ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः ॥ १२॥
यद्ययं भवतां श्लाघ्यो बान्धवो देवसप्रभः ।
परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम ॥ १३॥
एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै ।
बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः ॥ १४॥
कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो वनम् ।
शारदीं च निशां रम्यां मनश्चक्रे रतिं प्रति ॥ १५॥
स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान् ।
वृषाणां जातदर्पाणां युद्धानि समयोजयत् ॥ १६॥
गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् ।
वने स वीरो गाश्चैव जग्राह ग्राहवद् विभुः ॥ १७॥
युवतीर्गोपकन्याश्च रात्रौ सङ्काल्य कालवित् ।
कैशोरकं मानयन् वै सह ताभिर्मुमोद ह ॥ १८॥
तास्तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि ।
पिबन्ति नयनाक्षेपैर्गां गतं शशिनं यथा ॥ १९॥
हरितालार्द्रपीतेन स कौशेयेन वाससा ।
वसानो भद्रवसनं कृष्णः कान्ततरोऽभवत् ॥ २.२०.२०॥
स बद्धाङ्गदनिर्व्यूहश्चित्रया वनमालया ।
शोभमानो हि गोविन्दः शोभयामास तद्व्रजम् ॥ २१॥
नाम दामोदरेत्येवं गोपकन्यास्तदाब्रुवन् ।
विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः ॥ २२॥
तास्तं पयोधरोत्तुङ्गैरुरोभिः समपीडयन् ।
भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते वराङ्गनाः ॥ २३॥
ता वार्यमाणाः पतिभिर्मातृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ मृगयन्ते रतिप्रियाः ॥ २४॥
तास्तु पङ्क्तीकृताः सर्वा रमयन्ति मनोरमम् ।
गायन्त्यः कृष्णचरितं द्वन्द्वशो गोपकन्यकाः ॥ २५॥
कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः ।
कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः ॥ २६॥
वनेषु तालहस्ताग्रैः कूजयन्त्यस्तथापराः ।
चेरुर्वै चरितं तस्य कृष्णस्य व्रजयोषितः ॥ २७॥
तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् ।
मुदिताश्चानुकुर्वन्त्यः क्रीडन्ति व्रजयोषितः ॥ २८॥
भावनिस्पन्दमधुरं गायन्त्यस्ता वराङ्गनाः ।
व्रजं गताः सुखं चेरुर्दामोदरपरायणाः ॥ २९॥
करीषपांसुदिग्धाङ्ग्यस्ताः कृष्णमनुवव्रिरे ।
रमयन्त्यो यथा नागं सम्प्रमत्तं करेणवः ॥ २.२०.३०॥
तमन्या भावविकचैर्नेत्रैः प्रहसिताननाः ।
पिबन्त्यतृप्तवनिताः कृष्णं कृष्णमृगेक्षणाः ॥ ३१॥
मुखमस्याब्जसङ्काशं तृषिता गोपकन्यकाः ।
रत्यन्तरगता रात्रौ पिबन्ति रसलालसाः ॥ ३२॥
हा हेति कुर्वतस्तस्य प्रहृष्टास्ता वराङ्गनाः ।
जगृहुर्निस्सृतां वाणीं नाम्ना दामोदरेरिताम् ॥ ३३॥
तासां ग्रथितसीमन्ता रतिं नीत्वाऽऽकुलीकृताः ।
चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम् ॥ ३४॥
एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः ।
शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रासक्रीडायां विंशोध्यायः ॥ २०॥
२.२१ एकविंशोऽध्यायः
वृषभासुरवधः Slaying of vRiSabhAsura
अरिष्टासुरस्य वधं
वैशम्पायन उवाच ।
प्रदोषार्द्धे कदाचित् तु कृष्णे रतिपरायणे ।
त्रासयन् समदो गोष्ठमरिष्टः प्रत्यदृश्यत ॥ १॥
निर्वाणाङ्गारमेघाभस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
क्षुरतीक्ष्णाग्रचरणः कालः काल इवापरः ॥ २॥
लेलिहानः सनिष्पेषं जिह्वयोष्ठौ पुनः पुनः ।
गर्विताविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥ ३॥
ककुदोदग्रनिर्माणः प्रमाणाद् दुरतिक्रमः ॥
शकृन्मूत्रोपलिप्ताङ्गो गवामुद्वेजनो भृशम् ॥ ४॥
महाकटिः स्थूलमुखो दृढजानुर्महोदरः ।
विषाणावल्गितगतिर्लम्बता कण्ठचर्मणा ॥ ५॥
गवारोहेषु चपलस्तरुघाताङ्किताननः ॥
युद्धसञ्जाविषाणाग्रो द्विषद्वृषभसूदनः ॥ ६॥
अरिष्टो नाम हि गवामरिष्टो दारुणाकृतिः ।
दैत्यो वृषभरूपेण गोष्ठान् विपरिधावति ॥ ७॥
पातयानो गवां गर्भान् दृप्तो गच्छत्यनार्तवम् ।
भजमानश्च चपलो गृष्टीः सम्प्रचचार ह ॥ ८॥
शृङ्गप्रहरणो रौद्रः प्रहरन् गोषु दुर्मदः ।
गोष्ठेषु न रतिं लेभे विना युद्धेन गोवृषः ॥ ९॥
कस्यचित् त्वथ कालस्य स वृषः केशवाग्रतः ।
आजगाम बलोदग्रो वैवस्वतवशे स्थितः ॥ २.२१.१०॥
स तत्र गास्तु प्रसभं बाधमानो मदोत्कटः ।
चकार निर्वृषं गोष्ठं निर्वत्सशिशुपुङ्गवम् ॥ ११॥
एतस्मिन्नेव काले तु गावः कृष्णसमीपगाः ।
त्रासयामास दुष्टात्मा वैवस्वतवशे स्थितः ॥ १२॥
सेन्द्राशनिरिवाम्भोदो नर्दमानो महासुरः ।
तालशब्देन तं कृष्णः सिंहनादैश्च मोहयन् ॥ १३॥
अभ्यधावत गोविन्दो दैत्यं वृषभरूपिणम् ।
स कृष्णं गोवृषो दृष्ट्वा हृष्टलाङ्गूललोचनः ॥ १४॥
रोषितस्तालशब्देन युद्धाकाङ्क्षी ननर्द ह ।
तमापतन्तं दुर्वृत्तं दृष्ट्वा वृषभरूपिणम् ।
तस्मात् स्थानान्न व्यचलत् कृष्णो गिरिरिवाचलः ॥ १५॥
स कुक्षौ वृषभो दृष्टिं प्रणिधाय धृताननः ।
कृष्णस्य निधनाकाङ्क्षी तूर्णमभ्युत्पपात ह ॥ १६॥
तमापतन्तं वेगेन प्रतिजग्राह दुर्द्धरम् ।
कृष्णः कृष्णाञ्जननिभो वृषं प्रति वृषोपमः ॥ १७॥
स संसक्तस्तु कृष्णो वै वृषेणेव महावृषः ।
मुमोच वक्त्रजं फेनं नस्तश्चाथ सशब्दवत् ॥ १८॥
तावन्योन्यावरुद्धाङ्गौ युद्धे कृष्णवृषावुभौ ।
रेजतुर्मेघसमये संसक्ताविव तोयदौ ॥ १९॥
तस्य दर्पबलं हत्वा कृत्वा शृङ्गान्तरे पदम् ।
आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् ॥ २.२१.२०॥
शृङ्गं चास्य पुनः सव्यमुत्पाट्य यमदण्डवत् ।
तेनैव प्राहरद् वक्त्रे स ममार भृशं हतः ॥ २१॥
स भिन्नशृङ्गो भग्नास्यो भग्नस्कन्धश्च दानवः ।
पपात रुधिरोद्गारी साम्बुधार इवाम्बुदः ॥ २२॥
गोविन्देन हतं दृष्ट्वा दृप्तं वृषभदानवम् ।
साधु साध्विति भूतानि तत्कर्मास्याभितुष्टुवुः ॥ २३॥
स चोपेन्द्रो वृषं हत्वा कान्तचन्द्रे निशामुखे ।
अरविन्दाभनयनः पुनरेव ररास ह ॥ २४॥
तेऽपि गोवृत्तयः सर्वे कृष्णं कमललोचनम् ।
उपासाञ्चक्रिरे हृष्टाः सर्वे शक्रमिवामराः ॥ २५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृषभासुरवधे एकविंशोऽध्यायः ॥ २१॥
२.२२ द्वाविंशोऽध्यायः
अक्रूरप्रस्तानम् A mission for akrUra
कंसस्य आशङ्का, तस्य रात्रिसमये यदुवंशीनामाह्वयित्वा सभायां श्रीकृष्णस्य एवं
विष्णोः प्रभावस्य कथनम्, वसुदेवोपरि कठोराक्षेपम्, श्रीकृष्णादीनां आनयने अक्रूरस्य व्रजगमनाय आज्ञापनं
वैशम्पायन उवाच ।
कृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् ।
उद्वेगमगमत् कंसः शङ्कमानस्ततो भयम् ॥ १॥
पूतनायां हतायां च कालिये च पराजिते ।
धेनुके प्रलयं नीते प्रलम्बे च निपातिते ॥ २॥
धृते गोवर्धने शैले विफले शक्रशासने ।
गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा ॥ ३॥
ककुद्मिनि हतेऽरिष्टे गोपेषु मुदितेषु च ।
दृश्यमाने विनाशे च सन्निकृष्टे महाभये ॥ ४॥
कर्षणे वृक्षयोश्चैव शकटस्य तथैव च ।
अचिन्त्यं कर्म्म तच्छ्रुत्वा वर्धमानेषु शत्रुषु ॥ ५॥
प्राप्तारिष्टमिवात्मानं मेने स मथुरेश्वरः ।
विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमो बभौ ॥ ६॥
ततो ज्ञातीन् समानाय्य पितरं चोग्रशासनः ।
निशि स्तिमितमूकायां मथुरायां जनाधिपः ॥ ७॥
वसुदेवं च देवाभं कङ्कं चाहूय यादवम् ।
सत्यकं दारुकं चैव कङ्कावरजमेव च ॥ ८॥
भोजं वैतरणं चैव विकद्रुं च महाबलम् ।
भयशङ्खं च धर्मज्ञं विपृथुं च पृथुश्रियम् ॥ ९॥
बभ्रुं दानपतिं चैव कृतवर्माणमेव च ।
भूरितेजसमक्षोभ्यं भूरिश्रवसमेव च ॥ २.२२.१०॥
एतान्स यादवान् सर्वानाभाष्य शृणुतेति च ।
उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः ॥ ११॥
भवन्तः सर्वकार्यज्ञा वेदेषु परिनिष्ठिताः ।
न्यायवृत्तान्तकुशलास्त्रिवर्गस्य प्रवर्तकाः ॥ १२॥
कर्तव्यानां च कर्तारो लोकस्य विबुधोपमाः ।
तस्थिवांसो महावृत्ते निष्कम्पा इव पर्वताः ॥ १३॥
अदम्भवृत्तयः सर्वे सर्वे गुरुकुलोषिताः ।
राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः ॥ १४॥
यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः ।
आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः ॥ १५॥
प्रवक्तारः सुनियतां नेतारो नयदर्शिनाम् ।
भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम् ॥ १६॥
एवमक्षतचारित्रैः श्रीमद्भिरुदितोदितैः ।
द्यौरप्यनुगृहीता स्याद्भवद्भिः किं पुनर्मही ॥ १७॥
ऋषीणामिव वो वृत्तं प्रभावो मरुतामिव ।
रुद्राणामिव वः क्रोधो दीप्तिरङ्गिरसारमिव ॥ १८॥
व्यावर्तमानं सुमहद् भवद्भिः ख्यात कीर्तिभिः ।
धृतं यदुकुलं वीरैर्भूतलं पर्वतैरिव ॥ १९॥
एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु ।
वर्धमानो ममानर्थो भवद्भिः किमुपेक्षितः ॥ २.२२.२०॥
एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे ।
वर्धमान इवाम्भोभिर्मूलं नः परिकृन्तति ॥ २१॥
अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु ।
कारणान्नन्दगोपस्य स सुतो गोपितो गृहे ॥ २२॥
उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः ।
नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते ॥ २३॥
तस्य नाहं गतिं जाने न योगं न पराक्रमम् ।
नन्दगोपस्य भवने जातस्याद्भुतकर्मणः ॥ २४॥
किं तद्भूतं समुद्भूतं देवापत्यं न विद्महे ।
अतिदेवैरमानुष्यैः कर्मभिः सोऽनुमीयते ॥ २५॥
पूतना शकुनी बाल्ये शिशुनोत्तानशायिना ।
स्तनपानेप्सुना पीता प्राणैः सह दुरासदा ॥ २६॥
यमुनाया ह्रदे नागः कालियो दमितस्तथा ।
रसातलचरो नीतः क्षणेनादर्शनं ह्रदात् ॥ २७॥
नन्दगोपसुतो योगं कृत्वा स पुनरुत्थितः ।
चेनुकस्तालशिखरात् पातितो जीवितं विना ॥ २८॥
प्रलम्बं यं मृधे देवा न शेकुरतिवर्तितुम् ।
बालेन मुष्टिनैकेन स हतः प्राकृतो यथा ॥ २९॥
वासवस्योत्सवं भङक्त्वा वर्षं वासवरोषजम् ।
निर्जित्य गोगृहार्थाय धृतो गोवर्धनो गिरिः ॥ २.२२.३०॥
हतस्त्वरिष्टो बलवान् निःशृङ्गश्च कृतो व्रजे ।
अबालो बाल्यमास्थाय रमते शिशुलीलया ॥ ३१॥
प्रबन्धः कर्मणामेव तस्य गोव्रजवासिनः ।
सन्निकृष्टं भयं चैव केशिनो मम च धुवम् ॥ ३२॥
भूतपूर्वश्च मे मृत्युः सततं पूर्वदैहिकः ।
युद्धाकाङ्क्षी च स यथा तिष्ठतीह ममाग्रतः ॥ ३३॥
क्व च गोपत्वमशुभं मानुष्यं मृत्युदुर्बलम् ।
क्व च देवप्रभावेण क्रीडितव्यं व्रजे मम ॥ ३४॥
अहो नीचेन वपुषाच्छादयित्वाऽऽत्मनो वपुः ।
कोऽप्येष रमते देवः श्मशानस्य इवानलः ॥ ३५॥
श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे ।
वामनेन तु रूपेण जहार पृथिवीमिमाम् ॥ ३६॥
कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना ।
हतो हिरण्यकशिपुर्दानवानां पितामहः ॥ ३७॥
अचिन्त्यरूपमास्थाय श्वेतशैलस्य मूर्धनि ।
भवेन च्याविता दैत्याः पुरा तत्त्रिपुरं घ्नता ॥ ३८॥
चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै ।
प्रविश्य दार्दुरीं मायामनावृष्टिं चकार ह ॥ ३९॥
अनन्तः शाश्वतो देवः सहस्रशिरसोऽव्ययः ।
वाराहं रूपमास्थाय प्रोज्जहारार्णवान्मही म् ॥ २.२२.४०॥
अमृते निर्मिते पूर्वं विष्णुः स्त्रीरूपमास्थितः ।
सुराणामसुराणां च युद्धं चक्रे सुदारुणम् ॥ ४१॥
अमृतार्थे पुरा चापि देवदैत्यसमागमे ।
दधार मन्दरं विष्णुरकूपार इति श्रुतिः ॥ ४२॥
वपुर्वामनमास्थाय नन्दनीयं पुरा बलेः ।
त्रिभिः क्रमैस्तु त्रींल्लोकाञ्जहार त्रिदिवालयम् ॥ ४३॥
चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे ।
स एव रामसंज्ञो वै रावणं व्यनशत् तदा ॥ ४४॥
एवमेव निकृत्या वै तत्तद्रूपमुपागतः ।
साधयत्यात्मनः कार्यं सुराणामर्थसिद्धये ॥ ४५॥
तदेव नूनं विष्णुर्वा शक्रो वा मरुतां पतिः ।
मत्साधनेच्छया प्राप्तो नारदो मां यदुक्तवान् ॥ ४६॥
अत्र मे शङ्कते बुद्धिर्वसुदेवं प्रति ध्रुवा ।
अस्य बुद्धिविशेषेण वयं कातरतां गताः ॥ ४७॥
अहं हि खट्वाङ्गवने नारदेन समागतः ।
द्वितीयं स हि मां विप्रः पुनरेवाब्रवीद् वचः ॥ ४८॥
यस्त्वया हि कृतो यत्नः कंस गर्भकृते महान् ।
वसुदेवेन ते रात्रौ तत्कर्म विफलीकृतम् ॥ ४९॥
दारिका या त्वया रात्रौ शिलायां कंस पातिता ।
तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम् ॥ २.२२.५०॥
रात्रौ व्यावर्तितावेतौ गर्भौ तव वधाय वै ।
वसुदेवेन सन्धाय मित्ररूपेण शत्रुणा ॥ ५१॥
सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे ।
हत्वा शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ॥ ५२॥
कृताभिषेका वरदा भूतसङ्घनिषेविता ।
अर्च्यते दस्युभिर्घोरैर्महाबलिपशुप्रिया ॥ ५३॥
सुरापिशितपूर्णाभ्यां कुम्भाभ्यामुपशोभिता ।
मयूराङ्गदचित्रैश्च बर्हभारैर्विभूषिता ॥ ५४॥
हृष्टकुक्कुटसन्नादं वनं वायसनादितम् ।
मृगसङ्घैश्च सम्पूर्णमविरुद्धैश्च पक्षिभिः ॥ ५५॥
सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम् ।
वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम् ॥ ५६॥
दिव्यभृङ्गारुचमरैरादर्शैरुपशोभितम् ।
देवतूर्यनिनादैश्च शतशः प्रतिनादितम् ॥ ५७॥
स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा ।
रिपूणां त्रासजननी नित्यं तत्र मनोरमे ॥ ५८॥
वसते परमप्रीता देवतैरपि पूजिता ।
यस्त्वयं नन्दगोपस्य कृष्ण इत्युच्यते सुतः ॥ ५९॥
अत्र मे नारदः प्राह सुमहत्कर्मकारणम् ।
द्वितीयो वसुदेवाद् वै वासुदेवो भविष्यति ॥ २.२२.६०॥
स हि ते सहजो मृत्युर्बान्धवश्च भविष्यति ।
स एव वासुदेवो वै वसुदेवसुतो बली ।
बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः ॥ ६१॥
नेत्रे तुदति तस्यैव वक्त्रेणामिषगृद्धिना ॥ ६२॥
वसुदेवस्तथैवायं सपुत्रज्ञातिबान्धवः ।
छिनत्ति मम मूलानि भुङ्क्ते च मम पार्श्वतः ॥ ६३॥
भ्रूणहत्यापि सन्तार्या गोवधः स्त्रीवधोऽपि वा ।
न कृतघ्नस्य लोकोऽस्ति बान्धवस्य विशेषतः ॥ ६४॥
पतितानुगतं मार्गं निषेवत्यचिरेण सः ।
यः कृतघ्नोऽनुबन्धेन प्रीतिं वहति दारुणाम् ॥ ६५॥
नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः ।
अपापे पापहृदयो यः पापमनुतिष्ठति ॥ ६६॥
अहं वा स्वजनः श्लाघ्यः स वा श्लाघ्यतरः सुतः ।
नियमैर्गुणवृत्तेन त्वया बान्धवकाम्यया ॥ ६७॥
हस्तिनां कलहे घोरे वधमृच्छन्ति वीरुधः ।
युद्धव्युपरमे ते तु सहाश्नन्ति महावने ॥ ६८॥
बान्धवानामपि तथा भेदकाले समुत्थिते ।
वध्यते योऽन्तरप्रेप्सुः स्वजनो यदि वेतरः ॥ ६९॥
कालस्त्वं हि विनाशाय मया पुष्टो विजानता ।
वसुदेव कुलस्यास्य यद् विरोधयसे भृशम् ॥ २.२२.७०॥
अमर्षी वैरशीलश्च सदा पापमतिः शठः ।
स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम् ॥ ७१॥
वसुदेव वृथा वृद्ध यन्मया त्वं पुरस्कृतः ।
श्वेतेन शिरसा वृद्धो नैव वर्षशतैर्भवेत् ॥ ७२॥
यस्य बुद्धिः परिणता स वै वृद्धतरो नृणाम् ॥ ७३॥
त्वं च कर्कशशीलश्च बुद्ध्या च न बहुश्रुतः ।
केवलं वयसा वृद्धो यथा शरदि तोयदः ॥ ७४॥
किं च त्वं साधु जानीषे वसुदेव वृथामते ।
मृते कंसे मम सुतो मथुरां पालयिष्यति ॥ ७५॥
छिन्नाशस्त्वं वृथावृद्धो मिथ्यात्वेवं विचारितम् ।
जिजीविषुर्न सोऽप्यस्ति योऽवतिष्ठेन्ममाग्रतः ॥ ७६॥
प्रहर्तुकामो विश्वस्ते यस्त्वं दुष्टेन चेतसा ।
तत् ते प्रतिकरिष्येऽहं पुत्रयोस्तव पश्यतः ॥ ७७॥
न मे वृद्धवधः कश्चिद् द्विजस्त्रीवध एव च ।
कृतपूर्वः करिष्ये वा विशेषेण तु बान्धवे ॥ ७८॥
इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः ।
पितृष्वसुश्च मे भर्ता यदूनां प्रथमो गुरुः ॥ ७९॥
कुले महति विख्यातः प्रथिते चक्रवर्तिनाम् ।
गुर्वर्थं पूजितः सद्भिर्महद्भिर्धर्मबुद्धिभिः ॥ २.२२.८०॥
किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः ।
यदूनां यूथमुख्यस्य यस्य ते वृत्तमीदृशम् ॥ ८१॥
मद्वधो वा जयो वाथ वसुदेवस्य दुर्नयैः ।
सत्सु यास्यन्ति पुरुषा यदूनामवगुण्ठिताः ॥ ८२॥
त्वया हि मद्वधोपायं तर्कमाणेन वै मृधे ।
अविश्वास्यं कृतं कर्म वाच्याश्च यदवः कृताः ॥ ८३॥
अशाम्यं वैरमुत्पन्नं मम कृष्णस्य चोभयोः ।
शान्तिमेकतरे शान्तिं गते यास्यन्ति यादवाः ॥ ८४॥
गच्छ दानपते क्षिप्रं ताविहानयितुं व्रजात् ।
नन्दगोपं च गोपांश्च करदान् मम शासनात् ॥ ८५॥
वाच्यश्च नन्दगोपो वै करमादाय वार्षिकम् ।
शीघ्रमागच्छ नगरं गोपैः सह समन्वितः ॥ ८९॥
कृष्णसङ्कर्षणौ चैव वसुदेवसुतावुभौ ।
द्रष्टुमिच्छति वै कंसः सभृत्यः सपुरोहितः ॥ ८७॥
एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ ।
दृढौ च कृतिनौ चैव शृणोमि व्यायतोद्यमौ ॥ ८८॥
अस्माकमपि मल्लौ द्वौ सज्जौ युद्धकृतोत्सवौ ।
ताभ्यां सह नियोत्स्येते तौ युद्धकुशलावुभौ ॥ ८९॥
द्रष्टव्यौ च मयावश्यं बालौ तावमरोपमौ ।
पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ ॥ २.२२.९०॥
वक्तव्यं च व्रजे तस्मिन् समीपे व्रजवासिनाम् ।
राजा धनुर्मखं नाम कारयिष्यति वै सुखी ॥ ९१॥
सन्निकृष्टे वने ते तु निवसन्तु यथासुखम् ।
जनस्यामन्त्रितस्यार्थे यथा स्यात् सर्वमव्ययम् ॥ ९२॥
पयसः सर्पिषश्चैव दध्नो दध्युत्तरस्य च ।
यथाकामप्रदानाय भोज्याधिश्रयणाय च ॥ ९३॥
अक्रूर गच्छ शीघ्रं त्वं तावानय ममाज्ञया ।
सङ्कर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे ॥ ९४॥
तयोरागमने प्रीतिः परमा मत्कृता भवेत् ।
दृष्ट्वा तु तौ महावीर्यौ तद्विधास्यामि यद्धितम् ॥ ९५॥
शासनं यदि वा श्रुत्वा मम तौ परिभाषितम् ।
नागच्छेतां यथाकालं निग्राह्यावपि तौ मम ॥ ९६॥
सान्त्वमेव तु बालेषु प्रधानं प्रथमो नयः ।
मधुरेणैव तौ मन्दौ स्वयमेवानयाशु वै ॥ ९७॥
अक्रूर कुरु मे प्रीतिमेतां परमदुर्लभाम् ।
यदि वा नोपजप्तोऽसि वसुदेवेन सुव्रत ।
तथा कर्तव्यमेतद्धि यथा तावागमिष्यतः ॥ ९८॥
एवमाक्षिप्यमाणोऽपि वसुदेवो वसूपमः ।
सागराकारमात्मानं निष्प्रकम्पमधारयत् ॥ ९९॥
वाक्छल्यैस्ताड्यमानस्तु कंसेनादीर्घदर्शिना ।
क्षमां मनसि सन्धाय नोत्तरं प्रत्यभाषत ॥ २.२२.१००॥
ये तु तं ददृशुस्तत्र क्षिप्यमाणमनेकधा ।
धिग्धिगित्यसकृत्ते वै शनैरूचुरवाङ्मुखाः ॥ १०१॥
अक्रूरस्तु महातेजा जानन् दिव्येन चक्षुषा ।
जलं दृष्ट्वेव तृषितः प्रेषितः प्रीतिमानभूत् ॥ १०२॥
तस्मिन्नेव मुहूर्ते तु मथुरायाः स निर्ययौ ।
प्रीतिमान्पुण्डरीकाक्षं द्रष्टुं दानपतिः स्वयम् ॥ १०३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरप्रस्थाने द्वाविंशोऽध्यायः ॥ २२॥
२.२३ त्रयोविंशोऽध्यायः
अन्धकवचनम् Andhaka admonishes kamsa
अन्धकस्य कंसं प्रति कठोरप्रतिवचनानि
वैशम्पायन उवाच ।
क्षिप्तं यदुवृषं दृष्ट्वा सर्वे ते यदुपुङ्गवाः ।
निपीड्य श्रवणान् हस्तैर्मेनिरे तं गतायुषम् ॥ १॥
अन्धकोऽनुद्विग्नमना धैर्यादविकृतं वचः ।
प्रोवाच वदतां श्रेष्ठः समाजे कंसमोजसा ॥ २॥
अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः ।
अयुक्तो गर्हितः सद्भिर्बान्धवेषु विशेषतः ॥ ३॥
अयादवो यदि भवाञ्छृणु तावद् यदुच्यते ।
न हि त्वां यादवं वीर बलात्कुर्वन्ति यादवाः ॥ ४॥
अश्लाघ्या वृष्णयः पुत्र येषां त्वमनुशासिता ।
इक्ष्वाकुवंशजो राजा विनिवृत्तः स्वयं सकृत् ॥ ५॥
भोजो वा यादवो वासि कंसो वासि यथा तथा ।
सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव ॥ ६॥
उग्रसेनस्त्वयं शोच्यो योऽस्माकं कुलपांसनः ।
दुर्जातीयेन येन त्वमीदृशो जनितः सुतः ॥ ७॥
न चात्मनो गुणांस्तात प्रवदन्ति मनीषिणः ।
परेणोक्ता गुणा गौण्यं यान्ति वेदार्थसम्मिताः ॥ ८॥
पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् ।
बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता ॥ ९॥
असाधुमद्भिर्वाक्यैश्च त्वया साध्विति भाषितैः ।
न चाप्यासादितं कार्यमात्मा च विवृतः कृतः ॥ २.२३.१०॥
गुरोरनवलिप्तस्य मान्यस्य महतामपि ।
क्षेपणं कः शुभं मन्थे द्विजस्येव वधे कृते ॥ ११॥
मान्याश्चैवाभिगम्याश्च घृद्धास्तात यथाग्नयः ।
क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि ॥ १२॥
बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना ।
धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव ॥ १३॥
केवलं त्वं तु दर्पेण वृद्धानग्निसमानिह ।
वचा तुदसि मर्मघ्न्या अमन्त्रोक्ता यथाऽऽहुतिः ॥ १४॥
वसुदेवं च पुत्रार्थे यदिमं परिगर्हसि ।
तत्र मिथ्या प्रलापं ते निन्दामि कृपणं वचः ॥ १५॥
दारुणे च पिता पुत्रे नैव दारुणतां व्रजेत् ।
पुत्रार्थं ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि ॥ १६॥
छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा ।
मन्यसे यद्यकर्तव्यं तत् पृच्छ पितरं स्वकम् ॥ १७॥
गर्हता वसुदेवं च यदुवंशं च निन्दता ।
त्वया यादवपुत्राणां वैरजं विषमर्जितम् ॥ १८॥
अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् ।
किमर्थमुग्रसेनेन शिशुस्त्वं न विनाशितः ॥ १९॥
पुन्नाम्नो नरकात्पुत्रो यस्मात्त्राता पितॄंस्तदा ।
तस्माद् ब्रुवन्ति पुत्रेति पुत्रं धर्मविदो जनाः ॥ २.२३.२०॥
जात्यां हि यादवः कृष्णः स च सङ्कर्षणो युवा ।
त्वं चापि विधृतस्ताभ्यां जातवैरेण चेतसा ॥ २१॥
उद्धृतानीह सर्वेषां यदूनां हृदयानि वै ।
वसुदेवे त्वयाऽऽक्षिप्ते वासुदेवे च कोपिते ॥ २२॥
कृष्णे च भवतो द्वेष्ये वसुदेवविगर्हणात् ।
शंसन्ति चेमानि भयं निमित्तान्यशुभानि ते ॥ २३॥
सर्पाणां दर्शनं तीव्रं दुःस्वप्नानां निशाक्षये ।
पुर्या वैधव्यशंसीनि कारणैरनुमीमहे ॥ २४॥
एष घोरोग्रहः स्वातीमुल्लिखन् खे गभस्तिभिः ।
वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः ॥ २५॥
बुधेन पश्चिमा सन्ध्या व्याप्ता घोरेण तेजसा ।
वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह ॥ २६॥
केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम् ॥ २७॥
प्राक्सन्ध्या परिघग्रस्ता भाभिर्बाधति भास्करम् ।
प्रतिलोमं च यान्त्येव व्याहरन्तो मृगद्विजाः ॥ २८॥
शिवा स्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी ।
उभे सन्ध्ये पुरीं घोरा पर्येति बहु वाशती ॥ २९॥
उल्का निर्घातनादेन पपात धरणीतले ।
चलत्यपर्वणि मही गिरीणां शिखराणि च ॥ २.२३.३०॥
त्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत ।
धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः ॥ ३१॥
प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः ।
चलिता देवताः स्थानात्त्यजन्ति विहगा नगान् ॥ ३२॥
यानि राजविनाशाय दैवज्ञाः कथयन्ति ह ।
तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै ॥ ३३॥
त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः ।
अनिमित्तागतक्रोधः सन्निकृष्टभयो ह्यसि ॥ ३४॥
यस्त्वं देवोपमं वृद्धं वसुदेवं वसूपमम् ।
मोहात् क्षिपसि दुर्बुद्धे कुतस्ते शान्तिरात्मनः ॥ ३५॥
त्वद्गतो यो हि नः स्नेहस्तं त्यजामोऽद्य वै वयम् ।
अहितं स्वस्य वंशस्य न त्वां क्षणमुपास्महे ॥ ३६॥
स हि दानपतिर्धन्यो यो द्रक्ष्यति वने गतम् ।
पुण्डरीकविशालाक्षं कृष्णमक्लिष्टकारिणम् ॥ ३७॥
छिन्नमूलो ह्ययं वंशो यदूनां त्वत्कृते कृतः ।
कृष्णो ज्ञातीन् समानाय्य स सन्धानं करिष्यति ॥ ३८॥
क्षान्तमेव तवानेन वसुदेवेन धीमता ।
कालसम्यक्परिज्ञानो ब्रूहि त्वं यद्यदिच्छसि ॥ ३९॥
मह्यं तु रोचते कंस वसुदेवसहायवान् ।
गच्छ कृष्णस्य निलयं सन्धिस्तेन च रोचताम् ॥ २.२३.४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवचने त्रयोविंशोऽध्यायः ॥ २३॥
२.२४ चतुर्विंशोऽध्यायः
केशिवधः Slaying of keshi
केशेः अत्याचाराणि, श्रीकृष्णेन तस्य वधं
वैशम्पायन उवाच ।
अन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः ।
न किञ्चिदब्रवीत् क्रोधाद् विवेश स्वं निकेतनम् ॥ १॥
ते च सर्वे यथावेश्म यादवाः श्रुतविस्तराः ।
जग्मुर्विगतसङ्कल्पाः कंसवैकृतशंसिनः ॥ २॥
अक्रूरोऽपि यथाऽऽज्ञप्तः कृष्णदर्शनलालसः ।
जगाम रथमुख्येन मनसा तुल्यगामिना ॥ ३॥
कृष्णस्यापि निमित्तानि शुभान्यङ्गगतानि वै ।
पितृतुल्येन शंसन्ति बान्धवेन समागमम् ॥ ४॥
प्रागेव च नरेन्द्रेण माथुरेणौग्रसेनिना ।
केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात् ॥ ५॥
स च दूतवचः श्रुत्वा केशी क्लेशकरो नृणाम् ।
वृन्दावनगतो गोपान् बाधते स्म दुरासदः ॥ ६॥
मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः ।
दुर्दान्तो वाजिदैत्योऽसावकरोत् कदनं महत् ॥ ७॥
निघ्नन् गा वै सगोपालान् गवां पिशितभोजनः ।
दुर्मदः कामचारी च स केशी निरवग्रहः ॥ ८॥
तदरण्यं क्ष्मशानाभं नृणां मांसास्थिभिर्वृतम् ।
यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः ॥ ९॥
खुरैर्दारयते भूमिं वेगेनारुजते द्रुमान् ।
हेषितैः स्पर्द्धते वायुं प्लुतैर्लङ्घयते नभः ॥ २.२४.१०॥
अतिप्रवृद्धो मत्तश्च दुष्टोऽश्वो वनगोचरः ।
आकम्पितसटो रौद्रः कंसस्य चरितानुगः ॥ ११॥
ईरिणं तद् वनं सर्वं तेनासीत् पापकर्मणा ।
कृतं तुरगदैत्येन सर्वान् गोपाञ्जिघांसता ॥ १२॥
तेन दुष्टप्रचारेण दूषितं तद् वनं महत् ।
न नृभिर्गोधनैवापि सेव्यते वनवृत्तिभिः ॥ १३॥
निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रयः ।
मदाच्चलितवृत्तेन नृमांसान्यश्नता भृशम् ॥ १४॥
नृशब्दानुसरः क्रुद्धः स कदाचिद् वनागमे ।
जगाम घोषसंवासं चोदितः कालधर्मणा ॥ १५॥
तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह ।
क्रन्दमाना जगन्नाथं कृष्णं नाथमुपाश्रिताः ॥ १६॥
तासां रुदितशव्देन गोपानां क्रन्दितेन च ।
दत्त्वाभयं तु कृष्णो वै केशिनं सोऽभिदुद्रुवे ॥ १७॥
केशी चाप्युन्नतग्रीवः प्रकाशदशनेक्षणः ।
हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ ॥ १८॥
तमापतन्तं सम्प्रेक्ष्य केशिनं हयदानवम् ।
प्रत्युज्जगाम गोविन्दस्तोयदः शशिनं यथा ॥ १९॥
केशिनस्तु तमभ्याशे दृष्ट्वा कृष्णमवस्थितम् ।
मनुष्यबुद्धयो गोपाः कृष्णमूचुर्हितैषिणः ॥ २.२४.२०॥
कृष्ण तात न खल्वेष सहसा ते हयाधमः ।
उपसर्प्यो भवान् बालः पापश्चैष दुरासदः ॥ २१॥
एष कंसस्य सहजः प्राणस्तात बहिश्चरः ।
उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि ॥ २२॥
त्रासनः सर्वभूतानां तुरगाणां महाबलः ।
अवध्यः सर्वभूतानां प्रथमः पापकर्मणाम् ॥ २३॥
गोपानां तद् वचः श्रुत्वा वदतां मधुसूदनः ।
केशिना सह युद्धाय मतिं चक्रेऽरिसूदनः ॥ २४॥
ततः सव्यं दक्षिणं च मण्डलं स परिभ्रमन् ।
पद्भ्यामुभाभ्यां स हयः क्रोधेनारुजते द्रुमान् ॥ २५॥
मुखे लम्बसटे चास्य स्कन्धे केशघनावृते ।
वलयोऽभ्रतरङ्गाभाः सुस्रुवुः क्रोधजं जलम् ॥ २६॥
स फेनं वक्त्रजं चैव ववर्ष रजसावृतम् ।
हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः ॥ २७॥
गोविन्दमरविन्दाक्षं हेषितोद्गारशीकरैः ।
स फेनैर्वक्त्रनिर्गीर्णैः प्रोक्षयामास भारत ॥ २८॥
खुरोद्धूतावसिक्तेन मधुकक्षोदपाण्डुना ।
रजसा स हयः कृष्णं चकारारुणमूर्धजम् ॥ २९॥
प्लुतवल्गितपादस्तु तक्षमाणो धरां खुरैः ।
दन्तान् निर्दशमानस्तु केशी कृष्णमुपाद्रवत् ॥ २.२४.३०॥
स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः ।
पूर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्यताडयत् ॥ ३१॥
पुनः पुनः स च बली प्राहिणोत्पार्श्वतः खुरान् ।
कृष्णस्य दानवो घोरं प्रहारममितौजसः ॥ ३२॥
वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै ।
अदशद् बाहुशिखरं कृष्णस्य रुषितो हयः ॥ ३३॥
स लम्बकेसरसटः कृष्णेन सह सङ्गतः ।
रराज केशी मेघेन संसक्तः ख इवांशुमान् ॥ ३४॥
उरस्तस्योरसा हन्तुमियेष वलवान् हयः ।
वेगेन वासुदेवस्य क्रोधाद् द्विगुणविक्रमः ॥ ३५॥
तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमितविक्रमः ।
बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत् ॥ ३६॥
स तं बाहुमशक्तो वै खादितुं भेत्तुमेव च ।
दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन् ॥ ३७॥
विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकृतः ।
अक्षिणी विवृते चक्रे विसृते मुक्तबन्धने ॥ ३८॥
निरस्तहनुराविष्टः शोणिताक्तविलोचनः ।
उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत ॥ ३९॥
उत्पतन्नसकृत्पादैः शकृन्मूत्रं समुत्सृजन् ।
खिन्नाङ्गरोमा श्रान्तस्तु निर्यत्नचरणोऽभवत् ॥ २.२४.४०॥
केशिवक्त्रविलग्नस्तु कृष्णबाहुरशोभत ।
व्याभुग्न इव घर्मान्ते चन्द्रार्धकिरणैर्घनः ॥ ४१॥
केशी च कृष्णसंसक्तः शान्तगात्रो व्यरोचत ।
प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः ॥ ४२॥
तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात् ।
पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव ॥ ४३॥
स तु केशी भृशं शान्तः कृष्णेनाक्लिष्टकर्मणा ।
स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा ॥ ४४॥
स पाटितो भुजेनाजौ कृष्णेन विकृताननः ।
केशी नदन्महानादं दानवो व्यथितस्तदा ॥ ४५॥
विघूर्णमानस्त्रस्ताङ्गो मुखाद् रुधिरमुद्वमन् ।
भृशं व्यङ्गीकृतवपुर्निकृत्तार्द्ध इवाचलः ॥ ४६॥
व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।
निपपात यथा कृत्तो नागो हि द्विदलीकृतः ॥ ४७॥
बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ ।
पशोरिव महाघोरं निहतस्य पिनाकिना ॥ ४८॥
द्विपादपृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।
केशिनस्तद्विधाभूते द्वे चार्धे रेजतुः क्षितौ ॥ ४९॥
केशिदन्तक्षतस्यापि कृष्णस्य शुशुभे भुजः ।
वृद्धः साल इवारण्ये गजेन्द्रदशनाङ्कितः ॥ २.२४.५०॥
तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः ।
कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् ॥ ५१॥
तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियस्तथा ।
बभूवुर्मुदिताः सर्वे हतविघ्ना गतक्लमाः ॥ ५२॥
दामोदरं तु श्रीमन्तं यथास्थानं यथावयः ।
अभ्यनन्दन् प्रियैर्वाक्यैः पूजयन्तः पुनः पुनः ॥ ५३॥
गोपा ऊचुः ।
अहो तात कृतं कर्म हतोऽयं लोककण्टकः ।
दैत्यः क्षितिचरः कृष्ण हयरूपं समास्थितः ॥ ५४॥
कृतं वृन्दावनं क्षेमं सेव्यं नृमृगपक्षिणाम् ।
घ्नता पापमिमं तात केशिनं हयदानवम् ॥ ५५॥
हता नो बहवो गोपा गावो वत्सेषु वत्सलाः ।
नैके चान्ये जनपदा हतानेन दुरात्मना ॥ ५६॥
एष संवर्तकं कर्तुमुद्यतः खलु पापकृत् ।
नृलोकं निर्नरं कृत्वा चर्तुकामो यथासुखम् ॥ ५७॥
नैतस्य प्रमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।
अपि देवसमूहेषु किं पुनः पृथिवीतले ॥ ५८॥
वैशम्पायन उवाच ।
अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः ।
प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चाब्रवीत् ॥ ५९॥
नारद उवाच ।
यदिदं दुष्करं कर्म कृतं केशिजिघांसया ।
त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकस्य वा ॥ २.२४.६०॥
अहं युद्धोत्सुकस्तात त्वद्गतेनान्तरात्मना ।
इदं नरहयं युद्धं द्रष्टुं स्वर्गादिहागतः ॥ ६१॥
पूतनानिधनादीनि कर्माणि तव दृष्टवान् ।
अहं त्वनेन गोविन्द कर्मणा परितोषितः ॥ ६२॥
हयादस्मान्महेन्द्रोऽपि बिभेति बलसूदनः ।
कुर्वाणाच्च वपुर्घोरं केशिनो दुष्टचेतसः ॥ ६३॥
यत्त्वया पाटितो देहो भुजेनायतपर्वणा ।
एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना ॥ ६४॥
यस्मात् त्वया हतः केशी तस्मान्मच्छासनं शृणु ।
केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि ॥ ६५॥
स्वस्त्यस्तु भवतो लोके साधु याम्यहमाशुगः ।
कृत्यशेषं च ते कार्यं शक्तस्त्वमसि मा चिरम् ॥ ६६॥
त्वयि कार्यान्तरगते नरा इव दिवौकसः ।
विडम्बयन्तः क्रीडन्ति लीलां त्वद्बलमाश्रिताः ॥ ६७॥
अभ्याशे वर्तते कालो भारतस्याहवोदधेः ।
हस्तप्राप्तानि युद्धानि रागं त्रिदिवगामिनाम् ॥ ६८॥
पन्थानः शोधिता व्योम्नि विमानारोहणोर्ध्वगाः ।
अवकाशा विभज्यन्ते शक्रलोके महीक्षिताम् ॥ ६९॥
उग्रसेनसुते शान्ते पदस्थे त्वयि केशव ।
अभितस्तन्महद् युद्धं भविष्यति महीक्षिताम् ॥ २.२४.७०॥
त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पाण्डवाः ।
भेदकाले नरेन्द्राणां पक्षग्राहो भविष्यसि ॥ ७१॥
त्वयि राजासनस्थे हि राजश्रियमनुत्तमाम् ।
शुभां त्यक्ष्यन्ति राजानस्त्वत्प्रभावान्न संशयः ॥ ७२॥
एष मे कृष्ण सन्देशः श्रुतिभिः ख्यातिमेष्यति ।
देवतानां दिविस्थानां जगतश्च जगत्पते ॥ ७३॥
दृष्टं मे भवतः कर्म दृष्टश्चासि मया प्रभो ।
कंसे भूयः समेष्यामि साधिते साधु याम्यहम् ॥ ७४॥
एवमुक्त्वा तु स तदा नारदः खं जगाम ह ।
नारदस्य वचः श्रुत्वा देवसङ्गीतयोनिनः ॥ ७५॥
तथेति स समाभाष्य पुनर्गोपान् समासदत् ।
गोपाः कृष्णं समासाद्य विविशुर्व्रजमेव ह ॥ ७६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि केशिवधे चतुर्विशोऽध्यायः ॥ २४॥
२.२५ पञ्चविंशोऽध्यायः
अक्रुरागमनम् AkrUra arrives
अक्रूरस्य व्रजं आगत्वा भगवतः श्रीकृष्णस्य दर्शनं, तस्य विषये अनेकानां प्रकाराणां चिन्तनं
वैशम्पायन उवाच ।
अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे ।
सन्ध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले ॥ १॥
नीडस्थेषु विहङ्गेषु सत्सु प्रादुष्कृताग्निषु ।
ईषत्तमःसंवृतासु दिक्षु सर्वासु सर्वशः ॥ २॥
घोषवासिषु सुप्तेषु वाशन्तीषु शिवासु च ।
नक्तञ्चरेषु हृष्टेषु पिशिताशनकाङ्क्षिषु ॥ ३॥
शक्रगोपाह्वयामोदे प्रदोषेऽभ्यासतस्करे ।
सन्ध्यमयीमिव गुहां सम्प्रतिष्ठे दिवाकरे ॥ ४॥
अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम् ।
वन्यैर्वैखानसैर्मन्त्रैर्हूयमाने हुताशने ॥ ५॥
उपावृत्तासु वै गोषु दुह्यमानासु च व्रजे ।
असकृद्व्याहरन्तीषु बद्धवत्सासु धेनुषु ॥ ६॥
प्रकीर्णदामनीकेषु गास्तथैवाह्वयत्सु च ।
सनिनादेषु गोपेषु काल्यमाने च गोधने ॥ ७॥
करीषेषु प्रक्लृप्तेषु दीप्यमानेषु सर्वशः ।
काष्ठभारानतस्कन्धैगोम्पैरभ्यागतैस्तथा ॥ ८॥
किञ्चिदभ्युद्यते सोमे मन्दरश्मौ विराजति ।
ईषद्विगाहमानायां रजन्यां दिवसे गते ॥ ९॥
प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे ।
भास्करे तेजसि गते सौम्ये तेजस्युपस्थिते ॥ १०॥
अग्निहोत्राकुले काले सौम्येन्दौ समुपस्थिते ।
अग्नीषोमात्मके सन्धौ वर्तमाने जगन्मये ॥ ११॥
पश्चिमेनाग्निदीप्तेन पूर्वेणोत्पलवर्चसा ।
दग्धाद्रिसदृशे व्योम्नि किञ्चित्तारागणाकुले ॥ १२॥
वयोभिर्वासमुशतां बन्धुभिश्च समागमम् ।
शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम् ॥ १३॥
प्रविशन्नेव पप्रच्छ सान्निध्यं केशवस्य सः ।
रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत् ॥ १४॥
स नन्दगोपस्य गृहं वासाय विबुधोपमः ।
अवतीर्य ततो यानात् प्रविवेश महाबलः ॥ १५॥
हर्षपूर्णेन वक्त्रेण साश्रुनेत्रेण चैव हि ।
प्रविशन्नेव च द्वारि ददर्शादोहने गवाम् ॥ १६॥
वत्समध्ये स्थितं कृष्णं सवत्समिव गोवृषम् ।
स तं हर्षपरीतेन वचसा गद्गदेन वै ॥ १७॥
एहि केशव तातेति प्रव्याहरत धर्मवित् ।
उत्तानशायिनं दृष्ट्वा पुनर्दृष्ट्वा श्रिया वृतम् ॥ १८॥
अव्यक्तयौवनं कृष्णमक्रूरः प्रशशंस ह ।
अयं स पुण्डरीकाक्षः सिंहशार्दूलविक्रमः ।
सम्पूर्णजलमेघाभः पर्वतप्रवराकृतिः ॥ १९॥
मृधेष्वधर्षणीयेन सश्रीवत्सेन वक्षसा ।
द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः ॥ २०॥
मूर्तिमान् सरहस्यात्मा जगतोऽग्र्ययस्य भाजनम् ।
गोपवेषधरो विष्णुरुदग्राग्र्यतनूरुहः ॥ २१॥
किरीटलाञ्छनेनापि शिरसा छत्रवर्चसा ।
कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः ॥ २२॥
हारार्हेण च पीनेन सुविस्तीर्णेन वक्षसा ।
द्वाभ्यां भुजाभ्यां वृत्ताभ्यां दीर्घाभ्यामुपशोभितः ॥ २३॥
स्त्रीसहस्रोपचर्येण वपुषा मन्मथाधिना ।
पीते वसानो वसने सोऽयं विष्णुः सनातनः ॥ २४॥
धरण्याश्रयभूताभ्यां चरणाभ्यामरिन्दमः ।
त्रैलोक्याक्रान्तिभूताभ्यां भुवि पद्भ्यां व्यवस्थितः ॥ २५॥
रुचिराग्रकरश्चास्य चक्राङ्कित इवेक्षते ।
द्वितीय उद्यतश्चापि गदासंयोगमिच्छति ॥ २६॥
अवतीर्णो भवायेह प्रथमं पदमात्मनः ।
शोभतेऽद्य भुवि श्रेष्ठस्त्रिदशानां धुरन्धरः ॥ २७॥
अयं भविष्ये कथितो भविष्यकुशलैर्नरैः ।
गोपालो यादवं वंशं क्षीणं विस्तारयिष्यति ॥ २८॥
तेजसा यादवाश्चास्य शतशोऽथ सहस्रशः ।
वंशमापूरयिष्यन्ति ह्योघा इव महार्णवम् ॥ २९॥
अस्येदं शासने सर्वं जगत्स्थास्यति शाश्वतम् ।
निहतामित्रसामन्तं स्फीतं कृतयुगे तथा ॥ ३०॥
अयमास्थाय वसुधां स्थापयित्वा जगद् वशे ।
राज्ञां भविष्यत्युपरि न च राजा भविष्यति ॥ ३१॥
नूनं त्रिभिः क्रमैर्जित्वा यथानेन प्रभुः कृतः ।
पुरा पुरन्दरो राजा देवतानां त्रिविष्टपे ॥ ३२॥
तथैव वसुधां जित्वा जितपूर्वां त्रिभिः क्रमैः ।
स्थापयिष्यति राजानमुग्रसेनं न संशयः ॥ ३३॥
प्रसृष्टवैरगाधोऽयं प्रश्नैश्च बहुभिः श्रुतः ।
ब्राह्मणैर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते ॥ ३४॥
स्पृहणीयो हि लोकस्य भविष्यति च केशवः ।
तथा ह्यस्योत्थिता बुद्धिर्मानुष्यमुपजीवितुम् ॥ ३५॥
अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि ।
विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत् ॥ ३६॥
यच्च ज्ञातिपरिज्ञानं प्रादुर्भावश्च वै नृषु ।
अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः ॥ ३७॥
सोऽहं कृष्णेन वै रात्रौ सम्मन्त्र्य विदितात्मना ।
सहानेन गमिष्यामि सव्रजो यदि मंस्यते ॥ ३८॥
एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः ।
विवेश नन्दगोपस्य कृष्णेन सह संसदम् ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरागमने पञ्चविंशोऽध्यायः ॥ २५॥
२.२६ षड्विंशोऽध्यायः
अक्रूरदर्शनम् AkrUra has a vision
अकूरस्य गोपेभ्यः कंसस्यादेशस्य ख्यापनं, वसुदेवदेवक्योः दयनीयां दशां कथयित्वा श्रीकृष्णबलरामाभ्यां मथुरागमने प्रेरणम्, मार्गे अक्रूरेण यमुनाजले
आश्चर्यमयस्य नागलोकस्य एवं भगवतः अनन्तस्य एवं तस्य अङ्के श्रीकृष्णस्य दर्शनं
वैशम्पायन उवाच ।
स नन्दगोपस्य गृहं प्रविष्टः सह केशवः ।
गोपवृद्धान् समानीय प्रोवाचामितदक्षिणः ॥ १॥
कृष्णं चैवाब्रवीत् प्रीत्या रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै ॥ २॥
यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः ।
कंसाज्ञया समुचितं करमादाय वार्षिकम् ॥ ३॥
समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ ॥ ४॥
पितरं वसुदेवं च सततं दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः ॥ ५॥
सततं पीड्यमानं च कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतं ६॥
कंसस्य भयसन्त्रस्तं भवद्भ्यां च विना कृतम् ।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ॥ ७॥
तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् ।
देवकीं देवसङ्काशां सीदन्तीं विहतप्रभाम् ॥ ८॥
पुत्रशोकेन शुष्यन्तीं त्बद्दर्शनपरायणाम् ।
वियोगशोकसन्तप्तां विवत्सामिव सौरभीम् ॥ ९॥
उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव ॥ २.२६.१०॥
त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् ।
त्यत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् ॥ ११॥
त्वत्प्रलापेष्वकुशला त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ॥ १२॥
यदि त्वां जनयित्वा सा देवकी तात तप्यते ।
अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता ॥ १३॥
अपुत्राणां हि नारीणामेकः शोको विधीयते ।
सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते ॥ १४॥
त्वं तु शक्रसमः पुत्रो यस्यात्तवत्सदृशो गुणैः ।
परेषामप्यभयदो न सा शोचितुमर्हति ॥ १५॥
वृद्धौ तवाम्बापितरौ परभृत्यत्वमागतौ ।
भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना ॥ १६॥
यदि ते देवकी मान्या पृथिवीवात्मधारिणी ।
तां शोकसलिले मग्नामुत्तारयितुमर्हसि ॥ १७॥
तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् ।
पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि ॥ १८॥
यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे ।
विमूलः स कृतः शैलो यथा वै भूधरस्त्वया ॥ १९॥
दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः ।
परप्राणहरः केशी दुष्टात्मा च हयो हतः ॥ २.२६.२०॥
एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ ।
यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम् ॥ २१॥
निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि ।
ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम् ॥ २२॥
गर्भावकर्तनादीनि दुःखानि सुबहून्यपि ।
माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ॥ २३॥
मातापितृभ्यां सर्वेण जातेन तनयेन वै ।
ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् ॥ २४॥
एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् ।
परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ ॥ २५॥
वैशम्पायन उवाच ।
कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् ।
बाढमित्येव तेजस्वी न च क्रोधवशं गतः ॥ २६॥
ते च गोपाः समागम्य नन्दगोपपुरःसराः ।
अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात् ॥ २७॥
गमनाय च ते सज्जा बभूवुर्व्रजवासिनः ।
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ॥ २८॥
करं चानडुहः सर्पिर्महिषांश्चौपनायिकान् ।
यथासारं यथायूथमुपानीय पयो दधि ॥ २९॥
तं सज्जयित्या कंसस्य करं चोपायनानि च ।
ते सर्वे गोपपतयो गमनायोपतस्थिरे ॥ २.२६.३०॥
अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ॥ ३१॥
ततः प्रभाते विमले पक्षिव्याहारसङ्कुले ।
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ॥ ३२॥
नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे ।
प्रत्यूषपवनासारैः क्लेदिते धरणीतले ॥ ३३॥
क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे ॥ ३४॥
शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ।
एको नाशयते रूपमेको वर्धयते वपुः ॥ ३५॥
गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु ।
मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च ॥ ३६॥
दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च ।
गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः ॥ ३७॥
तत्रैव गुरुकं भाण्डं शकटारोपितं बहु ।
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ॥ ३८॥
कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः ।
त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा ॥ ३९॥
अथाह कृष्णमक्रूरो यमुनातीरमाश्रितः ।
स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु ॥ २.२६.४०॥
हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा ।
प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम् ॥ ४१॥
यमुनाया ह्रदे ह्यस्मिन् स्तोष्यामि भुजगेश्वरम् ।
दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः ॥ ४२॥
गुह्यं भागवतं देवं सर्वलोकस्य भावनम् ।
श्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ४३॥
धर्मदेवस्य तस्याथ यद् विषं प्रभविष्यति ।
सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा ॥ ४४॥
स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं श्रीविभूषितम् ।
समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ॥ ४५॥
आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ ।
निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् ॥ ४६॥
तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् ।
आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितम् ॥ ४७॥
स हृदे यमुनायास्तु ममज्जामितदक्षिणः ।
रसातले स ददृशे नागलोकमिमं यथा ॥ ४८॥
तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् ।
लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम् ॥ ४९॥
असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् ।
कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् ॥ २.२६.५०॥
भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते ।
स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम् ॥ ५१॥
किञ्चित् सव्यापवृत्तेन मौलिना हेमचूलिना ।
जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम् ॥ ५२॥
रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिन्दमम् ।
पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम् ॥ ५३॥
ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् ।
पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम् ॥ ५४॥
कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ ।
अवीजयेतां तं देवं धर्मासनगतं प्रभुम् ॥ ५५॥
तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः ।
वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ॥ ५६॥
तं घटैः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः ।
राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः ॥ ५७॥
तस्योत्सङ्गे घनश्यामं श्रीवत्साच्छादितोरसम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ॥ ५८॥
अपरं चैव सोमेन तुल्यसंहननं प्रभुम् ।
सङ्कर्षणमिवासीनं तं दिव्यं विष्टरं विना ॥ ५९॥
स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे ।
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ॥ २.२६.६०॥
सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् ।
उदतिष्ठत्पुनस्तोयाद् विस्मितोऽमितदक्षिणः ॥ ६१॥
स तौ रथस्थावासीनौ तत्रैव बलकेशवौ ।
निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ ॥ ६२॥
अथामज्जत् पुनस्तत्र तदाक्रूरः कुतूहलात् ।
इज्यते यत्र देवोऽसौ नीलवासाः सिताननः ॥ ६३॥
तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै ।
ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम् ॥ ६४॥
भूयश्च सहसोत्थाय तं मन्त्रं मनसा जपन् ।
रथं तेनैव मार्गेण जगामामितदक्षिणः ॥ ६५॥
तमाह केशवो हृष्टः स्थितमक्रूरमागमत् ।
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ॥ ६६॥
चिरं च भवता कालो व्याक्षेपेण विलम्बितः ।
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ॥ ६७॥
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु स्थावरेषु चरेषु च ॥ ६८॥
तत्राश्चर्यं मया दृष्टं कृष्ण यद् भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च ॥ ६९॥
सङ्गतश्चापि लोकानामाश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥ २.२६.७०॥
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः ॥ ७१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः ॥ २६॥
२.२७ सप्तविंशोऽध्यायः
कंसधनुर्भङ्गः Breaking kamsa's Bow
श्रीकृष्णबलरामयोः मथुरायां प्रवेशः, ताभ्यां रजकस्य वधः, मालिनं
वरदानं, कुब्जोपरि कृपा एवं कंसस्य धनुषस्य भञ्जनं
वैशम्पायन उवाच ।
ते तु युङ्क्त्वा रथवरं सर्व एवामितौजसः ।
कृष्णेन सहिताः प्रायंस्तथा सङ्कर्षणेन च ॥ १॥
आसेदुस्ते पुरीं रम्यां मथुरां कंसपालिताम् ।
विविशुस्ते पुरीं रम्यां काले रक्तदिवाकरे ॥ २॥
तौ तु स्वभवनं वीरौ कृष्णसङ्कर्षणावुभौ ।
प्रवेशितौ बुद्धिमता ह्यक्रूरेणार्कवर्चसौ ॥ ३॥
तावाह वरवर्णाभौ भीतो दानपतिस्तदा ।
त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा ॥ ४॥
युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ।
भर्त्स्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि ॥ ५॥
तद् युवाभ्यां हि कर्तव्यं पित्रर्थं सुखमुत्तमम् ।
यथा सुखमवाप्नोति तद् वै कार्यं हितान्वितम् ॥ ६॥
तमुवाच ततः कृष्णो यास्यावावामतर्कितौ ।
प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक ।
तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे ॥ ७॥
वैशम्पायन उवाच ।
अक्रूरोऽपि नमस्कृत्य मनसा कृष्णमव्ययम् ।
जगाम कंसपार्श्वं तु प्रहृष्टेनान्तरात्मना ॥ ८॥
अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ ।
आलानाभ्यामिवोन्मुक्तौ कुञ्जरौ युद्धकाङ्क्षिणौ ॥ ९॥
तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् ।
अयाचेतां ततस्तौ तु वासांसि रुचिराणि वै ॥ २.२७.१०॥
रजकः स तु तौ प्राह युवां कस्य वनेचरौ ।
राजवासांसि यौ मौढ्याद् याचेथां निर्भयावुभौ ॥ ११॥
अहं कंसस्य वासांसि नानादेशोद्भवानि वै ।
कामरागाणि शतशो रञ्जयामि विशेषतः ॥ १२॥
युवां कस्य वने जातौ मृगैः सह विवर्द्धितौ ।
जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु ॥ १३॥
अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ ।
मूर्खौ प्राकृतविज्ञानौ वासो याचितुमिच्छतः ॥ १४॥
तस्मै चुकोप वै कृष्णो रजकायाल्पमेधसे ।
प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विषम् ॥ १५॥
तलेनाशनिकल्पेन स तं मूर्द्धन्यताडयत् ।
स गतासुः पपातोर्व्यां रजको व्यस्तमस्तकः ॥ १६॥
तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः ।
त्वरितं मुक्तकेशश्च जग्मुः कंसनिवेशनम् ॥ १७॥
तावप्युभौ सुवसनौ जग्मतुर्माल्यकारणात् ।
वीथीमाल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥ १८॥
गुणको नाम तत्रासीन्माल्यवृत्तिः प्रियंवदः ।
प्रभूतमाल्यापणवाँल्लक्ष्मीवान् प्रियदर्शनः ॥ १९॥
तं कृष्णः श्लक्ष्णया वाचा माल्यार्थमभिसृष्टया ।
देहीत्युवाच तत्काले मालाकारमकातरम् ॥ २.२७.२०॥
ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः ।
भवतोः स्वमिदं चेति प्रोवाच प्रियदर्शनौ ॥ २१॥
प्रीतः सुमनसा कृष्णो गुणकाय वरं ददौ ।
श्रीस्त्वां मत्सम्भवा सौम्य घनौघैरभिपत्स्यते ॥ २२॥
स लब्ध्वा वरमव्यग्रो माल्यवृत्तिरधोमुखः ।
कृष्णस्य पतितो मूर्ध्ना प्रतिजग्राह तं वरम् ॥ २३॥
यक्षाविमाविति तदा स मेने माल्यजीवकः ।
स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत ॥ २४॥
वसुदेवसुतौ तौ च राजमार्गगतावुभौ ।
कुब्जां ददृशतुर्भूयः सानुलेपनभाजनाम् ॥ २५॥
तामाह कृष्णः कुब्जेति कस्येदमनुलेपनम् ।
नयस्यम्बुजपत्राक्षि क्षिप्रमाख्यातुमर्हसि ॥ २६॥
सस्मिता सम्मुखी भूत्वा प्रत्युवाचाम्बुजेक्षणम् ।
कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी ॥ २७॥
राज्ञः स्नानगृहं यामि तद् गृहाणानुलेपनम् ॥
दृष्ट्वैव त्वारविन्दाक्ष विस्मितास्मि वरानन ॥ २८॥
यत्त्वमिच्छसि मे वीर त्वं गृहाणानुलेपनम् ।
स्थितास्म्यागच्छ भद्रं ते हृदयस्यासि मे प्रियः ॥ २९॥
कुतश्चागम्यते सौम्य यन्मां त्वं नावबुध्यसे ।
महाराजस्य दयितां नियुक्तामनुलेपने ॥ २.२७.३०॥
तामुवाच हसन्तीं तु कृष्णः कुब्जामवस्थिताम् ।
आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ ३१॥
वयं हि देशातिथयो मल्लाः प्राप्ता वरानने ।
द्रष्टुं धनुर्महद् दिव्यं राष्ट्रे चैव महर्द्धिमत् ॥ ३२॥
प्रत्युवाचाथ सा कृष्णं प्रियोऽसि मम दर्शने ।
राजार्हमिदमव्यग्रं तद् गृहाणानुलेपनम् ॥ ३३॥
तावुभावनुलिप्ताङ्गौ चारुगात्रौ विरेजतुः ।
तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ ॥ ३४॥
तां च कुब्जां स्थगोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना ।
शनैः सम्पीडयामास कृष्णो लीलाविधानवित् ॥ ३५॥
सा च मग्नं स्थगुं मत्वा स्वायताङ्गी शुचिस्मिता ।
जहासोच्चैः स्तनतटी ऋजुयष्टिर्लता यथा ॥ ३६॥
प्रणयाच्चापि कृष्णं सा बभाषे मत्तकाशिनी ।
क्व यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम् ॥ ३७॥
तौ जातहासावन्योन्यं सतलाक्षेपमव्ययौ ।
वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतविस्तरौ ॥ ३८॥
कृष्णस्तु कुब्जां कामार्तां सस्मितं विससर्ज ह ।
ततस्तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम् ॥ ३९॥
तावुभौ व्रजसंवृद्धौ गोपवेषविभूषितौ ।
गूढचेष्टाननौ भूत्वा प्रविष्टौ नृपवेश्म तत् ॥ २.२७.४०॥
धनुःशालां गतौ तत्र बालावपरितर्कितौ ।
हिमवद्वनसम्भूतौ सिंहाविव मदोत्कटौ ॥ ४१॥
दिदृक्षन्तौ महत्तत्र धनुरायोगभूषितम् ।
पप्रच्छतुश्च तौ वीरावायुधागारिकं तदा ॥ ४२॥
भोः कंसधनुषां पाल श्रूयतामावयोर्वचः ।
कतरत्तद् धनुः सौम्य महोऽयं यस्य वर्तते ॥ ४३॥
आयोगभूतं कंसस्य दर्शयस्व यदीच्छसि ।
स तयोर्दर्शयामास तद् धनुः स्तम्भसन्निभम् ॥ ४४॥
अनारोप्यमसम्भेद्यं देवैरपि सवासवैः ।
तद् गृहीत्वा तदा कृष्णस्तोलयामास वीर्यवान् ॥ ४५॥
दोर्भ्यो कमलपत्राक्षः प्रहृष्टेनान्तरात्मना ।
तोलयित्वा यथाकामं तद् धनुर्दैत्यपूजितम् ॥ ४६॥
आरोपयामास बली नामयामास चासकृत् ।
आनाम्यमानं कृष्णेन प्रकर्षादुरगोपमम् ॥ ४७॥
द्विधाभूतमभून्मध्ये धनुरायोगभूषितम् ।
भङ्क्त्या तु तद् धनुःश्रेष्ठं कृष्णस्त्वरितविक्रमः ।
निश्चक्राम महावेगः स च सङ्कर्षणो युवा ॥ ४८॥
धनुषो भङ्गनादेन वायुनिर्घोषकारिणा ।
चचालान्तःपुरं सर्वं दिशश्चैव पुपूरिरे ॥ ४९॥
निर्गम्य त्वायुधागाराज्जग्मतुर्गोपसन्निधौ ।
वेगेनायुधपालस्तु गच्छन् सम्भ्रान्तमानसः ॥ २.२७.५०॥
समीपं नृपतेर्गत्वा काकोच्छ्वासोऽभ्यभाषत ।
श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे ॥ ५१॥
निर्वृत्तमस्मिन् काले यज्जगतः सम्भ्रमोपमम् ।
नरौ कस्याप्यसदृशौ शिखाविततमूर्द्धजौ ॥ ५२॥
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।
तावन्तःपुरमज्ञातौ प्रविष्टौ कामवेषिणौ ॥ ५३॥
देवपुत्रोपमौ वीरौ बालाविव हुताशनौ ।
स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ ।
मया दृष्टौ परिव्यक्तं रुचिराच्छादनस्रजौ ॥ ५४॥
तयोरेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः ।
जग्राह तद् धनूरत्नं दुर्ग्राह्यं दैवतैरपि ॥ ५५॥
तत् स बालो महच्चापं बलाद् यन्त्रमिवायसम् ।
आरोपयित्वा वेगेन नामयामास लीलया ॥ ५६॥
आकृष्यमाणं तत् तेन विबाणं बाहुशालिना ।
मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत ॥ ५७॥
ततः प्रचलिता भूमिर्नैव भाति च भास्करः ।
धनुषो भङ्गनादेन भ्रमतीव नभस्तलम् ॥ ५८॥
तदद्भुतं महद् दृष्ट्वा विस्मयं परमं गतः ।
भयाद् भयदशत्रुभ्यस्तदिहाख्यातुमागतः ॥ ५९॥
न जानामि महाराज कौ तावमितविक्रमौ ।
एकः कैलाससङ्काश एकोऽञ्जनगिरिप्रभः ॥ २.२७.६०॥
स तु तञ्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः ।
निष्पपातानिलगतिः सानुगोऽमितविक्रमः ।
अगमत्तं द्विधा कृत्वा न जाने कोऽप्यसौ नृप ॥ ६१॥
श्रुत्वैव धनुषो भङ्गं कंसो विदितविस्तरः ।
विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् ॥ ६२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसधनुर्भङ्गे सप्तविंशोऽध्यायः ॥ २७॥
२.२८ अष्टाविंशोऽध्यायः
कंसस्य जन्मादिवृत्तम् Narrations about kamsa's birth
कंसस्य चिन्ता, तेन रङ्गशालायाः दर्शनं, तस्याः सज्जीकरणस्यादेशं, चाणूर
मुष्टिकाभ्यां कुवलयापीडस्य महामात्रं च श्रीकृष्णबलरामयोः वधाय आज्ञादानं, महामात्राय द्रुमिलात् स्वोत्पत्तेः कथायाः कथनं, तस्य मातुः सुयामुने पर्वतोपरि
द्रुमिलेन सह समागमं , तयोः परस्परं वरदानं शापं च
वैशम्पायन उवाच ।
स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः ।
बभूव विमना राजा चिन्तयन् भृशदुःखितः ॥ १॥
कथं बालो विगतभीरवमत्य महाबलम् ।
प्रेक्ष्यमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः ॥ २॥
यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् ।
पितृष्वस्रात्मजान् वीरान्षडेवाहं न्यपोथयम् ॥ ३॥
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।
नारदोक्तं च वचनं नूनं मह्यमुपस्थितम् ॥ ४॥
एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात् ।
प्रेक्षागारं जगामाशु मञ्चानामवलोककः ॥ ५॥
स दृष्ट्वा सर्वनिर्युक्तं प्रेक्षागारं नृपोत्तमः ।
श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम् ॥ ६॥
सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् ।
छदीभिः सम्प्रवृद्धाभिरेकस्तम्भैर्विभूषितम् ॥ ७॥
सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् ।
उदग्राक्लिष्टसुक्लिष्टमञ्चारोहणमुत्तमम् ॥ ८॥
नृपासनपरिक्षिप्तं सञ्चारपथसङ्कुलम् ।
छन्नं तद् वेदिकाभिश्च मानुषौघभरक्षमम् ॥ ९॥
स टष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् ।
श्वः सचित्राः समाल्याश्च सपताकास्तथैव च ॥ २.२८.१०॥
सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।
क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा ॥ ११॥
रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः ।
पटास्तरणशोभाश्च वलयश्चानुरूपतः ॥ १२॥
स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् ।
उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः ॥ १३॥
वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः ।
प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः ॥ १४॥
आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च ।
समाजे मञ्चशोभाश्च कल्प्यन्तां सूपकल्पिताः ॥ १५॥
एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् ।
समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् ॥ १६॥
आह्वानं तत्र सञ्चक्रे तस्य मल्लद्वयस्य वै ।
चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ॥ १७॥
तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ ।
कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा ॥ १८॥
तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ ।
उवाच कंसो नृपतिः सोपन्यासमिदं वचः ॥ १९॥
भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ ।
पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ॥ २.२८.२०॥
तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च ।
कर्तव्यं मे महत् कर्म भवद्भ्यां स्वेन तेजसा ॥ २१॥।
यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ ।
सङ्कर्षणश्च कृष्णश्च बालावपि जितश्रमौ ॥ २२॥
एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ ।
निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ॥ २३॥
बालाविमौ सुचपलावक्रियाविति सर्वथा ।
नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ॥ २४॥
ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसन्निधौ ।
आयत्यां च तदात्वे च श्रेयो मम भविष्यति ॥ २५॥
नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ ।
ऊचतुर्युद्धसम्मत्तौ मल्लौ चाणूरमुष्टिकौ ॥ २६॥
यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ ।
हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ ॥ २७॥
यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ ।
आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वनेचरौ ॥ २८॥
एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ ।
अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः ॥ २९॥
महामात्रं ततः कंसो बभाषे हस्तिजीविनम् ।
हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु ॥ २.२८.३०॥
बलवान् मदलोलाक्षश्चपलः क्रोधनो नृषु ।
दानोत्कटकटश्चण्डः प्रतिवारणरोषणः ॥ ३१॥
स सन्नोदयितव्यस्ते तावुद्दिश्य वनौकसौ ।
वसुदेवसुतौ वीरौ यथा स्यातां गतायुषौ ३२॥
त्वया चैव गजेन्द्रेण यदि तौ गोष्ठजीविनौ ।
भवेतां पतितौ रङ्गे पश्येयमहमुत्कटौ ॥ ३३॥
ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः ।
छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति ॥ ३४॥
ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः ।
विनशिष्यन्ति च्छिन्नाशा दृष्ट्वा कृष्णं निपातितम् ॥ ३५॥
एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा ।
पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी ॥ ३६॥
करके मैं सुखपूर्वक विचरूँगा ॥ ३६॥
पिता हि मे परित्यक्तो यादवानां कुलोद्वहः ।
शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः ॥ ३७॥
न चाहमुग्रसेनेन जातः किल सुतार्थिना ।
मानुषेणाल्पवीर्येण यथा मामाह नारदः ॥ ३८॥
महामात्र उवाच ।
कथमुक्तं नारदेन राजन् देवर्षिणा पुरा ।
आश्चर्यमेतत् कथितं त्वत्तः श्रुतमरिन्दम ॥ ३९॥
कथमन्येन जातस्त्वमुग्रसेनात् पितुर्विना ।
तव मात्रा कथं राजन् कृतं कर्मेदमीदृशम् ॥ २.२८.४०॥
अन्यापि प्राकृता नारी न कुर्याच्च जुगुप्सितम् ।
विस्तरं श्रोतुमिच्छामि ह्येतत् कौतूहलं हि मे ॥ ४१॥
कंस उवाच ।
यथा कथितवान् विप्रो महर्षिर्नारदः प्रभुः ।
तथाहं सम्प्रवक्ष्यामि यदि तै श्रवणे मतिः ॥ ४२॥
आगतः शक्रसदनात् स वै शक्रसखो मुनिः ।
चन्द्रांशुशुक्लवसनो जटामण्डलमुद्वहन् ॥ ४३॥
कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः प्रजापतिरिवापरः ॥ ४४॥
गाता चतुर्णां वेदानां विद्वान् गान्धर्ववेदवित् ।
स नारदोऽथ देवर्षिर्ब्रह्मलोकचरोऽव्ययः ॥ ४५॥
तमागतमृषिं दृष्ट्वा पूजयित्वा यथाविधि ।
पाद्यार्घ्यमासनं दत्त्वा सम्प्रवेश्योपविश्य ह ॥ ४६॥
सुखोपविष्टोऽथ मुनिः पृष्ट्वा च कुशलं मम ।
उवाच च प्रीतमना देवर्षिर्भावितात्मवान् ॥ ४७॥
नारद उवाच ।
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ।
इदमेकं मम वचः श्रूयतां प्रतिगृह्यताम् ॥ ४८॥
गतोऽहं देवसदनं सौवर्णं मेरुपर्वतम् ।
सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ॥ ४९॥
तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।
भवतः सानुगम्यैव वधोपायः सुदारुणः ॥ २.२८.५०॥
तत्र यो देवकीगर्भो विष्णुर्लोकनमस्कृतः ।
योऽस्या गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥ ५१॥
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥ ५२॥
यत्नश्च क्रियतां कंस गर्भाणां पातनं प्रति ।
नावज्ञा रिपवे कार्या दुर्बले स्वजनेऽपि वा ॥ ५३॥
न चायमुग्रसेनः स पिता तव महाबलः ।
द्रुमिलो नाम तेजस्वी सौभस्य पतिरूर्जितः ॥ ५४॥
श्रुत्वाहं तद् वचस्तस्य किञ्चिद् रोषसमन्वितः ।
भूयोऽपृच्छं कथं ब्रह्मन् द्रुमिलो नाम दानवः ॥ ५५॥
मम मात्रा कथं तस्य ब्रूहि विप्र समागमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ॥ ५६॥
नारद उवाच ।
हन्त ते कथयिष्यामि शृणु राजन् यथार्थतः ।
द्रमिलस्य च मात्रा ते संवादं च समागमम् ॥ ५७॥
सुयामुनं नाम नगं तव माता रजस्वला ।
प्रेक्षितुं सहिता स्त्रीभिर्गता वै सा कुतूहलात् ॥ ५८॥
सा तत्र रमणीयेषु रुचिरद्रुमसानुषु ।
चचार नगशृङ्गेषु कन्दरेषु नदीषु च ॥ ५९॥
किन्नरोद्गीतमधुराः प्रतिश्रुत्यभिनादिताः ।
शृण्वन्ती काजननीर्वाचः श्रोत्रसुखावहाः ॥ २.२८.६०॥
बर्हिणां चैव विरुतं खगानां च विकूजितम् ।
अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत् ॥ ६१॥
एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः ।
हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः ॥ ६२॥
द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः ।
मुमुचुर्गन्धमधिकं सन्ततासारमूर्छिताः ॥ ६३॥
केसराः पुष्पवर्षैश्च ववृषुर्मदबोधनाः ।
नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः ॥ ६४॥
मही नवतृणच्छन्ना शक्रगोपविभूषिता ।
यौवनस्थेव वनिता स्वं दधारार्तवं वपुः ॥ ६५॥
अथ सौभपतिः श्रीमान् द्रुमिलो नाम दानवः ।
भविष्यद्दैवयोगेन विधात्रा तत्र नीयते ॥ ६६॥
कामगेन रथेनाशु तरुणादित्यवर्चसा ।
यदृच्छया गतस्तत्र सुयामुनदिदृक्षया ॥ ६७॥
विहायसा कामगमो मनसोऽप्याशुगामिना ।
स तं प्राप्य पर्वतेन्द्रमवतीर्य रथोत्तमात् ॥ ६८॥
पर्वतोपवने न्यस्य रथं पररथारुजम् ।
अथासौ सूतसहितश्चचार नगमूर्धनि ॥ ६९॥
ततो बहून्यपश्येतां काननानि वनानि च ।
सर्वर्तुगुणसम्पन्नं नन्दनस्येव काननम् ॥ २.२८.७०॥
चेरतुर्नगशृङ्गेषु कन्दरेषु नदीषु च ।
नानाधातुपिनद्धैश्च शृङ्गैर्बहुभिरुच्छ्रितैः ॥ ७१॥
नानारत्नविचित्रैश्च काञ्चनाञ्जनराजतान् ।
नानाकुसुमगन्धाढ्यान् नानासत्त्वगणैर्युतान् ॥ ७२॥
नानाद्विजगणैर्घुष्टान् नानापुष्पफलद्रुमान् ।
नानौषधिसमायुक्तानृषिसिद्धानुसेवितान् ॥ ७३॥
विद्याधरान् किम्पुरुषानृक्षवानरराक्षसान् ।
सिंहान् व्याघ्रान् वराहांश्च महिषाञ्छरभाञ्छशान ॥ ७४॥
सृमरांश्चमरान्न्यङ्कून् मातङ्गान् यक्षराक्षसान् ।
एवं बहुविधान् पश्यंश्चरमाणो नगोत्तमम् ॥ ७५॥
दूराद् ददर्श नृपतिर्देवीं देवसुतोपमाम् ।
क्रीडमानां सखीभिश्च पुष्पं चैव विचिन्वतीम् ॥ ७६॥
ततश्चरन्तीं सुश्रोणीं सस्त्रीभिः सह संवृताम् ।
दृप्त सौभपतिर्दूराद् विस्मयन् सूतमब्रवीत् ॥ ७७॥
कस्येयं मृगशावाक्षी वनान्तरविचारिणी ।
रूपौदार्यगुणोपेता मन्मथस्य रतिर्यथा ॥ ७८॥
शचीव पुरुहूतस्य उताहो वा तिलोत्तमा ।
नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी ।
ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी ॥ ७९॥
क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह ।
मन्थानं मन्दरं कृत्वामृतार्थमिति नः श्रुतम् ॥ २.२८.८०॥
ततोऽमृतात्समुत्तस्थौ देवी श्रीर्लोकभाविनी ।
नारायणाङ्कलुलिता किं श्रीरेषा वराङ्गना ॥ ८१॥
नीलमेघान्तरगता द्योतयन्त्यचिरप्रभा ।
तथा योषिद्गणान् मध्ये रूपं प्रद्योतयद् वनम् ॥ ८२॥
अतीव सुकुमाराङ्गी सुप्रभेन्दुनिभानना ।
दृष्ट्वा रूपमनिन्द्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः ॥ ८३॥
कामस्य वशमापन्नो मनो विह्वलतीव मे ।
भृशं कृन्तति मेऽङ्गानि सायकैः कुसुमायुधः ।
भित्त्वा हृदि शरान् पञ्च निर्दयं हन्ति मे मनः ॥ ८४॥
हदयाग्निर्वर्धयति आज्यसिक्त इवानलः ।
कथमद्य भवेत् कार्यं शमार्थं मन्मथाग्निना ॥ ८५॥
केनोपायेन किं कुर्मो भजेन्मां मत्तगामिनी ।
एवं बहु चिन्तयानो नोपलभ्य च दानवः ॥ ८६॥
सूतमाह मुहूर्तं तु तिष्ठस्व त्वमिहानघ ।
अहं यास्यामि तां द्रष्टुं कस्येयमिति योषितम् ॥ ८७॥
प्रतीक्षमाणस्तिष्ठस्व यावदागमनं मम ।
श्रुत्वा तु वचनं तस्य तथास्त्विति वचोऽब्रवीत् ॥ ८८॥
एवमुक्त्वा दानवेन्द्रो गमनाय मनो दधे ।
वार्युपस्पृश्य बलवान् ध्यानमेवान्वचिन्तयत् ॥ ८९॥
मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात् ततः ।
उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमुपागतः ॥ २.२८.९०॥
उग्रसेनस्य रूपं वै कृत्वा स्वं परिवर्त्य सः ।
उपासर्पन्महाबाहुः प्रहसन् दानवेश्वरः ॥ ९१॥
स्मयमानश्च शनकैर्जग्राहामितवीर्यवान् ।
उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत् ॥ ९२॥
सा पतिस्निग्धहृदया तं भावेनोपसर्पती ।
शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात् ॥ ९३॥
सा तमाहोत्थिता भीता न त्वं मम पतिर्धुवम् ।
कस्य त्वं विकृताचारो येनास्मि मलिनीकृता ॥ ९४॥
एकभर्तृव्रतमिदं मम सन्दूषितं त्वया ।
पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा ॥ ९५॥
किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् ।
जुगुप्सिता च वत्स्यामि पतिपक्षैर्निराकृता ॥ ९६॥
धिक्त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यमनार्यं च परदाराभिमर्शनम् ॥ ९७॥
स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः ।
अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः ॥ ९८॥
किं मां क्षिपसि रोषेण मूढे पण्डितमानिनि ।
मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम् ॥ ९९॥
व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते ।
न ह्यासां नियता बुद्धिर्मानुषीणां विशेषतः ॥ २.२८.१००॥
श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसङ्काशान् पुत्रान् निश्चलविक्रमान् ॥ १०१॥
अतीव हि त्वं स्त्रीलोके पतिधर्मवती सती ।
शुद्धा केशान्विधुन्वन्ती भाषसे यद्यदिच्छसि ॥ १०२॥
कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि ।
कंसस्तस्माद् रिपुध्वंसी तव पुत्रो भविष्यति ॥ १०३॥
सा सरोषा पुनर्भूत्वा निन्दन्ती तस्य तं वरम् ।
उवाच व्यथिता देवी दानवं धृष्टवादिनम् ॥ १०४॥
धिक ते वृत्तं सुदुर्वृत्त यः सर्वा निन्दसि स्त्रियः ।
सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः ॥ १०५॥
यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः ।
धृता याभिः प्रजाः सर्वा लोकाश्चैव कुलाधम ॥ १०६॥
यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः ।
न मे बहुमतस्त्वेष शृणु चापि यदुच्यते ॥ १०७॥
उत्पत्स्यति पुमान् नीच पतिवंशे ममाद्य यः ।
भविष्यति स ते मृत्युर्यश्च दत्तस्त्वया सुतः ॥ १०८॥
द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु ।
तेनैव रथमुख्येन दिव्येनाप्रतिगामिना ॥ १०९॥
जगाम च पुरीं दीना माता तदहरेव ते ।
मामेवमुक्त्वा भगवान् नारदो मुनिसत्तमः ॥ २.२८.११०॥
दीप्यमानस्तपोवीर्यात् साक्षादग्निरिव ज्वलन् ।
वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ॥ १११॥
गायनो लक्ष्यवीथीं स जगाम ब्रह्मणोऽन्तिकम् ।
शृणुष्वेदं महामात्र निबोध वचनं मम ॥ ११२॥
तथ्यं चोक्तं नारदेन त्रैलोक्यज्ञेन धीमता ।
अलं बलेन वीर्येण नयेन विनयेन च ॥ ११३॥
प्रमाणैर्वापि वीर्येण तेजसा विक्रमेण च ।
सत्येन चैव दानेन नान्योऽस्ति सदृशः पुमान् ॥ ११४॥
विदित्वा सर्वमात्मानं वचनं श्रद्दधाम्यहम् ।
क्ष्रेत्रजोऽहं सुतस्तस्य उग्रसेनस्य हस्तिप ॥ ११५॥
मातापितृभ्यां सन्त्यक्तः स्थापितः स्वेन तेजसा ।
उभाभ्यामपि विद्विष्टो बान्धवैश्च विशेषतः ॥ ११६॥
एतानपि हनिष्यामि यादवान् कृष्णपक्षिणः ।
तदिमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ ॥ ११७॥
तद् गच्छ गजमारुह्य साङ्कुशप्रासतोमरः ।
स्थिरो भव महामात्र समाजद्वारि मा चिरम् ॥ ११८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
कंसवाक्येऽष्टाविंशोऽध्यायः ॥ २८॥
२.२९ एकोनत्रिंशोऽध्यायः
कुवलयापीडमारणम् Kuvalayapida Killed
नागरिकेभिः पूरितायां रङ्गशालायां मञ्चानां प्रेक्षागृहाणां शोभा, कंसस्य मल्लानां चागमनम्, श्रीकृष्णस्य बलरामस्य च रङ्गद्वारोपरि पदार्पणम्, कुवलयापीड, महामात्र एवं हस्तिनः पादरक्षकानां वधम्, बन्धुद्वयानां रङ्गस्थले प्रवेशः ।
वैशम्पायन उवाच ।
तस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते ।
आपूर्यत महारङ्गः पौरैर्युद्धदिदृक्षुभिः ॥ १॥
सचित्राष्टास्त्रिचरणाः सार्गलद्वारवेदिकाः ।
सगवाक्षार्धचन्द्राश्च सुतल्पोत्तमभूषिताः ॥ २॥
प्राङ्मुखैश्चारुनिर्मुक्तैर्माल्यदामावतंसितैः ।
अलङ्कृतैर्विराजद्भिः शारदैरिव तोयदैः ॥ ३॥
मञ्चागारैः सुनिर्युक्तैर्युद्धाय सुविभूषितैः ।
समाजवाटः शुशुभे समेघौघ इवार्णवः ॥ ४॥
स्वकर्मद्रव्ययुक्ताभिः पताकाभिर्निरन्तरम् ।
श्रेणीनां च गणानां च मञ्चा भान्त्यचलोपमाः ॥ ५॥
अन्तःपुरचराणां च प्रेक्षागाराण्यनेकशः ।
रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च ॥ ६॥
तानि रत्नौघक्लृप्तानि ससानुप्रग्रहाणि च ।
रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः ॥ ७॥
तत्र चामरहारैश्च भूषणानां च सिञ्जितैः ।
मणीनां च विचित्राणां विचित्राश्चेरुरर्चिषः ॥ ८॥
गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः ।
शोभिता वारमुख्याभिर्विमानप्रतिमौजसः ॥ ९॥
तत्रासनानि ख्यातानि पर्यङ्काश्च हिरण्मयाः ।
प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकैर्वृताः ॥ २.२९.१०॥
सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः ।
फलावदंशपूर्णाश्च चाङ्गेर्यः पानयोजिताः ॥ ११॥
अन्ये च मञ्चा बहवः काष्ठसञ्चयबन्धनाः ।
रेजुः प्रस्तरणास्तत्र शतशोऽथ सहस्रशः ॥ १२॥
उत्तमागारिकाश्चैव सूक्ष्मजालावलोकिनः ।
स्त्रीणां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे ॥ १३॥
प्राङ्मुखश्चारुनिर्मुक्तो मेरुशृङ्गसमप्रभः ।
रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः ॥ १४॥
प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया ।
शोभितो माल्यदामैश्च निवासकृतलक्षणः ॥ १५॥
तस्मिन् नानाजनाकीर्णे जनौघप्रतिनादिते ।
समाजवाटे संस्तब्धे कम्पमानार्णवप्रभे ॥ १६॥
राजा कुवलयापीडः समाजद्वारि कुञ्जरः ।
तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमुपाययौ ॥ १७॥
स शुक्ले वाससी बिभ्रच्छवेतव्यजनचामरः ।
शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः ॥ १८॥
तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः ।
रूपमप्रतिमं दृष्ट्वा पौराः प्रोचुर्जयाशिषः ॥ १९॥
ततः प्रविविशुर्मल्ला रङ्गमावलिताम्बराः ।
तिस्रश्च भागशः कक्षाः प्राविशन् बलशालिनः ॥ २.२९.२०॥
ततस्तूर्यनिनादेन क्ष्वेडितास्फोटितेन च ।
वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ ॥ २१॥
बल्लवौ वस्त्रसंवीतौ सुरचन्दनभूषितौ ।
ऊर्ध्वपीडौ स्रगापीडौ बाहुशस्त्रकृतौ यमौ ॥ २२॥
आस्फोटयन्तावन्योन्यं बाहू चैवार्गलोपमौ ।
तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ ।
तेन मत्तेन नागेन चोद्यमानेन वै भृशम् ॥ २३॥
स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् ।
चकार चोदितो यत्नं निहन्तुं बलकेशवौ ॥ २४॥
ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै ।
कंसस्य तन्मतं चैव जगर्हे स दुरात्मनः ॥ २५॥
त्वरते खलु कंसोऽय गन्तुं वैवस्वतक्षयम् ।
यो मामनेन नागेन प्रधर्षयितुमिच्छति ॥ २६॥
सन्निकृष्टे ततो नागे गर्जमाने यथा घने ।
सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः ॥ २७॥
क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः ।
करं ससीकरं तस्य प्रतिजग्राह वक्षसा ॥ २८॥
विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः ।
बबाधे तं गजं कृष्णः पवनस्तोयदं यथा ॥ २९॥
स हस्ताग्राद् विनिष्क्रान्तो विषाणाग्राच्च दन्तिनः ।
विमुक्तः पदमध्याच्च कृष्णो द्विपमपोथयत् ॥ २.२९.३०॥
सोऽतिकायस्तु सम्मूढो हन्तुं कृष्णमशक्नुवन् ।
गजः स्वेष्वेव गात्रेषु मथ्यमानो ररास ह ॥ ३१॥
पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद च ।
मदं सुस्राव रोषाच्च घर्मापाये यथा घनः ॥ ३२॥
कृष्णस्तु तेन नागेन क्रीडित्वा शिशुलीलया ।
निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा ॥ ३३॥
स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् ।
दोर्भ्यां विषाणमुत्पाट्य तैनैव प्राहरत् तदा ॥ ३४॥
स तेन वज्रकल्पेन स्वेन दन्तेन कुञ्जरः ।
हन्यमानः शकृन्मूत्रं मुमोचार्तो ररास ह ॥ ३५॥
कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः ।
कटाभ्यामति सुस्राव वेगवद् भूरि शोणितम् ॥ ३६॥
लाङ्गूलं चास्य वेगेन निश्चकर्ष हलायुधः ।
शैलपृष्ठार्धसंलीनं वैनतेय इवोरगम् ॥ ३७॥
तेनैव गजदन्तेन कृष्णो हत्वा तु दन्तिनम् ।
जघानैकप्रहारेण गजारोहणमुल्बणम् ॥ ३८॥
सोऽऽर्तनादं महत् कृत्वा विदन्तो दन्तिनां वरः ।
पपात समहामात्रो वज्रभिन्न इवाचलः ॥ ३५॥
ततस्तौ तोरणाङ्गानि प्रगृह्य रणकर्कशौ ।
गजस्य पादरक्षांश्च जघ्नतुः पुरुषर्षभौ ॥ २.२९.४०॥
तांश्च हत्वा विविशतुर्मध्यं रङ्गस्य तावुभौ ।
नासत्यावश्विनौ स्वर्गादवतीर्णाविवेच्छया ॥ ४१॥
वृष्ण्यन्धकाश्च भोजाश्च ददृशुर्वनमालिनौ ।
क्ष्वेडितोत्क्रुष्टनादेन बाह्वोरास्फोटितेन च ।
सिंहनादैश्च तालैश्च हर्षयामासतुर्जनम् ॥ ४२॥
तौ दृष्ट्वा भोजराजस्तु विषसाद वृथामतिः ।
पौराणामनुरागं च हर्ष चालक्ष्य भारत ॥ ४३॥
तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् ।
अवतीर्णोऽर्णवाकारं समाजं सहपूर्वजः ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कुवलयापीडवधे एकोनत्रिंशोऽध्यायः ॥ २९॥
२.३० त्रिंशोऽध्यायः
कम्सवधः Slaying of kamsa
रङ्गशालायां मल्लयुद्धविषये श्रीकृष्णस्य विचारः, श्रीकृष्णबलदेवाभ्यां चाणूरमुष्टिकादीनां वधं, कंसस्य संहारः, पितृमातृभ्यां चरणेषु प्रणामयित्वा भ्रातृद्वयोः तेषां गृहगमनं
वैशम्पायन उवाच ।
प्रविशन्तं तु वेगेन मारुतावल्गिताम्बरम् ।
पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥ १॥
गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् ।
लीलाकृताङ्गदं वीरं मदेन रुधिरेण च ॥ २॥
वल्गमानं यथा सिंहं व्यूहमानं यथा घनम् ।
बहुशब्दप्रहारेण चालयन्तं वसुन्धराम् ॥ ३॥
औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् ।
कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत ॥ ४॥
भुजासक्तेन शुशुभे गजदन्तेन केशवः ।
चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरिः ॥ ५॥
वल्गमाने तु गोविन्दे स कृत्स्नो रङ्गसागरः ।
जनौघप्रतिनादेन पूर्यमाण इवाबभौ ॥ ६॥
ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः ।
चाणूरमादिशद् युद्धे कृष्णस्य सुमहाबलम् ॥ ७॥
अन्ध्रं मल्लं च निकृतिं मुष्टिकं च महाबलम् ।
बलदेवाय सक्रोधो दिदेशाद्रिचयोपमम् ॥ ८॥
कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु ।
योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥ ९॥
स रोषेण तु चाणूरः कषायीकृतलोचनः ।
अभ्यावर्तत युद्धार्थमपां पूर्णो यथा घनः ॥ २.३०.१०॥
अवघुष्टे समाजे, तु निश्शब्दस्तिमिते जने ।
यादवाः सहितास्तत्र इदं वचनमब्रुवन् ॥ ११॥
बाहुयुद्धमिदं रङ्गे सप्राश्निकमकातरम् ।
क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा ॥ १२॥
अद्भिश्चातिश्रमो नित्यं विनेयः कालदर्शिभिः ।
करीषेण च मल्लस्य सततं सत्क्रिया स्मृता ॥ १३॥
स्थितो भूमिगतेनैव यो यथा मार्गतः स्थितः ।
संयुज्यतश्च पर्यायः प्राश्निकैः समुदाहृतः ॥ १४॥
बालो वा यदि वा वृद्धो मध्यो वापि कृशोऽपि वा ।
बलस्थो वा स्थितो रङ्गे ज्ञेयः कक्षान्तरेण वै ॥ १५॥
बलतश्च क्रियाश्च बाहुयुद्धविधिर्युधि ।
निपातानन्तरं किञ्चिन्न कर्तव्यं विजानता ॥ १६॥
तदिदं प्रस्तुतं रङ्गे युद्धं कृष्णान्ध्रमल्लयोः ।
बालः कृष्णो महानन्ध्रः कथं न स्याद् विचारणा ॥ १७॥
ततः किलकिलाशब्दः समाजे समवर्तत ।
प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह ॥ १८॥
अहं बालो महानन्ध्रो वपुषा पर्वतोपमः ।
युद्धं ममानेन सह रोचते बाहुशालिना ॥ १९॥
युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः ।
न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम् ॥ २.३०.२०॥
योऽयं करीषधर्मश्च तोयधर्मश्च रङ्गजः ।
कषायस्य च संसर्गः समयो ह्येष कल्पितः ॥ २१॥
संयमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् ।
रङ्गे च नियता सिद्धिरेतद् युद्धविदां मतम् ॥ २२॥
अवैरमेवं यदयं सवैरं कर्तुमुद्यतः ।
अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत् ॥ २३॥
करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।
बाहुयोधी शरीरेण कर्मभिश्चात्र चिन्त्यताम् ॥ २४॥
एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्गप्रतापकामेन मल्लमार्गश्च दूषितः ॥ २५॥
शस्त्रसिद्धिस्तु योधानां सङ्ग्रामे शस्त्रयोधिनाम् ।
रङ्गसिद्धिस्तु मल्लानां प्रतिमल्लनिपातजा ॥ २६॥
रणे वि जयमानस्य कीर्तिर्भवति शाश्वती ।
हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते ॥ २७॥
रणे उभयतः सिद्धिर्हतस्येह घ्नतोऽपि वा ।
सा हि प्राणान्तिकीयात्रा महद्भिः साधुपूजिता ॥ २८॥
अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः ।
मृतस्य रङ्गे क्व स्वर्गो जयते वा कुतो रतिः ॥ २९॥
ये तु केचित् स्वदोषेण राज्ञः पण्डितमानिनः ।
प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः ॥ २.३०.३०॥
एवं सञ्जल्पतस्तस्य ताभ्यां युद्धं सुदारुणम् ।
उभाभ्यामभवद् घोरं वारणाभ्यां यथा वने ॥ ३१॥
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकण्टकैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ ३२॥
तावुभावपि संश्लिष्टौ यथा शैलमयौ तथा ।
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिःस्वनैः ॥ ३३॥
कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ॥ ३४॥
जानुभिश्चाश्मनिर्घोषैः शिरोभ्यां चावघट्टितैः ।
तद् युद्धमभवद् घोरमशस्त्रं बाहुतेजसा ॥ ३५॥
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ।
अरज्यत जनः सर्वः सोत्कृष्टनिनदोत्थितः ॥ ३६॥
साधुवादांश्च मञ्चेषु घोषयन्त्यपरे जनाः ।
ततः प्रस्विन्नवदनः कृष्णप्रणिहितेक्षणः ।
न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥ ३७॥
प्रतिषिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै ।
खे सङ्गतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ३८॥
युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे ।
स्वयमेव प्रवाद्यन्त तूर्यघोषास्तु सर्वशः ॥ ३९॥
अन्तर्धानगता देवा विमानैः कामरूपिभिः ।
चेरुर्विद्याधरैः सार्द्धं कृष्णस्य जयकाङ्क्षिणः ॥ २.३०.४०॥
जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् ।
इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः ॥ ४१॥
चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः ।
बलमाहारयामास कंसस्याभावदर्शिवान् ॥ ४२॥
ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे ।
मुकुटाच्चापि कंसस्य पपात मणिरुत्तमः ॥ ४३॥
दोर्भ्यामानम्य कृष्णस्तु चाणूरं शीर्णजीवितम् ।
प्राहरन्मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥ ४४॥
निःसृते साश्रुरुधिरे तस्य नेत्रे सबन्धने ।
तापनीये यथा घण्टे कक्षोपरि विलम्बिते ॥ ४५॥
पपात स तु रङ्गस्य मध्ये निःसृतलोचनः ।
चाणूरो विगतप्राणो जीवितान्ते महीतले ॥ ४६॥
देहेन तस्य मल्लस्य चाणूरस्य गतायुषः ।
सन्निरुद्धो महारङ्गः स शैलेनेव लक्ष्यते ॥ ४७॥
रौहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते ।
जग्राह मुष्टिकं रङ्गे कृष्णस्तोशलकं पुनः ॥ ४८॥
सन्निपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ ।
समेयातां रामकृष्णौ कालस्य वशवर्तिनौ ।
निर्घातावनतौ भूत्वा रङ्गमध्ये ववल्गतुः ॥ ४९॥
कृष्णस्तोशलमुद्यम्य गिरिशृङ्गोपमं बली ।
भ्रामयित्वा शतगुणं निष्पिपेष महीतले ॥ २.३०.५०॥
तस्य कृष्णाभिपन्नस्य पीडितस्य बलीयसः ।
मुखाद् रुधिरमत्यर्थमुज्जगाम मुमूर्षतः ॥ ५१॥
सङ्कर्षणस्तु सुचिरं योधयित्वा महाबलः ।
अन्ध्रमल्लं महामल्लो मण्डलानि व्यदर्शयत् ॥ ५२॥
मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना ।
शिरस्यभ्यहनद् वीरो वज्रेणेव महागिरिम् ॥ ५३॥
स निष्पतितमस्तिष्को विस्रस्तनयनो भुवि ।
पपात निहतस्तेन ततो नादो महानभूत् ॥ ५४॥
अन्ध्रतोशलकौ हत्वा कृष्णसङ्कर्षणावुभौ ।
क्रोधसंरक्तनयनौ रङ्गमध्ये ववल्गतुः ॥ ५५॥
समाजवाटो निर्मल्लः सोऽभवद् भीमदर्शनः ।
अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते ॥ ५६॥
ये च सम्प्रेक्षका गोपा नन्दगोपपुरोगमाः ।
भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे ॥ ५७॥
हर्षजं वारि नेत्राभ्यां वर्षमाणा प्रवेपती ।
प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत ॥ ५८॥
कृष्णदर्शनजातेन बाष्पेणाकुलितेक्षणः ।
वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते ॥ ५९॥
वारमुख्याश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् ।
पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः ॥ २.३०.६०॥
कंसस्याथ मुखे स्वेदो भ्रूभेदान्तरगोचरः ।
अभवद् रोषनिर्यासः कृष्णसन्दर्शनेरितः ॥ ६१॥
केशवाय सधूमेन रोषनिश्वासवायुना ।
दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना ॥ ६२॥
तस्य प्रस्फुरितौष्ठस्य स्विन्नालिकतलस्य वै ।
कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः ॥ ६३॥
क्रोधरक्तान्मुखात्तस्य निःसृताः स्वेदबिन्दवः ।
यथा रविकरस्पृष्टा वृक्षावश्यायबिन्दवः ॥ ६४॥
सोऽज्ञापयत सङ्क्रुद्धः पुरुषान्व्यायतान्बहून् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां वनेचरौ ॥ ६५॥
न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शनौ ।
गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति ॥ ६६॥
नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम ।
आयसैर्निगडाकारैर्लोहपाशैनिगृह्यताम् ॥ ६७॥
वसुदेवश्च दुर्वृत्तो नित्यं द्वेषकरो मम ।
अवृद्धार्हेण दण्डेन क्षिप्रमद्यैव शास्यताम् ॥ ६८॥
ये चेमे प्राकृता गोपा दामोदरपरायणाः ।
ह्रियन्तां गाव एतेषां यच्चास्ति वसु किञ्चन ॥ ६९॥
एवमाज्ञापयानं तं कंसं परुषभाषिणम् ।
ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः ॥ २.३०.७०॥
क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः ।
ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् ॥ ७१॥
स सिंह इव वेगेन केशवो जातविक्रमः ।
आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्पुतः ॥ ७२॥
रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् ।
असज्जद्वायुनाऽऽक्षिप्तो यथा खस्थो घनाघनः ॥ ७३॥
ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् ।
केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ॥ ७४॥
सोऽपि कंसस्तथाऽऽयस्तः परीतः कालधर्मणा ।
आकाशादिव गोविन्दं मेने तत्रागतं प्रभुम् ॥ ७५॥
स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम् ।
मूर्धजेषु परामृष्टः कंसो वै रङ्गसंसदि ॥ ७६॥
मुकुटश्चापतत् तस्य काञ्चनो वज्रभूषितः ।
शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना ॥ ७७॥
स ग्रहग्रस्तकेशश्च कंसो निर्यत्नतां गतः ।
तथैव च विसम्मूढो वैकल्यं समपद्यत ॥ ७८॥
निगृहीतश्च केशेषु गतासुरिव निःश्वसन् ।
न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा ॥ ७९ ! ।
विकुण्डलाभ्यां कर्णाभ्यां छिन्नहारेण वक्षसा ।
प्रलम्बाभ्यां च बाहुभ्यां गात्रैविसृतभूषणैः ॥ २.३०.८०॥
भ्रंशितेनोत्तरीयेण सहसावलिताननः ।
चेष्टमानः समाक्षिप्तः कंसः कार्ष्णेन तेजसा ॥ ८१॥
चकर्ष च महारङ्गे मञ्चान्निष्क्रम्य केशवः ।
केशेषु तं बलाद् गृह्य कंसं क्लेशार्हतां गतम ॥ ८२॥
कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः ।
समाजवाटे परिखां देहकृष्टां चकार ह ॥ ८३॥
समाजवाटे क्रीडित्वा विकृष्य च गतायुषम् ।
कृष्णो विसर्जयामास कंसदेहमदूरतः ॥ ८४॥
धरण्यां मृदितः शिश्ये तव देहः सुखोचितः ।
क्रमेण विपरीतेन पांसुभिः परुषीकृतः ॥ ८५॥
तस्य तद् वदनं श्यामं सुप्ताक्षं मुकुटं विना ।
न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् ॥ ८६॥
असङ्ग्रामहतः कंसः स बाणैरपरिक्षतः ।
केशग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः ॥ ८७॥
तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः ।
मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः ॥ ८८॥
तं हत्वा पुण्डरीकाक्षः प्रहर्षाद् द्विगुणप्रभः ।
ववन्दे वसुदेवस्य पादौ निहतकण्टकः ॥ ८९॥
मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः ।
सासिञ्चत् प्रस्रवोत्पीडैः कृष्णमानन्दनिःसृतैः ॥ २.३०.९०॥
यादवांश्चैव तान् सर्वान् यथास्थानं यथावयः ।
पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा ॥ ९१॥
बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् ।
बाहुभ्यामेव तरसा सुनामानमपोथयत् ॥ ९२॥
तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे ।
स्थपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसौ ॥ ९३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसवधे त्रिंशोऽध्यायः ॥
-------
२.३१ एकत्रिंशोऽध्यायः
कंसयोषितां विलापः Kamsa's wives express grief
कंसस्य स्त्रीणां मातुः च विलापः
वैशम्पायन उवाच ।
भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् ।
कंसपत्न्यो हतं कंसं समन्तात् पर्यवारयन् ॥ १॥
तं महीशयने सुप्तं क्षितिनाथं गतायुषम् ।
भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगपतिं यथा ॥ २॥
हा हताः स्म महाबाहो हताशा हतबान्धवाः ।
वीरपत्न्यो हते वीरे त्वयि वीरव्रतप्रिये ॥ ३॥
इमामवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम् ।
कृपणं राजशार्दूल विलपामः सबान्धवाः ॥ ४॥
छिन्नमूलाः स्म संवृत्ताः परित्यक्तास्त्वया विभो ।
त्वयि पञ्चत्वमापन्ने नाथेऽस्माकं महाबले ॥ ५॥
को नः कोपपरीताङ्गी रतिसंसर्गलालसाः ।
लता इव विचेष्टन्तीः शयनीयानि नेष्यति ॥ ६॥
इदं तेऽसदृशं सौम्य हृद्यनिःश्वासमारुतम् ।
दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम् ॥ ७॥
इमे ते श्रवणे शून्ये न शोभेते विकुण्डले ।
शिरोधरायां संलीने सततं कुण्डलप्रिये ॥ ८॥
क्व ते स मुकुटो वीर सर्वरत्नविभूषितः ।
अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम् ॥ ९॥
अनेन हि कलत्रेण तवान्तःपुरशोभिना ।
कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते ॥ २.३१.१०॥
ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववञ्चिताः ।
पतीनामपरित्याज्याः स त्वं नस्त्यज्य गच्छसि ॥ ११॥
अहो कालो महावीर्यो येन पर्ययकर्मणा ।
कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे ॥ १२॥
वयं दुःखेष्वनुचिताः सुखेष्वेव त्वयैधिताः ।
कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः ॥ १३॥
स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः ।
त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा ॥ १४॥
वैधव्येनाभिभूताः स्मः शोकसन्तप्तमानसाः ।
रोदितव्यह्रदे मग्नाः क्व गच्छामस्त्वया विना ॥ १५॥
सह त्वया गतः कालस्त्वदङ्के क्रीडितं कृतम् ।
क्षणेन तद्विहीनाः स्म अनित्या हि नृणां गतिः ॥ १६॥
अहो बलविहीनाः स्म विपन्ने त्वयि मानद ।
एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः ॥ १७॥
त्वया स्वर्गप्रतिच्छन्दैर्लालिताः स्म रतिप्रियाः ।
त्वयि कामवशाः सर्वाः स नस्त्यज्य क्व गच्छसि ॥ १८॥
अस्माकं त्वमनाथानां नाथो ह्यसि सुरोपम ।
आसां विलपमानानां कुररीणामिव प्रभो ।
प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद ॥ १९॥
एवमार्तकलत्रस्य शाम्यमानेषु बन्धुषु ।
गमनं ते महाभाग दारुणं प्रतिभाति नः ॥ २.३१.२०॥
नूनं कान्ततराः कान्त परलोके वरस्त्रियः ।
यतस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् ॥ २१॥
किं नु ते कारणं वीर भार्यास्वेतासु भूरिद ।
आर्तनादं रुदन्तीषु यन्मोहान्नावबुध्यसे ॥ २२॥
अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी ।
यत् परित्यज्य दारान्स्वान्निरपेक्षा व्रजन्ति हि ॥ २३॥
अपतित्वं स्त्रियाः श्रेयो न तु शूरः पतिः स्त्रियाः ।
स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः ॥ २४॥
अहो क्षिप्रमदृश्येन नयता त्वां रणप्रियम् ।
प्रहृतं नः कृतान्तेन सर्वासामन्तरात्मसु ॥ २५॥
हत्वा जरासन्धबलं जित्वा यक्षांश्च संयुगे ।
कथं मानुषमात्रेण हतस्त्वं जगतीतले ॥ २६॥
इन्द्रेण सह सङ्ग्रामं कृत्वा सायकविग्रहम् ।
अमर्त्यैरजितो युद्धे मर्त्येनासि कथं हतः ॥ २७॥
त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः ।
रत्नसर्वस्वहरणं जित्वा पाशधरं कृतम् ॥ २८॥
त्वया पौरजनस्यार्थे मन्दं वर्षति वासवे ।
सायकैर्जलदाञ्जित्वा बलाद् वर्षं प्रवर्तितम् ॥ २९॥
प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः ।
प्रेषयन्तो वरार्हाणि रत्नान्याच्छादनानि च ॥ २.३१.३०॥
तवैव देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः ।
कथं प्राणान्तकं घोरमीदृशं भयमागतम् ॥ ३१॥
प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते ।
अप्रमत्ताः प्रमत्तेन कृतान्तेन निराकृताः ॥ ३२॥
यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् ।
वाङ्मात्रेणापि यामीति वक्तव्ये कः परिश्रमः ॥ ३३॥
प्रसीद नाथ भीताः स्म पादौ ते याम मूर्द्धभिः ।
अलं दूरप्रवासेन निवर्तस्व नराधिप ॥ ३४॥
अहो वीर कथं शेषे निषण्णस्तृणपांसुषु ।
शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः ॥ ३५॥
केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः ।
प्रहृतं केन सर्वासु नारीष्वेवं सुदारुणम् ॥ ३६॥
रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् ।
किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे ॥ ३७॥
एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती ।
क्व मे वत्सः क्व मे पुत्र इति रोरूयती भृशम् ॥ ३८॥
सापश्यन्निहतं पुत्रं निष्प्रभं शशिनं यथा ।
हृदयेन विदीर्णेन भ्राम्यमाणा पुनः पुनः ॥ ३९॥
पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती ।
स्नुषाणामार्तनादेन विललाप रुरोद च ॥ २.३१.४०॥
सा तस्य वदनं दीनमुत्सङ्गे पुत्रगृद्धिनी ।
कृत्वा पुत्रेति कारुण्यं विललापार्तया गिरा ॥ ४१॥
पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्द्धन ।
किमिदं त्वरितं वत्स प्रस्थानं कृतवानसि ॥ ४२॥
प्रसुप्तश्चातिविवृते किं पुत्र नियमं विना ।
वत्स नैवंविधा भूमौ शेरते कृतलक्षणाः ॥ ४३॥
रावणेन पुरा गीतः श्लोकोऽयं साधुसम्मतः ।
बलज्येष्ठेन लोकेषु राक्षसानां समागमे ॥ ४४॥
एवमूर्जितवीर्यस्य मम देवनिघातिनः ।
बान्धवेभ्यो भयं घोरं दुर्निवार्यं भविष्यति ॥ ४५॥
तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः ।
ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत् ॥ ४६॥
सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् ।
उवाच रुदती वाक्यं विवत्सा हरिणी यथा ॥ ४७॥
एह्येहि राजञ्छुद्धात्मन पश्य पुत्रं जनेश्वरम् ।
शयानं वीरशयने वज्राहतमिवाचलम् ॥ ४८॥
अन्य कुर्मो महाराज निर्याणसदृशीं क्रियाम् ।
प्रेतत्वमुपपन्नस्य गतस्य यमसादनम् ॥ ४९॥
वीरभोग्यानि राज्यानि वयं चापि पराजिताः ।
गच्छ विज्ञाप्यतां कृष्णः कंससत्कारकारणात् ॥ २.३१.५०॥
मरणान्तानि वैराणि शान्ते शान्तिर्भविष्यति ।
प्रेतकार्याणि कार्याणि मृतः किमपराध्यते ॥ ५१॥
एवमुक्त्वा पतिं भोजं केशानारुज्य दुःखिता ।
पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम् ॥ ५२॥
इमास्ते किं करिष्यन्ति भार्या राजन् सुखोषिताः ।
त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः ॥ ५३॥
इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् ।
कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा ॥ ५४॥
अहं ते जननी पुत्र किमर्थं नाभिभाषसे ।
प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम् ॥ ५५॥
अहो वीराल्पभाग्यायाः कृतान्तेनाभिवर्तिना ।
आच्छिद्य मम सन्दायो नीयसे नयकोविदः ॥ ५६॥
दानमानगृहीतानि तृप्तान्येतानि तैर्गुणैः ।
रुदन्ति तव भृत्यानां कुलानि कुलयूथप ॥ ५७॥
उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल ।
त्राहि दीनं जनं सर्वं पुरमन्तःपुरं यथा ॥ ५८॥
रुदतीनां भृशार्तानां कंसस्त्रीणां सुविस्तरम् ।
जगामास्तं दिनकरः सन्ध्यारागेण रञ्जितः ॥ ५९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसस्त्रीविलापे एकत्रिंशोऽध्यायः ॥ ३१॥
२.३२ द्वात्रिंशोऽध्यायः
उग्रसेनाभिषेकः Coronation of ugrasena
श्रीकृष्णेन कंसवधाय पश्चात्तापपूर्वकं तस्य औचित्यस्य समर्थनम्, उग्रसेनेन श्रीकृष्णं सर्वसमर्पणं कृत्वा कंसस्य अन्त्येष्टिसंस्काराय अनुरोधं, श्रीकृष्णेन तस्य राज्याभिषेककरणम्, समस्त यादवैः सह कंसादीनां अन्त्येष्टिकारणम् ।
वैशम्पायन उवाच ।
उग्रसेनस्तु कृष्णस्य समीपं दुःखितो ययौ ।
पुत्रशोकाभिसन्तप्तो विषपीत इव श्वसन् ॥ १॥
स ददर्श गृहे कृष्णं यादवैः परिवारितम् ।
पश्चानुतापाद् ध्यायन्तं कंसस्य निधनाविलम् ॥ २॥
कंसनारीविलापांश्च श्रुत्वा स करुणान् बहून् ।
गर्हमाणस्तथाऽऽत्मानं तस्मिन् यादवसंसदि ॥ ३॥
अहो मयातिबाल्येन रोषाद् दोषानुवर्तिना ।
वैधव्यं स्त्रीसहस्राणां कंसस्यास्य वधे कृतम् ॥ ४॥
कारुण्यं खलु नारीषु प्राकृतस्यापि जायते ।
एवमार्तं रुदन्तीषु मया भर्तरि पातिते ॥ ५॥
परिदेवितमात्रेण शोकः खलु विधीयते ।
कृतान्तस्यानभिज्ञानां स्त्रीणां कारुण्यसम्भवः ॥ ६॥
कंसस्य हि वधः श्रेयान् प्रागेवाभिमतो मम ।
सतामुद्वेजनीयस्य पापेष्वभिरतस्य च ॥ ७॥
लोके पतितवृत्तस्य परुषस्यालल्पमेधसः ।
अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम् ॥ ८॥
कंसः पापपरश्चैव साधूनामप्यसम्मतः ।
धिक्छब्दपतितश्चैव जीविते चास्य का दया ॥ ९॥
स्वर्गे तपोभृतां वास फलं पुण्यस्य कर्मणः ।
इहापि यशसा युक्तः स्वर्गस्थैरवधार्यते ॥ २.३२.१०॥
यदि स्युर्निर्वृता लोकाः स्युश्च धर्मपराः प्रजाः ।
नरा धर्मप्रवृत्ताश्च न राज्ञामनयः स्पृशेत् ॥ ११॥
निग्रहे दुष्टवृत्तीनां कृतान्तः कृरुते फलम् ।
इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम् ॥ १२॥
अतीव देवा रक्षन्ति नरं धर्मपरायणम् ।
कर्तारः सुलभा लोके दुष्कृतस्य हि कर्मणः ॥ १३॥
हतः सोऽयं मया कंसः साध्वेतदवगम्यताम् ।
मूलच्छेदः कृतस्तस्य विपरीतस्य कर्मणः ॥ १४॥
तदेष सान्त्व्यतां सर्वः शोकार्तः प्रमदाजनः ।
पौराश्च पुर्यां श्रेण्यश्च सान्त्व्यन्तां सर्व एव हि ॥ १५॥
एवं ब्रुवति गोविन्दे विवेशावनताननः ।
उग्रसेनो यदून् गृह्य पुत्रकिल्बिषशङ्कितः ॥ १६॥
स कृष्णं पुण्डरीकाक्षमुवाच यदुसंसदि ।
वाष्पसन्दिग्धया वाचा दीनया सज्जमानया ॥ १७॥
पुत्रो निर्यातितः क्रोधान्नीतो याम्यां दिशं रिपुः ।
स्वधर्माधिगता कीर्तिर्नाम विश्रावितं भुवि ॥ १८॥
स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः ।
स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः ॥ १९॥
सामन्तेषु नरेन्द्रेषु प्रतापस्ते प्रकाशितः ।
मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति पार्थिवाः ॥ २.३२.२०॥
प्रकृतयोऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः ।
सन्धिविग्रहमुख्यास्त्वां प्रणमिष्यन्ति मन्त्रिणः ॥ २१॥
हस्त्यश्वरथसम्पूर्णं पदातिगणसङ्कुलम् ।
प्रतिगृहाण कृष्णेदं कंसस्य बलमव्ययम् ॥ २८॥
धनं धान्यं च यत् किञ्चिद् रत्नान्याच्छादनानि च ।
प्रतीच्छन्तु नियुक्ता वै त्वदीयाः कृष्ण पूरुषाः ॥ २३॥
स्त्रियो हिरण्यं यानानि यदन्यद् वसु किञ्चन ।
एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे ॥ २४॥
प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन ।
त्वं गतिश्चागतिश्चैव यदूनां यदुनन्दन ॥ २५॥
शृणुष्व वदतां वीर कृपणानामिदं वचः ।
अस्य त्वत्कोपदग्धस्य कंसस्याशुभकर्मणः ॥ २६॥
तव प्रसादाद् गोविन्द प्रेतकार्यं क्रियेत ह ।
तस्य कृत्वा नरेन्द्रस्य विपन्नस्यौर्ध्वदेहिकम् ॥ २७॥
सस्नुषोऽहं सभार्यश्च चरिष्यामि मृगैः सह ।
प्रेतसत्कारमात्रेण कृते बान्धवकर्मणि ।
आनृण्यं लौकिकं कृष्ण गताः किल भवन्ति हि ॥ २८॥
तस्याग्निं पश्चिमं कृत्वा चितिस्थाने विधानतः ।
तोयप्रदानमात्रेण कंसस्यानृण्यमाप्नुयाम् ॥ २९॥
एतत्ते कृष्ण विज्ञाप्यं स्नेहोऽत्र मयि युज्यताम् ।
प्राप्नोति सुगतिं तत्र कृपणः पश्चिमां क्रियाम् ॥ २.३२.३०॥
एतच्छ्रुत्वा वचस्तस्य कृष्णः परमविस्मितः ।
प्रत्युवाचोग्रसेनं वै सान्त्वपूर्वमिदं वचः ॥ ३१॥
कालयुक्तमिदं तात तवैतद् यत् प्रभाषितम् ।
सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ॥ ३२॥
यत् त्वमेवंविधं ब्रूषे गतेऽर्थे दुरतिक्रमम् ।
प्राप्स्यते नृपसत्कारं कंसः प्रेतगतोऽऽपि सन् ॥ ३३॥
कुले महति ते जन्म वेदान् विदितवानसि ।
कथं न ज्ञायते तात नियतिर्दुरतिक्रमा ॥ ३४॥
स्थावराणां च भूतानां जङ्गमानां च पार्थिव ।
पूर्वजन्मकृतं कर्म कालेन परिपच्यते ॥ ३५॥
श्रुतवन्तोऽर्थवन्तश्च दातारः प्रियदर्शनाः ।
ब्रह्मण्या नयसम्पन्ना दीनानुग्रहकारिणः ॥ ३६॥
लोकपालसमास्तात महेन्द्रसमविक्रमाः ।
क्षितिपालाः कृतान्तेन नीयन्ते नृपसत्तम ॥ ३७॥
धार्मिकाः सर्वभावज्ञाः प्रजापालनतत्पराः ।
क्षत्रधर्मपरा दान्ताः कालेन निधनं गताः ॥ ३८॥
स्वयमात्मकृतं कर्म शुभं या यदि वाशुभम् ।
प्राप्ते काले तु तत्कर्म दृश्यते सर्वदेहिनाम् ॥ ३९॥
एषा ह्यन्तर्हिता माया दुर्विज्ञेया सुरैरपि ।
यथायं मुह्यते लोको ह्यत्र कर्मैव कारणम् ॥ २.३२.४०॥
कालेनाभिहतः कंसः पूर्वकर्मप्रचोदितः ।
न ह्यहं कारणं तत्र कालः कर्म च कारणम् ॥ ४१॥
सूर्यसोममयं तात कृत्स्नं स्थावरजङ्गमम् ।
कालेन निधनं गत्वा कालेनैव च जायते ॥ ४२॥
स कालः सर्वभूतानां निग्रहानुग्रहे रतः ।
तस्मात्सर्वाणि भूतानि कालस्य वशगानि वै ॥ ४३॥
स्वदोषेणैव दग्धस्य सूनोस्तव नराधिप ।
नाहं वै कारणं तत्र कालस्तत्र च कारणम् ॥ ४४॥
अथवाहं भविष्यामि कारणं नात्र संशयः ।
परायणपरः कालः किं करिष्यत्यकारणः ॥ ४५॥
कालस्तु बलवान् राजन् दुर्विज्ञेया हि सा गतिः ।
परावरविशेषज्ञा यां यान्ति समदर्शिनः ॥ ४६॥
गतिः कालस्य सा येन सर्वं कालस्य गोचरम् ।
ब्रवीमि यदहं तात तदनुष्ठीयतां वचः ॥ ४७॥
न हि राज्येन मे कार्यं नाप्यहं नृप काङ्क्षितः ।
न चापि राज्यलुब्धेन मया कंसो निपातितः ॥ ४८॥
किं तु लोकहितार्थाय कीर्त्यर्थं च सुतस्तव ।
व्यङ्गभूतः कुलस्यास्य सानुजो विनिपातितः ॥ ४९॥
अहं स एव गोमध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥ २.३२.५०॥
एतावच्छतशोऽप्येवं सत्येनैतद् ब्रवीमि ते ।
न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियतामिदम् ॥ ५१॥
भवान राजास्तु मान्यो मे यदूनामग्रणीः प्रभुः ।
विजयायाभिषिच्यस्व स्वराज्ये नृपसत्तम ॥ ५२॥
यदि ते मत्प्रियं कार्यं यदि वा नास्ति ते व्यथा ।
मया निसृष्टं राज्यं स्वं चिराय प्रतिगृह्यताम् ॥ ५३॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा तु वचनं नोत्तरं प्रत्यभाषत ।
व्रीडिताधोमुखं तं तु राजानं यदुसंसदि ।
अभिषेकेन गोविन्दो योजयामास धर्मवित् ॥ ५४॥
स बद्धमुकुटः श्रीमानुग्रसेनो महाद्युतिः ।
चकार सह कृष्णेन कंसस्य निधनक्रियाम् ॥ ५५॥
तं सर्वे यादवा मुख्या राजानं कृष्णशासनात् ।
अनुजग्मुः पुरीमार्गे देवा इव शतक्रतुम् ॥ ५६॥
रजन्यां तु निवृत्तायां ततः सूर्ये विराजिते ।
पश्चिमं कंससंस्कारं चक्रुस्ते यदुपुङ्गवाः ॥ ५७॥
शिबिकायामथारोप्य कंसदेहं यथाक्रमम् ।
नैष्टिकेन विधानेन चक्रुस्ते कंससत्क्रियाम् ॥ ५८॥
स नीतो यमुनातीरमुत्तमं नृपतेः सुतः ।
सत्कृतश्च यथान्यायं नैधनेन चिताग्निना ॥ ५९॥
तथैव भ्रातरं चास्य सुनामानं महाभुजम् ।
संस्कारं लम्भयामासुः सह कृष्णेन यादवाः ॥ २.३२.६०॥
ताभ्यां ते सलिलं चक्रुर्वृष्ण्यन्धकपुरोगमाः ।
अक्षयं चास्तु प्रेतेभ्यो भाषमाणाः पुनः पुनः ॥ ६१॥
हिरण्यस्य सुवर्णस्य दश कोटीस्तथा हरिः ।
गावो रत्नानि वासांसि ग्रामान् नगरसम्मतान् ॥ ६२॥
ददौ कंसं समुद्दिश्य ब्राह्मणेभ्यो नृपोत्तमः ।
अक्षयं चापि विप्रेभ्यो भाषमाणाः पुनः पुनः ॥ ६३॥
तयोस्ते सलिलं दत्त्वा यादवा दीनमानसाः ।
पुरस्कृत्योग्रसेनं वै विविशुर्मथुरां पुरीम् ॥ ६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उग्रसेनाभिषेककंससंस्कारकथने द्वात्रिंशोऽध्यायः ॥ ३२॥
२.३३ त्रयस्त्रिंशोऽध्यायः
रामकृष्णयोर्विद्यासंपादनम् BalarAma and kRiShNa put under a formal tutor
बलरामकृष्णयोः गुरोः सान्दीपनेः स्थानं गत्वा विद्याध्ययनम्, गुरुदक्षिणा रूपेण तस्य मृतपुत्रं समर्प्य मथुरापुरीं प्रत्यागमनं
वैशम्पायन उवाच ।
स कृष्णस्तत्र बलवान् रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥ १॥
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् ।
कस्यचित् त्वथ कालस्य सहितौ रामकेशवौ ।
गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम् ॥ ३॥
धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः ।
निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलङ्कृतौ ॥ ४॥
शुश्रूषू निरहङ्कारावुभौ रामजनार्दनौ ।
प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः ॥ ५॥
तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् ।
अहोरात्रैश्चतुष्षष्ट्या साङ्गवेदमधीयताम् ॥ ६॥
चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससङ्ग्रहम् ।
अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥ ७॥
अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः ।
मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ ॥ ८॥
ददर्श च महात्मानावुभौ तावपि पर्वसु ।
पूजयन्तौ महादेवं साक्षाद् विष्णुं व्यवस्थितम् ॥ ९॥
गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत ।
गुर्वर्थं किं ददानीति रामेण सह भारत ॥ २.३३.१०॥
तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् ।
पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि ॥ ११॥
पुत्र एकोऽपि मे जातः स चापि तिमिना हतः ।
प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय ॥ १२॥
तथेत्येवाब्रवीत् कृष्णो रामस्यानुमते स्थितः ।
गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥ १३॥
समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा ।
तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति ॥ १४॥
समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं ग्रस्तवानिति माधव ॥ १५॥
स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।
न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥ १६॥
स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः ।
यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥ १७॥
ततो वैवस्वतपुरं जगाम पुरुषोत्तमः ।
ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम् ॥ १८॥
तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।
तयोस्तत्र तदा युद्धमासीद् घोरतरं महत् ॥ १९॥
ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः ।
आससाद च तं बालं गुरुपुत्रं तदाच्युतः ॥ २.३३.२०॥
आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् ।
ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः ॥ २१॥
दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् ।
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥ २२॥
सर्वेषामेव भूतानां विस्मयः समजायत ।
स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः ।
रत्नानि च महार्हाणि पुनरायाज्जगत्प्रभुः ॥ २३॥
राक्षसैस्तस्य रत्नानि महार्हाणि बहूनि च ।
आनाय्यावेदयामास गुरवे वासवानुजः ॥ २४॥
गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ ।
अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥ २५॥
ततः सान्दीपनेः पुत्रं तद्रूपवयसं तदा ।
प्रादात् कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः ॥ २६॥
चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा ।
समेत्य मुमुदे राजन् पूजयन् रामकेशवौ ॥ २७॥
कृतास्त्रौ ताबुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ ।
आयातौ मथुरां भूयो वसुदेवसुतावुभौ ॥ २८॥
ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः ॥ २९॥
श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत ॥ २.३३.३०॥
नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् ।
रथ्याः पताकामालिन्यो भ्राजन्ते स्म समन्ततः ॥ ३१॥
प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत ।
गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा ॥ ३२॥
मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः ।
तत्रासीत् प्रथिता गाथा यादवानां प्रियङ्करा ॥ ३३॥
गोविन्दरामौ सम्प्राप्तौ भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥ ३४॥
न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः ।
मथुरायामभूद् राजन् गोविन्दे समुपस्थिते ॥ ३५॥
वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥ ३६॥
शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश ।
दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥ ३७॥
यानि लिङ्गानि लोकस्य चासन् कृतयुगे पुरा ।
तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने ॥ ३८॥
ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः ।
हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥ ३९॥
विशन्तं मथुरां रम्यां तमुपेन्द्रमरिन्दमम् ।
अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥ २.३३.४०॥
वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥ ४१॥
परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ ।
तावायुधानि विन्यस्य गृहे स्वं स्वैरचारिणौ ॥ ४२॥
मुमुदाते यदुवरौ वसुदेवसुतावुभौ ।
उद्यानेषु विचित्रेषु फलपुष्पावनामिषु ॥ ४३॥
चेरतुः सुमहात्मानौ यादवैः परिवारितौ ।
रैवतस्य समीपेषु सरित्सु विमलासु च ॥ ४४॥
पद्मपत्रविवृद्धासु कारण्डवयुतासु च ।
एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कञ्चित् कालं मुमोदतुः ॥ ४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः ॥ ३३॥।
२.३४ चतुस्त्रिंशोऽध्यायः
जरासंधेन मथुरोपरोधः Siege of mathura by jarAsaMdha
जरासन्धेन स्वविशालसेनया सहितं आगत्वा मथुरापुर्याः संरोधनं
वैशम्पायन उवाच ।
स कृष्णस्तत्र सहितो रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥ १॥
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः स वनाकरभूषणाम् ॥ २॥
कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः ।
शुश्राव निहतं कंसं दुहितृभ्यां महीपतिः ॥ ३॥
ततो नातिचिरात् कालाज्जरासन्धः प्रतापवान् ।
आजगाम षडङ्गेन बलेन महता वृतः ॥ ४॥
जिघांसुर्हि यदून् क्रुद्धः कंसस्यापचितिं स्मरन् ।
अस्तिः प्राप्तिश्च नाम्ना ते मागधस्य सुते नृप ॥ ५॥
जरासन्धस्य कल्याण्यौ पीनश्रोणिपयोधरे ।
उभे कंसस्य ते भार्ये प्रादाद् बार्हद्रथो नृपः ॥ ६॥
स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम् ।
समाश्रित्य जरासन्धमनादृत्य च यादवान् ।
शूरसेनेश्वरो राजा यथा ते बहुशः श्रुतः ॥ ७॥
ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रतः ।
वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् ॥ ८॥
रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि ।
उग्रसेनोऽभवद् राजा भोजवृष्ण्यन्धकैर्वृतः ॥ ९॥
दुहितृभ्यां जरासन्धः प्रियाभ्यां बलवान् नृपः ।
नोदितो वीरपत्नीभ्यामुपायान्मथुरां ततः ॥ २.३४.१०॥
कृत्वा सर्वं समुद्योगं क्रोधादग्निसमो ज्वलन् ।
प्रतापावनता ये च जरासन्धस्य पार्थिवाः ॥ ११॥
मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा ।
तमेवानुययुः सर्वे सैन्यैः समुदितैर्वृताः ॥ १२॥
महेष्वासा महावीर्या जरासन्धप्रियैषिणः ।
कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् ॥ १३॥
कलिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः ।
साकृतिः केशिकश्चैव भीष्मकश्च नराधिपः ॥ १४॥
पुत्रश्च भीमकस्यापि रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः स्पर्धते स महाहवे ॥ १५॥
वेणुदारिः श्रुतर्वा च क्रथश्चैवांशुमानपि ।
अङ्गराजश्च बलवान् वङ्गानामधिपस्तथा ॥ १६॥
कौसल्यः काशिराजश्च दशार्णाधिपतिस्तथा ।
सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा ॥ १७॥
मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वरः ।
शाल्वराजश्च विक्रान्तो दरदश्च महाबलः ॥ १८॥
यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् ।
सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः ॥ १९॥
गान्धारराजः सुबलो नग्नजिच्च महाबलः ।
काश्मीरराजो गोनर्दो दरदाधिपतिर्नृपः ।
दुर्योधनादयश्चैव धार्तराष्ट्रा महाबलाः ॥ २.३४.२०॥
एते चान्ये च राजानो बलवन्तो महारथाः ।
तमन्वयुर्जरासन्धं विद्विषन्तो जनार्दनम् ॥ २१॥
ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् ।
ऊषुः संरुध्य मथुरां पुरस्कृत्य बलं तदा ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि मथुरोपरोधे चतुस्त्रिंशोऽध्यायः ॥ ३४॥
२.३५ पञ्चत्रिंशोऽध्यायः
यादवमागधयुद्धम् The yAdava-mAgadha Battle
जरासन्धस्य सेनयोः वर्णनम्, तस्य चतुर्भ्यः दिग्भ्यः मथुरापुर्यामुपरि आक्रमणस्य योजना, यादवेभिः सह जरासन्धस्य सेनयोः युद्धम्, श्रीकृष्णबलरामयोः पराक्रमेण तस्य सेनयोः पलायनम्, जरासन्धेन स्वसैनिकेभ्यः प्रोत्साहनं, उभयोः पक्षयोः वीराणां घमासान युद्धम् ।
वैशम्पायन उवाच ।
मथुरोपवने गत्वा निविष्टांस्तान् नराधिपान् ।
अपश्यन् वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥ १॥
ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् ।
त्वरते खलु कार्यार्थो देवतानां न संशयः ॥ २॥
यथायं सन्निकृष्टो हि जरासन्धो नराधिपः ।
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥ ३॥
एतानि शशिकल्पानि नृपाणां विजिगीषताम् ।
छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥ ४॥
अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥ ५॥
नृपः प्राप्तो जरासन्धो महीपतिः ।
आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥ ६॥
आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ ।
युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम् ॥ ७॥
एवमुक्त्वा ततः कृष्णः स्वस्थः सङ्ग्रामलालसः ।
जरासन्धबलं प्रेप्सुश्चकार बलदर्शनम् ॥ ८॥
वीक्षमाणश्च तान् सर्वान् नृपान् यदुवरोऽव्ययः ।
आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित् ॥ ९॥
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥ २.३५.१०॥
प्रोक्षितान् खल्विमान्मन्ये मृत्युना नृपपुङ्गवान् ।
स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे ॥ ११॥
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपाणां मुख्यानां बलौघैरभिपीडिता ॥ १२॥
मही निरन्तरा चेयं बलराष्ट्राभिसंवृता ।
स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम् ॥ १३॥
भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ।
वैशम्पायन उवाच ।
जरासन्धस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् ॥ १४॥
नराधिपसहस्रौघैरनुयातो महाद्युतिः ।
व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः ॥ १५॥
रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ॥ १६॥
महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ।
स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ॥ १७॥
वाजिभिर्वायुसङ्काशैः प्लवद्भिरिव पत्रिभिः ।
खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः ॥ १८॥
सहस्रसङ्ख्यासंयुक्तैरुत्पतद्भिरिवोरगैः ।
एवं चतुर्विधैः सैन्यैः कम्पमानैरिवाम्बुदैः ॥ १९॥
नृपः प्रयातो बलवाञ्जरासन्धो धृतव्रतः ।
स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः ॥ २.३५.२०॥
ह्रेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः ।
नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च ॥ २१॥
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ॥ २२॥
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।
रथैः पवनसम्पातैर्गजैश्च जलदोपमैः ।
तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः ॥ २३॥
विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥ २४॥
सबलास्ते महीपाला जरासन्धपुरोगमाः ।
परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥ २५॥
बभौ तस्य निविष्टस्य बलश्रीःशिबिरस्य वै ।
शुक्लपर्यन्तपूर्णस्य यथा रूपं महोदधेः ॥ २६॥
वीतरात्रे ततः काले समुत्तस्थुमहीक्षितः ।
आरोहणार्थं पुर्यास्ते समीयुर्युद्धलालसाः ॥ २७॥
समवायीकृताः सर्वे यमुनामनु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥ २८॥
तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणामिव स्वनः ॥ २९॥
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात् ॥ २.३५.३०॥
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनग्रहस्येव निःशब्दस्य यथोदधेः ॥ ३१॥
निःशब्दस्तिमिते तस्मिन् योगादिव महार्णवे ।
जरासन्धो बृहद् वाक्यं बृह्स्पतिरिवाददे ॥ ३२॥
शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् ।
सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ॥ ३३॥
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
कार्या भूमिः समा सर्वा जलौघैश्च परिप्लुता ।
ऊर्ध्वं चापा निवाह्यन्तां प्रासा वै तोमरास्तथा ॥ ३४॥
दयितां चैव टङ्काद्यैः खनित्रैश्च पुरी द्रुतम् ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्ताभदूरतः ॥ ३५॥
अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् ।
यावदेतौ रणे गोपौ वसुदेवसुतावुभौ ॥ ३६॥
सङ्कर्षणं च कृष्णं च घातयामि शितैः शरैः ।
आकाशमपि पाणौघैर्निःसम्पातं यथा भवेत् ॥ ३७॥
मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी ॥ ३८॥
मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥ ३९॥
पुनः किम्पुरुषश्चैव पर्वतीयो ह्यनामयः ।
नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्त्विति ॥ २.३५.४०॥
पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥ ४१॥
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ।
छागलिः पुरमित्रश्च विराटश्च महीपतिः ॥ ४२॥
कौरव्यो मालवश्चैव शतधन्वा विदूरथः ।
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ॥ ४१॥
उत्तरं नगरद्वारमेते दुर्गसहा नृपाः ।
आरुह्य चाभिमर्दन्तां वज्रप्रतिमगौरवाः ॥ ४४॥
उलूकः कैतवश्चैव वीरश्चांशुमतः सुतः ।
एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः ॥ ४५॥
उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा ।
वैदिशो वामदेवश्च साङ्कृतिश्च सिनीपतिः ॥ ४६॥
पूर्वं नगरनिर्व्यूहमैतेष्वायत्तमस्तु नः ।
दारयन्तो विधावन्तु वाता इव बलाहकान् ॥ ४७॥
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं नगरद्वारं पालयामः सुदंशिताः ॥ ४८॥
एवमेषा पुरी क्षिप्रं समन्ताद् वेष्टिता बलैः ।
वज्रावपातविषमं प्राप्नोतु तुमुलं भयम् ॥ ४९॥
गदिनो ये गदाभिस्ते परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् ॥ २.३५.५०॥
अद्यैव नगरी ह्येषा विषमोच्चयसङ्कटा ।
कार्या भूमिसमा सर्वा भवद्भिर्वसुधारधिपैः ॥ ५१॥
चतुरङ्गबलैर्व्यूह्य जरासन्धो व्यवस्थितः ।
अथाभ्ययाद् यदून् क्रुद्धैः सह सर्वैर्नराधिपैः ॥ ५२॥
प्रतिजग्मुर्दशार्हास्तं व्यूढानीकाः प्रहारिणः ।
तद् युद्धमभवद् घोरं तेषां देवासुरोपमम् ।
अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् ॥ ५३॥
नगरान्निस्सृतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुभितं नृवरानीकं त्रस्तसम्मूढवाहनम् ॥ ५४॥
रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥ ५५॥
तयोः प्रयुध्यतोः सङ्ख्ये मतिरासीन्महात्मनोः ।
आयुधानां पुराणानामादानकृतलक्षणा ॥ ५६॥
ततः खान्निपतन्ति स्म दिव्यान्याहवसम्प्लवे ।
लेलिहानानि दीप्तानि महान्ति सुदृढानि च ॥ ५७॥
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् ॥ ५८॥
दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि पतमानानि चाम्बरात् ॥ ५९॥
हलं संवर्तकं नामं सौनन्दं मुसलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी तथा ॥ २.३५.६०॥
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥ ६१॥
जग्राह प्रथमं रामो ललामप्रतिमं हलम् ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं मृधे ॥ ६२॥
सौनन्दं च ततः श्रीमान् निरानन्दकरं द्विषाम् ।
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ॥ ६३॥
दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ।
नाम्ना शार्ङ्गमिति ख्यातं कृप्णो जग्राह वीर्यवान् ॥ ६४॥
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥ ६५॥
तौ सप्रहरणौ वीरौ साक्षात् विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम् ॥ ६६॥
सायुधप्रग्रहौ वीरौ तावन्याश्रयावुभौ ।
पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ ॥ ६७॥
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ।
विचेरतुर्यथा देवौ वसुदेवसुतावुभौ ॥ ६८॥
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः ।
चचार समरे वीरो विद्विषामन्तको यथा ॥ ६९॥
विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ॥ २.३५.७०॥
कुञ्जराल्लाँङ्गलक्षिप्तान् मुसलाक्षेपताडितान् ।
रामो विराजन् समरे निर्ममन्थ यथाचलान् ॥ ७१॥
ते वध्यमाना रामेण रणे क्षत्रियपुङ्गवाः ।
जरासन्धान्तिकं भीताः समरात् प्रतिजग्मिरे ॥ ७२॥
तानुवाच जरासन्धः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरान्मनाम् ॥ ७३॥
परावृत्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥ ७४॥
भीताः कस्मान्निवर्तध्वं धिगेनां क्षत्रवृत्तिताम् ।
क्षिप्रं सर्वे निवर्तध्वं मम वाक्येन चोदिताः ॥ ७५॥
अथवा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥ ७६॥
ततस्ते क्षत्रियाः सर्वे जरासन्धेन नोदिताः ।
सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः ॥ ७७॥
ते हयैः काञ्चनापीडै रथैश्चाम्बुदनादिभिः ।
नागैश्चाम्बुदसङ्काशैर्महामात्रप्रचोदितैः ॥ ७८॥
सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः ।
स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः ॥ ७९॥
सच्छत्राः सादिनश्चैव चारुचामरवीजिताः ।
रणे तेऽधिगता रेजुः स्यन्दनस्था महीक्षितः ॥ २.३५.८०॥
तै युद्धरागा रथिनो व्यगाहन्त युधां वराः ।
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ॥ ८१॥
एतस्मिन्नन्तरे तत्र देवानां नन्दिवर्धनः ।
सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् ॥ ८२॥
समभ्ययाज्जरास्रधं शर्रौर्वेव्याध चाष्टभिः ।
सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः ॥ ८३॥
जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् ।
तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः ॥ ८४॥
सेनानीः कैशिकश्चैव कृष्णं विविधतुः शरैः ।
त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः ॥ ८५॥
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।
जवेनाभ्यर्दयच्चापि तानरीञ्छरवृष्टिभिः ॥ ८६॥
बहुभिर्बहुधा वीरान् समन्तात् स्वर्णभूषणैः ।
तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः ॥ ८७॥
कैशिकः पञ्चभिश्चापि जरासन्धश्च सप्तभिः ।
त्रिभिस्त्रिभिश्च नाराचैस्तान् बिभेद जनार्दनः ॥ ८८॥
पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः ।
रथं चैवास्य चिच्छेद चित्रसेनस्य वीर्यवान् ॥ ८९॥
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।
स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ॥ २.३५.९०॥
अभ्यधावत् सुसंरब्धो जिघांसुर्मुसलायुधम् ।
सिसृक्षतस्तु नाराचाश्चित्रसेनवधैषिणः ।
धनुश्चिच्छेद रामस्य जरासन्धो महाबलः ॥ ९१॥
गदया च जघानाश्वान् क्रोधात् स मगधेश्वरः ।
रामं चाभ्यद्रवद् वीरो जरासन्धो महाबलः ॥ ९२॥
आदाय मुसलं रामो जरासन्धमुपाद्रवत् ।
तयोस्तद् युद्धमभवत् परस्परवधैषिणोः ॥ ९३॥
चित्रसेनस्तु संसक्तं दृष्ट्वा रामेण मागधम् ।
रथमन्यं समारुह्य जरासन्धमवारयत् ॥ ९४॥
ततो बलेन महता गजानीकेन चाप्यथ ।
उभयोरन्तरे ताभ्यां स्वकुलं समपद्यत ॥ ९५॥
ततः सैन्येन महता जरासन्धोऽभिसंवृतः ।
रामकृष्णाग्रगान् भोजानाससाद महाबलः ॥ ९६॥
तत्र प्रक्षुभितस्येव सागरस्य महास्वनः ।
प्रादुर्बभूव तुमुलः सेनयोरुभयोरपि ॥ ९७॥
वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः ।
उभयोः सेनयो राजन् प्रादुरासीन्महास्वनः ॥ ९८॥
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत् ।
उत्पपात रजश्चापि खुरनेमिसमुद्धतम् ॥ ९९॥
समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः ।
अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे ॥ २.३५.१००॥
रथिनः सादिनश्चैव पत्तयश्च सहस्रशः ।
गजाश्चातिबलास्तत्र समुत्पेतुः समन्ततः ॥ १०१॥
स सन्निपातस्तुमुलस्त्यक्त्वा प्राणानवर्तत ।
वृष्णिभिः सह योधानां जरासन्धस्य दारुणः ॥ १०२॥
ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः ।
बलदेवं पुरस्कत्य सैन्यस्याद्धेन्न दंशिताः ॥ १०३॥
दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत ।
पालितं चेदिराजेन जरासन्धेन वा विभो ॥ १०४॥
उदीच्यैश्च महावीर्यैः शल्यशाल्वादिभिर्नृपैः ।
सृजन्तः शरवर्षाणि समभित्यक्तजीविताः ॥ १०५॥
अवगाहः पृथुः कङ्कः शतद्युम्नो विदूरथः ।
हृषीकेशं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः ॥ १०६॥
भीष्मकेणाभिगुप्तश्च रुक्मिणा च महात्मना ।
देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च ॥ १०७॥
प्राच्यैश्च दाक्षिणान्यैश्च गुप्तवीर्यबलान्वितैः ।
तेषां च युद्धमभवत् समभित्यक्तजीवितम् ॥ १०८॥
शक्त्यृष्टिप्रासबाणौघान् सृजतामशनिस्वनान् ।
सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् ।
राजाधिदेवो मृदुरः श्वफल्कश्च महारथः ॥ १०९॥
सत्राजिच्च प्रसेनश्च बलेन महता वृताः ।
व्यूहस्य पुच्छं ते सर्वे प्रतीयुर्द्विषतां मृधे ॥ २.३५.११०॥
व्यूहस्यार्द्धं समासेदुर्मृदुरेणाभिरक्षिताः ।
राजभिश्चापि बहुभिर्वैणुदारिमुखैः सह ॥ १११॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि मथुरोपरोधे युद्धवर्णने पञ्चत्रिंशोऽध्यायः ॥ ३५॥
२.३६ षट्त्रिंशोऽध्यायः
जरासंधपयानम् JarAsaMdha retires from battlefield
वृष्णिवंश्यानां जरासन्धस्य सैनिकेभिः सह युद्धं, बलरामस्य जरासन्धेन सह गदायुद्धं,
पराजितस्य जरासन्धस्य पलायनं
वैशम्पायन उवाच ।
ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ ।
मागधस्य महामात्रैर्नृपैश्चैवानुयायिभिः ॥ १॥
रुक्मिणा वासुदेवस्य भीष्मकेणाहुकस्य च ।
क्रथेन वसुदेवस्य कैशिकस्य तु बभ्रुणा ॥ २॥
गदेन चेदिराजस्य दन्तवक्त्रस्य शङ्कुना ।
तथान्यैर्वृष्णिवीराणां नृपाणां च महात्मनाम् ॥ ३॥
युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ ।
अहानि पञ्च चैकं च षट् सप्ताष्टौ च दारुणम् ॥ ४॥
गजैर्गजा हयैरश्वाः पदाताश्च पदातिभिः ।
रथै रथा विमिश्राश्च योधा युयुधिरे नृप ॥ ५॥
जरासन्धस्य नृपते रामेणासीत् समागमः ।
महेन्द्रस्येव वृत्रेण दारुणो रोमहर्षणः ॥ ६॥
अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यपोथयत् ।
ज्वलनार्कांशुसङ्काशानाशीविषविषोपमान् ॥ ७॥
वारयामास कृष्णो वै शरांस्तस्य तु शिक्षया ।
इत्येषां सुमहानासीद् बलौघानां परिक्षयः ॥ ८॥
उभयोः सेनयो राजन् मांसशोणितकर्दमः ।
कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः ॥ ९॥
तस्मिन् विमर्दे योधानां सङ्ख्यावृत्तिकराणि च ।
रथी रामो जरासन्धं शरैराशीविषोपमैः ॥ २.३६.१०॥
आवृण्वन्नभ्ययाद् वीरस्तं च राजा स मागधः ।
अभ्यवर्तत वेगेन स्यन्दनेनाशुगामिना ॥ ११॥
अन्योन्यं विविधैरस्त्रैविद्ध्वा विद्ध्वा विनेदतुः ।
तौ क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी ॥ १२॥
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावताम् ।
कम्पयन्तौ भुवं वीरौ तावुद्यतगदावुभौ ॥ १३॥
ददृशाते महात्मानौ गिरी सशिखराविव ।
व्युपारमन्त युद्धानि पश्यता तौ महाभुजौ ।
संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ ॥ १४॥
उभौ तौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव गजौ युद्धे तावन्योन्यमयुध्यताम् ॥ १५॥
ततो देवाः सगन्धर्वाः सिद्धाश्च समहर्षयः ।
समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः ॥ १६॥
तद् देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् ।
शुशुभेऽभ्यधिकं राजन् दिवं ज्योतिर्गणैरिव ॥ १७॥
अभिदुद्राव रामं तु जरासन्धो महाबलः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥ १८॥
प्रहरन्तौ ततोऽन्योन्यं गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥ १९॥
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासन्धस्य च रणे पर्वतस्येव दीर्यतः ॥ २.३६.२०॥
न स्म कम्पयते रामं जरासन्धकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥ २१॥
रामस्य तु गदावेगं वीर्यात् स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोहयत् ॥ २२॥
एवं तौ तत्र सङ्ग्रामे विचरन्तौ महाबलौ ।
मण्डलानि विचित्राणि विचेरतुररिन्दमौ ॥ २३॥
व्यायच्छन्तौ चिरं कालं परिश्रान्तौ च तस्थतुः ।
समाश्वस्य मुहूर्तं तु पुनरन्योन्यमाहताम् ॥ २४॥
एवं तौ योधमुख्यौ तु समं युयुधतुश्चिरम् ।
न च तौ युद्धवैमुख्यमुभावेव प्रजग्मतुः ॥ २५॥
अथापश्यद् गदायुद्धे विशेषं तस्य वीर्यवान् ।
रामः क्रुद्धो गदां त्यक्त्वा जग्राह मुसलोत्तमम् ॥ २६॥
तमुद्यन्तं तदा दृष्ट्वा मुसलं घोरदर्शनम् ।
अमोघं बलदेवेन क्रुद्धेन तु महारणे ॥ २७॥
ततोऽन्तरिक्षे वागासीत् सुस्वरा लोकसाक्षिणी ।
उवाच बलदेवं तं समुद्यतहलायुधम् ॥ २८॥
न त्वया राम वध्योऽयमलं सेदेन मानद ।
विदितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥ २९॥
जरासन्धस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्रजह्रे ततस्तस्मै पुनरेव हलायुधः ॥ २.३६.३०॥
तौ व्युपारमतां युद्धे वृष्णयस्ते च पार्थिवाः ।
असक्तमभवद् युद्धं तेषामेवं सुदारुणम् ॥ ३१॥
दीर्घकालं महाराज निघ्नतामितरेतरम् ।
पराजिते त्वपक्रान्ते जरासन्धे महीपतौ ॥ ३२॥
अस्तं याते दिनकरे नानुसस्रुस्तदा निशि ।
समानीय स्वकं सैन्यं लब्धलक्ष्या महाबलाः ॥ ३३॥
पुरीं प्रविविशुर्हृष्टाः केशवेनाभिपालिताः ।
खाच्च्युतान्यायुधान्येवं तान्येवान्तर्दधुस्तदा ॥ ३४॥
जरासन्धोऽपि नृपतिर्बिमनाः स्वपुरीं ययौ ।
राजानश्चानुगा येऽस्य स्वराष्ट्राण्येव ते ययुः ॥ ३५॥
जरासन्धं तु ते जित्वा मेनिरे नैव निर्जितम् ।
वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै ॥ ३६॥
दश चाष्टौ च सङ्ग्रामाञ्जरासन्धस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महाबलाः ॥ ३७॥
अक्षौहिण्यश्च तस्यासन् विंशतिश्च महामते ।
जरासन्धस्य नृपतेस्तदर्थं याः समागताः ॥ ३८॥
अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ ।
बार्हद्रथेन राजेन्द्र राजभिः सहितेन वै ॥ ३९॥
जित्वा तु मागधं सङ्ख्ये जरासन्धं महीपतिम् ।
विहरन्ति स्म सुखिनो बृष्णिसिंहा महारथाः ॥ २.३६.४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि जरासन्धापयानं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥
२.३७ सप्तत्रिंशोऽध्यायः
हर्यश्वराजकथा यदोरुत्पत्तिश्च The story of king haryashva, and the birth of yadu
जरासन्धस्य पुनराक्रमणात् शङ्कितानां यादवानां सभायां विकद्रोः भाषणं - राज्ञः हर्यश्वस्य चरित्रं, तस्मात् यदोः एवं यादवानां उत्पत्तेः वर्णनं
वैशम्पायन उवाच ।
स कृष्णस्तत्र बलवान् रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥ १॥
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः सवनाकरभूषणाम् ॥ २॥
कस्यचित् त्वथ कालस्य राजा राजगृहेश्वरः ।
सस्मार निहतं कंसं जरासन्धः प्रतापवान् ॥ ३॥
युद्धाय योजितो भूयो दुहितृभ्यां महीपतिः ।
दश सप्त च सङ्ग्रामाञ्जरासन्धस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः ॥ ४॥
ततो मागधराट् श्रीमांश्चतुरङ्गवलान्वितः ।
भूयोऽप्यष्टादशं कर्तुं सङ्ग्रामं स समारभत् ॥ ५॥
वैलक्ष्यात् पुनरेवासौ राजा राजगृहेश्वरः ।
जरासन्धो बली श्रीमान् पाकशासनविक्रमः ॥ ६॥
स साधनेन महता बृहद्रथसुतो बली ।
कृष्णस्य वधमन्विच्छन् भूयो वै संन्यवर्तत ॥ ७॥
तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् ।
यादवा मन्त्रयामासुर्जरासन्धभयार्दिताः ॥ ८॥
ततः प्राह महातेजा विकद्रुर्नयकोविदः ।
कृष्णं कमलपत्राक्षमुग्रसेनस्य शृण्वतः ॥ ९॥
श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः ।
श्रूयतामभिधास्यामि प्राप्तकालमहं ततः ।
युक्तं चेन्मन्यसे साधो करिष्यसि वचो मम ॥ २.३७.१०॥
यादवस्यास्य वंशस्य समुद्भवमशेषतः ।
यथा मे कथितः पूर्वं व्यासेन विदितात्मना ॥ ११॥
आसीद् राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः ।
हर्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥ १२॥
तस्यासीद् दयिता भार्या मधोर्दैत्यस्य वै सुता ।
देवी मधुमती नाम यथेन्द्रस्य शची तथा ॥ १३॥
सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ।
मनोरथकरी राज्ञः प्राणेभ्योऽपि गरीयसी ॥ १४॥ अ ।
दानवेन्द्रकुले जाता सुश्रोणी कामरूपिणी ।
एकपत्नीव्रतधरा खेचरा रोहिणी यथा ॥ १५॥
सा तमिक्ष्वाकुशार्दूलं कामयामास कामिनी ।
स कदाचिन्नरश्रष्ठो भ्रात्रा ज्येष्ठेन माधव ॥ १६॥
राज्यान्निरस्तो विश्वस्तः सोऽयोध्यां सम्परित्यजत् ।
स तदाल्पपरीवारः प्रियया सहितो वने ॥ १७॥
रेमे समेत्य कालज्ञः प्रियया कमलेक्षणः ।
भ्रात्रा विनिष्कृतं राज्यात् प्रोवाच कमलेक्षणा ॥ १८॥
एह्यागच्छ नरश्रेष्ठ त्यज राज्यकृतां स्पृहाम् ।
गच्छावः सहितौ वीर मधोर्मम पितुर्गृहम् ॥ १९॥
रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् ।
सहितौ तत्र रंस्यावो यथा दिवि गतौ तथा ॥ २.३७.२०॥
पितुर्मे दयितस्त्वं हि मातुर्मम च पार्थिव ।
मत्प्रियार्थं प्रियतरो भ्रातुश्च लवणस्य वै ॥ २१॥
रंस्यावस्तत्र सहितौ राज्यस्थाविव कामगौ ।
तत्र गत्वा नरश्रेष्ठ ह्यमराविव नन्दने ।
भद्रं ते विहरिष्यावो यथा देवपुरे तथा ॥ २२॥
तं त्यजाव महाराज भ्रातरं तेऽभिमानिनम् ।
आवयोर्द्वेषिणं नित्यं मत्तं राज्यमदेन वै ॥ २३॥
धिगिमं गर्हितं वासं भृत्यवच्च पराश्रयम् ।
गच्छावः सहितौ वीर पितुर्मे भवनान्तिकम् ॥ २४॥
तस्य सम्यक्प्रवृत्तस्य पूर्वजं भ्रातरं प्रति ।
कामार्तस्य नरेन्द्रस्य पत्न्यास्तद् रुरुचे वचः ॥ २५॥
ततो मधुपुरं राजा हर्यश्वः स जगाम च ।
भार्यया सह कामिन्या कामी पुरुषपुङ्गवः ॥ २६॥
मधुना दानवेन्द्रेण स साम्ना समुदाहृतः ।
स्वागतं वत्स हर्यश्व प्रीतोऽस्मि तव दर्शनात् ॥ २७॥
यदेतन्मम राज्यं वै सर्वं मधुवनं विना ।
ददामि तव राजेन्द्र वासश्च प्रतिगृह्यताम् ॥ २८॥
वनेऽस्मिँल्लवणश्चायं सहायस्ते भविष्यति ।
अमित्रनिग्रहे चैव कर्णधारत्वमेष्यति ॥ २९॥
पालयैनं शुभं राष्ट्रं समुद्रानूपभूषितम् ।
गोसमृद्धं श्रिया जुष्टमाभीरप्रायमानुषम् ॥ २.३७.३०॥
अत्र ते वसतस्तात दुर्गं गिरिपुरं महत् ।
भविता पार्थिवावासः सुराष्ट्रविषयो महान् ॥ ३१॥
अनूपविषयश्चैव समुद्रान्ते निरामयः ।
आनर्तं नाम ते राष्ट्रं भविष्यत्यायतं महत् ॥ ३२॥
तद् भविष्यमहं मन्ये कालयोगेन पार्थिव ।
अध्यास्यतां यथाकालं पार्थिवं वृत्तमुत्तमम् ॥ ३३॥
यायातमपि वंशस्ते समेष्यति च यादवम् ।
अनु वंशं च वंशस्ते सोमस्य भविता किल ॥ ३४॥
एष मे विभवस्तात तवेमं विषयोत्तमम् ।
दत्त्वा यास्यामि तपसे सागरं लवणालयम् ॥ ३५॥
लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् ।
पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये ॥ ३६॥
बाढमित्येव हर्यश्वः प्रतिजग्राह तत् पुरम् ।
स च दैत्यस्तपोवासं जगाम वरुणालयम् ॥ ३७॥
हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे ।
निवेशयामास पुरं वासार्थममरोपमः ॥ ३८॥
आनर्तं नाम तद् राष्ट्रं सुराष्ट्रं गोधनायुतम् ।
अचिरेणैव कालेन समृद्धं प्रत्यपद्यत ॥ ३९॥
अनूपविषये चैव वेलावनविभूषितम् ।
विचित्रं क्षेत्रसस्याढ्यं प्राकारग्रामसङ्कुलम् ॥ २.३७.४०॥
शशास नृपतिः स्फीतं तद् राष्ट्रं राष्ट्रवर्द्धनः ।
राजधर्मेण यशसा प्रजानां नन्दिवर्द्धनः ॥ ४१॥
तस्य सम्यक प्रचारेण हर्यश्वस्य महात्मनः ।
व्यवर्धत तदक्षोभ्य राष्ट्रं राष्ट्रगुणैर्युतम् ॥ ४२॥
स हि राजा स्थितो राज्ये राजवृत्तेन शोभितः ।
प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च ॥ ४३॥
तस्यैव च सुवृत्तस्य पुत्रकामस्य धीमतः ।
मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ॥ ४४॥
सोऽवर्धत महातेजा यदुर्दुन्दुभिनिःस्वनः ।
राजलक्षणसम्पन्नः सपत्नैर्दुरतिक्रमः ॥ ४५॥
यदुर्नामाभवत् पुत्रो राजलक्षणपूजितः ।
यथास्य पूर्वजो राजा पूरुः स सुमहायशाः ॥ ४६॥
स एक एव तस्यासीत् पुत्रः परमशोभनः ।
ऊर्जितः पृथिवीभर्ता हर्यश्वस्य महात्मनः ॥ ४७॥
दस वर्षसहस्राणि स कृत्वा राज्यमव्ययम् ।
जगाम त्रिदिवं राजा धर्मेणाप्रतिमो भुवि ॥ ४८॥
ततो यदुरदीनात्मा प्रजाभिस्त्वभ्यषिच्यत ।
पितर्युपरते श्रीमान् क्रमेणार्क इवोदितः ॥ ४९॥
शशास चेमां वसुधां प्रशान्तभयतस्कराम् ।
यदुरिन्द्रप्रतीकाशो नृपो येनास्य यादवाः ॥ २.३७.५०॥
स कदाचिन्नृपश्चक्रे जलक्रीडां महोदधौ ।
दारैः सह गुणोदारैः सतार इव चन्द्रमाः ॥ ५१॥
स तत्र सहसा क्षिप्तस्तितीर्षुः सागराम्भसि ।
धूम्रवर्णेन नृपतिः सर्पराजेन वीर्यवान् ॥ ५२॥
सोऽपाकृष्यत वेगेन जले सर्पपुरं महत् ।
मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम् ॥ ५३॥
कीर्णं शङ्खकुलैः शुभ्रै रत्नराशिविभूषितम् ।
प्रवालाङ्कुरपत्राढ्यैः पादपैरुपशोभितम् ॥ ५४॥
कीर्णं पन्नगनार्योघैः समुद्रोदरवासिभिः ।
स्वर्णवर्णेन भास्वन्तं स्वस्तिकेनेन्दुवर्चसा ॥ ५५॥
स तं ददर्श राजेन्द्रो विमले सागराम्भसि ।
पन्नगेन्द्रपुरं तोये जगत्यामिव निर्मितम् ॥ ५६॥
स्वच्छं चैव पुरं तत्र प्रविवेश नृपो यदुः ।
अगाधं तोयदाकारं पूर्णं सर्पवधूगणैः ॥ ५७॥
तस्य दत्तं मणिमयं जलजं परमासनम् ।
स्वास्तीर्णं पद्मपत्रैश्च पद्मसूत्रोत्तरच्छदम् ॥ ५८॥
तमासीनं नृपं तत्र परमे पन्नगासने ।
द्विजिह्वपतिरव्यग्रो धूम्रवर्णोऽभ्यभाषत ॥ ५९॥
पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशमिमं महत् ।
भवन्तं तेजसा युक्तमुत्पाद्य वसुधाधिपम् ॥ २.३७.६०॥
यादवानामयं वंशस्त्वन्नाम्ना यदुपुङ्गव ।
पित्रा ते मङ्गलार्थाय स्थापितः पार्थिवाकरः ॥ ६१॥
वंशे चास्मिंस्तव विभो देवानां तनयाव्ययाः ।
ऋषीणामुरगाणां च उत्पत्स्यन्ते नृयोनिजाः ॥ ६२॥
तन्ममेमाः सुताः पञ्च कुमार्यो वृत्तसम्मताः ।
उत्पन्ना यौवनाश्वस्य भगिन्यां नृपसत्तम ॥ ६३॥
प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा ।
वरं च ते प्रदास्यामि वरार्हस्त्वं मतो मम ॥ ६४॥
भैमाश्च कुकुराश्चैव भोजाश्चान्धकयादवाः ।
दाशार्हा वृष्णयश्चेति ख्यातिं यास्यन्ति सप्त ते ॥ ६५॥
स तस्मै धूम्रवर्णो वै कन्याः कन्याव्रते स्थिताः ।
जलपूर्णेन योगेन ददाविन्द्रसमाय वै ॥ ६६॥
वरं चास्मै ददौ प्रीतः स वै पन्नगपुङ्गवः ।
श्रावयन् कन्यकाः सर्वा यथाक्रममदीनवत् ॥ ६७॥
एतासु ते सुताः पञ्च सुतासु मम मानद ।
उत्पत्स्यन्ते पितुस्तेजो मातुश्चैव समाश्रिताः ॥ ६८॥
अस्मत्समयबद्धाश्च सलिलाभ्यन्तरेचराः ।
तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः ॥ ६९॥
स वरं कन्यकाश्चैव लब्ध्वा यदुवरस्तदा ।
उदतिष्ठत् वेगेन सलिलाच्चन्द्रमा इव ॥ २.३७.७०॥
स पञ्चकन्यामध्यस्थो ददृशे तत्र पार्थिवः ।
पञ्चतारेण संयुक्तो नक्षत्रेणेव चन्द्रमाः ॥ ७१॥
स तदन्तःपुरं सर्वं ददर्श नृपसत्तमः ।
वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः ॥ ७२॥
समाश्वास्य च ताः सर्वाः स पत्नीः पावकोपमाः ।
जगाम स्वपुरं राजा प्रीत्या परमया युतः ॥ ७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥
२.३८ अष्टात्रिंशोऽध्यायः
यादवोत्पत्तिः तेषां पराक्रमादि च Emergence of the Yadavas and their Feats
विकद्रुणा यदोः सन्ततिवर्णनम्, जरासन्धस्य आक्रमणानि सोढुं मथुरापुरी न समर्था इति कथनं
वैशम्पायन उवाच ।
स तासु नागकन्यासु कालेन महता नृपः ।
जनयामास विक्रान्तान् पञ्च पुत्रान् कुलोद्वहान् ॥ १॥
मुचुकुन्दं महाबाहुं पद्मवर्णं तथैव च ।
माधवं सारसं चैव हरितं चैव पार्थिवम् ॥ २॥
एतान् पञ्चसुतान्राजा पञ्चभूतोपमान् भुवि ।
ईक्षमाणो नृपः प्रीतिं जगामातुलविक्रमः ॥ ३॥
ते प्राप्तवयसः सर्वे स्थिताः पञ्च यथाद्रयः ।
तेजिता बलदर्पाभ्यामूचुः पितरमग्रतः ॥ ४॥
तात युक्ताः स्म वयसा बले महति संस्थिताः ।
क्षिप्रमाज्ञप्तुमिच्छामः किं कुर्मस्तव शासनात् ॥ ५॥
स तान् नृपतिशार्दूलः शार्दूलानिव वैगितान् ।
प्रीत्या परमया प्राह सुतान् वीर्यकुतूहलात् ॥ ६॥
विन्ध्यर्क्षवन्तावभितो द्वे पुर्यौ पर्वताश्रये ।
निवेशयतु यत्नेन मुचुकुन्दः सुतो मम ॥ ७॥
सह्यस्य चोपरिष्टात्तु दक्षिणां दिशमाश्रितः ।
पद्मवर्णोऽपि मे पुत्रो निवेशयतु मा चिरम् ॥ ८॥
तत्रैव परतः कान्ते देशे चम्पकभूषिते ।
सारसो मे पुरं रम्यं निवेशयतु पुत्रकः ॥ ९॥
हरितोऽयं महाबाहुः सागरे हरितोदके ।
दीपं पन्नगराजस्य सुतो मे पालयिष्यति ॥ २.३८.१०॥
माधवो मे महाबाहुर्ज्येष्ठपुत्रश्च धर्मवित् ।
यौवराज्येन संयुक्तः स्वपुरं पालयिष्यति ॥ ११॥
सर्वे नृपश्रियं प्राप्ता अभिषिक्ताः सचामराः ।
पित्रानुशिष्टाश्चत्वारो लोकपालोपमा नृपाः ॥ १२॥
स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमाः ।
पुरस्थानानि रम्याणि मृगयन्तो यथाक्रमम् ॥ १३॥
मुचुकुन्दश्च राजर्षिर्विन्ध्यमध्यमरोचयत् ।
स्वस्थानं नर्मदातीरे दारुणोपलसङ्कटे ॥ १४॥
स च तं शोधयामास विविक्तं च चकार ह ।
सेतुं चैव समं चक्रे परिखाश्चामितोदकाः ॥ १५॥
स्थापयामास भागेषु देवतायतनान्यपि ।
रथ्या वीथीर्नृणां मार्गाश्चत्वराणि वनानि च ॥ १६॥
स तां पुरीं धनवतीं पुरुहूतपुरीप्रभाम् ।
नातिदीर्घेण कालेन चकार नृपसत्तमः ॥ १७॥
नाम चास्याः शुभं चक्रे निर्मितं स्वेन तेजसा ।
तस्याः पुर्या नृपश्रेष्ठो देवश्रेष्ठपराक्रमः ॥ १८॥
महाश्मसङ्घातवती यथेयं विन्ध्यसानुगा ।
माहिष्मती नाम पुरी प्रकाशमुपयास्यति ॥ १९॥
उभयोर्विन्ध्ययोः पादे नगयोस्तां महापुरीम् ।
मध्ये निवेशयामास श्रिया परमया वृताम् ॥ २.३८.२०॥
पुरिकां नाम धर्मात्मा पुरीं देवपुरीप्रभाम् ।
उद्यानशतसम्बाधां समृद्धापणचत्वराम् ॥ २१॥
ऋक्षवन्तं समभितस्तीरे तत्र निरामये ।
निर्मिता सा पुरी राज्ञा पुरिका नाम नामतः ॥ २२॥
स ते द्वे विपुले पुर्यौ देवभोग्योपमे शुभे ।
पालयामास धर्मात्मा राजा धर्मे व्यवस्थितः ॥ २३॥
पद्मवर्णोऽपि राजर्षिः सह्यपृष्ठे पुरोत्तमम् ।
चकार नद्या वेणायास्तीरे तरुलताकुले ॥ २४॥
विषयस्याल्पतां ज्ञात्वा सम्पूर्णं राष्ट्रमेव च ।
निवेशयामास नृपः स वप्रप्रायमुत्तमम् ॥ २५॥
पद्मावतं जनपदं करवीरं च तत्पुरम् ।
निर्मितं पद्मवर्णेन प्राजापत्येन कर्मणा ॥ २६॥
सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् ।
चम्पकाशोकबहुलं विपुलं ताम्रमृत्तिकम् ॥ २७॥
वनवासीति विख्यातः स्फीतो जनपदो महान् ।
पुरस्य तस्य तु श्रीमान् द्रुमैः सार्वर्तुकैर्वृतः ॥ २८॥
हरितोऽपि समुद्रस्य द्वीपं समभिपालयत् ।
रत्नसञ्चयसम्पूर्णं नारीजनमनोहरम् ॥ २९॥
तस्य दाशा जले मग्ना मद्गुरा नाम विश्रुताः ।
ये हरन्ति सदा शङ्खान् समुद्रोदरचारिणः ॥ २.३८.३०॥
तस्यापरे दाशजनाः प्रवालाञ्जलसम्भवान् ।
सञ्चिन्वन्ति सदा युक्ता जातरूपं च मौक्तिकम् ॥ ३१॥
जलजानि च रत्नानि निषादास्तस्य मानवाः ।
प्रचिन्वन्तोऽर्णवे युक्ता नौभिः संयानगामिनः ॥ ३२॥
मत्स्यमांसेन तै सर्वे वर्तन्ते स्म सदा नराः ।
गृहणन्तः सर्वरत्नानि रत्नद्वीपनिवासिनः ॥ ३३॥
तैः संयानगतैर्द्रव्यैर्वणिजो दूरगामिनः ।
हरितं तर्पयन्त्येकं यथैव धनदं तथा ॥ ३४॥
एवमिक्ष्वाकुवंशात् तु यदुवंशो विनिःसृतः ।
चतुर्धा यदुपुत्रैस्तु चतुर्भिभिद्यते पुनः ॥ ३५॥
स यदुर्माधवे राज्यं विसृज्य यदुपुङ्गवे ।
त्रिविष्टपं गतो राजा देहं त्यक्त्वा महीतले ॥ ३६॥
बभूव माधवसुतः सत्त्वतो नाम वीर्यवान् ।
सत्त्ववृत्तिर्गुणोपेतो राजा राजगुणे स्थितः ॥ ३७॥
सत्त्वतस्य सुतो राजा भीमो नाम महानभूत् ।
येन भैमाः सुसंवृत्ताः सत्त्वतात् सात्त्वताः स्मृताः ॥ ३८॥
राज्ये स्थिते नृपे तस्मिन् रामे राज्यं प्रशासति ।
शत्रुघ्नो लवणं हत्वा चिच्छेद स मधोर्वनम् ॥ ३९॥
तस्मिन् मधुवने स्थाने पुरीं च मथुरामिमाम् ।
निवेशयामास विभुः सुमित्रानन्दवर्धनः ॥ २.३८.४०॥
पर्यये चैव रामस्य भरतस्य तथैव च ।
सुमित्रासुतयोश्चैव स्थानं प्राप्तं च वैष्णवम् ॥ ४१॥
भीमेनेयं पुरी तेन राज्यसम्बन्धकारणात् ।
स्ववशे स्थापिता पूर्वं स्वयमध्यासिता तथा ॥ ४२॥
ततः कुशे स्थिते राज्ये लवे तु युवराजनि ।
अन्धको नाम भीमस्य सुतो राज्यमकारयत् ॥ ४३॥
अन्धकस्य सुतो जज्ञे रेवतो नाम पार्थिवः ।
ऋक्षोऽपि रेवताज्जज्ञे रम्ये पर्वतमूर्धनि ॥ ४४॥
ततो रैवत उत्पन्नः पर्वतः सागरान्तिके ।
नाम्ना रैवतको नाम भूमौ भूमिधरः स्मृतः ॥ ४५॥
रैवतस्यात्मजो राजा विश्वगर्भो महायशाः ।
बभूव पृथिवीपालः पृथिव्यां प्रथितः प्रभुः ॥ ४६॥
तस्य तिसृषु भार्यासु दिव्यरूपासु केशव ।
चत्वारो जज्ञिरे पुत्रा लोकपालोपमाः शुभाः ॥ ४७॥
वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्यवान् ।
यदुप्रवीराः प्रख्याता लोकपाला इवापरे ॥ ४८॥
तैरयं यादवो वंशः पार्थिवैर्बहुलीकृतः ।
यैः साकं कृष्णलोकेऽस्मिन् प्रजावन्तः प्रजेश्वराः ॥ ४९॥
वसोस्तु कुन्तिविषये वसुदेवः सुतो विभुः ।
ततः स जनयामास सुप्रभे द्वे च दारिके ॥ २.३८.५०॥
कुन्तीं च पाण्डोर्महिषीं देवतामिव भूचरीम् ।
भार्यां च दमघोषस्य चेदिराजस्य सुप्रभाम् ॥ ५१॥
एष ते स्वस्य वंशस्य प्रभवः सम्प्रकीर्तितः ।
श्रुतो मया पुरा कृष्ण कृष्णद्वैपायनान्तिकात् ॥ ५२॥
त्वं त्विदानीं प्रणष्टेऽस्मिन् वंशे वंशभृतां वर ।
स्वयम्भूरिव सम्प्राप्तो भवायास्मज्जयाय च ॥ ५३॥
न तु त्वां पौरमात्रेण शक्ता गूहयितुं वयम् ।
देवगुह्येष्वपि भवान् सर्वज्ञः सर्वभावनः ॥ ५४॥
शक्तश्चापि जरासन्धं नृपं योधयितुं विभो ।
त्वद्बुद्धिवशगाः सर्वे वयं योधव्रते स्थिताः ॥ ५५॥
जरासन्धस्तु बलवान् नृपाणां मूर्ध्नि तिष्ठति ।
अप्रमेयबलश्चैव वयं च कृशसाधनाः ॥ ५६ ! ।
न चेयमेकाहमपि पुरी रोधं सहिष्यति ।
कृशभक्तेन्धनक्षामा दुर्गैरपरिवेष्टिता ॥ ५७॥
असंस्कृताम्बुपरिखा द्वारयन्त्रविवर्जिता ।
वप्रप्राकारनिचया कर्तव्या बहुविस्तरा ॥ ५८॥
संस्कर्तव्यायुधागारा योक्तव्या चेष्टिकाचयैः ।
कंसस्य बलभोग्यत्वान्नातिगुप्ता पुरा जनैः ॥ ५९॥
सद्यो निपतिते कंसे राज्येऽस्माकं नवोदये ।
पुरी प्रत्यग्ररोधेव न रोधं विसहिष्यति ॥ २.३८.६०॥
बलं सम्मर्दभग्नं च कृष्यमाणं परेण ह ।
असंशयमिदं राष्ट्रं जनैः सह विनङ्क्ष्यति ॥ ६१॥
यादवानां विरोधेन ये जिता राज्यकामुकैः ।
ते सर्वे द्वैधमिच्छन्ति यत्क्षमं तद्विधीयताम् ॥ ६२॥
वञ्चनीया भविष्यामो नृपाणां नृपकारणात् ।
जरासन्धभयार्तानां द्रवतां राज्यसम्भ्रमे ॥ ६३॥
आर्ता वक्ष्यन्ति नः सर्वे रुध्यमानाः पुरे जनाः ।
यादवानां विरोधेन विनष्टाः स्मेति केशव ॥ ६४॥
एतन्मम मतं कृष्ण विस्रम्भात्समुदाहृतम् ।
त्वं तु विज्ञापितः पूर्वं न पुनः सम्प्रबोधितः ॥ ६५॥
यदत्र वः क्षमं कृष्ण तच्च वै संविधीयताम् ।
त्वमस्य नेता सैन्यस्य वयं त्वच्छासने स्थिताः ।
त्वन्मूलश्च विरोधोऽयं रक्षास्मानात्मना सह ॥ ६६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नामाष्टात्रिंशोऽध्यायः ॥ ३८॥
२.३९ एकोनचत्वारिंशोऽध्यायः
जामदग्न्येन रामकृष्णयोः सङ्गतिः Krishna and Balarama meet Parasurama
पुर्याः पुरवासिनां च रक्षणाय बलरामकृष्णयोः मथुरातः दक्षिणभारतं प्रति प्रस्थानम्, परशुरामस्य दर्शनम्, तेन गोमन्तपर्वतोपरि गमनाय ताभ्यां मन्त्रणं
वैशम्पायन उवाच ।
विकद्रोस्तु वचः श्रुत्वा वसुदवो महायशाः ।
परितुष्टेन मनसा वचनं चेदमब्रवीत् ॥ १॥
राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित् ।
सतत्त्वं च हितं चैव कृष्णोक्तं किल धीमता ॥ २॥
भाषिता राजधर्माश्च सत्याश्च जगतो हिताः ।
विक्रद्रुणा यदुश्रेष्ठ यद्धितं तद् विधीयताम् ॥ ३॥
एतच्छ्रुत्वा पितुर्वाक्यं विक्रद्रोश्च महात्मनः ।
वाक्यमुत्तममेकाग्रो बभाषे पुरुषोत्तमः ॥ ४॥
ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस्तथा ।
न्यायतः शास्त्रतश्चैव दैवं चैवानुपश्यताम् ॥ ५॥
श्रूयतामुत्तरं वाक्यं श्रुत्वा च परिगृह्यताम् ।
नयेन व्यवहर्तव्यं पार्थिवेन यथाक्रमम् ॥ ६॥
सन्धिं च विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा ॥ ७॥
बलिनः सन्निकृष्टे तु न स्थेयं पण्डितेन वै ।
अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत् ॥ ८॥
अहं तावत् सहार्येण मुहूर्तेऽस्मिन् प्रकाशिते ।
जीवितार्थे गमिष्यामि शक्तिमानप्यशक्तवत् ॥ ९॥
ततः सह्याचलयुतं सहार्येणाहमक्षयम् ।
आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् ॥ २.३९.१०॥
करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।
द्रक्ष्यावस्तत्र सहितौ गोमन्तं च नगोत्तमम् ॥ ११॥
आवयोर्गमनं श्रुत्वा जितकाशी स पार्थिवः ।
अप्रविश्य पुरीं दर्पादनुसारं करिष्यति ॥ १२॥
ततः सह्यवनेष्वेव राजा याति स सानुगः ।
आवयोर्ग्रहणे चैव नृपतिः प्रयतिष्यति ॥ १३॥
एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।
पौराणामथ पुर्याश्च देशस्य च सुखावहा ॥ १४॥
न च शत्रोः परिभ्रष्टा राजानो विजिगीषवः ।
परराष्ट्रेषु मृष्यन्ति मृधे शत्रोः क्षयं विना ॥ १५॥
एवमुक्त्वा तु तौ वीरौ कृष्णसङ्कर्षणावुभौ ।
प्रपेदतुरसम्भ्रान्तौ दक्षिणौ दक्षिणापथम् ॥ १६॥
तौ तु राष्ट्राणि शतशश्चरन्तौ कामरूपिणौ ।
दक्षिणां दिशमास्थाय चेरतुर्मार्गगौ सुखम् ॥ १७॥
सह्यपृष्ठेषु रम्येषु मोदमानावुभौ तथा ।
दक्षिणापथगौ वीरावध्वानं सम्प्रपेदतुः ॥ १८॥
तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।
करवीरपुरं प्राप्तौ स्ववंशेन विभूषितम् ॥ १९॥
तौ तत्र गत्वा वेणाया नद्यास्तीरान्तमाश्रितम् ।
आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुङ्गवम् ॥ २.३९.२०॥
अधस्तात् तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।
अंसावसक्तपरशुं जटावल्कलधारिणम् ॥ २१॥
गौरमग्निशिखाकारं तेजसा भास्करोपमम् ।
क्षत्रान्तकरमक्षोभ्यं वपुष्मन्तमिवार्णवम् ॥ २२॥
न्यस्तसङ्कुचिताधानं काले हुतहुताशनम् ।
क्लिन्नं त्रिषवणाम्भोभिराद्यं देवगुरुं यथा ॥ २३॥
सवत्सां धेनुकां श्वेतां होमधुक् कामदोहनाम् ।
क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम् ॥ २४॥
ददृशतुस्तौ सहितावपरिश्रान्तमव्ययम् ।
भार्गवं राममासीनं मन्दरस्थं यथा रविम् ॥ २५॥
न्यायतस्तौ तु तं दृष्ट्वा पादमूले कृताञ्जली ।
वसुदेवसुतौ वीरौ सधिष्ण्याविव पावकौ ॥ २६॥
कृष्णस्तमृषिशार्दूलमुवाच वदतां वरः ।
श्लक्ष्णं मधुरया वाचा लोकवृत्तान्तकोविदः ॥ २७॥
भगवन् जामदग्न्यं त्वामवगच्छामि भार्गवम् ।
रामं मुनीनामृषभं क्षत्रियाणां कुलान्तकम् ॥ २८॥
त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।
इषुपातेन नगरं कृतं शूर्पारकं त्वया ॥ २९॥
धनुःपञ्चशतायाममिषुपञ्चशतोच्छ्रयम् ।
सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान् ॥ २.३९.३०॥
अतिक्रम्योदधेर्वेलामपरान्ते निवेशितः ।
त्वया तत् कार्तवीर्यस्य सहस्रभुजकाननम् ॥ ३१॥
छिन्नं परशुनैकेन स्मरता निधनं पितुः ।
इयमद्यापि रुधिरैः क्षत्रियाणां हतद्विषाम् ॥ ३२॥
स्निग्धैस्त्वत्परशूत्सृष्टै रक्तपङ्का वसुन्धरा ।
रैणुकेयं विजाने त्वां क्षितौ क्षितिपरोषणम् ॥ ३३॥
परशुप्रग्रहे युक्तं यथैवेह रणे तथा ।
तदिच्छावस्त्वया विप्र कञ्चिदर्थमुपश्रुतम् ॥ ३४॥
उत्तरं च श्रुतार्थेन प्रत्युक्तमविशङ्कया ।
आवयोर्मथुरा राम यमुनातीरशोभिनी ॥ ३५॥
यादवौ स्वो मुनिश्रेष्ठ यदि ते श्रुतिमागतौ ।
वसुदेवो यदुश्रेष्ठः पिता नौ हि धृतव्रतः ॥ ३६॥
जन्मप्रभृति चैवावां व्रजेष्वेव नियोजितौ ।
तौ स्वः कंसभयात् तत्र शङ्कितौ परिवर्द्धितौ ॥ ३७॥
वयञ्च प्रथमं प्राप्तौ मथुरायां प्रवेशितौ ।
तावावां व्युत्थितं हत्वा समाजे कंसमोजसा ॥ ३८॥
पितरं तस्य तत्रैव स्थापयित्वा जनेश्वरम् ।
स्वमेव कर्म चारब्धौ गवां व्यापारकारकौ ॥ ३०॥
अथावयोः पुरं रोद्धुं जरासन्धो व्यवस्थितः ।
सङ्ग्रामान्सुबहून्कृत्वा लब्धलक्षावपि स्वयम् ॥ २.३९.४०॥
ततः स्वपुररक्षार्थं प्रजानां च धृतव्रत ।
अकृतार्थावनुद्योगौ कर्तव्यबलसाधनौ ॥ ४१॥
अरथौ पत्तिनौ युद्धे निस्तनुत्रौ निरायुधौ ।
जरासन्धोद्यमभयात् पुराद् द्वावेव निःसृतौ ॥ ४२॥
एवमावामनुप्राप्तौ मुनिश्रेष्ठ तवान्तिकम् ।
आवयोर्मन्त्रमात्रेण कर्तुमर्हसि सत्क्रियाम् ॥ ४३॥
श्रुत्वैतद् भार्गवो रामस्तयोर्वाक्यमनिन्दितम् ।
रेणुकेयः प्रतिवचो धर्मसंहितमब्रवीत् ॥ ४४॥
अपरान्तादहं कृष्ण सम्प्रतीहागतः प्रभो ।
एक एव विना शिष्यैर्युवयोर्मन्त्रकारणात् ॥ ४५॥
विदितो मे व्रजे वासस्तव पद्मनिभेक्षण ।
दानवानां वधश्चापि कंसस्यापि दुरात्मनः ॥ ४६॥
विग्रहं च जरासन्धे विदित्वा पुरुषोत्तम ।
तव सभ्रातृकस्येह सम्प्राप्तोऽस्मि वरानन ॥ ४७॥
जाने त्वां कृष्ण गोप्तारं जगतः प्रभुमव्ययम् ।
देवकार्यार्थसिद्ध्यर्थमबालं बालतां गतम् ॥ ४८॥
न त्वयाविदितं किञ्चित् त्रिषु लोकेषु विद्यते ।
तथापि भक्तिमात्रेण शृणु वक्ष्यामि ते वचः ॥ ४९॥
पूर्वजैस्तव गोविन्द पूर्वं पुरमिदं कृतम् ।
करवीरपुरं नाम राष्ट्रं चैव निवेशितम् ॥ २.३९.५०॥
पुरेऽस्मिन् नृपतिः कृष्ण वासुदेवो महायशाः ।
शृगाल इति विख्यातो नित्यं परमकोपनः ॥ ५१॥
नृपेण तेन गोविन्द तव वंशभवा नृपाः ।
दायादा निहताः सर्वे वीर द्वेषानुशायिना ॥ ५२॥
अहङ्कारपरो नित्यमजितात्मातिमत्सरी ।
राज्यैश्वर्यमदाविष्टः पुत्रेष्वपि च दारुणः ॥ ५३॥
तन्नेह भवतः स्थानं रोचते मे नरोत्तम ।
करवीरपुरे घोरे नित्यं पार्थिवदूषिते ॥ ५४॥
श्रूयतां कथयिष्यामि यत्रोभौ शत्रुबाधनौ ।
जरासन्धं बलोदग्रं भवन्तौ योधयिष्यतः ॥ ५५॥
तीर्त्वा वेणामिमां पुण्यां नदीमद्यैव बाहुभिः ।
विषयान्ते निवासाय गिरिं गच्छाम दुर्गमम् ॥ ५६॥
रम्यं यज्ञगिरिं नाम सह्यस्य प्ररुहं गिरिम् ।
निवासं मांसभक्षाणां चौराणां घोरकर्मणाम् ॥ ५७॥
नानाद्रुमलतायुक्तं चित्रं पुष्पितपादपम् ।
प्रोष्ये तत्र निशामेकां खटवाङ्गां नाम निम्नगाम् ॥ ५८॥
भद्रं ते सन्तरिष्यामो निकषोपलभूषणाम् ।
गङ्गाप्रपातप्रतिमां भ्रष्टां च महतो गिरेः ॥ ५९॥
तस्याः प्रपातं द्रक्ष्यामस्तापसारण्यभूषणम् ।
उपभुज्य त्विमान्कामान्गत्वा तान्धरणीधरान् ॥ २.३९.६०॥
द्रक्ष्यामस्तत्र तान् विप्राञ्छाम्यतो वै तपोधनान् ।
रम्यं क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम् ॥ ६१॥
वंशजस्तत्र ते राजा कृष्ण धर्मरतः सदा ।
महाकपिरिति ख्यातो वनवास्यजनाधिपः ॥ ६२॥
तमदृष्ट्वैव राजानं निवासाय गतेऽहनि ।
तीर्थमानडुहं नाम तत्रस्थाः स्याम सङ्गताः ॥ ६३॥
ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
गोमन्तमिति विख्यातं नैकशृङ्गविभूषितम् ॥ ६४॥
स्वर्गतैकमहाशृङ्गं दुरारोहं खगैरपि ।
विश्रामभूतं देवानां ज्योतिर्भिरभिसंवृतम् ॥ ६५॥
सोपानभूतं स्वर्गस्य गगनाद्रिमिवोच्छ्रितम् ।
तं विमानावतरणं गिरिं मेरुरिवापरम् ॥ ६६॥
तस्योत्तमे महाशृङ्गे भास्वन्तौ देवरूपिणौ ।
उदयास्तमये सूर्यं सोमं च ज्योतिषां पतिम् ॥ ६७॥
ऊर्मिमन्तं समुद्रं च अपारद्वीपभूषणम् ।
प्रेक्षमाणौ सुखं तत्र नगाग्रे विचरिष्यथः ॥ ६८॥
शृङ्गस्थौ तस्य शैलस्य गोमन्तस्य वनेचरौ ।
दुर्गयुद्धेन धावन्तौ जरासन्धं विजेष्यथ ॥ ६९॥
तत्र शैलगतौ दृष्ट्वा भवन्तौ युद्धदुर्मदौ ।
आसक्तः शैलयुद्धे च जरासन्धो भविष्यति ॥ २.३९.७०॥
भवतोरपि युद्धे तु प्रवृत्ते तत्र दारुणे ।
आयुधैः सह संयोगं पश्यामि नचिरादिव ॥ ७१॥
सङ्ग्रामश्च महान् कृष्ण निर्दिष्टस्तत्र दैवतैः ।
यदूनां पार्थिवानां च मांसशोणितकर्दमः ॥ ७२॥
तत्र चक्रं हलं चैव गदां कौमोदकीं तथा ।
सौनन्दं मुसलं चैव वैष्णवान्यायुधानि च ॥ ७३॥
दर्शयिष्यन्ति सङ्ग्रामे पास्यन्ति च महीक्षिताम् ।
रुधिरं कालयुक्तानां वपुर्भिः कालसन्निभैः ॥ ७४॥
स चक्रमुसलो नाम सङ्ग्रामः कृष्ण विश्रुतः ।
दैवतैरिह निर्दिष्टः कालस्यादेशसंज्ञितः ॥ ७५॥
तत्र ते कृष्ण सङ्ग्रामे सुव्यक्तं वैष्णवं वपुः ।
द्रक्ष्यन्ति रिपवः सर्वे सुराश्च सुरभावन ॥ ७६॥
तां भजस्व गदां कृष्ण चक्रं च चिरविस्मृतम् ।
भजस्व स्वेन रूपेण सुराणां विजयाय वै ॥ ७७॥
बलश्चायं हलं घोरं मुसलं चारिभेदनम् ।
वधाय सुरशत्रूणां भजताल्लोकभावनः ॥ ७८॥
एष ते प्रथमः कृष्ण सङ्ग्रामो भुवि पार्थिवैः ।
पृथिव्यर्थे समाख्यातो भारावतरणे सुरैः ॥ ७९॥
आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च ।
लक्ष्म्याश्च तेजसश्चैव व्यूहानां च विदारणम् ॥ २.३९.८०॥
अतःप्रभृति सङ्ग्रामो धरण्यां शस्त्रमूर्च्छितः ।
भविष्यति महान् कृष्ण भारतं नाम वैशसम् ॥ ८१॥
तद् गच्छ कृष्ण शैलेन्द्रं गोमन्तं च नगोत्तमम् ।
जरासन्धमृधे चापि विजयस्त्वामुपस्थितः ॥ ८२॥
इदं चैवामृतप्रख्यं होमधेनोः पयोऽमृतम् ।
पीत्वा गच्छत भद्रं वो मयाऽऽदिष्टेन वर्त्मना ॥ ८३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामवाक्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
२.४० चत्वारिंशोऽध्यायः
गोमन्तारोहणम् Ascent of gomanta mountain
श्रीकृष्णस्य, बलरामस्य एवं परशुरामस्य गोमन्तपर्वतोपरि आरोहणम्, गोमन्तस्य शोभावर्णनम्, परशुरामस्य कृष्णं युद्धाय प्रोत्साहयित्वा तत्रतः प्रस्थानं
वैशम्पायन उवाच ।
तत्तु धेन्वाः पयः पीत्वा बलर्द्पसमन्वितौ ।
ततस्तौ रामसहितौ प्रस्थितौ यदुपुङ्गवौ ॥ १॥
गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ ।
जामदग्न्यप्रदिष्टेन मार्गेण वदतां वरौ ॥ २॥
जामदग्न्यतृतीयास्ते त्रयस्त्रय इवाग्नयः ।
शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव ॥ ३॥
ते चाध्वविधिना सर्वे ततो वै दिवसक्रमात् ।
गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥ ४॥
लताचारुविचित्रं च नानाद्रुमविभूषितम् ।
नानागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोहरैः ॥ ५॥
द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् ।
मत्तबर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥ ६॥
गगनालग्नशिखरं जलदासक्तपादपम् ।
मत्तद्विपविषाणाग्रैः परिघृष्टोपलाङ्कितम् ॥ ७॥
कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् ।
दरीप्रपाताम्बुरवैश्छन्नं शार्दूलतल्लजैः ॥ ८॥
नीलाश्मचयसङ्घातैर्बहुवर्णं यथा घनम् ।
धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥ ९॥
कीर्णं सुरगणैः कान्तैर्मैनाकमिव कामगम् ।
उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥ २.४०.१०॥
सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।
पनसाम्रातकाम्रौघैर्वेत्रस्यन्दनचन्दनैः ॥ ११॥
तमालैलावनयुतं मरीचक्षुपसङ्कुलम् ।
पिप्पलीवल्लिकलिलं चित्रमिङ्गुदिपादपैः ॥ १२॥
द्रुमैः सर्जरसानां च सर्वतः परिशोभितम् ।
प्रांशुशालवनैर्युक्तं बहुचित्रवनैर्युतम् ॥ १३॥
सर्जनिम्बार्जुनवनं पाटलीकुलसङ्कुलम् ।
हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥ १४॥
जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।
पङ्कजैर्द्रुमखण्डैश्च सर्वतः प्रतिभूषितम् ॥ १५॥
जम्बूजम्बूलवृक्षाढ्यं कद्रुकन्दलभूषितम् ।
चम्पकाशोकबकुलं बिल्वतिन्दुकशोभितम् ॥ १६॥
कुञ्जैश्च नागपुष्पैश्च समन्तादुपशोभितम् ।
नागयूथसमाकीर्णं मृगसङ्घातशोभितम् ॥ १७॥
सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।
गन्धर्वैश्च समायुक्तं गुह्यकैः पक्षिभिस्तथा ॥ १८॥
विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।
सिंहशार्दूलसन्नादैः सततं प्रतिनादितम् ।
सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥ १९॥
स्तुतं त्रिदशगन्धर्वैरप्सरोभिरलङ्कृतम् ।
वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैः श्रितम् ॥ २.४०.२०॥
शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।
दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥ २१॥
प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।
काननैराननाकारैर्विशेषद्भिरिव श्रियम् ॥ २२॥
जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ।
स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ॥ २३॥
पार्श्वैरुपलकल्माषैर्मेघैरिव विभूषितम् ।
पादपच्छन्नभूमीभिः सपुष्पाभिः समन्ततः ॥ २४॥
मण्डितं वनराजीभिः प्रमदाभिः पतिर्यथा ।
सुन्दरीभिर्दरीभिश्च कन्दराभिस्तथैव च ॥ २५॥
तेषु तेष्ववकाशेषु सदारामिव शोभितम् ।
औषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।
जातरूपैर्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥ २६॥
मूलेन सुविशालेन शिरसाप्युच्छ्रितेन च ।
पृथिवीमन्तरिक्षं च ग्राहयन्तमिव स्थितम् ॥ २७॥
ते समासाद्य गोमन्तं रम्यं भूमिधरोत्तमम् ।
रुचिरं रुरुचुः सर्वे वासायामरसन्निभाः ॥ २८॥
रुरुहुस्ते गिरिवरं खमूर्ध्वमिव पक्षिणः ।
असज्जमाना वेगेन वैनतेयपराक्रमाः ॥ २९॥
ते तु तस्योत्तरं शृङ्गमारूढास्त्रिदशा इव ।
अगारं सहसा चक्रुर्मनसा निर्मितोपमम् ॥ २.४०.३०॥
निविष्टौ यादवौ दृष्टा जामदग्न्यो महामतिः ।
रामोऽभिमतमक्लिष्टमाप्रष्टुमुपचक्रमे ॥ ३१॥
कृष्ण यास्याम्यहं तात पुरं शूर्पारकं विभो ।
युवयोर्नास्ति वैमुख्यं सङ्ग्रामे दैवतैरपि ॥ ३२॥
प्राप्तवानस्मि यां प्रीतिं मार्गानुगमनादपि ।
सा मे कृष्णानुगृह्णाति शरीरमिदमव्ययम् ॥ ३३॥
इदं तत् स्थानमुद्दिष्टं यत्रायुधसमागमः ।
युवयोर्विहितो देवैः समयः साम्परायिकः ॥ ३४॥
दैवानां मुख्य वैकुण्ठ विष्णो देवैरभिष्टुत ।
कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः ॥ ३५॥
यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् ।
मानुषाणां हितार्थाय लोके मानुषदेहिना ॥ ३६॥
तस्यायं प्रथमः कल्पः कालेन तु नियोजितः ।
जरासन्धेन वै सार्धं सङ्ग्रामे समुपस्थिते ॥ ३७॥
तत्रायुधबलं चैव रूपं च रणकर्कशम् ।
स्वयमेवात्मना कृष्ण त्वमात्मानं विधत्स्व ह ॥ ३८॥
चक्रोद्यतकरं दृष्ट्वा त्वां गदापाणिमाहवे ।
चतुर्द्विगुणपीनांसं बिभ्येदपि शतक्रतुः ॥ ३९॥
अद्यप्रभृति ते यात्रा स्वर्गोक्ता समुपस्थिता ।
पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद ॥ २.४०.४०॥
वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणि ।
कुरु शीघ्रं महाबाहो गोविन्द वदतां वर ॥ ४१॥
युद्धकामा नृपतयस्त्रिदिवाभिमुखोद्यताः ।
धार्तराष्ट्रस्य वशगास्तिष्ठन्ति रणवृत्तयः ॥ ४२॥
राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता ।
एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते ॥ ४३॥
सग्रहं कृष्ण नक्षत्रं सङ्क्षिप्यारिविमर्दन ।
त्वयि मानुष्यमापन्ने युद्धे च समुपस्थिते ॥ ४४॥
त्वरस्व कृष्ण युद्धाय दानवानां वधाय च ।
स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च ॥ ४५॥
सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरैः ।
त्वया सत्कृतरूपेण येन सत्कृतवानहम् ॥ ४६॥
साधयामि महाबाहो भवतः कार्यसिद्धये ।
स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम् ॥ ४७॥
इत्युक्त्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिणम् ।
जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम् ॥॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तारोहणं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
२.४१ एकचत्वारिंशोऽध्यायः
जरासंधाभिगमनम् Arrival of jarAsaMdha's army
बलरामस्य समीपे वारुणी, कान्ति एवं श्री संज्ञकानां देवाङ्गनानां आगमनम्, गरुडेन
श्रीकृष्णं वैष्णवमुकुटस्य प्राप्तिः, श्रीकृष्णस्य बलरामेण सह वार्तालापं एवं जरासन्धस्य सेनायाः निरीक्षणं कृत्वा स्वयमुद्भूतानां मानसिकोद्गाराणां प्रकटनं
वैशम्पायन उवाच ।
जामदग्न्ये गते रामे तौ यादवकुलोद्वहौ ।
गोमन्तशिखरे रम्ये चेरतुः कामरूपिणौ ॥ १॥
वनमालाकुलोरस्कौ नीलपीताम्बरावुभौ ।
नीलश्वेतवपुष्मन्तौ गगनस्थाविवाम्बुदौ ॥ २॥
तौ शैलधातुदिग्धाङ्गौ युवानौ शिखरे स्थितौ ।
चेरतुस्तत्र कान्तेषु वनेषु रतिलालसौ ॥ ३॥
उदयन्तं निरीक्षन्तौ शशिनं ज्योतिषां वरम् ।
उदयास्तमने चैव ग्रहाणां धरणीधरे ॥ ४॥
अथ सङ्कर्षणः श्रीमान् विना कृष्णेन वीर्यवान् ।
चचार तस्य शिखरे नगस्य नगसन्निभः ॥ ५॥
प्रफुल्लस्य कदम्बस्य सुच्छाये निषसाद ह ।
वायुना मन्दगन्धेन वीज्यमानः सुखेन वै ॥ ६॥
तस्य तेनानिलौघेन सेव्यमानस्य तत्र वै ।
मद्यसंस्पर्जो गन्धः संस्पृशन् घ्राणमागतः ॥ ७॥
तृष्णा चैनं विवेशाशु वारुणीप्रभवा तदा ।
शुशोष च मुखं तस्य मत्तस्येवापरेऽहनि ॥ ८॥
स्मारितः स पुरावृत्तममृतप्राशनं विभुः ।
तृषितो मदिरान्वेषी ततस्तं तरुमैक्षत ॥ ९॥
तस्य प्रावृषि फुल्लस्य यदम्भो जलजोज्झितम् ।
तत्कोटरस्थं मदिरा सञ्जायत मनोहरा ॥ २.४१.१०॥
तां तु तृष्णाभिभूतात्मा पिबन्नार्त इवासकृत् ।
मोहाच्च चलिताकारः समजायत स प्रभुः ॥ ११॥
तस्य मत्तस्य वदनं किञ्चिच्चलितलोचनम् ।
घूर्णिताकारमभवच्छरत्कालेन्दुसप्रभम् ॥ १२॥
कदम्बकोटरे जाता नाम्ना कादम्बरीति सा ।
रूपिणी वारुणी तत्र देवानाममृतारणी ॥ १३॥
कादम्बरीमदकलं विदित्वा कृष्णपूर्वजम् ।
तिस्रस्त्रिदशनार्यस्तमुपतस्थुः प्रियंवदाः ॥ १४॥
मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया ।
श्रीश्च देवी वरिष्ठा स्त्री स्वयमेवाम्बुजध्वजा ॥ १५॥
साञ्जलिप्रग्रहा देवी रौहिणेयमुपस्थिता ।
वारुण्या सहितं वाक्यमुवाच मदविक्लवम् ॥ १६॥
बलं जयस्व दैत्यानां बलदेव दिवीश्वर ।
अहं ते दयिता कान्ता वारुणी समुपस्थिता ॥ १७॥
त्वामेवान्तर्हितं श्रुत्वा शाश्वतं वडवामुखे ।
क्षीणपुण्येव वसुधां पर्येमि विमलानन ॥ १८॥
पुष्पचक्रानुलिप्तेषु केसरेषूषितं मया ।
अतिमुक्तेषु चाक्षोभ्य पुष्पस्तबकवत्सु च ॥ १९॥
अहं कदम्बमालीना मेघकाले मुखप्रिया ।
तृषितं मार्गमाणा त्वां स्वेन रूपेण छादिता ॥ २.४१.२०॥
सास्मि पूर्णेन योगेन यथैवामृतमन्थने ।
समीपं प्रेषिता पित्रा वरुणेन तवानघ ॥ २१॥
सा यथैवार्णवगता तथैव वडवामुखे ।
त्वयोपभोक्तुमिच्छामि सम्मतस्त्वं हि मे गुरुः ॥ २२॥
न त्वानन्तं परित्यक्ष्ये भर्त्सितापि त्वयानघ ।
नाहं त्वया विना लोकानुत्सहे देव सेवितुम् ॥ २३॥
आदिपद्मं च पद्माङ्कं दिव्यं श्रवणभूषणम् ।
कौशेयानि च नीलानि समुद्रार्हाणि बिभ्रती ॥ २४॥
मदिरानन्तरं कान्तिः सङ्कर्षणमुपस्थिता ।
मदेनागलितश्रोणी किञ्चिदाघूणितेक्षणा ॥ २५॥
प्रोवाच प्रणयात् कान्तिर्बद्धाञ्जलिपुटा सती ।
जयपूर्वेण योगेन सस्मितं वाक्यमर्थवत् ॥ २६॥
अहं चन्द्रादपि गुरुं सहस्रशिरसं प्रभुम् ।
स्वैर्गुणैरनुरक्ता त्वां यथैव मदिरा तथा ॥ २७॥
श्रीश्च पद्मालया देवी निधेया वैष्णवोरसि ।
रौहिणेयोरसि शुभा मालेवामलतां गता ॥ २८॥
सा मालाममलां गृह्य बलस्योरसि दंशिता ।
पद्मास्या पद्महस्ता वै सङ्कर्षणमथाब्रवीत् ॥ २९॥
राम रामाभिरामस्त्वं वारुण्या समलङ्कृतः ।
कान्त्या मया च देवेश सङ्गतश्चन्द्रमा यथा ॥ २.४१.३०॥
इयं च सा मया मौलिः प्रोद्धता वरुणालयात् ।
मूर्ध्नि शीर्षसहस्रस्य या ते भानुरिवाबभौ ॥ ३१॥
जातरूपमयं चैकं कुण्डलं वज्रभूषितम् ।
आदिपद्मं च पद्माक्षं दिव्यश्रवणभूषणम् ॥ ३२॥
कौशेयानि च नीलानि समुद्रार्हाणि भावतः ।
हारं च पीनतरलं समुद्राभ्यन्तरोऽषितम् ॥ ३३॥
देवेमां प्रतिगृह्णीष्व पौराणी भूषणक्रियाम् ।
समयस्ते महाबाहो भूषणानामलङ्क्रिया ॥ ३४॥
सङ्गृह्य तमलङ्कारं ताश्च तिस्रः सुरस्त्रियः ।
शुशुभे बलदेवो हि शारदेन्दुसमप्रभः ॥ ३५॥
स समागम्य कृष्णेन जलजाम्भोदवर्चसा ।
मुदं परमिकां लेभे ग्रहयुक्तः शशी यथा ॥ ३६॥
ताभ्यामुभाभ्यां संलापे वर्तमाने गृहे यथा ।
वैनतेयस्ततोऽध्वानमतिचक्राम वेगतः ॥ ३७॥
सङ्ग्राममुक्तस्तेजस्वी दैत्यप्रहरणाङ्कितः ।
देवतानां जयश्लाघी दिव्यस्रगनुलेपनः ॥ ३८॥
सुप्तस्य शयने दिव्ये क्षीरोदे वरुणालये ।
विष्णोः किरीटं दैत्येन हृतं वैरोचनेन वै ॥ ३९॥
तदर्थस्तेन सङ्ग्रामः कृतो गुर्वर्थमोजसा ।
किरीटार्थे समुद्रस्य मध्ये दैत्यगणैः सह ॥ २.४१.४०॥
मोक्षयित्वा किरीटं तु वैष्णवं पततां वरः ।
व्यत्यक्रमत वेगेन गगनं देवतालयम् ॥ ४१॥
स ददर्श गुरुं शैले विष्णुं कार्यान्तरागतम् ।
तेन क्रीडावलम्बेन किरीटेन विराजता ॥ ४२॥
स दृष्ट्वा मानुषं विष्णुं शैलराजशिरोगतम् ।
प्रकाशचेष्टानिर्मुक्तं विमौलिमिव मानुषम् ॥ ४३॥
अभिज्ञस्तस्य भावानां गरुत्मान् पततां वरः ।
चिक्षेप खं गतो मौलिं विष्णोः शिरसि हृष्टवत् ॥ ४४॥
उपेन्द्रमूर्ध्नि सा मौलिरपिनद्धा इवापतत् ।
शिरसः स्थाननिर्युक्ता कृष्णं चैवान्वशोभयत् ।
यथैव मेरुशिखरे भानुर्मध्यन्दिने यथा ॥ ४५॥
वैनतेयप्रयोगेण विदित्वा मौलिमागताम् ।
कृष्णः प्रहृष्टवदनो रामं वचनमब्रवीत् ॥ ४६॥
त्वरते खलु कार्यार्थो देवतानां न संशयः ।
यथेयमावयोः शैले सङ्ग्रामरचना कृता ॥ ४७॥
वैरोचनेन ``सुप्तस्य'' मम मौलिर्महोदधौ ।
शक्रस्य सदृशं रूपं दिव्यमास्थाय सागरात् ॥ ४८॥
ग्राहरूपेण यो नीत आनीतोऽसौ गरुत्मता ।
ममाहिशयनान्मौलिर्हृत्वा क्षिप्तो गरुत्मता ॥ ४९॥
सुव्यक्तं सन्निकृष्टः स जरासन्धो नराधिपः ।
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥ २.४१.५०॥
एतानि विजिगीषूणां शशिकल्पानि भूभृताम् ।
छत्राण्यार्य विराजन्ते दंशितानि मितानि च ॥ ५१॥
अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥ ५२॥
अहो द्यौर्विमलाभानां शस्त्राणां विमलानना ।
प्रभा भास्करभामिश्रा चरन्तीव दिशो दृश ॥ ५३॥
एतानि नूनं समरे पार्थिवैरायुधानि च ।
क्षिप्तानि विनशिष्यन्ति मयि सर्वाणि संयुगे ॥ ५४॥
काले खलु नृपः प्राप्तो जरासन्धो महीपतिः ।
आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥ ५५॥
आर्य तिष्ठाव सहितौ न खल्वानागते नृपे ।
युद्धारम्भः प्रयोक्तव्यो बलं तावद् विमृश्यताम् ॥ ५६॥
एवमुक्त्वा ततः कृष्णः स्वस्थः सङ्ग्रामलालसः ।
जरासन्धवधं प्रेप्सुश्चकार बलदर्शनम् ॥ ५७॥
वीक्षमाणश्च तान्सर्वान् नृपान् यदुवरोऽव्ययः ।
आत्मानमात्मनोवाच यत्पूर्वं दिवि मन्त्रितम् ॥ ५८॥
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥ ५९॥
प्रोक्षितान्खल्विमान् मन्ये मृत्युना नृपसत्तमान् ।
स्वर्गगामीनि चाप्येषां वपुंषि प्रचकाशिरे ॥ २.४१.६०॥
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपतिसिंहानां बलौघैरभिपीडिता ॥ ६१॥
अल्पेन खलु कालेन विविक्तं पृथिवीतलम् ।
भविष्यति नरेन्द्रौघैराकीर्णं च नभस्तलम् ॥ ६२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि जरासन्धाभिगमनं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥
२.४२ द्विचत्वारिंशोऽध्यायः
गोमन्तदाहः Gomanta set on fire by jarasandha's army
जरासन्धस्य सेनायाः वर्णनम्, तस्य सैन्यं पर्वतोपरि आक्रमणाय आज्ञापनम्, शिशुपालस्य सम्मत्या गोमन्तके पर्वते अग्निदानम्, पर्वतस्य ज्वलनं एवं बलरामकृष्णयोः पर्वतात्कूर्दयित्वा राजानां सैन्येषु आगमनं
वैशम्पायन उवाच ।
जरासन्धस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् ।
नराधिपैर्बलयुतैरनुयातो महाद्युतिः ॥ १॥
व्यायतोदग्रतुरगैर्विस्पष्टार्थसमाहितैः ।
रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ॥ २॥
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ।
महामात्रोत्तमारूढैः कल्पितै रणगर्वितैः ॥ ३॥
स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ।
वाजिभिर्वायुसङ्काशैः प्ल्रवद्भिरिव पत्रिभिः ॥ ४॥
खङ्गचर्मबलोदग्रैः पत्तिभिर्बलिनां वरैः ।
सहस्त्रसङ्ख्यैर्निर्मुक्तैरुत्पतद्भिरिवोरगैः ॥ ५॥
एवं चतुर्विधैः सैन्यैः प्रचलद्भिरिवाम्बुदैः ।
नृपोऽभियातो बलवाञ्जरासन्धो धृतव्रतः ॥ ६॥
स रथैनेमिघोषैश्च गजैश्च मदसंयुतैः ।
हेषद्भिश्चापि तुरगैः क्ष्वेडितोग्रैश्च पत्तिभिः ॥ ७॥
सन्नादयन् दिशः सर्वाः सर्वाश्चापि गुहाशयान् ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ॥ ८॥
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ।
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ॥ ९॥
रथैः पवनसम्पातैर्गजैश्च जलदोपमैः ।
तुरगैश्च सिताभ्राभैः पत्तिभिश्चापि दंशितैः ॥ २.४२.१०॥
व्यामिश्रं तद्बलं भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥ ११॥
सबलास्ते महीपाला जरासन्धपुरोगमाः ।
परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः ॥ १२॥
बभौ तस्य निविष्टस्य बलश्रीः शिविरस्य वै ।
शुक्ले पर्वणि पूर्णस्य यथा रूपं महोदधेः ॥ १३॥
वीतरात्रे ततः काले नृपास्ते कृतकौतुकाः ।
आरोहणार्थं शैलस्य समेता युद्धलालसाः ॥ १४॥
समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥ १५॥
एषां तु तुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणां यथा स्वनः ॥ १६॥
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् ॥ १७॥
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनभुजङ्गस्य निःशब्दस्य पयोदधेः ॥ १८॥
तस्मिन् स्तिमितनिदशब्दे योगादिव महार्णवे ।
जरासन्धो बृहद्वाक्यं बृहस्पतिरिवाददे ॥ १९॥
शीघ्रं समभिवर्तन्तां बलानीह महीक्षिताम् ।
सर्वतः पर्वतश्चायं बलौघैः परिवार्यताम् ॥ २.४२.२०॥
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
ऊर्ध्वं चापि प्रवाह्यन्तां प्रासा वै तोमराणि च ॥ २१॥
ऊर्ध्व प्रक्षेपणार्थाय दृढानि च लधूनि च ।
शस्त्रपातविघातानि क्रियन्तामाशु शिल्पिभिः ॥ २२॥
शूराणां युद्ध्यमानानां प्रमत्तानां परस्परम् ।
यथा नरपतिः प्राह तथा शीघ्रं विधीयताम् ॥ २३॥
दार्यतामेष टङ्कौघैः खनित्रैश्च नगोत्तमः ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः ॥ २४॥
अद्यप्रभृति सैन्यैर्मे गिरिरोधः प्रवर्त्यताम् ।
यावदेतौ पातयामो वसुदेवसुतावुभौ ॥ २५॥
अचलोऽयं शिलायोनिः क्रियतां निश्चलाण्डजः ।
आकाशमपि बाणोर्घैर्निःसम्पातं विधीयताम् ॥ २६॥
मयानुशिष्टास्तिष्ठन्तु गिरिभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां गिरिः ॥ २७॥
मद्रः कलिङ्गाधिपतिश्चेकितानश्च बाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥ २८॥
द्रुमः किम्पुरुषश्चैव पर्वतीयाश्च मानवाः ।
पर्वतस्यापरं पार्श्वं क्षिप्रमारोहयन्त्वमी ॥ २९॥
पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥ २.४२.३०॥
पाञ्चालाधिपतिश्चैव द्रुपदश्च नराधिपः ।
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ॥ ३१॥
छागलिः पुरमित्रश्च विराटश्च महीपतिः ।
कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः ॥ ३२॥
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ।
उत्तरं पर्वतोद्देशमेते दुर्गसहा नृपाः ।
आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः ॥ ३३॥
उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः ।
एकलव्यो दृढाश्वश्च क्षत्रधर्मा जयद्रथः ॥ ३४॥
उत्तमौजास्तथा शाल्वः कैरलेयश्च कैशिकः ।
वैदिशो वामदेवश्च सुकेतुश्चापि वीर्यवान् ॥ ३५॥
पूर्वपर्वतनिर्व्युहमेतेष्वायतमस्तु नः ।
विदारयन्तो धावन्तो वाता इत बलाहकान् ॥ ३६॥
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं शैलनिचयं दारयिष्याम दंशिताः ॥ ३७॥
एवमेष गिरिः क्षिप्रं समन्ताद् वेष्टितो बलैः ।
वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम् ॥ ३८॥
गदिनो वै गदाभिश्च परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु नगोत्तमम् ॥ ३९॥
एष भूमिधरोऽद्यैव विषमोच्चशिलान्वितः ।
कार्यो भूमिसमः सर्वो भवद्भिर्वसुधाधिपैः ॥ २.४२.४०॥
जरासन्धवचः श्रुत्वा पार्थिवा राजशासनात् ।
गोमन्तं वेष्टयामासुः सागराः पृथिवीमिव ॥ ४१॥
उवाच राजा चेदीनां देवानां मघवानिव ।
किं ते युद्धेन दुर्गेऽस्मिन् गोमन्ते च नगोत्तमे ॥ ४२॥
दुरारोहश्च शिखरे प्रांशुपादपकण्टके ।
काष्ठैस्तृणैश्च बहुभिः परिवार्य समन्ततः ॥ ४३॥
अद्यैव दीप्यतां क्षिप्रमलमन्येन कर्मणा ।
क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः ॥ ४४॥
नियुक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः ।
ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा ॥ ४५॥
शक्य एष गिरिस्तात देवैरप्यवमर्दितुम् ।
दुर्गयुद्धे क्रमः श्रेयान् रोधयुद्धेन पार्थिवाः ॥ ४६॥
भक्तोदकेन्धनैः क्षीणाः पात्यन्ते गिरिसंश्रिताः ।
वयं बहव इत्येवं नाप्येष निपुणो नयः ॥ ४७॥
यादवौ नावमन्तव्यौ द्वावप्येतौ रणे स्थितौ ।
अविज्ञातबलावेतौ श्रूयेते देवसम्मितौ ॥ ४८॥
कर्मभिस्त्वमरौ विद्मो वालावतिबलान्वितौ ।
दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ ॥ ४९॥
शुष्ककाष्ठैस्तृणैर्वेष्ट्य सर्वतः पर्वतोत्तमम् ।
अग्निना दीपयिष्यामो दह्येतां गतचेतनौ ॥ २.४२.५०॥
यदि चेन्निष्क्रमिष्येते दह्यमानावितोऽन्तिके ।
समेत्य पातयिष्यामस्त्यक्ष्यतो जीवितं ततः ॥ ५१॥
वाक्यमेतत्तु रुरुचे सबलानां महीक्षिताम् ।
यदुक्तं चेदिराजेन नृपाणां हितशंसिना ॥ ५२॥
ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः ।
उपादीप्यत शैलेन्द्रः सृर्यपादैरिवाम्बुदः ॥ ५३॥
ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः ।
यथोद्देशं यथावातं शैलस्य लघुविक्रमाः ॥ ५४॥
स वायुदीपितो वह्निरुत्पपात समन्ततः ।
सधूमज्वालमालाभिर्भाभिः खमिव शोभयन् ॥ ५५॥
सोऽनलः पवनायस्तः काष्ठसञ्चयमूलवान् ।
ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम् ॥ ५६॥
स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः ।
शतशः शतधा भूत्वा महोल्काकारदर्शनाः ॥ ५७॥
स चित्रभानुः शैलेन्द्रं भाभिर्भानुरिवाम्बुदम् ।
आलिम्पतीव विधिवत् समन्तादर्चिरुद्धतः ॥ ५८॥
धातुभिः पच्यमानैश्च ज्वलद्भिश्चैव पादपैः ।
उद्भ्रान्तश्वापदो रौति तुद्यमान इवाद्रिराट् ॥ ५९॥
प्रतप्तो दह्यमानस्तु स शैलः कृष्णवर्त्मना ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥ २.४२.६०॥
वह्निना चापि दीप्ताङ्गो गिरिर्नातिविराजते ।
धूमान्धकारोर्ध्वतनुर्मज्जमान इवाम्बुदः ॥ ६१॥
विश्लिष्टोपलसङ्घातः कर्कशाङ्गारवर्षणः ।
गिरिर्भात्यनलोद्गारैरुल्कावृष्टिरिवाम्बुदः ॥ ६२॥
प्रपातप्रस्रपोत्क्षिप्तो धूमसंवर्द्धितोदरः ।
स गिरिर्भस्मतां यातो युगान्ताग्निहतोपमः ॥ ६३॥
विह्वलास्तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः ।
श्वसन्तः पृथुमूर्धानो निश्चेरुरशिवेक्षणाः ॥ ६४॥
उत्पत्योत्पत्य गगनात् पुनः पुनरवाङ्मुखाः ।
रेसुश्चोद्वेजिताः सिंहाः शार्दूलाश्चानलाविलाः ॥ ६५॥
मुमुचुः पादपाश्चैव दाहनिर्यासजं जलम् ॥ ६६॥
वहत्यूर्ध्वगतिर्वातो भस्माङ्गारातिपिङ्गलः ।
धूमच्छाया च गगने दर्पिताम्भोददर्शना ॥ ६७॥
व्यज्यमानो महासानुर्विहगै- श्वापदैरपि ।
गिरिर्वैकल्यमायाति प्रागल्भ्यात्कृष्णवर्त्मनः ॥ ६८॥
स मुमोच शिलाः शैलश्चलोदग्रशिलोच्चयः ।
वज्रेण पुरुहूतस्य यथा स्याद् दारितस्तथा ॥ ६९॥
आदीप्य तं तु शैलेन्द्रं क्षत्रिया व्यूहदंशिताः ।
अर्धक्रोशमपक्रान्ताः पावकेनाभितापिताः ॥ २.४२.७०॥
दह्यमाने नगश्रेष्ठे सीदमानैर्महाद्रुमैः ।
धूमभारैरनालक्ष्ये मूले शिथिलतां गते ॥ ७१॥
सरोषं हि तदा रामो वचनं केशिसूदनम् ।
बभाषे पद्मपत्राक्षं स साक्षान्मधुसूदनम् ॥ ७२॥
दह्यतेऽयं गिरिस्तात ससानुशिखरद्रुमः ।
आवयोः कृष्ण वैरेण बलिभिर्वसुधाधिपैः ॥ ७३॥
पश्य कृष्णानलौष्णानां सधूमानां समन्ततः ।
वनानां विरसन्तीव नगाभ्याशे द्विपोत्तमाः ॥ ७४॥
अयं यद्यावयोरर्थे गोमन्तस्तात दह्यते ।
अयशस्यमिदं लोके कौलीनं च भविष्यति ॥ ७५॥
तदस्यानृण्यहेतोर्हि नगस्य नगसन्निभ ।
क्षत्रियान्निहनिष्यामो दोर्भ्यामेव युधां वर ॥ ७६॥
एते ते क्षत्रियाः सर्वे गिरिमादीप्य दंशिताः ।
रथिनस्तात दृश्यन्ते यथादेशं युयुत्सवः ॥ ७७॥
एवमुक्त्वा गिरेः शृङ्गान्मेरुशृङ्गादिवोडुराट् ।
निपपात बलः श्रीमान् वनमालाधरो युवा ॥ ७८॥
कादम्बरीमदक्षीबो नीलवासाः सिताननः ।
स शारदेन्दुसङ्काशो वनमालाञ्चितोदरः ॥ ७९॥
कान्तैककुण्डलधरश्चारुमौलिरवाङमुखः ।
निपपात नरेन्द्राणां मध्ये केशवपूर्वजः ॥ २.४२.८०॥
अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः ।
गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः ॥ ८१॥
ततस्तं पीडयामास पद्भ्यां गिरिवरं हरिः ।
स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः ॥ ८२॥
जलाकुलोपलस्तत्र प्रस्रुतो द्विरदो यथा ।
स तेन वारिणा वह्निस्तत्क्षणात् प्रशमं ययौ ॥ ८३॥
कल्पान्ते वारिधाराभिर्मेघजालैरिवांशुमान् ।
सिंहारसितनिर्घोषः पीतवासा घनाकृतिः ॥ ८४॥
किरीटमूर्द्धा सौम्यास्यः पुण्डरीकनिभेक्षणः ।
श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः ॥ ८५॥
रामादनन्तरं कृष्णः प्लुतो वै वीर्यवांस्ततः ।
ताभ्यामेव प्लुताभ्यां च चरणैः पीडितो गिरिः ॥ ८६॥
मुमोच सलिलोत्पीडांस्तीव्रपावकशान्तये ।
सलिलोत्पीडनं दृष्ट्वा पार्थिवा भयमाविशन् ॥ ८७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तदाहे द्विचत्वारिंशोऽध्यायः ॥ ४२॥
२.४३ त्रयश्चत्वारिंशोऽध्यायः
जरासंधपराभवः Jarasandha Defeated
श्रीकृष्णबलरामाभ्यां जरासन्धेन तस्य सेनया सह युद्धं, राजा दरदस्य मृत्युः, जरासन्धस्य पराजितं भूत्वा पलायनं एवं चेदिराज दमघोषेण सह श्रीकृष्णबलरामाभ्यां करवीरपुरे गमनं
वैशम्पायन उवाच ।
तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुब्धं नरवरानीकं सर्वं सम्मूढवाहनम् ॥ १॥
बाहुप्रहरणौ तौ तु चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥ २॥
ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् ।
आयुधानां पुराणानामादानकृतलक्षणा ॥ ३॥
ततोऽम्बरतलाद् भूयः पतन्ति स्म महात्मनोः ।
मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः ॥ ४॥
यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः ।
तान्यम्बरात् पतन्ति स्म दिव्यान्याहवसम्प्लवे ॥ ५॥
लेलिहानानि दीप्तानि दीप्ताग्निसदृशानि वै ।
निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ॥ ६॥
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः ॥ ७॥
दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि दंशितानि दिशो दश ॥ ८॥
हलं सांवर्तकं नाम सौनन्दं मुसलं तथा ।
चक्रं सुदर्शनं नाम गदां कौमोदकीं तथा ॥ ९॥
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥ २.४३.१०॥
जग्राह प्रथमं रामो ललामप्रतिमं रणे ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम् ॥ ११॥
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।
सौनन्दं नाम बलवान् निरानन्दकरं द्विषाम् ॥ १२॥
दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् ।
नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ॥ १३॥
दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ॥
नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान् ॥ १४॥
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥ १५॥
तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम् ॥ १६॥
आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ ।
पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षणौ ॥ १७॥
समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः ।
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥ १८॥
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम् ।
चचार समरे वीरो द्विषतामन्तकोपमः ॥ १९॥
विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ॥ २.४३.२०॥
कुञ्जराँल्लाङ्गलोत्क्षिप्तान् मुसलाक्षेपताडितान् ।
रामोऽभिरामः समरे निर्ममन्थ यथाचलान् ॥ २१॥
ते वध्यमाना रामेण समरे क्षत्रियर्षभाः ।
जरासन्धान्तिकं भीता विरथाः प्रतिजग्मिरे ॥ २२॥
तानुवाच जरासन्धः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥ २३॥
पराक्रान्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥ २४॥
पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।
भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ॥ २५॥
क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥ २६॥
ततस्ते क्षत्रियाः सर्वे जरासन्धेन नोदिताः ।
क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः ॥ २७॥
ते हयैः काञ्चनापीडै रथैश्चेन्दुसमप्रभैः ।
नागैश्चाम्भोदसङ्काशैर्महामात्रप्रणोदितैः ॥ २८॥
सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः ।
स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ॥ २९॥
सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः ।
रणावनिगता रेजुः स्यन्दनस्था महीक्षितः ॥ २.४३.३०॥
तौ युद्धरङ्गापतितौ विधावन्तौ महाभुजौ ।
वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम् ॥ ३१॥
तद् युद्धमभवत्तत्र तयोस्तेषां तु संयुगम् ।
सायकोत्सर्गबहुलं गदानिर्घातदारुणम् ॥ ३२॥
ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ ।
तस्थतुर्योधमुख्यौ तावभिवृष्टौ यथाचलौ ॥ ३३॥
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ।
अर्द्यमानौ महेष्वासौ यादवौ न चकम्पतुः ॥ ३४॥
ततः कृष्णोऽम्बुदाकारः शङ्खचक्रगदाधरः
व्यवर्धत महातेजा वातयुक्त इवानलः ॥ ३५॥
स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा ।
चिच्छेद समरे वीरो नृगजाश्वमहारथान् ॥ ३६॥
गदानिपातविहता लाङ्गलेन च कर्षिताः ।
न शेकुस्ते रणे स्थातुं पार्थिवा नष्टचेतसः ॥ ३७॥
चक्रक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् ।
रथयूथानि भग्नानि न शेकुश्चलितुं रणे ॥ ३८॥
मुसलाक्षेपभग्नाश्च कुञ्जराः षष्टिहायनाः ।
घना इव घनापाये भग्नदन्ता विचुक्रुशुः ॥ ३९॥
चक्रानलज्वालहताः सादिनः सपदातयः ।
पेतुः परासवस्तत्र यथा वज्रहतास्तथा ॥ २.४३.४०॥
चक्रलाङ्गलनिर्दग्धं तत्सैन्यं विदलीकृतम् ।
युगान्तोपहतप्रख्यं सर्वं पतितमाबभौ ॥ ४१॥
आक्रीडभूमिं दिव्यानामायुधानां वपुष्मताम् ।
वैष्णवानां नृपास्ते तु द्रष्टुमप्यबलीयसः ॥ ४२॥
केचिद्रथा सम्मृदिताः केचिन्निहतपार्थिवाः ।
भग्नैकचक्रास्त्वपरे विकीर्णा धरणीतले ॥ ४३॥
तस्मिन् विशसने घोरे चक्रलाङ्गलसम्प्लवे ।
दारुणानि प्रवृत्तानि रक्षांस्यौत्पातिकानि च ॥ ४४॥
आर्तानां कूजमानानां पाटितानां च वेणुवत् ।
अन्तो न शक्यतेऽन्वेष्टुं नृनागरथवाजिनाम् ॥ ४५॥
सा पातितनरेन्द्राणां रुधिराऽऽर्द्रा रणक्षितिः ।
योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै ॥ ४६॥
नरकेशास्थिमज्जान्त्रैः शातितानां च दन्तिनाम् ।
रुधिरौघप्लवस्तत्र च्छादयामास मेदिनीम् ॥ ४७॥
तस्मिन् महाभीषणके नरवाहनसङ्क्षये ।
शिवानामशिवैः शब्दैर्नादिते घोरदर्शने ॥ ४८॥
आर्तस्तनितसन्नादे रुधिराम्बुह्रदाकुले ।
अन्तकाक्रीडसदृशे नागदेहैः समावृते ॥ ४९॥
अपास्तैर्बाहुभिर्योधैस्तुरगैश्च विदारितैः ।
कङ्कैश्च बलगृध्रैश्च नादितैः प्रतिनादिते ॥ २.४३.५०॥
निपाते पृथिवीशानां मृत्युसाधारणे रणे ।
कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः ॥ ५१॥
युगान्तार्कप्रभं चक्रं कालीं चैवायसीं गदाम् ।
गृह्य सैन्यावनिगतो बभाषे केशवो नृपान् ॥ ५२॥
किन्न युद्धयत वै शूरा हस्त्यश्वरथसंयुताः ।
किमिदं गम्यते शूराः कृतास्त्रा दृढनिश्चयाः ।
अहं सपूर्वजः सङ्ख्ये पदातिः प्रमुखे स्थितः ॥ ५३॥
अदृष्टदोषेण रणे भवन्तो येन पालिताः ।
स इदानीं जरासन्धः किमर्थं नाभिवर्तते ॥ ५४॥
एवमुक्ते तु नृपतिर्दरदो नाम वीर्यवान् ।
रामं हलाग्रोग्रभुजं प्रत्ययात् सैन्यमध्यगम् ॥ ५५॥
बभाषे स तु ताम्राक्षमुक्षाणमिव सेवनी ।
एह्येहि राम युध्यस्व मया सार्द्धमरिन्दम ॥ ५६॥
तद् युद्धमभवत् ताभ्यां रामस्य दरदस्य च ।
मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्यामिवौजसा ॥ ५७॥
योजयित्वा ततः स्कन्धे रामो दरदमाहवे ।
हलेन बलिनां श्रेष्ठो मुसलेनावपोथयत् ॥ ५८॥
स्वकायगतमूर्धा वै मुसलेनावपोथितः ।
पपात दरदो भूमौ दारितार्द्व इवाचलः ॥ ५९॥
रामेण निहते तस्मिन् दरदे राजसत्तमे ।
जरासन्धस्य राज्ञस्तु रामेणासीत्समागमः ॥ २.४३.६०॥
महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ।
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतः ॥ ६१॥
कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ ।
ददृशाते महात्मानौ गिरी सशिखराविव ॥ ६२॥
व्युपारमन्त युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ ।
संरब्धाविव धावन्तौ गदायुद्धेषु विश्रुतौ ॥ ६३॥
तावुभौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव महानागावन्योन्यं समधावताम् ॥ ६४॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः ॥ ६५॥
तद्देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् ।
शुशुभेऽभ्यधिकं राजन् नभो ज्योतिर्गणैरिव ॥ ६६॥
अभिदुद्राव रामं तु जरासन्धो नराधिपः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥ ६७॥
तावन्योन्यं प्रजह्राते गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥ ६८॥
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासन्धस्य च रणे पर्वतस्येव दीर्यतः ॥ ६९॥
न स्म कम्पयते रामं जरासन्धकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥ २.४३.७०॥
रामस्य तु गदावेगं राजा स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोथयत् ॥ ७१॥
ततोऽन्तरिक्षे वागासीत् सुस्वरा लोकसाक्षिणी ।
न त्वया राम वध्योऽयमलं खेदेन मानद ॥ ७२॥
विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥ ७३॥।
जरासन्धस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्राहरत् ततस्तस्मै पुनरेव हलायुधः ।
तौ व्युपारमतां युद्धाद्वृष्णयस्ते च पार्थिवाः ॥ ७४॥
दीर्घकालं महाराज निजघ्नुरितरेतरम् ।
पराजिते त्वपक्रान्ते जरासन्धे महीपतौ ।
विविक्तमभवत् सैन्यं परावृत्तमहारथम् ॥ ७५॥
ते नृपाश्चोदितैर्नागैः स्यन्दनैस्तुरगैस्तथा ।
दुद्रुवुर्भीतमनसो व्याघ्राघ्राता मृगा इव ॥ ७६॥
तन्नरेन्द्रैः परित्यक्तं भग्नदर्पैर्महारथैः ।
घोरं क्रव्यादबहुलं रौद्रमायोधनं बभौ ॥ ७७॥
द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः ।
स्मृत्वा यादवसम्बन्धं कृष्णमेवान्ववर्तत ॥ ७८॥
वृतः कारूषसैन्येन चेदिसैन्येन चानघ ।
सम्बन्धकामो गोविन्दमिदमाह स चेदिराट् ॥ ७९॥
अहं पितृष्वसुर्भर्ता तव यादवनन्दन ।
सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो ॥ २.४३.८०॥
उक्तश्चैष मया राजा जरासन्धोऽल्पचेतनः ।
कृष्णाद् विरम दुर्बुद्धे विग्रहाद् रणकर्मणि ॥ ८१॥
तदेषोऽद्य मया त्यक्तो मम वाक्यस्य दूषकः ।
भग्नो युद्धे जरासन्धस्त्वया द्रवति सानुगः ॥ ८२॥
निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः ।
त्वय्येव भूयोऽप्यपरं दर्शयिष्यति किल्बिषम् ॥ ८३॥
तदिमां सन्त्यजाशु त्वं महीं हतनराकुलाम् ।
क्रव्यादगणसङ्कीर्णां सेवितव्याममानुषैः ॥ ८४॥
करवीरपुरं कृष्ण गच्छामः सबलानुगाः ।
शृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम् ॥ ८५॥
इमौ रथवरोदग्रौ युवयोः कारितौ मया ।
योजितौ शीघ्रतुरगैः स्वङ्गचक्राक्षकूबरौ ॥ ८६॥
शीघ्रमारुह भद्रं ते बलदेवसहायवान् ।
त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम् ॥ ८७॥
वैशम्पायन उवाच ।
पितृष्वसृपतेर्वाक्यं श्रुत्वा चेदिपतेस्तदा ।
वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः ॥ ८८॥
अहो युद्धाभिसन्तप्तौ देशकालोचितं त्वया ।
बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना ॥ ८९॥
देशकालविशिष्टस्य हितस्य मधुरस्य च ।
वाक्यस्य दुर्लभा लोके वक्तारश्चेदिसत्तम ॥ २.४३.९०॥
चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् ।
नावयोः किञ्चिदप्राप्यं ययोस्त्वं बन्धुरीदृशः ॥ ९१॥
जरासन्धस्य निधनं ये चान्ये तत्समा नृपाः ।
पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह ॥ ९२॥
यदूनां प्रथमो बन्धुस्त्वं हि सर्वमहीक्षिताम् ।
अतः प्रभृति सङ्ग्रामान् द्रक्ष्यसे चेदिसत्तम ॥ ९३॥
चाक्रं मौसलमित्येवं सङ्ग्रामं रणवृत्तयः ।
कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्ति पार्थिवाः ॥ ९४॥
राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे ।
श्रवणाद् धारणाद् वापि स्वर्गलोकं व्रजन्ति हि ॥ ९५॥
तद्गच्छाम महाराज करवीरं पुरोत्तमम् ।
त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै ॥ ९६॥
ते स्यन्दनगताः सर्वे पवनोत्पातिभिर्हयैः ।
भेजिरे दीर्घमध्वानं मूर्तिमन्त इवाग्नयः ॥ ९७॥
ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् ।
शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः ॥ ९८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि करवीरपुराभिगमने त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
२.४४ चतुश्चत्वारिंशोऽध्यायः
शृगालाख्यराजवधः The Slaying of King Shrigala
श्रीकृष्णेन शृगालस्य वधं, तस्य पुत्रस्य करवीरपुरस्य राज्ये अभिषेकः
वैशम्पायन उवाच ।
तानागतान् विदित्वाथ शृगालो युद्धदुर्मदः ।
पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ॥ १॥
रथेनादित्यवर्णेन भास्वता रणगामिना ।
आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ॥ २॥
मन्दराचलकल्पेन चित्राभरणभूषिणा ।
अक्षय्यसायकैस्तूणैः पूर्णेनार्णवघोषिणा ॥ ३॥
हर्यश्वेनाशुगतिनासक्तेन शिखरेष्वपि ।
हेमकूबरगर्भेण दृढाक्षेणातिशोभिना ॥ ४॥
सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना ।
स्वगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ॥ ५॥
सावित्रे नियमे पूर्णे यं ददौ सविता स्वयम् ।
आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते ॥ ६॥
तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।
स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा ॥ ७॥
चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः ।
सितप्रावरणोष्णीषः पावकाकारलोचनः ॥ ८॥
मुहुर्मुहुर्ज्याचपलं विक्षिपन् दुःसहं धनुः ।
निर्वमन् रोषजं वायुं सानलज्वालमण्डलम् ॥ ९॥
भाभिर्भूषणपङ्क्तीनां दीप्तो मेरुरिवाचलः ।
रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ॥ २.४४.१०॥
तस्यारसितशब्देन रथनेमिस्वनेन च ।
गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा ॥ ११॥
तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् ।
शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ॥ १२॥
शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना ।
समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ॥ १३॥
वासुदेवं स्थितं दृष्ट्वा शृगालो युद्धलालसः ।
अभिदुद्राव वेगेन मेघराशिरिवाचलम् ॥ १४॥
वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् ।
तद् युद्धमभवत् ताभ्यां समरे घोरदर्शनम् ।
उभाभ्यामिव मत्ताभ्यां कुञ्जराभ्यां यथा वने ॥ १५॥
शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् ।
युद्धरागेण तेजस्वी मोहाच्चलितगौरवः ॥ १६॥
गोमन्ते युद्धमार्गेण यत् त्वया कृष्ण चेष्टितम् ।
अनायकानां मूर्खाणां नृपाणां दुर्बले बले ॥ १७॥
स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।
कृपणानामसत्त्वानामयुद्धानां रणोत्सवे ॥ १८॥
तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे ।
क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः ॥
न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे ।
अहमेकस्त्वमप्येको द्वौ युध्याव रणे स्थितौ ॥ २.४४.२०॥
किं जनेन निरस्तेन त्वं वाहं च रणे स्थितः ।
धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे ॥ २१॥
लोकेऽस्मिन्वासुदेवोऽहं भविष्यामि हते त्वयि ।
हते मयि त्वमप्येको वासुदेवो भविष्यसि ॥ २२॥
शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।
ईर्ष्यन्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे ॥ २३॥
ततः सायकजालानि शृगालः क्रोधमूर्छितः ।
चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ॥ २४॥
शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।
पातयामास गोविन्दे स शृगालः प्रतापवान् ॥ २५॥
शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः ।
निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः ॥ २६॥
सोऽस्त्रप्रहाराभिहतः किञ्चिद् रोषसमन्वितः ।
चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत् ॥ २७॥
तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् ।
जघान समरे चक्रं जातदर्पं महाबलम् ॥ २८॥
ततः सुदर्शनं चक्रं पुनरायाद् गुरोः करे ।
चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः ।
पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः ॥ २९॥
निशम्य तं निपतितं वज्रपातादिवाचलम् ।
तस्य सैन्यान्यपययुर्विमनांसि हते नृपे ॥ २.४४.३०॥
केचित् प्रविश्य नगरं कश्मलाभिहता भृशम् ।
रुरुदुर्दुःखसन्तप्ता भर्तृशोकाभिपीडिताः ॥ ३१॥
केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।
पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः ॥ ३२॥
ततो मेघनिनादेन स्वरेणारिविमर्दनः ।
कृष्णः कमलपत्राक्षो जनानामभयं ददौ ॥ ३३॥
चक्रोचितेन हस्तेन राजतागुङ्लिपर्वणा ।
न भेतव्यं न भेतव्यमिति तानभ्यभाषत ॥ ३४॥
नास्य पापस्य दोषेण निरावाधकरं जनम् ।
घातयिष्यामि समरे नेदं शूरव्रतं मतम् ॥ ३५॥
अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।
ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ॥ ३६॥
चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम् ॥ ३७॥
विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।
साश्रुपातेक्षणा दीनाः शोकस्य वशमागताः ॥ ३८॥
तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।
महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः ॥ ३९॥
तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् ।
स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन् ॥ २.४४.४०॥
उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि ।
निर्दयं ताडयन्त्यस्ता विस्वरं रुरुदुः स्त्रियः ॥ ४१॥
तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।
पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव ॥ ४२॥
तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।
वारिविप्रहतानीव पङ्कजानि चकाशिरे ॥ ४३॥
पुत्रं चास्य पुरस्कृत्य बालं प्रस्नुतलोचनम् ।
शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ॥ ४५॥
अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः ॥
त्वद्धिहीनः कथमयं पदे स्थास्यात पैतृके ॥ ४६॥
कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् ।
अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम् ॥ ४७॥
तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।
रुदती पुत्रमादाय वासुदेवमुपस्थिता ॥ ४८॥
यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।
तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः ॥ ४९॥
यदि त्वां प्रणमेतासौ कुर्याद वा शासनं तव ।
नायमेकप्रहारेण जनस्तप्येत दारुणम् ॥ २.४४.५०॥
यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् ।
नैवं परीतः कृपणः सेवेत धरणीतलम् ॥ ५१॥
अयमस्य विपन्नस्य बान्धवस्य तवानघ ।
सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः ॥ ५२॥
तस्यास्तद् वचनं श्रुत्वा महिष्या यदुनन्दनः ।
मृदुपर्वमिदं वाक्यमुवाच वदतां वरः ॥ ५३॥
राजपत्नि गतो रोषः सहानेन दुरात्मना ।
प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः ॥ ५४॥
रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः ।
योऽयं पुत्रः शृगालस्य ममाप्येष न संशयः ॥ ५५॥
अभयं चाभिषेकं च ददाम्यस्मै सुखाय वै ।
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥ ५६॥
पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् ।
ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा ॥ ५७॥
अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ ।
ततः सिंहासनस्थं तु राजपुत्रं जनार्दनः ॥ ५८॥
अभिषेकेण दिव्येन योजयामास वीर्यवान् ।
अभिषिच्य शृगालस्य करवीरपुरे सुतम् ।
कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत् ॥ ५९॥
रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।
केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा ॥ २.४४.६०॥
शक्रदेवोऽपि धर्मात्मा सह मात्रा परन्तपः ।
सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा ॥ ६१॥
शिबिकायामथारोप्य शृगालं युद्धदुर्मदम् ।
संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ॥ ६२॥
नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् ।
सत्कारं कारयामासुः पितॄणां पारलौकिकम् ॥ ६३॥
उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ।
ततस्ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः ॥ ६४॥
पितर्युपरते घोरे शोकसंविग्नमानसः ।
कृत्वोदकं तदा राजा प्रविवेश पुरोत्तमम् ॥ ६५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
२.४५ पञ्चचत्वारिंशोऽध्यायः
रामकृष्णयोर्मथुरागमनम् Balarama and Krishna arrive in Mathura
बलरामकृष्णाभ्यां मथुरायां प्रत्यागमनम्, स्वागतं च
वैशम्पायन उवाच ।
तौ तु स्वल्पेन कालेन दमघोषेण सङ्गतौ ।
अथाध्वविधिना तौ तु पञ्चरात्रोषितौ पथि ॥ १॥
दमघोषेण सङ्गम्य एकरात्रोषिताविव ।
जग्मतुः सहितौ वीरौ मुदा परमया युतौ ।
नगरीं मथुरां प्राप्तौ वसुदेवसुतावुभौ ॥ २॥
ततः प्रत्युद्गताः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः ॥ ३॥
श्रेण्यः प्रकृतयश्चैव मन्त्रिणश्च यथोचिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत ॥ ४॥
नन्दितूर्याण्यवाद्यन्त स्तूयेतां पुरुषर्षभौ ।
रथ्यां पताकामालिन्यो भासन्ति स्म समन्ततः ॥ ५॥
हृष्टा प्रमुदिता सर्वा पुरी परमशोभिता ।
भ्रात्रोस्तयोरागमने यथैवेन्द्रमहे तथा ॥ ६॥
मुदितास्तत्र गायन्ति राजमार्गेषु गायकाः ।
स्तवाशीर्बहुला गाथा यादवानां प्रियङ्कराः ॥ ७॥
गोविन्दरामौ सम्प्राप्तौ भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं यादवाः सुखम् ॥ ८॥
न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः ।
मथुरायामभूत् कश्चिद् रामकृष्णसमागमे ॥ ९॥
वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाश्चैव भेजिरे मानसं सुखम् ॥ २.४५.१०॥
शिवाश्च प्रववुर्वाता विरजस्का दिशो दश ।
दैवतान्यपि सर्वाणि हृष्यन्त्यायतनेष्वथ ॥ ११॥
यानि लिङ्गानि लोकस्य वृत्तानीह कृते युगे ।
तानि सर्वाण्यदृश्यन्त तयोरागमने तदा ॥ १२॥
ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनौ ।
हरियुक्तेन तौ वीरौ प्रविष्टौ मथुरां पुरीम् ॥ १३॥
प्रविशन्तं पुरीं रम्यां गोविन्दं राममेव च ।
अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥ १४॥
वसुदेवस्य भवनं पितुस्तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥ १५॥
तत्रायुधानि संन्यस्य गृहे स्वे स्वैरचारिणौ ।
मुमुदाते यदुवरौ वसुदेवसुतावुभौ ॥ १६॥
ततस्तु वसुदेवस्य पादौ समभिपीड्य च ।
तत्रोग्रसेनं राजानमन्यांश्च यदुपुङ्गवान् ॥ १७॥
यथान्यायं पूजयित्वा तौ सर्वैश्चाभिनन्दितौ ।
जग्मतुर्हृष्टमनसौ मातुरेव निवेशनम् ॥ १८॥
एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कञ्चित्कालं मुमोदतुः ॥ १९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामकृष्णयोर्मथुरां प्रत्यागमने पञ्चचत्वारिंशोऽध्याय ॥ ४५॥
२.४६ षट्चत्वारिंशोऽध्यायः
रामस्य गोकुल्गमनं यमुनाकर्षणं च SankarShana Drags the Yamuna to Vraja
बलरामस्य व्रजयात्रा, तेन यमुनायाः कर्षणं
वैशम्पायन उवाच ।
कस्यचित् त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम् ।
जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥ १॥
स गतस्तत्र रम्याणि ददर्श विपुलानि वै ।
भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च ॥ २॥
स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः ॥ ३॥
स तानभाषत प्रीत्या यथापूर्वमरिन्दमः ।
गोपांस्तेनैव विधिना यथान्यायं यथावयः ॥ ४॥
तथैव प्राह तान सर्वांस्तथैव परिहर्षयन् ।
तथैव सह गोपीभिर्योजयन्मधुराः कथाः ॥ ५॥
तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं प्रवासात् पुनरागतम् ॥ ६॥
स्वागतं ते महाबाहो यदूनां कुलनन्दन ।
अद्य स्म निर्वृतास्तात यत् त्वां पश्यामहे वयम् ॥ ७॥
प्रीताश्चैव वयं वीर यत् त्वं पुनरिहागतः ।
विख्यातस्त्रिषु लोकेषु रामः शत्रुभयङ्करः ॥ ८॥
वर्धनीया वयं वीर त्वया यादवनन्दन ।
अथवा प्राणिनस्तात रमन्ते जन्मभूमिषु ॥ ९॥
त्रिदशानां वयं मान्या ध्रुवमद्यामलानन ।
ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम् ॥ २.४६.१०॥
दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः ।
उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै ॥ ११॥
समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः ।
वधः पञ्चजनस्यैव जरासन्धेन विग्रहः ।
गोमन्ते च श्रुतोऽस्माभिः क्षत्रियैः सह विग्रहः ॥ १२॥
दरदस्य वधश्चैव जरासन्धपराजयः ।
तत्रायुधावतरणं श्रुत नः परमाहवे ॥ १३॥
वधश्चैव शृगालस्य करवीरपुरोत्तमे ।
तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम् ॥ १४॥
मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः ।
प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः ॥ १५॥
तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः ॥ १६॥
प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् ।
यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः ॥ १७॥
इहावयोर्गतं बाल्यमिह चैवावयो रतम् ।
भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम् ॥ १८॥
गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः ।
अस्माकं बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ॥ १९॥
ब्रुवत्येवं यथातत्त्वं गोपमध्ये हलायुधे ।
संहृष्टवदना भूयो बभूबुर्व्रजयोषितः ॥ २.४६.२०॥
ततो वनान्तरगतो रेमे रामो महाबलः ।
एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने ॥ २१॥
गोपालैर्देशकालज्ञैरुपानीयत वारुणी ।
सोऽपिबत् पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः ॥ २२॥
वनान्तरगतो रामः पानं मदसमीरणम् ।
उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च ॥ २३॥
प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ।
मेध्यांश्च विविधान् गन्धान् भक्ष्यांश्च हृदयङ्गमान् ।
सद्यो हृतानि पद्मानि विकचान्युत्पलानि च ॥ २४॥
शिरसा चारुकेशैन किञ्चिदावृतमौलिना ।
श्रवणैकावलम्बेन कुण्डलेन विराजता ॥ २५॥
चन्दनार्द्रेण पीतेन वनमालावलम्बिना ।
विबभावुरसा रामः कैलासेनेव मन्दरः ॥ २६॥
नीले वसानो वसने प्रत्यग्रजलदप्रभे ।
रराज वपुषा शुभ्रस्तिमिरौघे यथा शशी ॥ २७॥
लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ॥ २८॥
स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥ २९॥
रामस्तु यमुनामाह स्नातुमिच्छे महानदि ।
एहि मामभिगच्छ त्वं रूपिणी सागरङ्गमे ॥ २.४६.३०॥
सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।
नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ॥ ३१॥
ततश्चुक्रोध बलवान् रामो मदसमीरितः ।
चकार स हलं हस्ते कर्षणाधोमुखं बली ॥ ३२॥
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम् ॥ ३३॥
स हलेनानताग्रेण कूले गृह्य महानदीम् ।
चकर्ष यमुनां रामो न्युत्थितां वनितामिव ॥ ३४॥
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।
व्यावर्तत नदी भीता हलमार्गानुसारिणी ॥ ३५॥
लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिनी ।
सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥ ३६॥
पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः ।
फेनमेखलसूत्रैश्च च्छिन्नैरम्बुदगामिनी ॥ ३७॥
तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥ ३८॥
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।
तीरजोद्भूतकेशान्ता जलस्खलितगामिनी ॥ ३९॥
लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥ २.४६.४०॥
कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी ।
उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् ॥ ४१॥
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।
रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥ ४२॥
सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् ।
तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥ ४३॥
प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा ।
विपरीतमिदं रूपं तोयं च मम जायते ॥ ४४॥
असत्यहं नदीमध्ये रौहिणेय त्वया कृता ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥ ४५॥
प्राप्तां मां सागरे पूर्वं सपत्न्यो वेगगर्विताः ।
फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥ ४६॥
प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज ।
सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ॥ ४७॥
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् ।
मूर्ध्ना गच्छामि चरणौ तवैषा लाङ्गलायुध ।
मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज ॥ ४८॥
वैशम्पायन उवाच ।
प्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं मदक्लान्त इद वचः ॥ ४९॥
लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने ।
देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे ॥ २.४६.५०॥
एष ते सुभ्रु सन्देशः कथितः सागरङ्गमे ।
शान्तिं व्रज महाभागे गम्यतां च यथासुखम् ॥ ५१॥
यावत्स्थास्यति लोकोऽयं तावत्तिष्ठतु मे यशः ।
यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः ॥ ५२॥
साधु साध्विति रामाय प्रणामं चक्रिरे तदा ।
तां विसृज्य महाभागा तांश्च सर्वान् व्रजौकसः ॥ ५३॥
ततः सञ्चिन्त्य मनसा रामः प्रहरतां वरः ।
पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ॥ ५४॥
स गत्वा मथुरां रामो भवनं मधुसूदनम् ।
परिवर्तमानं ददृशे पृथिव्याः सारमव्ययम् ॥ ५५॥
तथैवाध्वन्यवेषेण सोपश्लिष्टो जनार्दनम् ।
प्रत्यग्रवनमालेन वक्षसाभिविराजता ॥ ५६॥
स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो ददावासनमुत्तमम् ॥ ५७॥
उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥ ५८॥
प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम् ।
सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि ॥ ५९॥
ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन् कथाः ।
वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा ॥ २.४६.६०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः ॥ ४६॥
२.४७ सप्तचत्वारिंशोऽध्यायः
रुक्मिणीस्वयंवरार्थं कृष्णस्य कुण्डिनपुरं प्रति गमनम् KRiShNa goes to kuNDinapura to attend Rukmini's Svayamvara
श्रीकृष्णस्य यादवैः सह रुक्मिणीस्वयंवरावसरे कुण्डिनपुरे गमनम्, राज्ञा कैशिकेन तेषां सत्कारं
वैशम्पायन उवाच ।
एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।
चक्रायुधगृहं सर्वे लोकपालगृहोपमम् ॥ १॥
तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह ।
कृतसंज्ञा यदुश्रेष्ठाः समेताः कृष्णसंसदि ॥ २॥
समागतेषु सर्वेषु यदुमुख्येषु संसदि ।
प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः ॥ ३॥
जनार्दन नरेन्द्राणां पार्थिवानां समागमः ।
भविष्यति क्षितीशानां समूढानामनेकशः ॥ ४॥
त्वरितास्तत्र गच्छन्ति नानाजनपदेश्वराः ।
कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात् ॥ ५॥
प्रकाशं स्म कथास्तत्र श्रूयन्ते मनुजेरिताः ।
रुक्मिणी किल नामास्ति रुक्मिणः प्रथमा स्वसा ॥ ६॥
भावी स्वयंवरस्तत्र तस्याः किल जनार्दन ।
इत्यर्थमेते सबला गच्छन्ति मनुजाधिपाः ॥ ७॥
तस्यास्त्रैलोक्यसुन्दर्यास्तृतीयेऽहनि यादव ।
रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः ॥ ८॥
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र शिबिराणि महात्मनाम् ॥ ९॥
सिंहशार्दूलदृप्तानां मत्तद्विरदगामिनाम ।
सदा युद्धप्रियाणां हि परस्परममर्षिणाम् ॥ २.४७.१०॥
जयाय शीघ्रं सहिता बलौघेन समन्विताः ।
निरुद्धाः पृथिवीपालाः किमेकान्तचरा वयम् ।
निरुत्साहा भविष्यामो गच्छामो यदुनन्दन ॥ ११॥
श्रुत्वैतत्केशवो वाक्यं हृदि शल्यमिवार्पितम् ।
निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः ॥ १२॥
यादवास्ते बलोदग्राः सर्वे सङ्ग्रामलालसाः ।
निर्ययुः स्यन्दनवरैर्गर्वितास्त्रिदशा इव ॥ १३॥
बलाग्रेण नियुक्तेन हरिरीशानसम्मतः ।
चक्रोद्यतकरः कृष्णो गदापाणिर्व्यरोचत ॥ १४॥
यादवाश्चापरे तत्र वासुदेवानुयायिनः ।
रथैरादित्यसङ्काशैः किङ्किणीप्रतिनादितैः ॥ १५॥
उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः ।
तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितोऽनघ ॥ १६॥
क्षत्त्रिया विकृतिप्रज्ञाः शास्त्रनिश्चितदर्शनाः ।
पुरीं शून्यामिमां वीर जघन्येऽभिपतन्ति ह ॥ १७॥
अस्माकं शङ्किताः सर्वे जरासन्धवशानुगाः ।
मोदन्ते सुखिनस्तत्र देवलोके यथामराः ॥ १८॥
वैशम्पायन उवाच ।
तस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ।
कृष्णस्नेहेन विकृतं बभाषे वचनामृतम् ॥ १९॥
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।
श्रूयतां यदहं त्वद्य वक्ष्यामि रिपुसूदन ॥ २.४७.२०॥
त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।
पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः ॥ २१॥
त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।
बिभीमो नरेन्द्राणां सेन्द्राणामपि मानद ॥ २२॥
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ॥ २३॥
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ॥ २४॥
वैशम्पायन उवाच ।
एवमुक्त्वा तु वै कृष्णो जगामाशु रथेन वै ।
भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ॥ २५॥
प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले ।
रङ्गं सुविपुलं दृष्ट्वा राजसीं तनुमाविशत् ॥ २६॥
वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् ।
मनसा चिन्तयामास वैनतेयं महाबलम् ॥ २७॥
ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः ।
सुखलक्ष्यँ वपुः कृत्वा निलिल्ये केशवान्तिके ॥ २८॥
तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा ।
कम्पिता मनुजाः सर्वे न्युब्जाश्च पतिता भुवि ॥ २९॥
गरुडाभिहताः सर्वे प्रचेष्टन्तो यथोरगाः ।
तान् सन्निपतितान् दृष्ट्वा कृष्णो गिरिरिवाचलः ॥ २.४७.३०॥
स तदा पक्षवातेन मेने पतगसत्तमम् ।
ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम् ॥ ३१॥
पक्षवातेन पृथिवीं चालयन्तं मुहुर्मुहुः ।
पृष्ठासक्तैः प्रहरणैर्लेलिह्यन्तमिवोरगैः ॥ ३२॥
वैष्णवं हस्तसंश्लेषं मन्यमानमवाङ्मुखम् ।
चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम् ॥ ३३॥
हेमपत्रैरुपचितं धातुमन्तमिवाचलम् ।
अमृतारम्भहर्तारं द्विजिह्वेन्द्रविनाशनम् ॥ ३४॥
त्रासनं दैत्यसङ्घानां वाहनं ध्वजलक्षणम् ।
तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं साम्परायिकम् ॥ ३५॥
धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ।
दृष्ट्वा परमसंहृष्टः स्थितं देवमिवापरम् ।
तुल्यसामर्थ्यया वाचा गरुत्मन्तमवस्थितम् ॥ ३६॥
श्रीकृष्ण उवाच ।
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय ॥ ३७॥
व्रज पत्ररथश्रेष्ठ कैशिकस्य निवेशनम् ।
वयं तत्रैव गत्वाद्य प्रतीक्षाम स्वयंवरम् ॥ ३८॥
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र समेतानां महात्मनाम् ॥ ३९॥
एवमुक्त्वा महाबाहुर्वैनतेयं महाबलम् ।
जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः ॥ २.४७.४०॥
वैनतेयसखः श्रीमान् यादवैश्च महारथैः ।
विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने ॥ ४१॥
हृष्टाः प्रमुदिताः सर्वे निवासायोपचक्रमुः ।
सर्वे शस्त्रायुधधरा राजानो बलशालिनः ॥ ४२॥
वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु राजा नयविशारदः ।
कैशिकस्तत उत्थाय प्रहृष्टेनान्तरात्मना ॥ ४३॥
अर्घ्यमाचमनं दत्त्वा स राजा कैशिकः स्वयम् ।
सत्कृत्य विधिवत् कृष्णं स्वपुरं सम्प्रवेशयत् ॥ ४४॥
पूर्वमेव तु कृष्णाय कारितं दिव्यमन्दिरम् ।
विवेश सबलः श्रीमान् कैलासं शङ्करो यथा ॥ ४५॥
खाद्यपानादिरत्नौघैरर्चितो वासवानुजः ।
सुखेन उषितः कृष्णस्तस्य राज्ञो निवेशने ।
पूजितौ बहुमानेन स्नेहपूर्णेन चेतसा ॥ ४६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
२.४८ अष्टचत्वारिंशोऽध्यायः
विदर्भसभायां जरासंधसुनीथयोर्भाषणं Presentations in the vidarbha council by jarAsandha and sunItha
श्रीकृष्णस्य आगमनेन चिन्तितानां राजानां सभायां जरासन्धसुनीथानां भाषणं
वैशम्पायन उवाच ।
ते कृष्णमागतं दृष्ट्वा वैनतेयसहाच्युतम् ।
बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ॥ १॥
ते समेत्य सभां राजन् राजानो भीमविक्रमाः ।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः ॥ २॥
भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् ।
सिंहासनेषु चित्रेषु विचित्रास्तरणेषु च ।
निषेदुस्ते नृपवरा देवा देवसभामिव ॥ ३॥
तेषां मध्ये महाबाहुर्जरासन्धो महाबलः ।
वभाषे स महातेजा देवान् देवेश्वरो यथा ॥ ४॥
जरासन्ध उवाच ।
श्रूयतां भो नृपश्रेष्ठा भीष्मकश्च महामतिः ।
कथ्यमानं मया बुद्ध्या वचनं वदतां वराः ॥ ५॥
योऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली ।
वैनतेयसहायेन सम्प्राप्तः कुण्डिनं त्विह ॥ ६॥
कन्याहेतोर्महातेजा यादवैरभिसंवृतः ।
अवश्यं कुरुते यत्नं कन्यावाप्तिर्यथा भवेत् ॥ ७॥
यदत्र कारणं कार्यं सुनयोपेतमृद्धितम् ।
कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम् ॥ ८॥
पदातिनौ महावीर्यौ वसुदेवसुतावुभौ ।
वैनतेयं विना तस्मिन् गोमन्ते पर्वतोत्तमे ।
कृतवन्तौ महाघोरं भवद्भिर्विदितं हि तत् ॥ ९॥
वृष्णिभिर्यादवैश्चैव भोजान्धकमहारथैः ।
समेत्य युद्धमानस्य कीदृशो विग्रहो भवेत् ॥ २.४८.१०॥
कन्यार्थे यततानेन गरुडस्थेन विष्णुना ।
कः स्थास्यति रणे तस्मिन्नपि शक्रः सुरैः सह ॥ ११॥
यदा चास्मै नापि सुता कदाचित् सम्प्रदीयते ।
ततो ह्ययं बलादेनां नेतुं शक्तः सुरैः सह ॥ १२॥
पुरा एकार्णवे घोरे श्रूयते मेदिनी त्वियम् ।
पातालतलसम्मग्ना विष्णुना प्रभविष्णुना ॥ १३॥
वाराहं रूपमास्थाय उद्धृता जगदादिना ।
हिरण्याक्षश्च दैत्येन्द्रो वराहेण निपातितः ॥ १४॥
हिरण्यकशिपुश्चैव महाबलपराक्रमः ।
अवध्योऽमरदैत्यानामृषिगन्धर्वकिन्नरैः ॥ १५॥
यक्षराक्षसनागानां नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न शुष्केणार्द्रकेण च ॥ १६॥
अवध्यस्त्रिषु लोकेषु दैत्येन्द्रस्त्वपराजितः ।
नरसिंहेन रूपेण निहतो विष्णुना पुरा ॥ १७॥
वामनेन तु रूपेण कश्यपस्यात्मजो बली ।
अदित्या गर्भसम्भूतो बलिर्बद्धोऽसुरोत्तमः ॥ १८॥
सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः ।
कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः ॥ १९॥
दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च ।
जामदग्न्यो महातेजा रेणुकागर्भसम्भवः ॥ २.४८.२०॥
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः ।
पर्शुना(पशुना?)वज्रकल्पेन सप्तद्वीपेश्वरो नृपः ।
विष्णुना निहतो भूयः छद्मरूपेण हैहयः ॥ २१॥
इक्ष्वाकुकुलसम्भूतो रामो दाशरथिः पुरा ।
त्रिलोकविजयं वीरं रावणं संन्यपातयत् ॥ २२॥
पुरा कृतूयुगे विष्णुः सङ्ग्रामे तारकामये ।
षोडशार्द्धभुजो भूत्वा गरुडस्थो हि वीर्यवान् ॥ २३॥
निजघानासुरान् युद्धे वरदानेन गर्वितान् ।
कालनेमिश्च दैतेयो देवानां च भयप्रदः ॥ २४॥
सहस्रकिरणाभेन चक्रेण निहतो युधि ।
महायोगबलेनाजौ विश्वरूपेण विष्णुना ॥ २५॥
अनेन प्राप्तकालास्ते निहता बहवोऽसुराः ।
वने वनचरा दैत्या महाबलपराक्रमाः ॥ २६॥
निहता बालभावेन प्रलम्बारिष्टधेनुकाः ।
शकुनीं केशिनं चैव यमलार्जुनकावपि ॥ २७॥
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः ॥ २८॥
न्यहनद् गोपवेषेण क्रीडमानो हि केशवः ।
एवमादीनि दिव्यानि छद्मरूपाणि चक्रिणा ॥ २९॥
कृतानि दिव्यरूपाणि विष्णुना प्रभविष्णुना ।
तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया ॥ २.४८.३०॥
तं मन्ये केशवं विष्णुं सुराद्यमसुरान्तकम् ।
नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम् ॥ ३१॥
स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् ।
अधृष्यं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ ३२॥
अनादिमध्यनिधनं क्षरमक्षरमव्ययम् ।
स्वयम्भुवमजं स्थाणुमजेयं सचराचरैः ॥ ३३॥
त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् ।
इति मे निश्चिता बुद्धिर्जातोऽयं मथुरामधि ॥ ३४॥
कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् ।
कथमन्यस्य मर्त्यस्य गरुडो वाहनं भवेत् ॥ ३५॥
विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने ।
कः स्थास्यति पुमानद्य गरुडस्याग्रतो बली ॥ ३६॥
स्वयंवरकृतेनासौ विष्णुः स्वयमिहागतः ।
विष्णोरागमने चैव महान् दोषः प्रकीर्तितः ॥ ३७॥
भवद्भिरनुचिन्त्येदं क्रियतां यदनन्तरम् ।
वैशम्पायन उवाच ।
एवं विब्रुवमाणे तु मगधानां जनेश्वरे ॥ ३८॥
सुनीथ उवाच ।
सम्यगाह महाबाहुर्मगधाधिपतिर्नृपः ॥ ३९॥
समक्षं नरदेवानां यथावृत्तं महाहवे ।
गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम् ॥ २.४८.४०॥
गजाश्वरथसम्बाधा पत्तिध्वजसमाकुला ।
निर्दग्धा महती सेना चक्रलाङ्गलवह्निना ॥ ४१॥
तेनायं मागधः श्रीमाननागतमचिन्तयत् ।
ब्रुवते राजसेनायामनुस्मृत्य सुदारुणम् ॥ ४२॥
पदात्योर्युध्यतोस्तत्र बलकेशवयोर्युधि ।
दुर्निवार्यतरो घोरो ह्यभवद् वाहिनीक्षयः ॥ ४३॥
विदितं वः सुपर्णस्य स्वागतस्य नृपोत्तमाः ।
पक्षवेगानिलोद्धूता बभ्रमुर्गगनेचराः ॥ ४४॥
समुद्राः क्षुभिताः सर्वे चचालाद्रिर्मही मुहुः ।
वयं सर्वे सुसन्त्रस्ताः किमुत्पातेति विक्लवाः ॥ ४५॥
यदा सन्नह्य युध्येत आरूढः केशवः खगम् ।
कथमस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे ॥ ४६॥
राज्ञां स्वयंवरो नाम सुमहान् हर्षवर्धनः ।
कृतो नरवरैराद्यैर्यशोधर्मस्य वै विधिः ॥ ४७॥
इदं तु कुण्डिनगरमासाद्य मनुजेश्वराः ।
पुनरेवैष्यते क्षिप्रं महापुरुषविग्रहम् ॥ ४८॥
यदि सा वरयेदन्यं राज्ञां मध्ये नृपात्मजा ।
कृष्णस्य भुजयोर्वीर्यं कः पुमान् प्रसहिष्यति ॥ ४९॥
विज्ञापितमिदं दोषं स्वयंवरमहोत्सवे ।
तदर्थमागतः कृष्णो वयं चैव नराधिपाः ॥ २.४८.५०॥
कृष्णस्यागमनं चैव नृपाणामतिगर्हितम् ।
कन्याहेतोर्नरेन्द्राणां यथा वदति मागधः ॥ ५१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे मागधसुनीथवाक्ये अष्टचत्वारिंशोऽध्यायः ॥ ४८॥
२.४९ एकोनपञ्चाशत्तमोऽध्यायः
दन्तवक्त्रस्य भाषणं भीष्मकस्य निर्णयश्च् Dantavaktra's speech and bhIShmaka's review
दन्तवक्त्रशाल्वयोः भाषणं श्रुत्वा भीष्मकेण श्रीकृष्णस्य प्रभावं वर्णयित्वा
तं प्रसन्नकर्तुमेव निश्चयकरणं
वैशम्पायन उवाच ।
इत्येवमुक्ते वचने सुनीथेन महात्मना ।
करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ॥ १॥
दन्तवक्त्र उवाच ।
यदुक्तं मागधेनात्र सुनीथेन नराधिपाः ।
युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ॥ २॥
न च विद्वेषणेनाहं न चाहङ्कारवादिना ।
न चात्मविजिगीषुत्वाद् दूषयामि वचोऽमृतम् ॥ ३॥
वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।
क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥ ४॥
किं त्वनुस्मरणार्थेऽहं यद् ब्रवीमि शृणुष्व मे ।
आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ॥ ५॥
यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।
किमत्र दोषो गौण्यो वा कन्याहेतोः समागताः ॥ ६॥
यदस्माभिः समेत्यैक्यात् कृतं गोमन्तरोधनम् ।
तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ॥ ७॥
वनवासे स्थितौ वीरौ कंसव्यामोहद्वेतुना ।
देवर्षिवचनाद् राजन् वृन्दावनतटे स्थितौ ॥ ८॥
तावाहूय वधार्थेन उभौ रामजनार्दनौ ।
नागेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥ ९॥
ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।
गतासुरिव चासीनो मथुरेशः सहानुगः ॥ २.४९.१०॥
किमत्र विहितो दोषो येनास्माभिर्वयेऽधिकैः ।
उपरोधपरा राजन् वयं सर्वे समागताः ॥ ११॥
सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।
पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ॥ १२॥
तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः ।
अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ॥ १३॥
रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।
कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ॥ १४॥
दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।
विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।
प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ॥ १५॥
यत्र यत्र प्रयास्यामो वयं तत्र भवेत् कलिः ।
प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥ १६॥
इदं कुण्डिनपुरं कृष्णो नागतः कलिहेतुना ।
कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥ १७॥
मर्त्येऽस्मिन् पुरुषेन्द्रोऽसौ न कश्चित् प्राकृतो नरः ।
देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ॥ १८॥
देवानामपि कर्तासौ लोकानां च विशेषतः ।
न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ॥ १९॥
न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ॥ २.४९.२०॥
आगतो गरुडेनेहच्छद्मप्राकाश्यहेतुना ।
नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ॥ २१॥
इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।
सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ॥ २२॥
अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।
करिष्यामो वयं सर्वे केशवाय महात्मने ॥ २३॥
एवं सन्धानतः कृत्वा कृष्णेन सहिता वयम् ।
वसामो विगतोद्वेगा निर्भया विगतज्वराः ॥ २४॥
तस्य तद वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।
शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ॥ २५॥
शाल्व उवाच ।
किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।
सन्धानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ॥ २६॥
परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।
नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ॥ २७॥
महत्सु राजवंशेषु सम्भूताः कुलवर्द्धनाः ।
तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ॥ २८॥
अहं जानामि वै कृष्णमादिदेवं सनातनम् ।
प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ॥ २९॥
वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।
सम्भूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥ २.४९.३०॥
कंसराजवधार्थाय भारावतरणाय च ।
अस्माकं च विनाशाय लोकसंरक्षणाय च ॥ ३१॥
अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् ।
सङ्ग्राममतुलं कृत्वा विष्णुना सह भूमिपाः ॥ ३२॥
चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।
तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ॥ ३३॥
नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति ।
एवं विनिश्चयं कृत्वा न कुर्यात्कस्यचिद्भयम् ॥ ३४॥
स एव भगवान् विष्णुरालोक्य तपसः क्षयम् ।
निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ॥ ३५॥
बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् ।
कृतवान् देवदेवेशः पातालतलवासिनम् ॥ ३६॥
एवमादीनि वै विष्णोश्चेष्टानि च नराधिपाः ।
तस्मादयुक्तं भवतां विग्रहार्थं विचारणम् ॥ ३७॥
न च सङ्ग्रामहेतोर्हि कृष्णस्यागमनं त्विह ।
यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा ।
किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम् ॥ ३८॥
वैशम्पायन उवाच ।
एवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।
न किञ्चिदब्रवीद् राजा भीष्मकः पुत्रकारणात् ॥ ३९॥
महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।
रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम् ॥ २.४९.४०॥
भीष्मक उवाच ।
कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ॥
नित्याभिमानी च रणे न बिभेति च कस्यचित् ॥ ४१॥
कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः ।
भविष्यति ततो युद्धं महापुरुषविग्रहम् ॥ ४२॥
द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।
जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ॥ ४३॥
कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् ।
कारयिष्ये कथं युद्धं पुत्रेण सह केशवम् ॥ ४४॥
न च नारायणं देवं वरमिच्छति रुक्मवान् ।
मूढभावो मदोन्मत्तः सङ्ग्रामेष्वनिवर्तकः ।
नियतं भस्मसाद् याति तूलराशिर्यथानलात् ॥ ४५॥
करवीरेश्वरः शूरः शृगालश्चित्रयोधिना ।
क्षणेन भस्मसान्नीतः केशवेन बलीयसा ॥ ४६॥
वृन्दावनेऽवसच्छ्रीमान् केशवो बलिनां वरः ।
उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान् गिरिम् ॥ ४७॥
दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् ॥ ४८॥
नगेन्द्रे सहसाऽऽगम्य दैवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः ॥ ४९॥
यथा वै दमितो नागः कालियो यमुनाह्रदे ।
विषाग्निज्वलितो घोरः कालान्तकसमप्रभः ॥ २.४९.५०॥
केशी चापि महावीर्यो दानवो हयविग्रहः ।
निहतो वासुदेवेन देवैरपि दुरासदः ॥ ५१॥
सान्दीपनिसुतश्चैव चिरनष्टो हि सागरे ।
दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ॥ ५२॥
गोमन्ते सुमहद् युद्धे बहुभिर्वेष्टितावुभौ ।
कृत्वा वित्रासजननं नागाश्वरथसङ्क्षयम् ॥ ५३॥
गजेन गजवृन्दानि रथेन रथयोधिनः ।
सादिनश्चाश्वयोधेन नरेण च पदातिनः ।
जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ ॥ ५४॥
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ॥ ५५॥
कृतवन्तस्तथा घोरं गजाश्वरथसङ्क्षयम् ।
तमनुस्मृत्य सङ्ग्रामं भृशं सदिति मे मनः ॥ ५६॥
न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा ।
तादृशो भुवि मर्त्योऽन्यो वासुदेवात्सुरोत्तमात् ॥ ५७॥
सम्यगाह महाबाहुर्दन्तवक्त्रो महीपतिः ।
सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ॥ ५८॥
वैशम्पायन उवाच ।
इति सञ्चिन्त्य मनसा बलाबलविनिश्चयम् ।
गमनाय मतिं चक्रे प्रसादयितुमच्युतम् ॥ ५९॥
चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः ।
सूतमागधबन्दिभ्यो बोधितः स्तुतिमङ्गलैः ॥ २.४९.६०॥
प्रभातायां रजन्यां तु कृतपूर्वाह्णिकक्रियाः ।
उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ॥ ६१॥
ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः ।
तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम् ॥ ६२॥
श्रुत्वा कृष्णाभिषेकं तु केचिद् धृष्टा नराधिपाः ।
केचिद् दीनतरा भीता उदासीनास्तथा परे ॥ ६३॥
त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी ।
महार्णव इव क्षुब्धा अभिषेकेण चालिता ॥ ६४॥
नृपाणां भेदमालोक्य भीष्मको राजसत्तमः ।
व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम् ॥ ६५॥
विचिन्त्य मनसा राजा दह्यमानेन चेतसा ।
जगाम नरदेवानां समाजे प्रतिबोधितुम् ॥ ६६॥
एतस्मिन्नन्तरे दूताः सम्प्राप्ताः क्रथकैशिकौ ।
लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम् ॥ ६७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
२.५० पञ्चाशत्तमोऽध्यायः
भीष्मकसंसदि कृष्णेनाश्वासनम् KRiShNa's assuranace in bhIShmaka's assembly
क्रथकैशिकाभ्यां भगवन्तं श्रीकृष्णं स्वराज्यस्य समर्पणम्, देवराजस्य इन्द्रस्यादेशात् सर्वैः नृपैः भगवन्तः राजेन्द्र पदे अभिषेकः, भगवता सर्वेषां आश्वासनं
जनमेजय उवाच ।
हत्या कंसं महावीर्यं देवैरपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥ १॥
कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।
अमानमतुलं प्राप्य क्षान्तवान् केन हेतुना ॥ २॥
विनतायाः सुतश्चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किमपेक्षिनः ।
एतदाख्याहि भगवन् परं कौतूहलं हि मे ॥ ३॥
वैशम्पायन उवाच ।
ग्दिर्भनगरीं प्र;प्ते वैनतेये सदुरने ।
मनसा चिन्तयामास वासुदेवाय कशिकः ॥ ४॥
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् राजन्यान् प्रवदाम्यहम् ।
वसुदेवसुते दृष्टे ध्रुवं पापक्षयो भवेत् ॥ ५॥
विशुद्धभावः कृष्णस्य आवयोर्दृष्टक्तवतः ।
अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ॥ ६॥
कृष्णात् कमलपत्राक्षाद् दैवदैवाज्जनार्दनात् ।
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ॥ ७॥
एवमन्योन्यं सञ्चिन्त्य भ्रातरौ क्रथकैशिकौ ॥ ८॥
स्वं राज्यं दातुकामोतु जग्मतुः केशवान्तिकम् ।
देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ॥ ९॥
ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस्तृप्ता देवे चावां गृहागते ॥ २.५०.१०॥
चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।
स्फीतकोशा पुरी चेयमावाभ्यां सहिता तव ॥ ११॥
उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ॥ १२॥
आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।
न शक्यतेऽन्यथा कर्तुं जरासन्धेन वा स्वयम् ॥ १३॥
शत्रुस्ते मागधो राजा जरासन्धो महाद्युतिः ।
कथां ते ब्रुवते नित्यं नृपाणामभयप्रदः ॥ १४॥
सिंहासनमनध्यास्यं पुरं चास्य न विद्यते ।
कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ॥ १५॥
कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।
न चागमिष्यते वास्मिन् कन्यार्थे च स्वयंवरे ॥ १६॥
पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।
कथमास्यति नीचेषु आसनेषु महाद्युतिः ॥ १७॥
इति सञ्चोद्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।
आवयोः सह सम्मन्त्र्य विग्रहोपशमाय च ॥ १८॥
तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।
देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ॥ १९॥
मानुष्ये मर्न्यलोकैऽस्मिन् राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूदासनसङ्कटम् ॥ २.५०.२०॥
विदर्भनगरे वैषां राजेन्द्रत्वं विचेष्टय ।
आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ॥ २१॥
अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।
य गमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥ २२॥
एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
भूषयामासतुवीरौ रङ्गमध्ये नृपैर्वृते ॥ २३॥
देवदूतस्य वचनं यथोक्तं वज्रपाणिना ।
लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥ २४॥
कैशिक उवाच ।
विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ॥ २५॥
प्राप्तमालोक्य पात्रोऽयमिति सञ्चिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥ २६॥
इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।
वागुक्ता चाशरीरेण केनापि व्योमचारिणा ॥ २७॥
देवदूत उवाच ।
न युक्तमासनं दातुं त्वयासीनं नराधिप ।
इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥ २८॥
जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिंहलक्षणलक्षितम् ॥ २९॥
अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ॥ २.५०.३०॥
आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः ।
नागमिष्यति यः कश्चित्सोऽस्य वध्यो भविष्यति ॥ ३१॥
इमे चैवाष्टकलशा निधीनामंशसम्भवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः ॥ ३२॥
दिव्या काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः ॥ ३३॥
एष शक्रस्य सन्देशः कथितो वो नराधिपाः ।
लेखेनाहूय तान् सर्वानभिषिञ्चन्तु केशवम् ॥ ३४॥
कैशिक उवाच ।
इति सञ्चोद्य खस्थोऽसौ देवदूतो गतो दिवम् ।
दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम् ॥ ३५॥
तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः ।
दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम् ॥ ३६॥
युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् ।
कलशैरभिषिच्यन्तं स्वयमेव नभस्तलात् ॥ ३७॥
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् ध्रुवं पापक्षयो भवेत् ।
स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे ॥ ३८॥
आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ ।
आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः ॥ ३९॥
सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः ।
विशुद्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः ॥ २.५०.४०॥
मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यदत्र कारणं कार्यं तद् भवद्भिर्विचिन्त्यताम् ॥ ४१॥
वैशम्पायन उवाच ।
एवं सञ्चिन्तयामासुर्नृपाः शापभयार्दिताः ।
भूयः शुश्रुवु राजेन्द्राः केशवाय महात्मने ॥ ४२॥
मेघगम्भीरनादेन स्वरेणापूरयन् नभः ।
वागुवाचाशरीरेण देवराजस्य शासनात् ॥ ४३॥
चित्राङ्गद उवाच ।
त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया ॥ ४४॥
न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः ॥ ४५॥
प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः ।
अनेन सह सम्प्रीत्या मोदध्वं विगतज्वराः ॥ ४६॥
मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां देवता शक्रः शक्रस्यापि जनार्दनः ॥ ४७॥
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।
जातोऽयं मानुषे लोके नररूपेण केशवः ॥ ४८॥
अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्तिकेयसहायस्य अपि शूलभृतः स्वयम् ॥ ४९॥
तस्मै देवाधिदेवाय केशवाय महात्मने ।
अभिषेक्तुं सुरैः सार्द्धं किमिच्छेयमतः परम् ॥ २.५०.५०॥
न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ॥ ५१॥
नुपाणामधिकारोऽयं राजेन्द्रस्य निवेशने ।
गत्वा यूयं विदर्भायां क्रथकैशेकयोः सह ॥ ५२॥
सञ्चिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ।
प्रीतिसन्धानकालोऽयमिति सञ्चिन्त्य वासवः ॥ ५३॥
बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः ।
विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् ॥ ५४॥
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ।
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम् ॥ ५५॥
अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणम् ।
आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम् ॥ ५६॥
जरासन्धः सुनीथश्च रुक्मी चैव महारथः ।
शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः ॥ ५७॥
रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः ।
वैशम्पायन उवाच ।
एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ॥ ५८॥
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ।
अनुज्ञाता नरेन्द्रेण जरासन्धेन धीमता ॥ ५९॥
भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः ।
भीष्मकश्च महाबाहुः स्वबलेन समन्वितः ॥ २.५०.६०॥
जगाम पार्थिवैः सार्द्धं दह्यमानेन चेतसा ।
यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ॥ ६१॥
दूरादेव प्रकाशन्ती पताकाध्वजमालिनी ।
शुभा देवसभा रम्या स्नानहेतोरिहागता ॥ ६२॥
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ।
दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ॥ ६३॥
दिव्यस्रग्दामकलिला दिव्यगन्धाधिवासिता ।
विमानयानैः श्रीमद्भिः समन्तात् परिवारिता ॥ ६४॥
दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा ।
गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः ॥ ६५॥
उपगायन्ति देवेशमम्बरान्तरमाश्रिताः ।
स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः ॥ ६६॥
देवदुन्दुभयश्चैव स्वयमेवानदन् दिवि ।
पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः ॥ ६७॥
समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः ।
स्वयमागत्य देवेन्द्रो दैवैः सह शचीपतिः ॥ ६८॥
विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे ।
अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः ॥ ६९॥
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ।
श्रुत्वा सुतुमुलं नादं सर्व एव नराधिपाः ॥ २.५०.७०॥
विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम् ।
कैशिकश्च महाबाहुरुपगम्य नराधिपान् ॥ ७१॥
प्रवेशयामास बली प्रतिपूज्य यथाविधि ।
निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे ॥ ७२॥
निर्जगाम हरिः श्रीमान् सर्वमङ्गपूजितः ।
ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः ॥ ७३॥
सहकारसमायुक्ता ववर्षुर्जलदा इव ।
दिव्यकाञ्चनरत्नौघैर्दिव्यपुप्पसमन्वितैः ॥ ७४॥
गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने ।
यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ॥ ७५॥
दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभै ।
दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः ॥ ७६॥
सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः ।
शुभे देवसभे रम्ये स्नानहेतोरिहागते ॥ ७७॥
उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः ।
वैनतेयश्च बलवान् कामरूपो नराकृतिः ॥ ७८॥
दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः ।
क्रथश्च कैशिको वीरो वामपार्श्वे तथासने ॥ ७९॥
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ।
तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ॥ २.५०.८०॥
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ।
भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते ॥ ८१॥
सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम् ।
सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः ॥ ८२॥
यथार्हेण च सम्पूज्य राजानः सर्व एव ते ।
सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः ॥ ८३॥
कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥ ८४॥
कैशिक उवाच ।
अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभो ।
भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि ॥ ८५॥
श्रीकृष्ण उवाच ।
न मे वैरं प्रवसति एकाहमपि कैशिक ।
विशेषेण नरेन्द्राणां क्षत्रधर्मऽवतिष्ठताम् ॥ ८६॥
योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे ।
तेषां किं हेतुना कोपः कर्तव्यस्त्ववनीश्वराः ॥ ८७॥
यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः ।
एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च ॥ ८८॥
तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः ।
क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते ॥ ८९॥
वैशम्पायन उवाच ।
एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ॥ २.५०.९०॥
एतस्मिन्नेव काले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥ ९१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः ॥ ५०॥
२.५१ एकपञ्चाशत्तमोऽध्यायः
कृष्णभीष्मकसंवादः Conversation between kRiShNa and bhIShmaka
श्रीकृष्णस्य भीष्मकेण सह संवादः, भीष्मकेण कृष्णस्य स्तुतिः, कृष्णस्य मथुरागमनं
भीष्मक उवाच ।
पुत्रो मे बाल भावेन भगिनीं दातुमिच्छति ।
स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे ॥ १॥
अतीव बालभावत्वाद् दातुमिच्छेन्मतिर्मम ।
एका ह्येकं समालोक्य वरयिष्यति मे मतिः ॥ २॥
अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना ।
प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो ॥ ३॥
श्रीकृष्ण उवाच ।
बालभावेन पुत्रेण चालितं नृपमण्डलम् ।
यदा भवति वै प्रौढः कीदृशोऽविनयो भवेत् ॥ ४॥
सूर्येन्दुसदृशाँल्लोकांस्तपसोपार्जितश्रियः ।
लोकेऽस्मिन् नरदेवानां महाकुलसमुद्भवान् ॥ ५॥
एकस्यापि नृपस्याग्रे मोहाद् यो वितथं वदेत् ।
न स तिष्ठति लोकेऽस्मिन्निर्दहेद्दण्डवह्निना ॥ ६॥
एष धर्मो नरेन्द्राणामिति ते विदितं प्रभो ।
लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयम्भुवा ॥ ७॥
कथं तव सुतस्तेषामग्रतो मनुजेश्वर ।
वक्तुमर्हति राजेन्द्र वितथं राजसंसदि ॥ ८॥
तादृशं रङ्गमतुलं कारयंस्तनयस्तव ।
कथं त्वया ह्यविज्ञात इति मे संशयो महान् ॥ ९॥
आगतानां नरेन्द्राणामनलार्केन्दुवर्चसाम् ।
यथार्हेण तु सम्पूज्य आतिथ्यं कृतवानसि ॥ २.५१.१०॥
रथाश्वनरनागानां विमर्दमतुलं तथा ।
कथं न ज्ञातवान् राजंस्तव पुत्रस्य चेष्टितम् ॥ ११॥
विषादो न भवेदत्र चतुरङ्गबलागमे ।
कथं न ज्ञायते राजन्निति मे बुद्धिसंशयः ॥ १२॥
ममागमनमेवेह प्रायेण न हितं तव ।
अतो न कृतमातिथ्यमपात्राय नरेश्वर ॥ १३॥
पात्रेभ्यो दीयतां कन्या मामपास्य नरेश्वर ।
ममागमनदोषेण कथं कन्यां न दास्यसे ॥ १४॥
कन्याविघ्नं च कुर्वाणो नरके परिपच्यते ।
इति धर्मविदैर्गीतं मन्वादिभिर्नरोत्तमैः ॥ १५॥
अतोऽर्थं न प्रविष्टोऽहं रङ्गमध्ये विशाम्पते ।
विदित्वा न कृतातिथ्यं नरदेव तवालयम् ॥ १६॥
ह्रियाभिभूतो राजेन्द्र पार्थिवोऽहं नराधिप ।
विदर्भनगरे राजन् बलविश्रामहेतुना ॥ १७॥
आवाभ्यां कृतमातिथ्यं कैशिकस्तु प्रियातिथिः ।
उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ ॥ १८॥
वैशम्पायन उवाच ।
एवमेव ब्रुवाणं तु कृष्णं वाग्वज्रचोदितम् ।
श्लक्ष्णवाचाम्बुनाऽऽसिच्य शमितोऽग्निरिव ज्वलन् ॥ १९॥
भीष्मक उवाच ।
प्रसीद देवलोकेश पाहि मां लोकशासन ।
अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव ॥ २.५१.२०॥
मानुष्ये मांसचक्षुष्ट्वादसम्यग्विदिता वयम् ।
न प्रसिद्ध्यन्ति कर्माणि क्रियतामविचारणात् ॥ २१॥
भवन्तं शरणं प्राप्य देवानामपि दैवतम् ।
सम्यग् भवतु मे दृष्टिः सम्पश्यन्तु च मे क्रियाः ॥ २२॥
अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥ २३॥
भवन्तं शरणं प्राप्य नाति बाधति मे भयम् ।
यन्मया चिन्तितं कार्य तद् भवाञ्छ्रोतुमर्हति ॥ २४॥
न दातुमिच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे ।
प्रसादं कुरु देवेश न कोपं कर्तुमर्हसि ॥ २५॥
श्रीकृष्ण उवाच ।
वचनेन किमुक्तेन त्वया राजन् महामते ।
स्वकन्यां दास्यसे नेति कोऽत्र नेता तवानघ ॥ २६॥
मा देहीति न चाख्येयं ददस्वेति न मे वचः ।
रुक्मिण्या दिव्यमूर्तित्वं सम्बन्धे कारणं मम ॥ २७॥
मेरुकूटे पुरा देवैः कृतमंशावतारणम् ।
तदा निसृष्टा श्रीः पूर्वं गच्छ त्वं पतिना सह ॥ २८॥
मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे ।
जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम् ॥ २९॥
तेनाहं वः प्रवक्ष्यामि राजन्नकृतकं वचः ।
श्रुत्वा स्वयं विनिश्चित्य यद्युक्तं तत्करिष्यति ॥ २.५१.३०॥
रुक्मिणी नाम ते कन्या न सा प्राकृतमानुषी ।
श्रीरेषा ब्रह्मवाक्येन जाता केनापि हेतुना ॥ ३१॥
न च सा मनुजेन्द्राणां स्वयंवरविधिक्षमा ।
एका त्वेकाय दातव्या इति धर्मो व्यवस्थितः ॥ ३२॥
न च तां शक्यसे राजँल्लक्ष्मीं दातुं स्वयंवरे ।
सदृशं वरमालोक्य दातुमर्हसि धर्मतः ॥ ३३॥
अतोऽर्थं वैनतेयोऽयं विघ्नकारणहेतुना ।
आगतः कुण्डिनगरे देवराजेन चोदितः ॥ ३४॥
अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् ।
तां च कन्यां वरारोहां पद्मेन रहितां श्रियम् ॥ ३५॥
क्षन्तव्यमिति यत् प्रोक्तं त्वया राजन् ममाग्रतः ।
युक्तिपूर्वमहं मन्ये कलुषाय न पार्थिव ॥ ३६॥
पूर्वमेव मयाऽऽख्यातं येनास्मि विषये तव ।
आगतः सौम्यरूपेण तेनैव क्षान्तवान् विभो ॥ ३७॥
क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा ।
कथमस्मद्विधे राजन् कलुषो वसते हृदि ॥ ३८॥
कुलजे सत्त्वसम्पन्ने धर्मज्ञे सत्यवादिनि ।
भवादृशे कथं राजन् कलुषो भुवि वर्तते ॥ ३९॥
क्षान्तोऽयमिति मन्तव्यं मम सेनासहागतम् ।
न चाहं सेनया सार्द्धं यास्यामि रिपुवाहिनीम् ॥ २.५१.४०॥
अक्षान्तश्चारिसेनायां यास्यामि द्विजवाहने ।
स्थितः सोमार्कसङ्काशान्यायुधानि करैर्वहन् ॥ ४१॥
मान्योऽस्माकं त्वया राजन् वयसा च पिता समः ।
पालयस्व पुरीं सम्यक्क्षत्रेषु पितृवद् वस ॥ ४२॥
कलुषो नाम राजेन्द्र वसेत् कापुरुषेषु वै ।
शूरेषु शुद्धभावेषु कलुषो वसते कथम् ॥ ४३॥
जानीध्वमेषा मे वृत्तिः पुत्रेषु पितृवद् वयम् ।
इमावपि च राजानौ विदर्भनगराधिपौ ॥ ४४॥
आतिथ्यकरणेऽस्माकं स्वराज्यं ददतावुभौ ।
तेन दानफलेनास्य दशपूर्वा दिवं गताः ॥ ४५॥
भविष्याश्चैव राजानः पुत्रपौत्रा दशावराः ।
तेऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः ॥ ४६॥
अनयोः सुचिरं कालं भुक्त्वा राज्यमकण्टकम् ।
यदाभिलाषो मोक्षस्य यास्येते निर्वृतिं सुखम् ॥ ४७॥
नरेन्द्राश्च महाभागा येऽभिषेचितुमागताः ।
कालेन तेऽपि यास्यन्ति देवलोकं त्रिविष्टपम् ॥ ४८॥
स्वस्ति वोऽस्तु गमिष्यामि वैनतेयसहायवान् ।
नगरीं मथुरां रम्यां भोजराजेन पालिताम् ॥ ४९॥
वैशम्पायन उवाच ।
एवमुक्त्वा तु राजानं भीष्मकं यदुनन्दनः ।
राज्ञश्चैवमुपामन्त्र्य वैदर्भाभ्यां विशेषतः ॥ २.५१.५०॥
सभान्निष्क्रम्य देवेशो जगाम रथमन्तिकम् ।
ततः प्रहृष्टो राजर्षिर्भीष्मकः किल केशवम् ॥ ५१॥
ते सर्वे च महीपाला विषण्णवदनाभवन् ।
आद्यं स्वायम्भुवं रूपं सुरासुरनमस्कृतम् ॥ ५२॥
सहस्रपात्सहस्राक्षं सहस्रभुजविग्रहम् ।
सहस्रशिरसं देवं सहस्रमुकुटोज्ज्वलम् ॥ ५३॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् ॥ ५४॥
कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम् ।
दृष्ट्वा स राजा राजेन्द्रं प्रणिपत्य कृताञ्जलिः ॥ ५५॥
वाङ्मनःकायसंयुक्तं स्तोतुमारब्धवांस्तदा ।
भीष्मक उवाच ।
देवदेव नमस्तुभ्यमनादिनिधनाय वै ॥ ५६॥
शाश्वतायादिदेवाय नारायण परायण ।
स्वयम्भुवे च विश्वाय स्थाणवे वेधसाय च ॥ ५७॥
पद्मनाभाय जटिने दण्डिने पिङ्गलाय च ।
हंसप्रभाय हंसाय चक्ररूपाय वै नमः ॥ ५८॥
वैकुण्ठाय नमस्तस्मै अजाय परमात्मने ।
सदसद्भावयुक्ताय पुराणपुरुषाय च ॥ ५९॥
पुरुषोत्तमाय युक्ताय निर्गुणाय नमोऽस्तु ते ।
वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम ॥ २.५१.६०॥
लोकनाथोऽसि नाथ त्वं विष्णुस्त्वं विदितात्मनाम् ।
वैशम्पायन उवाच ।
एवं स्तुत्वा महादेवं नृपाणामग्रतो नृपः ॥ ६१॥
महार्हमणिमुक्ताभिर्वज्रवैदूर्यहासिनम् ।
शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः ॥ ६२॥
पुनश्चक्रे नमस्कारं वैनतेये महाबले ।
भीष्मक उवाच ।
नमस्तस्मै खगेन्द्राय नमो मारुतरंहसे ॥ ६३॥
कामरूपाय दिव्याय काश्यपाय च वै नमः ।
वैशम्पायन उवाच ।
इति सङ्क्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः ॥ ६४॥
ततो विसर्जयामास कृष्णं कमललोचनम् ।
अनुजग्मुर्नृपाश्चैव प्रस्थितं वासवानुजम् ॥ ६५॥
प्रतिगृह्य च सत्कारं नृपानामन्त्र्य वीर्यवान् ।
जगाम मथुरां कृष्णो द्योतयानो दिशो दश ॥ ६६॥
वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम् ।
महता रथवृन्देन परिवार्य समन्ततः ॥ ६७॥
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च ॥ ६८॥
सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहानासीन्महामेघरवोपमः ॥ ६९॥
गते कृष्णे महावीर्ये आदाय वरमासनम् ।
सभामादाय देवाश्च प्रययुस्त्रिदशालयम् ॥ २.५१.७०॥
महता चतुरङ्गेण बलेन परिवारिताः ।
क्रोशमात्रमुपव्रज्य अनुज्ञाते जनार्दने ॥ ७१॥
प्रययुस्ते नृपाः सर्वे पुनरेव स्वयंवरम् ॥ ७२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णाभिषेको नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥
२.५२ द्विपञ्चाशत्तमोऽध्यायः
कालयवनं प्रति शालवगमनम् ShAlva sent to seek kAlayavana's help
शाल्वस्य कथनानुसारेण जरासन्धादिभिः नरेशेभिः शाल्वमेव कालयवनसमीपे दूतरूपेण प्रेषणं
वैशम्पायन उवाच ।
ततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः ।
सभां समाजग्मुः सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते ॥ १॥
सभागतान् सोमरविप्रकाशान् सुखोपविष्टान् रुचिरासनेषु ।
समीक्ष्य राजा सुनयार्थवादी जगाद वाक्यं नरराजसिंहः ॥ २॥
स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः ।
क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम् ॥ ३॥
वैशम्पायन उवाच ।
एवमाभाष्य तान् सर्वान् सत्कृत्य च यथाविधि ।
ततो विसर्जयामास नृपांस्तान् मध्यदेशजान् ॥ ४॥
पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि ।
येऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः ॥ ५॥
यथार्हेण च सम्पूज्य जग्मुस्ते नरपुङ्गवाः ।
जरासन्धः सुनीथश्च दन्तवक्त्रश्च वीर्यवान् ॥ ६॥
शाल्वः सौभपतिश्चैव महाकूर्मश्च पार्थिवः ।
क्रथकैशिकमुख्याश्च नृपाः प्रवरवंशजाः ॥ ७॥
वेणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा ।
एते चान्ये च बहवो दक्षिणापथिका नृपाः ॥ ८॥
श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ।
तान् वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली ॥ ९॥
स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् ।
त्रिवर्गसहितं श्लक्ष्णं षड्गुणालङ्कृतं शुभम् ॥ २.५२.१०॥
उवाच नयसम्पन्नं स्निग्धगम्भीरया गिरा ।
भीष्मक उवाच ।
भवतामवनीशानां समालोक्य नयान्वितम ॥ ११॥
वचनं व्याहृतं श्रुत्वा कृतवान् कार्यमीदृशम् ।
सद्भिर्भवद्भिः क्षन्तव्यं वयं नित्यापराधिनः ॥ १२॥
वैशम्पायन उवाच ।
एवमुक्त्वा तु राजा स भीष्मको नयकोविदः ।
उवाच सुतमुद्दिश्य वचनं राजसंसदि ॥ १३॥
भीष्मक उवाच ।
पुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः ।
मन्ये बालानिमाँल्लोकान् स एष पुरुषः परः ॥ १४॥
कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च विपुलं तथा ।
स्थापितं भुवि मर्त्येऽस्मिन् स्वबाहुबलमूर्जितम् ॥ १५॥
धन्या खलु महाभागा देवकी योषितां वरा ।
पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केशवम् ॥ १६॥
कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥ १७॥
वैशम्पायन उवाच ।
एवं लालप्यमानं तु राजानं राजसंसदि ।
उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः ॥ १८॥
शाल्व उवाच ।
अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।
क्षत्रियस्य रणे राजन् ध्रुवं जयपराजयौ ॥ १९॥
नियता गति मर्त्यानामेष धर्मः सनातनः ।
बलकेशवयोरन्यस्तृतीयः कः पुमानिह ॥ २.५२.२०॥
रणे योधयितुं शक्तस्तव पुत्रं महाबलम् ।
रथातिरथवृन्दानामेक एव रणाजिरे ॥ २१॥
रिपून् बाधयितुं शक्तो धनुर्गृह्य महाभुजः ।
भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम् ॥ २२॥
सृजतो बाहुवीर्येण कः पुमान् प्रसहिष्यति ।
अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः ॥ २३॥
तं विजेता नृलोकेऽस्मिन् नापि शूलधरः स्वयम् ।
तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित् ॥ २४॥
विदित्वा देवमीशानं न योधयति केशवम् ।
अद्य तस्य रणे जेता यवनाधिपतिर्नृप ॥ २५॥
स कालयवनो नाम अवध्यः केशवस्य ह ।
तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ॥ २६॥
रुद्रमाराधयामास द्वादशाब्दानयोऽशनः ।
पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ॥ २७॥
माथुराणामवध्योऽयं भवेदिति च शङ्करात् ।
एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् ॥ २८॥
एवं गार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः ।
माथुराणामवध्योऽयं मथुरायां विशेषतः ॥ २९॥
कृष्णोऽपि बलवानेष माथुरो जातवानयम् ।
स जेष्यति रणे कृष्णं मथुरायां समागतः ॥ २.५२.३०॥
मन्यध्वं यदि वा युक्तां नृपा वाचं मयेरिताम् ।
तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ॥ ३१॥
वैशम्पायन उवाच ।
श्रुत्वा सौभपतेर्वाक्यं सर्वे ते नृपसत्तमाः ।
कुर्म इत्यब्रुवन् हृष्टा जरासन्धं महाबलम् ॥ ३२॥
स तेषां वचनं क्षुत्वा जरासन्धो महीपतिः ।
बभूव विमना राजन् ब्रह्मणो वचनं स्मरन् ॥ ३३॥
जरासन्ध उवाच ।
मां समाश्रित्य पूर्वस्मिन् नृपा नृपभयार्दिताः ।
प्राप्नुवन्ति हृतं राज्यं सभृत्यबलवाहनम् ॥ ३४॥
इह सञ्चोद्यते भूपैः परसंश्रयहेतुना ।
कन्येव स्वपतिद्वेषादन्यं रतिपरायणा ॥ ३५॥
अहो सुबलवद् दैवमशक्यं विनिवर्तितुम् ।
यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम् ॥ ३६॥
नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् ।
श्रेयो हि मरणं मह्यं न चान्यं संश्रये नृपाः ॥ ३७॥
कृष्णो वा बलदेवो वा योवासौ वा नराधिपः ।
हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः ॥ ३८॥
एषा मे निश्चिता बुद्धिरेतत्सत् पुरुषव्रतम् ।
अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम् ॥ ३९॥
भवतां साधुवृत्तानामाबाधं न करोति सः ।
तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ॥ २.५२.४०॥
व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।
गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ॥ ४१॥
अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः ।
रथेनादित्यवर्णेन प्रयाति स्वपुरं बली ॥ ४२॥
यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।
वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे ॥ ४३॥
वैशम्पायन उवाच ।
पुनरेवाब्रवीद् राजा सौभस्य पतिमूर्जितम ।
गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ॥ ४४॥
यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति ।
यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम् ॥ ४५॥
एवं सन्दिश्य सर्वांस्तान् भीष्मकं पूज्य धर्मतः ।
प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ॥ ४६॥
शाल्वोऽपि नृपतिश्रेष्ठस्तांश्च सम्पूज्य धर्मतः ।
जगामाकाशमार्गेण रथेनानिलरंहसा ॥ ४७॥
तेऽपि सर्वे महीपाला दक्षिणापथवासिनः ।
अनुव्रज्य जरासन्धं गताः स्वनगरं प्रति ॥ ४८॥
भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम ।
स्वे गृहे न्यवसद् दीनः कृष्णमेवानुचिन्तयन् ॥ ४९॥
विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् ।
कृप्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम् ॥ २.५२.५०॥
गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।
न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे ।
कृष्णात् कमलपत्राक्षात्सत्यमेतद् वचो मम ॥ ५१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥
२.५३ त्रिपञ्चाशत्तमोऽध्यायः
कालयवनं प्रति जरासंधसंदेशः JarAsandha's message to kAlayavana
कालयवनस्य विशेषता, दूतं भूत्वा राज्ञः शाल्वस्य तं प्रति
गमनं एवं जरासन्धस्य सन्देशकथनं
वैशम्पायन उवाच ।
यवनानां बलोदग्रः स कालयवनो नृपः ।
बभूव राजा धर्मेण रक्षिता पुरवासिनाम् ॥ १॥
त्रिवर्गविदितः प्राज्ञः षड्गुणानुपजीवकः ।
सप्तव्यसनसम्मूढो गुणेष्वभिरतः सदा ॥ २॥
श्रुतिमान् धर्मशीलश्च सत्यवादी जितेन्द्रियः ।
साङ्ग्रामिकविधिज्ञश्च दुर्गलाभानुसारणः ॥ ३॥
शूरोऽप्रतिबलश्चैव मन्त्रिप्रवरसेवकः ।
सुखासीनः सभां रम्यां सचिवैः परिवारितः ॥ ४॥
उपास्यमानो यवनैरात्मविद्भिर्विपश्चितैः ।
विविधाश्च कथा दिव्याः कथ्यमानाः परस्परम् ॥ ५॥
एतस्मिन्नेव काले तु दिव्यगन्धवहोऽनिलः ।
प्रववौ मदनाबोधं चकार सुखशीतलः ॥ ६॥
किंस्विदित्येकमनसः सभायां ये समागताः ।
उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः ॥ ७॥
अपश्यन्त रथं दिव्यमायान्तं भास्करोपमम् ।
शातकुम्भमयैः शुभ्रं रथाङ्गैरुपशोभितम् ॥ ८॥
दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकिनम् ।
वाहितं दिव्यतुरगैर्मनोमारुतरंहसैः ॥ ९॥
चन्द्रभास्करबिम्बानि कृत्वा जाम्बूनदेन तम् ।
रचितं वै विश्वकृता वैयाघ्रवरभूषितम् ॥ २.५३.१०॥
रिपूणां त्रासजननं मित्राणां हर्षवर्द्धनम् ।
दक्षिणादिगुपायन्तं रथं पररथारुजम् ॥ ११॥
तत्रोपविष्टं श्रीमन्तं सौभस्य पतिमूर्जितम् ।
दृष्ट्वा परमसंहृष्टश्चार्घ्यं पाद्येति चासकृत् ॥ १२॥
उवाच यवनेन्द्रस्य मन्त्री मन्त्रविदां वरः ।
तत्रोत्थाय महाबाहुः स्वयमेव नृपासनात् ॥ १३॥
प्रत्युद्गम्यार्घ्यमादाय रथावतरणे स्थितः ।
शाल्वोऽपि च महातेजा दृष्ट्वा राजानमागतम् ॥ १४॥
मुदा परमया युक्तं शक्रप्रतिमतेजसम् ।
अवतीर्य सुविश्रब्ध एक एव रथोत्तमात् ॥ १५॥
विवेश परमं प्रीतो मित्रदर्शनलालसः ।
दृष्ट्वार्घमुद्यतं राजा शाल्वो राजर्षिसत्तमः ॥ १६॥
उवाच श्लक्ष्णया वाचा नार्घार्होऽस्मि महाद्युते ।
दूतोऽहं मनुजेन्द्राणां सकाशाद् भवतोऽन्तिकम् ॥ १७॥
प्रेषितो बहुभिः सार्द्ध जरासन्धेन धीमता ।
तेन मन्ये महाराज नार्घार्होऽस्मीति राजसु ॥ १८॥
कालयवन उवाच ।
जानाम्यहं महाबाहो दौत्येन त्वामिहागतम् ।
साहित्ये नरदेवानां प्रेषितो मागधेन वै ॥ १९॥
तेन त्वामर्चये राजन् विशेषेण महामते ।
अर्घ्यपाद्यादिसत्कारैरासनेन यथाविधि ॥ २.५३.२०॥
भवत्यभ्यर्चिते राज्ञां सर्वेषामर्चितं भवेत् ।
आस्यतामासने शुभ्रे मया सार्द्धं जनेश्वर ॥ २१॥
वैशम्पायन उवाच ।
स हस्तालिङ्गनं कृत्वा पृष्ट्वा च कुशलामयम् ।
सुखोपविष्टौ सहितौ शुभे सिंहासने स्थितौ ॥ २२॥
कालयवन उवाच ।
यद्बाहुबलमाश्रित्य वयं सर्वे नराधिपाः ।
वसामो विगतोद्विग्ना देवा इव शचीपतिम् ॥ २३॥
किमसाध्यं भवेदस्य येनासि प्रेषितो मयि ।
वद सत्यं वचस्तस्य किमाज्ञापयति प्रभुः ।
करिष्ये वचनं तस्य अपि कर्म सुदुष्करम् ॥ २४॥
शाल्व उवाच ।
यथा वदति राजेन्द्र मगधाधिपतिस्तव ।
तथाहं सम्प्रवक्ष्यामि श्रूयतां यवनाधिप ॥ २५॥
जरासन्ध उवाच ।
जातोऽयं जगतां बाधी कृष्णः परमदुर्जयः ।
विदित्वा तस्य दुर्वृत्तमहं हन्तुं समुद्यतः ॥ २६॥
पार्थिवैर्बहुभिः सार्द्धं समग्रबलवाहनैः ।
उपरुध्य महासैन्यैर्गोमन्तमचलोत्तमम् ॥ २७॥
चेदिराजस्य वचनं महार्थं श्रुतवानहम् ।
तदा तयोर्विनाशाय हुताशनमयोजयम् ॥ २८॥
ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् ।
दृष्ट्वा रामो गिरेः कूटादाप्लुतो हेमतालधृक् ॥ २९॥
विनिष्पत्य महासेनां मध्ये सागरसन्निभाम् ।
आजघान दुराधर्षो नराश्वरथदन्तिनाम् ॥ २.५३.३०॥
सर्पन्तमिव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् ।
नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ॥ ३१॥
गजेन गजमास्फाल्य रथेन रथयोधिनम् ।
हयेन च हयारोहं पदातेन पदातिनम् ॥ ३२॥
समरे स महातेजा नृपार्कशतसङ्कुले ।
विचरन्विविधान् मार्गान्निदाघे भास्करो यथा ॥ ३३॥
रामादनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् ।
चक्रं चक्रभृतां श्रेष्ठः सिंहः क्षुद्रमृगं यथा ॥ ३४॥
प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् ।
शत्रुसैन्ये पपातोच्चैर्यदुवीरः प्रतापवान् ॥ ३५॥
प्रनृत्यन्निव शैलेन्द्रस्तोयधाराभिषेचितः ।
घूर्णमानो विवेशोर्वीं विनिर्वाप्य हुताशनम् ॥ ३६॥
आदीप्यमानशिखरादवप्लुत्य जनार्दनः ।
जघान वाहिनीं राजंश्चक्रव्यग्रेण पाणिना ॥ ३७॥
विक्षिप्य विपुलं चक्रं गदापातादनन्तरम् ।
नरनागाश्ववृन्दानि मुसलेन व्यचूर्णयत् ॥ ३८॥
क्रोधानिलसमुद्धूतचक्रलाङ्गलवह्निना ।
निर्दग्धा महती सेना नरेन्द्रार्काभिपालिता ॥ ३९॥
नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
रथानीकं पदाताभ्यां क्षणेन विदलीकृतम् ॥ २.५३.४०॥
सेनां प्रभग्नामालोक्य चक्रानलभयार्दिताम् ।
महता रथवृन्देन परिवार्य समन्ततः ॥ ४१॥
तत्राहं युद्ध्यमानस्तु भ्रातास्य बलवान् बली ।
स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ॥ ४२॥
द्वादशाक्षौहिणीर्हत्वा प्रभिन्न इव केसरी ।
हलं सौनन्दमुत्सृज्य गदया मामताडयत् ॥ ४३॥
वज्रपातनिभं वेगं पातयित्वा ममोपरि ।
भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् ॥ ४४॥
वैशाखं स्थानमास्थाय गुहः क्रौञ्चं यथा पुरा ।
तथा मां दीर्घनेत्राभ्यामीक्षते निर्दहन्निव ॥ ४५॥
तादृग्रूपं समालोक्य बलदेवं रणाजिरे ।
जीवितार्थी नृलोकेऽस्मिन् कः पुमान् स्थातुमर्हति ॥ ४६॥
गृहीत्वा स गदां भीमां कालदण्डमिवोद्यताम् ।
कालाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम ॥ ४७॥
ततो जलदगम्भीरस्वरेणापूरयन् नभः ।
वागुवाचाशरीरेण स्वयं लोकपितामहः ॥ ४८॥
प्रहर्तव्यो न राज्ञायमवध्योऽयं तवानघ ।
कल्पितोऽस्य वधोऽन्यस्माद् विरमस्व हलायुध ॥ ४९॥
श्रुत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः ।
सर्वप्राणहरं घोरं ब्रह्मणा स्वयमीरितम् ॥ २.५३.५०॥
तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया ।
श्रुत्वा त्वमेव राजेन्द्र कर्तुमर्हसि तद् वचः ॥ ५१॥
तपसोग्रेण महता पुत्रार्थी तोष्य शङ्करम् ।
प्राप्तवान् देवदेव त्वामवध्यं माथुरैर्जनैः ॥ ५२॥
महामुनिश्चायसचूर्णमश्नन्नुपस्थितो द्वादशवार्षिकं व्रतम् ।
सुरासुरैः संस्तुतपादपङ्कजः स लब्धवानीप्सितकामसम्पदम् ॥ ५३॥
तपोबलाद् गार्ग्यमुनेर्महात्मनो वरप्रभावाच्छकलैन्दुमौलिनः ।
भवन्तमासाद्य जनार्दनो हिमं विलीयते भास्कररश्मिना यथा ॥ ५४॥
यतस्व राज्ञां वचनप्रचोदितो व्रजस्व यात्रां विजयाय केशवम् ।
प्रविश्य राष्ट्रं मथुरां च सेनया निहत्य कृष्णं प्रथयन् स्वकं यशः ॥ ५५॥
माथुरो वासुदेवोऽयं बलदेवः सबान्धवः ।
तौ विजेष्यसि सङ्ग्रामे गत्वा तां मथुरां पुरीम् ॥ ५६॥
शाल्व उवाच ।
इत्येवं नरपतिभास्करप्रगीतं वाक्यं ते कथितमिदं हितं नृपाणाम् ।
तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या यद्युक्तं कुरु मनुजेन्द्र चात्मनिष्ठम् ॥ ५७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शाल्ववाक्ये त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥
२.५४ चतुष्पञ्चाशत्तमोऽध्यायः
कालयवनवाक्यम् KAlayavana's reply
राजानां अनुरोधं स्वीकृत्वा श्रीकृष्णोपरि विजयं प्राप्तुं कालयवनस्य प्रस्थानं
वैशम्पायन उवाच ।
एवं कथयमानं तं शाल्वराजं नृपाज्ञया ।
उवाच परमप्रीतो यवनाधिपतिर्नृपः ॥ १॥
कालयवन उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं मम ।
कृष्णनिग्रहहेतोर्यन्नियुक्तो बहुभिर्नृपैः ॥ २॥
दुर्जयस्त्रिषु लोकेषु सुरासुरगणैरपि ।
तस्य निग्रहहेतोर्मामवधार्य जयाशिषम् ॥ ३॥
प्रहृष्टै राजसिंहैस्तैरवधार्यो जयो मम ।
तेषां वाचाम्बुवर्षेण विजयो मे भविष्यति ॥ ४॥
करिष्ये वचनं तेषां नृपसत्तमचोदितम् ।
पराजयोऽपि राजेन्द्र जयेन सदृशो मम ॥ ५॥
अद्यैव तिथिनक्षत्रं मुहूर्तं करणं शुभम् ।
यास्यामि मथुरां राजन् विजेतुं केशवं रणे ॥ ६॥
वैशम्पायन उवाच ।
एवमाभाष्य राजानं सौभस्य पतिमूर्जितम् ।
सत्कृत्य च यथान्यायं महार्हमणिभूषणैः ॥ ७॥
ब्राह्मणेभ्यो ददौ वित्तं सिद्धादेशाय वै नृपः ।
पुरोहिताय राजेन्द्र प्रददौ बहुशो धनम् ॥ ८॥
हुत्वाग्निं विधिवद् राजा कृतकौतुकमङ्गलः ।
प्रस्थानं कृतवान् सम्यग् जेतुकामो जनार्दनम् ॥ ९॥
शाल्वोऽपि भरतश्रेष्ठ कृतार्थो हृष्टमानसः ।
यवनेन्द्रं परिष्वज्य जगाम स्वपुरं नृपः ॥ २.५४.१०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कालयवनवाक्ये चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४॥
२.५५ पञ्चपञ्चाशत्तमोऽध्यायः
द्वारवतीप्रयाणसङ्केतः Agreement to shift to dvAravati
गरुडस्य श्रीकृष्णस्य निवासयोग्यां भूमिं द्रष्टुं गमनम्, मथुरायां राजेन्द्रस्य
श्रीकृष्णस्य स्वागतम्, श्रीकृष्णेन राज्ञः उग्रसेनस्य एवं मथुरावासिनां
सत्कारं एवं गरुडस्य प्रत्यागत्य कुशस्थलीविषये कथनं
जनमेजय उवाच ।
विदर्भनगराद् याते शक्रतुल्यपराक्रमे ।
किमर्थं गरुडो नीतः किं च कर्म चकार सः ॥ १॥
न चारुरोह भगवान् वैनतेयं महाबलम् ।
एतन्मे संशयं ब्रह्मन् ब्रूहि तत्त्वं महामुने ॥ २॥
वैशम्पायन उवाच ।
शृणु राजन् सुपर्णेन कृतं कर्मातिमानुषम् ।
विदर्भनगरीं गत्वा वैनतेयो महाद्युतिः ॥ ३॥
असम्प्राप्ते च नगरीं मथुरां मधुसूदने ।
मनसा चिन्तयामास वैनतेयो महाद्युतिः ॥ ४॥
यदुक्तं देवदेवेन नृपाणामग्रतः प्रभो ।
यास्यामि मथुरां रम्यां भोजराजेन पालिताम् ॥ ५॥
इति तद्वचनस्यान्ते गमिष्येति विचिन्तयन् ।
कृताञ्जलिपुटः श्रीमान् प्रणिपत्याब्रवीदिदम् ॥ ६॥
गरुड उवाच ।
देव यास्यामि नगरीं रैवतस्य कुशस्थलीम् ।
रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम् ॥ ७॥
रुक्मिणोद्वासितां रम्यां शैलोदधितटाश्रयाम् ।
वृक्षगुल्मलताकीर्णां पुष्परेणुविभूषिताम् ॥ ८॥
गजेन्द्रभुजगाकीर्णामृक्षवानरसेविताम् ।
वराहमानुषाक्रान्तां मृगयूथैरनेकशः ॥ ९॥
तां समन्तात् समालोक्य वासार्थं ते क्षमां क्षमा ।
यदि स्याद् भवतो रम्या प्रशस्ता नगरीति च ॥ २.५५.१०॥
कण्टकोद्धरणं कृत्वा आगमिष्ये तवान्तिकम् ।
वैशम्पायन उवाच ।
एवं विज्ञाप्य देवेशं प्रणिपत्य जनार्दनम् ॥ ११॥
जगाम पतगेन्द्रोऽपि पश्चिमाभिमुखो बली ।
कृष्णोऽपि यदुभिः सार्द्धं विवेश मथुरां पुरीम् ॥ १२॥
स्वैरिण्य उग्रसेनश्च नागराश्चैव सर्वशः ।
प्रत्युद्गम्यार्चयन् कृष्णं प्रहृष्टजनसङ्कुलम् ॥ १३॥
जनमेजय उवाच ।
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर्वसुधाधिपैः ।
किं चकार महाबाहुरुग्रसेनो महीपतिः ॥ १४॥
वैशम्पायन उवाच ।
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिः पार्थिवोत्तमैः ।
इन्द्रेण कृतसन्धानं दूतं चित्राङ्गदं कृतम् ॥ १५॥
एकैकं नृपतेर्भागं शतसाहस्रसम्मितम् ।
राजेन्द्रे त्वर्बुदं दत्तं मानवेषु च वै दश ॥ १६॥
ये तत्र समनुप्राप्ता न रिक्तास्ते गृहं गताः ।
शङ्खो यादवरूपेण प्रददौ हरिचिन्तितम् ॥ १७॥
एवं निधिपतिः श्रीमान् दैवतैरनुमोदितः ।
इति श्रुत्वात्मिकजनाल्लोकप्रवृत्तिकान्नरात् ॥ १८॥
चकार महतीं पूजां देवतायतनेष्वपि ।
वसुदेवस्य भवने तोरणोभयपार्श्वतः ॥ १९॥
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताकाध्वजमालाढ्यां कारयामास वै नृपः ॥ २.५५.२०॥
कंसराजस्य च सभां विचित्राम्बरसुप्रभाम् ।
पताका विविधाकारा दापयामास भोजराट् ॥ २१॥
तोरणं गोपुरं चैव सुधापङ्कानुलेपनम् ।
कारयामास राजेन्द्रो राजेन्द्रस्यासनालयम् ॥ २२॥
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताका वनमालाढ्याः पूर्णकुम्भाः समन्ततः ॥ २३॥
राजमार्गेषु राजेन्द्र चन्दनोदकसेचितम् ।
वस्त्राभरणकं राजा दापयामास भूतले ॥ २४॥
धूपं पार्श्वोभये चैव चन्दनागुरुगुग्गुलैः ।
गुडं सर्जरसं चैव दह्यमानं ततस्ततः ॥ २५॥
वृद्धस्त्रीजनसङ्घैश्च गायद्भिः स्तुतिमङ्गलम् ।
अर्घं कृत्वा प्रतीक्षन्ते स्वेषु स्थानेषु योषितः ॥ २६॥
एवं कृत्वा पुरानन्दमुग्रसेनो नराधिपः ।
वसुदेवगृहं गत्वा प्रियाख्यानं निवेद्य च ॥ २७॥
रामेण सह सम्मन्त्र्य निर्गतो रथमन्तिकम् ।
तस्मिन्नेवान्तरे राजञ्शङ्खध्वनिरभून्महान् ॥ २८॥
पाञ्चजन्यस्य निनदं श्रुत्वा मधुरवासिनः ।
स्त्रियो वृद्धाश्च बालाश्च सूता मागधबन्दिनः ॥ २९॥
विनिर्ययुर्महासेना रामं कृत्वाग्रतो नृप ।
अर्घ्य पाद्यं पुरस्कृत्य उग्रसेनेन धीमता ॥ २.५५.३०॥
दृष्टिपन्थानमासाद्य उग्रसेनो महीपतिः ।
अवतीर्य रथाच्छुभ्रात् पादमार्गेण चाग्रतः ॥ ३१॥
दृष्ट्वाऽऽसीनं रथे रम्ये दिव्यरत्नविभूषितम् ।
अङ्गेष्वाभरणं चैव दिव्यरत्नप्रभायुतम् ॥ ३२॥
वनमालोरसं दिव्यं तपन्तमिव भास्करम् ।
चामरं व्यजनं छत्रं खगेन्द्रध्वजमुच्छ्रितम् ॥ ३३॥
राजलक्षणसम्पूर्णमासन्नार्कमिवोज्ज्वलम् ।
श्रियाभिभूतं देवेशं दुर्निरीक्ष्यतरं हरिम् ॥ ३४॥
दृष्ट्वा स राजा राजेन्द्र हर्षगद्गदया गिरा ।
बभाषे पुण्डरीकाक्षं रामं बलनिषूदनम् ॥ ३५॥
रथेन न मया गन्तुं युक्तपूर्वेति चिन्त्य वै ।
अवतीर्णो महाभाग गच्छ त्वं स्यन्दनेन च ॥ ३६॥
विष्णुना छद्मरूपेण गत्वेमां मथुरां पुरीम् ।
अनुप्रकाशितात्मानं देवेन्द्रत्वं नृपार्णवे ॥ ३७॥
तमहं स्तोतुमिच्छामि सर्वभावेन केशवम् ।
प्रत्युवाच महातेजा राजानं कृष्णपूर्वजः ॥ ३८॥
न युक्तं नृपते स्तोतुं व्रजन्तं देवसत्तमम् ।
विना स्तोत्रेण सन्तुष्टस्तव राजञ्जनार्दनः ॥ ३९॥
तुष्टस्य स्तुतिना किं ते दर्शनेन तव स्तुतिः ।
राजेन्द्रत्वमनुप्राप्य आगतस्तव वेश्मनि ॥ २.५५.४०॥
न त्वया स्तुतवान्राजन्दिव्यैः स्तोत्रैरमानुषैः ।
एवमाब्रुवमाणौ तौ सम्प्राप्तौ केशवान्तिकम् ॥ ४१॥
अर्घोद्यतभुजं दृष्ट्वा स्थापयित्वा रथोत्तमम् ।
उवाच वदतां श्रेष्ठ उग्रसेनं नराधिपम् ॥ ४२॥
यन्मया चाभिषिक्तस्त्वं मथुरेशो भवत्विति ।
न युक्तमन्यथा कर्तुं मथुराधिपते स्वयम् ॥ ४३॥
अर्घ्यमाचमनीयं च पाद्यं चास्मै निवेदितम् ।
न दातुमर्हसे राजन्नेष मे मनसः प्रियः ॥ ४४॥
तवाभिप्रायं विज्ञाय ब्रवीमि नृपते वचः ।
त्वमेव माथुरो राजा नान्यथा कर्तुमर्हसि ॥ ४५॥
स्थानभागं च नृपते दास्यामि तव दक्षिणम् ।
यथा नृपाणां सर्वेषां तथा ते स्थापितोऽग्रतः ॥ ४६॥
शतसाहस्रिको भागो वस्त्राभरणवर्जितः ।
आरुहस्व रथं शुभ्रं चामीकरविभूषितम् ॥ ४७॥
चामरं व्यजनं छत्रं ध्वजं च मनुजेश्वर ।
दिव्याभरणसंयुक्तं मुकुटं भास्करप्रभम् ॥ ४८॥
धारयस्व महाभाग पालयस्व पुरीमिमाम् ।
पुत्रपौत्रैः प्रमुदितो मथुरां परिपालय ॥ ४९॥
जित्वारिगणसङ्घांश्च भोजवंशं विवर्द्धय ।
देवदेवाद्यनन्ताय शौरिणे वज्रपाणिना ॥ २.५५.५०॥
प्रेषितं देवराजेन दिव्याभरणमम्बरम् ।
माथुराणां च सर्वेषां भागा दीनारका दश ॥ ५१॥
सूतमागधबन्दीनामेकैकस्य सहस्रकम् ।
वृद्धस्त्रीजनसङ्घानां गणिकानां शतं शतम् ॥ ५२॥
नृपेण सह तिष्ठन्ति विकद्रुप्रमुखाश्च ये ।
दशसाहस्रिको भागस्तेषां धात्रा प्रकल्पितः ॥ ५३॥
वैशम्पायन उवाच ।
एवं सम्पूज्य राजानं माथुराणां चमूमुखे ।
कृत्वा सुमहदानन्दां मथुरां मधुसूदनः ॥ ५४॥
दिव्याभरणमाल्यैश्च दिव्याम्बरविलेपनैः ।
दीप्यमानाः समन्ताच्च देवा इव त्रिविष्टपे ॥ ५५॥
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च ॥ ५६॥
सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहानासीन्मेघनाद इवाम्बरे ॥ ५७॥
बन्दिभिः स्तूयमानं च नमश्चक्रुरपि प्रजाः ।
दत्त्वा दानमनन्तं च न ययौ विस्मयं हरिः ॥ ५८॥
स्वभावोन्नतभावत्वाद् दृष्टपूर्वात्ततोऽधिकम् ।
अनहङ्कारभावाच्च विस्मयं न जगाम ह ॥ ५९॥
दीप्यमानं स्ववपुषा आयान्तं भास्करप्रभम् ।
दृष्ट्वा मथुरवासिन्यो नमश्चक्रुः पदे पदे ॥ २.५५.६०॥
एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः ।
नागपर्यङ्कमुत्सृज्य प्राप्तोऽयं मथुरां पुरीम् ॥ ६१॥
बद्ध्वा बलिं महावीर्यं दुर्जयं त्रिदशैरपि ।
शक्राय प्रददौ राज्यं त्रैलोक्यं वज्रपाणये ॥ ६२॥
हत्वा दैत्यगणान् सर्वान् कंसं च बलिनां वरम् ।
भोजराजाय मथुरां दत्त्वा केशिनिषूदनः ॥ ६३॥
नाभिषिक्तः स्वयं राज्ये न चासीनो नृपासने ।
राजेन्द्रत्वं च सम्प्राप्य मथुरामाविशत्ततः ॥ ६४॥
एवमन्योन्यसञ्जल्पं श्रुत्वा पुरनिवासिनाम् ।
बन्दिमागधसूतानामिदमूचुर्गणाधिपाः ॥ ६५॥
किं वा शक्यामहे वक्तुं गुणानां ते गुणोदधे ।
मानुषेणैकजिह्वेन प्रभावोत्साहसम्भवान् ॥ ६६॥
स तत्र भोगी नागेन्द्रः कदाचिद्देव बुद्धिमान् ।
द्विसाहस्रेण जिह्वेन वासुकिः कथयिष्यति ॥ ६७॥
किं त्वद्भुतमिदं लोके मानवेन्द्रेषु भूतले ।
न भूतं न भविष्यं च शक्रादासनमागतम् ॥ ६८॥
सभावतरणं चैव कलशैरागतं स्वयम् ।
न श्रुतं न च दृष्टं वा तेन मन्यामहेऽद्भुतम् ॥ ६९॥
धन्या देवी महाभागा देवकी योषितां वरा ।
भवन्तं त्रिदशश्रेष्ठं धृत्वा गर्भेण केशवम् ॥ २.५५.७०॥
कृष्णं पद्मपलाशाक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥ ७१॥
इति सञ्जल्पमानानां शृण्वन्तौ पृथगीरितम् ।
उग्रसेनं पुरस्कृत्य भ्रातरौ रामकेशवौ ॥ ७२॥
प्राकारद्वारि सम्प्राप्तावर्चयामास वै तदा ।
अर्घ्यमाचमनं दत्त्वा पाद्यं पाद्येति चाब्रवीत् ॥ ७३॥
उग्रसेनस्ततो धीमान् केशवस्य रथाग्रतः ।
प्रणम्य शिरसा कृष्णं गजमारुह्य वीर्यवान् ॥ ७४॥
घनवत् तोयधारेण ववर्ष कनकाम्बुभिः ।
घनौघैर्वर्षमाणस्तु सम्प्राप्तः पितृवेश्मनि ॥ ७५॥
मथुराधिपतिः श्रीमानुवाच मधुसूदनम् ।
राजेन्द्रत्वमनुप्राप्य युक्तं मे नृपवेश्मनि ॥ ७६॥
स्थापितुं देवराजेन दत्तं सिंहासनं प्रभो ।
नेष्यामि मथुरेशस्य सभां भुजबलार्जिताम् ॥ ७७॥
प्रसादयिष्ये भगवन् न कोपं कर्तुमर्हसि ।
देवकी वसुदेवश्च रोहिणी च विशाम्पते ॥ ७८॥
न किञ्चित्करणे शक्ता हर्षक्लमविमोहिता ।
कंसमाता ततो राजन्नर्चयामास केशवम् ॥ ७९॥
नानादिग्देशजानीतं कंसेनोपार्जितं धनम् ।
देशकालं समालोक्य पादयुग्मे न्यवेदयत् ॥ २.५५.८०॥
उग्रसेनं समाहूय उवाच श्लक्ष्णया गिरा ।
श्रीकृष्ण उवाच ।
न चाहं मथुराकाङ्क्षी न मया वित्तकाङ्क्षया ॥ ८१॥
घातितस्तव पुत्रोऽयं कालेन निधनं गतः ।
यजस्व विविधान्यज्ञान् ददस्व विपुलं धनम् ॥ ८२॥
जयस्व रिपुसैन्यानि मम बाहुबलाश्रयात् ।
त्यजस्व मनसस्तापं कंसनाशोद्भवं भयम् ॥ ८३॥
नयस्व वित्तनिचयं मया दत्तं पुनस्तव ।
इति प्राश्वास्य राजानं कृष्णस्तु हलिना सह ॥ ८४॥
प्रविवेश ततः श्रीमान् मातापित्रोरथान्तिकम् ।
आनन्दपरिपूर्णाभ्यां हृदयाभ्यां महाबलौ ॥ ८५॥
पितृमात्रोस्तु पादान् वै नमश्चक्रतुरानतौ ।
तस्मिन् मुहूर्ते नगरी मथुरा तु बभूव सा ॥ ८६॥
स्वर्गलोकं परित्यज्यावतीर्णेवामरावती ।
वसुदेवस्य भवनं समीक्ष्य पुरवासिनः ॥ ८७॥
मनसा चिन्तयामासुर्देवलोकं न भूतलम् ।
विसृज्य मथुरेशं तु महिषीसहितं तदा ॥ ८८॥
भवनं वसुदेवस्य प्रविश्य बलकेशवौ ।
न्यस्तशस्त्रावुभौ वीरौ स्वगृहे स्वैरचारिणौ ॥ ८९॥
ततः कृताह्निकौ भूत्वा सुखासीनौ कथान्तरे ।
एतस्मिन्नेव काले तु महोत्पातो बभूव ह ॥ २.५५.९०॥
बभ्रमुश्च घनाकाशे चेलुश्च भुवि पर्वताः ।
समुद्राः क्षुभिताः सर्वे विभ्रान्तो भोगिनां वरः ॥ ९१॥
कम्पिता यादवाः सर्वे न्युब्जाश्च पतिता भुवि ।
तौ तान्निपतितान्दृष्ट्वा रामकृष्णौ तु निश्चलौ ॥ ९२॥
महता पक्षवातेन विज्ञातौ पतगोत्तमम् ।
ददर्श समनुप्राप्तं दिव्यस्रगनुलेपनम् ॥ ९३॥
प्रणम्य शिरसा ताभ्यां सौम्यरूपी कृतासनः ।
तं दृष्ट्वा समनुप्राप्तं सचिवं साम्परायिकम् ॥ ९४॥
धृतिमन्तं गरुत्मन्तमुवाच बलिसूदनः ।
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ॥ ९५॥
विनताहृदयानन्द स्वागतं केशवप्रिय ।
तमुवाच ततः कृष्णः स्थितं देहमिवापरम् ॥ ९६॥
तुल्यसामर्थ्यया वाचा आसीनं विनतात्मजम् ।
श्रीकृष्ण उवाच ।
यास्यामः पतगश्रेष्ठ भोजस्यान्तःपुरं महत् ॥ ९७॥
तत्र गत्वा सुखासीना मन्त्रयामो मनोगतम् ।
वैशम्पायन उवाच ।
प्रविष्टौ तौ महावीर्यौ बलदेवजनार्दनौ ॥ ९८॥
वैनतेयतृतीयौ च गुह्यं मन्त्रमथाब्रुवन् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥ ९९॥
वृतः सैन्येन महता महद्भिश्च नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ॥ २.५५.१००॥
न शक्ष्यामः क्षयं कर्तुं जरासन्धस्य वाहिनीम् ।
अतोऽर्थं वैनतेय त्वां ब्रवीमि मथुरां पुरीम् ॥ १०१॥
वसतोरावयोः श्रेयो न भवेदिति मे मतिः ।
गरुड उवाच ।
देवदेवं नमस्कृत्य गतोऽहं भवतोऽन्तिकात् ॥ १०२॥
वासार्थमीक्षितुं भूमिं तव देव कुशस्थलीम् ।
गत्वाहं खे समास्थाय समन्तादवलोक्य ताम् ॥ १०३॥
दृष्ट्वाहं विबुधश्रेष्ठ पुरीं लक्षणपूजिताम् ।
सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् ॥ १०४॥
सर्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ।
सर्वरत्नाकरवतीं सर्वकामफलद्रुमाम् ॥ १०५॥
सर्वर्तुकुसुमाकीर्णां सर्वतः सुमनोहराम् ।
सर्वाश्रमाधिवासां च सर्वकामगुणैर्युताम् ॥ १०६॥
नरनारीसमाकीर्णां नित्यामोदविवर्द्धिनीम् ।
प्राकारपरिखोपेतां गोपुराट्टालमालिनीम् ॥ १०७॥
विचित्रचत्वरपथां विपुलद्वारतोरणाम् ।
यन्त्रार्गलविचित्राख्यां हेमप्राकारशोभिताम् ॥ १०८॥
नरनागाश्वकलिलां रथसैन्यसमाकुलाम् ।
नानादिग्देशजाकीर्णां दिव्यपुष्पफलद्रुमाम् ॥ १०९॥
पताकाध्वजमालाढ्यां महाभवनशालिनीम् ।
भीषणीं रिपुसङ्घानां मित्राणां हर्षवर्द्धनीम् ॥ २.५५.११०॥
मनुजेन्द्राधिवासेभ्यो विशिष्टां नगरोत्तमाम् ।
रैवतं च गिरिश्रेष्ठं कुरु देव सुरालयम् ॥ १११॥
नन्दनप्रतिमं दिव्यं पुरद्वारस्य भूषणम् ।
कारयस्वाधिवासं च तत्र गत्वा सुरोत्तम ॥ ११२॥
कुमारीणां प्रचारश्च सुरमण्यो भविष्यति ।
नाम्ना द्वारवती ज्ञेया त्रिषु लोकेषु विश्रुता ॥ ११३॥
भविष्यति पुरी रम्या शक्रस्येवामरावती ।
यदि स्यात् संवृतां भूमिं प्रदास्यति महोदधिः ॥ ११४॥
यथेष्टं विविधं कर्म विश्वकर्मा करिष्यति ।
मणिमुक्ताप्रवालाभिर्वज्रवैदूर्यसप्रभैः ॥ ११५॥
दिव्यैरभिप्राययुतैर्दिव्यरत्नैस्त्रिलोकजैः ।
दिव्यस्तम्भशताकीर्णान् स्वर्गे देवसभोपमान् ॥ ११६॥
जाम्बुनदमयाञ्छुभ्रान् सर्वरत्नविभूषितान् ।
दिव्यध्वजपताकाढ्यान् देवगन्धर्वपालितान् ॥ ११७॥
चन्द्रसूर्यप्रतीकाशान् प्रासादान् कारय प्रभो ।
वैशम्पायन उवाच ।
एवं कृत्वा तु सङ्कल्पं वैनतेयोऽथ केशवम् ॥ ११८॥
प्रणम्य शिरसा ताभ्यां निषसाद कृतासनः ।
कृष्णोऽपि रामसहितो विचिन्त्य हितमीरितम् ॥ ११९॥
प्रकाशकर्तुकामौ तौ विसृज्य विनतात्मजम् ।
सत्कृत्य विधिवद् राजन् महार्हवरभूषणैः ॥ २.५५.१२०॥
मोदेते सुखिनौ तत्र सुरलोके यथामरौ ।
तस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ॥ १२१॥
कृष्णं स्नेहेन विस्रब्धं बभाषे वचनामृतम् ।
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ॥ १२२॥
श्रूयतां वचनं त्वाद्य वक्ष्यामि रिपुसूदन ।
त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ॥ १२३॥
पुरेऽस्मिन् विषयान्ते वा पतिहीना इव स्त्रियः ।
त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ॥ १२४॥
बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद ।
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ॥ १२५॥
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ।
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ॥ १२६॥
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ॥ १२७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णस्य मथुरागमनमहोत्सवो
द्वारवतीप्रयाणसङ्केतो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
२.५६ षट्पञ्चाशत्तमोऽध्यायः
कालयवनस्याभियोगो द्वारवतीप्रयाणं च KAlayavana's invasion, and migration to dvAravati
श्रीकृष्णस्याज्ञया यादवानां द्वारकापुरीं प्रस्थानं
वैशम्पायन उवाच ।
कस्यचित्त्वथ कालस्य सभ्यांस्तान् यदुसंसदि ।
बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ॥ १॥
यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।
वयं चैवेह सम्भूता व्रजे च परिवर्द्धिताः ॥ २॥
तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।
नृपेषु जनितं वैरं जरासन्धेन विग्रहः ॥ ३॥
वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।
रत्नानि च विचित्राणि मित्राणि च बहूनि च ॥ ४॥
इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।
वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ॥ ५॥
कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।
एषामपीह वसतां सम्मर्दमुपलक्षये ॥ ६॥
अत्र नो रोचते मह्यं निवासो यदुपुङ्गवाः ।
पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ॥ ७॥
एतद् यदनुरूपं वो ममाभिप्रायजं वचः ।
भवाय भवतां काले यदुक्तं यदुसंसदि ॥ ८॥
तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।
साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ॥ ९॥
ततः सम्मन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥ २.५६.१०॥
कृतः सैन्यक्षयश्चापि महानिह नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।
न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ॥ ११॥
तस्मिंश्चैवान्तरे राजा सकालयवनस्तदा ।
सैन्येन तद्विधेनैव मथुरामभ्युपागमत् ॥ १२॥
ततो जरासन्धबलं दुर्निवार्यमभूत् तदा ।
ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ॥ १३॥
केशवः पुनरेवाह यादवान् सत्यसङ्गरः ।
अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ॥ १४॥
ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् ।
ओघा इव समुद्रस्य बलौघप्रतिनादिताः ॥ १५॥
सङ्गृह्य ते कलत्राणि वसुदेवपुरोगमाः ।
सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ॥ १६॥
आहत्य दुन्दुभीन् सर्वे स्वजनज्ञातिबान्धवाः ।
निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ॥ १७॥
स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।
सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ॥ १८॥
स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।
प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ॥ १९॥
ततो मुख्यतमाः सर्वे यादवा रणकोविदाः ।
अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥ २.५६.२०॥
ते स्म नानालताचित्रं नारिकेलवनायुतम् ।
कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ॥ २१॥
तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।
अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ॥ २२॥
ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।
मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ॥ २३॥
पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा ।
ददर्श विपुलं देशं सागरेणोपशोभितम् ॥ २४॥
वाहनानां हितं चैव सिकताताम्रमृत्तिकम् ।
पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ॥ २५॥
सागरानिलसंवीतं सागराम्बुनिषेवितम् ।
विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥ २६॥
तत्र रैवतको नाम पर्वतो नातिदूरतः ।
मन्दरोदारशिखरः सर्वतोऽभिविराजते ॥ २७॥
तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् ।
प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ॥ २८॥
विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।
नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥ २९॥
केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।
निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥ २.५६.३०॥
ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः ।
सेनापालांश्च सञ्चक्रुः स्कन्धावारनिवेशनम् ॥ ३१॥
ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः ।
देशे पुरनिवेशाय स यदुप्रवरो विभुः ॥ ३२॥
तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः ।
निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ॥ ३३॥
एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः ।
सुखिनो न्यवसन् राजन् स्वर्गे देवगणा इव ॥ ३४॥
कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ।
जरासन्धभयाच्चैव पुरीं द्वारवतीं ययौ ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारवतीप्रयाणे षट्पञ्चाशत्तमोऽध्यायः ॥ ५६॥
२.५७ सप्तपञ्चाशत्तमोऽध्यायः
कालयवनवधम् KAlayavana's death
कालयवनस्य वधं
जनमेजय उवाच ।
भगवञ्छ्रोतुमिच्छामि विस्तरेण महात्मनः ।
चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः ॥ १॥
किमर्थं च परित्यज्य मथुरां मधुसूदनः ।
मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम् ॥ २॥
शृङ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् ।
आर्याढ्यजलभूयिष्ठमधिष्ठानवरोत्तमम् ॥ ३॥
अयुद्धेनैव दाशार्हस्त्यक्तवान् द्विजसत्तम ।
स कालयवनश्चापि कृष्णे किं प्रत्यपद्यत ॥ ४॥
द्वारकां च समासाद्य वारिदुर्गां जनार्दनः ।
किं चकार महाबाहुर्महायोगी महातपाः ॥ ५॥
किं वीर्यः कालयवनः केन जातश्च वीर्यवान् ।
यमसह्यं समालक्ष्य व्यपयातो जनार्दनः ॥ ६॥
वैशम्पायन उवाच ।
वृष्णीनामन्धकानां च गुरुर्गार्ग्यो महामनाः ।
ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति ॥ ७॥
तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् ।
श्यालोऽभिशस्तवान् गार्ग्यमपुमानितिराजनि ॥ ८॥
सोऽभिशस्तस्तदा राजन् नगरे त्वजितं जये ।
अलिप्संस्तु स्त्रियं चैव तपस्तेपे सुदारुणम् ॥ ९॥
ततो द्वादशवर्षाणि सोऽयश्चूर्णमभक्षयत् ।
आराधयन् महादेवमचिन्त्यं शूलपाणिनम् ॥ २.५७.१०॥
रुद्रस्तस्मै वरं प्रादात् समर्थं युधि निग्रहे ।
वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम् ॥ ११॥
ततः शुश्राव तं राजा यवनाधिपतिर्वरम् ।
पुत्रप्रसवजं दैवादपुत्रः पुत्रकामिता ॥ १२॥
स नृपस्तमुपानाय्य सान्त्वयित्वा द्विजोत्तमम् ।
तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत् ॥ १३॥
गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी ।
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ १४॥
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ।
स कालयवनो नाम जज्ञे शूरो महाबलः ॥ १५॥
अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
तस्मिन्नुपरते राजन् स कालयवनो नृपः ॥ १६॥
युद्धाभिकामो नृपतिः पर्यपृच्छद्द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य नारदेन निवेदितम् ॥ १७॥
ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः ।
उपप्रैक्षत तेजस्वी वर्द्धन्तं यवनेषु तम् ॥ १८॥
समृद्धो हि यदा राजा यवनानां महाबलः ।
तत एवं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा ॥ १९॥
शकास्तुषारा दरदाः पारदाः शृङ्गलाः खसाः ।
पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा ॥ २.५७.२०॥
स तैः परिवृतो राजा दस्युभिः शलभैरिव ।
नानावेषायुधैर्भीमैर्मथुरामभ्यवर्तत ॥ २१॥
गजवाजिखरोष्ट्राणामयुतैरर्बुदैरपि ।
पृथिवीं कम्पयामास सैन्येन महता वृतः ॥ २२॥
रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः ।
मूत्रेण शकृता चैव सैन्येन ससृजे नदीम् ॥ २३॥
अश्वोष्ट्रशकृतां राशेर्निस्सृतेति जनाधिप ।
ततोऽश्वशकृदित्येवं नाम नद्या बभूव ह ॥ २४॥
तत्सैन्यं महदायाद् वै श्रुत्वा वृष्ण्यन्धकाग्रणीः ।
वसुदेवः समानाय्य ज्ञातीनिदमुवाच ह ॥ २५॥
इदं समुत्थितं घोरं वृष्ण्यन्धकभयं महत् ।
अवध्यश्चापि नः शत्रुर्वरदानात् पिनाकिनः ॥ २६॥
सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः ।
मत्तो मदबलाभ्यां तु युद्धमेव चिकीर्षति ॥ २७॥
एतावानिह वासश्च कथितो नारदेन मे ।
एतावति च वक्तव्यं सामैव परमं मतम ॥ २८॥
जरासन्धश्च नो राजा नित्यमेव न मृष्यते ।
तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः ॥ २९॥
केचित् कंसवधाच्चापि विरक्तास्तद्गता नृपाः ।
समाश्रित्य जरासन्धमस्मानिच्छन्ति बाधितुम् ॥ २.५७.३०॥
बहवो ज्ञातयश्चैव यदूनां निहता नृपैः ।
वर्द्धितुं नैव शक्ष्याम पुरेऽस्मिन्निति केशवः ॥ ३१॥
अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ।
ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम् ॥ ३२॥
घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत् तदा ।
ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत् ॥ ३३॥
निदर्शनार्थं गोविन्दो भीषयामास तं नृपम् ।
स दूतः कालयवने दर्शयामास तं घटम् ॥ ३४॥
कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ ॥
तत्कालयवनो बुद्ध्वा त्रासनं यादवैः कृतम् ॥ ३५॥
पिपीलिकानां चण्डानां पूरयामास तं घटम् ।
स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः ।
भक्ष्यमाणःकिलाङ्गेषु भस्मीभूतोऽभवत्तदा ॥ ३६॥
तं मुद्रयित्वा तु घटं तथैव यवनाधिपः ।
प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् ॥ ३७॥
वासुदेवस्तु तं दृष्ट्वा योगं विहतमात्मनः ।
उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् ॥ ३८॥
वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः ।
निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह ॥ ३९॥
पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।
आजगाम महावीर्यो मथुरां मधुसूदनः ॥ २.५७.४०॥
तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा ।
प्रेक्षापूर्वं च कृष्णोऽपि निश्चकर्ष महाबलः ॥ ४१॥
अथाभ्यगच्छद् गोविन्दं जिघृक्षुर्यवनेश्वरः ।
न चैनमशकद् राजा ग्रहीतुं योगधर्मिणम् ॥ ४२॥
मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः ।
पुरा देवासुरे युद्धे कृतकर्मा महाबलः ॥ ४३॥
वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान् ।
श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत् किल ॥ ४४॥
प्रसुप्तं बोधयेद् यो मां तं दहेयमहं सुराः ।
चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः ॥ ४५॥
एवमस्त्विति तं शक्र उवाच त्रिदशैः सह ।
स सुरैरभ्यनुज्ञातो ह्यद्रिराजमुपागमत् ॥ ४६॥
स पर्वतगुहां काञ्चित् प्रविश्य श्रमकर्शितः ।
सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् ॥ ४७॥
तत्सर्वं वासुदेवाय नारदेन निवेदितम् ।
वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः ॥ ४८॥
कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा ।
तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ॥ ४९॥
शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।
सन्दर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः ॥ २.५७.५०॥
अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् ।
स तं सुप्तं कृतान्ताभमाससाद सुदुर्मतिः ॥ ५१॥
वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् ।
पादेनात्मविनाशाय शलभः पावकं यथा ॥ ५२॥
मुचुकुन्दस्तु राजर्षिः पादस्पर्शप्रबोधितः ।
निद्राच्छेदेन चुक्रोध पादस्पर्शेन तेन च ॥ ५३॥
संस्मृत्य स वरं शक्रादवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रोधेन सम्प्रजज्वाल सर्वशः ॥ ५४॥
ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः ।
क्षणेन कालयवनं नेत्रतेजोविनिर्गतः ॥ ५५॥
तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम् ।
कृतकार्योऽब्रवीद् धीमानिदं वचनमुत्तमम् ॥ ५६॥
राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे ।
कृतं मे सुमहत्कार्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ ५७॥
वासुदेवमुपालक्ष्य राजा ह्रस्वं प्रमाणतः ।
परिष्कृतं युगं मेने कालेन महता तदा ॥ ५८॥
उवाच राजा गोविन्दं को भवान् किमिहागतः ।
कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् ॥ ५९॥
श्रीकृष्ण उवाच ।
सोमवंशोद्भवो राजा ययातिर्नाम नाहुषः ।
तस्य पुत्रो यदुर्ज्येष्ठश्चत्वारोऽन्ये यवीयसः ॥ २.५७.६०॥
यदुवंशात् समुत्पन्नं वसुदेवात्मजं विभो ।
वासुदेवं विजानीहि नृपते मामिहागतम् ॥ ६१॥
त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् ।
इदं कलियुगं विद्धि किमन्यत् करवाणि ते ॥ ६२॥
मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप ।
अवध्यो यो मया सङ्ख्ये भवेद् वर्षशतैरपि ॥ ६३॥
वैशम्पायन उवाच ।
इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् ।
अन्वीयमानः कृष्णेन कृतकार्येण धीमता ॥ ६४॥
ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः ।
स्वल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः ।
परेणाधिष्ठितं चैव राज्यं केवलमात्मनः ॥ ६५॥
प्रीत्या विसृज्य गोविन्दं प्रविवेश महद् वनम् ।
हिमवन्तमगाद् राजा तपसे धृतमानसः ॥ ६६॥
ततः स तप आस्थाय विनिर्मुच्य कलेवरम् ।
आरुरोह दिवं राजा कर्मभिः स्वैर्जिताशुभैः ॥ ६७॥
वासुदेवोऽपि धर्मात्मा उपायेन महामनाः ।
घातयित्वाऽऽत्मनः शत्रुं तत्सैन्यं प्रत्यपद्यत ॥ ६८॥
प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् ।
आदायोपययौ धीमान्ससैन्यं निहतेश्वरम् ॥ ६९॥
निवेदयामास ततो नराधिपे तदुग्रसेने प्रतिपूर्णमानसः ।
जनार्दनो द्वारवतीं च तां पुरीमशोभयत् तेन धनेन भूरिणा ॥ २.५७.७०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कालयवनवधे सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७॥
२.५८ अष्टपञ्चाशत्तमोऽध्यायः
द्वारवतीनगरनिर्माणम् Building the city of dvAravati
द्वारकापुर्याः विश्वकर्मणा निर्माणं, निधिपतेः शङ्खस्य एवं सुधर्मासभायाः आनयनम्, श्रीकृष्णेन तत्र यादवानां वसतिहेतु व्यवस्थाकरणम्, बलरामस्य रेवत्या सह विवाहः
वैशम्पायन उवाच ।
ततः प्रभाते विमले भास्करे उदिते तदा ।
कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह ॥ १॥
परिचक्राम तं देशं दुर्गस्थानदिदृक्षया ।
उपतस्थुः कुलप्राग्र्या यादवा यदुनन्दनम् ॥ २॥
रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् ।
पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान् क्रियाम् ॥ ३॥
ततः पङ्कजपत्राक्षो यादवान् केशिसूदनः ।
प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर्यथा ॥ ४॥
कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् ।
नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति ॥ ५॥
इयं द्वारवती नाम पृथिव्यां निर्मिता मया ।
भविष्यति पुरी रम्या शक्रस्येवामरावती ॥ ६॥
तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च ।
चत्वरान् राजमार्गांश्च सम्यगन्तःपुराणि च ॥ ७॥
देवा इवात्र मोदन्तु भवन्तो विगतज्वराः ।
बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः ॥ ८॥
गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः ।
मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः ॥ ९॥
प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु ।
नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ॥ २.५८.१०॥
एवमुक्ते तु यदवो गृहसङ्ग्रहतत्पराः ।
यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् ॥ ११॥
सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः ।
पुण्येऽहनि महाराज द्विजातीनभिपूज्य च ॥ १२॥
वास्तुदैवतकर्माणि विधिना कारयन्ति च ।
स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः ॥ १३॥
अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।
विविक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ॥ १४॥
ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा ।
दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि ॥ १५॥
यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च ।
स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम् ॥ १६॥
अपामग्नेः सुरेशस्य दृषदोलूखलस्य च ।
चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते ॥ १७॥
शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च ।
तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु ॥ १८॥
पुर्याः क्षिप्तं निवेशार्थं चिन्तयामास माधवः ।
तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ॥ १९॥
पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी ।
शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः ॥ २.५८.२०॥
विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ।
मनसा समनुध्याय तस्यागमनकारणात् ।
त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत ॥ २१॥
तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः ।
विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ॥ २२॥
विश्वकर्मोवाच ।
शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत ।
किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते ॥ २३॥
यथासौ देवदेवो मे शङ्करश्च यथाव्ययः ।
तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो ॥ २४॥
त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज ।
एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ॥ २५॥
श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः ।
प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः ॥ २६॥
श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः ।
अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम ॥ २७॥
तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ।
मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः ॥ २८॥
उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती ।
तथेयं हि त्वया कार्या शक्तो ह्यसि महामते ॥ २९॥
मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा ।
मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ॥ २.५८.३०॥
एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः ।
कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् ॥ ३१॥
सर्वमेतत् करिष्यामि यत् त्वयाभिहितं प्रभो ।
पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति ॥ ३२॥
भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना ।
चत्वारः सागराह्यस्यां विचरिष्यन्ति रूपिणः ॥ ३३॥
यदीच्छेत्सागरः किञ्चिदुत्स्रष्टुमपि तोयराट् ।
ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम ॥ ३४॥
एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः ।
सागरं सरितां नाथमुवाच वदतां वरः ॥ ३५॥
समुद्र दश च द्वे च योजनानि जलाशये ।
प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता ॥ ३६॥
अवकाशे त्वया दत्ते पुरीयं मामकं बलम् ।
पर्याप्तविषया रम्या समग्रं विसहिष्यति ॥ ३७॥
ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः ।
स मारुतेन योगेन उत्ससर्ज जलाशयम् ॥ ३८॥
विश्वकर्मा ततः प्रीतः पुर्याः संलक्ष्य वास्तु तत् ।
गोविन्दे चैव सम्मानं कृतवान् सागरस्तदा ॥ ३९॥
विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् ।
अद्यप्रभृति गोविन्द सर्वे समधिरोहत ॥ २.५८.४०॥
मनसा निर्मिता चेयं मया पूः प्रवरा विभो ।
अचिरेणैव कालेन गृहसम्बाधमालिनी ॥ ४१॥
भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा ।
चयाट्टालककेयूरा पृथिव्यां ककुदोपमा ॥ ४२॥
अन्तःपुरं च कृष्णस्य परिचर्याक्षयं महत् ।
चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते ॥ ४३॥
ततः सा निर्मिता कान्ता पुरी द्वारावती तदा ।
विधानविहितद्वारा प्राकारवरशोभिता ।
परिखाचयसङ्गुप्ता साट्टप्राकारतोरणा ॥ ४५॥
कान्तनारीनरगणा वणिग्भिरुपशोभिता ।
नानापण्यगणाकीर्णा खेचरीव च गां गता ॥ ४६॥
प्रपावापीप्रसन्नोदा उद्यानैरुपशोभिता ।
समन्ततः संवृताङ्गी वनितेवायतेक्षणा ॥ ४७॥
समृद्धचत्वरवती वेश्मोत्तमघनाचिता ।
रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा ॥ ४८॥
भूषयन्ती समुद्रं सा स्वर्गमिन्द्रपुरी यथा ।
पृथिव्यां सर्वरत्नानामेका निचयशालिनी ॥ ४९॥
सुराणामपि सुक्षेत्रा सामन्तक्षोभकारिणी ।
अप्रकाशं तदाकाशं प्रासादैरुपकुर्वती ॥ २.५८.५०॥
पृथिव्यां पृथुराष्ट्रायां जनौघप्रतिनादिता ।
ओघैश्च वारिराजस्य शिशिरीकृतमारुता ॥ ५१॥
अनूपोपवनैः कान्तैः कान्त्या जनमनोहरा ।
सतारका द्यौरिव सा द्वारका प्रत्यराजत ॥ ५२॥
प्राकारेणार्कवर्णेन शातकौम्भेन संवृता ।
हिरण्यप्रतिवर्णैश्च गृहैर्गम्भीरनिःस्वनैः ॥ ५३॥
शुभ्रमेघप्रतीकाशैर्द्वारैः सौधैश्च शोभिता ।
क्वचित् क्वचिदुदग्राग्रैरुपावृतमहापथा ॥ ५४॥
तामावसत् पुरीं कृष्णः सर्वे यादवनन्दनाः ।
अभिप्रेतजनाकीर्णा सोमः खमिव भासयन् ॥ ५५॥
विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव ।
जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः ॥ ५६॥
भूयश्च बुद्धिरभवत् कृष्णस्य विदितात्मनः ।
जनानिमान् धनौघैश्च तर्पयेयमहं यदि ॥ ५७॥
स वैश्रवणसंस्पृष्टं निधीनामुत्तमं निधिम् ।
शङ्खमाह्वयतोपेन्द्रो निशि स्वं भवने प्रभुः ॥ ५८॥
स शङ्खः केशवाह्वानं ज्ञात्वा हि निधिराट् स्वयम् ।
आजगाम समीपं वै तस्य द्वारवतीपतेः ॥ ५९॥
स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः ।
कृष्णं विज्ञापयामास यथा वैश्रवणं तथा ॥ २.५८.६०॥
भगवन् किं मया कार्यं सुराणां वित्तरक्षिणा ।
नियोजय महाबाहो यत् कार्यं यदुनन्दन ॥ ६१॥
तमुवाच हृषीकेशः शङ्खं गुह्यकमुत्तमम् ।
जनाः कृशधना येऽस्मिंस्तान् धनेनाभिपूरय ॥ ६२॥
नेच्छाम्यनशितं द्रष्टुं कृशं मलिनमेव च ।
देहीति चैव याचन्तं नगर्यां निर्धनं नरम् ॥ ६३॥
वैशम्पायन उवाच ।
गृहीत्वा शासनं मूर्ध्ना निधिराट् केशवस्य ह ।
निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे ॥ ६४॥
धनौघैरभिवर्षध्वं चक्रुः सर्वं तथा च ते ।
नाधनो विद्यते तत्र क्षीणभाग्योऽपि वा नरः ॥ ६५॥
कृशो वा मलिनो वापि द्वारवत्यां कथञ्चन ।
द्वारवत्यां पुरि पुरा केशवस्य महात्मनः ॥ ६६॥
चकार वायोराह्वानं भूयश्च पुरुषोत्तमः ।
तत्रस्थ एव भगवान् यादवानां प्रियङ्करः ॥ ६७॥
प्राणयोनिस्तु भूतानामुपतस्थे गदाधरम् ।
एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् ॥ ६८॥
किं मया देव कर्तव्यं सर्वगेनाशुगामिना ।
यथैव दूतो देवानां तथैवास्मि तवानघ ॥ ६९॥
तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः ।
मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ॥ २.५८.७०॥
गच्छ मारुत देवेशमनुमान्य सहामरैः ।
सभां सुधर्मामादाय देवेभ्यस्त्वमिहानय ॥ ७१॥
यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः ।
तस्यां विशेयुरेते वै न तु या कृत्रिमा भवेत् ॥ ७२॥
या ह्यक्षया सभा रम्या कामगा कामरूपिणी ।
सा यदून् धारयेत्सर्वान्यथैव त्रिदशास्तथा ॥ ७३॥
सङ्गृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः ।
वायुरात्मोपगतिर्जगाम त्रिदिवालयम् ॥ ७४॥
सोऽनुमान्य सुरान्सर्वान् कृष्णवाक्यं निवेद्य च ।
सभां सुधर्मामादाय पुनरायान्महीतलम् ॥ ७५॥
सुधर्माय सुधर्मां तां कृष्णायाक्लिष्टकारिणे ।
देवो देवसभां दत्त्वा वायुरन्तरधीयत ॥ ७६॥
द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता ।
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा ॥ ७७॥
एवं दिव्यैश्च भोगैश्च जलजैश्चाव्ययो हरिः ।
द्रव्यैरलङ्करोति स्म पुरीं स्वां प्रमदामिव ॥ ७८॥
मर्यादाश्चैव सञ्चक्रे श्रेणीश्च प्रकृतीस्तथा ।
बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च ॥ ७९॥
उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् ।
सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम् ॥ २.५८.८०॥
यादवानां कुलकरान् स्थविरान् दश तत्र वै ।
मतिमान् स्थापयामास सर्वकार्येष्वनन्तरान् ॥ ८१॥
रथेष्वतिरथो यन्ता दारुकः केशवस्य वै ।
योधमुख्यश्च योधानां प्रवरः सात्यकिः कृतः ॥ ८२॥
विधानमेवं कृत्वाथ कृष्णः पुर्यामनिन्दितः ।
मुमुदे यदुभिः सार्द्धं लोकस्रष्टा महीतले ॥ ८३॥
रेवतस्याथ कन्यां च रेवतीं शीलसम्मताम् ।
प्राप्तवान् बलदेवस्तु कृष्णस्यानुमते तदा ॥ ८४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारावतीनिर्माणेऽष्टपञ्चाशत्तमोऽध्यायः ॥ ५८॥
२.५९ एकोनषष्टितमोऽध्यायः
रुक्मिणीहरणम् Carrying-off of rukmiNi
श्रीकृष्णेन रुक्मिण्याः हरणम्, यादववीराणां जरासन्धेन एवं शिशुपालेन सह घोरयुद्धं
वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु जरासन्धः प्रतापवान् ।
नृपानुद्योजयामास चेदिराजप्रियेप्सया ॥ १॥
सुताया भीष्मकस्याथ रुक्मिण्या रुक्मभूषणः ।
शिशुपालस्य नृपतेर्विवाहो भविता किल ॥ २॥
दन्तवक्त्रस्य तनयं सुवक्त्रममितौजसम् ।
सहस्राक्षसमं युद्धे मायाशतविशारदम् ॥ ३॥
पौण्ड्रस्य वासुदेवस्य तथा पुत्रं महाबलम् ।
सुदेवं वीर्यसम्पन्नं पृथगक्षौहिणीपतिम् ॥ ४॥
एकलव्यस्य पुत्रं च वीर्यवन्तं महाबलम् ।
पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपतिं तथा ॥ ५॥
कृताप्रियं च कृष्णेन वेणुदारिं नराधिपम् ।
अंशुमन्तं तथा क्राथं श्रुतधर्माणमेव च ॥ ६॥
निवृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा ।
प्रसह्य च महावीर्यं कौशाम्ब्यधिपमेव च ॥ ७॥
भगदत्तो महासेनः शलः शाल्वो महाबलः ।
भूरिश्रवा महासेनः कुन्तिवीर्यश्च वीर्यवान् ।
स्वयं वरार्थं सम्प्राप्ता भोजराजनिवेशने ॥ ८॥
जनमेजय उवाच--
कस्मिन् देशे नृपो जज्ञे रुक्मी वेदविदां वरः ।
कस्यान्ववाये द्युतिमान् सम्भूतो द्विजसत्तम ॥ ९॥
वैशम्पायन उवाच ।
राजर्षेर्यादवस्यासीद् विदर्भो नाम वै सुतः ।
विन्ध्यस्य दक्षिणे पार्श्वे विदर्भायां न्यवेशयत् ॥ २.५९.१०॥
क्रथकैशिकमुख्यास्तु पुत्रास्तस्य महाबलाः ।
बभूवुर्वीर्यसम्पन्नाः पृथग्वंशकरा नृपाः ॥ ११॥
तस्यान्ववाये भीमस्य जज्ञिरे वृष्णयो नृपाः ।
क्रथस्य त्वंशुमान् वंशे भीष्मकः कैशिकस्य तु ॥ १२॥
हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं नृपाः ।
अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः ॥ १३॥
रुक्मी तस्याभवत्पुत्रो रुक्मिणी च विशाम्पते ।
रुक्मी चास्त्राणि दिव्यानि द्रुमात्प्राप महाबलः ॥ १४॥
जामदग्न्यात्तथा रामाद्ब्राह्ममस्त्रमवाप्तवान् ।
प्रास्पर्द्धत स कृष्णेन नित्यमद्भुतकर्मणा ॥ १५॥
रुक्मिणी त्वभवद्राजन् रूपेणासदृशी भुवि ।
चकमे वासुदेवस्तां श्रवादेव महाद्युतिः ॥ १६॥
स तया चाभिलषितः श्रवादेव जनार्दनः ।
तेजोवीर्यबलोपेतः स मे भर्ता भवेदिति ॥ १७॥
तां ददौ न च कृष्णाय द्वेषाद्रुक्मी महाबलः ।
कंसस्य वधसन्तापात् कृष्णायामिततेजसे ॥ १८॥
याचमानाय कंसस्य द्वेष्योऽयमिति चिन्तयन् ।
चैद्यस्यार्थे सुनीथस्य जरासन्धस्तु भूमिपः ।
वरयामास तां राजा भीष्मकं भीमविक्रमम् ॥ १९॥
चेदिराजस्य तु वसोरासीत्पुत्रो बृहद्रथः ।
मगधेषु पुरा येन निर्मितोऽसौ गिरिव्रजः ॥ २.५९.२०॥
तस्यान्ववाये जज्ञेऽसौ जरासन्धो महाबलः ।
वसोरेव तदा वंशे दमघोषोऽपि चेदिराट् ॥ २१॥
दमघोषस्य पुत्रास्तु पञ्च भीमपराक्रमाः ।
भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे ॥ २२॥
शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली ।
सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः ॥ २३॥
ज्ञातेः समानवंशस्थ सुनीथः प्रददौ सुतम् ।
जरासन्धस्तु सुतवद् ददर्शैनं जुगोप च ॥ २४॥
जरासन्धं पुरस्कृत्य वृष्णिशत्रुं महाबलम् ।
कृतान्यागांसि चैद्येन वृष्णीनां चाप्रियैषिणा ॥ २५॥
जामाता त्वभवत्तस्य कंसस्तस्मिन् हते युधि ।
कृष्णार्थं वैरमभवज्जरासन्धस्य वृष्णिभिः ॥ २६॥
भीष्मकं वरयामास सुनीथार्थे च रुक्मिणीम् ।
तां ददौ भीष्मकश्चापि शिशुपालाय वीर्यवान् ॥ २७॥
ततश्चैद्यमुपादाय जरासन्धो नराधिपः ।
ययौ विदर्भान् सहितो दन्तवक्त्रेण यायिना ॥ २८॥
अनुज्ञातश्च पौण्ड्रेण वासुदेवेन धीमता ।
अङ्गवङ्गकलिङ्गानामीश्वरः स महाबलः ॥ २९॥
मानयिष्यंश्च तान्रुक्मी प्रत्युद्गम्य नराधिपान् ।
परया पूजयोपेतांस्तान् निनाय पुरीं प्रति ॥ २.५९.३०॥
पितृष्वसुः प्रियार्थं च रामकृष्णावुभावपि ।
प्रययुर्वृष्णयश्चान्ये रथैस्तत्र बलान्विताः ॥ ३१॥
क्रथकैशिकभर्ता तान् प्रतिगृह्य यथाविधि ।
पूजयामास पूजार्हान् बहिश्चैव न्यवेशयत् ॥ ३२॥
श्वोभाविनि विवाहे च रुक्मिणी निर्ययौ बहिः ।
चतुर्युजा रथेनैन्द्रे देवतायतने शुभे ॥ ३३॥
इन्द्राणीमर्चयिष्यन्ती कृतकौतुकमङ्गला ।
दीप्यमानेन वपुषा बलेन महता वृता ॥ ३४॥
तां ददर्श तदा कृष्णो लक्ष्मीं साक्षादिव स्थिताम् ।
रूपेणाग्र्येण सम्पन्नां देवतायतनान्तिके ॥ ३५॥
वह्नेरिव शिखां दीप्तां मायां भूमिगतामिव ।
पृथिवीमिव गम्भीरामुत्थितां पृथिवीतलात् ॥ ३६॥
मरीचिमिव सोमस्य सौम्यां स्त्रीविग्रहां भुवि ।
श्रीमिवाग्र्यां विना पद्मं भविष्यां श्रीसहायिनीम् ।
कृष्णेन मनसा दृष्टां दुर्निरीक्ष्यां सुरैरपि ॥ ३७॥
श्यामावदाता सा ह्यासीत्पृथुचार्वायतेक्षणा ।
ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी ॥ ३८॥
बृहती चारुसर्वाङ्गी तन्वी शशिसितानना ।
ताम्रतुङ्गनखी सुभ्रूर्नीलकुञ्चितमूर्धजा ॥ ३९॥
अत्यर्थं रूपतः कान्ता पीनश्रोणिपयोधरा ।
तीक्ष्णशुक्लैः समैर्दन्तैः प्रभासद्भिरलङ्कृता ॥ २.५९.४०॥
अनन्या प्रमदा लोके रूपेण यशसा श्रिया ।
रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी ॥ ४१॥
तां दृष्ट्वा ववृधे कामः कृष्णस्य प्रियदर्शनाम् ।
हविषेवानलस्यार्चिर्मनस्तस्यां समादधत् ॥ ४२॥
रामेण सह निश्चित्य केशवस्तु महाबलः ।
तत्प्रमाथेऽकरोद्बुद्धिं वृष्णिभिः प्रणिधाय च ॥ ४३॥
कृते तु देवताकार्ये निष्क्रामन्तीं सुरालयात् ।
उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम् ॥ ४४॥
वृक्षमुत्पाट्य रामोऽपि जघानापततः परान् ।
समनह्यन्त दाशार्हास्तदाज्ञप्ताश्च सर्वशः ॥ ४५॥
ते रथैर्विविधाकारैः समुच्छ्रितमहाध्वजैः ।
वाजिभिर्वारणैश्चैव परिवव्रुर्हलायुधम् ॥ ४६॥
आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति ।
रामे भारं तमासज्य युयुधाने च वीर्यवान् ॥ ४७॥
अक्रूरे विपृथौ चैव गदे च कृतवर्मणि ।
चक्रदेवे सुदेवे च सारणे च महाबले ॥ ४८॥
निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे ।
उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः ॥ ४९॥
राजाधिदेवे मृदुरे प्रसेने चित्रके तथा ।
अतिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ ॥ २.५९.५०॥
वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ।
गुरुमासज्य तं भारं ययौ द्वारवतीं प्रति ॥ ५१॥
दन्तवक्त्रो जरासन्धः शिशुपालश्च वीर्यवान् ।
सन्नद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् ॥ ५२॥
अङ्गवङ्गकलिङ्गैश्च सार्द्धं पौण्ड्रैश्च वीर्यवान् ।
निर्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः ॥ ५३॥
तान् प्रत्यगृह्णन् संरब्धा वृष्णिवीरा महारथाः ।
सङ्कर्षणं पुरस्कृत्य वासवं मरुतो यथा ॥ ५४॥
आपतन्तं हिं वेगेन जरासन्धं महाबलम् ।
षड्भिर्विव्याध नाराचैर्युयुधानो महामृधे ॥ ५५॥
अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः ।
तं प्रत्यविद्ध्यत् कारूषो बाणैर्दशभिराशुगैः ॥ ५६॥
विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः ।
अष्टभिः प्रत्यविद्ध्यत् तं शिशुपालः प्रतापवान् ॥ ५७॥
गवेषणस्तु चैद्यं तु षडभिर्विव्याध मार्गणैः ।
अतिदान्तस्तथाष्टाभिर्बृहद्दुर्गश्च पञ्चभिः ॥ ५८॥
प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः ।
जघानाश्वांश्च चतुरश्चतुर्भिर्विपृथोः शरैः ॥ ५९॥
बृहद्दुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा ।
गवेषणस्य सूतं तु प्राहिणोद् यमसादनम् ॥ २.५९.६०॥
हताश्वं तु रथं त्यक्त्वा विपृथुस्तु महाबलः ।
आरुरोह रथं शीघ्रं बृहद्दुर्गस्य वीर्यवान् ॥ ६१॥
विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् ।
आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे ॥ ६२॥
ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् ।
नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः ॥ ६३॥
चक्रदेवो दन्तवक्त्रं बिभेदोरसि पत्रिणा ।
षड्रथं पञ्चभिश्चैव विव्याध युधि मार्गणैः ॥ ६४॥
ताभ्यां स विद्धो दशभिर्बाणैर्मर्मातिगैः शितैः ।
ततो बली चक्रदेवं बिभेद दशभिः शरैः ॥ ६५॥
पञ्चभिश्चापि विव्याध सोऽपि दूराद्विदूरथम् ।
विदूरथोऽपि तं षड्भिर्विव्याधाजौ शितैः शरैः ॥ ६६॥
त्रिंशता प्रत्यविध्यत् तं बली बाणैर्महाबलम् ।
कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः ॥ ६७॥
न्यहनत् सारथिं चास्य ध्वजं चिच्छेद सोच्छ्रितम् ।
प्रतिविव्याध तं क्रुद्धः पौण्ड्रः षड्भिः शिलीमुखैः ॥ ६८॥
धनुश्चिच्छेद चाप्यस्य भल्लेन कृतवर्मणः ।
निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः ।
तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् ॥ ६९॥
गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् ।
तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः ॥ २.५९.७०॥
चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः ।
कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शतैः ॥ ७१॥
तं निसृष्टद्रुमेणाजौ वङ्गराजस्य कुञ्जरम् ।
जघान रामः सङ्क्रुद्धो वङ्गराजं च संयुगे ॥ ७२॥
तं हत्वा रथमारुह्य धनुरादाय वीर्यवान् ।
सङ्कर्षणो जघानोग्रैर्नाराचैः कैशिकान् बहून् ॥ ७३॥
षड्भिर्निहत्य कारूषान् महेष्वासान् स वीर्यवान् ।
शतं जघान सङ्क्रुद्धो मागधानां महाबले ॥ ७४॥
निहत्य तान् महाबाहुर्जरासन्धं ततोऽभ्ययात् ।
तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः ॥ ७५॥
तं बिभेदाष्टभिः क्रुद्धो नाराचैर्मुसलायुधः ।
चिच्छेद चास्य भल्लेन ध्वजं हेमपरिष्कृतम् ॥ ७६॥
तद् युद्धमभवद् घोरं तेषां देवासुरोपमम् ।
सृजतां शरवर्षाणि निघ्नतामितरेतरम् ॥ ७७॥
गजैर्गजा हि सङ्क्रुद्धाः सन्निपेतुः सहस्रशः ।
रथै रथाश्च संरब्धाः सादिनश्चापि सादिभिः ॥ ७८॥
पदातयः पदातींश्च शक्तिचर्मासिपाणयः ।
छिन्दन्तश्चोत्तमाङ्गानि विचेरुर्युधि ते पृथक् ॥ ७९॥
असीनां पात्यमानानां कवचेषु महास्वनः ।
शराणां पततां शब्दः पक्षिणामिव शुश्रुवे ॥ २.५९.८०॥
भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम् ।
जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् ॥ ८१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणे एकोनषष्टितमोऽध्यायः ॥ ५९॥
२.६० षष्टितमोऽध्यायः
रुक्मिपराजयः Rukmi defeated
श्रीकृष्णेन रुक्मेः पराजयम्, रुक्मिण्याद्या सह श्रीकृष्णस्य विवाहः, तेभ्यः उत्पन्नानां सन्तानानां सङ्क्षेपतः परिचयं
वैशम्पायन उवाच ।
कृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वा तु रुक्मिणीम् ।
प्रतिज्ञामकरोत क्रुद्धः समक्षं भीष्मकस्य ह ॥ १॥
रुक्म्युवाच ।
अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ २॥
आस्थाय स रथं वीरः समुदग्रायुधध्वजम् ।
जवेन प्रययौ क्रुद्धो बलेन महता वृतः ॥ ३॥
तमन्वयुर्नृपाश्चैव दक्षिणापथवर्तिनः ।
क्राथोंऽशुमाञ्छ्रुतर्वा च वेणुदारिश्च वीर्यवान् ॥ ४॥
भीष्मकस्य सुताश्चान्ये रथेन रथिनां वराः ।
क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥ ५॥
ते गत्वा दूरमध्वानं सरितं नर्मदामनु ।
गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् ॥ ६॥
अवस्थाप्य च तत्सैन्यं रुक्मी मदबलान्वितः ।
चिकीर्षुर्द्वैरथं युद्धमभ्ययान्मधुसूदनम् ॥ ७॥
स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः ।
तं प्रत्यविध्यत् सप्तत्या बाणैर्युधि जनार्दनः ॥ ८॥
यतमानस्य चिच्छेद ध्वजं चास्य महाबलः ।
जहार च शिरः कायात्सारथेस्तस्य वीर्यवान् ॥ ९॥
तं कृच्छ्रगतमाज्ञाय परिवव्रुर्जनार्दनम् ।
दाक्षिणात्या जिघांसन्तो राजानः सर्व एव हि ॥ २.६०.१०॥
तमंशुमान् महाबाहुर्विव्याध दशभिः शरैः ।
श्रुतर्वा पञ्चभिः क्रुद्धो वेणुदारिश्च सप्तभिः ॥ ११॥
ततोऽशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान् ।
निषसाद रथोपस्थे व्यथितः स नराधिपः ॥ १२॥
श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः ।
वेणुदारेर्ध्वजं छित्त्वा भुजं विव्याध दक्षिणम् ॥ १३॥
तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः ।
शिश्रिये स ध्वजं शान्तो न्यषीदच्च व्यथान्वितः ॥ १४॥
मुञ्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः ।
क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥ १५॥
बाणैर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः ।
जघान चैषां संरब्धः पतमानांश्च ताञ्छरान् ॥ १६॥
पुनरन्यांश्चतुःषष्ट्या जघान निशितैः शरैः ।
क्रुद्धानापततो वीरानद्रिवत् स महाबलः ॥ १७॥
विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशङ्गतः ।
पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम् ॥ १८॥
सारथिं चास्य विव्याध सायकैर्निशितैस्त्रिभिः ।
आजघान शरेणास्य ध्वजं च नतपर्वणा ॥ १९॥
केशवस्त्वरितं दृष्ट्वा क्रुद्धो विव्याध मार्गणैः ।
धनुश्चिच्छेद चाप्यस्य यतमानस्य रुक्मिणः ॥ २.६०.२०॥
अथान्यद् धनुरादाय रुक्मी कृष्णजिघांसया ।
प्रादुश्चकार चान्यानि दिव्यान्यस्त्राणि वीर्यवान् ॥ २१॥
अस्त्रैरस्त्राणि संवार्य तस्य कृष्णो महाबलः ।
पुनश्चिच्छेद तच्चापं रथेषां च त्रिभिः शरैः ॥ २२॥
स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च ।
उत्पपात रथाद् वीरो गरुत्मानिव वीर्यवान् ॥ २३॥
तस्याभिपततः खड्गं चिच्छेद युधि केशवः ।
नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि ॥ २४॥
स पपात महाबाहुर्वसुधामनुनादयन् ।
विसंज्ञो मूर्च्छितो राजा वज्रेणेव महासुरः ॥ २५॥
तांश्च राज्ञः शरैः सर्वान् पुनर्विव्याध माधवः ।
रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः ॥ २६॥
विचेष्टमानं तं भूमौ भ्रातरं वीक्ष्य रुक्मिणी ।
पादयोर्न्यपतद् विष्णोर्भ्रातुर्जीवितकाङ्क्षिणी ॥ २७॥
तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः ।
अभयं रुक्मिणे दत्त्वा प्रययौ स्वपुरीं ततः ॥ २८॥
वृष्णयोऽपि जरासन्धं भङ्क्त्वा तांश्चैव पार्थिवान् ।
प्रययुर्द्वारकां हृष्टाः पुरस्कृत्य हलायुधम् ॥ २९॥
प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य सङ्गरे ।
रुक्मिणं रथमारोप्य प्रययौ स्वां पुरीं प्रति ॥ २.६०.३०॥
अनानीय स्वसारं तु रुक्मी मानमदान्वितः ।
हीनप्रतिज्ञो नैच्छत् स प्रवेष्टुं कुण्डिनं पुरम् ॥ ३१॥
विदर्भेषु निवासार्थं निर्ममेऽन्यत् पुरं महत् ।
तद् भोजकटमित्येव बभूव भुवि विश्रुतम् ॥ ३२॥
तत्रौजसा महातेजा दक्षिणां दिशमन्वगात् ।
भीष्मकः कुण्डिने चैव राजोवास महाभुजः ॥ ३३॥
द्वारकां चापि सम्प्राप्ते रामे वृष्णिबलान्विते ।
रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः ॥ ३४॥
ततः सह तया रेमे प्रियया प्रीयमाणया ।
सीतयेव पुरा रामः पौलोम्येव पुरन्दरः ॥ ३५॥
सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भामिनी ।
पतिव्रता गुणोपेता रूपशीलगुणान्विता ॥ ३६॥
तस्यामुत्पादयामास पुत्रान् दश महारथान् ।
चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् ॥ ३७॥
सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् ।
चारुविन्दं सुचारुं च भद्रचारुं तथैव च ॥ ३८॥
चारुं च बलिनां श्रेष्ठं सुतां चारुमतीं तथा ।
धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः ॥ ३९॥
महिषीरष्ट कल्याणीस्ततोऽन्या मधुसूदनः ।
उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः ॥ २.६०.४०॥
कालिन्दीं मित्रविन्दां च सत्यां नाग्नजिनीमपि ।
सुतां जाम्बवतश्चापि रोहिणीं कामरूपिणीम् ॥ ४१॥
मद्रराजसुतां चापि सुशीलां शुभलोचनाम् ।
सात्राजितीं सत्यभामां लक्ष्मणां चारुहासिनीं ॥ ४२॥
शैब्यस्य च सुतां तन्वीं रूपेणाप्सरसोपमाम् ।
स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः ॥ ४३॥
उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् ।
परार्ध्यवस्त्राभरणाः कामैः सर्वैः सुखोचिताः ।
जज्ञिरे तासु पुत्राश्च तस्य वीराः सहस्रशः ॥ ४४॥
शास्त्रार्थकुशलाः सर्वे बलवन्तो महारथाः ।
यज्वानः पुण्यकर्माणो महाभागा महाबलाः ॥ ४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणं नाम षष्टितमोऽध्यायः ॥ ६०॥
२.६१ एकषष्टितमोऽध्यायः
प्रद्युम्नविवाहो रुक्मिवधश्च Pradyumna's marriage and rukmi's demise
रुक्मेः पुत्र्या शुभाङ्ग्या स्वयंवरे प्रद्युम्नस्य वरणम्, प्रद्युम्नपुत्र अनिरुद्धस्य रुक्मेः
पौत्र्याः रुक्मवत्या सह विवाहं एवं बलरामेण रुक्मेः वधं
वैशम्पायन उवाच ।
ततः काले व्यतीते तु रुक्मी महति वीर्यवान् ।
दुहितुः कारयामास स्वयंवरमरिन्दमः ॥ १॥
तत्राहूता हि राजानो राजपुत्राश्च रुक्मिणा ।
समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः ॥ २॥
तत्राजगाम प्रद्युम्नः कुमारैरपरैर्वृतः ।
सा हि तं चकमे कन्या स च तां शुभलोचनाम् ॥ ३॥
शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता ।
पृथिव्यामभवत् ख्याता रुक्मिणस्तनया तदा ॥ ४॥
उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु ।
वैदर्भी वरयामास प्रद्युम्नमरिसूदनम् ॥ ५॥
स हि सर्वास्त्रकुशलः सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके केशवस्यात्मजोऽभवत् ॥ ६॥
वयोरूपगुणोपेता राजपुत्री च साभवत् ।
नारायणीवेन्द्रसेना जातकामा च तं प्रति ॥ ७॥
वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते ।
उपादाय च वैदर्भी प्रद्युम्नो द्वारकां ययौ ॥ ८॥
रेमे सह तया वीरो दमयन्त्या नलो यथा ।
स तस्यां जनयामास देवगर्भोपमं सुतम् ॥ ९॥
अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि ।
धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम् ॥ २.६१.१०॥
अभवत् स यदा राजन्ननिरुद्धो वयोऽन्वितः ।
तदास्य रुक्मिणः पौत्रीं रुक्मिणी रुक्मसन्निभाम् ।
पत्न्यर्थे वरयामास नाम्ना रुक्मवतीति सा ॥ ११॥
अनिरुद्धगुणैर्दातुं कृतबुद्धिर्नृपस्ततः ।
प्रीत्या हि रौक्मिणेयस्य रुक्मिण्याश्चाप्युपग्रहात् ॥ १२॥
विस्पर्द्धन्नपि कृष्णेन वैरं त्यज्य महायशाः ।
ददामीत्यब्रवीद् राजा प्रीतिमाञ्जनमेजय ॥ १३॥
केशवः सह रुक्मिण्या पुत्रैः सङ्कर्षणेन च ।
अन्यैश्च वृष्णिभिः सार्द्ध विदर्भान् सबलो ययौ ॥ १४॥
संयुक्ता ज्ञातयश्चैव रुक्मिणः सुहृदश्च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः ॥ १५॥
शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते ।
विवाहः सोऽनिरुद्धस्य बभूव परमोत्सवः ॥ १६॥
पाणौ गृहीते वैदर्भ्यास्त्वनिरुद्धेन तत्र वै ।
वैदर्भयादवानां च बभूव परमोत्सवः ॥ १७॥
रेमिरे वृष्णयस्तत्र पूज्यमाना यथामराः ।
अथाश्मकानामधिपो वेणुदारिरुदारधीः ॥ १८॥
अक्षः श्रुतर्वा चाणूरः क्राथश्चैवांशुमानपि ।
जयत्सेनः कलिङ्गानामधिपश्च महाबलः ॥ १९॥
पाण्ड्यश्च नृपतिः श्रीमानृषीकाधिपतिस्तथा ।
एते सम्मन्त्र्य राजानो दाक्षिणात्या महर्द्धयः ॥ २.६१.२०॥
अभिगम्याब्रुवन् सर्वे रुक्मिणं रहसि प्रभुम् ।
भवानक्षेषु कुशलो वयं चापि रिरंसवः ॥ २१॥
प्रियद्यूतश्च रामोऽसावक्षेष्वनिपुणोऽपि च ।
ते भवन्तं पुरस्कृत्य जेतुमिच्छाम तं वयम् ।
इत्युक्तो रोचयामास रुक्मी द्यूतं महारथः ॥ २२॥
ते शुभां काञ्चनस्तम्भां कुसुमैर्भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा ॥ २३॥
तां प्रविश्य ततः सर्वे शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्वासनेष्वासाञ्चक्रिरे विजिगीषवः ॥ २४॥
आहूतो बलदेवस्तु कितवैरक्षकोविदैः ।
बाढमित्यब्रवीद्धृष्टः सह दीव्याम पण्यताम् ॥ २५॥
निकृत्या विजिगीषन्तो दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः ॥ २६॥
ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम् ॥ २७॥
निष्काणां च सहस्राणि सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते बलदेवो ग्लहं ददौ २८॥
तं जिगाय ततो रुक्मी यतमानं महाबलम् ।
तावदेवापरं भूयो बलदेवं जिगाय सः ॥ २९॥
असकृज्जीयमानस्तु रुक्मिणा केशवाग्रजः ।
सुवर्णकोटीर्जग्राह ग्लहं तस्य महात्मनः ॥ २.६१.३०॥
जितमित्येव हृष्टोऽथ तमाह्वृतिरभाषत ।
श्लाघ्यमानश्च चिक्षेप प्रहसन् मुसलायुधम् ॥ ३१॥
अविद्यो दुर्बलः श्रीमान् हिरण्यममितं मया ।
अजेयो बलदेवोऽयमक्षद्यूते पराजितः ॥ ३२॥
कलिङ्गराजस्तच्छ्रुत्वा प्रजहास भृशं तदा ।
दन्तान् सन्दर्शयन् हृष्टस्तत्राक्रुद्ध्यद्धलायुधः ॥ ३३॥
रुक्मिणस्तद् वचः श्रुत्वा पराजयनिमित्तजम् ।
निगृह्यमाणस्तीक्ष्णाभिर्वाग्भिर्भीष्मकसूनुना ॥ ३४॥
रोषमाहारयामास जितरोषोऽपि धर्मवित् ।
सङ्कुद्धो धर्षणां प्राप्य रौहिणेयो महाबलः ॥ ३५॥
धैर्यात्मनः सन्निधाय ततो वचनमब्रवीत् ।
दशकोटिसहस्राणि ग्लह एको ममापरः ॥ ३६॥
एनं सम्परिगृह्णीष्व पातयाक्षान् नराधिप ।
कृष्णाक्षाँल्लोहिताक्षांश्च देशेऽस्मिंस्त्वधिपांसुले ॥ ३७॥
इत्येवमाह्वयामास रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद् बाढमित्यब्रवीत्पुनः ॥ ३८॥
अक्षान् रुक्मी ततो हृष्टः पातयामास पार्थिवः ।
चातुरक्षे तु निर्वृत्ते निर्जितस्य नराधिपः ॥ ३९॥
बलदेवेन धर्मेण नेत्युवाच ततो बलम् ।
धैर्यान्मनः समाधाय स न किञ्चिदुवाच ह ॥ २.६१.४०॥
बलदेवं ततो रुक्मी मया जितमिति स्मयन् ।
बलदेवस्तु तच्छुत्वा जिह्मं वाक्यं नराधिप ॥ ४१॥
भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह ।
ततो गम्भीरनिर्घोषा वागुवाचाशरीरिणी ॥ ४२॥
बलदेवस्य तं क्रोधं वर्धयन्ती महात्मनः ।
सत्यमाह बलः श्रीमान् धर्मेणैव पराजितः ॥ ४३॥
अनुक्त्वा वचनं किञ्चित् प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम् ॥ ४४॥
इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् ।
सङ्कर्षणस्तथोत्थाय सौवर्णेनोरुणा बली ॥ ४५॥
रुक्मिण्या भ्रातरं ज्येष्ठं निजघान महीतले ।
विवादे कुपितो रामः क्षेप्तारं किल रुक्मिणम ।
जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः ॥ ४६॥
ततोऽपसृत्य सङ्क्रुद्धः कलिङ्गाधिपतेरपि ।
दन्तान् बभञ्ज संरम्भादुन्ननाद च सिंहवत् ॥ ४७॥
स्वड्गमुद्यम्य तान्सर्वांस्त्रासयामास पार्थिवान् ।
स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः ॥ ४८॥
गजेन्द्र इव तं स्तम्भं कर्षन् सङ्कर्षणस्ततः ।
निर्जगाम सभाद्वारात्त्रासयामास कैशिकान् ॥ ४९॥
रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः ।
वित्रास्य विद्विषः सर्वान् सिंहः क्षुद्रमृगानिव ॥ २.६१.५०॥
जगाम शिबिरं रामः स्वयमेव जनावृतः ।
न्यवेदयत्स कृष्णाय तत्र सर्वं यथाभवत् ॥ ५१॥
नोवाच स तदा कृष्णः किञ्चिद्रामं महाद्युतिः ।
निगृह्य च तदाऽऽत्मानं कृच्छ्रादश्रूण्यवर्तयत् ॥ ५२॥
न हतो वासुदेवेन यः पूर्वं परवीरहा ।
ज्येष्ठो भ्राताथ रुक्मिण्या रुक्मिणीस्नेहकारणात् ॥ ५३॥
स रामकरमुक्तेन निहतो द्यूतमण्डले ।
अष्टापदेन बलवान् राजा वज्रधरोपमः ॥ ५४॥
तस्मिन् हते महावीर्ये नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते ॥ ५५॥
कृतौ च युद्धकुशले नित्ययाजिनि पातिते ।
वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन् ॥ ५६॥
वैशम्पायन उवाच ।
रुक्मिणी च महाभागा विलपन्त्यार्तया गिरा ।
विलपन्तीं तथा दृष्ट्वा सान्त्वयामास केशवः ॥ ५७॥
एतत् ते सर्वमाख्यातं रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ ॥ ५८॥
वृष्णयोऽपि महाराज धनान्यादाय सर्वशः ।
रामकृष्णौ समाश्रित्य ययुर्द्वारवतीं प्रति ॥ ५९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रूक्मिवधो नामैकषष्टितमोऽध्यायः ॥ ६१॥
२.६२ द्विषष्टितमोऽध्यायः
बलदेवमाहात्म्यम् The greatness of baladeva
बलदेवस्य माहात्म्यम्, तेन हस्तिनापुरं गङ्गायां क्षेपणस्य अद्भुतं प्रयत्नं
राजोवाच ।
भूय एव तु विप्रर्षे बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः ॥ १॥
अतीव बलदेवं तं तेजोराशिमनिर्जितम् ।
कथयन्ति महात्मानं ये पुराणविदो जनाः ॥ २॥
तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः ।
अनन्तं यं विदुर्नागमादिदेवं महौजसम् ॥ ३॥
वैशम्पायन उवाच ।
पुराणे नागराजोऽसौ पठ्यते धरणीधरः ।
शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः ॥ ४॥
योगाचार्यो महावीर्यो देवमन्त्रमुखो बली ।
जरासन्धं गदायुद्धे जितवान् यो न चावधीत् ॥ ५॥
बहवश्चैव राजानः प्रथिताः पृथिवीतले ।
अन्वयुर्मागधं सर्वे ते चापि विजिता रणे ॥ ६॥
नागायुतबलप्राणो भीमो भीमपराक्रमः ।
असकृद् बलदेवेन बाहुयुद्धे पराजितः ॥ ७॥
दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये ॥ ८॥
राजभिः सर्वतो रुद्धे हरमाणो बलात् किल ।
तदुपश्रुत्य संरुद्धमाजगाम महाबलः ॥ ९॥
रामस्तस्य तु मोक्षार्थमागतो नालभच्च तम् ।
ततश्चुक्रोध बलवानद्भुतं चाकरोन्महत् ॥ २.६२.१०॥
अनिवार्यमभेद्यं च दिव्यमप्रतिमं बले ।
लाङ्गलास्त्रं समुद्यम्य ब्रह्ममन्त्राभिमन्त्रितम् ॥ ११॥
प्राकारवप्रे विन्यस्य पुरस्य च महाद्युतिः ।
प्रक्षेप्तुमैच्छद् गङ्गायां नगरं कौरवस्य तत् ॥ १२॥
तद् विघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयामास सभार्यं तस्य धीमतः ॥ १३॥
ददौ शिष्यं तदाऽऽत्मानं रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिं शिष्यं जग्राह तं च सः ॥ १४॥
ततः प्रभृति राजेन्द्र पुरमेतद् विघूर्णितम् ।
आवर्जितमिवाभाति गङ्गामभिमुखं नृप ॥ १५॥
इदमत्यद्भुतं कर्म रामस्य कथितं भुवि ।
भाण्डीरे कथितं राजन् यत् कृतं शौरिणा पुरा ॥ १६॥
प्रलम्बं मुष्टिनैकेन यज्जघान हलायुधः ।
धेनुकं तु महावीर्यं चिक्षेप नगमूर्द्धनि ।
स गतायुः पपातोर्व्यां दैत्यो गर्दभरूपधृक् ॥ १७॥
लवणजलगमा महानदी द्रुतजलवेगतरङ्गमालिनी ।
नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा ॥ १८॥
बलदेवस्य माहात्म्यमेतत् ते कथितं मया ।
अनन्तस्याप्रमेयस्य शेषस्य धरणीभृतः ॥ १९॥
इति पुरुषवरस्य लाङ्गलेर्बहुविधमुत्तममन्यदेव च ।
यदकथितमिहाद्य कर्म ते तदुपलभस्व पुराणविस्तरात् ॥ २.६२.२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवमाहात्म्ये द्विषष्टितमोऽध्यायः ॥ ६२॥
२.६३ त्रिषष्टितमोऽध्यायः
नरकवधः Slaying of narakAsura
नरकासुरस्य परिचयः, द्वारकायां इन्द्रस्यागमनं एवं श्रीकृष्णं नरकवधाय अनुरोधं,
श्रीकृष्णस्य सत्यभामासहितं प्राग्ज्योतिषपुरे गमनं एवं तेन मुरु, निसुन्द, हयग्रीव, विरुपाक्ष, पञ्चनाद, अन्यान्य असुराणां एवं नरकासुरस्य वधं
जनमेजय उवाच ।
प्रत्येत्य द्वारकां विष्णुर्हते रुक्मिणि वीर्यवान् ।
अकरोद् यन्महाबाहुस्तन्मे वद महामुने ॥ १॥
वैशम्पायन उवाच ।
स तैः परिवृतः श्रीमान् पुरी यादवनन्दनः ।
द्वारकां भगवान् विष्णुः प्रत्यवैक्षत वीर्यवान् ॥ २॥
प्रत्यपद्यत रत्नानि विविधानि वसूनि च ।
यथाहं पुण्डरीकाक्षो नैरृतान् प्रत्यवारयत् ॥ ३॥
तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः ।
ताञ्जघान महाबाहुर्वरदृप्तान् महासुरान् ॥ ४॥
विघ्नं चास्याकरोत् तत्र नरको नाम दानवः ।
त्रासनः सर्वदेवानां देवराजरिपुर्महान् ॥ ५॥
स भूमौ मूर्तिलिङ्गस्थः सर्वदेवाधिबाधिता ।
देवतानामृषीणां च प्रतीपमकरोत् तदा ॥ ६॥
त्वष्टुर्दुहितरं भौमः कशेरुमगमत् तदा ।
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् ॥ ७॥
प्रमथ्य तां वरारोहां नरको वाक्यमब्रवीत् ।
नष्टशोकभयो मोहात् प्राग्ज्योतिषपतिस्तदा ॥ ८॥
यानि देवमनुष्येषु रत्नानि विविधानि च ।
बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु ॥ ९॥
अद्यप्रभृति तानीह सहिताः सर्वनैरृताः ।
तवैवोपाहरिष्यन्ति दैत्याश्च सह दानवैः ॥ २.६३.१०॥
एवमुत्तमरत्नानि वस्त्राणि विविधानि च ।
स जहार तदा भौमस्तच्च नाधिचकार सः ॥ ११॥
गन्धर्वाणां च याः कन्या जहार नरको बली ।
याश्च देवमनुष्याणां सप्त चाप्सरसां गणाः ॥ १२॥
चतुर्दश सहस्राणि एकविंशच्छतानि च ।
एकवेणीधराः सर्वाः सतीमार्गमनुव्रताः ॥ १३॥
वैशम्पायन उवाच ।
तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् ।
अलकायामदीनात्मा मुरो स्वविषयं प्रति ॥ १४॥
ताश्च प्राग्ज्योतिषपतिं मुरोश्चैव दशात्मजाः ।
नैरृताश्च यथा मुख्याः पालयन्त उपासते ।
स एष तपसः पारे वरदृप्तो महासुरः ॥ १५॥
न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा ।
कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः ॥ १६॥
अदितिं धर्षयामास कुण्डलार्थे महासुरः ।
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् ॥ १७॥
द्वारपालाश्च चत्वारस्तस्यासन् युद्धदुर्मदाः ।
हयग्रीवो निसुन्दश्च वीरः पञ्चनदस्तथा ॥ १८॥
मुरुः पुत्रसहस्रैश्च वरदत्तोऽसुरो महान् ।
आदेवयानमावृत्य पन्थानं समुपस्थितः ।
वित्रासनः सुकृतिनां विरूपै राक्षसैः सह ॥ १९॥
तद्वधार्थं महाबाहुः शङ्खचक्रगदासिभृत् ।
जातो वृष्णिषु देवक्यां वसुदेवाज्जनार्दनः ॥ २.६३.२०॥
तस्याथ पुरुषेन्द्रस्य लोकप्रथिततेजसः ।
निवासो द्वारका देवैरुपायादुपपादिता ॥ २१॥
अतीव हि पुरी रम्या द्वारका वासवक्षयात् ।
महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता ॥ २२॥
तस्यां देवपुराभायां सभा काञ्चनतोरणा ।
सा दाशार्हीति विख्याता योजनायामविस्तृता ॥ २३॥
तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः ।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ॥ २४॥
तत्रासीनेषु सर्वेषु कदाचिद् भरतर्षभ ।
दिव्यगन्धो ववौ वायुः पुष्पवर्षं पपात ह ॥ २५॥
ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः ।
मुहूर्तमन्तरिक्षेऽभूत् ततो भूमौ प्रतिष्ठितः ॥ २६॥
मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः ।
वृतो देवगणैः सर्वैर्वासवः समदृश्यत ॥ २७॥
रामकृष्णौ च राजा स वृष्ण्यन्धकगणैः सह ।
प्रत्युद्ययुर्महात्मानं पूजयन्तः सुरेश्वरम् ॥ २८॥
सोऽवर्तार्य गजात् तूर्णं परिष्वज्य जनार्दनम् ।
सस्वजे बलदेवं च तं च राजानमाहुकम् ॥ २९॥
वृष्णीनन्यान् सस्वजे च यथाकालं यथावयः ।
पूजितो रामकृष्णाभ्यामाविवेश स तां सभाम् ॥ २.६३.३०॥
तत्रासीनोऽभ्यलङ्कृत्वा सभां ताममरेश्वरः ।
अर्घ्यादिसमुदाचारं प्रत्यगृह्णाद् यथाविधि ॥ ३१॥
वैशम्पायन उवाच ।
अथोवाच महातेजा वासवो वासवानुजम् ।
सान्त्वपूर्वं करेणास्य संस्पृश्य वदनं शुभम् ॥ ३२॥
देवकीनन्दन वचः शृणु मे मधुसूदन ।
येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन ॥ ३३॥
नैरृतो नरको नाम ब्रह्मणो वरदर्पितः ।
अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः ॥ ३४॥
देवानां विप्रिये नित्यमृषीणां च स वर्तते ।
तं च देवान्तरं प्रेक्ष्य जहि त्वं पापपूरुषम् ॥ ३५॥
अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः ।
कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः ॥ ३६॥
अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः ।
निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि ॥ ३७॥
इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः ।
प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणे ॥ ३८॥
ततः सहैव शक्रेण शङ्खचक्रगदासिभृत् ।
प्रतस्थे गरुडेनाथ सत्यभाभासहायवान् ॥ ३९॥
क्रमेण सप्तस्कन्धान् स मरुतां सहवासवः ।
पश्यतां यदुसिंहानामूर्ध्वमाचक्रमे बली ॥ २.६३.४०॥
वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः ।
विदूरत्वात् प्रकाशेते सूर्याचन्द्रमसाविव ॥ ४१॥
अन्तरिक्षे च गन्धर्वैरप्सरोभिश्च केशवः ।
स्तूयमानोऽथ शक्रश्च क्रमेणान्तरधीयत ॥ ४२॥
समाधायेतिकर्तव्यं वासवो विबुधाधिपः ।
स्वमेव भवनं प्रायात् कृष्णः प्राग्ज्योतिषं प्रति ॥ ४३॥
पक्षानिलहतो वायुः प्रतिलोमं ववौ तदा ।
ततो भीमरवा मेघा बभ्रमुर्गगनेचराः ॥ ४४॥
क्षणेन समनुप्राप्तो द्विजेनाकाशगेन वै ।
दूरादेव च तान् दृष्ट्वा प्रययौ यत्र ते स्थिताः ॥ ४५॥
अपश्यद् द्वारि तत्रस्थां हस्त्यश्वरथवाहिनीम् ।
क्षुरान्तान् मौरवान्पाशान् षट्सहस्रान्ददर्श ह ॥ ४६॥
वैशम्पायन उवाच ।
गरुडस्योपरि श्रीमाञ्छङ्खचक्रगदाधरः ।
बिभ्रन्नीलाम्बुदाकारं पीतवासाश्चतुर्भुजः ॥ ४७॥
वनमालाकुलोरस्कः श्रीवत्साङ्कितभूषणः ।
किरीटमूर्द्धा सूर्याभः सविद्युदिव चन्द्रमाः ॥ ४८॥
ज्यां विकूजन्महाशब्दः श्रूयतेऽशनिनिःस्वनः ।
ज्ञात्वा च दानवः सर्वं स्वयं विष्णुरिहागतः ॥ ४९॥
क्रोधाद् द्विगुणरक्ताक्षो मुरुः कालान्तकोपमः ।
अभ्यधावत वेगेन शक्तिं गृह्य महासुरः ॥ २.६३.५०॥
चिक्षेप सुमहाशक्तिं वज्रकाञ्चनभूषिताम् ।
तामापतन्तीं शक्तिं तु महोल्कां ज्वलितामिव ॥ ५१॥
समाधत्त शरं चैकं रुक्मपुङ्खं जनार्दनः ।
द्विधाच्छिनत्क्षुरप्रेण वासुदेवः स वीर्यवान् ॥ ५२॥
शक्तिं चिच्छेद तत्रासौ विद्युत्पुञ्ज इव ज्वलन् ।
पुनश्च क्रोधरक्ताक्षो मुरुर्गृह्य महागदाम् ॥ ५३॥
इन्द्राशनिरिवेन्द्रेण विकृष्ट इव निःस्वनः ।
आकर्णमुक्तं चिक्षेप अर्धचन्द्रं सुरोत्तमः ॥ ५४॥
मध्यदेशे तु चिच्छेद गदां तां रुक्मभूषिताम् ।
पुनश्चिच्छेद भल्लेन दानवस्य शिरो रणे ॥ ५५॥
सञ्छिद्य पाशान् सर्वांस्तान् मुरुं हत्वा सबान्धवम् ।
सोऽग्र्यान्रक्षोगणान् हत्वा नरकस्य महाबलान् ॥ ५६॥
शिलासङ्घानतिक्रम्य भगवान् देवकीसुतः ।
अपश्यद् दानवं सैन्यं निसुन्दं च महाबलम् ॥ ५७॥
हयग्रीवं च दितिजं तथान्यांश्चित्रयोधिनः ।
रोधयामास तन्मार्गं स्वसैन्येन महाबलः ॥ ५८॥
निसुन्दो बलिनां श्रेष्ठो रथमारुह्य सत्वरम् ।
जग्राह कार्मुकं दिव्यं हेमपृष्ठं दुरासदम् ॥ ५९॥
विव्याध दशभिर्बाणैर्निसुन्दो मधुसूदनम् ।
केशवश्चापि सप्तत्या विव्याध निशितैः शरैः ॥ २.६३.६०॥
अप्राप्तांश्चान्तरिक्षे ताञ्छरांश्चिच्छेद माधवः ।
ते सर्वे सैनिकाः कृष्णं समन्तात्पर्यवारयन् ॥ ६१॥
शरजालेन महता छाद्यमानः सुरोत्तमः ।
दृष्ट्वा तान्दानवान्सर्वान्सक्रोधो मधुसूदनः ॥ ६२॥
ततो दिव्येन चास्त्रेण पार्जन्येन जनार्दनः ।
महता शरवर्षेण वारयामास तद्बलम् ॥ ६३॥
पञ्चपञ्चशरैस्तेषु एकैकेन च तान् बहून् ।
पार्जन्यस्य प्रभावेण सर्वान् मर्मस्वताडयत् ॥ ६४॥
दुद्रुवुर्भयसन्त्रस्ता भग्नास्ते दानवा रणे ।
स्वसैन्यं विद्रुतं दृष्ट्वा निश्चक्राम पुनर्मृधे ॥ ६५॥
विसृजञ्छरवर्षाणि छादयामास केशवम् ।
न विभाति रणे सूर्यो नापि व्योम दिशो दश ॥ ६६॥
शरैः सञ्छादयामास निसुन्दो गरुडध्वजम् ।
सावित्रं नाम दिव्यास्त्रं जग्राह पुरुषोत्तमः ॥ ६७॥
तेन बाणेन तान् बाणांश्चिच्छेद समरे हरिः ।
बाणैर्बाणांश्च सञ्च्छिद्य तस्य कृष्णो महाबलः ॥ ६८॥
छत्रमेकेन बाणेन रथेषां च त्रिभिः शरैः ।
पुनश्चिच्छेद तानश्वांश्चतुर्भिश्चतुरः शरैः ॥ ६९॥
सारथिं पञ्चभिर्बाणैर्ध्वजमेकेन चिच्छिदे ।
शरैकेन वपुः कृष्णः सुतीक्ष्णेन शितेन वै ॥ २.६३.७०॥
शिरश्चिच्छेद भल्लेन निसुन्दस्य सुरोत्तमः ।
यः सहस्रसमास्त्वेकः सर्वान् देवानयोधयत् ॥ ७१॥
निसुन्दं पतितं दृष्ट्वा हयग्रीवः प्रतापवान् ।
शिलां प्रगृह्य महतीं तोलयामास दानवः ॥ ७२॥
आविध्य सहसा मुञ्चच्छिलां शैलसमां प्रभुः ।
गृहीत्वा दिव्यपार्जन्यमस्त्रमस्त्रविदां वरः ॥ ७३॥
दिव्यास्त्रेण शिलां विष्णुः सप्तधाकृत तेजसा ।
तद् विदार्य महच्चाश्म पातयामास भूतले ॥ ७४॥
ततस्तैः शार्ङ्गनिर्मुक्तैर्नानावर्णैर्महाशरैः ।
यथा देवासुरं युद्धमभवद् भरतर्षभ ।
नानाप्रहरणाकीर्णं तथा घोरमवर्तत ॥ ७५॥
ततः शार्ङ्गविनिर्मुक्तैर्नानावर्णैर्महाशरै ।
गरुडस्थो महाबाहुर्निजघान महासुरान् ॥ ७६॥
महालाङ्गलनिर्भिन्नाः शङ्खशक्तिनिपातिताः ।
विनेशुर्दानवाः सर्वे समासाद्य जनार्दनम् ॥ ७७॥
केचिच्चक्राग्निनिर्दग्धा दानवाः पेतुरम्बरात् ।
सन्निकर्षगताः केचिद् गतासुविकृताननाः ॥ ७८॥
असृजञ्छरवर्षाणि वृष्टिमन्त इवाम्बुदाः ।
विकृताङ्गासुराः सर्वे कृष्णबाणप्रपीडिताः ॥ ७९॥
शोणिताक्ताः स्म दृश्यन्ते पुष्पिता इव किंशुकाः ।
व्यद्रवन्त सुवित्रस्ता भग्नास्त्राश्चित्रयोधिनः ॥ २.६३.८०॥
पुनश्च क्रोधरक्ताक्षो वायुवेगेन दानवः ।
दशव्यामोच्छ्रितं वृक्षं समारुह्य वनस्पतिम् ॥ ८१॥
वृक्षमुत्पाट्य वेगेन प्रतिगृह्याभ्यधावत ।
चिक्षेप स महावृक्षं शिक्षया सुघनाकृतिः ॥ ८२॥
वृक्षवेगानिलोद्भूतः शुश्रुवे सुमहास्वनः ।
ततः शरसहस्रेण यतमानो जनार्दनः ॥ ८३॥
नैकधा तं प्रचिच्छेद चित्रभानुनिभाकृतिम् ।
पुनश्चैकेन बाणेन हयग्रीवस्य चोरसि ॥ ८४॥
विव्याध स्तनयोर्मध्ये सायको ज्वलनप्रभः ।
विवेश सोऽपि वेगेन हृदं भित्त्वा विनिर्गतः ॥ ८५॥
तं जघान महाघोरं हयग्रीवं महाबलम् ।
अपारतेजा दुर्द्धर्षः स वै यादवनन्दनः ॥ ८६॥
मध्ये लोहितगङ्गस्य भगवान् देवकीसुतः ।
औदकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः ॥ ८७॥
अष्टौ शतसहस्राणि दानवानां परन्तपः ।
निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत् ॥ ८८॥
हत्वा पञ्चनदं नाम नरकस्य महासुरम् ।
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया ॥ ८९॥
पुरमासादयामास युद्धं तत्राभवन्महत् ।
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं महाबलः ॥ २.६३.९०॥
शुश्रुवे सुमहाशब्दः संवर्तनिनदो यथा ।
श्रूयते त्रिषु लोकेषु भीमगम्भीरनिःस्वनः ।
तं श्रुत्वा नरकश्चासीत् क्रोधसंरक्तलोचनः ॥ ९१॥
लोहचक्राष्टसंयुक्तं विनल्वप्रतिमं रथम् ।
रत्नकाञ्चनचित्राढ्यं वेदिकाभोगविस्तरम् ॥ ९२॥
वज्रध्वजेन महता काञ्चनेन विराजितम् ।
हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् ॥ ९३॥
युक्तमश्वसहस्रेण रथं पररथारुजम् ।
लोहजालैश्च सञ्छन्नं चित्रभक्तिविराजितम् ॥ ९४॥
रथमध्यगतो वीरः ससन्ध्य इव भास्करः ।
नानाप्रहरणाकीर्णं रथं हेमपरिष्कृतम् ॥ ९५॥
वज्रं तथोरच्छदमिन्दुवर्णं व्यानद्धमुक्तानलतुल्यतेजाः ।
किरीटमूर्द्धार्कहुताशनाभः कर्णौ तथा कुण्डलयोर्ज्वलन्तौ ॥ ९६॥
धूम्रवर्णा महाकाया रक्ताक्षा विकृताननाः ।
नानाकवचिनः सर्वे दैत्यदानवराक्षसाः ॥ ९७॥
खड्गचर्मधराः केचित् केचित् तूणधनुर्भृतः ।
शक्तिहस्तास्तथा केचिच्छूलहस्तास्तथापरे ॥ ९८॥
गजवाजिरथौघैश्च चालयन्तश्च मेदिनीम् ।
निर्ययुर्नगरात् सर्वे सुसन्नद्धाः प्रहारिणः ॥ ९९॥
वृतो दैत्यगणैः सार्द्धं नरकः कालसन्निभः ।
भेरीशङ्खमृदङ्गानां पणवानां सहस्रशः ॥ २.६३.१००॥
शुश्राव वाद्यमानानां जीमूतनिनदोपमम् ।
यतः कृष्णस्ततो गत्वा सर्वे ते विकृताननाः ॥ १०१॥
परिवार्य गरुत्मन्तं सर्वेऽयुध्यन्त सङ्गताः ।
महता छादयामासुः शरवर्षेण सैनिकाः ॥ १०२॥
शक्तिशूलगदाप्रासांस्तोमरान्सायकान्बहून् ।
आकाशं छादयामासुर्विमुञ्चन्तः सहस्रशः ॥ १०३॥
कृष्णः कृष्णाम्बुदाकारः शार्ङ्गं गृह्य धनुस्ततः ।
विस्फार्य सुमहच्चापं धनुर्जलदनिःस्वनम् ॥ १०४॥
व्यसृजच्छरवर्षाणि दानवानां जनार्दनः ।
शरवर्षेण तत्सैन्यं व्यद्रवत् तु महाहवात् ॥ १०५॥
तद् युद्धमभवद् घोरं घोररूपेण रक्षसा ।
भग्नव्यूहाश्च ते सर्वे कृष्णबाणप्रपीडिताः ॥ १०६॥
केचिच्छिन्नभुजाश्चैव च्छिन्नग्रीवाशिराननाः ।
केचिच्चक्रद्विधाच्छिन्नाः केचिद् बाणार्दितोरसः ॥ १०७॥
केचिद् द्विधाकृताः शक्त्या गजाश्वरथवाहनाः ।
केचित्कौमोदकीभिन्नाः केचिच्चक्रविदारिताः ॥ १०८॥
एवं विमथिता सर्वा नराश्वरथवाहिनी ।
तत्रासीन्नरकेणास्य युद्धं परमदारुणम् ॥ १०९॥
यत् समासेन वक्ष्यामि तन्मे निगदतः शृणु ।
त्रासनः सुरसङ्घानां नरकः पुरुषोत्तमम् ॥ २.६३.११०॥
योधयामास तेजस्वी मधुवन्मधुसूदनम् ।
क्रोधरक्तान्तनयनो नरको घनसन्निभः ॥ १११॥
जग्राह कार्मुकं वीरः शक्रचापमिवोच्छ्रितम् ।
तथार्ककिरणप्रख्यं बाणं जग्राह केशवः ॥ ११२॥
दिव्येनास्त्रेण समरे पूरयामास तं रथम् ।
उत्तमास्त्रं महापातं मुमोच नरको बली ॥ ११३॥
बज्रविस्कूर्जिताकारमायान्तं वीक्ष्य केशवः ।
चिच्छेदास्त्रं महाभागश्चक्रेण मधुसूदनः ॥ ११४॥
व्यहनत् सारथिं चास्य शरैकेण जनार्दनः ।
स रथं सध्वजं साश्वं जघान दशभिः शरैः ॥ ११५॥
तनुत्रं चैव चिच्छेद शरेण मधुसूदनः ।
ततो विमुक्तकवचः सर्पस्येव तनुर्यथा ॥ ११६॥
हताश्वोऽपि रणे वीरो वितनुत्रश्च दानवः ।
जग्राह विमलज्वालं लोहभारार्पितं दृढम् ॥ ११७॥
आविध्य सहसा मुक्तं शूलमिन्द्राशनिप्रभम् ।
तदापतत् स सम्प्रेक्ष्य शूलं हेमपरिष्कृतम् ॥ ११८॥
द्विधा छिन्नं क्षुरप्रेण कृष्णेनाद्भुतकर्मणा ।
तद् युद्धमभवद् घोरं घोररूपेण रक्षसा ॥ ११९॥
शस्त्रपातमहाघातं नरकेण महात्मना ।
मुहूर्तं योधयामास नरकं मधुसूदनः ॥ २.६३.१२०॥
अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोद् द्विधा ।
चक्रद्विधाकृतं तस्य शरीरमपतद् भुवि ॥ १२१॥
विभक्तं कुलिशेनैव गिरेः शृङ्गं द्विधाकृतम् ।
कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान् ॥ १२२॥
चक्रोत्कृन्तितगात्रोऽसौ दानवः पतितो रणे ।
वज्रप्रहारनिर्भिन्नं यथा गैरिकपर्वतम् ॥ १२३॥
भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् ॥ १२४॥
दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः ।
यथेच्छसि तथा क्रीड बालः क्रीडनकैरिव ॥ १२५॥
इमे ते कुण्डले देव प्रजास्तस्यानुपालय ॥ १२६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नरकवधे त्रिषष्टितमोऽध्यायः ॥ ६३॥
२.६४ चतुःषष्टितमोऽध्यायः
पारिजातहरणम् PArijAta fetched
श्रीकृष्णस्य नरकासुरस्य भवने प्रवेशम्, तत्रस्य धनवैभवस्य एवं षोडशसहस्राणां कुमारीणां द्वारकायां प्रेषणम्, स्वयं देवलोकं गत्वा अदितिं कुण्डलानि दत्त्वा तत्रतः पारिजातं गृह्य प्रत्यागमनं
वैशम्पायन उवाच ।
निहत्य नरकं भौमं वासवोपमविक्रमम् ।
वासवावरजो विष्णुर्ददर्श नरकालयम् ॥ १॥
अथार्थगृहमासाद्य नरकस्य जनार्दनः ।
ददर्श धनमक्षय्यं रत्नानि विविधानि च ॥ २॥
मणिमुक्ताप्रवालानि वैदूर्यस्य च सञ्चयान् ।
मासारगल्वकूटानि तथा वज्रस्य सञ्चयान् ॥ ३॥
जाम्बूनदमयान्यस्य शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च ॥ ४॥
शयनानि महार्हाणि तथा सिंहासनानि च ।
हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम् ॥ ५॥
ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम् ।
जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः ॥ ६॥
वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम् ।
यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु ॥ ७॥
नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च ।
रत्नसन्निचयस्तादृग् दृष्टपूर्वो न च श्रुतः ॥ ८॥
हते भौमे निसुन्दे च हयग्रीवे च दानवे ।
उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च ॥ ९॥
दानवा हतशिष्टा ये कोशसञ्चयरक्षिणः ।
केशवाय महार्हाणि यान्यर्हति जनार्दनः ॥ २.६४.१०॥
दैत्या ऊचुः ।
इमानि मणिरत्नानि विविधानि बहूनि च ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः ॥ ११॥
हेमसूत्रा महाकक्षाश्चापतोमरशालिनः ।
रुचिराभिः पताकाभिः शबला रुचिराङ्कुशाः ॥ १२॥
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ।
अष्टौ शत सहस्राणि देशजाश्चोत्तमा हयाः ॥ १३॥
गोषु चापि कृतो यावान् कामस्तव जनार्दन ।
तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ॥ १४॥
आविकानि च सूक्ष्माणि शयनान्यासनानि च ।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥ १५॥
नन्दनागुरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत् त्रिषु लोकेषु धर्मेणाधिगतं तव ।
प्रापयिष्याम तत् सर्व वृष्ण्यन्धकनिवेशनम् ॥ १६॥
देवगन्धर्वरत्नानि पन्नगानां च यद् वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने ॥ १७॥
वैशम्पायन उवाच ।
तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च ।
सर्वमाहारयामास दानवैर्द्वारकां पुरीम् ॥ १८॥
ततस्तद् वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ॥ १९॥
गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् ।
ततोऽभ्ययाद् गिरिश्रेष्ठमभितो मणिपर्वतम् ॥ २.६४.२०॥
तत्र पुण्या वयुर्वाता ह्यभवंश्चामलाः प्रभाः ।
मणीनां हेमवर्णानामभिभूय दिवाकरम् ॥ २१॥
तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः ।
सतोरणपताकानि द्वाराणि शरणानि च ॥ २२॥
विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥ २३॥
तत्र ता वरहेमाभा ददर्श मधुसूदनः ।
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा ॥ २४॥
ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ।
नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥ २५॥
त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः ।
निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ॥ २६॥
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥ २७॥
व्रतोपवासतन्वङ्ग्यः काङ्क्षन्त्यः कृष्णदर्शनम् ।
समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् ॥ २८॥
नरकं निहतं ज्ञात्वा मुरं चैव महासुरम् ।
हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ॥ २९॥
ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् ।
कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः ॥ २.६४.३०॥
तासां परमनारीणामृषभाक्षं निरीक्ष्य तम् ।
सर्वासामेव सङ्कल्पः पतित्वेनाभवत् ततः ॥ ३१॥
तस्य चन्द्रोपमं वक्त्रं निरीक्ष्य मुदितेन्द्रियाः ।
सम्प्रहष्टा महाबाहुमिदं वचनमब्रुवन् ॥ ३२॥
सत्यं च यत्पुरा वायुरिहास्मान्वाक्यमब्रवीत् ।
सर्वभूतमतिज्ञश्च देवर्षिरपि नारदः ॥ ३३॥
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता च भविता स वः ॥ ३४॥
सुप्रियं बत पश्यामश्चिरश्रुतमरिन्दमम् ।
दर्शनेन कृतार्था हि वयमद्य महात्मनः ॥ ३५॥
ततस्ताः सान्त्वयामास प्रमदा वासवानुजः ।
सर्वाः कमलपत्राक्षीर्दृष्ट्वा चोवाच माधवः ॥ ३६॥
यथार्हतः पूजयित्वा समाभाष्य च केशवः ।
यानैः किङ्करसंयुक्तैरुवाह मधुसूदनः ॥ ३७॥
किङ्कराणां सहस्राणि रक्षसां वातरंहसाम् ।
शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् ॥ ३८॥
तस्य पर्वतराजस्य शृङ्गं यत् परमार्चितम् ।
विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम् ॥ ३९॥
सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रस्तरशिलातलम् ॥ २.६४.४०॥
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातं महासानुं विचित्रशिखरद्रुमम् ॥ ४१॥
अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवञ्जीवकसङ्घैश्च बर्हिभिश्च निनादितम् ॥ ४२॥
तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भासुरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ॥ ४३॥
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाह लीलया पक्षी गरुडः पततां वरः ॥ ४४॥
स पक्षवलविक्षेपैर्हिमाद्रिशिखरोपमः ।
दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट् ॥ ४५॥
आरुजन् पर्वताग्राणि पादपांश्च समुत्क्षिपन् ।
सञ्जहार महाभ्राणि विजहार च कानिचित् ॥ ४६॥
विषयं समतिक्रम्य देवयोश्चन्द्रसूर्ययोः ।
ययौ वातजवः पक्षी जनार्दनवशे स्थितः ॥ ४७॥
स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् ।
देवसद्मानि सर्वाणि ददर्श मधुसूदनः ॥ ४८॥
विश्वेषां मरुतां चैव साध्यानां च नराधिप ।
भ्राजमानान्यतिक्रामन्नश्विनोश्च परन्तप ॥ ४९॥
प्राप्य पुण्यतमांल्लोकान् देवलोकमरिन्दमः ।
शक्रसद्म समासाद्य प्रविवेश जनार्दनः ॥ २.६४.५०॥
अवतीर्य स तार्क्ष्यात् तु ददर्श विबुधाधिपम् ।
प्रीतश्चैवाभ्यनन्दत् तं देवराजः शतक्रतुः ॥ ५१॥
प्रादाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः ।
सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः ॥ ५२॥
अर्चितो देवराजेन रत्नैश्च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥ ५३॥
वासवो वासुदेवश्च जग्मतुः सहितौ तदा ।
अदित्या भवनं दिव्यं देवमातुर्महर्द्धिमत् ॥ ५४॥
तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः ।
ददृशाते महात्मानौ महाभागां तपोऽन्विताम् ॥ ५५॥
ततस्ते कुण्डले दिव्ये प्रादाददितिनन्दनः ।
ववन्दे तां शचीभर्ता मातरं स्वां पुरन्दरः ॥ ५६॥
जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् ।
अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च ॥ ५७॥
आशीर्भिरनुकूलाभिरुभावप्यवदत् तदा ।
पौलोमी सत्यभामा च प्रीत्या परमया युते ॥ ५८॥
अगृह्णीतां वरार्हाया देव्यास्ते चरणौ शुभौ ।
ते चाप्यभ्यवदत् प्रेम्णा देवमाता यशस्विनी ॥ ५९॥
यथावदब्रवीच्चैव जनार्दनमिदं वचः ।
अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि ॥ २.६४.६०॥
यथैव देवराजोऽयमजितो लोकपूजितः ।
भवत्वियं वरारोहा नित्यं च प्रियदर्शना ॥ ६१॥
सर्वलोकेषु विख्याता दिव्यगन्धा मनोरमा ।
सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना ॥ ६२॥
जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः ।
एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः ॥ ६३॥
देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः ।
वैनतेयं समारुह्य सहितः सत्यभामया ॥ ६४॥
देवाक्रीडं परिक्रामन् पूज्यमानं सुरर्षिभिः ।
स ददर्श महाबाहुराक्रीडे वासवस्य ह ॥ ६५॥
दिव्यभभ्यर्चितं देवैः पारिजातं महाद्रुमम् ।
नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् ॥ ६६॥
यमासाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः ॥ ६७॥
उत्पाट्यारोपयामास विष्णुस्तं गरुडोपरि ।
सोऽपश्यत्सत्यभामा च दिव्यमप्सरसां गणम् ॥ ६८॥
पृष्ठतः सत्यभामा च दिव्या योषा च वीक्षिता ।
प्रायात् ततो द्वारवतीं वायुजुष्टेन वै पथा ॥ ६९॥
श्रुत्वा तं देवराजस्तु कर्म कृष्णस्य तत् तदा ।
अनुमेने महाबाहुः कृतकर्मेति चाब्रवीत् ॥ २.६४.७०॥
स पूज्यमानस्त्रिदशैः सप्तर्षिगणसंस्तुतः ।
प्रतस्थे द्वारकां कृष्णो देवलोकादरिन्दमः ॥ ७१॥
सोऽभिपत्य महाबाहुर्दीर्घमध्वानमल्पवत् ।
पूजितो देवराजेन ददृशे यादवीं पुरीम् ॥ ७२॥
तथा कर्म महत्कृत्वा भगवान् वासवानुजः ।
उपायाद् द्वारकां कृष्णः श्रीमान् गरुडवाहनः ॥ ७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे द्वारकाप्रवेशे चतुःषष्टितमोऽध्यायः ॥ ६४॥
२.६५ पञ्चषष्टितमोऽध्यायः
पारिजातनिबंधनः सत्याकोपः NArada presents pArijAta flower and satyabhama's anger
रैवतके पर्वतोपरि रुक्मिण्याः व्रतोद्यापनोत्सवं, तस्मिन् पारिजातं दत्त्वा श्रीकृष्णेन
रुक्मिण्याः सम्मानं, नारदेन रुक्मिण्याः सर्वाधिकस्य सौभाग्यस्य प्रशंसा
एवं सत्यभामायाः कोपभवने प्रवेशं
जनमेजय उवाच ।
प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ॥ १॥
द्वारकायां निवसतः कृतदारस्य षड्गुणम् ।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव ॥ २॥
वैशम्पायन उवाच ।
जनमेजय कृष्णस्य कृतदारस्य भारत ।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभो ॥ ३॥
प्राप्तदारो महातेजा वासुदेवः प्रतापवान् ।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप ॥ ४॥
डपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् ।
तर्पयिष्यन् स्वयं विप्राञ्जगाम मधुसूदनः ॥ ५॥
कुमाराः प्रययुस्तत्र पुत्रभ्रातर एव च ।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया ॥ ६॥
षोडश स्त्रीसहस्राणि जग्मुरेव च धीमतः ।
ऋद्धया परमया राजन् विष्णोरेवानुरूपया ॥ ७॥
ततस्तत्र द्विजातीनां कामान् प्रादादधोक्षजः ।
अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम् ॥ ८॥
कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् ।
यौनैः श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दन ॥ ९॥
तर्पयित्वा द्विजान् कामैरिष्टैरिष्टः सतां गतिः ।
ज्ञातीन् सन्तर्पयामास यथार्हं भक्तवत्सलः ॥ २.६५.१०॥
उपवासावसानेऽथ भगवान् स विशेषतः ।
बहुमेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम् ॥ ११॥
वसतस्तस्य कृष्णस्य सदारस्यामितौजसः ।
सहासीनस्य रुक्मिण्या नारदोऽभ्याययौ मुनिः ॥ १२॥
आगतं चाप्रमेयात्मा मुनिमिन्द्रानुजस्तदा ।
शास्त्रदृष्टेन विधिना अर्चयामास केशवः ॥ १३॥
सोऽर्चितो वासुदेवेन मुनिरर्च्यतमः सताम् ।
पारिजाततरोः पुष्पं ददौ कृष्णाय भारत ॥ १४॥
तद्वृक्षराजकुसुमं रुक्यिण्याः प्रददौ हरिः ।
पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत् ॥ १५॥
प्रतिगृह्य तु तत् पुष्पं कामारणिरनिन्दिता ।
शिरस्यमलपत्राक्षी ददौ कृष्णेङ्गितानुगा ॥ १६॥
त्रैलोक्यनृपसर्वस्वं नारायणमनोहरा ।
शुशुभे देवपुष्पेण द्विगुणं भैष्मकी तदा ॥ १७॥
तां नारदस्तथोवाच मुनिर्ब्रह्मसुतस्तदा ।
तवैवौपयिकं पुष्पमेकं देवि पतिव्रते ॥ १८॥
अलङ्कृतं पुष्पमेतत् संसर्गात् तव सर्वथा ।
अत्यर्हा च मता मे त्वमेतत्पुष्पाद् धृतव्रते ॥ १९॥
कल्याणगुणसम्पन्ने सततं भर्तृवत्सले ।
अम्लानमेतत् सततं पुष्पं भवति कामिनि ॥ २.६५.२०॥
संवत्सरपरं कालं कालज्ञे गुणसम्मते ।
ईप्सितानपि गन्धांश्च ददाति वदतां वरे ॥ २१॥
शीतोष्णे चेच्छिते देवि पुष्पमेतत् प्रयच्छति ।
स्रवत्यपि रसान्देवि मनसा काङ्क्षितान्वरान् ॥ २२॥
सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि ।
स्रवत्यपि तथा गन्धानीप्सितान्प्रीतिवर्द्धनान् ॥ २३॥
यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि ।
कुसुमं वृक्षराजस्य तानि तानि प्रदास्यति ॥ २४॥
एतदेव भगाधानं धर्मिष्ठे पुत्रदं तथा ।
मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे ॥ २५॥
यद् यदिच्छसि वर्णं च तत्सर्वं धारयिष्यति ।
स्वल्पं वा यदि वा स्थूलं छन्दतस्ते भविष्यति ॥ २६॥
अनिष्टगन्धहरणमेतत् सद्गन्धवर्द्धनम् ।
प्रदीपकर्म रात्रौ च करोति कमलेक्षणे ॥ २७॥
सन्तानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् ।
पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति ॥ २८॥
बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथवा जरा ।
देववद्धारयन्त्यास्ते स्वच्छन्देन भविष्यति ॥ २९॥
अनुगीतानि गीतानि दास्यत्यपि च चिन्तिते ।
सुवादित्रान् सुमधुरांस्तथैव तव सम्मतान् ॥ २.६५.३०॥
पूर्णे संवत्सरे देवि पुष्पमेतत् तवान्तिकात् ।
निर्वर्त्स्यते तरुवरं समयेन प्रयास्यति ॥ ३१॥
कृतिरेषा हि भद्रं ते पारिजातस्य सुप्रभे ।
निसर्गतः सर्गकृता सत्कारार्थेऽसुरद्विषाम् ॥ ३२॥
उमा देववरस्येष्टा हिमालयसुता सती ।
धारयन्तीश्वरी नित्यं पुष्पाण्येतानि सुप्रभे ॥ ३३॥
अदितिश्च सपौलोमी महेन्द्रसुरतारणी ।
सावित्री देवमाता च श्रीश्च सर्वगुणोचिता ॥ ३४॥
देवपत्नयस्तथैवान्या देवाश्च वसुदेवताः ।
संवत्सरपरः कालः सर्वेषां न तु संशयः ॥ ३५॥
षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे ।
अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि ॥ ३६॥
सपत्न्यस्ते गुणोपेते सर्वाः सर्वेश्वरप्रिये ।
अवमानावसेकेन त्वया सिक्ताद्य भामिनि ॥ ३७॥
प्रकाशमद्य सौभाग्यमनिवार्यं यशश्च ते ।
मन्दारकुसुमं दत्तं यत् ते मधुनिघातिना ॥ ३८॥
अद्य सात्राजिती देवी ज्ञास्यते वरवर्णिनी ।
सौभाग्याख्यं सदा वेत्ति याऽऽत्मानं सुभगं सती ॥ ३९॥
साम्बमाता च गान्धारी भार्याश्चान्या महात्मनः ।
सौभाग्यार्थोद्यताकाङ्क्षामद्य मोक्ष्यन्ति निःस्पृहाः ॥ २.६५.४०॥
सौभाग्यैकरथो जैत्रस्तव देव्यद्य निःसृतः ।
मनोरथरथानां यः सहस्रैरपि दुर्जयः ॥ ४१॥
अद्याहमवगच्छामि सर्वथा सर्वशोभने ।
आत्मा द्वितीयः कृष्णस्य भोजे त्वमिति भाभिनि ॥ ४२॥
त्रैलोक्यरत्नसर्वस्वमददाद् यत् तवाच्युतः ।
जीवितातिशयस्तेन त्वया प्राप्तो हरिप्रिये ॥ ४३॥
नारदेनैवमुक्तं तु तथ्यं वाक्यं नराधिप ।
तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया ॥ ४४॥
देवीनां च तथान्यासां पत्नीनां च विशाम्पते ।
दृष्ट्वा ताः सविशेषं च नारदेनात्युदाहृतम् ॥ ४५॥
तच्च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः ।
प्रकाशीकृतमेवासीद् विष्णोरन्तःपुरे तदा ॥ ४६॥
कर्णाकर्णि ततो देव्यः कौलीनमिव सङ्घशः ।
मन्त्रयाञ्चक्रिरे हृष्टा रुक्मिण्यतिगुणोदयम् ॥ ४७॥
अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः ।
प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः ॥ ४८॥
ममृषे न सपत्न्यास्तु तत्सौभाग्यगुणोदयम् ।
सत्यभामा प्रिया नित्यं विष्णोरतुलतेजसः ॥ ४९॥
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥ २.६५.५०॥
समुत्सृजन्ती वसनं सकुङ्कुमं शुचिस्मिता शुक्लतमैकमंशुकम् ।
जग्राह रोषाकुलितेन चेतसा वह्नेस्तदा श्रीरिव वर्द्धितेन्धना ॥ ५१॥
दन्दह्यमाना ज्वलनेन वर्द्धता ईर्ष्यासमुत्थेन गतप्रभेव ।
क्रोधान्विता क्रोधगृहं विविक्तं विवेश तारेव घनं सतोयम् ॥ ५२॥
बद्ध्वा ललाटे हिमचन्द्रशुक्लं दुकूलपट्टं प्रियरोषचिह्नम् ।
पर्यन्तदेशं सरसेन देवी विलिप्य सा लोहितचन्दनेन ॥ ५३॥
संस्मृत्य संस्मृत्य शिरः सरोषं प्रकम्पमाना समुपोपविष्टा ।
दीर्घोपधाने शयनेऽपनीय विभूषणान्येव निबद्धवेणी ॥ ५४॥
अकारणार्थेन विकृष्यमाणा प्रेष्याजनस्याभिजनान्वितापि ।
विचूर्णयामास कुशेशयं सा निःश्वस्य निःश्वस्य नखैर्नतभ्रूः ॥ ५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे पञ्चषष्टिमोऽध्यायः ॥ ६५॥
२.६६ षट्षष्टितमोऽध्यायः
कृष्णेन भामाक्रोधकारणप्रश्नः KRiShNa enquires satyabhAmA
श्रीकृष्णेन सत्यभामायाः माननं एवं सत्यभामया मानसिकं खेदं प्रकटयित्वा
तपस्यायै अनुमतेः पृच्छा
वैशम्पायन उवाच ।
उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित् ॥ १॥
जगाम त्वरितश्चैव सत्यभामागृहं महत् ।
रम्ये रैवतकोद्देशै निर्मितं विश्वकर्मणा ॥ २॥
अभिमानवतीमिष्टां प्राणैरपि गरीयसीम् ।
जानन् सात्राजितीं विष्णुर्विवेश शनकैरिव ॥ ३॥
रुषितामिव तां देवीं स्नेहात् सङ्कल्पयन्निव ।
भीतभीतः स शनकैर्विवेश मधुसूदनः ॥ ४॥
सेवकं द्वारदेशे तु तिष्ठेत्युक्त्वा विवेश ह ।
नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य सः ॥ ५॥
स ददर्श प्रियां दूरात् क्रोधागारगतां तदा ।
प्रेष्यामिव स्थितां कोपान्निःश्वसन्तीं मुहुर्मुहुः ॥ ६॥
करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ।
संश्लेषयित्वा निःश्वस्य विहसन्तीं पुनः पुनः ॥ ७॥
किञ्चिदाकुलिताग्रेण चरणेन वसुन्धराम् ।
कृत्वा पृष्ठेऽथ वदनं विहरन्तीं पुनः पुनः ॥ ८॥
करपद्मे पुनः सव्ये मुखपद्मं निवेश्य च ।
वनितां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम् ॥ ९॥
सरसं चन्दनं गृह्य प्रेष्याहस्तादनिन्दिताम् ।
प्रह्लादयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः ॥ २.६६.१०॥
पुनरुत्थाय शयनात् पतन्तीं च पुनः पुनः ।
तास्ताश्चेष्टाः प्रियायाश्च तथान्या ददृशे हरिः ॥ ११॥
अवगुण्ठ्य यदा वक्त्रमुपधाने न्यवेशयत् ।
इदमन्तरमित्येवं तदा गत्वा जनार्दनः ॥ १२॥
प्रेष्याजनं स संज्ञाय अनाख्येयोऽस्मि संज्ञया ।
स शङ्कितप्रचारश्च वारितोऽन्वगमत्स ताम् ॥ १३॥
ग्रहाय व्यजनं चैव स्थित्वा स परिपार्श्वतः ।
शनैरिवासृजद् वातं जहास शनकैरिव ॥ १४॥
स पारिजातपुष्पस्य संसर्गादनुवासितः ।
बभार भगवान् गन्धं दिव्यं मानुषदुर्लभम् ॥ १५॥
अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता ।
अपावृणोन्मुखं सत्या किमेतदिति चाब्रवीत् ॥ १६॥
सोत्थिता पृष्ठतो देवमपश्यन्ती शुचिस्मिता ।
पर्यपृच्छदथो प्रेष्या गन्धस्य प्रभवे तदा ॥ १७॥
ताः पृष्टास्त्वप्रभाषन्त्यो जानुभ्यां धरणीं गताः ।
अधोमुख्यस्ततस्तस्थुः कृताञ्जलिपुटास्तदा ॥ १८॥
तदपूर्वमदृष्ट्वैव गन्धं मुञ्चति मेदिनी ।
कथमेकतरस्तस्या गन्धोऽयमिति तत् खलु ॥ १९॥
किन्न्विदं स्यादिति च सा विवेक्षन्ती समन्ततः ।
ददृशे केशवं देवी सहसा लोकभावनम् ॥ २.६६.२०॥
युज्यतीति ततोवाच सहसास्राविलेक्षणा ।
अवतिक्तेव रोषेण बभूव प्रणयान्विता ॥ २१॥
सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा ।
मुहूर्तमसितापाङ्गी तस्थावन्यमुखी शुभा ॥ २२॥
निबध्य भ्रुकुटिं वामां सम्यग्विक्षिप्य लोचने ।
निवेश्य वदनं हस्ते शोभसीत्यब्रवीद्धरिम् ॥ २३॥
तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।
कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥ २४॥
समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ।
प्रतिजग्राह पद्माक्षः कराभ्यामतिसत्वरः ॥ २५॥
अथोरसि पतत्तोयं श्रीवत्साङ्कोऽम्बुजेक्षणः ।
प्रियानयनजं देवः परिमृज्येदमब्रवीत् ॥ २६॥
स्रवत्यसितपत्राक्षि किमर्थं तव भामिनि ।
तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्यामिवोदकम् ॥ २७॥
प्रभाते पूर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च ।
बिभर्ति तव किं वक्त्रं वपुस्तव मनोहरे ॥ २८॥
किमर्थं कौङ्कुमं वासो महाराजतमेव च ।
नानुगृह्णासि सुश्रोणि शुक्लं वासोऽनुगृह्यते ॥ २९॥
वासस्येते तवाभीष्टे महारजतकौङ्कुमे ।
देवाभिगमनादूर्ध्वं शुक्लं नेष्टं हि तत्स्त्रियाः ॥ २.६६.३०॥
किञ्चानाभरणं गात्रं सुगात्रि तव कथ्यताम् ।
चित्रकस्थानमाक्रान्तं कस्मादवरवर्णिनि ॥ ३१॥
श्वेतेन तव पट्टेन वाससा प्रियदर्शने ।
ललाटं सेव्यते कस्माच्चन्दनेन सुगन्धिना ॥ ३२॥
सरसेनायतापाङ्गि कान्तेन हृदयप्रिये ।
प्रभोपमर्दं केनापि कारणेनाननस्य च ।
करोषि मम वात्यर्थं मनो ग्लापयसि प्रिये ॥ ३३॥
प्रसृतश्चन्दनरसः कपोलप्रणयी तव ।
पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते ॥ ३४॥
रत्नैश्चाभरणैर्मुक्ता तव ग्रीवा न शोभते ।
ग्रहनक्षत्ररहिता द्यौरिवाव्यक्तशारदी ॥ ३५॥
पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा ।
किमु नो भाषसे माद्य मुखेनोत्पलगन्धिना ॥ ३६॥
अर्द्धाक्ष्णापि हि तावन्मां किमर्थं न निरीक्षसे ।
मुञ्चस्येव सनिश्वासं तोयमञ्जनदुर्दिनम् ॥ ३७॥
अलमिन्दीवरश्यामे रुदितेन मनस्विनि ।
जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् ॥ ३८॥
त्वदीयोऽहं यदा देवि ख्यातो जगति किङ्करः ।
नाज्ञापयसि किं मां त्वं पुरेव वरवर्णिनि ॥ ३९॥
किमकार्षमहं देवि विप्रियं तव भामिनि ।
येनातिमात्रमात्मानमायासयसि सुन्दरि ॥ २.६६.४०॥
मनसा कर्मणा वाचा न त्वामतिचराम्यहम् ।
सर्वथा सर्वचार्वङ्गि सत्यमेतद् ब्रवीम्यहम् ॥ ४१॥
बहुमानोपमान्यासु स्त्रीषु सर्वासु शोभने ।
स्नेहश्च बहुमानश्च त्वामृतेऽन्यासु नास्ति मे ॥ ४२॥
नैव त्वां मदनो जह्यान्मृतेऽपि मयि मामकः ।
इति मे निश्चितं विद्धि चेतः सुरसुतोपमे ॥ ४३॥
क्षमादयश्च मेदिन्यां शब्दाद्याश्चाम्बरे गुणाः ।
ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस्तथा मम ॥ ४४॥
रुचिरग्नौ यथा दिव्या प्रभा चैव दिवाकरे ।
कान्तिश्च शाश्वती चन्द्रे स्नेहस्त्वयि तथा मम ॥ ४५॥
एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम् ।
शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ॥ ४६॥
मदीयस्त्वमिति ह्यासीन्मम नित्यं मनः प्रभो ।
अद्य साधारणं स्नेहं त्वयि तावद्गतास्म्यहम् ॥ ४७॥
नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम् ।
अद्य लोकगतिं कृत्स्नामवगच्छामि न ध्रुवाम् ॥ ४८॥
अमृताया द्वितीयोऽपि जन्मौहि मम सर्वथा ।
किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युत ॥ ४९॥
वाङ्मात्रमेव पश्यामि माधुर्यं सम्प्रयुज्यते ।
मयि स्नेहश्च कृतकस्तवान्यत्र न कृत्रिमः ॥ २.६६.५०॥
ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम ।
अवजानासि जानन् मां कैतवीं वृत्तिमास्थितः ॥ ५१॥
एतावदस्तु पर्याप्तं दृष्टं द्रष्टव्यमव्ययम् ।
श्रुतं चाप्यद्य यच्छ्राव्यं दृष्टः स्नेहफलोदयः ॥ ५२॥
यदि त्वहमनुग्राह्या मामनुज्ञातुमर्हसि ।
तपस्येऽहं परं कृत्वा निश्चयं पुरुषोत्तम ॥ ५३॥
भर्तुश्छन्देन नारीणां तपो वा व्रतकानि वा ।
निष्फलं खलु यद् भर्तुरच्छन्देन क्रियेत हि ॥ ५४॥
इतीदमुक्त्वा पुनरेव शोभना मुमोच तोयं नयनोद्भवं सती ।
ग्रहाय पीतं हरिवाससः शुभा पटान्तमाधाय मुखे शुचिस्मिता ॥ ५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे षट्षष्टितमोऽध्यायः ॥ ६६॥
२.६७ सप्तषष्टितमोऽध्यायः
पारिजातोत्पत्तिकथनम् Narration of the origin of pArijAta
श्रीकृष्णेन पृष्टे सति सत्यभामया स्वरोषस्य खेदस्य च कारणकथनम्, श्रीकृष्णेन तस्यै पारिजातवृक्षस्य आनयनस्य विश्वासेन सन्तुष्टकरणम्, सत्यभामया श्रीकृष्णेन साकं नारदस्य सत्कारम्, नारदेन पारिजातस्य उत्पत्तेः एवं महिम्नस्य वर्णनम् ।
वैशम्पायन उवाच ।
नारायणः सत्यभामां पुनरेवैष भारत ।
प्रोवाच प्रणयात् क्रुद्धामभिमानवतीं सतीम् ॥ १॥
श्रीभगवानुवाच ।
दहतीव ममाङ्गानि शोकः कमललोचने ।
किमु तत् कारणं येन त्वमेवमतिविक्लवा ॥ २॥
शापितासि मम प्राणैराचक्ष्वानत्ययो यदि ।
श्रोतव्यं यदि भक्तेन भर्त्रा सर्वाङ्गशोभने ॥ ३॥
ततः प्रोवाच भर्तारं सत्या सत्यव्रते स्थितम् ।
बाष्पगद्गदया वाचा तथैनैधोमुखी स्थिता ॥ ४॥
त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद ।
जगत्यमलपत्राक्ष यत् ख्यातं केशिनाशन ॥ ५॥
शिरो वहामि चेष्टत्वात् तवाहं देव गर्विता ।
सर्वसीमन्तिनीमध्ये स्पृहणीयास्मि सर्वथा ॥ ६॥
साहमद्यावहास्यास्मि सपत्नीनां जनस्य च ।
इति प्रेष्याभिराख्यातं श्रुत्वा तथ्यं ततस्ततः ॥ ७॥
यत् पारिजातकुसुमं दत्तवान् नारदस्तव ।
तत् किलेष्टजने दत्तं त्वयाहं परिवर्जिता ॥ ८॥
रत्नातिशयदानेन तस्यामभ्यधिकः किल ।
स्नेहश्च बहुमानश्च प्रकाशं गमितस्त्वया ॥ ९॥
तामस्तौषीत् समक्षं ते प्रियां स किल नारदः ।
तमश्रौषीश्च दृष्टस्त्वं प्रियायाः संस्तवं किल ॥ २.६७.१०॥
स्तोतव्यो यदि तावत् स नारदेन तवाग्रतः ।
दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः ॥ ११॥
प्रणयस्य रसं दत्त्वा पश्चात्तापः प्रभो यदि ।
अनुज्ञां मे प्रयच्छस्व तपः कर्तुं प्रसीद मे ॥ १२॥
स्वप्नेनापि न दृष्ट्वाहं श्रद्दध्यां पुष्करेक्षण ।
यदन्यदेव निर्वृत्तमश्रौषं पश्यतस्तव ॥ १३॥
कामं कामोऽस्तु तस्यैव मुनेरतुलतेजसः ।
अत्र मन्युस्तु मे देव सान्निध्यं तव तत्र यत् ॥ १४॥
मानार्थं जीव्यते लोके सद्भिरित्युक्तवानसि ।
तदेवं सति नेच्छामि जीवितुं मानवर्जिता ॥ १५॥
ममाभवद् यतो रक्षा भयमद्य ततो मम ।
सर्वतो रक्षते यो मां स मां नाद्याभिरक्षति ॥ १६॥
हा गतिं कां गमिप्यामि त्यक्ता देव त्वया विभो ।
कुमुद्वतीगतां नूनं गतिं यास्याम्यसङ्गता ॥ १७॥
किमकार्षमहं मोहादीश्वराणां प्रियाप्रियम् ।
प्रिया भूत्वा प्रिया भूता यद्यहं तव मानद ॥ १८॥
वसन्तकुसुमैश्चित्रं तदा रैवतकं गिरिम् ।
प्रिया भूत्वाप्रिया भूता कथं द्रक्ष्याम्यहं पुनः ॥ १९॥
परपुष्टस्वनोन्मिश्रं पुष्पगन्धवहं शुचिम् ।
कथं नामानिलं द्वेष्या सेस्रेयं दुर्भगा सती ॥ २.६७.२०॥
जलक्रीडां तवाङ्कस्था देव कृत्वा महोदधौ ।
कथं दौर्भाग्यमापन्ना पश्येयमपि सागरम् ॥ २१॥
सात्राजिति प्रिया नान्या त्वत्तो मेऽस्तीति विद्धि माम् ।
यदवोचः क्व तद् यातमथ वा कः स्मरिष्यति ॥ २२॥
यदद्राक्षीद्धि मां श्वश्रूर्बहुमानेन नन्दिनी ।
अवज्ञातां त्वया राज्ञीं नूनं दौर्भाग्यकर्शिताम् ॥ २३॥
किं नु गूढेन मे प्रेम्णा सुस्निग्धैनापि मानद ।
यत्समानां जनैर्देवो मां न पश्यति नित्यदा ॥ २४॥
नाहं त्वां कितवं धूर्तमज्ञासिषमरिन्दम ।
अद्य ज्ञातोऽसि तत्पक्षचञ्चलो जनवञ्चकः ॥ २५॥
स्वरवर्णेङ्गिताकारैर्निगूढो देव यत्नतः ।
चौर ज्ञातोऽसि तत्पक्षवाङ्मात्रमधुरः शठः ॥ २६॥
एवमीर्ष्यावशं प्राप्तां देवीं सात्राजितीं हरिः ।
अभिमानवतीं देवः सान्त्वपूर्वमथाब्रवीत् ॥ २७॥
मैवं पद्मपलाशाक्षि प्राणेश्वरि वद प्रिये ।
किमत्र बहुनोक्तेन त्वदीयमवगच्छ माम् ॥ २८॥
तत् पारिजातकुसुमं तस्या देवि ममाग्रतः ।
नारदो मत्प्रियं कुर्वन् मुनिरक्लिष्टकर्मकृत् ॥ २९॥
दाक्षिण्यादानुरोधाच्च दत्तवान् नात्र संशयः ।
प्रसीदैकापराधं मे मर्षयस्य शुचिस्मिते ॥ २.६७.३०॥
पारिजातकपुष्पाणि यदीच्छस्यतिकोपने ।
तदा दातास्मि सुश्रोणि सत्यमेतद्ब्रवीमि तम् ॥ ३१॥
स्वर्गास्पदादानयित्वा पारिजातं द्रुमेश्वरम् ।
गृहे ते स्थापयिष्यामि यावत्कालं त्वमिच्छसि ॥ ३२॥
एवमुक्ता तु हरिणा प्रोवाच हरिवल्लभा ।
यद्येवं स द्रुमः शक्यस्त्विहानयितुमच्युत ॥ ३३॥
मन्युरेव प्रमृष्टो हि भवेद् बहुगुणं मम ।
सीमन्तिनीनां सर्वासामधिका स्यामधोक्षज ॥ ३४॥
तथास्तु प्रथमः कल्प इति तां मधुसूदनः ।
प्रोवाचाप्रतिमो देवो जगतः प्रभवाप्ययः ॥ ३५॥
तथेत्युक्तेति कृष्णेन तुतोष समितिञ्जय ।
सत्यभामा सतामिष्टा कंसनाशनवल्लभा ॥ ३६॥
ततः स्नातो जगन्नाथः सर्वेशः सर्वभावनः ।
चकारावश्यकं सर्वं सर्वकामप्रदः सताम् ॥ ३७॥
दध्यौ च नारदं देवः स्नातो देवमुनिर्नृप ।
अभ्याजगाम स्नानान्ते मुनिश्रेष्ठो महोदधौ ॥ ३८॥
तमागतं नरपते सतां गतिरधोक्षजः ।
सत्यया सह धर्मात्मा यथाविधि अपूजयत् ॥ ३९॥
पादौ प्रक्षालयाञ्चक्रे मुनेः सात्राजिती स्वयम् ।
जलं देवः स्वयं कृष्णो भृङ्गारेण ददौ तदा ॥ २.६७.४०॥
अथोपकल्पयामास सुखासीनाय केशवः ।
परमान्नं स मुनये प्रयतात्मा जगद्गुरुः ॥ ४१॥
तल्लोककर्त्रा सत्कृत्य दत्तं मुनिरुदारधीः ।
बुभुजे वदतां श्रेष्ठः श्रद्धया परया युतः ॥ ४२॥
उपस्पृश्य ततस्तृप्तः प्रददौ चाशिषः प्रभो ।
ताश्च प्रीतेन मनसा प्रतिजग्राह केशवः ॥ ४३॥
ततः सात्राजितीं देवीं प्रणतां नारदोऽब्रवीत् ।
प्रसार्य दक्षिणं हस्तं सजलं जलजेक्षणाम् ॥ ४४॥
यथेदानीं तथैव त्वं भव देवि पतिव्रता ।
सविशेषं च सुभगा भव मत्तपसो बलात् ॥ ४५॥
इत्युक्ता मुनिमुख्येन सत्यभामा हरिप्रिया ।
उत्तस्थौ महता युक्ता हर्षेण तु नराधिप ॥ ४६॥
स कृष्णोऽप्यभ्यनुज्ञां तु लब्ध्वा मुनिवरात्तदा ।
बुभुजे विघसं धीमानप्रमेयपराक्रमः ॥ ४७॥
ततस्त्वावश्यकं कृत्वा सत्यभामापि भारत ।
अनुज्ञया तदा भर्तुर्विवेशान्तर्गृहं मुदा ॥ ४८॥
ततो विनिर्गता देवी कृष्णस्यैवाभ्यनुज्ञया ।
स्थिता पार्श्वे च कृष्णस्य नमस्कृत्वा महात्मने ॥ ४९॥
ततो मुहूर्तमासित्वा नारदः कृष्णमब्रवीत् ।
आपृच्छे त्वां गमिष्यामि शक्रलोकमधोक्षज ॥ २.६७.५०॥
तत्राद्यं देवमीशानं नमस्कृत्य महेश्वरम् ।
गास्यन्ति देवगन्धर्वास्तथैवाप्सरसां गणाः ॥ ५१॥
मासि मास्युचितं ह्येतन्महेन्द्रसदने प्रभो ।
पूजार्थं देवदेवस्य गान्धर्वं नृत्यमेव च ॥ ५२॥
अन्तर्हितो देवदेवः सोमः सप्रवरो विभुः ।
पश्यत्यमरमुख्येन कृतं भक्त्याद्रिघातिना ॥ ५३॥
निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्त्वा महाद्युते ।
पारिजातस्य भद्रं ते तरुराज्ञो महात्मनः ॥ ५४॥
यदेतदाहृतं स्वर्गात् त्वदर्थं तु मया विभो ।
देवोपभोग्यमेतद्धि तरुराजसमुद्भवम् ॥ ५५॥
इष्टः स वृक्षः सततं शच्याः पुष्करलोचन ।
सौभाग्यमावहत्येव पूज्यमानोऽपि नित्यशः ॥ ५६॥
पुण्यं कर्तुं तदा सृष्टः पारिजातो महाद्रुमः ।
अदित्या धर्मनित्येन कश्यपेन महात्मना ॥ ५७॥
पुरादित्या महातेजास्तोषितः किल कश्यपः ।
वरेण च्छन्दयामास मारीचस्तपसो निधिः ॥ ५८॥
सोवाच सुभगा येन भवेयं मुनिसत्तम ।
स्वलङ्कृता कामतश्च सर्वैरेव विभूषणैः ॥ ५९॥
ईप्सितं गीतनृत्यं च भवेन्मम तपोधन ।
कुमारी नित्यदा चैव भवेयं तपसो निधे ॥ २.६७.६०॥
विरजा शोकरहिता भवेयमिति नित्यदा ।
पतिभक्तिमती चैव धर्मशीला तथैव च ॥ ६१॥
पारिजातं ततोऽस्राक्षीददित्याः प्रियकाम्यया ।
सर्वकामप्रदैः पुष्पैरावृतं नित्यगन्धदैः ॥ ६२॥
त्रिशाखं सर्वदा दृश्यं सर्वभूतमनोहरम् ।
सर्वपुष्पाणि दृश्यन्ते तस्मिन्नेव महाद्रुमे ॥ ६३॥
ईदृशान्यपि पुष्पाणि बिभर्त्येकापि रूपिणी ।
बहुरूपाणि चाप्यन्या पद्मानि च ततोऽपरा ॥ ६४॥
मन्दारादपि वृक्षाच्च सारमुद्धत्य कश्यपः ।
तस्मादेष तरुश्रेष्ठः सर्वेषां श्रेष्ठतां गतः ॥ ६५॥
ततस्तत्र निबध्याथ कश्यपं प्रददौ शुभा ।
अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च ॥ ६६॥
अदित्या कश्यपो दत्तः पुण्यार्थं च तथा मम ।
पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ॥ ६७॥
निष्क्रयेण मया मुक्तः कश्यपस्तु तपोधनः ।
इन्द्रो दत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम ॥ ६८॥
सोमश्चाप्यथ रोहिण्या ऋद्ध्या च धनदस्तथा ।
एवं सौभाग्यदो वृक्षः पारिजातो न संशयः ॥ ६९॥
परि जातो विष्णुपद्याः पारिजातेतिशब्दितः ।
मन्दारपुष्पैर्यद्युक्तो मन्दारस्तेन कथ्यते ॥ २.६७.७०॥
कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः ।
कोविदार इति ख्यातस्ततः स सुमहातरुः ॥ ७१॥
मन्दारः कोविदारश्च पारिजातश्च नामभिः ।
स वृक्षो ज्ञायते दिव्यो यस्यैतत्कुसुमोत्तमम् ॥ ७२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे सप्तषष्टितमोऽध्यायः ॥ ६७॥
२.६८ अष्टषष्टितमोऽध्यायः
पारिजातहरणे कृष्णप्रतिज्ञा KRiShNa vows to fetch pArijAta
श्रीकृष्णेन पारिजातवृक्षस्य आदातुं नारदस्य माध्यमे इन्द्राय सन्देषप्रेषणम्, दातुं नेच्छुकं इन्द्रं गदया ताडनस्य चेतावनी
वैशम्पायन उवाच ।
ततो जिगमिषुं तत्र नारदं मुनिसत्तमम् ।
प्रोवाच भगवान् विष्णुरप्रमेयपराक्रमः ॥ १॥
महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ ।
दृष्ट्वा सदस्यान् देवस्य त्रिपुरघ्नस्य धीमतः ॥ २॥
अनाज्ञया मद्वचनाद् विज्ञाप्यः पाकशासनः ।
सम्भावयित्वा भ्रातृत्वं पौराणं वेत्सि यन्मुने ॥ ३॥
यमस्राक्षीन्मुनिश्रेष्ठो भगवान् कश्यपस्तरुम् ।
पारिजातं पुरादित्याः सुखार्थं धर्मसत्तमः ॥ ४॥
स पुण्यमतिसौभाग्यं ददाति तरुसत्तमः ।
तव दत्तं पुरा दानं व्रतेन तरुमुत्तमम् ॥ ५॥
देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्तम ।
दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो ॥ ६॥
पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थमेव च ।
आनाययद् द्वारवतीं पारिजातं महाद्रुमम् ॥ ७॥
दत्ते दाने पुनः स्वर्गं तरुं त्वं नेतुमर्हसि ।
स वाच्य एवं भगवान् बलभिद् भगवंस्त्वया ॥ ८॥
तथा तथा प्रयत्नश्च कार्योऽस्मिन्मुनिसत्तम ।
यथा तरुवरं दद्यात् पारिजातं सुरेश्वरः ॥ ९॥
तत्र दूतगुणं तावत् पश्यामस्ते तपोधन ।
सम्भाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता ॥ २.६८.१०॥
एवं नारायणेनोक्तो नारदो भगवानृषिः ।
प्रहस्योवाच केशिघ्नमिदं वाक्यं तपोधनः ॥ ११॥
बाढमेवं प्रवक्ष्यामि यदुमुख्य सुरेश्वरम् ।
न तु दास्यति देवेन्द्रः पारिजातं कथञ्चन ॥ १२॥
मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा ।
निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः ॥ १३॥
मन्दरात् पर्वतश्रेष्ठान्नयितुं प्रेषितः पुरा ।
पारिजातं हरेणापि लोककर्त्रा जनार्दन ॥ १४॥
स्वयं विज्ञापितो गत्वा ततः शक्रेण शङ्करः ।
आक्रीडद्रुम उद्याने शच्याः स्यादिति याचितः ॥ १५॥
तथास्त्विति वरो दत्तो महादेवेन चानघ ।
न च नीतः पारिजातो मन्दरं चित्रकन्दरम् ॥ १६॥
क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः ।
महेन्द्रेण महाबाहो पारिजातस्ततः पुरा ॥ १७॥
प्रियार्थमुमया साक्षात् पारिजातवनं हरः ।
गव्यूतिशतविस्तीर्णं मन्दरस्यैव कन्दरम् ॥ १८॥
न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे ।
न च चन्द्रप्रभा शीता नैव कृष्ण सदागतिः ॥ १९॥
शीतोष्णे कृतस्तत्र शैलपुत्र्या भवन्ति हि ।
स्वयम्प्रभं वनं तद्धि महादेवस्य तेजसा ॥ २.६८.२०॥
वर्जयित्वा महादेवौ सगणौ यदुनन्दन ।
मां चान्यस्तद्वनं दिव्यं न प्रयाति कथञ्चन ॥ २१॥
स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः ।
सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै ॥ २२॥
गणास्तान्युपभुञ्जन्ति प्रवराणां महात्मनाम् ।
आज्ञया देवदेवस्य लोकनाथस्य केशव ॥ २३॥
पारिजाताद् बहुगुणं फलं तेषां तथा वनम् ।
अभिमानं प्रभाश्चैव गुणा भूरिगुणास्तथा ॥ २४॥
मूर्तिमन्तश्च ते वृक्षाः सोमं देवं वृषध्वजम् ।
उपतिष्ठन्ति सततं प्रवरैः सह केशव ॥ २५॥
रौद्रेण तेजसा जुष्टा दुःखैर्हीनाः सुखान्विताः ।
तरवो मन्दरे ते हि दयिताः शैलकन्यया ॥ २६॥
प्रविवेशान्धको नाम घोरस्तत्र महाबलः ।
दैतेयो वरदानेन दर्पितः पापनिश्चयः ॥ २७॥
स हतो देवदेवेन हरेणामित्रघातिना ।
अवध्यः सर्वभूतानां वृत्राद् दशगुणं बली ॥ २८॥
एवं दुःखं न ते देव पारिजातं प्रदास्यति ।
पुष्कराक्ष सहस्राक्षः सत्यमेतद् ब्रवीमि ते ॥ २९॥
सततं सहितो देव्या शच्या स हि वरद्रुमः ।
सर्वकामप्रदः कृष्ण तथेन्द्राय महौजसे ॥ २.६८.३०॥
श्रीभगवानुवाच ।
मुने तद् युज्यते साधु महादेवेन धीमता ।
यच्छचीकारणं कृत्वा न नीतः स तरुः पुरा ॥ ३१॥
स ज्येष्ठः सर्वभूतानां लोककृत् प्रभवोऽव्ययः ।
पारावर्यस्य सदृशं कृतवानिति मे मतिः ॥ ३२॥
अहं यवीयान् देवस्य सर्वथा बलघातिनः ।
लालनीयश्च भगवञ्जयन्त इव सत्तम ॥ ३३॥
सर्वथा भगवांस्तावदुपायैर्बहुविस्तरैः ।
करोतु यत्नं प्रीत्यर्थं शक्तो ह्यसि तपोधन ॥ ३४॥
मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया ।
स्वर्गादिहानयिष्यामि पारिजातमिति प्रभो ॥ ३५॥
मया तदनृतं कर्तुं कथं शक्यं तपोधन ।
नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ ॥ ३६॥
मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत् ।
यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विताः ।
परिधार्याः स्थितौ सर्वे स कथं ह्यनृतं वदेत् ॥ ३७॥
न देवगन्धर्वगणा न राक्षसा
न चासुरा नैव च यक्षपन्नगाः ।
मम प्रतिज्ञामपहन्तुमुद्यता
मुने समर्थाः खलु भद्रमस्तु ते ॥ ३८॥
स पारिजातं यदि न प्रदास्यति
प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने
गदां विमोक्ष्यामि पुरन्दरोरसि ॥ ३९॥
इति प्रवाच्यो यदि सामपूर्वकं
प्रयाच्यमानो न तरुं प्रयच्छति ।
सुनिश्चयं मद्गमनाय सर्वथा
त्वयापि कार्यः खलु तत्र निश्चयः ॥ २.६८.४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदकृष्णभाषणे अष्टषष्टितमोऽध्यायः ॥ ६८॥
२.६९ एकोनसप्ततितमोऽध्यायः
इन्द्रस्य पारिजातदानेऽसंमतिः Indra unwilling to part with pArijAta tree
स्वर्गे महादेवस्य परिचर्याहेतु नृत्यगीतादिकं उत्सवं, नारदेन इन्द्रं प्रति श्रीकृष्णस्य पारिजातविषयकं प्रार्थनारूपं सन्देशस्य कथनम्, इन्द्रेण अनेकानि कारणानि कथयित्वा पारिजातस्य अदानस्य विचारप्रकटनं
वैशम्पायन उवाच ।
नारदोऽथ मुनिर्गत्वा महेन्द्रसदनं प्रति ।
तां रात्रिमवसत् तत्र ददृशे च महोत्सवम् ॥ १॥
तत्रादित्या महात्मानो वसवश्च सुरोत्तमाः ।
राजर्षयश्च विद्वांसः स्वर्गताः कर्मभिः शुभैः ॥ २॥
नागा यक्षाश्च सिद्धाश्च चारणाश्च तपोधनाः ।
ब्रह्मर्षयश्च शतशो देवर्षिमनवस्तथा ॥ ३॥
सुपर्णाश्च महात्मानो मरुतश्च महाबलाः ।
दिवौकसां निकायाश्च शतशोऽन्ये समागताः ॥ ४॥
उपर्युपरि सर्वेषां सोमो देवो महेश्वरः ।
तस्थावमितविक्रान्तः स्वैर्गणैः परिवारितः ॥ ५॥
देवर्षिँभिर्मुनिश्रेष्ठैः संवृतः सर्वभावनः ।
कल्पान्तरसहस्रेषु क्षयो येषां न विद्यते ॥ ६॥
यानर्चयन्ति सततं देवा देवेश्वरोपमाः ।
आत्मना नावलेपान्धा ये च धर्मपथि स्थिताः ॥ ७॥
रुद्राश्च काश्यपा देवमध्युपासन्त भारत ।
स्कन्दश्च भगवानग्निर्गङ्गा च सरितां वरा ॥ ८॥
अर्चिष्मांस्तुम्बुरुश्चैव भारिश्च वदतां वरः ।
नेतारो देवदेवानामेते हि तपसान्विताः ॥ ९॥
एताननुविधीयन्ते सर्वदेवगणा नृप ।
धर्मनित्यास्तपोनित्याः सतां मार्गमुपाश्रिताः ॥ २.६९.१०॥
ये त्विमे मानुषा देवानर्चयन्ति शुभार्थिनः ।
तानर्चयन्ति ह्यमरास्तथा राजञ्छुभार्थिनः ॥ ११॥
पितृकृत्येषु देवानां संन्यासं ये त्वनुष्ठिताः ।
स्वाध्यायवन्तः कौरव्य सदा नियमचारिणः ॥ १२॥
गन्धर्वाधिपतिः श्रीमांस्तत्र चित्ररथो नृप ।
सपुत्रो वादयामास देववाद्यानि हृष्टवत् ॥ १३॥
ऊर्णायुश्चित्रसेनश्च हाहा हूहूस्तथैव च ।
डुम्बरस्तुम्बुरुश्चैव जगुरन्ये च षड्गुणान् ॥ १४॥
उर्वशी विप्रचित्तिश्च हेमा रम्भा च भारत ।
हेमदन्ता घृताची च सहजन्या तथैव च ॥ १५॥
जुजोष भगवान् देवस्तदुपस्थानमात्मवान् ।
वृत्तेन तुष्टः शक्रस्य जगाम जगतो गतिः ॥ १६॥
गते भूतपतौ सर्वे नृपा जग्मुर्यथागतम् ।
महेन्द्रेणार्चिता देवाः स्वानेव निलयान्गताः ॥ १७॥
ततः सर्वेषु यातेषु सुखासीनं पुरन्दरम् ।
सदस्यैः स्वैः सहासीनं नारदोऽभिययौ मुनिः ॥ १८॥
तमिन्द्रः पूजयामास समुत्थाय तपोधनम् ।
दिदेश कुशगर्भे च पीठमात्मासनोपमम् ॥ १९॥
नारदोऽथ महातेजा महेन्द्रमिदमब्रवीत् ।
दूतोऽहममरश्रेष्ठ विष्णोरतुलतेजसः ॥ २.६९.२०॥
किञ्चित्कार्यं पुरस्कृत्य प्रेषितोऽस्मि महात्मना ।
आनर्तादार्तिहरणं तस्यैवानघतेजसः ॥ २१॥
प्रीतिवाक्यानि हृद्यानि प्रयुज्य मुनये तदा ।
ततः प्रहृष्टो भगवानब्रवीत् पाकशासनः ॥ २२॥
किमाह पुरुषश्रेष्ठः शीघ्रमाचक्ष्व मे मुने ।
चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना ॥ २३॥
नारद उवाच ।
महेन्द्रेन्द्रानुजं द्रष्टुं गतोऽहं भ्रातरं तव ।
कथञ्चिद्द्वारकां तत्र काश्यपानां यशस्करम् ॥ २४॥
तं तु रैवतकेऽद्राक्षं तदासीनमरिन्दमम् ।
रुक्मिण्या सहितं वीरमुमयेव वृषध्वजम् ॥ २५॥
पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।
विस्मापनार्थं देवेश पत्नीनामुरुतेजसः ॥ २६॥
तद् दृष्ट्वा तस्य पत्न्यस्तु विस्मयं परमं ययुः ।
बहुकामप्रदं पुष्पं वृक्षराजसमुद्भवम् ॥ २७॥
गुणास्तासां मया ख्यातास्तस्य पुष्पस्य मानद ।
सृष्टिश्च पारिजातस्य कश्यपेन महात्मना ॥ २८॥
अदित्या कश्यपो दत्तः पुण्यार्थं च यथा मम ।
पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ॥ २९॥
त्वं च दत्तो यथा शच्या देवाश्चान्ये सुरेश्वर ।
निष्क्रयश्च यथा दत्तः कश्यपाद्यैर्महर्षिभिः ॥ २.६९.३०॥
तच्छ्रुत्वा तस्य पत्न्येका सत्यभामेति विश्रुता ।
पुण्यकार्यं मनश्चक्रे दयिता ते यवीयसः ॥ ३१॥
तया चाभ्यर्थितो भर्ता देव देव्या गणेश्वरः ।
प्रतिजज्ञे स धर्मार्थं यवीयांस्तव मानद ॥ ३२॥
ततो मामुक्तवान् वीरो विष्णुर्बलवतां वरः ।
यथावत्सुरमुख्येश ब्रुवतः शृणु भावतः ॥ ३३॥
लालनीयो यवीयांस्तु प्रणिपत्याच्युतोऽब्रवीत् ।
आनयेयं सुरश्रेष्ठ पारिजातं वरद्रुमम् ॥ ३४॥
मनोरथोऽस्तु सफलो वध्वास्तेऽसुरसूदन ।
धर्मकृत्ये विशेषेण वध्वास्ते सुरसत्तम ॥ ३५॥
अयं दर्शितकल्याणो लोको लोकगणेश्वर ।
पश्यन्त्यमरकल्याणं मत्प्रभावाच्च मानवाः ॥ ३६॥
वैशम्पायन उवाच ।
वासुदेववचः श्रुत्वा महेन्द्रः कुरुनन्दन ।
नारदं वदतां श्रेष्ठमिदं वाक्यमथाब्रवीत् ॥ ३७॥
भजासनं द्विजश्रेष्ठ युक्तमुक्तं त्वया द्विज ।
सन्देशं प्रतिदास्यामि विष्णोरतुलतेजसः ॥ ३८॥
आसीने नारदे शक्रो लब्धानुज्ञोऽथ नारदात् ।
स्वमासनं ततो भेजे तस्यैव सदृशं प्रभो ॥ ३९॥
उपविष्टः सुरपतिरथोबाच तपोधनम् ।
निरीक्ष्य स्वबलं वीर्यं हर्षदं वृत्रनाशनः ॥ २.६९.४०॥
महर्षे कुशलं पृष्ट्वा वक्तव्यस्ते जनार्दनः ।
वचनान्मम धर्मज्ञ सर्वभूतसुखावहः ॥ ४१॥
मदनन्तरमीशस्त्वं जगतो नात्र संशयः ।
त्वदीयः पारिजातश्च रत्नान्यन्यानि चाच्युत ॥ ४२॥
त्वं तु भारावतरणं कर्तुं देव महीं गतः ।
मानुष्यं सर्ववृत्तानां स्थितः कार्यस्य सिद्धये ॥ ४३॥
त्वयि तीर्णप्रतिज्ञे हि पुनः प्राप्ते त्रिविष्टपम् ।
पूरयिष्यामि वध्वास्ते इष्टान् कामानधोक्षज ॥ ४४॥
स्वर्गीयानि च रत्नानि न नेतव्यानि केशव ।
स्वल्पार्थे मानुषं लोकमिति पूर्वकृता स्थितिः ॥ ४५॥
उत्क्रम्य हि स्थितिं दैवीं प्रवर्तामि महाबल ।
यद्यहं किं प्रवक्ष्यन्ति प्रजापतिगणाः प्रभो ॥ ४६॥
ब्रह्मणा सह पुत्रेण सपौत्रेण महात्मना ।
नियमाः सर्वकृत्यानां स्थापिता जगतो ध्रुवाः ॥ ४७॥
प्रजापतिकृतं मार्गमपास्य व्रजतो मम ।
श्रुत्वा प्रजापतिर्धीमाञ्च्छापमप्युत्सृजेत् प्रभुः ॥ ४८॥
अस्माभिर्भिद्यमानं हि मर्यादासेतुबन्धनम् ।
भेत्स्यन्त्यशङ्किता दैत्या दैत्यपक्षास्तथापरे ॥ ४९॥
स्त्रीनिमित्तमितो नीते पारिजाते द्रुमेश्वरे ।
स्वर्गौकसो भविष्यन्ति विमनस्काश्च मानद ॥ २.६९.५०॥
उपभोगा मनुष्याणां विहिता ये स्वयम्भुवा ।
तैस्तु तुष्यतु मे भ्राता सम्पश्यन्कालपर्ययम् ॥ ५१॥
इहापि तात त्रिदिवे मम यः स्यात्परिग्रहः ।
त्रिदिवस्थोऽपि तं कृष्णः सर्वं भोक्तुमिहार्हति ॥ ५२॥
हृष्टो ह्यामिषभोज्यानामभिमानाज्जनार्दनः ।
ततो धर्मं समुत्सृज्य पापमेवानुवर्तते ॥ ५३॥
स्त्रीवश्यता ख्याप्यमाना कृष्णस्य हि महात्मनः ।
जगत्यथशसा योगं जनयेदिति मे मतिः ॥ ५४॥
मानुष्यं मानुषे प्राप्तो यदेतन्मधुसूदनः ।
कुर्यान्निर्बन्धनीयं यद् भ्रात्रा ज्येष्ठेन नारद ॥ ५५॥
स्वर्ग्यरत्नविलोपेन धर्षणा स्यान्ममानघ ।
ज्ञातितो धर्षणा चैव विशेषेणैव गर्हिता ॥ ५६॥
धर्ममर्थं च कामं च क्रमेण मधुसूदनः ।
सेवत्वेष सतां धर्मान्स्थापितान् पद्मयोनिना ॥ ५७॥
महीतलं पारिजातमर्पयिष्याम्यहं यदि ।
पौलोमीमादितः कृत्वा को नु मां बहु मंस्यते ॥ ५८॥
पारिजातं महीपृष्ठे दृष्ट्वा स्पृष्ट्वा च मानुषाः ।
स्वर्गार्थे नोद्यमिष्यन्ति दृष्ट्वा स्वर्गफलं क्षितौ ॥ ५९॥
पारिजातगुणान् मर्त्या जुषन्ति यदि नारद ।
देवतानां मनुष्याणां न विशेषो भविष्यति ॥ २.६९.६०॥
तत्र यत् क्रियते कर्म इह तद् भुज्यते नरैः ।
स्वर्गार्थं न यतिष्यन्ति पारिजातगुणान्विताः ॥ ६१॥
सर्वरत्नवरः स्वर्गे पारिजातस्तपोधन ।
तुल्यं देवसमैर्मर्त्यैः सर्वदैव जगद् भवेत् ॥ ६२॥
यज्ञैर्मर्त्या न यक्ष्यन्ति लब्धस्वर्गफला भुवि ।
न पूर्तानि प्रदास्यन्ति तुल्यत्वममरैर्गताः ॥ ६३॥
यज्ञैर्जप्याह्निकैश्चैव नित्यमाप्याययन्ति नः ।
मानुषाः स्वर्गमिच्छन्तः श्रद्दधानास्तपोधन ॥ ६४॥
तत् सर्वं न करिष्यन्ति पारिजातगुणान्विताः ।
निस्तेजसो भविष्याम ते गतास्तद्विहीनताम् ॥ ६५॥
इतः सुवृष्ट्या सस्यैस्ते जीवन्ति पुरुषा भुवि ।
आप्याययन्तस्तेऽप्यस्मान् दानैर्यज्ञैस्तथैव च ॥ ६६॥
न बुभुक्षा पिपासा वा बाधते यदि मानुषान् ।
रोगो जरा वा मृत्युर्वा धर्मज्ञारतिरेव च ॥ ६७॥
दौर्गन्ध्यं वा सुघोरा वा ईतयः कर्मसम्भवाः ।
किमुद्योगं करिष्यन्ति पारिजातगुणान्विताः ॥ ६८॥
सर्वथा नयनं तत्र पारिजातस्य न क्षमम् ।
इति वाच्यस्त्वया विप्र विष्णुरक्लिष्टकर्मकृत् ॥ ६९॥
यथा यथा च मे भ्राता तुष्यत्येतद् विचारयन् ।
तथा तथा त्वया कार्यं कार्यं मत्प्रीतिमिच्छता ॥ २.६९.७०॥
हाराश्च मणयश्चैव चन्दनान्यगुरूणि च ।
वस्त्राणि च विचित्राणि वध्वास्त्वं द्वारकां नय ॥ ७१॥
योग्यानि यानि मर्त्यानां यावदिच्छति केशवः ।
न स्वर्गपरिमोषं तु कर्तुमर्हति साम्प्रतम् ॥ ७२॥
ददामि रत्नानि यथेप्सितान्यहं बहूनि चित्राणि विभूषणानि च ।
न पारिजातं च कथञ्चन द्रुमं मुने प्रदास्यामि दिवौकसां प्रियम् ॥ ७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये एकोनसप्ततितमोऽध्यायः ॥ ६९॥
२.७० सप्ततितमोऽध्यायः
पारिजातं न दास्यामीतीन्द्रभाषणम् Indra refuses to part with pArijAta
श्रीकृष्णस्य गदाप्रहारस्य वार्त्तां श्रुत्वा कुपितस्य इन्द्रेण तस्य व्यवहारस्य कटुआलोचनं एवं युद्धं विना पारिजातस्य अदानस्येव निश्चयं
वैशम्पायन उवाच ।
देवराजवचः श्रुत्वा नारदः कुरुनन्दन ।
प्रोवाच वाक्यं वाक्यज्ञो धर्मात्मा धर्मवित्तमः ॥ १॥
अवश्यमेव वक्तव्यं हितं बलनिषूदन ।
मया तव महाबाहो बहुमानोऽस्ति मे त्वयि ॥ २॥
उक्तो मया वासुदेवो जानता भवतो मतम् ।
न दत्तः पारिजातोऽयं हरस्यापि त्वया पुरा ॥ ३॥
हेतवश्च मया तस्य दर्शितास्ते समासतः ।
न चावगतवान् देवः सत्यमेतद् ब्रवीमि ते ॥ ४॥
उपेन्द्रोऽहं महेन्द्रेण लालनीयः सदेति माम् ।
उवाच पुण्डरीकाक्षो दत्तमुत्तरमेव च ॥ ५॥
पुनः पुनर्मया वास्य हेतवो देव दर्शिताः ।
ततो न बुद्धिर्व्यावृत्ता वृत्रनाशन तस्य वै ॥ ६॥
अपि चाप्युक्तवान् देवो वाक्यान्ते मधुसूदनः ।
प्रत्याह पुरुषश्रेष्ठः सरोषमिव वासव ॥ ७॥
न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नगाः ।
मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते ॥ ८॥
स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरन्दरोरसि ॥ ९॥
उपेन्द्रस्य महेन्द्रायं भ्रातुस्ते निश्चयः परः ।
यदत्र मन्यसे न्याय्यं सम्प्रधार्य कुरुष्व तत् ॥ २.७०.१०॥
तत्त्वं हितं च देवेश श्रूयतां वदतो मम ।
नयनं पारिजातस्य द्वारकां मम रोचते ॥ ११॥
नारदेनैवमुक्तस्तु सुव्यक्तं बलदेहभित् ।
रोषाविष्टः सहस्राक्षोऽब्रवीदेतन्तराधिप ॥ १२॥
अनागसि मयि ज्येष्ठे सोदरे यदि केशवः ।
एवं प्रवृत्तः किं शक्यं कर्तुमद्य तपोधन ॥ १३॥
बहूनि प्रतिलोमानि पुरा स कृतवान् मयि ।
कृष्णो नारद सोढानि भ्रातेति स्म मया सदा ॥ १४॥
खाण्डवे चार्जुनरथं पुरा वाहयता सता ।
मदीया वारिता मेघाः शमयन्तोऽग्निमुद्धतम् ॥ १५॥
गोवर्धनं धारयता विप्रियं च कृतं मम ।
तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥ १६॥
समोऽहमिति सर्वेषां भूतानामिति चोक्तवान् ।
स्वबाहुबलमाश्रित्य वृत्रश्च निहतो मया ॥ १७॥
देवासुरेषु प्राप्तेषु सङ्ग्रामेषु च नारद ।
युध्यत्यात्मेच्छया कृष्णो मुने सुविदितं तव ॥ १८॥
बहुनात्र किमुक्तेन तस्माद् दिष्ट्या प्रवर्तताम् ।
ज्ञातिभेदो न नः कार्यः साक्षी त्वं मम नारद ॥ १९॥
ममोरसि गदां मोक्तुमुद्यतो यदि केशवः ।
अनुशब्द्याथ पौलोमीं गुणः क इह दृश्यते ॥ २.७०.२०॥
उदवासगतो धीमान् पिता नः कश्यपः प्रभुः ।
अदित्या सह मे मात्रा तयोर्वाक्यमिदं भवेत् ॥ २१॥
अजितात्मा मम भ्राता रजसा तमसा वृतः ।
कामेन च स्त्रियो बाक्यादेवं मामुक्तवान्गुरुम् ॥ २२॥
धिक्स्त्रियः सर्वथा विप्र धिग् राजसमितिं तथा ।
यत्राधिक्षिप्तवान् विष्णुरेवं मां स्त्रीजितो द्विज ॥ २३॥
न दृष्टं कश्यपकुले व्यपदेश्यं महामुने ।
नैव दक्षकुले दृष्टं मातुर्मे यत्र सम्भवः ॥ २४॥
न ज्येष्ठता न राजत्वं देवानां प्रतिमानितम् ।
कामरागाभिभूतेन कृष्णेन खलु नारद ॥ २५॥
पुत्रदारसहस्रैर्हि भ्रातानघ विशिष्यते ।
सद्वृत्तो ज्ञानसम्पन्न इति ब्रह्मा पुराब्रवीत् ॥ २६॥
नास्ति भ्रातृसमो वन्धुराहार्य इतरो जनः ।
इति मामव्रवीन्माता पिता चैव प्रजापतिः ॥ २७॥
सोदरे तु विशेषं तु पिता मे कश्यपोऽब्रवीत् ।
दृप्ता मया विरुद्धयन्ते दानवाः पापनिश्चयाः ॥ २८॥
काममेतन्न वक्तव्यं स्वयमात्मस्तवान्वितम् ।
प्राप्तस्त्ववसरो विप्र यदिहाद्योच्यते मया ॥ २९॥
धनुर्ज्यायां मुनिश्रेष्ठ छिन्नायां हि पुरानघ ।
धन्वीभिरमराणां च वरदानान्महामते ॥ २.७०.३०॥
उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया ।
सन्धितं च शिरो यत्नाच्छिन्नं रौद्रेण तेजसा ॥ ३१॥
अहं विशिष्टो देवानामित्युक्त्या पुनरच्युतः ।
धनुरारोप्य दर्पेण स्थितो नारद केशवः ॥ ३२॥
किं मां पिता वा माता वा वक्ष्यतीति मया मुने ।
स्नेहेन च स्थितं विष्णोः शरीरं मुनिसत्तम ॥ ३३॥
ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ ।
यवीयांसमहं प्रेम्णा कृष्णं पश्यामि नारद ॥ ३४॥
सङ्ग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन ।
राजा किलाहं समरे प्रहराम्यग्रतो धुवम् ॥ ३५॥
प्रादुर्भावेषु सर्वेषु स्वशरीरमिवानघ ।
यत्नाद् रक्षामि धर्मज्ञ केशवं भक्तिमाश्रितम् ॥ ३६॥
इदं भङ्क्त्वा मदीयं च भुवनं विष्णुना कृतम् ।
उपर्युपरि लोकानामधिकं भुवनं मुने ॥ ३७॥
अवमानः स च मया पृष्ठतः क्रियते मुने ।
लालनीयो मया बाल इत्येवं भ्रातृगौरवात् ॥ ३८॥
बालोऽयं मम पुत्रेति यवीयानिति नारद ।
पित्रा मात्रा च गोविन्दो मानी च परिभाषितः ॥ ३९॥
इष्टस्तत्र जनानां च केशवः सुविशेषतः ।
वयं द्वेष्या न सन्देहस्तत्र स्नेहोऽतिरिच्यते ॥ २.७०.४०॥
सर्वज्ञो बलवाञ्छ्ररः पात्रं मानयिता तथा ।
केशवेत्येव च ध्यानं यत्तद्वितथतां गतम् ॥ ४१॥
गच्छ नारद वक्तव्यः केशवो वचनान्मम ।
आहूतो न निवर्तेयं समरं प्रति शत्रुभिः ॥ ४२॥
यदीच्छसि तदागच्छ सह्यं ते यत्त्वमिच्छसि ।
प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि ॥ ४३॥
रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन च ।
प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन ॥ ४४॥
प्रहृते प्रहरिष्यामि यथाशक्त्या च केशव ।
अहो धिग् यदि मां स्नेहो विक्लवं न करिष्यति ॥ ४५॥
यावन्न सङ्ग्रामगतो जितोऽहं चक्रपाणिना ।
पारिजातं न दास्यामि तावद् भो मुनिसत्तम ॥ ४६॥
मां समाह्वयते ज्येष्ठं यवीयान् स तपोधन ।
अहो तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम् ॥ ४७॥
अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् ।
विवादे संस्थितः सोऽज्ञ इति वाच्यस्त्वयाच्युतः ॥ ४८॥
पलाशपत्रार्द्धमपि त्वयाजितो न पारिजातस्य तव प्रदास्यति ।
इति प्रवाच्यो मधुसूदनस्त्वया वचो मदीयं स्मरता तपोधन ॥ ४९॥
पुनः प्रवाच्यो भगवंस्त्वयाच्युतो मम प्रियार्थं खलु निर्विशङ्कितम् ।
न मायया हर्तुमिहार्हसि द्रुमं सुयुद्धमेवास्तु धिगस्तु जिह्मताम् ॥ २.७०.५०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये सप्ततितमोऽध्यायः ॥ ७०॥
२.७१ एकसप्ततितमोऽध्यायः
शक्रनिश्चयकथनार्थं नारदस्य द्वारकाम् प्रति गमनम् NArada returns to dvArakaA to convey indra's refusal
नारदात् श्रीकृष्णस्य महत्ताप्रतिपादनं श्रुत्वापि इन्द्रस्य तं पारिजातस्य दाने अनुद्यता
वैशम्पायन उवाच ।
महेन्द्रवचनं श्रुत्वा नारदो वदतां वरः ।
विविक्ते देवराजानमिदं वचनमब्रवीत् ॥ १॥
कामं प्रियाणि राजानो वक्तव्या नात्र संशयः ।
प्राप्तकालं तु वक्तव्यं हितमप्रियमप्युत ॥ २॥
अनियुक्तपुरोभागो न स्यादिति वदन्ति हि ।
सुलोकगतितत्त्वज्ञो नयविज्ञानकोविदः ॥ ३॥
कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् ।
यतस्ततः प्रवक्ष्यामि गृह्यतां यदि रोचते ॥ ४॥
अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।
न्याय्यं च प्राप्तकालं च पराभवमनिच्छता ॥ ५॥
वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम् ।
आनृण्यमेतत् स्नेहस्य सद्भिरेवादृतं पुरा ॥ ६॥
अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं च हितं वाच्यं सद्भिरेवेति निन्दिताः ॥ ७॥
सर्वथा देव वक्तव्यं श्रूयतां शृण्वतां वर ।
श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वचः ॥ ८॥
अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।
भवत्यानन्दकृद् देव द्विषतां नात्र संशयः ॥ ९॥
हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर ।
विपरीतं च तद्बुद्ध्या नित्यं बुद्धिमतां वर ॥ २.७१.१०॥
यत्स्यात्तापकरं पश्चादारब्धं कार्यमीदृशम् ।
आरभेन्नैव तद् विद्वानेष बुद्धिमतां नयः ॥ ११॥
विपाकमस्य कार्यस्य नानुपश्यामि शोभनम् ।
यदत्र कारणं देव निबोध विबुधाधिप ॥ १२॥
य एको विश्वमध्यास्ते प्रधानं जगतो हरिः ।
प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर्बुधाः ॥ १३॥
तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः ।
तस्यात्मा परमो देवो विष्णुः सर्वस्य धीमतः ॥ १४॥
प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी ।
व्यक्तः सर्वमयो विश्वः स्त्रीसंज्ञो लोकभावनः ॥ १५॥
रुक्मिण्याद्याः स्त्रियस्तस्या व्यक्तत्वं प्रथमो गुणः ।
अव्यया प्रकृतिर्देवी गुणी देवो महेश्वरः ॥ १६॥
न विशेषोऽस्य रुद्रस्य विष्णोश्चामरसत्तम ।
गुणिनश्चाव्ययः शास्ता सदा च प्रथमोऽगुणः ॥ १७॥
नारायणो महातेजाः सर्वकृत्ययेकभावनः ।
भोक्ता महेश्वरो देवः कर्ता विष्णुरधोक्षजः ॥ १८॥
ब्रह्मा देवगणाश्चान्ये पश्चात्सृष्टा महात्मना ।
महादेवेन देवेश प्रजापतिगणास्तथा ॥ १९॥
एवं पुराणपुरुषो विष्णुर्देवेषु पठ्यते ।
अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥ २.७१.२०॥
अदित्या तपसा विष्णुर्महात्माऽऽराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः ॥ २१॥
तयोक्तस्त्वत्समं पुत्रमिच्छामीति सुरोत्तम ।
प्रणिपत्य च विज्ञाय नारायणमधोक्षजम् ॥ २२॥
तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ॥ २३॥
स जातः सर्वकृद् देवो भ्राता तव सुरेश्वर ।
नारायणो महातेजा यमुपेन्द्रं प्रचक्षते ॥ २४॥
इच्छन्नेव हरिर्देव काश्यपत्वमुपागतः ।
तैस्तैर्भावैर्विकुरुते भूतभव्यभवाप्ययः ॥ २५॥
प्रादुर्भावं गतो देवो जगतो हितकाम्यया ।
माथुरं जगतो नाथः कर्ता हर्ता च केशवः ॥ २६॥
यथा पललपिण्डः स्याद् व्याप्तः स्नेहेन मानद ।
तथा जगदिदं व्याप्तं विष्णुना प्रभविष्णुना ॥ २७॥
ब्रह्मण्यदेवः सर्वात्मा तैस्तैर्भावैर्विकुर्वति ।
जगत्यतिगुणो देवो वैकुण्ठः सर्वभावनः ॥ २८॥
अतः समस्तदेवानां पूज्य एव च केशवः ।
पद्मनाभश्च भगवान् प्रजासर्गकरो विभुः ॥ २९॥
अनन्तो धारणार्थं च बिभर्ति च महद्यशः ।
यज्ञ इत्यपि सद्भिश्च कथ्यते वेदवादिभिः ॥ २.७१.३०॥
श्वेतः कृतयुगे देवो रक्तस्त्रेतायुगे तथा ।
द्वापरे च तथा पीतः कृष्णः कलियुगे विभुः ॥ ३१॥
अवधीत्स हिरण्याक्षं दिव्यरूपधरो हरिः ।
दधाराप्सु निमज्जन्तीमेष देवो वसुन्धराम् ॥ ३२॥
वाराहं वपुराश्रित्य जगतो हितकाम्यया ।
जघ्ने हिरण्यकशिपुं नारसिंहवपुर्हरिः ॥ ३३॥
जिगाय जगतीं चैव विष्णुर्वामनरूपधृक् ।
बबन्ध च बलिं देवः श्रीमान् पन्नगबन्धनैः ॥ ३४॥
देवदानवसम्भूतानाक्रामयदपि श्रियम् ।
त्वय्यनन्तः पुरा विष्णुरुदारोऽमितविक्रमः ॥ ३५॥
सावशेषं तपो यस्य तन्निहन्ति जनार्दनः ।
अलीकेष्वपि वर्तन्तं व्रतमेतन्महात्मनः ॥ ३६॥
जघ्ने च दानवान् मुख्यान् देवानां ये च शत्रवः ।
तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः ॥ ३७॥
रामत्वमपि चावाप्य जघ्ने रावणमात्मवान् ।
भूत्वा कामगुणांश्चैव जघान द्विरदं हरिः ॥ ३८॥
हिताय जगतोऽद्यापि लोके वसति मानुषे ।
उपेन्द्रो जगतां नाथः सर्वभूतोत्तमोत्तमः ॥ ३९॥
जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः ।
दैतेयेषु चरन् देवस्तृणेष्वग्निरिवोद्धतः ॥ २.७१.४०॥
अद्राक्षमपि गोविन्दं दानवैकार्णवं जगत् ।
कुर्वाणं दानवैर्हीनं जगतो हितकाम्यया ॥ ४१॥
अवश्यं पारिजातं ते नयिष्यति जनार्दनः ।
द्वारकाममरश्रेष्ठ नानृतं च ब्रवीम्यहम् ॥ ४२॥
भ्रातृस्नेहाभिभूतस्त्वं न कृष्णे प्रहरिष्यसि ।
नापि कृष्णस्त्वयि ज्येष्ठे प्रहरिष्यति वासव ॥ ४३॥
नैव चेच्छ्रोष्यति प्रोक्तं मया देव कथञ्चन ।
पृच्छ त्वं नयधर्मज्ञान् ये हितास्तव मन्त्रिणः ॥ ४४॥
वैशम्पायन उवाच ।
नारदेनैवमुक्तस्तु महेन्द्रो जनमेजय ।
इदमुत्तरमीशोऽथ प्रत्युवाच जगद्गुरुम् ॥ ४५॥
एवंविधप्रभावं त्वं कृष्णं वदसि यद् द्विज ।
एवमेतत् सुबहुशः श्रुतं खलु मया मुने ॥ ४६॥
यतश्चैवंविधः कृष्णस्ततोऽहं तस्य वै तरुम् ।
न प्रदास्यामि दातव्यं सतां धर्ममनुस्मरन् ॥ ४७॥
महाप्रभावो नाल्पार्थे रुष्येदिति विचिन्तयन् ।
व्यवस्थितोऽहं भद्रं ते मुने सर्वगुणादिति ॥ ४८॥
महाप्रभावाः सततं भवन्ति हि सहिष्णवः ।
श्रोतारश्चैव सततं वृद्धानां ज्ञानचक्षुषाम् ॥ ४९॥
महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः ।
भ्रात्रा ज्येष्ठेन सर्वज्ञो विरोधं गन्तुमर्हति ॥ २.७१.५०॥
यथैवं मम मातुः स वरं प्रादादधोक्षजः ।
तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुमर्हति ॥ ५१॥
यथैवोपेन्द्रतां यातः स्वयमिच्छञ्जनार्दनः ।
तथैव भ्रातुरिन्द्रस्य सम्मानं कर्तुमर्हति ॥ ५२॥
ज्यैष्ठ्यमेतेन देवेन नारब्धं किं पुरातने ।
अथेदानीमपीच्छेत् स ज्येष्ठोऽस्तु मधुसूदनः ॥ ५३॥
सुनिश्चितं बलरिपुमीक्ष्य नारदो विसर्जितस्त्रिदशवरेण धर्मभृत् ।
ययौ पुरीं यदुवृषभाभिरक्षितां कुशस्थलीं धृतिमतिमांस्तपोधनः ॥ ५४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदस्य स्वर्गात्पुनरागमने एकसप्ततितमोऽध्यायः ॥ ७१॥
२.७२ द्विसप्ततितमोऽध्यायः
कश्यपकृतं रुद्रस्तोत्रम् Hymn to rudra by kashyapa
श्रीकृष्णेन नारदं अमरावत्योपरि आक्रमणस्य निश्चयं कथयित्वा इन्द्राय सन्देशप्रेषणम्, इन्द्रबृहस्पतयोः वार्तालापः, बृहस्पतिना कश्यपाय अस्य समाचारस्य कथनं एवं कश्यपेन युद्धस्य शान्तये भगवतः शङ्करस्य स्तुतिः
वैशम्पायन उवाच ।
अथेत्य द्वारकां रम्यां नारदो मुनिसत्तमः ।
ददर्श पुरुषश्रेष्ठं नारायणमरिन्दमम् ॥ १॥
स्ववेश्मनि सुखासीनं सहितं सत्यभामया ।
विराजमानं वपुषा सर्वतेजोऽतिगामिना ॥ २॥
तमेवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् ।
केवलं योजयन्तं च वाक्यमात्रेण भाविनीम् ॥ ३॥
दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः ।
पूजयामास च तथा विधिदृष्टेन कर्मणा ॥ ४॥
सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः ।
वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति ॥ ५॥
अथाचष्ट मुनिः सर्वं विस्तरेण तपोधनः ।
इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय ॥ ६॥
श्रुत्वा कृष्णस्तु तत्सर्वं नारदं वाक्यमब्रवीत् ।
अमरावतीं पुरीं यास्ये श्वोऽहं धर्मभृतां वर ॥ ७॥
इत्युक्त्वा नारदेनैव सहितः सागरं ययौ ।
सन्दिदेश ततस्तत्र विविक्ते नारदं हरिः ॥ ८॥
महेन्द्रभवनं गत्वा अद्य ब्रूहि तपोधन ।
अभिवाद्य महात्मानं मद्वाक्यममरोत्तमम् ॥ ९॥
न युद्धे प्रमुखे शक्र स्थातुमर्हसि मे प्रभो ।
पारिजातस्य नयने निश्चितं त्वमवेहि माम् ॥ २.७२.१०॥
एवमुक्तस्तु कृष्णेन नारदस्त्रिदिवं गतः ।
आचचक्षेऽथ कृष्णोक्तं देवेन्द्रस्यामितौजसः ॥ ११॥
ततो बृहस्पतेः शक्रः शशंस बलनाशनः ।
श्रुत्वा बृहस्पतिर्देवमुवाच कुरुनन्दन ॥ १२॥
अहो धिग् ब्रह्मसदनं मयि याते शतक्रतो ।
दुर्नीतमिदमारब्धमत्र भेदो हि दारुणः १३॥
अनाख्यात्वा कथं नाम भवता भुवनेश्वर ।
ममैतत् कृत्यमारब्धं देव केनापि हेतुना ॥ १४॥
अथवा भवितव्येन कर्मजेन प्रयुज्यते ।
जगद् वृत्रघ्न न विधिः शक्यः समतिवर्तितुम् ॥ १५॥
सहसैव तु कार्याणामारम्भो न प्रशस्यते ।
तदेतत्सहसाऽऽरब्धं कार्यं दास्यति लाघवम् ॥ १६॥
बृहस्पतिं महात्मानं महेन्द्रस्त्वब्रवीद् वचः ।
एवं गतेऽद्य यत् कार्यं तद् भवान् वक्तुमर्हति ॥ १७॥
तमुवाचाथ धर्मात्मा गतानागततत्त्ववित् ।
अधोमुखश्चिन्तयित्वा बृहस्पतिरुदारधीः ॥ १८॥
यतस्व सह पुत्रेण योधयस्व जनार्दनम् ।
तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति ॥ १९॥
बृहस्पतिस्त्वेवमुक्त्वा क्षीरोदं सागरं गतः ।
आचष्ट मुनये सर्वं कश्यपाय महात्मने ॥ २.७२.२०॥
तच्छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिमभाषत ।
अवश्यं भाव्यमेतद् भोः सर्वथा नात्र संशयः ॥ २१॥
इच्छतः सदृशीं भार्यां महर्षेर्देवशर्मणः ।
अपध्यानकृतो दोषः पतत्येष शतक्रतोः ॥ २२॥
तस्य दोषस्य शान्त्यर्थमारब्धश्च मुने मया ।
उदवासः स दोषश्च प्राप्त एव सुदारुणः ॥ २३॥
तद् गमिष्यामि मध्येऽस्य सहादित्या तपोधन ।
उभौ तौ वारयिष्यामि दैवं संवदते यदि ॥ २४॥
बृहस्पतिस्तु धर्मात्मा मारीचमिदमब्रवीत् ।
प्राप्तकालं त्वया तत्र भवितव्यं तपोधन ॥ २५॥
तथेति कश्यपश्चोक्त्वा सम्प्रस्थाप्य बृहस्पतिम् ।
जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम् ॥ २६॥
तत्र सौम्यं महात्मानमानर्च वृषभध्वजम् ।
वरार्थी कश्यपो धीमानदित्या सहितः प्रभुः ॥ २७॥
तुष्टाव च तमीशानं मारीचः कश्यपस्तदा ।
वेदोक्तैः स्वकृतैश्चैव स्तवैः स्तुत्यं जगद्गुरुम् ॥ २८॥
कश्यप उवाच ।
उरुक्रमं विश्वकर्माणमीशं जगत्स्रष्टारं धर्मदृश्यं वरेशम् ।
सं सर्वं त्वां धृतिमद्धाम दिव्यं विश्वेश्वरं भगवन्तं नमस्ये ॥ २९॥
यो देवानामधिपः पापहर्ता ततं विश्वं येन जगन्मयत्वात् ।
आपो गर्भं यस्य शुभा धरित्र्यो विश्वेश्वरं तं शरणं प्रपद्ये ॥ २.७२.३०॥
शालावृकान्यो यतिरूपो निजघ्ने दत्तानिन्द्रेण प्रणुदो हितानाम् ।
विरूपाक्षं सुदर्शनं पुण्ययोनिं विश्वेश्वरं शरणं यामि मूर्ध्ना ॥ ३१॥
भुङ्क्ते य एको विभुर्जगतो विश्वमग्र्यं धाम्नां धाम सुकृतित्वान्न धृष्यः ।
पुष्यात् स मां महसा शाश्वतेन सोमपानां मरीचिपानां वरिष्ठः ॥ ३२॥
अथर्वाणं सुशिरसं भूतयोनिं कृतिनं वीरं दानवानां च बाधम् ।
यज्ञे हुतिं यज्ञियं संस्कृतं वै विश्वेश्वरं शरणं यामि देवम् ॥ ३३॥
जगज्जालं विततं यत्र विश्वं विश्वात्मानं प्रीतिदेवं गतानाम् ।
य ऊर्ध्वगं रथमास्थाय याति विश्वेश्वरः स सुमना मेऽस्तु नित्यम् ॥ ३४॥
अन्तश्चरं रोचनं चारुशाखं महाबलं धर्मनेतारमीड्यम् ।
सहस्रनेत्रं शतवर्त्मानमुग्रं महादेवं विश्वसृजं नमस्ये ॥ ३५॥
शुचिं योगं शंसनं शान्तपापं शर्वं शम्भुं शङ्करं भूतनाथम् ।
धुरन्धरं गोपतिं चन्द्रचिह्नं हृषीकाणामयनं यामि मूर्ध्ना ॥ ३६॥
आशुःशिशानं वृषभं रोरुवाणं कृतं धर्मं वितथं चाशुशेषम् ।
वसुन्धरं समृजीकं समं त्वां धृतव्रतं शूलधरं प्रपद्ये ॥ ३७॥
अनन्तवीर्यं धृतकर्माणमाद्यं यज्ञाशेषं यजतां चाभियाज्यम् ।
हविर्भुजं भुवनानां सदैव ज्येष्ठं द्विजं धर्मभृतां प्रपद्ये ॥ ३८॥
परं गुणेभ्यः पृश्निगर्भस्वरूपं यशः शृङ्गं व्यूहनं कान्तरूपम् ।
शुद्धात्मानं पुरुषं सत्यधामं सम्मोहनं दुष्कृतिनां नमस्ये ॥ ३९॥
युक्तोङ्कारं स्वशिरसं चारुकर्म दृढव्रतं दृदधन्वानमाजम् ।
शूरं वेत्तारं धनुषोऽस्त्रातिरेकं पतिं पशूनां शमनं नमस्ये ॥ २.७२.४०॥
एको रातिश्चैव भूतं भविष्यं सर्वातिथिर्यो हि जुषत्यरिघ्नः ।
अरिन्तुदोऽनुत्तमः संविभागी विभाजको मां भगवान्पातु देवः ॥ ४१॥
य एको याति जगतां विश्वमीशो य एकोऽदान्मरुतां प्राणमग्र्यम् ।
येनानृशंस्याच्छाश्वतं साम जुष्टं स मां जुष्यात्सुकृतिश्रेयसेऽद्य ॥ ४२॥
ब्रह्मासृजद् यो भुवनोत्तमोत्तमं तृप्तो विद्वान्ब्राह्मणः षड्गुणस्य ।
सृष्ट्वा रसं व्याहृतिस्थं समग्रं स मां पायादिह बहुरूपोऽरिहाङ्गैः ॥ ४३॥
व्यञ्जनोऽजनोऽथ विद्वान् समग्रः स्पृशिः शम्भुः प्राणदः कृत्तिवासाः ।
रसो ध्रुवः पवमानस्य भर्ता सपत्नीशः शङ्करः सारधाता ॥ ४४॥
त्र्यम्बकं पुष्टिदं विब्रुवाणं धर्मं विप्राणां वरदं यज्वनां च ।
वराद् वरं रणजेतारमीशं देवं देवानां शरणं यामि रुद्रम् ॥ ४५॥
आस्यं देवानामन्तकं दुष्कृतीनां त्रिवृत्स्तोमं वृक्षहं कर्मसाक्ष्यम् ।
भूतायनं भूतपतिं गुणज्ञं गुणाकारं शरणं यामि रुद्रम् ॥ ४६॥
अनुद्धृतं यज्ञकर्तारमन्तं मध्यं चाद्यं यज्ञकृतां साम्यरूपम् ।
वेदव्रतेषु बहुधा गीतमीशमभित्रिविष्टपं शरणं यामि रुद्रम् ॥ ४७॥
महाजिनं व्रतिनं मेखलालं सुतोषणं क्रोधधवं विपापम् ।
भूतं क्षेत्रज्ञं गुणिनं वा कपर्दिनं नतोऽस्मीशं वन्दनं वन्दनानाम् ॥ ४८॥
देवं देवानां पावनं पावनानां कृतिं कृतीनां महतो महान्तम् ।
शतात्मानं संस्तुतं गोपतीनां पतिं देवं शरणं यामि रुद्रम् ॥ ४९॥
अन्तश्चरं पुरुषं गुह्यसंज्ञं प्रभास्वन्तं प्रणवं विप्रदीपम् ।
हेतुं परं परमस्याक्षरस्य शुभं देवं गुणिनं सन्नतोऽस्मि ॥ २.७२.५०॥
प्रसूतिरुभयोर्न प्रसूतश्च सूक्ष्मः पृथग्भूतेभ्यो न पृथक्यैकभूतः ।
स्वयं भूतः पातु मां सर्वसादः प्रदः स्वादः सम्पदः पातु रत्नम् ॥ ५१॥
आसन्नः सन्नतरः साधनानां श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
पतिर्गणानां महतां सत्कृतीनां पायान्मेषः पूरणः षड्गुणानाम् ॥ ५२॥
अन्तर्बहिर्वृजिनानां निहन्ता स्वयं कर्ता भूतभावी विकुर्वन् ।
धृतायुधः सुकृतिनामुत्तमौजाः प्रणुद्यान्मे वृजिनं देवदेवः ॥ ५३॥
येनोद्धतास्त्रैः पुरा मायिनो वै दग्धा घोरेण वितथान्ताः शरेण ।
महत्कुर्वन्तो वृजिनं देवतानां ज्यायानीशः पातु विश्वोदधाता ॥ ५४॥
भागीयसां भागमतोऽन्तमिच्छन् मखो दाक्षो येन कृत्तोऽन्वधावत् ।
विद्वान्यज्ञस्यादिरथान्तः स देवः पायादीशो मां दक्षयज्ञान्तहेतुः ॥ ५५॥
अन्यो धन्यः संस्कृतश्चोत्तमश्च जगत्सृष्ट्वा योऽत्ति सर्वातिगुह्यः ।
स मां मुखप्रमुखे पातु नित्यं विचिन्वानः प्रथमः षड्गुणानाम् ॥ ५६॥
गुणत्रैकाल्यं यस्य देवस्य नित्यं सत्त्वोद्रेको यस्य भावात्प्रसूतः ।
गोप्ता गोप्तॄणां सन्नदो दुष्कृतीनामाद्यो विश्वस्य बाधमानस्य क्रुद्धः ॥ ५७॥
धाम्नो यस्य हरिरग्रोऽथ विश्वो ब्रह्मा पुत्रैः सहितश्च द्विजाश्च ।
पराभूता भवने यस्य सोमो जुषत्वेष श्रेयसे साधुगोप्ता ॥ ५८॥
यस्माद्भूतानां भूतिरन्तोऽथ मध्यं धृतिर्भूतिर्यश्च गुहाश्रुतिश्च ।
गुहाभिभूतस्य पुरुषेश्वरस्य महात्मनः सम्मृडवेद्यस्य तस्य ॥ ५९॥
यल्लिङ्गाङ्कं त्र्यम्बकः सर्वमीशो भगलिङ्गाङ्कं यद्ध्युमा सर्वधात्री ।
नान्यत् तृतीयं जगतीहास्ति किञ्चिन्महादेवात् सर्वसर्वेश्वरोऽसौ ॥ २.७२.६०॥
इति संस्तूयमानस्तु भगवान् वृषभध्वजः ।
दर्शयामास धर्मात्मा कश्यपं धर्मधृग्वरम् ॥ ६१॥
उवाच चैनं देवेशः प्रसन्नेनान्तरात्मना ।
येन संस्तौषि कार्येण त्वं तज्जाने प्रजापते ॥ ६२॥
इन्द्रोपेन्द्रौ महात्मानौ देवौ प्रकृतिमेष्यतः ।
पारिजातं तु धर्मात्मा नयिष्यति जनार्दनः ॥ ६३॥
अपध्यातो महेन्द्रो हि मुनिना देवशर्मणा ।
अस्याकाङ्क्षत्पुरा भार्या तपोदीप्तस्य कश्यप ॥ ६४॥
गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया ।
अदित्या शक्रसदनं श्रेयस्ते पुत्रयोर्धुवम् ॥ ६५॥
इति हरवचनं निशम्य विद्वान्
कमलभवात्मजसूनुरप्रमेयः ।
त्रिदशगणगुरुं प्रणम्य रुद्रं
मुदितमनाः सुमनौकसं जगाम ॥ ६६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे कश्यपकृतरुद्रस्तोत्रे द्विसप्ततितमोऽध्यायः ॥ ७२॥
२.७३ त्रिसप्ततितमोऽध्यायः
इन्द्रकृष्णयोर्युद्धं विष्णोरुत्कर्षश्च Battle between indra and kRiShNa
इन्द्रश्रीकृष्णयोः, जयन्तप्रद्युम्नयोः, प्रवरसात्यक्योः एवं ऐरावतगरुडयोः युद्धं
वैशम्पायन उवाच ।
अथ विष्णुर्महातेजा मुहूर्ताभ्युदिते रवौ ।
मृगयाव्यपदेशेन ययौ रैवतकं गिरिम् ॥ १॥
आरोप्यैकरथे देवः सात्यकिं नरपुङ्गवम् ।
प्रद्युम्नमनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह ॥ २॥
रैवतं च गिरिं देवो गत्वा दारुकमब्रवीत् ।
मदीयं रथमेनं त्वं ग्रहायेहैव दारुक ॥ ३॥
प्रतिपालय मां सौम्य दिनार्द्धे वारयन् हरीन् ।
रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम ॥ ४॥
इति सन्दिश्य भगवानारुरोह जयोद्यतः ।
तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रमः ॥ ५॥
पृथग् रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः ।
आकाशगामिना राजन्पृष्ठतः कृष्णमन्वयात् ॥ ६॥
निमेषान्तरमात्रेण नन्दनं काननं हरिः ।
देवोद्यानं ययौ धीमान् पारिजातजिहीर्षया ॥ ७॥
ददर्श तत्र भगवान् देवयोधान् दुरासदान् ।
नानायुधधरान् वीरान् नन्दनस्थानधोक्षजः ॥ ८॥
तेषां सम्पश्यतामेव पारिजातं महाबलः ।
उत्पाट्यारोपयामास पारिजातं सतां गतिः ॥ ९॥
गरुडं पक्षिराजानमयत्नेनैव भारत ।
उपस्थितो विग्रहवान् पारिजातः स केशवम् ॥ २.७३.१०॥
सान्त्वितो वासुदेवेन पारिजातश्च भारत ।
उक्तश्च वृक्ष मा भैस्त्वं केशवेन महात्मना ॥ ११॥
तं प्रस्थितं तरुं दृष्ट्वा पारिजातमधोक्षजः ।
अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम् ॥ १२॥
ते तु नन्दनगोप्तारः पारिजातो द्रुमोत्तमः ।
ह्रियतीति महेन्द्राय गत्वा नृप शशंसिरे ॥ १३॥
अथैरावतमारुह्य निर्ययौ पाकशासनः ।
जयन्तेन रथस्थेन पृष्ठतोऽनुगतः प्रभुः ॥ १४॥
पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम् ।
दृष्ट्वोवाच प्रवृत्तं भोः किमिदं मधुसूदन ॥ १५॥
प्रणम्य गरुडस्थोऽथ केशवः शक्रमब्रवीत् ।
वध्वास्ते पुण्यकार्याय नीयतेऽयं वरद्रुमः ॥ १६॥
तमुवाच ततः शक्रो मा मैवं पुष्करेक्षण ।
अयोधयित्वा न तरुर्नयितव्यस्त्वयाच्युत ॥ १७॥
प्रहरस्व महाबाहो प्रथमं मयि केशव ।
प्रतिज्ञा सफला तेऽस्तु मुक्त्वा कौमोदकी मयि ॥ १८॥
ततः कृष्णः शरैस्तीक्ष्णैर्देवराजगजोत्तमम् ।
बिभेदाशनिसङ्काशैः प्रहसन्निव भारत ॥ १९॥
विव्याध गरुडं वज्री दिव्यैः शरवरैस्तथा ।
बाणांश्चिच्छेद सहसा केशवस्य तरस्विनः ॥ २.७३.२०॥
यान् यान् मुमोच देवेन्द्रस्तांस्तांश्चिच्छेद माधवः ।
माधवेन प्रयुक्तांश्च चिच्छेद बलवृत्रहा ॥ २१॥
महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन ।
शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः ॥ २२॥
तयोर्वर्तति सङ्ग्रामे गरुडस्थं महाबलः ।
पारिजातं जयन्तोऽथ हर्तुमभ्युद्यतो बली ॥ २३॥
प्रद्युम्नमथ कंसघ्नो वारयेति तदाब्रवीत् ।
ततस्तं वारयामास रौक्मिणेयः प्रतापवान् ॥ २४॥
जयन्तो जयतां श्रेष्ठो रौक्मिणेयमथेषुभिः ।
सर्वगात्रेषु विहसन्नाजघान रथे स्थितः ॥ २५॥
रथस्थ एव रथिनं कामस्तु कमलेक्षणः ।
ऐन्द्रिमभ्यर्दयामास बाणैराशीविषोपमैः ॥ २६॥
स सन्निपातस्तुमुलो बभूव कुरुनन्दन ।
जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः ॥ २७॥
कृतप्रतिकृतं युद्धे चक्रतुस्तौ महाबलौ ।
महेन्द्रोपेन्द्रतनयौ जगत्यस्त्रभृतां वरौ ॥ २८॥
देवाश्च मुनयश्चैव ददृशुर्विस्मयान्विताः ।
तं सङ्ग्रामं महाघोरं सिद्धाश्चैव सचारणाः ॥ २९॥
ततस्तु प्रवरो नाम देवदूतो महाबलः ।
पारिजातं पुनर्हर्तुमियेष कुरुनन्दन ॥ २.७३.३०॥
सखा स देवराजस्य महास्त्रविदरिन्दमः ।
अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन ॥ ३१॥
ब्राह्मणस्तपसा सिद्धौ जम्बूद्वीपाद् दिवं गतः ।
स्वशक्त्या नृप संयातः सखित्वं बलघातिना ॥ ३२॥
तमापतन्तं सम्प्रेक्ष्य कृष्णः सात्यकिमब्रवीत् ।
अत्रस्थ एव प्रवरं शरैर्वारय सात्यके ॥ ३३॥
ततः षष्ट्या रथेषूणां गरुडस्थं द्विजस्तदा ।
आजघान महाबाहो सात्यकिं प्रवरो भृशम् ॥ ३५॥
शिनेर्नप्ता धनुस्तस्य क्षिपतः सायकान् नृप ।
चिच्छेद पुरुषव्याघ्रो वचनं चेदमब्रवीत् ॥ ३६॥
ब्राह्मणो नाभिहन्तव्यस्तिष्ठ तिष्ठ स्ववर्त्मनि ।
अवध्या यादवानां हि स्वापराधेऽपि हि द्विजाः ॥ ३७॥
प्रवरस्तु प्रहस्यैनमुवाच कुरुनन्दन ।
अलं क्षान्त्या नृणां शूर युद्ध्य सर्वात्मना रणे ॥ ३८॥
जामदग्न्यस्य रामस्य शिष्योऽहमपि यादव ।
नामतः प्रवरो नाम सखा शक्रस्य धीमतः ॥ ३९॥
न देवा योद्धुमिच्छन्ति मन्यन्तो मधुसूदनम् ।
आनृण्यं सौहृदस्याहमधिगन्तास्मि माधव ॥ २.७३.४०॥
ततस्तयोस्तदा रौद्रः सङ्ग्रामो ववृधे नृप ।
अस्त्रैर्दिव्यैर्नरव्याघ्र शैनेयद्विजमुख्ययोः ॥ ४१॥
द्यौश्चचाल तदा राजन् द्युचराश्च सहस्रशः ।
तस्मिन् वर्तति सङ्ग्रामे तेषामतिमहात्मनाम् ॥ ४२॥
नातिशिष्ये रणे कार्ष्णिरैन्द्रिमस्त्रभृतां वरम् ।
ऐन्द्रिः कार्ष्णि महात्मानं मायिनं शूरसत्तमम् ॥ ४३॥
हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ ।
युयुधाते नरश्रेष्ठ परस्परजयैषिणौ ॥ ४४॥
अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् ।
विभाष्याभ्यहनद्राजन् दिव्येनास्त्रेण सत्वरः ॥ ४५॥
सोऽस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः ।
तस्तम्भे बाणजालेन तदद्भुतमिवाभवत् ॥ ४६॥
ततस्तद् दीप्यमानं तु पपात रणमूर्द्धनि ।
रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम् ॥ ४७॥
तेनास्त्रेण रथो दग्धः प्रद्युम्नस्य महात्मनः ।
नादहत् तत् सुघोरं तं रौक्मिणेयं नराधिप ॥ ४८॥
दहत्यग्निं न खल्वग्निरुद्धतोऽपि विशाम्पते ।
दग्धाद् रथान्महाबाहु रौक्मिणेयः प्रचक्रमे ॥ ४९॥
अथ नारायणसुतो विरथो रथिनां वरः ।
स्थितो धनुष्मानाकाशे जयन्तमिदमब्रवीत् ॥ २.७३.५०॥
महेन्द्रपुत्र दिव्यं त्वं यदस्त्रं मुक्तवानसि ।
नाहमीदृशरूपाणां शक्यो हन्तुं शतैरपि ॥ ५१॥
प्रयत्नं कुरु शिक्षाणां यत्नं मेऽद्य प्रदर्शय ।
नास्ति मेऽतिशयं कर्ता सङ्ग्रामेऽमरनन्दन ॥ ५२॥
आसीन्मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम् ।
बिभेमि तव नेदानीं युद्धे दृष्टबलोऽबलम् ॥ ५३॥
मनसा स्मर्यतां सैष पारिजातस्त्वया तरुः ।
शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस्त्वया ह्यसौ ॥ ५४॥
रथो मायामयो दग्धस्त्वया यो ह्यस्त्रतेजसा ।
ईदृशानां सहस्राणि स्रष्टुं शक्तोऽस्मि मायया ॥ ५५॥
एवमुक्तो जयन्तश्च मुमोचास्त्रं महाबलः ।
तपसोपचितं तेन स्वयमेवातितेजसा ॥ ५६॥
तत् प्रद्युम्नो महावेगं शरजालैरवारयत् ।
चत्वार्यस्त्राणि दिव्यानि मुमुचे चापराणि सः ॥ ५७॥
दिक्षु सर्वासु रुरुधुस्तान्यस्त्राण्यथ भारत ।
रौक्मिणेयं महात्मानमन्तरिक्षे च पञ्चमम् ॥ ५८॥
भरतनन्दन! उन अस्त्रोन्ने महात्मा रुक्मिगीकुमार
महोल्कासदृशान् बाणानस्त्राण्यमरसत्तमः ।
मुमोच यानि घोराणि प्रद्युम्नं प्रति सर्वतः ॥ ५९॥
तानि सर्वाणि बाणौघैः कार्ष्णिरस्त्राण्यवारयत् ।
जयन्तं चापरैर्बाणैर्विध्याध निशितैस्तदा ॥ २.७३.६०॥
ततो नादः समुत्सृष्टो ह्यमरैः पुण्यकर्मभिः ।
दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः ॥ ६१॥
प्रवरस्यापि बाणेन शितेन शिनिपुङ्गवः ।
चिच्छेदेष्वासनं वीरो हस्तावापं च भारत ॥ ६२॥
ततौऽन्यत्स तु जग्राह महत् तद्धनुरुत्तमम् ।
महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम् ॥ ६३॥
स तेन वीरो महता धनुषा विप्रसत्तमः ।
शरान् मुमोच विविधानर्करश्मिनिभांस्तदा ॥ ६४॥
चकर्त च धनुश्चित्रं शैनेयस्यामितौजसः ।
विव्याध सर्वगात्रेषु बाणैरपि च सात्यकिम् ॥ ६५॥
धनुरादाय शैनेयस्ततोऽन्यत् कुरुनन्दन ।
दृढं भारसहं धीमान् विव्याध प्रवरं रणे ॥ ६६॥
उच्चकर्ततुरन्योन्यवर्मणी तौ शितैः शरैः ।
गात्रेभ्यश्चैव मांसानि मर्मभिद्भिः शरोद्यमैः ॥ ६७॥
अथाष्टधारबाणेन पुनरिष्वासनं द्विधा ।
चिच्छेद प्रवरो वीरस्त्रिभिश्चैनमताडयत् ॥ ६८॥
अन्यदिष्वासनं तं तु ग्रहीतुमनसं द्विजः ।
गदया ताडयामास क्षेप्यया लघुहस्तवान् ॥ ६९॥
सोऽसिं चर्म च जग्राह सात्यकिः प्रहसन्निव ।
न जग्राह धनुर्धीमान् गदयाभिहतो भृशम् ॥ २.७३.७०॥
ततः शरशतान्येव मुमोच प्रवरस्तदा ।
विहस्तमिव विज्ञाय सात्यकिं यदुनन्दनम् ॥ ७१॥
प्रद्युम्नोऽस्य ददौ खड्गं निर्मलाकाशसन्निभम् ।
तस्य चिच्छेद भल्लेन निस्त्रिंशं प्रवरस्तदा ॥ ७२॥
त्सरुदेशेऽपातयच्च प्रवरः प्रहसन्निव ।
व्यधमच्च तथा चर्म शितैर्बाणैरजिह्मगैः ॥ ७३॥
आजघान च शक्त्यैनं हृदि विप्रो ननाद च ।
तं विक्लवमिव ज्ञात्वा पारिजातजिहीर्षया ।
तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस्तदा ॥ ७४॥
तं पक्षपुटवेगेन चिक्षेप गरुडस्तथा ।
गव्यूतिमेकां सरथः स पपात मुमोह च ॥ ७५॥
तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप ।
समाश्वास्य रथं शीघ्रं समारोपितवांस्तदा ॥ ७६॥
शैनेयमपि मुह्यन्तं पतन्तं च मुहुर्मुहुः ।
आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे ॥ ७७॥
तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः ।
विरुजः स्पर्शमात्रेण सात्यकिः समपद्यत ॥ ७८॥
प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुङ्गवः ।
तस्थतुः पारिजातस्य युद्धशौण्डतरावुभौ ॥ ७९॥
जयन्तः प्रवरश्चैव रथेनैकेन भारत ।
सम्पतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना ॥ २.७३.८०॥
नासन्नमभिगन्तव्यं गरुडस्य कथञ्चन ।
बलवानेष पततां राजा च विनतासुतः ॥ ८१॥
दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ ।
उभौ स्थितौ युद्ध्यमानं मामेव हि प्रपश्यतम् ॥ ८२॥
एवमुक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः ।
ददृशाते युद्धद्यमानौ देवराजजनार्दनौ ॥ ८३॥
अथेन्द्रो गरुडं बाणैर्महाशनिसमस्वनैः ।
विव्याध सर्वगात्रेषु महास्त्रप्रवरैस्तथा ॥ ८४॥
स तान् बाणानगणयन् वैनतेयः प्रतापवान् ।
ससाराभिमुखो वीरः शक्रनागमरिन्दमः ॥ ८५॥
उभौ तौ सहसा राजन् बलिनौ गजपक्षिणौ ।
प्रयुद्धौ वीर्यसम्पन्नौ महाप्राणौ दुरासदौ ॥ ८६॥
रदनैः पन्नगरिपुं करेण शिरसा तदा ।
ऐरावतो गजपतिराजघान नदंस्तथा ॥ ८७॥
तथा नखाङ्कुशैस्तीक्ष्णैर्वैनतेयो बलोत्कटः ।
तथा पक्षनिपातैश्च शक्रनागं जघान ह ॥ ८८॥
मुहूर्तं सुमहानासीत् सम्पातो गजपक्षिणोः ।
विस्मापनीयो जगतः प्रेक्षितॄणां भयावहः ॥ ८९॥
मूर्ध्न्यथैरावतं तार्क्ष्यस्ताडयामास भारत ।
नखाङ्कुशकरालेन चरणेन महाबलः ॥ २.७३.९०॥
सम्प्रहाराभिसन्तप्तो निपपात त्रिविष्टपात् ।
पारियात्रे गिरिश्रेष्ठे द्वीपेऽस्मिञ्जनमेजय ॥ ९१॥
पतन्तमपि तं शक्रो न मुमोच महाबलः ।
कारुण्यादथ सौहार्दात् पूर्वाभ्युपगमादपि ॥ ९२॥
कृष्णोऽप्यन्वगमच्चैनं पृष्ठतः प्रभवोऽव्ययः ।
पारिजातवता धीमान् गरुडेन महाबलः ॥ ९३॥
स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा ।
ऐरावते समाश्वस्ते सङ्ग्रामो ववृधे पुनः ॥ ९४॥
शरैराशीविषप्रख्यै रत्नयुक्तैः सुतेजितैः ।
अन्योन्यं कुरुशार्दूल शक्रकेशवयोर्महान् ॥ ९५॥
ततो वज्रायुधो वज्रमशनिं च पुनः पुनः ।
मुमोच गरुडे राजन्नैरावतरिपौ नृप ॥ ९६॥
वज्राशनिनिपातांस्तान् सेहे शक्रस्य पक्षिराट् ।
अवध्यो बलिनां श्रेष्ठो निसर्गेण तपोबलात् ॥ ९७॥
मुमोच पक्षमेकैकं मानयन्नशनिं सदा ।
वज्रं च देवराज्ञोऽथ भ्रातुः कश्यपसम्भवः ॥ ९८॥
आक्रम्यमाणस्तार्क्ष्येण न्यमज्जन्नृपते गिरिः ।
विवेश धरणीं राजञ्च्छीर्यमाणः समन्ततः ॥ ९९॥
चुकूज बहुमानेन कृष्णस्य स तु पर्वतः ।
तं चाद्राक्षीत्ततः कृष्णः किञ्चिच्छेषमधोक्षजः ॥ २.७३.१००॥
तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि ।
प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावनः ॥ १०१॥
इतो द्वारवतीं गत्वा रथमानय मा चिरम् ।
सदारुकं महाबाहो मत्तेजोबलमाश्रितः ॥ १०२॥
वक्तव्यो बलभद्रश्च राजा च कुकुराधिपः ।
श्वो जित्वेन्द्रं त्वागमिष्ये द्वारकामिति मानद ॥ १०३॥
तथेत्युक्त्वा तु धर्मात्मा प्रद्युम्नः पितरं विभुः ।
गत्वा यथोक्तमुक्त्वा च यादवेन्द्रबलावुभौ ॥ १०४॥
नाडिकान्तरमात्रेण पुनस्तं देशमाययौ ।
दारुकेण समायुक्तं रथमास्थाय भारत ॥ १०५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे श्रीकृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्यायः ॥ ७३॥
२.७४ चतुःसप्ततितमोऽध्यायः
कृष्णकृता शिवस्तुतिः KRiShNa prays to shiva
रात्र्यां युद्धं स्थगितं कृत्वा श्रीकृष्णेन पारियात्रं पर्वतं वरदानम्, गङ्गायाः स्मरणं, बिल्वगङ्गाजलोपरि महादेवस्य आह्वानं कृत्वा बिल्वोदकेश्वरस्य पूजनं स्तुतिकरणं च, महादेवेन तस्मै अभीष्ट वरं प्रदाय दैत्यानां घातनाय आदेशं, पारियात्रपर्वतोपरि भगवतः निवासं, तस्य प्रतिमापूजनस्य महिमा
वैशम्पायन उवाच ।
तमारुह्य रथं कृष्णः पारियात्रं गिरिं ययौ ।
यत्रैरावतमास्थाय स्थितः सुरपतिः प्रभुः ॥ १॥
पारियात्रो गिरिश्रेष्ठो दृष्ट्वा यान्तं जनार्दनम् ।
शाणपादसमो भूत्वा प्रविवेश वसुन्धराम् ॥ २॥
प्रियार्थं वासुदेवस्य प्रभावज्ञो महात्मनः ।
तस्य प्रीतो हृषीकेशः पर्वतस्य जनाधिप ॥ ३॥
ततः प्रयातं युद्धार्थमच्युतं कुरुनन्दन ।
सपारिजातो गरुडः पृष्ठतोऽनुययौ तदा ॥ ४॥
प्रयुम्नः सात्यकिश्चापि गरुडस्थौ महाबलौ ।
गतावुभौ रक्षणार्थं पारिजातमरिन्दमौ ॥ ५॥
ततस्त्वस्तं गतः सूर्यः प्रवृत्ता रजनी नृप ।
उपस्थितं पुनर्युद्धं शक्रकेशवयोरिह ॥ ६॥
सुप्रहाराहतं दृष्ट्वा विष्णुरैरावतं गजम् ।
नातिकल्पं महातेजा देवराजानमब्रवीत् ॥ ७॥
गरुडाभिहतः पूर्वं नातिकल्पो गजोत्तमः ।
ऐरावतो महाबाहो रात्रिश्च समुपोह्यते ॥ ८॥
श्वः प्रभाते यथाकामं प्रवर्तस्व यथेच्छसि ।
एवमस्त्विति कृष्णं तु देवराजोऽब्रवीत् प्रभुः ॥ ९॥
उवास पुष्कराभ्याशे देवराजः पुरन्दरः ।
व्रजं गिरिमयं कृत्वा धर्मात्मा नृपसत्तम ॥ २.७४.१०॥
ब्रह्मा ततो जगामाथ कश्यपश्च महानृषिः ।
अदितिश्चैव सर्वे च देवा मुनय एव च ॥ ११॥
साध्या विश्वे च कौरव्य नासत्यावश्विनौ तथा ।
आदित्याश्चैव रुद्राश्च वसवश्च जनेश्वर ॥ १२॥
नारायणश्च पुत्रेण सात्यकेन च भारत ।
सहोवास गिरौ रम्ये पारियात्रे प्रहृष्टवत् ॥ १३॥
यत् स शाणप्रमाणोऽस्य भक्त्या समभवन्नृप ।
वरं प्रादात् ततस्तस्य पर्वतस्य महाद्युतिः ॥ १४॥
शाणपाद इति ख्यातो भविष्यसि महागिरे ।
पुण्येनार्द्धेन तुल्यो हि पुण्यो हिमवतः शुभः ॥ १५॥
एवमेव च भूयिष्ठो भव पर्वतसत्तम ।
मेरुणा स्पर्धमानो हि बहुचित्रमृगैर्युतः ।
रमे त्वां पश्यमानोऽहं बहुचित्रनगायुतम् ॥ १६॥
तथा दत्त्वा वरं तस्य पर्वतस्य तु केशवः ।
दध्यौ गङ्गां सरिच्छ्रेष्ठां नमस्कृत्वा वृषध्वजम् ॥ १७॥
अथाययौ विष्णुपदी स्मृता कृष्णेन भारत ।
सम्पूज्यतां ततः कृष्णः कृत्वा स्नानमधोक्षजः ॥ १८॥
उदकं च गृहायाथ बिल्वं च हरिरव्ययः ।
देवमावाहयामास रुद्रं सर्वेश्वरेश्वरम् ॥ १९॥
ततः प्राप्तो महादेवः सोमः सप्रवरो विभुः ।
तस्थावुपरि बिल्वस्य तथा गङ्गोदकस्य च ॥ २.७४.२०॥
तं पारिजातकुसुमैरर्चयामास केशवः ।
तुष्टाव वाग्भिरीशेशं सर्वकर्तारमीश्वरम् ॥ २१॥
श्रीकृष्ण उवाच ।
रुद्रो देव त्वं रुदनाद् रावणाच्च रोरूयमाणो द्रावणाच्चातिदेवः ।
भक्तं भक्तानां वत्सलं वत्सलानां कीर्त्या युङ्क्ष्वेशाद्य प्रपद्ये शरण्यम् ॥ २२॥
ग्राम्यारण्यानां त्वं पतिस्त्वं पशूनां ख्यातो देवः पशुपतिः सर्वकर्मा ।
नान्यस्त्वत्तः परमो देवदेव जगत्पतिः सुरवीरारिहन्ता ॥ २३॥
यस्मीदीशो महतामीश्वराणां भवानाद्यः प्रीतिदः प्राणदश्च ।
तस्माद्धि त्वामीश्वरं प्राहुरीशं सन्तो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः ॥ २४॥
भूतं यस्माज्जगदत्यन्त धीर त्वत्तोऽव्यक्तादक्षरादक्षरेश ।
तस्मात् त्वामाहुर्भव इत्येव भूतं सर्वेश्वराणां महतामप्युदारम् ॥ २५॥
यस्माज्जितैरभिषिक्तोऽसि सर्वैर्देवासुरैः सर्वभूतैश्च देव ।
महेश्वरं विश्वकर्माणमाहुस्त्वां वै सर्वे तेन देवातिदेवम् ॥ २६॥
पूज्यो दैवैः पूज्यसे नित्यदा वै शश्वच्छ्रेयः काङ्क्षिभिर्वरदामेयवीर्य ।
तस्माद् विख्यातो भगवान् देवदेवः सतामिष्टः सर्वभूतात्मभावी ॥ २७॥
भूमित्रयाणां देव यस्मात् प्रतिष्ठा पुनर्लोकानां भावनामेयकीर्तिः ।
त्र्यम्बकेति प्रथमं तेन नाम तवाप्रमेय त्रिदशेशनाथ ॥ २८॥
शर्वः शत्रूणां शासनादप्रमेयस्तथा भूयः शासनाच्चेश्वरेण ।
सर्वव्यापित्वाच्छङ्करत्वाच्च सद्भिः शब्दस्येशानः श्रीकरार्काग्र्यतेजाः ॥ २९॥
संसक्तानां नित्यदा यत् करोषि शमं भ्रातृव्यान् यद्यनैषीः समस्तान् ।
तस्माद् देवः शङ्करोऽस्यप्रमेयः सद्भिर्द्धर्मज्ञैः कथ्यसे सर्वनाथ ॥ २.७४.३०॥
दत्तः प्रहारः कुलिशेन पूर्वं तवेशान सुरराज्ञातिवीर्य ।
कण्ठे नैल्यं तेन ते यत् प्रवृत्तं तस्मात् ख्यातस्त्वं नीलकण्ठेति कल्पः ॥ ३१॥
यल्लिङ्गाङ्कं यच्च लोके भगाङ्कं सर्वं सोम त्वं स्थावरं जङ्गमं च ।
प्राहुर्विप्रास्त्वां गुणिनं तत्त्वविज्ञास्तथा ध्येयामम्बिकां लोकधात्रीम् ॥ ३२॥
वैदैर्गीता सा हि तत् त्वं प्रसूता यज्ञो दीक्षाणां योगिनां चातिरूपः ।
नात्यद्भुतं त्वत्समं देव भूतं भूतं भव्यं भवदेवाथ नास्ति ॥ ३३॥
अहं ब्रह्मा कपिलो योऽप्यनन्तः पुत्राः सर्वे ब्रह्मणश्चातिवीराः ।
त्वत्तः सर्वे देवदेव प्रसूता एवं सर्वेशः कारणात्मा त्वमीड्य ॥ ३४॥
इति संस्तूयमानस्तु भगवान् गोवृषध्वजः ।
प्रसार्य दक्षिणं हस्तं नारायणमथाब्रवीत् ॥ ३५॥
मनीषितानामर्थानां प्राप्तिस्ते सुरसत्तम ।
पारिजातं च हर्तासि मा भूत् ते मनसो व्यथा ॥ ३६॥
यथा मैनाकमाश्रित्य तपस्त्वमकरोः प्रभो ।
तथा मम वरं कृष्ण संस्मृत्य स्थैर्यमाप्नुहि ॥ ३७॥
अवध्यस्त्वमजेयश्च मत्तः शूरतरस्तथा ।
भवितासीत्यवोचं यत् तत् तथा न तदन्यथा ॥ ३८॥
यश्च स्तवेन मां भक्त्या स्तोष्यतेऽमरसत्तम ।
त्वया कृतेन धर्मज्ञ धर्मभाक् सम्भविष्यति ।
समरे च जयं विष्णो प्राप्य पूजां तथोत्तमाम् ॥ ३९॥
बिल्वोदकेश्वरो नाम भविताहमिहानघ ।
देवेश्वर त्वयास्थापि देव सिद्धोपयाचनः ॥ २.७४.४०॥
इहस्थोपौषितो विद्वान् भक्तिमान् मम केशव ।
त्रिरात्रमीप्सिताँल्लोकान् गमिष्यति जनार्दन ॥ ४१॥
अविन्ध्या नाम देशेऽस्मिन्गङ्गाचैव भविष्यति ।
गङ्गास्नानसमं स्नानं मन्त्रतो भविता तथा ॥ ४२॥
षटपुरं नाम नगरं दानवानां जनार्दन ।
अत्रान्तर्द्धरणीदेशे पराक्रम्य महाबलाः ॥ ४३॥
एते दैत्या दुरात्मानो जगतो देव कण्टकाः ।
छन्ना वसन्ति गोविन्द सानावस्य महागिरेः ॥ ४४॥
अवध्या देवदेवानां वरेण ब्रह्मणोऽनघ ।
मानुषान्तरितस्तस्मात् त्वमेताञ्जहि केशव ॥ ४५॥
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
परिष्वज्य महात्मानं वासुदेवं जनाधिप ॥ ४६॥
ततो याते महादेवे प्रभातायां नराधिप ।
तस्यां निशायां गोविन्दो भूयः पर्वतमब्रवीत् ॥ ४७॥
तवाधः पर्वतश्रेष्ठ निवसन्ति महासुराः ।
अवध्या देवदेवानां वरेण ब्रह्मणः पुरा ॥ ४८॥
निर्गमिष्यन्ति ते नैव मया रुद्धा महाबलाः ।
द्वारे निरुद्धे तत्रैव विनङ्क्ष्यन्ति ममाज्ञया ॥ ४९॥
त्वयि सन्निहितश्चाहं भविष्यामि महागिरे ।
अधिष्ठाय महाघोरान् निवत्स्यामि च पर्वत ॥ २.७४.५०॥
आरुह्य मूर्ध्नि मद्रूपं दृष्ट्वा पर्वतसत्तम ।
गोसहस्रप्रदानस्य फलं प्राप्स्यति शाश्वतम् ॥ ५१॥
त्वत्तोऽश्मभिश्च प्रतिमां कारयित्वा हि भक्तितः ।
शुश्रूषयन्ति ये नित्यं मम यास्यन्ति ते गतिम् ॥ ५२॥
इति तं पर्वतं कृष्णो वरदोऽनुगृहीतवान् ।
तदाप्रभृति देवेशस्तत्र सन्निहितोऽच्युतः ॥ ५३॥
पाषाणैः प्रतिमां तात कारयित्वा च कौरव ।
शुश्रूषन्ति कृतात्मानो विष्णुलोकाभिकाङ्क्षिणः ॥ ५४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे
श्रीकृष्णकृतशिवस्तुतिर्नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥
२.७५ पञ्चसप्ततितमोऽध्यायः
स्वर्गात्पारिजातानयनम् Bringing pArijAta from svarga
इन्द्रोपेन्द्रस्य पुनर्युद्धं, उत्पातानां प्राकट्यं, ब्रह्मणः आज्ञातः कश्यपादितिभ्यां मध्ये आगत्वा युद्धस्य निवारणस्य उद्योगम्, तदनन्तरं सर्वेषां स्वर्गगमनम्, अदित्या आज्ञया शच्या उपहारं गृहीत्वा पारिजातसहितं द्वारकागमनम्, पारिजातेन द्वारकावासिनां प्रसन्नता, सत्यभामायाः पुण्यकव्रते प्रतिग्रहाय श्रीकृष्णेन नारदस्य स्मरणं
वैशम्पायन उवाच ।
ततो रथवरं कृष्णः समारुह्य महामनाः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृप ॥ १॥
महेन्द्रमाह्वयामास रथस्थो मधुसूदनः ।
सत्कृतं पुष्कराभ्याशे सर्वैर्देवगणैः सह ॥ २॥
ततः शक्रो जयन्तोऽथ हरिभिर्युक्तमुत्तमम् ।
आरुरोह रथं देवः सर्वकामप्रदः सताम् ॥ ३॥
ततो रथस्थयोर्युद्धमभवत् कुरुनन्दन ।
देवयोर्दैवयोगेन पारिजातकृते तदा ॥ ४॥
ततोऽहनद् रणे विष्णुर्बाणैः शत्रुबलार्दनः ।
सैन्यानि देवराजस्य बाणजालैरजिह्मगैः ॥ ५॥
उपेन्द्रं न महेन्द्रोऽथ नैव विष्णुः सुरेश्वरम् ।
ताडयामासतुर्वीरौ शस्त्रैः शक्तावपि प्रभो ॥ ६॥
एकैकमश्वं दशभिर्महेन्द्रस्य जनार्दनः ।
विव्याध विशिखैस्तीक्ष्णैरस्त्रयुक्तैर्जनेश्वर ॥ ७॥
शैब्याद्यानपि देवेन्द्रः शरैरमरसत्तमः ।
छादयामास राजेन्द्र घोरैरस्त्राभिमन्त्रितैः ॥ ८॥
स च बाणसहस्रैश्च कृष्णो गजमवाकिरत् ।
गरुडं च महातेजा बलभिद्धरिवाहनम् ॥ ९॥
भूयिष्ठाभ्यां रथाभ्यां तौ तदहः शत्रुदारणौ ।
युयुधाते महात्मानौ नारायणसुराधिपौ ॥ २.७५.१०॥
चकम्पे वसुधा कृत्स्ना नौर्जलस्थेव भारत ।
दिशां दाहेन दिग्देशाः संवृताश्च समन्ततः ॥ ११॥
चेलुर्गिरिवराश्चैव पेतुश्च शतशो द्रुमाः ।
पेतुश्च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः ॥ १२॥
निर्घाताः शतशश्चैव पेतुस्तत्र नराधिप ।
ऊहुश्च सरितः सर्वाः प्रतिस्रोतो विशाम्पते ॥ १३॥
विष्वग्वाता ववुश्चैव पेतुरुल्काश्च निष्प्रभाः ।
मुहुर्मुहुर्भूतसङ्घा रथनादेन मोहिताः ॥ १४॥
प्रजज्वाल जले चैव वह्निर्जनपदेश्वर ।
युयुधुश्च ग्रहैः सार्द्धं ग्रहा नभसि सर्वतः ॥ १५॥
ज्योतींषि शतशः पेतुः स्वर्गाच्च धरणीतले ।
दिशां गजाः प्रकुपिता नागाश्च धरणीतले ॥ १६॥
गर्दभारुणसंस्थानैश्छिन्नाभ्रैश्चावृतं नभः ।
विनदद्भिर्महारावैरुल्काशोणितवर्षिभिः ॥ १७॥
न भूर्न द्यौर्न गगनं नरेन्द्रवृषभाभवन् ।
स्वस्थानि सुरवीरौ तु दृष्ट्वा युद्धगतौ तदा ॥ १८॥
जेपुर्मुनिगणा मन्त्राञ्जगतो हितकाम्यया ।
ब्राह्मणाश्च महात्मानो ह्यतिष्ठंस्तेषु सत्वराः ॥ १९॥
ततो ब्रह्मा महातेजाः कश्यपं वाक्यमब्रवीत् ।
गच्छ बध्वा सहादित्या पुत्रौ वारय सुव्रत ॥ २.७५.२०॥
स तथेति तदा देवमुक्त्वा पद्मभवं मुनिः ।
जगाम रथमास्थाय तस्थौ नरवरान्तिके ॥ २१॥
स्थितं तु कश्यपं दृष्ट्वा सहादित्या तदन्तरा ।
उभौ रथाभ्यां धरणीमवतीर्णौ महाबलौ ॥ २२॥
न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुररिन्दमौ ।
पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ ॥ २३॥
उभौ गृहीत्वा हस्ताभ्यामदितिस्त्वब्रवीद् वचः ।
असोदराविवैवं किमन्योन्यं हन्तुमिच्छतः ॥ २४॥
स्वल्पमर्थं पुरस्कृत्य प्रवृत्तमतिदारुणम् ।
सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः ॥ २५॥
श्रोतव्यं यदि मातुश्च पितुश्चैव प्रजापतेः ।
न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम ॥ २६॥
तथेत्युक्त्वा च तौ देवौ स्नातुकामौ महाबलौ ।
गङ्गां जग्मतुरेवाथ प्रजल्पन्तौ परस्परम् ॥ २७॥
शक्र उवाच ।
त्वं प्रभुर्लोककृत् कृत्स्नराज्येऽहं स्थापितस्त्वया ।
स्थापयित्वा कथं नाम पुनर्मामवमन्यसे ॥ २८॥
भ्रातृत्वमुपगम्यैव ज्येष्ठत्वं चाप्यपोह्य च ।
कथं कमलपत्राक्ष निर्वाणं कर्तुमिच्छसि ॥ २९॥
स्नातौ तु जाह्नवीतोये पुनरभ्यागतौ नृप ।
यत्रादितिः कश्यपश्च महात्मानौ दृढव्रतौ ॥ २.७५.३०॥
प्रियसङ्गमनं नाम तं देशं मुनयोऽवदन् ।
यत्र तौ सङ्गतौ चोभौ पितृभ्यां कमलेक्षणौ ॥ ३१॥
ततः शक्रस्य कौरव्य दत्त्वा वाचाभयं तदा ।
यत्र देवगणाः सर्वे समेता धर्मचारिणः ॥ ३२॥
ततो ययुर्विमानैस्तु देवाः सर्वे त्रिविष्टपम् ।
ऋद्ध्या परमया युक्तास्तेषामेवानुरूपया ॥ ३३॥
कश्यपश्चादितिश्चैव तथा शक्रजनार्दनौ ।
विमानमेकमारुह्य गता राजंस्त्रिविष्टपम् ॥ ३४॥
ते शक्रसदनं प्राप्ता रम्यं सर्वगुणान्वितम् ।
ऊषुरेकत्र कौरव्य मुदिता धर्मचारिणः ॥ ३५॥
शची तु कश्यपं पत्न्या सहितं धर्मवत्सला ।
उपाचरन्महात्मानं सर्वभूतहिते रतम् ॥ ३६॥
ततस्तस्यां प्रभातायां रजन्यामब्रवीद्धरिम् ।
अदितिर्धर्मतत्त्वज्ञा सर्वभूतहितं वचः ॥ ३७॥
उपेन्द्र द्वारकां गच्छ पारिजातं नयस्व च ।
वध्वा सम्प्रापयस्वेश पुण्यकं हृदये स्थितम् ॥ ३८॥
पुण्यके सत्यया प्राप्ते पुनरेष त्वया तरुः ।
नन्दने पुरुषश्रेष्ठ स्थाप्यः स्थाने यथोचिते ॥ ३९॥
एवमस्त्विति कृष्णेन देवमाता यशस्विनी ।
उक्ता धर्मगुणैर्युक्ता नारदेन महात्मना ॥ २.७५.४०॥
ततोऽभिवाद्य पितरं मातरं च जनार्दनः ।
महेन्द्रं सह शच्याथ प्रतस्थे द्वारकां प्रति ॥ ४१॥
ददौ कृष्णाय पौलोमी नियोगान् कुरुनन्दन ।
सर्वासामेव कृष्णस्य भार्याणां धर्मचारिणी ॥ ४२॥
दिव्यानां सर्वरत्नानां वाससां च मनस्विनी ।
नानारागविरक्तानां सदैवारजसामपि ॥ ४३॥
भार्याणां च सहस्राणि यानि षोडश माधवे ।
प्रतिगृह्य महातेजाः प्रययौ द्वारकां प्रति ॥ ४४॥
सम्पूज्यमानो द्युतिमान् खेचरैः पुण्यकर्मभिः ।
ससात्यकिः सपुत्रश्च प्राप्तो रैवतकं गिरिम् ॥ ४५॥
स तत्र स्थापयित्वा च पारिजातं वरद्रुमम् ।
सात्यकं प्रेषयामास द्वारकां द्वारशालिनीम् ॥ ४६॥
श्रीकृष्ण उवाच ।
पारिजातमिहानीतं महेन्द्रसदनान्मया ।
निवेदय महाबाहो भैमानां भैमवर्द्धन ॥ ४७॥
अद्य द्वारवतीं चैव पारिजातमहं द्रुमम् ।
प्रवेशयिष्ये नगरे शोभा प्रक्रियतां शुभा ॥ ४८॥
इत्युक्तः सात्यको गत्वा तथोक्त्वा पुनरागतः ।
कुमारैर्नागरैः सार्द्धं साम्बप्रभृतिभिः प्रभो ॥ ४९॥
ततोऽग्रतः पारिजातमारोप्य गरुडे तदा ।
प्रद्युम्नो द्वारकां रम्यां विवेश रथिनां वरः ॥ २.७५.५०॥
शैब्यादिहययुक्तेन रथेनानुययौ हरिः ।
तस्याथ रथमुख्येन सात्यकः साम्ब एव च ॥ ५१॥
ये त्वन्ये नृप वार्ष्णेया यानैर्बहुविधैस्तथा ।
ययुः प्रहृष्टास्तत् कर्म पूजयन्तो महात्मनः ॥ ५२॥
सात्यकाद् विस्तरं श्रुत्वा यादवा नागरास्तथा ।
विस्मयं परमं जग्मुरप्रमेयस्य कर्मणा ॥ ५३॥
तं दिव्यकुसुमं वृक्षं दृष्ट्वाऽऽनर्तनिवासिनः ।
राजन् न ततृपुर्हृष्टाः पश्यमाना महोदयम् ॥ ५४॥
तमद्भुतमचिन्त्यं च मदकेलिकलाण्डजम् ।
वृक्षोत्तमं पश्यतां वै वृद्धानामगमज्जरा ॥ ५५॥
ये त्वन्धचक्षुषः सर्वे तेऽभवन् दिव्यचक्षुषः ।
विरोगा रोगिणश्चासन् घ्रात्वा गन्धं वनस्पतेः ॥ ५६॥
लपन्तः कौकिलाञ्छ्वेताञ्छ्रुत्वाऽऽनर्तनिवासिनः ।
बभूवुर्हृष्टमनसो ववन्दुश्च जनार्दनम् ॥ ५७॥
नानाविधानि तूर्याणि गेयानि मधुराणि च ।
शुश्रुवुस्तस्य वृक्षस्य नातिदूरं गता नराः ॥ ५८॥
योऽयं सङ्कल्पयामास गन्धं हृद्यं नरस्तथा ।
स तदैव तमाजघ्रे पारिजातसमुद्भवम् ॥ ५९॥
ततः प्रविश्य रम्यां तु द्वारकां यदुनन्दनः ।
वसुदेवं महात्मानं ददृशे देवकीं तथा ॥ २.७५.६०॥
कुकुराधिपतिं चैव बलं भ्रातरमेव च ।
वृद्धाश्च यादवानां ये मानार्हानमरोपमान् ॥ ६१॥
विसृज्य तान् वै भगवाननादिनिधनोऽच्युतः ।
सम्पूज्य च यथान्यायं स्वमेव भवनं गतः ॥ ६२॥
स सत्यभामया वासं विवेश मधुसूदनः ।
पारिजातं तरुश्रेष्ठं ग्रहाय गदपूर्वजः ॥ ६३॥
सा देवी पूजयामास प्रहृष्टा वासवानुजम् ।
प्रतिजग्राह तं चापि पारिजातं महाद्रुमम् ॥ ६४॥
मनीषितेन स तरुरल्पो भवति भारत ।
महांश्च वासुदेवस्य तदद्भुतमभून्महत् ॥ ६५॥
कदाचिद् द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यस्तु भवत्यङ्गुष्ठसन्निभः ॥ ६६॥
ननन्द सत्या कौरव्य देवी प्राप्य मनोरथम् ।
पुण्यकार्थं तु सम्भारान् सम्भर्तुमुपचक्रमे ॥ ६७॥
यानि द्रव्याणि कौरव्य जम्बूद्वीपे तु कानिचित् ।
योग्यानि तानि कृष्णेन सम्भृतानि महात्मना ॥ ६८॥
मुनिं तदासस्मृतवान् स नारदं
जनार्दनः सर्वगुणोचितं वशी ।
प्रतिग्रहार्थं व्रतकस्य सत्यया
यथोपदिष्टस्य पुरन्दरानुजः ॥ ६९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
पारिजातानयने पञ्चसप्ततितमोऽध्यायः ॥ ७५॥
२.७६ षट्सप्ततितमोऽध्यायः
द्युतरोः पुनः स्वस्थाने नयनम् The return of the celestial tree
सत्यभामया पुण्यकव्रते श्रीकृष्णस्य नारदाय दानम्, नारदेन निष्क्रयं गृहीत्वा
श्रीकृष्णस्य मोचनं एवं तस्मात् वरप्राप्तिः, श्रीकृष्णेन सम्बन्धिभ्यः पारिजातं दर्शयित्वा पुनः स्वर्गे प्रेषणं
वैशम्पायन उवाच ।
अथ कृष्णस्य कौरव्य ध्यातमात्रस्तपोधनः ।
आजगाम मुनिश्रेष्ठो नारदो वदतां वरः ॥ १॥
सम्पूजयित्वा विधिवद् वासुदेवो विशाम्पते ।
प्रतिग्रहार्थं विधिवच्छ्रीमान् भक्त्या न्यमन्त्रयत् ॥ २॥
ततः काले च सम्प्राप्ते स्नातं देवो महामुनिम् ।
सम्पूज्य माल्यैर्गन्धैश्च भोजयामास भारत ॥ ३॥
सार्वकामिकमन्नाद्यं सर्वभूतकृदन्वयः ।
सत्यया प्रियया सार्द्धं प्रहृष्टेनान्तरात्मना ॥ ४॥
पुष्पदामावसृज्याथ कण्ठे कृष्णस्य भाविनी ।
बबन्ध कृष्णं सुभगा पारिजाते वनस्पतौ ॥ ५॥
अद्भिर्ददौ नारदाय ततोऽनुज्ञाप्य केशवम् ।
देवी धेनुसहस्रं च काञ्चनस्य च पर्वतम् ॥ ६॥
हिरण्यरूप्यमिश्रं च मणिरत्नप्रभस्य च ।
तिलमिश्रस्य च तथा धान्यैरन्यैर्युतस्य च ॥ ७॥
प्रतिगृह्य तु तत् सर्वं नारदो मुनिसत्तमः ।
स सम्प्रहृष्टो भुक्त्वाथ भूयः केशवमब्रवीत् ॥ ८॥
भोः केशव मदीयस्त्वमद्भिर्दत्तोऽसि सत्यया ।
स त्वं मामनुगच्छस्व कुरु यद्यद् ब्रवीम्यहम् ॥ ९॥
प्रथमः पक्ष इत्येवमब्रवीन्मधुसूदनः ।
व्रजन्तमनुवव्राज नारदं च जनार्दनः ॥ २.७६.१०॥
परिहासं बहुविधं कृत्वा मुनिवरस्तदा ।
तिष्ठस्व गच्छामीत्युक्त्वा परिहासविचक्षणः ॥ ११॥
अपनीय ततः कण्ठात् पुष्पदामैनमब्रवीत् ।
कपिलां गां सवत्सां भो निष्क्रयार्थं प्रयच्छ मे ॥ १२॥
कृष्णाजिनं तिलैः पूर्णं प्रयच्छ च सकाञ्चनम् ।
एषोऽत्र निष्क्रयः कृष्ण विहितो वृषकेतुना ॥ १३॥
तथेत्युक्त्वा हृषीकेशस्तथा चक्रे जनाधिप ।
स उवाच मुनिश्रेष्ठं हसित्वा मधुसूदनः ॥ १४॥
वरं वरय धर्मज्ञ यस्ते नारद काङ्क्षितः ।
तत्ते दातास्मि धर्मज्ञ परा प्रीतिर्हि मे त्वयि ॥ १५॥
नारद उवाच ।
नित्यमेवास्तु मे प्रीतो भवान् विष्णो सनातन ।
त्वत्प्रसादात्तु सालोक्यं व्रजेयं ते महामते ॥ १६॥
अयोनिजो भवेयं ते नारायण सतां गते ।
भवेयं ब्राह्मणश्चैव पुनर्जात्यन्तरेष्वपि ॥ १७॥
एवमस्त्विति तं देवो विष्णुः प्रोवाच भारत ।
तुतोष च ततो धीमान् नारदो मुनिसत्तमः ॥ १८॥
षोडश स्त्रीसहस्राणि विष्णोरतुलतेजसः ।
निमन्त्रितानि कौरव्य सत्यया हरिक्रान्तया ॥ १९॥
तासां ददौ सन्नियोगमेकैकं हरिवल्लभा ।
शच्या यो वासुदेवस्य पुरा दत्तो नराधिप ॥ २.७६.२०॥
पारिजातो वसंस्तत्र ततः प्रववृते तदा ।
आज्ञया वासुदेवस्य नारदेन महात्मना ॥ २१॥
निमन्त्रिता गणाः सर्वे केशवेन महात्मना ।
विभूतिं पारिजातस्य ददृशुः कुरुनन्दन ॥ २२॥
पाण्डवांश्चानयामास सहैव पृथया हरिः ।
द्रौपद्या च महातेजास्तथैव च सुभद्रया ॥ २३॥
श्रुतश्रवां च ससुतां भीष्मकं ससुतं तदा ।
अन्यानपि च कौरव्य मित्रसम्बन्धिबान्धवान् ॥ २४॥
रेमे च सह पार्थेन फाल्गुनेन जनार्दनः ।
सान्तःपुरो महातेजाः परमर्द्ध्यावसन्नृप ॥ २५॥
संवत्सरे ततो याते केशिहामरसत्तमः ।
पारिजातं पुनः स्वर्गमानयत् सर्वभावनः ॥ २६॥
तत्रादितिं कश्यपं च दृष्ट्वा स्वजननीं प्रभुः ।
शक्रेण सहितो धीमानप्रमेयपराक्रमः ॥ २७॥
तमुवाचादितिर्माता प्रणतं मधुसूदनम् ।
सौभ्रात्रमस्तु वामेवं नित्यं चामरसत्तम ॥ २८॥
मनोरथं मम त्वं च पूरयस्व जनार्दन ।
तथेत्येवाब्रवीत्कृष्णस्ततो मातरमात्मवान् ॥ २९॥
आमन्त्रयित्वा पितरौ देवराजानमब्रवीत् ।
वासुदेवो महातेजाः कालप्राप्तमिदं वचः ॥ २.७६.३०॥
महादेवेन देवेश सन्दिष्टोऽस्मि महात्मना ।
भन्तर्भूमितलेऽवध्यानसुरान् प्रति मानद ॥ ३१॥
तदितो दशरात्रेण हन्ताहमसुरोत्तमान् ।
तत्रोपविष्टान् स्थातव्यं प्रवरेण महात्मना ॥ ३२॥
जयन्तेन च वीरेण दानवानां जिघांसया ।
एकोऽत्र मानुषो देवो देवपुत्रस्तथा परः ॥ ३३॥
अवध्याः किल ते देवैर्ब्रह्मणो वरदर्पिताः ।
अस्माभिः किल हन्तव्या मानुषत्वमुपागतैः ॥ ३४॥
तथेति कृष्णं स हरिः प्रीतरूपस्तथाव्रवीत् ।
सस्वजाते ततो देवावन्योन्यं जनमेजय ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे स्वर्गे पारिजातस्थापने षट्सप्ततितमोऽध्यायः ॥ ७६॥
२.७७ सप्तसप्ततितमोऽध्यायः
पुण्यकविधिः The description of observance of puNyaka
पुण्यकविधिवर्णनस्योपक्रमः
जनमेजय उवाच ।
पुण्यकानां ममोत्पत्तिं कथयस्व द्विजोत्तम ।
द्वैपायनप्रसादेन सर्वं हि विदितं तव ॥ १॥
वैशम्पायन उवाच ।
उमया पुण्यकविधिर्नरेन्द्रोत्पादितः पुरा ।
शृणु येन विधानेन लोके धर्मभृतां वर ॥ २॥
स्वर्गान्नीते पारिजाते कृष्णेनाक्लिष्टकर्मणा ।
ययौ द्वारवतीं धीमान् नारदो मुनिसत्तमः ॥ ३॥
देवासुरे नृपश्रेष्ठ सङ्ग्रामे समुपस्थिते ।
षट् पुरस्य वधे घोरे महादेवाज्ञयानघ ॥ ४॥
कृष्णेन सहितं विप्रं नारदं धर्मवित्तमम् ।
आसीनं परिपप्रच्छ रुक्मिणी भैष्मिकी नृप ॥ ५॥
तत्र जाम्बवती देवी सत्यभामा च भामिनी ।
गान्धारराजपुत्री च योगयुक्ता नराधिप ॥ ६॥
देव्यश्च नृप कृष्णस्य बह्व्योऽन्या वै समागताः ।
कुलशीलगुणोपेता धर्मशीलाः पतिव्रताः ॥ ७॥
रुक्मिण्युवाच ।
मुने धर्मभृतां श्रेष्ठ धर्मज्ञानभृतां वर ।
उत्पत्तिं पुण्यकानां त्वं वक्तुमर्हस्यशेषतः ॥ ८॥
विधिं च फलयोगं च दानकालं तथैव च ।
कौतूहलं नस्तत्सिद्धिं वदस्व वदतां वर ॥ ९॥
नारद उवाच ।
शृणु वैदर्भि धर्मज्ञे सपत्नीभिः सहानघे ।
पुण्यकानां विधिः प्रोक्तो यथा देवि पुरोमया ॥ २.७७.१०॥
चचारोमा व्रतं देवी पुण्यकानां शुचिव्रता ।
व्रतावसानेऽथ तया सख्यो देवि निमन्त्रिताः ॥ ११॥
अदित्याद्याः सुताः सर्वा दक्षस्याक्लिष्टकर्मणः ।
पौलोमी च शची देवी ख्याता लोके पतिव्रता ॥ १२॥
रोहिणी च महाभागा सोमस्य दयिता सती ।
फाल्गुनी च तथा पूर्वा रेवती च विशाम्पते ॥ १३॥
तथा शतभिषा चैव मघा च कुरुनन्दन ।
एताभिर्हि महादेवी पूर्वमाराधिता सती ॥ १४॥
गङ्गा सरस्वती चैव वेणी गोदा च निम्नगा ।
तथा वैतरणी चैव गण्डकी या च भारत ॥ १५॥
अन्याश्च सरितो रम्या लोपामुद्रा च भारत ।
सत्यश्चान्या जगद्देव्यो धारयन्ति हि ता शुभाः ॥ १६॥
शुभाश्च गिरिनन्दिन्यो वह्निकन्याश्च सुव्रताः ।
स्वाहा वह्निप्रिया देवी सावित्री च यशस्विनी ॥ १७॥
ऋद्धिः कुबेरकान्ता च जलेशमहिषी तथा ।
भार्या पितृपतेश्चैव वसुपत्न्यस्तथा च याः ॥ १८॥
ह्रीः श्रीर्धृतिस्तथा कीर्तिराशा मेधा च सुव्रताः ।
प्रीतिर्मतिश्च ख्यातिश्च सन्नीतिश्च तपोधनाः ॥ १९॥
देव्यः सत्यस्तथैवान्याः सर्वभूतहिते रताः ।
तासां व्रतावसाने च पूजां चक्रेऽम्बिका तदा ॥ २.७७.२०॥
तिलरत्नमयं दत्त्वा पर्वतं सर्वधान्यवत् ।
वासोभिर्भूषणैर्मुख्यैर्नानारागैः सुमध्यमे ॥ २१॥
प्रतिगह्य तु तां पूजां दत्तां देव्या तपोधनाः ।
उपविष्टाः कथाश्चित्राः कुर्वन्त्यो भर्तृदेवताः ॥ २२॥
पुण्यकार्थं कथास्तासामासन् देवी शशंस याः ।
विधिं च पुण्यकस्याथ सतीनां भर्तृदेवते ॥ २३॥
तासां मतेन साध्वीनां सर्वासां सोमनन्दिनी ।
पर्यपृच्छदुमा देवी पुण्यकानां विधिं वरा ॥ २४॥
उमा तासां प्रियार्थं तु पुण्यकान्यब्रवीत् तदा ।
समक्षं मम वैदर्भि सर्वभूतहिते रता ॥ २५॥
ममैव चोमया दत्तः स तदा रत्नपर्वतः ।
प्रतिगृह्य मया चैव कृतो ब्राह्मणसाच्छुभे ॥ २६॥
उमा त्वरुन्धतीं साध्वीमामन्त्र्य यदभाषत ।
शृणु कल्याणि वक्ष्यामि सर्वाभिः सहिता शुभे ॥ २७॥
पुण्यकानां विधिं कृत्स्नं यथावदनुपूर्वशः ।
यथा चैव मया दृष्टस्तत एष विधिः शुभे ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पुण्यकविधिकथने सप्तसप्ततितमोऽध्यायः ॥ ७७॥
२.७८ अष्टसप्ततितमोऽध्यायः
पुण्यकव्रतवर्णनम् Description of puNyaka vrata
उमया सत्या स्त्र्याः महत्त्वं वर्णयित्वा पुण्यकव्रतविधानस्योपदेशं
उमोवाच ।
सर्वज्ञाहं यदा भर्तुः प्रसादेन शुचिस्मिते ।
तदा पुरा ममादिष्टो दृष्टः पुण्यविधिः शुभः ॥ १॥
सनातनः पुण्यविधिरिति बुद्ध्यावगम्यताम् ।
महादेवप्रसादेन मया दृष्टस्त्वरुन्धति ॥ २॥
पुण्यकानि च सर्वाणि चीर्णवत्यस्म्यनिन्दिते ।
अनुज्ञया भगवतो भर्तुः शर्वस्य धीमतः ॥ ३॥
सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम् ।
पुण्यकानां विधिस्तस्याः पुराणैः परिकीर्तितः ॥ ४॥
दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति ।
निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे ॥ ५॥
या वञ्चयन्ति भर्तारं योनिदुष्टाश्च याः स्त्रियः ।
योनिदोषात्पुण्यफलं नाश्नन्ति निरयङ्गमाः ॥ ६॥
साध्व्यो जगद् धारयन्ति सुशीलाः पतिदेवताः ।
अनन्या धर्मनित्याश्च सतीपन्थानमाश्रिताः ॥ ७॥
अवाग्दुष्टा शौचयुक्ता धृतिमत्यः शुभव्रताः ।
सततं साधुवादिन्यो धारयन्ति जगत् खलु ॥ ८॥
व्याधितः पतितो वापि दीनो वापि कथञ्चन ।
अकार्यकारिणं वापि पतितं वापि निर्गुणम् ।
स्त्री पतिं तारयत्येव तथाऽऽत्मानं शुभानने ॥ २.७८.१०॥
योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा ।
वाग्दुष्टे विहितं सद्भिः प्रायश्चित्तं पुरातने ॥ ११॥
भर्तुश्छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रिया ।
उपवासोऽपि वा सत्ये काङ्क्षन्त्या सुकृतां गतिम् ॥ १२॥
कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् ।
तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात् ॥ १३॥
यदि सा नाम मानुष्यं स्त्री लभेदसती सती ।
चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना ॥ १४॥
भर्ता देवः सदा स्त्रीणां सद्भिर्दृष्टस्तपोधने ।
यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी ॥ १५॥
कौतूहलहतानां तु स्त्रीणां लोको न शोभनः ।
भर्तर्येव मनो यासां सद्भावेन व्यवस्थितम् ॥ १६॥
कर्मणा मनसा वाचा पतिं नातिचरन्ति याः ।
तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम् ॥ १७॥
पुण्यकानां विधिं कृत्स्नं स्वर्लोकप्रतिशोभने ।
निबोध सह सर्वाभिर्दृष्टो यस्तपसा मया ॥ १८॥
स्नात्वा स्त्री प्रातरुत्थाय पतिं विज्ञापयेत् सती ॥
उपवासार्थमथ वा व्रतकार्थं धृतव्रते ॥ १९॥
श्वशुराभ्यां च चरणौ सततं सत्तमस्य च ।
ग्रहायौदुम्बरं पात्रं सकुशं साक्षतं तथा ॥ २.७८.२०॥
गोशृङ्गं दक्षिणं सिच्य प्रतिगृह्णीत तज्जलम् ।
ततो भर्तुः सती दद्यात् स्नातस्य प्रयतस्य च ॥ २१॥
आत्मनोऽपि निषेक्तव्यं ततः शिरसि तज्जलम् ।
त्रैलोक्यसर्वतीर्थेषु स्नानमेतदुदाहृतम् ॥ २२॥
उपवासेषु कर्तव्यमेतद्धि व्रतकेषु च ।
स्नानमेतद्धि सामान्यं स्त्रीणां पुंसां च भामिनि ॥ २३॥
अरुन्धति मया दृष्टं तपसा हरतेजसा ।
अशल्यविद्धं शयनमासनं च तथाविधम् ॥ २४॥
स्वयं प्रक्षालनं चापि पादयोरनुशब्दितम् ।
अश्रुप्रपातो रोषश्च कलहश्च कृतः सति ।
उपवासाद् व्रताद् वापि सद्यो भ्रंशयति स्त्रियः ॥ २५॥
शुक्लमेव सदा वासः प्रशस्तं चन्द्रसम्भवे ।
अन्तर्वासोऽपरं चैव उपवासे व्रते तथा ॥ २६॥
पादुकार्थं तृणैः कार्यं सर्वदा व्रतके सति ।
उपवासेऽपि च विधिरेष एव प्रवर्तितः ॥ २७॥
अञ्जनं रोचनं चापि गन्धान् सुमनसस्तथा ।
व्रतके चोपवासे च नित्यमेव विवर्जयेत् ॥ २८॥
दन्तकाष्ठं शिरःस्नानमुद्वर्तनमथापि वा ।
विवर्जितं मृदा सर्वं शौचार्थं तु विधीयते ॥ २९॥
बिल्वामृतफलैर्नित्यं श्रीफलैश्च समाचरेत् ।
प्रक्षालनं वै शिरसः सदामृन्मिश्रितैर्जलैः ॥ २.७८.३०॥
शिरसोऽभ्यञ्जनं सौम्ये नैव तावत् प्रशस्यते ।
न पादयोर्न गात्रस्य स्नेहेनेति स्थितिः स्मृता ॥ ३१॥
गोयानमुष्ट्रयानं च खरयानं च वर्जितम् ।
नग्नस्नानं च सततं व्रते चाप्युपवासके ॥ ३२॥
नदीजलं प्रस्रवजं प्रशस्तं सोमनन्दिनि ।
शुभे तडागे वाप्यादौ विस्तीर्णे जलजायुते ॥ ३३॥
गत्वा स्नानं प्रशस्तं तु सदैव खलु सर्वथा ।
अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत् ॥ ३४॥
नवैश्च कुम्भैः स्नातव्यं विधिरेष पुरातनः ।
स्नानं च कार्यं शिरसा तपःफलमवाप्नुयात् ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे पुण्यकविधौ अष्टसप्ततितमोऽध्यायः ॥ ७८॥
२.७९ एकोनाशीतितमोऽध्यायः
पुण्यकव्रतवर्णनम् Description of puNyaka vrata
पुण्यकव्रतसम्बन्धी नियमस्य एवं दानस्य वर्णनं एवं पुत्रादिनिमित्ते क्रियमाणानि अन्यानि व्रतदानादीनां प्रतिपादनं
उमोवाच ।
विधिनैतेन कृत्स्नेन स्त्री सदा भर्तृदेवता ।
चरेत् संवत्सरं दान्ता षण्मासान् मासमेव च ॥ १॥
स्त्रियो ह्यावाहयेत् साध्वीरेकादश समाधिना ।
स्वयं चैव विधिर्दृष्टो व्रतकानां मया शुभः ॥ २॥
अद्भिर्दद्यात् सतीः सर्वा या मूलव्रतिनी भवेत् ।
तासां तु निष्क्रयो देयः कालदेशानुरूपतः ॥ ३॥
ततो मासान्तशुक्लस्य तिथौ च नवमी तथा ।
आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम् ॥ ४॥
उपवासमहोरात्रं व्रतकं चापि निश्चितम् ।
आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये ॥ ५॥
क्षुरकर्म ततो भर्तुरात्मनश्चैव कारयेत् ।
उत्सादनं च स्नानं च तस्मिन्नहनि संस्मृतम् ॥ ६॥
ततो विवाहवत्स्नानं विहितं पुण्यके शुभे ।
मण्डनं चैव विहितं माल्यधारणमेव च ॥ ७॥
कुम्भैस्तु स्नाप्यमानेमं साध्वी मन्त्रमुदीरयेत् ।
भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा ॥ ८॥
आपो देव्य ऋषीणां हि विश्वधात्र्यो दिव्या मदन्त्यो याः शङ्करा धर्मधात्र्यः ।
हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो मां जुषन्तु ॥ ९॥
अपामेव स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु ।
मन्त्राः पुराणविहिताः स्त्रीणां सर्वाङ्गशोभने ॥ २.७९.१०॥
शुभाव्यया गुणिनी युक्तधर्मा भर्त्रा साकं मम दास्या वरेण ।
मा कर्मणा मनसा वापि वाचा भर्तुर्भवेयं रुषती स्यां वशङ्गा ॥ ११॥
सपत्नीनामधि नित्यं भवेयं सपुत्रा स्यां सुभगा चारुरूपा ।
सम्पन्नहस्ता गुणवादिनी च सर्वात्मना स्यां मा दरिद्रा भवेयम् ॥ १२॥
पतिश्च मे स्यात् सुमुखो मत्प्रतीक्षो नित्यं मद्भक्तः स्यान्मन्मतिर्मद्गतिश्च ।
प्रीतिश्च नौ स्याच्चक्रवाकानुरूपा मनोविरागो न भवेत्साधुवत्स्यात् ॥ १३॥
लोकान्साध्वीनामुत्तमानां व्रजेयं याभिः सर्वं धार्यते विश्वरूपम् ।
उभे कुले याः शुभाः पावयन्ति पितुर्भर्तुश्च पतिभक्त्योर्जिताश्च ॥ १४॥
भूमिर्वायुर्जलमाकाशमग्निरन्तः क्षेत्रज्ञः प्रकृतिर्यो महांश्च ।
अहङ्कारश्च मम साक्ष्ये नियुक्ताः स्मरेयुर्मे निश्चयं च व्रतं च ॥ १५॥
यैरारब्धो देहिनां भौतिकोऽयं विधिः सत्त्वाद्यैर्भूतयुक्तैः सबीजैः ।
भवन्त्येते मे साक्षिणः सर्वसंस्था व्रते चास्मिन् निश्चये चापि नित्यम् ॥ १६॥
चन्द्रादित्यौ पुण्यसाक्षी यमश्च दिशः सर्वा दश चात्मा च मेऽयम् ।
सन्त्वेते वै साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्यम् ॥ १७॥
मन्त्रैरेतैः पुराणोक्तैः सर्वद्रव्याभिमन्त्रणम् ।
व्रतचर्यात् प्रभृति वै पुराणे समुदाहृतम् ॥ १८॥
स्नात्वाथ वाससी दद्याद्भर्तुः कर्त्य स्वयं शुभे ।
अथात्मकर्तितं न स्याच्छुभे विघ्नेन केनचित् ॥ १९॥
वासोऽन्यदेव दद्याच्च श्वेतं मुख्यं नवं शुचि ।
स्वकर्तितं च सूत्रं तु वाससा तेन मिश्रयेत् ॥ २.७९.२०॥
ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् ।
भोजयेच्च यथाशक्त्या सह भर्त्रा सुमध्यमे ॥ २१॥
ब्राह्मणस्यापि दातव्यं वासोयुग्मं महातपे ।
शय्यासनं गृहं धान्यं दासं दासीं तथैव च ॥ २२॥
अलङ्कारः शक्तितश्च रत्नपर्वत एव च ।
सर्वथान्यसमुन्मिश्रस्तिलैश्च सविशेषतः ॥ २३॥
वासोभिश्च प्रतिच्छन्नो नानावर्णैररुन्धति ।
हस्त्यश्वावचयश्चैव देया गौरेव च धुवम् ॥ २४॥
लवणप्रतिमां दद्यान्नवनीतस्य चापराम् ।
गुडस्य मधुनश्चैव सुवर्णस्य च शोभनाम् ॥ २५॥
तथैव सर्वगन्धानां रसानां पृथगेव च ।
तथा सुमनसां दद्याद् रौप्यस्यौदुम्बरस्य च ॥ २६॥
फलानां चैव सर्वेषां वाससामपि नन्दिनि ।
चित्रप्रतिकृतिं चैव काष्ठस्य प्रतिमां तथा ॥ २७॥
शिलां प्रतिकृतिं चैव दध्नोऽथ पयसस्तथा ।
सर्पिषा दूर्वया चैव या चान्यामप्यभीप्सति ॥ २८॥
कालदेशानुरूपं च देयं विभवतः सति ।
अल्पं वा बहुलं वापि भर्तुश्छन्देन सर्वदा ॥ २९॥
तिलपात्रं प्रदातव्यं न देयं ननु शोभने ।
गौस्त्ववश्यं प्रदातव्या कपिला कांस्यमेव च ॥ २.७९.३०॥
कृष्णाजिनं च सुभगे सतिलं वाससान्वितम् ।
आदर्शश्चैव कूर्चश्च तथाजिनमनिन्दिते ॥ ३१॥
एतद् दत्त्वा सर्वकामानाप्नोति वरवर्णिनि ।
पुरोऽधिका पुत्रवती सुभगा रूपभागिनी ॥ ३२॥
मृष्टहस्ता धनाढ्या च स्त्री भवत्यमलेक्षणा ।
इच्छया लभते चैव कन्या रूपगुणान्विताः ॥ ३३॥
भवन्ति सुभगाश्चर्यास्तथैव च पुरोऽधिकाः ।
पुत्रवत्यो धनाढ्याश्च शीलवत्यश्च नित्यदा ॥ ३४॥
अरुन्धति कृतं ह्येतन्मयैव प्रथमं यतः ।
उमाव्रतकमित्येव ख्यातमत्र महीतले ॥ ३५॥
एतदेवोत्तमं स्त्रीणां व्रतं तस्मान् समाचरेत् ।
सर्वकामानवाप्नोति दत्त्वैवैतदनिन्दिते ॥ ३६॥
एतद्व्रतकरो ह्येव देवदेवो वृषध्वजः ।
पुराभिषिक्तवान् सौम्ये प्रियार्थं मम सर्वकृत् ॥ ३७॥
व्रतकस्यावसानेऽथ देयं भोज्यं च नित्यदा ।
स्त्रीणां कामाः प्रदेयाश्च सदृशाः कालदेशयोः ॥ ३८॥
एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि ।
छन्दतो ब्राह्मणानां तु देयमन्नं सदक्षिणम् ॥ ३९॥
पायसं तत्र दातव्यं व्रतके नान्यदिष्यते ।
नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः ॥ २.७९.४०॥
अथ द्वितीयं वक्ष्यामि व्रतं सोमसमुद्भवे ।
महादेवप्रसादेन दृष्टवत्यस्मि यच्छुभे ॥ ४१॥
सर्वाः पुत्रफला नार्यः सद्भिरेतदुदाहृतम् ।
तस्मादन्विष्यती दद्यात् सपुत्रकरकाञ्छुभे ॥ ४२॥
ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिमाचरेत् ।
अथवा ज्येष्ठमेवैकमाषाढं वा समाचरेत् ॥ ४३॥
ततो मासद्वये पूर्णे मासे वा वरवर्णिनि ।
सपुत्रकरकान् दद्यात् फाणितप्रतिपूरितान् ॥ ४४॥
सर्पिषः पयसश्चैव दध्नोऽथ मधुनोऽनघे ।
जलस्य च तथा दद्यात् पूरयित्वा शशिप्रभे ॥ ४५॥
एकस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने ।
सपुत्रकरकान् दद्याद् यावन्तो मनसः प्रियाः ॥ ४६॥
इच्छेत स्त्री दुहितरं स्त्रीणां कामकरं ततः ।
किञ्चिद्द्रव्यं सुताकामात् सुतां प्राप्नोत्यसंशयः ॥ ४७॥
गौर्वाथ काञ्चनं वापि दक्षिणार्थं प्रशस्यते ।
विप्रस्याच्छादनं देयमवश्यं तु शुचिस्मिते ॥ ४८॥
यज्ञोपवीतं व्रतके दद्यान्नारी शुचिव्रता ।
सपुत्रकरकाणां तु विधिरुक्तो विपश्चिता ॥ ४९॥
अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिव्रता ।
संवत्सरं सुसम्पूर्णं व्रतधर्मानुपालिनी ॥ २.७९.५०॥
करकानपि दद्याच्च पूर्णे संवत्सरे शुभे ।
अनुज्ञया सदा भर्तुः सत्यवादिन्यरुन्धति ॥ ५१॥
सुवर्णसूत्रं विप्राय कौमुद्यां दातुमर्हति ।
यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम् ॥ ५२॥
यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः ।
प्रयच्छती सती स्त्रीभ्यः सर्वान्कामान्समश्नुते ॥ ५३॥
नवं न भक्षयेत् किञ्चिन्नारी धान्यमथो फलम् ।
पुष्पाणि नोपयुञ्जीत यावदेवं समाचरेत् ॥ ५४॥
एकभक्तेन धर्मज्ञे पुण्यकं कर्तुमर्हति ।
ब्राह्मणाय तथा देयं भर्तुश्च तदनन्तरम् ॥ ५५॥
एवं संवत्सरं कृत्वा सुभगा रूपशालिनी ।
भवत्यविधवा चैव स्त्री धनस्य तथेश्वरी ॥ ५६॥
वार्ताकानि न खादेद् या स्त्री पूर्णं परिवत्सरम् ।
न सा पुत्रविनाशं हि पश्यतीत्यवगम्यताम् ॥ ५७॥
शशकं मृगमांसं वा नित्यमेव विवर्जयेत् ।
नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम् ॥ ५८॥
अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि ।
कलम्बीं काञ्चनं नाद्याद्या भर्तुः सुखमिच्छति ॥ ५९॥
पूर्णे संवत्सरे दद्यादेकैकं शाकमादृता ।
सदक्षिणं पुत्रवती भवत्येका पुरोऽधिका ॥ २.७९.६०॥
अयं प्रक्षालयाना स्त्री स्वपादावेवमादितः ।
प्रतिष्ठां लभते नित्यमुद्वेगं नाधिगच्छति ॥ ६१॥
दिवा या सूर्यपूतेन वर्तयेत् स्त्री पतिव्रता ।
एकं संवत्सरं पूर्णं रात्रावन्नं विवर्जयेत् ॥ ६२॥
सा जीवपुत्रा सुभगा भवत्यमरवर्णिनि ।
अधितिष्ठति सर्वाश्च सपत्न्यो नात्र संशयः ॥ ६३॥
पूर्णे संवत्सरे दद्यात् सौवर्णं सूर्यमुत्तमम् ।
ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने ॥ ६४॥
फलानि वाथ पुष्पाणि भक्ष्याण्यपि च सुव्रता ।
दद्यादनस्तमितके चरितव्रतका तथा ॥ ६५॥
या तथास्तमिते सूर्ये भुङ्क्ते स्त्री नियता सती ।
चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनि ॥ ६६॥
सा दद्यात् काञ्चनं चन्द्रं नक्षत्राणि ग्रहानपि ।
अभिरूपाय विप्राय वासश्च लवणान्वितम् ॥ ६७॥
चन्द्रशीतलगात्री सा भवत्यमरवर्णिनी ।
सुभगा दर्शनीया च पुत्रवत्यपि भाविनी ॥ ६८॥
पौर्णमास्यां तु सततं प्राप्ते सोमोदयेऽङ्गना ।
अर्घ्यं दद्यात् सुमनसां साक्षतं सकुशं तथा ॥ ६९॥
यावकं च बलिं दद्याद् दध्ना च सह संयुतम् ।
एवं या कुरुते नित्यं सर्वान्कामानवाप्नुयात् ॥ २.७९.७०॥
अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता ।
दुर्दिने वाथवा व्यभ्रे सेष्टान् कामानवाप्नुयात् ॥ ७१॥
काञ्चनं शक्तितो दद्यात्सा विप्राय मनस्विनी ।
सुभगा दर्शनीया च भवत्यमरवर्णिनी ॥ ७२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथने एकोनाशीतितमोऽध्यायः ॥ ७९॥
२.८० अशीतितमोऽध्यायः
अङ्गनिर्वेशहेतूनि व्रतानि Vrata-s for improving body parts
नानाप्रकाराणां व्रतानां विधानं
भगवत्युवाच ।
निर्वेष्टव्यं शरीरं यैर्व्रतकैः पुण्यकैरपि ।
अरुन्धति प्रवक्ष्यामि सहैताभिर्वरेण तु ॥ १॥
कृष्णाष्टमीं या क्षिपति स्याद्वा मूलफलाशिनी ।
ब्राह्मणायैकमशनं स्वं दत्त्वा भर्तृदेवता ॥ २॥
शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका ।
एवं संवत्सरं कृत्वा ततो दद्याद् द्विजातये ॥ ३॥
गोवालरज्जुसुकृतं चामरं च ध्वजं तथा ।
दक्षिणापूर्णमिष्टान्नं शक्त्या वापि शुचिव्रते ॥ ४॥
ऊर्मिमन्तः स्वरालाग्राः श्रोणिदेशावलम्बिनः ।
तस्या भवन्ति केशास्तु भक्तिमत्या हि भर्तरि ॥ ५॥
शिरो निर्वेष्टुकामा तु गोमयेन शिरः शती ।
प्रक्षालयेन्मलं धात्र्या बिल्वेन श्रीफलेन च ॥ ६॥
गोमूत्रं च सदा प्राश्येच्छिरःस्नानं च मिश्रयेत् ।
कृष्णां चतुर्दशीं त्वेतत् कर्तव्यं वरवर्णिनि ॥ ७॥
भवत्यविधवा चैव सुभगा विज्वरा तथा ।
शिरोरोगैर्नैव चास्याः शरीरमभितप्यते ॥ ८॥
दर्शनीयं ललाटं या काङ्क्षति स्त्री शुचिस्मिते ।
तिथिं प्रतिपदं नित्यं सा क्षिपेदेकभोजना ॥ ९॥
पयसा च तथाश्नीयाद् यावत्संवत्सरो गतः ।
ब्राह्मणाय ततो दद्यात् पटं रूप्यमयं शुभम् ॥ २.८०.१०॥
ललाटं रूपसम्पन्नमाप्नोति स्त्री सुमध्यमा ।
सततं स्त्री द्वितीयायां भ्रुवोरिच्छेत्सुरूपताम् ॥ ११॥
अनन्तरोपवासेन शाकभक्ताशना सती ।
ततः संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत् ॥ १२॥
फलैः परिणतैः सौम्यैर्माषाणां दक्षिणान्वितैः ।
लवणेन च भद्रं ते घृतपात्रेण चानघे ॥ १३॥
आत्मनः शोभनौ कर्णाविच्छती स्त्री सुमध्यमा ।
नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुञ्जीत यावकम् ॥ १४॥
ततः संवत्सरे पूर्णे कर्णौ दद्याद्धिरण्मयौ ।
घृते प्रक्षिप्य विप्राय पयसा सहिते शुभे ॥ १५॥
नासामिच्छेल्लाटान्तामव्यङ्गां व्याधिवर्जिताम् ।
तिलगुल्मं सदा सिञ्चेद् यावत् पुष्प्येद्धि रक्षित ॥ १६॥
अनन्तरोपवासेन सेक्तव्यः सलिलैः सदा
तस्मादवाप्य पुष्पाणि घृते प्रक्षिप्य दापयेत् ॥ १७॥
स्वक्षी भवेयमिति या स्त्री काङ्क्षत्यमृतोद्भवे ।
अनन्तरं वै भुञ्जाना पयसाथ घृतेन वा ॥ १८॥
ततः संवत्सरे पूर्णे पद्मपत्राणि मण्डिता ।
तथैवोत्पलपत्राणि न्यसेत् क्षीरे शुचिस्मिते ॥ १९॥
प्लवमानानि विप्राय ततो दद्यात्सती सति ।
कृष्णसारसमानाक्षी तद् दत्त्वा भवति स्म वै ॥ २.८०.२०॥
इच्छेदोष्ठौ चारुरूपौ या स्त्री धर्मगुणान्विता ।
सा मृन्मयेन तु पिबेदुदकं वत्सरं सती ॥ २१॥
अयाचितेन भुञ्जीत नवम्यां धर्मभागिनी ।
ततः संवत्सरे पूर्णे विद्रुमं दातुमर्हति ॥ २२॥
तेन बिम्बफलाभौष्ठी स्त्री भवत्येव शोभने ।
सुभगाथ वपुःपुत्रधनाढ्या गोमती तथा ॥ २३॥
या चारुरूपानिच्छेत दन्तानमरवर्णिनि ।
शुक्लाष्टमीं न साश्नीयाद् भक्तद्वयमनिन्दिता ॥ २४॥
ततः संवत्सरे पूर्णे दद्याद् रौप्यमयान् सती ।
दन्तान् प्राक्षिप्य धर्मज्ञे पयस्यतिगुणोदिते ॥ २५॥
तेन सा जातिपुष्पाभान्दन्तान्प्राप्नोति सा सती ।
सौभाग्यमपि चाप्नोति सपुत्रत्वं तथानघे ॥ २६॥
सर्वमेव मुखं कान्तमिच्छेद् या रुचिरानने ।
सा पूर्णमास्यां स्नात्वा तु प्राप्य चन्द्रोदये शुभे ॥ २७॥
यावकं पयसा सिद्धं दत्त्वा विप्राय भामिनी ।
ततः संवत्सरे पूर्णे चन्द्रं रूप्यमयं शुभम् ॥ २८॥
पद्मे फुल्ले तु विन्यस्य ब्राह्मणान् स्वस्ति वाचयेत् ।
पूर्णचन्द्रमुखी तेन दानेन स्त्री शुभा भवेत् ॥ २९॥
स्तनाविच्छति या नारी तृणराजफलोपमौ ।
अयाचितं दशम्यां सा नित्यमश्नीत वाग्यता ॥ २.८०.३०॥
संवत्सरे ततः पूर्णे द्वे बिल्वे काञ्चने शुभे ।
सदक्षिणे ब्राह्मणाय प्रयच्छति धृतात्मने ॥ ३१॥
सौभाग्यं परमाप्नोति बहुपुत्रांस्तथैव च ।
सदोन्नतौ स्तनौ सा स्त्री बिभर्त्यमरवर्णिनि ॥ ३२॥
शातोदरत्वमिच्छन्ती क्षिपेदेकान्तभोजिनी ।
पञ्चम्यां तत्र भोक्तव्यमन्नं तोयेन नित्यदा ॥ ३३॥
ततः संवत्सरे पूर्णे दद्याज्जातिलतां शुभे ।
फुल्लां सदक्षिणां धन्ये ब्राह्मणाय धृतात्मने ॥ ३४॥
हस्ताविच्छति या नारी रूपयुक्तौ सुमध्यमे ।
द्वादशीं सा क्षिपत्वेवं शाकैः सर्वैरनिन्दितैः ॥ ३५॥
संवत्सरे ततः प्राप्ते रौक्मे पद्मे ददातु सा ।
ब्राह्मणायाभिरूपाय तथा पद्मद्वयं शुभम् ॥ ३६॥
श्रोणीं विशालामन्विच्छेत् स्त्री क्षिपत्वेव सुव्रते ।
त्रयोदशीमेकभक्तमश्नात्वेवमयाचितम् ॥ ३७॥
ततः संवत्सरे पूर्णे लवणं सम्प्रयच्छतु ।
प्रजापतिमुखाकारं कृत्वा तत्र वरानने ॥ ३८॥
काञ्चनं चैव दातव्यं तदाकारस्य सर्वदा ।
अञ्जनेन च धर्मज्ञा शनकैरवचूर्णयेत् ॥ ३९॥
रत्नानि चैव पूर्णानि वासो रक्तं च दापयेत् ।
तेन श्रोणीमभिमतां स्त्री सौम्ये प्रतिपद्यते ॥ २.८०.४०॥
मधुरां वाचमिच्छन्ती वर्जयेल्लवणं सती ।
संवत्सरं वा मासं वा प्रयच्छेल्लवणं ततः ॥ ४१॥
सदक्षिणं ब्राह्मणाय परं माधुर्यमिच्छती ।
शुकवाक्याच्छतगुणं भवत्यमरवर्णिनि ॥ ४२॥
गूढगुल्फशिरौ पादाविच्छन्त्या सोमनन्दिनि ।
षष्ठ्यां षष्ठयां वरारोहे भोक्तव्यं सलिलौदनम् ॥ ४३॥
अग्निर्वा ब्राह्मणो वापि न स्प्रष्टव्यः पदा सदा ।
यदा पदा स्पृशेत् तं च वन्देत तपसान्विते ॥ ४४॥
पादेन न च वै पादं प्रक्षालयितुमर्हति ।
एतैर्नित्यव्रतैर्युक्ता धर्मज्ञा पतिदेवता ॥ ४५॥
कूर्मौ रूप्यमयौ दद्याद् ब्राह्मणाय पतिव्रते ।
तौ वराय ब्राह्मणाय स्थापयित्वा घृतेऽनघे ॥ ४६॥
पद्मे चाधोमुखे कृत्वा दद्याद् विप्राय नन्दिनि ।
रक्तैर्द्रव्यैर्मिश्रयित्वा काञ्चनेनाभ्यलङ्कृते ॥ ४७॥
सर्वमेव तु या गात्रमिच्छत्यतिमनोहरम् ।
त्रिरात्रं पुष्पकाले सा करोतु पतिदेवता ॥ ४८॥
कौमुद्यामथवाषाढ्यां माघ्यां चाश्वयुजे तथा ।
मातरं पितरं चैव मन्यतेऽतिथिदैवतम् ॥ ४९॥
घृतं च नित्यं विप्रेभ्यो ददातु लवणं तथा ।
सम्मार्जनं गृहे चैव करोतु पतिदेवता ॥ २.८०.५०॥
उपलेपनं च धर्मज्ञे बलिकर्म च मानिनि ।
वाग्दुष्टा चैव मा शुभ्रे भक्त्वात्मार्थपण्डिता ॥ ५१॥
पर्यश्नातु च सा कञ्चिदपि शाकं यशस्विनि ।
बलिं सृजत्वतथ्यं च परित्यजतु भामिनि ॥ ५२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकविधानेऽशीतितमोऽध्यायः ॥ ८०॥
२.८१ एकाशीतितमोऽध्यायः
उमाव्रतकथनसमाप्तिः Narration of umAvrata concluded
उमया व्रतकथनस्योपसंहारं, नारदेन देवीभ्यः चीर्णानां व्रतानां वर्णनम्, श्रीकृष्णपत्नीभिः व्रतस्य अनुष्ठानं दानं च
उमोवाच ।
बान्धवान् सगुणानिच्छेदेकभक्तेन नित्यदा ।
सप्तमीं सप्तमीं नित्यं क्षपेत् स्त्री पतिदेवता ॥ १॥
ततः संवत्सरे पूर्णे वृक्षं दद्याद्धिरण्मयम् ।
सदक्षिणं ब्राह्मणाय शुभबन्धुमती भवेत् ॥ २॥
करञ्जे दीपकं दद्यात् सदा या प्रमदा वरे ।
पूर्णे संवत्सरे दद्यात् सौवर्णं दीपकं ततः ॥ ३॥
रुच्या सा स्त्री भवेद् भर्तुरिष्टा पुत्रवती तथा ।
सपत्नीनामधि तथा दीपवज्ज्वलते शुभे ॥ ४॥
या शेषभोजिनी नित्यं नैव च स्यादरुन्तुदा ।
न च स्याद्व्यशना सौम्ये नित्यं च पतिदेवता ॥ ५॥
शौचान्विता च सततं न च रूक्षाभिभाषिणी ।
श्वश्रूश्वशुरयोर्निन्त्यं शुश्रूषाभिरता सती ॥ ६॥
किं तस्या व्रतकैः कार्यं किं वा स्यादुपवासकैः ।
या भर्तृदेवता नित्यं सत्यधर्मगुणान्विता ॥ ७॥
विधवा स्त्री तु या हि स्याद्दैवयोगात्सती सति ।
तस्या वक्ष्यामि यो धर्मः पुराणोक्तः सुमध्यमे ॥ ८॥
पतिं सङ्कल्पयित्वा सा चित्रस्थं वाथ मृन्मयम् ।
तस्य पूजां सदा कुर्यात् सतां धर्ममनुस्मरेत् ॥ ९॥
तत एवाभ्यनुज्ञां सा नित्यं याचेत सुव्रता ।
व्रतके चोपवासे च भोजने च विशेषतः ॥ २.८१.१०॥
भर्तृलोकान् व्रजत्येव न चेद् व्युच्चरते पतिम् ।
शाण्डिली सूर्यवद् भाति सततं पतिदेवता ॥ ११॥
अद्यप्रभृति सर्वेषां देवानां चैव योषितः ।
द्रक्ष्यन्ति पुण्यकविधिं पौराणो यः सनातनः ॥ १२॥
मुनिश्च नारदः कृत्स्नं पौराणं ज्ञास्यते विधिम् ।
उपवासस्य धर्मात्मा व्रतकानां तथैव च ॥ १३॥
अदितिस्तपसेन्द्राणी त्वं च सोमसुते वरे ।
प्रवर्तने पुण्यकानां व्रतकानां च सर्वदा ॥ १४॥
कीर्तनीयाः सतीनां हि भविष्यथ गुणान्विताः ।
उपवासव्रतविधिं यथावदिह कृत्स्नशः ॥ १५॥
प्रादुर्भावेषु सर्वेषु भार्या विष्णोर्महात्मनः ।
ज्ञास्यन्ति पुण्यकविधिं नित्यमेव सनातनम् ॥ १६॥
सविशेषं च धर्माणां स्त्रीधर्मेषु प्रशस्यते ।
पतिभक्तिरदुष्टत्वमवाग्दुष्टत्वमेव च ॥ १७॥
नारद उवाच ।
एवमुक्तास्तु ताः साध्व्यो महादेव्या तपोधनाः ।
जग्मुर्हृष्टा महादेवीं प्रणिपत्य हरप्रियाम् ॥ १८॥
अदितिर्व्रतकं चक्रे शृणु यद् धर्मचारिणी ।
उमाव्रतविधिः सर्वः पूर्वोद्दिष्टस्तया कृतः ॥ १९॥
पारिजाते निबध्याथ मम दत्तस्तु कश्यपः ।
अदितिव्रतकं नाम तद् दत्तं सत्यभामया ॥ २.८१.२०॥
तदेव व्रतकं दत्तं सावित्र्या धर्मनित्यया ।
तैरेव युक्तैः संयुक्तमिदं त्वभ्यधिकं कृतम् ॥ २१॥
सन्ध्याकाले तु सम्प्राप्ते स्थाने स्थाने तथैव च ।
पूजनं वा नमस्कारो जपश्च द्विगुणः स्मृतः ॥ २२॥
सावित्रीव्रतकं कृत्वा तथादित्या व्रतं सती ।
भर्तुः कुलं पितृकुलमात्मानं चैव तारयेत् ॥ २३॥
इन्द्राणी व्रतकं चक्रे तदेवौमं यथाविधि ।
रक्तमभ्यधिकं वासो भोजनं चैव सामिषम् ॥ २४॥
चतुर्थे दिवसे वापि पुण्यकार्थं विधिः पुनः ।
अहोरात्रोपवासश्च देयं कुम्भशतं तथा ॥ २५॥
गङ्गया व्रतकं दत्तं तदेवौमं यशस्करि ।
स्नानमभ्यधिकं त्वत्र प्रत्यूषस्यात्मनो जले ॥ २६॥
अन्यस्मिन् वा जले माघशुक्लपक्षे हरिप्रिये ।
एतद् गङ्गाव्रतं नाम सर्वकामप्रदं स्मृतम् ॥ २७॥
सप्त सप्त च सप्ताथ कुलानि हरिवल्लभे ।
स्त्री तारयति धर्मज्ञा गङ्गाव्रतकचारिणी ॥ २८॥
देयं कुम्भसहस्रं तु गङ्गाया व्रतके शुभे ।
तारणं पारणं चैव तद् व्रतं सार्वकामिकम् ॥ २९॥
यमभार्या चकाराथ व्रतं यामरथं शुभम् ।
हेमन्ते तत् तु कर्तव्यमाकाशे हरिवल्लभे ॥ २.८१.३०॥
इमानि चैव वाक्यानि ब्रूयादाकाशमास्थिता ।
स्नात्वा शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥ ३१॥
चराम्यहं यामरथं हिमं पृष्ठेन धारये ।
पतिव्रता जीवपुत्रा भवेयं च पुरोऽधिका ॥ ३२॥
सपत्नीरधितिष्ठेयं पश्येयं चैव मा यमम् ।
सभर्तृपुत्रा जीवेयं चिरं च सुखमेव च ॥ ३३॥
पतिलोकं च गच्छेयं भवेयं नन्दिनी तथा ।
सुचैला मृष्टहस्ता च स्वजनेष्टा गुणान्विता ॥ ३४॥
एवं कृत्वा ततो विप्रं मधुना स्वस्ति वाचयेत् ।
तिलैरपि तथा कृष्णैः पायसेन तु भोजयेत् ॥ ३५॥
एवं व्रतानि देवीभिः कृतान्यमरवर्णिनि ।
महादेव्या पुरोक्तानि रुद्रपत्न्या हरिप्रिये ॥ ३६॥
अहं ब्रवीमि तपसा मदीयेन समन्विताः ।
सर्वा द्रक्ष्यथ गुण्यानि व्रतकानि तथैव च ॥ ३७॥
पौराणान्युमया देव्या यानि दृष्टानि वै पुरा ।
कल्याणगुणयुक्तानि पावनानि शुभानि च ॥ ३८॥
वैशम्पायन उवाच ।
रुक्मिणी व्रतकं चक्रे दृष्ट्वा व्रतकविस्तरम् ।
उमाया वरदानेन दृष्ट्वा दिव्येन चक्षुषा ॥ ३९॥
उमाव्रतकवत् सर्वं वृषदानं तथाधिकम् ।
रत्नमालाप्रदानं च तथान्नं सार्वकामिकम् ॥ २.८१.४०॥
तथा जाम्बवती चक्रे पुरोमाव्रतकं तथा ।
ददावभ्यधिकं सा तु रत्नवृक्षं मनोहरम् ॥ ४१॥
सत्या ददौ तथैवाथ पुरोमाव्रतकं तथा ।
पीतमभ्यधिकं वासस्तया दत्तमुमाव्रते ॥ ४२॥
रोहिण्याथ च फाल्गुन्या मघया च पुरातने ।
व्रतानि खलु दत्तानि बहूनि कुलवर्धन ॥ ४३॥
ददौ शतभिषा चैव व्रतकं पुण्यलक्षणम् ।
येन नक्षत्रमुख्यत्वं जगाम कुरुनन्दन ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे उमाव्रतकथनसमाप्तौ
पारिजातहरणकथनसमाप्तौ चैकाशीतितमोऽध्यायः ॥ ८१॥
२.८२ द्व्यशीतितमोऽध्यायः
षट्पुरवधः Elimination of ShaTpura
षट्पुरवासिनां असुराणां सङ्क्षेपेण परिचयः, तेभ्यः ब्रह्मणा शिवेन च वरदानं
जनमेजय उवाच ।
वैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन ।
पारिजातस्य हरणे षट्पुरं परिकीर्तितम् ॥ १॥
निवासोऽसुरमुख्यानां दारुणानां तपोधन ।
तेषां वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च ॥ २॥
वैशम्पायन उवाच ।
त्रिपुरे निहते वीर रुद्रेणाक्लिष्टकर्मणा ।
तत्र प्रधाना बहवो बभूवुरसुरोत्तमाः ॥ ३॥
शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः ।
षष्टिः शतसहस्राणि न न्यूनान्यधिकानि च ॥ ४॥
ते ज्ञातिवधसन्तप्ताश्चक्रुर्वीराः पुरा तपः ।
जम्बूमार्गे सतामिष्टे महर्षिगणसेविते ॥ ५॥
आदित्याभिमुखा वीराः सहस्राणां शतं समाः ।
वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसम्भवम् ॥ ६॥
तेषामुदुम्बरं राजन् गण एकः समाश्रितः ।
वृक्षं तत्रावसन् वीरास्ते कुर्वन्तो महत्तपः ॥ ७॥
कपित्थवृक्षमाश्रित्य केचित्तत्रोषिताः पुरा ।
सृगालवाटीस्त्वपरे चेरुरुग्रं तथा तपः ॥ ८॥
वटमूले तथा चेरुस्तपः कौरवनन्दन ।
अधीयन्तो परं ब्रह्म वटं गत्वासुरात्मजाः ॥ ९॥
तेषां तुष्टः प्रजाकर्ता नरदेव पितामहः ।
वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः ॥ २.८२.१०॥
वरं वरयतेत्युक्तास्ते राजन् पद्मयोनिना ।
नेषुस्तद्वरदानं तु द्विषन्तस्त्र्यम्बकं विभुम् ॥ ११॥
इच्छन्तोऽपचितिं गन्तुं ज्ञातीनां कुरुनन्दन ।
तानुवाच ततो ब्रह्मा सर्वशः कुरुनन्दन ॥ १२॥
विश्वस्य जगतः कर्तुः संहर्तुश्च महात्मनः ।
कः शक्तोऽपचितिं गन्तुं मास्तु वोऽत्र वृथा श्रमः ॥ १३॥
अनादिमध्यनिधनः सोमो देवो महेश्वरः ।
तमासूय सुखं स्वर्गे वस्तुमिच्छन्ति येऽसुराः ॥ १४॥
ते नेषुस्तत्र केचित् तु दुरात्मानो महासुराः ।
अथेषुरपरे राजन्नसुरा भव्यभावनाः ॥ १५॥
नेषुर्ये सुदुरात्मानस्तानुवाच पितामहः ।
वरयध्वं वरं वीरा रुद्रक्रोधमृतेऽसुराः ॥ १६॥
ते ऊचुः सर्वदेवानामवध्याः स्याम हे विभो ।
पुराणि षट् च नो देव भवन्त्यन्तर्महीतले ॥ १७॥
सर्वकामसमृद्धार्थं षटपुरं चास्तु नः प्रभो ।
वयं च षट्पुरं गत्वा वसेम च सुखं विभो ॥ १८॥
रुद्रादुग्रं भयं न स्याद् येन नो ज्ञातयो हताः ।
निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे ॥ १९॥
पितामह उवाच ।
असुरा भवतावध्या देवानां शङ्करस्य च ।
न बाधिष्यथ चेद्विप्रान् सत्पथस्थान्सतां प्रियान् ॥ २.८२.२०॥
विप्रोपघातं मोहाच्चेत् करिष्यथ कथञ्चन ।
नाशं यास्यथ विप्रा हि जगतः परमा गतिः ॥ २१॥
नारायणाद् बिभेतव्यं कुर्वद्भिर्ब्राह्मणाहितम् ।
सर्वभूतेषु भगवान् हितं धत्ते जनार्दनः ॥ २२॥
ते गता असुरा राजन् ब्रह्मणाथ विसर्जिताः ।
येऽपि भक्ता महादेवमसुरा धर्मचारिणः ॥ २३॥
स्वयं हि दर्शनं तेषां ददौ त्रिपुरनाशनः ।
श्वेतं वृषभमारुह्य सोमः सप्रवरः प्रभुः ।
उवाचेदं च भगवानसुरान् स सतां गतिः ॥ २४॥
वैरमुत्सृज्य दम्भं च हिंसां चासुरसत्तमाः ।
मामेव चाश्रितास्तस्माद् वरं साधु ददामि वः ॥ २५॥
यैर्दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर्द्विजैः ।
सह तैर्गम्यतां स्वर्गः प्रीतोऽहं वः सुकर्मणा ॥ २६॥
इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः ।
अपि कापित्थिका वृक्षे तेषां लोको यथा मम ॥ २७॥
इह मासान्तपक्षान्तौ यः करिष्यति मानवः ।
वानप्रस्थेन विधिना पूजयन् मां तपोधनाः ॥ २८॥
वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् ।
कृत्वा त्रिरात्रं विधिवल्लप्स्यते चेप्सितां गतिम् ॥ २९॥
अर्कद्वीपे निवसतो द्विगुणं तद् भविष्यति ।
न विदेशे च भद्रं वो वरमेतद् ददाम्यहम् ॥ २.८२.३०॥
श्वेतवाहननामानं यश्च मां पूजयिष्यति ।
सर्वतो भयचित्तोऽपि गतिं स मम यास्यति ॥ ३१॥
औदुम्बरान् वाटमूलान् द्विजान् कापित्थिकानपि ।
तथा सृगालवाटीयान् धर्मात्मानो दृढव्रतान् ॥ ३२॥
मुनींश्च ब्रह्मवादीयान् सविशेषेण ये नराः ।
पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम् ॥ ३३॥
इत्युक्त्वाथ महादेवो भगवाञ्छ्वेतवाहनः ।
तैरेव सहितः सर्वै रुद्रलोकं जगाम वै ॥ ३४॥
जम्बूमार्गं गमिष्यामि जम्बूमार्गे वसाम्यहम् ।
एवं सङ्कल्पमानोऽपि रुद्रलोके महीयते ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे द्व्यशीतितमोऽध्यायः ॥ ८२॥
२.८३ त्र्यशीतितमोऽध्यायः
यशविस्तरो दुष्टनिग्रहश्च Expanding glory, annihilation of demons
ब्रह्मदत्तस्य यज्ञे वसुदेवदेवकीभ्यामागमनं, दैत्यैः ब्रह्मदत्तस्य कन्यकानां अपहरणं , प्रद्युम्नेन तासां रक्षा, नारदस्य कथनेन दैत्येभिः क्षत्रियनरेशानां स्वपक्षे मेलनम्, श्रीकृष्णस्य षट्पुरे आगमनं
वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु चतुर्वेदषडङ्गवित् ।
ब्राह्मणो याज्ञवल्क्यस्य शिष्यो धर्मगुणान्वितः ॥ १॥
ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिवान् ।
अश्वमेधः कृतस्तेन वसुदेवस्य धीमतः ॥ २॥
स संवत्सरदीक्षायां दीक्षितः षट्पुरालयः ।
आवर्तायाः शुभे तीरे सुनद्या मुनिजुष्ट्या ॥ ३॥
सखा च वसुदेवस्य सहाध्यायी द्विजोत्तमः ।
उपाध्यायश्च कौरव्य क्षीरहोता महात्मनः ॥ ४॥
वसुदेवस्तत्र यातो देवक्या सहितः प्रभो ।
यजमानं षट्पुरस्थं यथा शक्रो बृहस्पतिम् ॥ ५॥
तत् सत्रं ब्रह्मदत्तस्य बह्वन्नं बहुदक्षिणम् ।
उपासन्ति मुनिश्रेष्ठा महात्मानो दृढव्रताः ॥ ६॥
व्यासोऽहं याज्ञवल्क्यश्च सुमन्तुर्जैमिनिस्तथा ।
धृतिमाञ्जाबलिश्चैव देवलाद्याश्च भारत ॥ ७॥
ऋद्ध्यानुरूपया युक्तं वसुदेवस्य धीमतः ।
यत्रेप्सितान्ददौ कामान्देवकी धर्मचारिणी ॥ ८॥
वासुदेवप्रभावेण जगत्स्रष्टुर्महीतले ।
तस्मिन् सत्रे वर्तमाने दैत्याः षट्पुरवासिनः ॥ ९॥
निकुम्भाद्याः समागम्य तमूचुर्वरदर्पिताः ।
कार्यतां यज्ञभागो नः सोमं पास्यामहे वयम् ।
कन्याश्च ब्रह्मदत्तो नो यजमानः प्रयच्छतु ॥ २.८३.१०॥
बह्व्यः सन्त्यस्य कन्याश्च रूपवत्यो महात्मनः ।
आहूय ताः प्रदातव्याः सर्वथैव हि नः श्रुतम् ॥ ११॥
रत्नानि च ब्रह्मदत्तो विशिष्टानि ददातु नः ।
अन्यथा तु न यष्टव्यं वयमाज्ञापयामहे ॥ १२॥
एतच्छ्रुत्वा ब्रह्मदत्तस्तानुवाच महासुरान् ।
यज्ञभागो न विहितः पुराणेऽसुरसत्तमाः ॥ १३॥
कथं सत्रे सोमपानं शक्यं दातुं मया हि वः ।
पृच्छतेह मुनिश्रेष्ठान् वेदभाष्यार्थकोविदान् ॥ १४॥
कन्या हि मम या देयास्ताश्च सङ्कल्पिता मया ।
अन्तर्वेद्यां प्रदातव्याः सदृशानामसंशयम् ॥ १५॥
रत्नानि तु प्रयच्छामि सान्त्वेनाहं विचिन्त्यताम् ।
बलान्नैव प्रदास्यामि देवकीपुत्रमाश्रितः ॥ १६॥
निकुम्भाद्यास्तु रुषिताः पापाः षट्पुरवासिनः ।
यक्षवाटं विलुलुठुर्जह्रुः कन्याश्च तास्तथा ॥ १७॥
तद्दृष्ट्वा सम्प्रवृत्तं तु दध्यावानकदुन्दुभिः ।
वासुदेवं महात्मानं बलभद्रं गदं तथा ॥ १८॥
विदितार्थस्ततः कृष्णः प्रद्युम्नमिदमब्रवीत् ।
गच्छ कन्यापरित्राणं कुरु पुत्राशु मायया ॥ १९॥
यावद् यादवसैन्येन षट्पुरं याम्यहं प्रभो ।
स ययौ षट्पुरं वीरः पितुराशाकरस्तदा ॥ २.८३.२०॥
निमेषान्तरमात्रेण गत्वा कामो महाबलः ।
कन्यास्ता मायया धीमानपजह्रे महाबलः ॥ २१॥
मायामयीश्च कृत्वाऽन्या न्यस्तवान्रुक्मिणीसुतः ।
मा भैरिति च धर्मात्मा देवकीमुक्तवांस्तदा ॥ २२॥
मायामयीस्ततो हृत्वा सुता ह्यस्य दुरासदाः ।
षट्पुरं विविशुर्दैत्याः परितुष्टा नराधिप ॥ २३॥
कर्म चासार्य ते तत्र विधिदृष्टेन कर्मणा ।
यद् विशिष्टं बहुगुणं तदभूच्च नराधिप ॥ २४॥
एतस्मिन्नन्तरे प्राप्ता राजानस्तत्र भारत ।
सत्रे निमन्त्रिताः पूर्वं ब्रह्मदत्तेन धीमता ॥ २५॥
जरासन्धो दन्तवक्त्रः शिशुपालस्तथैव च ।
पाण्डवा धार्तराष्ट्राश्च मालवाः सगणास्तथा ॥ २६॥
रुक्मी चैवाह्वृतिश्चैव नीलो वा धर्म एव च ।
विन्दानुविन्दावावन्त्यौ शल्यः शकुनिरेव च ॥ २७॥
राजानश्चापरे वीरा महात्मानो दृढायुधाः ।
आवासिता नातिदूरे षट्पुरस्य च भारत ॥ २८॥
तान् दृष्ट्वा नारदः श्रीमानचिन्तयदनिन्दितः ।
क्षत्त्रस्य यादवानां च भविष्यति समागमः ॥ २९॥
अत्र हेतुरहं युद्धे तस्मात् तत् प्रयताम्यहम् ।
एवं सञ्चिन्तयित्वाथ निकुम्भभवनं गतः ॥ २.८३.३०॥
पूजितः स निकुम्भेन दानवैश्च तथापरैः ।
उपविष्टः स धर्मात्मा निकुम्भमिदमब्रवीत् ॥ ३१॥
कथं विरोधं यदुभिः कृत्वा स्वस्थैरिहास्यते ।
यो ब्रह्मदत्तः स हरिः स हि तस्य पितुः सखा ॥ ३२॥
शतानि पञ्च भार्याणां ब्रह्मदत्तस्य धीमतः ।
आनीता वसुदेवस्य सुतस्य प्रियकाम्यया ॥ ३३॥
शतद्वयं ब्राह्मणीनां राजन्यानां शतं तथा ।
वैश्यानां शतमेकं च शूद्राणां शतमेव च ॥ ३४॥
ताभिः शुश्रूषितो धीमान् दुर्वासा धर्मवित्तमः ।
तेन तासां वरो दत्तो मुनिना पुण्यकर्मणा ॥ ३५॥
एकैकस्तनयो राजन्नेकैका दुहिता तथा ।
रूपेणानुपमाः सर्वा वरदानेन धीमतः ॥ ३६॥
कन्या भवन्ति तनयास्तस्यासुर पुनः पुनः ।
सङ्गमे सङ्गमे वीर भर्तृभिः शयने सह ॥ ३७॥
सर्वपुष्पमयं गन्धं प्रस्रवन्ति वराङ्गनाः ।
सर्वदा यौवने न्यस्ताः सर्वाश्चैव पतिव्रताः ॥ ३८॥
सर्वा गुणैरप्सरसां गीतनृत्यगुणोदयम् ।
जानन्ति सर्वा दैतेय वरदानेन धीमतः ॥ ३९॥
पुत्राश्च रूपसम्पन्नाः शास्त्रार्थकुशलास्तथा ।
स्वे स्वे स्थिता वर्णधर्मे यथावदनुपूर्वशः ॥ २.८३.४०॥
ताः कन्या भैममुख्यानां दत्ताः प्रायेण धीमता ।
अवशेषं शतं त्वेकं यदानीतं किल त्वया ॥ ४१॥
तदर्थे यादवान् वीर योधयिष्यसि सर्वथा ।
सहायार्थं तु राजानो ध्रियन्तां हेतुपूर्वकम् ॥ ४२॥
ब्रह्मदत्तसुतार्थं च रत्नानि विविधानि च ।
दीयन्तां भूमिपालानां सहायार्थे महात्मनाम् ॥ ४३॥
आतिथ्यं क्रियतां चैव यै समेष्यन्ति वै नृपाः ।
एवमुक्ते तथा चक्रुरसुरास्तेऽतिहृष्टवत् ॥ ४४॥
लब्ध्वा पञ्चशतं कन्या रत्नानि विविधानि च ।
यथार्हेण नरेन्द्रैस्ता विभक्ता भक्तवत्सलैः ॥ ४५॥
ऋते पाण्डुसुतान् वीरान् वारिता नारदेन ते ।
निमेषान्तरमात्रेण तत्र गत्वा महात्मना ॥ ४६॥
तुष्टैस्तैरसुरा ह्युक्ता राजन् भूमिपसत्तमैः ।
सर्वकामसमृद्धार्थैर्भवद्भिः खगमैः स्वयम् ॥ ४७॥
अर्चिताः स्म यथान्यायं क्षत्रं किं वः प्रयच्छतु ।
क्षत्रं चार्चितपूर्वं हि दिव्यैर्वीरैर्भवद्विधैः ॥ ४८॥
निकुम्भोऽथाब्रवीद् धृष्टः क्षत्रं सुररिपुस्तदा ।
अनुवर्णयित्वा क्षत्रस्य माहात्म्यं सत्यमेव च ॥ ४९॥
युद्धं नो रिपुभिः सार्द्धं भविष्यति नृपोत्तमाः ।
साहाय्यं दातुमिच्छामो भवद्भिस्तत्र सर्वथा ॥ २.८३.५०॥
एवमस्त्विति तानूचुः क्षत्त्रियाः क्षीणकिल्बिषाः ।
पाण्डवेयानृते धीराञ्छ्रुतार्थान्नारदाद् विभो ॥ ५१॥
क्षत्रियाः सन्निविष्टास्ते युद्धार्थं कुरुनन्दन ।
पत्न्यस्तु ब्रह्मदत्तस्य यज्ञवाटं गता अपि ॥ ५२॥
कृष्णोऽपि सेनया सार्द्धं प्रययौ षट् पुरं विभुः ।
महादेवस्य वचनमुद्वहन् मनसा नृप ॥ ५३॥
स्थापयित्वा द्वारवत्यामाहुकं पार्थिवं तदा ।
स तया सेनया सार्द्धं पौराणां हितकाम्यया ॥ ५४॥
यज्ञवाटस्याविदूरे देवो निविविशे विभुः ।
देशे प्रवरकल्याणे वसुदेवप्रचोदितः ॥ ५५॥
दत्तगुल्माप्रतिसरं कृत्वा तं विधिवत्प्रभुः ।
प्रद्युम्नमटने श्रीमान् रक्षार्थं विनियुज्य च ॥ ५६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे कृष्णस्य षट्पुरगमने त्र्यशीतितमोऽध्यायः ॥ ८३॥
२.८४ चतुरशीतितमोऽध्यायः
अनिरुद्धविक्रमः राज्ञां बन्धनं च Aniruddha's valour, kings tied up
श्रीकृष्णेन यादवसेनायाः युद्धाय नियुक्तिः, दानवानां निष्क्रमणं, निकुम्भेन केषाञ्चित् यादववीराणां गुहायां बन्धनम्, श्रीकृष्णेन दानवसैनिकानां संहारः, प्रद्युम्नेन राजसैनिकानां गुहायां अवरोधनं एवं ब्रह्मदत्ताय सान्त्वना
वैशम्पायन उवाच ।
मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले ।
बलः कृष्णः सात्यकिश्च तार्क्ष्यमारुरुहुस्तदा ॥ १॥
बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य सुरोत्तमम् ॥ २॥
आवर्तया जले स्नात्वा रुद्रेण वरदत्तया ।
गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया ॥ ३॥
प्रद्युम्नमग्रे सैन्यस्य वियति स्थाप्य मानदः ।
रक्षार्थं यज्ञवाटस्य पाण्डवान् विनियुज्य च ॥ ४॥
शेषां सेनां गुहाद्वारि भगवान् विनियुज्य च ।
जयन्तमथ सस्मार प्रवरं च सतां गतिः ॥ ५॥
तावापेतुरेवाथ स्वयं चापश्यतां तथा ।
वियत्येव नियुक्तौ तौ प्रद्युम्न इव भारत ॥ ६॥
ततः कृष्णस्य वचनादाहतो रणदुन्दुभिः ।
जलजा मुरजाश्चैव वाद्यान्येवापराणि च ॥ ७॥
मकरो रचितो व्यूहः साम्बेन च गदेन च ।
सारणश्चोद्धवश्चैव भोजो वैतरणस्तथा ॥ ८॥
अनाधृष्टिश्च धर्मात्मा पृथुर्विपृथुरेव च ।
कृतवर्मा च दंष्ट्रश्च निचक्षुररिमर्दनः ॥ ९॥
सनत्कुमारो धर्मात्मा चारुदेष्णश्च भारत ।
अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः ॥ २.८४.१०॥
शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता ।
रथैरश्वैर्नरैर्नागैराकुला कुलवर्धन ॥ ११॥
षट्पुरादपि निष्क्रान्ता दानवा युद्धदुर्मदाः ।
आरुह्य मेघनादांश्च गर्दभानपि हस्तिनः ॥ १२॥
मकराञ्छिशुमारांश्च द्रुतानपि च भारत ।
महिषानपि खड्गांश्च उष्ट्रानपि च कच्छपान् ॥ १३॥
एतैरेव रथैर्युक्ता विविधायुधपाणयः ।
किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः ॥ १४॥
नानर्दमानैर्विविधैस्तूर्यैर्नेमिस्वनाकुलैः ।
प्रध्मायमानैः शङ्खैश्च महाम्बुदसमस्वनैः ॥ १५॥
तासामसुरसेनानामुद्यतानां जनेश्वर ।
निकुम्भो निर्ययावग्रे देवानामिव वासवः ॥ १६॥
भूमिं द्यां च ववृधिरे दानवास्ते बलोत्कटाः ।
नदन्तो विविधान्नादान् क्ष्वेडन्तश्च पुनः पुनः ॥ १७॥
राजसेनापि संयत्ता चेदिराजपुरोगमा ।
असुराणां सहायार्थे निश्चिता जनमेजय ॥ १८॥
दुर्योधनभ्रातृशतं चेदिराजानुजाग्रगम् ।
स्थितं रथैर्नरव्याघ्र गन्धर्वनगरोपमैः ॥ १९॥
कठिनानादिनो वीर द्रुपदस्यन्दनास्तथा ।
रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे ।
तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे ॥ २.८४.२०॥
शल्यश्च शकुनिश्चोभौ भगदत्तश्च पार्थिवः ।
जरासन्धस्त्रिगर्तश्च विराटश्च सहोत्तरः ॥ २१॥
युद्धार्थमुद्यता वीरा निकुम्भाद्या जयैषिणः ।
युयुत्समाना यदुभिर्देवैरिव महासुराः ॥ २२॥
ततो निकुम्भः समरे शरैराशीविषोपमैः ।
ममर्द समरे सेनां भैमानां भीमदर्शनाम् ॥ २३॥
सेनापतिरनाधृष्टिर्ममृषे तन्न यादवः ।
ममर्द घोरैर्बाणोघैश्चित्रपुङ्खैः शिलाशितैः ॥ २४॥
न रथोऽसुरमुख्यस्य ददृशे न च वाजिनः ।
न ध्वजो न निकुम्भस्तु सर्वे बाणाभिसंवृताः ॥ २५॥
स परीत्य ततो वीरो निकुम्भो मायिनां वरः ।
अस्तम्भयदनाधृष्टिं मायया भैमसत्तमम् ॥ २६॥
स्तम्भयित्वानयद् वीरं गुहां षट्पुरसंज्ञिताम् ।
रुद्ध्वा चाभ्यगमद्वीरो मायाबलमुपाश्रितः ॥ २७॥
पुनरेव निकुम्भस्तु कृतवर्माणमाहवे ।
अनयच्चारुदेष्णं च भोजं वैतरणं तथा ॥ २८॥
सनत्कुमारमृक्षं च तथैव निशठोल्मुकौ ।
बहूंश्चैवापरान् भोजान् मायाबलसमाश्रितः ॥ २९॥
न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर ।
नयतो यादवान्घोरान् गुहां षट्पुरसंशिताम् ॥ २.८४.३०॥
तद् दृष्ट्वा कदनं घोरं भैमानां भयवर्धनः ।
चुकोप भगवान्कृष्णो बलः सत्यक एव च ॥ ३१॥
सविशेषं तथा कामः साम्बश्च परवीरहा ।
अनिरुद्धश्च दुर्धर्षो भैमाश्च बहवोऽपरे ॥ ३२॥
ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर ।
दानवेषु प्रवृत्तेषु तृणेष्विव हुताशनः ॥ ३३॥
तं दृष्ट्वा दानवा देवमभिदुद्रुवुरीश्वरम् ।
शलभाः कालपाशार्ताः प्रदीप्तमिव पावकम् ॥ ३४॥
समुत्सृज्य शतघ्नीश्च परिघांश्च सहस्रशः ।
शूलानि चाग्नितुल्यानि प्रदीप्तांश्च परश्वधान् ॥ ३५॥
पर्वताग्राणि वृक्षांश्च घोराश्च विपुलाः शिलाः ।
उत्क्षिप्य च गजान्मत्तान् रथानपि हयानपि ॥ ३६॥
नारायणाग्निस्तान् सर्वान् ददाह प्रहसन्निव ।
बाणार्चिषा महातेजा जगद्धितकरो हरिः ॥ ३७॥
शारदं वर्षणं यद्वत् सेहे धीरो गवां पतिः ।
तद्वद् यदुवृषः सेहे बाणवर्षमरिन्दमः ॥ ३८॥
न सेहिरेऽसुरा बाणान्नारायणधनुश्च्युतान् ।
वर्षं पर्जन्यविहितं वालुकासेतवो यथा ॥ ३९॥
न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः ।
व्यादितास्यस्य सिंहस्य वृषभा इव भारत ॥ २.८४.४०॥
ते वध्यमानाः कृष्णेन दिवमाचक्रमुस्तदा ।
जीविताशां वहन्तस्तु नारायणभयार्दिताः ॥ ४१॥
तानाकाशगतानैन्द्रिर्जयन्तः प्रवरस्तथा ।
निजघ्नतुः शरैर्घोरैर्ज्वलितार्चिसमैः प्रभो ॥ ४२॥
निपेतुरसुराणां तु शिरांसि धरणीतले ।
तृणराजफलानीव मुक्तानि शिखरात् तरोः ॥ ४३॥
निपेतुर्बाहवश्छिन्ना दैन्यानां वसुधातले ।
कालेनोपहता वीर पञ्चवक्त्रा इवोरगाः ॥ ४४॥
रौक्मिणेयस्ततः सृष्ट्वा घोरां मायामयीं गुहाम् ।
अदृश्यनिष्क्रमं वीरः क्षत्रं प्रक्षेप्तुमुद्यतः ॥ ४५॥
गदेन सह धर्मात्मा सारणेन सुतेन च ।
साम्बेन चापरैश्चापि पूर्वं ये न प्रवेशिताः ॥ ४६॥
प्रमथ्य तरसा कर्णे यतन्तं रणमूर्धनि ।
जग्राह बलवान् कार्ष्णिः प्रस्फुरन्तं ततस्ततः ॥ ४७॥
विनद्य च गुहां वीरो घोरां मायामयीं नृप ।
दुर्योधनं च राजानं विराटद्रुपदावपि ॥ ४८॥
शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् ।
विन्दानुविन्दौ राजानौ जरासन्धं च भारत ॥ ४९॥
त्रिगर्तान्मालवांश्चैव वासन्त्यांश्च महाबलान् ।
धृष्टद्युस्नादिकांश्चैव पञ्चालानस्त्रकोविदान् ॥ २.८४.५०॥
तथाह्वृतिमुवाचेदं मातुलं रुक्मिमेव च ।
शिशुपालं च राजानं भगदत्तं च भारत ॥ ५१॥
सम्बन्धं च गुरुत्वं च मानयामि नराधिपाः ।
गुहामिमां घोररूपां यत्र प्रक्षेपयामि वः ॥ ५२॥
बिल्वोदकेश्वरेणाहमाज्ञप्तः शूलपाणिना ।
प्रक्षेप्तव्या नरेन्द्रास्ते गुहायामिति धीमता ॥ ५३॥
आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना ।
प्रक्षिप्तान् यादवांश्चैव मोक्षयिष्यामि सर्वथा ॥ ५४॥
इत्युक्तो शिशुपालस्तु राजा सेनापतिस्तथा ।
शरैस्ततर्द तान् भैमान् प्रद्युम्नं च विशेषतः ॥ ५५॥
बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च ।
आरभन्नृपतिं बद्धुं शिशुपालं महाबलम् ॥ ५६॥
ततः पाशसहस्त्राणि ग्रहाय प्रवरोत्तमः ।
शैलादिरब्रवीद् वीरं रौक्मिणेयं महाबलम् ॥ ५७॥
बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन ।
सर्वं कुरु तथा रात्र्यां चोक्तस्त्वं भो यथा मया ॥ ५८॥
कन्यार्थं रत्नलुब्धांस्तु बद्ध्वा चेमान् नराधिपान् ।
पाशैस्त्वमेव भोक्तुं च प्रमाणं यदुनन्दन ॥ ५९॥
असुरांस्तु महाबाहो निःशेषान् कर्तुमर्हसि ।
एवमेव च वक्तव्यस्त्वया वीर जनार्दनः ॥ २.८४.६०॥
ततः स भगदत्तं च शिशुपालं च भूमिप ।
आह्वृतिं चैव रुक्मिं च शेषांश्चान्यान्नराधिपान् ॥ ६१॥
बबन्ध हरदत्तैस्तैः पाशैरुत्तमवीर्यधृक् ।
मायामयीं गुहां चैवमानयत् कुरुनन्दन ॥ ६२॥
बद्ध्वा च रौक्मिणेयोऽथ निःश्वसन्त इवोरगान् ।
अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम् ॥ ६३॥
तेषां निरवशेषेण बबन्ध यदुनन्दनः ।
सेनापतीन् क्षत्रियांश्च कोशाध्यक्षांश्च भारत ॥ ६४॥
अव्यग्रस्तु ततो हन्तुमसुरानुद्यतः प्रभो ॥ ६५॥
सन्नद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् ।
विस्रब्धं वर्ततां कर्म मा भैः पश्य धनञ्जयम् ॥ ६६॥
न देवेभ्यो नासुरेभ्यो नागेभ्यो द्विजसत्तम ।
भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः ॥ ६७॥
न चासुरैस्तव सुताः स्पृष्टाः खल्वपि चेतसा ।
यज्ञवाटे निरीक्ष्यन्तां मायया निहिता मया ॥ ६८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे चतुरशीतितमोऽध्यायः ॥ ८४॥
२.८५ पञ्चाशीतितमोऽध्यायः
निकुम्भप्रभृतीनां वधः Nikumbha and others slain
निकुम्भस्य जयन्तात् पराजितं भूत्वा श्रीकृष्णेन सह युद्धं, श्रीकृष्णेन अर्जुनाय
निकुम्भस्य चरित्रकथनं, आकाशवाण्याः प्रेरणया सुदर्शन चक्रेण निकुम्भस्य वधकरणं एवं ब्रह्मदत्ताय षट्पुरनगरं दत्त्वा द्वारकां प्रति प्रस्थानं
वैशम्पायन उवाच ।
रुद्धेषु भूमिपालेषु सानुगेषु विशाम्पते ।
आविवेशासुरांश्चाथ कश्मलं जनमेजय ॥ १॥
दिशः प्रतस्थुस्ते वीरा वध्यमानाः समन्ततः ।
कृष्णानन्तप्रभृतिभिर्यदुभिर्युद्धदुर्मदैः ॥ २॥
निकुम्भस्तानथोवाच रुषितो दानवोत्तमः ।
भित्त्वा प्रतिज्ञां किं मोहाद्भयार्ता यात विह्वलाः ॥ ३॥
हीनप्रतिज्ञाः काँल्लोकान् प्रयास्यथ पलायिताः ।
अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चयाः ॥ ४॥
फलं जित्वेह भोक्तव्यं रिपून् समरकर्कशान् ।
हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम् ॥ ५॥
पलायित्वा गृहं गत्वा कस्य द्रक्ष्यथ हे मुखम् ।
दारान्वक्ष्यथ किं चापि धिग्धिक् किं किं न लज्जथ ॥ ६॥
एवमुक्ता निवृत्तास्ते लज्जमाना नृपासुराः ।
द्विगुणेन च वेगेन युयुधुर्यदुभिः सह ॥ ७॥
उत्सवे युद्धशौण्डानां नानाप्रहरणैर्नृप ।
ये यान्ति यज्ञवाटं तं तान् निहन्ति धनञ्जयः ॥ ८॥
यमौ भीमश्च राजा च धर्मपुत्रो युधिष्ठिरः ।
द्यां प्रयाताञ्जघानैन्द्रिः प्रवरश्च द्विजोत्तमः ॥ ९॥
अथासुरासृक्तोयाढ्या केशशैवलशाद्वला ।
चक्रकूर्मरथावर्ता गजशैलानुशोभिनी ॥ २.८५.१०॥
ध्वजकुन्ततरुच्छन्ना स्तनितोत्क्रुष्टनादिनी ।
गोविन्दशैलप्रभवा भीरुचित्तप्रमाथिनी ॥ ११॥
असृग्बुद्बुदफेनाढ्या असिमत्स्यतरङ्गिणी ।
सुस्राव शोणितनदी नदीव जलदागमे ॥ १२॥
तान् दृष्ट्वैव निकुम्भस्तु वर्द्धमानांश्च शात्रवान् ।
हतान् सर्वान् सहायांश्च वीर्यादेवात्पपात ह ॥ १३॥
स वारितो जयन्तेन प्रवरेण च भारत ।
शरैः कुलिशसङ्काशैर्निकुम्भो रणकर्कशः ॥ १४॥
सन्निवृत्याथ दष्टोष्ठः परिघेण दुरासदः ।
प्रवरं ताडयामास स पपात महीतले ॥ १५॥
ऐन्द्रिस्तं पतितं भूमौ बाहुभ्यां परिषस्वजे ।
विदित्वा चैव सप्राणं हित्वासुरमभिद्रुतः ॥ १६॥
अभिद्रुत्य निकुम्भं च निस्त्रिंशेन जघान ह ।
परिघेणापि दैतेयो जयन्तं समताडयत् ॥ १७॥
ततक्ष बहुलं गात्रं निकुम्भस्यैन्द्रिराहवे ।
स चिन्तयामास तदा वध्यमानो महासुरः ॥ १८॥
कृष्णेन सह योद्धव्यं वैरिणा ज्ञातिघातिना ।
श्रावयामि किमात्मानमाहवे शक्रसूनुना ॥ १९॥
एवं स निश्चयं कृत्वा तत्रैवान्तरधीयत ।
जगाम चैव युद्धार्थं यत्र कृष्णो महाबलः ॥ २.८५.२०॥
तं दृष्ट्वैरावतस्कन्धमास्थितो बलनाशनः ।
द्रष्टुमभ्यागतो युद्धं जहृषे सह दैवतैः ॥ २१॥
साधु साध्विति पुत्रं च परितुष्टः स सस्वजे ।
प्रवरं चापि धर्मात्मा सस्वजे मोहवर्जितम् ॥ २२॥
देवदुन्दुभयश्चापि प्रणेदुर्वासवाज्ञया ।
जयमानं रणे दृष्ट्वा जयन्तं रणदुर्जयम् ॥ २३॥
ददर्शाथ निकुम्भस्तु केशवं रणदुर्जयम् ।
अर्जुनेन स्थितं सार्धं यज्ञवाटाविदूरतः ॥ २४॥
स नादं सुमहान् कृत्वा पक्षिराजमताडयत् ।
परिघेण सुघोरेण बलं सत्यकमेव च ॥ २५॥
नारायणं चार्जुनं च भीमं चाथ युधिष्ठिरम् ।
यमौ च वासुदेवं च साम्बं कामं च वीर्यवान् ॥ २६॥
युयुधे मायया दैत्यः शीघ्रकारी च भारत ।
न चैनं ददृशुः सर्वे सर्वशस्त्रविशारदाः ॥ २७॥
यदा तु नैवापश्यस्तं तदा बिल्वोदकेश्वरम् ।
दध्यौ देवं हृषीकेशः प्रमथानां गणेश्वरम् ॥ २८॥
ततस्ते ददृशुः सर्वे प्रभावादतितेजसः ।
बिल्वोदकेश्वरस्याशु निकुम्भं मायिनां वरम् ॥ २९॥
कैलासशिखराकारं ग्रसन्तमिव धिष्ठितम् ।
आह्वयन्तं रणे कृष्णं वैरिणं ज्ञातिनाशनम् ॥ २.८५.३०॥
सत्यगाण्डीव एवाद्य पार्थस्तस्य रथेषुभिः ।
परिघं चैव गात्रेषु विव्याधैनमथासकृत् ॥ ३१॥
ते बाणास्तस्य गात्रेषु परिघे च जनाधिप ।
भङ्गाः शिलाशिताः सर्वे निपेतुः कुञ्चिताः क्षितौ ॥ ३२॥
विफलानस्त्रयुक्तांस्तान् दृष्ट्वा बाणान्धनञ्जयः ।
पप्रच्छ केशवं वीरः किमेतदिति भारत ॥ ३३॥
पर्वतानपि भिन्दन्ति मम वज्रोपमाः शराः ।
किमिदं देवकीपुत्र विस्मयोऽत्र महान् मम ॥ ३४॥
तमुवाच ततः कृप्णः प्रहसन्निव भारत ।
महद्भूतं निकुम्भोऽयं कौन्तेय शृणु विस्तरात् ॥ ३५॥
पुरा गत्वोत्तरकुरूंस्तपश्चक्रे महासुरः ।
शतं वर्षसहस्राणां देवशत्रुर्दुरासदः ॥ ३६॥
अथैनं छन्दयामास वरेण भगवान् हरः ।
स वव्रे त्रीणि रूपाणि न वध्यानि सुरासुरैः ॥ ३७॥
तमुवाच महादेवो भगवान् वृषभध्वजः ।
मम वा ब्राह्मणानां वा विष्णोर्वा प्रियमाचरन् ॥ ३८॥
भविष्यसि हरेर्वध्यो न त्वन्यस्य महासुर ।
ब्रह्मण्योऽहं च विष्णुश्च विप्राणां परमा गतिः ॥ ३९॥
स एष सर्वशस्त्राणामवध्यः पाण्डुनन्दन ।
त्रिदेहोऽतिप्रमाथी च वरमत्तश्च दानवः ॥ २.८५.४०॥
भानुमत्यापहरणे देहोऽस्यैको हतो मया ।
अवध्यं षट्पुरं देहमिदमस्य दुरात्मनः ॥ ४१॥
दितिं शुश्रूषति न्येको देहोऽस्य तपसान्वितः ।
अन्यस्तु देहो घोरोऽस्य येनावसति षट्पुरम् ॥ ४२॥
एतत् तु सर्वमाख्यातं निकुम्भचरितं मया ।
त्वरयास्य वधे वीर कथा पश्चाद् भविष्यति ॥ ४३॥
तयोः कथयतोरेवं कृष्णयोरसुरस्तदा ।
गुहां षट्पुरसंज्ञां तां विवेश रणदुर्जयः ॥ ४४॥
अन्विष्य तस्य भगवान् विवेश मधुसूदनः ।
तां षट्पुरगुहां घोरां दुर्धर्षां कुरुनन्दन ॥ ४५॥
चन्द्रसूर्यप्रभाहीनां ज्वलन्तीं स्वेन तेजसा ।
सुखदुःखोष्णशीतानि प्रयच्छन्तीं यथेप्सितम् ॥ ४६॥
तत्र प्रविश्य भगवानपश्यत जनाधिपान् ।
युयुधे सह घोरेण निकुम्भेन जनाधिप ॥ ४७॥
कृष्णस्यानुप्रविष्टास्तु बलाद्या यादवास्तदा ।
प्रविष्टाश्च तथा सर्वे पाण्डवास्ते महात्मनः ॥ ४८॥
समेतास्तु प्रविष्टास्ते कृष्णस्यानुमतेन वै ।
युयुधे स तु कृष्णेन रौक्मिणेयः प्रचोदितः ।
मानयद् यादवान्सर्वान्यानयं बद्धवान्पुरा ॥ ४९॥
ते मुक्ता रौक्मिणेयेन प्राप्ता यत्र जनार्दनः ।
प्रहृष्टमनसः सर्वे निकुम्भवधकाङ्क्षिणः ॥ २.८५.५०॥
राजानो वीर मुञ्चेति पुनः कामं यथाब्रुवन् ।
मुमोच चाथ तान्वीरो रौक्मिणेयः प्रतापवान् ॥ ५१॥
अधोमुखमुखाः सर्वे बद्धमौना नराधिपाः ।
लज्जयाभिप्लुता वीरास्तस्थुर्नष्टश्रियस्तदा ॥ ५२॥
निकुम्भमपि गोविन्दः प्रयतन्तं जयं प्रति ।
योधयामास भगवान् घोरमात्मरिपुं हरिः ॥ ५३॥
परिघेनाहतः कृष्णो निकुम्भेन भृशं विभो ।
गदया चापि कृष्णेन निकुम्भस्ताडितो भृशम् ॥ ५४॥
तावुभौ मोहमापन्नौ सुप्रहारहतौ तदा ।
ततः प्रव्यथितान्दृष्ट्वा पाण्डवांश्चाथ यादवान् ॥ ५५॥
जेपुर्मुनिगणास्तत्र कृष्णस्य हितकाम्यया ।
तुष्टुवुश्च महात्मानं वेदप्रोक्तैस्तथा स्तवैः ॥ ५६॥
ततः प्रत्यागतप्राणो भगवान् केशवस्तदा ।
दानवश्च पुनर्वीरावुद्यतौ समरं प्रति ॥ ५७॥
वृषभाविव नर्दन्तौ गजाविव च भारत ।
शालावृकाविव क्रुद्धौ प्रहरन्तौ रणोत्कटौ ॥ ५८॥
अथ कृष्णं तदोवाच नृप वागशरीरिणी ।
चक्रेण शमयस्यैनं देवब्राह्मणकण्टकम् ॥ ५९॥
इति होवाच भगवान् देवो बिल्वोदकेश्वरः ।
धर्मं यशश्च विपुलं प्राप्नुहि त्वं महाबल ॥ २.८५.६०॥
तथेत्युक्त्वा नमस्कृत्वा लोकनाथः सतां गतिः ।
सुदर्शनं मुमोचाथ चक्रं दैत्यकुलान्तकम् ॥ ६१॥
तन्निकुम्भस्य चिच्छेद शिरः प्रवरकुण्डलम् ।
नारायणभुजोत्सृष्टं सूर्यमण्डलवर्चसम् ॥ ६२॥
उत्पपात शिरस्तस्य भूमौ ज्वलितकुण्डलम् ।
मेघमत्तो गिरेः शृङ्गान्मयूर इव भूतले ॥ ६३॥
निकुम्भे निहते तस्मिन् देवो बिल्वोदकेश्वरः ।
तुतोष च नरव्याघ्र जगत्त्रासकरे विभुः ॥ ६४॥
पपात पुष्पवृष्टिश्च शक्रसृष्टा नभस्तलात् ।
देवदुन्दुभयश्चैव प्रणेदुररिनाशने ६५॥
ननन्द च जगत्कृत्स्नं मुनयश्च विशेषतः ।
दैत्यकन्याश्च भगवान् यदुभ्यः शतशो ददौ ॥ ६६॥
क्षत्त्रियाणां च भगवान्सान्त्वयित्वा पुनः पुनः ।
रत्नानि च विचित्राणि वासांसि प्रवराणि च ॥ ६७॥
रथानां वाजियुक्तानां षट् सहस्राणि केशवः ।
अददात् पाण्डवेभ्यश्च प्रीतात्मा गदपूर्वजः ॥ ६८॥
तदेव चाथ प्रवरं षट्पुरं पुरवर्द्धनः ।
द्विजाय ब्रह्मदत्ताय ददौ तार्क्ष्यवरध्वजः ॥ ६९॥
सत्रे समाप्ते च तदा शङ्खचक्रगदाधरः ।
विसर्जयित्वा तत् क्षत्रं पाण्डवांश्च महाबलः ॥ २.८५.७०॥
बिल्वोदकेश्वरस्याथ समाजमकरोत् प्रभुः ।
मांससूपसमाकीर्णं बह्वन्नं व्यञ्जनाकुलम् ॥ ७१॥
नियुद्धकुशलान् मल्लान् देवो मल्लप्रियस्तदा ।
योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्मवान् ॥ ७२॥
मातापितृभ्यां सहितो यदुभिश्च महाबलः ।
अभिवाद्य ब्रह्मदत्तं ययौ द्वारवतीं पुरीम् ॥ ७३॥
स विवेश पुरीं रम्यां हृष्टपुष्टजनाकुलाम् ।
पुष्पचित्रपथां वीरो वन्द्यमानो नरैः पथि ॥ ७४॥
इमं यः षटपुरवधं विजयं चक्रपाणिनः ।
शृणुयाद् वा पठेद् वापि युद्धे जयमवाप्नुयात् ॥ ७५॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
व्याधितो मुच्यते रोगी बद्धश्चाप्यथ बन्धनात् ॥ ७६॥
इदं पुंसवनं प्रोक्तं गर्भाधानं च भारत ।
श्राद्धेषु पठितं सम्यगक्षय्यकरणं स्मृतम् ॥ ७७॥
इदममरवरस्य भारते प्रथितबलस्य जयं महात्मनः ।
सततमिह हि यः पठेन्नरः सुगतिमितो व्रजते गतज्वरः ॥ ७८॥
मणिकनकविचित्रपाणिपादो निरतिशयार्कगुणोऽरिहादिनाथः ।
चतुरुदधिशयश्चतुर्विधात्मा जयति जगत्पुरुषः सहस्रनामा ॥ ७९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे पञ्चाशीतितमोऽध्यायः ॥ ८५॥
२.८६ षडशीतितमोऽध्यायः
अन्धकवधः Story of andhakAsura
अन्धकासुरस्योत्पत्तिः अनाचारं च, तस्य वधाय ऋषीणां चिन्तनम्, नारदस्य मन्दार
पुष्पाणां मालां धारयित्वा अन्धकं प्रति गमनं एवं मन्दारवनस्य महत्त्वकथनं
जनमेजय उवाच ।
श्रुतोऽयं षट्पुरवधो रम्यो मुनिवरोत्तम ।
पुरोक्तमन्धकवधं वैशम्पायन कीर्तय ॥ १॥
भानुमत्याश्च हरणं निकुम्भस्य वधं तथा ।
प्रब्रूहि वदतां श्रेष्ठ परं कौतूहलं हि मे ॥ २॥
वैशम्पायन उवाच ।
दितिर्हतेषु पुत्रेषु विष्णुना प्रभविष्णुना ।
तपसाऽऽराधयामास मारीचं कश्यपं पुरा ॥ ३॥
तपसा कालयुक्तेन तथा शुश्रूषया मुनेः ।
आनुकूल्येन च तथा माधुर्येण च भारत ॥ ४॥
परितुष्टः कश्यपस्तु तामुवाच तपोधनः ।
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥ ५॥
दितिरुवाच ।
हतपुत्रास्मि भगवन् देवैर्धर्मभृतां वर ।
अवध्यं पुत्रमिच्छामि देवैरमितविक्रमम् ॥ ६॥
कश्यप उवाच ।
अवध्यस्ते सुतो देवि दाक्षायणि भवेदिति ।
देवानां संशयो नात्र कश्चित्कमललोचने ॥ ७॥
देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम् ।
आत्मा ततस्ते पुत्रेण रक्षितव्यो हि सर्वथा ॥ ८॥
अन्वालभत तां देवीं कश्यपः सत्यवागथ ।
अङ्गुल्योदरदेशे तु सा पुत्रं सुषुवे ततः ॥ ९॥
सहस्त्रबाहुं कौरव्य सहस्रशिरसं तथा ।
द्विसहस्रेक्षणं चैव तावच्चरणमेव च ॥ २.८६.१०॥
स व्रजत्यन्धवद् यस्मादनन्धोऽपि हि भारत ।
तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः ॥ ११॥
अवध्योऽस्मीति लोकान् स सर्वान् बाधति भारत ।
हरत्यपि च रत्नानि सर्वाण्यात्मबलाश्रयात् ॥ १२॥
वासयत्यात्मवीर्येण निगृह्याप्सरसां गणान् ।
स वेश्मन्यूर्जितोऽत्यर्थं सर्वलोकभयङ्करः ॥ १३॥
परदारापहरणं पररत्नविलोपनम् ।
चकार सततं मोहादन्धकः पापनिश्चयः ॥ १४॥
त्रैलोक्यविजयं कर्तुमुद्यतः स तु भारत ।
सहायैरसुरैः सार्धं बहुभिः सर्वधर्षिभिः ॥ १५॥
तच्छ्रुत्वा भगवाञ्छक्रः कश्यपं पितरं ब्रवीत् ।
अन्धकेनेदमारब्धमीदृशं मुनिसत्तम ॥ १६॥
आज्ञापय विभो कार्यमस्माकं समनन्तरम् ।
यवीयसः कथं नाम सोढव्यं स्यान्मुने मया ॥ १७॥
इष्टपुत्रे प्रहर्तव्यं कथं नाम मया विभो ।
इहात्रभवती कुर्यान्मन्युं मयि हते सुते ॥ १८॥
देवेन्द्रवचनं श्रुत्वा कश्यपोऽथाब्रवीन्मुनिः ।
वारयिष्यामि देवेन्द्र सर्वथा भद्रमस्तु ते ॥ १९॥
अन्धकं वारयामास दित्या सह तु कश्यपः ।
त्रैलोक्यविजयाद् वीरं कृच्छ्रकृच्छ्रेण भारत ॥ २.८६.२०॥
वारितोऽपि स दुष्टात्मा बाधत्येव दिवौकसः ।
तैस्तैरुपायैर्दुष्टात्मा प्रमथ्य च तथामरान् ॥ २१॥
बभञ्ज कानने वृक्षानुद्यानानि च दुर्मतिः ।
उच्चैःश्रवःसुतानश्वान् बलादप्यानयद् दिवः ॥ २२॥
नागान् दिशागजसुतान् दिव्यानपि च भारत ।
बलाद्धरति देवानां पश्यतां वरदर्पितः ॥ २३॥
देवानाप्यायन्ते तु ये यशैस्तपसा तथा ।
तेषां चकार विघ्नं स दुष्टात्मा देवकण्टकः ॥ २४॥
नेजुर्यज्ञैस्त्रयो वर्णास्तेपुश्च न तपांस्यपि ।
अन्धकस्य भयाद् राजन् यज्ञविघ्नानि कुर्वतः ॥ २५॥
तस्येच्छया वाति वायुरादित्यश्च तपत्युत ।
चन्द्रमा वा सनक्षत्रो दृश्यते नैव वा पुनः ॥ २६॥
न व्रजन्ति विमानानि विहायसि भयात् प्रभो ।
अन्धकस्यातिघोरस्य बलदृप्तस्य दुर्मतेः ॥ २७॥
निरोङ्कारवषट्कारं जगद् वीर तथाभवत् ।
अन्धकस्यातिघोरस्य भयात् कुरुकुलोद्वह ॥ २८॥
कुरूंस्तथोत्तरान् पापो द्रावयामास भारत ।
भद्राश्वान् केतुमालांश्च जम्बूद्वीपांस्तथैव च ॥ २९॥
मानयन्ति च तं देवा दानवाश्च दुरासदाः ।
भूतानि च तथान्यानि समर्थान्यपि सर्वथा ॥ २.८६.३०॥
ऋषयो वध्यमानास्तु समेता ब्रह्मवादिनः ।
अचिन्तयन्नन्धकस्य वधं धर्मभृतां वर ॥ ३१॥
तेषां बृहस्पतिर्मध्ये धीमानिदमथाब्रवीत् ।
नास्य रुद्रादृते मृत्युर्विद्यते च कथञ्चन ॥ ३२॥
तथा वरे दीयमाने रुश्यपेनापि शब्दितः ।
नाहं रुद्रात् परित्रातुं शक्त इत्येव धीमतः ॥ ३३॥
तमुपायं चिन्तयामः शर्वो येन सनातनः ।
जानीयात् सर्वभूतानि पीड्यमानानि शङ्करः ॥ ३४॥
विदितार्थो हि भगवानवश्यं जगतः प्रभुः ।
अश्रुप्रमार्जनं देवः करिष्यति सतां गतिः ॥ ३५॥
व्रतं हि देवदेवस्य भवस्य जगतो गुरोः ।
सन्तोऽसद्भ्यो रक्षितव्या ब्राह्मणास्तु विशेषतः ॥ ३६॥
ते वयं नारदं सर्वे प्रयाम शरणं द्विजम् ।
उपायं वेत्स्यते तत्र वयस्यो हि भवस्य सः ॥ ३७॥
बृहस्पतिवचः श्रुत्वा सर्वेऽप्यथ तपोधनाः ।
तावद् ददृशुराकाशे प्राप्तं देवर्षिसत्तमम् ॥ ३८॥
पूजयित्वा यथान्यायं सत्कृत्य विधिवन्मुनिम् ।
देवर्षे भगवन् साधो कैलासं व्रज सत्वरम् ॥ ३९॥
विज्ञप्तुमर्हसे देवमन्धकस्य वधे हरम् ।
त्राणार्थं नारदं प्रोचुस्तांस्तथेति स चोक्तवान् ॥ २.८६.४०॥
ऋषिष्वथ प्रयातेषु तत्कार्यं नारदो मुनिः ।
विचार्य मनसा विद्वानिति कार्यं स दृष्टवान् ॥ ४१॥
स देवदेवं भगवान् द्रष्टुं मुनिरथाययौ ।
मन्दारवनमध्यस्थो यत्र नित्यो वृषध्वजः ॥ ४२॥
स तत्र रजनीमेकामुषित्वा मुनिसत्तमः ।
मन्दाराणां वने रम्ये दयितः शूलपाणिनः ॥ ४३॥
आजगाम पुनः स्वर्गं लब्ध्वानुज्ञां वृषध्वजात् ।
मन्दारपुष्पैः सुकृतां मालामाबध्य भारत ॥ ४४॥
ग्रथितां सविशेषां तां सर्वगन्धोत्तमोत्तमाम् ।
सन्तानमाल्यदामाथ तैरेव कुसुमैः कृतम् ॥ ४५॥
तच्च कण्ठे समासज्य महागन्धं नराधिप ।
आययावन्धको यत्र दुरात्मा बलदर्पितः ॥ ४६॥
अन्धकस्त्वथ तं दृष्ट्वा गन्धमाघ्राय चोत्तमम् ।
सन्तानकानां स्रङ्मालां महागन्धां महामुने ।
कुत्रायं पुष्पजातिर्वा कमनीया तपोधन ॥ ४७॥
गन्धान्वर्णाञ्छुभांस्तान् हि भोः पुष्यति मुहुर्मुहुः ।
स्वर्गे सन्तानकुसुमान्यतिवर्तति सर्वथा ॥ ४८॥
कः प्रभुस्तस्य वृक्षस्य शक्यं वाऽऽनयितुं मुने ।
आचक्ष्व यद्यनुग्राह्या वयं ते देवतातिथे ॥ ४९॥
तमुवाच मुनिश्रेष्ठः प्रहसन्निव भारत ।
आदाय दक्षिणे हस्ते महतस्तपसो निधिः ॥ २.८६.५०॥
मन्दरे पर्वतश्रेष्ठे वीर कामगमं वनम् ।
तत्र चैवंविधं पुष्पं भोः सृष्टिः शूलपाणिनः ॥ ५१॥
न तु तत्र वनं कश्चिदच्छन्देन महात्मनः ।
प्रवेष्टुं लभते तद्धि रक्षन्ति प्रवरोत्तमाः ॥ ५२॥
नानाप्रहरणा घोरा नानावेषा दुरासदाः ।
अवध्याः सर्वभूतानां महादेवाभिरक्षिताः ॥ ५३॥
नित्यं प्रक्रीडते तत्र सोमः सप्रवरो हरः ।
मन्दारद्रुमखण्डेषु सर्वात्मा सर्वभावनः ॥ ५४॥
तपोविशेषैराराध्य हरं त्रिभुवनेश्वरम् ।
शक्यं मन्दारपुष्पाणि प्राप्तुं कश्यपवंशज ॥ ५५॥
स्त्रीरत्नमणिरत्नानि यानि चान्यानि चाप्यथ ।
काङ्क्षितानि फलन्ति स्म ते द्रुमा हरवल्लभाः ॥ ५६॥
न तत्र सूर्यः सोमोऽथ तपत्यतुलविक्रम ।
स्वयम्प्रभं तरुवनं तद् भो दुःखविवर्जितम् ॥ ५७॥
तत्र गन्धान् स्रवन्त्यन्ये नीराण्यन्ये महाद्रुमाः ।
वासांसि विविधान्यन्ये सुगन्धीनि महाबल ॥ ५८॥
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च ।
तरुभ्यः स्रवते तेभ्यो विविधं मनसेप्सितम् ॥ ५९॥
पिपासा वा बुभुक्षा वा ग्लानिश्चिन्तापि वानघ ।
न मन्दारवने वीर भवतीत्युपधार्यताम् ॥ २.८६.६०॥
न तै वर्णयितुं शक्या गुणा वर्षशतैरपि ।
गुणा ये तत्र वर्द्धन्ते स्वर्गाद् बहुगुणोत्तराः ॥ ६१॥
अतीव हि जयेल्लोकान् समहेन्द्रान् न संशयः ।
एकाहमपि यस्तत्र वसेच्च दितिजोत्तम ॥ ६२॥
स्वर्गस्यापि हि तत्स्वर्गं सुखानामपि तत्सुखम् ।
बभूव जगतः सर्वमिति मे धीयते मनः ॥ ६३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवधे षडशीतितमोऽध्यायः ॥ ८६॥
२.८७ सप्ताशीतितमोऽध्यायः
महादेवेनान्धकवधः Shiva slays andhaka
मन्दराचलं गतस्य अन्धकासुरस्य महादेवेन वधं
वैशम्पायन उवाच ।
अन्धको नारदवचः श्रुत्वा तत्त्वेन भारत ।
मन्दरं पर्वतं गन्तुं मनो दध्रे महासुरः ॥ १॥
सोऽसुरान् सुमहातेजाः समानीय महाबलः ।
जगाम मन्दरं क्रुद्धो महादेवालयं तदा ॥ २॥
तं महाभ्रप्रतिच्छन्नं महौषधिसमाकुलम् ।
नानासिद्धसमाकीर्णं महर्षिगणसेवितम् ॥ ३॥
चन्दनागुरुवृक्षाढ्यं सरलद्रुमसङ्कुलम् ।
किन्नरोद्गीतरम्यं च बहुनागकुलाकुलम् ॥ ४॥
वातोद्भूतैर्वनैः फुल्लैर्नृत्यन्तमिव च क्वचित् ।
प्रस्रुतैर्धातुभिश्चित्रैर्विलिप्तमिव च क्वचित् ॥ ५॥
पक्षिस्वनैः सुमधुरैर्नदन्तमिव च क्वचित् ।
हंसैः शुचिपदैः कीर्णं सम्पतद्भिरितस्ततः ॥ ६॥
महाबलैश्च महिषैश्चरद्भिर्दैत्यनाशनैः ।
चन्द्रांशुविमलैः सिंहैर्भूषितं हेमसञ्चयम् ॥ ७॥
मृगराजसमाकीर्णं मृगवृन्दनिषेवितम् ।
स मन्दरं गिरिं प्राह रूपिणं बलदर्पितः ॥ ८॥
वेत्सि त्वं हि यथावध्यो वरदानादहं पितुः ।
मम चैव वशे सर्वं त्रैलोक्यं सचराचरम् ॥ ९॥
प्रतियोद्धुं न मां कश्चिदिच्छत्यपि गिरे भयात् ।
पारिजातवनं चास्ति तव सानौ महागिरे ।
सर्वकामप्रदैः पुष्पैर्भूषितं रत्नमुत्तमम् ॥ २.८७.१०॥
तदाचक्ष्वोपभोक्ष्यामि तद् वनं तव सानुजम् ।
किं करिष्यसि क्रुद्धस्त्वं मनो हि त्वरते मम ॥ ११॥
त्रातारं नानुपश्यामि मया खल्वर्दितस्य ते ।
इत्युक्तो मन्दरस्तेन तत्रैवान्तरधीयत ॥ १२॥
ततोऽन्धकोऽतिरुषितो वरदानेन दर्पितः ।
मुमोच नादं सुमहदिदं वचनमब्रवीत् ॥ १३॥
मया वै त्वं याच्यमानो यस्मान्न बहु मन्यसे ।
अहं चूर्णीकरोमि त्वां बलं पर्वत पश्य मे ॥ १४॥
एवमुक्त्वा गिरेः शृङ्गमुत्पाट्य बहुयोजनम् ।
निष्पिपेष गिरेस्तस्य शृङ्गेष्वन्यत्र वीर्यवान् ॥ १५॥
सह तैरसुरैः सर्वैर्वरदानेन दर्पितः ।
तं प्रच्छन्ननदीजालं मन्यमानं महागिरिम् ॥ १६॥
विदित्वा भगवान् रुद्रश्चकारानुग्रहं गिरेः ।
सविशेषतरं वीर मत्तद्विपमृगायुतम् ॥ १७॥
नदीजालैर्बहुतरैराचितं चित्रकाननम् ।
नभश्च्युतैः पुरा यद्वत्तद्वदेव विराजते ॥ १८॥
अथ देवप्रभावेण शृङ्गाण्युत्पाटितानि तु ।
क्षिप्तानि चासुरानेव घ्नन्ति घोराणि भारत ॥ १९॥
क्षिप्त्वा ये प्रपलायन्ते शृङ्गाणि तु महासुराः ।
शृङ्गैस्तैस्तैः स्म वध्यन्ति पर्वतस्य जनाधिप ॥ २.८७.२०॥
ये स्वस्थास्त्वसुरास्तत्र तिष्ठन्ति गिरिसानुषु ।
शृङ्गैस्ते न स्म वध्यन्ते मन्दरस्य महागिरेः ॥ २१॥
ततोऽन्धकस्तदा दृष्ट्वा सेनां तां मर्दितां तथा ।
रुषितः सुमहानादं नर्दित्वैवं तदाब्रवीत् ॥ २२॥
आह्वये तं वनं यस्य युद्धार्थमुपतिष्ठतु ।
किं त्वयाचल युद्धेन हताः स्म च्छद्मना रणे ॥ २३॥
एवमुक्ते त्वन्धकेन वृषभेण महेश्वरः ।
सम्प्राप्तः शूलमुद्यम्य देवोऽन्धकजिघांसया ॥ २४॥
प्रमथानां गणैर्धीमान् वृतो वै बहुलोचनः ।
तथा भूतगणैश्चैव धीमान् भूतगणेश्वरः ॥ २५॥
प्रचकम्पे ततः कृत्स्नं त्रैलोक्यं रुषिते हरे ।
सिन्धवश्च प्रतिस्रोतमूहुः प्रज्वलितोदकाः ॥ २६॥
जग्मुर्दिशोऽग्निदाहाश्च सर्वे ते हरतेजसा ।
युयुधुश्च ग्रहाः सर्वे विपरीता जनाधिप ॥ २७॥
चेलुश्च गिरयस्तत्र काले कुरुकुलोद्वह ।
प्रववर्षाथ पर्जन्यः सधूमाङ्गारवृष्टयः ॥ २८॥
उष्णभाश्चन्द्रमाश्चासीत् सूर्यः शीतप्रभस्तथा ।
न ब्रह्म विविदुस्तत्र मुनयो ब्रह्मवादिनः ॥ २९॥
बडवाः सुषुवुर्गाश्च गावोऽश्वानपि चानघ ।
पेतुर्वृक्षाश्च मेदिन्यामच्छिन्ना भस्मसात्कृताः ॥ २.८७.३०॥
बाधन्ते वृषभा गाश्च गावश्चारुरुहुर्वृषान् ।
राक्षसा यातुधानाश्च पिशाचाश्चापि सर्वशः ॥ ३१॥
विपरीतं जगद् दृष्ट्वा महादेवस्तथागतम् ।
मुमोच भगवाञ्छूलं प्रदीप्ताग्निसमप्रभम् ॥ ३२॥
तत् पपात हरोत्सृष्टमन्धकोरसि दुर्द्धरम् ।
भस्मसाच्चाकरोद् रौद्रमन्धकं साधुकण्टकम् ॥ ३३॥
ततो देवगणाः सर्वे मुनयश्च तपोधनाः ।
शङ्करं तुष्टुवुश्चैव जगच्छत्रौ निबर्हिते ॥ ३४॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
त्रैलोक्यं निर्वृतं चासीन्नरेन्द्र विगतज्वरम् ॥ ३५॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
जेपुश्च ब्राह्मणा वेदानीजुश्च क्रतुभिस्तदा ॥ ३६॥
ग्रहाः प्रकृतिमापेदुरूहुर्नद्यो यथा पुरा ।
न जज्वाल जले वह्निराशाः सर्वाः प्रसेदिरे ॥ ३७॥
मन्दरः पर्वतश्रेष्ठः पुनरेव रराज ह ।
श्रिया परमया जुष्टः सर्वतेजःसमुच्छ्रयात् ॥ ३८॥
रेमे सोमश्च भगवान् पारिजातवने हरः ।
सुप्रचारान्सुरान्कृत्वा शक्रादीन् धर्मतः प्रभुः ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवधे सप्ताशीतितमोऽध्यायः ॥ ८७॥
२.८८ अष्टाशीतितमोऽध्यायः
जलक्रीडावर्णनम् Watersport described
पिण्डारकतीर्थान्तर्गते समुद्रे श्रीकृष्णस्य अन्यैः यादवैः सह जलविहारं
जनमेजय उवाच ।
मुनेऽन्धकवधः श्राव्यः श्रुतोऽयं खलु भो मया ।
शक्तिस्त्रयाणां लोकानां कृता देवेन धीमता ॥ १॥
निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना ।
यदर्थं च यथा चैव तद् भवान् वक्तुमर्हति ॥ २॥
वैशम्पायन उवाच ।
श्रद्दधानस्य राजेन्द्र वक्तव्यं भवतोऽनघ ।
चरितं लोकनाथस्य हरेरमिततेजसः ॥ ३॥
द्वारवत्यां निवसतो विष्णोरतुलतेजसः ।
समुद्रयात्रा सम्प्राप्ता तीर्थे पिण्डारके नृप ॥ ४॥
उग्रसेनो नरपतिर्वसुदेवश्च भारत ।
निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः ॥ ५॥
पृथग्बलः पृथग्धीमाँल्लोकनाथो जनार्दनः ।
गोष्ठ्यः पृथक्कुमाराणां नृदेवामिततेजसाम् ॥ ६॥
गणिकानां सहस्राणि निःसृतानि नराधिप ।
कुमारैः सह वार्ष्णेयै रूपवद्भिः स्वलङ्कृतैः ॥ ७॥
दैत्याधिवासं निर्जित्य यदुभिर्दृढविक्रमैः ।
वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः ॥ ८॥
सामान्यास्ताः कुमाराणां क्रीडानार्यो महात्मनाम् ।
इच्छाभोग्या गुणैरेव राजन्या वेषयोषितः ॥ ९॥
स्थितिरेषा हि भैमानां कृता कृष्णेन धीमता ।
स्त्रीनिमित्तं भवेद् वैरं मा यदूनामिति प्रभो ॥ २.८८.१०॥
रेवत्या चैकया सार्धं बलो रेमेऽनुकूलया ।
चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान् ॥ ११॥
कादम्बरीपानकलो भूषितो वनमालया ।
चिक्रीड सागरजले रेवत्या सहितो बलः ॥ १२॥
षोडश स्त्रीसहस्राणि जले जलजलोचनः ।
रमयामास गोविन्दो विश्वरूपेण सर्वदृक् ॥ १३॥
अहमिष्टा मया सार्द्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा रात्रौ नारायणस्त्रियः ॥ १४॥
सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः ।
मानमूहुश्च ताः सर्वा गोविन्दे बहुमानजम् ॥ १५॥
अहमिष्टाहमिष्टेति स्निग्धे परिजने तदा ।
नारायणस्त्रियः सर्वा मुदा शश्लाघिरे शुभाः ॥ १६॥
करजद्विजचिह्नानि कुचाधरगतानि ताः ।
दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणे कमलेक्षणाः ॥ १७॥
गोत्रमुद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः ।
पिबन्त्य इव कृष्णस्य नयनैर्वदनाम्बुजम् ॥ १८॥
कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः ।
मनोहरतरा राजन्नभवन्नेकनिश्चयाः ॥ १९॥
एकार्पितमनोदृष्ट्यो नेर्ष्यां ताश्चक्रिरेऽङ्गनाः ।
नारायणेन देवेन तर्प्यमाणमनोरथाः ॥ २.८८.२०॥
शिरांसि गर्वितान्यूहुः सर्वा निरवशेषतः ।
वाल्लभ्यं केशवमयं वहन्त्यश्चारुदर्शनाः ॥ २१॥
ताभिस्तु सह चिक्रीड सर्वाभिर्हरिरात्मवान् ।
विश्वरूपेण विधिना समुद्रे विमले जले ॥ २२॥
उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः ।
तोयं विलक्षणं मृष्टं वासुदेवस्य शासनात् ॥ २३॥
गुल्फदघ्नं जानुदघ्नमूरुदघ्नमथापि वा ।
नार्यस्ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम् ॥ २४॥
सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् ।
सिषेच ताश्च गोविन्दो मेघः फुल्ललता इव ॥ २५॥
अवलम्ब्य पराः कण्ठे हरि हरिणलोचनाः ।
उपगूहस्व मां वीर पतामीत्यब्रुवन् स्त्रियः ॥ २६॥
काश्चित् काष्ठमयैस्तेरुः प्लवैः सर्वाङ्गशोभनाः ।
क्रौञ्चबर्हिणनागानामाकारसदृशैः स्त्रियः ॥ २७॥
मकराकृतिभिश्चान्या मीनाभैरपि चापराः ।
बहुरूपाकृतिधरैः पुप्लुवुश्चापराः स्त्रियः ॥ २८॥
स्तनकुम्भैस्तथा तेरुः कुम्भैरिव तथापराः ।
समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम् ॥ २९॥
रराम सह रुक्मिण्या जले तस्मिन् मुदा युतः ।
येनैव कार्ययोगेन रमतेऽमरसत्तमः ॥ २.८८.३०॥
तत् तदेव हि ताश्चकुर्मुदा नारायणस्त्रियः ।
तनुवस्त्रावृतास्तन्व्यो लीलयन्त्यस्तथापराः ।
चिक्रीडुर्वासुदेवस्य जले जलजलोचनाः ॥ ३१॥
यस्या यस्यास्तु यो भावस्तां तां तेनैव केशवः ।
अनुप्रविश्य भावज्ञो निनायात्मवशं वशी ॥ ३२॥
हृषीकेशोऽपि भगवान् हृषीकेशः सनातनः ।
बभूव देशकालेन कान्तावशगतः प्रभुः ॥ ३३॥
कुलशीलसमोऽस्माकं योग्योऽयमिति मेनिरे ।
वंशरूपेण वर्तन्तमङ्गनास्ता जनार्दनम् ॥ ३४॥
तदा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् ।
कृष्णं भार्याश्चकमिरे भक्त्या च बहु मेनिरे ॥ ३५॥
पृथग्गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह ।
अलञ्चक्रुर्जलं वीराः सागरस्य गुणाकराः ॥ ३६॥
गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर ।
तेजसाप्याहृतानां ते दाक्षिण्यात् तस्थिरे वशे ॥ ३७॥
शृण्वन्तश्चारुगीतानि तथा स्वभिनयान्यपि ।
तूर्याण्युत्तमनारीणां मुमुहुर्यदुपुङ्गवाः ॥ ३८॥
पञ्चचूडां ततः कृष्णः कौबेर्यश्च वराप्सराः ।
माहेन्द्रीश्चानयामास विश्वरूपेण हेतुना ॥ ३९॥
ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत्प्रभुः ।
उत्थापयित्वा प्रणताः कृताञ्जलिपुटास्तथा ॥ २.८८.४०॥
क्रीडायुवत्यो भैमानां प्रविशध्वमशङ्किताः ।
मत्प्रियार्थं वरारोहा रमयध्वं च यादवान् ॥ ४१॥
दर्शयध्वं गुणान् सर्वान् नृत्यगीतै रहःसु च ।
तथाभिनययोगेषु वाद्येषु विविधेषु च ॥ ४२॥
एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् ।
मच्छरीरसमा ह्येते सर्वे निरवशेषतः ॥ ४३॥
शिरसाज्ञां तु ताः सर्वाः प्रतिगृह्य हरेस्तदा ।
क्रीडायुवत्यो विविशुर्भैमानामप्सरोवराः ॥ ४४॥
ताभिः प्रविष्टमात्राभिर्द्योतितः स महार्णवः ।
सौदामिनीभिर्नभसि घनवृन्दमिवानघ ॥ ४५॥
ता जले स्थलवत्स्थित्वा जगुश्चाप्यथ वादयन् ।
चक्रुश्चाभिनयं सम्यक्स्वर्गावास इवाङ्गनाः ॥ ४६॥
गन्धैर्माल्यैश्च ता दिव्यैर्वस्त्रैश्चायतलोचनाः ।
हेलाभिर्हास्यभावैश्च जह्रुर्भैममनांसि ताः ॥ ४७॥
कटाक्षैरिङ्गितैर्हास्यैः केलिरोषैः प्रसादितैः ।
मनोऽनुकूलैर्भैमानां समाजह्रुर्मनांसि ताः ॥ ४८॥
उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान् बहूंश्च तान् ।
मदिरावशगा भैमा मानयन्ति वराप्सराः ॥ ४९॥
कृष्णोऽपि तेषां प्रीत्यर्थं विजह्रे वियतिं प्रभुः ।
सर्वैः षोडशभिः सार्द्धं स्त्रीसहस्रैर्मुदान्वितः ॥ २.८८.५०॥
प्रभावज्ञास्तु ते वीराः कृष्णस्यामिततेजसः ।
न जग्मुर्विस्मयं भैमा गाम्भीर्यं परमास्थिताः ॥ ५१॥
केचिद् रैवतकं गत्वा पुनरायान्ति भारत ।
गृहान्यन्ये वनान्यन्ये काङ्क्षितान्यरिमर्दन ॥ ५२॥
अपेयः पेयसलिलः सागरश्चाभवत् तदा ।
आज्ञया लोकनाथस्य विष्णोरतुलतेजसः ॥ ५३॥
अधावन् स्थलवच्चापि जले जलजलोचनाः ।
गृह्य हस्ते तथा नार्यो युक्तामज्जंस्तथापि च ॥ ५४॥
भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।
बहुप्रकारं मनसा ध्याते तेषां भवत्युत ॥ ५५॥
अम्लानमाल्यधारिण्यस्ताः स्त्रियस्ताननिन्दितान् ।
रहःसु रमयाञ्चक्रुः स्वर्गे देवरतानुगाः ॥ ५६॥
नौभिर्गृहप्रकाराभिश्चिक्रीडुरपराजिताः ।
स्नातानुलिप्तमुदिताः सायाह्नेऽन्धकवृष्णयः ॥ ५७॥
आयताश्चतुरस्राश्च वृत्ताश्च स्वस्तिकास्तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥ ५८॥
कैलासमन्दरच्छन्दा मेरुच्छन्दास्तथैव च ।
तथा नानावयश्छन्दास्तथेहामृगरूपिणः ॥ ५९॥
वैडूर्यतोरणैश्चित्राश्चित्राभिर्मणिभक्तिभिः ।
मसारगल्वर्कमयैश्चित्रभक्तिशतैरपि ॥ २.८८.६०॥
आक्रीडगरुडच्छन्दाश्चित्राः कनकरीतिभिः ।
क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास्तथापरे ॥ ६१॥
कर्णधारैर्गृहीतास्ता नावः कार्तस्वरोज्ज्वलाः ।
सलिलं शोभयामासुः सागरस्य महोर्मिमत् ॥ ६२॥
समुच्छ्रितः सितैः पोतैर्यानपात्रैस्तथैव च ।
नौभिश्च झिल्लिकाभिश्च शुशुभे वरुणालयः ॥ ६३॥
पुराण्याकाशगानीव गन्धर्वाणामितस्ततः ।
वभ्रमुः सागरजले भैमयानानि सर्वतः ॥ ६४॥
नन्दनच्छन्दयुक्तेषु यानपात्रेषु भारत ।
नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा ॥ ६५॥
उद्यानानि सभावृक्षा दीर्घिकाः स्यन्दनानि च ।
निवेशितानि शिल्पानि तादृशान्येव सर्वथा ॥ ६६॥
स्वर्गच्छन्देषु चान्येषु समासात्स्वर्गसन्निभाः ।
नारायणाज्ञया वीर विहिता विश्वकर्मणा ॥ ६७॥
वनेषु रुरुवुर्हृद्यं मधुरं चैव पक्षिणः ।
मनोहरतरं चैव भैमानामतितेजसाम् ॥ ६८॥
देवलोकोद्भवाः श्वेता विलेपुः कोकिलास्तदा ।
मधुराणि विचित्राणि यदूनां काङ्क्षितानि च ॥ ६९॥
चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः ।
ननृतुर्मधुरारावाः शिखण्डिगणसंवृताः ॥ २.८८.७०॥
पताका यानपात्राणां सर्वाः पक्षिगणायुताः ।
भ्रमरैरुपगीताश्च स्रग्दामासक्तवासिभिः ॥ ७१॥
नारायणाज्ञया वृक्षाः पुष्पाणि मुमुचुर्भृशम् ।
ऋतवश्चारुरूपाणि विहायसि गतास्तथा ॥ ७२॥
ववौ मनोहरो वातो रतिखेदहरः सुखः ।
रजोभिः सर्वपुष्पाणां पृक्तश्चन्दनशैत्यभृत् ॥ ७३॥
शीतोष्णमिच्छतां तत्र बभूव वसुधापते ।
वासुदेवप्रसादेन भैमानां क्रीडतां तदा ॥ ७४॥
न क्षुत्पिपासा न ग्लानिर्न चिन्ता शोक एव च ।
आविवेश तदा भैमान् प्रभावाच्चक्रपाणिनः ॥ ७५॥
अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः ।
बभूवुः सागरक्रीडा भैमानामतितेजसाम् ॥ ७६॥
बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् ।
रुद्धा चिक्रीडुरिन्द्राभा भैमाः कृष्णाभिरक्षिताः ॥ ७७॥
परिच्छदस्यानुरूपं यानपात्रं महात्मनः ।
नारायणस्य देवस्य विहितं विश्वकर्मणा ॥ ७८॥
रत्नानि यानि त्रैलोक्ये विशिष्टानि विशाम्पते ।
कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजसः ॥ ७९॥
पृथक्पृथङ्निवासाश्च स्त्रीणां कृष्णस्य भारत ।
मणिवैडूर्यचित्रास्ताः कार्तस्वरविभूषिताः ॥ २.८८.८०॥
सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः ।
यदुसिंहैः शुभैर्जुष्टाः शकुनैः स्वर्गवासिभिः ॥ ८१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे अष्टाशीतितमोऽध्यायः ॥ ८८॥
२.८९ एकोननवतितमोऽध्यायः
छालिक्यक्रीडा ChAlikya sport
बलरामश्रीकृष्णादीनां यादवानां जलक्रीडा एवं गानादिनां वर्णनं
वैशम्पायन उवाच ।
रेमे बलश्चन्दनपङ्कदिग्धः कादम्बरीपानकलः पृथुश्रीः ।
रक्तेक्षणो रेवतिमाश्रयित्वा प्रलम्बबाहुर्ललितप्रयातः ॥ १॥
नीलाम्बुदाभे वसने वसानश्चन्द्रांशुगौरो मदिराविलाक्षः ।
रराज रामोऽम्बुदमध्यमेत्य सम्पूर्णबिम्बो भगवानिवेन्दुः ॥ २॥
वामैककर्णामलकुण्डलश्रीः स्मेरं मनोज्ञाब्जकृतावतंसः ।
तिर्यक्कटाक्षं प्रियया मुमोद रामः सुखं चार्वभिवीक्ष्यमाणः ॥ ३॥
अथाज्ञया कंसनिकुम्भशत्रोरुदाररूपोऽप्सरसां गणः सः ।
द्रष्टुं मुदा रेवतिमाजगाम वेलालयं स्वर्गसमानमृद्ध्या ॥ ४॥
तां रेवतीं चाप्यथ वापि रामं सर्वा नमस्कृत्य वराङ्गयष्ट्यः ।
वाद्यानुरूपं ननृतुः सुगात्र्यः समन्ततोऽन्या जगिरे च सम्यक् ॥ ५॥
चकुस्तथैवाभिनयेन रङ्गं यथावदेषां प्रियमर्थयुक्तम् ।
हद्यानुकूलं च बलस्य तस्य तथाज्ञया रेवतराजपुत्र्याः ॥ ६॥
चक्रुर्हसन्त्यश्च तथैव रासं तद्देशभाषाकृतिवेषयुक्ताः ।
सहस्ततालं ललितं सलीलं वराङ्गना मङ्गलसम्भृताङ्ग्यः ॥ ७॥
सङ्कर्षणाधोक्षजनन्दनानि सङ्कीर्तयन्त्योऽथ च मङ्गलानि ।
कंसप्रलम्बादिवधं च रम्यं चाणूरघातं च तथैव रङ्गे ॥ ८॥
यशोदया च प्रथितं यशोऽथ दामोदरत्वं च जनार्दनस्य ।
वधं तथारिष्टकधेनुकाभ्यां व्रजे च वासं शकुनीवधं च ॥ ९॥
तथा च भग्नौ यमलार्जुनौ तौ सृष्टिं वृकाणामपि वत्सयुक्ताम् ।
स कालियो नागपतिर्ह्रदे च कृष्णेन दान्तश्च यथा दुरात्मा ॥ २.८९.१०॥
शङ्खहृदादुद्धरणं च वीर पद्मोत्पलानां मधुसूदनेन ।
गोवर्द्धनोऽर्थे च गवां धृतोऽभूद् यथा च कृष्णेन जनार्दनेन ॥ ११॥
कुब्जां यथा गन्धकपीषिकां च कुब्जत्वहीनां कृतवांश्च कृष्णः ।
अवामनं वामनकं च चक्रे कृष्णो यथाऽऽत्मानमजोऽप्यनिन्द्यः ॥ १२॥
सौभप्रमाथं च हलायुधत्वं वधं मुरस्याप्यथ देवशत्रोः ।
गान्धारकन्यावहने नृपाणां रथे तथा योजनमूर्जितानाम् ॥ १३॥
ततः सुभद्राहरणे जयं च युद्धे च बालाहकजम्बुमाले ।
रत्नप्रवेकं च युधाजितैर्यत् समाहृतं शक्रसमक्षमासीत् ॥ १४॥
एतानि चान्यानि च चारुरूपा जगुः स्त्रियः प्रीतिकराणि राजन् ।
सङ्कर्षणाधोक्षजहर्षणानि चित्राणि चानेककथाश्रयाणि ॥ १५॥
कादम्बरीपानमदोत्कटस्तु बलः पृथुश्रीः स चुकूर्द रामः ।
सहस्ततालं मधुरं समं च स भार्यया रेवतराजपुत्र्या ॥ १६॥
तं कूर्दमानं मधुसूदनश्च दृष्ट्वा महात्मा च मुदान्वितोऽभूत् ।
चुकूर्द सत्यासहितो महात्मा हर्षागमार्थं च बलस्य धीमान् ॥ १७॥
समुद्रयात्रार्थमथागतश्च चुकूर्द पार्थो नरलोकवीरा ।
कृष्णेन सार्द्धं मुदितश्चुकूर्द सुभद्रया चैव वराङ्गयष्ट्या ॥ १८॥
गदश्च धीमानथ सारणश्च प्रद्युम्नसाम्बौ नृप सात्यकिश्च ।
सात्राजितीसूनुरुदारवीर्यः सुचारुदेष्णश्च सुचारुरूपः ॥ १९॥
वीरौ कुमारौ निशठोल्मुकौ च रामात्मजौ वीरतमौ चुकूर्दतुः ।
अक्रूरसेनापतिशङ्कवश्च तथापरे भैमकुलप्रधानाः ॥ २.८९.२०॥
तद् यानपात्रं ववृधे तदानीं कृष्णप्रभावेण जनेन्द्रपुत्र ।
आपूर्णमापूर्णमुदारकीर्ते चुकूर्दयद्भिर्नप भैममुख्यैः ॥ २१॥।
तै राससक्तैरतिकूर्दमानैर्यदुप्रवीरैरमरप्रकाशैः ।
हर्षान्वितं वीर जगत् तथाभूच्छेमुश्च पापानि जनेन्द्रसूनो ॥ २२॥
देवातिथिस्तत्र च नारदोऽथ विप्रः प्रियार्थं मुरकेशिशत्रोः ।
चुकूर्द मध्ये यदुसत्तमानां जटाकलापागलितैकदेशः ॥ २३॥
रासप्रणेता मुनि राजपुत्र स एव तत्राभवदप्रमेयः ।
मध्ये च गत्वा च चुकूर्द भूयो हेलाविकारैः सविडम्बिताङ्गैः ॥ २४॥
स सत्यभामामथ केशवं च पार्थं सुभद्रां च बलं च देवम् ।
देवीं तथा रेवतराजपुत्रीं सन्दृश्य सन्दृश्य जहास धीमान् ॥ २५॥
ता हासयामास सुधैर्ययुक्तास्तैस्तैरुपायैः परिहासशीलः ।
चेष्टानुकारैर्हसितानुकारैर्लीलानुकारैरपरैश्च धीमान् ॥ २६॥
आभाषितं किञ्चिदिवोपलक्ष्य नादातिनादान् भगवान् मुमोच ।
हसन् विहासांश्च जहास हर्षाद्धास्यागमे कृष्णविनोदनार्थम् ॥ २७॥
कृष्णाज्ञया सातिशयानि तत्र यथानुरूपाणि ददुर्युवत्यः ।
रत्नानि वस्त्राणि च रूपवन्ति जगत्प्रधानानि नृदेवसूनो ॥ २८॥
माल्यानि च स्वर्गसमुद्भवानि सन्तानदामान्यतिमुक्तकानि ।
सर्वर्तुकान्यप्यनयंस्तदानीं ददुर्ह रेरिङ्गितकालतज्ज्ञाः ॥ २९॥
रासावसाने त्वथ गृह्य हस्ते महामुनिं नारदमप्रमेयः ।
पपात कृष्णो भगवान् समुद्रे सात्राजितीं चार्जुनमेव चाथ ॥ २.८९.३०॥
उवाच चामेयपराक्रमोऽथ शैनेयमीषत्प्रहसन् पृथुश्रीः ।
द्विधा कृतास्मिन् पतताशु भूत्वा क्रीडाजलेनोऽस्तु सहाङ्गनाभिः ॥ ३१॥
सरेवतीकोऽस्तु बलोऽर्द्धनेता पुत्रा मदीयाश्च सहार्द्धभैमाः ।
भैमार्द्धमेवाथ बलात्मजाश्च मत्पक्षिणः सन्तु समुद्रतोये ॥ ३२॥
आज्ञापयामास ततः समुद्रं कृष्णः स्मितं प्राञ्जलिनं प्रतीतः ।
सुगन्धतोयो भव मृष्टतोयस्तथा भव ग्राहविवर्जितश्च ॥ ३३॥
दृश्या च ते रत्नविभूषिता तु सा वेलिका भूरथ पत्सुखा च ।
मनोऽनुकूलं च जनस्य तत्तत् प्रयच्छ विज्ञास्यसि मत्प्रभावात् ॥ ३४॥
भवस्यपेयोऽप्यथ चेष्टपेयो जनस्य सर्वस्य मनोऽनुकूलः ।
वैडूर्यमुक्तामणिहेमचित्रा भवन्तु मत्स्यास्त्वयि सौम्यरूपाः ॥ ३५॥
बिभृस्व च त्वं कमलोत्पलानि सुगन्धसुस्पर्शरसक्षमाणि ।
षट्पादजुष्टानि मनोहराणि कीलालवर्णैश्च समन्वितानि ॥ ३६॥
मैरेयमाध्वीकसुरासवानां कुम्भांश्च पूर्णान् स्थपयस्व तोये ।
जाम्बूनदं पाननिमित्तमेषां पात्रं पपुर्येषु ददस्व भैमाः ॥ ३७॥
पुष्पोच्चयैर्वासितशीततोयो भवाप्रमत्तः खलु तोयराशे ।
यथा व्यलीकं न भवेद् यदूनां सस्त्रीजनानां कुरु तत्प्रयत्नम् ॥ ३८॥
इतीदमुक्त्वा भगवान् समुद्रं ततः प्रचिक्रीड सहार्जुनेन ।
सिषेच पूर्वं नृप नारदं तु सात्राजिती कृष्णमुखेङ्गितज्ञा ॥ ३९॥
ततो मदावर्जितचारुदेहः पपात रामः सलिले सलीलम् ।
साकारमालम्ब्य करं करेण मनोहरां रेवतराजपुत्रीम् ॥ २.८९.४०॥
कृष्णात्मजा ये त्वथ भैममुख्या रामस्य पश्चात् पतिताः समुद्रे ।
विरागवस्त्राभरणाः प्रहृष्टाः क्रीडाभिरामा मदिराविलाक्षाः ॥ ४१॥
शेषास्तु भैमा हरिमभ्युपेताः क्रीडाभिरामा निशठोल्मुकाद्याः ।
विचित्रवस्त्राभरणाश्च मत्ताः सन्तानमाल्यावृतकण्ठदेशाः ॥ ४२॥
वीर्योपपन्नाः कृतचारुचिह्ना विलिप्तगात्रा स्नलपात्रहस्ताः ।
गीतानि तद्वेषमनोहराणि स्वरोपपन्नान्यथ गायमानाः ॥ ४३॥
ततः प्रचक्रुर्जलवादितानि नानास्वराणि प्रियवाद्यघोषाः ।
सहाप्सरोभिस्त्रिदिवालयाभिः कृष्णाज्ञया वेशवधूशतानि ॥ ४४॥
आकाशगङ्गाजलवादनज्ञाः सदा युवत्यो मदनैकचित्ताः ।
अवादयंस्ता जलदर्दुरांश्च वाद्यानुरूपं जगिरे च हृष्टाः ॥ ४५॥
कुशेशयाकोशविशालनेत्राः कुशेशयापीडविभूषिताश्च ।
कुशेशयानां रविबोधितानां जह्रुः श्रियं ताः सुरचारुमुख्यः ॥ ४६॥
स्त्रीवक्त्रचन्द्रैः सकलेन्दुकल्पै रराज राजञ्छतशः समुद्रः ।
यदृच्छया दैवविधानतो वा नभो यथा चन्द्रसहस्रकीर्णम् ॥ ४७॥
समुद्रमेघः स रराज राजञ्च्छतह्रदास्त्रीप्रभयाभिरामः ।
सौदामिनीभिन्न इवाम्बुनाथो देदीप्यमानो नभसीव मेघः ॥ ४८॥
नारायणश्चैव सनारदश्च सिषेच पक्षे कृतचारुचिह्नः ।
बलं सपक्षं कृतचारुचिह्नं स चैव पक्षं मधुसूदनस्य ॥ ४९॥
हस्तप्रमुक्तैर्जलयन्त्रकैश्च प्रहृष्टरूपाः सिषिचुस्तदानीम् ।
रागोद्धता वारुणिपानमत्ताः सङ्कर्षणाधोक्षजदेवपत्न्यः ॥ २.८९.५०॥
आरक्तनेत्रा जलमुक्तिसक्ताः स्त्रीणां समक्षं पुरुषायमाणाः ।
ते नोपरेमुः सुचिरं च भैमा मानं वहन्तो मदनं मदं च ॥ ५१॥
अतिप्रसङ्गं तु विचिन्त्य कृष्णस्तान् वारयामास रथाङ्गपाणिः ।
स्वयं निवृत्तो जलवाद्यशब्दैः सनारदः पार्थसहायवांश्च ॥ ५२॥
कृष्णेङ्गितज्ञा जलयुद्धसङ्गाद् भैमा निवृत्ता दृढमानिनोऽपि ।
नित्यं तथाऽऽनन्दकराः प्रियाणां प्रियाश्च तेषां ननृतुः प्रतीताः ॥ ५३॥
नृत्यावसाने भगवानुपेन्द्रस्तत्याज धीमानथ तोयसङ्गान् ।
उत्तीर्य तोयादनुकूललेपं जग्राह दत्त्वा मुनिसत्तमाय ॥ ५४॥
उपेन्द्रमुत्तीर्णमथाशु दृष्ट्वा भैमा हि ते तत्यजुरेव तोयम् ।
विविक्तगात्रास्त्वथ पानभूमिं कृष्णाज्ञया ते ययुरप्रमेयाः ॥ ५५॥
यथानुपूर्व्या च यथावयश्च यत्सन्नियोगाश्च तदोपविष्टाः ।
अन्नानि वीरा बुभुजुः प्रतीताः पपुश्च पेयानि यथानुकूलम् ॥ ५६॥
मांसानि पक्वानि फलाम्लकानि चुक्रोत्तरेणाथ च दाडिमेन ।
निष्टप्तशूलाञ्छकलान् पशूंश्च तत्रोपजह्रुः शुचयोऽथ सूदाः ॥ ५७॥
सुस्विन्नशूल्यान्महिषांश्च बालाञ्छूल्यान्सुनिष्टप्तघृतावसिक्तान् ।
वृक्षाम्लसौवर्चलचुक्रपूर्णान् पौरोगवोक्त्या उपजह्रुरेषाम् ॥ ५८॥
पौरोगवोक्त्या विधिना मृगाणां मांसानि सिद्धानि च पीवराणि ।
नानाप्रकाराण्युपजह्रुरेषां मृष्टानि पक्वानि च चुक्रचूतैः ॥ ५९॥
पार्श्वानि चान्ये शकलानि तत्र ददुः पशूनां घृतमृक्षितानि ।
सामुद्रचूर्णैरवचूर्णितानि चूर्णेन मृष्टेन समारिचेन ॥ २.८९.६०॥
समूलकैर्दाडिममातुलिङ्गैः पर्णासहिङ्ग्वार्द्रकभूस्तृणैश्च ।
तदोपदंशैः सुमुखोत्तरैस्ते पानानि हृष्टाः पपुरप्रमेयाः ॥ ६१॥
कट्वाङ्कशूलैरपि पक्षिभिश्च घृताम्लसौवर्चलतैलसिक्तैः ।
मैरेयमाध्वीकसुरासवांस्ते पपुः प्रियाभिः परिवार्यमाणाः ॥ ६२॥
श्वेतेन युक्तानपि शोणितेन भक्ष्यान्सुगन्धांल्लवणान्वितांश्च ।
आर्द्रान्किलादान् घृतपूर्णकांश्च नानाप्रकारानपि खण्डखाद्यान् ॥ ६३॥
अपानपाश्चोद्धवभोजमिश्राः शाकैश्च सूपैश्च बहुप्रकारैः ।
पेयैश्च दघ्ना पयसा च वीराः स्वन्नानि राजन् बुभुजुः प्रहृष्टाः ॥ ६४॥
तथारनालांश्च बहुप्रकारान् पपुः सुगन्धानपि पालवीषु ।
शृतं पयः शर्करया च युक्तं फलप्रकारांश्च बहूंश्च खादन् ॥ ६५॥
तृप्ताः प्रवृत्ताः पुनरेव वीरास्ते भैममुख्या वनितासहायाः ।
गीतानि रम्याणि जगुः प्रहृष्टाः कान्ताभिनीतानि मनोहराणि ॥ ६६॥
आज्ञापयामास ततः स तस्यां निशि प्रहृष्टो भगवानुपेन्द्रः ।
छालिक्यगेयं बहुसन्निधानं यदेव गान्धर्वमुदाहरन्ति ॥ ६७॥
जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियुक्ताम् ।
हृल्लीसकं तु स्वयमेव कृष्णः सवंशघोषं नरदेव पार्थः ॥ ६८॥
मृदङ्गवाद्यानपरांश्च वाद्यान् वराप्सरस्ता जगृहुः प्रतीताः ।
आसारितान्तं च ततः प्रतीता रम्भोत्थिता साभिनयार्थतज्ज्ञा ॥ ६९॥
तयाभिनीते वरगात्रयष्ट्या तुतोष रामश्च जनार्दनश्च ।
अथोर्वशी चारुविशालनेत्रा हेमा च राजन्नथ मिश्रकेशी ॥ २.८९.७०॥
तिलोत्तमा चाप्यथ मेनका च एतास्तथान्याश्च हरिप्रियार्थम् ।
जगुस्तथैवाभिनयं च चक्रु रिष्टैश्च कामैर्मनसोऽनुकूलैः ॥ ७१॥
ता वासुदेवेऽप्यनुरक्तचित्ताः स्वगीतनृत्याभिनयैरुदारैः ।
नरेन्द्रसूनो परितोषितेन ताम्बूलयोगाश्च वराप्सरोभिः ॥ ७२॥
तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव ।
फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथाहृतं च ॥ ७३॥
कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भुवि मानुषाणाम् ।
स्थितं च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः ॥ ७४॥
छालिक्यगान्धर्वमुदारबुद्धिस्तेनैव ताम्बूलमथ प्रयुक्तम् ।
प्रयोजितं पञ्चभिरिन्द्रतुल्यैश्छालिक्यमिष्टं सततं नराणाम् ॥ ७५॥
शुभावहं वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम ।
पुण्यं च पुष्ट्यभ्युदयावहं च नारायणस्येष्टमुदारकीर्तेः ॥ ७६॥
जयावहं धर्मभरावहं च दुःस्वप्ननाशं परिकीर्त्यमानम् ।
करोति पापं च तथा विहन्ति शृण्वन् सुरावासगतो नरेन्द्रः ॥ ७७॥
छालिक्यगान्धर्वमुदारकीर्तिर्मेने किलैकं दिवसं सहस्रम् ।
चतुर्युगानां नृप रेवतोऽथ ततः प्रवृत्ता च कुमारजातिः ७८॥
गान्धर्वजातिश्च तथापरापि दीपाद् यथा दीपशतानि राजन् ।
विवेद कृष्णश्च स नारदश्च प्रद्युम्नमुख्यैर्नृप भैममुख्यैः ॥ ७९॥
विज्ञानमेतद्धि परे यथावदुद्देशमात्राच्च जनास्तु लोके ।
जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथवा समुद्रः ॥ २.८९.८०॥
ज्ञातुं समर्थो हि महागिरिर्वा फलाग्रतो वा गुणतोऽथ वापि ।
शक्यं न छालिक्यमृते तपोभिः स्थाने विधानान्यथ मूर्च्छनासु ॥ ८१॥
षड्ग्रामरागेपु च तत्तु कार्यं तस्यैकदेशावयवेन राजन् ।
लेशाभिधानां सुकुमारजातिं निष्ठां सुदुःखेन नराः प्रयान्ति ॥ ८२॥
छालिक्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसङ्घाः ।
निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन ॥ ८३॥
भैमोत्तमानां नरदेव दत्तं लोकस्य चानुग्रहकाम्ययैव ।
गतं प्रतिष्ठाममरोपगेयं बाला युवानश्च तथैव वृद्धाः ॥ ८४॥।
क्रीडन्ति भैमाः प्रसवोत्सवेषु पूर्वं तु बालाः समुदावहन्ति ।
वृद्धाश्च पश्चात्प्रतिमानयन्ति स्थानेषु नित्यं प्रतिमानयन्ति ॥ ८५॥
मर्त्येषु मर्त्यान् यदवोऽतिवीराः स्ववंशधर्मे समनुस्मरन्तः ।
पुरातनं धर्मविधानतज्ज्ञाः प्रीतिः प्रमाणं न वयः प्रमाणम् ॥ ८६॥
प्रीतिप्रमाणानि हि सौहृदानि प्रीतिं पुरस्कृत्य हि ते दशार्हाः ।
वृष्ण्यन्धकाः पुत्रसखा बभूवुर्विसर्जिताः केशिविनाशनेन ॥ ८७॥
स्वर्गे गताश्चाप्सरसां समूहाः कृत्वा प्रणामं मधुकंसशत्रोः ।
प्रहृष्टरूपस्य सुहृष्टरूपा बभूव हृष्टः सुरलोकसङ्घः ॥ ८८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे छालिक्यक्रीडावर्णने एकोननवतितमोऽध्यायः ॥ ८९॥
२.९० नवतितमोऽध्यायः
भानुमतीहरणम् निकुम्भवधश्च Abduction of bhAnumatI and end of nikumbha
निकुम्भेन भानुमत्याः अपहरणं, श्रीकृष्णार्जुन एवं प्रद्युम्नेन सह तस्य युद्धं, गोकर्णतीर्थे तस्य पतनं, प्रद्युम्नस्य भानुमत्या सह द्वारकां गमनं, तेषां त्रयाणां निकुम्भेन सह युद्धं, तस्य अद्भुताया मायायाः वर्णनं , श्रीकृष्णेन निकुम्भस्य वधं वैशम्पायन उवाच ।
तेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् ।
छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः ॥ १॥
कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ।
जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥ २॥
अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् ।
मायावी मायया राजन् पूर्ववैरमनुस्मरन् ॥ ३॥
भ्रातुर्हिं वज्रनाभस्य तस्य कन्या प्रभावती ।
प्रद्युम्नेन हृता वीर वज्रनाभस्तथा हतः ॥ ४॥
भानोरेव तथारण्ये वसत्यवसरेण हि ।
अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः ॥ ५॥
कन्यापुरे महानादः सहसा समुपस्थितः ।
तस्यां ह्रियन्त्यां कन्यायां रुदन्त्यां समितिञ्जय ॥ ६॥
वसुदेबाहुकौ वीरौ दंशितौ निर्गतावुभौ ।
आर्तनादमुपश्रुत्य भानोः कन्यापुरे तदा ॥ ७॥
न दृष्टिगोचरे तौ तु ददृशातेऽपकारिणम् ।
तथैव दंशितौ यातौ यत्र कृष्णो महाबलः ॥ ८॥
श्रुतार्थः स्वं विमानं तदारुरोह जनार्दनः ।
पार्थेन सहितस्तार्क्ष्यं नागशत्रुमरिन्दमः ॥ ९॥
रथी त्वमनुगच्छेति सन्दिश्य मकरध्वजम् ।
त्वरेति गरुडं वीरः सन्दिदेश च काश्यपम् ॥ २.९०.१०॥
वज्रं नगरमायान्तं निकुम्भं रणदुर्जयम् ।
पार्थकृष्णौ महात्मानावासेदतुररिन्दमौ ॥ ११॥
प्रद्युम्नश्च महातेजा मायिनां प्रवरो नृप ।
निकुम्भश्चाथ तान् दृष्ट्वा त्रिधाऽऽत्मानमथाकरोत् ॥ १२॥
तान् सर्वान् योधयामास निकुम्भः प्रहसन्निव ।
बहुकण्टकगुर्वीभिर्गदाभिरमरोपमः ॥ १३॥
सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृप ।
दक्षिणेनाथ हस्तेन गदया प्राहरत् पुनः ॥ १४॥
कन्यार्थं न च कृष्णौ वा कामो वा नृपसत्तम ।
निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे ॥ १५॥
समर्थास्ते महात्मानः शत्रुं हन्तुं दुरासदाः ।
निशश्वसुर्नरपते दयाभारावपीडिताः ॥ १६॥
श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि ।
नागोष्ट्रविधिना दैत्यं शरपङ्क्त्या जघान ह ॥ १७॥
ते तु वैतस्तिकैर्बाणैर्विविधान् दानवान् युधि ।
न कन्यां कलया युक्त्या शिक्षया च महीपते ॥ १८॥
ततः स कन्यया सार्द्ध तत्रैवान्तरधीयत ।
आसुरीमाश्रितो मायां न च तां वेत्ति कश्चन ॥ १९॥
तं कृष्णौ रौक्मिणेयश्च पृष्ठतोऽनुययुस्तदा ।
हारितः शकुनो भूत्वा तस्थावथ महासुरः ॥ २.९०.२०॥
तं बाणैः पुनरेवाथ वीरो भूयो धनञ्जयः ।
वैतस्तिकैर्मर्मभिद्भिः कन्यां रक्षन्नताडयत् ॥ २१॥
स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः ।
बभ्रामानुगतश्चैव तैर्वीरैररिमर्दनः ॥ २२॥
गोकर्णस्योपरिष्टात्तु पर्वतस्य महासुरः ।
पपात वेलां गङ्गायाः पुलिने सह कन्यया ॥ २३॥
न देवा नासुराश्चापि लङ्घयन्ति तपोधनाः ।
गोकर्णं तेजसा गुप्तं महादेवस्य भारत ॥ २४॥
एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः ।
कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः ॥ २५॥
असुरः सोऽर्दितो राजन् कृष्णाभ्यां निशितैः शरैः ।
त्यक्त्वाथोत्तरगोकर्णं निकुम्भो दक्षिणां दिशम् ।
जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा ॥ २६॥
विवेश षट्पुरं चैव ज्ञातीनामालयं तदा ।
तत्र वीरौ गुहाद्वारि कृष्णौ रात्रै तदोषतुः ॥ २७॥
रौक्मिणेयोऽपि कृष्णेन सन्दिष्टो द्वारकां पुरीम् ।
अनयद् भानुतनया प्रहृष्टेनान्तरात्मना ॥ २८॥
नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् ।
ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ ॥ २९॥
ऊषतुर्द्वारमाक्रम्य षटपुरस्य महाबलौ ।
कृष्णौ प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षक्षिणौ ॥ २.९०.३०॥
ततोऽनन्तरमेतस्माद् बिलादतिबलस्तदा ।
निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः ॥ ३१॥
तस्य निर्गच्छतस्तस्माद् बिलात्पार्थो विशाम्पते ।
रुरोध सर्वतो मार्गं शरैर्गाण्डीवनिःसृतैः ॥ ३२॥
सोऽभिसृत्य गदां घोरामुद्यम्य बहुकण्टकाम् ।
शिरस्यताडयत् पार्थं निकुम्भो बलिनां वरः ॥ ३३॥
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ।
गदयाभिहते पार्थे रक्तं वमति मुह्यति ॥ ३४॥
हसित्वा सोऽसुरो दृप्तो रौक्मिणेयमताडयत् ।
तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् ।
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ॥ ३५॥
तयागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ ।
अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः ॥ ३६॥
कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् ।
तावन्योन्यं दुराधर्षौ गर्जन्तावभिपेततुः ॥ ३७॥
ऐरावतगतः शक्रः सर्वैर्देवगणैः सह ।
ददर्श तन्महायुद्धं घोरं देवासुरं तदा ॥ ३८॥
दृष्ट्वा देवान् हृषीकेशश्चित्रैर्युद्धैररिन्दमः ।
इयेष दानवं हन्तुं देवानां हितकाम्यया ॥ ३९॥
स मण्डलानि चित्राणि दर्शयामास केशवः ।
कौमोदकीं महाबाहुर्लालयन् युद्धकोविदः ॥ २.९०.४०॥
तथैवासुरमुख्योऽपि गदां तां बहुकण्टकाम् ।
शिक्षया भ्रामयाणोऽथ मण्डलानि चचार ह ॥ ४१॥
वृषभाविव गर्जन्तौ बृहन्ताविव कुञ्जरौ ।
इषितान्तरमासाद्य क्रुद्धौ शालावृकाविव ॥ ४२॥
आजघान निकुम्भस्तु गदया गदपूर्वजम् ।
स्पष्टाष्टघण्टया वीर नादं मुक्त्वातिदारुणम् ॥ ४३॥
तत्कालमेव कृष्णोऽपि भ्रामयित्वा महागदाम् ।
निकुम्भमूर्द्धनि तदा पातयामास भारत ॥ ४४॥
अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदाम् ।
तस्थौ जगद्गुरुर्धीमान् मुमोह पतितः क्षितौ ॥ ४५॥
हाहाभूतं जगत् सर्वं तत्कालमभवत् तदा ।
तथागते वासुदेवे नरदेव महात्मनि ॥ ४६॥
आकाशगङ्गातोयेन शीतेन च सुगन्धिना ।
सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम् ॥ ४७॥
नूनमात्मेच्छया कृष्णस्तथा चक्रे सुरोत्तमः ।
को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम् ॥ ४८॥
कृष्णः प्रत्यागतप्राणश्चक्रमुद्यम्य भारत ।
प्रतीच्छेति दुरात्मानमुवाच रिपुनाशनः ॥ ४९॥
निकुम्भोऽप्यतिमायावी उत्पपात दुरासदः ।
शरीरं तत् परित्यज्य न तु तं वेत्ति केशवः ॥ २.९०.५०॥
मुमूर्षति मृतो वायमिति मत्वा जनार्दनः ।
ररक्ष स्मरमाणोऽथ वीरो वीरव्रतं विभो ॥ ५१॥
अथ प्रद्युम्नकौन्तेयावागतौ लब्धचेतनौ ।
स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ ॥ ५२॥
प्रद्युम्नोऽप्यथ मायावी विदितः कृष्णमब्रवीत् ।
निकुम्भस्तात नास्त्यत्र गतः क्वापि सुदुर्मतिः ॥ ५३॥
प्रद्युम्नेनैवमुक्ते तु तन्ननाश कलेवरम् ।
प्रजहासाथ भगवानर्जुनेन सह प्रभुः ॥ ५४॥
तदायुतसहस्राणि निकुम्भानां जनाधिप ।
ददृशुस्ते ततो वीराः क्षितौ दिवि च सर्वतः ॥ ५५॥
सहस्राण्येव कृष्णं तु तथा पार्थमरिन्दम ।
रौक्मिणेयं तथा वीरं तदद्भुतमिवाभवत् ॥ ५६॥
पाण्डवस्य धनुः केचित्केचिदस्य महाशरान् ।
अन्येऽस्य जगृहुर्हस्तावन्ये पादौ महासुराः ॥ ५७॥
एवं ग्रहाय तं वीरमगमंस्ते विहायसि ।
पार्थानामपि कोट्यस्तु गृहीतानां तदाभवन् ॥ ५८॥
नान्तं ददर्श कृष्णश्च कार्ष्णिश्च रिपुनाशनौ ।
विच्छिद्य तौ शरैर्वीरौ निकुम्भं पार्थवर्जितौ ॥ ५९॥
एकैकस्तु द्विधा च्छिन्नो द्वेधा भवति भारत ।
दिव्यज्ञानस्तदा कृष्णो भगवाननुदृष्टवान् ॥ २.९०.६०॥
निकुम्भं तत्त्वतश्चापि ददर्श मधुसूदनः ।
स्रष्टारं सर्वमायानां हर्तारं फाल्गुनस्य च ॥ ६१॥
स चक्रेण शिरस्तस्य चकर्तासुरसूदनः ।
पश्यतां सर्वभूतानां भूतभव्यभवो हरिः ॥ ६२॥
स मुक्त्वा फाल्गुनं राजञ्छिन्ने शिरसि भारत ।
पपातासुरमुख्योऽथ च्छिन्नमूल इव द्रुमः ॥ ६३॥
अथाकाशगतं पार्थं पतमानं विहायसः ।
कृष्णवाक्येन जग्राह कार्ष्णिर्वियति मानद ॥ ६४॥
निकुम्भे पतिते भूमौ समाश्वास्य धनञ्जयम् ।
जगाम द्वारकां देवः पार्थकामसमन्वितः ॥ ६५॥
समियाय दशार्होऽथ द्वारकां मुदितो विभुः ।
नारदं च महात्मानं ववन्दे यदुनन्दनः ॥ ६६॥
नारदोऽथ महातेजा भानुं यादवमब्रवीत् ।
भानो मा कार्षीर्मन्युं त्वं श्रूयतां भैमनन्दन ॥ ६७॥
क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितोऽनया ।
स शशाप ततो रोषान्मुनिर्दुहितरं तव ॥ ६८॥
अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति ।
सुतार्थे ते मया सार्द्धं मुनिभिः स प्रसादितः ॥ ६९॥
बालां व्रतवतीं कन्यामनागसमिमां मुने ।
शप्तवानसि धर्मज्ञ कथं धर्मभृतां वर ।
अनुग्रहं विधत्स्वात्र वयं विज्ञापयामहे ॥ २.९०.७०॥
अस्माभिरेवमुक्तस्तु दुर्वासा भैमनन्दन ।
उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः ॥ ७१॥
यदवोचमहं वाक्यं तत् तथा न तदन्यथा ।
रिपुहस्तमवश्यं हि गमिष्यति न संशयः ॥ ७२॥
अदूषिता नु धर्मेण भर्तारमुपलप्स्यति ।
बहुपुत्रा बहुधना सुभगा च भविष्यति ॥ ७३॥
सुगन्धगन्धा च सदा कुमारी च पुनः पुनः ।
न च शोकमिमं घोरं तन्वङ्गी धारयिष्यति ॥ ७४॥
एवं भानुमती वीर सहदेवाय दीयताम् ।
श्रद्दधानः स शूरश्च धर्मशीलश्च पाण्डवः ॥ ७५॥
ततो भानुमतीं भानुर्ददौ माद्रीसुताय वै ।
सहदेवाय धर्मात्मा नारदस्य वचः स्मरन् ॥ ७६॥
आनीतः सहदेवश्च प्रेषितश्चक्रपाणिना ।
विवाहे च तदा वृत्ते सभार्यः स पुरीं गतः ॥ ७७॥
इमं कृष्णस्य विजयं यः पठेच्छृणुयादथ ।
विजयं सर्वकृत्येषु श्रद्दधानो लभेन्नरः ॥ ७८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे निकुम्भवधो नाम नवतितमोऽध्यायः ॥ ९०॥
२.९१ एकनवतितमोऽध्यायः
वज्रनाभवधवृत्तान्तः Story of the slaying of vajranAbha
वज्रनाभस्य तपःकरणं एवं वरप्राप्तिः, तस्य त्रिभुवनविजयाय उद्योगं, इन्द्रस्य श्रीकृष्णेन सह वार्ता, भद्रनामानं नटं मुनिभिः वरदानं, इन्द्रेण हंसानां आवश्यकं
कर्तव्यं कथयित्वा वज्रनाभपुरे प्रेषणं
जनमेजय उवाच ।
भानुमत्यापहरणं विजयं केशवस्य च ।
छालिक्यनयनं चैव देवलोकान्महामुने ॥ १॥
क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् ।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ॥ २॥
वज्रनाभवधो ह्युक्तो निकुम्भवधकीर्तने ।
तन्मे कौतूहलं श्रोतुं प्रसादाद् भवतो मुने ॥ ३॥
वैशम्पायन उवाच ।
हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ।
विजयं चैव कामस्य साम्बस्यैव च भारत ॥ ४॥
मेरोः सानौ नरपते तपश्चक्रे महासुरः ।
वज्रनाभ इति ख्यातो निश्चितः समितिञ्जयः ॥ ५॥
तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।
वरेण च्छन्दयामास तपसा परितोषितः ॥ ६॥
अवध्यत्वं स देवेभ्यो वव्रे दानवसत्तमः ।
पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम् ॥ ७॥
स्वच्छन्देन प्रवेशश्च न वायोरपि भारत ।
अचिन्तितेन कामानामुपपत्तिर्नराधिप ॥ ८॥
शाखानगरमुख्यानां संवाहानां शतानि च ।
नगरस्याप्रमेयस्य समन्ताज्जनमेजय ॥ ९॥
तथा तदभवत् तस्य वरदानेन भारत ।
उवास वज्रनगरे वज्रनाभो महासुरः ॥ २.९१.१०॥
कोटिशो वरलब्धं तमसुराः परिवार्य ते ।
ऊषुर्वज्रपुरे राजन् संवाहेषु तथैव च ॥ ११॥
शाखानगरमुख्येषु रम्येषु च नराधिप ।
हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ॥ १२॥
वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः ।
पुरस्य चात्मनश्चैव जगद् बाधितुमुद्यतः ॥ १३॥
महेन्द्रमब्रवीद् गत्वा देवलोकं विशाम्पते ।
अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन ॥ १४॥
अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर ।
सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम् ॥ १५॥
स बृहस्पतिना सार्द्धं मन्त्रयित्वा महेश्वरः ।
वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ॥ १६॥
सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।
तस्मिन् वृत्ते यथान्याय्यं तथा स हि करिष्यति ॥ १७॥
ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् ।
यथोक्तं देवराजेन तमुवाचाथ कश्यपः ॥ १८॥
सत्रे वृत्ते करिष्यामि यथा न्याय्यं भविष्यति ।
त्वं तु वज्रपुरे पुत्र वस गच्छ समाहितः ॥ १९॥
एवमुक्ते वज्रनाभः स्वमेव नगरं गतः ।
महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम् ॥ २.९१.२०॥
गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् ।
वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः ॥ २१॥
शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः ।
तस्मिन् वृत्ते वज्रनाभं पातयिष्यामि वासव ॥ २२॥
तत्रोपायं प्रवेशे तु चिन्तयावः सतां गते ।
नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो ॥ २३॥
ततो गतो देवराजो वासुदेवेन सत्कृतः ।
वाजिमेधे च सम्प्राप्ते वसुदेवस्य भारत ॥ २४॥
तस्मिन् यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।
चिन्तयामासतुर्वीरौ देवराजाच्युतावुभौ ॥ २५॥
तत्र यज्ञे वर्तमाने सुनाट्येन नटस्तदा ।
महर्षीस्तोषयामास भद्रनामेति नामतः ॥ २६॥
तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् ।
स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ॥ २७॥
देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।
प्रणिपत्य मुनिश्रेष्ठानश्वमेधे समागतान् ॥ २८॥
नट उवाच ।
भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।
सप्तद्वीपां च पृथिवीं विचरेयमिमामहम् ॥ २९॥
प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः ।
अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ॥ २.९१.३०॥
यस्य यस्य च वेषेण प्रविशेयमहं खलु ।
मृतस्य जीवतो वापि भाव्येनोत्पादितस्य वा ॥ ३१॥
सतूर्यस्तादृशः स्यां वै जरारोगविवर्जितः ।
तुष्येयुर्मुनयो नित्यमन्ये च मम सर्वदा ॥ ३२॥
एवमस्त्विति सम्प्रोक्तो ब्राह्मणैर्नृपते नटः ।
सप्तद्वीपां वसुमतीं पर्यटत्यमरोपमः ॥ ३३॥
पुराणि दानवेन्द्राणामुत्तरांश्च कुरूंस्तथा ।
भद्राश्वान् केतुमालांश्च कालाम्रद्वीपमेव च ॥ ३४॥
पर्वणीषु तु सर्वासु द्वारकां यदुमण्डिताम् ।
आयाति वरदत्तः स लोकवीरो महानटः ॥ ३५॥
ततो हंसान् धार्तराष्ट्रान् देवलोकनिवासिनः ।
उवाच भगवाञ्छक्रः सान्त्वयित्वा सुरेश्वरः ॥ ३६॥
भवन्तो भ्रातरोऽस्माकं काश्यपा देवपक्षिणः ।
विमानवाहा देवानां सुकृतीनां तथैव च ॥ ३७॥
देवानामस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् ।
तत्कर्तव्यं न मन्त्रश्च भेत्तव्यो वः कथञ्चन ॥ ३८॥
न कुर्वतां देवताज्ञामुग्रो दण्डः पतेदपि ।
सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः ॥ ३९॥
गत्वा प्रवेश्यमन्येषां वज्रनाभपुरोत्तमम् ।
इतोऽन्तःपुरवापीषु चरध्वमुचितं हि वः ॥ २.९१.४०॥
तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥ ४१॥
वरदानेन सा लब्धा मात्रा किल वरानना ।
हैमवत्या महादेव्याः सकाशादिति नः श्रुतम् ॥ ४२॥
स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती ।
आत्मेच्छया पतिं हंसा वरयिष्यति शोभना ॥ ४३॥
तद्भवद्भिर्गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूताः कुलरूपस्य शीलस्य वयसस्तथा ॥ ४४॥
यदा सा रक्तभावा च वज्रनाभसुता सती ।
तस्याः सकाशात् सन्देशो नयितव्यः समाधिना ॥ ४५॥
प्रद्युम्नस्य पुनस्तस्मादानयध्वं तथैव च ।
स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम ॥ ४६॥
नेत्रवक्त्रप्रसादश्च कर्तव्यस्तत्र सर्वथा ॥ ४७॥
तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
यथा यथा प्रभावत्या मनस्तत्र भवेत् स्थितम् ॥ ४८॥
वृत्तान्तश्चानुदिवसं प्रदेयो मम सर्वथा ।
द्वारवत्यां च कृष्णस्य भ्रातुर्मम यवीयसः ॥ ४९॥
तावद्यत्नश्च कर्तव्यः प्रद्युम्नो यावदात्मवित् ।
पर्यावर्तेद् वरारोहां वज्रनाभसुतां विभुः ॥ २.९१.५०॥
अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिताः ।
देवपुत्रैर्हि हन्तव्याः प्रद्युम्नप्रमुखैर्युधि ॥ ५१॥
नटो दत्तवरस्तस्य वेषमास्थाय यादवाः ।
प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः ॥ ५२॥
एतच्च सर्वं कर्तव्यमन्यच्च सर्वमेव हि ।
प्राप्तकालं विधातव्यमस्माकं प्रियकाम्यया ॥ ५३॥
प्रवेशस्तत्र देवानां नास्ति हंसाः कथञ्चन ।
वज्रनाभेप्सिते तत्र प्रदेशे खलु सर्वथा ॥ ५४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभवधे एकनवतितमोऽध्यायः ॥ ९१॥
२.९२ द्विनवतितमोऽध्यायः
वज्रनाभपुरं प्रति प्रद्युम्नादीनां गमनम् Together with deva-s kashyapa and aditi go to brahma pradyumna and party set out for vajranAbhapura
हंसानां वज्रपुरे निवासः, हंस्या प्रभावतीं प्रद्युम्नस्य प्रति अनुरक्तकरणं, प्रभावत्या हंस्यां प्रद्युम्नस्य प्राप्तिकरणस्य अनुरोधं, हंस्याः वज्रनाभेन सह संवादं, हंसानां मुखतः सर्वं समाचारं श्रुत्वा श्रीकृष्णेन नटवेषे प्रद्युम्नादि यादवानां वज्रपुरे प्रेषणं
वैशम्पायन उवाच ।
ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।
पूर्वोचितं हि गमनं तेषां तत्र जनाधिप ॥ १॥
ते दीर्घिका सु रम्यासु निपेतुर्वीर पक्षिणः ।
पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः ॥ २॥
ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।
पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि ॥ ३॥
अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप ।
दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः ॥ ४॥
आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।
स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः ॥ ५॥
त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः ।
यदैवेहोन्सवोऽस्माकं भवद्भिरवगम्यते ॥ ६॥
आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् ।
विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ॥ ७॥
ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।
तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम् ॥ ८॥
चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।
मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः ॥ ९॥
वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।
स्त्रियो रेमुर्विशेषेण शृण्वन्त्यः सङ्गताः कथाः ॥ २.९२.१०॥
विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् ।
प्रभावतीं वरारोहां वज्रनाभसुतां तदा ॥ ११॥
हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् ।
सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा ॥ १२॥
सा तां कचित्पप्रच्छ वज्रनाभसुतां सखीम् ।
विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम् ॥ १३॥
त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति ।
रूपशीलगुणैर्देवि किञ्चित् त्वां वक्तुमुत्सहे ॥ १४॥
व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।
यदतीतं पुनर्नैति गतं स्रोत इवाम्भसः ॥ १५॥
कामोपभोगतुल्या हि रतिर्देवि न विद्यते ।
स्त्रीणां जगति कल्याणि सत्यमेतद् ब्रवीमि ते ॥ १६॥
स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।
न च कांश्चिद् वरयसे देवासुरकुलोद्भवान् ॥ १७॥
व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे ।
रूपशौर्यगुणैर्युक्तान् सदृशांस्त्वं कुलस्य हि ॥ १८॥
इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ॥ १९॥
त्रैलोक्ये यस्य रूपेण सदृशो न कुलेन वा ।
गुणैर्वा चारुसर्वाङ्गि शौर्येणाप्यति वा शुभे ॥ २.९२.२०॥
देवेषु देवः सुश्रोणि दानवेषु च दानवः ।
मानुषेष्वपि धर्मात्मा मनुष्यः स महाबलः ॥ २१॥
यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।
आपीनानीव धेनूनां स्रोतांसि सरितामिव ॥ २२॥
न पूर्णचन्द्रेण मुखं नयने वा कुशेशयैः ।
उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ॥ २३॥
जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे ।
कृत्यानङ्गं वरे साङ्गं विष्णुना प्रभविष्णुना ॥ २४॥
हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।
मायाश्च सर्वाः सम्प्राप्ता न च शीलं विनाशितम् ॥ २५॥
यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि ।
एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ॥ २६॥
रुच्या वह्निप्रतीकाशः क्षमया पृथिवीसमः ।
तेजसा सूर्यसदृशो गाम्भीर्येण ह्रदोपमः ।
प्रभावतीं शुचिमुखीं त्वितीहोवाच भामिनी ॥ २७॥
प्रभावत्युवाच ।
विष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया ।
पितुः कथयतः सौम्ये नारदस्य च धीमतः ॥ २८॥
शत्रुः किल स दैत्यानां वर्जनीयः सदानघे ।
कुलानि किल दैत्यानां तेन दग्धानि मानिनि ॥ २९॥
प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ।
शाखानगरदेशेषु वसन्ति किल येऽसुराः ॥ २.९२.३०॥
इत्येते दानवेन्द्रेण सन्दिश्यन्ते हि तं प्रति ।
मनोरथो हि सर्वासां स्त्रीणामेव शुचिस्मिते ॥ ३१॥
भवेद्धि मे पतिकुलं श्रेष्ठं पितृकुलादिति ।
यदि नामाभ्युपायः स्यात् तस्येहागमनं प्रति ॥ ३२॥
महाननुग्रहो मे स्यात्कुलं स्यात्पावितं च मे ।
समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि ॥ ३३॥
प्रद्युम्नः स्याद्यथा भर्ता स मे वृष्णिकुलोद्भवः ।
अत्यन्तवैरी दैत्यानामुद्वेजनकरो हरिः ॥ ३४॥
असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः ।
प्रद्युम्नस्य तथा जन्म पुरस्तादपि मे श्रुतम् ॥ ३५॥
यथा च तेन निहतो बलवान् कालशम्बरः ।
हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे ॥ ३६॥
हेतुः स नास्ति स्यात् तेन यथा मम समागमः ।
दासी तवाहं सख्यार्हे दूत्ये त्वां च विसर्जये ॥ ३७॥
पण्डितासि वदोपायं मम तस्य च सङ्गमे ।
ततस्तां सान्त्वयित्वा सा प्रहसन्तीदमब्रवीत् ॥ ३८॥
शुचिमुख्युवाच ।
तत्र दूती गमिष्यामि तवाहं चारुहासिनि ।
इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते ॥ ३९॥
तथा चैव करिष्यामि यथैष्यति तवान्तिकम् ।
साक्षात्कामेन सुश्रोणि भविष्यति सकामिनी ॥ २.९२.४०॥
इति मे भाषितं नित्यं स्मरेथाः शुचिलोचने ।
कथाकुशलतां पित्रे कथयस्वायतेक्षणे ॥ ४१॥
मम त्वं तत्र मे देवि हितं सम्यक् प्रपत्स्यसे ।
इत्युक्ता सा तथा चक्रे यत्तत् सा तामथाब्रवीत् ॥ ४२॥
दानवेन्द्रश्च तां हंसीं पप्रच्छान्तःपुरे तदा ।
प्रभावत्या समाख्याता कथाकुशलता तव ॥ ४३॥
तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे ।
किं त्वया दृष्टमाश्चर्यं जगत्युत्तमपक्षिणि ॥ ४४॥
अदृष्टपूर्वमन्यैर्वा योग्यायोग्यमनिन्दिते ।
सोवाच वज्रनाभं तु हंसी नरवरोत्तम ॥ ४५॥
श्रूयतामित्यथामन्त्र्य दानवेन्द्रं महाद्युतिम् ।
दृष्टा मे शाण्डिली नाम साध्वी दानवसत्तम ।
आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी ॥ ४६॥
सुमनाश्चैव कौशल्या सर्वभूतहिते रता ।
कथञ्चिद् वरशाण्डिल्याः शैलपुत्र्याः शुभा सखी ॥ ४७॥
नटश्चैव मया दृष्टो मुनिदत्तवरः शुभः ।
कामरूपी च भोज्यश्च त्रैलोक्ये नित्यसम्मतः ॥ ४८॥
कुरून् यात्युत्तरान् वीर कालाम्रद्वीपमेव च ।
भद्राश्वान् केतुमालांश्च द्वीपानन्यांस्तथानघ ॥ ४९॥
देवगन्धर्वगेयानि नृत्यानि विविधानि च ।
स वेत्ति देवान् नृत्येन विस्मापयति सर्वथा ॥ २.९२.५०॥
वज्रनाभ उवाच ।
श्रुतमेतन्मया हंसि न चिरादिव विस्तरम् ।
चारणानां कथयतां सिद्धानां च महात्मनाम् ॥ ५१॥
कुतूहलं ममाप्यस्ति सर्वथा पक्षिनन्दिनि ।
नटे दत्तवरे तस्मिन् संस्तवस्तु न विद्यते ॥ ५२॥
हंस्युवाच ।
सप्तद्वीपान् विचरति नटः स दितिजोत्तम ।
गुणवन्तं जनं श्रुत्वा गुणकार्यः स सर्वथा ॥ ५३॥
तव चेच्छृणुयाद् वीर सद्भूतं गुणविस्तरम् ।
नटं तदागतं विद्धि पुरं तव महासुर ॥ ५४॥
वज्रनाभ उवाच ।
उपायः सृजतां हंसि येनेह स नटः शुभे ।
आगच्छेन्मम भद्रं ते विषयं पक्षिनन्दिनि ॥ ५५॥
ते हंसा वज्रनाभेन कार्यहेतोर्विसर्जिताः ।
देवेन्द्रायाथ कृष्णाय शशंसुः सर्वमेव तत् ॥ ५६॥
अधोक्षजेन प्रद्युम्नो नियुक्तस्तत्र कर्मणि ।
प्रभावत्याश्च संसर्गे वज्रनाभवधे तथा ॥ ५७॥
दैवीं मायां समाश्रित्य संविधाय हरिर्नटम् ।
नटवेषेण भैमानां प्रेषयामास भारत ॥ ५८॥
प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् ।
पारिपार्श्वे गदं वीरमन्यान् भैमांस्तथैव च ॥ ५९॥
वारमुख्या नटीः कृत्वा तत्तूर्यसदृशास्तदा ।
तथैव भद्रं भद्रस्य सहायांश्च तथाविधान् ॥ २.९२.६०॥
प्रद्युम्नविहितं रम्यं विमानं ते महारथाः ।
जग्मुरारुह्य कार्यार्थं देवानाममितौजसाम् ॥ ६१॥
एकैकस्य समा रूपे पुरुषाः पुरुषस्य ते ।
स्त्रीणां च सदृशाः सर्वे ते स्वरूपैर्नराधिपाः ॥ ६२॥
ते वज्रनगरस्याथ शाखानगरमुत्तमम् ।
जग्मुर्दानवसङ्कीर्णं सुपुरं नाम नामतः ॥ ६३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभ
प्रद्युम्नादिगमने द्विनवतितमोऽध्यायः ॥ ९२॥
२.९३ त्रिनवतितमोऽध्यायः
वज्रनाभपुरे प्रद्युम्नप्रवेशः Pradyumna enters vajranAbhapura
नटवेशधारिणां यादवानां सुपुरे एवं वज्रपुरे सफलं अभिनयं, दानवानां तोषयित्वा तेभ्यः उपायनानां प्राप्तिः, प्रद्युम्नस्य प्रभावत्याः गृहे प्रवेशः
वैशम्पायन उवाच ।
ततः सुपुरवासीनामसुराणां नराधिप ।
ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम् ॥ १॥
आतिथ्यं क्रियतामेषां बहुरत्नमुपायनम् ।
वासांसि सुविचित्राणि सुखाय जनरञ्जनम् ॥ २॥
भर्तुराज्ञां समालभ्य तथा चक्रुश्च सर्वशः ।
पूर्वश्रुतो नटः प्राप्तः कौतूहलमजीजनत् ॥ ३॥
नटस्याथ ददुर्दैत्याः सत्कारं परया मुदा ।
पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ ॥ ४॥
ततः स ननृते तत्र वरदत्तो नटस्तथा ।
सुपुरे पुरवासीनां परं हर्षं समादधत् ॥ ५॥
रामायणं महाकाव्यमुद्दिश्य नाटकं कृतम् ।
जन्म विष्णोरमेयस्य राक्षसेन्द्रवधेप्सया ॥ ६॥
लोमपादो दशरथ ऋष्यशृङ्गं महामुनिम् ।
शान्तामप्यानयामास गणिकाभिः सहानघ ॥ ७॥
रामलक्ष्यणशत्रुघ्ना भरतश्चैव भारत ।
ऋष्यशृङ्गश्च शान्ता च तथारूपैर्नटैः कृताः ॥ ८॥
तत्कालजीविनो वृद्धा दानवा विस्मये गताः ।
आचचक्षुश्च तेषां वै रूपतुल्यत्वमच्युत ॥ ९॥
संस्फाराभिनयौ तेषां प्रस्तावानां च धारणम् ।
दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः ॥ २.९३.१०॥
ते रक्ता विस्मयं नेदुरसुराः परया मुदा ।
उत्थायोत्थाय नाट्यस्य विषयेषु पुनः पुनः ॥ ११॥
ददुर्वस्त्राणि तुष्टाश्च ग्रैवेयवलयानि च ।
हारान् मनोहरांश्चैव हेमवैडूर्यभूषितान् ॥ १२॥
पृथगर्थेषु दत्तेषु लोकैस्ते तुष्टुवुर्नटाः ।
असुरांश्च मुनींश्चैव गोत्रैरभिजनैरपि ॥ १३॥
प्रेषितं वज्रनाभस्य शाखानगरवासिभिः ।
नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा ॥ १४॥।
पुरा श्रुतार्थो दैत्येन्द्रः प्रेषयामास भारत ।
आनीयतां वज्रपुरं नटोऽसाविति हर्षितः ॥ १५॥
दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः ।
नीता वज्रपुरं रम्यं नटवेषेण यादवाः ॥ १६॥
आवासश्च ततो दत्तः सुकृतो विश्वकर्मणा ।
एष्टव्यं यश्च तत् सर्वं दत्तं शतगुणोत्तरम् ॥ १७॥
अथ कालोत्सवं चक्रे वज्रनाभो महासुरः ।
कारयामास रम्यं च चमूवाटं प्रहृष्टवान् ॥ १८॥
ततस्तान् परिविश्रान्तान् प्रेक्षार्थाय प्रचोदयत् ।
दत्त्वा रत्नानि भूरीणि वज्रनाभो महाबलः ॥ १९॥
उपविष्टश्च तान् द्रष्टुं सह ज्ञातिभिरात्मवान् ।
छन्ने चान्तःपुरं स्थाप्य चक्षुर्दृश्ये नराधिप ॥ २.९३.२०॥
भैमापि बद्धनेपथ्या नटवेषधरास्तथा ।
कार्यार्थे भीमकर्माणो नृत्यार्थमुपचक्रमुः ॥ २१॥
ततो घनं ससुषिरं मुरजानकभूषितम् ।
तन्त्रीस्वरगणैर्विद्धानातोद्यानन्ववादयन् ॥ २२॥
ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् ।
भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम् ॥ २३॥
आगान्धारग्रामरागं गङ्गावतरणं तथा ।
विद्धमासारितं रम्यं जगिरे स्वरसम्पदा ॥ २४॥
लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् ।
असुरांस्तोषयामासुरुत्थायोत्थाय भारत ॥ २५॥
नान्दिं च वादयामासुः प्रद्युम्नो गद एव च ।
साम्बश्च वीर्यसम्पन्नः कार्यार्थं नटतां गतः ॥ २६॥
नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् ।
रौक्मिणेयस्तदोवाच सम्यक् स्वभिनयान्वितम् ॥ २७॥
रम्भाभिसारं कौबेरं नाटकं ननृतुस्ततः ।
शूरो रावणरूपेण रम्भावेषा मनोवती ॥ २८॥
नलकूबरस्तु प्रद्युम्नः साम्बस्तस्य विदूषकः ।
कैलासो रूपितश्चापि मायया यदुनन्दनैः ॥ २९॥
शापश्च दत्तः क्रुद्धेन रावणस्य दुरात्मनः ।
नलकूबरेण च यथा रम्भा चाप्यथ सान्त्विता ॥ २.९३.३०॥
एतत् प्रकरणं वीरा ननृतुर्यदुनन्दनाः ।
नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः ॥ ३१॥
पादोद्धारेण नृत्येन तथैवाभिनयेन च ।
तुष्ढुवुर्दानवा वीरा भैमानामतितेजसाम् ॥ ३२॥
ते ददुर्वस्त्रमुख्यानि रत्नान्याभरणानि च ।
हारांस्तरलविद्धांश्च वैडूर्यमणिभूषितान् ॥ ३३॥
विमानानि विचित्राणि रथांश्चाकाशगामिनः ।
गजानाकाशगांश्चैव दिव्यनागकुलोद्भवान् ॥ ३४॥
चन्दनानि च दिव्यानि शीतानि रसवन्ति च ।
गुरूण्यगुरुमुख्यानि गन्धाढ्यानि च भारत ॥ ३५॥
चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान् ।
प्रेक्षासु तासु बह्वीषु ददन्तो दानवास्तथा ॥ ३६॥
धनरत्नैर्विरहिताः कृताः पुरुषसत्तम ।
स्त्रियो दानवमुख्यानां तथैव च जनेश्वर ॥ ३७॥
ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् ।
गतास्मि द्वारकां रम्यां भैमगुप्तामनिन्दिते ॥ ३८॥
प्रद्युम्नश्च मया दृष्टो विविक्ते चारुलोचने ।
भक्तिश्च कथिता तस्य मया तव शुचिस्मिते ॥ ३९॥
तेन हृष्टेन कालश्च कृतः कमललोचने ।
अद्य प्रदोषसमये त्वया सह समागमे ॥ २.९३.४०॥
तदद्य रुचिरश्रोणि तव प्रियसमागमः ।
न ह्यात्मवति भाषन्ति मिथ्या भैमकुलोद्भवाः ॥ ४१॥
ततः प्रभावती हृष्टा हंसीं तामिदमब्रवीत् ।
उषितासि ममावासे स्वप्तुमर्हसि सुन्दरि ॥ ४२॥
त्वयाहं सहिताऽऽवासे द्रष्टुमिच्छामि कैशविम् ।
निःसाध्वसा भविष्यामि त्वया सह विहङ्गमे ॥ ४३॥
हंसी तथेति चोवाच सखीं कमललोचनाम् ।
आरुरोह च तद्धर्म्यं प्रभावत्या विहङ्गमा ॥ ४४॥
विश्वकर्मकृते तत्र हर्म्यपृष्ठे प्रभावती ।
संविधानं चकाराशु प्रद्युम्नागमनक्षमम् ॥ ४५॥
तस्मिन् कृते संविधाने काममानयितुं ययौ ।
प्रभावतीमनुज्ञाप्य हंसी वायुसमा गतौ ॥ ४६॥
नटवेषधरं कामं गत्वोवाच शुचिस्मिता ।
अद्य भूतः स भगवन् समयो वर्तते निशि ॥ ४७॥
तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी ।
अभ्यागता च सा हंसी प्रभावतिमथाब्रवीत् ।
अभ्येति रौक्मिणेयोऽसावाश्वसायतलोचने ॥ ४८॥
प्रद्युम्नो नीयमानं तु ददृशे माल्यमात्मवान् ।
भ्रमरैरावृतं वीरः सुगन्धमरिमर्दनः ॥ ४९॥
निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस्तदा ।
प्रभावत्या नीयमाने विदितार्थः प्रतापवान् ॥ २.९३.५०॥
प्रवेशितं च तन्माल्यं स्त्रीभिर्मधुकरायुतम् ।
उपनीतं प्रभावत्यै स्त्रीभिस्तद् भ्रमरावृतम् ॥ ५१॥
अविदूरे च विन्यस्तं प्रभावत्या जनाधिप ।
भ्रमरास्ते ययुः सौम्य सन्ध्याकाले ह्युपस्थिते ॥ ५२॥
स भैमप्रवरो वीरस्तैः सहायैर्विहीनतः ।
कर्णोत्पले प्रभावत्या निलिल्ये शनकैरिव ॥ ५३॥
ततः प्रभावती हंसीमुवाच वदतां वरा ।
उद्यतं पूर्णचन्द्रं सा समीक्ष्यातिमनोहरम् ॥ ५४॥
सखि दह्यन्ति मेऽङ्गानि मुखं च परिशुष्यति ।
औत्सुक्यं हृदि चातीव कोऽयं व्याधिरनौषधः ॥ ५५॥
दधद् द्विगुणमौत्सुक्यमसौ पूर्णनिशाकरः ।
नवोदितः शीतरश्मिः सख्यं हरति च प्रियः ॥ ५६॥
न दृष्टपूर्वो हि मया श्रुतमात्रेण काङ्क्षितः ।
अहो धूमयतेऽङ्गानि स्त्रीस्वभावस्य धिक् खलु ॥ ५७॥
कल्पयामि यथाबुद्ध्या यदि नाभ्येति मे प्रियः ।
कुमुद्वतीगतं मार्गं हा गमिष्याम्यकिञ्चना ॥ ५८॥
मदनाशीविषेणास्मि हा हा दष्टा मनस्विनी ।
शीतवीर्याः प्रकृत्यैव जगतो ह्रादनाः सुखाः ।
दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः ॥ ५९॥
प्रकृत्या शीतलो वायुर्नानापुष्परजोवहः ।
दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम् ॥ २.९३.६०॥
ततः सङ्कल्पये एव स्थैर्यं कार्यमिवात्मनः ।
नावतिष्ठति निर्वीर्यं मनः सकल्पधर्षितम् ॥ ६१॥
विमनस्कास्मि मुह्यामि वेपथुर्मे महान् हृदि ।
बम्भ्रमीति च मे दृष्टिर्हा हा यामि ध्रुवं क्षयम् ॥ ६२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नगमने त्रिनवतितमोऽध्यायः ॥ ९३॥
२.९४ चतुर्नवतितमोऽध्यायः
प्रभावतीपाणिग्रहणम् PrabhAvatI's marriage
प्रद्युम्नप्रभावत्योः गान्धर्वविवाहं समागमं च, तदनन्तरं गदचन्द्रवत्योः एवं
साम्बगुणवत्योः गान्धर्वविवाहं
वैशम्पायन उवाच ।
आविष्टेयं मया बाला सर्वथेत्यवगम्य तु ।
कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह ॥ १॥
दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह ।
षट्पदैः सह षट्पादो भूत्वा माल्ये निलीय हि ॥ २॥
विधेयोऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् ।
इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मनः ॥ ३॥
तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः ।
अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा ॥ ४॥
प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागरः ।
चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः ॥ ५॥
सलज्जाधोमुखी किञ्चित्किञ्चित्तिर्यगवेक्षिणी ।
प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा ॥ ६॥
करेणाधःप्रदेशे तां चारुभूषणभूषिताम् ।
स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस्ततः ॥ ७॥
मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम् ।
अधोमुखं मुखं कृत्वा न मां किञ्चित्प्रभाषसे ॥ ८॥
प्रभोपमर्दं मा कार्षीर्वदनस्य वरानने ।
साध्वसं त्यज्यतां भीरु दासः साध्वनुगृह्यताम् ॥ ९॥
न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज ।
याचाम्येषोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे ॥ २.९४.१०॥
गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम ।
देशकालानुरूपेण रूपेणाप्रतिमा सती ॥ ११॥
उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् ।
जुहाव समये वीरः पुष्पैर्मन्त्रानुदीरयन् ॥ १२॥
जग्राहाथ करं तस्या वराभरणभूषितम् ।
चक्रे प्रदक्षिणं चैवं तं मणिस्थं हुताशनम् ॥ १३॥
प्रजज्वाल स तेजस्वी मानयन्नच्युतात्मजम् ।
भगवाञ्जगतः साक्षी शुभस्याथाशुभस्य च ॥ १४॥
उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः ।
उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि ॥ १५॥
तस्यां प्रणम्य यातायां कामस्तां चारुलोचनाम् ।
प्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम् ॥ १६॥
ऊरावेवोपवेश्यैनां सान्त्वयित्वा पुनः पुनः ।
चुचुम्ब शनकैर्गण्डं वासयन् मुखमारुतैः ॥ १७॥
ततोऽस्याश्च पपौ वक्त्रपद्मं मधुकरो यथा ।
आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः ॥ १८॥
अरीरमद् रहस्येनां न चोद्वेजितवांस्तदा ।
अपकृष्टं चरत्यर्थं रतिकार्यविशारदः ।
उवास स तया सार्द्धं रमन् कृष्णसुतः प्रभुः ॥ १९॥
अरुणोदयकाले च ययौ यत्र नटालयम् ।
अकामया प्रभावत्या कथञ्चित्स विसर्जितः ॥ २.९४.२०॥
तामेव मनसा कान्तां कान्तरूपां समुद्वहन् ।
त ऊषुर्नटवेषेण कार्यार्थं भैमवंशजाः ॥ २१॥
प्रतीक्षन्तस्तदा वाक्यमिन्द्रकेशवयोस्तदा ।
उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति ॥ २२॥
प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः ।
कश्यपस्य मुनेः सत्रं यावत् तावन्नराधिप ॥ २३॥
देवासुराणां सर्वेषामविरोधो महात्मनाम् ।
त्रैलोक्यविजयार्थाय यततां धर्मचारिणाम् ॥ २४॥
एवं कालं प्रतीक्षाणां वसतां तत्र धीमताम् ।
सम्प्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः ॥ २५॥
अहर्निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः ।
शक्रकेशवयोर्हंसाः कुमाराणां महात्मनाम् ॥ २६॥
रेमे सह प्रभावत्या प्रद्युम्नश्चानुरूपया ।
रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः ॥ २७॥
तैर्हि वज्रपुरं हंसैर्वसद्भिर्वासवाज्ञया ।
व्याप्तं नृप नटांस्तांश्च न विदुः कालमोहिताः ॥ २८॥
दिवापि रौक्मिणेयस्तु प्रभावत्या नृपालये ।
तिष्ठत्यन्तर्हितो वीरो हंससङ्घाभिरक्षितः ॥ २९॥
माययास्य प्रतिच्छाया दृश्यते हि नटालये ।
देहार्धेन तु कौरव्य सिषेवेऽसौ प्रभावतीम् ॥ २.९४.३०॥
सन्नतिं विनयं शीलं लीलां दाक्ष्यमथार्जवम् ।
स्पृहयन्त्यसुरा दृष्ट्वा विद्वत्तां च महात्मनाम् ॥ ३१॥
रूपं विलासं गन्धं च मञ्जुभाषामथार्यताम् ।
तासां यादवनारीणां स्पृहयन्त्यसुरस्त्रियः ॥ ३२॥
वज्रनाभस्य तु भ्राता सुनाभो नाम विश्रुतः ।
दुहितृद्वयं च नृपते तस्य रूपगुणान्वितम् ॥ ३३॥
एका चन्द्रवती नाम्ना गुणवत्यथ चापरा ।
प्रभावत्यालयं ते तु व्रजतः खलु नित्यदा ॥ ३४॥
ददृशाते तु ते तत्र रतिसक्तां प्रभावतीम् ।
परिपप्रच्छतुश्चैव विस्रम्भोपगतां सतीम् ॥ ३५॥
सोवाच मम विद्यास्ति याधीता काङ्क्षितं पतिम् ।
रत्यर्थं साऽऽनयत्याशु सौभाग्यं च प्रयच्छति ॥ ३६॥
देवं वा दानवं वापि विवशं सद्य एव हि ।
साहं रमामि कान्तेन देवपुत्रेण धीमता ॥ ३७॥
दृश्यतां मत्प्रभावेण प्रद्युम्नः सुप्रियो मम ।
ते दृष्ट्वा विस्मयं याते रूपयौवनसम्पदम् ॥ ३८॥
पुनरेवाब्रवीत् ते तु भगिन्यौ चारुहासिनी ।
प्रभावती वरारोहा कालप्राप्तमिदं वचः ॥ ३९॥
देवा धर्मरता नित्यं दम्भशीला महासुराः ।
देवास्तपसि रक्ता हि सुखे रक्ता महासुराः ॥ २.९४.४०॥
देवाः सत्ये रता नित्यमनृते तु महासुराः ।
धर्मस्तपश्च सत्यं च यत्र तत्र जयो धुवम् ॥ ४१॥
देवपुत्रौ वरयतां पतिविद्यां ददाम्यहम् ।
उचितौ मत्प्रभावेण सद्य एवोपलप्स्यथः ॥ ४२॥
तां तथेत्यूचतुर्हृष्टे भगिन्यौ चारुलोचनाम् ।
परिपप्रच्छ भैमं च कार्यं तत् पतिमानिनी ॥ ४३॥
स पितृव्यं गदं वीरं साम्बं चाथाब्रवीत् तदा ।
रूपान्वितौ सुशीलौ च शूरौ च रणकर्मणि ॥ ४४॥
प्रभावत्युवाच ।
परितुष्टेन दत्ता मे विद्या दुर्वाससा पुरा ।
परितुष्टेन सौभाग्यं सदा कन्यात्वमेव च ॥ ४५॥
देवदानवयक्षाणां यं ध्यास्यति स ते पतिः ।
भवितेति मया चैव वीरोऽयमभिकाङ्क्षितः ॥ ४६॥
गृह्णीतं तदिमां विद्यां सद्यो वां प्रियसङ्गमः ।
ततो जगृहतुर्हृष्टे तां विद्यां भगिनीमुखात् ॥ ४७॥
दध्यतुर्गदसाम्बौ च विद्यामभ्यस्य ते शुभे ।
तौ प्रद्युम्नेन सहितौ प्रविष्टौ भैमनन्दनौ ॥ ४८॥
प्रच्छन्नौ मायया वीरौ कार्ष्णिना मायिना नृप ।
गान्धर्वेण विवाहेन तावप्यरिबलार्दनौ ॥ ४९॥
पाणिं जगृहतुर्वीरौ मन्त्रपूर्वं सतां प्रियौ ।
चन्द्रवत्या गदः साम्बो गुणवत्या च कैशविः ॥ २.९४.५०॥
रेमिरेऽसुरकन्याभिर्वीरास्ते यदुपुङ्गवाः ।
मार्गमाणास्त्वनुज्ञां ते शक्रकेशवयोस्तदा ॥ ५१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रभावतीपाणिग्रहणे चतुर्नवतितमोऽध्यायः ॥ ९४॥
२.९५ पञ्चनवतितमोऽध्यायः
प्रद्युम्तोगेथेर् विथ् देव-स् कश्यप अन्द् अदिति गो तो ब्रह्मनभाषणम् Pradyumna addresses prabhAvatI
प्रद्युम्नेन प्रभावत्यां वर्षायाः वर्णनं कुर्वन्तं स्वकुलस्य परिचयदानं
वैशम्पायन उवाच ।
नभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा तोयदवृन्दकीर्णम् ।
प्रभावतीं चारुविशालनेत्रामुवाच पूर्णेन्दुनिकाशवक्त्रः ॥ १॥
तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि चारुबिम्बः ।
त्वत्केशपाशप्रतिमैर्निरुद्धो बलाहकैश्चारुनिरन्तरोरु ॥ २॥
सन्दृश्यते सुभ्रु तडिद् घनस्था त्वं हेमचार्वाभरणान्वितेव ।
मुञ्चन्ति धाराश्च घना नदन्तस्त्वद्धारयष्टेः सदृशा वराङ्गि ॥ ३॥
घनप्रदेशेषु बलाकपङक्तयस्त्वद्दन्तपङ्क्तिप्रतिमाविभान्ति ।
निमग्नपद्मानि सरित्सु सुभ्रु न भान्ति तोयानि रयाकुलानि ॥ ४॥
अमी घना वायुवशोपयाता बलाकमालामलचारुदन्ताः ।
अन्योन्यमभ्याहनितुं प्रवृत्ता वनेषु नागा इव शुक्लदन्ताः ॥ ५॥
धनुस्त्रिवर्णं वरगात्रि पश्य कृतं तवापाङ्गमिवाननस्थम् ।
विभूषयन्तं गगनं घनाश्च प्रहर्षणं कामिजनस्य कान्ते ॥ ६॥
घनान् नदन्तः प्रतिनर्दमानान् निरीक्ष्यसुश्रोणि शिखीन्प्रहृष्टान् ।
समादृतानुद्धतपिच्छभारान् प्रियाभिरामानुपनृत्यमानान् ॥ ७॥
हर्म्येषु चान्ये शशिपाण्डुरेषु यजन्ति सुश्रोणि मयूरसङ्घाः ।
मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु ॥ ८॥
प्रक्लिन्नपक्षास्तरुमस्तकेषु मुहूर्तचूडामणितां विधाय ।
प्रयान्ति भूमिं नवशाद्वलानामाशङ्कमाना धृतचारुदेहाः ॥ ९॥
प्रवाति धारान्तरनिःसृतश्च सुखोऽनिलश्चन्दनपङ्कशीतः ।
कदम्बसर्जार्जुनपुष्पभूतं समावहन् गन्धमनङ्गबन्धुम् ॥ २.९५.१०॥
रतिश्रमस्वेदविनाशहेतुर्नवोदभारानयने च हेतुः ।
न मारुतः स्याद् यदि चारुगात्रि न मेघकालो मम वल्लभः स्यात् ॥ ११॥
एवंविधेषु प्रियसङ्गमेषु रतावसाने यदुपैति वायुः ।
रतिश्रमस्वेदहरः सुगन्धी ततः परं किं सुखमस्ति लोके ॥ १२॥
जलाप्लुतानीक्ष्य महानदीनां सुगात्रि हंसाः पुलिनानि हृष्टाः ।
गताः भ्रमं मानसवासलुब्धाः ससारसाः क्रौञ्चगणानुविद्धाः ॥ १३॥
न भान्ति नद्यो न सरांसि चैव हतत्विषीवायतचारुनेत्रे ।
गतेषु हंसेष्वथ सारसेषु रथाङ्गतुल्याह्वयनेषु चैव ॥ १४॥
भोगैकदेशेन शुभं शयानं ध्रुवं जगन्नाथमुपेन्द्रमीशम् ।
निद्राभ्युपेता वरकालतज्ज्ञा श्रियं प्रणम्योत्तरचारुरूपाम् ॥ १५॥
निद्रायमाणे भगवत्युपेन्द्रे मेघाम्बराक्रान्तनिशाकरोऽद्य ।
पद्मामलाभः कमलायताक्षि कृष्णस्य वक्त्रानुकृतिं करोति ॥ १६॥
कदम्बनीपार्जुनकेतकानां स्रजो ध्रुवं कृष्णमुपानयन्ति ।
पुष्पाणि चान्यान्यृतवः समस्ताः कृष्णात् प्रसादानभिकाङ्क्षमाणाः ॥ १७॥
नागाश्चरन्तो विषदिग्धवक्त्राः स्पृशन्ति पुष्पाण्यपि पादपान्यान् ।
पेपीयमानान् भ्रमरैर्जनानां कौतूहलं ते जनयन्त्यतीव ॥ १८॥
तोयातिभाराम्बुदवृन्दनद्धं नभः पतिष्यन्तमिवाभिवीक्ष्य ।
निपानगम्भीरमभिन्नवृष्टं मनोहरं चारुमुखस्तनोरु ॥ १९॥
बलाकमालाकुलमाल्यदाम्ना निरीक्ष रम्यं घनवृन्दमेतत् ।
सस्यानि भूमावभिवर्षमाणं जगद्धितार्थं विमलाङ्गयष्टे ॥ २.९५.२०॥
जलावलम्बाम्बुदवृन्दकर्षी घनैर्घनान् योधयतीव वायुः ।
प्रवृत्तचक्रो नृपतिर्वनस्थान् गजान्गजैः स्वैरिव वीर्यदृप्तान् ॥ २१॥
अभौममम्भो विसृजन्ति मेघाः पूतं पवित्रं पवनैः सुगन्धि ।
हर्षावहं चातकबर्हिणानां वराण्डजानां जलदप्रियाणाम् ॥ २२॥
प्लवङ्गमः पोडशपक्षशायी विरौति गोष्ठः सहकामिनीभिः ।
ऋचो द्विजातिः प्रियसत्यधर्मा यथा सुशिष्यैः परिवार्यमाणः ॥ २३॥
गुणो महांस्तोयदकालजोऽयमबुद्धमेघस्वनभीषितानाम् ।
परिष्वजन्तः परिवर्द्धयन्ति विनापि शय्यासमयं प्रियाणाम् ॥ २४॥
दोषोऽयमेकः सलिलागमस्य मां प्रत्युदारान्वयवर्णशीले ।
न दृश्यते यत् तव वक्त्रतुल्यो धनग्रहग्रस्ततनुः शशाङ्कः ॥ २५॥
प्रदृश्यते भीरु यदा शशाङ्को घनान्तरस्थो जगतः प्रदीपः ।
तदानुपश्यन्ति जनाः प्रहृष्टा बन्धुं प्रवासादिव सन्निवृत्तम् ॥ २६॥
विलापसाक्षी प्रियहीनितानां सन्दृश्यते भीरु यदा शशाङ्कः ।
नेत्रोत्सवः प्रोषितकामुकानां दृष्ट्वैव कान्तं भवतीत्यवैमि ॥ २७॥
नेत्रोत्सवः कान्तसमागतानां दावाग्नितुल्यः प्रियहीनितानाम् ।
तेनैव देहेन वराङ्गनानां चन्द्रोऽपि तावत्प्रियविप्रियश्च ॥ २८॥
विनापि चन्द्रेण पुरे पितुस्ते यतः प्रभा चन्द्रगभस्तिगौरी ।
गुणागुणांश्चन्द्रमसा न वेद्मि यतस्ततोऽहं प्रशशंसयिष्ये ॥ २९॥
अवाप यो ब्राह्मणराज्यमीड्यो दुरापमन्यैः सुकृतैस्तपोभिः ।
गायन्ति विप्राः पवमानसंज्ञं समागताः पर्वणि चाप्युदारम् ॥ २.९५.३०॥
पिता बुधस्योत्तरवीर्यकर्मा पुरूरवा यस्य सुतो नृदेवः ।
प्राणाग्निरीड्योऽग्निमजीजनद् यो नष्टं शमीगर्भभवं भवात्मा ॥ ३१॥
तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम् ।
पीतः पुरा योऽमृतसर्वदेहो मुनिप्रवीरैर्वरगात्रि घोरैः ॥ ३२॥
नृपः कुशाग्रैः पुनरेव यश्च धीमानतोऽग्निर्दिवि पूज्यते च ।
आयुश्च वंशे नहुषश्च यस्य यो देवराजत्वमवाप वीरः ॥ ३३॥
देवातिदेवो भगवान् प्रसूतो वंशे हरिर्यत्र जगत्प्रणेता ।
भैमः प्रवीरः सुरकार्यहेतोर्यः सुभ्रुदक्षस्य वृतः सुताभिः ॥ ३४॥
बभूव राजाथ वसुश्च यस्य वंशे महात्मा शशिवंशदीपः ।
यश्चक्रवर्तित्वमवाप वीरः स्वैः कर्मभिः शक्रसमप्रभावः ॥ ३५॥
यदुश्च राजा शशिवंशमुख्यो योऽवाप मह्यामधिराजभावम् ।
भोजाः कुले यस्य नराधिपस्य वीराः प्रसूताः सुरराजतुल्याः ॥ ३६॥
न कूटकृद् यस्य नृपोऽस्ति वंशे न नास्तिको नैष्कृतिकोऽपि वाथ ।
अश्रद्दधानोऽप्यथवा कदर्यः शौर्येण वा वारिरुहाक्षि हीनः ॥ ३७॥
वंशे वधूस्त्वं कमलायताक्षि श्लाघ्या गुणानामतिपात्रभूता ।
कुरु प्रणामं शिखराग्रदन्ति तस्य त्वमीशस्य सतां प्रियस्य ॥ ३८॥
नारायणायात्मभवायनाय लोकायनाय त्रिदशायनाय ।
खगेन्द्रकेतोः पुरुषोत्तमाय कुरु प्रणामं श्वशुराय देवि ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नभाषणे पञ्चनवतितमोऽध्यायः ॥ ९५॥
२.९६ षण्णवतितमोऽध्यायः
प्रद्य्म्नदैत्ययुद्धम् Battle between pradyumna and the asura-s
कश्यपेन निषिद्धोपि वज्रनाभस्य त्रिलोकविजयाय प्रस्थानं, श्रीकृष्ण-इन्द्राभ्यां प्रद्युम्नाय सन्देशदानं एवं तेषां सन्ततीनां प्रभावस्य उल्लेखं, दैत्येभिः प्रद्युम्नादीनां पुत्राणां बन्धनं, प्रभावत्यादिना स्वपतीन् असीन् प्रदत्वा युद्धाय प्रेषणम्, इन्द्रेण तेषां साहाय्यं एवं प्रद्युम्नस्य अद्भुतं पराक्रमम् ।
वैशम्पायन उवाच ।
सत्रावसाने च मुनेः कश्यपस्यातितेजसः ।
जग्मुर्देवासुराः स्वानि स्थानान्यमितविक्रमाः ॥ १॥
वज्रनाभोऽपि निर्वृत्ते सत्रे कश्यपमभ्यगात् ।
त्रैलोक्यविजयाकाङ्क्षी तमुवाचाथ कश्यपः ॥ २॥
वज्रनाभ निबोध त्वं श्रोतव्यं यदि चेन्मम ।
वस वज्रपुरे पुत्र स्वजनेन समावृतः ॥ ३॥
तपसाभ्यधिकः शक्रः शक्तश्चैव स्वभावतः ।
ब्रह्मण्यश्च कृतज्ञश्च ज्येष्ठः श्रेष्ठतमो गुणैः ॥ ४॥
राजा कृत्स्नस्य जगतः पात्रभूतः सतां गतिः ।
सम्प्राप्तो लोकराज्यं स सर्वभूतहिते रतः ॥ ५॥
नैव शक्यस्त्वया जेतुं वज्रनाभ विहन्यसे ।
अहिं पदा व्युत्क्रमन्वै नचिराद् विनशिष्यसि ॥ ६॥
वज्रनाभश्च तद्वाक्यं नाभिनन्दति भारत ।
कालपाशपरीताङ्गो मर्तुकाम इवौषधम् ॥ ७॥
अभिवाद्य स दुर्बुद्धिः कश्यपं लोकभावनम् ।
त्रैलोक्यविजयारम्भे मतिं चक्रे दुरासदः ॥ ८॥
ज्ञातियोधान् समानीय मित्राणि सुबहूनि च ।
प्रतस्थे स्वर्गमेवाग्रे विजिगीषन् विशाम्पते ॥ ९॥
एतस्मिन्नन्तरे देवौ कृष्णेन्द्रौ च महाबलौ ।
प्रेषयामासतुर्हंसान् वज्रनाभवधं प्रति ॥ २.९६.१०॥
समागतास्तु तच्छ्रुत्वा यदुमुख्या महाबलाः ।
मन्त्रयित्वा महात्मानश्चिन्तामापेदिरे तथा ॥ ११॥
वज्रनाभोऽद्य हन्तव्यः प्रद्युम्नेनेत्यसंशयम् ।
तयोर्दुहितरो भार्या भक्त्या ताः सर्वभावनाः ॥ १२॥
सर्वाः सगर्भास्ताश्चैव किं नु कार्यमनन्तरम् ।
प्राप्तः प्रसवकालश्च तासां नातिचिरादिव ॥ १३॥
सम्मन्त्रयित्वैतदर्थं हंसानूचुर्महाबलाः ।
आख्येयमर्थवत् कृत्स्नं शक्रकेशवयोस्तदा ॥ १४॥
हंसैर्गत्वा तदाख्यातं देवयोस्तद् यथातथम् ।
ताभ्यां हंसास्तु सन्दिष्टा न भेतव्यमिति प्रभो ॥ १५॥
उत्पत्स्यन्ति गुणैः श्लाघ्याः पुत्रा वः कामरूपिणः ।
गर्भस्थाः सर्ववेदांश्च साङ्गान्वेत्स्यन्त्यनिन्दिताः ॥ १६॥
तथा चानागतं सर्वमस्त्राणि विविधानि च ।
सद्य एव युवानश्च भविष्यन्ति सुपण्डिताः ॥ १७॥
एवमुक्ता गता हंसाः पुनर्वज्रपुरं विभो ।
शशंसुश्चैव भैमानां शक्रकेशवभाषितम् ॥ १८॥
प्रभावती तदा पुत्रं सुषुवे सदृशं पितुः ।
सद्यो यौवनसम्प्राप्तं सर्वज्ञत्वं च भारत ॥ १९॥
मासमात्रेण सुषुवे देवी चन्द्रवती नृप ।
चन्द्रप्रभमिति ख्यातं तनयं सदृशं पितुः ॥ २.९६.२०॥
सद्यश्च यौवनं प्राप्तं सर्वज्ञत्वं च भारत ।
गुणवत्यपि पुत्रं च गुणवन्तमनिन्दिता ॥ २१॥
युवानावथ सद्यस्तौ सर्वशास्त्रार्थकोविदौ ।
इन्द्रोपेन्द्रप्रसादेन संवृत्तौ युद्धवर्द्धनौ ॥ २२॥
हर्म्यपृष्ठे वर्द्धमाना दृष्टास्ते यदुनन्दनाः ।
इन्द्रोपेन्द्रेच्छया वीर नान्यथेत्यवधार्यताम् ॥ २३॥
निवेदिताश्च सम्भ्रान्तैर्दैत्यैराकाशरक्षिभिः ।
वज्रनाभाय वीराय त्रिविष्टपजयैषिणे ॥ २४॥
वधाय सर्वे गृह्यन्तां ममैते गृहधर्षकाः ।
इत्युवाचासुरपतिर्वज्रनाभो महासुरः ॥ २५॥
ततः सैन्यं समाज्ञप्तमसुरेन्द्रेण धीमता ।
आवारयामास दिशः सर्वाः कुरुकुलोद्वह ॥ २६॥
गृह्यन्तामाशु वध्यन्तामिति वाचस्ततस्ततः ।
उच्चेरुरसुरेन्द्रस्य शासनादरिशासिनः ॥ २७॥
तच्छ्रुत्वा व्यथितास्तेषां मातरः पुत्रवत्सलाः ।
रुरुदुस्ता रुदन्तीश्च प्रद्युम्नः प्रहसन् ब्रवीत् ॥ २८॥
मा भैष्ट जीवमानेषु स्थितेष्वस्मासु सर्वथा ।
किं नो दैत्याः करिष्यन्ति सर्वथा भद्रमस्तु वः ॥ २९॥
प्रभावतीमथोवाच प्रद्युम्नो विप्लवां स्थिताम् ।
पिता तव गदापाणिः पितृव्याश्च स्थितास्तव ॥ २.९६.३०॥
भ्रातरश्चैव ते देवि ज्ञातयश्च तथापरे ।
एते पूज्याश्च मान्याश्च तवार्थे खलु सर्वथा ॥ ३१॥
भगिन्यौ पृच्छ भद्रं ते कालोऽयं खलु दारुणः ।
मरणं सहमानानां युद्ध्यतां विजयो ध्रुवम् ॥ ३२॥
दानवेन्द्रादयो ह्येते योत्स्यन्तेऽस्मद्वधैषिणः ।
किमत्र कार्यमस्माभिः सर्वैश्चक्रान्तरस्थितैः ॥ ३३॥
प्रभावती रुदन्ती तु प्रद्युम्नमिदमब्रवीत् ।
शिरस्यञ्जलिमाधाय जानुभ्यां पतिता क्षितौ ॥ ३४॥
गृहाण शस्त्रमात्मानं रक्ष शत्रुनिबर्हण ।
जीवन् पुत्रांश्च दारांश्च द्रष्टासि यदुनन्दन ॥ ३५॥
आर्यां नृवर वैदर्भीमनिरुद्धं च मानद ।
स्मृत्वैतन्मोक्षयात्मानं व्यसनादरिमर्दन ॥ ३६॥
दुर्वाससा वरो दत्तो मुनिना मम धीमता ।
वैधव्यरहिता हृष्टा जीवपुत्रा भविष्यसि ॥ ३७॥
एष मे हृदयाश्वासो भविता न तदन्यथा ।
सूर्याग्नितेजसो वाक्यं मुनेरिन्द्रानुजात्मज ॥ ३८॥
इत्युक्त्वाथासिमादाय सूपस्पृष्ट्वा मनस्विनी ।
प्रददौ रौक्मिणेयाय जयस्वेति वरं वरा ॥ ३९॥
स तं जग्राह धर्मात्मा प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा दत्तं प्रियया भक्तियुक्तया ॥ २.९६.४०॥
चन्द्रवत्यपि निस्त्रिंशं गदाय प्रददौ मुदा ।
तदा गुणवती चैव साम्बायासिं महात्मने ॥ ४१॥
हंसकेतुमथोवाच प्रद्युम्नः प्रणतं प्रभुः ।
इहैव साम्बसहितो युध्यस्व सह यादवैः ॥ ४२॥
आकाशे दिक्षु सर्वासु योत्स्याम्यहमरिन्दम ।
इत्युक्त्वाथ रथं चक्रे मायया मायिनां वरः ॥ ४३॥
सहस्रशिरसं नागं कृत्वा सारथिमात्मवान् ।
अनन्तभोगं कौरव्य सर्वनागोत्तमोत्तमम् ॥ ४४॥
स तेन रथमुख्येन हर्षयन् वै प्रभावतीम् ।
चचारासुरसैन्येषु तृणेष्विव हुताशनः ॥ ४५॥
शरैराशीविषप्रख्यैरर्द्धचन्द्रानुकारिभिः ।
भेदनैर्गाधनैश्चैव ततर्द दितिसम्भवान् ॥ ४६॥
असुराश्च रणे मत्ताः कार्ष्णिं शस्त्रैरितस्ततः ।
जघ्नुः कमलपत्राक्षं परं निश्चयमास्थिताः ॥ ४७॥
चिच्छेद बाहून् केषाञ्चित्केयूरवलयोज्ज्वलान् ।
सकुण्डलानि केषाञ्चिच्छिरांस्यपि च चिच्छिदे ॥ ४८॥
क्षुरच्छिन्नैः शिरोभिश्च कायैश्च शकलैरपि ।
असुराणां मही कीर्णा प्रद्युम्नेनातितेजसा ॥ ४९॥
देवेश्वरो देवगणैः सहितः समितिञ्जयः ।
ददर्श मुदितो युद्धं भैमानां दितिजैः सह ॥ २.९६.५०॥
ये गदं चैव साम्बं च दैत्याः समभिदुद्रुवुः ।
ते ययुर्निधनं सर्वे यादांसीव महोदधौ ॥ ५१॥
विषमं तु तदा युद्धं दृष्ट्वा देवपतिर्हरिः ।
गदाय प्रेषयामास स्वं रथं हरिवाहनः ॥ ५२॥
दिदेश मातलिसुतं यन्तारं च सुवर्चसम् ।
साम्बायैरावणं नागं प्रेषयामास चेश्वरः ॥ ५३॥
जयन्तं रौक्मिणेयस्य सहायमददाद् विभुः ।
ऐरावणमधिष्ठातुं प्रवरं स नियुक्तवान् ॥ ५४॥
देवपुत्रद्विजौ वीरावप्रमेयपराक्रमौ ।
अनुज्ञाप्य सुराध्यक्षं ब्रह्माणं लोकभावनम् ॥ ५५॥
तं मातलिसुतं चैव गजमैरावणं तदा ।
देवः प्रेषितवाञ्छक्रो विधिज्ञो वरकर्मसु ॥ ५६॥
क्षीणमस्य तपो वध्यो यदूनामेष दुर्मतिः ।
प्रवदन्ति तु भूतानि सर्वत्र तु यथेप्सितम् ॥ ५७॥
प्रद्युम्नश्च जयन्तश्च प्राप्तौ हर्म्यं महाबलौ ।
असुराञ्च्छरजालौघैर्विक्राम्यन्तौ प्रणश्यतुः ॥ ५८॥
गदं कार्ष्णिस्तदोवाच दुर्वार्यरणदुर्जयः ।
उपेन्द्रानुज शक्रेण रथोऽयं प्रेषितस्तव ॥ ५९॥
हरियुङ्मातलिसुतो यन्ता चायं महाबलः ।
प्रवराधिष्ठितश्चायं साम्बस्यैरावणो गजः ॥ २.९६.६०॥
अद्योपहारो रुद्रस्य द्वारकायां महाबलः ।
श्व एष्यति हृषीकेशस्तस्मिन् वृत्तेऽच्युतानुज ॥ ६१॥
तस्याज्ञया वधिष्यामो वज्रनाभं सबान्धवम् ।
अभ्युत्थानकृतं पापं त्रिविष्टपजयं प्रति ॥ ६२॥
करिष्यामि विधानं तु नैष शक्रं सुतान्वितम् ।
विजेष्यत्यप्रमादस्तु कर्तव्य इति मे मतिः ॥ ६३॥
कलत्ररक्षणं कार्यं सर्वोपायैर्नरैर्बुधैः ।
कलत्रधर्षणं लोके मरणादतिरिच्यते ॥ १४॥
एवं सन्दिश्य भैमः स गदसाम्बौ महाबलः ।
प्रद्युम्नकोट्यः ससृजे मायया दिव्यरूपया ॥ ६५॥
तमश्च नाशयामास दैत्यसृष्टं दुरासदम् ।
जहृषे देवराजश्च तं दृष्ट्वा रिपुमर्दनम् ॥ ६६॥
ददृशुः सर्वभूतानि कार्ष्णिं सर्वेषु शत्रुषु ।
अन्तरात्मनि वर्तन्तं क्षेत्रज्ञमिव तं विदुः ॥ ६७॥
एवं व्यतीता रजनी रौक्मिणेयस्य युध्यतः ।
असुराणां त्रिभागश्च निहतश्चातितेजसा ॥ ६८॥
यावद् वियोधयामास कार्ष्णिर्दैत्यान् रणाजिरे ।
सन्ध्योपास्ता जयन्तेन तावद् विष्णुपदीजले ॥ ६९॥
अयोधयज्जयन्तश्च यावद् दैत्यान् महाबलः ।
तावदाकाशगङ्गायां भैमः सन्ध्यामुपास्तवान् ॥ २.९६.७०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नदैत्ययुद्धे षण्णवतितमोऽध्यायः ॥ ९६॥
२.९७ सप्तनवतितमोऽध्यायः
वज्रनाभवधः Slaying of vajranAbha together with deva-s kashyapa and aditi go to brahma
प्रद्युम्नेन वज्रनाभस्य वधं, प्रद्युम्नादीनां पुत्राणां राज्याभिषेकः
वैशम्पायन उवाच ।
जगतश्चक्षुषि ततो मुहूर्ताभ्युदिते रवौ ।
प्रादुरासीद्धरिर्देवस्तार्क्ष्येणोरगशत्रुणा ॥ १॥
हंसत्रायुमनोभिश्च सुशीघ्रतरगः खगः ।
तस्थौ वियति शक्रस्य समीपे कुरुनन्दन ॥ २॥
समेत्य च यथान्यायं कृष्णो वासवसन्निधौ ।
पाञ्चजन्यं हरिर्दध्मौ दैत्यानां भयवर्द्धनम् ॥ ३॥
तं श्रुत्वाभ्यागतस्तत्र प्रद्युम्नो परवीरहा ।
वज्रनाभं जहीत्युक्तः केशवेन त्वरेति च ॥ ४॥
तार्क्ष्यमारुह्य गच्छेति पुनरेव प्रणोदितः ।
चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ ॥ ५॥
स मनोरंहसा वीर तार्क्ष्येणाशु ययौ नृप ।
अभ्याशं वज्रनाभस्य महाद्वन्द्वस्य भारत ॥ ६॥
ततस्तार्क्ष्यगतो वीरस्ततर्द राणमूर्द्धनि ।
वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविदनिन्दितः ॥ ७॥
तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना ।
उरस्यभ्याहतो वीरो वज्रनाभो महात्मना ॥ ८॥
स तेनाभिहतो वीरो दैत्यो मोहवशं गतः ।
चक्षार च भृशं रक्तं बभ्रामैव गतासुवत् ॥ ९॥
आश्वसेत्यथ तं कार्ष्णिरुवाच रणदुर्जयः ।
लब्धसंज्ञः स वीरस्तु प्रद्युम्नमिदमब्रवीत् ॥ २.९७.१०॥
साधु यादव वीर्येण श्लाघ्यो मम रिपुर्भवान् ।
प्रतिप्रहारकालोऽयं स्थिरो भव महाबल ॥ ११॥
एवमुक्त्वा महानादं मुक्त्वा मेघशतोपमम् ।
गदां मुमोच वेगेन सघण्टां बहुकण्टकाम् ॥ १२॥
तया ललाटेऽभिहतः प्रद्युम्नो गदया नृप ।
उद्वमन् रुधिरं भूरि मुमोह यदुनन्दनः ॥ १३॥
तं दृष्ट्वा भगवान् कृष्णः पाञ्चजन्यं जलोद्भवम् ।
दध्मावाश्वासनकरं पुत्रस्य रिपुनाशनः ॥ १४॥
तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् ।
दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ ॥ १५॥
तस्य चक्रं करे यातं कृष्णच्छन्देन भारत ।
क्षुरनेमिसहस्रारं दैत्यसङ्घकुलान्तकम् ॥ १६॥
तन्मुमोचाच्युतसुतस्तस्य नाशाय भारत ।
नमस्कृत्वा सुरेन्द्राय कृष्णाय च महात्मने ॥ १७॥
वज्रनाभस्य तत्कायादुच्चकर्त शिरस्तदा ।
नारायणसुतोन्मुक्तं दैत्यानामनुपश्यताम् ॥ १८॥
गदः सुनाभमवधीद् यतमान रणाजिरे ।
हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम् ॥ १९॥
साम्बः समरमध्यस्थानसुरानरिमर्दनः ।
निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम् ॥ २.९७.२०॥
निकुम्भोऽपि हते वीरे वज्रनाभे महासुरे ।
जगाम षट्पुरं वीरो नारायणभयार्दितः ॥ २१॥
निबर्हिते देवरिपौ वज्रनाभे महासुरे ।
अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा ॥ २२॥
लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ ।
सान्त्वयामासतुश्चैव बालवृद्धं भयार्दितम् ॥ २३॥
इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ ।
आयत्यां च तदात्वे च नृहस्पतिमतानुगौ ॥ २४॥
वज्रनाभस्य तद् राज्यं चतुर्धा चक्रतुर्नृप ।
विजयस्य चतुर्भागं जयन्ततनयस्य वै ॥ २५॥
प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च ।
चन्द्रप्रभस्य ददतुश्चतुर्भागं जनेश्वर ॥ २६॥
कोट्यश्चतस्रो ग्रामाणामधिकास्ता विशाम्पते ।
शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् ।
चतुर्धा चक्रतुस्तत्र संहृष्टौ शक्रकेशवौ ॥ २७॥
कम्बलाजिनवासांसि रत्नानि विविधानि च ।
चतुर्द्धा चक्रतुर्वीरौ वीर वासवकेशवौ ॥ २८॥
ततोऽभिषिक्तास्ते वीरा राजानो वासवाज्ञया ।
देवदुन्दुभिवाद्येन नृप विष्णुपदीजलैः ॥ २९॥
स्वयं शक्रेण देवेन केशवेन च धीमता ।
ऋषिवंशे महात्मानः शक्रमाधवनन्दनाः ॥ २.९७.३०॥
विजयस्य प्रसिद्धेव गतिर्वियति धीमतः ।
मातृजेन गुणेनापि माधवानां महात्मनाम् ॥ ३१॥
अभिषिच्य जयन्तं तु वासवो भगवान् ब्रवीत् ।
त्वयैते वीर संरक्ष्या राजानः समितिञ्जयाः ॥ ३२॥
मम वंशकरोऽत्रैकः केशवस्य त्रयोऽनघ ।
अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया ॥ ३३॥
गमनागमनं चैव दिवि सिद्धं भविष्यति ।
त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम् ॥ ३४॥
दिशागजसुतान् नागान् हयांश्चोच्चैःश्रवोऽन्वयान् ।
इच्छयैषां प्रयच्छस्व रथांस्त्वष्टृकृतानपि ॥ ३५॥
गजावैरावणसुतौ शत्रुञ्जयरिपुञ्जयौ ।
प्रयच्छाकाशगौ वीर साम्बस्य च गदस्य च ॥ ३६॥
आकाशेन पुरीं यातु द्वारकां भैमरक्षिताम् ।
आयातु च सुतौ द्रष्टुं यथेष्टं भैमनन्दनौ ॥ ३७॥
इति सन्दिश्य भगवान् देवराजः पुरन्दरः ।
जगाम भगवान् स्वर्गं द्वारकामपि केशवः ॥ ३८॥
षण्मासानुषितस्तत्र गदः प्रद्युम्न एव च ।
साम्बश्च द्वारकां याता रूढे राज्ये महाबलाः ॥ ३९॥
अद्यापि तानि राज्यानि मेरोः पार्श्वे तथोत्तरे ।
तिष्ठन्ति च जगद् यावत् स्थास्यन्त्यमरसन्निभ ॥ २.९७.४०॥
निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु ।
गदप्रद्युम्नसाम्बास्ते गता वज्रपुरं विभो ॥ ४१॥
ततः प्रोष्य पुनर्यान्ति स्वर्ग स्वैः कर्मभिः शुभैः ।
प्रसादेन च कृष्णस्य लोककर्तुर्जनेश्वर ॥ ४२॥
प्रद्युम्नोत्तरमेतत् ते नृदेव कथितं मया ।
धन्यं यशस्यमायुष्यं शत्रुनाशनमेव च ॥ ४३॥
पुत्रपौत्रा विवर्धन्ते आरोग्यधनसम्पदः ।
यशो विपुलमाप्नोति द्वैपायनवचो यथा ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभवधो नाम सप्तनवतितमोऽध्यायः ॥ ९७॥
२.९८ अष्टनवतितमोऽध्यायः
पुनर्विशेषतो द्वारवतीनिर्माणम् DvAravati beautified again
इन्द्रस्याज्ञया विश्वकर्मणा पुनः परिष्कृतायाः द्वारकापुर्याः वर्णनं
वैशम्पायन उवाच ।
ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः ।
देवसद्मप्रतीकाशां समन्तात् प्रतिनादिताम् ॥ १॥
मणिपर्वतयन्त्राणि तथा क्रीडागृहाणि च ।
उद्यानवनमुख्यानि वलभीचत्वराणि च ॥ २॥
सम्प्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने ।
विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् ॥ ३॥
प्रियमिच्छसि चेत् कर्तुं मह्यं शिल्पवतां वर ।
कृष्णप्रियार्थं भूयस्त्वं प्रकुरुष्व मनोहराम् ॥ ४॥
उद्यानशतसम्बाधां द्वारकां स्वर्गसम्मिताम् ।
कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा ॥ ५॥
यत्किञ्चित् त्रिषु लोकेषु रत्नभूतं प्रपश्यसि ।
तेन संयुज्यतां क्षिप्रं पुरीं द्वारवतीं त्वया ॥ ६॥
कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः ।
सङ्ग्रामान् घोररूपांश्च विगाहति महाबलः ॥ ७॥
तामिन्द्रवचनाद् गत्वा विश्वकर्मा पुरीं ततः ।
अलञ्चक्रे समन्ताद् वै यथेन्द्रस्यामरावती ॥ ८॥
तां ददर्श दशार्हाणामीश्वरः पक्षिवाहनः ।
विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलङ्कृताम् ॥ ९॥
तां तदा द्वारकां दृष्ट्वा प्रभुर्नारायणो विभुः ।
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे ॥ २.९८.१०॥
सोऽपश्यद्वृक्षखण्डांश्च रम्यान् दृष्टिमनोहरान् ।
द्वारकां प्रति दाशार्हश्चित्रितां विश्वकर्मणा ॥ ११॥
पद्मखण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् ॥ १२॥
प्राकारेणार्कवर्णेन शातकौम्भेन राजता ।
चयमूर्घ्नि निविष्टेन द्यां यथैवाभ्रमालया ॥ १३॥
काननैर्नन्दनप्रख्यैस्तथा चैत्ररथोपमैः ।
बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुदैः ॥ १४॥
वभौ रैवतकः शैलो रम्यसानुगुहाजिरः ।
पूर्वस्यां दिशि लक्ष्मीवान् मणिकाञ्चनतोरणः ॥ १५॥
दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते ।
इन्द्रकेतुप्रतीकाशः पश्चिमां दिशमाश्रितः ।
सुकक्षो राजतः शैलश्चित्रपुष्पमहावनः ॥ १६॥
उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् ।
मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभ ॥ १७॥
चित्रकं पञ्चवर्णं च पाञ्चजन्यं वनं महत् ।
सर्वर्तुकवनं चैव भाति रैवतकं प्रति ॥ १८॥
लतावेष्टितपर्यन्तं मेरुप्रभवनं महत् ।
भाति भानुवनं चैव पुष्पकं च महद् वनम् ॥ १९॥
अक्षकैर्बीजकैश्चैव मन्दारैश्चोपशोभितम् ।
शतावर्तवनं चैव करवीराकरं तथा ॥ २.९८.२०॥
भाति चैत्ररथं चैव नन्दनं च वनं महत् ।
रमणं भावनं चैवं वेणुमन्तं समन्ततः ॥ २१॥
वैडूर्यपत्रैर्जलजैस्तदा मन्दाकिनी नदी ।
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत ॥ २२॥
सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः ।
बहुभिर्देवगन्धर्वैश्चोदितैर्विश्वकर्मणा ॥ २३॥
महानदी द्वारवतीं पञ्चाशद्भिर्महामुखैः ।
प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः ॥ २४॥
अप्रमेयां महोत्सेधामगाधपरिखायुताम् ।
प्राकारवरसम्पन्नां सुधापाण्डुरलेपनाम् ॥ २५॥
तीक्ष्णयन्त्रशतघ्नीभिर्हेमजालैश्च भूषिता ।
आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम् ॥ २६॥
अष्टौ रथसहस्राणि नगरे किङ्किणीकिनाम् ।
समुच्छ्रितपताकानि यथा देवपुरे तथा ॥ २७॥
अष्टयोजनविस्तीर्णामचलां द्वादशायताम् ।
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् ॥ २८॥
अष्टमार्गमहारथ्यां महाषोडशचत्वराम् ।
एवम्मार्गपरिक्षिप्तां साक्षादुशनसा कृताम् ॥ २९॥
स्त्रियोऽपि यस्यां युध्येरन् किमु वृष्णिमहारथाः ।
व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः ॥ २.९८.३०॥
तत्र वै विहिताः साक्षाद् विविधा विश्वकर्मणा ।
तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् ॥ ३१॥
वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः ।
काञ्चनैर्मणिसोपानैरुपेतानि नृहर्षणैः ॥ ३२॥
भीमघोषमहाघोषैः प्रासादवरचत्वरैः ।
समुच्छ्रितपताकानि पारिप्लववनानि च ॥ ३३॥
काञ्चनाग्राणि भास्वन्ति प्रासादशिखराणि च ।
गृहाणि रमणीयानि मेरुकूटनिभानि च ॥ ३४॥
पाण्डुपाण्डुरशृङ्गैश्च शातकुम्भपरिष्कृतैः ।
रन्नसानुगुहाशृङ्गैर्विचित्रैरिव पर्वतैः ॥ ३५॥
पञ्चवर्णैः सुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः ॥ ३६॥
दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा ।
आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ॥ ३७॥
तैर्दाशार्हैर्महाभागैर्बभासे तद्वनद्रुमैः ।
वासुदेवेन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता ॥ ३८॥
ददृशे द्वारका चारुमेघैर्द्यौरिव संवृता ।
साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा ॥ ३९॥
ददृशे वासुदेवस्य चतुर्योजनमायतम् ।
तावदेव च विस्तीर्णमप्रमेयमहाधनम् ॥ २.९८.४०॥
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ।
यश्चकार महाभागस्त्वष्टा वासवनोदितः ॥ ४१॥
प्रासादं चैव हेमाभं सर्वभूतमनोहरम् ॥ ४२॥
मेरोरिव गिरः शृङ्गमुच्छ्रितं काञ्चनं महत् ।
रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा ॥ ४३॥
सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् ।
विचित्रमणिसोपानं तद् विदुर्भोगवानिति ॥ ४४॥
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तसञ्जवनोद्देशो यश्चतुर्दिङ्महाध्वजः ॥ ४५॥
स च प्रासादमुख्योऽथ जाम्बवत्या विभूषितः ।
प्रभयाभ्यभवत् सर्वांस्तानन्यो भास्करो यथा ॥ ४६॥
उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः ॥
विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः ॥ ४७॥
जाम्बूनद इवादीप्तः प्रदीप्तज्वलनो यथा ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥ ४८॥
तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी ।
गान्धारी भरतश्रेष्ठ केशवेन निवेशिता ॥ ४९॥
पद्मकूल इति ख्यातं पद्मवर्णं महाप्रभम् ।
सुभीमाया महाकूटं वेश्मातिरुचिरप्रभम् ॥ २.९८.५०॥
सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः ।
लक्ष्मणाया नृपश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना ॥ ५१॥
वैडूर्यमणिवर्णाभः प्रासादो हरितप्रभः ।
यं विदुः सर्वभूतानि परमित्येव भारत ॥ ५२॥
वासं तं मित्रविन्दाया देवर्षिगणपूजितम् ।
महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु ॥ ५३॥
यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा ।
अतीव रम्यरम्योऽसौ धिष्ठितः पर्वतो यथा ॥ ५४॥
सुवार्ताया निवासः स प्रशस्तः सर्वदैवतैः ।
महिष्या वासुदेवस्य केतुमानिति विश्रुतः ॥ ५५॥
यस्तु प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम् ।
योजनायतविप्कम्भः सर्वरत्नमयः शुभः ॥ ५६॥
स श्रीमान् विरजा नाम व्यराजत्तत्र सुप्रभः ।
उपस्थानगृहं यत्र केशवस्य महात्मनः ॥ ५७॥
तस्मिन् सुविहिताः सर्वे रुक्मदण्डाः पताकिनः ।
सदने वासुदेवस्य मार्गसञ्जवनध्वजाः ॥ ५८॥
रत्नजालानि दिव्यानि तत्रैव च निवेशिताः ।
आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् ॥ ५९॥
हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति ।
षष्टितालसमुत्सेधमर्धयोजनमायतम् ॥ २.९८.६०॥
सकिन्नरमहानागं तदप्यमिततेजसा ।
पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् ॥ ६१॥
आदित्यपथगं यत् तु मेरोः शिखरमुत्तमम् ।
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ॥ ६२॥
तदप्युत्पाट्य कृष्णार्थमानीतं विश्वकर्मणा ।
भ्राजमानमतीवाग्र्यं सर्वौषधिसमन्वितम् ॥ ६३॥
तदिन्द्रवचनात् त्वष्टा कार्यहेतोः समानयत् ।
पारिजातश्च तत्रैव केशवेनाहृतः स्वयम् ॥ ६४॥
नीयमाने तु तत्रासीद् युद्धमद्भुतकर्मणः ।
कृष्णस्य येऽभ्यरक्षंस्तु देवाः पादपमुत्तमम् ॥ ६५॥
पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ।
विहिता वासुदेवार्थं रत्नपुष्पफलद्रुमाः ॥ ६६॥
पद्मखण्डजलोपेता रत्नसौगन्धिकोत्पलाः ।
मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च ॥ ६७॥
तासां परमकूलानि शोभयन्ति महाद्रुमाः ।
शालास्तालाः कदम्बाश्च शतशाखाश्च रौहिणाः ॥ ६८॥
ये च हैमवता वृक्षा ये च मेरुरुहास्तथा ।
आहृत्य यदुसिंहार्थं विहिता विश्वकर्मणा ॥ ६९॥
रक्तपीतारुणश्यामाः श्वेतपुष्पाश्च पादपाः ।
सर्वर्तुफलसम्पन्नास्तेषु काननसन्धिषु ॥ २.९८.७०॥
समकूलजलोपेताः शान्तशर्करवालुकाः ।
तस्मिन् पुरवरे नद्यः प्रसन्नसलिला ह्रदाः ॥ ७१॥
पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः ।
अपराश्चाभवन् नद्यो हेमशर्करवालुकाः ॥ ७२॥
मत्तबर्हिणसङ्घैश्च कोकिलैश्च सदामदैः ।
बभूवुः परमोपेतास्तस्यां पुर्यां च पादपाः ॥ ७३॥
तत्रैव गजयूथानि पुरे गोमहिषास्तथा ॥
निवासश्च कृतस्तत्र वराहमृगपक्षिभिः ॥ ७४॥
पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः ।
व्यक्तः किष्कुशतोत्सेधो विहितो विश्वकर्मणा ॥ ७५॥
अतीव रम्यः सोऽथासीद् वेष्टितः पर्वतो यथा ।
ते च ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि भौमेन वनान्युपवनानि च ॥ ७६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारका विशेषनिर्माणं नामाष्टनवतितमोऽध्यायः ॥ ९८॥
२.९९ नवनवतितमोऽध्यायः
कृष्णस्य द्वारकाप्रवेशः KRiShNa enters dvAraka
श्रीकृष्णस्य द्वारकायां अन्तःपुरे च प्रवेशं, मणिपर्वतस्य एवं पारिजातस्य
यथोचिते स्थाने स्थापनं
वैशम्पायन उवाच ।
एवमालोकयानः स द्वारकां वृषभेक्षणः ।
अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् ॥ १॥
मणिस्तम्भसहस्राणामयुतैर्विवृतं शतैः ।
तोरणैर्ज्वलनप्रख्यैर्मणिविद्रुमराजतैः ॥ २॥
तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः ।
प्रासादस्तत्र सुमहान् कृष्णोपस्थानिकोऽभवत् ॥ ३॥
स्फाटिकस्तम्भविवृतो विस्तीर्णः सर्वकाञ्चनः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥ ४॥
मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः ।
मत्तबर्हिणजुष्टाश्च कोकिलैश्च सदामदैः ॥ ५॥
बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः ।
विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः ॥ ६॥
व्यक्तकिष्कुशतोत्सेधः परिखापरिवेष्टितः ।
तद् गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा ॥ ७॥
महेन्द्रसदृशं वेश्म समन्तादर्धयोजनम् ।
ततस्तं पाण्डुरं शौरिर्मूर्ध्नि तिष्ठन् गरुत्मतः ॥ ८॥
प्रीतः शङ्खमुपाध्मासीद् द्विषतां रोमहर्षणम् ।
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् ।
ररास च नभः कृत्स्नं तच्चित्रमभवत् तदा ॥ ९॥
पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः ।
विशोकाः समपद्यन्त गरुडस्य च दर्शनात् ॥ २.९९.१०॥
शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् ।
दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम् ॥ ११॥
ततस्तूर्यप्रणादश्च भेरीणां च महास्वनाः ।
जज्ञिरे सिंहनादाश्च सर्वेषां पुरवासिनाम् ॥ १२॥
ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥ १३॥
वासुदेवं पुरस्कृत्य शङ्खतूर्यरवैः सह ।
उग्रसेनो ययौ राजा वसुदेवनिवेशनम् ॥ १४॥
आनन्दिनी पर्यचरत् स्वेषु वेष्मसु देवकी ।
रोहिणी च यशोदा च आहुकस्य च याः स्त्रियः ॥ १५॥
ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्यगात् ।
चचार च यथोद्देशमीश्वरानुचरो हरिः ॥ १६॥
अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः ।
यथार्हं पूजयामास यादवान् यादवर्षभः ॥ १७॥
रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः ।
प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ॥ १८॥
तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ।
प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः ॥ १९॥
तेऽन्योन्यं ददृशुर्वीरा देहबन्धानमानुषान् ।
पारिजातप्रभावेण ततो मुमुदिरे जनाः ॥ २.९९.२०॥
तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवर्षभैः ।
प्रविवेश गृहं श्रीमान् विहितं विश्वकर्मणा ॥ २१॥
ततोऽन्तःपुरमध्ये तं सशृङ्गमणिपर्वतम् ।
न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः ॥ २२॥
तं च दिव्यं द्रुमश्रेष्ठं पारिजातममित्रजित् ।
अर्च्यमर्चितमव्यग्रमिष्टे देशे न्यवेशयत् ॥ २३॥
अनुज्ञाप्य ततो ज्ञातीन् केशवः परवीरहा ।
ताः स्त्रियः पूजयामास संहृता नरकेण याः ॥ २४॥
वस्त्रैराभरणैर्दिव्यैर्दासीभिर्धनसञ्चयैः ।
हारैश्चन्द्राशुसङ्काशैर्मणिभिश्च महाप्रभैः ॥ २५॥
पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः ।
देवक्या सह रोहिण्यां रेवत्या चाहुकेन च ॥ २६॥
सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा ।
कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा ॥ २७॥
तासां यथार्हहर्म्याणि प्रासादशिखराणि च ।
आदिदेश गृहान्कृष्णः पारिबर्हांश्च पुष्कलान् ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारकाप्रवेशनं नाम नवनवतितमोऽध्यायः ॥ ९९॥
२.१०० शततमोऽध्यायः
कृष्णस्य सभाप्रवेशः KRiShNa enters assembly hall
श्रीकृष्णेन समस्तैः यादवैः सह मिलित्वा सम्माननार्थाय तेषां सभायां आमन्त्रणं
वैशम्पायन उवाच ।
ततः सम्पूज्य गरुडं वासुदेवोऽनुमान्य च ।
सखिवच्चोपगृह्यैनमनुजज्ञे गृहं प्रति ॥ १॥
सोऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम् ।
ऊर्ध्वमाचक्रमे पक्षी यथेष्टं गगनेचरः ॥ २॥
स पक्षवातसङ्क्षुब्धं समुद्रं मकरालयम् ।
कृत्वा वेगेन महता ययौ पूर्वमहोदधिम् ॥ ३॥
कृत्यकाले उपस्थास्य इत्युक्त्वा गरुडे गते ।
कृष्णो ददर्श पितरं वृद्धमानकदुन्दुभिम् ॥ ४॥
उग्रसेनं च राजानं बलदेवं च सात्यकिम् ।
काश्यं सान्दीपनिं चैव ब्रह्मगार्ग्यं तथैव च ॥ ५॥
अन्यांश्च वृद्धान्वृष्णीनां तांश्च भोजान्धकांस्तथा ।
रत्नप्रवेकैर्दाशार्हान् वीर्यलब्धैस्तथार्चयत् ॥ ६॥
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः ।
रणात् प्रतिनिवृत्तोऽयमक्षतो मधुसूदनः ॥ ७॥
इति चत्वररथ्यासु द्वारवत्यां सुपूजितः ।
चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः ॥ ८॥
ततः सान्दीपनिं पूर्वमभिगम्य जनार्दनः ।
ववन्दे वृष्णिनृपतिमाहुकं विनयान्वितः ॥ ९॥
तथाश्रुपरिपूर्णाक्षमानन्दागतचेतसम् ।
ववन्दे सह रामेण पितरं वासवानुजः ॥ २.१००.१०॥
उपगम्य तथा शेषान् सत्कृत्य च यथार्हतः ।
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ॥ ११॥
ततः सर्वाणि दिव्यानि सर्वरत्नमयानि च ।
आसनाग्र्याणि विविशुरुपेन्द्रप्रमुखास्तदा ॥ १२॥
ततस्तद्धनमक्षय्यं किङ्करैर्यत्समाहृतम् ।
तत्सभामानयामासुः पुरुषाः कृष्णशासनात् ॥ १३॥
ततः सम्मानयामास दाशार्हांश्च यदूत्तमः ।
सर्वान् दुन्दुभिशब्देन पूजयिष्यञ्जनार्दनः ॥ १४॥
तामासनवतीं रम्यां मणिविद्रुमतोरणाम् ।
सभां सर्वदशार्हास्ते विविशुः कृष्णशासनात् ॥ १५॥
ततः पुरुषसिंहैर्या यदुभिः सर्वतो वृता ।
खर्वार्थगुणसम्पन्ना सा सभा भरतर्षभ ।
शुशुभेऽभ्यधिकं शुभ्रा सिंहैर्गिरिगुहा यथा ॥ १६॥
रामेण सह गोविन्दः काञ्चनं महदासनम् ।
उग्रसेनं पुरस्कृत्य भोजवृष्णिपुरस्कतः ॥ १७॥
तत्रोपविष्टांस्तान् वीरान् यथाप्रीति यथावयः ।
समाभाष्य यदुश्रेष्ठानुवाच पुरुषोत्तमः ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि सभाप्रवेशनं नाम शततमोऽध्यायः ॥ १००॥
२.१०१ एकाधिकशततमोऽध्यायः
कृष्णपराक्रमवर्णनम् KRiShNa's valour lauded
श्रीकृष्णेन यादवानां सत्कारं, नारदेन यादवानां सभायां श्रीकृष्णस्य प्रभावस्य वर्णनं
श्रीकृष्ण उवाच ।
भवतां पुण्यकीर्तीनां तपोबलसमाधिभिः ।
अपध्यानाच्च पापात्मा भौमः स नरको हतः ॥ १॥
मोक्षितं बन्धनाद् गुप्तं कन्यान्तःपुरमुत्तमम् ।
मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् ॥ २॥
अयं धनौघः सुमहान् किङ्करैराहृतो मम ।
ईशा भवन्तो द्रव्यस्य तानुक्त्वा विरराम ह ॥ ३॥
तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः ।
जहृषुर्हृष्टरोमाणः पूजयन्तो जनार्दनम् ॥ ४॥
ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः ।
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ॥ ५॥
यत्कृत्वा दुष्करं कर्म देवैरपि दुरासदम् ।
लालयेः स्वजनान् भोगै रत्नैश्च स्वयमर्जितैः ॥ ६॥
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
प्रीयमाणाः समाजग्मुर्वासुदेवदिदृक्षया ॥ ७॥
देवकीसप्तमा देव्यो रोहिणी च शुभानना ।
ददृशुः कृष्णमासीनं रामं चैव महाभुजम् ॥ ८॥
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभिवादयतां देवीं देवकीं रामकेशवौ ॥ ९॥
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽम्बिका ।
अदितिर्देवमातेव मित्रेण वरुणेन च ॥ २.१०१.१०॥
ततः प्राप्ता नराग्र्यौ तु तस्याः सा दुहिता तदा ।
एकानंशेति यामाहुर्नरा वै कामरूपिणीम् ॥ ११॥
तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वरः ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥ १२॥
सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।
पुत्रवत् पाल्यमाना वै वासुदेवाज्ञया तदा ॥ १३॥
एकानंशेति यामाहुरुत्पन्ना मानवा भुवि ।
योगकन्यां दुराधर्षां रक्षार्थं केशवस्य ह ॥ १४॥
यां चं सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद् दिव्यपुरुषः कृष्णः संरक्षितो यया ॥ १५॥
तां च तत्रोपसङ्गम्य प्रियामिव सखीं स्वसाम् ।
दक्षिणेन कराग्रेण परिजग्राह माधवः ॥ १६॥
तथैव रामोऽतिबलः सम्परिष्वज्य भाविनीम् ।
मूर्ध्न्युपाघ्राय सव्येन प्रतिजग्राह पाणिना ॥ १७॥
ददृशुस्ताः स्त्रियो मध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मव्यग्रकरां स्त्रियं पद्मालयामिव ॥ १८॥
तथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः ।
अवकीर्य च लाजैस्ताः स्त्रियो जग्मुर्यथालयम् ॥ १९॥
ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् ।
उपोपविविशुः प्रीताः प्रशंसन्तोऽद्भुतं कृतम् ॥ २.१०१.२०॥
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विरराज महाकीतिर्देवैरिव स तैः सह ॥ २१॥
समासीनेषु सर्वेषु यादवेषु जनार्दनम् ।
नियोगात्त्रिदशेन्द्रस्य नारदोऽभ्यागमत् सभाम् ॥ २२॥
सोऽथ सम्पूजितः पूज्यः शूरैस्तैर्यदुपुङ्गवैः ।
करं संस्पृश्य स हरेर्विवेश परमासने ॥ २३॥
सुखोपविष्टस्तान् वृष्णीनुपविष्टानुवाच ह ।
सम्प्राप्तं शक्रवचनाज्जानीध्वं मां नरर्षभाः ॥ २४॥
शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम् ।
यानि कर्माणि कृतवान् बाल्यात्प्रभृति केशवः ॥ २५॥
उग्रसेनसुतः कंसः सर्वान् निर्मथ्य यादवान् ।
राज्यं जग्राह दुर्बुद्धिर्बद्ध्वा पितरमाहुकम् ॥ २६॥
समाश्रित्य जरासन्धं श्वशुरं कुलपांसनः ।
भोजवृष्ण्यन्धकान् सर्वानवमन्यत दुर्मतिः ॥ २७॥
ज्ञातिकार्यं चिकीर्षुश्च वसुदेवः प्रतापवान् ।
उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत ॥ २८॥
स गोपः सह धर्मात्मा मथुरोपवने स्थितः ।
अत्यद्भुतानि कर्माणि कृतवान् मधुसूदनः ॥ २९॥
प्रत्यक्षं शूरसेनानां श्रूयते महदद्भुतम् ।
उत्तानेन शयानेन शकटान्तरचारिणा ॥ २.१०१.३०॥
राक्षसी निहता रौद्रा शकुनीवेषधारिणी ।
पूतना नाम घोरा सा महाकाया महाबला ॥ ३१॥
विषदिग्धं स्तनं रौद्रं प्रयच्छन्ती जनार्दने ।
ददृशुर्निहतां तां ते राक्षसीं वनगोचराः ॥ ३२॥
पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ।
अत्यद्भुतमिदं चासीद् यच्छिशुः पुरुषोत्तमः ॥ ३३॥
पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् ।
दाम्ना चोलूखले बद्धो विप्रकुर्वन् कुमारकम् ॥ ३४॥
बभञ्जार्जुनवृक्षौ द्वौ ख्यातो दामोदरस्तदा ।
कालियश्च महानागो दुराधर्षो महाबलः ॥ ३५॥
क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे ।
अक्रूरस्य समक्षं च यन्नागभवने विभुः ॥ ३६॥
पूज्यमानं तदा नागैर्दिव्यं वपुरधारयत् ।
शीतवातार्दिता गाश्च दृष्ट्वा कृष्णेन धीमता ॥ ३७॥
धृतो गोवर्धनः शैलः सप्तरात्रं महात्मना ।
शिशुना वासुदेवेन गवां त्राणार्थमिच्छताम् ॥ ३८॥
तथोक्षदुष्टोऽतिबलो महाकायो नरान्तकृत् ।
गोपतिर्वासुदेवेन हतोऽरिष्टो महासुरः ॥ ३९॥
धेनुकः स महाकायो दानवः सुमहाबलः ।
निहतो वासुदेवेन गवां त्राणाय दुर्मतिः ॥ २.१०१.४०॥
सुनामानममित्रघ्नः सर्वसैन्यपुरस्कृतम् ।
वृकैविद्रावयामास ग्रहीतुं समुपस्थितं ४१॥
रौहिणेयेन सङ्गम्य वने विचरता पुनः ।
गोपवेषधरेणैव कंसस्य भयमाहितम् ॥ ४२॥
तथा व्रजगतः शौरिर्दृष्ट्वा युद्धबलं हयम् ।
प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः ॥ ४३॥
प्रलम्बश्च महाकायो रौहिणेयेन धीमता ।
दानवो मुष्टिनैकेन कंसामात्यो निपातितः ॥ ४४॥
एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ ।
ववृधाते महावीर्यौ ब्रह्मगार्ग्येण संस्कृतौ ॥ ४५॥
जन्मप्रभृति चाप्येतौ गार्ग्येण परमर्षिणा ।
याथातथ्येन विज्ञाप्य संस्कारं प्रतिपादितौ ॥ ४६॥
यदा त्विमौ नरश्रेष्ठौ स्थितौ यौवनसम्मुखे ।
सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा ॥ ४७॥
ततो मनांसि गोपीनां हरमाणौ महाबलौ ।
आस्तां गोष्ठवरौ वीरौ देवपुत्रोपमद्युती ॥ ४८॥
एतौ जये वा युद्धे वा क्रीडासु विविधासु च ।
नन्दगोपस्य गोपाला न शेकुः प्रसमीक्षितुम् ॥ ४९॥
व्यूढोरस्कौ महाबाहू शालस्कन्धाविवोद्गतौ ।
श्रुत्वासौ व्यथितः कंसो मन्त्रिभिः सहितोऽभवत् ॥ २.१०१.५०॥
नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ ।
निजग्राह ततः क्रोधाद् वसुदेवं सबान्धवम् ॥ ५१॥
सहोग्रसेनेन तदा चोरवद् गाढबन्धनम् ।
कालं महान्तमनयत् कृच्छ्रमानकदुन्दुभिः ॥ ५२॥
कंसस्तु पितरं बद्ध्वा शूरसेनाञ्शशास ह ।
जरासन्धं समाश्रित्य तथैवाह्वृतिभीष्मकौ ॥ ५३॥
कस्यचित्त्वथ कालस्य मथुरायां महोत्सवम् ।
पिनाकिनं समुद्दिश्य चक्रे कंसो नराधिपः ॥ ५४॥
तत्र मल्लाः समाजग्मुर्नानादेश्या विशाम्पते ।
नर्तना गायनाश्चैव कुशला नृत्यकर्मसु ॥ ५५॥
ततः कंसो महातेजा रङ्गवाटं महाधनम् ।
कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः ॥ ५६॥
तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः ।
समाकीर्णानि दृश्यन्ते ज्योतींषि गगने यथा ॥ ५७॥
भोजराजः श्रिया जुष्टं रङ्गवाटं महर्द्धिमत् ।
आरुरोह ततः कंसो विमानं सुकृती यथा ॥ ५८॥
रङ्गवाटे गजं मत्तं प्रभूतायुधकल्पितम् ॥
शूरैरधिष्ठितं कंसः स्थापयामास वीर्यवान् ॥ ५९॥
यदा हि स महातेजा रामकृष्णौ समागतौ ।
शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव ॥ २.१०१.६०॥
तदाप्रभृति यत्नोऽभूद् रक्षां प्रति नराधिप ।
न च शिश्ये सुखं रात्रौ रामकृष्णौ विचिन्तयन् ॥ ६१॥
श्रुत्वा तु रामः कृष्णश्च तं समाजमनुत्तमम् ।
उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा ॥ ६२॥
ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ ।
हत्वा कुवलयापीडं ससादिनमरिन्दमौ ।
अवमृद्य दुराधर्षौ रङ्गं विविशतुस्तदा ॥ ६३॥
चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च ।
औग्रसेनिः सुदुष्टात्मा सानुजो विनिपातितः ॥ ६४॥
यत्कृतं यदुसिंहेन देवैरपि सुदुष्करम् ।
कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् ॥ ६५॥
यद्धि नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं प्रापितं वित्तं शौरिणा भवतां कृते ॥ ६६॥
एतेन मुरुमाक्रम्य दैत्यं पञ्चजनं तथा ।
निष्क्रम्य शैलसङ्घातान्निसुन्दः सगणो हतः ॥ ६७॥
नरकश्च हतो भौमः कुण्डले चाहृते शुभे ।
प्राप्तं च दिवि देवेषु केशवेन महद्यशः ॥ ६८॥
वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः ।
यजध्वं विविधैर्यज्ञैर्यादवा वीतमत्सराः ॥ ६९॥
देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता ।
प्रियमावेदयाम्येष भवतां भद्रमस्तु वः ॥ २.१०१.७०॥
यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः ।
भवतामस्मि यूयं च मम युष्मास्वहं स्थितः ॥ ७१॥
इति सम्बोधयन् कृष्णमब्रवीत् पाकशासनः ।
स मां प्रैषीत्सुरश्रेष्ठः प्रीतस्तुष्टास्तथा वयम् ॥ ७२॥
यत्र धीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सन्नतिः ।
सन्नतिर्धीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥ ७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदवाक्यं नामैकाधिकशततमोऽध्यायः ॥ १०१॥
२.१०२ द्व्यधिकशततमोऽध्यायः
नारदवाक्ये कृष्णस्तुतिः NArada praises kRiShNa
नारदेन भगवतः श्रीकृष्णस्य अद्भुतानां कर्मणां वर्णनं
नारद उवाच ।
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेम्यः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ १॥
शौरिणा पृथिवीपालास्त्रासिताः स्पर्द्धिनो रणे ।
धनुषश्च निनादेन पाञ्चजन्यस्वनेन च ॥ २॥
मेघप्रख्यै रथानीकैर्दाक्षिणात्यैः सुरक्षितम् ।
रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् ।
रुक्यिणीमाजहाराशु केशवो वृष्णिपुङ्गवः ॥ ३॥
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
उवाह महिषीं भोज्यां शङ्खचक्रगदासिभृत् ॥ ४॥
जारूथ्यामाह्वृतिः क्राथः शिशुपालश्च निर्जितः ।
वक्रश्च सह सैन्येन शतधन्वाथ निर्जितः ॥ ५॥
इन्द्रद्युम्नो हतः कोपाद् यवनश्च कशेरुमान् ।
हतः सौभपतिः श्रीमाञ्छाल्वश्च दृढधन्वना ॥ ६॥
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः ।
विकीर्य पुण्डरीकाक्षो द्युमत्सेनं व्यपोथयत् ॥ ७॥
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।
जग्राह पुरुषव्याघ्रो वरुणस्याभितश्चरौ ॥ ८॥
इरावत्यां महाभोजावग्निसूर्यसमौ युधि ।
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥ ९॥
अक्षप्रपतने चैव डिम्भो हंसश्च दानवौ ।
उभौ तावपि कृष्णेन सानुगौ विनिपातितौ ॥ २.१०२.१०॥
दग्धा वाराणसी चैव केशवेन महात्मना ।
सराष्ट्रः सानुबन्धश्च काशीनामधिपो हतः ॥ ११॥
विजित्य च यमं सङ्ख्ये शरैः सन्नतपर्वभिः ।
अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा ॥ १२॥
सहितः सर्वयादोभिः सागरेषु महाबलः ।
प्राप्य लोहितकूटं च कृष्णेन वरुणो जितः ॥ १३॥
महेन्द्रभवने जातो देवैर्गुप्तो महात्मभिः ।
अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः ॥ १४॥
पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः ।
जघान सहितान् सर्वान् वङ्गराजं तथैव च ॥ १५॥
एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् ।
गान्धारीमावहद् वीरो महिषीं प्रियदर्शनाम् ॥ १६॥
तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः ।
जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ १७॥
द्रोणं-द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् ।
चक्रानुयानैः प्रहृवणे जिगाय पुरुषोत्तमः ॥ १८॥
बभ्रोश्च प्रियमन्विच्छञ्छङ्खचक्रगदासिभृत् ।
सौवीरराजस्य सुतां प्रसह्य हृतवान् प्रभुः ॥ १९॥
पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् ।
वैणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः ॥ २.१०२.२०॥
अवाप्य तपसो वीर्यं बलमोजश्च माधवः ।
पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः ॥ २१॥
वज्राशनिगदाखड्गैस्त्रासयद्भिश्च दानवैः ।
यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति ॥ २२॥
अभिभूतश्च कृष्णेन सगणः सुमहाबलः ।
बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः ॥ २३॥
पीठं तथा महाबाहुः कंसामात्यं जनार्दनः ।
पैठिकं चासिलोमानं निजघान महाबलः ॥ २४॥
जृम्भमैरावणं चापि विरूपं च महायशाः ।
जघान पुरुषव्याघ्रो दैत्यं मानुषरूपिणम् ॥ २५॥
तथा नागपतिं तोये कालीयं च महौजसम् ।
निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् ॥ २६॥
सञ्जीवयामास मृतं पुत्रं सान्दीपनेस्तथा ।
निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः ॥ २७॥
एवमेष महाबाहुः शास्ता तेषां दुरात्मनाम् ।
देवांश्च ब्राह्मणांश्चैव ये द्विषन्ति सदा नृप ॥ २८॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
देवमातुर्ददौ चैव प्रीत्यर्थं वज्रपाणिनः ॥ २९॥
एवं सदैव दैत्यानां सुराणां च महायशाः ।
भयाभयकरः कृष्णः सर्वलोककरो विभुः ॥ २.१०२.३०॥
संस्थाप्य धर्मान् मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः ।
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते ॥ ३१॥
कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ॥ ३२॥
बहुरत्नसमाकीर्णो चैत्ययूपशताङ्किताम् ।
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् ॥ ३३॥
तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः ।
विसृष्टां वासुदेवेन सागरः प्लावयिष्यति ॥ ३४॥
सुरासुरमनुष्येषु नासीन्न भविता क्वचित् ।
य इमामावसेत्कश्चिदन्यो वै मधुसूदनात् ॥ ३५॥
एवमेष दशार्हाणां विधाय विधिमुत्तमम् ।
विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयं ३६॥
अप्रमेयस्त्वचिन्त्यश्च यथा कामचरो वशी ।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ॥ ३७॥
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
परं ह्यपरमेतस्माद् विश्वरूपान्न विद्यते ॥ ३८॥
श्रुतोऽयमेव शतशस्तथा शतसहस्रशः ।
अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित् ॥ ३९॥
एवमेतानि कर्माणि शिशुमध्यगतस्तदा ।
कृतवान् पुण्डरीकाक्षः सङ्कर्षणसहायवान् ॥ २.१०२.४०॥
इत्युवाच पुरा व्यासस्तपोवीर्येण चक्षुषा ।
महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान् ॥ ४१॥
वैशम्पायन उवाच ।
इति संस्तूय गोविन्दं महेन्द्रवचनान्मुनिः ।
यदुभिः पूजितः सर्वैर्नारदस्त्रिदिवं ययौ ॥ ४२॥
ततस्तद् वसु गोविन्दो दिदेशान्धकवृष्णिषु ।
यथार्हं पुण्डरीकाक्षो विधिवन्मधुसूदनः ॥ ४३॥
यादवाश्च धनं प्राप्य विधिवद् भूरिदक्षिणैः ।
यज्ञैरिष्ट्वा महात्मानो द्वारकामावसन् पुरीम् ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदवाक्यं नाम
द्व्यधिकशततमोऽध्यायः ॥ १०२॥
२.१०३ त्र्यधिकशततमोऽध्यायः
वृष्णिवंशवर्णनम् Narration of the vRiShNi race
श्रीकृष्णस्य सन्ततेः वर्णनं वृष्णिवंशस्य उपसंहारं च ।
जनमेजय उवाच ।
बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः ।
तासामपत्यान्यष्टानां भगवान् प्रब्रवीतु मे ॥ १॥
वैशम्पायन उवाच ।
अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः ।
सर्वा वीरप्रजाश्चैव तास्वपत्यानि मे शृणु ॥ २॥
रुक्मिणी सत्यभामा च देवी नाग्नजिती तथा ।
सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी ॥ ३॥
मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी ।
सुभीमा च तथा माद्री रुक्मिणीतनयाञ्छृणु ॥ ४॥
द्युम्नः प्रथमं जज्ञे शम्बरान्तकरः शुभः ।
द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ॥ ५॥
चारुभद्रश्चारुगर्भः सुदेष्णो द्रुम एव च ।
सुषेणश्चारुगुप्तश्च चारुविन्दश्च वीर्यवान् ॥ ६॥
चारुबाहुः कनीयांश्च कन्या चारुमती तथा ।
जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः ॥ ७॥
रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ।
भानुर्भीमलिका चैव ताम्रपर्णी जलन्धमा ॥ ८॥
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥ ९॥
मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाःशृणु ॥ २.१०३.१०॥
भद्रकारो भद्रविन्दः कन्या भद्रवती तथा ।
सुदत्तायां तु शैब्यायां सङ्ग्रामजिदजायत ॥ ११॥
सत्यजित् सेनजिच्चैव तथा शूरः सपत्नजित् ।
सुभीमायाः सुतो माद्र्या वृकाश्वो वृकनिर्वृतिः ॥ १२॥
कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु ।
गात्रवान् गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान् ॥ १३॥
जज्ञिरे गात्रवत्या च भगिन्याऽनुजया सह ।
अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसम्मितः ॥ १४॥
अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः ।
तं प्रदाय हृषीकेशस्तां भार्यां मुदितोऽब्रवीत् ॥ १५॥
एष वामुभयोरस्तु दायादः शाश्वतीः समाः ।
बृहत्यां तु गदं प्राहुः शैब्यायामङ्गदं सुतम् ॥ १६॥
उत्पन्नं कुमुदं चैव श्वेतं श्वेता तथाङ्गना ।
अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा ॥ १७॥
चित्रसेनः सुदेवायाश्चित्रा चित्रवती तथा ।
वनस्तम्बश्च जज्ञाते सुतः स्तम्बवनश्च ह ॥ १८॥
निवासनोऽवनस्तम्बः कन्या स्तम्बवती तथा ।
उपसन्नश्च शङ्कुश्च वज्रांशुः क्षिप्र एव च ॥ १९॥
कौशिक्यां सुतसोमायां यौधिष्ठिर्यां युधिष्ठिरः ।
कपाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ॥ २.१०३.२०॥
एवमादीनि पुत्राणां सहस्राणि निबोध मे ।
दशायुतं समाख्याता वासुदेवस्य ते सुताः ॥ २१॥
अयुतानि तथा चाष्टौ शूरा रणविशारदाः ।
जनार्दनस्य प्रसवः कीर्तितोऽयं तथा मया ॥ २२॥
प्रद्युम्नस्य सुतो जज्ञे वैदर्भ्यां राजसत्तम ।
अनिरुद्धो रणेऽरुद्धो जज्ञे स मृगकेतनः ॥ २२॥
रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ ।
भ्रातरौ देवसङ्काशावुभौ पुरुषसत्तमौ ॥ २४॥
सुतनुश्च सुतारा च शौरेरास्तां परिग्रहः ।
पौण्ड्रकः कपिलश्चैव वसुदेवस्य तौ सुतौ ॥ २५॥
तारायां कपिलो जज्ञे पौण्ड्रश्च सुतनोः सुतः ।
तयोर्नृपोऽभवत् पौण्ड्रः कपिलश्च वनं ययौ ॥ २६॥
तुर्यां समभवद् वीरो वसुदेवान्महाबलः ।
जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् ॥ २७॥
काश्या सुपार्श्वं तनयं लेभे साम्बात् तरस्विनम् ।
सानुर्जज्ञेऽनिरुद्धस्य वज्रः सानोरजायत ॥ २८॥
वज्राज्जज्ञे प्रतिरथः सुचारुस्तस्य चात्मजः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ २९॥
शिनेस्तु सत्यवाग् जज्ञे सत्यकश्च महारथः ।
सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत ॥ २.१०३.३०॥
असङ्गो युयुधानस्य मणिस्तस्याभवत्सुतः ।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्यायः ॥ १०३॥
२.१०४ चतुरधिकशततमोऽध्यायः
प्रद्युम्नाहरणम् Pradyumna abducted
प्रद्युम्नस्य जन्म, शम्बरासुरेण प्रद्युम्नस्य सूतिकागृहात् अपहरणं, प्रद्युम्न-
मायावतीसंवादः, प्रद्युम्नस्य शम्बरासुरस्य शतपुत्राणां सह युद्धं
जनमेजय उवाच ।
य एष भवता पूर्वं शम्बरघ्नेत्युदाहृतः ।
प्रद्युम्नः च कथं जघ्ने शम्बरं तद् ब्रवीहि मे ॥ १॥
वैशम्पायन उवाच ।
रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामो धृतव्रतः ।
शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः ।
सनत्कुमार इति यः पुराणे परिगीयते ॥ २॥
तं सप्तरात्रे सम्पूर्णे निशीथे सूतिकागृहात् ।
जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ॥ ३॥
विदितं तस्य कृष्णस्य देवमायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्धदुर्मदः ॥ ४॥
स मृत्युना परीतायुर्मायया सञ्जहार तम् ।
दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः ॥ ५॥
अनपत्या तु तस्यासीद् भार्या रूपगुणान्विता ।
नाम्ना मायावती नाम मायेव शुभदर्शना ॥ ६॥
ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् ।
तस्या महिष्या मानिन्या दानवः कालचोदितः ॥ ७॥
मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनूरुहा ।
हर्षेण महता युक्ता पुनः पुनरुदैक्षत ॥ ८॥
अथ तस्या निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह ।
अयं स मम कान्तोऽभूत् स्मृत्वैवं चान्वचिन्तयत् ॥ ९॥
अयं स नाथो भर्ता मे यस्यार्थेऽहं दिवानिशम् ।
चिन्ताशोकार्णवे मग्ना न विन्दामि रतिं क्वचित् ॥ २.१०४.१०॥
अयं भगवता पूर्वं देवदेवेन शूलिना ।
खेदितेन कृतोऽनङ्गो दृष्टो जात्यन्तरे मया ॥ ११॥
कथमस्य स्तनं दास्ये मातृभावेन जानती ।
भर्तुर्भार्या त्वहं भूत्वा वक्ष्ये वा पुत्र इत्युत ॥ १२॥
एवं सञ्चिन्त्य मनसा धात्र्यास्तं सा समर्पयत् ।
रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत् ॥ १३॥
धात्र्याः सकाशात्स च तां शृण्वन् रुक्मिणिनन्दनः ।
मायावतीमविज्ञानान्मेने स्वामेव मातरम् ॥ १४॥
सा च तं वर्द्धयामास कार्ष्णिं कमललोचनम् ।
मायाश्चास्मै ददौ सर्वा दानवी काममोहिता ॥ १५॥
स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः ।
चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः ॥ १६॥
तं सा मायावती कान्तं कामयामास कामिनी ।
इङ्गितैश्चापि वीक्षन्ती प्रालोभयत सस्मिता ।
प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् ॥ १७॥
प्रद्युम्न उवाच ।
मातृभावं व्यतिक्रम्य किमेवं वर्तसेऽन्यथा ।
अहो दुष्टस्वभावासि स्त्रीत्वे चपलमानसा ॥ १८॥
या पुत्रभावमुत्सृज्य मयि लोभात् प्रवर्तसे ।
न तु तेऽहं सुतः सौम्ये कोऽयं शीलविपर्ययः ॥ १९॥
तत्त्वमिच्छाम्यहं देवि कथितं को न्वयं विधिः ।
विद्युत्सम्पातचपलः स्वभावः खलु योषिताम् ॥ २.१०४.२०॥
या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव ।
यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे ॥ २१॥
कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् ।
एवमुक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया ॥ २२॥
प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् ।
न त्वं मम सुतः कान्त नापि ते शम्बरः पिता ॥ २३॥
रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन ।
पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धनः ॥ २४॥
दिवसे सप्तमे बालो जातमात्रोऽपवाहितः ।
सूतिकागारमध्यात् त्वं शिशुरुत्तानशायितः ॥ २५॥
मम भर्त्रा हृतोऽसि त्वं बलवीर्यप्रवर्तिना ।
पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् ॥ २६॥
पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह ।
सा च ते करुणं माता त्वां बालमनुशोचती ॥ २७॥
अत्यर्थं तप्यते वीर विवत्सा सौरभी यथा ।
सोऽपि शक्रादपि महान् पिता ते गरुडध्वजः ॥ २८॥
इह त्वां नाभिजानाति बालमेवापवाहितम् ।
कान्त वृष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः ॥ २९॥
वीर नैवंविधान् पुत्रान् दानवा जनयन्ति हि ।
अतोऽहं कामयामि त्वां न हि त्वं जनितो मया ॥ २.१०४.३०॥
रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला ।
यन्मे व्यवसितं कान्त यत् तु मे हृदि वर्तते ॥ ३१॥
तन्मे मनसि वार्ष्णेय प्रतिसन्धातुमर्हसि ।
एष ते कथितः सर्वः सद्भावस्त्वयि यो मम ॥ ३२॥
श्रुत्वैवमखिलं सर्वं मायावत्या प्रभाषितम् ॥ ३३॥
चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् ।
सर्वमायास्वभिज्ञोऽसौ नाम विश्राव्य चात्मनः ॥ ३४॥
अहो दानवदुष्टात्मा केशवस्यात्मजं शिशुम् ।
हरते निर्भयश्चैव भयमद्य करोम्यहम् ॥ ३५॥
कथं वै क्रोधमागच्छेद् वध्यते वा कथं मया ।
प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः ॥ ३६॥
अस्तिं चास्य ध्वजं चित्रं सिंहकेतुविभूषितम् ।
तोरणं गृहमासाद्य उच्छ्रितं मेरुशृङ्गवत् ॥ ३७॥
एतदुन्मथ्य पातिष्ये भल्लेन निशितेन वै ।
ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति ॥ ३८॥
ततो युद्धेन हत्वाऽऽजौ गन्तास्मि द्वारकां प्रति ।
इत्युक्त्वा सज्यमाचक्रे सशरं चापमोजसा ॥ ३९॥
चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः ।
तच्छुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना ॥ २.१०४.४०॥
क्रुद्धस्त्वाज्ञापयामास पुत्रान् वै कालशम्बरः ।
जिघांसध्वं महावीरा रौक्मिणेयं त्वरान्विताः ॥ ४१॥
नैवं वै द्रष्टुमिच्छामि मम विप्रियकारकम् ।
श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह ॥ ४२॥
सन्नद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाङ्क्षया ।
चित्रसेनोऽतिसेनश्च विष्वक्सेनो गदस्तथा ॥ ४३॥
श्रुतसेनः सुषेणस्तु सोमसेनो मनस्तथा ।
सेनानी सैन्यहन्ता च सेनाहा सैनिकस्तथा ॥ ४४॥
सेनस्कन्धोऽतिसेनश्च सेनको जनकः सुतः ।
सकालो विकलः शान्तः स शातान्तकरोऽशुचिः ॥ ४५॥
कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादयः ।
चक्रतोमरशूलानि पट्टिशानि परश्वधान् ॥ ४६॥
गृहीत्वा निर्ययुर्हृष्टा मन्युना परमाप्लुताः ।
आह्वयंस्तममित्रं वै तस्थुः सङ्ग्राममूर्धनि ॥ ४७॥
प्रद्युम्नस्तु महाबाहू रथमारुह्य सत्वरम् ।
निर्ययौ चापमादाय सङ्ग्रामाभिमुखस्तदा ॥ ४८॥
ततः प्रवृत्तं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां केशवस्य च सूनुना ॥ ४९॥
ततो देवाः सगन्धर्वाः समहोरगचारणाः ।
देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः ॥ २.१०४.५०॥
नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायनाः ।
अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे ॥ ५१॥
देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय वज्रिणे तद्विचेष्टितम् ॥ ५२॥
शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः ।
बहूनां युध्यतामेष कथं विजयमाप्नुयात् ॥ ५३॥
तच्छुत्वा भाषितं तस्य प्रहस्य बलसूदनः ।
उवाच वचनं चेदं शृणु योऽस्य पराक्रमः ॥ ५४॥
कामोऽयं पूर्वदेहे तु हरक्रोधाग्निना हतः ।
रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः ।
परितुष्टेन देवेन वरमस्याः प्रदीयते ॥ ५५॥
विष्णुर्मानुषदेहस्तु द्वारकायां भविष्यति ।
तस्य पुत्रत्वमस्यैव भविष्यति न संशयः ॥ ५६॥
अनङ्ग इति विख्यातस्त्रैलोक्ये तु महायशाः ।
तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति ॥ ५७॥
सप्ताहे जातमात्रे तु रुक्मिण्याः क्रोडसंस्थितम् ।
आस्थाय शम्बरो मायां प्रद्युम्नमपनेष्यति ॥ ५८॥
तद् गच्छ शम्बरगृहं भार्या मायावती भव ।
मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ॥ ५९॥
तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय ।
प्राप्तयौवनदेहस्तु शम्बरं निहनिष्यति ॥ २.१०४.६०॥
ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति ।
रमिष्यति त्वया सार्द्धं शैलपुत्र्या यथा ह्यहम् ॥ ६१॥
एवमादिश्य देवेशो जगाम पुरुषोत्तमः ।
कैलासं मेरुसङ्काशं सिद्धचारणसेवितम् ॥ ६२॥
कामपन्नी प्रणम्याथ देवदेवमुमापतिम् ।
जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती ॥ ६३॥
एवमेष महाबाहुः शम्बरं निहनिष्यति ।
सह पुत्रेण प्रद्युम्नो हन्ता तस्य दुरात्मनः ॥ ६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे चतुरधिकशततमोऽध्यायः ॥ १०४॥
२.१०५ पञ्चाधिकशततमोऽध्यायः
प्रद्युम्नेन शम्बरसैन्यविद्रावणम् Pradyumna liquidates shambara's army
प्रद्युम्नेन शम्बरासुरस्य सेनायाः मन्त्रिणां च संहारः
वैशम्पायन उवाच ।
ततः प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च ॥ १॥
ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् ।
चक्रतोमरकुन्तानि भुशुण्डीर्मुसलानि च ॥ २॥
युगपत् पातयन्ति स्म प्रद्युम्नोपरि वेगिताः ।
कार्ष्णायनिस्तु सङ्क्रुद्धः सर्वास्त्रधनुषश्च्युतैः ॥ ३॥
एकैकं पञ्चभिः क्रुद्धश्चिच्छेद रणमूर्धनि ।
पुनरेवासुराः क्रुद्धाः सर्वे ते कृतनिश्चयाः ॥ ४॥
ववृषुः शरजालानि प्रद्युम्नवधकाङ्क्षया ।
ततः प्रकुपितोऽनङ्गो धनुरादाय सत्वरः ॥ ५॥
शम्बरस्य जघानाशु दश पुत्रान् महौजसः ।
ततोऽपरेण भल्लेन कुपितः केशवात्मजः ॥ ६॥
चिच्छेदाशु शिरस्तस्य चित्रसेनस्य वीर्यवान् ।
ततस्ते हतशेषास्तु समेत्य समयुद्ध्यत ॥ ७॥
शरवर्षं विमुञ्चन्तो ह्यभ्यधावञ्जिघांसितुम् ।
ततः सन्धाय बाणांस्ते विमुञ्चन्तो रणोत्सुकाः ॥ ८॥
क्रीडन्निव महातेजाः शिरांस्येषामपातयत् ।
निहत्य समरे सर्वाञ्छतमुत्तमधन्विनाम् ॥ ९॥
प्रद्युम्नः समराकाङ्क्षी तस्थौ सङ्ग्राममूर्धनि ।
हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधमादधे ॥ २.१०५.१०॥
सूतं सञ्चोदयामास रथं मे सम्प्रयोजय ।
राज्ञो वाक्यं निशम्याथ प्रणम्य शिरसा भुवि ॥ ११॥
ससैन्यं नोदयामास रथं स सुसमाहितम् ।
युक्तमृष्यसहस्रेण सर्पयोक्त्रेण योजितम् ॥ १२॥
शार्दूलचर्मसंविष्टं किङ्किणीजालमालिनम् ।
ईहामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम् ॥ १३॥
ताराचित्रपिनद्धाङ्गं स्वर्णकृबरभूषितम् ।
सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम् ॥ १४॥
सुविभक्तवरूथं च लोहेषावज्रकूबरम् ।
मन्दरोदग्रशिखरं चारुचामरभूषितम् ॥ १५॥
नक्षत्रमालापिहितं हेमदण्डसमाहितम् ।
विराजमानं श्रीमन्तमारोहच्छम्बरो रथम् ॥ १६॥
काञ्चनं चित्रसन्नाहं धनुर्गृह्य शरांस्तथा ।
प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः ॥ १७॥
चतुर्भिः सचिवैः सार्द्धं सैन्येन महता वृतः ।
दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः ॥ १८॥
एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ।
दशनागसहस्राणि रथानां द्वे शते तथा ॥ १९॥
हयानां चाष्टसाहस्रैः प्रयुतैश्च पदातिनाम् ।
एतैः परिवृतो योधैः शम्बरः प्रययौ तदा ॥ २.१०५.२०॥
प्रयातस्य तु सङ्ग्रामे उत्पाता बहवोऽभवन् ।
गृध्रचक्राकुलं व्योम सन्ध्याकाराभ्रनादितम् ॥ २१॥
गर्जन्ति परुषं मेघा निर्घातश्चाम्बरात् पतत् ।
शिवा विनेदुरशिवं सैन्यं सङ्कालयन्महत् ॥ २२॥
ध्श्जशीर्षेऽपतद्गृध्रः काङ्क्षन् वै दानवासृजम् ।
रथाग्रे पतितश्चास्य कबन्धो भुवि दृश्यते ॥ २३॥
चीचीकूचीति वाशन्ति शम्बरस्य रथोपरि ।
स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः ॥ २४॥
स्फुरते नयनं चास्य सव्यं भयनिवेदनम् ।
बाहुः प्रकम्पते सव्यः प्रास्खलन्रथवाजिनः ॥ २५॥
ध्वाङ्क्षो मूर्घ्नि निपतितः शम्बरस्य सुरारिणः ।
ववर्ष रुधिरं देवः शर्कराङ्गारमिश्रितम् ॥ २६॥
उल्कापातसहस्राणि निपेत् रणमूर्धनि ।
प्रतोदो न्यपतद्धस्तात् सारथेर्हययायिनः ॥ २७॥
एतानचिन्तयित्वा तु उत्पातान् समुपस्थितान् ।
प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया ॥ २८॥
भेरीमृदङ्गशङ्खानां पणवानकदुन्दुभेः ।
युगपन्नाद्यमानानां पृथिवी समकम्पत ॥ २९॥
तेन शब्देन महता सन्त्रस्ता मृगपक्षिणः ।
समन्ताद् दुद्रुवुस्तस्माद् भयविक्लवचेतसः ॥ २.१०५.३०॥
रणमध्ये स्थितः कार्ष्णिश्चिन्तयन्निधनं रिपोः ।
सैन्यैः परिवृतोऽसङ्ख्यैर्युद्धाय कृतनिश्चयः ॥ ३१॥
क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् ।
सम्प्राप्ताश्चैव तान् बाणांश्चिच्छेद कृतहस्तवत् ॥ ३२॥
प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह ।
तस्मिन्सैन्येन कोऽप्यस्ति यो न विद्धः शरेण वै ॥ ३३॥
प्रद्युम्नशरपातेन तत् सैन्यं विमुखीकृतम् ।
शम्बरस्य तथाभ्याशे स्थितं संहृत्य भीतवत् ॥ ३४॥
स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्च्छितः ।
आज्ञापयामास तदा सचिवान् दानवेश्वरः ॥ ३५॥
गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् ।
नोपेक्षणीयः शत्रुर्वै वध्यतां क्षिप्रमेष वै ॥ ३६॥
उपेक्षित इव व्याधिः शरीरं नाशयेद् धुवम् ।
तदेष दुर्मतिः पापो वध्यतां मत्प्रियेप्सया ॥ ३७॥
ततस्ते सचिवाः कुद्धाः शिरसा गृह्य शासनम् ।
शरवर्षं विमुञ्चन्तस्त्वरिता नोदयन् रथान् ॥ ३८॥
तान् दृष्ट्वा धावतः सङ्ख्ये क्रुद्धो मकरकेतनः ।
चापमुद्यम्य सम्भ्रान्तस्तस्थौ प्रमुखतो बली ॥ ३९॥
दुर्धरं पञ्चविंशत्या शरैः सन्नतपर्वभिः ।
बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः ॥ २.१०५.४०॥
सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् ।
बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः ॥ ४१॥
ततस्ते सचिवाः क्रुद्धाः प्रद्युम्नं शरवृष्टिभिः ।
एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः ४२॥
तानप्राप्ताञ्छरान् बाणैश्चिच्छेद मकरध्वजः ।
ततोऽर्द्धचन्द्रमादाय दुर्द्धरस्य स सारथिम् ॥ ४३॥
जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै ।
चतुर्भिरथ नाराचैः सुपर्वैः कङ्कतेजितैः ॥ ४४॥
जघान चतुरः सोऽश्वान्दुर्धरस्य रथं प्रति ।
एकेन योक्त्रं छत्रं च ध्वजमेकेन बन्धुरम् ॥ ४५॥
षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः ।
अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम् ॥ ४६॥
मुमोच हृदये तस्य दुर्द्धरस्यान्यजीविनः ।
स गतासुर्गतश्रीको गतसत्त्वो गतप्रभः ॥ ४७॥
निपपात रथोपस्थात् क्षीणपुण्य इव ग्रहः ।
दुर्धरे निहते शूरे दानवे दानवेश्वरः ॥ ४८॥
केतुमाली शरव्रातैरभिदुद्राव कृष्णजम् ।
प्रद्युम्नमथ सङ्क्रुद्धो भ्रुकुटीभीषणाननः ॥ ४९॥
कृत्वाभ्यधावत्सहसा तिष्ठ तिष्ठेति चाब्रवीत् ।
सङ्क्रुद्धः कृष्णसूनुस्तु शरवर्षैरवाकिरत् ॥ २.१०५.५०॥
पर्वतं वारिधाराभिः प्रावृषीव यथा घनः ।
स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता ॥ ५१॥
चक्रमादाय चिक्षेप प्रद्युम्नवधकाङ्क्षया ।
तं तु प्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम् ॥ ५२॥
निपत्योत्पत्य सहसा सर्वेषामेव पश्यताम् ।
तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा ॥ ५३॥
तद् दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् ।
विस्मयं परमं प्राप्तः सर्वैर्देवगणैः सह ।
गन्धर्वाप्सरसश्चैव पुष्पवर्षैरवाकिरन् ॥ ५४॥
केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः ।
महाबलसमूहेन प्रद्युम्नमथ दुद्रुवे ॥ ५५॥
ते गदां मुसलं चक्रं प्रासतोमरसायकान् ।
भिन्दिपालान्कुठारांश्च भास्वरान्कूटमुद्गरान् ॥ ५६॥
युगपत् सङ्क्षिपन्ति स्म वधार्थं कृष्णनन्दने ।
सोऽपि तान्यस्त्रजालानि शस्त्रजालैरनेकधा ॥ ५७॥
चिच्छेद बहुधा वीरो दर्शयन्पाणिलाघवम् ।
गजान्सोऽभ्यहनत्कुद्धो गजारोहान्सहस्रशः ॥ ५८॥
रथान् सारथिभिः सार्धं हयांश्चैव ममर्द ह ।
पातयंस्ताञ्छरव्रातैर्नाविद्धः कश्चिदीक्ष्यते ॥ ५९॥
एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः ।
नदीं प्रावर्तयद् घोरां शोणिताम्बुतरङ्गिणीम् ॥ २.१०५.६०॥
मुक्ताहारोर्मिबहुलां मांसमेदःसपङ्किनीम् ।
छत्रद्वीपां शरावर्तां रथैः पुलिनमण्डिताम् ॥ ६१॥
केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् ।
नागग्राहवतीं रौद्रामसिनक्रविभूषिताम् ॥ ६२॥
केशशैवलसञ्छन्नां श्रोणिसूत्रमृणालिकाम् ।
वराननसुपद्मां च हम्मचामरवीजिताम् ॥ ६३॥
शिरस्तिमिसमाकीर्णो शोणितौघप्रवर्तिनीम् ।
नदीं दुस्तरणीं भीमामनङ्गेन प्रवर्तिताम् ॥ ६४॥
दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजःसुदुस्तराम् ।
शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्द्धनीम् ॥ ६५॥
तत्र रुक्मिसुतः श्रीमान्विलोडयति धन्विनः ।
शत्रुहन्तारमाश्रित्य शरानभ्यकिरद् बहून् ॥ ६६॥
शत्रुहन्ता पुनः क्रुद्धो मुमोच शरमुत्तमम् ।
प्रद्युम्नस्य समासाद्य हृदये निपपात ह ॥ ६७॥
स विद्धस्तेन बाणेन प्रद्युम्नो न व्यकम्पत ।
शक्तिं जग्राह बलवाञ्छत्रुहन्त्रे मुमूर्षवे ॥ ६८॥
सा क्षिप्ता रौक्मिणेयेन शक्तिर्ज्वालाकुला रणे ।
पपात हृदयं भित्त्वा शक्राशनिसमस्वना ॥ ६९॥
स भिन्नहृच्च स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः ।
पपात रुधिरोद्गारी शत्रुहन्ता महाबलः ॥ २.१०५.७०॥
पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः ।
जग्राह मुसलं सोऽथ वचनं चेदमाददे ॥ ७१॥
तिष्ठ किं प्राकृतैरेभिः करिष्यसि रणप्रियः ।
मां योधयस्व दुर्बुद्धे ततस्त्वं न भविष्यसि ॥ ७२॥
वृष्णिवंशकुले जातः शत्रुरस्मत्पिता तव ।
पुत्रं हन्तास्त्वहं तस्य ततोऽसौ निहतो भवेत् ॥ ७३॥
मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् ।
दैतेया दानवाः सर्वे मोदन्तां हतशत्रवः ॥ ७४॥
हते त्वयि ममास्त्रेण त्वत्समुत्थैश्च शोणितैः ।
शम्बरस्य तु पुत्राणां करोम्युदकसत्क्रियाम् ॥ ७५॥
अद्य सा भीष्मकसुता करुणं विलपिष्यति ।
निहतं त्वां च श्रुत्वैव यौवनस्थं गतायुषम् ॥ ७६॥
स ते पिता चक्रधरो निष्फलाशो भविष्यति ।
हतं त्वां स विदित्वाथ प्राणांस्त्यक्ष्यति मन्दधीः ॥ ७७॥
इत्युक्त्वा परिघेणाशु ताडयद्रुक्मिणीसुतम् ।
ताडितो हि महातेजा रौक्मिणेयः प्रतापवान् ॥ ७८॥
दोर्भ्यामुत्क्षिप्य तस्यैव रथ मह्यां व्यचूर्णयत् ।
सोऽवप्लुत्य रथात्तस्मात्पदातिरवतस्थिवान् ॥ ७९॥
तां गदां गृह्य सहसा रौक्मिणेयमुपाद्रवत् ।
तयैव गदया कामः प्रमर्दनमपोथयत् ॥ २.१०५.८०॥
हते प्रमर्दने दैत्ये दृष्ट्वा सर्वे प्रदुद्रुवुः ।
न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद् गजा इव ॥ ८१॥
सारमेयं यथा दृष्ट्वाविगणो वै पलायते ।
तथा सेना विषीदन्ती प्रद्युम्नस्य भयार्दिता ॥ ८२॥
क्षतजादिग्धवस्त्रा वै मुक्तकेशा विशोभना ।
रजस्वलेव युवतिः सेना समवगूहते ॥ ८३॥
मदनशरविभिन्ना सैनिकानभ्ययायाद्
युवतिसदृशवेषा साध्वसैः पीड्यमाना ।
रतिसमरमशक्ता वीक्षितुं सोच्छ्वसन्ती
स्वगृहगमनकामा नेच्छते स्थातुमत्र ॥ ८४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरसैन्यभङ्गो नाम पञ्चाधिकशततमोऽध्यायः ॥ १०५॥
२.१०६ षडधिकशततमोऽध्यायः
शम्बरप्रद्युम्नयुद्धे नारदभाषितम् NArada's message
शम्बरासुरप्रद्युम्नानां मायामयं युद्धं, शम्बरस्य चिन्ता, देवराजस्य इन्द्रस्याज्ञया नारदेन प्रद्युम्नं तस्य पूर्वरूपस्य स्मारणं आवश्यकस्य कर्तव्यस्य सुज्ञानं च
वैशम्पायन उवाच ।
शम्बरस्तु ततः क्रुद्धः सूतमाह विशाम्पते ।
शत्रुप्रमुखतो वीर रथं मे वाहय द्रुतम् ॥ १॥
यावदेनं शरैर्हन्मि मम विप्रियकारकम् ।
ततो भर्तृवचः श्रुत्वा सूतस्तत्प्रियकारकः ॥ २॥
रथं सञ्चोदयामास चामीकरविभूषितम् ।
तं दृष्ट्वा रथमायान्तं प्रद्युम्नः फुल्ललोचनः ॥ ३॥
सन्दधे चापमादाय शरं कनकभूषितम् ।
तेनाहनत् सुसङ्क्रुद्धः कोपयञ्शम्बरं रणे ॥ ४॥
हृदये ताडितस्तेन देवशत्रुः सुविक्लवः ।
रथशक्तिं समाश्रित्य तस्थौ सोऽथ विचेतनः ॥ ५॥
स चेतनां पुनः प्राप्य धनुरादाय शम्बरः ।
विव्याध कार्ष्णिं कुपितः सप्तभिर्निशितैः शरैः ॥ ६॥
तानप्राप्ताञ्शरान् सोऽथ सप्तभिः सप्तधाच्छिनत् ।
शम्बरं च जघानाथ सप्तत्या निशितैः शरैः ॥ ७॥
पुनः शरसहस्रेण कङ्कबर्हिणवाससा ।
अहनच्छम्बरं क्रोधाद् धाराभिरिव पर्वतम् ॥ ८॥
प्रदिशो विदिशश्चैव शरधारासमावृताः ॥ ९॥
अन्धकारीकृतं व्योम दिनकर्ता न दृश्यते ।
ततोऽन्धकारमुत्सार्य वैद्युतास्त्रेण शम्बरः ॥ २.१०६.१०॥
प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह ।
तदस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा ॥ ११॥
चिच्छेद बहुधा राजन्दर्शयन् पाणिलाघवम् ।
हते तस्मिन् महावर्षे शराणां कार्ष्णिना तदा ॥ १२॥
द्रुमवर्षं मुमोचाथ मायया कालशम्बरः ।
द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्च्छितः ॥ १३॥
आग्नेयास्त्रं मुमोचाथ तेन वृक्षाननाशयत् ।
भस्मीभूते वृक्षवर्षे शिलासङ्घातमुत्सृजत् ॥ १४॥
प्रद्युम्नस्तं तु वायव्यैः प्रोत्सारयत संयुगे ।
ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ॥ १५॥
सिंहान्व्याघ्रान् वराहांश्च तरक्षूनृक्षवानरान् ।
वारणान् वारिदप्रख्यान्हयानुष्ट्रान्विशाम्पते ॥ १६॥
मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि ।
गान्धर्वास्त्रेण चिच्छेद सर्वांस्तान्खण्डशस्तदा ॥ १७॥
प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।
अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्च्छितः ॥ १८॥
गजेन्द्रान् भिन्नवदनान् षष्टिहायनयौवनान् ।
महामात्रोत्तमारूढान् कल्पितान् रणकोविदान् ॥ १९॥
तामापतन्तीं मायां तु कार्ष्णिः कमललोचनः ।
सैंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः ॥ २.१०६.२०॥
सा सृष्टा सिंहमाया तु रौक्मिणेयेन धीमता ।
माया नागवती नष्टा आदित्येनेव शर्वरी ॥ २१॥
निहतां हस्तिमायां तु तां समीक्ष्य महासुरः ।
अन्यां सम्मोहिनीं मायां सोऽसृजद् दानवोत्तमः ॥ २२॥
तां दृष्ट्वा मोहिनीं नाम मायां मयविनिर्मिताम् ।
संज्ञास्त्रेण तु प्रद्युम्नो नाशयामास वीर्यवान् ॥ २३॥
शम्बरस्तु ततः क्रुद्धो हतया मायया तदा ।
सैंहीं मायां महातेजाः सोऽसृजद् दानवेश्वरः ॥ २४॥
सिंहानापततो दृष्ट्वा रौक्मिणेयः प्रतापवान् ।
अस्त्रं गान्धर्वमादाय शरभानसृजत् तदा ॥ २५॥
तेऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे ।
सिंहान् विद्रावयामासुर्वायुर्जलधरानिव ॥ २६॥
सिंहान् विद्रवतो दृष्ट्वा माययाष्टापदेन वै ।
शम्बरश्चिन्तयामास कथमेनं निहन्मि वै ।
अहो मूर्खस्वभावोऽहं यन्मया न हतः शिशुः ॥ २७॥
प्राप्तयौवनदेहस्तु कृतास्त्रश्चापि दुर्मतिः ।
तत् कथं निहनिष्यामि शत्रुं रणशिरःस्थितम् ॥ २८॥
माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा ।
दत्ता मे देवदेवेन हरेणासुरघातिना ॥ २९॥
तां सृजामि महामायामाशीविषसमाकुलाम् ।
तया दह्येत दुष्टात्मा ह्येष मायामयो बली ॥ २.१०६.३०॥
सा सृष्टा पन्नगी माया विषज्वालासमाकुला ।
तया पन्नगमय्या तु सरथं सहवाजिनम् ॥ ३१॥
ससूत स हि प्रद्युम्नं बबन्ध शरबन्धनैः ।
बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः ॥ ३२॥
मायां सञ्चिन्तयामास सौपर्णीं सर्पनाशिनीम् ।
सा चिन्तिता महामाया प्रद्युम्नेन महात्मना ॥ ३३॥
सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः ।
भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः ॥ ३४॥
साधु वीर महाबाहो रुक्मिण्यानन्दवर्धन ।
यत्त्वया धर्षिता माया तेन स्म परितोषिताः ॥ ३५॥
हतायां सर्पमायायां शम्बरोऽचिन्तयत् पुनः ।
अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः ॥ ३६॥
तमप्रतिहतं युद्धे देवदानवमानवैः ।
पुरा यो मम पार्वत्या दत्तः परमतुष्टया ॥ ३७॥
गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् ।
मया सृष्टं स्वदेहे वै तपः परमदुश्चरम् ॥ ३८॥
मायान्तकरणं नाम सर्वासुरविनाशनम् ।
अनेन दानवौ रौद्रौ बलिनौ कामरूपिणौ ॥ ३९॥
शुम्भश्चैव निशुम्भश्च सगणौ सूदितौ मया ।
प्राणसंशयमापन्ने त्वया मोक्ष्यः स शत्रवे ॥ २.१०६.४०॥
इत्युक्त्वा पार्वती देवी तत्रैवान्तरधीयत ।
तदहं मुद्गरं श्रेष्ठं मोचयिष्यामि शत्रवे ॥ ४१॥
तस्य विज्ञाय चित्तं तु देवराजोऽभ्यभाषत ।
गच्छ नारद शीघ्रं त्वं प्रद्युम्नस्य रथं प्रति ॥ ४२॥
सम्बोधय महाबाहुं पूर्वजातिं च मोक्षय ।
वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ॥ ४३॥
अभेद्यं कवचं चास्य प्रयच्छासुरसूदने ।
एवमुक्तो मघवता नारदः प्रययौ त्वरम् ॥ ४४॥
आकाशेऽधिष्ठितोऽवोचन्मकरध्वजकेतनम् ।
कुमार पश्य मां प्राप्तं देवगन्धर्वनारदम् ।
प्रेषितं देवराजेन तव सम्बोधनाय वै ॥ ४५॥
स्मर त्वं पूर्वकं भावं कामदेवोऽसि मानद ।
हरकोपानलाद् दग्धस्तेनानङ्ग इहोच्यसे ॥ ४६॥
त्वं वृष्णिवंशजातोऽसि रुक्मिण्या गर्भसम्भवः ।
जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे ॥ ४७॥
आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।
सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः ॥ ४८॥
वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः ।
केशवेन महाबाहो देवकार्यार्थसिद्धये ॥ ४९॥
यैषा मायावती नाम भार्या वै शम्बरस्य तु ।
रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम् ॥ २.१०६.५०॥
तव संरक्षणार्थाय शम्बरस्य गृहेऽवसत् ।
मायां शरीरजां तस्य मोहनार्थं दुरात्मनः ॥ ५१॥
रतेः सम्पादनार्थाय प्रेषयत्यनिशं तदा ।
एवं प्रद्युम्न बुद्ध्वा वै तत्र भार्या प्रतिष्ठिता ॥ ५२॥
हत्वा तं शम्बरं वीर वैष्णवास्त्रेण संयुगे ।
गृह्य मायावतीं भार्यां द्वारकां गन्तुमर्हसि ॥ ५३॥
गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् ।
शक्रेण तव सङ्गृह्य प्रेषितं शत्रुसूदन ॥ ५४॥
शृणु मे ह्यपरं वाक्यं क्रियतामविशङ्कया ।
अस्य देवरिपोस्तात मुद्गरो नित्यमूर्जितः ॥ ५५॥
पार्वत्यां परितुष्टायां दत्तः शत्रुनिबर्हणः ।
अमोघश्चैव सङ्ग्रामे देवदानवमानवैः ॥ ५६॥
तदस्त्रप्रविघातार्थं देवीं त्वं स्मर्तुमर्हसि ।
स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः ॥ ५७॥
तत्र वै क्रियतां यत्नः सङ्ग्रामे रिपुणा सह ।
इत्युक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः ॥ ५८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे नारदवाक्ये षडधिकशततमोऽध्यायः ॥ १०६॥
२.१०७ सप्ताधिकशततमोऽध्यायः
शम्बरवधः Shambara eliminated
प्रद्युम्नेन शम्बरासुरस्य वधं
वैशम्पायन उवाच ।
शम्बरस्तु ततः क्रुद्धो मुद्गरं तं समाददे ।
मुद्गरे गृह्यमाणे तु द्वादशार्काः समुत्थिताः ॥ १॥
पर्वताश्चलिताः सर्वे तथैव वसुधातलम् ।
उन्मार्गाः सागरा याताः सङ्क्षुब्धाश्चापि देवताः ॥ २॥
गृध्रचक्राकुलं व्योम उल्कापातो बभूव ह ।
ववर्ष रुधिरं देवः परुषं पवनो ववौ ॥ ३॥
एवं दृष्ट्वा महोत्पातान् प्रद्युम्नः स त्वरान्वितः ।
अवतीर्य रथाद् वीरः कृताञ्जलिपुटः स्थितः ॥ ४॥
देवीं सस्मार मनसा पार्वतीं शङ्करप्रियाम् ।
प्रणम्य शिरसा देवीं स्तोतुं समुपचक्रमे ॥ ५॥
प्रद्युम्न उवाच ।
ॐ नमः कात्यायन्यै गिरीशायै नमो नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः ॥ ६॥
नमः शत्रुविनाशिन्यै नमो गौर्यै शिवप्रिये ।
नमस्ये शुम्भमथनीं निशुम्भमथनीमपि ॥ ७॥
कालरात्रि नमस्तुभ्यं कौमार्यै च नमो नमः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥ ८॥
विन्ध्यवासिनीं दुर्गघ्नां रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ॥ ९॥
अपराजितां नमस्येऽहमजितां शत्रुनाशिनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ॥ २.१०७.१०॥
त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहवाहां नमस्यामि सिंहप्रवरकेतनाम् ॥ ११॥
एकानंशां नमस्यामि गायत्रीं यज्ञसत्कृताम् ।
सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः ॥ १२॥
रक्ष मां देवि सततं सङ्ग्रामे विजयं कुरु ।
इति कामवचस्तुष्टा दुर्गा सम्प्रीतमानसा ॥ १३॥
उवाच वचनं देवी सुप्रीतेनान्तरात्मना ।
पश्य पश्य महाबाहो रुक्मिण्यानन्दवर्द्धन ॥ १४॥
वरं वरय वत्स त्वममोघं दर्शनं मम ।
देव्यास्तु वचनं श्रुत्वा रोमाञ्चोद्गतमानसः ॥ १५॥
प्रणम्य शिरसा देवीं विज्ञप्तुमुपचक्रमे ।
यदि त्वं देवि तुष्टासि दीयतां मे यदीप्सितम् ॥ १६॥
वरं च वरदे याचे सर्वामित्रेषु मे जयः ।
यस्त्वया मुद्गरो दत्तः शम्बरस्यात्मसम्भवः ॥ १७॥
एष मे गात्रमासाद्य माला पद्मवती भवेत् ।
तथास्त्विति च साप्युक्त्वा तत्रैवान्तरधीयत ॥ १८॥
प्रद्युम्नस्तु महातेजास्तुष्टो रथमथारुहत् ।
मुद्गरं तं गृहीत्वा च शम्बरः क्रोधमूर्च्छितः ॥ १९॥
भ्रामयित्वा स चिक्षेप प्रद्युम्नोरसि वीर्यवान् ।
स गत्वा मदनाभ्याशं माला भूत्वा तु पौष्करी ॥ २.१०७.२०॥
प्रद्युम्नस्य च कण्ठे तु समासक्ता व्यराजत ।
नक्षत्राणां तु मालायां यथा परिवृतो विधुः ॥ २१॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
साधुसाध्विति वाचोचुः पूजयन्केशवात्मजम् ॥ २२॥
मुद्गरं पुष्पभूतं तु दृष्ट्वा प्रद्युम्नसन्निधौ ।
वैष्णवं परमास्त्रं तु नारदेन यथाहृतम् ॥ २३॥
सन्दधे चापमानम्य इदं वचनमब्रवीत् ।
यद्यहं रुक्मिणीपुत्रः केशवस्यात्मजो ह्यहम् ॥ २४॥
तेन सत्येन बाणेन जहि त्वं शम्बरं रणे ।
इत्युक्त्वा चापमाकृष्य सन्धाय च महामनाः ॥ २५॥
चिक्षेप शम्बरस्याथ दहँल्लोकत्रयं यथा ।
स क्षिप्तो वृष्णिसिंहेन शरा क्रव्यादमोहनः ॥ २६॥
हदयं शम्बरस्याथ भित्त्वा धरणिमागतः ।
न चास्य मांसं न स्नायुर्नास्थि न त्वङ् न शोणितम् ॥ २७॥
सर्वं तद् भस्मसाद्भूतं वैष्णवास्त्रस्य तेजसा ।
हते दैत्ये महाकाये दानवे शम्बरेऽधमे ॥ २८॥
जहृषुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
उर्वशी मेनका रम्भा विप्रचित्तिस्तिलोत्तमा ॥ २९॥
ननृतुर्हृष्टमनसो जगत् स्थावरजङ्गमम् ।
देवराजस्तु सुप्रीतः सर्वदेवगणैः सह ।
प्रद्युम्नं पुष्पवर्षेण तमभ्यर्च्य प्रहृष्टवत् ॥ २.१०७.३०॥
अथ समरहते तु दैत्यराजे मधुमथनस्य सुतेन वैष्णवास्त्रैः ।
विगतरिपुभयाः सुराश्च जग्मुर्मकरविभूषणकेतनं स्तुवन्तः ॥ ३१॥
स च समरपरिश्रमं वहन् वै नगरमुखं प्रविवेश रौक्मिणेयः ।
प्रियतम इव कान्तया प्रहृष्टस्त्वरितपदं रतिदर्शनं चकार ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे सप्ताधिकशततमोऽध्यायः ॥ १०७॥
२.१०८ अष्टाधिकशततमोऽध्यायः
मायावत्या सह प्रद्युम्नस्य द्वारकागमनम् Pradyumna sets out with mAyAvati for dvAraka
मायावतीसहितेन प्रद्युम्नस्य द्वारकायां आगमनं, रुक्मिण्याः भवने प्रवेशं
वैशम्पायन उवाच ।
समाप्तमायो मायाज्ञो विक्रान्तः समरेऽव्ययः ।
अष्टम्यां निहतो युद्धे मायावी कालशम्बरः ॥ १॥
तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् ।
गृह्य मायावतीं देवीमागच्छन्नगरं पितुः ॥ २॥
सोऽन्तरिक्षगतो भूत्वा मायावी शीघ्रविक्रमः ।
आजगाम पुरीं रम्यां रक्षितां तेजसा पितुः ॥ ३॥
सोऽन्तरिक्षान्निपतितः केशवान्तःपुरे शिशुः ।
मायावत्या सह तया रूपवानिव मन्मथः ॥ ४॥
तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः ।
विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्ततः ॥ ५॥
ततस्तं कामसङ्काशं कान्तया सह सङ्गतम् ।
प्रेक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनोत्सवम् ॥ ६॥
तं विनीतमुखं दृष्ट्वा लज्जमानं पदे पदे ।
अभवन् स्निग्धसङ्कल्पाः सर्वास्ताः कृष्णयोषितः ॥ ७॥
रुक्मिणी चैव तं दृष्ट्वा शोकार्ता पुत्रगर्द्धिनी ।
सपत्नीशतसङ्कीर्णा सबाष्पा वाक्यमब्रवीत् ॥ ८॥
यादृक् स्वप्नो मया दृष्टो निशायां यौवने गते ।
कंसारिणा ममानीय दत्तं साहारपल्लवम् ॥ ९॥
शशिरश्मिप्रतीकाशं मुक्तादाम च शोभनम् ।
केशवेनाङ्कमारोप्य मम कण्ठे न्यबध्यत ॥ २.१०८.१०॥
श्यामा सुचारुकेशा स्त्री शुक्लाम्बरविभूषिता ।
पद्महस्ता निरीक्षन्ती प्रविष्टा मम वेश्मनि ॥ ११॥
तया पुनरहं गृह्य स्नापिता रुचिराम्बुना ।
कुशेशयमयीं मालां स्त्री सङ्गृह्याथ पाणिना ॥ १२॥
मम मूर्धन्युपाघ्राय दत्ता स्वच्छा तया मम ।
एवं स्वप्नान् कीर्तयन्ती रुक्मिणी हृष्टमानसा ॥ १३॥
सखीजनवृता देवी कुमारं वीक्ष्य तं मुहुः ।
धन्यायाः खल्वयं पुत्रो दीर्घायुः प्रियदर्शनः ॥ १४॥
ईदृशः कामसङ्काशो यौवने प्रथमे स्थितः ।
जीवपुत्रा त्वया पुत्र कासौ भाग्यसमन्विता ॥ १५॥
किमर्थं चाम्बुदश्यामः सभार्यस्त्वमिहागतः ।
अस्मिन् वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः ॥ १६॥
भवेद् यदि न नीतः स्यात्कृतान्तेन बलीयसा ।
व्यक्तं कृष्णकुमारस्त्वं न मिथ्या मम तर्कितम् ॥ १७॥
विज्ञातोऽसि मया चिह्नैर्विना चक्रं जनार्दनः ।
मुखं नारायणस्येव केशाः केशान्त एव च ॥ १८॥
ऊरू वक्षो भुजौ तुल्यौ हलिनः श्वशुरस्य मे ।
कस्त्वं वृष्णिकुलं सर्वं द्योतयन् वपुषास्थितः ॥ १९॥
अहो नारायणस्येव दिव्या ते परमा तनुः ।
एतस्मिन्नन्तरे कृष्णः सहसा प्रविवेश ह ।
नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति ॥ २.१०८.२०॥
सोऽपश्यत् तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः ।
स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः ॥ २१॥
सोऽब्रवीत्सहसा देवीं रुक्मिणीं देवतामिव ।
अयं स देवि सम्प्राप्तः सुतश्चापधरस्तव ॥ २२॥
अनेन शम्बरं हत्वा मायायुद्धविशारदम् ।
हृता मायाश्च ताः सर्वा याभिर्देवानबाधयत् ॥ २३॥
सती चेयं शुभा साध्वी भार्या वै तनयस्य ते ।
मायावतीति विख्याता शम्बरस्य गृहोषिता ॥ २४॥
मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा ।
मन्मथे तु गते नाशं गते चानङ्गतां पुरा ॥ २५॥
कामपत्नीं न कान्तैषा शम्बरस्य रतिः प्रिया ।
मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा ॥ २६॥
न चैषा तस्य कौमारे वशे तिष्ठति शोभना ।
आत्ममायामयं कृत्वा रूपं शम्बरमाविशत् ॥ २७॥
पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना ।
लोककान्तस्य साहाय्यं करिष्यति मनोमयम् ॥ २८॥
प्रवेशयैनां भवनं पूज्यां ज्येष्ठां स्नुषां मम ।
चिरं प्रणष्टं च सुतं भजस्व पुनरागतम् ॥ २९॥
वैशम्पायन उवाच ।
श्रुत्वा तु वचनं देवी कृष्णेनोदाहृतं तदा ।
प्रहर्षमतुलं लब्ध्वा रुक्मिणी वाक्यमब्रवीत् ॥ २.१०८.३०॥
अहो धन्यतरास्मीति वीरपुत्रसमागमात् ।
अद्य मे सफलः कामः पूर्णो मेऽद्य मनोरथः ॥ ३१॥
चिरप्रणष्टपुत्रस्य दर्शनं प्रियया सह ।
आगच्छ पुत्र भवनं सभार्यः प्रविशेह च ॥ ३२॥
ततोऽभिवाद्य चरणौ गोविन्दं मातरं च ताम् ।
प्रद्युम्नः पूजयामास हलिनं च महाबलम् ॥ ३३॥
उत्थाप्य तं परिष्वज्य मूर्ध्न्युपाघ्राय वीर्यवान् ।
प्रद्युम्नं बलिनां श्रेष्ठं केशवः परवीरहा ॥ ३४॥
स्नुषां चोत्थाप्य तां देवी रुक्मिणी रुक्मभूषणा ।
परिष्वज्योपसङ्गृह्य स्नेहाद् गद्गदभाषिणी ॥ ३५॥
समेत्य भवनं पत्न्या शचीन्द्रमदितिर्यथा ।
प्रवेशयामास तदा रुक्मिणी सुतमागतम् ॥ ३६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नागमने अष्टाधिकशततमोऽध्यायः ॥ १०८॥
२.१०९ नवाधिकशततमोऽध्यायः
बलदेवाह्निकम् Ahnika mantra recited by baladeva
बलदेवेन प्रद्युम्नाय आह्निकस्तोत्रस्य उपदेशं
वैशम्पायन उवाच ।
अत्राश्चर्यात्मकं स्तोत्रमाह्निकं जयतां वर ।
प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ॥ १॥
बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते ।
यञ्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत् ॥ २॥
कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् ।
धर्मकामैश्च मुनिभिरृषिभिश्चापि कीर्तितम् ॥ ३॥
कर्हिचिद् रुक्मिणीपुत्रो हलिना संयुतो गृहे ।
उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः ॥ ४॥
प्रद्युम्न उवाच ।
कृष्णानुज महाभाग रोहिणीतनय प्रभो ।
किञ्चित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम् ॥ ५॥
श्रीबलदेव उवाच ।
सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः ।
अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः ॥ ६॥
ऋचो यजूंषि सामानि छन्दांस्याथर्वणानि च ।
चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः ॥ ७॥
पुराणमितिहासश्चाखिलान्युपखिलानि च ।
अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम् ॥ ८॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥ ९॥
व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः ।
वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत् ॥ २.१०९.१०॥
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठो भगवान् पान्तु ते मां महर्षयः ॥ ११॥
कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश ।
नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥ १२॥
रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु ।
अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥ १३॥
ह्रीःश्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः ।
अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥ १४॥
हिमवान् हेमकूटश्च निषधः श्वेतपर्वतः ।
ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः ॥ १५॥
सह्योदयश्च मलयो मेरुमन्दरदर्दुराः ।
क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥ १६॥
शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः ।
एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ ॥ १७॥
हस्तिभद्रः पिटरकः कर्कोटकधनञ्जयौ ।
तथा पूरणकश्चैव नागश्च करवीरकः ॥ १८॥
सुमनास्यो दधिमुखस्तथा शृङ्गारपिण्डकः ।
मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः ॥ १९॥
नागराडधिकर्णश्च तथा हारिद्रकोऽपरः ।
एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥ २.१०९.२०॥
भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः ।
समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥ २१॥
सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा ।
द्वारावती विपाशा च सरयूर्यमुना तथा ॥ २२॥
कल्माषी च रथोष्मा च बाहुदा च हिरण्यदा ।
प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा ॥ २३॥
ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा ।
एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः ॥ २४॥
उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् ।
वेणी गोदावरी सीता कावेरी कौङ्कणावती ॥ २५॥
कृष्णा वेणा शुक्तिमती तमसा पुष्पवाहिनी ।
ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती ॥ २६॥
नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा ।
वितस्ता भीमरथ्या च ऐला चैव महानदी ॥ २७॥
कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः ।
एताश्चान्याश्च वै नद्यो याश्चान्या न तु कीर्तिताः ॥ २८॥
दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् ।
क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा ॥ २९॥
सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका ।
पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा ॥ २.१०९.३०॥
ख्याता वेत्रवती चैव चापदासीति विश्रुता ।
प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती ॥ ३१॥
चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी ।
उमा गुरुनदी चैव तापी च विमलोदका ॥ ३२॥
विमला विमलोदा च मत्तगङ्गा पयस्विनी ।
एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥ ३३॥
ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् ।
भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ॥ ३४॥
सा तु दहतु मे पापं कीर्तिता शम्भुना धृता ।
प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥ ३५॥
गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् ।
रामह्रदं विनशनं रामतीर्थं तथैव च ॥ ३६॥
गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः ।
कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥ ३७॥
सुवर्णबिन्दुं विख्यातं तथा कनकपिङ्गलम् ।
दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥ ३८॥
बदरी चैव विख्याता नरनारायणाश्रमः ।
विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥ ३९॥
कोकामुखं पुण्यतमं गङ्गासागरमेव च ।
मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः ॥ २.१०९.४०॥
तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः ।
मां प्लावयन्तु सलिलैः यानि मे कीर्तितानि वै ॥ ४१॥
सूकरं योगमार्गं च श्वेतद्वीपं तथैव च ।
ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ॥ ४२॥
धारासम्पातसंयुक्ता गङ्गा किल्बिषनाशिनी ।
गङ्गा वैकुण्ठकेदारं सूकरोदभेदनं परम् ।
तच्छापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात् ॥ ४३॥
धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः ।
वरुणेशोऽथ धनदो यमो नियम एव च ॥ ४४॥
कालो नयः सन्नतिश्च क्रोधो मोहः क्षमा धृतिः ।
विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः ॥ ४५॥
यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः ।
नक्तञ्चराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥ ४६॥
लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः ।
मरुतः सहपर्जन्याः कलात्रुटिलवाः क्षणाः ॥ ४७॥
नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः ।
मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥ ४८॥
आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च ।
रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥ ४९॥
रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी ।
भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥ २.१०९.५०॥
आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः ।
एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥ ५१॥
लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः ।
गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥ ५२॥
नानाभरणवेशाश्च नानारूपाङ्किताननाः ।
नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥ ५३॥
मेदोमज्जाप्रियाश्चैव मद्यमांसवसाप्रियाः ।
मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः ॥ ५४॥
कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा ।
व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तद्या ॥ ५५॥
क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः ।
मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः ॥ ५६॥
मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः ।
पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः ॥ ५७॥
ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथावराः ।
नागायुतबलाश्चैव वायुवेगास्तथापराः ॥ ५८॥
एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः ।
बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः ॥ ५९॥
मुखमण्डी बिडाली च पूतना गन्धपूतना ।
शीतवातोष्णवेताली रेवती ग्रहसंज्ञिताः ॥ २.१०९.६०॥
प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः ।
सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः ॥ ६१॥
नक्तञ्चराः सुखोदर्काः सदा पर्वणि दारुणाः ।
मातरो मातृवत्पुत्रं रञ्जन्तु मम नित्यशः ॥ ६२॥
पितामहमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः ।
कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः ॥ ६३॥
महाभीमा महावीर्या दर्पोदभूता महाबलाः ।
क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः ॥ ६४॥
नक्तञ्चराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः ।
लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥ ६५॥
शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः ।
पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः ॥ ६६॥
दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः ।
वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥ ६७॥
व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः ।
नानावस्वनसंवीताश्चित्रमाल्यानुलेपनाः ॥ ६८॥
गजाश्वोष्ट्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः ।
वराहोलूकगोमायुमृगाखुमहिषाननाः ॥ ६९॥
वामना विकटाः कुब्जाः कराला लूनमूर्धजाः ।
सहस्रशतशश्चान्ये सहस्रजटधारिणः ॥ २.१०९.७०॥
श्वेताः कैलाससङ्काशाः केचिद् दिनकरप्रभाः ।
केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः ॥ ७१॥
एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे ।
निर्मांसाः स्थूलजङ्घाश्च व्यादितास्या भयङ्कराः ॥ ७२॥
वापीतडागकूपेषु समुद्रेषु सरित्सु च ।
श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ॥ ७३॥
एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः ।
महागणपतिर्नन्दी महाकालो महाबलः ।
माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ ॥ ७४॥
ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः ।
देवश्च वामदेवश्च घण्टाकर्णः करन्धमः ॥ ७५॥
श्वेतमोदः कपाली च जम्भकः शत्रुतापनः ।
मज्जनोन्मज्जनौ चोभौ सन्तापनविलापनौ ॥ ७६॥
निजघासोऽघसश्चैव स्थूणाकर्णः प्रशोषणः ।
उल्कामाली धमधमो ज्वालामाली प्रमर्दनः ॥ ७७॥
सङ्घट्टनः सङ्कुटनः काष्ठभूतः शिवङ्करः ।
कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥ ७८॥
अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च ।
क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः ॥ ७९॥
भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः ।
उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः ॥ २.१०९.८०॥
चपलोऽसमवेतालस्तामसः सुमहाकपिः ।
हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः ॥ ८१॥
हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः ।
पार्वत्या रोषसम्भूताः सहस्राणि शतानि च ॥ ८२॥
शक्तिमन्तो धृतिमन्तो ब्रह्मण्याः सत्यसङ्गराः ।
सर्वकामापहन्तारो द्विषतां च मृधेमृधे ॥ ८३॥
रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः ।
तेषां गणानां पतयः सगणाः पान्तु मां सदा ॥ ८४॥
नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः ।
पितरः कारणं कार्यमाधयो व्याधयस्तथा ॥ ८५॥
अगस्त्यो गालवो गार्ग्यः शक्तिर्धीम्यः पराशरः ।
कृष्णात्रेयश्च भगवानसितो देवलो बलः ॥ ८६॥
बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः ।
द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥ ८७॥
विश्वामित्रो वसिष्ठश्च लोमशश्च महामुनिः ।
उत्तङ्कश्चैव रैभ्यश्च पौलोमश्च द्वितस्त्रितः ॥ ८८॥
ऋषिर्वै कालवृक्षीयो मुनिर्मेधातिथिस्तथा ।
सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा ॥ ८९॥
संवर्त ऋष्यशृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः ।
ऋचीको जमदग्निश्च तथौर्वस्तपसां निधिः ॥ २.१०९.९०॥
भरद्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः ।
बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च ॥ ९१॥
वैतण्डी दीर्घतापश्च वेदगाथोंऽशुमाञ्छिवः ।
अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च ॥ ९२॥
उद्दालकः क्षीरपाणिः शृङ्गी गौरमुखस्तथा ।
अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा ॥ ९३॥
एते चान्ये च ऋषयो बहवः शंसितव्रताः ।
मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः ॥ ९४॥
त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः ॥ ९५॥
उच्चैःश्रवा हयः श्रीमान् वैद्यो धन्वन्तरिर्हरिः ।
अमृतं गौः सुपर्णश्च दधि गौराश्च सर्षपाः ॥ ९६॥
शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं यवाक्षताः ।
दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च ॥ ९७॥
तथाप्रतिहतं चक्रं महोक्षश्चन्दनं विषम् ।
श्वेतो वृषः करी मत्तः सिंहो व्याघ्रो हयो गिरिः ॥ ९८॥
पृथिवी चोद्धृता लाजा ब्राह्मणा मधु पायसम् ।
स्वस्तिको वर्द्धमानश्च नन्द्यावर्तः प्रियङ्गवः ॥ ९९॥
श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः ।
ऋषिपत्न्यश्च कन्याश्च श्रीमद् भद्रासनं धनुः ।
रोचना रुचकश्चैव नदीनां सङ्गमोदकम् ॥ २.१०९.१००॥
सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः ।
नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः ॥ १०१॥
आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च ।
पुण्यं वै विगतक्लेशं श्रीमद् वै मङ्गलान्वितम् ॥ १०२॥
रामेणोदाहृतं पूर्वमायुःश्रीजयकाङ्क्षिणा ।
य इदं श्रावयेद् विद्वांस्तथैव शृणुयान्नरः ॥ १०३॥
मङ्गलाष्टशतं स्नातो जपन् पर्वणि पर्वणि ।
वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ॥ १०४॥
न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् ।
धन्यं यशस्यमायुष्यं पवित्रं वेदसम्मितम् ॥ १०५॥
श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् ।
शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम् ।
सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् ॥ १०६॥
श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः ।
सर्वपापविशुद्धात्मा लभते च शुभां गतिम् ॥ १०७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः ॥ १०९॥
२.११० दशाधिकशततमोऽध्यायः
धन्योपाख्यानम् NArada's quest for the extraordinary
साम्बस्य उत्पत्तिः अस्त्रशिक्षा च, द्वारकायां में आगतानां राजानां मध्ये नारदेन भगवतः श्रीकृष्णस्य धन्यतायाः प्रतिपादनं
वैशम्पायन उवाच ।
हृतो यदैव प्रद्युम्नः शाम्बरेणात्मघातिना ।
मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत ॥ १॥
बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः ।
रामादनन्तरश्चैव मानितः सर्ववृष्णिभिः ॥ २॥
जातमात्रे ततः कृष्णः शुभां तामवसत् पुरीम् ।
निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥ ३॥
यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः ।
जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः ॥ ४॥
कस्यचित् त्वथ कालस्य पुरे वारणसाह्रये !
दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः ॥ ५॥
तां श्रुत्वा माधर्वीं लक्ष्मीं सपुत्रं च जनार्दनम् ।
पुरीं द्वारावतीं चैव निविष्टां सागरान्तरे ॥ ६॥
दूतैस्तैः कृतसङ्घानाः पृथिव्यां सर्वपार्थिवाः ।
श्रियं द्रष्टुं दृषीकेशमाजग्मुः कृष्णमन्दिम् ॥ ७॥
दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः ।
पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः ॥ ८॥
पाण्ड्याश्चोलकलिङ्गेशा बाह्रीका द्राविडाः खशाः ।
अक्षौहिणीः प्रकर्षन्तो दृशा चाष्टौ च भूमिपाः ॥ ९॥
आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् ।
ते पर्वतं रैवतकं परिवार्यावनीश्वराः ॥ २.११०.१०॥
विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु ।
ततः श्रीमान् हृषीकेशाः सह् याद्वपुङ्गवैः ॥ ११॥
समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः ।
स तेषां नरदेवानां मध्यस्थेओ मधुसूदनः ॥ १२॥
व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः ।
कृत्वा सिंहासने कृष्णः काञ्चने निषसाद् ह ।
राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ ॥ १४॥
सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः ।
स यादवनरेन्द्राणां समाजः शुशुभे तदा ॥ १५॥
सुराणामसुराणां च सदसि ब्रह्मणो यथा ।
तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे ।
यदूनां पार्थिवानां च केशवस्योपश्रृण्वतः ॥ १६॥
एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः ।
तुमुलं दुर्दिनं चासीत् सविद्युत्स्तनयित्नुमत् ॥ १७॥
तद् दुर्दिनतलं भित्त्वा नारद्ः प्रत्यदृश्यत ।
सञ्चेष्टितजटाभारो वीणासक्तेन बाहुना ॥ १८॥
स पपात नरेन्द्राणां मध्ये सागरसन्निभः ।
नारदोऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः ॥ १९॥
तस्मिन् निपतिते भूमौ नारदे मुनिपुङ्गवे ।
तदद्भुतं महामेधं व्यपाकृष्यत दुर्दिनम् ॥ २.११०.२०॥
सोऽवगाह्य नरेन्द्राणां मध्ये सागरसन्निभः ।
आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम् ॥ २१॥
आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः ।
धन्यश्चासि महाबाहो लोकेनान्योऽस्ति कश्चन ॥ २२॥
एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः ।
आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् ॥ २३॥
एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये मद्दीभृताम् ।
कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम् ॥ २४॥
तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् ।
गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम् ॥ २५॥
आश्चर्यमित्यभिहितं धन्योऽसीति च माधव ।
दक्षिणाभिः सहेत्येवं प्रत्युक्तेऽपि च नारदे ॥ २६॥
किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् ।
यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः ॥ २७॥
तानुवाच ततः कृष्णः सर्वान् पार्थिवपुङ्गवान् ।
श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति ॥ २८॥
ब्रूहि नारद तत्त्वार्थं श्रीतुकामा महीभुजः ।
यत् त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम् ॥ २९॥ ,
स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलङ्कृतः ।
प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे ॥ २.११०.३०॥
नारद उवाच ।
श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः ।
अस्य कृष्णस्य महतो यथा पारमहं गतः ॥ ३१॥
अहं कदाचिद् गङ्गायास्तीरे त्रिषवणातिथिः ।
चराम्येकः क्षपापाये दृश्यमाने दिवाकरे ॥ ३२॥
अपश्यं गिरिकूटाभं कपालद्वयदेहिनम् ।
क्रोशमण्डलविस्तारं तावद् द्विगुणमायतम् ॥ ३३॥
चतुश्चरणसुश्लिष्टं क्लिन्नं चैव सपङ्किलम् ॥
मम वीणाकृतिं कूर्मं गजचर्मचयोपमम् ॥ ३४॥
सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् ।
त्वमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मतः ॥ ३५॥
यस्त्वमेवमभेद्याभ्यां कपालाभ्यां समावृतः ।
तोये चरसि निःशङ्कः कञ्चिज्ञमचिन्तयन् ॥ ३६॥
स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् ।
किमाश्चर्ये मयि मुने धन्यश्चाहं कथं विभो ॥ ३७॥
गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् ॥
यत्राहमिव सत्त्वानि चरन्त्ययुतशो द्विज ॥ ३८॥
सोऽहं कुतूहलाविष्टो नर्दी गङ्गामुपस्थितः ।
धन्यासि त्वं सरिच्छ्रेष्ठे नित्यमाश्चर्यभूषिता ॥ ३९॥
या त्वमेवं महादेहैः श्वापदैरुपशोभिता ।
ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् ॥ २.११०.४०॥
एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत ।
नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम् ॥ ४५॥
मा मैवं देवगन्धर्व सङ्ग्रामकलहप्रिय ।
नाहं धन्या द्विजश्रेष्ठ नैवाश्चर्योपशोभिता ॥ ४२॥
तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते ।
सर्वाश्चर्यकरो लोके धन्यश्चैवार्णवो द्विज ॥ ४३॥
यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः ।
सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः ॥ ४४॥
आश्चर्य खलु लोकान धन्यश्चासि महार्णव ।
येन खल्वसि योनिस्त्वमम्भसां सलिलेश्वरः ॥ ४५॥
स्थाने त्वां वारिवाहिन्यः सरितो लोकपावनाः ।
इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः ॥ ४६॥
समुद्रस्त्वेवमुक्तस्तु ततो मामवदद्वचः ।
स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः ॥ ४७॥
मा मैवं देवगन्धर्व नास्म्याश्चर्यो द्विजर्षभ ।
वसुधेयं मुने धन्या यत्राहमुपरि स्थितः ॥ ४८॥
ऋते तु पृथिवीं लोके किमाश्चर्यमतः परम् ।
सोऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः ॥ ४९॥
कौतूहलसमाविष्टो ह्यब्रुवं जगतो गतिम् ।
धरित्रि देहिनां योने धन्या खल्वसि शोभने ॥ २.११०.५०॥
आश्चर्यं चापि भूतेषु महत्या क्षमया युते ।
तेन खल्वसि भूतानां धरणी मनुजारणिः ॥ ५१॥
क्षमा त्वत्तः प्रभूता च कर्म चाम्बरगामिनाम् ।
ततो भूः स्तुतिवाक्येन सा मयोक्तेन तेजिता ॥ ५२॥
विहाय सहजं धैर्यं प्रत्यक्षा मामभाषत ।
देवगन्धर्व मा मैवं सङ्ग्रामकलहप्रिय ॥ ५३॥
नास्मि धन्या न चाश्चर्ये पारक्येयं धृतिर्मम ।
एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् ॥ ५४॥
आश्चर्याणि च दृश्यन्ते एते लोकस्य हेतवः ।
सोऽहं धरणिवाक्येन पर्वतान् समुपस्थितः ॥ ५५॥
धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः ।
काञ्चनस्याग्ररत्नस्य घातूनां च विशेषतः ॥ ५६॥
तेन खल्वाकराः सर्वे भवन्तो भुवि शाश्वताः ।
ते ममैतद् वचः श्रुत्वा पर्वतास्तस्थुषां वराः ॥ ५७॥
ऊचुर्मां सान्त्वयुक्तानि वचांसि घनशोभिताः ।
ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः ।
ब्रह्मा प्रजापतिर्धन्यः सर्वाश्चर्यः सुरेष्वपि ॥ ५८॥
सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम् ।
तस्य वाक्यस्य पर्यायपर्याप्तमिव लक्षये ॥ ५९॥
सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम् ।
स्तोतुं पश्चादुपगतः प्रणतोऽवनताननः ॥ २.११०.६०॥
सोऽहं वाक्यसमाप्त्यर्थं श्रावये पद्मयोनिजम् ।
आश्चर्यं भगवानेको धन्योऽसि जगतो गुरुः ॥ ६१॥
न किञ्चिदन्यत् पश्यामि भूतं यद्भवता समम् ।
त्वत्तः सर्वमिदं जातं जगत् स्थावरजङ्गमम् ॥ ६२॥
सदेवदानवा मर्त्या लोके भूतेन्द्रियात्मकाः ।
भवन्ति सर्वदेवेश दृष्ट्वा सर्वमिदं जगत् ॥ ६३॥
तेन खल्वसि देवानां देवदेवः सनातनः ।
तेषामेवासि यत्स्रष्टा लोकानामादिसम्भवः ॥ ६४॥
ततो मां प्राह भगवान् ब्रह्मा लोकपितामहः ।
धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे ॥ ६५॥
आश्चर्यं परमं वेदा धन्या वेदाश्च नारद ।
ये लोकान् धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः ॥ ६६॥
ऋक्सामयजुषां सत्यमथर्वणि च यन्मतम् ।
तन्मयं विद्धि मां विप्रं धृतोऽहं तैर्मया च ते ॥ ६७॥
पारमेष्ठ्येन वाक्येन नोदितोऽहं स्वयम्भुवा ।
वेदोपस्थानिकां चक्रे मतिं संस्थानविस्तरात् ॥ ६८॥
सोऽहं स्वयम्भूवचनाद् वेदान् वै समुपस्थितः ।
अवोचं तांश्च चतुरो मन्त्रप्रवचनान्वितान् ॥ ६९॥
धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यभूषिताः ।
आधाराश्चैव विप्राणामेवमाह प्रजापतिः ॥ २.११०.७०॥
स्वयम्भुवोऽपीह परं भवत्सु प्रश्नमागतम् ।
युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा ॥ ७१॥
प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः ।
आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः ॥ ७२॥
यज्ञार्थे च वयं सृष्टा धात्रा येन स्म नारद ॥
तदस्माकं परो यज्ञो न वयं स्ववशे स्थिताः ॥ ७३॥
स्वयम्भुवः परा वेदा वेदानां क्रतवः पराः ।
ततोऽहमब्रुवं यज्ञान् बृहद्वाग्भिः पुरस्कृतान् ॥ ७४॥
भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते ।
ब्रह्मणाभिहितं वाक्यं यच्च वेदैरुदीरितम् ॥ ७५॥
आआश्चर्यमन्यल्लोकेऽस्मिन् भवद्भ्यो नाभिगम्यते ।
धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशजाः ॥ ७६॥
तेऽपि खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः ।
भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः ॥ ७७॥
अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् ।
प्रत्यूचुर्मां ततो वाक्यं सर्वे यूपध्वजाः स्थिताः ॥ ७८॥
आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने ।
आश्चर्यं परमं विष्णुः स ह्यस्माकं परा गतिः ॥ ७९॥
यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् ।
तत् सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति ॥ २.११०.८०॥
सोऽहं विष्णोर्गतिं प्रेप्सुरिह सम्पतितो भुवि ।
दृष्टश्चायं मया कृष्णो भवद्भिरिह संवृतः ॥ ८१॥
यन्मयाभिहितो ह्येष त्वमाश्चर्यं जनार्दन ।
धन्यश्चासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः ॥ ८२॥
प्रत्युक्तोऽह्मनेनाद्य वाक्यस्यास्य यदुत्तरम् ।
दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम ॥ ८३॥
यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः ।
दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् ॥ ८४॥
कूर्मेणाभिहितं पूर्वं पारम्पर्यादिहागतम् ।
सदक्षिणेऽस्मिन् पुरुषे तद्वाक्यं प्रतिपादितम् ॥ ८५॥
यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम् ।
तदेतत् सर्वमाख्यातं साधयामि यथागतम् ॥ ८६॥
नारदे तु गते स्वर्गे सर्वे ते पृथिवीभुजः ।
विस्मिताः स्वानि राष्ट्राणि जग्मुः सबलवाहनाः ॥ ८७॥
जनार्दनोऽपि सहितो यदुभिः पावकोपमैः ।
स्वमेव भवनं वीरो विवेश यदुनन्दनः ॥ ८८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि धन्योपाख्यानं नाम दशाधिकशततमोऽध्यायः ॥ ११०॥
२.१११ एकादशाधिकशततमोऽध्यायः
वासुदेवमाहात्म्यम् VAsudevamAhAtmyam
श्रीकृष्णस्य महिमा - अर्जुनेन श्रीकृष्णस्य आज्ञां गृहीत्वा ब्राह्मणबालकस्य रक्षणाय गमनं
जनमेजय उवाच ।
भूय एव महाबाहो कृष्णस्य जगतां पतेः ।
माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम ॥ १॥
न हि मे तृप्तिरस्तीह शृण्वतस्तस्य धीमतः ।
कर्मणामनुसन्तानं पुराणस्य महात्मनः ॥ २॥
वैशम्पायन उवाच ।
नान्तः शक्यः प्रभावस्य वक्तुं वर्षशतैरपि ।
गोविन्दस्य महाराज श्रूयतामिदमद्भुतम् ॥ ३॥
शरतल्पे शयानेन भीष्मेण परिचोदितः ।
गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत् ॥ ४॥
राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् ।
युधिष्ठिरं जितामित्रमिति तच्छ्रृणु कौरव ॥ ५॥
अर्जुन उवाच ।
पुराहं द्वारकां यातः सम्बन्धीनवलोककः ।
न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः ॥ ६॥
ततः कदाचिद् धर्मात्मा दीक्षितो मधुसूदनः ।
एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा ॥ ७॥
ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः ।
कृष्णं विज्ञापयामास त्राहि त्राहीति चाब्रवीत् ॥ ८॥
ब्राह्मण उवाच ।
रक्षाधिकारो भवतः परित्रायस्व मां विभो ।
चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् ॥ ९॥
वासुदेव उवाच ।
न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो भयम् ।
ब्रूहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम् ॥ २.१११.१०॥
ब्राह्मण उवाच ।
जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ ।
त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि ॥ ११॥
ब्राह्मण्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम् ।
यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन ॥ १२॥
अर्जुन उवाच ।
ततो मामाह गोविन्दो दीक्षितोऽहं क्रताविति ।
रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि ॥ १३॥
श्रुत्वाहमेवं कृष्णस्य वचोऽवोचं नराधिप ।
मां नियोजय गोविन्द रक्षिष्येऽहं द्विजं भयात् ॥ १४॥
इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः ।
रक्षसीत्येवमुक्तस्तु व्रीडितोऽस्मि नराधिप ॥ १५॥
ततो मां व्रीडितं मत्वा पुनराह जनार्दनः ।
गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् ॥ १६॥
त्वत्पुरोगाश्च रक्षन्तु वृष्ण्यन्धकमहारथाः ।
ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम् ॥ १७॥
ततोऽहं वृष्णिसैन्येन महता परिवारितः ।
तमग्रतो द्विजं कृत्वा प्रयातः सह सेनया ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये एकादशाधिकशततमोऽध्यायः ॥ १११॥
२.११२ द्वादशाधिकशततमोऽध्यायः
कृष्णस्योदिचीगमनः KRiShNa goes north
ब्राह्मणबालकस्य रक्षणे अर्जुनस्य विफलता, ब्राह्मणेन अर्जुनस्य तिरस्कारं, तेषां
श्रीकृष्णेन सह उत्तरां दिशायां गमनं
अर्जुन उवाच ।
मुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।
विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः ॥ १॥
ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन ।
समन्ताद् वृष्णिसैन्येन महता परिवारितः ॥ २॥
ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।
दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे ॥ ३॥
सन्ध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः ।
पपात महती चोल्का पृथिवी चाप्यकम्पत ॥ ४॥
तान्समीक्ष्य महोत्पातान् दारुणाँल्लोमहर्षणान् ।
योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः ॥ ५॥
युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः ।
सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ॥ ६॥
गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः ।
उपागम्य भयादस्मानिदं वचनमब्रवीत् ॥ ७॥
कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे ।
तथा भवन्तस्तिष्ठन्तु न भवेद् वञ्चनं यथा ॥ ८॥
मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् ।
तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च ॥ ९॥
अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै ।
ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ॥ २.११२.१०॥
ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः ।
विष्टम्भिता दिशः सर्वा हृत एव स बालकः ॥ ११॥
ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन् कुमारके ।
वाचः स परुषास्तीव्राः श्रावयामास मां तदा ॥ १२॥
वृष्णयो हतसङ्कल्पास्तथाहं नष्टचेतनः ।
मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत ॥ १३॥
रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि ।
शृणु वाक्यमिदं शेषं यत् त्वमर्हसि दुर्मते ॥ १४॥
वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना ।
यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् ॥ १५॥
यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता ॥ १६॥
रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् ।
मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते ॥ १७॥
अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा ।
सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः ॥ १८॥
ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् ।
व्रीडितः शोकसन्तप्तो गोविन्देनोपलक्षितः ॥ १९॥
स तु मां व्रीडितं दृष्ट्वा विनिन्दन् कृष्णसन्निधौ ।
मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥ २.११२.२०॥
तं प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः ॥ २१॥
धिगर्जुनं वृथावादं धिगात्मश्लाघिनो धनुः ।
दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः ॥ २२॥
एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् ।
ययौ संयमिनीं वीरो यत्रास्ते भगवान् यमः ॥ २३॥
विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम् ।
आग्नेयीं नैरृतीं सौम्यामुदीचीं वारुणीं तथा ॥ २४॥
रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ।
ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः ॥ २५॥
अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ।
दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना ॥ २६॥
कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवाः ।
इति सम्भाष्य मां स्नेहात् समाश्वास्य च माधवः ॥ २७॥
सान्त्ययित्वा तु तं विप्रमिदं वचनमब्रवीत् ।
सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ ॥ २८॥
योजयाश्वानिति तदा दारुकं प्रत्यभाषत ।
आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् ॥ २९॥
मामुवाच ततः शौरिः सारथ्यं क्रियतामिति ।
ततः समास्थाय रथं कृष्णोऽहं ब्राह्मणः स च ।
प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ ॥ २.११२.३०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये श्रीकृष्णस्योदीचीगमने द्वादशाधिकशततमोऽध्यायः ॥ ११२॥
२.११३ त्रयोदशाधिकशततमोऽध्यायः
मृतब्राह्मणपुत्रस्य पुनः प्रत्यानयनम् BrAhmaNa's son restored
श्रीकृष्णेन ब्राह्मणपुत्राणां आनयनं
अर्जुन उवाच ।
ततः पर्वतजालानि सरितश्च वनानि च ।
अपश्यं समतिक्रम्य सागरं वरुणालयम् ॥ १॥
ततोऽर्घ्यमुदधिः साक्षादुपनीय जनार्दनम् ।
स प्राञ्जलिः समुत्थाय किङ्करोमीति चाब्रवीत् ॥ २॥
प्रतिगृह्य स तां पूजां तमुवाच जनार्दनः ।
रथपन्थानमिच्छामि त्वया दत्तं नदीपते ॥ ३॥
अथाब्रवीत् समुद्रस्तु प्राञ्जलिर्गरुडध्वजम् ।
प्रसीद भगवन् नैवमन्योऽप्येवं गमिष्यति ॥ ४॥
त्वयैव स्थापितः पूर्वमगाधोऽस्मि जनार्दन ।
त्वया प्रवर्तिते मार्गे यास्यामि गमनायताम् ॥ ५॥
अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः ।
एवं सञ्चिन्त्य गोविन्द यत् क्षमं तत् समाचर ॥ ६॥
वासुदेव उवाच ।
ब्राह्मणार्थं मदर्थ च कुरु सागर मद्वचः ।
मदृते न पुमान् कश्चिदन्यस्त्वां धर्षयिष्यति ॥ ७॥
अथाब्रवीत् समुद्रस्तु पुनरेव जनार्दनम् ।
अभिशापभयाद् भीतो बाढमेवं भविष्यति ॥ ८॥
शोषयाम्येष मार्गं ते येन त्वं कृष्ण यास्यसि ।
रथेन सह सूतेन सध्वजेन तु केशव ॥ ९॥
वासुदेव उवाच ।
मया दत्तो वरः पूर्वं न शोषं यास्यसीति ह ।
मानुषास्ते न जानीयुर्विविधान् रत्नसञ्चयान ॥ १०॥
जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी ।
न च कश्चित् प्रमाणं ते रत्नानां वेत्स्यते नरः ॥ ११॥
सागरेण तथेत्युक्ते प्रस्थिताः स्मो जलेन वै ।
स्तम्भितेन पथा भूमौ मणिवर्णेन भास्वता ॥ १२॥
ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान् वयम् ।
क्षणेन समतिक्रान्ता गन्धमादनमेव च ॥ १३॥
ततस्तु पर्वताः सप्त केशवं समुपस्थिताः ।
जयन्तो वैजयन्तश्च नीलो रजतपर्वतः ॥ १४॥
महामेरुः सकैलास इन्द्रकूटश्च नामतः ।
बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च ॥ १५॥
उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा ।
तांश्चैव प्रतिजग्राह विधिवन्मधुसूदनः ॥ १६॥
तानुवाच हृषीकेशः प्रणामावनतान् स्थितान् ।
विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् ॥ १७॥
ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः ।
प्रददुः कामतो मार्गं गच्छतो भरतर्षभ ॥ १८॥
तत्रैवान्तर्हिताः सर्वे तदाश्चर्यतरं मम ।
असक्तं च रथो याति मेघज्ञालेष्विवांशुमान् ॥ १९॥
सप्त द्वीपान् ससिन्धुश्च सप्त सप्त गिरीनथ ।
लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥ २०॥
ततः कदाचिद् दुःखेन रथमूहुस्तुरङ्गमाः ।
पङ्कभूतं हि तिमिरं स्पर्शाद् विज्ञायते नृप ॥ २१॥
अथ पर्वतभूतं तत् तिमिरं समपद्यत ।
तदासाद्य महाराज निष्प्रयत्ना हयाः स्थिताः ॥ २२॥
ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तदा ।
आकाशं दर्शयामास रथपन्थानमुत्तमम् ॥ २३॥
निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा ।
भविष्यामीति संज्ञा मे भयं च विगतं मम ॥ २४॥
ततस्तेजः प्रज्वलितमपश्यं तत् तदाम्बरे ।
सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् ॥ २५॥
तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा ।
रथ एव स्थितश्चाहं स च ब्राह्मणसत्तमः ॥ २६॥
स मुहूर्तात् ततः कृष्णो निश्चक्राम तदा प्रभुः ।
चतुरो बालकान् गृह्य ब्राह्मणस्यात्मजांस्तदा ॥ २७॥
प्रददौ ब्राह्मणायाथ पुत्रान् सर्वाञ्जनार्दनः ।
त्रयः पूर्वं हृता ये च सद्योजातश्च बालकः ॥ २८॥
प्रहृष्टो ब्राह्मणस्तत्र पुत्रान् दृष्ट्वा पुनः प्रभो ।
अहं च परमप्रीतो विस्मितश्चाभवं तदा ॥ २९॥
ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः ।
यथा गता निवृत्ताः स्म तथैव भरतर्षभ ॥ ३०॥
ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तं
असम्प्राप्तेऽर्धदिवसे विस्मितोऽहं पुनः पुनः ॥ ३१॥
सपुत्रं भोजयित्वा तु द्विजं कृष्णो महायशाः ।
धनेन वर्धयित्वा च गृहं प्रास्थापयत् तदा ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहालये ब्राह्मणपुत्रानयने त्रवोदशाधिकशततमोऽध्यायः ॥ ११३॥
२.११४ चतुर्दशाधिकशततमोऽध्यायः
गूढोद्घाटनम् KRiShNa divulges divine secret
भगवतः श्रीकृष्णस्य अर्जुनं प्रति स्वयथार्थस्वरूपस्य परिचयदानं
अर्जुन उवाच ।
ततः कृष्णो भोजयित्वा शतानि सुबहूनि च ।
विप्राणामृषिकल्पानां कृतकृत्योऽभवत् तदा ॥ १॥
ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः ।
विचित्राश्च कथा दिव्याः कथयामास भारत ॥ २॥
ततः कथान्ते तत्राहमभिगम्य जनार्दनम् ।
अपृच्छं तद् यथावृत्तं कृष्णं यद् दृष्टवानहम् ॥ ३॥
कथं समुद्रः स्तब्धोदः कृतस्तु कमलेक्षण ।
पर्वतानां च विवरं कृतं तत् कथमच्युत ॥ ४॥
तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् ।
तच्च यत्परमं तेजः प्रविष्टोऽसि कथं च तत् ॥ ५॥
किमर्थं तेन ते बालास्तदा चापहृताः प्रभो ।
यच्च ते दीर्घमध्वानं सङ्क्षिप्तं तत् कथं पुनः ॥ ६॥
कथं चाल्पेन कालेन नस्तद्गतागतम् ।
एतत् सर्वं यथावृत्तमाचक्ष्व मम केशव ॥ ७॥
वासुदेव उवाच ।
मद्दर्शनार्थं ते बाला हृतास्तेन महात्मना ।
विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह ॥ ८॥
ब्रह्म तेजोमयं दिव्यं महद् यद् दृष्टवानसि ।
अहं स भरतश्रेष्ठ मत्तेजस्तत् सनातनम् ॥ ९॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
यां प्रविश्य भवन्तीह मुक्ता योगविदुत्तमाः ॥ २.११४.१०॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत् पदं परमं ब्रह्म सर्वं विभजते जगत् ॥ ११॥
मामेव तद् घनं तेजो ज्ञातुमर्हसि भारत ।
समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् ॥ १२॥
अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया ।
पङ्कभूतं हि तिमिरं दृष्टवानसि यद्धि तत् ॥ १३॥
अहं तमो घनीभूतमहमेव च पाटकः ।
अहं च कालो भूतानां धर्मश्चाहं सनातनः ॥ १४॥
चन्द्रादित्यौ महाशैलाः सरितश्च सरांसि च ।
चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः ॥ १५॥
चातुर्वर्ण्यं मत्प्रसूतं चातुराश्रम्यमेव च ।
चातुर्विध्यस्य कर्ताहमिति बुध्यस्व भारत ॥ १६॥
अर्जुन उवाच ।
भगवन् सर्वभूतेश वेत्तुमिच्छामि ते प्रभो ।
पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम ॥ १७॥
वासुदेव उवाच ।
ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत ।
उग्रं बृहत्तमं चैव मत्तस्तद् विद्धि पाण्डव ॥ १८॥
प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनञ्जय ।
तेन ते कथयिष्यामि नान्यथा वक्तुमुत्सहे ॥ १९॥
अहं यजूंषि सामानि ऋचश्चाथर्वणानि च ।
ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ ॥ २.११४.२०॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
चन्द्रादित्यावहोरात्रं पक्षा मासास्तथर्तवः ।
मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा ॥ २१॥
मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् ।
विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति हि ॥ २२॥
मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत ।
सच्चासच्च ममैवात्मा सदसच्चैव यत्परम् ॥ २३॥
अर्जुन उवाच ।
एवमुक्तोऽस्मि कृष्णेन प्रीयमाणेन वै तदा ।
तथैव च मनो नित्यमभवन्मे जनार्दने ॥ २४॥
एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे ।
यन्मां पृच्छसि राजेन्द्र भूयांश्चातो जनार्दनः ॥ २५॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ।
पूजयामास धर्मात्मा गोविन्दं पुरुषोत्तमम् ॥ २६॥
विस्मितश्चाभवद् राजा सह सर्वैः सहोदरैः ।
राजभिश्च समासीनैर्ये तत्रासन् समागताः ॥ २७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णार्जुनभाषणे
चतुर्दशाधिकशततमोऽध्यायः ॥ ११४॥
२.११५ पञ्चदशाधिकशततमोऽध्यायः
वासुदेवपराक्रमवर्णनम् VAsudeva's valour
भगवतः श्रीकृष्णस्य पराक्रमाणां सङ्क्षेपतः वर्णनं
जनमेजय उवाच ।
भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वतः ॥ १॥
श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युतेः ।
असङ्ख्येयानि दिव्यानि प्रकृतान्यपि सर्वशः ॥ २॥
यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने ।
प्रभूयाः सर्वशस्तात तानि मे शृण्वतोऽनघ ॥ ३॥
वैशम्पायन उवाच ।
बहून्याश्चर्यभूतलि केशवस्य महात्मनः ।
कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम् ॥ ४॥
गन्तुं हि भरतश्रेष्ठ विस्तरेण समन्ततः ।
अवश्यं हि मया वाच्यं लेशमात्रेण भारत ॥ ५॥
विष्णोरमितवीर्यस्य प्रथितोदारकर्मणः ।
आनुपूर्व्यां प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ ६॥
द्वारवत्यां निवसता यदुसिंहेन धीमता ।
राष्ट्राणि नृपमुख्यानां क्षोभितानि महात्मनाम् ॥ ७॥
यदूनामन्तरप्रेप्सुर्विचक्रो दानवो हतः ।
पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना ॥ ८॥
समुद्रमध्ये दुष्टात्मा नरको दानवो हतः ।
वासवं च रणे जित्वा पारिजातो हृतो बलात् ॥ ९॥
वरुणश्चैव भगवान् निर्जितो लोहिते ह्रदे ।
दन्तवक्त्रश्च कारूषो निहतो दक्षिणापथे ॥ २.११५.१०॥
शिशुपालश्च सम्पूर्णे किल्बिषैकशते हतः ।
गत्वा च शोणितपुरं शङ्करेणाभिरक्षितः ॥ ११॥
बलेः सुतो महावीर्यो बाणो बाहुसहस्रभृत् ।
महामृधे महाराज जित्वा जीवन् विसर्जितः ॥ १२॥
निर्जितः पावकश्चैव गिरिमध्ये महात्मना ।
शाल्वश्च विजितः सङ्ख्ये सौभश्च विनिपातितः ॥ १३॥
विक्षोभ्य सागरं चैव पाञ्चजन्यो वशीकृतः ।
हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः ॥ १४॥
जरासन्धस्य निधने मोक्षिताः सर्वपार्थिवाः ।
रथेन जित्वा नृपतीन् गान्धारतनया हृता ॥ १५॥
भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः ।
दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् ॥ १६॥
गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् ।
दौत्यं च तत्कृतं घोरे विग्रहे जनमेजय ॥ १७॥
अनेन यदुमुख्येन यदुवंशो विवर्धितः ।
कुन्त्याश्च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान् प्रति ॥ १८॥
निवृत्ते भारते युद्धे प्रतिदास्यामि तत्सुतान् ।
मोक्षितश्च महातेजा नृगः शापात्सुदारुणात् ॥ १९॥
यवनश्च हतः सङ्ख्ये काल इत्यभिविश्रुतः ।
वानरौ च महावीर्यौ मैन्दो द्विविद एव च ॥ २.११५.२०॥
विजितौ युधि दुर्धर्षौ जाम्बवांश्च पराजितः ।
सान्दीपनेस्तथा पुत्रस्तव चैव पिता तथा ॥ २१॥
गतौ वैवस्वतवशं जीवितौ तस्य तेजसा ।
सङ्ग्रामा बहवः प्राप्ता घोरा नरवरक्षयाः ॥ २२॥
निहताश्च नृपाः सर्वे कृत्वा तज्जयमद्भुतम् ।
जनमेजयास्य युद्धेषु यथा ते वर्णिता मया ॥ २३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये पञ्चदशाधिकशततमोऽध्यायः ॥ ११५॥
२.११६ षोडशाधिकशततमोऽध्यायः
बाणासुराख्यानम् Story of bANAsura
भगवतः शङ्करेण बाणासुरस्य स्वस्य एवं देव्याः पार्वत्याः पुत्ररूपेण स्वीकरणं, बाणासुरेण तेन सह युद्धस्य वरप्राप्तिः, वरकारणेन बाणस्य मन्त्रिणः कुम्भाण्डस्य चिन्ता
जनमेजय उवाच ।
भूय एव महाबाहोर्यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रुतानि द्विजसत्तम ॥ १॥
त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः ।
यत् त्वया कथितं पूर्वं बाणं प्रति महासुरम् ॥ २॥
कथं च देवदेवस्य पुत्रत्वमसुरो गतः ॥ ३॥
योऽभिगुप्तः स्वयं ब्रह्मञ्छङ्करेण महात्मना ।
सहवासं गतेनैव सगणेन गुहेन तु ॥ ४॥
बलेर्बलवतः पुत्रो ज्येष्ठो भ्रातृशतस्य यः ।
वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा ॥ ५॥
असङ्ख्यैश्च महाकायैर्महाबलशतैर्वृतः ।
वासुदेवेन स कथं बाणः सङ्ख्ये पराजितः ॥ ६॥
संरब्धश्चैव युद्धार्थी जीवन्मुक्तः कथं च सः ।
वैशम्पायन उवाच ।
शृणुष्वावहितो राजन् कृष्णस्यामिततेजसः ॥ ७॥
मनुष्यलोके बाणेन यथाभूद् विग्रहो महान् ।
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् ॥ ८॥
बलिपुत्रो रणश्लाघी जित्वा जीवन्विसर्जितः ।
यथा चास्य वरो दत्तः शङ्करेण महात्मना ॥ ९॥
नित्यं सान्निध्यतां चैव गाणपत्यं तथाक्षयम् ।
यथा बाणस्य तद् युद्धं जीवन्मुक्तो यथा च सः ॥ २.११६.१०॥
यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गतः ।
यदर्थं च महद् युद्धं तत् सर्वमखिलं शृणु ॥ ११॥
दृष्ट्वा वपुः कुमारस्य क्रीडतश्च महात्मनः ।
बलिपुत्रो महावीर्यो विस्मयं परमं गतः ॥ १२॥
तस्य बुद्धिः समुत्पन्ना तपश्चर्तुं सुदुष्करम् ।
रुद्रस्याराधनार्थाय देवस्य स्यां यथा सुतः ॥ १३॥
ततोऽग्लपयदात्मानं तपसा श्लाघते च सः ।
देवश्च परमं तोषं जगाम च सहोमया ॥ १४॥
नीलकण्ठः परां प्रीतिं गत्वा चासुरमब्रवीत् ।
वरं वरय भद्रं ते यत् ते मनसि वर्तते ॥ १५॥
अथ बाणोऽब्रवीद् वाक्यं देवदेवं महेश्वरम् ।
देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन ॥ १६॥
शङ्करस्तु तथेत्युक्त्वा रुद्राणीमिदमब्रवीत् ।
कनीयान् कार्तिकेयस्य पुत्रोऽयं प्रतिगृह्यताम् ॥ १७॥
यत्रोत्थितो महासेनः सोऽग्निजो रुधिरे पुरे ।
तत्रोद्देशे पुरं चास्य भविष्यति न संशयः ॥ १८॥
नाम्ना तच्छोणितपुरं भविष्यति पुरोत्तमम् ।
मयाभिगुप्तं श्रीमन्तं न कश्चित् प्रसहिष्यति ॥ १९॥
ततः स निवसन् बाणः पुरे शोणितसाह्वये ।
राज्यं प्रशासते नित्यं क्षोभयन् सर्वदेवताः ॥ २.११६.२०॥
अथ वीर्यमदोत्सिक्तो बाणो बाहुसहस्रवान् ।
अचिन्तयन् देवगणान् युद्धमाकाङ्क्षते सदा ॥ २१॥
ध्वजं चास्य ददौ प्रीतः कुमारो ह्यग्नितेजसम् ।
वाहनं चैव बाणस्य मयूरं दीप्ततेजसम् ॥ २२॥
न देवा न च गन्धर्वा न यक्षा नापि पन्नगाः ।
तस्य युद्धे व्यतिष्ठन्त देवदेवस्य तेजसा ॥ २३॥
त्र्यम्बकेणाभिगुप्तश्च दर्पोत्सिक्तो महासुरः ।
भूयो मृगयते युद्धं शूलिनं सोऽभ्यगच्छत ॥ २४॥
स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च ।
बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् ॥ २५॥
असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः ।
मया मदबलोत्सेकात् ससैन्येन तवाश्रयात् ॥ २६॥
इमं देशं समागम्य वसन्ति स्म पुरे सुखम् ।
ते पराजयसन्त्रस्ता निराशा मत्पराजये ॥ २७॥
नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् ।
सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये ॥ २८॥
अयुध्यतो वृथा ह्येषां बाहूनां धारणं मम ।
तद् ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत् ।
न मे युद्धं विना देव रतिरस्ति प्रसीद मे ॥ २९॥
ततः प्रहस्य भगवानब्रवीद् वृषभध्वजः ।
भविता बाण युद्धं वै यथा तच्छृणु दानव ॥ २.११६.३०॥
ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति ।
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति ॥ ३१॥
इत्येवमुक्तः प्रहसन् बाणस्तु बहुशो मुदा ।
प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् ॥ ३२॥
दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम ।
दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे ॥ ३३॥
आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः ।
पञ्चाञ्जलिशतैर्देवं पूजयन् पतितो भुवि ॥ ३४॥
ईश्वर उवाच ।
उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः स्वकुलस्य तु ।
सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं महत् ॥ ३५॥
वैशम्पायन उवाच ।
एवमुक्तस्ततो बाणस्त्र्यम्बकेण महात्मना ।
हर्षेणात्युच्छ्रितः शीघ्रं ननाम वृषभध्वजम् ॥ ३६॥
शितिकण्ठविसृष्टस्तु बाणः परपुरञ्जयः ।
ययौ स्वभवनं तत्र यत्र ध्वजगृहं महत् ॥ ३७॥
तत्रोपविष्टः प्रहसन् कुम्भाण्डमिदमब्रवीत् ।
प्रियमावेदयिष्यामि भवतो यन्मनोगतम् ॥ ३८॥
इत्येवमुक्तः प्रहसन् बाणमप्रतिमं रणे ।
प्रोवाच राजन्किं त्वेतद्वक्तुकामोऽसि मत्प्रियम् ॥ ३९॥
विस्मयोत्फुल्लनयनः प्रहर्षादिव भाषसे ।
त्वत्तः श्रोतुमिहेच्छामि वरं किं लब्धवानसि ॥ २.११६.४०॥
देवदेवप्रसादेन स्कन्दस्य च महात्मनः ।
ईप्सितं किं त्वया प्राप्तं तन्मे ब्रूहि महासुर ॥ ४१॥
शितिकण्ठप्रसादेन स्कन्दगोपायनेन च ।
कच्चित्त्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना ॥ ४२॥
कच्चिद् विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः ॥ ४३॥
पातालवासमुत्सृज्य कच्चित्तव बलाश्रयात् ।
विबुधावासनिरता भविष्यन्ति महासुराः ॥ ४४॥
बलिर्विष्णुपराक्रान्तो बद्धस्तव पिता नृप ।
सलिलौघाद् विनिष्क्रम्य कच्चिद्राज्यमवाप्स्यति ॥ ४५॥
दिव्यमाल्याम्बरधरं दिव्यस्रग्गन्धलेपनम् ।
कच्चिद् वैरोचनिं तात द्रक्ष्यामः पितरं तव ॥ ४६॥
कच्चित्त्रिभिः क्रमैः पूर्वं हृताँल्लोकानिमान्प्रभो ।
पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः ॥ ४७॥
स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् ।
कच्चिन्नारायणं देवं जेष्यामः समितिञ्जयम् ॥ ४८॥
कच्चिद् वृषध्वजस्तात प्रसादसुमुखस्तव ।
यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते ॥ ४९॥
कश्चिदीश्वरतोषेण कार्तिङ्केयमतेन च ।
प्राप्तवानसि सर्वेषामस्माकं राज्यसम्पदम् ॥ २.११६.५०॥
इति कुम्भाण्डवचनैश्चोदितः सोऽसुरोत्तमः ।
बाणो वाणीमसंसक्तां प्रोवाच वदतां वरः ॥ ५१॥
बाण उवाच ।
चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया ।
ततो मया मुदा पृष्टः शितिकण्ठः प्रतापवान् ॥ ५२॥
युद्धाभिलाषः सुमहान् देव सञ्जायते मम ।
अभिप्राप्स्याम्यहं युद्धं मनसस्तुष्टिवर्धनम् ॥ ५३॥
ततोऽहं देवदेवेन हरेणामित्रघातिना ।
प्रहस्य सुचिरं कालमुक्तोऽस्मि वचनं प्रियम् ।
प्राप्स्यसे सुमहद् युद्धं त्वं बाणाप्रतिमं महत् ॥ ५४॥
मयूरध्वजभङ्गस्ते भविष्यति यदासुर ।
तदा त्वं प्राप्स्यसे युद्धं सुमहद् दितिनन्दन ॥ ५५॥
ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् ।
प्रणम्य शिरसा देवं तवान्तिकमुपागतः ॥ ५६॥
इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा ।
अहो न शोभनं राजन यदेवं भाषसे वचः ॥ ५७॥
एवं कथयतोस्तत्र तयोरन्योन्यमुच्छ्रितः ।
ध्वजः पपात वेगेन शक्राशनिसमाहतः ॥ ५८॥
तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् ।
प्रहर्षमतुलं लेभे मेने चाहवमागतम् ॥ ५९॥
ततश्चकम्पे वसुधा शक्राशनिसमाहता ।
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च ॥ २.११६.६०॥
देवानामपि यो देवः सोऽप्यवर्षत वासवः ।
शोणितं शोणितपुरे सर्वतः परमं ततः ॥ ६१॥
सूर्य भित्त्वा महोल्का च पपात धरणीतले ।
स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत् ॥ ६२॥
चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः ।
शोणितस्य स्रवन् घोरा निपेतुस्तारका भृशम् ॥ ६३॥
राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
लोकक्षयकरे काले निर्घातश्चापतन्महान् ॥ ६४॥
दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् ।
अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः ॥ ६५॥
श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतिः ।
त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत् ॥ ६६॥
वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः ।
बाणस्य जन्मनक्षत्रं भर्त्सयन्निव सर्वशः ॥ ६७॥
अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् ॥ ६८॥
एवं विविधरूपाणि निमित्तानि निशामयन् ।
बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति ॥ ६९॥
विचेतास्त्वभवत् प्राज्ञः कुम्भाण्डस्तत्त्वदर्शिवान् ।
बाणस्य सचिवस्तत्र कीर्तयन् बहुकिल्बिषम् ॥ २.११६.७०॥
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ।
तव राज्यविनाशाय भविष्यन्ति न संशयः ॥ ७१॥
वयं चान्ये च सचिवा भृत्यास्ते च तवानुगाः ।
क्षयं यास्यन्ति नचिरात् सर्वे पार्थिव दुर्नयात् ॥ ७२॥
यथा शक्रध्वजतरोः स्वदर्पात् पतनं भवेत् ।
बलमाकाङ्क्षतो मोहात् तथा बाणस्य नर्दतः ॥ ७३॥
देवदेवप्रसादात् तु त्रैलोक्यविजयं गतः ।
उत्सेकाद् दृश्यते नाशो युद्धाकाङ्क्षी ननर्द ह ॥ ७४॥
बाणः प्रीतमनास्त्वेवं पपौ पानमनुत्तमम् ।
दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः ॥ ७५॥
कुम्भाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा ।
अचिन्तयच्च तत्त्वार्थं तैस्तैरुत्पातदर्शनैः ॥ ७६॥
राजा प्रमादी दुर्बुद्धिर्जितकाशी महासुरः ।
युद्धमेवाभिलषते न दोषान्मन्यते मदात् ॥ ७७॥
महोत्पातभयं चैव न तन्मिथ्या भविष्यति ।
अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम् ॥ ७८॥
इह त्वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् ।
तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम् ॥ ७९॥
उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् ।
दोषाणां न भवेन्नाश इति मे धीयते मतिः ॥ २.११६.८०॥
नियतो दोष एवायं भविष्यति न संशयः ।
दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः ॥ ८१॥
देवदानवसङ्घानां यः कर्ता भुवनप्रभुः ।
भगवान् कातिकेयश्च कृतवाँल्लोहिते पुरे ॥ ८२॥
प्राणैः प्रियतरो नित्यं भविष्यति गुहः सदा ।
तद्विशिष्टश्च बाणोऽपि शिवस्य सततं प्रियः ॥ ८३॥
दर्पोत्सेकात्तु नाशाय वरं याचितवान्भवम् ।
युद्धहेतोः स लुब्धस्तु सर्वथा न भविष्यति ॥ ८४॥
यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम् ।
भवित्री घनवत्प्राप्तिर्भवहस्तात्कृता भवेत् ॥ ८५॥
एतयोश्च हि को युद्धं कुमारभवयोरिह ।
शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः ॥ ८६॥
न च देववचो मिथ्या भविष्यति कदाचन ।
भविष्यति महद् युद्धं सर्वदैत्यविनाशनम् ॥
स एवञ्चिन्तयाविष्टः कुम्भाण्डस्तत्त्वदर्शिवान् ।
स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः ॥ ८८॥
ये हि देवैर्विरुध्यन्ते पुण्यकर्मभिराहवे ।
यथा बलिर्नियमितस्तथा ते यान्ति सङ्क्षयम् ॥ ८९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे षोडशाधिकशततमोऽध्यायः ॥ ११६॥
२.११७ सप्तदशाधिकशततमोऽध्यायः
पार्वत्याः सकाशात् उषाया वरलाभः PArvatI blesses uShA with a boon
शिवपार्वत्योः क्रीडाविहारं, पार्वत्या उषसं पतिसमागमस्य वरदानं,
उषसः विरहव्यथा वर्णनं
वैशम्पायन उवाच ।
क्रीडाविहारोपगतः कदाचिदभवद् भवः ।
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ॥ १॥
शतानि तत्राप्सरसां चिक्रीडुश्च समन्ततः ।
सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा ॥ २॥
कुसुमैः पारिजातस्य पुष्पैः सन्तानकस्य च ।
गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वशः ॥ ३॥
वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः ।
वाद्यमानैः स शुश्राव गीतमप्सरसां तदा ॥ ४॥
सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणाः ।
देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् ॥ ५॥
श्रीमहेशं देवदेवमर्चयन्ति मनोरमम् ।
ततस्तु देव्या रूपेण चित्रलेखा वराप्सराः ॥ ६॥
भवं प्रसादयामास देवी च प्राहसत् तदा ।
प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणाः ॥ ७॥
भवस्य पार्षदा दिव्या नानारूपा महौजसः ।
देव्या ह्यनुज्ञया सर्वे क्रीडन्ते तत्र तत्र ह ॥ ८॥
अथ ते पार्षदास्तत्र रहस्ये सुविपश्चितः ।
महादेवस्य रूपेण तच्चिह्नं रूपमास्थिताः ॥ ९॥
ततो देव्याः सुरूपेण लीलया वदनेन च ।
देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा ।
ततः किलकिलाशब्दः प्रादुर्भूतः समन्ततः ॥ १०॥
प्रहर्षमतुलं लेभे भवः प्रीतमनास्तदा ।
बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी ॥ ११॥
देवं सङ्क्रीडितं दृष्ट्वा देव्या सह नदीगतम् ।
दीप्यमानं महादेवं द्वादशादित्यतेजसम् ॥ १२॥
नानारूपं वपुः कृत्वा देव्याः प्रियचिकीर्षया ।
उषा मनोरथं चक्रे पार्वत्याः सन्निधौ तथा ॥ १३॥
धन्या हि भर्तृसहिता रमत्येवं समागता ।
मनसा त्वथ सङ्कल्पमुषया भाषितं तथा ॥ १४॥
विज्ञाय तमभिप्रायमुषायाः पर्वतात्मजा ।
प्राह देवी ततो वाक्यमुषां हर्षयती शनैः ॥ १५॥
उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यसि ।
यथा देवो मया सार्धं शङ्करः शत्रुनाशनः ॥ १६॥
एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा ।
उषा भावं तदा चक्रे भर्त्रा रंस्ये कदा सह ॥ १७॥
तदा हैमवती वाक्यं सम्प्रहस्येदमब्रवीत् ।
उषे शृणुष्व वाक्यं मे यदा संयोगमेष्यसि ॥ १८॥
वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये ।
रमयिष्यति यः स्वप्ने स ते भर्ता भविष्यति ॥ १९॥
एवमुक्ता दैत्यसुता कन्यागणसमावृता ।
अपाक्रामत हर्षेण रममाणा यथासुखम् ॥ २०॥
ततः सखीभिर्हास्यन्ती हर्षेणोत्फुल्ललोचना ।
तालिकासन्निपातैश्च ह्यन्योन्यं जघ्नुरूर्जिताः ॥ २१॥
किन्नर्यो यक्षकन्याश्च नानादैतेयकन्यकाः ।
अप्सरोगणकन्याश्च उषायाः सखितां गताः ॥ २२॥
उक्ता च तत्र ताभिश्च भर्ता तव वरानने ।
भविष्यत्यचिरेणेव देव्या वचनकल्पितः ॥ २३॥
न हि देव्या वचो मिथ्या भविष्यति कदाचन ।
रूपाभिजनसम्पन्नः पतिस्ते कल्पितस्तया ॥ २४॥
उषा सखीनां तद् वाक्यं प्रतिपूज्य यथाविधि ।
दत्तं मनोरथं देव्या भावयन्ती व्यवस्थिता ॥ २५॥
ततः क्रीडाविहारं तमनुभूय सहोमया ।
गतेऽहनि ततः सर्वा नार्यस्ताः परमाद्भुताः ॥ २६॥
ययुः स्वानालयान् सर्वा देवी चादर्शनं गता ।
काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः ॥ २७॥
पुरं प्रविविशुर्हृष्टाः काश्चिदाकाशमास्थिताः ।
ततः प्रभृति सा देवी काममोहं गता विभो ॥ २८॥
देव्यास्तु वचनं स्मृत्वा संस्मरन्ती पतिं तदा ।
निद्रां न भजते रात्रौ न दिवा भोजनं तथा ॥ २९॥
स्मरन्ती पतिभावं सा विललाप नृपात्मजा ।
निन्दन्ती शशिनं नाके सेवती न च चन्दनम् ॥ ३०॥
सा बाला मोहिता राजन् कामेन परिपीडिता ।
उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम् ॥ ३१॥
तप्यते हृदयं तस्या लेपितं चन्दनेन च ।
कपोले पाण्डिमाचिह्नं नेत्रे जलसमन्विते ॥ ३२॥
जम्भणं च तथा स्वापो देहे तस्या व्यवर्धत ।
पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहुः ॥ ३३॥
क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना ।
व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः ॥ ३४॥
का व्यथा किं शरीरं ते किमिदं तव भामिनि ।
किं तुभ्यं रोचते देवि तदाख्याहि वरानने ॥ ३५॥
कस्मादिदं समुत्पन्नं दुःखसाध्यं मनोरमे ।
त्वन्मनोऽनुगतं वाक्यं वदन्त्येतास्तु सारिकाः ॥ ३६॥
शुका नीलतमाः सुभ्रु पठन्ति हि पुमानिव ।
प्रह्लादजननं वाक्यं किमर्थं नाद्य भाषसे ॥ ३७॥
तव तातो महावीरो देवानामपि दुर्जयः ।
तस्याग्रे तिष्ठते कोऽपि न भूमौ वरवर्णिनि ॥ ३८॥
बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः ।
जितामरावतीकं च नगरं शोणिताह्वयम् ।
यत्र सन्तिष्ठते दैवः शूलहस्तो महेश्वरः ॥ ३९॥
पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धरः ।
बाणं प्रति महादेवस्तव तातमुषे शृणु ॥ ४०॥
का व्यथा ते मुखे स्वेदो नासाग्रे च विराजते ।
नीहारबिन्दवः पद्मे राजन्ते शरदागमे ॥ ४१॥
सम्पूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने ।
न शोभते तु विच्छायं किमर्थं कारणं वद ॥ ४२॥
श्वासान् मुञ्चसि बाले त्वं न रतिं यासि भावतः ।
गृहाण भोजनं दिव्यं यत् ते मनसि वर्तते ॥ ४३॥
ताम्बूलं रोचते पूर्वं तत् किमर्थं न गृह्यते ।
मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनैः ॥ ४४॥
गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् ।
इति कोलाहलं श्रुत्वा उषावेश्मसमुद्भवम् ॥ ४५॥
दासीभिः कीर्तितं तत्र मातुरग्रे पृथक् पृथक् ।
राजपुत्री यदा देवि समायाता गृहे सती ॥ ४६॥
जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते ।
अतो दासीजना देवि वदामस्त्वां वयं जनाः ॥ ४७॥
को मोहः किमिदं मौनं कः स्वापो म्लानता कथम् ।
विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये ॥ ४८॥
शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम् ।
तत् कथं सहते देवि व्याधिभारं वरानने ॥ ४९॥
इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी ।
प्राप्य देशमुषा यत्र किमिदं कष्टलक्षणम् ॥ ५०॥
पल्लवाकृतिहस्तेन कोमलं तत्करं तदा ।
स्पृष्ट्वाङ्गुलीरनायासं स्फोटयामास भाविनी ॥ ५१॥
किमस्ति तव कल्याणि का व्यथा तव वर्तते ।
एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत् ॥ ५२॥
वैद्या ऊचुः ।
जलक्रीडां गता तत्र राजपुत्री सखीगणैः ।
पार्वत्याः क्रीडितं तत्र जानीमः श्रमसम्भवम् ॥ ५३॥
श्रमाद्ग्लानिः समुत्पन्ना जृम्भणं च पुनः पुनः ।
स्वापश्च जायते तेन मा भयं कर्तुमर्हसि ॥ ५४॥
देव्युवाच ।
हदये निहितं वैद्याश्चन्दनं हिमसंयुतम् ।
अमात्याः किमिदं शीघ्रं किमिदं बुद्बुदायते ॥ ५५॥
अतिदाहो महान् स्वेदः पिपासा न बुभुक्षते ।
प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम् ॥ ५६॥
वैद्या ऊचुः ।
क्रीडाविहारे मिलिताः स्त्रीजना देवसन्निधौ ।
रूपेणाप्रतिमा देवी राजपुत्री च भाविनी ॥ ५०९॥
दृष्टिपातः कृतस्ताभिस्तेन पुत्र्यां व्यथाभवत् ।
रक्षामन्त्रैस्तथा पीतैः सर्षपैस्तां कुमारिकाम् ॥ ५८॥
पानीयैरभिषेकेण परा शान्तिर्भविष्यति ।
इत्युक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः ॥ ५९॥
सूचयन्तः पुनः सर्वे कामाभिप्रायजां व्यथाम् ।
मातृपृष्टा वरारोहा चिरकालमुवाच सा ॥ ६०॥
लज्जावती महाभागा मातरं रुदती भृशम् ।
मातर्न रोचते नित्यं भाषणं न च भोजनम् ॥ ६१॥
न चाप्युत्सवकं मातः सदाहं हृदयं शृणु ।
इत्युक्त्वा विररामाथ ह्युषा नारी वरानना ॥ ६२॥
सर्वाभिः स्त्रीभिरारब्धमन्योन्यं मुखवीक्षणम् ।
लज्जानुकारि नारीणां यौवनं हि भवेदिति ॥ ६३॥
इयं च राजकन्या हि भर्तृयोग्या किमुच्यते ।
पितुः प्रसादान्मातुश्च प्राप्नुयात् सदृशं वरम् ॥ ६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे उषाविरहोनाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७॥
२.११८ अष्टादशाधिकशततमोऽध्यायः
उशायाः स्वप्नदर्शनमनिरुद्धानयनार्थं चित्रलेखाया द्वारकागमनम् च UshA's dream and chitralekhA's journey to dvAraka
उषसः स्वप्ने प्रियतमेन सह समागमं, अनेन उषसः चिन्ता, सखीनां तां शिक्षणं,
कुम्भाण्डकुमार्याः कथनेन उषसा चित्रलेखां आह्वयित्वा तां स्वकष्टस्य कथनं,
चित्रलेखया निर्मितेभिः चित्रेभिः उषसा अनिरुद्धस्य प्रत्यभिज्ञानं, तं आनयने चित्रलेखायाः द्वारकां प्रति गमनं
वैशम्पायन उवाच ।
तत्रस्थाः परमा नार्यश्चित्रेण परमाद्भुताः ।
ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम् ॥ १॥
द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ।
यथोक्तः पुरुषः स्वप्ने रमयामास तां शुभाम् ॥ २॥
विचेष्टमाना रुदती देव्या वचनचोदिता ।
सा स्वप्ने रमिता तेन स्त्रीभावं चापि लम्भिता ॥ ३॥
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ।
तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विता ॥ ४॥
चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् ।
उषे मा भैः किमेवं त्वं रुदती परितप्यसे ।
बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता ॥ ५॥
न भयं विद्यते लोके तव सुभ्रु विशेषतः ।
अभयं तव वामोरु पिता देवान्तको रणे ॥ ६॥
उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे ।
नैवंविधेषु वासेषु भयमस्ति वरानने ॥ ७॥
असकृद् देवसहितः शचीभर्ता सुरेश्वरः ।
अप्राप्त एव नगरं पित्रा ते मृदितो रणे ॥ ८॥
अयं देवसमूहस्य भयदश्च पिता तव ।
महासुरवरः श्रीमान् बलेः पुत्रो महाबलः ॥ ९॥
एवं साभिहिता सख्या बाणपुत्री यशस्विनी ।
स्वप्ने रूपं यथा दृष्टं न्यवेदयदनिन्दिता ॥ १०॥
उषोवाच ।
एवं सन्धर्षिता साध्वी कथं जीवितुमुत्सहे ।
पितरं किं नु वक्ष्यामि देवशत्रुमरिन्दमम् ॥ ११॥
एवं सन्दूषणकरी वंशस्यास्य महौजसः ।
श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम् ॥ १२॥
ईप्सितो वा यथा कोऽपि पुरुषोऽधिगतो हि मे ।
जाग्रतीव यथा चाहमवस्थैवं कृता मम ॥ १३॥
निशायां जाग्रतीवाहं नीता केन दशामिमाम् ।
कथमेवं कृता नाम कन्या जीवितुमुत्सहे ॥ १४॥
कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया ।
जीवितुं न स्पृहेन्नारी साध्वीनामग्रतः स्थिता ॥ १५॥
इत्येवं बाष्पपूर्णाक्षी सखीजनवृता तदा ।
विललाप चिरं कालमुषा कमललोचना ॥ १६॥
अनाथवत् तां रुदतीं सख्यः सर्वा विचेतसः ।
ऊचुरश्रुपरीताक्षीमुषां सर्वाः समागताः ॥ १७॥
दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् ।
क्रियते न च ते सुभ्रु किञ्चिद् दुष्टं मनः शुभे ॥ १८॥
प्रसभं दैवसंयोगाद् यदि भुक्तासि भामिनि ।
स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते ॥ १९॥
व्यभिचारेण ते देवि नास्ति कश्चिद् व्यतिक्रमः ।
न च स्वप्नकृतो दोषो मर्त्यलोकेऽस्ति सुन्दरि ॥ २०॥
एवं विप्रर्षयो देवि धर्मज्ञाः कथयन्ति वै ।
मनसा चैव वाचा च कर्मणा च विशेषतः ।
दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते बुधैः ॥ २१॥
न च ते दृश्यते भीरु मनः प्रचलितं सदा ।
कथं त्वं दोषसन्दुष्टा नियता ब्रह्मचारिणी ॥ २२॥
यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी ।
इमामवस्थां प्राप्ता त्वं नैव धर्मो विलुप्यते ॥ २३॥
यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् ।
तामाहुरसती नाम सती त्वमसि भामिनि ॥ २४॥
कुलजा रूपसम्पन्ना नियता ब्रह्मचारिणी ।
इमामवस्थां नीतासि कालो हि दुरतिक्रमः ॥ २५॥
इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् ।
कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् ॥ २६॥
त्यज शोकंविशालाक्षि अपापा त्वं वरानने ।
श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु ॥ २७॥
उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा ।
समीपे देवदेवस्य स्मर भामिनि तद् वचः ॥ २८॥
द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि ।
हर्म्ये शयानां रुदतीं स्त्रीत्वं समुपनेष्यति ॥ २९॥
भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः ।
इत्युवाच वचो हृष्टा देवी तव मनोगतम् ॥ ३०॥
न हि तद् वचनं मिथ्या पार्वत्या यदुदाहृतम् ।
सा त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने ॥ ३१॥
एवमुक्ता तया बाला स्मृत्वा देवीवचस्ततः ।
अभवन्तष्टशोका सा बाणपुत्री शुभेक्षणा ॥ ३२॥
उषोवाच ।
स्मरामि भामिनि वचो देव्याः क्रीडागते भवे ।
यथोक्तं सर्वमखिलं प्राप्तं हर्म्यतले मया ॥ ३३॥
भर्ता तु मम यद्येष लोकनाथस्य भार्यया ।
व्यादिष्टः स कथं ज्ञेयस्तत्र कार्यं विधीयताम् ॥ ३४॥
इत्येवमुक्ते वचने कुम्भाण्डदुहिता पुनः ।
व्याजहार यथान्यायमर्थतत्त्वविशारदा ॥ ३५॥
न हि तस्य कुलं देविं न कीर्तिं नापि पौरुषम् ।
कञ्चिज्जानाति तत्त्वेन किमिदं त्वं विमुह्यसे ॥ ३६॥
अदृष्टश्चाश्रुतश्चैव दृष्टः स्वप्ने च यः शुभे ।
कथं ज्ञेयो भवेद् भीरु सोऽस्माभीरतितस्करः ॥ ३७॥
येन त्वमसितापाङ्गि मत्तकाशिनि विक्रमात् ।
रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि ॥ ३८॥
न ह्यसौ प्राकृतः कश्चिद् यः प्रविष्टः प्रसह्य ते ।
नगरं लोकविख्यातमेकः शत्रुनिबर्हणः ॥ ३९॥
आदित्या वसवो रुद्रा अश्विनौ च महौजसौ ।
न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः ॥ ४०॥
सोऽयमेतैः शतगुणैर्विशिष्टश्चारिसूदनः ।
प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि ॥ ४१॥
यस्या नैवंविधो भर्ता भवेद् युद्धविशारदः ।
कस्तस्या जीवितेनार्थो भोगैर्वास्त्यम्बुजेक्षणे ॥ ४२॥
धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः ।
प्राप्तो देव्याः प्रसादेन कन्दर्पसमविक्रमः ॥ ४३॥
इदं तु यत् कार्यतमं शृणु त्वं तन्मयेरितम् ।
विज्ञेयो यस्य पुत्रो वै यन्नामा यत्कुलश्च सः ॥ ४४॥
इत्येवमुक्ते वचने तत्रोषा काममोहिता ।
उवाच कुम्भाण्डसुतां कथं ज्ञास्याम्यहं सखि ॥ ४५॥
त्वमेव चिन्तय सखि नोत्तरं प्रतिभाति मे ।
स्वकार्ये मुह्यते लोको यथा जीवं लभाम्यहम् ॥ ४६॥
उषाया वचनं श्रुत्वा रामा वाक्यमिदं पुनः ।
उवाच रुदतीं चोषां कुम्भाण्डदुहिता सखी ॥ ४७॥
कुशला ते विशालाक्षि सर्वथा सन्धिविग्रहे ।
अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि ॥ ४८॥
अस्याः सर्वमशेषेण त्रैलोक्यं विदितं सदा ।
एवमुक्ता तदैवोषा हर्षेणागतविस्मया ॥ ४९॥
तामप्सरसमानाय्य चित्रलेखां सखीं प्रियाम् ।
कृताञ्जलिपुटा दीना उषा वचनमब्रवीत् ॥ ५०॥
स्रा तच्छ्रुत्वा तु वचनमुषायाः परिकीर्तितम् ।
आश्वासयामास सखी बाणपुत्रीं यशस्विनीम् ॥ ५१॥
ततः सा विस्मयाविष्टा वचनं प्राह दुर्वचम् ।
चित्रलेखामप्सरसं प्रणयात् तां सखीमिदम् ॥ ५२॥
परमं शृणु मे वाक्यं यत् त्वां वक्ष्यामि भामिनि ।
भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् ॥ ५३॥
कान्तं पद्मपलाशाक्षं मत्तमातङ्गगामिनम् ।
त्यक्ष्याम्यहं ततः प्राणानचिरात् तनुमध्यमे ॥ ५४॥
चित्रलेखाब्रवीद् वाक्यमुषां हर्षयती शनैः ।
नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते ॥ ५५॥
न कुलेन न वर्णेन न शीलेन न रूपतः ।
न देशतश्च विज्ञातः स हि चारो मया सखि ॥ ५६॥
किं तु कर्तुं यथा शक्यं बुद्धिपूर्वं मया सखि ।
प्राप्तं च शृणु मे वाक्यं यथाकाममवाप्स्यसि ॥ ५७॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
ये विशिष्टाः प्रभावेण रूपेणाभिजनेन च ॥ ५८॥
यथाप्रभावं तान् सर्वानालिखिष्याम्यहं सखि ।
मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥ ५९॥
सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् ।
ततो विज्ञाय पादस्थं भर्तारं प्रतिपत्स्यसे ॥ ६०॥
सा चित्रलेखया प्रोक्ता उषा हितचिकीर्षया ।
क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम् ॥ ६१॥
ततः कुशलहस्तत्वाद् यथालेख्यं समन्ततः ।
इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् ॥ ६२॥
चित्रपट्टगतान् मुख्यानानयामास शोभना ।
ततः प्रास्तीर्य पट्टं सा चित्रलेखा स्वयङ्कृतम् ॥ ६३॥
उषायै दर्शयामास सखीनां तु विशेषतः ।
एते देवेषु ये -मुख्यास्तथा दानववंशजाः ॥ ६४॥
किन्नरोरगयक्षाणां राक्षसानां समन्ततः ।
गन्धर्वासुरदैत्यानां ये चान्ये भोगिनः स्मृताः ॥ ६५॥
मनुष्याणां च सर्वेषां ये विशिष्टतमा नराः ।
तानेतान्पश्य सर्वांस्त्वं यथैव लिखितान् मया ॥ ६६॥
यस्ते भर्ता यथारूपः स मया लिखितः सखि ।
तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि ॥ ६७॥
ततः क्रमेण सर्वांस्तान् दृष्ट्वा सा मत्तकाशिनी ।
देवदानवगन्धर्वविद्याधरगणानथ ।
अतीत्य च यदून् सर्वान् ददर्श यदुनन्दनम् ॥ ६८॥
तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना ।
उवाच चित्रलेखां तामयं चौरः स वै सखि ॥ ६९॥
येनाहं दूषिता पूर्वं स्वप्ने हर्म्यगता सती ।
सोऽय विज्ञातरूपो मे कुतोऽयं रतितस्करः ॥ ७०॥
चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने ।
कुलशीलाभिजनतो नाम किं चास्य भामिनि ।
ततः पश्चाद् विधास्यामि कार्यस्यास्य विनिश्चयम् ॥ ७१॥
चित्रलेखोवाच ।
अयं त्रैलोक्यनाथस्य नप्ता कृष्णस्य धीमतः ।
भर्ता तव विशालाक्षि प्राद्युम्निर्भीमविक्रमः ॥ ७२॥
न ह्यस्ति त्रिषु लोकेषु सदृशोऽस्य पराक्रमे ।
उत्पाट्य पर्वतानेव पर्वतैरेष शातयेत् ॥ ७३॥
धन्यास्यनुगृहीतासि यस्यास्ते यदुपुङ्गवः ।
त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतिः ॥ ७४॥
उषोवाच ।
त्वमेवात्र विशालाक्षि योग्या भव वरानने ।
न शक्या हि गतिश्चान्या अगत्या मे गतिर्भव ॥ ७५॥
अन्तरिक्षचरा च त्वं योगिनी कामरूपिणी ।
उपायस्यास्य कुशला क्षिप्रमानय मे प्रियम् ॥ ७६॥
उपायश्चिन्त्यतां भीरु सम्प्रतर्क्य प्रिये सुखम् ।
सिद्धार्था सन्निवर्तस्व येनोपायेन सुन्दरि ॥ ७७॥
भवेदापत्सु यन्मित्रं तन्मित्रं शस्यते बुधैः ।
कामार्ता चास्मि सुश्रोणि भव मे प्राणधारिणी ॥ ७८॥
यद्येनं मे विशालाक्षि भर्तारममरोपमम् ।
अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे ॥ ७९॥
उषायाः वचनं श्रुत्वा चित्रलेखाब्रवीद् वचः ।
श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते ॥ ८०॥
यथा बाणस्य नगरी रक्ष्यते देवि सर्वशः ।
द्वारकापि तथा भीरु दुराधर्षा सुरैरपि ॥ ८१॥
अयस्मयप्रतिच्छन्ना गुप्तद्वारा च सा पुरी ।
गुप्ता वृष्णिकुमारैश्च तथा द्वारकवासिभिः ॥ ८२॥
प्रान्ते सलिलसंयुक्ता विहिता विश्वकर्मणा ।
रक्ष्यते पुरुषैर्घोरैः पद्मनाभस्य शासनात् ॥ ८३॥
शैलप्राकारपरिखादुर्गमार्गप्रवेशिनी ।
सप्तप्राकाररचिता पर्वतैर्धातुमण्डितैः ॥ ८४॥
न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् ।
आत्मानं मां च रक्षस्व पितरं च विशेषतः ॥ ८५॥
उषोवाच ।
तव योगप्रभावेण शक्यं तत्र प्रवेशनम् ।
बहुना किं प्रलापेन प्रतिज्ञा श्रूयतां मम ॥ ८६॥
अनिरुद्धस्य वदनं पूर्णचन्द्रसमप्रभम् ।
यद्यहं तन्न पश्यामि यास्यामि यमसादनम् ॥ ८७॥
दूतमासाद्य कार्याणां सिद्धिर्भवति भामिनि ।
तस्माद्दौत्येन मे गच्छ जीवन्तीं मां यदीच्छसि ॥ ८८॥
यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् ।
क्षिप्रमानय मे कान्तं तवास्मि शरणं गता ॥ ८९॥
जीवितस्य हि सन्देहं क्षयं चैव कुलस्य च ।
कामार्ता हि न पश्यन्ति कामिन्यो मदविक्लवाः ॥ ९०॥
प्रयत्नो युज्यते कार्येष्विति शास्त्रनिदर्शनम् ।
त्वं च शक्ता विशालाक्षि द्वारकायां प्रवेशने ॥ ९१॥
संस्तुतासि मया भीरु कुरु मे प्रियदर्शनम् ।
चित्रलेखोवाच ।
सर्वथा संस्तुता तेऽहं वाक्यैरमृतसोदरैः ॥ ९२॥
कारिता च समुद्योगं प्रियैः कान्तैश्च भाषितैः ।
एषा गच्छाम्यहं भीरु क्षिप्रं वै द्वारकां पुरीम् ॥ ९३॥
भर्तारमानयाम्यद्य तव वृष्णिकुलोद्भवम् ।
अनिरुद्धं महाबाहुं प्रविश्य द्वारकां पुरीम् ॥ ९४॥
सा वचस्तथ्यमशिवं दानवानां भयावहम् ।
उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा ॥ ९५॥
सखीभिः सहिता ह्यूषा चिन्तयन्ती तु सा स्थिता ।
तृतीये तु मुहूर्ते सा नष्टा बाणपुरात् तदा ॥ ९६॥
सखीप्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ।
क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम् ॥ ९७॥
कैलासशिखराकारैः प्रासादैरुपशोभिताम् ।
ददर्श द्वारकां रम्यां दिवि तारामिव स्थिताम् ॥ ९८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणे चित्रलेखाया द्वारकागमने अष्टादशाधिकशततमोऽध्यायः ॥ ११८॥
२.११९ एकोनविंशत्यधिकशततमोऽध्यायः
अनिरुद्धस्योषया सह गन्धर्वेण विधिना विवाहो बाणतत्सैन्याभ्यां युद्धं च Aniruddha-uShA marriage and the battle between aniruddha and BANa
चित्रलेखायाः नारदेन सह संवादं, चित्रलेखया नारदात् तामसीं विद्यां गृहीत्वा अनिरुद्धस्य शोणितपुरतः आनयनम्, उषसः अनिरुद्धस्य गान्धर्वविवाहं, अनिरुद्धस्य बाणासुरस्य सैनिकानां सह एवं बाणासुरेण सह युद्धं, तस्य नागपाशे बँधनग्रस्तं भवनं एवं नारदस्य द्वारकायां गमनं
वैशम्पायन उवाच ।
अद्य द्वारवतीं प्राप्य स्थिता सा भवनान्तिके ।
प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत् ॥ १॥
अथ चिन्तयती सा तु बुद्धिबुद्ध्यर्थनिश्चयम् ।
अपश्यन्नारदं तत्र ध्यायन्तमुदके मुनिम् ॥ २॥
तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना ।
उपसृत्याभिवाद्याथ तत्रैवाधोमुखी स्थिता ॥ ३॥
नारदस्त्वाशिषं दत्त्वा चित्रलेखामथाब्रवीत् ।
किमर्थमिह सम्प्राप्ता श्रोतुमिच्छामि तत्त्वतः ॥ ४॥
देवर्षिमथ तं दिव्यं नारदं लोकपूजितम् ।
कृताञ्जलपुटा भूत्वा चित्रलेखा त्वथाब्रवीत् ॥ ५॥
भगवञ्छ्रूयतां वाक्यं दौत्येनाहमिहागता ।
अनिरुद्धं मुने नेतुं यदर्थं च शृणुष्व मे ॥ ६॥
नगरे शोणितपुरे बाणो नाम महासुरः ।
तस्य कन्या वरारोहा नाम्नोषेति च विश्रुता ॥ ७॥
भगवन् सानुरक्ता च प्राद्युम्निं पुरुषोत्तमम् ।
देव्या वरविसर्गेण तस्या भर्ता विनिर्मितः ॥ ८॥
तं च नेतुं समायाता तत्र सिद्धिं विधत्स मे ।
मया नीतेऽनिरुद्धे तु नगरं शोणिताह्वयम् ॥ ९॥
प्रवृत्तिः पुण्डरीकाक्षे त्वयाऽऽख्येया महामुने ।
अवश्यं भविता चैव कृष्णेन सह विग्रहः ।
बाणस्य सुमहान् सङ्ख्ये दिव्यो हि स महासुरः ॥ २.११९.१०॥
न च शक्तोऽनिरुद्धस्तं युद्धे जेतुं महासुरम् ।
सहस्रबाहुमायान्तं जयेत् कृष्णो महाभुजः ॥ ११॥
भगवन् सन्निकर्षं ते यदर्थमहमागता ।
कथं हि पुण्डरीकाक्षो ज्ञापितस्तदिदं भवेत् ॥ १२॥
त्वत्प्रसादाच्च भगवन्न मे कृष्णाद्भयं भवेत् ।
स हि तत्त्वार्थदृष्टिस्तु अनिरुद्धः कथं ह्रियेत् ॥ १३॥
क्रुद्धो हि स महाबाहुस्त्रैलोक्यमपि निर्दहेत् ।
पौत्रशोकाभिसन्तप्तः शापेन स दहेत माम् ॥ १४॥
तत्रोपायं च भगवंश्चिन्तितुं वै त्वमर्हसि ।
यथा ह्युषा लभेत् कान्तं मम चैवाभयं भवेत् ॥ १५॥
इत्येवमुक्तो भगवांश्चित्रलेखां स नारदः ।
उवाच स शुभं वाक्यं मा भैस्त्वमभयं शृणु ॥ १६॥
त्वया नीतेऽनिरुद्धे तु कन्यावेश्मप्रवेशिते ।
यदि युद्धं भवेत्तत्र स्मर्तव्योऽहं शुचिस्मिते ॥ १७॥
ममैष परमः कामो युद्धं द्रष्टुं मनोरमे ।
तद् दृष्ट्वा च महाप्रीतिः प्रवृत्तिश्च दृढा भवेत् ॥ १८॥
गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी ।
कृतकृत्यस्तु ते देवि एष विद्यां ददाम्यहम् ॥ १९॥
एवमुक्ते तु वचने नारदेन महर्षिणा ।
तथेति वचनं प्राह चित्रलेखा मनोजवा ॥ २.११९.२०॥
अभिवाद्य महामानमृषीणां नारदं वरम् ।
सा जगामानिरुद्धस्य गृहं चैवान्तरिक्षगा ॥ २१॥
ततो द्वारवतीमध्ये कामस्य भवनं शुभम् ।
तत्समीपेऽनिरुद्धस्य भवनं सा विवेश ह ॥ २२॥
सौवर्णवेदिकास्तम्भं रुक्मवैडूर्यतोरणम् ।
माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम् ॥ २३॥
बर्हिकण्ठनिभग्रीवं प्रासादैरेकसञ्चयैः ।
मणिप्रवालविस्तीर्णं देवगन्धर्वनादितम् ॥ २४॥
ददर्श भवनं यत्र प्राद्युम्निरवसत् सुखम् ।
ततः प्रविश्य सहसा भवनं तस्य तन्महत् ॥ २५॥
तत्रानिरुद्धं सापश्यच्चित्रलेखा वराप्सराः ।
मध्ये परमनारीणां तारापतिमिवोदितम् ॥ २६॥
क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः ।
पिबन्तं मधु माध्वीकं श्रिया परमया युतम् ॥ २७॥
वरासनगतं तत्र यथा चैडविलं तथा ।
वाद्यते समतालं च गीयते मधुरं तथा ॥ २८॥
न च तस्य मनस्तत्र तमेवार्थमचिन्तयत् ।
स्त्रियः सर्वगुणोपेता नृत्यन्ते तत्र तत्र वै ॥ २९॥
न चास्य मनसस्तुष्टिं चित्रलेखा प्रपश्यति ।
न चाभिरमते भोगैर्न चापि मधु सेवते ॥ २.११९.३०॥
व्यक्तमस्य हि तत्स्वप्नो हृदये परिवर्तते ।
इति तत्रैव बुद्ध्या च निश्चिता गतसाध्वसा ॥ ३१॥
सा दृष्ट्वा परमस्त्रीणां मध्ये शक्रध्वजोपमम् ।
चिन्तयाविष्टहृदया चित्रलेखा मनस्विनी ॥ ३२॥
कथं कार्यमिदं कार्यं कथं स्वस्ति भवेदिति ।
सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी ॥ ३३॥
तामस्या च्छादयामास विद्यया शुभलोचना ।
ततोऽन्तरिक्षादेवाशु प्रासादोपर्यधिष्ठिता ॥ ३४॥
प्राद्युम्निं वचनं प्राह श्लक्ष्णं मधुरया गिरा ।
चक्षुर्दत्त्वा तु सा तस्मै कृत्वा चात्मनिदर्शनम् ॥ ३५॥
विविक्ते सा च वै देशे तं वाक्यमिदमब्रवीत् ।
अपि ते कुशलं वीर सर्वत्र यदुनन्दन ॥ ३६॥
अहस्तावत्प्रदोषो वा कच्चिद्गच्छति ते सुखम् ।
शृणुष्व त्वं महाबाहो विज्ञप्तिं मे रतीसुत ॥ ३७॥
उषाया मम सख्यास्तु वाक्यं वक्ष्यामि तत्त्वतः ।
स्वप्ने तु या त्वया दृष्टा स्त्रीभावं चापि भाविता ॥ ३८॥
बिभर्ति हृदये या त्वामुषया प्रेषिता त्वहम् ।
रुदन्ती जृम्भती चैव निःश्वसन्ती मुहुर्मुहुः ॥ ३९॥
त्वद्दर्शनपरा सौम्य कामिनी परितप्यते ।
यदि त्वं यास्यसे वीर धारयिष्यति जीवितम् ॥ २.११९.४०॥
अदर्शनेन मरणं तस्या नास्त्यत्र संशयः ।
यदि नारीसहस्रं ते हृदिस्थं यदुनन्दन ॥ ४१॥
स्त्रियाः कामयमानायाः कर्तव्या हस्तधारणा ।
त्वं च तस्या वरोत्सर्गं दत्तो देव्या मनोरथः ॥ ४२॥
चित्रपट्टं मया दत्तं त्वच्चिह्नं दृश्य जीवति ।
सानुक्रोशो यदुश्रेष्ठ भव तस्या मनोरथे ॥ ४३॥
उषा ते पतते मूर्ध्ना वयं च यदुनन्दन ।
श्रूयतां चोद्भवस्तस्याः कुलशीलं च यादृशम् ॥ ४४॥
संस्थानं प्रकृतिं चास्याः पितरं च ब्रवीमि ते ।
वैरोचनिसुतो वीरो बाणो नाम महासुरः ॥ ४५॥
स राजा शोणितपुरे तस्य त्वामिच्छते सुता ।
त्वद्भावगतचित्ता सा त्वन्मयं चापि जीवितम् ॥ ४६॥
मनोरथकृतो भर्ता देव्या दत्तो न संशयः ।
त्वत्सङ्गमात् सा सुश्रोणी प्राणान् धारयते शुभा ॥ ४७॥
चित्रलेखावचः श्रुत्वा सोऽनिरुद्धोऽब्रवीदिदम् ।
दृष्टा स्वप्ने मया सा हि तन्मत्तः शृणु शोभन ॥ ४८॥
रूपं कान्तिं मतिं चैव संयोगं रुदितं तथा ।
एवं सर्वमहोरात्रं मुह्यामि परिचिन्तयन् ॥ ४९॥
यद्यहं समनुग्राह्यो यदि सख्यं त्वमिच्छसि ।
नयस्व चित्रलेखे मां द्रष्टुमिच्छाम्यहं प्रियाम् ॥ २.११९.५०॥
कामसन्तापसन्तप्तः प्रियासङ्गमकामतः ।
एषोऽञ्जलिर्मया बद्धः सत्यं स्वप्न कुरुष्व मे ॥ ५१॥
तस्य तद् वचनं श्रुत्वा चित्रलेखा वराप्सराः ।
सफलोऽद्य मम क्लेशःसख्या मे यत्प्रयाचितम् ॥ ५२॥
वैशम्पायन उवाच ।
ईप्सितं तस्य विज्ञाय अनिरुद्धस्य भामिनी ।
चित्रलेखा ततस्तुष्टा तथेति च तमब्रवीत् ॥ ५३॥
हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा ।
उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् ॥ ५४॥
सा तमध्वानमागम्य सिद्धचारणसेवितम् ।
सहसा शोणितपुरं प्रविवेश मनोजवा ॥ ५५॥
अदर्शनं तमानीय मायया कामरूपिणी ।
अनिरुद्धं महाभागा यत्रोषा तत्र गच्छति ॥ ५६॥
उषाया दर्शयच्चैनं चित्राभरणभूषितम् ।
चित्राम्बरधरं वीरं रहस्यमररूपिणम् ॥ ५७॥
तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसन्निधौ ।
प्रवेशयामास च तं तदा सा स्वगृहं ततः ॥ ५८॥
प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा ।
सा हर्म्यस्था तमर्घ्येण यादवं समपूजयत् ॥ ५९॥
चित्रलेखां परिष्वज्य प्रियाख्यानैरतोषयत् ।
त्वरिता कामिनी प्राह चित्रलेखां भयातुरा ॥ २.११९.६०॥
सखीदं वै कथं कार्यं गुह्यकार्यविशारदे ।
गुह्ये कृते भवेत् स्वस्ति प्रकाशे जीवितक्षयः ॥ ६१॥
चित्रलेखाब्रवीद्वाक्यं शृणु त्वं निश्चयं सखि ।
कृतं पुरुषकारेण दैवं नाशयते क्षणात् ॥ ६२॥
यदि देव्याः प्रसादस्ते ह्यनुकूलो भविष्यति ।
अद्य मायाकृतं गुह्यं न कश्चिज्ज्ञास्यते नरः ॥ ६३॥
सख्या वै एवमुक्ता सा पर्यवस्थितचेतना ।
एवमेतदिति प्राह सानिरुद्धमिदं वचः ॥ ६४॥
दिष्ट्या स्वप्नतगतश्चौरो दृश्यते सुभगः पतिः ।
यत्कृते तु वयं खिन्ना दुर्लभप्रियकाङ्क्षया ॥ ६५॥
कच्चित् तव महाबाहो कुशलं सर्वतोगतम् ।
हृदयं हि मृदु स्त्रीणां तेन पृच्छाम्यहं तव ॥ ६६॥
तस्यास्तद्वचनं श्रुत्वा उषायाः श्लक्ष्णमर्थवत् ।
सोऽप्याह यदुशार्दूलः शुभाक्षरतरं वचः ॥ ६७॥
हर्षविप्लुतनेत्रायाः पाणिनाश्रु प्रमृज्य च ।
प्रहस्य सस्मितं प्राह हृदयग्राहकं वचः ॥ ६८॥
कुशलं मे वरारोहे सर्वत्र मितभाषिणि ।
त्वत्प्रसादेन मे देवि प्रियमावेदयामि ते ॥ ६९॥
अदृष्टपूर्वश्च मया देशोऽयं शुभदर्शने ।
निशि स्वप्ने यथा दृष्टः सकृत्कन्यापुरे तथा ॥ २.११९.७०॥
एवमेवमहं भीरु त्वत्प्रसादादिहागतः ।
न च तद्रुद्रपत्न्या वै मिथ्या वाक्यं भविष्यति ॥ ७१॥
देव्यास्ते प्रीतिमाज्ञाय त्वत्प्रियार्थं च भामिनि ।
अनुप्राप्तोऽस्मि चाद्यैव प्रसीद शरणं गतः ॥ ७२॥
इत्युक्ता त्वरमाणा सा गुह्यदेशे स्वलङ्कृता ।
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत् ॥ ७३॥
ततश्चोद्वाहधर्मेण गान्धर्वेण समीयतुः ।
अन्योन्यं रमतुस्तौ तु चक्रवाकौ यथा दिवा ॥ ७४॥
पतिना सानिरुद्धेन मुमुदे तु वराङ्गना ।
कान्तेन सह संयुक्ता दिव्यवस्त्रानुलेपना ॥ ७५॥
रममाणानिरुद्धेन अविज्ञाता सुता तदा ।
तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः ॥ ७६॥
दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः ।
उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः ॥ ७७॥
ततस्तैश्चारपुरुषैर्बाणस्यावेदितं द्रुतम् ।
यथा दृष्टमशेषेण कन्यायास्तदतिक्रमम् ॥ ७८॥
ततः किङ्करसैन्यं तु व्यादिष्टं भीमकर्मणा ।
बलेः पुत्रेण वीरेण बाणेनामित्रघातिना ॥ ७९॥
गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः ।
येन नः ``कुलचारित्रं दूषितं दूषितात्मना ॥ २.११९.८०॥
उषायां धर्षितायां हि कुलं नो धर्षितं महत् ।
असम्प्रदत्तां योऽस्माभिः स्वयं ग्राहमधर्षयत् ॥ ८१॥
अहो वीर्यमहो धैर्यमहो धार्ष्ट्यं च दुर्मतेः ।
यः पुरं भवनं चेदं प्रविष्टो नः स बालिशः ॥ ८२॥
एवमुक्त्वा पुनस्तांस्तु किङ्करांश्चोदयद्भृशम् ।
ते तस्याज्ञामथो गृह्य सुसन्नद्धा विनिर्ययुः ॥ ८३॥
यत्रानिरुद्धो ह्यभवत् तत्रागच्छन् महाबलाः ॥ ८४॥
नानाशस्त्रोद्यतकरा नानारूपा भयङ्कराः ।
दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः ॥ ८५॥
रुरोद तद्वलं दृष्ट्वा बाष्पेणावृतलोचना ।
प्राद्युम्निवधभीता सा बाणपुत्री यशस्विनी ॥ ८६॥
ततस्तु रुदतीं दृष्ट्वा तामूषां मृगलोचनाम् ।
हा हा कान्तेति वेपन्तीमनिरुद्धोऽभ्यभाषत ॥ ८७॥
अभयं तेऽस्तु सुश्रोणि मा भैस्त्वं हि मयि स्थिते ।
सम्प्राप्तो हर्षकालस्ते नेहास्ति भयकारणम् ॥ ८८॥
कृत्स्नोऽयं यदि बाणस्य भृत्यवर्गो यशस्विनि ।
आगच्छति न मे चिन्ता भीरु पश्याद्य विक्रमम् ॥ ८९॥
तस्य सैन्यस्य निनदं श्रुत्वाभ्यागच्छतस्ततः ।
सहसैवोत्थितः श्रीमान्प्राद्युम्निः किमिति ब्रुवन् ॥ २.११९.९०॥
अथ सोऽपश्यत बलं नानाप्रहरणोद्यतम् ।
स्थितं समन्ततस्तत्र परिवार्य गृहं महत् ॥ ९१॥
ततोऽभ्यगच्छत् त्वरितो यत्र तद्वेष्टितं बलम् ।
क्रुद्धः स्वबलमास्थाय अदशद् दशनच्छदम् ॥ ९२॥
ततो योद्धुमपोढानां बाणेयानां निशम्य तु ।
सा चित्रलेखास्मरत नारदं देवदर्शनम् ॥ ९३॥
ततो निमेषमात्रेण सम्प्राप्तो मुनिपुङ्गवः ।
स्मृतोऽथ चित्रलेखायाः पुरं शोणितसाह्वयम् ॥ ९४॥
अन्तरिक्षे स्थितस्तत्र सोऽनिरुद्धमथाब्रवीत् ।
मा भयं स्वस्ति ते वीर प्राप्तोऽस्म्यद्य पुरं तव ॥ ९५॥
ततश्च नारदं दृष्ट्वा सोऽभिवाद्य महाबलः ।
प्रहृष्टमानसो भूत्वा युद्धार्थमभिवर्तत ॥ ९६॥
ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् ।
सहसैवोत्थितः शूरस्तोत्रार्दित इव द्विपः ॥ ९७॥
तमापतन्तं सम्प्रेक्ष्य सन्दष्टौष्ठं महाभुजम् ।
प्रासादाच्चावरोहन्तं भयार्ता विप्रदुद्रुवुः ॥ ९८॥
अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् ।
वधाय तेषां चिक्षेप नानायुद्धविशारदः ॥ ९९॥
ते सर्वे बाणवर्षैश्च गदाभिर्मुशलैस्तथा ।
असिभिः शक्तिभिः शूलैनिजघ्नू रणगोचरे ॥ २.११९.१००॥
स हन्यमानो नाराचैः परिघैश्च समन्ततः ।
दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः ॥ १०१॥
नाक्षुभ्यत् सर्वभूतात्मा नदन् मेघ इवोष्णगे ।
आविध्य परिघं घोरं तेषां मध्ये व्यतिष्ठत ।
सूर्यो दिवि चरन् मध्ये मेघानामिव सर्वशः ॥ १०२॥
दण्डकृष्णाजिनधरो नारदो हृष्टमानसः ।
साधु साध्विति वै तत्र सोऽनिरुद्धमभाषत ॥ १०३॥
ते हन्यमाना रौद्रेण परिघेणामितौजसा ।
प्राद्रवन्त भयात् सर्वे मेघा वातेरिता यथा ॥ १०४॥
विद्राव्य दानवान् वीरः परिघेण सुविक्रमः ।
अनिरुद्धो रणे हृष्टः सिंहनादं ननाद च ॥ १०५॥
घर्मान्ते तोयदो व्योम्नि नदन्निव महास्वनः ।
तिष्ठध्वमिति चुक्रोश दानवान् युद्धदुर्मदान् ॥ १०६॥
प्राद्युम्निर्व्यहनच्चापि सर्वाञ्छत्रुनिबर्हणः ।
तेन ते समरे सर्वे हन्यमाना महात्मना ॥ १०७॥
यतो बाणस्ततो भीता ययुर्युद्धपराङ्मुखाः ।
ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः ॥ १०८॥
न शर्म लेभिरे दैत्या भयविक्लवचेतसः ।
मा भैष्ट मा भैष्ट इति राज्ञा ते तेन चोदिताः ॥ १०९॥
त्रासमुत्सृज्य चैकस्था युध्यध्वं दानवर्षभाः ।
तानुवाच पुनर्बाणो भयविक्लवलोचनान् ॥ २.११९.११०॥
किमिदं लोकविख्यातं यश उत्सृज्य दूरतः ।
भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः ॥ १११॥
कोऽयं यस्य भयत्रस्ता भवन्तो यान्त्यनेकशः ।
कुलापदेशिनः सर्वे नानायुद्धविशारदाः ॥ ११२॥
भवद्भिर्न हि मे कार्यं युद्धसाहाय्यमद्य वै ।
अब्रवीद् ध्वंसतेत्येवं मत्समीपाच्च नश्यत ॥ ११३॥
अथ तान् वाग्भिरुग्राभिस्त्रासयन बहुधा बली ।
व्यादिदेश रणे शूरानन्यानयुतशः पुनः ॥ ११४॥
प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे ।
अनीकं सुमहारौद्रं नानाप्रहरणोद्यतम् ॥ ११५॥
अथान्तरिक्षं बहुधा विद्युत्वद्भिरिवाम्बुदैः ।
बाणानीकैः समभवद् व्याप्तं सन्दीप्तलोचनैः ॥ ११६॥
केचित् क्षितिस्थाः प्राक्रोशन्गजा इव समन्ततः ।
अन्तरिक्षे व्यराजन्त घर्मान्त इव तोयदाः ॥ ११७॥
ततस्तत् सुमहत् सैन्यं समेतमभवत् पुनः ।
तिष्ठ तिष्ठेति च तदा वाचोऽश्रूयन्त सर्वशः ॥ ११८॥
अनिरुद्धो रणे वीरः स च तानभ्यवर्तत ।
तदाश्चर्यं समभवद् यदेकस्तु समागतः ॥ ११९॥
अयुध्यत महावीर्यैर्दानवैः सह संयुगे ।
तेषामेव च जग्राह परिघांस्तोमरानपि ॥ २.११९.१२०॥
तैरेव च तदा युद्धे ताञ्जघान महाबलः ।
पुनः परिघमुत्सृज्य प्रगृह्य रणमूर्धनि ॥ १२१॥
स तेन विचरन् मार्गानेकः शत्रुनिबर्हणः ।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् ॥ १२२॥
इति प्रकाराद् द्वात्रिंशद् विचरन्नाभ्यदृश्यत ।
एकं सहस्रशश्चात्र ददृशू रणमूर्धनि ॥ १२३॥
क्रीडन्तं बहुधा युद्धे व्यादितास्यमिवान्तकम् ।
ततस्तेनाभिसन्तप्ता रुधिरौघपरिप्लुताः ॥ १२४॥
पुनर्भग्नाः प्राद्रवन्त यत्र बाणो व्यवस्थितः ।
गजवाजिरथौघैस्ते चोह्यमानाः समन्ततः ॥ १२५॥
कृत्वा चार्तस्वरं घोरं दिशो जग्मुर्हतौजसः ।
एकैकस्योपरि तदा तेऽन्योन्यं भयपीडिताः ॥ १२६॥
वमन्तः शोणितं जग्मुर्विषादाद् विमुखा रणे ।
न बभूव पुरा देवैर्युध्यतां तादृशं भयम् ॥ १२७॥
यादृशं युध्यमानानामनिरुद्धेन संयुगे ।
केचिद् वमन्तो रुधिरं ह्यपतन् वसुधातले ॥ १२८॥
दानवा गिरिशृङ्गाभा गदाशूलासिपाणयः ।
ते बाणमुत्सृज्य रणे जग्मुर्भयसमाकुलाः ॥ १२९॥
विशालमाकाशतलं दानवा निर्जितास्तदा ।
निःशेषभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा ॥ २.११९.१३०॥
बाणः क्रोधात्प्रजज्वाल समिद्धोऽग्निरिवाध्वरे ।
अन्तरिक्षचरो भूत्वा साधुवादी समन्ततः ॥ १३१॥
नारदो नृत्यति प्रीतो ह्यनिरुद्धस्य संयुगे ।
एतस्मिन्नन्तरे चैव बाणः परमकोपनः ॥ १३२॥
कुम्भाण्डसङ्गृहीतं तु रथमास्थाय वीर्यवान् ।
ययौ यत्रानिरुद्धो वै उद्यतासी रथे स्थितः ॥ १३३॥
पट्टिशासिगदाशूलमुद्यम्य च परश्वधान् ।
बभौ बाहुसहस्रेण शक्रो ध्वजशतैरिव ॥ १३४॥
बद्धगोधाङ्गुलित्रैश्च बाहुभिः स महाभुजः ।
नानाप्रहरणोपेतः शुशुभे दानवोत्तमः ॥ १३५॥
सिंहनादं नदन् क्रुद्धो विस्फारितमहाधनुः ।
अब्रवीत् तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः ॥ १३६॥
वचनं तस्य संश्रुत्य प्राद्युम्निरपराजितः ।
बाणस्य वदनं सङ्ख्ये समुद्वीक्ष्य ततोऽहसत् ॥ १३७॥
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ।
ऋष्यचर्मावनद्धाङ्गं दशनल्वं महारथम् ॥ १३८॥
तस्य वाजिसहस्रं तु रथे युक्तं महात्मनः ।
पुरा देवासुरे युद्धे हिरण्यकशिपोरिव ॥ १३९॥
तमापतन्तं ददृशे दानवं यदुपुङ्गवः ।
सम्प्रहृष्टस्ततो युद्धे तेजसा चाप्यपूर्यत ॥ २.११९.१४०॥
असिचर्मधरो वीरः स्वस्थः सङ्ग्रामलालसः ।
नरसिंहो यथा पूर्वमादिदैत्यवधोद्यतः ॥ १४१॥
आपतन्तं ददर्शाथ खड्गचर्मधरं तदा ।
खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम् ॥ १४२॥
प्रहर्षमतुलं लेभे प्राद्युम्निवधकाङ्क्षया ।
तनुत्रेण विहीनश्च खड्गपाणिश्च यादवः ॥ १४३॥
अजेय इति तं मत्वा युद्धायाभिमुखः स्थितः ।
अनिरुद्धं रणे बाणो जितकाशी महाबलः ॥ १४४॥
वाचं चोवाच सङ्क्रुद्धो गृह्यतां हन्यतामिति ।
वाचं च ब्रुवतस्तस्य श्रुत्वा प्राद्युम्निराहवे ॥ १४५॥
बाणस्य ब्रुवतः क्रोधाद्धसमानोऽभ्युदैक्षत ।
उषां भयपरित्रस्तां रुदतीं तत्र भामिनीम् ॥ १४६॥
अनिरुद्धः प्रहस्याथ समाश्वास्य च तां स्थितः ।
अथ बाणः शरौघाणां क्षुद्रकाणां समन्ततः ॥ १४७॥
चिक्षेप समरे क्रुद्धो ह्यनिरुद्धवधेप्सया ।
अनिरुद्धस्तु चिच्छेद काङ्क्षंस्तस्यपराजयम् ॥ १४८॥
ववर्ष शरजालानि क्षुद्रकाणां समन्ततः ।
बाणोऽनिरुद्धशिरसि काङ्क्षंस्तस्य रणे वधम् ॥ १४९॥
ततो बाणसहस्राणि चर्मणा व्यवधूय सः ।
बभौ प्रमुखतस्तस्य स्थितः सूर्य इवोदये ॥ २.११९.१५०॥
सोऽभिभूय रणे बाणमास्थितो यदुनन्दनः ।
सिंहः प्रमुखतो दृष्ट्वा गजमेकं यथा वने ॥ १५१॥
ततो बाणः स बाणौघैर्मर्मभेदिभिराशुगैः ।
विव्याध निशितैस्तीक्ष्णैः प्राद्युम्निमपराजितम् ॥ १५२॥
समाहतस्ततो बाणैः खड्गचर्मधरोऽपतत् ।
तमापतन्तं निशितैरभ्यहन् सायकैस्तथा ॥ १५३॥
सोऽतिविद्धो महाबाहुर्बाणैः सन्नतपर्वभिः ।
क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम् ॥ १५४॥
रुधिरौघप्लुतैर्गात्रैर्बाणवर्षैः समाहितः ।
अभिभूतः सुसङ्क्रुद्धो ययौ बाणरथं प्रति ॥ १५५॥
असिभिर्मुसलैः शूलैः पट्टिशैस्तोमरैस्तथा ।
सोऽतिविद्धः शरौघैश्च प्राद्युम्निर्न व्यकम्पत ॥ १५६॥
आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सोऽच्छिनत् ।
जघान चाश्वान् खड्गेन बाणस्य रणमूर्धनि ॥ १५७॥
तं पुनः शरवर्षेण पट्टिशैस्तोमरैरपि ।
चकारान्तर्हितं बाणो युद्धमार्गविशारदः ॥ १५८॥
हतोऽयमिति विज्ञाय प्राणदन् नैरृता गणाः ।
ततोऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः ॥ १५९॥
शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम् ।
जग्राह ज्वलितां घोरां घण्टामालाकुलां रणे ॥ २.११९.१६०॥
ज्वलनादित्यसङ्काशां यमदण्डोग्रदर्शनाम् ।
प्राहिणोत् तामसङ्गेन महोल्कां ज्वलितामिव ॥ १६१॥
तामापतन्तीं सम्प्रेक्ष्य जीवितान्तकरीं तदा ।
सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः ॥ १६२॥
निर्बिभेद ततो बाणं तया शक्त्या महाबलः ।
सा भित्त्वा तस्य देहं वै प्राविशद्धरणीतलम् ॥ १६३॥
स गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रितः ।
ततो मूर्च्छाभिभूतं तं कुम्भाण्डो वाक्यमब्रवीत् ॥ १६४॥
उपेक्षसे दानवेन्द्र किमेवं शत्रुमुद्यतम् ।
लब्धलक्षो ह्ययं वीरो निर्विकारोऽद्य दृश्यते ॥ १६५॥
मायामाश्रित्य युध्यस्व नायं वध्योऽन्यथा भवेत् ।
आत्मानं मां च रक्षस्व प्रमादात् किमुपेक्षसे ॥ १६६॥
वध्यतामयमद्यैव न नः सर्वान् विनाशयेत् ।
अन्यांश्च शतशो हत्वा उषां नीत्वा व्रजिष्यति ॥ १६७॥
कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रणोदितः ।
वाचं रूक्षामभिक्रुद्धः प्रोवाच वदतां वरः ॥ १६८॥
एषोऽहमस्य विदधे मृत्युं प्राणहरं रणे ।
आदास्याम्यहमेतं वै गरुत्मानिव पन्नगम् ॥ १६९॥
इत्येवमुक्त्वा सरथः सध्वजः साश्वसारथिः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ॥ २.११९.१७०॥
मुमोच निशितान्बाणांश्छन्नो मायाधरो बली ।
विज्ञायान्तर्हितं बाणं प्राद्युम्निरपराजितः ॥ १७१॥
पौरुषेण समायुक्तः समैक्षत दिशो दश ।
आस्थाय तामसीं विद्यां तदा क्रुद्धो बलेः सुतः ॥ १७२॥
मुमोच विशिखांस्तीक्ष्णांश्छन्नो मायाधरो बली ।
प्रायुम्निः विशिखैर्बद्धः सर्पभूतैः समन्ततः ॥ १७३॥
वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः ।
स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निराहवे ॥ १७४॥
निष्प्रयत्नः कृतस्तस्थौ मैनाक इव पर्वतः ।
ज्वालावलीढवदनैः सर्पभोगैर्विचेष्टितः ॥ १७५॥
अभितः पर्वताकारः प्राद्युम्निरभवद् रणे ।
निष्प्रयत्नगतिश्चापि सर्पवक्त्रमयैः शरैः ॥ १७६॥
न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः ।
ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत् ॥ १७७॥
बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः ।
कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसनः ॥ १७८॥
चारित्रं येन मे लोके दूषितं दूषितान्मना ।
इत्येवमुक्ते वचने कुम्भाण्डो वाक्यमव्रवीत् ॥ १७९॥
राजन् वक्ष्याम्यहं किञ्चित् तन्मे शृणु यदिच्छसि ।
अयं विज्ञायतां कस्य कुतो वायमिहागतः ॥ २.११९.१८०॥
केन वायमिहानीतः शक्रतुल्यपराक्रमः ।
मयायं बहुशो राजन् दृष्टो युध्यन् महारणे ॥ १८१॥
क्रीडन्निव च युद्धेषु दृश्यते देवसूनुवत् ।
बलवान् सत्त्वसम्पन्नः सर्वशस्त्रविशारदः ॥ १८२॥
नायं वधकृतं दोषमर्हते दैत्यसत्तम ।
गान्धर्वेण विवाहेन कन्येयं तव सङ्गता ॥ १८३॥
अदेया ह्यप्रतिग्राह्या अतश्चिन्त्य वधं कुरु ।
विज्ञाय च वधं वास्य पूजां वास्य करिष्यसि ॥ १८४॥
वधे ह्यस्य महान् दोषो रक्षणे सुमहान् गुणः ।
अयं हि पुरुषोत्कृष्टः सर्वथा मानमर्हति ॥ १८५॥
सर्वतो वेष्टिततनुर्न व्यथत्येष भोगिभिः ।
कुलशौण्डीर्यवीर्यैश्च सत्त्वेन च समन्वितः ॥ १८६॥
पश्य राजन् महावीर्यैरन्वितः पुरुषोत्तमः ।
न नो गणयते सर्वान् वधं प्राप्तोऽप्ययं बली ॥ १८७॥
यदि मायाप्रभावेण नात्र बद्धो भवेदयम् ।
सर्वान्सुरगणान्सङ्ख्ये योधयेन्नात्र संशयः ॥ १८८॥
सर्वसङ्ग्राममार्गज्ञो भवेद् वीर्याधिकस्तव ।
शोणितौघप्लुतैर्गात्रैर्नागभोगैश्च वेष्टितः ॥ १८९॥
त्रिशिखां भ्रुकुटिं कृत्वा न चिन्तयति नः स्थितान् ।
इमामवस्थां नीतोऽपि स्वबाहुबलमाश्रितः ॥ २.११९.१९०॥
न चिन्तयति राजंस्त्वां वीर्यवान्कोऽप्यसौ युवा ।
सहस्रबाहोः समरे द्विबाहुः समवस्थितः ।
न चिन्तयति ते वीर्यमयं वीर्यमदान्वितः ॥ १९१॥
उचितं यदि ते राजन् ज्ञेयो वीर्यबलान्वितः ।
कन्या चेयं न चान्यस्य निर्यात्ये तेन सङ्गता ॥ १९२॥
यदि चेष्टतमः कश्चिदयं वंशे महात्मनाम् ।
ततः पूजामयं वीरः प्राप्स्यते चासुरोत्तम ॥ १९३॥
रक्ष्यतामिति चोक्त्वैव तथास्त्विति च तस्थिवान् ।
एवमुक्ते तु वचने कुम्भाण्डेन महात्मना ॥ १९४॥
तथेत्याह च कुम्भाण्डं बाणः शत्रुनिषूदनः ।
संरक्षिणस्ततो दत्त्वा अनिरुद्धस्य धीमतः ॥ १९५॥
ययौ स्वमेव भवनं बलेः पुत्रो महायशाः ।
संयतं मायया दृष्ट्वा अनिरुद्धं महाबलम् ॥ १९६॥
ऋषीणां नारदः श्रेष्ठोऽव्रजद् द्वारवतीं प्रति ।
ततो ह्याकाशमार्गेण मुनिर्द्वारवतीं गतः ॥ १९७॥
गते ऋषीणां प्रवरे सोऽनिरुद्धो व्यचिन्तयत् ।
नष्टोऽयं दानवः क्रूरो युद्धमेष्यत्यसंशयः ॥ १९८॥
स गत्वा नारदस्तत्र शङ्खचक्रगदाधरम् ।
ज्ञापयिष्यति तत्त्वेन इममर्थं न संशयः ॥ १९९॥
नागैर्विचेष्टितं दृष्ट्वा उषा प्राद्युम्निमातुरा ।
रुरोद बाष्परुद्धाक्षी तामाह रुदतीं पुनः ॥ २.११९.२००॥
किमिदं रुद्यते भीरु मा भैस्त्वं मृगलोचने ।
पश्य सुश्रोणि सम्प्राप्तं मत्कृते मधुसूदनम् ॥ २०१॥
यस्य शङ्खध्वनिं श्रुत्वा बाहुशब्दं बलस्य च ।
दानवा नाशमेष्यन्ति गर्भाश्चासुरयोषिताम् ॥ २०२॥
वैशम्पायन उवाच ।
एवमुक्तानिरुद्धेन उषा विश्रम्भमागता ।
नृशंसं पितरं चैव शोचते सा सुमध्यमा ॥ २०३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणानिरुद्धयुद्धे
एकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९॥
२.१२० विंशत्यधिकशततमोऽध्यायः
अनिरुद्धकृत आर्यास्तवस्तद्वरलाभश्च Aniruddha prays to Arya and gets blessed
अनिरुद्धेन आर्यादेव्याः स्तुतिः, देव्या प्रसन्नं भूत्वा तस्य बन्धनानां कष्टेभिः मोचनं
वैशम्पायन उवाच ।
यदा बाणपुरे वीरः सोऽनिरुद्धः सहोषया ।
सन्निरुद्धो नरेन्द्रेण बाणेन बलिसूनुना ॥ १॥
तदा देवीं कोटवतीं रक्षार्थं शरणं गतः ।
यद् गीतमनिरुद्धेन देव्याः स्तोत्रमिदं शृणु ॥ २॥
अनन्तमक्षयं दिव्यमादिदेवं सनातनम् ।
नारायणं नमस्कृत्य प्रवरं जगतां प्रभुम् ॥ ३॥
चण्डीं कात्यायनीं देवीमार्यां लोकनमस्कृताम् ।
वरदां कीर्तयिष्यामि नामभिर्हरिसंस्तुतैः ॥ ४॥
ऋषिभिर्दैवतैश्चैव वाक्पुष्पैरर्चितां शुभाम् ।
तां देवीं सर्वदेहस्थां सर्वदेवनमस्कृताम् ॥ ५॥
अनिरुद्ध उवाच ।
महेन्द्रविष्णुभगिनीं नमस्यामि हिताय वै ।
मनसा भावशुद्धेन शुचिः स्तोष्ये कृताञ्जलिः ॥ ६॥
गौतमीं कंसभयदां यशोदानन्दवर्द्धिनीम् ।
मेध्यां गोकुलसम्भूतां नन्दगोपस्य नन्दिनीम् ॥ ७॥
प्राज्ञां दक्षां शिवां सौम्यां दनुपुत्रविमर्दिनीम् ।
तां देवीं सर्वदेहस्थां सर्वभूतनमस्कृताम् ॥ ८॥
दर्शनीं पूरणीं मायां वह्निसूर्यशशिप्रभाम् ।
शान्तिं ध्रुवां च जननीं मोहनीं शोषणीं तथा ॥ ९॥
सेव्यां देवैः सर्षिगणैः सर्वदेवनमस्कृताम् ।
कालीं कात्यायनीं देवीं भयदां भयनाशिनीम् ॥ २.१२०.१०॥
कालरात्रिं कामगमां त्रिनेत्रां ब्रह्मचारिणीम् ।
सौदामिनीं मेघरवां वेतालीं विपुलाननाम् ॥ ११॥
यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा ।
तिथीनां पञ्चमीं षष्ठीं पूर्णमासीं चतुर्दशीम् ॥ १२॥
सप्तविंशतिऋक्षाणि नद्यः सर्वा दिशो दश ।
नगरोपवनोद्यानद्वाराट्टालकवासिनीम् ॥ १३॥
ह्रीं श्रीं गङ्गां च गन्धर्वां योगिनीं योगदां सताम् ।
कीर्तिमाशां दिशं स्पर्शां नमस्यामि सरस्वतीम् ॥ १४॥
वेदानां मातरं चैव सावित्रीं भक्तवत्सलाम् ।
तपस्विनीं शान्तिकरीमेकानंशां सनातनाम् ॥ १५॥
कौटीर्यां मदिरां चण्डामिलां मलयवासिनीम् ।
भूतधात्रीं भयकरीं कूष्माण्डीं कुसुमप्रियाम् ॥ १६॥
दारुणीं मदिरावासां विन्ध्यकैलासवासिनीम् ।
वराङ्गनां सिंहरथीं बहुरूपां वृषध्वजाम् ॥ १७॥
दुर्लभां दुर्जयां दुर्गां निशुम्भभयदर्शिनीम् ।
सुरप्रियां सुरां देवीं वज्रपाण्यनुजां शिवाम् ॥ १८॥
किरातीं चीरवसनां चौरसेनानमस्कृताम् ।
आज्यपां सोमपां सौम्यां सर्वपर्वतवासिनीम् ॥ १९॥
निशुम्भशुम्भमथनीं गजकुम्भोपमस्तनीम् ।
जननीं सिद्धसेनस्य सिद्धचारणसेविताम् ॥ २.१२०.२०॥
चरां कुमारप्रभवां पार्वतीं पर्वतात्मजाम् ।
पञ्चाशद्देवकन्यानां पत्न्यो देवगणस्य च ॥ २१॥
कद्रुपुत्रसहस्रस्य पुत्रपौत्रवरस्त्रियः ।
माता पिता जगन्मान्या दिवि देवाप्सरोगणैः ॥ २२॥
ऋषिपत्नीगणानां च यज्ञगन्धर्वयं पिताम् ।
विद्याधराणां नारीषु साध्वीषु मनुजासु च ॥ २३॥
एवमेतासु नारीषु सर्वभूताश्रया ह्यसि ।
नमस्कृतासि त्रैलोक्ये किन्नरोद्गीतसेविते ॥ २४॥
अचिन्त्या ह्यप्रमेयासि यासि सासि नमोऽस्तु ते ।
एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि गौतमि ॥ २५॥
त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ।
अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे ॥ २६॥
सर्वेषामेव बन्धानां मोक्षणं कर्तुमर्हसि ।
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः ॥ २७॥
अश्विनौ वसवश्चैव विश्वेसाध्यास्तथैव च ।
मरुता सह पर्जन्यो धाता भूमिर्दिशो दश ॥ २८॥
गावो नक्षत्रवंशाश्च ग्रहा नद्यो ह्रदास्तथा ।
सरितः सागराश्चैव नानाविद्याधरोरगाः ॥ २९॥
तथा नागाः सुपर्वाणो गन्धर्वाप्सरसां गणाः ।
कृत्स्नं जगदिदं प्रोक्तं देव्या नामानुकीर्तनात् ॥ २.१२०.३०॥
देव्याः स्तवमिमं पुण्यं यः पठेत् सुसमाहितः ।
सा तस्मै सप्तमे मासि वरमग्र्यं प्रयच्छति ॥ ३१॥
अष्टादशभुजा देवी दिव्याभरणभूषिता ।
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषणा ॥ ३२॥
कात्यायनि स्तूयसे त्वं वरमग्र्यं प्रयच्छसि ।
अतः स्तवीमि त्वां देवीं वरदे वामलोचने ॥ ३३॥
नमोऽस्तु ते महादेवि सुप्रीता मे सदा भव ।
प्रयच्छ त्वं वरं ह्यायुः पुष्टिं चैव क्षमां धृतिम् ॥ ३४॥
बन्धनस्थो विमुच्येयं सत्यमेतद् भवेदिति ।
वैशम्पायन उवाच ।
एवं स्तुता महादेवी दुर्गा दुर्गपराक्रमा ॥ ३५॥
सान्निध्यं कल्पयामास अनिरुद्धस्य बन्धने ।
अनिरुद्धहितार्थाय देवी शरणवत्सला ॥ ३६॥
बद्धं बाणपुरे वीरमनिरुद्धं व्यमोक्षयत् ।
सान्त्वयामास तं वीरमनिरुद्धममर्षणम् ॥ ३७॥
पूजयामास तां वीरः सोऽनिरुद्धः प्रतापवान् ।
प्रसादं दर्शयामास अनिरुद्धस्य बन्धने ॥ ३८॥
नागपाशेन बद्धस्य तस्योषाहृतचेतसः ।
स्फोटयित्वा कराग्रेण पञ्जरं वज्रसन्निभम् ॥ ३९॥
रुद्धं बाणपुरे वीरं सानिरुद्धमभाषत ।
सान्त्वयन्ती वचो देवी प्रसादाभिमुखी तदा ॥ २.१२०.४०॥
श्रीदेव्युवाच ।
चक्रायुधो मोक्षयितानिरुद्ध त्वां बन्धनादाशु सहस्व कालम् ।
छित्त्वा स बाणस्य सहस्रबाहुं पुरीं निजां नेष्यति दैत्यसूदनः ॥ ४१॥
ततोऽनिरुद्धः पुनरेव देवीं तुष्टाव हृष्टः शशिकान्तवक्त्रः ।
अनिरुद्ध उवाच ।
नमोऽस्तु ते देवि वरप्रदे शिवे नमोऽस्तु ते देवि सुरारिनाशिनि ॥ ४२॥
नमोऽस्तु ते कामचरे सदाशिवे नमोऽस्तु ते सर्वहितैषिणि प्रिये ।
नमोऽस्तु ते भीतिकरि द्विषां सदा नमोऽस्तु ते बन्धनमोक्षकारिणि ॥ ४३॥
ब्रह्माणीन्द्राणि रुद्राणि भूतभव्यभवे शिवे ।
त्राहि मां सर्वभीतिभ्यो नारायणि नमोऽस्तु ते ॥ ४४॥
नमोऽस्तु ते जगन्नाथे प्रिये दान्ते महाव्रते ।
भक्तिप्रिये जगन्मातः शैलपुत्रि वसुन्धरे ॥ ४५॥
त्राहि मां त्वं विशालाक्षि नारायणि नमोऽस्तु ते ।
त्रायस्व सर्वदुःखेभ्यो दानवानां भयङ्करि ॥ ४६॥
रुद्रप्रिये महाभागे भक्तानामार्तिनाशिनि ।
नमामि शिरसा देवीं बन्धनस्थो विमोक्षितः ॥ ४७॥
वैशम्पायन उवाच ।
आर्यास्तवमिदं पुण्यं यः पठेत् सुसमाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बन्धनस्थो विमुच्येत सत्यं व्यासवचो यथा ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अनिरुद्धकृत आर्यास्तवो नाम विंशत्यधिकशततमोऽध्यायः ॥ १२०॥
२.१२१ एकविंशत्यधिकशततमोऽध्यायः
श्रुतहृतानिरुद्धपाशबन्धनस्य कृष्णस्य शोणितपुरागमनम् KRiShNa goes to shoNitapuram
अनिरुद्धस्य अपहरणेन रनिवासे शोकं, श्रीकृष्णस्य यादवानां च चिन्ता, गुप्तचराणां नियोजनं तेषां विफलता च, नारदस्य आगमनं अनिरुद्धस्य समाचारनिवेदनं च, श्रीकृष्णेन गरुडस्य आवाहनं स्तवनं च, गरुडेन श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य शोणितपुरं प्रस्थानं
वैशम्पायन उवाच ।
ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः ।
प्रियं नाथमपश्यन्त्यः कुरर्य इव सङ्घशः ॥ १॥
अहो धिक्किमिदं नाथनाथे कृष्णे व्यवस्थिते ।
अनाथा इव सन्त्रस्ता रुदिमो भयपीडिताः ॥ २॥
यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः ।
बाहुच्छायामुपाश्रित्य वसन्ति दिवि निर्वृताः ॥ ३॥
तस्योत्पन्नमिदं लोके भयदस्य महाभयम् ।
तस्यानिरुद्धः पौत्रस्तु वीरः केनापि नो हृतः ॥ ४॥
अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः ।
वासुदेवस्य यः क्रोधमुत्पादयति दुःसहम् ॥ ५॥
व्यादितामास्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते ।
स वासुदेवं समरे मोहादभ्युदियाद् रिपुः ॥ ६॥
इदमेवंविधं कृत्वा विप्रियं यदुपुङ्गवे ।
कथं जीवन् विमुच्येत साक्षादपि शचीपतिः ॥ ७॥
हतनाथाः स्म शोच्याः स्म वयं नाथं विना कृताः ।
विप्रयोगेण नाथस्य कृतान्तवशगाः कृताः ॥ ८॥
इत्येवं ता वदन्त्यश्च रुदन्त्यश्च पुनः पुनः ।
नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः ॥ ९॥
तासां बाष्पाम्बुपूर्णानि नयनानि चकाशिरे ।
सलिलेनाप्लुतानीव पङ्कजानि जलागमे ॥ २.१२१.१०॥
तासामरालपक्ष्माणि राजयन्ति शुभानि च ।
रुधिरेणाप्लुतानीव नयनानि चकाशिरे ॥ ११॥
तासां हर्म्यतलस्थानां पूर्णं आसीन्महास्वनः ।
कुररीणामिवाकाशे रुदतीनां सहस्रशः ॥ १२॥
ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम् ।
उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः ॥ १३॥
कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः ।
गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम् ॥ १४॥
इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदा ।
अधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः ॥ १५॥
सन्नाहभेरी कृष्णस्य आहता महती तदा ।
यस्याः शब्देन ते सर्वे समागम्य च धिष्ठिताः ॥ १६॥
किमेतदिति तेऽन्योन्यं समपृच्छन्त यादवाः ।
अन्योन्यस्य हि ते सर्वे यथावृत्तमवेदयन् ॥ १७॥
ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः ।
निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः ॥ १८॥
तूष्णीम्भूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् ।
कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः ॥ १९॥
किमिदं चिन्तयाविष्टः पुरुषेन्द्र भवानिह ।
तव बाहुबलप्राणाः स्वास्थिताः सर्वयादवाः ॥ २.१२१.२०॥
भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः ।
तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ ॥ २१॥
सुखं स्वपिति निःशङ्कः कथं त्वं चिन्तयान्वितः ।
शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः ॥ २२॥
तान् मज्जमानानेकस्त्वं समुद्धर महाभुज ।
किमेवं चिन्तयाविष्टो न किञ्चिदपि भाषसे ॥ २३॥
चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधव ।
इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं बहु ॥ २४॥
प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् ।
श्रीकृष्ण उवाच ।
विपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम् ॥ २५॥
विचिन्तयंस्त्वहं चास्य कार्यस्य न लभे गतिम् ।
तथाहं भवताप्युक्तो नोत्तरं विदधे क्वचित् ॥ २६॥
दाशार्हगणमध्येऽहं वदाम्यर्थवतीं गिरम् ।
शृणुध्वं यादवाः सर्वे यथाचिन्तान्वितो ह्यहम् ॥ २७॥
अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः ।
अशक्ता इति मंस्यन्ते सर्वानस्मान् सबान्धवान् ॥ २८॥
आहुकश्चैव नो राजा हृतः शाल्वेन वै पुरा ।
प्रत्यानीतः स चास्माभिर्युद्धं कृत्वा सुदारुणम् ॥ २९॥
प्रद्युम्नश्चापि नो बालः शम्बरेण हृतो ह्यभूत् ।
स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः ॥ २.१२१.३०॥
इदं तु सुमहत् कष्टं प्राद्युम्निः क्व प्रवासितः ।
एवंविधमहं दोषं न स्मरे मनुजर्षभाः ॥ ३१॥
भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः ।
तस्याहं सानुबन्धस्य हरिष्ये जीवितं रणे ॥ ३२॥
इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् ।
चाराः कृष्ण प्रणीयन्तामनिरुद्धस्य मार्गणे ।
सपर्वतवनोद्देशां मार्गन्तु वसुधामिमाम् ॥ ३३॥
आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा ।
आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्तां चरा नृप ॥ ३४॥
वैशम्पायन उवाच ।
केशवस्य वचः श्रुत्वा आहुकस्त्वरितोऽभवत् ।
अन्वेषणेऽनिरुद्धस्य स चारान् दिष्टवांस्तदा ॥ ३५॥
ततश्चारास्तु व्यादिष्टाः पार्थिवेन यशस्विना ।
हया रथाश्च व्यादिष्टाः पार्थिवेन महात्मना ।
अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः ॥ ३६॥
वेणुमन्तं लताविष्टं तथा रैवतकं गिरिम् ।
ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः ॥ ३७॥
एकैकं तत्र चोद्यानं मार्गध्वं काननानि च ।
यातव्यं चापि निःशङ्कमुद्यानानि समन्ततः ॥ ३८॥
हयानां च सहस्राणि रथानां चाप्यनेकशः ।
आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् ॥ ३९॥
सेनापतिरनाधृष्टिरिदं वचनमब्रवीत् ।
कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत् ॥ २.१२१.४०॥
शृणु कृष्ण वचो मह्यं रोचते यदि ते प्रभो ।
चिरात् प्रभृति मे वक्तुं भवन्तं जायते मतिः ॥ ४१॥
असिलोमा पुलोमा च निसुन्दनरकौ हतौ ।
सौभः शाल्वश्च निहतौ मैन्दो द्विविद एव च ॥ ४२॥
हयग्रीवश्च सुमहान् सानुबन्धस्त्वया हतः ।
तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे ॥ ४३॥
सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे ।
कृतवानसि गोविन्द पार्ष्णिग्राहश्च नास्ति ते ॥ ४४॥
इदं कर्म त्वया कृष्ण सानुबन्धं महत् कृतम् ।
पारिजातस्य हरणे यत् कृतं कर्म दुष्करम् ॥ ४५॥
तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः ।
निर्जितो बाहुवीर्येण त्वया युद्धविशारदः ॥ ४६॥
तेन वैरं त्वया सार्ध कर्तव्यं नात्र संशयः ।
वैरानुबन्धश्च महांस्तेन कार्यस्त्वया सह ॥ ४७॥
तत्रानिरुद्धहरणं कृतं मघवता स्वयम् ।
न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति ॥ ४८॥
इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् ।
उवाच वचनं धीमाननाधृष्टिं महाबलम् ॥ ४९॥
सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः ।
नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशाः ॥ २.१२१.५०॥
देवतार्थं च मे यत्नो महान् दानवसङ्क्षये ।
तेषां प्रियार्थं च रणे हन्मि दृप्तान् महाबलान् ॥ ५१॥
तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः ।
कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् ॥ ५२॥
अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुकम्पिनः ।
तेभ्यो न विद्यते पापं बालिशत्वात् प्रभाषसे ॥ ५३॥
कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत् ।
देवेषु समहेन्द्रेषु नैतत् कर्म विधीयते ॥ ५४॥
वैशम्पायन उवाच ।
एवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मणः ।
कृष्णस्य वचनं श्रुन्वा ततोऽक्रूरोऽब्रवीद् वचः ॥ ५५॥
मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः ।
यच्छक्रस्य प्रभो कार्यं तदस्माकं विनिश्चितम् ॥ ५६॥
अस्माकं चापि यत्कार्यं तद्धि कार्यं शचीपतेः ।
संरक्ष्याश्च वयं देवैरस्माभिश्चापि देवताः ।
देवतार्थं वयं चापि मानुषत्वमुपागताः ॥ ५७॥
एवमक्रूरवचनैश्चोदितो मधुसूदनः ।
स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत ॥ ५८॥
नायं देवैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः ।
प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या नु महायशः ॥ ५९॥।
मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः ।
ताभिर्हृतो न सन्देहो नान्यतो विद्यते भयम् ॥ २.१२१.६०॥
वैशम्पायन उवाच ।
इत्येवमुक्ते वचने कृष्णेन तु महात्मना ।
अथावगम्य तत्त्वेन यद् भूतं यदुमण्डले ।
उदतिष्ठन्महानादस्तदा कृष्णं प्रशंसयन् ॥ ६१॥
हर्षयन् स तु सर्वेषां सूतमागधबन्दिनाम् ।
मधुरः श्रूयते घोषो यादवस्य निवेशने ॥ ६२॥
ते चाराः सर्वतः सर्वे सभाद्वारमुपागताः ।
शनैर्गद्गदया वाचा इदं वचनमब्रुवन् ॥ ६३॥
उद्यानानि गुहाः शैलाः सभा नद्यः सरांसि च ।
एकैकं शतशो राजन् मार्गितं न च दृश्यते ॥ ६४॥
अन्ये कृष्णं चरा राजन्नुपागम्य तदाब्रुवन् ।
सर्वे नो विदिता देशाः प्राद्युम्निर्न च दृश्यते ॥ ६५॥
यदन्यत् संविधातव्यं विधानं यदुनन्दन ।
तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे ॥ ६६॥
ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः ।
अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तमम् ॥ ६७॥
सन्दष्टौष्ठपुटाः केचित्केचिद् बाष्पाकुलेक्षणाः ।
केचिद् भ्रकुटिमास्थाय चिन्तयन्त्यर्थसिद्धये ॥ ६८॥
एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम् ।
अनिरुद्धः कुतश्चेति सम्भ्रमः सुमहानभूत् ॥ ६९॥
अन्योन्यमभिवीक्षन्ते यादवा जातमन्यवः ।
तां निशां विमनस्कास्ते गमयेयुः कथञ्चन ।
अनिरुद्धो हृतश्चेति पुनः पुनररिन्दम ॥ २.१२१.७०॥
एवं च ब्रुवतां तेषां प्रभाता रजनी तदा ।
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥ ७१॥
ततः प्रभाते विमले प्रादुर्भूते दिवाकरे ।
प्रविवेश सभामेको नारदः प्रहसन्निव ॥ ७२॥
दृष्ट्वा तु यादवान् सर्वान् कृष्णेन सह सङ्गतान् ।
ततः स जयशब्देन माधवं प्रत्यपूजयत् ॥ ७३॥
उग्रसेनादयस्ते च तमृषिं प्रत्यपूजयन् ।
अथाभ्युत्थाय विमनाः कृष्णः समितिदुर्जयः ।
मधुपर्कं च गां चैव नारदाय ददौ प्रभुः ॥ ७४॥
सोपविश्यासने शुभ्रे सर्वास्तरणसंवृते ।
सुखासीनो यथान्यायमुवाचेदं वचोऽर्थवत् ॥ ७५॥
नारद उवाच ।
किमेवं चिन्तयाविष्टा निःसङ्गा गतमानसाः ।
उत्साहहीनाः सर्वे वै क्लीबा इव समासते ॥ ७६॥
इत्येवमुक्ते वचने नारदेन महात्मना ।
वासुदेवोऽब्रवीद् वाक्यं श्रूयतां भगवन्निदम् ॥ ७७॥
अनिरुद्धो हृतो ब्रह्मन् केनापि निशि सुव्रत ।
यस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः ॥ ७८॥
एष ते यदि वृत्तान्तः श्रुतो दृष्टोऽपि वा मुने ।
भगवन् कथ्यतां साधु प्रियमेतन्ममानघ ॥ ७९॥
इत्येवमुक्ते वचने केशवेन महात्मना ।
प्रहस्यैतद् वचः प्राह श्रूयतां मधुसूदन ॥ २.१२१.८०॥
निर्वृत्तं सुमहद् युद्धं देवासुरसमं महत् ।
अनिरुद्धस्य चैकस्य बाणस्यापि महामृधे ॥ ८१॥
उषा नाम सुता तस्य बाणस्याप्रतिमौजसः ।
तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः ॥ ८२॥
उभयोरपि तत्रासी महायुद्धं सुदारुणम् ।
प्राद्युम्निबाणयोः सङ्ख्ये वलिवासवयोरिव ॥ ८३॥
अस्माभिश्चापि तद् युद्धं दृष्टं सुमहदद्भुतम् ।
अनिरुद्धो भयात् तेन संयुगेष्वनिवर्तिना ॥ ८४॥
बाणेन मायामास्थाय बद्धो नागैर्महाबलः ।
व्यादिष्टस्तु वधस्तस्य बाणेन गरुडध्वज ॥ ८५॥
तं निवारितवान् मन्त्री कुम्भाण्डो नाम तस्य ह ।
कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे ॥ ८६॥
बाणेन मायामास्थाय सर्पैर्नियमनं कृतम् ।
उत्तिष्ठतु भवाञ्छीघ्रं यशसे विजयाय च ॥ ८७॥
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् ।
प्राणैः किञ्चिद्गतैर्वीरो धैर्यमालम्ब्य तिष्ठति ॥ ८८॥
वैशम्पायन उवाच ।
इत्येवमुक्ते वचने वासुदेवः प्रतापवान् ।
प्रायात्रिकान् वै सम्भारानाज्ञापयत वीर्यवान् ॥ ८९॥
ततश्चन्दनचूर्णैश्च लाजैश्चैव समन्ततः ।
निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः ॥ २.१२१.९०॥
नारद उवाच ।
स्मरणं वैनतेयस्य कर्तुमर्हसि माधव ।
न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज ॥ ९१॥
आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम् ।
एकादश सहस्राणि योजनानां जनार्दन ॥ ९२॥
तदितः शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम् ।
मनोजवो महावीर्यो वैनतेयः प्रतापवान् ॥ ९३॥
समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति ।
एकेन सुमुहूर्तेन बाणं सन्दर्शयिष्यति ॥ ९४॥
वैशम्पायन उवाच ।
तस्य तद् वचनं श्रुत्वा सस्मार गरुडं तदा ।
स कृष्णपार्श्वमागम्य प्राञ्जलिर्गरुडः स्थितः ॥ ९५॥
प्रणम्याथ वचः प्राह वैनतेयो महाबलः ।
वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा ॥ ९६॥
गरुड उवाच ।
पद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम् ।
कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वतः ॥ ९७॥
फस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो ।
प्रभावात्तव गोविन्द को न विद्याद् बलं मम ॥ ९८॥
गदावेगं च ते वीर चक्राग्निं च महाभुज ।
नावबुध्यति मूढात्मा को दर्पान्नाशमेष्यति ॥ ९९॥
हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति ।
कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो ॥ २.१२१.१००॥
कस्य शङ्खरवैः प्राणान् मोहयिष्यसि माधव ।
कोऽयं सपरिवारोऽद्य यास्यते यमसादनम् ॥ १०१॥
एवमुक्ते तु वचने वैनतेयेन धीमता ।
वासुदेवो वचः प्राह शृणु त्वं वदतां वर ॥ १०२॥
बलेः पुत्रेण बाणेन प्राद्युम्निरपराजितः ।
उषायाः कारणे बद्धो नगरे शोणिताह्वये ।
अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणैः ॥ १०३॥
तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर ।
तव वेगसमो नास्ति पक्षिणां प्रवरो भवान् ।
अशक्यं च तदध्वानं गन्तुमन्येन काश्यप ॥ १०४॥
तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत् ।
वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी ॥ १०५॥
अमृतं तु हृतं पूर्व त्वया पन्नगनाशन ॥ १०६॥
मया सह समागम्य तस्मिन् काले महाभुज ।
अभवन्मे ध्वजश्चैव त्वद्भक्ताः सर्ववृष्णयः ।
सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर ॥ १०७॥
तव वेगसमो नास्ति पक्षिणो न च ते समाः ।
सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन ॥ १०८॥
दासीभावं गता माता मोक्षितैकाकिना पुरा ।
पक्षविक्षेपमात्रेण हता योधास्त्वया पुरा ॥ १०९॥
भवान् सुरगणान् सर्वान् पृष्ठमारोप्य विक्रमात् ।
गच्छ मे ह्यगमान् देशान् विजयश्च तवाश्रयात् ॥ २.१२१.११०॥
गुरुत्वान्मेरुतुल्यस्त्वं लघुत्वात् पवनोपमः ।
भूते भव्ये भविष्ये च न ते तुल्योऽस्ति विक्रमे ॥ १११॥
सत्यसन्ध महाभाग वैनतेय महाद्युते ।
अनिरुद्धेक्षणेनाद्य साहाय्यमुपकल्प्यताम् ॥ ११२॥
गरुड उवाच ।
अत्यद्भुतमिदं वाक्यं तव कृष्ण महाभुज ।
त्वत्प्रसादाच्च विजयः सर्वत्रैव महाभुज ॥ ११३॥
धन्योऽस्म्यनुगृहीतोऽस्मि संस्तवान्मधुसूदन ।
स्तोतव्यस्त्वं मया कृष्ण स्तौषि मां त्वं महाभुज ॥ ११४॥
वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् ।
अमोघदर्शनस्त्वं हि वरार्थिषु वरप्रदः ॥ ११५॥
चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तकः ।
चातुराश्रम्यहोता च चतुर्नेता महाकविः ॥ ११६॥
धनुर्धरश्चक्रधरो भवाञ्छङ्खधरो महान् ।
भवान् पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो ॥ ११७॥
लाङ्गली मुसली चक्री देवकीतनयो भवान् ।
चाणूरमथनश्चैव गोप्रियः कंसहा भवान् ॥ ११८॥
गोवर्धनधरश्चैव मल्लारिर्मल्लभावनः ।
मल्लप्रियो महामल्लो महापुरुष इत्यपि ॥ ११९॥
विप्रप्रियो विप्रदितो विप्रज्ञो विप्रभावनः ।
ब्रह्मण्यश्च वरेण्यश्च भवान् दामोदरः स्मृतः ।
प्रलम्बमथनश्चैव केशिहा दानवान्तकः ॥ २.१२१.१२०॥
असिलोम्नश्च हन्ता च तथा रावणनाशनः ।
विभीषणस्य भगवान् राज्यदो वालिनाशनः ॥ १२१॥
सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः ।
रत्नहर्ता महारत्नं समुद्रोदरसम्भवम् ॥ १२२॥
वरुणश्च भवान् ख्यातो भवांश्च सरिदुद्भवः ।
भवान् खङ्गधरो धन्वी धनुर्धरवरो महान् ॥ १२३॥
दाशार्ह इति विख्यातो महाधन्वा धनुःप्रियः ।
गोविन्द इति विख्यात उदधिस्त्वं च सुव्रत ॥ १२४॥
आकाशश्च तपश्चैव समुद्रमथनो भवान् ।
भवान् स्वर्गो बहुफलो भवान्स्वर्गचरो महान् ॥ १२५॥
त्वमेव च महामेघो बीजनिष्पत्तिरेव च ।
त्रैलोक्यमथनस्त्वं च क्रोधलोभमनोरथः ॥ १२६॥
भवान् कामप्रदश्चैव कामः सर्वधनुर्धरः ।
संवर्तो वर्तनश्चैव प्रलयो निलयो महान् ॥ १२७॥
हिरण्यगर्भो रूपज्ञो रूपवान् मधुसूदनः ।
ईशस्त्वं च महादेव असङ्ख्येयगुणान्वितः ॥ १९८॥
स्तोतुमिच्छसि मां देव स्तोतव्यस्त्वं यदूत्तम ।
चक्षुषा ये त्वया घोराः प्राणिनो हि निरीक्षिताः ॥ १२९॥
हतास्ते यमदण्डेन तिर्यङ्निरयगामिनः ।
ये त्वया परमप्रीत्या प्राणिनो वै निरीक्षिताः ॥ २.१२१.१३०॥
इह च प्रेत्य ते सर्वे सर्वथा स्वर्गगामिनः ।
एष तेऽहं महाबाहो वशगः शासने स्थितः ॥ १३१॥
जयस्थानं ततः कृत्वा गरुडः प्राह केशवम् ।
अयमस्मि स्थितो वीर आरुहस्व महाबल ॥ १३२॥
ततः कण्ठे परिष्वज्य माधवो गरुडं ततः ।
सखे शत्रुविनाशाय अर्घ्योऽयं प्रतिगृह्यताम् ॥ १३३॥
दत्त्वार्घ्यं परया प्रीत्या शङ्खचक्रगदासिभृत् ।
आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः ॥ १३४॥
कृष्णस्य पार्श्वमागम्य हर्षादेवास्थितोऽभवत् ।
कृष्णकेशः प्रवलयो विष्णुः कृष्णश्च वर्णतः ॥ १३५॥
चतुर्दंष्ट्रश्चतुर्बाहुश्चतुर्वेद षडङ्गवित् ।
श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा मृदुत्वचः ॥ १३६॥
समाङ्गुलिः समनस्रो रक्ताङ्गुलिनखान्तरः ।
स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर्महाभुजः ॥ १३७॥
आजानुबाहुस्ताम्रास्यः सिंहविस्पष्टविक्रमः ।
सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते ॥ १३८॥
यः प्रभुर्भाति विश्वात्मा भूतानां भावनो विभुः ।
यस्याष्टगुणमैश्वर्यं ददौ प्रीतः प्रजापतिः ॥ १३९॥
प्रजापतीनां साध्यानां त्रिदशानां च शाश्वतः ।
स्तूयमानः स्तवैर्दिव्यैः सूतमागधबन्दिभिः ।
ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः ॥ २.१२१.१४०॥
संविधानमथाज्ञाप्य द्वारकायां महाबलः ।
गमनाय मतिं चक्रे वासुदेवः प्रतापवान् ॥ १४१॥
आस्थितो गरुडं देवस्तस्य चानु हलायुधः ।
पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्षणः ॥ १४२॥
जय बाणं महाबाहो ये चास्यानुगता रणे ।
न हि ते प्रमुखे स्थातुं कश्चिच्छक्तो महामृधे ॥ १४३॥
प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे ।
विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम् ॥ १४४॥
सिद्धचारणसङ्घानां महर्षीणां च सर्वशः ।
शृण्वन्वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे ॥ १४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कृष्णप्रयाणे एकविंशत्यधिकशततमोऽध्यायः ॥ १२१॥
२.१२२ द्वाविंशत्यधिकशततमोऽध्यायः
युद्धेऽग्निगणापयानम् ज्वरोत्पत्तिस्तेन कृष्णस्य युद्धं च KRiShNa overcomes agni-s in combat, and His battle with jvara
वैशम्पायन उवाच ।
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां स्तवैश्चापि सहस्रशः ॥ १॥
स तून्मुखैर्जयाशीर्भिः स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा ॥ २॥
अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यतः ।
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा ॥ ३॥
अथाष्टबाहुः कृष्णस्तु पर्वताकारसन्निभः ।
विबभौ पुण्डरीकाक्षो विकाङ्क्षन् बाणसङ्क्षयम् ॥ ४॥
असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः ।
चर्म शार्ङ्गं तथा वज्रं शङ्खं चैवास्य वामतः ॥ ५॥
शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना ।
सहस्रं चैव कायानां वहन् सङ्कर्षणस्तदा ॥ ६॥
श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् ।
प्रस्थितो गरुडेनाथ उद्यन्निव निशाकरः ॥ ७॥
सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः ।
प्रद्युम्नस्य महाबाहोः सङ्ग्रामे विक्रमिष्यतः ॥ ८॥
स पक्षबलविक्षेपैर्विधुन्वन् पर्वतान् बहून् ।
जगाम मार्गे बलवान् वातस्य प्रतिषेधयन् ॥ ९॥
अथ वायोरतिगतिमास्थाय गरुडस्तदा ।
सिद्धचारणसङ्घानां शुभं मार्गमवातरत् ॥ २.१२२.१०॥
अथ रामोऽब्रवीद् वाक्यं कृष्णमप्रतिमं रणे ।
स्वाभिः प्रभाभिर्हीनाः स्म कृष्ण कस्मादपूर्ववत् ॥ ११॥
सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः ।
किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् ॥ १२॥
श्रीभगवानुवाच ।
मन्ये बाणस्य नगरमभ्यासस्थमरिन्दम ।
रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन् ॥ १३॥
अग्नेराहवनीयस्य प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यमिदं जातं हलायुध ॥ १४॥
श्रीराम उवाच ।
यदि स्म सन्निकर्षस्था यदि निष्प्रभतां गताः ।
तद् विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् ॥ १५॥
श्रीभगवानुवाच ।
कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम् ।
त्वया विधाने विहिते करिष्याम्यहमुत्तमम् ॥ १६॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा तु गरुडो वासुदेवस्य भाषितम् ।
चक्रे मुखसहस्रं हि कामरूपी महाबलः ॥ १७॥
गङ्गामुपागमत् तूर्णं वैनतेयो महाबलः ।
आप्लुत्याकाशगङ्गायामापीय सलिलं बहु ॥ १८॥
प्रववर्षोपरि गतो वैनतेयः प्रतापवान् ।
तेनाग्निं शमयामास बुद्धिमान् विनतात्मजः ॥ १९॥
अग्निराहवनीयस्तु ततः शान्तिमुपागमत् ।
तं दृष्ट्वाहवनीयं तु शान्तमाकाशगङ्गया ।
परमं विस्मयं गत्वा सुपर्णो वाक्यमव्रवीत् ॥ २.१२२.२०॥
अहो वीर्यमथाग्नेस्तु यो दहेद् युगसङ्क्षये ।
यथेह वर्णवैरूप्यं चक्रे कृष्णस्य धीमतः ॥ २१॥
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ।
कृष्णः सङ्कर्षणश्चैव प्रद्युम्नश्च महाबलः ॥ २२॥
ततः प्रशान्ते दहने सम्प्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपं कुर्वन् घोरं महास्वनम् ॥ २३॥
तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नयः ।
आस्थिता गरुडं ह्येते नानारूपा भयावहाः ॥ २४॥
किमर्थमिह सम्प्राप्ताः के वापीमे जनास्त्रयः ।
निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नयः ॥ २५॥
प्रावर्तयंश्च सङ्ग्रामं तैस्त्रिभिः सह यादवैः ।
तेषां युद्धप्रसक्तानां सन्नादः सुमहानभूत् ॥ २६॥
तं च श्रुत्वा महानादं सिंहानामिव गर्जताम् ।
अथाङ्गिराः स्वपुरुषं प्रेषयामास बुद्धिमान् ॥ २७॥
यत्र तद् वर्तते युद्धं तत्र गच्छस्व मा चिरम् ॥
दृष्ट्वा तत् सर्वमागच्छ इत्युक्तः प्रहितस्त्वरन् ॥ २८॥
तथेत्युक्त्वा स तद् युद्धं वर्तमानमवैक्षत ।
अग्नीनां वासुदेवेन संसक्तानां महामृधे ॥ २९॥
ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः ॥ २.१२२.३०॥
स्वाहाकारस्य विषये प्रख्याताः पञ्च वह्नयः ।
अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः ॥ ३१॥
पिठरः पतगः स्वर्णः श्वागाधो भ्राज एव च ।
स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः ॥ ३२॥
ज्योतिष्टोमविभागौ च वषटकाराश्रयौ पुनः ।
द्वावग्नी सम्प्रयुध्येते महात्मानौ महाद्युती ॥ ३३॥
आग्नेयं रथमास्थाय शरमुद्यम्य भास्वरम् ।
तयोर्मध्येऽङ्गिराश्चैव महर्षिर्विबभौ रणे ॥ ३४॥
स्थितमङ्गिरसं दृष्ट्वा विमुञ्चन्तं शिताञ्छरान् ।
कृष्णः प्रोवाच सङ्क्रुद्धः स्मयन्निव पुनः पुनः ॥ ३५॥
तिष्ठध्वमग्नयः सर्वे एष वो विदधे भयम् ।
ममास्त्रतेजसा दग्धा दिशो यास्यथ विद्रुताः ।
अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत ॥ ३६॥
आददान इव क्रोधात्कृष्णप्राणान् महामृधे ।
त्रिशूलं तस्य दीप्तं तु चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभोपमैः ॥ ३७॥
स्थूणाकर्णेन बाणेन दीप्तेन स महामनाः ।
विव्याधान्तकतुल्येन वक्षस्यङ्गिरसं ततः ॥ ३८॥
रुधिरौघप्लुतैर्गात्रैरङ्गिरा विह्वलन्निव ।
विष्टब्धगात्रः सहसा पपात धरणीतले ॥ ३९॥
शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः ॥
आवाहयंस्तदा शीघ्रं बाणस्य पुरमन्तिकात् ॥ २.१२२.४०॥
अथागमत् ततः कृष्णो यत्र बाणपुरं ततः ।
अथ बाणपुरं दृष्ट्वा दूरात् प्रोवाच नारदः ॥ ४१॥
एतत् तच्छोणितपुरं कृष्ण पश्य महाभुज ।
अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत् ॥ ४२॥
गुहश्च बाणगुप्त्यर्थं सततं क्षेमकारणात् ।
नारदस्य वचः श्रुत्वा कृष्णः सम्प्रहसन् ब्रवीत् ॥ ४३॥
क्षणं चिन्तयतामत्र श्रूयतां च महामुने ।
यदि वावतरेद् रुद्रो बाणसंरक्षणं प्रति ॥ ४४॥
शक्तितो वयमप्यत्र सह योत्स्याम तेन वै ।
एवं विवदतोस्तत्र कृष्णनारदयोस्तदा ॥ ४५॥
प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते ।
ततः शङ्खं समाधाय वदने पुष्करेक्षणः ॥ ४६॥
वायुवेगसमुद्भूतो मेघश्चन्द्रमिवोद्गिरन् ।
ततः प्रध्माप्य तं शङ्खं भयमुत्पाद्य वीर्यवान् ॥ ४७॥
प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः ।
ततः शङ्खप्रणादैश्च भेरीणां च महास्वनैः ॥ ४८॥
बाणानीकानि सहसा सन्नह्यन्त समन्ततः ।
ततः किङ्करसैन्यं तु व्यादिष्टं समरे भयात् ॥ ४९॥
कोटिशश्चापि बहुशो दीप्तप्रहरणास्तदा ।
तदसंरुयेयमेकस्थं महाभ्रघनसन्निभम् ॥ २.१२२.५०॥
नीलाञ्जनचयप्रख्यमप्रमेयमथाक्षयम् ।
दीप्तप्रहरणाः सर्वे दैत्यदानवराक्षसाः ॥ ५१॥
प्रमाथगणमुख्याश्च अयुध्यन् कृष्णमव्ययम् ।
सर्वतस्तैः प्रदीप्तास्त्रैः सार्चिष्मद्भिरिवाग्निभिः ॥ ५२॥
अभ्युपेत्य तदात्युग्रैर्यक्षराक्षसकिन्नरैः ।
पीयते रुधिरं तेषां चतुर्णामपि संयुगे ॥ ५३॥
तद् बलं तु समासाद्य बलभद्रो महाबलः ।
प्रोवाच वचनं तत्र परस्य बलनाशनः ॥ ५४॥
कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद् भयम् ।
इति सञ्चोदितः कृष्णो बलभद्रेण धीमता ॥ ५५॥
तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः ।
अस्त्रमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभः ।
प्रविधूयासुरगणान् क्रव्यादानस्त्रतेजसा ॥ ५६॥
प्रययौ त्वरया युक्तो यत्र दृश्येत तद् बलम् ।
शूलपट्टिशशक्त्यृष्टिपिनाकपरिघायुधम् ॥ ५७॥
प्रमाथगणभूयिष्ठं बलं तदभवत् क्षितौ ।
शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः ।
वाहनैः सङ्घशः सर्वे योधास्तत्रावतस्थिरे ॥ ५८॥
वातोद्भूतैरिव घनैर्विप्रकीर्णैरिवाचलैः ।
शुशुभे तत्र बहुलैरनीकैर्दृढधन्विभिः ॥ ५९॥
मुसलैरसिभिः शूलैर्गदाभिः परिघैस्तथा ।
अबाधं तदसङ्ख्येयं शुशुभे सर्वतो बलम् ॥ २.१२२.६०॥
ततः सङ्कर्षणो देवमुवाच मधुसूदनम् ।
कृष्ण कृष्ण महाबाहो यदेतद् दृश्यते बलम् ।
श्रीकृष्ण उवाच ममाप्येषैव सञ्जाता बुद्धिरित्यब्रवीच्च तम् ।
एतैः सह रणे योद्धुमिच्छामि पुरुषोत्तम ॥ ६१॥
ममाप्येषैव सञ्जाता बुद्धिरित्यब्रवीच्च तम् ।
एभिः सह रणे योद्धुमिच्छेयं योधसत्तमैः ॥ ६२॥
युद्ध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः ।
सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान् ।
रक्षितव्यमथान्योन्यमस्मिन् घोरे महामृधे ॥ ६३॥
वैशम्पायन उवाच ।
एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् ।
गिरिशृँङ्गनिभैर्घोरैर्गदामुसललाङ्गलैः ॥ ६४॥
युध्यतो रौहिणेयस्य रौद्रं रूपमभूत् तदा ।
युगान्ते सर्वभूतानां कालस्येव दिधक्षतः ॥ ६५॥
आकृष्य लाङ्गलाग्रेण मुसलेनावपोथयत् ।
चचारातिबलो रामो युद्धमार्गविशारदः ॥ ६६॥
प्रद्युम्नः शरजालैस्तान् समन्तात् पर्यवारयत् ।
दानवान्पुरुषव्याघ्रो युद्धयमानान्महाबलः ॥ ६७॥
स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः ।
प्रध्माय बहुशः शङ्खमयुध्यत जनार्दनः ॥ ६८॥
पक्षप्रहारनिहता नखतुण्डाग्रदारिताः ।
नीता वैवस्वतपुरं वैनतेयेन धीमता ॥ ६९॥
तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमम् ।
अभज्यत तदा सङ्ख्ये बाणवर्षसमाहतम् ॥ २.१२२.७०॥
भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् ।
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ॥ ७१॥
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ।
नदन् मेघसहस्रेण तुल्यो निर्घातनिःस्वनः ॥ ७२॥
निःश्वसञ्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ।
नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन् भ्रमन् मुहुः ॥ ७३॥
संहृष्टरोमा ग्लानाक्षो भग्नचित्त इव श्वसन् ।
हलायुधमभिक्रुद्धः स्राक्षेपमिदमब्रवीत् ॥ ७४॥
किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे ।
तिष्ठ तिष्ठ न मे जीवन मोक्ष्यसे रणमूर्धनि ॥ ७५॥
इत्येवमुक्त्वा प्रहसन् हलायुधमुपाद्रवत् ।
युगान्ताग्निनिभैर्घोरैर्मुष्टिभिर्जनयन् भयम् ॥ ७६॥
चरतस्तत्र सङ्ग्रामे मण्डलानि सहस्रशः ।
रौहिणेयस्य शीघ्रेण नावस्थानमदृश्यत ॥ ७७॥
तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा ।
शैघ्र्याद् वक्षो निपतितं शरीरे पर्वतोपमे ॥ ७८॥
तद् भस्म वक्षसस्तस्य मेरोः शिखरमागमत् ।
प्रदीप्तं पतितं तत्र गिरिशृङ्गं व्यदारयत् ॥ ७९॥
शेषेण चापि जज्वाल भस्मना कृष्णपूर्वजः ।
निःश्वसञ्जम्भमाणश्च निद्रान्विततनुर्भृशम् ॥ २.१२२.८०॥
नेत्रयोराकुलत्वं च मुहुः कुर्वन् भ्रमंस्तथा ।
संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् ॥ ८१॥
ततो हलधरो भग्नः कृष्णमाह विचेतनः ।
कृष्ण कृष्ण महाबाहो प्रदीप्तोऽस्म्यभयं कुरु ॥ ८२॥
दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम ।
इत्येवमुक्ते वचने बलेनामिततेजसा ॥ ८३॥
प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः ।
न भेतव्यमितीत्युक्त्वा परिष्वक्तो हलायुधः ॥ ८४॥
कृष्णेन परमस्नेहात् ततो दाहात् प्रमुच्यत ।
मोक्षयित्वा बलं तत्र दाहात् तु मधुसूदनः ॥ ८५॥
प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा ।
श्रीभगवानुवाच ।
एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे ॥ ८६॥
यच्च ते पौरुषं सर्वं तद् दर्शयतु नो भवान् ।
सव्येतराभ्यां बाहुभ्यामेवमुक्तो ज्वरस्तदा ॥ ८७॥
चिक्षेपैनं भस्म ज्वालागर्भ महाबलः ।
ततः प्रदीप्तगात्रस्तु मुहूर्तमभवत् प्रभुः ॥ ८८॥
कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतस्ततः ।
ततस्तैर्भुजगाकारैर्बाहुभिस्तु त्रिभिस्तदा ॥ ८९॥
जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि ।
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ॥ २.१२२.९०॥
ज्वरस्य तु महायुद्धे कृष्णस्य तु महौजसः ।
पर्वतेषु पतन्तीनामशनीनामिव स्वनः ॥ ९१॥
कृष्णज्वरभुजाघातैर्युद्धमासीत् सुदारुणम् ।
नैवमेवं प्रहर्तव्यमिति तत्र महास्वनः ।
मुहूर्तमभवद् युद्धमन्योन्यं तु महात्मनोः ॥ ९२॥
ततो ज्वरं कनकविचित्रभूषणं
न्यपीडयद् भुजयुगलेन संयुगे ।
जगत्क्षयं समुपनयञ्जगत्पतिः
शरीरधृग् गगनचरं महामृधे ॥ ९३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कृष्णज्वरयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः ॥ १२२॥
२.१२३ त्रयोविंशत्यधिकशततमोऽध्यायः
ज्वरश्च पराजयो वरलाभश्च Jvara defeated, gets a boon
श्रीकृष्णात् पराजितस्य ज्वरस्य तस्य शरणे गमनम्, तस्मात् वरप्राप्तिः, तस्याज्ञां शिरोधार्यं कृत्वा रणभूमितः अपगमनं
वैशम्पायन उवाच ।
मृतमित्यभिविज्ञाय ज्वरं शत्रुनिषूदनः ।
कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले ॥ १॥
मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह ।
अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ॥ २॥
स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत ॥ ३॥
जृम्भते श्वसते चैव वल्गते च पुनः पुनः ।
रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते ॥ ४॥
ततः स्थैर्यं समालम्ब्य कृष्णः परपुरञ्जयः ।
विकुर्वति महायोगी जम्भमाणः पुनः पुनः ॥ ५॥
ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः ।
सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् ॥ ६॥
घोरं वैष्णवमत्युग्रं सर्वप्राणिभयङ्करम् ।
संसृष्टवान् स तेजस्वी तं ज्वरं भीमविक्रमम् ॥ ७॥
ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् ।
कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः ॥ ८॥
ततस्तं परमक्रुद्धो वासुदेवो महाबलः ।
स्वगात्रात् स्वज्वरेणैव निष्कासयत वीर्यवान् ॥ ९॥
आविध्य भूतले चैनं शतधा कर्तुमुद्यतः ।
व्याघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि ॥ २.१२३.१०॥
आविध्यमाने तस्मिंस्तु कृष्णेनामिततेजसा ।
अशरीरा ततो वाणी ह्यन्तरिक्षादभाषत ॥ ११॥
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन ।
मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ ॥ १२॥
इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् ।
भूतभव्यभविष्यस्य जगतः परमो गुरुः ॥ १३॥
कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः ।
एवं मुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत् ॥ १४॥
शृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन ।
यो मे मनोरथो देव तं त्वं कुरु महाभुज ॥ १५॥
अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत् ।
त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम् ॥ १६॥
देव उवाच ।
एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे ।
वरार्थिनां वरो देयो भवांश्च शरणं गतः ॥ १७॥
एक एव ज्वरो लोके भवानस्तु यथा पुरा ।
योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम् ॥ १८॥
वैशम्पायन उवाच ।
एवमुक्ते तु वचने ज्वरं प्रति महायशाः ।
कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह ॥ १९॥
वासुदेव उवाच ।
शृणुष्व ज्वर सन्देशं यथा लोके चरिष्यसि ।
सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे ॥ २.१२३.२०॥
त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।
चतुष्पादान् भजैकेन द्वितीयेन च स्थावरान् ॥ २१॥
तृतीयो यश्च ते भागो मानुषेषूपपत्स्यते ।
त्रिधाभूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥ २२॥
चतुर्थो यस्तृतीयस्य भविष्यति स ते धुवम् ।
एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः ॥ २३॥
मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै ।
जातिष्वथावशेषासु निवस त्वं शृणुष्व मे ॥ २४॥
वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः ।
पाण्डुपत्रश्च विख्यातः फलेष्वप्तुर्यमेव च ॥ २५॥
अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम् ।
पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः ॥ २६॥
गैरिकः पर्वतेष्वेव मत्प्रसादाद् भविष्यसि ।
गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ॥ २७॥
एवं त्वं बहुरूपेण भविष्यसि महीतले ।
दर्शनात् स्पर्शनाच्चापि प्राणिनां वधमेष्यसि ॥ २८॥
ऋते देवमनुष्याणां नान्यस्त्वा विसहिष्यति ।
वैशम्पायन उवाच ।
कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत् ॥ २९॥
प्रोवाच वचनं किञ्चित् प्रणमित्वा कृताञ्जलिः ।
ज्वर उवाच ।
सर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव ॥ २.१२३.३०॥
भूयश्च ते बलः कर्तुमिच्छामि षुरुषर्षभ ।
तदाज्ञापय गोविन्द किं करोमि महाभुज ॥ ३१॥
अहमसुरकुलप्रमाथिना त्रिपुरहरेण हरेण निर्मितः ।
रणशिरसि विनिर्जितस्त्वया प्रभुरसि देव तवास्मि किङ्करः ॥ ३२॥
धन्योऽस्म्यनुगृहीतोऽस्मि यत् त्वया मत्प्रियं कृतम् ।
आज्ञापय प्रियं किं ते चक्रायुध करोम्यहम् ॥ ३३॥
वैशम्पायन उवाच ।
ज्वरस्य वचनं श्रुत्वा वासुदेवोऽब्रवीद् वचः ।
अभिसन्धिं शृणुष्वाद्य यत् त्वां वक्ष्यामि निश्चयात् ॥ ३४॥
श्रीभगवानुवाच ।
महाहवे तव मम च द्वयोरिमं पराक्रमं भुजबलकेवलास्त्रयोः ।
प्रणम्य मामेकमनाः पठेत् तु यः स वै भवेज्ज्वर विगतज्ज्वरो नरः ॥ ३५॥
त्रिपाद् भस्मप्रहरणस्त्रिशिरा नवलोचनः ।
स मे प्रीतः सुखं दद्यात् सर्वामयपतिर्ज्वरः ॥ ३६॥
आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
सर्वाञ्ज्वरान् घ्नन्तु मयानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः ॥ ३७॥
वैशम्पायन उवाच ।
एवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महान्मना ।
प्रोवाच यदुशार्दूलमेवमेतद् भविष्यति ॥ ३८॥
वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच्च समयं पुनः ।
प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात् ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि ज्वरकृष्णसंवादे
त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३॥
२.१२४ चतुर्विंशत्यधिकशततमोऽध्यायः
बानासैन्यैः सह कृष्णस्य युद्धं बाणसैन्यापयानं, रुद्रेण सह कृष्णयुद्धादिकीर्तनं च KRiShNa's battles with bANa army and with rudra
बाणासुरस्य सेनायाः पलायनं, भगवतः शङ्करस्य स्वगणैः सह युद्धायागमनम्, भगवतः कृष्णस्य रुद्रेण सह युदधं, बाणासुरस्य युद्धभूम्यां आगमनं
वैशम्पायन उवाच ।
ततस्ते त्वरिताः सर्वे त्रयस्त्रय इवाग्नयः ।
वैनतेयमथारुह्य युध्यमाना रणे स्थिताः ॥ १॥
ततः सर्वाण्यनीकानि बाणवर्षैरवाकिरन् ।
अर्दयन् वैनतेयस्था नदन्तोऽतिबलाद् रणे ॥ २॥
चक्रलाङ्गलपातैश्च बाणवर्षैश्च पीडितम् ।
सञ्चुकोप महानीकं दानवानां दुरासदम् ॥ ३॥
कक्षेऽग्निरिव संवृद्धः शुष्केन्धनसमीरितः ।
कृष्णबाणाग्निरुद्भूतो विवृद्धिं परमां गतः ॥ ४॥
दानवानां सहस्राणि तस्मिन् समरमूर्धनि ।
युगान्ताग्निरिवार्चिष्मान् दहमानो व्यराजत ॥ ५॥
तां दीर्यमाणां महतीं नानाप्रहरणार्दिताम् ।
सेनां बाणः समासाद्य वारयन् वाक्यमब्रवीत् ॥ ६॥
लाघवं समुपागम्य किमर्थं भयविक्लवाः ।
दैत्यवंशसमुन्पन्नाः पलायध्वं महाहवात् ॥ ७॥
कवचासिगदाप्रासखड्गचर्मपरश्वधान् ।
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः ॥ ८॥
स्वजातिं चैव भावं च हरसंसर्गमेव च ।
मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः ॥ ९॥
एवमुच्चरितं वाक्यं शृण्वन्तस्तदचिन्तयन् ।
अपाक्रामन्त ते सर्वे दानवा भयमोहिताः ॥ २.१२४.१०॥
प्रमाथगणशेषं तु तदनीकमतिष्ठत ।
भग्नावशेषं युद्धाय पुनश्चक्रे मनस्तदा ॥ ११॥
कुम्भाण्डो नाम बाणस्य सस्वामात्यश्च वीर्यवान् ।
भग्नं स्वबलमालोक्य इदं वचनमब्रवीत् ॥ १२॥
एष बाणः स्थितो युद्धे शङ्करोऽयं गुहस्तथा ।
किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिताः ॥ १३॥
प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुङ्गवाः ।
एवं कुम्भाण्डवाक्यं ते शृण्वन्तो भयविह्वलाः ।
चक्राग्निभयवित्रस्ताः सर्वे यान्ति दिशो दश ॥ १४॥
भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा ।
संरक्तनयनः स्थाणुर्युद्धाय पर्यवर्तत ॥ १५॥
बाणसंरक्षणं कर्तुं रथमास्थाय सुप्रभम् ।
देवः कुमारश्च तथा रथेनाग्निसमेन वै ॥ १६॥
नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् ।
सन्दष्टौष्ठपुटो रुद्रः प्राधावत यतो हरिः ॥ १७॥
पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः ।
रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी ॥ १८॥
ततो गणसहस्रैस्तु नानारूपैर्भयावहैः ।
नदद्भिर्विविधान् नादान्रथो देवस्य शोभयन् ॥ १९॥
केचित् सिंहमुखास्तत्र तथा व्याघ्रमुखाः परे ।
नागाश्वोष्ट्रमुखास्तत्र प्रवेपुरतिपीडिताः ॥ २.१२४.२०॥
व्यालयज्ञोपवीताश्च केचित् तत्र महाबलाः ।
खरोष्ट्रगजवक्त्राश्च अश्वग्रीवाश्च संस्थिताः ॥ २१॥
छागमार्जारवक्त्राश्च मेषवक्त्रास्तथा परे ।
चीरिणः शिखिनश्चान्ये जटिलोर्ध्वशिरोरुहाः ॥ २२॥
भग्नाः परिपतन्ति स्म शङ्खदुन्दुभिनिःस्वनैः ।
केचित् सौम्यमुखास्तत्र दिव्यैः शस्त्रैरलङ्कृताः ॥ २३॥
नानापुष्पकृतापीडा नानाप्रहरणायुधाः ।
वामना विकटाश्चैव सिंहव्याघ्रपरिच्छदाः ॥ २४॥
रुधिराद्रैर्महावक्त्रैर्महादंष्ट्रा बलिप्रियाः ।
देवं सम्परिवार्याथ महाशत्रुप्रमर्दनम् ॥ २५॥
लीलायमानास्तिष्ठन्ति सङ्ग्रामाभिमुखोन्मुखाः ।
ततो दिव्यं रथं दृष्ट्वा रुद्रस्याक्लिष्टकर्मणः ॥ २६॥
कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे ।
वैनतेयस्थमास्यन्तमायान्तमग्रणी हरिम् ॥ २७॥
विव्याध कुपितो बाणैर्नाराचानां शतेन सः ।
स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा ॥ २८॥
हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम् ।
प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता ॥ २९॥
नागाश्चोर्ध्वमुखास्तत्र विचेलुरभिपीडिताः ।
पर्वताः पतितास्तत्र जलधाराभिराप्लुताः ॥ २.१२४.३०॥
केचिन्मुमुचिरे तत्र शिखराणि समन्ततः ।
दिशश्च प्रदिशश्चैव भूमिराकाशमेव च ॥ ३१॥
प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे ।
समन्ततश्च निर्घाताः पतन्ति धरणीतले ॥ ३२॥
शिवाश्चैवाशिवान् नादान्नदन्ते भीमदर्शनाः ।
वासवश्चानदन् घोरं रुधिरं चाप्यवर्षत ॥ ३३॥
उल्का च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति ।
प्रववौ मारुतश्चापि ज्योतींष्याकुलतां ययुः ॥ ३४॥
प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगाः ।
एतस्मिन्नन्तरे ब्रह्मा सर्वदेवगणैर्वृतः ॥ ३५॥
त्रिपुरान्तकमुद्यन्तं ज्ञात्वा रुद्रमुपागमत् ।
गन्धर्वाप्सरसश्चैव यक्षा विद्याधरास्तथा ॥ ३६॥
सिद्धचारणसङ्घाश्च पश्यन्तोऽथ दिवि स्थिताः ।
ततः पार्जन्यमस्त्रं तत् क्षिप्तं रुद्राय विष्णुना ॥ ३७॥
ययौ ज्वलन्नथ तदा यतो रुद्रो रथस्थितः ।
ततः शतसहस्राणि शराणां नतपर्वणाम् ॥ ३८॥
निपेतुः सर्वतो दिग्भ्यो यतो हररथः स्थितः ।
अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः ॥ ३९॥
मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् ।
ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः ॥ २.१२४.४०॥
नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना ।
सिंहनादं ततश्चक्रुः सर्व एवासुरोत्तमाः ॥ ४१॥
हतोऽयमिति विज्ञाय आग्नेयास्त्रेण वै तदा ।
ततस्तद् विसहित्वाऽऽजौ ह्यस्त्रमस्त्रविदां वरः ॥ ४२॥
जग्राह वारुणं सोऽस्त्रं वासुदेवः प्रतापवान् ।
प्रयुक्ते वासुदेवेन वारुणास्त्रेऽतितेजसि ॥ ४३॥
आग्नेयं प्रशमं यातमस्त्रं वारुणतेजसा ।
तस्मिन् प्रतिहते त्वस्त्रे वासुदेवेन संयुगे ॥ ४४॥
पैशाचं राक्षसं रौद्रं तथैवाङ्गिरसं भवः ।
मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि वै ॥ ४५॥
वायव्यमथ सावित्रं वासवं मोहनं तथा ।
अस्त्राणां धारणार्थाय वासुदेवो व्यमुञ्चत ॥ ४६॥
अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वाशु माधवः ।
मुमोच वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम् ॥ ४७॥
वैष्णवास्त्रं प्रयुक्ते तु सर्व एवासुरोत्तमाः ।
भूतयक्षगणश्चैव बाणानीकं च सर्वशः ॥ ४८॥
दिशः सर्वा प्राद्रवन्त भयमोहेन विक्लवाः ।
प्रमाथगणभूयिष्ठे दीर्णे सैन्ये महासुरः ॥ ४९॥
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ।
भीमप्रहरणैर्घोरैर्दैत्यैश्च सुमहाबलैः ।
वृतो महारथैर्वीरैर्वज्रीव सुरसत्तमैः ॥ २.१२४.५०॥
वैशम्पायन उवाच ।
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
स तत्र वस्त्राणि शुभाश्च गावः फलानि पुष्पाणि तथैव निष्कान् ॥ ५१॥
बलेः सुतो ब्राह्मणेभ्यः प्रयच्छन् विराजते तेन यथा धनेशः ।
सहस्रसूर्यो बहुकिङ्किणीकः परार्घ्यजाम्बूनदरत्नचित्रः ॥ ५२॥
सहस्रचन्द्रायुततारकश्च रथो महानग्निरिवावभाति ।
तमास्थितो दानवसङ्गृहीतं महाध्वजं कार्मुकधृक् स बाणः ॥ ५३॥
उद्वर्तयिष्यन् यदुपुङ्गवानामतीव रौद्रं स बिभर्ति रूपम् ।
स मन्युमान् वीररथौघसङ्कुलो विनिर्ययौ तान् प्रति दैत्यसागरः ॥ ५४॥
वातप्रवृद्धस्तु तरङ्गसङ्कुलो यथार्णवो लोकविनाशनाय ।
भीमानि सन्त्रासकरैर्वपुर्भिस्तान्यग्रतो भान्ति बलानि तस्य ॥ ५५॥
महारथान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन् ।
विनिःसृतः सागरतोयवासादत्यद्भुतश्चाहवद्रष्टुकामः ॥ ५६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ॥ १२४॥
२.१२५ पञ्चविंशत्यधिकशततमोऽध्यायः
ब्रह्मवाक्यात्कृष्णबाणयोर्युद्धनिवृत्तिः, पितामहजिज्ञासया मार्कण्डेयकर्तृतं हरिहरमाहात्म्यकीर्तनं स्तवकथनं च Fighting stops between rudra and KRiShNa and hymn to harihara
श्रीकृष्णकस्य जृम्भास्त्रेण भगवतः शङ्करस्य जृम्भायाः वशीभूतभवनं, ब्रह्मणा शिवं विष्णोः सह तस्य एकत्वस्य स्मारणं, ब्रह्मणः पृच्छाकरणोपरि मार्कण्डेयेन हरिहरस्य एकत्वं स्थापयित्वा माहात्म्यसहितं हरिहरात्मकस्य स्तोत्रस्य वर्णनं
वैशम्पायन उवाच ।
अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तथा ।
न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत ॥ १॥
द्विगुणं दीप्तदेहस्तु रोषेण च बलेन च ।
त्रिपुरान्तकरो बाणं जग्राह स चतुर्मुखम् ॥ २॥
सन्दधत् कार्मुकं चैव क्षेप्तुकामस्त्रिलोचनः ।
विज्ञातो वासुदेवेन चित्तज्ञेन महात्मना ॥ ३॥
जृम्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः ।
हरं सञ्जृम्भयामास क्षिप्रकारी महाबलः ॥ ४॥
सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः ।
संज्ञां न लेभे भगवान् विजेतासुररक्षसाम् ॥ ५॥
सशरं सधनुष्कं च दृष्ट्वाऽऽत्मानं विजृम्भितम् ।
बलोन्मत्तोऽथ बाणोऽसौ शर्वं चोदयतेऽसकृत् ॥ ६॥
ततो ननाद भूतात्मा स्निग्धगम्भीरया गिरा ।
प्रध्मापयामास तदा कृष्णः शङ्खं महाबलः ॥ ७॥
पाञ्चजन्यस्य घोषेण शार्ङ्गविस्फूर्जितेन च ।
देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः ॥ ८॥
एतस्मिन्नन्तरे तत्र रुद्रस्य पार्षदा रणे ।
मायायुद्धं समाश्रित्य प्रद्युम्नं पर्यवारयन् ॥ ९॥
सर्वांस्तु निद्रावशगान्कृत्वा मकरकेतुमान् ।
दानवान् नाशयत् तत्र शरजालेन वीर्यवान् ।
प्रमाथगणभूयिष्ठांस्तत्र तत्र महाबलान् ॥ २.१२५.१०॥
ततस्तु जृम्भमाणस्य देवस्याक्लिष्टकर्मणः ।
ज्वाला प्रादुरभूद्वक्त्राद्दहन्तीव दिशो दश ॥ ११॥
ततस्तु धरणीदेवी पीड्यमाना महात्मभिः ।
ब्रह्माणं विश्वधातारं वेपमानाभ्युपागमत् ॥ १२॥
पृथिव्युवाच ।
देवदेव महाबाहो पीड्यामि परमौजसा ।
कृष्णरुद्रभराक्रान्ता भविष्यैकार्णवा पुनः ॥ १३॥
अविषह्यमिमं भारं चिन्तयस्व पितामह ।
लघ्वीभूता यथा देव धारयेयं चराचरम् ॥ १४॥
ततस्तु काश्यपीं देवीं प्रत्युवाच पितामहः ।
मुहूर्तं धारयात्मानमाशु लघ्वी भविष्यसि ॥ १५॥
वैशम्पायन उवाच ।
दृष्ट्वा तु भगवान् ब्रह्मा रुद्रं वचनमब्रवीत् ।
सृष्टो महासुरवधः किं भूयः परिरक्ष्यते ॥ १६॥
न च युद्धं महाबाहो तव कृष्णेन रोचते ।
न च बुध्यसि कृष्णं त्वमात्मानं तु द्विधा कृतम् ॥ १७॥
ततः शरीरयोगाद्धि भगवानव्ययः प्रभुः ।
प्रविश्य पश्यते कृत्स्नांस्त्रींल्लोकान्सचराचरान् ॥ १८॥
प्रविश्य योगं योगात्मा वरांस्ताननुचिन्तयन् ।
द्वारवत्यां यदुक्तं च तदनुस्मृत्य सर्वशः ।
जगाद नोत्तरं किञ्चिन्निवृत्तो ह्यभवत् तदा ॥ १९॥
आत्मानं कृष्णयोनिस्थं पश्यत ह्येकयोनिजम् ।
ततो निःसृत्य रुद्रस्तु न्यस्तवादोऽभवन्मृधे ॥ २.१२५.२०॥
ब्रह्माणं चाब्रवीद् रुद्रो न योत्स्ये भगवन्निति ।
कृष्णेन सह सङ्ग्रामे लघ्वी भवतु मेदिनी ॥ २१॥
ततः कृष्णोऽथ रुद्रश्च परिष्वज्य परस्परम् ।
परां प्रीतिमुपागम्य सङ्ग्रामादपजग्मतुः ॥ २२॥
न च तौ पश्यते कञ्चिद्योगिनौ योगमागतौ ।
एको ब्रह्मा तथा कृत्वा पश्यँल्लोकान्पितामहः ॥ २३॥
उवाचैतत् समुद्दिश्य मार्कण्डेयं सनारदम् ।
पार्श्वस्थं परिपप्रच्छ ज्ञात्वा वै दीर्घदर्शिनम् ॥ २४॥
पितामह उवाच ।
मन्दरस्य गिरेः पार्श्वे नलिन्यां भवकेशवौ ।
रात्रौ स्वप्नान्तरे ब्रह्मन्मया दृष्टौ हराच्युतौ ॥ २५॥
हरं च हरिरूपेण हरिं च हररूपिणम् ।
शङ्खचक्रगदापाणिं पीताम्बरधरं हरम् ॥ २६॥
त्रिशूलपट्टिशधरं व्याघ्रचर्मधरं हरिम् ।
गरुडस्थं चापि हरं हरिं च वृषभध्वजम् ॥ २७॥
विस्मयो मे महान्ब्रह्मन् दृष्ट्वा तत्परमाद्भुतम् ।
एतदाचक्ष्व भगवन् याथातथ्येन सुव्रत ॥ २८॥
मार्कण्डेय उवाच ।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।
यथान्तरं न पश्यामि तेन तौ दिशतः शिवम् ॥ २९॥
अनादिमध्यनिधनमेतदक्षरमव्ययम् ।
तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम् ॥ २.१२५.३०॥
यो विष्णुः स तु वै रुद्रो यो रुद्रः स पितामहः ।
एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः ॥ ३१॥
वरदा लोककर्तारो लोकनाथाः स्वयम्भुवः ।
अर्धनारीश्वरास्ते तु व्रतं तीव्रं समास्थिताः ॥ ३२॥
यथा जले जलं क्षिप्तं जलमेव तु तद् भवेत् ।
रुद्रं विष्णुः प्रविष्टस्तु तथा रुद्रमयो भवेत् ॥ ३३॥
अग्निमग्निः प्रविष्टस्तु अग्निरेव यथा भवेत् ।
तथा विष्णुं प्रविष्टस्तु रुद्रो विष्णुमयो भवेत् ॥ ३४॥
रुद्रमग्निमयं विद्याद्विष्णुः सोमात्मकः स्मृतः ।
अग्नीषोमात्मकं चैव जगत् स्थावरजङ्गमम् ॥ ३५॥
कर्तारौ चापहर्तारौ स्थावरस्य चरस्य तु ।
जगतः शुभकर्तारौ प्रभविष्णू महेश्वरौ ॥ ३६॥
कर्तृकारणकर्तारौ कर्तृकारणकारकौ ।
भूतभव्यभवौ देवौ नारायणमहेश्वरौ ॥ ३७॥
जगतः पालकावेतावेतौ सृष्टिकरौ स्मृतौ ।
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च ।
एतत् परतरं गुह्यं कथितं ते पितामह ॥ ३८॥
यश्चैनं पठते नित्यं यश्चैनं शृणुयान्नरः ।
प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम् ॥ ३९॥
देवौ हरिहरौ स्तोष्ये ब्रह्मणा सह सङ्गतौ ।
एतौ च परमौ देवौ जगतः प्रभवाप्ययौ ॥ २.१२५.४०॥
रुद्रस्य परमो विष्णुर्विष्णोश्च परमः शिवः ।
एक एव द्विधाभूतो लोके चरति नित्यशः ॥ ४१॥
न विना शङ्करं विष्णुर्न विना केशवं शिवः ।
तस्मादेकत्वमायातौ रूद्रोपेन्द्रौ तु तौ पुरा ।
नमो रुद्राय कृष्णाय नमः संहतचारिणे ॥ ४२॥
नमः षडर्धनेत्राय सद्विनेत्राय वै नमः ।
नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः ॥ ४३॥
नमः कुमारगुरवे प्रद्युम्नगुरवे नमः ।
नमो धरणीधराय गङ्गाधराय वै नमः ॥ ४४॥
नमो मयूरपिच्छाय नमः केयूरधारिणे ।
नमः कपालमालाय वनमालाय वै नमः ॥ ४५॥
नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः ।
नमः कनकदण्डाय नमस्ते ब्रह्मदण्डिने ॥ ४६॥
नमश्चर्मनिवासाय नमस्ते पीतवाससे ।
नमोऽस्तु लक्ष्मीपतये उमायाः पतये नमः ॥ ४७॥
नमः खट्वाङ्गधाराय नमो मुसलधारिणे ।
नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे ॥ ४८॥
नमः श्मशानवासाय नमः सागरवासिने ।
नमो वृषभवाहाय नमो गरुडवाहिने ॥ ४९॥
नमस्त्वनेकरूपाय बहुरूपाय वै नमः ।
नमः प्रलयकर्त्रे च नमस्त्रैलोक्यधारिणे ॥ २.१२५.५०॥
नमोऽस्तु सौम्यरूपाय नमो भैरवरूपिणे ।
विरूपाक्षाय देवाय नमः सौम्येक्षणाय च ॥ ५१॥
दक्षयज्ञविनाशाय बलेर्नियमनाय च ।
नमः पर्वतवासाय नमः सागरवासिने ॥ ५२॥
नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः ।
नमोऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने ॥ ५३॥
नमस्त्वन्धकनाशाय नमः कैटभनाशिने ।
नमः सहस्रहस्ताय नमोऽसङ्ख्येयबाहवे ॥ ५४॥
नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ।
दामोदराय देवाय मुञ्जमेखलिने नमः ॥ ५५॥
नमस्ते भगवन् विष्णो नमस्ते भगवञ्छिव ।
नमस्ते भगवन् देव नमस्ते देवपूजित ॥ ५६॥
नमस्ते सामभिर्गीत नमस्ते यजुभिः सह ।
नमस्ते सुरशत्रुघ्न नमस्ते सुरपूजित ॥ ५७॥
नमस्ते कर्मिणां कर्म नमोऽमितपराक्रम ।
हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते ॥ ५८॥
इमं स्तवं यो रुद्रस्य विष्णोश्चैव महात्मनः ।
समेत्य ऋषिभिः सर्वैः स्तुतौ स्तौति महर्षिभिः ५९॥
व्यासेन वेदविदुषा नारदेन च धीमता ।
भारद्वाजेन गर्गेण विश्वामित्रेण वै तथा ॥ २.१२५.६०॥
अगस्त्येन पुलस्त्येन धौम्येन तु महात्मना ।
य इदं पठते नित्यं स्तोत्रं हरिहरात्मकम् ॥ ६१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
अरोगो बलवांश्चैव जायते नात्र संशयः ।
श्रियं च लभते नित्यं न च स्वर्गान्निवर्तते ॥ ६२॥
अपुत्रो लभते पुत्रं कन्या विन्दति सत्पतिम् ।
गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते ॥ ६३॥
राक्षसाश्च पिशाचाश्च विघ्नानि च विनायकः ।
भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः ॥ ६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि हरिहरात्मकस्तवो नाम पञ्चविंशत्यधिकशततमोऽध्यायः १२५॥
२.१२६ षड्विंशत्यधिकशततमोऽध्यायः
कार्तिकेयापयानम्, बाणबाहुच्छेदनं, बाणस्य हराद्वरलाभादिकीर्तनं च KArtikeya beaten back, bANa's hands cut off and bANaa blessed with boons from shiva
स्वामी कार्तिकेयस्य श्रीकृष्णेन सह युद्धे स्वामी कार्तिकेयस्य पराजयं, कोटव्या देव्या कार्तिकेयस्य रक्षणं, बाणासुरस्य श्रीकृष्णेन सह युद्धं, श्रीकृष्णेन बाणासुरस्य सहस्रभुजानां कर्तनं, महादेवेन बाणासुराय महाकालभवनस्य वरदानं
जनमेजय उवाच ।
अपयाते ततो देवे कृष्णे चैव महात्मनि ।
पुनश्चासीत् कथं युद्धं परेषां लोमहर्षणम् ॥ १॥
वैशम्पायन उवाच ।
कुम्भाण्डसङ्गृहीते तु रथे तिष्ठन् गुहस्तदा ।
अभिदुद्राव कृष्णं च बलं प्रद्युम्नमेव च ॥ २॥
ततः शरशतैरुग्रैस्तान्विव्याध रणे गुहः ।
अमर्षरोषसङ्क्रुद्धः कुमारः प्रवरो नदन् ॥ ३॥
शरसंवृतगात्रास्ते त्रयस्त्रय इवाग्नयः ।
शोणितौघप्लुतैर्गात्रैः प्रायुध्यन्त गुहं ततः ॥ ४॥
ततस्ते युद्धमार्गज्ञास्त्रयस्त्रिभिरनुत्तमैः ।
वायव्याग्नेयपार्जन्यैर्बिभिदुर्दीप्ततेजसः ॥ ५॥
तानस्त्रांस्त्रिभिरेवास्त्रैर्विनिवार्य स पावकिः ।
शैलवारुणसावित्रैस्तान्स विव्याध कोपवान् ॥ ६॥
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ।
शरौघानस्त्रमायाभिर्ग्रसन्ति स्म महात्मनः ।
यदा तदा गुहः क्रुद्धः प्रज्वलन्निव तेजसा ॥ ७॥
अस्त्रं ब्रह्मशिरो नाम कालकल्पं दुरासदम् ।
सन्दष्टौष्ठपुटः सङ्ख्ये जगृहे पावकिः प्रभुः ॥ ८॥
प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे ।
उग्रे परमदुर्धर्षे लोकक्षयकरे तथा ॥ ९॥
हाहाभूतेषु सर्वेषु प्रधावत्सु समन्ततः ।
अस्त्रतेजःप्रमूढे तु विषण्णे जगति प्रभुः ।
केशवः केशिमथनश्चक्रं जग्राह वीर्यवान् ॥ २.१२६.१०॥
सर्वेषामस्त्रवीर्याणां वारणं घातनं तथा ।
चक्रमप्रतिचक्रस्य लोके ख्यातं महात्मनः ॥ ११॥
अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा ।
घनैरिवातपापाये सवितुर्मण्डलं यथा ॥ १२॥
ततो निष्प्रभतां याते नष्टवीर्ये महौजसि ।
तस्मिन् ब्रह्मशिरस्यस्त्रे क्रोधसंरक्तलोचनः ॥ १३॥
गुहः प्रजज्वाल रणे हविषेवाग्निरुल्बणः ।
शत्रुघ्नीं ज्वलितां दिव्यां शक्तिं जग्राह काञ्चनीम् ॥ १४॥
अमोघां दयितां घोरां सर्वलोकभयावहाम् ।
तां प्रदीप्तां महोल्काभां युगान्ताग्निसमप्रभाम् ।
घण्टामालाकुलां दिव्यां चिक्षेप रुषितो गुहः ॥ १५॥
ननाद बलवच्चापि नादं शत्रुभयङ्करम् ।
सा च क्षिप्ता तदा तेन ब्रह्मण्येन महात्मना ॥ १६॥
जृम्भमाणेव गगने सम्प्रदीप्तमुखी तदा ।
आधावत महाशक्तिः कृष्णस्य वधकाङ्क्षिणी ॥ १७॥
भृशं विषण्णः शक्रोऽपि सर्वामरगणैर्वृतः ।
शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्णेति चाब्रवीत् ॥ १८॥
तां समीपमनुप्राप्तां महाशक्तिं महामृधे ।
हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ॥ १९॥
पतितायां महाशक्त्यां साधुसाध्विति सर्वशः ।
सिंहनादं ततश्चक्रुः सर्वे देवाः सवासवाः ॥ २.१२६.२०॥
ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान् ।
पुनश्चक्रं स जग्राह दैत्यान्तकरणं रणे ॥ २१॥
व्याविध्यमाने चक्रे तु कृष्णेनाप्रतिमौजसा ।
कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा ॥ २२॥
दिग्वासा देववचनात् प्रविष्टा तत्र कोटवी ।
लम्बमाना महाभागा भागो देव्यास्तथाष्टमः ।
चित्रा कनकशक्तिस्तु सा च नग्ना स्थितान्तरे ॥ २३॥
अथान्तरात् कुमारस्य देवीं दृष्ट्वा महाभुजः ।
पराङ्मुखस्ततो वाक्यमुवाच मधुसूदनः ॥ २४॥
श्रीभगवानुवाच ।
अपगच्छापगच्छ त्वं धिक् त्वामिति वचोऽब्रवीत् ।
किमेवं कुरुषे विघ्नं निश्चितस्य वधं प्रति ॥ २५॥
वैशम्पायन उवाच ।
श्रुत्वैवं वचनं तस्य कोटवी तु तदा विभोः ।
नैव वासः समाधत्ते कुमारपरिरक्षणात् ॥ २६॥
श्रीभगवानुवाच ।
अपवाह्य गुहं शीघ्रमपयाहि रणाजिरात् ।
स्वस्ति ह्येवं भवेदद्य योत्स्यतो योत्स्यता मया ॥ २७॥
तां च दृष्ट्वा स्थितां देवो हरिः सङ्ग्राममूर्धनि ।
सञ्जहार ततश्चक्रं भगवान् वासवानुजः ॥ २८॥
एवं कृते तु कृष्णेन देवदेवेन धीमता ।
अपवाह्य गुहं देवी हरसान्निध्यमागता ॥ २९॥
एतस्मिन्नन्तरे चैव वर्तमाने महाभये ।
कुमारे रक्षिते देव्या बाणस्तं देशमाययौ ॥ २.१२६.३०॥
अपयान्तं गुहं दृष्ट्वा मुक्तं कृष्णेन संयुगात् ।
बाणश्चिन्तयते तत्र स्वयं योत्स्यामि माधवम् ॥ ३१॥
वैशम्पायन उवाच ।
भूतयक्षगणाश्चैव बाणानीकं च सर्वशः ।
दिशं प्रदुद्रुवुः सर्वे भयमोहितलोचनाः ॥ ३२॥
प्रमाथगणभूयिष्ठे सैन्ये दीर्णे महासुरः ।
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ॥ ३३॥
भीमप्रहरणैर्घोरैर्दैत्येन्द्रैः सुमहारथैः ।
महाबलैर्महावीरैर्वज्रीव सुरसत्तमैः ॥ ३४॥
पुरोहिताः शत्रुवधं वदन्तस्तथैव चान्ये श्रुतशीलवृद्धाः ।
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः ॥ ३५॥
ततस्तूर्यप्रणादैस भेरीणां तु महास्वनैः ।
सिंहनादैश्च दैत्यानां बाणः कृष्णमभिद्रवत् ॥ ३६॥
दृष्ट्वा बाणं तु निर्यातं युद्धायैव व्यवस्थितम् ।
आरुह्य गरुडं कृष्णो बाणायाभिमुखो ययौ ॥ ३७॥
आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे ।
वैनतेयमथारूढं कृष्णमप्रतिमौजसम् ॥ ३८॥
अथ बाणस्तु तं दृष्ट्वा प्रमुखे प्रत्युपस्थितम् ।
उवाच वचनं क्रुद्धो वासुदेवं तरस्विनम् ॥ ३९॥
बाण उवाच ।
तिष्ठ तिष्ठ न मेऽद्य त्वं जीवन्प्रतिगमिष्यसि ।
द्वारकां द्वारकास्थांश्च सुहृदो द्रक्ष्यसे न च ॥ २.१२६.४०॥
सुवर्णवर्णान् वृक्षाग्रानद्य द्रक्ष्यसि माधव ।
मयाभिभूतः समरे मुमूर्षुः कालनोदितः ॥ ४१॥
अद्य बाहुसहस्रेण कथमष्टभुजो रणे ।
मया सह समागम्य योत्स्यसे गरुडध्वज ॥ ४२॥
अद्य त्वं वै मया युद्धे निर्जितः सहबान्धवः ।
द्वारकां शोणितपुरे निहतः संस्मरिष्यसि ॥ ४३॥
नानाप्रहरणोपेतं नानाङ्गदविभूषितम् ।
अद्य बाहुसहस्रं मे कोटिभूतं निशामय ॥ ४४॥
गर्जतस्तस्य वाक्यौघा जलौघा इव सिन्धुतः ।
निश्चरन्ति महाघोरा वातोद्धूता इवोर्मयः ॥ ४५॥
रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः ।
जगद्दिधक्षन्निव खे महासूर्य इवोदितः ॥ ४६॥
तच्छ्रुत्वा नारदस्तस्य बाणस्यात्यूर्जितं वचः ।
जहास सुमहाहासं भिन्दन्निव नभस्तलम् ॥ ४७॥
योगपट्टमुपाश्रित्य तस्थौ युद्धदिदृक्षया ।
कौतूहलोत्फुल्लदृशः कुर्वन् पर्यटते मुनिः ॥ ४८॥
श्रीकृष्ण उवाच ।
बाण किं गर्जसे मोहाच्छूराणां नास्ति गर्जितम् ।
एह्येहि युध्यस्व रणे किं वृथा गर्जितेन ते ॥ ४९॥
यदि युद्धानि वचनैः सिद्ध्येयुर्दितिनन्दन ।
भवानेव जयेन्नित्यं बह्वबद्धं प्रजल्पति ॥ २.१२६.५०॥
एह्येहि जय मां बाण जितो वा वसुधातले ।
चिरायावाङ्मुखो दीनः पतितः शेष्यसेऽसुरैः ॥ ५१॥
इत्येवमुक्त्वा बाणं तु मर्मभेदिभिराशुगैः ।
निर्बिभेद तदा कृष्णस्तममोघैर्महाशरैः ॥ ५२॥
विनिर्भिन्नस्तु कृष्णेन मार्गणैर्मर्मभेदिभिः ।
स्मयन् बाणस्ततः कृष्णं शरवर्षैरवाकिरत् ॥ ५३॥
ज्वलद्भिरिव संयुक्तं तस्मिन् युद्धे सुदारुणे ।
ततः परिघनिस्त्रिंशैर्गदातोमरशक्तिभिः ॥ ५४॥
मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् ।
स तु बाहुसहस्रेण गर्वितो दैत्यसत्तमः ॥ ५५॥
योधयामास समरे द्विबाहुमथ लीलया ।
लाघवात् तस्य कृष्णस्य बलिसूनू रुषान्वितः ॥ ५६॥
ततोऽस्त्रं परमं दिव्यं तपसा निर्मितं महत् ।
यदप्रतिहतं युद्धे सर्वामित्रविनाशनम् ॥ ५७॥
ब्रह्मणा विहितं दिव्यं तन्मुमोच दितेः सुतः ।
तस्मिन् मुक्ते दिशः सर्वास्तमःपिहितमण्डलाः ॥ ५८॥
प्रादुरासन् सहस्राणि सुघोराणि च सर्वशः ।
तमसा संवृते लोके न प्राज्ञायत किञ्चन ॥ ५९॥
साधु साध्विति बाणं तु पूजयन्ति स्म दानवाः ।
हा हा धिगिति देवानां श्रूयते वागुदीरिता ॥ २.१२६.६०॥
ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर्बाणवृष्टयः ॥ ६१॥
नैव वाताः प्रवायन्ति न मेघाः सञ्चरन्ति च ।
अस्त्रे विसृष्टे बाणेन दह्यमाने च केशवे ॥ ६२॥
ततोऽस्त्रं सुमहावेगं जग्राह मधुसूदनः ।
पार्जन्यं नाम भगवान् कालान्तकनिभं रणे ॥ ६३॥
ततो वितिमिरे लोके शराग्निः प्रशमं गतः ।
दानवा मोघसङ्कल्पाः सर्वेऽभूवंस्तदा भृशम् ॥ ६४॥
दानवास्त्रं प्रशान्तं तु पर्जन्यास्त्रेऽभिमन्त्रिते ।
ततो देवगणाः सर्वे नदन्ति च हसन्ति च ॥ ६५॥
हते शस्त्रे महाराज दैतेयः क्रोधमूर्च्छितः ।
भूयः स छादयामास केशवं गरुडे स्थितम् ॥ ६६॥
मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् ।
तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम् ॥ ६७॥
प्रहसन् वारयामास केशवः शत्रुसूदनः ।
केशवस्य तु बाणेन वर्तमाने महाहवे ॥ ६८॥
तस्य शार्ङ्गविनिर्मुक्तैः शरैरशनिसन्निभैः ।
तिलशस्तद्रथं चक्रे सोऽश्वध्वजपताकिनम् ॥ ६९॥
चिच्छेद कवचं कायान्मुकुटं च महाप्रभम् ।
कार्मुकं च महातेजा हस्तावापं च केशवः ॥ २.१२६.७०॥
विव्याध चैनमुरसि नाराचेन स्मयन्निव ।
स मर्माभिहतः सङ्ख्ये प्रमुमोहाल्पचेतनः ॥ ७१॥
तं दृष्ट्वा मूर्च्छितं बाणं प्रहारपरिपीडितम् ।
प्रासादवरशृङ्गस्थो नारदो मुनिपुङ्गवः ॥ ७२॥
उत्थायापश्यत तदा कक्ष्यास्फोटनतत्परः ।
वादयानो नखांश्चैव दिष्ट्या दिष्ट्येति चाब्रवीत् ॥ ७३॥
अहो मे सफलं जन्म जीवितं च सुजीवितम् ।
दृष्टं मे यदिदं चित्रं दामोदरपराक्रमम् ॥ ७४॥
जय बाणं महाबाहो दैतेयं देवकिल्बिषम् ।
यदर्थमवतीर्णोऽसि तत् कर्म सफलीकुरु ॥ ७५॥
एवं स्तुत्वा तदा देवं बाणैः खं द्योतयञ्छितैः ।
इतस्ततः सम्पतद्भिर्नारदो व्यचरद् रणे ॥ ७६॥
केशवस्य तु बाणेन वर्तमाने महाभये ।
प्रयुध्येतां ध्वजौ तत्र तावन्योन्यमभिद्रुतौ ।
युद्धं त्वभूत् वाहनयोरुभयोर्देवदैत्ययोः ॥ ७७॥
गरुडस्य च सङ्ग्रामो मयूरस्य च धीमतः ।
पक्षतुण्डप्रहारैस्तु चरणास्यनखैस्तथा ॥ ७८॥
अन्योन्यं जघ्नतुः क्रुद्धौ मयूरगरुडावुभौ ।
वैनतेयस्ततः क्रुद्धो मयूरं दीप्ततेजसम् ॥ ७९॥
जग्राह शिरसि क्षिप्रं तुण्डेनाभिपतंस्तदा ।
उत्क्षिप्य चैव पक्षाभ्यां निजघान महाबलः ॥ २.१२६.८०॥
पद्भ्यां पार्श्वाभिघाताभ्यां कृत्वा घातान्यनेकशः ।
आकृष्य चैनं तरसा विकृष्य च महाबलः ॥ ८१॥
निःसंज्ञं पातयामास गगनादिव भास्करम् ।
मयूरे पतिते तस्मिन् पपातातिबलो भुवि ॥ ८२॥
बाणः समरसंविग्नश्चिन्तयन् कार्यमात्मनः ।
मयातिबलमत्तेन न कृतं सुहृदां वचः ॥ ८३॥
पश्यतां देवदैत्यानां प्राप्तोऽस्म्यापदमुत्तमाम् ।
तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम् ॥ ८४॥
चिन्तयद् भगवान् रुद्रो बाणरक्षणमातुरः ।
ततो नन्दीं महादेवः प्राह गम्भीरया गिरा ॥ ८५॥
नन्दिकेश्वर याहि त्वं यतो बाणो रणे स्थितः ।
रथेनानेन दिव्येन सिंहयुक्तेन भास्वता ॥ ८६॥
बाणं संयोजयाशु त्वमलं युद्धाय वानघ ।
प्रमाथगणमध्येऽहं स्थास्यामि न हि मे मनः ॥ ८७॥
योद्धुं प्रभवते ह्यद्य बाणं संरक्ष गम्यताम् ।
तथेत्युक्त्वा ततो नन्दी रथेन रथिनां वरः ॥ ८८॥
यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् ।
दैत्यामु रथमातिष्ठ शीघ्रमेहि महाबल ॥ ८९॥
ततो युध्यस्व कृष्णं वै दानवान्तकरं रणे ।
आरुरोह रथं बाणो महादेवस्य धीमतः ॥ २.१२६.९०॥
आरूढः स तु बाणश्च तं रथं ब्रह्मनिर्मितम् ।
तं स्यन्दनमधिष्ठाय भवस्यामिततेजसः ॥ ९१॥
प्रादुश्चक्रे महारौद्रमस्त्रं सर्वास्त्रघातनम् ।
दीप्तं ब्रह्मशिरोनाम बाणः क्रुद्धोऽतिवीर्यवान् ॥ ९२॥
प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् ।
लोकसंरक्षणार्थे वै तत् सृष्टं ब्रह्मयोनिना ॥ ९३॥
तच्चक्रेण निहत्यास्त्रं प्राह कृष्णस्तरस्विनम् ।
लोके प्रख्यातयशसं बाणमप्रतिमं रणे ॥ ९४॥
कत्थितानि क्व ते तात बाण किं न विकत्थसे ।
अयमस्मि स्थितो युद्धे युद्ध्यस्व पुरुषो भव ॥ ९५॥
कार्तवीर्यार्जुनो नाम पूर्वं बाहुसहस्रवान् ।
महाबलः स रामेण द्विबाहुः समरे कृतः ॥ ९६॥
तथा तवापि दर्पोऽयं बाहूनां वीर्यसम्भवः ।
एश् ते दर्पशमनं करोमि रणमूर्द्धनि ॥ ९७॥
यावत् ते दर्पशमनं करोम्यद्य स्वबाहुना ।
तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्द्धनि ॥ ९८॥
अथ तद् दुर्लभं दृष्ट्वा युद्धं परमदारुणम् ॥
तत्र देवासुरसमे युद्धे नृत्यति नारदः ॥ ९९॥
निर्जिताश्च गणाः सर्वे प्रद्युम्नेन महात्मना ।
निक्षिप्तवादा युद्धस्य देवदेवं गताः पुनः ॥ २.१२६.१००॥
स तच्चक्रं सहस्रारं नदन् मेघ इवोष्णगे ।
जग्राह कृष्णस्त्वरितो बाणान्तकरणं रणे ॥ १०१॥
तेजो यज्ज्योतिषां चैव तेजो वज्राशनेस्तथा ।
सुरेशस्य च यत् तेजस्तच्चक्रे पर्यवस्थितम् ॥ १०२॥
त्रेताग्नेश्चैव यत् तेजो यच्च वै ब्रह्मचारिणाम् ।
ऋषीणां च ततो ज्ञानं तच्चक्रे समवस्थितम् ॥ १०३॥
पतिव्रतानां यत्तेजः प्राणाश्च मृगपक्षिणाम् ।
यश्च चक्रधरेष्वस्ति तच्चक्रे सन्निवेशितम् ॥ १०४॥
नागराक्षसयक्षाणां गन्धर्वाप्सरसामपि ।
त्रैलोक्यस्य च यत्प्राणं सर्वं चक्रे व्यवस्थितम् ॥ १०५॥
तेजसा तेन संयुक्तं ज्वलन्निव च भास्करः ।
वपुषा तेज आदत्ते बाणस्य प्रमुखे स्थितम् ॥ १०६॥
ज्ञात्वातितेजसा चक्रं कृष्णेनाभ्युदितं रणे ।
अप्रमेयं ह्यविहतं रुद्राणी चाब्रवीच्छिवम् ॥ १०७॥
अजेयमेतत् त्रैलोक्ये चक्रं कृष्णेन धार्यते ।
बाणं त्रायस्व देव त्वं यावच्चक्रं न मुञ्चति ॥ १०८॥
ततस्त्र्यक्षो वचः श्रुत्वा देवीं लम्बामथाब्रवीत् ।
गच्छैहि लम्बे शीघ्रं त्वं बाणसंरक्षणं प्रति ॥ १०९॥
ततो योगं समाधाय अदृश्या हिमवत्सुता ।
कृष्णस्यैकस्य तद्रूपं दर्शन्ती पार्श्वमागता ॥ २.१२६.११०॥
चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे ॥
अन्तर्धानमुपागम्य त्यज्य सा बाससी पुनः ॥ १११॥
परित्राणाय बाणस्य विजयाधिष्ठिता ततः ।
प्रमुखे वासुदेवस्य दिग्वासाः कोटवी स्थिता ॥ ११२॥
तां दृष्ट्वाथ पुनः प्राप्तां देवीं रुद्रस्य सम्मताम् ।
लम्बाद्वितीयां तिष्ठन्तीं कृष्णो वचनमब्रवीत् ॥ ११३॥
भूयः सामर्षताम्राक्षीं दिग्वस्त्रावस्थितां रणे ।
बाणसंरक्षणपरा हन्मि बाणं न संशयः ॥ ११४॥
एवमुक्ता तु कृष्णेन भूयो देव्यब्रवीदिदम् ।
जाने त्वां सर्वभूतानां स्रष्टारं पुरुषोत्तमम् ।
महाभागं महादेवमनन्तं नीलमव्ययम् ॥ ११५॥
पद्मनाभं हृषीकेशं लोकानामादिसम्भवम् ।
नार्हसे देव हन्तुं वै बाणमप्रतिमं रणे ॥ ११६॥
प्रयच्छ ह्यभयं बाणे जीवपुत्रीत्वमेव च ।
मया दत्तवरो ह्येष भूयश्च परिरक्ष्यते ॥ ११७॥
न मे मिथ्या समुद्योगं कर्तुमर्हसि माधव ।
एवमुक्ते तु वचने देव्या परपुरञ्जयः ॥ ११८॥
कृष्णः प्रभाषते वाक्यं शृणु सत्यं तु भामिनि ।
बाणो बाहुसहस्रेण नर्दते दर्पमाश्रितः ॥ ११९॥
एतेषां छेदनं त्वद्य कर्तव्यं नात्र संशयः ।
द्विबाहुना च बाणेन जीवपुत्री भविष्यसि ॥ २.१२६.१२०॥
आसुरं दर्पमाश्रित्य न च मां संश्रयिष्यति ।
एवमुक्ते तु वचने कृष्णेनाक्लिष्टकर्मणा ॥ १२१॥
प्रोवाच देवी बाणोऽयं देवदत्तो भवेदिति ।
अथ तां कार्तिकेयस्य मातरं सोऽभिभाष्य वै ।
ततः क्रुद्धो महाबाहुः कृष्णः प्रवदतां वरः ॥ १२२॥
प्रोवाच बाणं समरे वदतां प्रवरः प्रभुः ।
युध्यतां युध्यतां सङ्ख्ये भवतां कोटवी स्थिता ॥ १२३॥
अशक्तानामिव रणे धिग् बाण तव पौरुषम् ।
एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमात्मवान् ॥ १२४॥
निमीलिताक्षो व्यसृजद् बाणं प्रति महाबलः ।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ॥ १२५॥
क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे ।
तमप्रतिमकर्माणं समानं सूर्यवर्चसा ॥ १२६॥
चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः ।
स मुष्णन् दानवं तेजः समरे स्वेन तेजसा ॥ १२७॥
चिच्छेद बाहूंश्चक्रेण श्रीधरः परमौजसा ।
अलातचक्रवत् तूर्णं भ्राम्यमाणं रणाजिरे ॥ १२८॥
क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्द्धनि ।
विष्णुचक्रं भ्रमत्याशु शैघ्र्याद् रूपं न दृश्यते ॥ १२९॥
तस्य बाहुसहस्रस्य पर्यायेण पुनः पुनः ।
बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्द्धनि ॥ २.१२६.१३०॥
कृत्वा द्विबाहुं तं बाणं छिन्नशाखमिव द्रुमम् ।
पुनः कराग्रे कृष्णस्य चक्रं प्राप्तं सुदर्शनम् ॥ १३१॥
वैशम्पायन उवाच ।
कृतकृत्ये तु सम्प्राप्ते चक्रे दैत्यनिपातने ।
स्रवता तेन कायेन शोणितौघपरिप्लुतः ॥ १३२॥
अभवत् पर्वताकारश्छिन्नबाहुर्महासुरः ।
असृङ्मत्तश्च विविधान् नादान् मुञ्चन् घनो यथा ॥
तस्य नादेन महता केशवो रिपुसूदनः ।
चक्रं भूयः क्षेप्तुकामो बाणनाशार्थमुद्यतः ।
तमुपेत्य महादेवः कुमारसहितोऽब्रवीत् ॥ १३४॥
ईश्वर उवाच ।
कृष्ण कृष्ण महाबाहो जाने त्वां पुरुषोत्तमम् ।
मधुकैटभहन्तारं देवदेवं सनातनम् ॥ १३५॥
लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् ॥
अजेयस्त्वं त्रिभिर्लोकैः ससुरासुरपन्नगैः ॥ १३६॥
तस्मात्संहर दिव्यं त्वमिदं चक्रं समुद्यतम् ।
अनिवार्यमसंहार्यं रणे शत्रुभयङ्करम् ॥ १३७॥
बाणस्यास्याभयं दत्तं मया केशिनिषूदन ।
तन्मे न स्याद्वृथा वाक्यमतस्त्वां क्षामयाम्यहम् ॥ १३८॥
श्रीकृष्ण उवाच ।
जीवतां देव बाणोऽयमेतच्चक्रं निवर्तितम् ।
मान्यस्त्वं देवदेवानामसुराणां च सर्वशः ॥ १३९॥
नमस्तेऽस्तु गमिष्यामि यत्कार्यं तन्महेश्वर ।
न तावत् क्रियते तस्मान्मामनुज्ञातुमर्हसि ॥ २.१२६.१४०॥
एवमुक्त्वा महादेवं कृष्णस्तूर्ण महामनाः ।
जगाम तत्र यत्रास्ते प्राद्युम्निः सायकैश्चितः ॥ १४१॥
गते कृष्णे ततो नन्दी बाणमाह वचः शुभम् ।
गच्छ वाण प्रसन्नस्य देवदेवस्य चाग्रतः ॥ १४२॥
तच्छ्रुत्वा नन्दिवाक्यं तु बाणोऽगच्छत शीघ्रगः ।
छिन्नबाहुं ततो बाणं दृष्ट्वा नन्दी प्रतापवान् ॥ १४३॥
अपवाह्य रथेनैनं यतो देवस्ततो ययौ ।
ततो नन्दी पुनर्बाणं प्रागुवाचोत्तरं वचः ॥ १४४॥
बाण बाण प्रनृत्यस्व श्रेयस्तव भविष्यति ।
एष देवो महादेवः प्रसादसुमुखस्तव ॥ १४५॥
शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदितः ।
जीवितार्थी ततो बाणः प्रमुखे शङ्करस्य वै ॥ १४६॥
अनृत्यत् भयसंविग्नो दानवः स विचेतनः ।
तं दृष्ट्वा च प्रनृत्यन्तं भयोद्विग्नं पुनः पुनः ॥ १४७॥
नन्दिवाक्यप्रजवितं भक्तानुग्रहकृद् भवः ।
करुणावशमापन्नो महादेवोऽब्रवीद् वचः ॥ १४८॥
ईश्वर उवाच ।
वरं वृणीष्व बाण त्वं मनसा यदभीप्ससि ।
प्रसाद सुमुखस्तेऽहं प्रियोऽसि मम दानव ॥ १४९॥
बाण उवाच ।
अजरश्चामरश्चैव भवेयं सततं विभो ।
एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे ॥ २.१२६.१५०॥
देव उवाच ।
तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते ।
अथापरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा ॥ १५१॥
बाण उवाच ।
यथाहं शोणितैर्दिग्धो भृशार्तो व्रणपीडितः ।
भक्तानां नृत्यतां देव पुत्रजन्म भवेद्भव ॥ १५२॥
श्रीहर उवाच ।
निराहाराः क्षमावन्तः सत्यार्जवसमाहिताः ।
मद्भक्ता येऽपि नृत्यन्ति तेषामेवं भविष्यति ॥ १५३॥
तृतीयं त्वमथो बाण वरं वर मनोगतम् ।
तद् विधास्यामि ते पुत्र सफलोऽस्तु भवानिह ॥ १५४॥
बाण उवाच ।
चक्रताडनजा घोरा रुजा तीव्रा हि मेऽनघ ।
वरेणासौ तृतीयेन शान्तिं गच्छतु मे भव ॥ १५५॥
श्रीरुद्र उवाच ।
एवं भवतु भद्रं ते न रुजा प्रभविष्यति ।
अक्षतं तव गात्रं तु स्वस्थावस्थं भविष्यति ॥ १५६॥
चतुर्थे ते वरं दद्मि वृणीष्व यदि काङ्क्षसि ।
न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम् ॥ १५७॥
बाण उवाच ।
प्रमाथगणवंश्यस्य प्रथमः स्यामहं विभो ।
महाकाल इति ख्यातिं गच्छेयं शाश्वतीः समाः ॥ १५८॥
वैशम्पायन उवाच ।
एवं भविष्यतीत्याह बाणं देवो महेश्वरः ।
दिव्यरूपोऽक्षतो गात्रैर्नीरुजस्तु ममाश्रयात् ॥ १५९॥
ममातिसर्गाद् बाण त्वं भव चैवाकुतोभयः ।
भूयस्ते पञ्चमं दद्मि प्रख्यातबलपौरुष ।
पुनर्वरय भद्रं ते यत्ते मनसि वर्तते ॥ २.१२६.१६०॥
बाण उवाच ।
वैरूप्यमङ्गजं यन्मे मा भूद् देव कदाचन ।
द्विबाहुरपि मे देहो न विरूपो भवेद् भव ॥ १६१॥
श्रीहर उवाच ।
भविता सर्वमेतत् ते यथेच्छसि महासुर ।
भवत्येवं न चादेयं भक्तानां विद्यते मम ॥ १६२॥
ततोऽब्रवीन्महादेवो बाणं स्थितमथान्तिके ।
एवं भविष्यते सर्व यत् त्वया समुदाहृतम् ॥ १६३॥
एतावदुक्त्वा भगवांस्त्रिनेत्रो गणसंवृतः ।
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ॥ १६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणे बाणासुरवरप्रदाने षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६॥
२.१२७ सप्तविंशत्यधिकशततमोऽध्यायः
ब्रह्मधस्य नागपाशमोचनं, कृष्णस्य वरुणालयगमनं, वरुणेन सह युद्धं, द्वारकाप्रत्यागमनं च Aniruddha freed, kRiShNa returns to dvAraka after a battle with varuNa
अनिरुद्धस्य नागपाशतः मुक्तिः, तेन श्रीकृष्णादीनां वन्दनं, नारदस्य कथनेन तस्य वीर्यविवाहं, उषायाः विदायम, सर्वेषां द्वारकायां प्रस्थानम्, मार्गे श्रीकृष्णेन वरुणोपरि जयः, वरुणेन श्रीकृष्णस्य स्तुतिः पूजा च, श्रीकृष्णस्यागमनेन द्वारकावासिनां हर्षं, भगवतः आदेशात् पुरवासिभिः देवानां वन्दनं, इन्द्रेण श्रीकृष्णस्य प्रशंसा, सर्वेषां देवानां ऋषीणां च स्व स्व स्थाने गमनं
वैशम्पायन उवाच ।
एवं वरान् बहून् प्राप्य बाणः प्रीतमनाऽभवत् ।
जगाम सह रुद्रेण महाकालत्वमागतः ॥ १॥
वासुदेवोऽपि बहुधा नारदं पर्यपृच्छत ।
क्वानिरुद्धोऽस्ति भगवन्संयतो नागबन्धनैः ॥ २॥
श्रोतुमिच्छामि तत्त्वेन स्नेहक्लिन्नं हि मे मनः ।
अनिरुद्धे हृते वीरे क्षुभिता द्वारका पुरी ॥ ३॥
शीघ्रं तं मोक्षयिष्यामो यदर्थं वयमागताः ।
अद्य तं नष्टशत्रुं वै द्रष्टुमिच्छामहे वयम् ॥ ४॥
स प्रदेशस्तु भगवन् विदितस्तव सुव्रत ।
एवमुक्तस्तु कृष्णेन नारदः प्रत्यभाषत ॥ ५॥
कन्यापुरे कुमारोऽसौ बद्धो नागैश्च माधव ।
एतस्मिन्नन्तरे शीघ्रं चित्रलेखा ह्युपस्थिता ॥ ६॥
बाणस्योत्तमशर्वस्य दैत्येन्द्रस्य महात्मनः ।
इदमन्तःपुरं देव प्रविशस्व यथासुखम् ॥ ७॥
ततः प्रविष्टास्ते सर्वे ह्यनिरुद्धस्य मोक्षणे ।
बलः सुपर्णः कृष्णस्तु प्रद्युम्नो नारदस्तथा ॥ ८॥
ततो दृष्ट्वैव गरुडं येऽनिरुद्धशरीरगाः ।
शररूपा महासर्पा वेष्टयित्वा तनुं स्थिताः ९॥
ते सर्वे सहसा देहात् तस्य निःसृत्य भोगिनः ।
क्षितिं समभिवर्तित्वा प्रकृत्यावस्थिताः शराः ॥ २.१२७.१०॥
दृष्टः स्पृष्टश्च कृष्णेन सोऽनिरुद्धो महायशाः ।
स्थितः प्रीतमना भूत्वा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ११॥
अनिरुद्ध उवाच ।
देवदेव सदा युद्धे जेता त्वमसि केशव ।
न शक्तः प्रमुखे स्थातुं साक्षादपि शतक्रतुः ॥ १२॥
ततो महाबलं देवं बलभद्रं यशस्विनम् ।
अभिवादयते हृष्टः सोऽनिरुद्धो महामनाः ॥ १३॥
माधवं च महात्मानमभिवाद्य कृताञ्जलिः ।
खगोत्तमं महावीर्यं सुपर्णमभिवाद्य च ॥ १४॥
ततो मकरकेतुं च चित्रबाणधरं प्रभुम् ।
पितरं सोऽभ्युपागम्य प्रद्युम्नमभिवादयत् ॥ १५॥
सखीगणधृता चैव सा चोषा भवने स्थिता ।
बलं चातिबलं चैव वासुदेवं सुदुर्जयम् ॥ १६॥
असङ्ख्यातगतिं चैव सुपर्णमभिवाद्य च ।
पुष्पबाणधरं चैव लज्जमानाभ्यवादयत् ॥ १७॥
ततः शक्रस्य वचनान्नारदः परमद्युतिः ।
वासुदेवसमीपं स प्रहसन् पुनरागतः ॥ १८॥
वर्द्धापयति तं देवं गोविन्दं शत्रुसूदनम् ।
दिष्ट्या वर्द्धसि गोविन्द अनिरुद्धसमागमात् ॥ १९॥
ततोऽनिरुद्धसहिता नारदं प्रणताः स्थिताः ।
आशीर्भिर्वर्द्धयित्वा च देवर्षिः कृष्णमब्रवीत् ॥ २.१२७.२०॥
अनिरुद्धस्य वीर्याख्यो विवाहः क्रियतां विभो ।
जम्बूलमालिकां द्रष्टुं श्रद्धा हि मम जायते ॥ २१॥
ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात् ।
कृष्णः प्रोवाच भगवन्क्रियतामाशु मा चिरम् ॥ २२॥
एतस्मिन्नन्तरे तात कुम्भाण्डः समुपस्थितः ।
वैवाहिकांस्तु सम्भारान्गृह्य कृष्णं नमस्य तु ॥ २३॥
कुम्भाण्ड उवाच ।
कृष्ण कृष्ण महाबाहो भव त्वमभयप्रदः ।
शरणागतोऽस्मि देवेश प्रसीदैषोऽञ्जलिस्तव ॥ २४॥
नारदस्य वचः श्रुत्वा सर्वं प्रागेव चाच्युतः ।
अभयं यच्छते तस्मै कुम्भाण्डाय महात्मने ॥ २५॥
कुम्भाण्ड मन्त्रिणां श्रेष्ठ प्रीतोऽस्मि तव सुव्रत ।
सुकृतं ते विजानामि राष्ट्रिकोऽस्तु भवानिह ॥ २६॥
सज्ञातिपक्षः सुसुखी निर्वृतोऽस्तु भवानिह ।
राज्यं च ते मया दत्तं चिरं जीव ममाश्रयात् ॥ २७॥
एवं दत्त्वा राज्यमस्मै कुम्भाण्डाय महात्मने ।
विवाहमकरोत् तस्यानिरुद्धस्य जनार्दनः ।
ततस्तु भगवान् वह्निस्तत्र स्वयमुपस्थितः ॥ २८॥
स विवाहोऽनिरुद्धस्य नक्षत्रे च शुभेऽभवत् ।
ततोऽप्सरोगणश्चैव कौतुकं कर्तुमुद्यतः ॥ २९॥
स्नातस्त्वलङ्कृतस्तत्र सोऽनिरुद्धः स्वभार्यया ।
ततः स्निग्धैः शुभैर्वाक्यैर्गन्धर्वाश्च जगुस्तदा ॥ २.१२७.३०॥
नृत्यन्त्यप्सरसश्चैव विवाहमुपशोभयन् ।
ततो निर्वर्तयित्वा तु विवाहं शत्रुसूदनः ॥ ३१॥
अनिरुद्धस्य सुप्रज्ञः सर्वैर्देवगणैर्वृतः ।
आमन्त्र्य वरदं तत्र रुद्रं देवनमस्कृतम् ॥ ३२॥
चकार गमने बुद्धिं कृष्णः परपुरञ्जयः ।
द्वारकाभिमुखं कृष्णं ज्ञात्वा शत्रुनिषूदनम् ॥ ३३॥
कुम्भाण्डो वचनं प्राह प्राञ्जलिर्मधुसूदनम् ।
बाणस्य गावस्तिष्ठन्ति हस्ते तु वरुणस्य वै ॥ ३४॥
यासाममृतकल्पं वै क्षीरं क्षरति माधव ।
तत् पीत्वातिबलश्चैव नरो भवति दुर्जयः ॥ ३५॥
कुम्भाण्डेनैवमाख्याते हरिः प्रीतमनास्तदा ।
गमनाय मतिं चक्रे गन्तव्यमिति निश्चयम् ॥ ३६॥
ततस्तु भगवान्ब्रह्मा वर्धाप्य स तु केशवम् ।
जगाम ब्रह्मलोकं स वृतः स्वभवनालयैः ॥ ३७॥
इन्द्रो मरुद्गणयुतो द्वारकाभिमुखो ययौ ।
ततः कृष्णस्ततः सर्वे गच्छन्ति जयकाङ्क्षिणः ॥ ३८॥
वाहनेन मयूरेण सखीभिः परिवारिता ।
द्वारकाभिमुखी ह्यूषा देव्या प्रस्थापिता ययौ ॥ ३९॥
ततो बलश्च कृष्णश्च प्रद्युम्नश्च महाबलः ।
आरूढवन्तो गरुडमनिरुद्धश्च वीर्यवान् ॥ २.१२७.४०॥
प्रस्थितश्च स तेजस्वी गरुडः पततां वरः ।
उन्मूलयंस्तरुगणान् कम्पयंश्चापि मेदिनीम् ॥ ४१॥
आकुलाश्च दिशः सर्वा रेणुध्वस्तमिवाम्बरम् ।
गरुडे सम्प्रयातेऽभून्मन्दरश्मिर्दिवाकरः ॥ ४२॥
ततस्ते दीर्घमध्वानं प्रययुः पुरुषर्षभाः ।
आरुह्य गरुडं सर्वे जित्वा बाणं महौजसम् ॥ ४३॥
ततोऽम्बरतलस्थास्ते वारुणीं दिशमास्थिताः ।
अपश्यन्त महात्मानो गावो दिव्यपयःप्रदाः ।
वेलावनविचारिण्यो नानावर्णाः सहस्रशः ॥ ४४॥
अवज्ञाय तदा रूपं कुम्भाण्डवचनाश्रयात् ।
कृष्णः प्रहरतां श्रेष्ठस्तत्त्वतोऽर्थविशारदः ॥ ४५॥
निशम्य बाणगावस्तु तासु चक्रे मनस्तदा ।
आस्थितो गरुडं प्राह स तु लोकादिरव्ययः ॥ ४६॥
श्रीकृष्ण उवाच ।
वैनतेय प्रयाहि त्वं यत्र बाणस्य गोधनम् ।
यासां पीत्वा किल क्षीरममृतत्वमवाप्नुयात् ॥ ४७॥
आह मां सत्यभामा च बाणगावो ममानय ।
यासां पीत्वा किल क्षीरं न जीर्यन्ति महासुराः ॥ ४८॥
विजराश्च जरां त्यक्त्वा भवन्ति किल जन्तवः ।
ता आनयस्व भद्रं ते यदि धर्मो न लुप्यते ॥ ४९॥
अथवा कार्यलोपो वै मैव तासु मनः कृथाः ।
इति मामब्रवीत् सत्या ताश्चैता विदिता मम ॥ २.१२७.५०॥
गरुड उवाच ।
दृश्यन्ते गाव एतास्ता दृष्ट्वा मां वरुणालयम् ।
विशन्ति सहसा सर्वाः कार्यमत्र विधीयताम् ॥ ५१॥
इत्युक्त्वा चैव गरुडः पक्षवातेन सागरम् ।
सहसा क्षोभयित्वा च विवेश वरुणालयम् ॥ ५२॥
दृष्ट्वा जवेन गरुडं प्राप्तं वै वरुणालयम् ।
वारुणाश्च गणाः सर्वे विभ्रान्ताः प्राचलंस्तदा ॥ ५३॥
ततस्तु वारुणं सैन्यमभियातं सुदुर्जयम् ।
प्रमुखे वासुदेवस्य नानाप्रहरणोद्यतम् ।
तद् युद्धमभवद् घोरं वारुणैः पन्नगारिणा ॥ ५४॥
तेषामापततां सङ्ख्ये वारुणानां सहस्रशः ।
भग्नं बलमनाधृष्यं केशवेन महात्मना ॥ ५५॥
ततस्ते प्रद्रुता यान्ति तमेव वरुणालयम् ।
षष्टिं रथसहस्राणि षष्टिं रथशतानि च ॥ ५६॥
वारुणानि च युद्धानि दीप्तशस्त्राणि संयुगे ।
तद् बलं बलिभिः शूरैर्बलदेवजनार्दनैः ॥ ५७॥
प्रद्युम्नेनानिरुद्धेन गरुडेन च सर्वशः ।
शरौघैर्विविधैस्तीक्ष्णैर्वध्यमानं समन्ततः ॥ ५८॥
ततो भग्नं बलं दृष्ट्वा कृष्णेनाक्लिष्टकर्मणा ।
वरुणस्त्वथ सङ्कुद्धो निर्ययौ यत्र केशवः ॥ ५९॥
ऋषिभिर्देवगन्धर्वैस्तथैवाप्सरसां गणैः ।
संस्तूयमानो बहुधा वरुणः प्रत्यदृश्यत ॥ २.१२७.६०॥
छत्रेण ध्रियमाणेन पाण्डुरेण वपुष्मता ।
सलिलस्राविणा श्रेष्ठं चापमुद्यम्य धिष्ठितः ॥ ६१॥
अपां पतिरतिक्रुद्धः पुत्रपौत्रबलान्वितः ।
आह्वयन्निव युद्धाय विस्फारितमहाधनुः ॥ ६२॥
स तु प्राध्मापयच्छङ्खं वरुणः समधावत ।
हरिं हर इव क्रुद्धो बाणजालैः समावृणोत् ॥ ६३॥
ततः प्रध्माय जलजं पाञ्चजन्यं जनार्दनः ।
बाणजालैर्दिशः सर्वास्ततश्चक्रे महाबलः ॥ ६४॥
ततः शरौघैर्विमलैर्वरुणः पीडितो रणे ।
स्मयन्निव ततः कृष्णं वरुणः प्रत्ययुध्यत ॥ ६५॥
ततोऽस्त्रं वैष्णवं घोरमभिमन्त्र्याहवे स्थितः ।
वासुदेवोऽब्रवीद् वाक्यं प्रमुखे तस्य धीमतः ॥ ६६॥
इदमस्त्रं महाघोरं वैष्णवं शत्रुसूदनम् ।
मयोद्यतं वधार्थं ते तिष्ठेदानीं स्थिरो भव ॥ ६७॥
ततोऽस्त्रं वरुणो देवो ह्यस्त्रं वैष्णवमुद्यतः ।
वारुणास्त्रेण संयोज्य विननाद महाबलः ॥ ६८॥
तस्यास्त्रे वितता ह्यापो वरुणस्य विनिःसृताः ।
वैष्णवास्त्रस्य शमने वर्तते समितिञ्जयः ॥ ६९॥
आपस्तु वारुणास्तत्र क्षिप्ताः क्षिप्ता ज्वलन्ति वै ।
दह्यन्ते वारुणास्तत्र ततोऽस्त्रे ज्वलिते पुनः ॥ २.१२७.७०॥
वैष्णवे तु महावीर्ये दिशो भीता विदुद्रुवुः ।
तद् बलं ज्वलितं दृष्ट्वा वरुणः कृष्णमब्रवीत् ॥ ७१॥
स्मर स्वप्रकृतिं पूर्वामव्यक्तां व्यक्तलक्षणाम् ।
तमो जहि महाभाग तमसा मुह्यसे कथम् ॥ ७२॥
सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते ।
पञ्चभूताश्रयान् दोषानहङ्कारं च वर्जय ॥ ७३॥
या या ते वैष्णवी मूर्तिस्तस्या ज्येष्ठो ह्यहं तव ।
ज्येष्ठभावेन मान्यं तु किं मां त्वं दग्धुमिच्छसि ॥ ७४॥
नाग्निर्विक्रमते ह्यग्नौ त्यज कोपं युधां वर ।
त्वयि न प्रभविष्यामि जगतः प्रभवो ह्यसि ॥ ७५॥
पूर्वं हि या त्वया सृष्टा प्रकृतिर्विकृतात्मिका ।
धर्मिणी बीजभावेन पूर्व धर्मं समाश्रिता ॥ ७६॥
आग्नेयं वैष्णवं सौम्यं प्रकृत्यैवेदमादितः ।
त्वया सृष्टं जगदिदं स कथं मयि वर्तसे ॥ ७७॥
अजेयः शाश्वतो देवः स्वयम्भूर्भूतभावनः ।
अक्षरं च क्षरं चैव भावाभावौ महाद्युते ॥ ७८॥
रक्ष मां रक्षणीयोऽहं त्वयानघ नमोऽस्तु ते ।
आदिकर्तासि लोकानां त्वयैतद् बहुलीकृतम् ॥ ७९॥
विक्रीडसि महादेव बालः क्रीडनकैरिव ।
न ह्यहं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः ॥ २.१२७.८०॥
प्रकृतिर्या विकारेषु वर्तते पुरुषर्षभ ।
तस्या विकारशमने वर्तसे त्वं महाद्युते ॥ ८१॥
विकारो वा विकाराणां विकाराय न तेऽनघ ।
तानधर्मविदो मन्दान् भवान् विकुरुते सदा ॥ ८२॥
इदं प्रकृतिजैर्दोषैस्तमसा मुह्यते यदा ।
रजसा वापि संस्पृष्टं तदा मोहः प्रवर्तते ॥ ८३॥
परावरज्ञः सर्वत्र ऐश्वर्यविधिमास्थितः ।
किं मोहयसि नः सर्वान्प्रजापतिरिव स्वयम् ॥ ८४॥
वरुणेनैवमुक्तस्तु कृष्णो लोकपरायणः ।
भावज्ञः सर्वकृद् धीरस्ततः प्रीतमना ह्यभूत् ॥ ८५॥
इत्येवमुक्तः कृष्णस्तु प्रहसन् वाक्यमब्रवीत् ।
श्रीकृष्ण उवाच ।
गावः प्रयच्छ मे वीर शान्त्यर्थं भीमविक्रम ॥ ८६॥
इत्येवमुक्ते कृष्णेन वाक्यं वाक्यविशारदः ।
वरुणो ह्यब्रवीद् भूयः शृणु मे मधुसूदन ॥ ८७॥
वरुण उवाच ।
बाणेन सार्धं समयो मया देव कृतः पुरा ।
कथं च समयं कृत्वा कुर्यां विफलमन्यथा ॥ ८८॥
त्वमेव वेद सर्वस्य यथा समयभेदकः ।
चारित्रं दुष्यते तेन न च सद्भिः प्रशस्यते ॥ ८९॥
धर्मभाग्भिर्नरो नित्यं वर्ज्यते मधुसूदन ।
न च लोकानवाप्नोति पापः समयभेदकः ॥ २.१२७.९०॥
प्रसीद धर्मलोपश्च मा भून्मे मधुसूदन ।
न मां समयभेदेन योक्तुमर्हसि माधव ॥ ९१॥
जीवन्नाहं प्रदास्यामि गावो वै वृषभेक्षण ।
हत्वा नयस्व मां गाव एष मे समयः पुरा ॥ ९२॥
एतच्च मे समाख्यातं समयं मधुसूदन ।
सत्यमेव महाबाहो न मिथ्या तु सुरेश्वर ॥ ९३॥
यद्येवाहमनुग्राह्यो रक्ष मां मधुसूदन ।
अथवा गोषु निर्बन्धो हत्वा नय महाभुज ॥ ९४॥
वैशम्पायन उवाच ।
वरुणेनैवमुक्तस्तु यदूनां वंशवर्धनः ।
अभेद्यं समयं मत्वा न्यस्तवादो गवां प्रति ॥ ९५॥
स प्रहस्य ततो वाक्यं व्याजहारार्थकोविदः ।
तस्मान्मुक्तोऽसि यद्येवं बाणेन समयः कृतः ॥ ९६॥
प्रश्रितैर्मधुरैर्वाक्यैस्तत्त्वार्थमधुभाषितैः ।
कथं पापं करिष्यामि वरुण त्वय्यहं प्रभो ॥ ९७॥
गच्छ मुक्तोऽसि वरुण सत्यसन्धोऽसि नो भवान् ।
त्वत्प्रियार्थं मया मुक्ता बाणगावो न संशयः ॥ ९८॥
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः ।
अर्घ्यमादाय वरुणः केशवं प्रत्यपूजयत् ।
केशवोऽर्घ्यं तदा गृह्य वरुणाद् यदुनन्दनः ॥ ९९॥
बलं चापूजयद् देवः कुशलीव समाहितः ।
वरुणायाभयं दत्त्वा वासुदेवः प्रतापवान् ॥ २.१२७.१००॥
द्वारकां प्रस्थितः शौरिः शचीपतिसहायवान् ।
तत्र देवाः समरुतः ससाध्याः सिद्धचारणाः ॥ १०१॥
गन्धर्वाप्सरसश्चैव किन्नराश्चान्तरिक्षगाः ।
अनुगच्छन्ति भूतेशं सर्वभूतादिमव्ययम् ॥ १०२॥
आदित्या वसवो रुद्रा अश्विनौ यक्षराक्षसाः ।
विद्याधरगणाश्चैव ये चान्ये सिद्धचारणाः ।
गच्छन्तमनुगच्छन्ति यशसा विजयेन च ॥ १०३॥
नारदश्च महाभागः प्रस्थितो द्वारकां प्रति ।
तुष्टो बाणजयं दृष्ट्वा वरुणं च कृतप्रियम् ॥ १०४॥
कैलासशिखरप्रख्यैः प्रासादैः कन्दरैः शुभैः ।
दूरान्निशम्य मधुहा द्वारकां द्वारमालिनीम् ॥ १०५॥
पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः ।
संज्ञां प्रयच्छते देवो द्वारकापुरवासिनाम् ॥ १०६॥
देवानुयाननिर्घोषं पाञ्चजन्यस्य निस्वनम् ।
श्रुत्वा द्वारवती सर्वा प्रहर्षमतुलं गता ॥ १०७॥
पूर्णकुम्भैश्च लाजैश्च बहुविन्यस्तविस्तरैः ।
द्वारोपशोभितां कृत्वा सर्वां द्वारवतीं पुरीम् ॥ १०८॥
सुश्लिष्टरथ्यां सश्रीकां बहुरत्नोपशोभिताम् ।
विप्राश्चार्घ्यं समादाय तथैव कुलनैगमाः ॥ १०९॥
जयशब्दैश्च विविधैः पूजयन्ति स्म माधवम् ।
वैनतेये तमासीनं नीलाञ्जनचयोपमम् ॥ २.१२७.११०॥
ववन्दिरे तदा कृष्णं श्रिया परमया युतम् ।
तमानुपूर्व्या वर्णाश्च पूजयन्ति महाबलम् ॥ १११॥
अनन्तं केशिहन्तारं श्रेष्ठिपूर्वाश्च श्रेणयः ।
ऋषिभिर्देवगन्धर्वैश्चारणैश्च समन्ततः ॥ ११२॥
स्तूयते पुण्डरीकाक्षो द्वारकोपवने स्थितः ।
तदाश्चर्यमपश्यन्त दाशार्हगणसत्तमाः ॥ ११३॥
प्रहर्षमतुलं प्राप्ता दृष्ट्वा कृष्णं महाभुजम् ।
बाणं जित्वा महादेवमायान्तं पुरुषोत्तमम् ॥ ११४॥
द्वारकावासिनां वाचश्चरन्ति बहुधा तदा ।
प्राप्ते कृष्णे महाभागे यादवानां महारथे ॥ ११५॥
गत्वा च दूरमध्वानं सुपर्णो द्रुतमागतः ।
धन्याः स्मोऽनुगृहीताःस्मो येषां वै जगतः पिता ॥ ११६॥
रक्षिता चैव गोप्ता च दीर्घबाहुर्महाभुजः ।
वैनतेयं समारुह्य जित्वा बाणं सुदुर्जयम् ॥ ११७॥
प्राप्तोऽयं पुण्डरीकाक्षो मनांस्याह्लादयन्निव ।
एवं कथयतामेव द्वारकावासिनां तदा ॥ ११८॥
वासुदेवगृहं देवा विविशुस्ते महारथाः ।
अवतीर्य सुपर्णात्तु वासुदेवो बलस्तदा ॥ ११९॥
प्रद्युम्नश्चानिरुद्धश्च गृहान् प्रविविशुस्तदा ।
ततो देवविमानानि सञ्चरन्ति तदा दिवम् ॥ २.१२७.१२०॥
अवस्थितानि दृश्यन्ते नानारूपाणि सर्वशः ।
हंसर्षभमृगैर्नागैर्वाजिसारसबर्हिणैः ॥ १२१॥
भास्वन्ति तानि दृश्यन्ते विमानानि सहस्रशः ।
अथ कृष्णोऽब्रवीद्वाक्यं कुमारांस्तान्सहस्रशः ।
प्रद्युम्नादीन्समस्तांस्तु श्लक्ष्णं मधुरया गिरा ॥ १२२॥
एते रुद्रास्तथाऽऽदित्या वसवोऽथाश्विनावपि ।
साध्या देवास्तथान्ये च वन्दध्वं च यथाक्रमम् ॥ १२३॥
सहस्राक्षं महाभागं दानवानां भयङ्करम् ।
वन्दध्वं सहिताः शक्रं सगणं नागवाहनम् ॥ १२४॥
सप्तर्षयो महाभागा भृग्वाङ्गिरसमाश्रिताः ।
ऋषयश्च महात्मानो वन्दध्वं च यथाक्रमम् ॥ १२५॥
एते चक्रधराश्चैव तान् वन्दध्वं च सर्वशः ।
सागराश्च ह्रदाश्चैव मत्प्रियार्थमिहागताः ॥१२६॥
दिशश्च विदिशश्चैव वन्दध्वं च यथाक्रमम् ।
वासुकिप्रमुखाश्चैव नागा वै सुमहाबलाः ॥ १२७॥
गावश्च मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
ज्योतींषि सह नक्षत्रैर्यक्षराक्षसकिन्नरैः ॥ १२८॥
आगता मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
वासुदेववचः श्रुत्वा कुमाराः प्रणताः स्थिताः ॥ १२९॥
यथाक्रमेण सर्वेषां देवतानां महात्मनाम् ।
सर्वान् दिवौकसो दृष्ट्वा पौरा विस्मयमागताः ॥ २.१२७.१३०॥
पूजार्थमथ समरान् प्रगृह्य द्रुतमागताः ।
अहो सुमहदाश्चर्यं वासुदेवस्य संश्रयात् ॥ १३१॥
प्राप्यते यदिहास्माभिरिति वाचश्चरन्त्युत ।
ततश्चन्दनचूर्णैश्च गन्धपुष्पैश्च सर्वशः ॥ १३२॥
किरन्ति पौराः सर्वास्तान् पूजयन्तो दिवौकसः ।
लाजैः प्रणामैर्धूपैश्च वाद्यध्वनियमैस्तथा ॥ १३३॥
द्वारकावासिनः सर्वे पूजयन्ति दिवौकसः ।
आहुकं वासुदेवं च साम्बं च यदुनन्दनम् ॥ १३४॥
सात्यकिं चोल्मुकं चैव विपृथुं च महाबलम् ।
अक्रूरं च महाभाग तथा निशठमेव च ॥ १३५॥
एतान् परिष्वज्य तदा मूर्ध्नि चाघ्राय वासवः ।
अथ शक्रो महाभागः समक्ष यदुमण्डले ॥ १३६॥
स्तुवन्तं केशिहन्तारं तत्रोवाचोत्तरं वचः ।
सात्वतः सात्त्वतामेष सर्वेषां यदुनन्दनम् ॥ १३७॥
मोक्षयित्वा रणे चैव यशसा पौरुषेण च ।
महादेवस्य मिषतो गुहस्य च महात्मनः ॥ १३८॥
एव बाणं रणे जित्वा द्वारकां पुनरागतः ।
सहस्रबाहोर्बाहूनां कृत्वा द्वयमनुत्तमम् ॥ १३९॥
स्थापयित्वा द्विबाहुत्वे प्राप्तोऽयं स्वपुरं हरिः ।
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ॥ २.१२७.१४०॥
तदप्यवसितं कार्यं नष्टशोका वयं कृताः ।
पिबतां मधु माध्वीकं भवतां प्रीतिपूर्वकम् ॥ १४१॥
कालो यास्यत्यविरतं विषयेष्वेव सज्जताम् ।
बाहूनां सङ्क्षयात् सर्वे वयमस्य महात्मनः ॥ १४२॥
प्रणष्टशोका रंस्यामः सर्वं एव यथासुखम् ।
एवं स्तुत्वा सहस्राक्षः केशवं दानवान्तकम् ॥ १४३॥
आपृच्छ्य तं महाभागः सर्वदेवगणैर्वृतः ।
ततः पुनः परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पुरन्दरो दिवं यातः सह देवमरुद्गणैः ॥ १४४॥
ऋषयश्च महात्मानो जयाशीर्भिर्महौजसम् ।
यथागतं पुनर्याता यक्षराक्षसकिन्नराः ॥ १४५॥
पुरन्दरे दिवं याते पद्मनाभो महाबलः ।
अपृच्छत महाभागः सर्वान् कुशलमव्ययम् ॥ १४६॥
ततः किलकिलाशब्दं निर्वमन्तः सहस्रशः ।
गच्छन्ति कौमुदीं द्रष्टुं सोऽनघः प्रीयते सदा ॥ १४७॥
द्वारकां प्राप्य कृष्णस्तु रेमे यदुगणैः सह ।
विविधान् सर्वकामार्थाञ्छ्रिया परमया युतः ॥ १४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारकाप्रत्यागमने
सप्तविंशत्यधिकशततमोऽध्यायः ॥ १२७॥
२.१२८ अष्टाविंशत्यधिकशततमोऽध्यायः
उषया सहानिरुद्धस्य विवाहः, उषाहरणसमाप्तिश्च Aniruddha marries uShA
द्वारकायां उत्सवः, उषसः अन्तःपुरे प्रवेशं सत्कारं च, श्रीकृष्णस्य
विष्णुपर्वस्य च महिमा, पर्वस्य उपसंहारं
वैशम्पायन उवाच ।
अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः ।
हर्षादुत्फुल्लनयनः श्रूयतां यदुनन्दन ॥ १॥
एवं गतेऽनिरुद्धस्य क्रियतां महदुत्सवः ।
क्षेमात् प्रत्यागतं दृष्ट्वा सेव्यमाना महामते ॥ २॥
उषापि च महाभागा सखीभिः परिवारिता ।
रमते परया प्रीत्या चानिरुद्धेन सङ्गता ॥ ३॥
कुम्भाण्डदुहिता रामा उषायाः सखिमण्डले ।
प्रवेश्यतां महाभागा वैदर्भी वर्द्धयेत् पुनः ॥ ४॥
साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा ।
शेषाश्च कन्या न्यस्यन्तां कुमाराणां यथाक्रमम् ॥ ५॥
वर्तते सोत्सवस्तत्र अनिरुद्धस्य वेश्मनि ।
गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते ॥ ६॥
वादयन्ति पुरे तत्र नार्यो मदवशं गताः ।
नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापराः ॥ ७॥
काश्चित् प्रमुदितास्तत्र काश्चिदन्योन्यमब्रुवन् ।
नानावर्णाम्वरधराः क्रीडमानास्ततस्ततः ॥ ८॥
अभियान्ति ततोऽन्योन्यं काश्चिन्मदवशात् स्वयम् ।
क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्ललोचनाः ॥ ९॥
मायूरं रथमारुह्य सखीभिः परिवारिता ।
उषा सम्प्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम् ॥ १०॥
इयं चैव कुलश्लाघ्या नाम्नोषा सुन्दरी वरा ।
बाणपुत्री तव वधूः प्रतिगृह्णीष्व भामिनीम् ॥ ११॥
ततः प्रतिगृहीता सा स्त्रीभिराचारमङ्गलैः ।
प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना ॥ १२॥
देवकी रोहिणी चैव रुक्मिण्यथ विदर्भजा ।
दृष्ट्वानिरुद्धं रोदन्त्यः स्नेहहर्षसमन्विताः ॥ १३॥
रेवती रुक्मिणी चैव गृहमुख्यं प्रवेशयत् ।
वधूर्वर्धसि दिष्ट्या त्वमनिरुद्धस्य दर्शनात् ॥ १४॥
ततस्तूर्यप्रणादैस्ता वरनार्यः शुभाननाः ।
क्रियामारेभिरे कर्तुमुषा च गृहसंस्थिता ॥ १५॥
ततो हर्म्यतलस्था सा वृष्णिपुङ्गवसंस्थिता ।
रमते सर्वसदृशैरुपभोगैर्वरानना ॥ १६॥
चित्रलेखा च सुश्रोणी अप्सरारूपधारिणी ।
आपृच्छ्य च सखीवर्गमुषां च त्रिदिवं गता ॥ १७॥
गतासु तासु सर्वासु सखीष्वसुरसुन्दरी ।
मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता ॥ १८॥
सा तु प्रद्युम्नगृहिणी स्नुषा दृष्ट्वा सुमध्यमा ।
वासोभिरन्नपानैश्च पूजयामास सुन्दरीम् ॥ १९॥
ततः क्रमेण सर्वास्ता वधूमूषां यदुस्त्रियः ।
आचारमनुपश्यन्त्यः स्वधर्ममुपचक्रिरे ॥ २०॥
वैशम्पायन उवाच ।
एतत् ते सर्वमाख्यातं मया कुरुकुलोद्वह ।
यथा बाणो जितः सङ्ख्ये जीवन्मुक्तश्च विष्णुना ॥ २१॥
द्वारकायां ततः कृष्णो रेमे यदुगणैर्वृतः ।
अन्वशासन्महीं कृत्स्नां परया संयुतो मुदा ॥ २२॥
एवमेषोऽवतीर्णो वै पृथिवीं पृथिवीपते ।
विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः ॥ २३॥
एतैश्च कारणैः श्रीमान् वसुदेवकुले प्रभुः ।
जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि ॥ २४॥
निवृत्ते नारदप्रश्ने यन्मयोक्तं समासतः ।
श्रुतास्ते विस्तराः सर्वे ये पूर्वं जनमेजय ॥ २५॥
विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् ।
वासुदेवगतिश्चैव सा मया समुदाहृता ॥ २६॥
आश्चर्यं चैव नान्यद् वै कृष्णश्चाश्चर्यसन्निधिः ।
सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम् ॥ २७॥
एष धन्यो हि धन्यानां धन्यकृद् धन्यभावनः ।
देवेषु तु सदैत्येषु नास्ति धन्यतरोऽच्युतात् ॥ २८॥
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ।
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥ २९॥
एष धाता विधाता च संहर्ता चैव नित्यशः ।
सत्यं धर्मस्तपश्चैव ब्रह्मा चैव पितामहः ॥ ३०॥
अनन्तश्चैव नागानां रुद्राणां शङ्करः स्मृतः ।
जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवम् ॥ ३१॥
एतस्माच्च जगत् सर्वं प्रसूयेत जनार्दनात् ।
जगच्च सर्वं देवेशे तं नमस्कुरु भारत ॥ ३२॥
पूज्यश्च सततं सर्वैर्देवैरेष सनातनः ।
इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य तु ॥ ३३॥
वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे ।
ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम् ॥ ३४॥
केशवस्य च माहात्म्यं नाधर्मस्तान्भजिष्यति ।
एषा तु वैष्णवी चर्या मया कार्त्स्न्येन कीर्तिता ॥ ३५॥
पृच्छतस्तात यज्ञेऽस्मिन् निवृत्ते जनमेजय ।
आश्चर्यपर्व निखिलं यो हीदं धारयेन्नृप ॥ ३६॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
कल्य उत्थाय यो नित्यं कीर्तयेत् सुसमाहितः ॥ ३७॥
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च ।
ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत् ॥ ३८॥
वैश्यो धनसमृद्धः स्याच्छूद्रः कामानवाप्नुयात् ।
नाशुभं प्राप्नुयात्किञ्चिद् दीर्घमायुर्लभेत सः ॥ ३९॥
सौतिरुवाच ।
इति पारीक्षितो राजा वैशम्पायनभाषितम् ।
श्रुतवानचलो भूत्वा हरिवंशं द्विजोत्तमाः ॥ ४०॥
एवं शौनक सङ्क्षेपाद् विस्तरेण तथैव च ।
प्रोक्ता वै सर्ववंशास्ते किं भूयः श्रोतुमिच्छसि ॥ ४१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणसमाप्तौ अष्टाविंशत्यधिकशततमोऽध्यायः ॥ १२८॥
भविष्यपर्व
३.१ प्रथमोऽध्यायः
पाण्डववंशप्रतिष्ठाकीर्तनम् PANDava lineage established through janamejaya
जनमेजयस्य सन्ततिः, पौरवस्य पाण्डववंशस्य च प्रतिष्ठायाः वर्णनं
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
शौनक उवाच ।
जनमेजयस्य के पुत्राः पठ्यन्ते लौमहर्षणे ।
कस्मिन् प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम् ॥ १॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
त्वत्तः कथयतः सर्वं वेद्म्यहं तत् परिस्फुटम् ॥ २॥
सौतिरुवाच ।
पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडश्च नृपतिः सूर्यापीडश्च मोक्षवत् ॥ ३॥
चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् ।
जनमेजय इत्येवं क्षात्रं भुवि परिश्रुतम् ॥ ४॥
तेषां श्रेष्ठस्तु राजासीत् पुरे वारणसाह्वये ।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ ५॥
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ ६॥
तस्माद् वनगताद् गर्भं यादवी प्रत्यपद्यत ।
सुचारोर्दुहिता सुभ्रूर्मानिनी भ्रातृमालिनी ७॥
स तु जन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः ।
अन्वगच्छद् गतं पूर्वैर्महाप्रस्थानमच्युतम् ॥ ८॥
सा दृष्ट्वा सम्प्रयातं तं मानिनी पृष्ठतोऽन्वयात् ।
पथि सा सुषुवे सुभ्रूर्वने राजीवलोचनम् ॥ ९॥
कुमारं तं परित्यज्य भर्तारं चान्वगच्छत ।
पतिव्रता महाभागा द्रौपदीव पुरा पतीन् ॥ ३.१.१०॥
स तु राजकुमारोऽसौ गिरिकुञ्जे रुरोद ह ।
छायार्थे तस्य मेघास्तु प्रादुरासन् समन्ततः ॥ ११॥
श्रविष्ठायाश्च पुत्रौ द्वौ पिप्पलादश्च कौशिकः ।
दृष्ट्वा कृपान्वितौ गृह्य तं प्राक्षालयतां जलैः ।
निघृष्टौ तस्य तौ पार्श्वौ शिलायां रुधिरप्लुतौ ॥ १२॥
अजश्यामौ तु पार्श्वौ तावुभावपि समाहितौ ।
तथैव तु समारूढौ अजपार्श्वस्ततोऽभवत् ॥ १३॥
ततोऽजपार्श्व इति तौ चक्राते तस्य नाम ह ।
स तु वेमकशालायां द्विजाभ्यामभिवर्धितः ॥ १४॥
वेमकस्य तु भार्या तमुद्वहत् पुत्रकारणात् ।
वेमक्याः स तु पुत्रोऽभूद् ब्राह्मणौ सचिवौ च तौ ॥ १५॥
तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः ।
स एष पौरवो वंशः पाण्डवानां प्रतिष्ठितः ॥ १६॥
श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना ।
जरासङ्क्रमणे पूर्वं भृशं प्रीतेन धीमता ॥ १७॥
अचन्द्रार्कग्रहा भूमिर्भवेदपि न संशयः ।
अपौरवा न तु मही भविष्यति कदाचन ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पाण्डववंशप्रतिष्ठाकीर्तने प्रथमोऽध्यायः ॥ १॥
३.२ द्वितीयोऽध्यायः
व्यासं प्रति राजसूयविषये जनमेजयप्रश्नः Janamejaya questions vyAsa about rAjasUya
राज्ञः जनमेजयस्य अश्वमेधयज्ञानुष्ठानस्य विचारं, व्यासस्य आगमनं, राज्ञा तस्य सत्कारं, भवता पाण्डवानां राजसूययागस्य अनुष्ठानात् कथं निषेधं न कृतं इति जनमेजयस्य प्रश्नं, उत्तररूपेण व्यासेन कालस्य प्राबल्यस्य प्रतिपादनं
शौनक उवाच ।
उक्तोऽयं हरिवंशस्ते पर्वाणि निखिलानि च ।
यथा पुरोक्तानि तथा व्यासशिष्येण धीमता ॥ १॥
तत्कथ्यमानममितमितिहाससमन्वितम् ।
प्रीणात्यस्मानमृतवत् सर्वपापविनाशनम् ॥ २॥
सुखश्राव्यतया धीर मनो ह्लादयतीव नः ।
जनमेजयस्तु नृपतिः श्रुत्वा चाख्यानमुत्तमम् ।
सौते किमकरोत् पश्चात् सर्पसत्रादनन्तरम् ॥ ३॥
सौतिरुवाच ।
जनमेजयस्तु स नृपः श्रुत्वा चाख्यानमुत्तमम् ।
यदारभत् तदाख्यास्ये सर्पसत्रादनन्तरम् ॥ ४॥
तस्मिन्सत्रे समाप्तेऽथ राजा पारीक्षितस्तदा ।
यष्टुं स वाजिमेधेन सम्भारानुपचक्रमे ॥ ५॥
ऋत्विक्पुरोहिताचार्यानाहूयेदमुवाच ह ।
यक्ष्येऽहं वाजिमेधेन हय उत्सृज्यतामिति ॥ ६॥
ततोऽस्य विज्ञाय चिकीर्षितं तदा कृष्णो महात्मा सहसाऽऽजगाम ।
पारीक्षितं द्रष्टुमदीनसत्त्वं द्वैपायनः सर्वपरावरज्ञः ॥ ७॥
पारीक्षितस्तु नृपतिर्दृष्ट्वा तमृषिमागतम् ।
अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः ॥ ८॥
तौ चोपविष्टावभितः सदस्यास्तस्य शौनक ।
कथा बहुविधाश्चित्राश्चक्राते वेदसंहिताः ॥ ९॥
ततः कथान्ते नृपतिर्नोदयामास तं मुनिम् ।
पितामहं पाण्डवानामात्मनः प्रपितामहम् ॥ ३.२.१०॥
महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।
निमेषमात्रमपि मे सुखश्राव्यतया गतम् ॥ ११॥
विभूतिविस्तारकरं सर्वेषां वै यशस्करम् ।
त्वया सुविहितं ब्रह्मञ्शङ्खे क्षीरमिवाहितम् ॥ १२॥
अमृतेन तु तृप्तिः स्याद् यथा स्वर्गसुखेन च ।
तथा तृप्तिं न गच्छामि श्रुत्वेमां भारतीं कथाम् ॥ १३॥
अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्नहम् ।
हेतुः कुरूणां नाशस्य राजसूयो मतो मम ॥ १४॥
दुःसहानां यथा ध्वंसो राजन्यानामुपप्लवे ।
राजसूयं तथा मन्ये युद्धार्थमुपकल्पितम् ॥ १५॥
राजसूयस्य नु सोमेन श्रूयते पूर्वमाहृतः ।
तस्यान्ते सुमहद् युद्धमभवत् तारकामयम् ॥ १६॥
आहृतो वरुणेनाथ तस्यान्ते सुमहाक्रतोः ।
देवासुरं महायुद्धं सर्वभूतक्षयावहम् ॥ १७॥
हरिश्चन्द्रश्च राजर्षिः क्रतुमेनमुपाहरत् ।
तत्राप्याडीबकं नाम युद्धं क्षत्रियनाशनम् ॥ १८॥
ततोऽनन्तरमार्येण पाण्डवेनातिदुस्तरः ।
महाभारत आरम्भः सम्भूतोऽग्निरिव क्रतुः ॥ १९॥
तदस्य मूलं युद्धस्य लोकक्षयकरस्य तु ।
राजसूयो महायज्ञः किमर्थं न निवारितः ॥ ३.२.२०॥
राजसूयो ह्यसंहार्यो यज्ञाङ्गैश्च दुरत्ययैः ।
मिथ्या प्रणीते यज्ञाङ्गे प्रजानां सङ्क्षयो ध्रुवः ॥ २१॥
भवानपि च सर्वेषां पूर्वेषां नः पितामहः ।
अतीतानागतज्ञश्च नाथश्चादिकरश्च नः ॥ २२॥
ते कथं भवता नेत्रा बुद्धिमन्तश्च्युता नयात् ।
अनाथा ह्यपराध्यन्ते कुनेतारश्च मानवाः ॥ २३॥
व्यास उवाच ।
कालेन विपरीतास्ते तव पूर्वपितामहाः ।
न मां भविष्यं पृच्छन्ति न चापृष्टो ब्रवीम्यहम् ॥ २४॥
सामर्थ्यं च न पश्यामि भविष्यस्य निवर्तने ।
परिहर्तुं न शक्या हि कालेन विहिता गतिः ॥ २५॥
त्वया त्विदमहं पृष्टो वक्ष्याम्यागन्तु भावि यत् ।
अतश्च बलवान् कालः श्रुत्वापि न करिष्यसि ॥ २६॥
न संरम्भान्न चारम्भान्न वै स्थास्यसि पौरुषे ।
लेखा हि काललिखिताः सर्वथा दुरतिक्रमाः ॥ २७॥
अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः ।
तेन भावेन ते यज्ञं वासवो धर्षयिष्यति ॥ २८॥
यदि तच्छक्यते राजन् परिहर्तुं कथञ्चन ।
दैवं पुरुषकारेण मा यजेथाश्च तं क्रतुम् ॥ २९॥
न चापराधः शक्रस्य नोपाध्यायगणस्य ते ।
तव वा यजमानस्य कालोऽत्र दुरतिक्रमः ॥ ३.२.३०॥
तस्य संस्थाकृतमिदं कालस्य परमेष्ठिनः ।
यथा दृष्टं प्रजासर्गे गमिष्यति युगक्षये ॥ ३१॥
तथा यज्ञफलानां च विक्रेतारो द्विजातयः ।
तत्प्रणेयं निबोधस्व त्रैलोक्यं सचराचरम् ॥ ३२॥
जनमेजय उवाच ।
निवृत्तावश्वमेधस्य किं निमित्तं भविष्यति ।
श्रुत्वा परिहरिष्यामि भगवन् यदि मन्यसे ॥ ३३॥
व्यास उवाच ।
निमित्तं भविता तत्र ब्रह्मकोपकृतं प्रभो ।
यतेथाः परिहर्तुं त्वमित्येतद् भद्रमस्तु ते ॥ ३४॥
त्वया वृत्तं क्रतुं चैव वाजिमेधं परन्तप ।
क्षत्रिया नाहरिष्यन्ति यावद् भूमिर्धरिष्यति ॥ ३५॥
जनमेजय उवाच ।
निवृत्तावश्वमेधस्य ब्रह्मशापाग्नितेजसा ।
अहं निमित्तमिति मे भयं तीव्रं तु जायते ॥ ३६॥
कथं ह्यकीर्त्या युज्येत सुकृती मद्विधो जनः ।
लोकानुत्सहते गन्तुं खं सपाश इव द्विजः ॥ ३७॥
यथा ह्यनागतमिदं दृष्टमत्र प्रणाशनम् ।
यद्यस्ति पुनरावृत्तिर्यज्ञस्याश्वासयस्व माम् ॥ ३८॥
व्यास उवाच ।
उपात्तयज्ञो देवेषु ब्राह्मणेषूपपत्स्यते ।
तेजसा व्याहतं तेजस्तेजस्येवावतिष्ठते ॥ ३९॥
औद्भिज्जो भविता कश्चित्सेनानीः काश्यपो द्विजः ।
अश्वमेधं कलियुगे पुनः प्रत्याहरिष्यति ॥ ३.२.४०॥
तदन्ते तत्कुलीनश्च राजसूयमपि क्रतुम् ।
आहरिष्यति राजेन्द्र श्वेतग्रहमिवान्तकः ॥ ४१॥
यथाबलं मनुष्याणां कर्तॄणां दास्यते फलम् ।
युगान्तद्वारमृषिभिः संवृतं विचरिष्यति ॥ ४२॥
तदा प्रभृति हास्यन्ति नृणां प्राणाः पुराकृतीः ।
न निवर्तिष्यते लोके वृत्तान्तावर्तनेष्विह ॥ ४३॥
तदा सूक्ष्मो महोदर्को दुस्तरो दानमूलवान् ।
चातुराश्रम्यशिथिलो धर्मः प्रविचलिष्यति ॥ ४४॥
तदा ह्यल्पेन तपसा सिद्धिं प्राप्स्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति युगान्ते जनमेजय ॥ ४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि जनमेजयप्रश्ने द्वितीयोऽध्यायः ॥ २॥
३.३ तृतीयोऽध्यायः
व्यासोक्तं कलियुगभविष्यम् VyAsa predicts life in the coming kaliyuga
व्यासेन कलियुगस्य स्थित्याः वर्णनं
जनमेजय उवाच ।
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
तस्माद् द्वापरसंविद्धं युगान्तं स्पृहयाम्यहम् ॥ १॥
प्राप्ता वयं तु तत् कालमनया धर्मतृष्णया ।
आदद्यात् परमं धर्मं सुखमल्पेन कर्मणा ॥ २॥
शौनक उवाच ।
प्रजासमुद्वेगकरं युगान्तं समुपस्थितम् ।
प्रणष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥ ३॥
सौतिरुवाच ।
पृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन् ।
युगान्ते सर्वभूतानां भगवानब्रवीत् तदा ॥ ४॥
व्यास उवाच ।
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ ५॥
अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ ६॥
काण्डे स्पृष्टाः श्रोत्रियाश्च निष्क्रियाणि हवींष्यथ ।
एकपङ्क्त्यामशिष्यन्ति युगान्ते जनमेजय ॥ ७॥
शिल्पवन्तोऽनृतपरा नरा मद्यामिषप्रियाः ।
मित्रभार्या भविष्यन्ति युगान्ते जनमेजय ॥ ८॥
राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।
भृत्याश्चानिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ ९॥
धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
अकुत्सना च पतिते भविष्यन्ति युगक्षये ॥ ३.३.१०॥
प्रणष्टचेतना मर्त्या मुक्तकेशा विचूलिनः ।
ऊनषोडशवर्षाश्च प्रजास्यन्ति नराः सदा ॥ ११॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ १२॥
सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये ॥ १३॥
तपोयज्ञफलानां च विक्रेतारो द्विजातयः ।
ऋतवश्च भविष्यन्ति विपरीता युगक्षये ॥ १४॥
शुक्लदन्ताऽञ्जिताक्षाश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति शाक्यबुद्धोपजीविनः ॥ १५॥
श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे ॥ १६॥
अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः ।
तथा निम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये ॥ १७॥
तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ १८॥
सर्वे चौरकुले जाताश्चोरयानाः परस्परम् ।
स्वल्पेनाख्या भविष्यन्ति यत्किञ्चित्प्राप्य दुर्गताः ॥
न ते धर्मं करिष्यन्ति मानवा निर्गते युगे ।
ऊषार्कबहुला भूमिः पन्थानस्तस्करावृताः ॥ ३.३.२०॥
सर्वे वाणिज्यकाश्चैव भविष्यन्ति कलौ युगे ।
पितृदत्तानि देयानि विभजन्ते सुतास्तदा ।
हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः ॥ २१॥
सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
भविष्यन्ति युगान्ते च नार्यः केशैरलङ्कृताः ॥ २२॥
निर्विहारस्य भूतस्य गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते नान्या भार्या समा गतिः ॥ २३॥
कुशीलानार्यभूयिष्ठं वृथारूपसमन्वितम् ।
पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥ २४॥
बहुयाचनको लोको न दास्यति परस्परम् ।
अविचार्य ग्रहीष्यन्ति दानं वर्णान्तरात् तथा ॥ २५॥
राजचौराग्निदण्डार्तो जनः क्षयमुपैष्यति ।
सस्यनिष्पत्तिरफला तरुणा वृद्धशीलिनः ।
ईहयासुखिनो लोका भविष्यन्ति युगक्षये ॥ २६॥
वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश्च भविष्यति युगक्षये ॥ २७॥
आत्मनश्च दुराचारा ब्रह्मदूषणतत्पराः ।
आत्मानं बहु मन्यन्ते मन्युरेवाभ्ययाद्द्विजान् ॥ २८॥
वैश्याचाराश्च राजन्या धनधान्योपजीविनः ।
युगापक्रमणे सर्वे भविष्यन्ति द्विजातयः ॥ २९॥
अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा ।
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ ३.३.३०॥
भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् ।
अजाश्चैवोपरोत्स्यन्ते पयसोऽर्थे युगक्षये ॥ ३१॥
अशास्त्रविदुषां पुंसामेवमेव स्वभावतः ।
अप्रमाणं वदिष्यन्ति नीतिं पण्डितमानिनः ॥ ३२॥
शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये ।
सर्वे सर्वं हि जानन्ति वृद्धाननुपसेव्य वै ॥ ३३॥
न कश्चिदकविर्नाम युगान्ते समुपस्थिते ।
न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः ।
चौरप्रायाश्च राजानो युगान्ते पर्युपस्थिते ॥ ३४॥
कुण्डावृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय ॥ ३५॥
अयाज्यान् याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ॥ ३६॥
भोशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति ।
एकशङ्खास्तदा नार्यो गवेधुकपिनद्धकाः ॥ ३७॥
नक्षत्राणि वियोगीनि विपरीता दिशस्तथा ।
सन्ध्यारागोऽथ दिग्दाहो भविष्यत्यवरे युगे ॥ ३८॥
पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश्च कर्मसु ।
वियोनिषु चरिष्यन्ति प्रमदासु नरास्तथा ॥ ३९॥
वाक्छरैस्तर्जयिष्यन्ति गुरूञ्छिष्यास्तथैव च ।
मुखेषु च प्रयोक्ष्यन्ति प्रमत्ताश्च नरास्तदा ॥ ३.३.४०॥
अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः ।
भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ॥ ४१॥
पतीन्सुप्तान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः ।
पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम् ॥ ४२॥
नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः ।
न कृतिप्रतिकर्ता च युगे क्षीणे भविष्यति ॥ ४३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने तृतीयोऽध्यायः ॥ ३॥
३.४ चतुर्थोऽध्यायः
कलियुगवर्णनम् Description of kaliyuga
कलियुगस्य वर्णनं
जनमेजय उवाच ।
एवं विलुलिते लोके मनुष्याः केन पालिताः ।
निवत्स्यन्ति किमाचाराः किमाहारविहारिणः ॥ १॥
किङ्कर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः ।
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ २॥
व्यास उवाच ।
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्ततः ।
शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः ॥ ३॥
आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता ।
वैवर्ण्याद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ ४॥
निर्वेदादात्मसम्बोधः सम्बोधाद् धर्मशीलता ।
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ ५॥
उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः ।
विमर्षशीलाः केचित् तु हेतुवादकुतूहलाः ॥ ६॥
प्रत्यक्षमनुमानं च प्रमाणं चेति निश्चिताः ।
प्रमाणैकं करिष्यन्ति नेति पण्डितमानिनः ॥ ७॥
अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः ।
तदा मुखभगाश्चैव भविष्यन्ति स्त्रियोऽपराः ॥ ८॥
नास्तिक्यपरमाश्चापि केचिद् धर्मविलोपकाः ।
भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः ॥ ९॥
तदात्वमात्रे श्रद्धेयाः शास्त्रज्ञानबहिष्कृताः ।
दाम्भिकास्ते भविष्यन्ति वादशीलकुतूहलाः ॥ ३.४.१०॥
तदा विचलिते धर्मे जनाः शेषपुरस्कृताः ।
शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः ॥ ११॥
सर्वभक्षो ह्यसङ्गुप्तो निर्गुणो निरपत्रपः ।
भविष्यति तदा लोकस्तत्कषायस्य लक्षणम् ॥ १२॥
विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरा जनाः ।
प्रतिपत्स्यन्ति वृत्यर्थं तत् कषायस्य लक्षणम् ॥ १३॥
कषायोपप्लवे लोके ज्ञानविद्याप्रणाशने ।
सिद्धिं स्वल्पेन कालेन यास्यन्ति निरुपस्कृताः ॥ १४॥
महायुद्धं महावातं महावर्षं महाभयम् ।
भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ॥ १५॥
विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः ।
पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ १६॥
निःस्वाध्यायवषट्कारा अनयाश्चाभिमानिनः ।
विप्राः क्रव्यादरूपेण सर्वभक्षा वृथाव्रताः ॥ १७॥
मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदा ॥
व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात् ॥ १८॥
हर्तारः पररत्नानां परदारापहारकाः ।
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ १९॥
तेषु प्रभवमाणेषु तुल्यशीलेषु सर्वतः ।
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ ३.४.२०॥
उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः ।
कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ॥ २१॥
सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
भक्ष्यभोज्यापहाराश्च करण्डानां च हारिणः ॥ २२॥
चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति ।
चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥ २३॥
निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते ।
नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः ॥ २४॥
पितॄनाज्ञापयिष्यन्ति पुत्राः कर्मणि सर्वशः ।
स्नुषा श्वश्रूस्तथा चैव युगान्ते प्रत्युपस्थिते ॥ २५॥
वाक्छरैरर्दयिष्यन्ति गुरूञ्छिष्याः समन्ततः ।
यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २६॥
क्षेमं सुभिक्षमारोग्यं सामग्र्यं वापि बन्धुषु ।
उद्देशतो नरश्रेष्ठ भविष्यन्ति युगक्षये ॥ २७॥
स्वयम्पालाः स्वयञ्चौरा युगसम्भारसम्भृताः ।
मण्डलैः प्रचलिष्यन्ति देशे देशे पृथक्पृथक् ॥ २८॥
स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ २९॥
तदा स्कन्धे समाधाय कुमारान्विद्रुता भयात् ।
कौशिकीं प्रतरिष्यन्ति नराः क्षुद्भयपीडिताः ॥ ३.४.३०॥
अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ मेकलान् ।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥ ३१॥
कृत्स्नं वा हिमवत्पार्श्वं कूलं च लवणाम्भसः ।
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सहः ॥ ३२॥
नैव शून्या न चाशून्या भविष्यति वसुन्धरा ।
गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शस्त्रिणः ॥ ३३॥
मृगैर्मत्स्यैर्विहङ्गैश्च श्वापदैः सर्पकीटकैः ।
मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ ३४॥
चीरं पर्णं च बहुलं वल्कलान्यजिनानि च ।
स्वयङ्कृतानि वत्सन्ति यथा मुनिजनास्तथा ॥ ३५॥
बीजानामाकृतिं निम्नेष्वीहन्तः काष्ठशङ्कुभिः ।
अजैष्ठकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ॥ ३६॥
नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः ।
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥ ३७॥
तनूरुहैर्यथा जातैः समूलान्तरसंवृतैः ।
बह्वपत्याः प्रजाहीनाः कुललक्षणवर्जिताः ॥ ३८॥
एवं भविष्यन्ति तदा मनुष्याः कालकारिताः ।
हीनाद्धीनं तदा धर्मं प्रजाः समनुवर्त्स्यति ॥ ३९॥
आयुस्तत्र च मर्त्यानां परं त्रिंशद् भविष्यति ।
दुर्बला विषयग्लाना रजसा समभिप्लुताः ॥ ३.४.४०॥
भविष्यति तदा तेषां रोगैरिन्द्रियसङ्क्षयः ।
आयुःप्रक्षयसंरोधाद् विषादः प्रभविष्यति ॥ ४१॥
शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसङ्क्षयात् ॥ ४२॥
भविष्यन्ति च कामानामलाभाद् धर्मशीलिनः ।
करिष्यन्ति च सङ्कोचं स्वपक्षक्षयपीडिताः ॥ ४३॥
एवं शुश्रूषणे दाने सत्ये प्राणाभिरक्षणे ।
चतुष्पादः प्रवृत्तश्च धर्मः श्रेयोऽभिपत्स्यते ॥ ४४॥
तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
स्वादु किं न्विति विज्ञाय धर्म एवं वदिष्यति ॥ ४५॥
यथा हानिः क्रमात् प्राप्ता तथा वृद्धिः क्रमाद्गता ।
प्रगृहीते यतो धर्मे प्रवत्स्यन्ति कृतं युगम् ॥ ४६॥
साधु वृत्तं कृतयुगे कषाये हानिरुच्यते ।
एक एव तु कालः स हीनवर्णो यथा शशी ॥ ४७॥
छन्नो हि तमसा सोमो यथा कलियुगे तथा ।
पूर्णश्च तमसा हीनो यथा कृतयुगे तथा ॥ ४८॥
अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
अनिर्णिक्तमविज्ञातं दायाद्यमिव धार्यते ॥ ४९॥
इष्टवादस्तपो नाम तपो हि स्थावरं कृतम् ।
गुणैः कर्माभिनिर्वृत्तिर्गुणास्तथ्येन कर्मणा ॥ ३.४.५०॥
आशीस्तु पुरुषं दृष्ट्वा देशाकालानुवर्तिनी ।
युगे युगे यथाकालमृषिभिः समुदाहृता ॥ ५१॥
इह धर्मार्थकामानां देवतानां प्रतिक्रिया ।
आशिषश्च शुभाः पुण्यास्तथैवायुर्युगे युगे ॥ ५२॥
यथा युगानां परिवर्तनानि चिरं प्रवृत्तानि विधिस्वभावात् ।
क्षणं न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ ५३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने चतुर्थोऽध्यायः ॥ ४॥
३.५ पञ्चमोऽध्यायः
जनमेजयाश्वमेधः इन्द्रस्य कापट्यं च Indra wrecks janamejaya's ashvamedha
व्यासादीनां गमनं, जनमेजयस्य अश्वमेधयागे इन्द्रस्य विघ्नं, जनमेजयेन इन्द्राय
शापं, ब्राह्मणानां निर्वासनं स्वपत्न्याः भर्त्सना, विश्वावसुना जनमेजयाय परामर्शं
सूत उवाच ।
इत्येवमाश्वासयतो राजानं जनमेजयम् ।
अतीतानागतं वाक्यमृषेः परिषदा श्रुतम् ॥ १॥
अमृतस्येव संवाहः प्रभा चन्द्रमसो यथा ।
अतर्पयत तच्छ्रोत्रं महर्षेर्वाक्ययो रसः ॥ २॥
धर्मकामार्थसंयुक्तं करुणं वीरहर्षणम् ।
रमणीयं तदाख्यानं कृत्स्नं परिषदा श्रुतम् ॥ ३॥
केचिदश्रूणि मुमुचुः श्रुत्वा दध्युस्तथापरे ।
इतिहासं तमृषिणा पाणाविव निदर्शितम् ॥ ४॥
सदस्यान् सोऽभ्थनुज्ञाय कृत्वा चापि प्रदक्षिणाम् ।
पुनर्द्रक्ष्याम इत्युक्त्वा जगाम भगवानृषिः ॥ ५॥
अनुजग्मुस्तदा सर्वे प्रयान्तमृषिसत्तमम् ।
लोके प्रवदतां श्रेष्ठं ये विशिष्टास्तपोधनाः ॥ ६॥
याते भगवति व्यासे तदा ब्रह्मर्षिभिः सह ।
ऋत्विजः पार्थिवाश्चैव प्रतिजग्मुर्यथागतम् ॥ ७॥
पन्नगानां सुघोराणां कृत्वा तां वैरयातनाम् ।
जगाम रोषमुन्मृज्य राजा विषमिवोरगः ॥ ८॥
होत्राग्निदीप्तशिरसं परित्राय च तक्षकम् ।
आस्तीकोऽथाश्रमपदं जगाम स महामुनिः ॥ ९॥
राजापि हास्तिनपुरं जगाम स्वजनावृतः ।
अन्वशासच्च मुदितस्तदा प्रमुदिताः प्रजाः ॥ ३.५.१०॥
कस्यचित् त्वथ कालस्य स राजा जनमेजयः ।
दीक्षितो वाजिमेधेन विधिवद् भूरिदक्षिणः ॥ ११॥
संज्ञप्तमश्वं तत्रास्य देवी काश्या वपुष्टमा ।
संविवेशोपगम्याथ विधिदृष्टेन कर्मणा ॥ १२॥
तां तु सर्वानवद्याङ्गीं चकमे वासवस्तदा ।
संज्ञप्तमश्वमाविश्य तया मिश्रीबभूव सः ॥ १३॥
तस्मिन् विकारे जनिते विदित्वा तत्त्वतश्च तत् ।
असंज्ञप्तोऽयमश्वस्ते ध्वंसेत्यध्वर्युमब्रवीत् ॥ १४॥
अध्वर्युर्ज्ञानसम्पन्नस्तदिन्द्रस्य विचेष्टितम् ।
कथयामास राजर्षेः शशाप स पुरन्दरम् ॥ १५॥
जनमेजय उवाच ।
यद्यस्ति मे यज्ञफलं तपो वा रक्षतः प्रजाः ।
फलेनानेन सर्वेण ब्रवीमि श्रूयतामिदम् ॥ १६॥
अद्यप्रभृति देवेन्द्रमजितेन्द्रियमस्थिरम् ।
क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक ॥ १७॥
ऋत्विजश्चाब्रवीत् क्रुद्धः स राजा जनमेजयः ।
दौर्बल्यं भवतामेतद् यदय धर्षितः क्रतुः ॥ १८॥
विषये मे न वस्तव्यं गच्छध्वं सह बान्धवैः ।
इत्युक्तास्तत्यजुर्विप्रास्तं नृपं जातमन्यवः ॥ १९॥
अमर्षादन्वशासच्च पत्नीशालागताः स्त्रियः ।
राजा परमधर्मज्ञस्तामसौ जनमेजयः ॥ ३.५.२०॥
असतीं वपुष्टमामेतां निर्यातयत मे गृहात् ।
यया मे चरणौ मूर्ध्नि पातितौ रेणुगुण्ठितौ ॥ २१॥
शौण्डीर्यं मेऽनया भग्नं यशो मानश्च दूषितः ।
न चैनां द्रष्टुमिच्छामि परिक्लिष्टामिव स्रजम् ॥ २२॥
न स्वादु सोऽश्नाति नरः सुखं स्वपिति वा रहः ।
अन्वास्ते यः प्रियां भार्यां परेण मृदितामिह ।
पुनर्नैवोपभुञ्जीत श्वावलीढं हविर्यथा ॥ २३॥
एवमुच्चैः प्रभाषन्तं क्रुद्धं पारीक्षितं नृपम् ।
गन्धर्वराजः प्रोवाच विश्वावसुरिदं वचः ॥ २४॥
विश्वावसुरुवाच ।
त्रियज्ञशतयज्वानं वासवस्त्वां न मृष्यते ।
अप्सरास्तेन पत्नी ते विहितेयं वपुष्टमा ॥ २५॥
रम्भानामाप्सरा देवी काशिराजसुता मता ।
सैषा योषिद्वरा राजन् रत्नभूतानुभूयताम् ॥ २६॥
यज्ञे विवरमासाद्य विघ्नमिन्द्रेण ते कृतम् ।
यज्वा ह्यसि कुरुश्रेष्ठ समृद्ध्या वासवोपमः ॥ ९७॥
बिभेत्यभिभवाच्छक्रस्तव क्रतुफलैर्नृप ।
तस्मादावर्तितश्चैव क्रतुरिन्द्रेण ते विभो ॥ २८॥
मायैषा वासवेनेह प्रयुक्ता विघ्नमिच्छता ।
क्रतोर्विवरमासाद्य संज्ञप्तं दृश्य वाजिनम् ॥ २९॥
रतिमिन्द्रेण रम्भायां मन्यसे यां वपुष्टमाम् ।
अथ ते गुरवः शप्तास्त्रियज्ञशतयाजिनः ॥ ३.५.३०॥
भ्रंशितस्त्वं च विप्राश्च बलादिन्द्रसमादिह ।
त्वत्तश्चैव सुदुर्धर्षात् त्रियज्ञशतयाजिनः ॥ ३१॥
बिभेति हि सदा त्वत्तो ब्राह्मणेभ्योऽपि वासवः ।
एकेन वै तदुभयं तीर्णे शक्रेण मायया ॥ ३२॥
स एष सुमहातेजा विजिगीषुः पुरन्दरः ।
कथमन्यैरनाचीर्णं नप्तुर्दारानतिक्रमेत् ॥ ३३॥
यथैव हि परा बुद्धिः परो धर्मः परो दमः ।
यथैव परमैश्वर्यं कीर्तितं हरिवाहने ।
तथैव त्वयि दुर्धर्षे त्रियज्ञशतयाजिनि ॥ ३४॥
मा वासवं मा च गुरुमात्मानं मा वपुष्टमाम् ।
गच्छ दोषेण कालो हि सर्वथा दुरतिक्रमः ॥ ३५॥
ऐश्वर्येणाश्वमाविश्य देवेन्द्रेणासि रोषितः ।
आनुकूल्येन देवस्य वर्तितव्यं सुखार्थिना ॥ ३६॥
दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ।
स्त्रीरत्नमुपभुङ्क्ष्वेमामपापां विगतज्वरः ॥ ३७॥
अपापास्त्यज्यमाना वै त्यजेयुरपि योषितः ।
अदुष्टास्तु स्त्रियो राजन्दिव्यास्तु सविशेषतः ॥ ३८॥
भानोः प्रभा शिखा वह्नेर्वेदी होत्रे तथाहुतिः ।
परामृष्टाप्यसंसक्ता नोपदुष्यन्ति योषितः ॥ ३९॥
ग्राह्या लालयितव्याश्च पूज्याश्च सततं बुधैः ।
शीलवत्यो नमस्कार्याः पूज्याः श्रिय इव स्त्रियः ॥ ३.५.४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि विश्वावसुवाक्ये पञ्चमोऽध्यायः ॥ ५॥
३.६ षष्ठोऽध्यायः
एतद्ग्रन्थश्रवणफलम् Benefits from listening to this text
जनमेजयस्य सन्तुष्टं भूत्वा राज्यशासनकरणं, अस्य ग्रन्थस्य पाठस्य श्रवणस्य च महिमा
सौतिरुवाच ।
एवं स विश्वावसुनानुनीतः
प्रसादमागम्य वपुष्टमायाः ।
चकार मिथ्या व्यतिशङ्कितात्मा
शान्तिं परां मानवधर्महृष्टाम् ॥ १॥
श्रममभिविनिवर्त्य मानसं स
समभिलषज्जनमेजयो यशः स्वम् ।
विषयमनुशशास धर्मबुद्धि-
र्मुदितमना रमयन् वपुष्टमां ताम् ॥ २॥
न हि विरमति विप्रपूजना-
न्न च विनिवर्तति यज्ञदानशीलात् ।
न विषयपरिरक्षणाच्च्युतोऽभू-
न्न च परिगर्हति तां वपुष्टमां च ॥ ३॥
विधिविहितमशक्यमन्यथा हि कर्तुं
यदृषिरचिन्त्यतपाः पुराब्रवीत् सः ।
इति स नृपतिरात्मवांस्तदासौ
तदनुविचिन्त्य बभूव वीतमन्युः ॥ ४॥
इदं महाकाव्यमृषेर्महात्मनः
पठन्नृणां पूज्यतमो भवेन्नरः ।
प्रकृष्टमायुः समवाप्य दुर्लभं
लभेच्च सर्वज्ञफलं च केशवम् ॥ ५॥
शतक्रतोः कल्मषविप्रमोक्षणं
पठन्निदं मुच्यति कल्मषान्तरः ।
तथैव कामान् विविधान् समश्नुते
ह्यवाप्तकामश्च चिराय नन्दति ॥ ६॥
यथा हि पुष्पप्रभवं फलं द्रुमाः
फलात्प्रजायन्ति पुनश्च पादपाः ।
तथा महर्षिप्रभवा इमा गिरः
प्रवर्धयन्ते तमृषिं प्रवर्धिताः ॥ ७॥
पुत्रानपुत्रो लभते सुवर्चस-
श्च्युतः पुनर्विन्दति चात्मनः स्थितिम् ।
व्याधिं न चाप्नोति चिरं सबन्धनं
क्रियां च पुण्यां लभते गुणान्वितः ॥ ८॥
पतिमभिलभते च सत्सु कन्या
श्रवणमुपेत्य शुभा मुनेस्तु वाचः ।
जनयति च सुतान् गुणैरुपेतान्
रिपुजनमर्दनवीर्यशालिनश्च ॥ ९॥
विजयति वसुधां च राजवृत्ति
र्धनमतुलं लभते द्विषज्जयं च ।
विपुलमपि धनं लभेच्च वैश्यः
सुगतिमियाच्छ्रवणाच्च शूद्रजातिः ॥ ३.६.१०॥
पुराणमेतच्चरितं महात्मना-
मधीत्यबुद्धिं लभते च नैष्ठिकीम् ।
विहाय दुःखानि विमुक्तसङ्गः
स वीतरागो विचरेद् वसुन्धराम् ॥ ११॥
इत्येतदाख्यानमुदाहृतं वै
प्रतिस्मरन्तो द्विजमण्डलेषु ।
स्थैर्येण धैर्येण पुनः स्मरन्तः
सुखं भवन्तोऽनुचरन्तु लोकम् ॥ १२॥
इति चरितमिदं महात्मना-
मृषिकृतमद्भुतवीर्यकर्मणाम् ।
कथितमिदं हि समासविस्तरैः
किमपरमिच्छसि किं ब्रवीमि ते ॥ १३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि भविष्यान्तग्रन्थार्थप्रकाशो नाम षष्ठोऽध्यायः ॥ ६॥
३.७ सप्तमोऽध्यायः
पुष्करप्रादुर्भावः PuShkaraprAdurbhAvaH
पुष्करप्रादुर्भावस्य विषये जनमेजयस्य प्रश्नं, वैशम्पायनस्य उत्तरं
जनमेजय उवाच ।
प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि ।
पुष्करे वै यथोद्भूता देवाः सर्षिगणाः पुरा ॥ १॥
एतदाख्याहि निखिलं योगं योगविदां पते ।
शृण्वतस्तस्य मे कीर्तिं न तृप्तिरभिजायते ॥ २॥
कियन्तं चैव कालं वै शयिता पुरुषोत्तमः ।
किमर्थं च तथा शेते कश्च कालस्य सम्भवः ॥ ३॥
कियता चैव कालेन प्रबुध्यति सुराधिपः ।
कथमुत्थाय भगवानसृजन्निखिलं जगत् ॥ ४॥
के प्रजापतयस्तात आसन् पूर्वं महामुने ।
कथं निर्मितवांश्चैव चित्रं लोकं सनातनः ॥ ५॥
कथमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ॥ ६॥
नष्टानलानिले लोके नष्टाकाशमहीतले ।
केवलं गह्वरीभूते महाभूतविपर्यये ॥ ७॥
प्रभुर्महाभूतपतिर्महातेजा महाकृतिः ।
आस्ते सुरगुरुश्रेष्ठो विधिमादाय कं मुने ॥ ८॥
तन्मे त्वमुपपन्नाय ब्रह्मन्नेतदसंशयम् ।
वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥ ९॥
प्रादुर्भावं पुरस्कृत्य भूतं भव्यं महात्मनः ।
श्रद्धानामुपविष्टानां भगवन् वक्तुमर्हसि ॥ ३.७.१०॥
वैशम्पायन उवाच ।
नारायणयशोज्ञाने या भवेद् भवतः स्पृहा ।
त्वद्वंशानघ पूतस्य कार्यं कुरुकुलर्षभ ॥ ११॥
शृणुष्वादिपुराणेभ्यो देवताभ्यो यथाश्रुति ।
ब्राह्मणानां च वदतां श्रुतोऽस्माभिर्महात्मनाम् ॥ १२॥
यथा च तपसा दृष्टो बृहस्पतिसमद्युतिः ।
पाराशर्यस्ततः श्रीमान् गुरुर्द्वैपायनोऽब्रवीत् ॥ १३॥
तत् तेऽहं सम्प्रवक्ष्यामि यथाप्रज्ञं यथाश्रुतम् ।
न विज्ञातुं मया शक्यमृषिमात्रेण भारत ॥ १४॥
कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ।
विश्वात्मनो यं ब्रह्मापि न वेदयति तत्त्वतः ॥ १५॥
श्रुतं मे विश्वदेवानां यद् रहस्यं महर्षिणाम् ।
तदिदं सर्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ॥ १६॥
तदध्यात्मविदां चिन्त्यं कारणं चैव कर्मिणाम् ।
अधिदैवं च यद् दैवं तद दैवमिति संज्ञितम् ॥ १७॥
यद् भूतमधिभूतं च यत्परं च महर्षिणाम् ।
यत् सत्यं वेददृष्टं च यत् तद्वेदविदो विदुः ॥ १८॥
यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च ।
प्रधानं पुरुषः शास्ता एकस्तदभिशब्द्यते ॥ १९॥
कालः कालं स्वपयति द्रष्टा स्वाधीन एव च ।
प्राणः पञ्चविधश्चैव ध्रुवमक्षरमेव च ॥ ३.७.२०॥
उच्यते विविधैर्भावैस्तस्यैवानघ तत्परैः ।
स एव भगवान् सर्वं करोति विकरोति च ॥ २१॥
योऽस्मान्कारयते कर्म तेनास्य व्याकुलीकृताः ।
यजामहे तमेवेशं तमेवेच्छाम निर्वृताः ॥ २२॥
यो वक्ता यश्च वक्तव्यो यश्चाहं तद्ब्रवीमि वः ।
इदं शृणुत यच्छ्रेयो यच्चान्यत् परिजल्पथ ॥ २३॥
याः कथाश्चैव वर्तन्ते श्रुतयो वाथ गह्वराः ।
विश्वं विश्वपतिर्देवाः सर्वं नारायणात्मकम् ॥ २४॥
यत् सत्यं यदनृतमादिमक्षरं वै
यद्भूतं भवति मिथश्च यद्भविष्यम् ।
यत् किञ्चिच्चरमचराव्ययं त्रिलोके
तत्सर्वं पुरुषवरः प्रभुर्वरिष्ठः ॥ २५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे सप्तमोऽध्यायः ॥ ७॥
३.८ अष्टमोऽध्यायः
कृतादियुगपरिमाणम् KRitAdiyugaparimANam
सत्ययुगादीनां परिमाणानां वर्णनं
वैशम्पायन उवाच ।
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् ।
तस्य तावच्छती सन्ध्या द्विगुणा जनमेजय ॥ १॥
तत्र धर्मश्चतुष्पादो ह्यधर्मः पादविग्रहः ।
स्वधर्मनिरताः सन्तो यजन्ते चैव मानवाः ॥ २॥
स्थिता धर्मपरा विप्रा राजवृत्तौ स्थिता नृपाः ।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवस्तथा ॥ ३॥
सदा सत्यं तपश्चैव धर्मश्चैव विवर्धते ।
सद्भिराचरितं यच्च क्रियते ख्यायते च यत् ॥ ४॥
एतत् कृतयुगे वृत्तं सर्वेषामेव भारत ।
प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम् ॥ ५॥
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता ॥ ६॥
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ।
तत्र सत्यं च सत्त्वं च कृते सर्वं प्रवर्तते ॥ ७॥
त्रेतायां विकृतिं यान्ति वर्णा लौल्येन संयुताः ।
चातुर्वर्ण्यस्य वैकृत्याद्यान्ति दौर्बल्यमाश्रिताः ॥ ८॥
एष त्रेतायुगविधिर्विहितो देवनिर्मितः ।
द्वापरस्यापि या चेष्टा तामपि श्रोतुमर्हसि ॥ ९॥
द्वापरं द्वे सहस्रे तु वर्षाणां कुरुसत्तम ।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता ॥ ३.८.१०॥
तत्राप्यर्थपरा विप्रा ज्ञानिनो रजसाऽऽवृताः ।
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुपुङ्गव ॥ ११॥
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः ।
विपर्ययं शनैर्यान्ति कृते ये धर्मसेतवः ॥ १२॥
ब्राह्मण्यभावा नश्यन्ति तथास्तिक्यं विशीर्यते ।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥ १३॥
तथा वर्षसहस्रं तु वर्षाणां द्वे शते तथा ।
सन्ध्यया सह सङ्ख्यातं क्रूरं कलियुगं स्मृतम् ॥ १४॥
तत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः ।
कामनिष्ठास्तमश्छन्ना जायन्ते तत्र मानवाः ॥ १५॥
नैवोपवासकृत् कश्चिन्न च साधुर्न सत्यवाक् ।
आस्तिको ब्रह्मवक्ता वा नरो भवति वै तदा ॥ १६॥
अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः ।
विप्राः शूद्रसमाचाराः शूद्रास्त्वाचारलक्षणाः ॥ १७॥
दूषकास्त्वाश्रमाणां च वर्णानां चैव सङ्कराः ।
अगम्यास्वभिरंस्यन्ते वर्तन्त्येवं कलौ युगे ॥ १८॥
एवं द्वादशसाहस्रं तदेकं युगमुच्यते ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १९॥
त्रय्यां चैव न सन्देहो युगान्ते जनमेजय ।
दिव्यं द्वादशसाहस्रं युगं तु कवयो विदुः ।
एतत्सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ॥ ३.८.२०॥
ततोऽहनि गते तस्मिन् सर्वेषामेव देहिनाम् ।
शरीरनिर्वृतिं दृष्ट्वा रुद्रः संहारबुद्धिमान् ॥ २१॥
देवतानां च सर्वेषां ब्राह्मणानां महीपते ।
दैत्यानां मानवानां च यक्षगन्धर्वरक्षसाम् ॥ २२॥
देवर्षीणां ब्रह्मर्षीणां तथा राजर्षिणामपि ।
किन्नराणामप्सरसां भुजङ्गानां तथैव च ॥ २३॥
पर्वतानां नदीनां च पशूनां चैव भारत ।
तिर्यग्योनिगतानां च सत्त्वानां मृगपक्षिणाम् ॥ २४॥
महाभूतपतिर्देवः पञ्चभूतानि भूतकृत् ।
जगत्संहरणार्थाय कुरुते वैशसं महत् ॥ २५॥
भूत्वा सूर्यश्चक्षुषी चाददानो
भूत्वा वायुः संहरन् प्राणिजातम् ।
भूत्वा वह्निर्दह्यते सर्वलोकान्
मेघो भूत्वा भूय एवाभ्यवर्षत् ॥ २६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे
कृतादियुगपरिमाणवर्णने अष्टमोऽध्यायः ॥ ८॥
३.९ नवमोऽध्यायः
एकार्णवविधिः EkArNavavidhiH
प्रलयस्योत्तरे एकार्णवस्य जले भगवतः नारायणस्य शयनं
वैशम्पायन उवाच ।
भूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः ।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥ १॥
पीत्वार्णवांश्च सर्वान् स नदीः कूपांश्च सर्वशः ।
पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः ॥ २॥
भित्त्वा सहस्रशश्चैव महीं नीत्वा रसातलम् ।
रसातलगतं कृत्स्नं पिबते रसमुत्तमम् ॥ ३॥
अप्सु सृजन्क्लेदमन्यद् ददाति प्राणिनां ध्रुवम् ।
तत् सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥ ४॥
वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत् ।
प्राणोदये सुराणां च वायुना कुरुते हरिः ॥ ५॥
ततो देवगणानां च सर्वेषामेव देहिनाम् ।
ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ।
पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः ॥ ६॥
जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः ।
रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥ ७॥
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः ।
परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ॥ ८॥
ततो भगवता तत्र रश्मिभिः परिवारिताः ।
वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात् ॥ ९॥
तेषां सङ्घर्षजोद्भूतः पावकः शतधा ज्वलन् ।
अदहन्निखिलांल्लोकानुग्रः संवर्तकोऽनलः ॥ ३.९.१०॥
सम्पर्वतांस्तरून् गुल्माँल्लतावल्लीस्तृणानि च ।
विमानानि च दिव्यानि पुराणि विविधानि च ॥ ११॥
आश्रमांश्च तथा पुण्यान्दिव्यान्यातनानि च ।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ॥ १२॥
भस्मीभूतांस्ततः सर्वाँल्लोकाँल्लोकगुरुर्हरिः ।
भूयो निर्वापयामास जलयुक्तेन कर्मणा ॥ १३॥
सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः ।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥ १४॥
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन महीं निर्वाणमगमत् परम् ॥ १५॥
ते नगा जलसञ्छन्नाः पयसः सर्वतोधराः ।
एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः ॥ १६॥
महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ॥ १७॥
संशोषयित्वा पीत्वा च वसत्येकः सनातनः ।
पौराणं रूपमास्थाय किमप्यमितबुद्धिमान् ॥ १८॥
एकार्णवजले ह्यासीद् योगी योगमुपागतः ।
अयुतानां सहस्राणि गतान्येकार्णवेऽम्भसि ।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥ १९॥
जनमेजय उवाच ।
एकार्णवविधिः कोऽयं यश्चैव परिकीर्तितः ।
क एष पुरुषो नाम किं योगः कश्च योगवान् ॥ ३.९.२०॥
वैशम्पायन उवाच ।
एतावन्तमसौ कालमेकार्णवविधिं प्रति ।
करिष्यतीमं भगवानिति कश्चिन्न बुध्यते ॥ २१॥
न वै माता न च द्रष्टा न ज्ञाता नैव पार्श्वगः ।
न स्मावगच्छते कश्चिदृते तं देवमीश्वरम् ॥ २२॥
नभः क्षितिं पवनमथ प्रकाशयन्
प्रजापतिं भुवनचरं सुरेश्वरम् ।
पितामहं श्रुतिनिलयं महामुनिं
शशास भूः शयनमरोचयत् प्रभुः ॥ २३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे नवमोऽध्यायः ॥ ९॥
३.१० दशमोऽध्यायः
एकार्णवे भगवन्मार्कण्डेयसंवादः EkArNave bhagavanmArkaNDeyasaMvAdaH
एकार्णवे भगवतः मार्कण्डेयेन सह संवादं
वैशम्पायन उवाच ।
एवमेकार्णवीभूते शेते लोके महाद्युतिः ।
प्रच्छाद्य सलिलं सर्वं हरिर्नारायणः प्रभुः ॥ १॥
महतो रजसो मध्ये महार्णवसमस्य वै ।
विरजस्को महाबाहुरक्षरं ब्रह्म यं विदुः ॥ २॥
आत्मरूपप्रकाशेन तपसा संवृतः प्रभुः ।
त्रिकमास्थाय कालं तु ततः सुष्वाप सोऽव्ययः ॥ ३॥
पुरुषो यज्ञ इत्येवं यत्परं परिकीर्तितम् ।
यथान्यत्पुरुषाख्यं स्यात्सर्वं तत्पुरुषोत्तमः ॥ ४॥
ये च यज्ञपरा विप्रा ऋत्विजा इति संज्ञिताः ।
आत्मदेहात्पुरा भूता यज्ञेभ्यः श्रूयतां तदा ॥ ५॥
ब्रह्माणं परमं वक्त्रादुद्गातारं च सामगम् ।
होतारमथ चाध्वर्युं बाहुभ्यामसृजत् प्रभुः ॥ ६॥
ब्राह्मणो ब्राह्मणत्वाच्च सम्प्रस्तारं च सर्वशः ।
तन्मित्रं वरुणं सृष्ट्वा प्रतिष्ठातारमेव च ॥ ७॥
उदरात् प्रतिहर्तारं पोतारं चैव भारत ।
अच्छावाकं मनोरूभ्यां नेष्टारं चैव भारत ॥ ८॥
पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च यज्ञियम् ।
ग्रावाणमथ बाहुभ्यामुन्नेतारं च यज्ञियम् ॥ ९॥
एवमेवैष भगवान् पोडशैताञ्जगत्पतिः ।
प्रवक्तॄन् सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ॥ ३.१०.१०॥
तदेष वै वेदमयः पुरुषो यज्ञसम्मितः ।
वेदाश्च तन्मयाः सर्वे साङ्गोपनिषदक्रियाः ॥ ११॥
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्तदा ।
श्रूयते तद् यथावृत्तं मार्कण्डेयो यदन्वभूत् ॥ १२॥
जीर्णो भगवतस्तस्य कुक्षावेव महामुनिः ।
बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ॥ १३॥
इति तीर्थप्रसङ्गेन पृथ्वीतीर्थगोचरः ।
आश्रमानपि पुण्यांश्च तीर्थान्यायतनानि च ॥ १४॥
देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च ।
जपहोमरतः क्षान्तस्तपो घोरं समाश्रितः ॥ १५॥
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद् विनिःसृतः ।
निष्क्रामन्तं न चात्मानं जानीते देवमायया ॥ १६॥
निष्क्रान्तस्तस्य वदनादेकार्णवमथो गतः ।
सर्वतस्तमसाच्छन्नं मार्कण्डेयो निरीक्षते ॥ १७॥
तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते ।
देवदर्शनसंहृष्टो विस्मयं चागमत् परम् ॥ १८॥
सञ्चिन्तयति मध्यस्थो मार्कण्डेयोऽतिशङ्कितः ।
किंस्विद्भवेदियं चिन्ता मोहः स्वप्नोऽनुऽभूयते ॥ १९॥
व्यक्तमन्यतमो भावो ह्येतेषां भविता मम ।
न हीदृशमसंश्लिष्टमयुक्तं सत्यमर्हति ॥ ३.१०.२०॥
नष्टचन्द्रार्कपवने छन्नपर्वतभूतले ।
कतमः स्यादयं लोक इति चिन्ताव्यवस्थितः ॥ २१॥
अपश्यच्चापि पुरुषं शयानं पर्वतोपमम् ।
तोयाढ्यमिव जीमूतं मध्ये मग्नं महार्णवे ॥ २२॥
तपन्तमिव तेजोभिर्भास्वन्तमिव वर्चसा ।
जाग्रन्तमिव गाम्भीर्याच्छ्वसन्तमिव पन्नगम् ॥ २३॥
स देवं प्रष्टुमायाति कौ भवानिति विस्मयात् ।
तथैव च शनैर्भूयो मुनिः कुक्षिं प्रवेशितः ॥ २४॥
स प्रविष्टः पुनः कुक्षौ मार्कण्डेयः सुनिश्चितः ।
तथैव चरते भूयो विजानन् स्वप्नदर्शनम् ॥ २५॥
स तथैव यथापूर्वं पृथिवीमटते पुनः ।
पुण्यतीर्थानि पूतानि निरैक्षद् दिवि भूतले ॥ २६॥
क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणैः ।
पश्यते देवकुक्षिस्थान्यज्ञियाञ्छतशो द्विजान् ॥ २७॥
सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः ।
चत्वारश्चाश्रमाः सम्यग् यथोद्दिष्टपदानुगाः ॥ २८॥
वर्षाणां शतसाहस्रं मार्कण्डेयो महामुनिः ।
विचरन् पृथिवीं कृत्स्नां न च कुक्ष्यन्तमैक्षत ॥ २९॥
ततः कदाचिदथ वै पुनर्वक्त्राद् विनिःसृतः ।
सुप्तं न्यग्रोधशाखायां बालमेकं निरीक्षते ॥ ३.१०.३०॥
यथा चैकार्णवजले नीहारेण वृतान्तरे ।
अव्यक्तभीषणे लोके सर्वभूतविवर्जिते ॥ ३१॥
स भूयो विस्मयाविष्टः कौतूहलसमन्वितः ।
बालमादित्यसङ्काशं न शक्नोत्युपसर्पितुम् ॥ ३२॥
सोऽचिन्तयदथैकान्ते स्थित्वा सलिलसन्निधौ ।
पूर्वदृष्टमिदं नेति शङ्कितो देवमायया ॥ ३३॥
अगाधे सलिल स्तब्धे मार्कण्डेयः प्लवन्मुनिः ।
न शान्तिं लभते तत्र श्रमात् सन्त्रस्तविक्लवः ॥ ३४॥
तथैव भगवान् हंसो गतो योगेन बालताम् ।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥ ३५॥
श्रीभगवानुवाच ।
मा भैर्वत्स न भेतव्यमिहैवायाहि चान्तिकम् ।
मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥ ३६॥
मार्कण्डेय उवाच ।
को मां नाम्ना कीर्तयते तपः परिभवन् मम ।
बहुवर्षसहस्रायुर्धर्षयंश्चैव मे वयः ॥ ३७॥
न ह्येष समुदाचारो देवेष्वपि समाहितः ।
मां ब्रह्मापि स विश्वेशो दीर्घायुरिति भाषते ॥ ३८॥
कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
मार्कण्डेयेति मां प्रोक्त्वा मृत्युमीक्षितुमिच्छति ॥ ३९॥
वैशम्पायन उवाच ।
एवमाभाषते क्रोधान्मार्कण्डेयो महामुनिः ।
अथैनं भगवान् भूयो बभाषे तत्परायणम् ॥ ३.१०.४०॥
श्रीभगवानुवाच ।
अहं ते जनको वत्स हृपीकेशः पिता गुरुः ।
आयुःप्रदाता पौराणः किमर्थं नोपसर्पति ॥ ४१॥
मां पुत्रकामः प्रथमं पिता ते ह्यङ्गिरा मुनिः ।
पूर्वमाराधयामास तपस्तीव्रमुपाश्रितः ॥ ४२॥
ततस्त्वां घोरशिरसं दहनोपमतेजसम् ।
दत्तवानहमात्मेष्टं महर्षिममितायुषम् ॥ ४३॥
तत्र नोत्सहते चान्यो यो न भूतो ममात्मकः ।
द्रष्टुमेकार्णवगतं क्रीडन्तं योगधर्मिणम् ॥ ४४॥
वैशम्पायन उवाच ।
ततः प्रसन्नवदनो विस्मयोत्फुल्ललोचनः ।
मूर्घ्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥ ४५॥
नामगोत्रं ततः श्रुत्वा दीर्घायुर्लोकपूजितः ।
अथाकरोन्नमस्कारं प्रणतः शिरसा प्रभुम् ॥ ४६॥
मार्कण्डेय उवाच ।
इच्छेऽहं तत्त्वत्तो मायामिमां ज्ञातुं तवानघ ।
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥ ४७॥
किंसंज्ञः कश्च भगवाँल्लोके विज्ञायसेऽनघ ।
तर्कये त्वां महाभूतं न भूतमिह तिष्ठति ॥ ४८॥
श्रीभगवानुवाच ।
अहं नारायणो ब्रह्मा सम्भवः सर्वदेहिनाम् ।
सर्वभूतोद्भवकरः सर्वभूतविनाशनः ॥ ४९॥
अहमैन्द्रे पदे शक्र ऋतूनामपि वत्सरः ।
अहं युगे युगाक्षश्च युगस्यावर्त एव च ॥ ३.१०.५०॥
अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि च ।
भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम् ॥ ५१॥
अहं सहस्रशीर्षा द्यौर्यः पदैरभिसंवृतः ।
आदित्यो यज्ञपुरुषो देवो यज्ञमयो मखः ।
अहमग्निर्हव्यवाहे यादसां पतिरव्ययः ॥ ५२॥
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ।
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुच्यते ॥ ५३॥
ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ।
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः ॥ ५४॥
अहं कर्म क्रिया जीवः सर्वेषां धर्मदर्शनः ।
निष्क्रियः सर्वभूतेषु स्वात्मज्योतिः सनातनः ॥ ५५॥
प्रधानं पुरुषो देवोऽहमाद्यस्त्वक्षयोऽव्ययः ।
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥ ५६॥
अहं हयशिरो देवः क्षीरोदे यो महार्णवे ।
ऋतं सत्यं च परममहमेकः प्रजापतिः ॥ ५७॥
अहं साङ्ख्यमहं योगमहं तत्परमं पदम् ।
अहमिज्यो भवश्चाहमहं विद्याधिपः स्मृतः ॥ ५८॥
अहं ज्योतिरहं वायुरहं भूमिरहं नभः ।
अहमापः समुद्राश्च नक्षत्राणि दिशो दश ।
अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः ॥ ५९॥
क्षीरोदः सागरश्चाहं समुद्रो वडवामुखः ।
वह्निः संवर्तको भूत्या पिबंस्तोयमयं हविः ॥ ३.१०.६०॥
अहं पुराणं परमं तथैवेह परायणम् ।
अहं भूतस्य भव्यस्य वर्तमानस्य सम्भवः ॥ ६१॥
यत्किञ्चित्पश्यसे चैव यच्छृणोषि च किञ्चन ।
यच्चानुभवसे लोके तत् सर्वं मामकं स्मृतम् ॥ ६२॥
विश्वं सृष्टं मया पूर्वं सृजेयं चाद्य पश्य माम् ।
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् ॥ ६३॥।
तदेतदखिलं सर्वं मार्कण्डेयावधारय ।
शुश्रूषुर्मम धर्मेप्सुः कुक्षौ चर सुखी भव ॥ ६४॥
मम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह ।
ब्यक्तमव्यक्तयोगं मामवगच्छापराजितम् ॥ ६५॥
अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव सर्वशः ।
त्रिपदश्चैव परमस्त्रिवर्गार्थनिदर्शनः ॥ ६६॥
वैशम्पायन उवाच ।
एवमेतत् पुराणेषु वेदान्ते च महामुनिः ।
वक्त्रे व्याहृतवानाशु मार्कण्डेयं महामुनिम् ।
प्रवेशयामास ततो जठरं विश्वरूपधृक् ॥ ६७॥
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ।
रराम सुखमासाद्य शुश्रूषुर्हंसमव्ययम् ॥ ६८॥
तदक्षरं विविधमथाश्रितो वपु-
र्महार्णवे व्यपगतचन्द्रभास्करे ।
शनैश्चरन्प्रभुरपि हंससंज्ञितो-
ऽसृजज्जगद्विसृजति कालपर्यये ॥ ६९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे मार्कण्डेयकर्तृकभगवद्दर्शने दशमोऽध्यायः ॥ १०॥
३.११ एकादशोऽध्यायः
महापद्मोत्पत्तिः MahApadmotpattiH
परमात्मना भूतानां सृष्टिः, ब्रह्माणं प्रकटयितुं तस्य नाभ्या
महत् पद्मस्य प्रादुर्भावं
वैशम्पायन उवाच ।
आपवः स विभुर्भूत्वा कारयामास वै तपः ।
छादयित्वाऽऽत्मनो देहमात्मना कुम्भसम्भवः ॥ १॥
ततो महात्मातिबलो मतिं लोकस्य सर्जने ।
महता पञ्चभूतानां विश्वस्तो व्यचिन्तयत् ॥ २॥
तस्य चिन्तयतस्तत्र तपसा भावितात्मनः ।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥ ३॥
ईषत्सङ्क्षोभयामास सोऽर्णवं सलिले स्थितः ।
सोऽनन्तरोर्मिणा सूक्ष्ममथ च्छिद्रमभूत्तदा ॥ ४॥
तत्र शब्दगतिर्भूत्वा मारुतद्रवसम्भवः ।
स लब्ध्वाऽऽन्तरमक्षोभ्यो व्यवर्धत समीरणः ॥ ५॥
विवर्धता बलवता तेन संशोभितोऽर्णवः ।
अन्योन्यवेगाभिहता ममन्थुश्चोर्मयो भृशम् ॥ ६॥
महार्णवस्य क्षुब्धस्य तस्मिन् नम्भसि मथ्यति ।
कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरोऽर्चिमान् ॥ ७॥
तत्र संशोषयामास पावकः सलिलं बहु ।
क्षयाज्जलनिधेश्छिद्रमभवन्निःसृतं नभः ॥ ८॥
आत्मतेजोद्भवाः पुण्या आपोऽमृतरसोपमाः ।
आकाशं छिद्रसम्भूतं वायुराकाशसम्भवः ॥ ९॥
आज्यसङ्घर्षणोद्भूतं पावकं चाज्यसम्भवम् ।
दृष्ट्वा प्रीतियुतो देवो महाभूतादिभावनः ॥ १०॥
दृष्ट्वा भूतानि भगवाँल्लोकसृष्ट्यर्थतत्त्ववित् ।
ब्रह्मणो जन्म स हितं बहुरूपो विचिन्वति ॥ ११॥
चतुर्युगादिसङ्ख्यान्ते सहस्रयुगपर्यये ।
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ॥ १२॥
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुत्तमः ।
ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ॥ १३॥
तं योगवन्तं विज्ञेयं सम्पूर्णैश्वर्यविक्रमम् ।
देवो ब्रह्मणि विश्वे च नियोजयति योगवित् ॥ १४॥
ततस्तस्मिन् महातोये हविषो हरिरच्युतः ।
स्वपन् क्रीडंश्च विविधं मोदते चैष पावकिः ॥ १५॥
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ।
सहस्रपत्रं विरजो भास्कराभं हिरण्मयम् ॥ १६॥
हुताशनज्वलितशिखोज्ज्वलप्रभं
सुगन्धिनं शरदमलार्कतेजसम् ।
विराजते कमलमुदारवर्चसं
महात्मनस्तनुरुहचारुदर्शनम् ॥ १७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे महापद्मोत्पत्तौ एकादशोऽध्यायः ॥
३.१२ द्वादशोऽध्यायः
सर्वभूतोत्पत्तिः SarvabhUtotpattiH
नारायणस्य नाभिकमलस्य दलेषु समस्तानां लोकानां कल्पनं
वैशम्पायन उवाच ।
अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम् ॥
स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम् ॥ १॥
तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते ।
सर्वतेजोगुणमये पार्थिवैलक्षणैर्युते ॥ २॥
तच्च पद्मं पुराणज्ञाः पृथिवीरुहमुत्तमम् ॥
नारायणाङ्गसम्भूतं प्रवदन्ति महर्षयः ॥ ३॥
या तु पद्मासना देवी पृथिवीं ताँ प्रचक्षते ।
ये गर्भसाराङ्कुरतस्तान् दिव्यान् पर्वतान् विदुः ॥ ४॥
हिमवन्तं च मेरुं च नीलं निषधमेव च ।
कैलासं मुञ्जवन्तं च तथाद्रिं गन्धमादनम् ॥ ५॥
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च ॥
उदयं कन्दरं चैव विन्ध्यमस्तं च पर्वतम् ॥ ६॥
एते देवगणानां च सिद्धानां च महात्मनाम् ।
आश्रमाः पुण्यशीलानां सर्वकामयुताद्रयः ॥ ७॥
एतेषामन्तरो देशो जम्बूद्वीप इति स्मृतः ।
जम्बूद्वीपस्य सङ्ख्यानं याज्ञिया यत्र चक्रिरे ॥ ८॥
गर्भाद् यत् स्रवते तोयं देवामृतरसोपमम् ।
दिव्यतीर्थशतापाङ्ग्यस्ता दिव्याः सरितः स्मृताः ॥ ९॥
यान्येतानि तु पद्मस्य केसराणि समन्ततः ।
असङ्ख्याताः पृथिव्यां तु विश्वे ते धातुपर्वताः ॥ १०॥
यानि पद्मस्य पत्राणि भूरीण्यूर्ध्वं नराधिप ।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥ ११॥
यान्यधः पद्मपत्राणि वासार्थे तानि भागशः ।
दैत्यानामुरगाणां च पातालं तन्महात्मनाम् ॥ १२॥
तेषामधोगतं यत्तदुदकेत्यभिसंज्ञितम् ।
महापातककर्माणो मज्जन्ते यत्र मानवाः ॥ १३॥
पद्मस्यान्ते कुशं यत्तदेकार्णवजलं महत् ।
प्रोक्तास्ते दिक्षु सङ्घाताश्चत्वारो जलसागराः ॥ १४॥
ऋषेर्नारायणस्यायं महापुष्करसम्भवः ॥
प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसम्भवः ॥ १५॥
एतस्मात् कारणात् तज्ज्ञैः पुराणैः परमर्षिभिः ।
यज्ञियैर्वेददृष्टार्थैर्यज्ञे पद्मचिती कृतः ॥ १६॥
एवं भगवता पद्मे विश्वस्य परमो विधिः ।
पर्वतानां नदीनां च देशानां च विनिर्मितः ॥ १७॥
विभुस्तथैवाप्रतिमप्रभावः प्रभाकरो वै भगवान् महात्मा ।
स्वयं स्वयम्भूः शयनेऽसृजत् तदा जगन्मयं पद्मनिधिं महार्णवे ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ द्वादशोऽध्यायः ॥ १२॥
३.१३ त्रयोदशोऽध्यायः
मधुकैटभवरप्रदानम् MadhukaiTabhavarapradAnam
मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधं
वैशम्पायन उवाच ।
चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमसि सम्भूतो मधुर्नाम महासुरः ॥ १॥
मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधं
वैशम्पायन उवाच ।
चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमसि सम्भूतो मधुर्नाम महासुरः ॥ १॥
तस्यैव च सहायोऽन्यो भूतो रजसि कैटभः ।
तौ रजस्तमसाविष्टौ सम्भूतौ कामरूपिणौ ॥ २॥
एकार्णवजलं सर्वं क्षोभयन्तौ महासुरौ ।
कृष्णरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ ॥ ३॥
उभौ मदकटोदग्रौ केयूरवलयोज्ज्वलौ ।
महाविकृतताम्राक्षौ पीनोरस्कौ महाभुजौ ॥ ४॥
महच्छिरःसंहननौ जङ्गमाविव पर्वतौ ।
नीलमेघाभ्रसङ्काशावादित्यप्रतिमाननौ ॥ ५॥
विद्युदम्भोदताम्राभ्यां कराभ्यामतिभीषणौ ।
पादसञ्चारवेगाभ्यामुत्क्षिपन्ताविवार्णवम् ॥ ६॥
कम्पयन्ताविव हरिं शयानमरिसूदनम् ।
तौ तत्र विहरन्तौ स्म पुष्करे विश्वतोमुखम् ॥ ७॥
पश्यतां दीप्तवपुषं योगिनां श्रेष्ठमुत्तमम् ।
नारायणसमाज्ञप्तं सृजन्तमखिलाः प्रजाः ।
दैवतानि च विश्वानि मानसांश्च सुतानृषीन् ॥ ८॥
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ ।
दृप्तौ युयुत्सुकौ क्रुद्धौ रोषसंरक्तलोचनौ ॥ ९॥
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्मुखः ।
आवामगणयन् मोहादास्से त्वं विगतज्वरः ॥ १०॥
एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव ।
आवाभ्यामतिवीराभ्यां न शक्यं स्थातुमाहवे ॥ ११॥
कस्त्वं कश्चोद्भवस्तुभ्यं केन वासीह चोदितः ।
कः स्रष्टा कश्च वै गोप्ता केन नाम्नाभिधीयसे ॥ १२॥
ब्रह्मोवाच ।
यः क इत्युच्यते लोके ह्यविज्ञातः सहस्रशः ।
तत्सम्भवं योगवन्तं किं मां नाभ्यवगच्छथः ॥ १३॥
मधुकैटभावूचतुः
नावयोः परमं लोके किञ्चिदस्ति महामते ।
आवाभ्यां छाद्यते विश्वं तमसा रजसा तथा ॥ १४॥
रजस्तमोमयावावां यतीनां दुःखलक्षणौ ।
छलकौ धर्मशीलानां दुस्तरौ सर्वदेहिनाम् ॥ १५॥
आवाभ्यां मुह्यते लोक उच्छ्रिताभ्यां युगे युगे ।
आवामर्थश्च कामश्च यज्ञाः सर्वपरिग्रहाः ॥ १६॥
सुखं यत्र मुदो यत्र यत्र श्रीः सन्नतिर्नयः ।
एषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ॥ १७॥
ब्रह्मोवाच ।
यत् तद् योगवतां श्रेष्ठं यच्च पूर्वं मयार्चितम् ।
तत्समाधाय गुणवान्सत्त्वे चास्मि प्रतिष्ठितः ॥ १८॥
यत्परं योगयुक्तानामक्षरं सत्त्वमेव च ।
रजसस्तमसश्चैव यत्स्रष्टा जीवसम्भवः ॥ १९॥
यतो भूतानि जायन्ते सात्त्विकानीतराणि च ।
स एव युद्ध्वा समरे वशी वां शमयिष्यति ॥ २०॥
वैशम्पायन उवाच ।
ततः शयानं श्रीमन्तं बहुयोजनविस्तृतम् ।
पद्मनाभं हृषीकेशं प्रणम्यावोचतामुभौ ॥ २१॥
जानीवस्त्वां विश्वयोनिमेकं पुरुषसत्तमम् ।
तवोपासनहेत्वर्थमिदं नौ विद्धि कारणम् ॥ २२॥
अमोघदर्शनं सत्यं यतस्त्वां विदुरीश्वरम् ।
ततस्त्वामभितो देव कङ्क्षावः प्रतिवीक्षितुम् ॥ २३॥
तदिच्छावो वरं दत्तं त्वया ह्यावामरिन्दम ।
अमोघं दर्शनं देव नमस्तेऽस्त्वजितञ्जय ॥ २४॥
श्रीभगवानुवाच ।
तानिच्छथो द्रुतं ब्रूतं वरानसुरसत्तमौ ।
दत्तायुषौ मया भूयस्त्वहो जीवितुमिच्छथः ॥ २५॥
तस्माद् यदेष वां यत्नस्तत्प्राप्नुतं महाबलौ ।
वध्यौ भवन्तौ तु स्यातां तावित्येवाब्रवीद्धरिः ।
उभावपि महात्मानावूर्जितौ क्षतवर्जितौ ॥ २६॥
मधुकैटभावूचतुः
यस्मिन्न कश्चिन्मृतवांस्तस्मिन्देशे विभो वधम् ।
इच्छावः पुत्रतां यातुं तव चैव सुराधिप ॥ २७॥
श्रीभगवानुवाच ।
बाढं सुतौ मे प्रवरौ भविष्ये कल्पसम्भवे ।
भविष्यथो न सन्देहः सत्यमेतद् ब्रवीमि वाम् ॥ २८॥
वैशम्पायन उवाच ।
वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरोत्तमो विभुः ।
रजस्तमोभ्यां भवभावनोपमौ ममन्थ तावूरुतले सुरारिहा ॥ २९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि मधुकैटभवरप्रदाने त्रयोदशोऽध्यायः ॥ १३॥
३.१४ चतुर्दशोऽध्यायः
ब्रह्मणो मानसपुत्राणामुत्पत्तिः BrahmaNo mAnasaputrANAmutpattiH
ब्रह्मणः त्रिभिः पुत्रैः परमपदस्य प्राप्तिः, तत्पश्चात् तेन मैथुनीसृष्ट्याः विस्तारं, दक्षकन्यानां सन्ततीनां वर्णनं
वैशम्पायन उवाच ।
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदां वरः ।
ऊर्ध्वबाहुर्महाबाहुस्तपो घोरं समाश्रितः ॥ १॥
ज्वलन्निव च तेजस्वी भाभिः स्वाभिस्तमोनुदः ।
बभासे सर्वधर्मज्ञः सहस्रांशुरिवांशुमान् ॥ २॥
अथान्यद्रूमास्थाय शम्भुर्नारायणोऽव्ययः ।
द्विधा कृत्वाऽऽत्मनाऽऽत्मानमचिन्त्यात्मा सनातनः।३॥
आजगाम महातेजा योगाचार्यो महायशाः ।
साङ्ख्याचार्यश्च मतिमान् कपिलो ब्राह्मणो वरः ॥ ४॥
देवर्षिभिस्तु तावेतौ ब्रह्म ब्रह्मविदां वरौ ।
उभावपि महात्मानावूर्जितौ क्षेत्रतत्परौ ॥ ५॥
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् ।
परावरविशेषज्ञौ पूजितौ परमर्षिभिः ॥ ६॥
बहुत्वाद् दृढपादश्च विश्वात्मा जगतः स्थितिः ।
ग्रामणीः सर्वलोकानां ब्रह्मा लोकगुरुर्वरः ॥ ७॥
तयोस्तद् वचनं श्रुत्वा तिस्रो व्याहृतयो जपन् ।
त्रीनिमान्कृतवाँल्लोकान्यथाह ब्राह्मणी श्रुतिः ॥ ८॥
पुत्रं भूसंज्ञकं चैव समुत्पादितवान् प्रभुः ।
ततोऽग्रे तद्गतस्नेहो ब्रह्मा मानसमव्ययम् ॥ ९॥
सोत्पन्नस्त्वग्रे ब्रह्माणमुवाच मानसः सुतः ।
करोमि किं ते साहाय्यं ब्रवीतु भगवानिति ॥ १०॥
ब्रह्मोवाच ।
य एष कपिलो नाम ब्रह्मा नारायणस्तथा ।
वदते वरदस्त्वां तु तत्कुरुष्व महामते ॥ ११॥
वैशम्पायन उवाच ।
ब्रह्मणोक्तस्तदा भूयः संशयं समुपस्थितः ।
शुश्रूषुरस्मि युवयोः किं कुर्मीति कृताञ्जलिः ॥ १२॥
परमेश्वरावूचतुः
यत् सत्यमक्षरं ब्रह्म ह्यष्टादशनिधं स्मृतम् ।
यत् सत्यममृतं चैव परं तत् समनुस्मर ॥ १३॥
वैशम्पायन उवाच ।
एतद् वचो निशम्याथ स ययौ दिशमुत्तराम् ।
गत्वा च तत्र ब्रह्मत्वमगज्ज्ञानचक्षुषा ॥ १४॥
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत् प्रभुः ।
सङ्कल्पयित्वा च पुनर्मनसैव महामनाः ॥ १५॥
ततः सोऽप्यब्रवीद् वाक्यं किं कुर्मीति पितामहम् ।
पितामहसमाज्ञप्तो ब्रह्माणौ समुपस्थितः ॥ १६॥
ब्रह्मभ्यां सहितः सोऽथ भूयो भागवतीं गतः ।
प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ॥ १७॥
तस्मिन्नपि गते पुत्रं तृतीयमसृजत् प्रभुः ।
मोक्षोपायेति कुशलं भूर्भुवर्नाम तं विभुः ॥ १८॥
आससाद स तद्धर्मं तयोरेवागमद् गतिम् ।
एवं पुत्रास्त्रयोऽप्येते उक्ताः शम्भोर्महात्मनः ॥ १९॥
तान् गृहीत्वा सुतांस्तस्य प्रययौ स्वां गतिं तथा ।
नारायणोऽथ भगवान् कपिलश्च यतीश्वरः ॥ २०॥
यं कालं तौ गतौ मुक्तौ ब्रह्मा तत्कालमेव तु ।
तेपे घोरतरं भूयः स तपः संशितव्रतः ॥ २१॥
न रराम ततो ब्रह्मा प्रभुरेकस्तपश्चरन् ।
शरीरार्द्धमथो भार्यां समुत्पादितवाञ्छुभाम् ॥ २२॥
तपसा तेजसा चैव वर्चसा नियमेन च ।
सदृशीमात्मनो भार्यां समर्थां लोकसर्जने ॥ २३॥
तया सह ततस्तत्र रेमे ब्रह्मा तपोमयः ।
सृजन् प्रजापतीन् सर्वान्सागरान् सरितस्तथा ॥ २४॥
ततोऽसृजद् वै त्रिपदां गायत्रीं वेदमातरम् ।
अकरोच्चैव चत्वारो वेदान् गायत्रिसम्भवान् ॥ २५॥
आत्मार्थे चासृजत् पुत्राँल्लोककर्तॄन् पितामहः ।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥ २६॥
विश्वेशं प्रथमं नाम महातपसमात्मजम् ।
सर्वाश्रमतमं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥ २७॥
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम् ॥ २८॥
अथर्वभूता इत्येते ख्याता ब्रह्ममहर्षयः ।
त्रयोदशसुतानां तु ये वंशा वै महर्षिणाम् ॥ २९॥
अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ।
प्रबोधा सुरसा क्रोधा विनता कद्रुरेव च ॥ ३०॥
दक्षस्यैता दुहितरः कन्या द्वादश भारत ।
नक्षत्राणि च भद्रं ते सप्तविंशतिरूर्जिताः ॥ ३१॥
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः प्रभुः ।
तस्मै कन्या द्वादशेमा दक्षस्ता अन्वमन्यत ॥ ३२॥
नक्षत्राख्यानि सोमाय वसवे दत्तवानृषिः ।
रोहिण्यादीनि सर्वाणि पुण्यानि जनमेजय ॥ ३३॥
लक्ष्मीः कीर्तिस्तथा साध्या विश्वा कामानुगा शुभा ।
देवी मरुत्वती चैव ब्रह्मणा निर्मिता पुरा ॥ ३४॥
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय भारत ।
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टधर्मणा ॥ ३५॥
या रूपार्द्धमयी पत्नी ब्रह्मणः कामरूपिणी ।
सुरभिः सा तु गौर्भूत्वा ब्रह्माणं समुपस्थिता ॥ ३६॥
ततस्तामगमद् ब्रह्मा मैथुने लोकपूजितः ।
लोकसर्जनहेतुज्ञो गवामर्थाय भारत ॥ ३७॥
जज्ञे चैकादश सुतान् विपुलान् धर्मसंहितान् ।
रक्तसन्ध्याभ्रसदृशान् दहनोपमतेजसः ॥ ३८॥
ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् ।
रोदनाद् रावणाच्चैव ततो रुद्रा इति स्मृताः ॥ ३९॥
निरृतिश्चैव सर्पश्च तृतीयो ह्यज एकपात् ।
मृगव्याधः पिनाकी च दहनोऽथेश्वरश्च वै ॥ ४०॥
अहिर्बुध्न्यश्च भगवान् कपाली चापराजितः ।
सेनानीश्च महातेजा रुद्रा एकादश स्मृताः ४१॥
तस्यामेव सुरभ्यां तु जज्ञे गोवृषभस्तथा ।
अकृष्टाश्च तथा माषाः सिकताः प्रश्रयोऽक्षताः ॥ ४२॥
अजाश्चैव तु वत्साश्च तथैवामृतमुत्तमम् ।
ओषध्यः प्रवरा याश्च सुरभ्यां ताः समुत्थिताः ॥ ४३॥
धर्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत ।
भवं च प्रभवं चैवमीशानं सुरभी तथा ॥ ४४॥
अरुन्धत्यारुणी चैव विश्वावसुबलध्रुवौ ।
महिषश्च तनूजश्च विज्ञातमनसावपि ॥ ४५॥
मत्सरश्च विभूतिश्च सर्वाः सुरभिसूनवः ।
सुपर्वतं विषं नागं साध्या लोकनमस्कृता ॥ ४६॥
वासवानुगता देवी जनयामास वै सुतान् ।
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् ॥ ४७॥
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ।
पञ्चमं पर्वतं चैव योगेन्द्रं तदनन्तरम् ॥ ४८॥
सप्तमं च ततो वायुमष्टमं निरृतिं वसुम् ।
धर्मस्यापत्यमित्येवं सुरभ्यां समजायत ॥ ४९॥
विश्वेदेवास्तु विश्वायां धर्माज्जाता इति श्रुतिः ।
सुधर्मा च महाबाहुः शङ्खपाच्च महाबलः ॥ ५०॥
दक्षश्चैव महाबाहुर्वपुष्मांश्च तथैव च ।
चाक्षुषस्य मनोरेते तथानन्तमहीरणौ ॥ ५१॥
विश्वावसुसुपर्वाणौ विष्टरश्च महायशाः ।
रुरुश्च ऋषिपुत्रो वै भास्करप्रतिमद्युतिः ॥ ५२॥
विश्वेदेवान्देवमाता विश्वेशाञ्जनयत्सुतान् ।
मरुत्वती मरुत्वत्तो देवानजनयच्छुभान् ॥ ५३॥
अग्निं चक्षुर्हविर्ज्योतिः सावित्रं मित्रमेव च ।
अमरं शरवृष्टिं च सङ्क्षयं च महाभुजम् ॥ ५४॥
विरजं चैव शुक्रं च विश्वावसुविभावसू ।
अश्मन्तं चित्ररश्मिं च तथा निष्कुपितं नृपम् ॥ ५५॥
हूयमानं च हूतिं च चारित्रं बहुपन्नगम् ।
बृहन्तं च बृहद्रूपं तथैव परतापनम् ॥ ५६॥
मरुत्वत्यां पुरा धर्माज्जज्ञे पुत्रद्वयं शुभम् ।
अदित्यां जज्ञिरे राजन्नादित्याः कश्यपादथ ।
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः ॥ ५७॥
पूषा मित्रश्च वरदो मनुः पर्जन्य एव च ।
इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः ॥ ५८॥
आदित्यस्य सरस्वत्यां जज्ञे पुत्रद्वयं शुभम् ।
रूपश्रेष्ठं बलश्रेष्ठं त्रिदिवे रूपिणां वरम् ॥ ५९॥
दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान् व्यजायत ।
काला नु कालकेयांश्च ह्यसुरान्राक्षसांस्तथा ॥ ६०॥
दनायुषायास्तनया व्याधयश्चाधयस्तथा ।
सिंहिका ग्रहमाता च गन्धर्वजननी मुनिः ॥ ६१॥
प्रबोधाप्सरसां माता सुरसायां सरीसृपाः ।
क्रोधायाः सर्वभूतानि पिशाचाश्चैव भारत ॥ ६२॥
तथा यक्षगणाश्चैव गुह्यकाश्च विशाम्पते ।
चतुष्पदानि सर्वाणि ऋते गावस्तु सौरभाः ॥ ६३॥
अरुणो गरुडश्चैव विनतायां व्यजायत ।
महीधरान् सर्पनागान् देवी कद्रूर्व्यजायत ॥ ६४॥
एवं विवृद्धिमगमन् विश्वेलोकाः परस्परम् ।
तदा पौष्करके राजन् प्रादुर्भावे महात्मनः ॥ ६५॥
पुराणे पौष्करं चैव मया द्वैपायनाच्छ्रुतम् ।
कथितं तेन पूर्वेण यत् कृतं परमर्षिभिः ॥ ६६॥
यश्चेदमग्र्यं प्रथमं पुराणं
सदाप्रमत्तः पठते महात्मा ।
अवाप्य कामानिह वीतशोकः
परत्र स स्वर्गफलानि भुङ्क्ते ॥ ६७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ चतुर्दशोऽध्यायः ॥ १४॥
३.१५ पञ्चदशोऽध्यायः
जनमजयप्रश्नः JanamajayaprashnaH
जनमेजयेन महाभारतवर्णितस्य चरित्रस्य प्रशंसा
जनमेजय उवाच ।
श्रुतं नः परमं ब्रह्मन् स्ववंशचरितं महत् ।
दिव्यमन्योन्यसम्भूतं मानितं बहुभिर्गुणैः ॥ १॥
छन्दोभिर्वृत्तसञ्जातैः समासैश्च सविस्तरैः ।
लघुभिर्मधुराभाषैर्ग्रथितं पदविग्रहैः ॥ २॥
त्रिवर्गेणाभिसम्पन्नं धर्मेणार्थेन भोगिनाम् ।
कामेन बहुरूपेण शरीरान्तर्गतेन च ॥ ३॥
ब्राह्मणानां प्रभावैश्च योधानां च पराक्रमैः ।
वैरनिर्यातनैश्चैव प्रतिज्ञानां च पारगैः ॥ ४॥
रिपुस्तवसुसम्पन्नैर्नानुबन्धः प्रचोदितः ।
वंशयोर्निर्विनाशाय नृपेण द्विज विग्रहात् ॥ ५॥
ये च तस्मिन् महारौद्रे सङ्ग्रामे निहता नृपाः ।
तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे ॥ ६॥
कौरवः प्रथितो राजा भगवच्छासनानुगः ।
धर्मश्च बहुधा प्रोक्तस्त्रयाणां वर्णसम्पदाम् ।
शूराणामपि विख्यातः स्वर्गहेतुर्द्विजर्षभ ॥ ७॥
अनुग्रहार्थं भूतानां नोत्सेकाय कथञ्चन ।
चतुर्णां वर्णसंज्ञानां पृयक्पृथगनेकधा ॥ ८॥
गर्भवासं पतन्तश्च भूतानां सम्प्रबोधिताः ।
पृच्छन्तो देवसञ्चारं क्षीणे पुण्ये च कर्मणि ॥ ९॥
दाने यश्चापि संयोगः स चापि बहुधा कृतः ।
द्वयोः संयोगविहितं मधु वाग्वचनं तयोः ॥ १०॥
न तच्छक्यं मयाऽऽख्यातुं भारताध्ययनं महत् ।
एकाहेन महान् ब्रह्मन्नपि दिव्येन चक्षुषा ॥ ११॥
ब्रह्मणोऽह्नस्तु विस्तारं सङ्क्षेपं च सुसङ्ग्रहम् ।
श्रोतुमिच्छामि भगवन्महत्कौतूहलं हि मे ॥ १२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे जनमेजयवाक्ये पञ्चदशोऽध्यायः ॥ १५॥
३.१६ षोडशोऽध्यायः
साङ्ख्ययोगविचारः SA~NkhyayogavichAraH
सृष्टिविषयकवर्णनस्य प्रसङ्गे ज्ञानस्य योगस्य च विचारः
वैशम्पायन उवाच ।
शृणुष्वैकमना राजन् पञ्चेन्द्रियसमाहितः ।
कथां कथयतो राजन् निर्विकारेण चेतसा ॥ १॥
ब्रह्मसम्बन्धसम्बद्धमबद्धं कर्मभिर्नृप ।
पुरस्ताद् ब्रह्म सम्पन्नं ब्रह्मणो यददक्षिणम् ॥ २॥
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
निष्कलः पुरुषस्तस्मात् सम्बभूवात्मयोनिजः ॥ ३॥
दिव्यो दिव्येन वपुषा सर्वभूतपतिर्विभुः ।
अचिन्त्यश्चाव्ययश्चैव युगानां प्रभवोऽव्ययः ॥ ४॥
अभूतश्चाप्यजातश्च सर्वत्र समतां गतः ।
अव्यक्तात् परमं यत् तन्नारायणविदो विदुः ॥ ५॥
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ६॥
असतश्च सतश्चैव विज्ञेयं तत्र कारणम् ।
अव्यक्तो व्यक्तरूपस्थश्चरन्नपि न दृश्यते ॥ ७॥
विकारपुरुषोऽब्यक्तो ह्यरूपी रूपमाश्रितः ।
चरत्यचिन्त्यः सर्वेषु गूढोऽग्निरिव दारुषु ॥ ८॥
भूतभव्योद्भवो नाथः परमेष्ठी प्रजापतिः ।
प्रभुः सर्वस्य लोकस्य नाम चास्येति तत्त्वतः ॥ ९॥
अपदात्तु पदो जातस्तस्मान्नारायणोऽभवत् ।
अव्यक्तो व्यक्तिमापन्नो ब्रह्मयोगेन कामतः ॥ ३.१६.१०॥
ब्रह्मभावे च तं विद्धि सशब्दं लब्धवान् प्रभुः ।
प्रभुः सर्वस्य लोकस्य स्थावरस्येतरस्य च ॥ ११॥
अहं त्विति स होवाच प्रजा स्रक्ष्यामि भारत ।
प्रभवः सर्वभूतानां यस्य तन्तुरिमाः प्रजाः ॥ १२॥
स्वभावाज्जायते सर्वं स्वभावाच्च तथाभवत् ।
अहङ्कारः स्वभावाच्च तथा सर्वमिदं जगत् ॥ १३॥
सर्वव्यापी निरालम्बो ह्यग्राह्योऽथ जयो ध्रुवः ।
एष ब्रह्ममयो ज्योतिर्ब्रह्मशब्देन शब्दितः ॥ १४॥
अव्यक्तो व्यक्तिमापन्नः पञ्चभिः क्रतुलक्षणैः ।
धारयन्ब्रह्मणो व्यक्तं विविधं चिन्तितं त्वरन् ॥ १५॥
अथ मूर्तिं समाधाय स्वभावाद् ब्रह्मचोदितः ।
ससर्ज सलिलं ब्रह्म येन सर्वमिदं ततम् ॥ १६॥
वायुं पूर्वमथो दृष्ट्वा यो धातुर्धातृसत्तमः ।
धरणाद्धातृशब्दं च लभते लोकसंज्ञितम् ॥ १७॥
तदेतद् वायुसम्भूतं कृत्स्नं जगदभूत् पुरा ।
एतद् देवैरतिक्रान्तं पूर्वमेव सरस्वति ॥ १८॥
पृथक्त्वं गमितं तोयं पृथिवीशब्दमिच्छता ।
घनत्वाच्च द्रवत्वाच्च निखिलेनोपलभ्यते ॥ १९॥
फलत्वात्सीदमाना च सलिले सलिलोद्भवा ।
व्याजहार शुभां वाणीं समन्तात्पूरयन्निव ॥ ३.१६.२०॥
ऊर्ध्वेऽहं स्थातुमिच्छामि संसीदाम्युद्धरस्व माम् ।
गम्भीरे तोयविवरे मूर्तिविक्षोभितान्तरम् ॥ २१॥
ततो मूर्तिधरा देवी सर्वभूतप्ररोहिणी ।
यथायोगेन सम्भूता सर्वत्र विषयैषिणी ॥ २२॥
श्रुत्वा च गदितं तस्या गिरं तां च सुभाषिताम् ।
वराहरूपमास्थाय निपपात महार्णवे ॥ २३॥
उद्धृत्य सोऽवनिं तोयात्कृत्वा कर्म सुदुष्करम् ।
समाधौ प्रलयं गत्वा प्रलीनो न च दृश्यते ॥ २४॥
यत्तद् ब्रह्ममयं ज्योतिराकाशमिति संज्ञितम् ।
तत्र ब्रह्मा समुद्भूतः सर्वभूतपितामहः ॥ २५॥
अद्यापि मनसा धात्रा धार्यते सर्वयोनिना ।
ज्ञानयोगेन सूक्ष्मेण प्रजानां हितकाम्यया ॥ २६॥
भित्त्वा तु पृथिवीमध्यमुपयाति समुद्भवम् ।
तपनस्तूर्ध्वमातिष्ठन् रश्मिभिः स हसन्निव ॥ २७॥
तस्य मण्डलमध्यात् तु निःसृतं सोममण्डलम् ।
स सनातनजो ब्रह्मा सौम्यं सोमत्वमन्वगात् ॥ २८॥
सोममण्डलपर्यन्तात् पवनः समजायत ।
तदक्षरमयं ज्योतिस्तेजोभिरभिवर्द्धयन् ॥ २९॥
स तु योगमयाज्ज्ञानात्स्वभावाद्ब्रह्मसम्भवात् ।
सृजते पुरुषं दिव्यं ब्रह्मयोनिं सनातनम् ॥ ३.१६.३०॥
द्रवं यत्सलिलं तस्य घनं यत्पृथिवी भवत् ।
छिद्रं यच्च तदाकाशं ज्योतिर्यच्चक्षुरेव तत् ॥ ३१॥
वायुना स्पन्दते चैनं सङ्घाताज्ज्योतिसम्भवः ।
पुरुषात्पुरुषो भावः पञ्चभूतमयो महान् ॥ ३२॥
भूतात्मा वै समे तस्मिंस्तस्मिन् देहे सनातनः ।
गुहायां निहितं ज्ञानं योगाद् यज्ज्ञः सनातनः ॥ ३३॥
तपनस्यैव तद्रूपं योऽग्निर्वसति देहिनाम् ।
शरीरे नित्यशो युक्तं धातुभिः सह सङ्गतः ॥ ३४॥
स्वभावात्क्षयमायाति स्वभावाद् भयमेति च ।
स्वभावाद्विन्दते शान्तिं स्वभावाच्चन विन्दति ॥ ३५॥
इन्द्रियैरतिमूढात्मा मोहितो ब्रह्मणः पदे ।
सम्भवं निधनं चैव कर्मभिः प्रतिपद्यते ॥ ३६॥
यावत् तद् ब्रह्मविषयं नोपयाति ह तत्त्वतः ।
तावत् संसारमाप्नोति सम्भवांश्च पुनः पुनः ॥ ३७॥
इन्द्रियैर्व्यतिरिक्तो वै यदा भवति योगवित् ।
तदा ब्रह्मत्वमापन्नः प्रलयाग्रे प्रतिष्ठति ॥ ३८॥
प्रतिषिद्धममुं लोकं ब्रह्मवान् स भवत्युत ।
न च रागव्ययैर्याति न च सज्जति कर्हिचित् ॥ ३९॥
आगतिं च गतिं चैव निधनं सम्भवं तथा ।
भूतेभ्यो वेत्ति सर्वज्ञः परां सिद्धिमुपागतः ॥ ३.१६.४०॥
आत्मनो गतयश्चैव तथा विषयगोचरम् ।
पुरस्तात्कर्मनिर्वृत्तेः पदे ब्रह्मा प्रतिष्ठितः ॥ ४१॥
चित्तग्रन्थींश्च मनसा रुन्ध्यात्पूर्वाश्च यातनाः ।
भिद्यमानाः प्रलोभेन वायुभिन्नमिवार्णवम् ॥ ४२॥
पच्यते हृदयं नीलं परेभ्यो ज्ञानचक्षुषा ।
ब्रह्मप्रोक्तमिवात्मा वै विमुक्तो देहबन्धनात् ॥ ४३॥
सृजेदपि परं लोकं संहरेदपि विद्यया ।
तेजोमूर्तिरिवाविद्धमिह लोकं च संसृजेत् ॥ ४४॥
तिर्यग्योनौ गतांश्चैव कर्मभिर्नियमोपमैः ।
तान्यपि प्रतिमुच्येत ब्रह्मयुक्तेन चेतसा ॥ ४५॥
अक्षरं च क्षरं चैव योगकर्माभिविद्यते ।
न क्षरं विद्यते तत्र यद् ब्रह्म कर्मभिर्ध्रुवम् ॥ ४६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे षोडशोऽध्यायः ॥ १६॥
३.१७ सप्तदशोऽध्यायः
कर्मफलपरिच्छेदाय योगवर्णनम् KarmaphalaparichChedAya yogavarNanam
मैनाकस्य स्थितिः, मेरुपृष्ठे परमात्मतः ब्रह्मणः प्राकट्यं, मेरोः विशालत्वं, ब्रह्मणा सृष्टिः, ब्रह्मस्य एवं ब्रह्मणः स्वरूपस्य वर्णनं, गङ्गायाः प्रादुर्भावः, सोमस्य उत्पत्तिः, धर्मस्य पादाः, योगःसाधना, ऐश्वर्यात् हानिः, वेदानां प्राकट्यं, यज्ञपुरुषस्य वर्णनं, योगवेत्तोः महिमा, चित्तस्य उपलब्ध्यां कारणं, मोक्षसम्बन्धि कर्मकरणस्य विधानं, कर्मफलत्यागात् मुक्तिः
वैशम्पायन उवाच ।
पृथिव्यां यत् कृतं छिद्रं तपनेन विवर्धता ।
तस्मिन्न्यस्तोऽथ मैनाकः स्वभावविहितोऽचलः ॥ १॥
पर्वभिः पर्वतत्वं च लभते नाम संशितम् ।
अचलादचलत्वं च स्वभावान्मेरुरेव सः ॥ २॥
तस्य पृष्ठे सुविस्तीर्णे नगस्य सुमहर्द्धिमान् ।
तस्मिंस्तु पुरुषो व्यक्तो वसति ज्योतिसम्भवः ।
विहितश्च स्वभावेन तेनैव परमात्मना ॥ ३॥
यत्तद् ब्रह्ममयं तेजो निहितं शिरसोऽन्तरे ।
तस्य ज्योतिर्मयं रूपं दान्तं पुरुषविग्रहम् ॥ ४॥
वदनादभिनिष्क्रान्तं ज्वलन्तमिव तेजसा ।
चतुर्भिर्वदनैर्युक्तं चतुर्भिश्च द्विजोत्तमैः ॥ ५॥
वक्त्रं व्रह्म समुद्भूतं ब्रह्मा ब्राह्मणपुङ्गवः ।
तदेवं तन्महद्भूतं पुनर्भावत्वमागतम् ॥ ६॥
उद्धृता पृथिवी देवी पुरस्तात्सलिलाशयात् ।
ब्रह्मत्वं ब्रह्मणः स्थानादलोको लोकतां गतः ॥ ७॥
पदसन्धौ ब्रह्मलोकं शृङ्गं मेरोस्तदाभवत् ।
उच्छ्रितं योजनशतं सहस्रशतमेव च ॥ ८॥
एवमेव च विस्तारं चतुर्भिर्गुणितं गुणैः ।
अथवा नैव सङ्ख्यातुं शक्यं भूतेन केनचित् ।
समाः सहस्रैर्बहुभिरपि दिव्येन तेजसा ॥ ९॥
चतुर्भिः पार्श्वविस्तारैः शिलाभिरभिसंवृतैः ।
नगस्य यस्य राजेन्द्र विस्तारैः शतयोजनैः ॥ ३.१७.१०॥
कोटिकोटीशतगुणैर्गुणितं ब्रह्मवादिभिः ।
योगयुक्तैः सदा सिद्धैर्नित्यं ब्रह्मपरायणैः ॥ ११॥
मरुद्भिः सह देवेन्द्रै रुद्रैर्वसुभिरेव च ।
आदित्यैर्विश्वसहितै ररक्ष वसुधाधिपान् ॥ १२॥
ररक्ष पृथिवीं चैव भगवान् विष्णुना सह ।
विवस्वद्वरुणाभ्यां च सङ्घातं गमितं नृप ॥ १३॥
तेन ब्राह्मेण वपुषा ब्रह्मप्राप्तेन भारत ।
यत्तद् विष्णुमयं तेजः सर्वत्र समतां गतम् ॥ १४॥
यत्तद् ब्रह्मेति वै प्रोक्तं ब्राह्मणैर्वेदपारगैः ।
नियमैर्बहुभिः प्राप्तैः सत्यव्रतपरायणैः ॥ १५॥
एवमेते त्रयो लोका ब्राह्मेऽहनि समाहिताः ।
अहनि ब्रह्म चाव्यक्तं व्यक्तं प्राणे प्रतिष्ठितम् ॥ १६॥
ब्रह्मणो नियतं कर्म प्रभावेण प्रचोदितम् ।
प्रवर्तमानं भावेन शश्वदच्छलवादिनाम् ॥ १७॥
एतद्धितमिति प्रोक्तं ब्राह्मणैर्वेदपारगैः ।
यदेकं ब्रह्मणः पादं दिष्टत्वं गमितं पदम् ॥ १८॥
बहुत्वाद् विप्रभावानां विश्वशब्दः प्रयुज्यते ।
ब्राह्मणैर्ब्रह्म भूतात्मा सत्यव्रतपरायणैः ॥ १९॥
विश्वरूपं मनोरूपं बुद्धिरूपं च मानयन् ।
एवं द्वन्द्वं स भगवान् प्रथमं मिथुनं सृजत् ॥ ३.१७.२०॥
स एव भगवान् विश्वो देव्या सह सनातनः ।
विधाय विपुलान्भोगान्ब्रह्मा चरति सानुगः ॥ २१॥
स एष भगवान् ब्रह्मा नित्यं ब्रह्मविदां वरः ।
निर्वाणपदगन्तॄणामकिञ्चनपथैषिणाम् ॥ २२॥
सोमात्सोमः समुत्पन्नो धारासलिलविग्रहात् ।
ययाभिषिक्तो भूतानामाधिपत्ये महेश्वरः ॥ २३॥
अभिषिच्य च भूतेशं कृत्वा कर्म स्वभावतः ।
नदति स्म तदा नादं तेन सा ह्युच्यते नदी ॥ २४॥
सा ब्रह्मलोकं सम्भाव्य अभिभूय सहस्रधा ।
गां गता गगनाद् देवी सप्तधा प्रससार च ॥ २५॥
सहस्रधा च राजेन्द्र बहुधा च पुनः पुनः ।
इमं लोकममुं चैव भावयन् क्षरसम्भवम् ॥ २६॥
ततो भूतानि रोहन्ति महाभूतफलानि च ।
ततः सर्वे क्रियारम्भाः प्रवर्तन्ते मनीषिणाम् ॥ २७॥
चतुर्भिर्वदनैस्तस्य मुखपद्माद् विनिःसृता ।
तदाक्षरमयी सिद्धिर्दिशत्वं समुपागता ॥ २८॥
तस्य ज्ञानमयं पुण्यं चतुष्पादं सनातनम् ।
पतित्वेनाभवद् देवो ब्रह्मा चात्र पितामहः ॥ २९॥
पादा धर्मस्य चत्वारो यैरिदं धार्यते जगत् ।
ब्रह्मचर्येण व्यक्तेन गृहस्थेन च पावने ॥ ३.१७.३०॥
गुरुभावेन वाक्येन गुह्यगामिनगामिना ।
इत्येते धर्मपादाः स्युः स्वर्गहेतोः प्रचोदिताः ॥ ३१॥
न्यायाद् धर्मेण गुह्येन सोमो वर्धति मण्डले ।
ब्रह्मणो ब्रह्मचरणाद् वेदा वर्तन्ति शाश्वताः ॥ ३२॥
गृहस्थामभि वाक्येन तृप्यन्ति पितरस्तथा ।
ऋषयोऽपि च धर्मेण नगस्य शिरसि स्थिताः ॥ ३३॥
नगस्य तस्य सम्पश्य मेरोः शिखरमुत्तमम् ।
पद्भ्यां सम्पीड्य वृषणावृषिभिस्तैर्विचार्यते ॥ ३४॥
ग्रीवां निगृह्य पृष्ठं च विनाम्य प्रहसन्निव ।
नाभिदेशे करौ न्यस्य सर्वशोऽङ्गानि सङ्क्षिपन् ॥ ३५॥
मूर्ध्नि ब्रह्म समुत्क्षिप्य मनसापि पितामहः ।
असृजन्मनसा विष्णुं योगाद् योगेश्वरस्य च ॥ ३६॥
व्यतिरिक्तेन्द्रियो विष्णुर्बिम्बाद्बिम्बमिवोद्धृतः ।
तेजोमूर्तिधरो देवो नभसीन्दुरिवोदितः ॥ ३७॥
रराज ब्रह्मयोगेन सहस्रांशुरिवापरः ।
विराजन्नभसो मध्ये प्रभाभिरतुलं प्रभुः ॥ ३८॥
नोपलभ्यति मूढात्मा प्रत्यक्षं ब्रह्म शाश्वतम् ।
ललाटमध्ये तिष्ठन्तं द्विधाभूतं क्रियां प्रतिम् ॥ ३९॥
ज्योतिश्चक्षुषि सम्बद्धं बिम्बं भास्करसोमयोः ।
बुद्ध्या पूर्वं तु पश्यन्ति अध्यात्मविषये रताः ॥ ३.१७.४०॥
ब्राह्मणा वेदविद्वांसः सत्यव्रतपरायणाः ।
नेतरे जातु पश्यन्ति अध्यात्मं नावबुध्यते ॥ ४१॥
हिंसायोगैरयोगात्मा सर्वप्राणचरैर्नृप ।
भूतयो भुवि भूतेशो मोहप्राप्तेन चेतसा ॥ ४२॥
कर्मभिः कुत्सितैरन्यैः सर्वप्राणिवधैषिणाम् ।
नराणां योगमाधाय स्वेषु मात्रेषु भारत ॥ ४३॥
समाहितमना ब्रह्मन् मोक्षप्राप्तेन हेतुना ।
चन्द्रमण्डलसंस्थानाज्ज्योतिश्चान्द्रं महत् तदा ॥ ४४॥
प्रविश्य हृदयं क्षिप्रं गायत्र्या नयनान्तरे ।
गर्भस्य सम्भवो यश्च चतुर्धा पुरुषात्मकः ॥ ४५॥
ब्रह्मतेजोमयोऽव्यक्तः शाश्वतोऽथ धुवोऽव्ययः ।
न चेन्द्रियगुणैर्युक्तो युक्तस्तेजोगुणेन च ॥ ४६॥
चन्द्रांशुविमलप्रख्यो भ्राजिष्णुर्वर्णसंस्थितः ।
नेत्राभ्यां जनयद् देवो ऋग्वेदं यजुषा सह ॥ ४७॥
सामवेदं च जिह्वाग्रादथर्वाणं च मूर्धतः ।
जातमात्रास्तु ते वेदाः क्षेत्रं विन्दन्ति तत्त्वतः ॥ ४८॥
तेन वेदत्वमापन्ना यस्माद् विन्दन्ति तत्पदम् ।
ते सृजन्ति तदा वेदा ब्रह्म पूर्वं सनातनम् ॥ ४९॥
पुरुषं दिव्यरूपाभं स्वैः स्वैर्भावैर्मनोभवैः ।
अथर्वणस्तु यो योगः शीर्षं यज्ञस्य तत् स्मृतम् ॥ ३.१७.५०॥
ग्रीवाबाह्वन्तरं चैव ऋग्भागः स भवेत् ततः ।
हृदयं चैव पार्श्वं च सामभागस्तु निर्मितः ॥ ५१॥
बस्तिशीर्षं कटीदेशं जङ्घोरुचरणैः सह ।
एवमेष यजुर्भागः सङ्घातो यज्ञकल्पितः ।
पुरुषो दिव्यरूपाभः सम्भूतो ह्यमरात्पदात् ॥ ५२॥
स हि वेदमयो यज्ञः सर्वभूतसुखावहः ।
उभयोर्लोकयोस्तात हिंसावर्ज्यः सनातनः ॥ ५३॥
योगारम्भं कर्मसाध्यं ब्रह्मचर्यं सनातनम् ।
प्रभवः सर्वभूतानां यो विन्दति स वेदवित् ॥ ५४॥
स सिद्धः प्रोच्यते लोके सिद्धिरेव न संशयः ।
निर्मुक्तैः सर्वकर्मभ्यो मुनिभिर्वेदपारगैः ॥ ५५॥
वैष्णवं यज्ञमित्येवं ब्रुवते वेदपारगाः ।
ब्राह्मणा नियमश्रान्ता वेदोपनिषदे पदे ॥ ५६॥
जनमेजय उवाच ।
चेतसस्तूपलम्भे हि मनोग्राह्यस्य कामतः ।
कारणं श्रोतुमिच्छामि यथा त्वं मन्यसे मुने ॥ ५७॥
वैशम्पायन उवाच ।
न ह्यस्य कारणं किञ्चिद् बाह्यं भवति भारत ।
अन्तर्गतं कारणं तु शारीरं मानसं नृप ॥ ५८॥
येन वेद्यं विदुर्मर्त्या ब्राह्मणाः संशितव्रताः ।
अवेद्यमपि वेद्यं च शक्यं वेत्तुं न कर्मणा ॥ ५९॥
ब्राह्मणेन विनीतेन सदा ब्रह्मनिषेविणा ।
सदा विदिततत्त्वेन सिद्धिहेतोर्महीपते ॥ ३.१७.६०॥
सदा चैव शुचिर्भूत्वा नियतो ब्रह्मकर्मणा ।
उपतिष्ठेत स गुरुं बद्धाञ्जलिपुटो द्विजः ॥ ६१॥
सायं प्रातश्च तत्त्वज्ञो मोक्षकर्माणि कारयेत् ।
विनीतो ब्रह्मभावेन समाहितमतिर्मुनिः ॥ ६२॥
सम्प्रपद्येत मनसा वैष्णवं पदमुत्तमम् ।
ध्यायन्नेव प्रसीदेत समाहितमतिर्द्विजः ॥ ६३॥
गच्छते परमं ब्रह्म निर्विकारेण चेतसा ।
अपुनर्भवभावज्ञो निर्ममो भावबन्धनात् ॥ ६४॥
तदेवाक्षरमित्याहुर्यत् तद् ब्रह्म सनातनम् ।
तर्हि तत्कर्मयोगेन विद्यायोगेन दर्शितम् ॥ ६५॥
ब्राह्मणानां विनीतानां वैष्णवे पदसञ्चये ।
सर्वद्रव्यातिरिक्तानां कामयोगविगर्हिणाम् ॥ ६६॥
अपुनर्भाविनां लोकाः कर्मयोगप्रतिष्ठिताः ।
अनादानेन मनसा राजन् कर्मणि कर्मणि ॥ ६७॥
आदानाद् बध्यते जन्तुर्निरादानात् प्रमुच्यते ।
ब्राह्मणेभ्यः क्रियावाप्तिर्जन्तोः पूर्वाज्जनाधिप ॥ ६८॥
मुक्तश्चेन्द्रियबन्धेन प्राप्तश्च परमं पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम् ॥ ६९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सप्तदशोऽध्यायः ॥ १७॥
३.१८ अष्टादशोऽध्यायः
योगोपसर्गकथनम् Yogopasargakathanam
योगस्य उपसर्गाः, योगिनः विष्णुरूपेण स्थितिः, कर्मलयात् मुक्तिः, सकामकर्मिणां धूममार्गेण गतिः पुनरावृत्ति च, ज्ञानिनं योगीं च तत्त्वस्य साक्षात्कारं, ब्रह्मयुगस्य वर्णनं
जनमेजय उवाच ।
उपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम् ।
सिद्धिं सिद्धिगुणांश्चैव श्रोतुमिच्छामि तत्त्वतः ॥ १॥
वैशम्पायन उवाच ।
शृणु विस्तरतः सर्वं यथा पृच्छसि मेधया ।
उपपन्नेन मनसा ब्रह्मादीनामनेकधा ॥ २॥
पञ्चसिद्धिगुणांस्त्यक्त्वा पश्यतो ब्रह्मणो नृप ।
योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः ॥ ३॥
ब्रह्मणश्चिन्तयानस्य ब्रह्मयज्ञं सनातनम् ।
बहुरूपमनैश्वर्यात् प्रवर्तति निरोधनम् ॥ ४॥
पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत ।
कामक्रोधस्य लोभस्य सन्निरुद्धस्य मेधया ॥ ५॥
तेजसा मूर्ध्नि चाधाय धूमो दोधूयते महान् ।
नीललोहितवर्णाभैः पीतैः श्वेतैश्च धातुभिः ॥ ६॥
माञ्जिष्ठरागवर्णाभैः कपोतसदृशैस्तथा ।
शुद्धवैदूर्यवर्णाभैः पद्मरागसमप्रभैः ॥ ७॥
स्फाटिकैर्मणिवर्णाभैनागेन्द्रसदृशैस्तथा ।
इन्द्रगोपकवर्णाभैश्चन्द्रांशुसलिलप्रभैः ॥ ८॥
बहुवर्णैः सुधूमौघैरिन्द्रायुधसमप्रभैः ।
सम्पतद्भिश्च युगपन्मेघैरिव समागतः ।
निरुध्यत इवाकाशं पक्षवद्भिरिवाद्रिभिः ॥ ९॥
ते धूमवर्णाः सङ्घाता घनाः सलिलधारिणः ।
निर्वेमुश्चैव तोयौघान् विविशुर्वसुधातले ॥ ३.१८.१०॥
मूर्ध्नि चैव महानग्निर्मानसो धूयते प्रभुः ।
युक्तः परमयोगेन शतशोऽर्चिभिरावृतः ॥ ११॥
तस्यार्चेर्विस्फुलिङ्गानां सहस्त्राणि शतानि च ।
विसस्रुः सर्वगात्रेभ्यो ज्वलन्निव युगाग्नयः ॥ १२॥
यावत्यो वर्षधारास्तु तावत्योऽर्च्योऽनलस्य च ।
स्रमेयुर्वारिधाराभिर्विपुले वसुधातले ॥ १३॥
वर्णाभ्यां युज्यमानस्य वायुर्दोधूयते महान् ।
दिव्यसिद्धगुणोद्भूतः सूक्ष्मप्राणविवर्धनः ॥ १४॥
वेगवान् भीमनिर्घोषो बलवान् प्राणगोचरः ।
तैरेव चाग्निसङ्घातैर्धातुभिः सह सङ्गतः ॥ १५॥
सहस्रशोऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् ।
अग्निर्वायुर्जलं भूमिर्धातवो ब्रह्मचोदिताः ॥ १६॥
समवायत्वमापन्ना बीजभूता महीपते ।
सङ्घातं ब्रह्मवेगेन धातवो गमिता नृप ॥ १७॥
यद् ब्रह्म चक्षुपोर्मध्ये स सूक्ष्मः पुरुषो विराट् ।
तयोरन्यान् बहून् सूक्ष्मान् ससृजे पुरुषोत्तमः ॥ १८॥
स एव भगवान्विष्णुर्व्यक्ताव्यक्तः सनातनः ।
आधारः सर्वविद्यानां प्रलये प्रलयान्तकृत् ॥ १९॥
तं मूर्ध्नि धातुभिर्नद्धं विशन्ति ब्रह्मचोदिताः ।
तेऽन्तराः पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः ॥ ३.१८.२०॥
अथ चेष्टितुमारब्धा मूर्तयो ब्रह्मसम्मिताः ।
भित्त्वा च धरणीं दैवीं प्रापद्यन्त दिशो दश ॥ २१॥
इत्येते पार्थवाः सर्वे ऋषयो ब्रह्मनिर्मिताः ।
तत्रैव प्रलयं याता भूमित्वमुपयान्ति च ॥ २२॥
कर्मक्षयाद् विमुच्यन्ते धातुभिः कर्मबन्धनैः ।
कर्मक्षयाद् विमुक्तत्वादिन्द्रियाणां च बन्धनात् ॥ २३॥
तामेव प्रकृतिं यान्ति अज्ञातां कर्मगोचरैः ।
क्षराद् धूमक्षयं चैव अग्निगर्भास्तपोमयाः ॥ २४॥
येन तन्तुरिवाच्छन्नो भावाभावः प्रवर्तते ।
धूमादभ्रास्तु सम्भूता अभ्रात्तोयं सुनिर्मलम् ॥ २५॥
जगती जलात्तु सम्भूता जगत्येव च यत्फलं
फलाद्रसस्तु सञ्जज्ञे रसात्प्राणस्तु देहिनाम् ॥ २६॥
रसश्च तन्मयो जज्ञे यत्तद् ब्रह्म सनातनम् ।
प्रधानं ब्रह्म चोद्दिष्टं बहुभिः कारणान्तरैः ।
ब्राह्मणैस्तपसि श्रान्तैः सत्यव्रतपरायणैः ॥ २७॥
अव्यक्ताद् व्यक्तिमापन्नं स्वेन भावेन भारत ।
अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह ॥ २८॥
कर्म कर्तेति राजेन्द्र विषयस्थमनेकधा ।
नोपलभ्येत चक्षुर्भ्यां तपसा दग्धकिल्बिषैः ॥ २९॥
उपलभ्येत चक्षुर्भ्यो ज्ञानिभिर्ब्रह्मवादिभिः ।
निःसृतस्तु भ्रुवोर्मध्यान्मेघमुक्त इवांशुमान् ॥ ३.१८.३०॥
चरद्भिः पक्षिवल्लोके निर्द्वन्द्वैर्निष्परिग्रहैः ।
योगधर्मेण कौरव्य धुवमासाद्यते फलम् ॥ ३१॥
प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा ।
विधत्ते शतशो ब्रह्मा सङ्क्षये च भवेत् तदा ॥ ३२॥
कर्मणः कर्म योगज्ञो भूतेभ्यो नात्र संशयः ।
अविनाशाय लोकस्य धर्मस्याप्यायनेन च ॥ ३३॥
युगं द्वादशसाहस्रं सहस्रयुगसंहितम् ।
एतद् ब्रह्मयुगं नाम युगानां प्रथमं युगम् ॥ ३४॥
सहस्रयुगयोरन्ते संहारः प्रलयान्तकृत् ।
सूक्ष्मं भवति लोकानां निर्विकारमचेतनम् ॥ ३५॥
तथा प्रलयमापन्नं जगत् सर्वं सनातनम् ।
ब्रह्म सम्पद्यते सूक्ष्मं निर्मितं कारणैर्गुणैः ॥ ३६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे अष्टादशोऽध्यायः ॥ १८॥
३.१९ एकोनविंशोऽध्यायः
सगुणब्रह्मविदो युगधर्मकीर्तितम् SaguNabrahmavido yugadharmakIrtitam
योगिनः स्थितिः, तस्य समक्षे भविष्ये प्रकटनीयानां विघ्नरूपाणां ऐश्वर्याणां वर्णनं
जनमेजय उवाच ।
प्राग्वंशं श्रोतुमिच्छामि विस्तरेण महामुने ।
आद्ययोर्युगयोर्ब्रह्मन् ब्रह्मप्राप्तस्य सर्वशः ॥ १॥
वैशम्पायन उवाच ।
शृणु विस्तरशः सर्वं यन्मां पृच्छसि मेधया ।
उपपन्नेन मनसा दैवप्रत्ययसाधिना ॥ २॥
ऋद्धि प्राप्तस्तु भगवान् योगात्मा ब्रह्मसम्भवः ।
भूतानां बहुलत्वं च चकारेहेश्वरः प्रभुः ॥ ३॥
स्थितो ब्रह्मासने ब्रह्मा विक्षिप्तः सहसा प्रभुः ।
अचलेनैव भावेन स्थाणुभूतेन भारत ॥ ४॥
रक्तश्च मोक्षविषये स च ज्ञानमये पदे ।
यस्मात् पदसहस्राणि प्रभवन्ति भवन्ति च ॥ ५॥
ब्रह्मयज्ञं तु यजते योगाद् वेदात्मकं सदा ।
ब्रह्मणो विपुलं ज्ञानमैश्वर्यं च प्रवर्तते ॥ ६॥
ततः प्रथममैश्वर्यं युञ्जानेन प्रवर्तितम् ।
ब्रह्मणा ब्रह्मभूतेन भूतानां हितमिच्छता ॥ ७॥
तदा त्वाकाशमैश्वर्यं युञ्जानस्य प्रवर्तते ।
ब्रह्मणो ब्रह्मभूतस्य निर्विकारेण कर्मणा ॥ ८॥
तदान्तरिक्षं सम्प्राप्तं निर्मलं ब्रह्म चाव्ययम् ।
संहारः सर्वभूतानां नराणां ब्रह्मवादिनाम् ।
ध्रुवमैश्वर्ययोगानां प्रतिपद्यन्ति देहिनः ॥ ९॥
आकाशैश्वर्यभूतेन संयुगे ब्रह्मवादिना ।
प्रवर्तमानमैश्वर्यं वायुभूतं करोति च ।
विकारैर्बहुभिः प्राप्तैः सम्पतद्भिर्महाबलैः ॥ ३.१९.१०॥
एतैर्विकारैः संवृत्तैर्निरुद्धैश्च समन्ततः ।
ध्रुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ॥ ११॥
शरीरादभिनिष्क्रम्य आकाशेन प्रधावति ।
निरालम्बो निरालम्बान्नालम्ब्य मनसा ततः ॥ १२॥
ऐश्वर्यभूतो भूतात्मा चरन् दिवि न दृश्यते ।
चक्षुर्भिर्बहुभिर्लोकैः पुरन्दरसमैरपि ॥ १३॥
ओङ्कारं ये त्वधीयन्ते मनसा ब्रह्मसत्तमाः ।
विमुक्ताः सर्वकर्मभ्यस्ते तं पश्यन्ति साधवः ॥ १४॥
एतद्धि परमं ब्रह्म ब्राह्मणानां मनीषिणाम् ।
अन्तश्चरति भूतानां विद्धि चेतनया सह ॥ १५॥
एष शब्दो महानादः पुराणो ब्रह्मसम्भवः ।
वायुभूतोऽक्षरं प्राप्तो वदन्त्येवं द्विजातयः ॥ १६॥
अरूपी रूपसम्पन्नो धातुभिः सह सङ्गतः ।
अन्तश्चरति भूतेषु कामकारकरो वशी ॥ १७॥
एतत् पूर्वमनुध्याय मनसाऽऽपूरयन्निव ।
वेदात्मकं तदा यज्ञं चिन्तयन्तो मनीषिणः ॥ १८॥
ब्राह्मणाः शुचयो दान्ता यशोयुञ्जस्तदन्वयाः ।
ब्रह्मलोकं काङ्क्षमाणा वैष्णवं पदमुत्तमम् ॥ १९॥
पदहेतोः क्रियाः सर्वाः कुर्वन्ति विगतज्वराः ।
न ह्येते प्रसवादाने भवमिच्छन्ति भारत ॥ ३.१९.२०॥
त्रिभिर्माल्योपहारैश्च प्रतिभावैश्च वै द्विजाः ।
यजन्ति परमात्मानं विष्णुं सत्यपराक्रमम् ॥ २१॥
यजनं विक्रमं चैव ब्रह्मपूर्वाः प्रचक्रिरे ।
ब्रह्मापि वैष्णवं तेजो वेदोक्तैर्वचनैर्नृप ॥ २२॥
ब्राह्मणैर्ब्रह्मविद्भिश्च ब्रह्मज्ञैर्ब्रह्मवादिभिः ।
शुचिभिः कर्मनिर्मुक्तैः सत्यव्रतपरायणैः ॥ २३॥
धातुभिर्मोक्षकाले च महात्मा सम्प्रदृश्यते ।
तदेव परमं ब्रह्म वैष्णवं परमाद्भुतम् ॥ २४॥
रसात्मकं तदैश्वर्यं विकारान्ते प्रदृश्यते ।
घोररूपा विकारास्ते व्यथयन्ति महात्मनः ॥ २५॥
सञ्छाद्यातीव तोयेन क्षुभ्यमाणो विचेतनः ।
ऊर्मिभिश्छाद्यते चैव शीतोष्णाभिर्विकारतः ॥ २६॥
महार्णवगतश्चैव दह्यते न च मज्जते ।
मग्नश्चैव महानद्याः सलिले नैव सीदति ॥ २७॥
सीदमानश्च सलिले स शीते पात्यते बलात् ।
व्यसनाच्छादनाच्चैव मुच्यमानो विचेतनः ॥ २८॥
श्वभ्रे प्रपद्यमानश्च तोयेन परिषिच्यते ।
शुक्लवर्णेन बहुना स्रोतसा मूर्ध्नि सर्वशः ॥ २९॥
ऊर्ध्वं ज्योतिरवेक्षंश्च शुक्लैः पीतैश्च बाध्यते ।
वारिदपूर्णैः सुगम्भीरैर्विद्युद्भिरिव भासितैः ॥ ३.१९.३०॥
एतैर्विकारैः संवृत्तैनिर्रुद्धैश्चैव सर्वशः ।
ध्रुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः ॥ ३१॥
रसात्मकं तदैश्वर्यं जिह्वाग्रादभिनिःसृतम् ।
सहस्रधारं विततं मेघत्वं समुपागतम् ॥ ३२॥
रसांश्च विविधान् योगात् संसिद्धः सृजते प्रभुः ।
धात्वर्थं सर्वभूतानां योगप्राप्तेन हेतुना ॥ ३३॥
तेजसो रूपमैश्वर्यं विकारैः सह वर्धते ।
आत्मनो विघ्नजननं स्वस्थो ब्राह्मणकारणे ॥ ३४॥
उप्ररूपैर्विरूपैश्च हन्यते दण्डपाणिभिः ।
घोररूपैः सुगम्भीरैः पिङ्गाक्षैर्नरविग्रहैः ॥ ३५॥
नेत्रं समुद्धरन् भीमो जिह्वाग्रं चास्य विन्दति ।
नदन्ति युगपन्नादं जृम्भमाणाः पुनः पुनः ॥ ३६॥
पुनरेव तदा भूत्वा बहुरूपास्तदाभवन् ।
नृत्यमानाः प्रगायन्ति तर्पयन्तो विशेषतः ॥ ३७॥
स्त्रीभूताश्च ततः सर्वे युञ्जानाश्चावलम्बिरे ।
कण्ठेऽस्य बहुरूपत्वाद् विघ्नैश्चैव प्रलोभयन् ॥ ३८॥
मधुरैरभिधानैश्च व्याहरन्ति न भीतवत् ।
पतन्ति युगपत् सर्वे पादयोर्मूर्धभिर्युताः ॥ ३९॥
प्रसादं काङ्क्षमाणाश्च योगस्यान्तरविघ्नतः ।
बहुप्रकारं कथयन् नृत्यन्ति च तरन्ति च ॥ ३.१९.४०॥
एतैर्विकारैः संवृत्तैर्निरुद्धैश्चैव सर्वशः ।
भुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः ॥ ४१॥
तदर्चिष इवाग्नेया आदित्यस्येव रश्मयः ।
तेजोरूपकमैश्वर्यं जनितास्तेजबिन्दवः ॥ ४२॥
ज्योतींषि चैव संवृत्ता आकाशे गुणसंवृताः ।
चरन्ति लोके सततं सूर्याचन्द्रमसोर्गतिम् ॥ ४३॥
चन्द्रसूर्यात्मकं दिव्यं ज्योतिः सघनमुत्तमम् ।
एतद् विभ्राजते लोके कालचक्रं ध्रुवं वरम् ॥ ४४॥
अर्धमासाश्च मासाश्च ऋतुसंवत्सराण्यथ ।
क्षणा लवा मुहूर्ताश्च कलाः काष्ठास्तथैव च ॥ ४५॥
अहोरात्रप्रमाणं च निमिषोन्मेषणं तथा ।
ताराणां गतयश्चैव ग्रहाणां च विशेषतः ॥ ४६॥
अथ पार्थिवमैश्वर्यं विकारग्रहसम्भवम् ।
योगयुक्तास्त्वभिग्रस्ताः पात्यन्ते ह्यचलासनात् ॥ ४७॥
अलोभाच्छिद्यते सद्यो वेपमानोऽनुकीर्त्यते ।
सीदते वसुधामध्ये भिद्यमानः पुनः पुनः ॥ ४८॥
भूतानां बहुरूपैश्च अन्यैश्च तलवासिभिः ।
विषयैर्युज्यते क्षिप्रं सङ्क्षेपात् समवरुद्ध्यते ॥ ४९॥
ततः पार्थिवमैश्वर्यं सेवमानश्च सर्वतः ।
मूर्तिमद्भिश्च बहुधा धातुभिः स च हन्यते ॥ ३.१९.५०॥
शक्तितोमरनिस्त्रिंशैर्गदाभिश्चाप्यनेकधा ।
असिभिः पात्यते चैव क्षुरधारैः सहस्रशः ॥ ५१॥
भिद्यते चैव बाणाग्रैः सुतीक्ष्णैर्मर्मभेदिभिः ।
एभिर्विकारैर्निर्वृत्तैर्निरुद्धैश्चैव सर्वशः ॥ ५२॥
भुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ।
ततः पार्थिवमैश्वर्यं निर्मुक्तस्य विकारतः ॥ ५३॥
प्रादुर्भवति सञ्जाते समाधौ प्रलयं गते ।
दिव्यं गन्धं समाघ्राय दिव्यार्थांस्ताञ्छृणोति च ॥ ५४॥
दिव्यरूपैश्च पुरुषैश्छिद्यते न च भिद्यते ।
गच्छन् सुकृतिनां चान्तः प्रधानात्मा क्षरन्निव ॥ ५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकोनविंशोऽध्यायः ॥ १९॥
३.२० विंशोऽध्यायः
मनोधारणविचारः ManodhAraNavichAraH
ब्रह्मणा योगधारणापूर्वकेन सृष्टा मानसिक सृष्ट्याः वर्णनं
वैशम्पायन उवाच ।
ततोऽन्यां धारणां गत्वा मनसा स पितामहः ।
ब्रह्मकर्मसमारम्भं निर्मुक्तेनान्तरात्मना ॥ १॥
सर्वाङ्गधारणां कृत्वा मनसा प्रहसन्निव ।
ब्रह्मयोगेन च ब्रह्मा सृजते मनसा प्रजाः ॥ २॥
चक्षुषो रूपसम्पन्ना ह्यप्सराः सृजते प्रभुः ।
नासिकाग्राच्च गन्धर्वान् सुचित्राम्बरवाससः ॥ ३॥
तुम्बुरुप्रमुखान् सर्वाञ्छतशोऽथ सहस्रशः ।
नृत्यवादित्रकुशलान् कुशलान् सामगीतिषु ४॥
ब्रह्मयोगेन योगज्ञः स्वयम्भूर्भगवान् प्रभुः ।
चारुनेत्रां सुकेशान्तां सुभ्रूं चारुनिभाननाम् ॥ ५॥
पद्मेन शतपत्रेण चारुणा सुविराजिताम् ।
स्वक्षां शुचिगिरं सेव्यां ब्राह्मीं मूर्तिमतीं श्रियम् ॥ ६॥
ससृजे मनसा ब्रह्मा सम्यक्प्रोक्तेन चेतसा ।
भावयोगेन भूतात्मा सर्वप्राणभृतां नृप ॥ ७॥
चक्षुषो रूपसम्पन्नाः सृजन् सोऽप्सरसः प्रभुः ।
नासिकाग्राच्च गन्धर्वान् सुवासः सुप्रवादितान् ॥ ८॥
गानप्रभाषं सञ्चक्रे गन्धर्वाणामशेषतः ।
अन्येषां चैव विप्राणां गानं ब्रह्मप्रभाषितम् ॥ ९॥
पद्भ्यां सृजति भूतानि गतिमन्ति ध्रुवाणि च ।
नरकिन्नरयक्षांश्च पिशाचोरगराक्षसान् ॥ ३.२०.१०॥
गजान् सिंहांश्च व्याघ्रांश्च मृगांश्चैव सहस्रशः ।
तृणजातीश्च बहुधा भावहेतोश्चतुष्पदान् ॥ ११॥
ये तु हस्तान्निखादन्ति कर्मप्राप्तेन हेतुना ।
हस्तेभ्यः कर्म ससृजे मन्तव्यं मनसा तथा ॥ १२॥
वायुना स विसर्गं च भूतानां सुखमिच्छता ।
उपतस्थे तदानन्दं पञ्चेन्द्रियसमाधिना ॥ १३॥
हृदयादसृजद् गावो बाहुभ्यां पक्षिणस्तथा ।
अन्यानि चैव सत्त्वानि तैस्तैर्वेषैः पृथग्विधैः ॥ १४॥
ऋषिं त्वङ्गिरसं चैव मुनिं ज्वलिततेजसम् ।
ब्रह्मवंशकरं दिव्यं व्यतिषिक्तषडिन्द्रियम् ॥ १५॥
भ्रुवोऽन्तरादजनयद् योगाद् योगेश्वरः प्रभुः ।
ब्रह्मवंशकरं दिव्यं भृगुं परमधार्मिकम् ॥ १६॥
ललाटमध्यादसृजन्नारदं प्रियविग्रहम् ।
सनत्कुमारं मूर्ध्नश्च महायोगी पितामहः ॥ १७॥
अभिषिक्तं तु सोमं च यौवराज्ये पितामहः ।
ब्राह्मणानां च राजानं शाश्वतं रजनीश्वरम् ॥ १८॥
तपसा महता युक्तो ग्रहैः सह निशाकरः ।
चचार नभसो मध्ये प्रभाभिर्भासयन् जगत् ॥ १९॥
स गात्रैर्भगवान् योगान्मनसा सिद्धिमागतः ।
ससृजे सर्वभूतानि स्थावराणि चराणि च ॥ ३.२०.२०॥
तत्र स्थानानि भूतानां योगांश्चैव पृथग्विधान् ।
व्यधत्त शतशो ब्रह्मा सर्वभूतपितामहः ॥ २१॥
एष ब्रह्ममयो यज्ञो योगः साङ्ख्यश्च तत्त्वतः ।
विज्ञानं च स्वभावश्च क्षेत्रं क्षेत्रज्ञ एव च ॥ २२॥
एकत्वं च पृथक्त्वं च सम्भवो निधनं तथा ।
कालः कालक्षयश्चैव ज्ञेयो विज्ञानमेव च ॥ २३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे विंशोऽध्यायः ॥ २०॥
३.२१ एकविंशोऽध्यायः
कर्ममार्गकथनम् KarmamArgakathanam
क्षत्रयुगस्य प्रसङ्गे ज्ञानसिद्धानां ब्राह्मणानां वर्णनं, दक्षेण प्रजापतिना प्राणिनां चत्वारि वर्णानां च सृष्टिः, तेन स्वपुत्रेभ्यः धात्र्याः अन्तं ज्ञातुं आदेशः
जनमेजय उवाच ।
श्रुतं ब्रह्मयुगं ब्रह्मन् युगानां प्रथमं युगम ।
क्षत्रस्यापि युगं ब्रह्मञ्छ्रोतुमिच्छाम्यहं प्रभो ॥ १॥
ससङ्क्षेपं सविस्तारं नियमैर्बहुभिश्चितम् ।
उपायज्ञैश्च कथितं क्रतुभिश्चैव शोभितम् ॥ २॥
वैशम्पायन उवाच ।
एतत्ते कथयिष्यामि यह्यकर्मभिरर्चितम् ।
दानधर्मैश्च विविधैः प्रजाभिरुपशोभितम् ॥ ३॥
तेऽङ्गुष्ठमात्रा मुनय आदत्ताः सूर्यरश्मिभिः ।
मोक्षप्राप्तेन विधिना निराबाधेन कर्मणा ॥ ४॥
प्रवृत्ते चाप्रवृत्ते च नित्यं ब्रह्मपरायणाः ।
परायणस्य सङ्गम्य ब्रह्मणस्तु महीपते ॥ ५॥
श्रीवृताः पावनाश्चैव ब्राह्मणाश्च महीपते ।
चरितब्रह्मचर्याश्च ब्रह्मज्ञानावबोधिताः ॥ ६॥
पूर्णे युगसहस्रान्ते प्रभावे प्रलयं गताः ।
ब्राह्मणा वृतसम्पन्ना ज्ञानसिद्धाः समाहिताः ॥ ७॥
व्यतिरिक्तेन्द्रियो विष्णुर्योगात्मा ब्रह्मस्रम्भवः ।
दक्षः प्रजापतिर्भूत्वा सृजते विपुलाः प्रजाः ॥ ८॥
अक्षराद्ब्राह्मणाः सौम्याः क्षरात्क्षत्रियबान्धवाः ।
वैश्या विकारतश्चैव शूद्रा धूमविकारतः ॥ ९॥
श्वेतलोहितकैर्वर्णैः पीतैर्नीलैश्च ब्राह्मणाः ।
अभिनिर्वर्तिता वर्णाश्चिन्तयानेन विष्णुना ॥ ३.२१.१०॥
ततो वर्णत्वमापन्नाः प्रजा लोके चतुर्विधाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महीपते ॥ ११॥
एकलिङ्गाः पृथग्धर्मा द्विपदाः परमाद्भुताः ।
यातनायाभिसम्पन्ना गतिज्ञाः सर्वकर्मसु ॥ १२॥
त्रयाणां वर्णजातानां वेदप्रोक्ताः क्रियाः स्मृताः ।
तेन वो ब्रह्मयोगेन वैष्णवेन महीपते ॥ १३॥
प्रज्ञया तेजसा योगात्तस्मात् प्राचेतसः प्रभुः ।
विष्णुरेव महायोगी कर्मणामन्तरं गतः ॥ १४॥
ततो निर्माणसम्भूताः शूद्राः कर्मविवर्जिताः ।
तस्मान्नार्हन्ति संस्कारं न ह्यत्र ब्रह्म विद्यते ॥ १५॥
यथाग्नौ धूमसङ्घातो ह्यरण्या मथ्यमानया ।
प्रादुर्भूतो विसर्पन् वै नोपयुञ्जन्ति कर्मणि ॥ १६॥
एवं शूद्रा विसर्पन्तो भुवि कार्त्स्न्येन जन्मना ।
नासंस्कृतेन धर्मेण वेदप्रोक्तेन कर्मणा ॥ १७॥
ततोऽन्ये दक्षपुत्राश्च सम्भूता ब्रह्मयोनयः ।
बलवन्तो महोत्साहा महावीर्या महौजसः ॥ १८॥
पित्रा प्रोक्ता महात्मानो दक्षिणा यज्ञकर्मणा ।
अन्तमिच्छाम्यहं श्रोतुं धात्र्याः पुत्रा बलो ह्यहम् ॥ १९॥
ततो विधास्ये तत्त्वज्ञाः प्रजानां विपुलं बलम् ।
विपुलत्वाद्धि क्षेत्राणां ममापि विपुलाः प्रजाः ॥ ३.२१.२०॥
न तेषां दर्शयद् देवी चक्षुषा रूपमात्मनः ।
प्रजापतिसुतानां वै विपुलासारमिच्छताम् ॥ २१॥
आत्मनो भावनिर्वृत्ते भावे कृतयुगे तदा ।
जनित्री सर्वभूतानामण्डजानुद्भिजांस्तथा ॥ २२॥
संवेदजननी धात्री चेति मात्रा प्रचोदिता ।
अणुतां तनुतां चैव जन्तूनां कर्मभोगिनाम् ॥ २३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकविंशोऽध्यायः ॥ २१॥
३.२२ द्वाविंशोऽध्यायः
प्रवृतिधर्मफलम् PravRitidharmaphalam
दक्षेण स्वार्द्धाङ्गेन स्त्री भूत्वा अनेकाः कन्यानां उत्पत्तिः, तेषां धर्माय, कश्यपाय, सोमाय च दानं, कश्यपस्य दक्षकन्यानां च सन्ततीनां वर्णनं, देवलोके जन्मगृहीतॄणां योग्यता
जनमेजय उवाच ।
साध्वहं श्रोतुमिच्छामि त्रेतायां ब्राह्मणोत्तम ।
यज्ज्ञात्वा सर्वविद्यानां परं पश्येयमव्ययम् ॥ १॥
वैशम्पायन उवाच ।
दक्षस्तु पुनरालम्ब्य स्त्रीभावं पुरुषोत्तमः ।
योगाद् योगेश्वरात्मानं निषण्णो गिरिमूर्धनि ॥ २॥
सुजानुः पीनजघना सुभ्रूरः पद्मनिभानना ।
रक्तान्तनयना कान्ता सर्वभूतमनोरमा ॥ ३॥
दक्षः प्राचेतसस्तस्यां कन्यायां जनयत् प्रभुः ।
देहार्धयोगविधिना कन्याः पद्मनिभाननाः ॥ ४॥
दक्षः पुरुषरूपेण स्त्रीरूपमपहाय वै ।
दर्शने सर्वभूतानां कान्तः कान्ततरोऽभवत् ॥ ५॥
ताः कन्याः प्रददौ दक्षः स्वयं प्राचेतसः प्रभुः ।
ब्रह्मदेयेन विधिना ब्रह्मप्राप्तेन भारत ॥ ६॥
प्रददौ दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय पत्नीहेतोः समाहितः ॥ ७॥
दक्षो दत्त्वाथ ताः कन्या ब्रह्मक्षेत्रं प्रपद्य च ।
ब्रह्मणाध्युषितं पुण्यं समाहितमना मुनिः ॥ ८॥
तप्यमानो मृगैः सार्धं चचार वसुधां नृप ।
तृणमूलफलैर्वृद्धो वृद्धश्च तपसासकृत् ॥ ९॥
मृगास्तु तस्य मोदन्ति फलं मोदन्ति ब्राह्मणाः ।
दीक्षिताः पुण्यकर्माणस्तपसा दग्धकिल्बिषाः ॥ ३.२२.१०॥
सङ्ग्रामकाले कालज्ञः शरीरादिपतिर्मुनिः ।
कर्मयज्ञकृतां तात सिद्धिं पश्यति लक्षणात् ॥ ११॥
दानमानप्रवीराश्च निरुद्वेगा निरामिषाः ।
मृगैः सह जरां यान्ति सपत्नीकाः सुपुत्रिणः ॥ १२॥
ब्राह्मणाः स्तोत्रसंसिद्धा जनित्रे प्रथमे पदे ।
ब्रह्मणाध्युषितत्वाच्च ब्रह्मक्षेत्रमिहोच्यते ॥ १३॥
यतिभिः कर्मभिर्मुक्तैर्जितक्रोधैर्जितेन्द्रियैः ।
चरद्भिर्वसुधां विप्रैरकिञ्चनपथैषिभिः ॥ १४॥
या प्रजा सर्वमारूढा मानसी ब्रह्मचारिणी ।
सैवैषा व्यक्तिमापन्ना स्वभावदुरतिक्रमा ॥ १५॥
अव्यक्ता व्यक्तमापन्ता स्वभावाद् दुरतिक्रमा ।
व्यक्ताव्यक्तगतिश्चैषा कालधर्मान्महीपते ॥ १६॥
स्थावरा जङ्गमाश्चैव स्थूलसूक्ष्माश्च भारत ।
कालयोगेन योगज्ञा भवन्ति न भवन्ति च ॥ १७॥
एताश्चैताः प्रजाः सर्वा दक्षकन्यासु जज्ञिरे ।
कश्यपेनाव्ययेनेह संयुक्ताः कालधर्मणा ॥ १८॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
नागाश्चानेकशिरसः साध्या वै पन्नगास्तथा ॥ १९॥
गन्धर्वाः किन्नरा यक्षाः सुपर्णाश्च तथापरे ।
गरुत्मान् सह यक्षैश्च किन्नराश्च सुवाससः ॥ ३.२२.२०॥
गावः पशुगणैः सार्धं नराश्च वसुधाधिप ।
चराचराश्च वसुधाधर्तारश्च धराधराः ॥ २१॥
गजाः सिंहाश्च व्याघ्राश्च हयाः पक्षधरास्तथा ।
खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ॥ २२॥
चतुर्विषाणा नागेन्द्राः पद्माभा वर्णतः शुभाः ।
सर्वलक्षणसम्पन्नाः प्राणिनः कामरूपिणः ॥ २३॥
तेषां रूपैस्तथा गात्रैस्तैः शीलैस्तैः पराक्रमैः ।
मुनयः पुनरुद्भूता धर्मक्षेत्रे सनातने ॥ २४॥
क्षेत्रज्ञा मानसे लोके धर्मिणो वेदगोचराः ।
यत्रोद्भूताः सुराः सर्वे दिवि लोके प्रतिष्ठिताः ॥ २५॥
ये चान्ये तपसा सिद्धा गृहस्था मनुजाधिप ।
ब्रह्मचर्येण संसिद्धाः परिचर्यां गता गुरोः ॥ २६॥
ये च योगगतिं प्राप्ताः सिद्धिहेतोर्महीपते ।
क्लेशाधिकैः कर्मजन्यैर्वृत्तिं लप्स्यन्ति वै द्विजाः ॥ २७॥
शिलोञ्छवृत्तयः ख्याताः सपत्नीका दृढव्रताः ।
सर्वे त्वेते दिविचरा भवन्ति चरितव्रताः ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे द्वाविंशोऽध्यायः ॥ २२॥
३.२३ त्रयोविंशोऽध्यायः
प्राणायामवर्णनम् PrANAyAmavarNanam
ब्रह्मणः महायज्ञस्य वर्णनं
वैशम्पायन उवाच ।
पितामहं पुरस्कृत्य मेरुपृष्ठे समाहिताः ।
जटाजिनधरा विप्रास्त्यक्तक्रोधा जितेन्द्रियाः ॥ १॥
पर्वतान्तरसंसिद्धे बहुपादपसंवृते ।
धातुसंरञ्जितशिले समे निस्तृणकण्टके ॥ २॥
त्रयाणां ब्रह्मवेदानां पञ्चस्वरविराजिते ।
मन्त्रयज्ञपरा नित्यं नित्यं व्रतहिते रताः ॥ ३॥
एकमेवाग्निमाधाय सर्वे ब्राह्मणपुङ्गवाः ।
बिभिदुर्मन्त्रविषयैः सुसमाहितमानसाः ॥ ४॥
त्रिधा प्रणीतो ज्वलनो मुनिभिर्वेदपारगैः ।
अतस्ते तत्त्वमापन्ना यदेकस्त्रिविधः कृतः ॥ ५॥
एक एव महानग्निर्हविषा सम्प्रवर्तते ।
स्वधाकारेण धर्मज्ञ मन्त्राणां कार्यसिद्धये ॥ ६॥
स्वयं च दक्षः सम्प्राप्तो भगवान् भूतसत्कृतः ।
ब्रह्मा ब्राह्मणनिर्माता सर्वभूतपितामहः ॥ ७॥
दण्डी चर्मी शरी खड्गी शिखी पद्मनिभाननः ।
अभवन्न्यस्तसन्तापो जितक्रोधो जितेन्द्रियः ॥ ८॥
यजते पुष्करे ब्रह्मा मेधया सह सङ्गतः ।
इन्द्रप्रोक्तानि सामानि गीयन्ते ब्रह्मवादिभिः ॥ ९॥
घृतं क्षीरं यवा व्रीहिः सर्वं परमकं हविः ।
वेदप्रोक्तं मखे न्यस्तं कल्पितं ब्रह्मणः पदे ॥ ३.२३.१०॥
निर्मथ्यारणिमाग्नेयीं शमीगर्भसमुत्थिताम् ।
स ब्रह्मा प्रथमं तस्मिन्नग्निमयं प्रवर्तयत् ॥ ११॥
न ह्यल्पं विहितं द्रव्यं यथाग्निर्यज्ञकर्मणि ।
प्रवर्तयेद् विभागैर्वा हुतद्रव्यमयं बलम् ॥ १२॥
फलानि तैः प्रयुक्तानि हवींषि विततेऽध्वरे ।
प्रयुञ्जते प्रयोगज्ञा मुनयो ब्रह्मवादिनः ॥ १३॥
षण्मासांश्चतुरो वेदान् सम्बभाषे बृहस्पतिः ।
ब्रह्मणो वितते यज्ञे परया ब्रह्मसम्पदा ॥ १४॥
शिक्षाक्षरसमेताया मधुरायाः समन्ततः ।
सानुस्वरितरामायाः सरस्वत्याः प्रभाषते ॥ १५॥
तेन ब्राह्मणशब्देन ब्रह्मप्रोक्तेन भारत ।
विभाति स मखो व्यक्तं ब्रह्मलोक इवापरः ॥ १६॥
मखो ब्रह्ममुखोत्तीर्णो ब्रह्मशब्दैरनामयैः ।
प्रयोगैः सम्प्रयुक्तः स जल्पन्निव विवर्धते ॥ १७॥
समिद्भिः सोमकलशैः पात्रैश्चैव बहिश्चरैः ।
यवैर्व्रीहिभिराज्यैश्च पूर्णैश्च जलभाजनैः ॥ १८॥
कर्म प्राप्तैश्च वसुभिः कर्मभिश्च परान्वितैः ।
गोभिः पयस्विनीभिश्च परिवत्सैश्च कोमलैः ॥ १९॥
ब्रह्मवृद्धो वयोवृद्धस्तपोवृद्धश्च भारत ।
ब्रह्मज्ञानमयो देवो विद्यया सह सङ्गतः ॥ ३.२३.२०॥
मानसैश्च क्रियामूर्तिर्ये च भूताः स्वयं नृप ।
ब्रह्मा जुहोति तांस्तस्मान्मरुद्भिः सहितस्तदा ॥ २१॥
तेजोमूर्तिधरै रूपैर्न च तत्कर्मणास्पृशत् ।
बेदप्रोक्तेन विधिना सर्वप्राणभृतां नृप ॥ २२॥
निर्मथ्यारणिमाग्नेयीं शमीगर्भसमुत्थिताम् ।
क्रतुना यजते पूर्णमग्निष्टोमेन स प्रभुः ॥ २३॥
सदस्यैस्तत्सदो व्यक्तं शुशुभे यज्ञकर्मणि ।
जल्पन्ति मधुरा वाचःसानुसाराः क्रियास्तथा ॥ २४॥
कर्मभिश्च तपोयुक्तैर्वेदवेदाङ्गपारगैः ।
सूर्येन्दुसदृशै राजन् विरराज महाक्रतुः ॥ २५॥
ब्रह्मघोषेण महता ब्रह्मावास इवापरः ।
वसुधामिव सम्प्राप्तैः सर्वैरेव दिवौकसैः ॥ २६॥
वेदवेदाङ्गविद्भिश्च विनीतैर्ब्रह्मवादिभिः ।
गतागतैस्तपःश्रान्तैः स्वर्गलोके महीयते ॥ २७॥
ज्वलद्भिरिव विप्रैस्तैस्त्रिभिरेवाध्वरेऽग्निभिः ।
ब्रह्मलोक इवाभाति ब्रह्मणः स महाक्रतुः ॥ २८॥
इन्द्रप्रोक्तानि सामानि गायन्ति ब्रह्मवादिनः ।
वचनानि प्रयुक्तानि यजूंषि विततेऽध्वरे ॥ २९॥
तपःशान्ता ब्रह्मपराः सत्यव्रतसमाहिताः ।
आययुर्मुनयः सर्वे मनोभिः श्रोत्रवादिभिः ॥ ३.२३.३०॥
होता चैवाभवद्राजन् ब्रह्मत्वे च बृहस्पतिः ।
सर्वधर्मविदां श्रेष्ठः पुराणो ब्रह्मसम्भवः ॥ ३१॥
यजमानश्च यज्ञान्ते विष्णोः पूजां प्रयुज्य च ।
अदित्याः पश्चिमे गर्भे तपसा सम्भृते नृप ॥ ३२॥
पदं विष्णुरजो ब्रह्मा निर्द्वन्द्वं निष्परिग्रहम् ।
यतः पदसहस्राणि भविष्यन्त्युद्भवन्ति च ॥ ३३॥
अवन्ध्यं चाप्रमेयं च व्यतिरिक्तं च कर्मभिः ।
आत्मापि यस्य मुनयो भवन्ति निष्परिग्रहाः ॥ ३४॥
परिग्रहाश्च विषया दोषप्राप्ता महीयते ।
दोषाश्च युगपत् सर्वे छादयन्ति मनो बलात् ॥ ३५॥
इन्द्रियग्रामविषये चरन्तो निष्परिग्रहाः ।
परिग्रहं शुभं धर्ममविद्यालक्षणं विदुः ॥ ३६॥
विद्यालक्षणसंयोगान्न मनश्छाद्यते नृप ।
यदि चेन्मुनिशब्देन गृह्यते ब्रह्मवादिभिः ॥ ३७॥
वेदविद्याव्रतस्नातैर्नियतैः कुरुसत्तम ।
दिविलोकाः सतां स्थानं लोकानां लोक उच्यते ॥ ३८॥
यत्र देवा हव्यपुष्टा न क्षयं यान्ति भारत ।
यजमानश्च भोगैः स्वैः कर्मप्राप्तोदिते पदे ।
मोदते सह पत्नीभिर्विज्वरो वसुधाधिप ॥ ३९॥
यज्ञावसाने शैलेन्द्रं द्विजेभ्यः प्रददौ प्रभु ।
दयया सर्वभूतानां निर्मलेनान्तरात्मना ॥ ३.२३.४०॥
तं शैलं सर्वगात्राणि परस्परविशेषिणः ।
न शेकुः प्रविभागार्थं भेत्तुं सर्वोद्यमैरपि ॥ ४१॥
ततस्ते ब्राह्मणगणा निषेदुर्वसुधातले ।
श्रमेणाभिहताः सर्वे विवर्णवदना नृप ॥ ४२॥
सुपार्श्वो गिरिमुख्यस्तु वाग्भिर्मधुरभाषता ।
अब्रवीत्प्रणतः सर्वाञ्छिरसा तान्द्विजोत्तमान् ॥ ४३॥
नहि शक्यो बलाद् भेत्तुं युष्माभिरसुसङ्गिभिः ।
अपि वर्षशतैर्दिव्यैः परस्परविरोधिभिः ॥ ४४॥
एकीभूता यदा सर्वे भविष्यथ समाहिताः ।
अविरोधेन युगपद् विभजिष्यथ निर्वृताः ॥ ४५॥
बलं हि रागद्वेषाभ्यां वर्धते ब्रह्मसत्तमाः ।
विमुक्तं रागदोषाभ्यां ब्रह्म वर्धति शाश्वतम् ॥ ४६॥
यदाहं भेदयिष्यामि स्वर्गभिन्नैः शिलाशतैः ।
धातुभिश्च विसर्पद्भिः शिखरैश्चानुपातिभिः ॥ ४७॥
विशीर्णैः पार्श्वविवरैर्नागैश्च गलितैर्भुवि ।
बहुभिर्व्यालरूपैश्च चोद्यमानो गुहाशयैः ॥ ४८॥
प्रतिगृह्य च तद् वाक्यं शैलेन्द्रस्य सुभाषितम् ।
तूष्णीं बभूवुस्ते सर्वे तदा ब्राह्मणसत्तमाः ॥ ४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे त्रयोविंशोऽध्यायः ॥ २३॥
३.२४ चतुर्विंशोऽध्यायः
वर्णाश्रमधर्मपरिपालनम् VarNAshramadharmaparipAlanam
चतुर्षु आश्रमेषु स्थितानां ब्राह्माणानां ब्रह्मणः यज्ञस्थलस्य पुण्यप्रदेशे वस्तुं कामना
वैशम्पायन उवाच ।
बलिर्होमाश्च वर्धन्ते अहन्यहनि भारत ।
द्विजानां तपसाढ्यानां गृहधर्मेषु तिष्ठताम् ॥ १॥
देवतार्चाश्च पूज्यन्ते तदा प्रभृति भारत ।
तेषां ब्रह्मविदां राजन् पृथिव्यां ब्रह्मवादिभिः ॥ २॥
तत्रैव ब्रह्मसदने समे निस्तृणकण्टके ।
प्राज्येन्धनतृणे देशे पुण्ये पर्वतरोधसि ॥ ३॥
वासं यत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।
तपोऽर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः ॥ ४॥
गृहस्थधर्मनिरता दानप्राप्तेन चेतसा ।
यतयश्चापि काङ्क्षन्ति धर्मेणेह विकाङ्क्षिणः ॥ ५॥
वन्यैः कर्मफलैश्चैव रता ब्राह्मणपुङ्गवाः ।
अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहताः ॥ ६॥
दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ।
चीरवल्कलसंवीता नियता नियतेन्द्रियाः ॥ ७॥
चरन्तो ब्रह्मचर्यं च व्रतमास्थाय दारुणम् ।
अनेन विधिना राजन् कर्मप्राप्तेन सर्वशः ॥ ८॥
क्रमाद्ये वेदसंस्कारं पुण्यं प्राप्ताः सनातनम् ।
पूर्वैराचरितं राजन् मुनिभिर्ब्रह्मवादिभिः ॥ ९॥
नावेदविद्वानागच्छेन्नापि रौद्रं व्रतं चरेत् ।
न च त्यागेन गच्छेत गृहधर्मं न च त्यजेत् ॥ ३.२४.१०॥
नैव गच्छेत दुःस्थानमप्राप्तो वेदसञ्चयम् ।
ऋचश्च सञ्चयः पूर्वः सामगानां च भारत ॥ ११॥
ये चापि पुत्रिणो न स्युः श्रुत्यापि प्राप्नुयुः फलम् ।
ब्राह्मणास्तपसा श्रान्ता गुरोश्च परिचर्यया ॥ १२॥
यस्य नैव श्रुतं ब्रह्म न गृहीतं विशाम्पते ।
काम तं धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ १३॥
अथवा नैव विद्येत यद् ब्रह्म नाद्रियेद् द्विजः ।
द्वाभ्यां तु श्रोत्रविषये मनः पूर्वं समाहितम् ॥ १४॥
एवं सर्वेन्द्रियारम्भान् वेदपूर्वान् समाचरेत् ।
ब्राह्मणो भूतिसम्पन्नो य इच्छेद् भूतिमात्मनः ॥ १५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे चतुर्विंशोऽध्यायः ॥ २४॥
३.२५ पञ्चविंशोऽध्यायः
ईशभक्तिमाहात्म्यम् IshabhaktimAhAtmyam
नारदादिभिः ब्राह्मणानां ब्रह्मणः च सत्कारं, ब्रह्मणा कश्यपाय यज्ञानुष्ठानस्यादेशं, देवदानवयुद्धं, विष्णुना मधोः पराजयं
वैशम्पायन उवाच ।
ते तु गोब्राह्मणा नागाश्चन्द्रादित्यपुरस्कृताः ।
ब्राह्मणान् पूजयन्देवान् वसुभिर्ब्रह्मसम्भवैः ॥ १॥
नारदप्रमुखाश्चैव गन्धर्वा ऋषयो नृप ।
कुर्वन्ति सततं यज्ञे क्रमप्राप्तं पितामहम् ॥ २॥
वचोभिर्मधुराभाषैः पञ्चेन्द्रियनिवासिभिः ।
सर्वभूतप्रियकरैः सर्वभूतहितैषिभिः ॥ ३॥
स्तूयमानश्च यज्ञान्ते पञ्चेन्द्रिमसमाहितैः ।
प्रोवाच भगवान्ब्रह्मा दिष्ट्या दिष्ट्येति भारत ॥ ४॥
ततः कश्यपमाभाष्य प्रोवाच भगवान् प्रभुः ।
भवानपि सुतैः सार्धं यक्ष्यते वसुधातले ॥ ५॥
क्रतुभिः परमप्राप्तैः सम्पूर्णवरदक्षिणैः ।
यक्षाः सुराश्च ते सर्वे यथा प्रतिगुणैः प्रभो ॥ ६॥
वयं यक्ष्यामहे पूर्वं पूर्वं यक्ष्यामहे वयम् ।
एवमन्योन्यसंरम्भाद् विद्यन्ते बलदर्पिताः ॥ ७॥
दैतेयाश्चाप्यदैतेयाः परस्परजयैषिणः ।
युद्धायैव प्रतिष्ठन्ति प्रगृह्य विपुलौ भुजौ ॥ ८॥
निवार्यमाणा ऋषिभिस्तपसा दग्धकिल्बिषैः ।
अन्यैश्च विविधैर्विप्रैर्वेदवेदाङ्गपारगैः ॥ ९॥
निवार्यमाणा युध्यन्ते वृषभा इव गोकुले ।
प्रयुद्धा युद्धसङ्क्रान्ताः सर्वे प्राणजयैषिणः ॥ ३.२५.१०॥
पश्यतां सर्वभूतानां मृत्योर्विषयमागताः ।
ततः शब्देन महता परं कृत्वा महाबलाः ॥ ११॥
रुन्धन्ति बाहुभिः क्रुद्धाः सपक्षा इव पक्षिणः ।
चचाल वसुधा चैव पादाक्रान्ता च रोषिभिः ॥ १२॥
नौर्यथा पुरुषाक्रान्ता निषीदति महाजले ।
पर्वताश्च विशार्यन्ते नर्दमाना गजा इव ॥ १३॥
चुक्षुभुश्च महानद्यस्ताडिता मातरिश्वना ।
ततः समभवद् युद्धं मधोर्विष्णोश्च भारत ॥ १४॥
युगान्तकरणं घोरं सर्वप्राणिभयङ्करम् ।
प्रममाथ मधोविर्ष्णुः समग्रं बलपौरुषम् ॥ १५॥
वह्नेरिव बलं दीप्तं शमयत्यम्बुना यथा ।
तथा प्रशमितं तेन प्रभुणा ह्युपकारिणा ॥ १६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पञ्चविंशोऽध्यायः ॥ २५॥
३.२६ षड्विंशोऽध्यायः
मोहविवेकयोर्युद्धम् Mohavivekayoryuddham
मधोः विष्णोश्च घोरं युद्धं, देवेभिः ऋषिभिश्च श्रीविष्णोः स्तुतिः, हयग्रीवरूप धारकस्य विष्णुना मधोः वधं, पृथिव्या मेदिनी नाम प्राप्तिः
वैशम्पायन उवाच ।
बलवान् स तु दैतेयो मधुर्भीमपराक्रमः ।
बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे ॥ १॥
तं वै प्रह्लादवचनाल्लक्षणज्ञश्च भारत ।
ऐश्वर्यमैन्द्रमाकाङ्क्षन्भविष्यं बुद्धिसङ्क्षयात् ॥ २॥
बद्ध्वेन्द्रं सहसा मध्ये पाशैर्मर्मविवर्जितैः ।
आयसैर्बहुभिश्चित्रैर्बलवद्भिर्विदारणैः ॥ ३॥
विष्णुमेवाग्रणी रुद्रमाह्वयद् युद्धकोविदः ।
मध्ये गणानां सर्वेषां कालस्य वशमागतः ॥ ४॥
द्वैधीभूताः काश्यपेया मधोर्वशमुपागताः ।
युद्धार्थमभ्यधावन्त प्रगृह्य विपुला गदाः ॥ ५॥
गन्धर्वाः किन्नराश्चैव वाद्ये गीते च कोविदाः ।
प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः ॥ ६॥
तन्त्रीभिः सुप्रयुक्ताभिर्मधुराभिः स्वभावतः ।
मनो मधोर्विधुन्वन्ति युध्यमानस्य रागिणः ॥ ७॥
मधोर्बलार्थं मधुनो नियोगात् पद्मयोनिनः ।
एतान्विकरान्कुर्वन्ति गन्धर्वाः सत्यवादिनः ॥ ८॥
तत्र शक्तो हिं गान्धर्वे तस्मिञ्छब्दे मधुर्मनः ।
दानवाश्चासुराश्चैव प्रत्यक्षं यान्ति प्राणदन् ॥ ९॥
मधोश्च मन आक्षिप्य पश्यन् योगेन चक्षुषा ।
मन्दरं प्रयते विष्णुर्गूढोऽग्निरिव दारुषु ॥ ३.२६.१०॥
ऋषयो दीप्तमनसं किञ्चिद् व्यथितमानसाः ।
पितामहं पुरस्कृत्य क्षणेनान्तरधीयत ॥ ११॥
विष्णुं सोऽभ्यहनत् क्रुद्धो मधुर्मधुनिभेक्षणः ।
भुजेन शङ्खदेशान्ते न चकम्पे पदात्पदम् ॥ १२॥
विष्णुश्चाभ्यहनद् दैत्यं कराग्रेण स्तनान्तरे ।
स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन् ॥ १३॥
न चैनं पतितं हन्ति विष्णुर्युद्धविशारदः ।
बाहुयुद्धे हि समयं मत्वाचिन्त्यपराक्रमः ॥ १४॥
इन्द्रध्वज इवोत्तिष्ठञ्जानुभ्यां स महीतलात् ।
मधु रोषपरीतात्मा निर्दहन्निव चक्षुषा ॥ १५॥
परुषाभिस्ततो वाग्भिरन्योन्यमभिगर्जतुः ।
समीयतुर्बाहुयुद्धे परस्परवधैषिणौ ॥ १६॥
उभौ तौ बाहुबलिनावुभौ युद्धविशारदौ ।
उभौ च तपसा शान्तावुभौ सत्यपराक्रमौ ॥ १७॥
दृढप्रहारिणौ वीरावन्योन्यं विचकर्षतुः ।
शैलेन्द्राविव युद्ध्यन्तौ पक्षैः पाषाणसन्निभैः ॥ १८॥
विकर्षन्तौ वमन्तौ च अन्योन्यं वसुधातले ।
गजाविव विषाणाग्रैर्नखाग्रैश्च विचेरतुः ॥ १९॥
ततो व्रणमुखैश्चैव सुस्राव रुधिरं बहु ।
ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम् ॥ ३.२६.२०॥
संसिक्तौ रुधिरौघैश्च स्रवद्भिः समरञ्जितौ ।
अथाद्यतैः पदाग्रैश्च तौ व्यदारयतां महीम् ॥ २१॥
अभिहत्य तु तौ वीरौ परस्परमनैकधा ।
पतङ्गाविव युध्येतां पक्षाभ्यां मांसगृद्धिनौ ॥ २२॥
शुश्रुवुश्चान्तरिक्षेऽथ सर्वभूतानि पुष्करे ।
सिद्धानां वदनोन्मुक्ताः परया वर्णसम्पदा ॥ २३॥
स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे ।
शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च ॥ २४॥
तद् ब्रह्म इन्द्रियैर्युक्तं तेजोभूतं सनातनम् ।
ध्रुवं तिष्ठन्ति भूतास्ते सूक्ष्मे प्रलयतां गते ॥ २५॥
पुनश्चोद्भवते सूक्ष्मं बहुरूपमनेकधा ।
प्रबोध्य भावं भूतानां त्रिषु लोकेषु कामदः ॥ २६॥
सुरूपो बहुरूपांस्ताँल्लोकान् सञ्चरते वशी ।
मानसीं तनुमास्थाय बहुभिः कारणान्तरैः ॥ २७॥
योगात्मा धारयन्नुर्वीं नागात्मानं दिवन्धरः ।
ब्रह्म भूतं परं चैव सूक्ष्मेणात्मानमीश्वरः ॥ २८॥
ब्राह्मेण विप्रान् वसति युद्धेनैव च क्षत्रियान् ।
प्रदानकर्मणा वैश्याञ्छूद्रान् परिचरेण च ॥ २९॥
गावः क्षीरप्रदानेन अश्वान् यज्ञेषु प्रोक्षणैः ।
पितरश्चोष्मणैवेह हविर्भागेन देवताः ॥ ३.२६.३०॥
चतुर्भिर्व्यतिरिक्ताङ्गैस्त्रिभिरन्यैश्च धातुभिः ।
सप्तभिः पितृभिर्नित्यैस्त्रीँल्लोकान् परिरक्षति ॥ ३१॥
चन्द्रसूर्यात्मकं नित्यं यथात्मनिहतात्मकम् ।
प्रकाश चाप्रकाशं च निगूढं स्वेन तेजसा ॥ ३२॥
त्रयस्तु पितरो नित्यं वर्धयन्ति दिवाकरम् ।
चतुर्भिः पितृभिश्चैव चन्द्रो वर्धति मण्डले ॥ ३३॥
त्रयः पितृगणा नित्यं पिण्डान् पश्चाददन्ति ते ।
चत्वारोऽन्ये पितृगणाः सिद्धाः पञ्च क आददे ॥ ३४॥
त्वमेव पञ्च तान्धर्मांस्त्वमेवापञ्च तान्विभो ।
सनातनमयो दिव्यः शाश्वतो ब्रह्मसम्भवः ॥ ३५॥
यस्मात्त्वत्तेज आदत्ते अग्निर्वायुश्च सर्वशः ।
अतस्त्वं कर्मणा तेन आदित्यः समपद्यत ॥ ३६॥
यदादत्सि जगत् सर्वं रश्मिभिः प्रदहन्निव ।
युगान्तकाले सम्प्राप्ते परां सिद्धिमुपागतः ॥ ३७॥
पक्षसन्धावमावास्यां लोकं चरसि मानुषम् ।
ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसम्भवैः ॥ ३८॥
सफलं कर्म कर्तॄणां यजतां पुष्टिवर्धनः ।
हेतूनामविकाराय मा भूत् कर्मविपर्ययः ॥ ३९॥
वनस्पत्यौषधीश्चैव युगपत् प्रतिपद्यसे ।
बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥ ३.२६.४०॥
भूतानां भुवि भूतेश भाव्यर्थे वसुधातले ।
वसु यद् भुवि किञ्चिच्च सर्वं तत्त्वन्मयं विभो ॥ ४१॥
त्वमेव विविधं धर्मं शाश्वतं वसुधातले ।
देवयज्ञं मन्त्रवाक्यमात्मयज्ञं समानुषम् ॥ ४२॥
द्विविधः स्वर्गमार्गश्च सूर्यश्चन्द्रश्च निर्मलः ।
चन्द्रमाः पितृयानश्च देवयानश्च भास्करः ॥ ४३॥
त्वमेव वसुधायुक्तो विश्वं चरसि सीमया ।
एकीकृत्य गणान्सर्वान् सङ्क्षिप्यामुत्र सम्भवः ॥ ४८॥
एकस्त्वमसि सम्भूतः पुराणपुरुषो विराट् ।
अक्षयश्चाप्रमेयश्च कर्मकारकरो वशी ॥ ४५॥
मूर्तस्तेजसि सम्भूतो वायुः पर्येति खेचरः ।
सप्तभी रूपसंस्थानैर्नित्यमावृत्य तिष्ठति ॥ ४६॥
साधने चापि निर्वाणे संहारे प्रलये तथा ।
धाता धारणकाले च दिशश्चक्षुषि धारिणि ॥ ४७॥
सेव्यमानो मुनिगणैर्नित्यं विगतकिल्बिषैः ।
कर्मभिः सत्यमापन्नैः समरागैर्जितेन्द्रियैः ॥ ४८॥
स्तूयमानश्च विबुधैः सिद्धैर्मुनिवरैस्तथा ।
सस्मार विपुलं देहं हरिर्हयशिरो महान् ॥ ४९॥
कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः ।
शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः ॥ ३.२६.५०॥
आदित्यरश्मयो बालाश्चक्षुषी शशिभास्करौ ।
जङ्घे तु वसवः साध्याः सर्वसन्धिषु देवताः ॥ ५१॥
जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती ।
मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः ॥ ५२॥
एवं कृत्वा तथा रूपं सुराणामद्भुतं महत् ।
असुरं पीडयामास क्रोधाद् रक्तान्तलोचनः ॥ ५३॥
मधोर्मेदोऽम्बुपूर्णा च पृथिवी समदृश्यत ।
प्रमदेव घना चैव शुक्लांशुकनिवासिनी ॥ ५४॥
मेदिनीत्येव शब्दश्च लब्धः पृष्ट्या नरोत्तम ।
नामासुरसहस्रेण धरण्यां सम्प्रतिष्ठितम् ॥ ५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे षड्विंशोऽध्यायः ॥ २६॥
३.२७ सप्तविंशोऽध्यायः
आत्मोपासनादिकथनम् AtmopAsanAdikathanam
मधोः पतनात् समस्तेषु प्राणिषु हर्षं, तत्र एकत्रितानां पर्वतानां वसन्त ऋतोश्च वर्णनं, मधुवाहिनी नद्याः प्राकट्यं, गौरीसिद्ध्याः माहात्म्यं
वैशम्पायन उवाच ।
मधोर्निपतनं दृष्ट्वा सर्वभूतानि पुष्करे ।
प्रहृष्टानि प्रगायन्ति प्रनृत्यन्ति च सर्वशः ॥ १॥
सुपार्श्वो गिरिमुख्यस्तु काञ्चनैः शिखरोत्तमैः ।
बहुधातुविचित्रैश्च खं लिखन्निव चाबभौ ॥ २॥
गिरयश्चाभिशोभन्ते धातुभिः समरञ्जिताः ।
प्रांशुभिः शिखराग्रैश्च सविद्युत इवाम्बुदाः ॥ ३॥
पक्षवातोद्धतो रेणुश्चूर्णैः साञ्जनवालुकैः ।
छादयन् पर्वताग्राणि महामेघ इवाबभौ ॥ ४॥
मेघसंश्लिष्टशिखराः पक्षविक्षिप्तपादपाः ।
काञ्चनोद्भेदबहुलाः खे तिष्ठन्तीव पर्वताः ॥ ५॥
पक्षवन्तः सशिखरा हेमधातुभिरञ्जिताः ।
पवनेन समुद्भूतास्त्रासयन्ति विहङ्गमान् ॥ ६॥
काञ्चनाः पर्वताः सर्वे स्फाटिकैर्मणिभिश्चिताः ।
सूर्यकान्तैश्च बहुभिश्चन्द्रकान्तैश्च निर्मलाः ॥ ७॥
हिमवांश्च महाशैलः श्वेतैर्धातुभिराचितः ।
काञ्चनैः शिखराग्रैश्च सूर्यपादप्रकाशितैः ॥ ८॥
मणिभिश्च प्रकाशद्भिः पक्षान्तरविनिःसृतैः ।
ताम्रपुष्पैश्च शिखरैर्दीप्यमानैः स्वतेजसा ॥ ९॥
मन्दरश्चोग्रशिखरः स्फाटिकैर्मणिभिश्चितः ।
वज्रगर्भो निरालम्बैः स्वर्गोपम इवाबभौ ॥ ३.२७.१०॥
सहस्रशृङ्गः कैलासः शिलाधातुविभूषितः ।
तोरणैश्चैव निबिडैः प्रांशुभिश्चैव पादपैः ॥ ११॥
प्रवादयद्भिर्गन्धर्वैः किन्नरैश्च प्रगायिभिः ।
देवकन्याङ्गरागैश्च प्रक्रीडाद्रिरिवाबभौ ॥ १२॥
मधुरैर्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः ।
शृङ्गारैः साङ्गहारैश्च कैलासो मदनायते ॥ १३॥
आदित्याभासिभिः शृङ्गैर्भिन्नाञ्जनचयोपमैः ।
विन्ध्यो नीलाम्बुदश्यामो विभिन्न इव तोयदः ॥ १४॥
धात्वर्थं सर्वभूतानां मेरुपृष्ठे महाबले ।
निर्वेमुर्विमलं तोयं मेघजालैरिवोत्तमैः ॥ १५॥
शिलाभिर्बहुचित्राभिर्धातुभिर्बहुरूपिभिः ।
प्रस्रवद्भिर्गुहाद्वारैः सलिलं स्फटिकप्रभम् ॥ १६॥
ग्रीष्मान्ते वायुसङ्गूढा घना इव सविद्युतः ।
चित्रैः पुष्पैस्तरुगणाः शोभन्त इव भूषिताः ॥ १७॥
नागाः कनकसम्भूतैर्विचित्रैरिव भूषिताः ।
विहङ्गमाभिलीनाश्च लतास्तरुसमाश्रिताः ॥ १८॥
विलम्बन्त्यः सपुष्पाश्च नृत्यन्ते वायुघट्टिताः ।
पवनेन समुद्भूता महता माधवेऽहनि ॥ १९॥
मुमुचुः पुष्पसङ्घातं तोयं वेलेव वर्षति ।
फलवद्भिश्च विपुलैः शास्त्रास्कन्धावरोहिभिः ।
पादपैर्वर्णबहुलैर्ध्रियेत च वसुन्धरा ॥ ३.२७.२०॥
मधुप्रिया मधुकरा मधुमत्ता विहङ्गमाः ।
घोषयन्तीव गायन्तः कामस्यागमसम्भवम् ॥ २१॥
विष्णुर्मधोर्निहन्ता च चकार मधुवाहिनीम् ।
नदीं प्रस्रवनिर्भेदां सुतीर्था बहुलोदकाम् ॥ २२॥
अङ्गारवर्णसिकतां मधुतीर्थां मनोरमाम् ।
विमलैरम्बुभिः पूर्णां पुष्पसञ्चयवाहिनीम् ॥ २३॥
विवेश पुष्करं सा तु ब्रह्मणो वाक्यनोदिता ।
ऋषिभिश्चानुचरिता ब्रह्मतन्त्रनिषेविभिः ॥ २४॥
धात्री कपिलरूपेण गौर्भूत्वा क्षरते पयः ।
मधुरं वितते यज्ञे ब्रह्मणो वाक्यचोदिता ॥ २५॥
सरश्च पृथिवीभूतं सन्धातुं प्राप्तवन्महीम् ।
शुद्धं च भजते लोकं शाश्वतं परमाद्भुतम् ॥ २६॥
सरस्वत्याः समुद्भूतं ब्रह्मक्षेत्रे तमोनुदम् ।
मरुतीर्थमतिक्रम्य पुष्करेषु विसर्पति ॥ २७॥
सुचारुरूपा धर्मज्ञा अजा रूपेण छादयन् ।
रूपं कनकवर्णाभं तपोयुक्तेन चेतसा ॥ २८॥
अजगन्धकृतोन्मुक्तः सम्भूतः पर्वतो महान् ।
गुरुद्धारगुणप्राणः शाश्वतः सिद्धसेवितः ॥ २९॥
वेदिकाभिः सुचित्राभिः काञ्चनाभिर्विराजितः ।
पुष्कराणि परीतानि त्वष्ट्रा विपुलदक्षिण ॥ ३.२७.३०॥
महामेरोर्यथा रूपं पञ्चभिर्धातुभिर्वृतः ।
चेतना याभिसम्पन्नो रूपेणाद्भुतदर्शनः ॥ ३१॥
करिष्याम्यहमप्येतन्मनसा धर्मचारिणम् ।
रूपं बहुविधं लोके पार्थिवीं चेतनां तथा ॥ ३२॥
त्रींश्च लोकान् प्रपद्येयं पञ्चभिर्धातुलक्षणैः ।
षष्ठेन च ससर्जेयं मनसा धर्मचारिणीम् ॥ ३३॥
सङ्गेषु भावमोहाभ्यां पश्यन्ति च समृद्धयः ।
विमुक्ताः सर्वसङ्गेभ्यो धारयन्ति परिग्रहान् ॥ ३४॥
न च विन्देत मां कश्चिन्मनसा कामरूपिणम् ।
पञ्चधातुनिबद्धश्च नानाभाषितचोदनः ॥ ३५॥
ये च विष्णुमधीयन्ते बहुधा कामविग्रहैः ।
ते मां पश्येयुरव्यक्तं तपसा दग्धकिल्बिषाः ॥ ३६॥
ये च मामभिरोहेयुर्नरा धर्मपथे स्थिताः ।
तेऽपि स्वर्गजितः सन्तः पश्येयुर्मां गतक्लमाः ॥ ३७॥
यश्चैव पर्वतः प्रांशुर्मेरुपृष्ठे व्यवस्थितः ।
एतमारुह्य युध्येयुः प्राणत्यागे सुनिर्मलाः ॥ ३८॥
अप्सरोभिः समागम्य विचरेयुर्मनोजवाः ।
नन्दनं वनमारुह्य काम्यकं च महद्वनम् ॥ ३९॥
इमां विद्यां समास्थाय मद्भक्ताः पुष्करेष्विह ।
शरीरं क्षपयिष्यन्ति व्रतैर्बहुविधैः कृतैः ॥ ३.२७.४०॥
सिद्धिं प्राप्य क्रमेयुस्ते कामैर्बहुविधैर्नराः ।
इमं लोकममुं चैव सम्पतेयुर्यथासुखम् ॥ ४१॥
गौरी सिद्धेतिव्याख्याता त्रिषु लोकेषु विद्यया ।
प्रभावं तपसा वृत्तं दर्शयन्ती समाहिताः ॥ ४२॥
षण्णां ज्ञानाभिसन्धीनामभिज्ञानात् ससङ्ग्रहाः ।
भवेयुस्ते निरारम्भा धातुनिर्मुक्तबन्धनाः ॥ ४३॥
सहस्रगुणमप्यत्र दत्त्वा दानफलादिव ।
अविमानेन विप्राणां मनःशुद्धेन कर्मणा ॥ ४४॥
सर्वत्रैवाप्रमेयेण अत्यन्तं फलमाप्नुयुः ।
अमुष्मिँल्लोके धर्मज्ञाः सह सर्वकुलोद्भवैः ॥ ४५॥
येषामिह च सान्निध्यं यज्ञे ब्राह्मणसङ्कुले ।
ते भूयो यजमानाद्या अभिषिच्य पुनः पुनः ॥ ४६॥
तथा तां मन्यसे गौरीं मनसा धर्मचारिणीम् ।
अनुग्रहाय भूतानां तन्ममाग्रे तपोधने ॥ ४७॥
सत्य एष परोऽविद्ये भविता नात्र संशयः ।
नाफलो विद्यते धर्मश्चरितो धर्मचारिणा ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सप्तविंशोऽध्यायः ॥ २७॥
३.२८ अष्टाविंशोऽध्यायः
विष्णोस्तपश्चर्या परमैश्वर्यलाभश्च ViShNostapashcharyA paramaishvaryalAbhashcha
पुष्करे श्रीविष्ण्वादीनां तपःकरणं, तस्य प्रभावस्य वर्णनं
वैशम्पायन उवाच ।
दिशं जिगमिषुर्दिव्यामुत्तरां सत्यसाधनः ।
तथा स धातुनिचये पुण्ये पर्वतरोधसि ॥ १॥
विष्णुः परमधर्मात्मा एकपादेन तिष्ठति ।
दशवर्षसहस्राणि पुष्करे पुष्करेक्षणः ॥ २॥
आत्मन्यात्मानमाधाय तपसा ब्रह्मसम्भवः ।
घटते कर्मणोग्रेण लोकमुत्थानकारणात् ॥ ३॥
भासुरो भस्मनाऽऽच्छाद्य गात्राणि स्वयमात्मनः ।
अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः ॥ ४॥
तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः ।
तिष्ठते नभसो मध्ये योगात्मा भावयञ्जगत् ॥ ५॥
सोमो विषयमाक्षिप्य मनसा धारयन्मनः ।
युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिमुपागतः ॥ ६॥
सम्प्रदृश्यत सर्वत्र दिवि भुव्यन्तरे तथा ।
ज्योतिष्णु कर्म कुर्वाणो बहुरूपः स सम्पदा ॥ ७॥
महेश्वरोऽतिगूढान्मा वृषरूपेण तिष्ठति ।
उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः ॥ ८॥
अष्टौ वर्षसहस्राणि स्रहस्रं शतमेव च ।
महायोगी महादेवो नियमाद् ब्रह्मसम्भवः ॥ ९॥
अथ वायुर्घनीभूतो अन्ते चरति गोपतेः ।
फेनीभूतं समुद्गारैः पवनं निर्गिरन्मुखात् ॥ ३.२८.१०॥
स निष्क्रान्तस्ततो वक्त्रात्प्राणेन परमाप्तवान् ।
निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः ॥ ११॥
स फेनो वारिणाऽऽविश्य चचार वसुधातले ।
नैवार्द्रो नैव शुष्काङ्गो वायुसङ्घातमागतः ॥ १२॥
तत्काले फेनमुत्क्षिप्य पवनः सह वारिणा ।
निरालम्बे निरालम्बस्त्वभ्राणि समपद्यत ॥ १३॥
ते क्षिपन्ति पयो भूमावात्मानं स्वेन घट्टिताः ।
नीलमेघारुणप्रख्या नैवाद्रा नैव पार्थिवाः ॥ १४॥
ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी ।
समाः सहस्रं सम्पूर्णं चचार विपुल तपः ॥ १५॥
वह्निर्बहुजटी भूत्वा चीरवल्कलवासभृत्
तपस्तप्यदनाहारो मौनमास्थाय पौष्करे ॥ १६॥
वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः ।
तस्याग्नेस्तेजः सम्भूतो महानग्निः प्रवर्तते ॥ १७॥
स्वर्गप्रकाशं कृत्वा च स्वर्गवासी तमोनुदः ।
दिवि भूतप्रकाशाख्यस्तपसा ब्रह्मसम्भवः ॥ १८॥
तत्तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् ।
भास्करस्तेजसंहारस्ततो भवति सत्तमः ॥ १९॥
मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते ।
न तु योगबले राजन् ब्राह्मणस्य विशेषतः ।
तत्तमोनाशयेद् रात्रौ नाप्यहोभविताद्वयम् ॥ ३.२८.२०॥
पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी ।
तपश्चरति धर्मात्मा पुष्करेषु समाहितः ॥ २१॥
महेन्द्रशिखराद्धारा यावन्त्यो यान्ति मेदिनीम् ।
तावत्स्वरूपमास्थाय तिष्ठते निखिलाः समाः ॥ २२॥
जानुभ्यां पतितो भूमौ ज्योतिर्नभसि पश्यति ।
समाः सहस्रं निखिलं नेत्रैरनिमिषैर्जगत् ॥ २३॥
नेत्राणि बहुधा तस्य नेत्रान्तैरभिनिःसृताः ।
मध्यन्दिनकरे प्राप्ते रश्मिवान् सपरिग्रहे ॥ २४॥
ते रश्मयः प्रभानेत्रैः शतशोऽथ सहस्रशः ।
रराज तेजःसंयोगाद् विद्वद्भिरिव पावकः ॥ २५॥
स विस्फुलिङ्गैर्नेत्रान्तैरादित्यमनुवर्तते ।
कर्मणोऽन्ते युगान्ते वा जगतो बहुरूपिणः ॥ २६॥
बहुतापः पुनर्भूत्वा निषण्णो वसुधातले ।
समाः सहस्रं सम्पूर्णं तपस्तेपे सुदारुणम् ॥ २७॥
निगृहीतेन्द्रियो भूत्वा अप्सरोभिर्ललाम ह ।
मेरोः शिखरमासाद्य कामं कामेन निर्वमन् ॥ २८॥
तपःकामः स यक्षस्तु कुबेरो नरवाहनः ।
विष्णुरेव तपोऽध्यक्षस्तेजसोऽन्ते विजृम्भति ॥ २९॥
न हि कश्चित् पुमानस्ति य एवं तप आचरेत् ।
त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम् ॥ ३.२८.३०॥
वासुकिर्बहुशीर्षस्तु नागेन्द्रो मौनमास्थितः ।
तप आचरते सम्यङ् निधाय मनसा मनः ॥ ३१॥
शेषः सत्यधृतिर्नागो बलवान् ब्रह्मसम्भवः ।
वृक्षमारुह्य धर्मात्मा अवाक्छीर्षोऽवलम्बते ॥ ३२॥
जिह्वाभिर्लेलिहानाभिर्गात्रजं विषमुत्सृजन् ।
समाः सहस्रं सम्पूर्णं निराहारस्तपोधनः ॥ ३३॥
कालकूटं विषं तद्धि सुमहत् समपद्यत ।
येन लोको ह्यभिग्रस्तो न सुखं विन्दते नृप ॥ ३४॥
सर्वत्रानुगतं तीक्ष्णं भुजङ्गेषु महीपते ।
जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम् ॥ ३५॥
परस्परविवृद्धेन हिंसायुक्तेन भारत ।
नाशयत्यान्मनोऽङ्गानि तेन तीक्ष्णेन भारत ॥ ३६॥
अथ ब्रह्मा महाभागो भूतानां हितकाम्यया ।
मन्त्रं विसृजते राजन् ब्रह्माक्षरमहिंसकम् ॥ ३७॥
गरुत्मान् विततैः पक्षैर्नखाग्रैः सलिलं महीम् ।
समाः सहस्रं सम्पूर्णं चूलाग्रेणावलम्बिना ॥ ३८॥
पर्णभारैश्च विकचैर्विस्तीर्णैर्वसुधातले ।
रराज वसुधा चैव पर्णैर्बहुविचित्रितैः ॥ ३९॥
येन वृत्तेन जीवेयुः सर्वभूतानि भारत ।
इह लोके मनुष्येन्द्र देवलोके च भारत ।
द्यौरिवाचितनक्षत्रा मही तलविसर्पिभिः ॥ ३.२८.४०॥
हिमवान् हिमसम्पाते भवत्येकचरो वशी ।
पुष्कराम्भसि धर्मात्मा मत्स्योल्लिखितमूर्धजः ॥ ४१॥
अथ स्वबलमाक्रम्य पृथिवीं प्रांशुद्वाहिनीम् ।
तपश्चरति धर्मात्मा बाहुमुद्यम्य दक्षिणम् ॥ ४२॥
साग्रं वर्षसहस्रं च शतमेकं च सुव्रत ।
तपश्चरति संयोगाद् वायुभक्षः समाहितः ॥ ४३॥
समाधियोगात् सङ्गाद् वा ब्रह्मयोगस्य भारत ।
येनेयं पृथिवी राजन् धार्यते ब्रह्मयोनिना ॥ ४४॥
अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा ।
योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः ॥ ४५॥
दिने निषण्णो भवति रात्रौ भवति वै स्थिरः ।
सत्यसन्धः स धर्मात्मा कामकारकरो भवेत् ॥ ४६॥
तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः ।
रात्रौ स तपनो भवति मण्डलं विपुलं नभः ॥ ४७॥
स चन्द्रविषयं राजञ्छमयामास रुन्धति ।
ग्रहाणां गतयश्चैव ताराणां च विशेषतः ॥ ४८॥
तां छायामाक्षिपन् सोमात्स्रवद्भिर्मण्डलेन वै ।
पृथिव्यां दक्षिणो हस्तो महायोगी महामनाः ॥ ४९॥
सैषा छाया शशीभूता शशिमण्डलमाविशत् ।
अलिङ्गा पृथिवीलिङ्गादद्भुतादक्षया दिवि ॥ ३.२८.५०॥
अङ्गाङ्गान्युपगृह्यैव तपश्चरति निश्चयात् ।
प्रोक्ष्य पादौ तु सतलौ पृथिवी तपसि स्थिता ॥ ५१॥
सूर्यार्चिभिः पीयमानादाक्षिप्यत मही तले ।
महीमिवाम्बुवसनां युगान्ते विष्णुतेजसा ॥ ५२॥
रराज सूर्यरश्मिभिर्व्यतिषिक्ता महानदी ।
स्फाटिकेव शुभा सैषा काञ्चनैर्धातुभिर्वृता ॥ ५३॥
आदित्येन समादत्ता रश्मितेजोऽभिसम्भवैः ।
मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते ॥ ५४॥
रश्मिभिः पुनरुत्तीर्णा ततो योगेन धावति ।
आकाशगङ्गा संवृत्ता विपुलैरम्बुविग्रहैः ॥ ५५॥
शीतच्छायैश्च तरुभिर्लताभिश्च सुगन्धिभिः ।
पद्मखण्डैश्च विविधैः शुशुभे दिव्यगन्धिभिः ॥ ५६॥
काञ्चनापीडजघना स्फाटिकान्तरमेखला ।
पद्मरेणुसिता पीता चक्रवाकावतंसिका ॥ ५७॥
नीलगर्भसुकेशान्ता पुष्पसञ्चयसङ्कुला ।
शोभते विप्रसर्पन्ति प्रमदेव विभूषिता ॥ ५८॥
सैषा गङ्गा फलं लेभे पुष्करेण समाहिता ।
सुतपा चन्द्रविहिता लोकानां धारणे रता ॥ ५९॥
सरस्वती स्वरैर्व्यक्तैरधीते ब्रह्मवादिनी ।
पृष्ठात् प्रयाता शैलेन्द्रे मन्दरे मन्दगामिनी ॥ ३.२८.६०॥
ऋङ्मयांश्चतुरो वेदान् पादैश्चतुर्भिरावृतान् ।
यजुर्भिः सामभिश्चैव ग्रथिताञ्छिक्षया तदा ॥ ६१॥
ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।
सुपार्श्वस्य गिरेः पादे परिदायैः सुपारणैः ॥ ६२॥
निःस्वनं सर्वभूतानि नियमैश्च न शृण्वते ।
मन्दराग्रे विसर्पन्तं जगत्कृत्स्नमतीन्द्रियम् ॥ ६३॥
विरामनियमे प्राप्ते तूष्णीम्भूता बभूव ह ।
न वाचमीरयेद् देवी नियमात् सत्यवादिनी ॥ ६४॥
अथ भूतानि सर्वाणि तूष्णीम्भूतानि सर्वशः ।
न शेकुरभिधानार्थं व्याहर्तुं वदनैर्बलात् ॥ ६५॥
विभज्य योगं मनसा सर्वभूतेष्वनुग्रहम् ।
सरस्वती तीरयुता व्याजहार महास्वनम् ॥ ६६॥
सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः ।
तस्मिन्नेवाथ ते सर्वे गानं गायन्ति शिक्षया ॥ ६७॥
आदित्या वसवो रुद्रा मरुतश्चाश्विभिः सह ।
जटिलाश्चीरवसना मुञ्जमेखलधारिणः ॥ ६८॥
गन्धर्वाः किन्नराश्चैव सनागाः सह चाम्भसः ।
तपश्चरन्ति सहिताः पुष्करेषु मनीषिणः ॥ ६९॥
अपि कीटपतङ्गैश्च सह सर्वैः सरीसृपैः ।
शोषयन्ति शरीराणि तपसोग्रेण यत्नतः ॥ ३.२८.७०॥
विष्णुर्विष्णुत्वमापन्नो देहान्तरविसृष्टवान् ।
संरक्षति महायोगी सर्वांस्तान् सहचारिणः ॥ ७१॥
पुष्करे रमते विष्णुर्विष्णुरेव द्विधा कृतः ।
दीप्यमानः स्वतेजोभिर्विधूम इव पावकः ॥ ७२॥
सोऽग्निर्मनःसमुद्भूतः पृथिवीं तापयन्निव ।
प्रधावति समं तेन मण्डलं दशयोजनम् ॥ ७३॥
विरराजार्चिभिर्दीप्तैः पृष्ठतश्चावलम्बिभिः ।
विशीर्णपार्थिविभवैर्मयूखैरिव दीपितः ॥ ७४॥
तस्याग्नेर्विस्फुलिङ्गानां न शेकुर्लङ्घने रताः ।
विप्रकीर्णस्य वसुधामर्यादामिव भास्करम् ॥ ७५॥
सोऽग्निर्दीप्य विभज्यांशून्विधूम इव पावकः ।
ऋत्विग्भिर्ज्वलनप्रख्यैर्विक्रीयत इवाध्वरे ॥ ७६॥
सोऽग्निर्धूमगतस्तत्र तिष्ठते विपुलं तदा ।
यावद्विष्णुक्रमः प्राप्तो नियमस्य समापनात् ॥ ७७॥
रक्षां कृत्वा स्थितं विद्याद् विष्णुर्विष्णुपराक्रमः ।
भूत्वा शतशरीरो वै नागो बालाहकोऽभवत् ॥ ७८॥
तमग्निमात्मसंसृष्टं लेलिहानं महामतिम् ।
प्रतिप्रवृत्तं तेजोभिर्भूतानां हितकाम्यया ॥ ७९॥
वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः ।
न्यषिञ्चद् दहनं तत्र नागो बालाहकस्तदा ॥ ३.२८.८०॥
ततः सिद्धगणैर्जुष्टः पुष्करे तप्यते तपः ।
संहृत्य मनसाऽऽत्मानं महायोगी महाबलः ॥ ८१॥
पादगात्राणि संहृत्य मनो मूर्ध्नि विधारयन् ।
अचलं स्थानमासाद्य तूष्णीभूतो बभूव ह ॥ ८२॥
एष धर्मो हि धर्माणां नोपधानविकल्पितः ।
हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः ॥ ८३॥
अथ दैत्या हतास्तत्र समागम्योद्यतायुधाः ।
मायाप्राप्तैर्बहुविधैर्नगरैरभिसंवृताः ॥ ८४॥
अग्निं दैत्याः पर्वताग्रैरभिघ्नन्ति परन्तप ।
ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः ॥ ८५॥
मेघीभूताश्च मायाभिर्वर्षन्ति बलदर्पिताः ।
तस्मिन्नेवाभिसङ्घाते ससङ्घातं महाबलम् ॥ ८६॥
ते शैलास्त्वर्षिषा दग्धाः शतशोऽथ सहस्रशः ।
युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति ॥ ८७॥
न शेकुरग्निं दैत्यास्ते मायाभिर्मुखमुद्यतम् ।
आदित्यमिव दीप्यन्तं नभः सूर्योदये यथा ॥ ८८॥
विहितैरुद्यमैः सर्वे देत्या भग्नपराक्रमाः ।
गन्धमादनमासाद्य निषण्णा नगमूर्धनि ॥ ८९॥
स चाग्निर्वैष्णवैर्लोकैर्विद्युद्भिः सह सङ्गतः ।
अन्तरिक्षचरान् दैत्यान् निर्दहन्व्यचरद् दिवि ॥ ३.२८.९०॥
नागो बालाहकश्चैव मेघैः सङ्घातमागतः ।
मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान् ॥ ९१॥
मन्त्रैः सञ्चोदितो नागो द्विजेभ्यो वदनोद्गतैः ।
मुमोच तोयसङ्घातं मानयन् विप्रजं जनम् ॥ ९२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे अष्टाविंशोऽध्यायः ॥ २८॥
३.२९ एकोनत्रिंशोऽध्यायः
देवासुराणां तपःसिद्धिः DevAsurANAM tapaHsiddhiH
तपसःप्रभावेण देवानां उत्कर्षं
जनमेजय उवाच ।
संयुज्य तपसा देवाः किमकुर्वंस्ततः परम् ।
न हि तद् विद्यते लोके तपसा यन्न लभ्यते ॥ १॥
वैशम्पायन उवाच ।
अथ दीक्षां समास्थाय सर्वे विष्णुमया गणाः ।
पुष्करादग्निमुद्धृत्य प्रणीय च यथाविधि ॥ २॥
वहुवुर्मन्त्रविधिना ब्राह्मणा मन्त्रचोदिताः ।
हविषा मन्त्रपूतेन यथा वै विधिरेव च ॥ ३॥
स चाग्निर्विधिवत्तत्र वर्धते ब्रह्मतेजसा ।
तेजोभिर्बहुलीभूतः प्रभुः पुरुषविग्रहः ॥ ४॥
ब्रह्मदण्ड इति ख्यातो वपुषा निर्दहन्निव ।
दिव्यरूपप्रहरणो ह्यसिचर्मधनुर्धरः ॥ ५॥
सगदो लाङ्गली चक्री शरी चर्मी परश्वधी ।
शूली वज्री स्वङ्गपाणिः शक्तिमान् वरकार्मुकः ॥ ६॥
विष्णुश्चक्रधरः खड्गी मुसली लाङ्गलायुधः ।
नरो लाङ्गलमालम्ब्य मुसलं च महाबलः ॥ ७॥
वज्रमिन्द्रस्तपोयोगाच्छतपर्याणमक्षिपत् ।
रुद्रः शूलं पिनाकं च मनसाधारयद् भुवि ॥ ८॥
मृत्युर्दण्डं पाशमापः कालः शक्तिमगृह्णत ।
जग्राह परशुं त्वष्टा कुबेरश्च परश्वधम् ॥ ९॥
निर्विकारैः समायुक्ताः शतशोऽथ सहस्रशः ।
विश्वकर्मा च त्वष्टा च चक्राते ह्यायुधं बहु ॥ ३.२९.१०॥
इन्द्रायाग्निरथं प्रादात् सूर्याय च प्रतापिने ।
परमात्मा ददौ कृष्णो रुद्राय च महात्मने ॥ ११॥
छन्दोभिरेव त्वष्टा च स चकाराथ वाहिनीं
विश्वकर्मा विमानानि चकार बहुभिः क्रमैः ॥ १२॥
शरीरांशं समुद्धृत्य विष्णुः सत्यपराक्रमः ।
पुष्करात् पर्वणि वनात् पृतनार्थं प्रवर्तयन् ॥ १३॥
द्यां चैव सूर्यऋक्षाणां वाचा वै समकल्पयत् ।
यथा स पूज्यः सङ्ग्रामे शत्रून् निर्बिभिदे रणे ॥ १४॥
स तं दण्डं समुचितं निर्विकारं समाहितम् ।
ब्रह्मा जग्राह विधिना अन्तर्धानगतः प्रभुः ॥ १५॥
स्वैः प्रभावैश्च विधिना सोऽस्त्रग्रामं चतुर्विधम् ।
ऐन्द्रमाग्नेयवायव्ये रौद्रं रौद्रेण वर्चसा ॥ १६॥
एभिर्विकारैः संयुक्ता दितेः पुत्रा महाबलाः ।
तपसा शिक्षया चैव स्वास्त्रैः प्रहरणैरपि ॥ १७॥
बलेन चतुरङ्गेण वीर्येण सुसमाहिताः ।
अप्रधृष्या रणे सर्वे समपद्यन्त वै तदा ॥ १८॥
ते विहाय गुहामध्यं सभाण्डोपस्करे रथे ।
मन्दरस्य गिरेः पादे विचेरुर्वसुधातले ॥ १९॥
चतुरङ्गं बलं सर्वं संहृत्य तमसः प्रभुः ।
विष्णुरेव महायोगांश्चचार वसुधातले ॥ ३.२९.२०॥
भूयोऽन्यत्तप आसेदुश्चरन्तो ब्राह्मणैः सह ।
तैश्च सर्वैः सुरगणैर्धर्मचीरनिवासिभिः ॥ २१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकोनत्रिंशोऽध्यायः ॥ २९॥
३.३० त्रिंशोऽध्यायः
पृथुराज्याभिषेककथनादि PRithurAjyAbhiShekakathanAdi
पृथोः राज्याभिषेकं, दैत्यानां देवतानां च मन्दराचलस्य मन्थनदण्डेन समुद्रस्य
मन्थनं, समुद्रात् अन्येभिः रत्नैः सह अमृतस्य प्राकट्यं, राहोः शिरस्य छेदनं
जनमेजय उवाच ।
ब्रह्मन् खिले वर्तमाने निर्मर्यादे महाग्रहे ।
अविनाशे च भूतानां कथमासन् प्रजास्तदा ॥ १॥
वैशम्पायन उवाच ।
अभ्यषिञ्चत्पृथुं वैन्यं पुरा राज्ये प्रजापतिः ।
राज्याय ऋषिभिः सार्धं प्रजाधर्मपरायणः ॥ २॥
एष नः परमो राजा सानुरागो व्यजायत ।
त्रेतायां सम्प्रवृत्तायामन्योन्यमनुजल्पिरे ॥ ३॥
एष नो वृत्तिदाता च शिल्पानां च प्रवर्तिता ।
निर्माता सर्वभूतानां सत्यप्राप्तेन कर्मणा ॥ ४॥
एतस्मिन्नन्तरे देवा गन्धमादनसानुषु ।
बहुभिर्नियमैः श्रान्ता निषण्णा गिरिसानुषु ॥ ५॥
अथ गन्धं समासाद्य समन्ताद् देवदानवाः ।
माथवे समये प्राप्ते तेन गन्धेन दर्पिताः ॥ ६॥
पुष्पमात्रस्य यद् वीर्यं मारुतेन विसर्पितम् ।
मनोग्राहि सुखं सर्वं पार्थिवं गन्धमुत्तमम् ॥ ७॥
ते दैत्यास्तेन गन्धेन किञ्चिद् विस्मयमागताः ।
प्रसन्नमनसो भूत्वा परं सौख्यमुपागताः ॥ ८॥
ऊचुश्च सहिताः सर्वे तेन गन्धेन दर्पिताः ।
पुष्पमात्रस्य यद् वीर्यं किं तस्य फलतो भवेत् ॥ ९॥
अनुमानेन विज्ञेया विविधाः कर्मबुद्धयः ।
शुभाश्चैवाशुभाश्चैव बुद्धिप्राणेन देहिनाम् ॥ ३.३०.१०॥
तस्माद् वयं पयोमध्ये ओषध्यो निर्मथामहे ।
मन्दरेण विशालेन बलिना कामरूपिणा ॥ ११॥
समुद्रमभिसंरम्भान्मथ्नीमः सोमजं जलम् ।
पीत्वा च सहिताः सर्वे प्रस्थिताः कामरूपिणः ॥ १२॥
विष्णुरेवाग्रणीस्तेषां भविष्यति महाबलः ।
दिवं च वसुधां चैव भोक्ष्यामः सह शत्रुभिः ॥ १३॥
समूलपत्रशाखाश्च सपुष्पाः फलशालिनः ।
सर्वे ग्रहांश्च गृह्णीमः सुधां च वसुधातले ॥ १४॥
उद्धृत्य गिरिपादेभ्यो गन्धमादनसानुजान् ।
प्रभाष्य वचनं दैत्या मन्दरस्य प्रकम्पने ॥ १५॥
समुद्धर्तुं प्रधावन्तः कम्पयन्ति स्म मेदिनीम् ।
निश्चयेन महावीर्या बाहुभिः परिणाहिभिः ॥ १६॥
न शक्नुस्ते सूमुद्धर्तुं शैलेन्द्रं दनुवंशजाः ।
निपेतुर्जानुभिर्घृष्टा विपुले पर्वतान्तरे ॥ १७॥
समाधायात्मनाऽऽत्मानं तपसा दग्धकिल्बिषाः ।
पितामहं प्रपद्यन्ते शिरोभिः कामरूपिभिः ॥ १८॥
तेषां मनोऽभिलषितं ब्रह्मा सर्वत्रगो वशी ।
ज्ञात्वा बहुविधैर्वाक्यैर्व्याजहार सरस्वतीम् ॥ १९॥
अशरीरां शरीरस्थः परया वर्णसम्पदा ।
सर्वलोकमतिर्ब्रह्मा लोकानां हितकाम्यया ॥ ३.३०.२०॥
आदित्यैर्वसुभिश्चैव रुद्रैश्च समरुद्गणैः ।
देवैर्यक्षैः सगन्धर्वैः किन्नरैश्च प्रगायिभिः ॥ २१॥
समेत्य सहितैः सर्वैः शक्य उद्धरितुं गिरिः ।
अमृतार्थे महातेजा धातुभिः समरञ्जितः ॥ २२॥
सुरासुरगणाः सर्वे समुत्पाट्य महागिरिम् ।
हस्तारूढाः प्रपश्यन्ति वीरुधो हिमवद्रसम् ॥ २३॥
एतच्छुत्वा च वचनं सर्वेषामन्तिके तदा ।
दैतेया बाहुबलिनो मनोभिर्वाग्भिरैव च ॥ २४॥
विक्रीडभूता बहुधा बभूवुर्लवणाम्भसः ।
यत्र पुष्करविन्यस्तः सहितैर्देवदानवैः ॥ २५॥
सुरासुरगणाः सर्वे सहिता लवणाम्भसः ।
मन्दरं पुष्करं कृत्वा नेत्रं वासुकिमेव च ॥ २६॥
समाः सहस्रं मथितं जलमोषधिभिः सह ।
क्षीरभूतं समायोगादमृतं समपद्यत ॥ २७॥
तज्जह्रुरसुराः पूर्वमाक्रान्ता लोभमन्युना ।
धन्वन्तरिस्तथा मद्यं श्रीर्देवी कौस्तुभो मणिः ॥ २८॥
शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः ।
उच्चैःश्रवा हयो रम्यः पीयूषं तदनन्तरम् ॥ २९॥
पश्चाद् देवास्तदातुमुद्यता राहुमब्रुवन् ।
न तु केचित्पिबन्ति स्म दैत्या नैव च दानवाः ॥ ३.३०.३०॥
चिच्छेदाथ हरिः सङ्ख्ये राहोश्चक्रेण कं तदा ।
अनिर्मुक्तं पितृगणैर्मुनिभिश्च सनातनैः ॥ ३१॥
तदिन्द्रहस्तादमृतं जहार पृथिवी स्वयम् ।
जगामाङ्कगता देवी ब्रह्मवाक्यप्रचोदिता ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे त्रिंशोऽध्यायः ॥ ३०॥
३.३१ एकत्रिंशोऽध्यायः
हिरण्यकशिपो राजसूयवर्णनम् HiraNyakashipo rAjasUyavarNanam
बलेः यज्ञे वामनेन त्रिलोक्याः राज्यस्य हरणं, कालान्तरे देवेभिः बलेः राज्याभिषेककरणं
जनमेजय उवाच ।
निहते दैत्यसङ्घाते विष्णोश्चातिपराक्रमे ।
दैतेया दानवेयाश्च किमिच्छन्ति पराक्रमात् ॥ १॥
वैशम्पायन उवाच ।
दानवा राज्यमिच्छन्ति पराक्रम्य महाबलाः ।
तप इच्छन्ति सहिता देवाः सत्यपराक्रमाः ॥ २॥
जनमेजय उवाच ।
कथं कालस्य महतो हिरण्यकशिपुस्तदा ।
यजते ब्रह्मणः क्षेत्रे प्राप्तैश्वर्यः स कामदः ॥ ३॥
वैशम्पायन उवाच ।
ईजे बहुसुवर्णेन राजसूयेन पार्थिवः ।
क्रतुना दानवश्रेष्ठो वसुधायां महाबलः ॥ ४॥
गङ्गायमुनयोर्मध्ये यदभूद् विपुलं तपः ।
समेयुस्तत्र सहिता यजमाने महासुरे ॥ ५॥
ब्राह्मणा वेदविद्वांसो महाव्रतपरायणाः ।
यतयश्चापरे सिद्धा योगधर्मेण भारत ॥ ६॥
मुनयो वालखिल्याश्च धन्या धर्मेण शोभिताः ।
बहवो हि द्विजा मुख्या नित्यधर्मपरायणाः ॥ ७॥
ऋषयश्च महाभागा विप्रैः पूज्याः सहस्रशः ।
विपुलैरत्र विभवैर्हियमाणैस्ततस्ततः ॥ ८॥
शुक्रस्तु सह पुत्रेण दैत्यं याजयते प्रभुः ।
हिरण्यकशिपुं मध्ये गणानां ज्वलनप्रभः ॥ ९॥
हिरण्यकशिपुश्चैव व्याजहार सरस्वतीम् ।
कामाद् वरं ददातीति तद् वै सम्प्रतिपद्यताम् ॥ ३.३१.१०॥
विष्णुर्वामनरूपेण भिक्षां तां प्रतिगृह्णति ।
हिरण्यकशिपोर्हस्ताद् द्वे पदे पदमेव च ॥ ११॥
ततः क्रमितुमारेभे विष्णुः सत्यपराक्रमः ।
त्रीँल्लोकान् मुनिभिः क्रान्तैर्दिव्यं वपुरधारयत् ॥ १२॥
हृतराज्याश्च दैतेयाः पातालविवरं ययुः ।
ससैन्यगणसम्बद्धाः सप्रासाः सासितोमराः ॥ १३॥
सयन्त्रलगुडाश्चैव सपताकारथध्वजाः ।
सचर्मवर्मकोशाश्च सायुधाः सपरश्वधाः ॥ १४॥
तथेन्द्रविष्णुसहिताः सद्यस्तेऽभ्युत्थिता गणा ।
अभ्यषिञ्चन् प्रमुदिता लोकानामधिपे सुराः ॥ १५॥
स तान् स्वधामृतेनाशु पितृत्वे समतर्पयत् ।
ब्रह्मा तदमृतं दिव्यं महेन्द्राय प्रयच्छति ।
अक्षयं चाव्ययं चैव संवृतस्तेन कर्मणा ॥ १६॥
ततः शङ्खमुपाध्मासीद् द्विषतां लोमहर्षणम् ।
पितामहकरोद्भूतं जनितृ प्रथमे पदे ॥ १७॥
तं श्रुत्वा शङ्खशब्दं तु त्रयो लोकाः समाहिताः ।
निर्वृतिं परमां प्राप्ता इन्द्रं नाथमवाप्य च ॥ १८॥
सर्वैः प्रहरणैश्चैव संयुक्ता वह्निसम्भवैः ।
मन्दराग्रेषु विहितैर्ज्वलद्भिरिव पावकैः ॥ १९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकत्रिंशोऽध्यायः ॥ ३१॥
३.३२ द्वात्रिंशोऽध्यायः
दक्षयज्ञविनाशः DakShayaj~navinAshaH
दक्षयज्ञविध्वंसः
वैशम्पायन उवाच ।
ततो महति वृत्तान्ते स्थिते राज्ये महोदये ।
देवतानां मनुष्याणां सहवासोऽभवत् तदा ॥ १॥
एकतः समधीयन्ति सहिताः प्ररुदन्ति च ।
स्वयं च भागं गृह्णन्ति यज्ञकर्मणि भारत ॥ २॥
प्राचेतसं ततो दक्षं दीक्षित्वा वै बृहस्पतिः ।
वाजिमेधाय भगवानृषिभिः परिवारितः ॥ ३॥
तस्मिन् मातामहे यज्ञे दक्षस्य विदितात्मनः ।
शामित्रमकरोद् रुद्रो भागार्थे सह नन्दिना ॥ ४॥
रुद्रस्यैव हि तद् रूपं द्विधाभूतं तदीप्सया ।
जातः परमधर्मात्मा नन्दी पुरुषविग्रहः ॥ ५॥
तेन योगेन राजेन्द्र यत्तद् ब्रह्म सनातनम् ।
विहितं सत्यवचनैस्तेनैव परमात्मना ॥ ६॥
सरूपैश्चाप्यरूपैश्च विरूपाक्षैर्घटोदरैः ।
ऊर्ध्वनेत्रैर्महाकायैर्विकटैर्वामनैस्तथा ॥ ७॥
शिखिभिर्जटिभिश्चैव त्र्यक्षैश्च शङ्कुकर्णिभिः ।
चीरिभिश्चर्मिभिश्चैव कूटमुद्गरपाणिभिः ॥ ८॥
सघण्टाधारिभिश्चैव मुञ्जमेखलधारिभिः ।
सहस्तकटकैश्चैव स्वर्णकुण्डलधारिभिः ॥ ९॥
सडिण्डिमैः सभेरीयैः समृदङ्गैः सवेणुभिः ।
एतैः परिवृतो देवो मखं तं समुपारुजत् ॥ ३.३२.१०॥
सशङ्खमुरजैश्चापि सतालफलपाणिभिः ।
उप्रायुधधरो देवः सपिनाक इवान्तकः ॥ ११॥
विरराजार्चिभिर्दीप्तैर्मखे मखवतां वरः ।
कालाग्निरिव दीप्तार्चिर्जगद्दग्धुमिवोद्यतः ॥ १२॥
नन्दी पिनाकपाणिश्च जघ्नतुर्मखमुत्तमम् ।
युगान्त इव कालाग्निः क्षिप्रं दग्धुमिवोद्यतः ॥ १३॥
यूपमुत्क्षिप्य धावन्ति निशाचरगणास्तथा ।
त्रासयन् मुनिसङ्घांश्च चीरचर्मनिवासिनः ॥ १४॥
हवींष्यन्ये पिबन्त्येव जिह्वाभिस्ताम्रलोचनाः ।
भक्षयन्ति पशूनन्ये रसनान्तावलम्बिभिः ॥ १५॥
मुमुचुश्चापरे यूपान् पशवः प्रहरन्ति च ।
वह्निमध्ये प्रसिञ्चन्ति वारिभिः प्रशमाय च ॥ १६॥
सोममन्ये जहुः केचिन्नेत्रैस्ताम्रजपोपमैः ।
दर्भान् केचिद् विलुम्पन्ति हस्तैः पद्मदलप्रभैः ॥ १७॥
बभञ्जिरे च यूपाग्रान् कलशांश्चापि चिक्षिपुः ।
चिच्छिदुः काञ्चनान् वृक्षाञ्छोभार्थमुपकल्पितान् ॥ १८॥
बिभिदुश्चैव बाणैस्ते मुमुचुश्च हिरण्मयान् ।
लुलुपुश्चैव पात्राणि ममन्थुश्चारणीमपि ॥ १९॥
अरुजंश्चैव प्राग्वंशं लुलुपुश्च समाहिताः ।
चखादिरे पुरोडाशान् नखाग्रैश्च चकर्तिरे ॥ ३.३२.२०॥
एवं दिवा च रात्रौ च भिद्यमानो महामखः ।
चुक्रोश च महानादान् भिद्यमान इवार्णवः ॥ २१॥
धनुः सशरमादाय पूर्वदत्तं स्वयम्भुवा ।
कृतं कीचकवेणुभ्यां समरे सुमहारथः ॥ २२॥
प्रतिगृह्य महादेवः स शरैः समयोजयत् ।
धनुर्विगृह्य जानुभ्यां जघान स महाक्रतुम् ॥ २३॥
स विद्धस्तेन बाणेन खं समुत्पतितः क्रतुः ।
मृगो भूत्वा नर्दमानो ब्रह्माणमुपधावति ॥ २४॥
शरेणाभिहतस्त्राणं न लेभे प्रशमं भुवि ।
शरणार्थी ह्ययं प्राप्तः शरेणान्तर्गतेन च ॥ २५॥
तमुवाच मृगं ब्रह्मा शुभं सानुनयं वचः ।
स्वरेणोत्तमवीर्येण गम्भीरेण सुभाषिणा ॥ २६॥
एवंरूपो नभसि त्वं भविष्यसि महामृगः ।
विजितश्च त्रिपर्वेण शरेणानतपर्वणा ॥ २७॥
तिष्ठन् नक्षत्रशिरसि सह रुद्रेण नित्यशः ।
सोमेन सह संयुक्तो ह्यक्षयेणाव्ययेन च ॥ २८॥
दिवि सञ्चारभूतो वै ताराभिः सह सङ्गतः ।
ज्योतिर्भूतो ज्योतिषां त्वं ध्रुवश्चैव महाध्रुवः ॥ २९॥
यच्चैतद् रुधिरं दिव्यं क्षतजादभिनिःसृतम् ।
नभस्युत्पतितं चैव प्रवेगेन प्रधावतः ॥ ३.३२.३०॥
क्षतजं बहुवर्णं च क्षेत्रं मण्डलसंज्ञितम् ।
निमित्तभूतं भूतानां वर्षे वर्षप्रदं तथा ॥ ३१॥
सुखं दुःखं च भूतानां दर्शने सम्प्रवर्तते ।
इन्द्रियश्रवणाच्चैव नभसीन्द्रायुधोऽभवत् ॥ ३२॥
चक्षुषी मानुषे राजन् विस्मयात् समवैक्षत ।
अद्भुतं बहुचित्रं च मनसा सम्प्रकल्पितम् ॥ ३३॥
न तु रात्रौ प्रदृश्येत खे सब्रह्मणि संज्ञितम् ।
दिनस्यैव सदा त्वग्रे महत्कार्यं प्रदृश्यते ॥ ३४॥
भूमावेव समुत्तिष्ठेदाकाशे तु विलीयते ।
शतशश्च समं सर्वे प्रधावन्ति प्रचेतसः ।
भयाद् रुद्रस्य महतो धन्विनो बाणपाणयः ॥ ३५॥
नन्दी रुद्रगणैः सार्द्धं पिनाकी समतिष्ठत ।
युगान्तकाले ज्वलितो ब्रह्मदण्ड इवोद्यतः ॥ ३६॥
विष्णुः शृङ्गसमुद्भूतं प्रगृह्य विपुलं धनुः ।
प्रातिष्ठत महाबाहुः पाणिना चक्रमादधत् ॥ ३७॥
गदां सघण्टामन्येन खड्गमन्येन पाणिना ।
प्रगृह्य सोऽग्रतोऽतिष्ठद् रुद्रायोद्यतपाणये ॥ ३८॥
ततः शृङ्गाग्रसम्भूतं प्रगृह्य विपुलं धनुः ।
शङ्खं चाप्रतिमं लोके शरांश्चानतपर्वणः ॥ ३९॥
विष्णुरग्रस्थितो भाति सबलः संहताङ्गुलिः ।
बद्धगोधाङ्गुलित्राणः सचन्द्र इव तोयदः ॥ ३.३२.४०॥
आदित्या वसवश्चैव दिव्यैः प्रहरणैः सह ।
विष्णुमेवाभितः सर्वे तिष्ठन्ति ज्वलनप्रभाः ॥ ४१॥
मरुतश्चैव विश्वे च रुद्रमेवाभिपेदिरे ।
गन्धर्वाः किन्नराश्चैव नागा यक्षाः सपन्नगाः ॥ ४२॥
ऋषयो न्यस्तदण्डाश्च उभयोः पक्षयोर्हिताः ।
जपन्ति शान्तये नित्यं लोकानां हितकाम्यया ॥ ४३॥
रुद्रः शरेणाभ्यहनद् विष्णुमेवाग्रणी रणे ।
हृदि सर्वाङ्गसन्धीषु तीक्ष्णाग्रेण सुयन्त्रिणा ॥ ४४॥
न चकम्पे तदा विष्णुः सर्वात्मा ब्रह्मसम्भवः ।
न च रोषमना नित्यं वृतः सर्वैः षडिन्द्रियैः ॥ ४५॥
विष्णुश्च धनुरानम्य शरेण समयोजयत् ।
जत्रुदेशे मुमोचाशु ब्रह्मदण्डमिवोद्यतम् ॥ ४६॥
स विद्धस्तेन बाणेन महादेवो न कम्पते ।
वज्रेण च महासन्धिर्मन्दरस्य न चाल्यते ॥ ४७॥
ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनम् ।
कण्ठे जग्राह भगवान् नीलकण्ठस्ततोऽभवत् ॥ ४८॥
अनादिनिधनो देवो क्षमतां हि भवान्मम ।
सर्वभूतागमाचार्यमचलत्वाच्च कर्मणाम् ॥ ४९॥
कर्मणां चैव कर्ता च विकर्ता चैव भारत ।
अशेषत्वाच्च भूतानां सर्वभूतेषु चोत्तमः ॥ ३.३२.५०॥
स्वयमेव हि यत् कर्म विधत्ते कर्मयोनिषु ।
तयोः शुभतमो राजन् स्वयमेव तथाकरोत् ॥ ५१॥
अन्तरिक्षाच्छुभा वाचः श्रूयन्ते परमाद्भुताः ।
सिद्धानां वदनोन्मुक्ताः सनातन नमोऽस्तु ते ॥ ५२॥
नन्दी पिनाकमुद्यम्य बलवान् रुद्रसम्भवः ।
मूर्द्धन्यभिजघानाजौ विष्णुं क्रोधेन मूर्छितः ॥ ५३॥
ततः प्रहसितो विष्णुर्नन्दीं दृष्ट्वा सुरोत्तमः ।
स्तम्भयामास भगवान् सर्वभूतपतिर्हरिः ॥ ५४॥
विष्णुर्ब्रह्मसमो भूत्वा तेजसा प्रज्वलन्निव ।
क्षमया च समायुक्तः स्थितः स्थाणुरिवाचलः ॥ ५५॥
अचिन्त्यश्चाप्रमेयश्च ह्यजेयश्चाप्यरिन्दमः ।
युगान्ताग्निसमो भूत्वा शान्तात्मा हरिरव्ययः ॥ ५६॥
प्रसन्नः कल्पयामास भागं रुद्राय धीमते ।
विष्णुर्धर्मपरो नित्यं त्यक्तकामः सुरोत्तमः ॥ ५७॥
विष्णुना चैव राजेन्द्र स यज्ञः सन्धितः पुनः ।
यथापक्षं च ते सर्वे गणास्त्वासन् महीपते ।
तस्मिन् युद्धे महाघोरे विष्णू रुद्रस्य चैव ह ॥ ५८॥
यथापक्षं भवेद् युद्धं दक्षयज्ञविनाशने ।
विनाशश्चैव यज्ञस्य तदा लोके प्रतिष्ठितः ॥ ५९॥
सर्वभूतेषु राजेन्द्र हितो यज्ञः सनातनः ।
दक्षो यज्ञफलं चैव प्राप्तवान् स प्रजापतिः ॥ ३.३२.६०॥
इमां चोदाहृतां दिव्यां कथामिति स बुद्धिमान् ।
श्रावयेद् यस्तु विप्रेभ्यः शुचिः प्रयतमानसः ॥ ६१॥
अधीत्य सर्वमध्यात्मं देवलोके महीयते ।
एष पौष्करको नाम प्रादुर्भावो महात्मनः ॥ ६२॥
पुराणे पौष्करे चैव मया द्वैपायनेरितः ।
यथावदनुपूर्वेण संस्कृतः परमर्षिभिः ॥ ६३॥
यश्चैनमग्र्यं पुरुषः पुराणं सदाप्रमत्तः शृणुयाद् यथोक्तम् ।
अवाप्य कामानिह वीतशोकः परत्र च स्वर्गफलानि भुङ्क्ते ॥ ६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे द्वात्रिंशोऽध्यायः ॥ ३२॥
३.३३ त्रयस्त्रिंशोऽध्यायः
वराहप्रादुर्भाववर्णनम् The description of varAha prAdurbhAva
वाराहावतारस्य उपक्रमः
जनमेजय उवाच ।
प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतां विप्र वाराह इति नः श्रुतः ॥ १॥
न जानतेऽस्य चरितं न विधिं नैव विस्तरम् ।
न कर्म गुणवद्भावं न हेतुं न मनीषितम् ॥ २॥
किमात्मको वराहोऽसौ का मूर्तिः कास्य देवता ।
किमाचारः किं प्रभावः किं वा तेन पुरा कृतम् ॥ ३॥
एतन्मे संशयत्वेन वाराहं श्रुतिविस्तरम् ।
यज्ञार्थं च समेतानां द्विजातीनां महात्मनाम् ॥ ४॥
वैशम्पायन उवाच ।
एतत् ते कथयिष्यामि पुराणं ब्रह्मसम्मितम् ।
नानाश्रुतिसमायुक्तं कृष्णद्वैपायनेरितम् ।
महावराहचरितं कृष्णस्याद्भुतकर्मणः ॥ ५॥
यथा नारायणो राजन् वाराहं वपुरास्थितः ।
दंष्ट्र्या गां समुद्रस्थामुज्जहारारिसूदनः ॥ ६॥
छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतः ।
शुचिः प्रयत्नवान् भूत्वा निबोध जनमेजय ॥ ७॥
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम् ।
नानाश्रुतिसमायुक्तं नास्तिकाय न कीर्तयेत् ॥ ८॥
पुराणमेतदखिलं साङ्ख्यं योगं तथैव च ।
कार्त्स्न्येन विधिना प्रोक्तं योऽस्यार्थं ज्ञास्यते पुमान् ॥ ९॥
विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ ।
प्रजानां पतयश्चैव सप्त चैव महर्षयः ॥ ३.३३.१०॥
मनःसङ्कल्पजाश्चैव पूर्वजाश्च महर्षयः ।
वसवोऽप्सरसश्चैव गन्धर्वा यक्षराक्षसाः ॥ ११॥
दैत्याः पिशाचा नागाश्च भूतानि विविधानि च ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ॥ १२॥
चतुष्पदानि सर्वाणि तिर्यग्योनिगतानि च ।
जङ्गमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञितम् ॥ १३॥
पूर्णे युगसहस्रान्ते ब्राह्मेऽहनि तथागते ।
निर्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ॥ १४॥
हिरण्यरेतास्त्रिशिखस्ततो भूत्वा वृषाकपिः ।
शिखाभिर्विविधाँल्लोकान् संशोषयति देहिनः ॥ १५॥
दह्यमानास्ततस्तस्य तेजोराशिभिरग्रतः ।
विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः ॥ १६॥
साङ्गोपनिषदा वेदा इतिहासपुरोगमाः ।
सर्वविद्याश्रयाश्चैव सत्यधर्मपरायणाः ॥ १७॥
ब्रह्माणमग्रतः कृत्वा छन्दतो विश्वतोमुखम् ।
सर्वे देवगणाश्चैव त्रयस्त्रिंशच्च कोटयः ॥ १८॥
तस्मिन्नहनि सम्प्राप्ते तं हंसं महदक्षरम् ।
प्रविशन्ति महायोगं हरिं नारायणं प्रभुम् ॥ १९॥
तेषां भूयः प्रविष्टानां निधनोत्पत्तिरुच्यते ।
यथा सूर्यस्य सततमुदयास्तमयाविह ॥ ३.३३.२०॥
पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते ।
तस्मिञ्जीवकृतं सर्वं निःशेषमवतिष्ठते ॥ २१॥
संहृत्य लोकान् सर्वान् स सदेवासुरपन्नगान् ।
कृत्वाऽऽत्मगर्भे भगवानास्त एको जगद्गुरुः ॥ २२॥
यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ २३॥
नष्टार्ककिरणे लोके चन्द्ररश्मिविवर्जिते ।
त्यक्तभूताग्निपवने क्षीणयज्ञवषट्क्रिये ॥ २४॥
अपक्षिगणसङ्घाते सर्वप्राण्यचरे पथि ।
अमर्यादाकुले रौद्रे सर्वतस्तमसावृते ॥ २५॥
अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम् ।
प्रशान्ते सर्वसम्पाते नष्टे वैरपरिग्रहे ॥ २६॥
गते स्वभावसंस्थानं लोके नारायणात्मके ।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे ॥ २७॥
पीतवासा लोहिताक्षः कृष्णो जीमूतसन्निभः ।
शिखासहस्रविकचं जटाभारं समुद्वहन् ॥ २८॥
श्रीवत्सकलिलं पुण्यं रक्तचन्दनभूषितम् ।
वक्षो बिभ्रन्महाबाहुः सविद्युदिव तोयदः ॥ २९॥
पुण्डरीकसहस्रस्य मालास्य शुशुभे तदा ।
पत्नी चैव स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति ॥ ३.३३.३०॥
ततः स्वपिति धर्मात्मा सर्वलोकपितामहः ।
किमप्यमितविक्रान्तो निद्रायोगमुपागतः ॥ ३१॥
ततो वर्षसहस्रे तु पूर्णे स पुरुषोत्तमः ।
स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः ॥ ३२॥
ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत् ।
पितृदेवासुरनरान् पारमेष्ठ्येन कर्मणा ॥ ३३॥
ततश्चिन्तयते कार्यं देवेषु समितिञ्जयः ।
सम्भवं सर्वलोकस्य विदधाति स वाक्पतिः ॥ ३४॥
कर्ता चैव विकर्ता च संहर्ता च प्रजापतिः ।
धाता विधाता च तथा संयमो नियमो यमः ॥ ३५॥
नारायणपरा देवा नारायणपराः क्रियाः ।
नारायणपरो यज्ञो नारायणपरा श्रुतिः ॥ ३६॥
नारायणपरो मोक्षो नारायणपरा गतिः ।
नारायणपरो धर्मो नारायणपरः क्रतुः ॥ ३७॥
नारायणपरं ज्ञानं नारायणपरं तपः ।
नारायणपरं सत्यं नारायणपरं पदम् ।
नागयणपरो देवो न भूतो न भविष्यति ॥ ३८॥
स्वयम्भूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः ।
स वायुरिति विज्ञेय एष यज्ञः सनातनः ॥ ३९॥
सदसच्च स विज्ञेयः स यज्ञः स प्रजाकरः ।
यद् वेदितव्यं त्रिदशैस्तदेष परिविन्दति ॥ ३.३३.४०॥।
यच्च वेद्यं भगवतो देवा अपि न तद् विदुः ।
प्रजानां पतयः सप्त ऋषयश्च सहामरैः ॥ ४१॥
नास्यान्तमधिगच्छन्ति ततोऽनन्त इति श्रुतिः ।
यदस्य परमं रूपं तत्र पश्यन्ति देवताः ॥ ४२॥
प्रादुर्भावेषु सम्भूतं यत् तदर्चन्ति देवताः ।
यन्न दर्शितवान् देवः कस्तदन्वेष्टुमर्हति ॥ ४३॥
ग्रामणीः सर्वभूतानामग्निमारुतयोर्गतिः ।
तेजसस्तपसश्चैव निधानममृतस्य च ॥ ४४॥
चतुराश्रमवर्णेषु चातुर्होत्रफलाशनः ।
चतुःसागरपर्यन्तश्चतुर्युगविवर्तकः ॥ ४५॥
तदेष संहृत्य जगत् कृत्वा गर्भस्थमात्मनः ।
मुमोचाण्डं महायोगी धृतं वर्षसहस्रिकम् ॥ ४६॥
सुरासुरद्विजभुजगाप्सरोगणैर्महौषधिक्षितिधरयक्षगुह्यकैः ।
प्रजापतिः श्रुतिधर रक्षसां कुलं तदासृजज्जगदिदमात्मना प्रभुः ॥ ४७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे प्रादुर्भावे त्रयस्त्रिंशोऽध्यायः ॥ ३३॥
३.३४ चतुस्त्रिंशोऽध्यायः
वराह्रकृते धरोद्धारः ViShNu takes varAha avatAra to lift the Earth from Netherworld
भगवता यज्ञवराहेण पृथिव्याः उद्धारः
वैशम्पायन उवाच ।
जगदण्डमिदं पूर्वमासीत् सर्वं हिरण्मयम् ।
प्रजापतेर्मूर्तिमयमित्येवं वैदिकी श्रुतिः ॥ १॥
ततो वर्षसहस्रान्ते बिभेदोर्ध्वमुखं विभुः ।
लोकसञ्जननार्थाय बिभेदाण्डं पुनः पुनः ॥ २॥
भूयोऽष्टधा बिभेदाण्डं प्रभुर्वै लोकयोनिकृत् ।
चकार जगतश्चात्र विभागं सर्वभागवित् ॥ ३॥
यच्छिद्रमूर्ध्वमाकाशं परा सुकृतिनां गतिः ।
विहितं विश्वयोगेन यदधस्तद् रसातलम् ॥ ४॥
यदण्डमकरोत् पूर्वं देवलोकसिसृक्षया ।
समन्तादष्टधा यानि च्छिद्राणि कृतवांस्तु सः ॥ ५॥
विदिशस्ता दिशः सर्वा मनसैवाकरोद् द्विधा ।
नानारागविरागाणि यान्यण्डशकलानि वै ॥ ६॥
बहुवर्णधराश्चित्रा बभूवुस्ते बलाहकाः ।
यदण्डमध्ये स्कन्नं तदृतमासीत् समाहितं ७
जातरूपं तदभवत् तत् सर्वं पृथिवीतले ।
तस्य क्लेदार्णवौघेन प्राच्छाद्यत समन्ततः ॥ ८॥
पृथिवी निखिला राजन् युगान्ते सागरैरिव ॥ ९॥
यच्चाण्डमकरोत् पूर्वं देवलोकचिकीर्षया ।
तत्र तत्सलिलं स्कन्नं सोऽभवत् काञ्चनोगिरिः ॥ १०॥
तेनाम्भसा प्लुताः सर्वा दिशश्चोपदिशस्तथा ।
अन्तरिक्षं च नाकं च यच्चान्यत् किञ्चिदन्तरम् ॥ ११॥
यत्र यत्र जलं स्कन्नं तत्र तत्र स्थितो गिरिः ।
शैलैः समस्तैर्गहना विषमा मेदिनी भवत् ॥ १२॥
ते सपर्वतजालौघैर्बहुयोजनविस्तृतैः ।
पीडिता गुरुभिर्देवी पृथिवी व्यथिताभवत् ॥ १३॥
महीतले भूरि जलं दिव्यं नारायणात्मकम् ।
हिरण्मयं समुद्दिष्टं तेजो विमलरूपितम् ॥ १४॥
अशक्ता वै धारयितुमधः सा प्रविवेश ह ।
पीड्यमाना भगवतस्तेजसा तेन सा क्षितिः ॥ १५॥
पृथिवीं विशतीं दृष्ट्वा तामधो मधुसूदनः ।
उद्धारार्थं मनश्चक्रे लोकानां हितकाम्यया ॥ १६॥
श्रीभगवानुवाच ।
मत्तेज एव बलवत् समासाद्य तपस्विनी ।
रसातलं विशेद् देवी पङ्के गौरिव दुर्बला ॥ १७॥
धरण्युवाच ।
त्रिविक्रमायामितविक्रमाय
महानृसिंहाय चतुर्भुजाय ।
श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ १८॥
त्वयाऽऽत्मना धार्यते वै त्वया संह्रियते जगत् ।
त्वं धारयसि भूतानां भुवनं त्वं बिभर्षि च ॥ १९॥
यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया पश्चात् तु धार्यते ॥ २०॥
त्यया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद् विद्यते रूपं यत्त्वया न तु धार्यते ॥ २१॥
त्वमेव कुरुषे वीर नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया ॥ २२॥
तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥ २३॥
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयामि सनातनम् ॥ २४॥
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशोऽप्युपलक्षये ॥ २५॥
बीभगवानुवाच ।
मा भैर्धरणि कल्याणि शान्तिं व्रज समाहिता ।
एष त्वामुचितं स्थानमानयामि मनीषितम् ॥ २६॥
वैशम्पायन उवाच ।
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ।
किं नु रूपमहं कृत्वा उद्धरामि वसुन्धराम् ॥ २७॥
जले निमग्नां धरणीं येनाहं वै समुद्धरे ।
इत्येवं चिन्तयित्वा तु देवस्त्वत्करणे मतिम् ॥ २८॥
जलक्रीडारुचिस्तस्माद् वाराहं रूपमस्मरत् ।
हरिरुद्धरणे युक्तस्तदाभूदस्य भूमिभृत् ॥ २९॥
अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसम्मितम् ।
दशयोजनविस्तारमुच्छ्रितं शतयोजनम् ॥ ३०॥
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ।
महागिरेः संहननं श्वेतदीप्तोग्रदंष्ट्रिणम् ॥ ३१॥
विद्युदग्निप्रतीकाशमादित्यसमतेजसम् ।
पीनवृत्तायतस्कन्धं दृप्तशार्दूलगामिनम् ॥ ३२॥
पीनोन्ततकटीदेशं वृषलक्षणपूजितम् ।
रूपमास्थाय विपुलं वाराहममितं हरिः ॥ ३३॥
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ।
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ॥ ३४॥
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ॥ ३५॥
आज्यनासः स्रुवातुण्डः सामघोषस्वरो महान् ।
सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः ॥ ३६॥
क्रियासत्रमहाघोणः पशुजानुर्मखाकृतिः ।
उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ॥ ३७॥
वाय्वन्तरात्मा मन्त्रस्पृग् विक्रमः सोमशोणितः ।
वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ॥ ३८॥
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरर्चितः ।
दक्षिणाहृदयो योगी महासत्रमयो महान् ॥ ३९॥
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।
नानाछन्दोगतिपथो गुह्योपनिषदासनः ॥ ४०॥
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ।
भूत्वा यज्ञवराहोऽसौ युगपत्प्राविशद् गुरुः ॥ ४१॥
अद्भिः सञ्छादितामुर्वीं स तामार्च्छत् प्रजापतिः ।
रसातलतले मग्नां पातालान्तरसंश्रयाम् ॥ ४२॥
प्रभुर्लोकहितार्थाय दंष्ट्राग्रेणोज्जहार गाम् ।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ॥ ४३॥
मुमोच पूर्वं सहसा धारयित्वा धराधरः ।
ततो जगाम निर्वाणं मेदिनी तस्य धारणात् ॥ ४४॥
चकार च नमस्कारं तस्मै देवाय शम्भवे ।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ॥ ४५॥
उद्धृता पृथिवी देवी लोकानां हितकाम्यया ।
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया ॥ ४६॥
पृथिवीप्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ।
रसातलगतामेवं विचिन्त्य स सुरोत्तमः ॥ ४७॥
ततो विभुः प्रवरवराहरूपधृग्
वृषाकपिः प्रसभमथैकदंष्ट्रया ।
समुद्धरन् धरणिमतुल्यविक्रमो
महायशाः सकलहितार्थमच्युतः ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपवर्णि वाराहे पृथिव्युद्धरणे चतुस्त्रिंशोऽध्यायः ॥ ३४॥
३.३५ पञ्चत्रिंशोऽध्यायः
महीवर्णनम् Description of the Earth
भगवता वराहेण विभिन्नासु दिक्षु पर्वतानां नदीनां च निर्माणं
वैशम्पायन उवाच ।
तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वात्तु देहस्य न ययौ सम्प्लवं मही ॥ १॥
ततः स चिन्तयामास प्रविभागं क्षितेर्विभुः ।
समुच्छ्रयं च सर्वेषां पर्वतानां नदीषु च ॥ २॥
विलेखनं प्रमाणं च गतिं प्रस्रवमेव च ।
माहात्म्यं च विशेषं च नदीनामन्वचिन्तयत् ॥ ३॥
चतुरन्तां धरां कृत्वा तथा चैव महार्णवम् ।
मध्ये पृथिव्याः सौवर्णमकरोन्मेरुपर्वतम् ॥ ४॥
प्राचीं दिशमथो गत्वा चकारोदयपर्वतम् ।
शतयोजनविस्तारं सहस्रं च समुच्छ्रयम् ॥ ५॥
जातरूपमयैः शृङ्गैस्तरुणादित्यसन्निभैः ।
आत्मतेजोगुणमयैर्वेदिकाभोगकल्पितम् ॥ ६॥
विविधांश्च महास्कन्धान् काञ्चनान् पुष्करेक्षणः ।
नित्यपुष्पफलान् वृक्षान् कृतवांस्तत्र पर्वते ॥ ७॥
शतयोजनविस्तारं ततस्त्रिगुणमायतम् ।
चकार स महादेवः पुनः सौमनसं गिरिम् ॥ ८॥
नानारत्नसहस्राणां कृत्वा तत्र सुसञ्चयम् ।
वेदिकां बहुवर्णां च सन्ध्याभ्राभामकल्पयत् ॥ ९॥
सहस्रशृङ्गं च गिरिं नानामणिशिलातलम् ।
कृतवान् वृक्षगहनं षष्टियोजनमुच्छ्रितम् ॥ १०॥
आसनं तत्र परमं सर्वभूतनमस्कृतम् ।
कृतवानात्मनः स्थानं विश्वकर्मा प्रजापतिः ॥ ११॥
शिशिरं च महाशैलं तुषारचयसन्निभम् ।
चकार दुर्गगहनं कन्दरान्तरमण्डितम् ॥ १२॥
शिशिरप्रभवां चैव नदीं द्विजगणायुताम् ।
चकार पुलिनोपेतां वसुधारामिति श्रुतिः ॥ १३॥
सा नदी निखिलां प्राचीं पुण्यां मुखशतैश्चिताम् ।
शोभयत्यमृतप्रख्यैर्मुक्ताशङ्खविभूषितैः ॥ १४॥
नित्यपुष्पफलोपेतैश्छादयद्भिः सुसंवृतैः ।
भूषिताभ्यधिकैः कान्तैः सा नदी तीरजैर्द्रुमैः ॥ १५॥
कृत्वा प्राचीविभागं च दक्षिणायामथो दिशि ।
चकार पर्वतं दिव्यं सर्वकाञ्चनराजतम् ॥ १६॥
एकतः सूर्यसङ्काशमेकतः शशिसन्निभम् ।
स बिभ्रच्छुशुभेऽतीव द्वौ वर्णौ पर्वतोत्तमः ॥ १७॥
तेजसा युगपद् व्याप्तं सूर्याचन्द्रमसाविव ।
वपुष्मन्तमथो तत्र भानुमन्तं महागिरिम् ॥ १८॥
सर्वकामफलैर्वृक्षैर्वृतं रम्यैर्मनोरमैः ।
चकार कुञ्जरं चैव कुञ्जरप्रतिमाकृतिम् ॥ १९॥
सर्वतः काञ्चनगुहं बहुयोजनविस्तृतम् ।
ऋषभप्रतिमं चैव ऋषभं नाम पर्वतम् ॥ २०॥
हेमकाञ्चनवृक्षाढ्यं पुष्पहासं स सृष्टवान् ।
महेन्द्रमथ शैलेन्द्रं शतयोजनमुच्छ्रितम् ॥ २१॥
जातरूपमयैः शृङ्गैः सपुष्पितमदाद्रुमम् ।
मेदिन्यां कृतवान् देवः प्रतिक्षोभमिवाचलम् ॥ २२॥
नानारत्नसमाकीर्णं सूर्येन्दुसदृशप्रभम् ।
चकार मलयं चाद्रिं चित्रपुष्पितपादपम् ॥ २३॥
मैनाकं च महाशैलं शिलाजालसमावृतम् ।
दक्षिणस्यां दिशि शुभं चकाराचलमायतम् ॥ २४॥
सहस्रशिरसं विन्ध्यं नानाद्रुमलताकुलम् ।
नदीं च विपुलावर्तां पुलिनश्रोणिभूषिताम् ॥ २५॥
क्षीरसङ्काशसलिलां पयोधारामिति श्रुतिः ।
सुरम्यां तोयकलिलां विहितां दक्षिणां दिशम् ॥ २६॥
दिव्यां तीर्थशतोपेतां प्लावयन्तीं शुभाम्भसा ।
दिशं याम्यां प्रतिष्ठाप्य प्रतीचीं दिशमागमत् ॥ २७॥
अकरोत् तत्र शैलेन्द्रं शतयोजनमुच्छ्रितम् ।
शोभितं शिखरैश्चित्रैः सुप्रवृद्धैर्हिरण्मयैः ॥ २८॥
काञ्चनीभिः शिलाभिश्च गुहाभिश्चविभूषितम् ।
समाकुलं सूर्यनिभैः शालैस्तालैश्च भास्वरैः ॥ २९॥
शुशुभे जातरूपैश्च श्रीमद्भिश्चित्रवेदिकैः ।
षष्टिं गिरिसहस्राणि तत्रासौ संन्यवेशयत् ॥ ३०॥
मेरुप्रतिमरूपाणि वपुषा प्रभया सह ।
सहस्रजलधारं च पर्वतं मेरुसन्निभम् ॥ ३१॥
पुण्यतीर्थगुणोपेतं भगवान् संन्यवेशयत् ।
षष्टियोजनविस्तारं तावदेव समुच्छ्रितम् ॥ ३२॥
आत्मरूपोपमं तत्र वाराहं नाम नामतः ।
निवेशयामास गिरिं दिव्यं वैदूर्यपर्वतम् ॥ ३३॥
राजताः काञ्चनाश्चैव यत्र दिव्याः शिलोच्चयाः ।
तत्रैव चक्रसदृशं चक्रवन्तं महाबलम् ॥ ३४॥
सहस्रकूटं विपुलं भगवान् संन्यवेशयत् ।
शङ्खप्रतिमरूपं च राजतं पर्वतोत्तमम् ॥ ३५॥
सितद्रुमसमाकीर्णं शङ्खं नाम न्यवेशयत् ।
सुवर्णं रत्नसम्भूतं पारिजातं महाद्रुमम् ॥ ३६॥
महतः पर्वतस्याग्रे पुष्पहासं न्यवेशयत् ।
शुभामतिरसां चैव घृतधारामिति श्रुतिः ॥ ३७॥
वराहः सरितं पुण्यां प्रतीच्यामकरोत् प्रभुः ।
प्रतीच्यां संविधिं कृत्वा पर्वतान्काञ्चनोज्ज्वलान् ॥ ३८॥
गुणोत्तरानुत्तरस्यां संन्यवेशयदग्रतः ।
ततः सौम्यगिरिं सौम्यमन्तरिक्षप्रमाणतः ॥ ३९॥
रुक्मधातुप्रतिच्छन्नमकरोद् भास्करोपमम् ।
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ॥ ४०॥
तस्य लक्ष्म्यधिकं भाति तपसा रविणा यथा ।
सूक्ष्मलक्षणविज्ञेयस्तपतीव दिवाकरः ॥ ४१॥
सहस्रशिखरं चैव नानातीर्थसमाकुलम् ।
चकार रत्नसङ्कीर्णं भूयोऽस्तं नाम पर्वतम् ॥ ४२॥
मनोहरगुणोपेतं मन्दरं चाचलोत्तमम् ।
उद्दामपुष्पगन्धं च पर्वतं गन्धमादनम् ॥ ४३॥
चकार तस्य शृङ्गेषु सुवर्णरससम्भवं
जम्बूं जाम्बूनदमयीमनन्ताद्भुतदर्शनाम् ॥ ४४॥
गिरिं त्रिशिखरं चैव तथा पुष्करपर्वतम् ।
शुभ्रं पाण्डुरमेघाभं कैलासं च नगोत्तमम् ॥ ४५॥
हिमवन्तं च शैलेन्द्रं दिव्यधातुविभूषितम् ।
निवेशयामास हरिर्वाराहीं तनुमास्थितः ॥ ४६॥
नदीं सर्वगुणोपेतामुत्तरस्यां दिशि प्रभुः ।
मधुधारां स कृतवान् दिव्यामृषिशताकुलाम् ॥ ४७॥
सर्वे चैव क्षितिधराः सपक्षाः कामरूपिणः ।
तदा कृता भगवता विचित्राः परमेष्ठिना ॥ ४८॥
स कृत्वा प्रविभागं तु पृथिव्या लोकभावनः ।
देवासुराणामुत्पत्तौ कृतवान् बुद्धिमक्षयाम् ॥ ४९॥
सर्वासु दिक्षु क्षतजोपमाक्ष-
श्चकार शैलान्विविधाभिधानान् ।
हिताय लोकस्य स लोकनाथः
पुण्याश्च नद्यः सलिलोपगूढाः ॥ ५०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे पञ्चत्रिंशोऽध्यायः ॥ ३५॥
३.३६ षट्त्रिंशोऽध्यायः
हिरण्यगर्भाद्युत्पत्तिकथनम् Birth of hiraNyagarbha and others
जगतेः सृष्ट्याः वर्णनं
वैशम्पायन उवाच ।
जगत्स्रष्टुमना देवश्चिन्तयामास पूर्वजः ।
तस्य चिन्तयतो वक्त्रान्निःसृतः पुरुषः किल ॥ १॥
ततः स पुरुषो देवं किं करोमीत्युपस्थितः ।
प्रत्युवाच स्मितं कृत्वा देवदेवो जगत्पतिः ॥ २॥
विभजात्मानमित्युक्त्वा गतोऽन्तर्धानमीश्वरः ।
अन्तर्हितस्य देवस्य सशरीरस्य भारत ॥ ३॥
प्रशान्तस्येव दीपस्य गतिस्तस्य न विद्यते ।
ततस्तेनेरितां वाणीं सोऽन्वचिन्तयत प्रभुः ॥ ४॥
हिरण्यगर्भो भगवान् य एष छन्दसि श्रुतः ।
एष प्रजापतिः पूर्वमभवद् भुवनाधिपः ॥ ५॥
तदा प्रभृति तस्याद्यो यज्ञभागो विधीयते ।
प्रजापतिरुवाच ।
विभजात्मानमित्युक्तस्तेनास्मि सुमहात्मना ॥ ६॥
कथमात्मा विभज्यः स्यात् संशयो ह्यत्र मे महान् ।
इति चिन्तयतस्तस्य ओमित्येवोत्थितः स्वरः ॥ ७॥
स भूमावन्तरिक्षे च नाके च कृतवांस्ततः ।
तं चैवाभ्यसतस्तस्य मनःसारमयः पुनः ॥ ८॥
हृदयाद् देवदेवस्य वषट्कारः समुत्थितः ।
भूम्यन्तरिक्षकानां च भूर्भुवःसुवरात्मिकाः ।
महास्मृतिमयाः पुण्या महाव्याहृतयोऽभवन् ॥ ९॥
छन्दसां प्रवरा देवी चतुर्विंशाक्षराभवत् ।
तत्पदं संस्मरन् दिव्यां सावित्रीमकरोत् प्रभुः ॥ ३.३६.१०॥
ऋक्सामाथर्वयजुषश्चतुरो भगवान् प्रभुः ।
चकार निखिलान् वेदान् ब्रह्मयुक्तेन कर्मणा ॥ ११॥
ततस्तस्यैव मनसः सनः सनक एव च ।
सनातनश्च भगवान् वरदश्च सनन्दनः ॥ १२॥
सनत्कुमारश्च विभुस्तत्र जज्ञे सनातनः ।
मानसाश्चैव पूर्वाद्या इत्येते षण्महर्षयः ॥ १३॥
ब्रह्माणं कपिलं चैव षडेतांश्चैव योगिनः ।
यतयो योगतन्त्रेषु यान् स्तुवन्ति द्विजातयः ॥ १४॥
ततो मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
भृगुमङ्गिरसं चैव मनुं चैव प्रजापतिम् ॥ १५॥
पितॄंश्च सर्वभूतानां देवतासुररक्षसाम् ।
महर्षीनसृजच्छम्भुरष्टावेतांश्च मानसान् ॥ १६॥
एते युगसहस्रान्ते याश्चैषामभवन् प्रजाः ।
कल्पे निःशेषमुक्ते तु ततो गच्छन्ति निर्वृतिम् ॥ १७॥
भूयो वर्षसहस्रान्ते उत्पत्तिस्तु विधीयते ।
एतेषामेव देवानां प्रजाकर्तृषु वै तदा ॥ १८॥
किं तु कर्मविशेषेण देवतानां युगे युगे ।
नामजन्मविशेषाश्च तथैव युगपर्यये ॥ १९॥
अङ्गुष्ठाद् दक्षिणाद् दक्ष उत्पन्नो भगवानृषिः ।
तस्यैव तु पुनर्भार्या वामाङ्गुष्ठादजायत ॥ ३.३६.२०॥
तस्य तत्राभवन् कन्या विश्रुता लोकमातरः ।
याभिर्व्याप्तास्त्रयो लोकाः प्रजाभिर्मनुजाधिप ॥ २१॥
अदितिं च दितिं कालां दनायुं सिंहिकां मुनिम् ।
प्राधां क्रोधां च सुरभिं विनतां सुरसां तथा ॥ २२॥
दनुं कद्रूं च दुहितॄः प्रददौ कश्यपाय तु ।
प्रजां सञ्चिन्त्य मनसा गतिज्ञेनान्तरात्मना ॥ २३॥
अरुन्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् ।
सङ्कल्पां च मुहूर्तां च साध्यां विश्वां च भारत ॥ २४॥
मनवे ब्रह्मपुत्राय कन्या दक्षो ददौ दश ।
ततः सर्वानवद्याङ्ग्यः कन्याः कमललोचनाः ॥ २५॥
पूर्णचन्द्रानना दिव्या गन्धवत्यो मनोरमाः ।
कीर्तिं लक्ष्मीं धृतिं पुष्टिं बुद्धिं मेधां क्षमां तथा ॥ २६॥
मतिं लज्जां वसुं चैव दक्षो धर्माय वै ददौ ।
अत्रेस्तु तनयो जातस्तस्य तोयात्मकः शशी ॥ २७॥
पुत्रो ग्रहाणामधिपः सहस्रांशुस्तमिस्रहा ।
तस्मै नक्षत्रयोगिन्यः सप्तविंशतिरुत्तमाः ॥ २८॥
रोहिणीप्रमुखाः कन्या दक्षः प्राचेतसो ददौ ।
एतासां पुत्रपौत्रं च प्रोच्यमानं मया शृणु ॥ २९॥
कश्यपस्य मनोश्चैव धर्मस्य शशिनस्तथा ।
अर्यमा वरुणो मित्रः पूषा धाता पुरन्दरः ॥ ३.३६.३०॥
त्वष्टा भगोंऽशुः सविता पर्जन्यश्चेति विश्रुताः ।
अदित्यां जज्ञिरे देवाः कश्यपाल्लोकभावनाः ॥ ३१॥
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ।
द्वावप्यमितविक्रान्तौ तपसा कश्यपोपमौ ॥ ३२॥
हिरण्यकशिपोः पुत्राः पञ्चैव सुमहाबलाः ।
प्रह्रादश्चैव संह्रादस्तथानुह्राद एव च ॥ ३३॥
ह्रदश्चैव तु विक्रान्तः पञ्चमोऽनुह्रदस्तथा
प्रह्रादः पूर्वजस्तेषामनुह्रादस्तथा परः ॥ ३४॥
प्रह्रादस्य त्रयः पुत्रा विक्रान्ताः सुमहाबलाः ।
विरोचनश्च जम्भश्च सुजम्भश्चेति विश्रुताः ॥ ३५॥
बलिर्विरोचनसुतो बाण एको बलेः सुतः ।
बाणस्य चेन्द्रदमनः पुत्रः परपुरञ्जयः ॥ ३६॥
दनोः पुत्रास्तु बहवो वंशे ख्याता महासुराः ।
विप्रचित्तिः प्रथमजस्तेषां राजा बभूव ह ॥ ३७॥
गणः प्रजज्ञे क्रोधायाः पुत्रपौत्रमनन्तकम् ।
रौद्राः क्रोधवशा नाम क्रूरकर्माण एव च ॥ ३८॥
सिंहिका सुषुवे राहुं ग्रहं चन्द्रार्कमर्दनम् ।
ग्रस्तारं चैव चन्द्रस्य सूर्यस्य च विनाशनम् ॥ ३९॥
कालायाः कालकल्पस्तु गणः परमदारुणः ।
अभवद् दीप्तसूर्याक्षो नीलमेघसमप्रभः ॥ ३.३६.४०॥
सहस्रशीर्षा शेषश्च वासुकिस्तक्षकस्तथा ।
बहूनां कद्रुपुत्राणामेते प्राधान्यमागताः ॥ ४१॥
धर्मात्मानो वेदविदः सदा प्राणिहिते रताः ।
लोकतन्त्रधराश्चैव वरदाः कामरूपिणः ॥ ४२॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।
अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः ॥ ४३॥
इमाश्चाप्सरसः पुण्या विविधाः पुण्यलक्षणाः ।
सुषुवेऽष्टौ महाभागा प्राधा देवर्षिपूजिता ॥ ४४॥
अनवद्यां मनुं वंशामनूनामरुणप्रियाम् ।
अनुगां सुभगां भासीं स्त्रियः प्राधा व्यजायत ॥ ४५॥
अलम्बुषा मिश्रकेशी पुण्डरीका तिलोत्तमा ।
सुरूपा लक्षणा क्षेमा तथा रम्भा मनोरमा ॥ ४६॥
असिता च सुबाहुश्च सुवृत्ता सुमुखी तथा ।
सुप्रिया च सुगन्धा च सुरसा च प्रमाथिनी ॥ ४७॥
काश्या शारद्वती चैव मौनेयाप्सरसः स्मृताः ।
विश्वा वसुर्भरण्यश्च गन्धर्वाश्चैव विश्रुताः ॥ ४८॥
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
घृतस्थला घृताची च विश्वाची चोर्वशी तथा ॥ ४९॥
अनुम्लोचेत्यभिख्याता प्रम्लोचेति च ता दश ।
मनोवती चापि तथा वैदिक्योऽप्सरसस्तथा ॥ ३.३६.५०॥
प्रजापतेस्तु सङ्कल्पात् सम्भूता भुवनप्रियाः ।
अमृतं ब्राह्मणा गावो रुद्राश्चेति चतुष्टयम् ॥ ५१॥
सुरभ्यपत्यमित्येतत् पुराणे निश्चयो महान् ।
एतद् वै कश्यपापत्यं मनोर्वंशं निबोध मे ॥ ५२॥
सङ्क्षेपेणैव तत् सर्वं कीर्तयिष्यामि तेऽनघ ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत ॥ ५३॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः ।
भानोस्तु भानवस्तात मुहूर्ताश्च मुहूर्तजाः ॥ ५४॥
लम्बा घोषं विजज्ञेऽथ नागवीथी च जामिजा ॥
पृथिव्यां विषमं सर्वं मरुत्वत्यामजायत ॥ ५५॥
सङ्कल्पायास्तु कौरव्य जज्ञे सङ्कल्प एव च ॥
धर्मस्य पुत्रो लक्ष्म्यास्तु कामो जज्ञे जगत्प्रभुः ॥ ५६॥
यशो हर्षश्च कामस्य रत्यां पुत्रद्वयं स्मृतम् ॥
सोमस्य पुत्रो रोहिण्यां जज्ञे वर्चा महाप्रभः ॥ ५७॥
उदयन्नेव भगवान्वर्चस्वी येन जायते ॥
पुरूरवाश्च भगवातुर्वशी येन युज्यते ॥ ५८॥
एवं पुत्रसहस्राणि स्त्रीणां चैव परस्परम् ॥
एतावत्तु जगन्मूलं यत्र लोकाः प्रतिष्ठिताः ॥ ५९॥
प्रजापतिस्तु भगवान् गुणतः प्रेक्ष्य देहिनः ॥
आधिपत्येषु युक्तेषु नियोजयति योगवित् ॥ ३.३६.६०॥
दिशो दश क्षितिमृषयोऽर्णवान्नगान्दुमौषधीरुरगसरित्सुरासुरान् ॥
प्रजापतिर्भुवनसृजो नभोभुवः क्रियामखानथ कृतवान् गिरींश्च सः ॥ ६१॥
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि षट्त्रिंशोऽध्यायः ॥ ३६॥
३.३७ सप्तत्रिंशोऽध्यायः
लोकानामाधिपत्यव्यवस्थापनम् Establishment of different lordstogether with deva-s kashyapa and aditi go to brahmahips
ब्रह्मणा विभिन्नेषु वर्गेषु अधिपतीनां नियोजनं
वैशम्पायन उवाच ।
त्रयाणामपि लोकानामादित्यानां च भारत ॥
चकार शक्रं राजानमादित्यसमतेजसम् ॥ १॥
स वज्री कवची विष्णुरदित्यामभिजज्ञिवान् ॥
स्मृतेः सहायो द्युतिमान्यथा सोऽध्वर्युभिः स्तुतः ॥ २॥
जातमात्रोऽथ भगवान्स कुशैर्ब्राह्मणैर्धृतः ॥
तदाप्रभृति देवेशः कौशिकत्वमुपागतः ॥ ३॥
अभिषिच्याधिराज्ये तु सहस्राक्षं पुरन्दरम् ॥
ब्रह्मा क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४॥
यज्ञानां तपसां चैव ग्रहनक्षत्रयोस्तथा ॥
द्विजानामोषधीनां तु सोमं राज्येऽभ्यषेचयत् ॥ ५॥
दक्षं प्रजापतीनां तु अम्भसां वरुणं पतिम् ॥
पितॄणां सर्वनिधनं कालं वैश्वानरं प्रभुम् ॥ ६॥
गन्धानां चैव सर्वेषां भूतानां च शरीरिणाम् ॥
शब्दाकाशबलानां च वायुरीशस्तदा कृतः ॥ ७॥
सर्वभूतपिशाचानां मृत्यूनां च गवां तथा ॥
उत्पातग्रहरोगाणां व्याधीनां तु तथैव च ॥ ८॥
व्रतानां चेव सर्वेषां महादेवः कृतः प्रभुः ॥
यक्षाणां राक्षसानां च गुह्यकानां धनस्य च ॥ ९॥
रत्नानां चैव सर्वेषां कृतो वैश्रवणः प्रभुः ॥
सर्वेषां दंष्ट्रिणां शेषो नागानामथ वासुकिः ॥ ३.३७.१०॥
सरीसृपाणां सर्वेषां प्रभुर्वै तक्षकः कृतः ॥
सागराणां नदीनां च मेषानां वर्षणस्य च ॥
आदित्यानामवरजः पर्जन्योऽधिपतिः कृतः ॥ ११॥
गन्धर्वाणामधिपतिस्तथा चित्ररथः कृतः ॥
सर्वाप्सरोगणानां च कामदेवः प्रभुः कृतः ॥ १२॥
चतुष्पदानां सर्वेषां वाहनानां च सर्वशः ॥
महेश्वरध्वजः श्रीमान् गोवृषोऽधिपतिः कृतः ॥ १३॥
दैत्यानां च महातेजा हिरण्याक्षः प्रभुः कृतः ॥
हिरण्यकशिपुश्चैव यौवराज्येऽभिषेचितः ॥ १४॥
गणानां कालकेयानां महाकालः प्रभुः कृतः ॥
अनायुषायाः पुत्राणां वृत्रो राजा तदा कृतः ॥ १५॥
सिंहिकातनयो यस्तु राहुर्नाम महासुरः ॥
उत्पातानामनेकानामशुभानां प्रभुः कृतः ॥ १६॥
ऋतूनामथ सर्वेषां युगानां चैव भारत ॥
पक्षाणां चेव मासानां तथैव तिथिपर्वणाम् ॥ १७॥
कलाकाष्ठामुहूर्तानां गतेरयनयोस्ततः ॥
कृतः संवत्सरो राजा योगस्य गणितस्य च ॥ १८॥
पक्षिणां चैव सर्वेषां चक्षुषां च महाबलः ॥
सुपर्णो भोगिनां चैव गरुडोऽधिपतिः कृतः ॥ १९॥
अरुणो गरुडभ्राता जपापुष्पचयप्रभुः ॥
योगानां चैव सर्वेषां साध्यानामधिपः कृतः ॥ ३.३७.२०॥
पुत्रोऽस्य विरथो नाम कश्यपस्य प्रजापतेः ॥
राजा प्राच्यां दिशि तथा वासवेनाधिपः कृतः ॥ २१॥
आदित्यस्य विभोः पुत्रो धर्मराजो महायशाः ॥
दक्षिणस्यां दिशि यमो महेन्द्रेणैव सत्कृतः ॥ २२॥
कश्यपस्यौरसः पुत्रः सलिलान्तर्गतः सदा ॥
अम्बुराज इति ख्यातः प्रतीच्यां दिशि पार्थिवः ॥ २३॥
पुलस्त्यपुत्रो द्युतिमान्महेन्द्रप्रतिमः प्रभुः ॥
एकाक्षः पिङ्गलो नाम सौम्यायां दिशि पार्थिवः ॥ २४॥
एवं विभज्य राज्यानि स्वयम्भूर्लोकभावनः ॥
लोकांश्च त्रिदिवे दिव्यानददत्स पृथक् पृथक् ॥ २५॥
कस्यचित्सूर्यसङ्काशान्कस्यचिद्वह्निसन्निभान् ।
कस्यचित्सुष्ठुविद्योतान्कस्यचिच्चन्द्रनिर्मलान् ॥ २६॥
नानावर्णान्कामगमाननेकशतशो जनान् ।
स तान्त्सुकृतिनां लोकान्पापदुष्कृतिदुर्लभान् ॥ २७॥
येषां भासो विभान्त्यग्रे सौम्यास्तारागणा इव ॥
एते सुकृतिनां लोका ये जाताः पुण्यक- र्मिणः ॥ २८॥
ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः ॥
स्वदारनिरताः क्षान्ता ऋजवः सत्यवादिनः ॥ २९॥
दीनानुग्रहकर्तारो ब्रह्मण्या लोभवर्जिताः ॥
सन्त्यक्तरजसः सन्तो यान्ति तत्र तपोमलाः ॥ ३.३७.३०॥
एवं नियुज्य तनयान्त्स्वयं लोकपितामहः ॥
पुष्करं ब्रह्मसदनमारुरोह प्रजापतिः ॥ ३१॥
सर्वे स्वयम्भुदत्तेषु पालनेषु दिवौकसः ॥
रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ॥ ३२॥
स्वयम्भुवा शक्रपुरःसरा सुराः कृता यथार्हं प्रतिपालनेषु ते ॥
यशो दिवं च प्रतिपेदिरे शुभं मुदं च जग्मुर्मखभागभोजिनः ॥ ३३॥
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि सप्तत्रिंशोऽध्यायः ॥ ३७॥
३.३८ अष्टात्रिंशोऽध्यायः
देवासुरयुद्धोद्योगः तद्युद्धवर्णनं च War breaks out between devas and asuras - description of the war
देवासुरसङ्ग्रामः, हिरण्याक्षेण देवराजेन्द्रस्य स्तम्भनं
वैशम्पायन उवाच ।
कदाचित् तु सपक्षास्ते पर्वता धरणीधराः ।
प्रस्थिता धरणीं त्यक्त्वा नूनं तस्यैव मायया ॥ १॥
तदासुराणां निलयं हिरण्याक्षेण पालितम् ।
दिशं प्रतीचीमागत्य ह्रदेऽमज्जन् यथा गजाः ॥ २॥
तत्रासुरेभ्यः शंसन्त आधिपत्यं सुराश्रयम् ।
तच्छ्रुत्वाथासुराः सर्वे चक्रुरुद्योगमुत्तमम् ॥ ३॥
क्रूरां च बुद्धिमतुलां पृथिवीहरणे रताः ।
आयुधानि च सर्वाणि जगृहुर्भीमविक्रमाः ॥ ४॥
चक्राशनींस्तथा खड्गान् भुशुण्डीश्च धनूंषि च ।
प्रासान्पाशांश्च शक्तीश्च मुसलानि गदास्तथा ॥ ५॥
चक्र, अशनि, खङ्ग, भुशुण्डि, धनुष, प्रास, पाश,
शक्ति, मूसल और गदा आदि आयुध ले लिये ॥ ५॥
केचित् कवचिनः सज्जा मत्तनागांस्तथा परे ।
केचिदश्वरथान्युक्ता अपरेऽश्वान् महासुराः ॥ ६॥
केचिदुष्ट्रांस्तथा खड्गान् महिषान् गर्दभानपि ।
स्वबाहुबलमास्थाय केचिच्चापि पदातयः ॥ ७॥
परिवार्य हिरण्याक्षं तलबद्धाः कलापिनः ।
इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः ॥ ८॥
ततो देवगणाः पश्चात् पुरन्दरपुरोगमाः ।
दैत्यानां विदितोद्योगाश्चक्रुरुद्योगमुत्तमम् ॥ ९॥
महता चतुरङ्गेण बलेन सुसमाहिताः ।
बद्धगोधाङ्गुलित्राणास्तूणवन्तः समार्गणाः ॥ ३.३८.१०॥
उग्रायुधधरा देवाः स्वेष्वनीकेष्ववस्थिताः ।
ऐरावतगतं शक्रमन्वगच्छन्त पृष्ठतः ॥ ११॥
ततस्तूर्यनिनादेन भेरीणां च महास्वनैः ।
अभ्यद्रवद्धिरण्याक्षो देवराजं पुरन्दरम् ॥ १२॥
तीक्ष्णैः परशुनिस्त्रिंशैर्गदातोमरशक्तिभिः ।
मुसलैः पट्टिशैश्चैव छादयामास वासवम् ॥ १३॥
ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर्बाणवृष्टयः ॥ १४॥
शिष्टाश्च दैत्या बलिनः सितधारैः परश्वधैः ।
परिघैरायसैः खड्गैः क्षेपणीयैश्च मुद्गरैः ॥ १५॥
गण्डशैलैश्च विविधै रश्मिभिश्चाद्रिसन्निभैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥ १६॥
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्च विदारणैः ।
सर्वान्देवगणान्दैत्याः सन्निजघ्नुः सवासवान् ॥ १७॥
धूम्रकेशं हरिश्मश्रुं नानाप्रहरणायुधम् ।
रक्तसन्ध्याभ्रसङ्काशं किरीटोत्तमधारिणम् ॥ १८॥
नीलपीताम्बरधरं शितदंष्ट्रोर्ध्वधारिणम् ।
आजानुबाहुं हर्यक्षं बैडूर्याभरणोज्ज्वलम् ॥ १९॥
समुद्यतायुधं दृष्ट्वा सर्वे देवगणास्तदा ।
ते हिरण्याक्षमसुरं दैत्यानामग्रतः स्थितम् ॥ ३.३८.२०॥
युगान्तसमये भीमं स्थितं मृत्युमिवाग्रतः ।
प्रविव्यथुः सुराः सर्वे तदा शक्रपुरोगमाः ॥ २१॥
दृष्ट्वाऽऽयान्तं हिरण्याक्षं महाद्रिमिव जङ्गमम् ।
देवाः संविग्नमनसः प्रगृहीतशरासनाः ।
सहस्राक्षं पुरस्कृत्य तस्थुः सङ्ग्राममूर्धनि ॥ २२॥
सा च दैत्यचमू रेजे हिरण्यकवचोज्ज्वला ।
प्रवृद्धनक्षत्रगणा शारदी द्यौरिवामला ॥ २३॥
तेऽन्योन्यमपि सम्पेतुः पातयन्तः परस्परम् ।
बभञ्जुर्बाहुभिर्बाहुद्वन्द्वमन्ये युयुत्सवः ॥ २४॥
गदानिपातैर्भग्नाङ्गा बाणैश्च व्यथितोरसः ।
विनिपेतुः पृथक् केचित्तथान्येऽपि विजघ्निरे ॥ २५॥
बभञ्जिरे रथान् केचित्केचित्सम्मर्दिता रथैः ।
सम्बाधमन्ये सम्प्राप्ता न शेकुश्चलितुं रथात् ॥ २६॥
दानवेन्द्रबलं तत्र देवानां च महद् बलम् ।
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ ॥ २७॥
हिरण्याक्षस्तु बलवान् क्रुद्धः स दितिनन्दनः ।
व्यवर्धत महातेजाः समुद्र इव पर्वणि ॥ २८॥
तस्य कुद्धस्य सहसा मुखान्निश्चेरुरर्चिषः ।
साग्निधूमश्च पवनो ययौ तस्य समीपतः ॥ २९॥
शस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
सर्वमाकाशमावव्रे पर्वतैरुत्थितैरिव ॥ ३.३८.३०॥
बहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवा हिरण्याक्षार्दिता युधि ॥ ३१॥
सर्वे वित्रासिता देवा हिरण्याक्षेण संयुगे ।
न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः ॥ ३२॥
तेन शक्रः सहस्राक्षः स्तम्भितोऽस्त्रेण धीमता ।
ऐरावतगतः सङ्ख्ये नाशकच्चलितुं भयात् ॥ ३३॥
सर्वांश्च देवानखिलान् स पराजित्य दानवः ।
स्तम्भयित्वा च देवेशमात्मस्थं मन्यते जगत् ॥ ३४॥
सतोयमेघप्रतिमोग्रनिःस्वनं प्रभिन्नमातङ्गविलासविग्रहम् ।
धनुर्विधुन्वन्तमुदारवर्चसं तदासुरेन्द्रं ददृशुः सुराः स्थिताः ॥ ३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे शक्रस्तम्भने अष्टात्रिंशोऽध्यायः ॥ ३८॥
३.३९ एकोनचत्वारिंशोऽध्यायः
हिरण्याक्षवदः HiraNyAkSha killed
भगवता वराहेण हिरण्याक्षस्य वधं
वैशम्पायन उवाच ।
निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च ।
हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः ॥ १॥
वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः ।
स एव भूत्वा भगवानाजगामासुरान्तकृत् ॥ २॥
ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् ।
सहस्रारं च तच्चक्रं चक्रपर्वतसन्निभम् ॥ ३॥
महादेवो महाबुद्धिर्महायोगी महेश्वरः ।
पठ्यते योऽमरैः सर्वैर्गुह्यैर्नामभिरव्ययः ॥ ४॥
सदसच्चात्मनि श्रेष्ठः सद्भिर्यः सेव्यते सदा ।
इज्यते यः पुराणश्च त्रिलोके लोकभावनः ॥ ५॥
यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।
विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्मणाम् ॥ ६॥
मखे यस्य प्रसादेन भुवनस्था दिवौकसः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥ ७॥
यो गतिर्देवदैत्यानां यः सुराणां परा गतिः ।
यः पवित्रं पवित्राणां स्वयम्भूरव्ययो विभुः ॥ ८॥
यस्य चक्रप्रविष्टानि दानवानां युगे युगे ।
कुलान्याकुलतां यान्ति यानि दृप्तानि वीर्यतः ॥ ९॥
ततो दैत्यद्रवकरं पौराणं शङ्खमुत्तमम् ।
धमन् वक्त्रेण बलवानाक्षिपद् दैत्यजीवितम् ॥ ३.३९.१०॥
श्रुत्वा शङ्खस्वनं घोरमसुराणां भयावहम् ।
क्षुभिता दानवाः सर्वे दिशो दश व्यलोकयन् ॥ ११॥
ततः संरक्तनयनो हिरण्याक्षो महासुरः ।
कोऽयमित्यब्रवीद् रोषान्नारायणमुदैक्षत ॥ १२॥
वाराहरूपिणं देवं संस्थितं पुरुषोत्तमम् ।
शङ्खचक्रोद्यतकरं देवानामार्तिनाशनम् ॥ १३॥
रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।
सूर्याचन्द्रमसोर्मध्ये यथा नीलपयोधरः ॥ १४॥
ततोऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः ।
उद्यतायुधनिस्त्रिंशा दृप्ता देवमुपाद्रवन् ॥ १५॥
पीड्यमानोऽतिबलिभिर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ॥ १६॥
ततः प्रज्वलितां शक्तिं वाराहोरसि दानवः ।
हिरण्याक्षो महातेजाः पातयामास वीर्यवान् ॥ १७॥
तस्याः शक्त्याः प्रभावेण ब्रह्मा विस्मयमागतः ।
समीपमागतां दृष्ट्वा महाशक्तिं महाबलः ॥ १८॥
हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ।
तस्यां प्रतिहतायां तु ब्रह्मा साध्विति चाब्रवीत् ॥ १९॥
यः प्रभुः सर्वभूतानां वाराहस्तेन ताडितः ।
ततो भगवता चक्रमाविध्यादित्यसन्निभम् ॥ ३.३९.२०॥
पातितं दानवेन्द्रस्य शिरस्युत्तमकर्मणा ।
ततः स्थितस्यैव शिरस्तस्य भूमौ पपात ह ।
हिरण्मयं वज्रहतं मेरुशृङ्गमिवोत्तमम् ॥ २१॥
हिरण्याक्षे हते दैत्ये शेषा ये तत्र दानवाः ।
सर्वे तस्य भयत्रस्ता जग्मुराशु दिशो दश ॥ २२॥
स सर्वलोकाप्रतिचक्रचक्रो महाहवेष्वप्रतिमोग्रचक्रः ।
बभौ वराहो युधि चक्रपाणिः कालो युगान्तेष्विव दण्डपाणिः ॥ २३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
३.४० चत्वारिंशोऽध्यायः
इन्द्रदीनां मोचनं तेषामाधिपत्यलाभश्च Deva-s freed and their commands restored
देवेभिः स्वप्रभुत्वस्य प्राप्तिः, देवराजस्य इन्द्रस्य सम्पूर्ण लोकानां आधिपत्योपरि प्रतिष्ठा, सत्-असत् पुरुषाणां यथोचितगत्याय आदेशं दत्त्वा भगवतः अन्तर्धानं,
देवेन्द्रेण पर्वतानां पक्षाणां छेदनं
वैशम्पायन उवाच ।
विद्राव्य तु रणे सर्वानसुरान् पुरुषोत्तमः ।
मुमोच तत्र बद्धांस्तान् पुरन्दरमुखान् सुरान् ॥ १॥
ततः प्रकृतिमापन्नाः सर्वे देवगणास्तथा ।
पुरन्दरं पुरस्कृत्य नारायणमुपस्थिताः ॥ २॥
देवा ऊचुः ।
त्वत्प्रसादेन भगवंस्तव बाहुबलेन च ।
जीवामोऽद्य महाबाहो निष्क्रान्ताश्चान्तकाननात् ॥ ३॥
त्वच्छासनाद्धि भगवन्किं कुर्वन्त्वदितेः सुताः ।
इच्छामः पादशुश्रूषां तव कर्तुं सनातन ॥ ४॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः ।
उवाच वचनं देवान् मुदायुक्तो हतद्विषः ॥ ५॥
श्रीभगवानुवाच ।
यो यस्य भावतो लोको मयैव विहितः पुरा ।
पाल्यतां स तु यत्नेन नियोगश्च क्वचित् क्वचित् ॥ ६॥
ऐश्वर्यं प्रतिपन्नाः स्वं क्रतुभागपुरस्कृतम् ।
मयैव पूर्वं निर्दिष्टो नियोगः प्रतिपाल्यताम् ॥ ७॥
शक्रं चोवाच भगवान् वचनं दुन्दुभिस्वनः ।
इदं यथावत् कर्तव्यं सत्सु चासत्सु च त्वया ॥ ८॥
गच्छन्तु तपसा स्वर्गे मुनयः शंसितव्रताः ।
तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा ॥ ९॥
यायजूकाश्च ये केचिद् ब्राह्मणाः क्षत्रिया विशः ।
तेषां कामदुघा लोकाः स्वर्गमादिमनोहराः ।
यज्ञैरिष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च ॥ ३.४०.१०॥
भावः सद्धर्मशीलानामभावः पापकर्मणाम् ।
सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः ॥ ११॥
सत्यशूरा रणे शूरा दानशूराश्च ये नराः ।
ते नराः स्वर्गमश्नन्तु सदा ये चानसूयवः ॥ १२॥
अश्रद्दधानाः पुरुषाः कामिनोऽर्थपराः शठाः ।
अब्रह्मण्या नास्तिकाश्च नरकं यान्तु मानवाः ॥ १३॥
एतावत् क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः ।
ततो मयि स्थिते सर्वान् बाधिष्यन्ते न चारयः ॥ १४॥
इत्युक्त्वान्तर्हितो देवः शङ्खचक्रगदाधरः ।
देवतानां च सर्वेषामभवद् विस्मयो महान् ॥ १५॥
एतदत्यद्भुतं दृष्ट्वा वाराहचरितं सुराः ।
नमस्कृत्य वराहाय नाकपृष्ठमितो गताः ॥ १६॥
ततः स्वान्याधिपत्यानि प्रतिपन्नानि दैवतैः ।
सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गतः ॥ १७॥
विमुक्ता दानवगणैः प्रकृतिं धरणी गता ।
स्थैर्यहेतोर्धरण्यास्तु ज्ञात्वा चागस्कृतान्गिरीन् ॥ १८॥
स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरन्दरः ।
चिच्छेद भगवान् पक्षान् वज्रेण शतपर्वणा ॥ १९॥
सर्वेषामेव पक्षा वै छिन्नाः शक्रेण धीमता ।
एकः सपक्षो मैनाकः सुरैस्तत्समयः कृतः ॥ ३.४०.२०॥
एष नारायणस्यायं प्रादुर्भावो महात्मनः ।
वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः ॥ २१॥
कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् ।
नाशुचेर्न कृतघ्नाय न नृशंसाय कीर्तयेत् ॥ २२॥
न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे ।
नाशिष्याय तथा राजन् न कृतघ्नाय चैव हि ॥ २३॥
आयुष्कामैर्यशःकामैर्महीकामैश्च मानवैः ।
जयैषिभिश्च श्रोतव्यो देवानामेष वै जयः ॥ २४॥
पुराणवेदसम्बद्धः शिवः स्वस्त्ययनो महान् ।
पावनः सर्वसत्त्वानां तत्कालविजयप्रदः ॥ २५॥
एष कौरव्य तत्त्वेन कथितस्त्वनुपूर्वशः ।
वाराहस्य नृपश्रेष्ठ प्रादुर्भावो महात्मनः ॥ २६॥
ये यजन्ति मखैः पुण्यैर्दैवतानि पितॄनपि ।
आत्मानमात्मना नित्यं विष्णुमेव यजन्ति ते ॥ २७॥
लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय ।
नारायणायात्महितायनाय महावराहाय नमस्कुरुष्व ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहप्रादुर्भावे चत्वारिंशोऽध्यायः ॥ ४०॥
३.४१ एकचत्वारिंशोऽध्यायः
नृसिंहावतारः AvatAra as narasimha and description of hiraNyakashipu's assembly hall
हिरण्यकशिपोः तपं, वरप्राप्तिः, अत्याचारः, देवेभ्यः ब्रह्मणः आश्वासनं, भगवतः विष्णोः नृसिंहरूपं धारयित्वा हिरण्यकशिपोः सभायां गमनं, सभायाः वर्णनं
वैशम्पायन उवाच ।
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ १॥
पुरा कृतयुगे राजन् हिरण्यकशिपुः प्रभुः ।
दैत्यानामादिपुरुषश्चकार सुमहत् तपः ॥ २॥
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जलवासी समभवत् स्थानमौनव्रतस्थितः ॥ ३॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
ब्रह्मा प्रीतोऽभवत् तस्य तपसा नियमेन च ॥ ४॥
ततः स्वयम्भूर्भगवान् स्वयमागत्य तत्र ह ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ ५॥
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ ६॥
दिग्भिश्चाथ विदिग्भिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ ७॥
देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यकृद्धिर्गन्धर्वैरप्सरोगणैः ॥ ८॥
चराचरगुरुः श्रीमान् वृतो देवगणैः सह ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ९॥
ब्रह्मोवाच ।
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ३.४१.१०॥
ततो हिरण्यकशिपुः प्रीतात्मा दानवोत्तमः ।
कृताञ्जलिपुटः श्रीमान् वचनं चेदमब्रवीत् ॥ ११॥
हिरण्यकशिपुरुवाच ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मां कथञ्चन ॥ १२॥
ऋषयो नैव मां क्रुद्धाः सर्वलोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया ॥ १३॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ॥ १४॥
न स्वर्गेऽप्यथ पाताले नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न चाप्यन्येन मे वधः ॥ १५॥
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्यः स मे मृत्युर्भविष्यति ॥ १६॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ १७॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ १८॥
मूर्तिमन्ति च दिव्यानि ममास्त्राणि महाहवे ।
उपतिष्ठन्तु देवेश सर्वलोकपितामह ॥ १९॥
पितामह उवाच ।
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वकामप्रदा वत्स दुर्लभास्त्वतिमानुषाः ।
सर्वान्कामानल्पभावात् प्राप्स्यसि त्वं न संशयः ॥ ३.४१.२०॥
वैशम्पायन उवाच ।
एवमुक्त्वा स भगवाञ्जगामाकाशमेव च ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ २१॥
ततो देवाश्च नागाश्च गन्धर्वा मुनिभिः सह ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ २२॥
देवा ऊचुः ।
वरेणानेन भगवन् वधिष्यति स नोऽसुरः ।
तत्प्रसीदस्व भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ २३॥
भवान् हि सर्वभूतानामादिकर्ता स्वयं प्रभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥ २४॥
वैशम्पायन उवाच ।
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥ २५॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ॥ २६॥
एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि प्रतिजग्मुर्मुदान्विताः ॥ २७॥
लब्धमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २८॥
आश्रमेषु मुनीन्सर्वान् ब्राह्मणान् संशितव्रतान् ।
सत्यधर्मरतान् दान्तान् धर्षयामास वीर्यवान् ॥ २९॥
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ ३.४१.३०॥
यदा वरमदोन्मत्तश्चोदितः कालधर्मणा ।
यज्ञियानकरोद् दैत्यान् दैवतानप्ययज्ञियान् ॥ ३१॥
तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा ।
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः ॥ ३२॥
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ।
देवं वेदमयं यज्ञं ब्रह्मदेवं सनातनम् ॥ ३३॥
भूतं भव्यं भविष्यं च प्रजालोकनमस्कृतम् ।
देवा ऊचुः ।
नारायण महाभाग देव त्वां शरणं गताः ॥ ३४॥
त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ ३५॥
त्वं पद्मामलपत्राक्ष शत्रुपक्षभयावह ।
क्षयाय दितिवंशस्याक्षयाय भव नः प्रभो ॥ ३६॥
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ।
विष्णुरुवाच ।
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥ ३७॥
तथैव त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम् ।
एष तं सगणं दैत्यं वरदानेन दर्पितम् ॥ ३८॥
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ।
वैशम्पायन उवाच ।
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवौकसः ॥ ३९॥
वधं सङ्कल्पयित्वा तु हिरण्यकशिपोः प्रभुः ।
सोऽचिरेणैव कालेन हिमवत्पार्श्वमागतः ॥ ३.४१.४०॥
किं नु रूपं समास्थाय निहन्म्येनं महासुरम् ।
यत् सिद्धिकरमाशु स्याद् वधाय विबुधद्विषः ॥ ४१॥
अनुत्पन्नं ततश्चक्रे सोऽत्यन्तं रूपमास्थितः ।
नारसिंहमनाधृष्यं दैत्यदानवरक्षसाम् ॥ ४२॥
सहायं तु महाबाहुर्जग्राहोङ्कारमेव च ।
अथोङ्कारसहायोऽसौ भगवान् विष्णुरव्ययः ॥ ४३॥
हिरण्यकशिपोः स्थानं जगाम प्रभुरीश्वरः ।
तेजसा भास्कराकारः कान्त्या चन्द्र इवापरः ॥ ४४॥
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं विभुः ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ ४५॥
ततोऽपश्यत् विस्तीर्णां दिव्यां रम्यां मनोरमाम् ।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥ ४६॥
विस्तीर्णो योजनशतं शतमध्यर्धमायताम् ।
वैहायसीं कामगमां पञ्चयोजनमुच्छ्रिताम् ॥ ४७॥
जराशोकक्लमत्यक्तां निष्प्रकम्पां शिवां शुभाम् ।
शुभासनवतीं रम्यां ज्वलन्तीमिव तेजसा ॥ ४८॥
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा ।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥ ४९॥
नीलपीतासितश्यामैः सितैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीशतधारिभिः ॥ ३.४१.५०॥
सिताभ्रघनसङ्काशा प्लवन्तीवाप्सु दृश्यते ।
धन्यासनवती रम्या ज्वलन्ती इव तेजसा ॥ ५१॥
प्रभावती भास्वरा च दिव्यगन्धमनोरमा ।
न सुखा न च दुःखा सा न शीता न च घर्मदा ॥ ५२॥
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्ति हि ।
नानारूपैर्विरचिता विचित्रैरतिभास्वरैः ॥ ५३॥
स्तम्भैर्मणिमयैर्दिव्यैः शाश्वती चाक्षता च सा ।
अतिचन्द्रं च सूर्यं च पावकं च स्वयम्प्रभा ॥ ५४॥
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् ।
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः ॥ ५५॥
रसवन्तः प्रभूताश्च भक्ष्यभोज्यं तथाक्षयम् ।
पुण्यगन्धा स्रजस्तत्र नित्यपुष्पफलद्रुमाः ॥ ५६॥
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै ।
पुष्पिताग्रान् महाशाखान् प्रवालाङ्कुरधारिणः ॥ ५७॥
लतावितानसञ्च्छन्नान् सरित्सु च सरःसु च ।
मनोहरांश्च विविधान् ददर्श स तदा प्रभुः ॥ ५८॥
द्रुमान् बहुविधांस्तत्र मृगेन्द्रो ददृशे द्रुतम् ।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥ ५९॥
तानि शीतानि तोयानि तत्र तत्र सरांसि च ।
अपश्यत् सर्वतीर्थानि सभायां शतशो विभुः ॥ ३.४१.६०॥
नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः ।
रक्तैः कुवलयैर्नीलैः कुमुदैः संयुतानि च ॥ ६१॥
सकान्तैर्धार्तराष्ट्रैश्च राजहंसैः सुरप्रियैः ।
कादम्बैश्चक्रवाकैश्च सारसैः कुररैरपि ॥ ६२॥
विमलस्फटिकाभानि पाण्डुराष्टदलानि च ।
कलहंसोपगीतानि सारिकाभिरुतानि च ॥ ६३॥
गन्धवत्यः शुभास्तत्र पुष्पमञ्जरिधारिणीः ।
दृष्टवान् पादपाग्रेषु नानापुष्पधरा लताः ॥ ६४॥
केतकाशोकसरलाः पुन्नागतिलकार्जुनाः ।
चूता नीपा नागपुष्पाः कदम्बबकुला धवाः ॥ ६५॥
प्रियङ्गुपाटलीवृक्षाः शाल्मल्यः सहरिद्रकाः ।
शालास्तालाः प्रियालाश्च चम्पकाश्च मनोरमाः ॥ ६६॥
तथा चान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः ।
वैद्रुमाश्च द्रुमानीका दावाग्निज्वलितप्रभाः ॥ ६७॥
स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः ।
अञ्जनाशोकवर्णाभा भान्ति वञ्जुलका द्रुमाः ॥ ६८॥
वरणा वत्सनाभाश्च पनसाश्चन्दनैः सह ।
नीलाः सुमनसश्चैव पीताम्लाश्वत्थतिन्दुकाः ॥ ६९॥
प्राचीनामलका लोध्रा मल्लिका भद्रदारवः ।
आम्रातकास्तथा जम्बूलकुचाः शैलवालुकाः ॥ ३.४१.७०॥
सर्जार्जुनाः कन्दुरवाः पतङ्गाः कुटजास्तथा ।
रक्ताः कुरबकाश्चैव नीपाश्चागरुभिः सह ॥ ७१॥
कदम्बाश्चैव भव्याश्च दाडिमीबीजपूरकाः ।
कालीयका दुकूलाश्च हिङ्गवस्तैलपर्णिकाः ॥ ७२॥
खर्जूरा नालिकेराश्च पूगवृक्षा हरीतकी ।
मधूकाः सप्तपर्णाश्च बिल्वाः पारावतास्तथा ॥ ७३॥
पनसाश्च तमालाश्च नानागुल्मलतावृताः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ॥ ७४॥
एते चान्ये च बहवस्तत्र काननजा द्रुमाः ।
नानापुष्पफलोपेता व्यराजन्त समन्ततः ॥ ७५॥
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ।
पुष्पितान् फलिताग्रांश्च सम्पतन्ति महाद्रुमान् ॥ ७६॥
रक्तपीतारुणास्तत्र पादपाग्रगता द्विजाः ।
परस्परमवैक्षन्त प्रहृष्टा जीवजीवकाः ॥ ७७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे हिरण्यकशिपुसभावर्णने एकचत्वारिंशोऽध्यायः ॥ ४१॥
३.४२ द्विचत्वारिंशोऽध्यायः
हिरण्यकशिपु सभावर्णनम् Description of hiraNyakashipu's assembly hall
भगवता नृसिंहेन देवगन्धर्वाप्सरोभिः दैत्येभिश्च सेवितं हिरण्यकशिपुओः दर्शनं
वैशम्पायन उवाच ।
तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुः प्रभुः ।
आसीन आसने दिव्ये नल्वमात्रे प्रमाणतः ॥ १॥
दिवाकरनिभे रम्ये दिव्यास्तरणसम्भृते ।
रराज सुचिरं राजन् ज्वलत्काञ्चनकुण्डलः ॥ २॥
तस्य दैत्यपतेर्मन्दं विरजस्कं समन्ततः ।
दिव्यगन्धवहस्तत्र मारुतः सुमुखो ववौ ॥ ३॥
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।
दिव्यतालेन दिव्यानि जगुर्गीतानि गायनाः ॥ ४॥
वहो देवता तथा अप्सराओंसे घिरे हुं गन्धर्व गायक
बनकर दिव्य तालके साथ दिव्य गीत गाते ये ॥ ४॥
विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता ।
दिव्या च सौरभेयी च समीची पुञ्जिकस्थला ॥ ५॥
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका चोर्वशी तथा ॥ ६॥
एताः सहस्रशश्चान्या नृत्यगीतविशारदाः ।
उपतिष्ठन्ति राजानं हिरण्यकशिपुं तदा ॥ ७॥
हिरण्यकशिपुस्तत्र विचित्राभरणाम्बरः ।
स्त्रीसहस्रैः परिवृतस्तस्थौ ज्वलितकुण्डलः ॥ ८॥
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ।
उपासन्ति दितेः पुत्राः सर्वे लब्धवराः पुरा ॥ ९॥
बलिर्वैरोचनस्तत्र नरकः पृथिवीजयः ।
प्रह्रादो विप्रचित्तिश्च गविष्ठश्च महासुरः ॥ ३.४२.१०॥
चन्द्रहन्ता क्रोधहन्ता सुमनाः सुमतिः खरः ।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ ११॥
विश्वरूपश्च रूपश्च विरूपश्च महाद्युतिः ।
दशग्रीवश्च वाली च मेघवासा महारवः ॥ १२॥
कटाभो विकटाभश्च संह्रादश्चेन्द्रतापनः ।
दैन्यदानवसङ्घाश्च सर्वे ज्वलितकुण्डलाः ॥ १३॥
स्रग्विणो वाग्मिनः सर्वे सर्वे सुचरितव्रताः ।
सर्वे लब्धवराः शूरा सर्वे विगतमृत्यवः ॥ १४॥
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ।
उपासन्ते महात्मानं सर्वे दिव्यपरिच्छदाः ॥ १५॥
विमानैर्विविधैरग्र्यैर्भ्राजमानैरिवार्चिभिः ।
स्रग्विणो भूषणधरा यान्ति चायान्ति हेलया ॥ १६॥
विचित्राभरणोपेता विचित्रवसनास्तथा ।
विचित्रशस्त्रकवचा विचित्रध्वजवाहनाः ॥ १७॥
महेन्द्रचापसङ्काशैर्विचित्रैरङ्गदैर्वरैः ।
भूषिताङ्गा दितेः पुत्रास्तमुपासन्ति नित्यशः ॥ १८॥
तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः ।
हिरण्यमुकुटाः सर्वे दिवाकरसमप्रभाः ॥ १९॥
कनकमणिविचित्रवेदिकायामुपहितरत्नसहस्रवीथिकायाम् ।
स ददर्श मृगाधिपः सभायां सुरुचिरदन्तगवाक्षसंवृतायाम् ॥ ३.४२.२०॥
कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श ।
दिनकरकरप्रभं ज्वलन्तमसुरसहस्रगणैर्निषेव्यमाणम् ॥ २१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे द्विचत्वारिंशोऽध्यायः ॥ ४२॥
३.४३ त्रिचत्वारिंशोऽध्यायः
नृसिंहं दृष्ट्वा दानवानां विस्मयः, प्रह्रादवाक्यं च Asura-s surprised, but prahrAda recognises vi in narasimha
प्रह्लादेन नरसिंहविग्रहे समस्तायाः त्रिलोक्याः दर्शनं
वैशम्पायन उवाच ।
ततो दृष्ट्वा महाबाहुं कालचक्रमिवागतम् ।
नारसिंहवपुश्छन्नं भस्माच्छन्नमिवानलम् ॥ १॥
विकुञ्चितसटं तस्य नारसिंहस्य भारत ।
रूपौदार्यं वभौ तत्र सहस्रशशिसन्निभम् ॥ २॥
अहो रूपमिदं चित्रं शङ्खकुन्देन्दुसन्निभम् ।
अब्रुवन् दानवाः सर्वे हिरण्यकशिपुश्च सः ॥ ३॥
एवं हि ब्रुवतां तेषां निर्दग्धानां महात्मनाम् ।
नारसिंहेन चक्षुर्भ्यां चोदिताः कालधर्मणा ॥ ४॥
हिरण्यकशिपोः पुत्रः प्रह्रादो नाम वीर्यवान् ।
दिव्येन चक्षुषा सिंहमपश्यद् देवमागतम् ॥ ५॥
तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमास्थितम् ।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥ ६॥
प्रह्लाद उवाच ।
महाराज महाबाहो दैत्यानामादिसम्भव ।
न श्रुतं नैव दृष्टं च नारसिंहमिदं वपुः ॥ ७॥
अव्यक्तप्रभवं दिव्यं किमिदं रूपमद्भुतम् ।
दैत्यान्तकरणं घोरं शंसन्तीव मनांसि नः ॥ ८॥
अस्य देवाः शरीरस्थाः सागरा सरितस्तथा ।
हिमवान् पारियात्रश्च ये चान्ये कुलपर्वताः ॥ ९॥
चन्द्रमाः सह नक्षत्रैरादित्याश्चाश्विनौ तथा ।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥ ३.४३.१०॥
मरुतो देवगन्धर्वा मुनयश्च तपोधनाः ।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥ ११॥
ब्रह्मदेवः पशुपतिर्ललाटस्था विभान्ति वै ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ १२॥
भवांश्च सहितोऽस्माभिः सर्वैर्दैत्यगणैर्वृतः ।
विमानशतसङ्कीर्णा तथाभ्यन्तरजा सभा ॥ १३॥
सर्वं त्रिभुवनं राजँल्लोकधर्मश्च शाश्वतः ।
दृश्यते नारसिंहेऽस्मिन् यथेन्दौ विमले जगत् ॥ १४॥
प्रजापतिश्चात्र मनुर्महात्मा
ग्रहाश्च योगाश्च मही नभश्च ।
उत्पातकालश्च धृतिः स्मृतिश्च
रजश्च सत्त्वं च तपो दमश्च ॥ १५॥
सनत्कुमारश्च महानुभावो
विश्वे च देवाप्सरसश्च सर्वाः ।
क्रोधश्च कामश्च तथैव हर्षो
दर्पश्च मोहः पितरश्च सर्वे ॥ १६॥
इत्येवमुक्त्वा स च दैत्यराजं
हिरण्यनामानमविस्मयेन ।
दध्यौ च दैत्येश्वरपुत्र उग्रं
महामतिः किञ्चिदधोमुखः प्राक् ॥ १७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे प्रह्रादवाक्ये त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
३.४४ चतुश्चत्वारिंशोऽध्यायः
नृसिंहस्योपरि दैत्यानां शस्तास्त्रपातः Daitya-s do battle with narasimhtogether with deva-s kashyapa and aditi go to brahmaa
दैत्येभिः हिरण्यकशिपुना च नृसिंहोपरि विभिन्नानां अस्त्राणां प्रहारः
वैशम्पायन उवाच ।
प्रह्रादस्य च तच्छ्रुत्वा हिरण्यकशिपुर्वचः ।
उवाच दानवान् सर्वान् सगणांश्च गणाधिपः ॥ १॥
मृगेन्द्रो गृह्यतां शीघ्रमपूर्वां तनुमास्थितः ।
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥ २॥
तच्छुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् ।
परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा ॥ ३॥
सिंहनादं नदित्वा तु पुनः सिंहो महाबलः ।
बभञ्ज तां सभां रम्यां व्यादितास्य इवान्तकः ॥ ४॥
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् ।
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः ॥ ५॥
सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुभैरवम् ।
कालचक्रं तथात्युग्रं विष्णुचक्रं तथैव च ॥ ६॥
धर्मचक्रं महच्चक्रमजितं नाम नामतः ।
चक्रमैन्द्रं तथा घोरमृषिचक्रं तथैव च ॥ ७॥
पैतामहं तथा चक्रं त्रैलोक्यमहितस्वनम् ।
विचित्रमशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥ ८॥
रौद्रं तदुग्रं शूलं च कङ्कालं मुसलं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ॥ ९॥
ऐषीकमस्त्रमैन्द्रं च आग्नेयं शैशिरं तथा ।
वायव्यं मथनं नाम कापालमथ किङ्करम् ॥ ३.४४.१०॥
तथा चाप्रतिमां शक्तिं क्रौञ्चमस्त्रं तथैव च ।
अस्त्रं हयशिरश्चैव सौम्यमस्त्रं तथैव च ॥ ११॥
पैशाचमस्त्रममितं सार्प्यमस्त्रं तथाद्भुतम् ।
मोहनं शोषणं चैव सन्तापनविलापने ॥ १२॥
जृम्भणं प्रापणं चैव त्वाष्ट्रं चैव सुदारुणम् ।
कालमुद्गरमक्षोभ्यं क्षोभणं तु महाबलम् ॥ १३॥
संवर्तनं मोहनं च तथा मायाधरं परम् ।
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् ॥ १४॥
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् ।
अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ॥ १५॥
एतान्यस्त्राणि सर्वाणि हिरण्यकशिपुस्तदा ।
चिक्षेप नारसिंहस्य दीप्तस्याग्नेर्यथाहुतिः ॥ १६॥
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुराधिपः ।
विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः ॥ १७॥
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः ।
क्षणेनाप्लावयत् सिंहं मैनाकमिव सागरः ॥ १८॥
प्रासैः पाशैस्तथा शूलैर्गदाभिर्मुसलैस्तथा ।
वज्रैरशनिकल्पैश्च शिलाभिश्च महाद्रुमैः ॥ १९॥
मुद्गरैः कूटपाशैश्च शूलोलूखलपर्वतैः ।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥ ३.४४.२०॥
परिवार्य समन्तात् तु निघ्नन्नस्त्रैर्हरिं तदा ।
स्वल्पमप्यस्य न क्षुण्णमूर्जितस्य महात्मनः ॥ २१॥
ते दानवाः पाशगृहीतहस्ता महेन्द्रवज्राशनितुल्यवेगाः ।
समन्ततोऽभ्युद्यतबाहुशस्त्राः स्थितास्त्रिशीर्षा इव पन्नगेन्द्राः ॥ २२॥
सुवर्णमालाकुलभूषिताङ्गा नानाङ्गदाभोगपिनद्धगात्राः ।
मुक्तावलीदामविभूषिताङ्गा हंसा इवाभान्ति विशालपक्षाः ॥ २३॥
तेषां तु वायुप्रतिमौजसां वै केयूरमालावलयोत्कटानि ।
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ॥ २४॥
तैः प्रक्षिपद्भिर्ज्वलितानलोपमैर्महास्त्रपूगैः स समावृतो बभौ ।
गिरिर्यथा सन्ततवर्षिभिर्घनैः कृतान्धकारोऽद्भुतकन्दरद्रुमः ॥ २५॥
तैर्हन्यमानोऽपि महास्त्रजालैः सर्वैस्तदा दैत्यगणैः समेतैः ।
नाकम्पताजौ भगवान् प्रतापवान् स्थितः प्रकृत्या हिमवानिवाचलः ॥ २६॥
सन्तापितास्ते नरसिंहरूपिणा दितेः सुताः पावकदीप्ततेजसा ।
भयाद् विचेलुः पवनोद्धता यथा महोर्मयः सागरवारिसम्भवाः ॥ २७॥
शतैर्धनुर्भिः सुमहातिवेगा युगान्तकालप्रतिमाञ्छरौघान् ।
एकायनस्था मुमुचुर्नृसिंहे महासुराः क्रोधविदीपिताङ्गाः ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
३.४५ पञ्चचत्वारिंशोऽध्यायः
नृसिंहकृतो दैत्यमायानिरासः Narasimha annuls daitya's illusion
दैत्येभिः कृतानां प्रहाराणां रचितानां मायानां च निष्फलता
वैशम्पायन उवाच ।
स्वराः खरमुखाश्चैव मकराशीविषाननाः ।
ईहामृगमुखाश्चान्ये वराहसदृशाननाः ॥ १॥
बालसूर्यमुखाश्चैव धूमकेतुमुखास्तथा ।
चन्द्रार्धचन्द्रवक्त्राश्च प्रदीप्ताग्निमुखास्तथा ॥ २॥
हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः ।
पञ्चास्या लेलिहानाश्च काकगृध्रमुखास्तथा ॥ ३॥
विद्युज्जिह्वास्त्रिशीर्षाश्च तथोल्कासन्निभाननाः ।
महाग्राहनिभाश्चान्ये दानवा बलदर्पिताः ॥ ४॥
कैलासवपुषस्तस्य शरीरे शरवृष्टयः ।
अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥ ५॥
एवं भूयोऽपरान् घोरानसृजन्दानवाः शरान् ।
मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः ॥ ६॥
ते दानवशरा घोरा मृगेन्द्राय समीरिताः ।
विलयं जग्मुराकाशे खद्योता इव पर्वते ॥ ७॥
ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।
मृगेन्द्रायाक्षिपन्त्याशु प्रज्वलन्तीव सर्वशः ॥ ८॥
तैरासीद् गगनं चक्रैः सम्पतद्भिः समावृतम् ।
युगान्ते सम्प्रकाशद्भिश्चन्द्रसूर्यग्रहैरिव ॥ ९॥
तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै ।
मेघोदरदरीं घोरां चन्द्रसूर्यग्रहा इव ॥ ३.४५.१०॥
तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना ।
निगीर्णानि प्रदीप्तानि पावकार्चिःसमानि वै ॥ ११॥
हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् ।
शक्तिं प्रज्वलितां घोरां हुताशनसमप्रभाम् ॥ १२॥
तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुत्तमाम् ।
हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥ १३॥
रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले ।
सविस्फुलिङ्गा ज्वलिता महोल्केव नभश्च्युता ॥ १४॥
नाराचपङक्तिः सिंहस्य सृष्टा रेजे विदूरतः ।
नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥ १५॥
गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् ।
तत् सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः ॥ १६॥
ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।
नगमात्रैः शिलाखण्डैर्गिरिकूटैर्महाप्रभैः ॥ १७॥
तदश्मवर्षं सिंहस्य गात्रे निपतितं महत् ।
दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा ॥ १८॥
तदश्मौघैर्दितिसुतास्तदा सिंहमरिन्दमम् ।
प्राच्छादयन् यथा मेघा धाराभिरिव पर्वतम् ॥ १९॥
न च तं चालयामासुर्दैत्यौघा देवमास्थितम् ।
भीमवेगा बलश्रेष्ठं समुद्रा इव पर्वतम् ॥ ३.४५.२०॥
ततोऽश्मवर्षे निहते जलवर्षमनन्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ॥ २१॥
नभसः प्रच्युता धारास्तिग्मवेगाः सहस्रशः ।
आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ २२॥
धाराणां सन्निपातेन वायोर्विस्फूर्जितेन च ।
वर्धता चैव वर्षेण न प्राज्ञायत किञ्चन ॥ २३॥
धारा दिवि च संसक्ता वसुधायां च सर्वशः ।
न स्पृशन्ति स्म तं तत्र निपतन्त्योऽनिशं भुवि ॥ २४॥
बाह्यतो ववृषे वर्षं नोपरिष्टात् तु तोयदः ।
मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥ २५॥
हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।
ससृजुर्दानवा मायामग्निं वायुं च सर्वशः ॥ २६॥
नभसः प्रच्युतश्चैव तिग्मवेगः समन्ततः ।
ज्वालामाली महारौद्रो दीप्ततेजाः समन्ततः ॥ २७॥
स सृष्टः पावकस्तेन दैत्येन्द्रेण महात्मना ।
न शशाक महातेजा दग्धुमप्रतिमौजसम् ॥ २८॥
तमिन्द्रस्तोयदैः सार्धं सहस्राक्षोऽमितद्युतिः ।
महता तोयवर्षेण शमयामास पावकम् ॥ २९॥
तस्यां प्रतिहतायां तु मायायां युधि दानवाः ।
ससृजुर्घोरसङ्काशं तमस्तीव्रं समन्ततः ॥ ३.४५.३०॥
तमसा संवृते लोके दैत्येष्वात्तायुधेषु वै ।
स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥ ३१॥
त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
३.४६ षट्चत्वारिंशोऽध्यायः
हिरण्यकशिपो पराक्रमः HiraNyakashipu's valour
दैत्यानां विनाशसूचकाः महान्ति उत्पातानि, हिरण्यकशिपुना गदामादाय आक्रमणम्, तस्य पादानां धमनात् पृथ्वी, पर्वत, नदी एवं देशानां कम्पनं
वैशम्पायन उवाच ।
ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं सर्वे विषण्णाः शरणं गताः ॥ १॥
ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा ।
हिरण्यकशिपुर्दैत्यश्चालयामास मेदिनीम् ॥ २॥
ततः प्रक्षुभिताः सर्वे सागराः सलिलाकराः ।
चलिता गिरयः सर्वे सकाननवनद्रुमाः ॥ ३॥
तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ।
तमसा समभूच्छन्नं न प्राज्ञायत किञ्चन ॥ ४॥
आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः ॥ ५॥
तथा परिवहः श्रीमान् मारुता भयशंसिनः ।
इत्येते क्षुभिताः सप्त मारुता गगनेचराः ॥ ६॥
ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै ।
ते ग्रहा गगने हृष्टा विचरन्ति यथासुखम् ॥ ७॥
अयोगतश्चात्यचरद् योगं दिवि निशाकरः ।
सग्रहं सहनक्षत्रं प्रजज्वाल नभो नृप ॥ ८॥
विवर्णत्वं च भगवान् गतो दिवि दिवाकरः ।
कृष्णः कबन्धश्च महाँल्लक्ष्यते च नभस्तले ॥ ९॥
अमुञ्चच्चासितां सूर्यो धूमवर्तिं भयावहाम् ।
गगनस्थश्च भगवानभीक्ष्णं परितप्यते ॥ ३.४६.१०॥
सप्तधूमनिभा घोराः सूर्या दिवि समुत्थिताः ।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥ ११॥
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः ॥ १२॥
समं समभिरोहन्ति दुर्गाणि गगनेचराः ।
शृङ्गाणि कनकैर्घोरा युगान्तावर्तका ग्रहाः ॥ १३॥
चन्द्रमाः सह नक्षत्रैर्ग्रहैः सप्तभिरावृतः ।
चराचरविनाशार्थं रोहिणीं नाभ्यनन्दत ॥ १४॥
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते ।
उल्काः प्रज्वलिताश्चन्द्रे प्रचेलुर्घोरदर्शनाः ॥ १५॥
देवानामपि यो देवः सोऽभ्यवर्षत शोणितम् ।
अपतन् गगनादुल्का विद्युद्रूपाः सनिःस्वनाः ॥ १६॥
अकाले पादपाः सर्वे पुष्यन्ति च फलन्ति च ।
लताश्च सफलाः सर्वा याः प्राहुर्दैत्यनाशनम् ॥ १७॥
फले फलान्यजायन्त पुष्पे पुष्पं तथैव च ।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥ १८॥
विक्रोशन्ति च गम्भीरं धूमयन्ति ज्वलन्ति च ।
प्रतिमाः सर्वदेवानां कथयन्ति युगक्षयम् ॥ १९॥
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः ।
चुक्रुशुर्भैरवं तत्र मृगेन्द्रे समुपस्थिते ॥ ३.४६.२०॥
नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः ।
अपराह्णगते सूर्ये लोकानां क्षयकारके ॥ २१॥
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ।
वानस्पत्या न पूज्यन्ते पूजनार्हाः कथञ्चन ॥ २२॥
वायुवेगेन हन्यन्ते भिद्यन्ते प्रणुदन्ति च ।
तदा च सर्वभूतानां छाया न परिवर्तते ॥ २३॥
अपराह्णगते सूर्ये लोकानां च युगक्षये ।
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः ॥ २४॥
भाण्डागारायुधागारे निविष्टमभवन्मधु ।
तथैव चायुधागारे धूमराजिरदृश्यत ॥ २५॥
स च दृष्ट्वा महोत्पातान् हिरण्यकशिपुस्तदा ।
पुरोहितं तदा शुक्रं वचनं चेदमब्रवीत् ॥ २६॥
किमर्थं भगवन्नेते महोत्पाताः समुत्थिताः ।
श्रोतुमिच्छामि तत्त्वेन परं कौतूहलं हि मे ॥ २७॥
शुक्र उवाच ।
शृणु राजन्नवहितो वचनं मे महासुर ।
यदर्थमिह दृश्यन्ते महोत्पाता महाभयाः ॥ २८॥
यस्यैते सम्प्रदृश्यन्ते राज्ञो राष्ट्रे महासुर ।
देशो वा ह्रियते तस्य राजा वा वधमर्हति ॥ २९॥
अतो बुद्धया समीक्षस्व यथा सर्वं प्रणश्यति ।
वृहद्भयं हि नचिराद् भविष्यति न संशयः ॥ ३.४६.३०॥
एतावदुक्त्वा शुक्रस्तु हिरण्यकशिपुं तदा ।
स्वस्तीत्युक्त्वा तु दैन्येन्द्रं जगाम स्वं निवेशनम् ॥ ३१॥
तस्मिन्गते स दैत्येन्द्रो ध्यातवान् सुचिरं तदा ।
आसाञ्चक्रे सुदीनात्मा ब्रह्मवाक्यमनुस्मरन् ॥ ३२॥
असुराणां विनाशाय सुराणां विजयाय च ।
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥ ३३॥
एते चान्ये च बहवो घोरा ह्युत्पातदर्शनाः ।
दैत्येन्द्राणां विनाशाय दृश्यन्ते कालनिर्मिताः ॥ ३४॥
ततो हिरण्यकशिपुर्गदामादाय सत्वरम् ।
अभ्यद्रवत वेगेन धरणीमनुकम्पयन् ॥ ३५॥
हिरण्यकशिपुर्दैत्यो पदा सस्पृष्टवान् महीम् ।
सन्दष्टौष्ठपुटः क्रोधाद् वराह इव पूर्वजः ॥ ३६॥
मेदिन्यां कम्प्यमानायां दैत्येन्द्रेण महात्मना ।
महीधरेभ्यो नागेन्द्रा निपेतुर्भयविक्लवाः ॥ ३७॥
विषज्वालाकुलैर्वक्त्रैविम्मुञ्चन्तो हुताशनम् ।
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥ ३८॥
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ ।
एलापत्रश्च कालीयो महापद्मश्च वीर्यवान् ।
सहस्रशीर्षधृङ्नागो हेमतालध्वजः प्रभुः ॥ ३९॥
शेषोऽनन्तो महीपालो दुष्प्रकम्पः प्रकम्पितः ।
दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च ॥ ३.४६.४०॥
तदा क्रुद्धेन दैत्येन कम्पितानि समन्ततः ।
पातालतलचारिण्यो नागतेजोधराः शिवाः ॥ ४१॥
आपश्च सहसा क्रुद्धा दुष्प्रकम्प्यरसाः शुभाः ।
नदी भागीरथी चैव सरयूः कौशिकी तथा ॥ ४२॥
यमुना चैव कावेरी कृष्णा वेणा तथैव च ।
सुवेणा च महाभागा नदी गोदावरी तथा ॥ ४३॥
चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः ।
मेकलप्रभवश्चैव शोणो मणिनिभोदकः ॥ ४४॥
सुस्रोता नर्मदा चैव तथा वेत्रवती नदी ।
गोमती गोकुलाकीर्णा तथापूर्णा सरस्वती ॥ ४५॥
मही कालनदी चैव तमसा पुण्यवाहिनी ।
सीता चेक्षुमती चैव देविका च महानदी ॥ ४६॥
जम्बूद्वीपं रत्नवन्तं सर्वरत्नोपशोभितम् ।
सुवर्णकूटकं चैव सुवर्णाकरमण्डितम् ॥ ४७॥
महानदश्च लौहित्यः शैलकाननशोभितः ।
पत्तनं कौशिकारण्यं द्रविडं रजताकरम् ॥ ४८॥
मागधांश्च महाग्रामानङ्गान् वङ्गांस्तथैव च ।
सुह्यान् मल्लान् विदेहांश्च मालवान् काशिकोसलान् ॥ ४९॥
भवनं वैनतेयस्य सुवर्णस्य च कम्पितम् ।
कैलासशिखराकारं यत् कृतं विश्वकर्मणा ॥ ३.४६.५०॥
रक्ततोयो भीमवेगो लौहित्यो नाम सागरः ।
शुभः पाण्डुरमेघाभः क्षीरोदश्चैव सागरः ॥ ५१॥
उदयश्चैव राजेन्द्र उच्छ्रितः शतयोजनम् ।
सुपर्णवेदिकः श्रीमान् नागपक्षिनिषेवितः ॥ ५२॥
भ्राजमानोऽर्कसहृशैर्जातरूपमयैर्दुमैः ।
शालैस्तालैस्तमालैश्च कर्णिकाभिश्च पुष्पितैः ॥ ५३॥
अयोमुखश्च विपुलः सर्वतो धातुमण्डितः ।
तमालवनगन्धश्च पर्वतो मलयः शुभः ॥ ५४॥
सुराष्ट्राश्च सुबाह्लीकाः शूराभीरास्तथैव च ।
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः ॥ ५५॥
तथैवान्ध्राश्च पुण्ड्राश्च वामचूडाः सकेरलाः ।
क्षोभितास्तेन दैत्येन सदेवाः साप्सरोगणाः ॥ ५६॥
अगस्तिभुवनं चैव यदगम्यं पुरा कृतम् ।
सिद्धचारणसङ्घैश्च सेवितं सुमनोहरम् ॥ ५७॥
विचित्रनागविहगं सुपुष्पितलताद्रुमम् ।
जातरूपमयैः शृङ्गैरप्सरोगणसेवितम् ॥ ५८॥
गिरिः पुष्पितकश्चैव लक्ष्मीवान् प्रियदर्शनः ।
उत्थितः सागरं भित्त्वा वयस्यश्चन्द्रसूर्ययोः ॥ ५९॥
रराज सुमहाशृङ्गैर्गगनं विलिखन्निव ।
सूर्यचन्द्रांशुसङ्काशैः सागराम्बुसमावृतः ॥ ३.४६.६०॥
विद्युत्वान् पर्वतः श्रीमानायतः शतयोजनम् ।
विद्युतां यत्र सम्पाता निपात्यन्ते नगोत्तमे ॥ ६१॥
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः ।
कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं महत् ॥ ६२॥
विशाखरथ्या दुर्धर्षा सर्पाणामालया पुरी ।
तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता ॥ ६३॥
महामेघगिरिश्चैव पारियात्रश्च पर्वतः ।
चक्रवांस्तु गिरिः श्रेष्ठो वाराहश्चैव पर्वतः ॥ ६४॥
प्राग्ज्योतिषपुरं चैव जातरूपमयं शुभम् ।
यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥ ६५॥
मेरुश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ।
षष्टिं तत्र सहस्राणि पर्वतानां विशाम्पते ॥ ६६॥
तरुणादित्यसङ्काशो महेन्द्रश्च महागिरिः ।
देवावासः शुभः पुण्यो गिरिराजो दिवं गतः ॥ ६७॥
हेमशृङ्गो महाशैलस्तथा मेघसखो गिरिः ।
कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः ॥ ६८॥
यक्षराक्षसगन्धर्वैर्नित्यं सेवितकन्दरः ।
श्रीमान् मन्दरश्चैव नित्यं पुष्पितपादपः ॥ ६९॥
हेमपुष्करसञ्छन्नं तेन वैखानसं सरः ।
कम्पितं मानसं चैव राजहंसैर्निषेवितम् ॥ ३.४६.७०॥
विशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा ।
तुषारचयसङ्काशो मन्दरश्चैव पर्वतः ॥ ७१॥
उशीरबीजश्च गिरी रुद्रोपस्थस्तथाद्रिराट् ।
प्रजापतेश्च निलयस्तथा पुष्करपर्वतः ॥ ७२॥
देवावृत् पर्वतश्चैव तथा वै वालुको गिरिः ।
क्रौञ्चः सप्तर्षिशैलश्च धूमवर्णश्च पर्वतः ॥ ७३॥
एते चान्ये च गिरयो देशा जनपदास्तथा ।
नद्यश्च सागराश्चैव दानवेन्द्रेण कम्पिताः ॥ ७४॥
कपिलश्च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः ।
खेचराश्च निशापुत्राः पातालतलवासिनः ॥ ७५॥
गणस्तथापरो रौद्रो मेघनादोऽङ्कुशायुधः ।
ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः ॥ ७६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे षट्चत्वारिंशोऽध्यायः ॥ ४६॥
३.४७ सप्तचत्वारिंशोऽध्यायः
हिरण्यकशिपोर्वधो ब्रह्मकृता नृसिंहस्तुतिश्च HiraNyakashipu killed and brahma's praise of narasimha
देवानां अनुरोधेन भगवता नृसिंहेन हिरण्यकशिपोः वधं, देवेभिः ब्रह्मणा च तस्य स्तुतिः
वैशम्पायन उवाच ।
तत्रादित्याश्च साध्याश्च विश्वे च मरुतस्तथा ।
रुद्रा देवा महात्मानो वसवश्च महाबलाः ॥ १॥
आगम्य ते मृगेन्द्रस्य सकाशं सूर्यवर्चसः ।
ऊचुः सन्त्रस्तमनसो देवा लोकक्षयार्दिताः ॥ २॥
जहि देव दितेः पुत्रं दानवं लोकनाशनम् ।
दुर्वृत्तमसदाचारं सह सर्वैर्महासुरैः ॥ ३॥
त्वं ह्येषामन्तकृन्नान्यो दैत्यानां दैत्यनाशन ।
तन्नाशय हितार्थाय लोकानां स्वस्ति वै कुरु ॥ ४॥
त्वं गुरुः सर्वलोकानां त्वमिन्द्रस्त्वं पितामहः ।
ऋते त्वदन्यच्छरणं न भूतं न भविष्यति ॥ ५॥
तच्छ्रुत्वा वचनं दैवो देवानामादिसम्भवः ।
ननाद सुमहानादमतिगम्भीरनिःस्वनम् ॥ ६॥
पाटितान्यसुरेन्द्राणां मृगेन्द्रेण महात्मना ।
सिंहनादेन महता हृदयानि मनांसि च ॥ ७॥
गणः क्रोधवशो नाम कालकेयस्तथा परः ।
वेगश्च वैगलेयश्च सैंहिकेयश्च वीर्यवान् ॥ ८॥
संह्रादीयो महानादो महावेगस्तथा परः ।
कपिलश्च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः ॥ ९॥
खेचराश्च निशापुत्राः पातालतलचारिणः ।
गणस्तथापरो रौद्रो मेघनादोऽङ्कुशायुधः ॥ ३.४७.१०॥
ऊर्ध्वगो भीमवेगश्च भीमकर्मार्कलोचनः ।
वज्री शूली करालश्च हिरण्यकशिपुस्ततः ॥ ११॥
जीमूतघनसङ्काशो जीमूत इव वेगवान् ।
जीमूतघनसन्नादो जीमूतसदृशद्युतिः ॥ १२॥
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत् ॥ १३॥
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः ।
तत्रोङ्कारसहायेन विदार्य निहतो युधि ॥ १४॥
मही च लोकश्च शशी नभश्च
ग्रहाश्च सूर्यश्च दिशश्च सर्वाः ।
नद्यश्च शैलाश्च महार्णवाश्च
गताः प्रकाशं दितिपुत्रनाशात् ॥ १५॥
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः ।
तुष्टुवुर्विविधैः स्तोत्रैरादिदेवं सनातनम् ॥ १६॥
देवा ऊचुः ।
यत् त्वया विहितं देव नारसिंहमिदं वपुः ।
एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥ १७॥
मृगेन्द्रत्वं च लोकेषु सर्वसत्त्वेषु वा विभो ।
गायन्ति त्वां च मुनयो मृगेन्द्र इति नित्यशः ।
त्वत्प्रसादात् स्वकं स्थानं प्रतिपन्नाः स्म वै विभो ॥ १८॥
एवमुक्तो देवसङ्घैर्नरसिंहो महामनाः ।
ब्रह्मा च परमप्रीतो विष्णोः स्तोत्रमुदैरयत् ॥ १९॥
ब्रह्मोवाच ।
भवानक्षरमव्यक्तमचिन्त्यं गुह्यमुत्तमम् ।
कूटस्थमकृतं कर्तृ सनातनमनामयम् ॥ ३.४७.२०॥
साङ्ख्ययोगे च या बुद्धिस्तत्त्वार्थपरिनिष्ठिता ।
तां भवान्वेद विद्यात्मा पुरुषः शाश्वतो ध्रुवः ॥ २१॥
त्वं व्यक्तश्च तथाव्यक्तस्त्वत्तः सर्वमिदं जगत् ।
भवन्मया वयं देव भवानात्मा भवान् प्रभुः ॥ २२॥
चतुर्विभक्तमूर्तिस्त्वं सर्वलोकविभुर्गुरुः ।
चतुर्युगसहस्रेण सर्वलोकान्तकान्तकः ॥ २३॥
प्रतिष्ठा सर्वभूतानामनन्तबलपौरुषः ।
कपिलप्रभृतीनां च यतीनां परमा गतिः ॥ २४॥
अनादिमध्यनिधनः सर्वात्मा पुरुषोत्तमः ।
स्रष्टा त्वं त्वं च संहर्ता त्वमेको लोकभावनः ॥ २५॥
भवान् ब्रह्मा च रुद्रश्च महेन्द्रो वरुणो यमः ।
भवान् कर्ता विकर्ता च लोकानां प्रभुरव्ययः ॥ २६॥
परां च सिद्धिं परमं च देवं
परं च मन्त्रं परमं मनश्च ।
परं च धर्मं परमं यशश्च
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ २७॥
परं च सत्यं परमं हविश्च
परं पवित्रं परमं च मार्गम् ।
परं च होत्रं परमं च यज्ञं
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ २८॥
परं शरीरं परमं च धाम
परं च योगं परमां च वाणीम् ।
परं रहस्यं परमां गतिं च
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ २९॥
परं परस्यापि परं च यत् परं
परं परस्यापि परं च देवम् ।
परं परस्यापि परं प्रभुं च
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ ३.४७.३०॥
परं परस्यापि परं प्रधानं
परं परस्यापि परं च तत्त्वम् ।
परं परस्यापि परं च धाता
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ ३१॥
परं परस्यापि परं रहस्यं
परं परस्यापि परं परं यत् ।
परं परस्यापि परं तपो यत्
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ ३२॥
परं परस्यापि परं परायणं
परं च गुह्यं च परं च धाम ।
परं च योगं परमं प्रभुत्वं
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ ३३॥
वैशम्पायन उवाच ।
एवमुक्त्वा स भगवान् सर्वलोकपितामहः ।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥ ३४॥
ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च ।
क्षीरोदस्योत्तरं कूलं जगाम प्रभुरीश्वरः ॥ ३५॥
नारसिंहीं तनुं त्यक्वा स्थापयित्वा च तद् वपुः ।
पौराणं रूपमास्थाय ययौ स गरुडध्वजः ॥ ३६॥
अष्टचक्रेण यानेन भूतियुक्तेन शोभिना ।
अव्यक्तप्रकृतिर्देवः संस्थानमगमत् प्रभुः ॥ ३७॥
एवं महात्मना तेन नृसिंहवपुषा तथा ।
देवेन निहतः पूर्वं हिरण्यकशिपुश्च सः ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहप्रादुर्भावे हिरण्यकशिपुवधकथने सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
३.४८ मिस्सिन्ग् अष्टचत्वारिंशोऽध्यायः
वामनप्रादुर्भावे बलेरभिषेकः Coronation of bali
वामनावतारस्योपक्रमः, बलेः अभिषेकं, दैत्येभिः तं त्रैलोक्यविजयस्य अनुरोधं च
वैशम्पायन उवाच ।
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमास्थाय रूपं रूपविदां वरः ॥ १॥
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिराक्रम्य त्रैलोक्यमखिलं हृतम् ॥ २॥
समुद्रवसना चोर्वीं नानानगविभूषिता ।
हृत्वा दत्ता सुरेन्द्राय शक्राय प्रभविष्णुना ॥ ३॥
जजमेजय उवाच ।
अत्र मे संशयो ब्रह्मन्नत्र कौतूहलं महत् ।
कथं नारायणो देवो वामनत्वमुपागतः ॥ ४॥
यः पुराणे पुराणात्मा भुत्वा नारायणः प्रभुः ।
पद्मनाभो महाबाहुर्लोकानां प्रकृतिर्ध्रुवः ॥ ५॥
अनादिमध्यनिधनस्त्रैलोक्यादिः सनातनः ।
देवदेवः सुराध्यक्षः कृष्णो लोकनमस्कृतः ॥ ६॥
हव्यकव्यवहः श्रीमान्हव्यकव्यभुगव्ययः ।
अदित्या देवमातुश्च कथं गर्भेऽभवत् प्रभुः ।
स्रष्टा यो वासवस्यापि स कथं वासवानुजः ॥ ७॥
प्रसूतो देवदेवेशो विष्णुत्वं प्राप्तवान्कथम् ।
एतदाचक्ष्व मे विप्र प्रादुर्भावं महात्मनः ॥ ८॥
वैशम्पायन उवाच ।
शृणु राजन्कथं दिव्यामर्चितामृषिपुङ्गवैः ।
पुराणैः कविभिः प्रोक्तां ब्रह्मोक्तां ब्राह्मणेरिताम् ॥ ९॥
मारीचस्य सुरेशस्य कश्यपस्य प्रजापतेः ।
अदितिर्दितिर्द्वे भार्ये भगिन्यौ जनमेजय ॥ ३.४८.१०॥
अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः ।
धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा ॥ ११॥
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्तथा ।
तथैकादशमस्त्वष्टा द्वादशो विष्णुरुच्यते ॥ १२॥
दित्यां जातो हि बलवान्हिरण्यकशिपुः प्रभुः ।
तस्यानुजस्य दैत्येन्द्रो हिरण्याक्षः प्रतापवान् ॥ १३॥
हिरण्यकशिपोः पुत्राः पञ्च घोरपराक्रमाः ।
प्रह्रादश्चानुह्रादश्च जम्भः संह्राद एव च ॥ १४॥
विरोचनश्च प्राह्लादिस्तस्य पुत्रो बलिः स्मृतः ।
पुत्रपौत्रं च बलवत्तेषामक्षयमव्ययम् ॥ १५॥
तेजस्विनां सुरारीणां दैत्येन्द्राणां मनस्विनाम् ।
गणाः सुबहुशो राजन्देशे देशे सहस्रशः ॥ १६॥
ते दृष्ट्वा नारसिंहेन हिरण्यकशिपुं हतम् ।
दैत्या देववधार्थाय बलिमिन्द्रं प्रचक्रिरे ॥ १७॥
दृष्ट्वा धर्मपरं नित्यं सत्यवाक्यं जितेन्द्रियम् ।
शौर्याध्ययनसंपन्नं सर्वज्ञानविशारदम् ॥ १८॥
परावरगृहीतार्थं तत्त्वदर्शिनमव्ययम् ।
तेजस्विनं सुररिपुं हिरण्यकशिपुं यथा ॥ १९॥
अभिषेकेण दिव्येन बलिं वैरोचनिं तथा ।
दैत्याधिपत्ये दितिजास्तदा सर्वेऽभ्यपूजयन् ॥ ३.४८.२०॥
अभिषिक्तस्तदा दैत्यैर्बलिर्बलवतां वरः ।
ब्रह्मणा चैव तुष्टेन हिरण्यकशिपोः पदे ॥ २१॥
अभिषिक्तोऽसुरगणैर्बलिर्वैरोचनिस्तदा ।
काञ्चनैः कलशैः स्फीतैः सर्वतीर्थाम्बुसंवृतैः ॥ २२॥
जयशब्दं ततश्चक्रुरभिषिक्तस्य दानवाः ।
बलेरतुलवीर्यस्य सिंहासनगतस्य वै ॥ २३॥
कृत्वेन्द्रं दानवाः सर्वे बलिं बलवतां वरम् ।
तपो विज्ञापयामासुः शिरोभिः पतिताः क्षितौ ॥ २४॥
दैत्या ऊचुः ।
विदितं तव दैत्येन्द्र हिरण्यकशिपो यथा ।
त्रैलोक्यमासीदखिलं जगत्स्थावरजङ्गमम् ॥ २५॥
पितामहं तु हत्वा ते सुरेश्वरनिषूदन ।
हृतं तदैव त्रैलोक्यं शक्रश्चैवाभिषेचितः ॥ २६॥
तत्पितामहराज्यं त्वं प्रत्याहर्तुमिहार्हसि ।
अस्माभिः सहितो नाथ त्रैलोक्यमिदमव्ययम् ।
प्रत्यानयस्व भद्रं ते राज्यं पैतामहं प्रभो ॥ २७॥
असुरगणसहस्रसंवृतस्त्वं जय दिवि देवगनान्महानुभावान् ।
अमितबलपराक्रमोऽसि राजन्नतिशयसे स्वगुणैः पितामहं स्वं ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने बलेरभिषेके अष्टचत्वारिंशोऽध्यायः ॥ ४८॥
३.४९ एकोनपञ्चाशत्तमोऽध्यायः
त्रैलोक्यविजयार्थं बलेरुद्योगः, मयस्य युद्धाभिगमनं च Asura-s under bali mobilise for war with deva-s
वैशम्पायन उवाच ।
निशम्य तेषां वचनं महामतिर्बलिस्तदा प्रीतमना महाबलः ॥
आज्ञापयामास स दैत्यकोटिं त्रैलोक्यमद्यैव जयाम सर्वम् ॥ १॥
तस्य तद्वचनं श्रुत्वा बलेर्वैरोचनस्य तु ॥
उद्योगं परमं चक्रुर्दानवा युद्धदुर्मदाः ॥ २॥
महापद्मो निकुम्भश्च कुम्भकर्णश्च वीर्यवान् ।
काञ्चनाक्षः कपिस्कन्धो मैनाकः क्षितिकम्पनः ॥ ३॥
शितकेशोर्ध्ववक्त्रश्च पद्मनाभः शिखी जटी ॥
सहस्रबाहुर्विकटो व्याघ्राक्षः प्रियदर्शनः ॥ ४॥
एकाक्ष एकपान्मुण्डो विद्युदक्षश्चतुर्भुजः ॥
गजोदरो गजशिरा गजस्कन्धो गवेक्षणः ॥ ५॥
अष्टदंष्ट्रश्चतुर्वक्त्रो मेघनादी जलन्धरः ॥
करालो ज्वालजिह्वास्यः शताङ्गः शतलोचनः ॥ ६॥
सहस्रपादः सुमुखः कृष्णश्चैव महासुरः ॥
रणोत्कटो दानपतिः शैलकम्पी कुलाकुलिः ॥ ७॥
समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः ॥
गोत्रजो गोक्षुरो रौद्रो गोदन्तः स्वस्तिको ध्रुवः ॥ ८॥
मांसलो मांसभक्षश्च वेगवान्केतुमाञ्छिबिः ॥
पङ्कदिग्धशरीरश्च बृहत्कीर्तिर्महाहनुः ॥ ९॥
समप्रभो विकुम्भाण्डो विरूपाक्षो महोदरः ॥
श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा चन्द्रतापनः ॥ ३.४९.१०॥
विक्षरो दीर्घबाहुश्च मद्यपो मारुताशनः ॥
तालजङ्घो महाभागः सरभः शलभः क्रथः ॥ ११॥
समुद्रमथनो नादी विततश्च महाबलः ॥
प्रलम्बो नरको व्याली धेनुकः काललोचनः ॥ १२॥
वरिष्ठश्च गरिष्ठश्च भूतलोमा तथा विभुः ॥
दुष्प्रसादः किरीटी च सूचीवक्त्रो महासुरः ॥ १३॥
वरिष्ठश्च गरिष्ठश्च भूतलोमा तथा विधुः ।
दुष्प्रसादः किरीटी च सूचीवक्त्रो महासुरः ॥ १३॥
सुबाहुः कञ्जबाहुश्च करणः कलशोदरः ।
सोमपो देवयाजी च प्रवरो वीरमर्दनः ॥ १४॥
सुपथः खण्डमुक्तिश्च शिखिनेत्रः शिखिध्वजः ।
यथास्मृति मया प्रोक्ता मरीचेः कीर्तिवर्धनाः ॥ १५॥
एते चान्ये च बहवो नानाभूषणभूषिताः ।
रथौघैर्बहुसाहस्रैर्ययुर्योद्धुमरिन्दमाः ॥ १६॥
दिव्याम्बरधरा दैत्या दिव्यमाल्यानुलेपनाः ।
दिव्यैश्च कवचैर्नद्धा दिव्यैश्चैवोच्छ्रितैर्ध्वजैः ॥ १७॥
दिव्यायुधधरा दैत्या गर्जमाना यथाम्बुदाः ।
बृहद्भी रथघोषैश्च चालयन्तो वसुन्धराम् ॥ १८॥
महाबला दिव्यबलास्त्रधारिणो
भुजङ्गभोगप्रतिभैर्महाभुजैः ।
सुदुर्जया दैत्यवृषाः सुरारयो
दितिप्रिया लोहितलोहितेक्षणाः ॥ १९॥
ते जग्मुरर्कज्वलनेन्द्रवीर्या
महेन्द्रवज्राशनितुल्यवेगाः ।
विवृत्तदंष्ट्रा हरिधूम्रकेशा
विवर्धमानाः शरदीव मेघाः ॥ ३.४९.२०॥
सहस्रबाहुर्बाणश्च बलेः पुत्रो महाबलः ।
रथातिरथकोट्या वै सन्नह्यत महाबलः ॥ २१॥
सर्वे मायाधरा दैत्याः सर्वे दिव्यास्त्रयोधिनः ।
सर्वे मदबलोत्सिक्ताः सर्वे लब्धवराः पुरा ॥ २२॥
सर्वे काञ्चनशैलाभाः पीतकौशेयवाससः ।
किरीटोष्णीषमुकुटा दिव्यभूषणभूषिताः ॥ २३॥
हिरण्यकवचाः सर्वे हिरण्यध्वजकेतवः ।
स्यन्दनस्था व्यराजन्त शारदा इव खे ग्रहाः ॥ २४॥
तापनीयैर्वरैर्निष्कैरनलज्वलितप्रभैः ।
हेमपर्वतशृङ्गस्थाः पुष्पिता इव किंशुकाः ॥ २५॥
तेषां मध्यगतो बाणः प्रावृषीवोत्थितो घनः ।
स्थितः शक्तिगदापाणिस्त्रिनल्वप्रतिमे रथे ॥ २६॥
विचित्राश्वध्वजयुगे चित्रभक्तिविराजिते ।
गदापरिघसम्पूर्णे हेमजालविभूषिते ॥ २७॥
अन्वीयमानो दितिजैर्वालखिल्यैरिवांशुमान् ।
नानाप्रहरणैर्घोरैस्तीक्ष्णदंष्ट्रैरिवोरगैः ॥ २८॥
पञ्च तस्य महावीर्या दानवा युद्धदुर्मदाः ।
ररक्षू रथमव्यग्रा व्यादितास्या भयावहाः ॥ २९॥
सुबाहुर्मेघनादश्च भीमगर्भश्च वीर्यवान् ।
तथा कनकमूर्धा च वेगवान् केतुमानिति ॥ ३.४९.३०॥
कनकरजतभक्तिचित्रपार्श्वे
पतगपतिप्रतिमे रथे स्थितोऽभूत् ।
जलदनिनदतुल्यनेमिघोषे
सुरगणसैन्यवधाय दानवेन्द्रः ॥ ३१॥
दनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
वृतः शतसहस्रेण रथानां भीमवर्चसाम् ॥ ३२॥
युक्तमृक्षसहस्रेण रथमारुह्य वीर्यवान् ।
नीलायसमयं घोरं वायसाङ्कं सुदुर्जयम् ॥ ३३॥
नीलाम्बरधरः श्रीमान् वैदूर्याचलसन्निभः ।
महता रथवेगेन प्रययौ दानवस्तदा ॥ ३४॥
तत्रैकार्णवसङ्काशे सैन्यमध्ये व्यराजत ।
प्रभातसमये श्रीमान् समुद्रस्य इवांशुमान् ॥ ३५॥
सुतप्तजाम्बूनदतुल्यवर्चसा
निशाकराकारतडिद्गुणाकरः ।
किरीटमुख्येन विभाति शोभिना
यथा गिरिः शृङ्गवरेण भास्वता ॥ ३६॥
षष्टी रथसहस्राणि नमुचेरसुरस्य वै ।
खरयुक्तानि सर्वाणि मेघतुल्यरवाणि च ॥ ३७॥
नानाप्रहरणाः सर्वे सर्वे ते चित्रयोधिनः ।
महाभ्रघनसङ्काशा वेगवन्तो महाबलाः ॥ ३८॥
रथो व्याघ्रसहस्रेण युक्तः परमवेगवान् ।
नमुचेरसुरेन्द्रस्य सर्वरत्नविभूषितः ॥ ३९॥
शार्दूलचिह्नः शुशुभे तस्य केतुर्हिरण्मयः ।
रथमध्येऽसुरेशस्य मध्यन्दिनरविर्यथा ॥ ३.४९.४०॥
स भीमवेगश्च महाबलश्च
प्रगृह्य चापं हिमवानिव स्थितः ।
नीलाम्बरः काञ्चनपट्टनद्धो
दिशागजो यद्वदुपेतकक्षः ॥ ४१॥
किङ्किणीजालनिर्घोषं तपनीयविभूषितम् ।
सपताकध्वजोपेतं ससन्ध्यमिव तोयदम् ॥ ४२॥
चक्रैश्चतुर्भिः संयुक्तमष्टनल्वायतान्तरम् ।
हेमजालाकुलं दीप्तं कालचक्रमिवोदितम् ॥ ४३॥
नानायुधधरं घोरं व्याघ्रचर्मपरिष्कृतम् ।
ईहामृगगणाकीर्णं चित्रभक्तिविराजितम् ॥ ४४॥
तूणीरशरसम्पूर्णं शक्तितोमरसङ्कुलम् ।
गदामुद्गरसम्बाधं चापरत्नविभूषितम् ॥ ४५॥
युक्तमृक्षसहस्रेण लम्बकेसरवर्चसा ।
राजतेन विकीर्णेन शोभितं सिंहकेतुना ॥ ४६॥
स तेन शुशुभे दैत्यो मयो मायाविसर्पिणा ।
रथरत्ने स्थितः श्रीमानुदयस्य इवांशुमान् ॥ ४७॥
विमलरजतबिन्दुशोभिताङ्गं
मणिकनकोज्ज्वलचारुभक्तिचित्रम् ।
अयुतशतसहस्रमूर्जितानां
मयमनुयाति तदा महारथानाम् ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे मयस्य युद्धाभिगमने एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥
३.५० पञ्चाशत्तमोऽध्यायः
शम्बरादिदैत्यसन्नहनम् Mobilisation under shambara and others
वैशम्पायन उवाच ।
पुलोमा तु महादैत्यस्तिमिराकारगह्वरम् ।
आरुरोहायसं घोरं रथं पररथारुजम् ॥ १॥
उत्कीर्णपर्वताकारं लोहजालान्तरान्तरम् ।
नेमिघोषेण महता क्षुभ्यन्तमिव सागरम् ॥ २॥
गदापरिघनिस्त्रिंशैः सतोमरपरश्वधैः ।
शक्तिमुद्गरसङ्कीर्णं सतोयमिव तोयदम् ॥ ३॥
रथमुष्ट्रसहस्रेण संयुक्तं वायुवेगिना ।
पुलोमाऽऽरुह्य युद्धाय प्रस्थितो युद्धदुर्मदः ॥ ४॥
षष्टी रथसहस्राणि पुलोमानं महारथम् ।
अन्वयुः सूर्यवर्णानि प्रदीप्तानीव तेजसा ॥ ५॥
खड्गध्वजेन महता तप्तकाञ्चनवर्चसा ।
भ्राजते रथमध्यस्थः पर्वतस्य इवांशुमान् ॥ ६॥
सुचारुचामीकरपट्टनद्धां
महागदां कालनिभां महाबलः ।
प्रगृह्य बभ्राज स शत्रुमध्ये
कार्ष्णायसीं केतुरिवास्थितोर्व्याम् ॥ ७॥
हयग्रीवस्तु बलवान् हयग्रीवैर्महासुरैः ।
वृतः शतसहस्रेण रथानां रथिसत्तमः ॥ ८॥
धराधरनिभाकारं सपत्नानीकमर्दनम् ।
स्यन्दनं भीममास्थाय युद्धायाभिमुखः स्थितः ॥ ९॥
श्वेतशैलप्रतीकाशः श्वेतकुण्डलभूषणः ।
शुशुभे रथमध्यस्थः श्वेतशृङ्ग इवाचलः ॥ ३.५०.१०॥
महता सप्तशीर्षेण शोभितो नागकेतुना ।
वैदूर्यमणिचित्रेण प्रवालाङ्कुरशोभिना ॥ ११॥
अमितबलपराक्रमाकृतीनां
वररथिनामनुजग्मुरूर्जितानाम् ।
असुरगणशतानि गच्छमानं
त्रिदशगणा इव वासवं प्रयान्तम् ॥ १२॥
प्रह्रादस्तु महाप्राज्ञः सर्वशास्त्रविशारदः ।
सर्वमायाधरः श्रीमान् यष्टा क्रतुशतैरपि ॥ १३॥
समनह्यत तेजस्वी पावकार्चिःसमप्रभः ।
रथानीकेन महता दुर्दिनाम्भोदनादिना ॥ १४॥
शूरेणामितवीर्येण हेमकुण्डलधारिणा ।
वृतो दैत्यसहस्रेण देवैरिव पितामहः ॥ १५॥
स्ववीर्यादग्रणीर्दृप्तो मत्तवारणविक्रमः ।
सुरसैन्यस्य सर्वस्य प्रतिक्षोभ इव स्थितः ॥ १६४॥
स्ववीर्येणोदधेस्तुल्यः प्रदीप्ताग्निरिव ज्वलन् ।
तेजसा भास्कराकारः क्षमया पृथिवीसमः ॥ १७॥
तालध्वजेन दीप्तेन रथेनातिविराजता ।
तं यान्तमनुयान्ति स्म दानवाः शतसङ्घशः ॥ १८॥
सर्वे हिरण्यकवचाः सर्वे रत्नविभूषिताः ।
दिव्याङ्गरागाभरणाः समरेष्वनिवर्तिनः ॥ १९॥
जाम्बूनदविचित्राङ्गा वैदूर्यविकृताङ्गदाः ।
दिव्यस्यन्दनमध्यस्थाः खस्था इव महाग्रहाः ॥ ३.५०.२०॥
आचारवांश्चैव जितेन्द्रियश्च
धर्मे रतः सत्यपरोऽनसूयः ।
स्थितोऽग्नितोयाम्बुदवायुकल्पो
रूपी यथा सर्वहरः कृतान्तः ॥ २१॥
शम्बरस्तु महामायो रथयूथपयूथपः ।
आरुरोह रथं दिव्यं सर्वयुद्धविशारदः ॥ २२॥
लोहिताक्षो महाबाहुः प्रतप्तोत्तमकुण्डलः ।
जीमूतघनसङ्काशो श्यियस्रगनुलेपनः ॥ २३॥
विद्युज्ज्योतिर्निकाशेन मुकुटेनार्कवर्चसा ।
मणिरत्नविचित्रेण वैदूर्यवरशोभिना ॥ २४॥
तपनीयेन महता कवचेन विराजता ।
सन्ध्याभ्रेणेव सञ्च्छन्नः श्रीमानस्तशिलोच्चयः ॥ २५॥
त्रिंशच्छतसहस्राणि दैत्यानां चित्रयोधिनाम् ।
बलिनां कालकल्पानामन्वयु शम्बरं तदा ॥ २६॥
युक्तं हयसहस्रेण शुक्लवर्णेन राजता ।
क्रौञ्चध्वजेन दीप्तेन रथेनाहवशोभिना ॥ २७॥
व्यासक्तवैदूर्यसुवर्णजालं
नानाविहङ्गैरपि भक्तिचित्रम् ।
विद्युत्प्रभं भीमरवं सुवेगं
रथं समारुह्य रराज दैत्यः ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे शम्बरादिदैत्यसन्नहने पञ्चाशत्तमोऽध्यायः ॥ ५०॥
३.५१ एकपञ्चाशत्तमोऽध्यायः
सुरासुरयुद्धे बलेः स्वयमुद्योगवर्णनम् In the war between sura-s and asura-s, bali prepares for battle
अनुह्रादश्च तत्रैव दैत्यः परमदुर्जयः ।
हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः ॥ १॥
चतुश्चक्रेण यानेन त्रिनल्वप्रतिमेन तु ।
युक्तेनाश्वैर्महावीर्यैः सिंहवक्त्रैरजिह्मगैः ॥ २॥
भीमगम्भीरनादेन नेमिघोषेण वीर्यवान् ।
चालयन् वसुधां सर्वां सशैलवनकाननाम् ॥ ३॥
विनर्दमाना दैत्यौघा अनुह्रादं ययुः शुभाः ।
शतं शतसहस्राणां रथानां हेममालिनाम् ॥ ४॥
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः ।
विविधायुधहस्तास्ते शूलमुद्गरपाणयः ॥ ५॥
सुवर्णजालनिर्मुक्तैर्वज्रैश्च समलङ्कृताः ।
रथैश्चित्रैश्च कवचैः सज्जमाना महासुराः ॥ ६॥
तदा विशालोच्छ्रितशैलरूपे
बभौ रथे काञ्चनचित्रिताङ्गे ।
दैत्याधिपः सत्त्वबलानुरूपे
समास्थितस्त्वप्रतिमे सुरूपे ॥ ७॥
विरोचनश्च बलवान् वैश्वानरसमद्युतिः ।
महता रथवंशेन सर्वास्त्रकुशलः शुचिः ॥ ८॥
व्यूहानां विनियोगज्ञो ज्ञानविज्ञानतत्त्ववित् ।
बलेः पितासुरवरः सुराणामिव वासवः ॥ ९॥
सर्वायुधसमोपेतं किङ्किणीजालभूषितम् ।
युक्तानां हाजिमुख्यानां सहस्रेणाशुगामिनाम् ॥ ३.५१.१०॥
रथमारुह्य दैत्येन्द्रो बभौ मेरुरिवापरः ।
किङ्किणीजालपर्यन्तं गजेन्द्रध्वजशोभितम् ।
सन्ध्याभ्रसमवर्णाभिः पताकाभिरलङ्कृतम् ॥ ११॥
प्रवालजाम्बूनदभक्तिचित्रं
व्यालम्बिमुक्ताफलभूषितं च ।
रथं समारुह्य किरीटमाली
ययौ स युद्धाय महासुरेन्द्रः ॥ १२॥
विरोचनानुजश्चैव कुजम्भो नाम दानवः ।
स्यन्दनैर्बहुसाहस्रैर्मणिकाञ्चनभूषितैः ॥ १३॥
वृतो मदबलात् सिक्तैर्देवारिभिररिन्दमः ।
प्रासपाशगदाहस्तैर्दानवैर्युद्धकाङ्क्षिभिः ॥ १४॥
स पर्वतनिभाकारो भिन्नाञ्जनचयप्रभः ।
महता भ्राजमानेन किरीटेन सुवर्चसा ॥ १५॥
सर्वरत्नविचित्रेण कवचेन च संवृतः ।
महता दीप्तवपुषा रथेनेन्दुरिवांशुमान् ॥ १६॥
शातकौम्भेन महता तालवृक्षेण केतुना ।
रराज रथमध्यस्थो मेरुस्थ इव भास्करः ॥ १७॥
रणपटुरतिवीर्यसत्त्वबुद्धिः
सुरसमराभिमुखः प्रयाति तूर्णम् ।
असुरगणसमावृतः कुजम्भ-
स्त्रिदशगणैरिव बृत्रहामरेन्द्रः ॥ १८॥
असिलोमा च तत्रैव दानवः पर्वतायुधः ।
दारुणं वपुरास्थाय दारुणो दारुणाननः ॥ १९॥
रौद्रः शकटचक्राक्षो महाकायो महाबलः ।
कृष्णवासा महादंष्ट्रः किरीटी लोहिताननः ॥ ३.५१.२०॥
वृतो दैत्यसहस्रौघैर्गिरिपादपयोधिभिः ।
नानारूपधरैर्दृप्तैर्दैत्यैस्त्रिदशशत्रुभिः ॥ २१॥
ते शूलहस्ता गगने चरन्त
इतस्ततस्तोयदवृन्दतुल्याः ।
खं छादयन्तस्तपनीयनिष्का
यथोन्नताः प्रावृषि कालमेघाः ॥ २२॥
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
देवशत्रुर्महाकायस्ताम्रास्यो निर्नतोदरः ॥ २३॥
दीप्तजिह्वो हरिश्मश्रुरूर्ध्वरोमा महाहनुः ।
नीलाङ्गो लोहितमुखः किरीटी लोहिताम्बरः ॥ २४॥
आजानुबाहुर्विकृतः श्वेतदंष्ट्रो विभीषणः ।
महामायाधरो भीमो हेमकेयूरभूषणः ॥ २५॥
महता मणिचित्रेण कवचेन तु संवृतः ।
हेममालाधरो रौद्रश्चक्रकेतुरमर्षणः ॥ २६॥
किङ्किणीशतसङ्घुष्टं तपनीयविभूषितम् ।
युक्तं हयसहस्रेण रक्तध्वजपताकिनम् ॥ २७॥
रथानीकेन महता युद्धायाभिमुखो ययौ ।
दिव्यं स्यन्दनमास्थाय दैत्यानां नन्दिवर्धनः ॥ २८॥
तपितकनकबिन्दुपिङ्गलाक्षो
दितितनयोऽसुरसैन्ययुद्धनेता ।
विकसितकमलाभचारुचक्षुः
सितदशनः शुशुभे रथासनस्थः ॥ २९॥
एकचक्रस्तु तत्रैव सूर्यचक्र इवोदितः ।
कालचक्रसमो रौद्रश्चक्रायुध इवोद्यतः ॥ ३.५१.३०॥
सर्वायसमयं दिव्यं रथमास्थाय भासुरम् ।
वृतो दैत्यगणैर्दृप्तैः कालायसशिलायुधैः ॥ ३१॥
तस्याशीतिसहस्राणि रथिनां चित्रयोधिनाम् ।
सर्वे कालान्तकप्रख्या रुधिराक्षा महाबलाः ।
आयसैः काञ्चनैश्चैव सन्नद्धा वरवर्णिनः ॥ ३२॥
व्यराजन्तान्तरिक्षस्था नीला इव पयोधराः ॥
सर्वे कालान्तकप्रख्या धीराः समरदुर्जयाः ॥ ३३॥
सागरोदरगम्भीरा नीलचक्रा दुरासदाः ।
नेदुर्यान्तोऽसुरवरा वेलातीता इवार्णवाः ॥ ३४॥
ते भीममायाः सुसमृद्धकायाः
किरीटिनः काञ्चनभूषिताङ्गाः ।
ययुस्तदा स्वायुधदीप्तहस्ता
नभः सपक्षा इव पर्वतेन्द्राः ॥ ३५॥
सन्दिष्टो बलिपुत्रेण वृत्रभ्राता महासुरः ।
वधाय सुरसैन्यस्य सन्नह्यस्वेति वीर्यवान् ॥ ३६॥
हेममाली महादंष्ट्रः स्रग्वी रुचिरकुण्डलः ।
रक्तमाल्याम्बरधरश्चण्डः समरदुर्जयः ॥ ३७॥
सुमहावृत्तनयनः स किरीट धनुर्धरः ।
प्रभिन्न इव मातङ्गः शार्दूलसमविक्रमः ॥ ३८॥
महातालनिभं चापं तथा रुचिरसायकम् ।
विस्फारयन् महावेगं वज्रनिष्पेषनिःस्वनम् ॥ ३९॥
रथेन खरयुक्तेन ध्वजेन भुजगेन च ।
शुशुभे स्यन्दनस्थः स सन्ध्यागत इवांशुमान् ॥ ३.५१.४०॥
रथैस्तु बहुसाहस्रैर्हेमपट्टविभूषितैः ।
शूलमुद्गरसम्पूर्णैर्जलपूर्णैरिवाम्बुदैः ।
स दैत्येन्द्रोऽभिचक्राम तस्मिन्युद्ध उपस्थिते ॥ ४१॥
पवनसमगतिर्विशालवक्षा
विकसितपङ्कजचारुगर्भगौरः ।
प्रवररथगतो ययौ स तूर्णं
त्रिदशगणैरभिलक्षितप्रभावः ॥ ४२॥
सिंहिकातनयश्चैव राहुर्नाम महासुरः ।
विकटः पर्वताकारः शतशीर्षा शतोदरः ॥ ४३॥
पीतमाल्याम्बरधरो जाम्बूनदविभूषितः ।
स्निग्धवैदूर्यस्रङ्काशः पद्मपत्रनिभेक्षणः ॥ ४४॥
सर्वकाञ्चनसंयुक्तं मणिजालपरिष्कृतम् ।
पताकाशतसङ्कीर्णं युक्तं परमवाजिभिः ॥ ४५॥
आरुरोह रथं दिव्यं दैत्यः परमवीर्यवान् ।
ननाद च महानादं कम्पयन् वसुधातलम् ॥ ४६॥
मयेन विहितो दिव्यस्तस्य केतुर्हिरण्मयः ।
मयूरपक्षसङ्काशं कवचं चायसं महत् ॥ ४७॥
भीमवेगरवैश्चान्यै रथैर्दिव्यैः सुभासुरैः ।
नानाप्रहरणाकीर्णैः सेव्यमानो महाबलः ॥ ४८॥
असुरगणपतिर्गजेन्द्रगामी
अतिरभसगतिर्महासुराणाम् ।
अरिगणमभितो विभुः प्रयातो
गिरिवरमस्तमिवांशुमान् सुदीप्तः ॥ ४९॥
विप्रचित्तिस्तु तत्रैव दनोर्वंशविवर्धनः ।
कश्यपस्यात्मजः श्रीमान् ब्रह्मणस्तेजसा समः ॥ ३.५१.५०॥
यष्टा क्रतुसहस्राणां वेदवित् तपसान्वितः ।
स्वयम्भुवा दत्तवरो वरदश्च स्वयम्भुवः ।
ईशित्वं च महत्त्वं च वशित्वं च महाद्युतेः ॥ ५१॥
ऐश्वर्यगुणसम्पन्नो ब्रह्मेव स्वयमूर्जितः ।
सार्धं पुत्रैश्च पौत्रैश्च सन्नह्यत महाबलः ॥ ५२॥
सर्वे मायाधराः शूराः कृतास्त्रा रणदुर्जयाः ।
सर्वे कमलवर्णाभा हेमकूटोच्छ्रयोच्छ्रयाः ॥ ५३॥
सर्वे रजतसङ्काशाः कैलासशिखरोपमाः ।
मयेन निर्मितास्तेषां सर्वे मायामया रथाः ॥ ५४॥
विचरन्तो व्यराजन्त शारदा इव तोयदाः ।
सर्वे हंसध्वजाः श्वेताः श्वेतदण्डसमुच्छ्रयाः ॥ ५५॥
श्वेताम्बरधरा दैत्याः श्वेतमाल्यविभूषिताः ।
श्वेतातपत्राः सर्वे ते श्वेतकुण्डलमण्डिताः ॥ ५६॥
मुक्ताहारवृतोरस्का भान्ति नाकेश्वरा इव ।
महाग्रहनिभाकाराः शत्रूणां लोमहर्षणाः ॥ ५७॥
रक्तचित्राम्बरधराश्चित्राभरणभूषिताः ।
त्रैलोक्यविजयं नाम रथमास्थाय वीर्यवान् ।
कैलासशिखराकारमष्टनल्वायतान्तरम् ॥ ५८॥
युक्तं वाजिसहस्रेण सितेन सितवर्चसा ।
पताकाशतसञ्छन्नं नानायुद्धविकल्पितम् ॥ ५९॥
हिमांशुकुन्दप्रतिमं विशालं
सितातपत्रं दनुजेश्वरस्य ।
विभाति तस्योपरि धार्यमाणं
श्वेताद्रिमूर्धोपगतः शशाङ्कः ॥ ३.५१.६०॥
केशी दानवमुख्यस्तु जिह्मस्ताम्राक्षदर्शनः ।
नीलमेघचयप्रख्यः कालः पुरुषविग्रहः ॥ ६१॥
महाग्रहनिभाकारः शत्रूणां लोमहर्षणः ।
चित्रमाल्याम्बरधरो रक्ताभरणभूषितः ॥ ६२॥
शताक्षः शतबाहुश्च हरिश्मक्षुर्महाबलः ।
शङ्कुकर्णो महानादो वपुषा घोरदर्शनः ॥ ६३॥
युक्तं महिषकैर्दिव्यैर्घण्टाकोटिकृतस्वनम् ।
महावारिधराकारमास्थाय रथमुत्तमम् ॥ ६४॥
ध्वजेनोष्ट्रेण महता नीलकेसरवर्चसा ।
नानारागविचित्राभिः पताकाभिर्विभूषितम् ॥ ६५॥
द्विपञ्चाशत्सहस्राणि रथानामुग्रवर्चसाम् ।
ययुस्तस्यासुरेन्द्रस्य प्रयातस्य सुरान् प्रति ॥ ६६॥
भान्ति भिन्नाञ्जननिभाः प्रयातस्य महात्मनः ।
दंष्ट्रार्धचन्द्रवदनाः सबलाका इवाम्बुदाः ॥ ६७॥
तत् तस्य वैदूर्यसुवर्णचित्रं
विद्युत्प्रभं भास्कररश्मितुल्यम् ।
किरीटमाभात्यसुरोत्तमस्य
दावाग्निदीप्तं शिखरं यथाद्रेः ॥ ६८॥
वृषपर्वासुरश्चैव श्रीमांश्च सुरसूदनः ।
आरुरोह रथं दिव्यं मेरुशृङ्गमिवांशुमान् ॥ ६९॥
प्रवालजाम्बूनदचित्रकूबरं
महारथं भारसहं महार्हम् ।
स्वलङ्कृतं राजतनेमिमण्डलं
गभस्तिनक्षत्रतडिन्निकाशम् ॥ ३.५१.७०॥
केयूरयुक्ताङ्गदनद्धबाहुः
सहस्रतारेण च चर्मणा सः ।
साङ्ग्रामिकैराभरणैश्च चित्रै-
र्मध्याह्नसूर्यप्रतिमो बभूव ॥ ७१॥
महाबलो बद्धतलाङ्गुलित्रो
बलोत्कटः किंशुकलोहिताक्षः ।
प्रगृह्य चामीकरचारुचित्रं
चापं स्थितो वृत्तविशालनेत्रः ॥ ७२॥
महासुरेन्द्रश्च महासुरैर्वृतो
बलिस्तदा स्यन्दनमारुरोह ।
वैदूर्यहेमोपचितं विशालं
विद्युत्प्रभं षोडशनल्वमात्रम् ॥ ७३॥
युक्तं सहस्रेण दितेः सुतानां
गजाननं विकृताकृतीनाम् ।
चामीकरोरः स्थलभूषितानां
प्रनर्दतां प्रावृषि चाम्बुदानाम् ॥ ७४॥
महारथं देवरथप्रकाशं
सहस्रमायेन मयेन सृष्टम् ।
ईहामृगाक्रीडितभक्तिचित्रं
दिव्यं रथं दिव्यरथानुयातं ७५॥
सकिङ्किणीकं विमलं सुविस्तृतं
हिरण्मयैः पद्मशतैरलङ्कृतम् ।
अभ्याददे वैजयिकीं जयाय
स्रजं वलिर्हेमविचित्रपुष्पाम् ॥ ७६॥
आबध्य मालां प्रभया विचित्रां
बलिस्तदा भाति भुजैर्विशालैः ।
रराज तैः सर्वसमृद्धियुक्तै-
र्महार्चिषा सूर्य इवाम्बरस्थः ॥ ७७॥
स्रजं तदा बध्यति चास्य दुर्गा
सर्वासुराणामिव हारभूताम् ।
वैरोचनिः सर्वश्रियाभिजुष्टो
बिभ्राजतेऽसौ शरदीव चन्द्रः ॥ ७८॥
मेरोस्तटे वा ज्वलनप्रकाशे
ह्यादित्यसंयुक्तमिवाभ्रजालम् ।
प्रासाश्च पाशाश्च हिरण्यबद्धा
वर्माणि खड्गाश्च परश्वधाश्च ॥ ७९॥
धनूंषि वज्रायुधसप्रभाणि
दिव्या गदा वज्रमुखाश्च शक्त्यः ।
दिव्याश्च खड्गा विशिखाश्च दीप्ता
नाराचपूर्णा विविधाश्च तूणाः ॥ ३.५१.८०॥
धृता रथे दैत्यवृषस्य तस्य
चकाशिरे प्रज्वलिता यथोल्काः ।
तं चामरापीडधराः सुदंष्ट्राः
सुवर्णमुक्तामणिहेमचित्राः ॥ ८१॥
वीजन्ति बालव्यजनैर्विनीता
महासुराः स्यन्दनवेदिकास्थाः ।
अयःशिरा अश्वशिरा दुरापः
शिबिर्मतङ्गो विशिराः शताक्षः ॥ ८२॥
अयो निकुम्भः क्रथनश्च दानवो
ररक्षिरे ते दश दानवाधिपम् ।
पुरश्चराश्चैव सहस्रशोऽसुराः
पदातयो दानवराजरक्षिणः ॥ ८३॥
शतघ्निचक्राशनिशक्तिपाणयः
प्रजग्मुरग्रेऽनिलतुल्यवेगिनः ।
घण्टा सुशब्दास्तपनीयबद्धा
आडम्बरा गर्गरडिण्डिमाश्च ॥ ८४॥
महारवा दुन्दुभयश्च नेदू
रथप्रयाणे दितिजेश्वरस्य ।
तस्योत्थितः काञ्चनवेदिकाढ्यो
हिरण्मयो दिव्यमहापताकः ॥ ८५॥
महाध्वजो वै तपनीयनद्धो
रराज वीरस्य यथा विवस्वान् ।
समुच्छ्रितं काञ्चनमातपत्रं
स्रक्काञ्चनी वक्षसि चास्य भाति ॥ ८६॥
समन्ततश्चाप्यसुराश्चरन्ति
दैत्यर्षयः प्राञ्जलयो जयन्ति ।
पुरोहिताः शत्रुवधे समाहिता-
स्तथैव चान्ये श्रुतशीलवृद्धाः ॥ ८७॥
जपैश्च मन्त्रैश्च तथौषधीभि-
र्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
स तत्र वस्त्राणि शुभाश्च गावः
फलानि पुष्पाणि तथैव निष्कान् ॥ ८८॥
बलिर्द्विजेभ्यः प्रयतः प्रयच्छन्
विराजतेऽतीव यथा धनेशः ।
सहस्रसूर्यो बहुकिङ्किणीकः
परार्द्ध्यजाम्बूनदहेमचित्रः ॥ ८९॥
सहस्रचन्द्रायुततारकश्च
रथो बलेरग्निरिवावभाति ।
तमास्थितो दानवसङ्गृहीतं
महाबलः कार्मुकधृक् सबाणः ॥ ३.५१.९०॥
उद्वर्तयिष्यंस्त्रिदशेन्द्रसेना-
मतीव रौद्रं स बिभर्तिरूपम् ।
स वेगवान् वीररथौघसङ्कुलः
प्रयाति देवान् प्रति दैत्यसागरः ॥ ९१॥
महार्णवो वीचितरङ्गसङ्कुलो
यथा जलौघैर्युगसङ्क्षये तथा ।
त्रैलोक्यवित्रासकरैर्वपुर्भि
स्तान्यग्रतो यान्ति बले रथस्य ॥ ९२॥
महाबलान्युच्छ्रितकार्मुकाणि
सपर्वतानीव वनानि राजन् ॥ ९३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने बलेरुद्योगे एकपञ्चाशत्तमोऽध्यायः ॥ ५१॥
३.५२ द्विपञ्चाशत्तमोऽध्यायः
देवसैन्यानां युद्धोद्योगः Deva-s prepare for battle
वैशम्पायन उवाच ।
श्रुतस्ते दैत्यसैन्यस्य विस्तरो जनमेजय ।
भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः ॥ १॥
सुराधिपस्तु भगवानाज्ञापयत वै सुरान् ।
मरुद्गणास्तथादित्यान् विश्वान्देवांश्च वासवः ॥ २॥
वसूनष्टौ भृशं सर्वान् यक्षरक्षोमहोरगान् ।
विद्याधरगणान्सर्वान्गन्धर्वांश्च महाबलान् ॥ ३॥
महार्णवांश्च शैलांश्च तथा रुद्रान् महौजसः ।
यमवैश्रवणौ चोभौ वरुणं च जनाधिपं ४॥
ये तु सिद्धा महात्मानः पितरश्च मनस्विनः ।
राजर्षयश्च शतशो योगसिद्धास्तथैव च ॥ ५॥
त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् ।
भवन्तो दैत्यनाशाय सन्नह्यन्तामिति प्रभुः ॥ ६॥
शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः ।
सन्नह्यन्त महात्मानः शक्रस्य समविक्रमाः ॥ ७॥
नानाकवचिनः सर्वे विचित्रकवचध्वजाः ।
नानायुधोद्यतकरा मत्ता इव महागजाः ॥ ८॥
केचिदारुरुहुर्व्याघ्रान् केचिदारुरुहुर्गजान् ।
केचिदारुरुहुर्नागान् केचिदारुरुहुर्वृषान् ॥ ९॥
हरिनेत्रो हरिश्मश्रुर्द्विरदैरावृतध्वजम् ।
रथं हरिहयैर्युक्तं स प्रायात् समरं प्रति ॥ ३.५२.१०॥
आदित्यवर्णं विरजं सुधौतं
त्वष्ट्रा स्वयं निर्मितमीश्वरार्थम् ।
जालैश्च जाम्बूनदभक्तिचित्रै-
रलङ्कृतं काञ्चनदामभिश्च ॥ ११॥
सकूबरोपस्करबन्धुरेषं
विद्युत्प्रभाभिः कृतमाभिताम्रम् ।
कैलासशृङ्गोपमन्द्रियानं
सुचारुचारु प्रतिचक्रचक्रम् ॥ १२॥
तारासहस्रैः खचितं ज्वलद्भि-
र्देवार्हमाल्यार्चितसर्वदेहम् ।
समुच्छ्रितश्रीध्वजमक्षयाक्षं
प्रज्वाल्यमानं पुरुषोत्तमेन ॥ १३॥
आस्थाय तं भास्करमाशुवेगं
शचीपतिर्लोकपतिः सुरेशः ।
वज्रस्य धर्ता भुवनस्य गोप्ता
ययौ महात्मा भगवान् महेन्द्रः ॥ १४॥
आमुच्च वर्माथ सहस्रतारं
हुताशनादित्यसमप्रभावम् ।
सूर्यप्रभं चामुमुचे किरीटं
मालां च जाम्बूनदवैजयन्तीम् ॥ १५॥
त्वष्ट्रा कृतं भास्कररश्मिदीप्तं
सुतीक्ष्णघोरामलतीव्रधारम् ।
महासुराणां रुधिरार्द्रमुग्रं
प्रगृह्य वज्रं शतपर्व भीमम् ॥ १६॥
महाशनी द्वे च महाग्रहाभे
दीप्ताममोघां च सशक्तिमुग्राम् ।
चक्रं तथैन्द्रं सुमहत्प्रतापं
प्रगृह्य शक्रः प्रययौ रणाय ॥ १७॥
सहस्रदृग् भूतपतिः सनातनः
सनातनानामपि यः सनातनः ।
खड्गं च देवाधिपतिर्महात्मा
वैयाघ्रमादाय च चर्म चित्रम् ॥ १८॥
क्षीरोदधिक्षोभसमुच्छ्रितानि
पुरामृतादुत्तमभूषणानि ।
देवासुराणां श्रमनिर्जितानि
सोमार्कनक्षत्रतडित्प्रभाणि ॥ १९॥
दत्तान्यदित्या मणिकुण्डलानि
युद्धे प्रयातस्य सुरेश्वरस्य ।
तैर्भूषितो भाति सहस्रचक्षु-
रुद्योतयन् वै विदिशो दिशश्च ॥ ३.५२.२०॥
हरिः प्रभुर्नेत्रसहस्रचित्रो
विभाति युद्धाभिमुखः सुरेन्द्रः ।
यया सितं शारदमभ्रकल्पं
नभस्तलं ह्यृक्षसहस्रचित्रम् ॥ २१॥
स्तुवन्ति यान्तं विपुलैर्वचोभि-
र्जयाशिषा चोर्जितसत्त्ववीर्यम् ।
अत्रिर्वसिष्ठो जमदग्निरूर्वो
बृहस्पतिर्नारदपर्वतौ च ॥ २२॥
तमन्वयुर्देवगणा महेन्द्रं
प्रयान्तमादित्यसमानवर्चसम् ।
विश्वे च देवा मरुतस्तथैव
साध्यास्तथाऽऽदित्यगणाश्च सर्वे ॥ २३॥
ते देवराजस्य पुरन्दरस्य
हयाश्च ये मातलिसङ्गृहीताः ।
प्रयान्ति देवेश्वरमुद्वहन्तो
नभस्तलं पद्भिरिवाक्षिपन्तः ॥ २४॥
ब्रह्मर्षयश्चैव महर्षयश्च
राजर्षयश्चाक्षयपुण्यलोकाः ।
सर्वेऽनुजग्मुः सहसा ज्वलन्तं
तेजोऽन्वितं शक्रममित्रसाहम् ॥ २५॥
प्रगृह्य शूलांश्च परश्वधांश्च
दीप्तानि चापान्यशनीर्विचित्राः ।
वर्माणि चामुच्य हिरण्मयानि
प्रयान्ति सूर्यांशुसमप्रभाणि ॥ २६॥
तथा कुबेरोऽश्वसहस्रयुक्तं
श्रेष्ठं रथं सर्वसहं महार्हम् ।
दिव्यं समारुह्य रणाय यातो
धनेश्वरो दीप्तगदाग्रहस्तः ॥ २७॥
निशाचराः पावकधूमकाया
रक्षोवृषा रुद्रसखस्य तस्य ।
विशालनानायुधदीप्तहस्ता
यान्त्यप्रतो वैश्रवणस्य राज्ञः ॥ २८॥
ते लोहिताक्षाः परिवार्य देवं
व्रजन्ति भिन्नाञ्जनचूर्णवर्णाः ।
यक्षोत्तमा यक्षपतिं धनेशं
रक्षन्ति वै पाशगदासिदस्ताः ॥ २९॥
पुण्यः प्रभुः प्राणपतिर्जितात्मा
वैवस्वतो धर्मभृतां वरिष्ठः ।
तडिद्गणाभं शतवाजियुक्तं
रथं समारोहत सूर्यकल्पम् ॥ ३.५२.३०॥
तं लोकपालं पितरोऽनुजग्मु
र्विविक्तपापा ज्वलितास्तपोभिः ।
सर्वे च भूता भुवनप्रधाना
नानायुधव्यग्रकराः सुभीमाः ॥ ३१॥
दण्डं महास्त्रं परिगृह्य देवो
लोकाङ्कुशं निग्रहनिश्चितार्थम् ।
हिरण्मयानां कमलोत्पलानां
मालां मनोज्ञामवसज्य कण्ठे ॥ ३२॥
स्थितोऽस्थिमेदामिषलोहितार्द्रं
सर्वासुराणां निधनं विरूपम् ।
तेजोमयं मुद्गरमुग्ररूपं
विकर्षमाणोऽरुणधूम्रनेत्रः ॥ ३३॥
समन्वितो व्याधिशतैरनेकै-
र्ययौ हरिश्मश्रुरुदारसत्त्वः ।
महासुराणां निधनाय बुद्धिं
चक्रे तदा व्याधिपतिः कृतान्तः ॥ ३४॥
ततस्त्रिशीर्षैर्भुजगैर्बृहद्भि-
र्युक्तं रथं हेमचितं महात्मा ।
आस्थाय कुन्देन्दुनिभं जलेशो
ययौ रणायासुरदर्पहन्ता ॥ ३५॥
वैदूर्यमुक्तामणिभूषिताङ्ग
स्तेजोमयः पाशगृहीतहस्तः ।
महासुराणां निधनाय देवः
प्रयाति रूप्याङ्गदबद्धबाहुः ॥ ३६॥
अन्वीयमानो जलदेवताभि-
र्निषेच्यमाणो जलजैश्च सत्त्वैः ।
संस्तूयमानश्च महर्षिवृन्दैः
सम्पूज्यमानश्च महाभुजङ्गैः ॥ ३७॥
कैलासशृङ्गप्रतिमोऽप्रमेयः
समुद्रनाथोऽमृतपो महात्मा ।
महोरगैः स्वैस्तनयैः सुगुप्तो
ययौ रथेनार्कसमप्रभेण ॥ ३८॥
युद्धाय तं यान्तमदीनसत्त्वं
नभस्तले चन्द्रमिवातिकान्तम् ।
पश्यन्ति भूतानि महानुभावं
संहृष्टरोमाणि कृताञ्जलीनि ॥ ३९॥
धातार्यमांशोऽथ भगो विवस्त्रान्
पर्जन्यमित्रौ च शशी च देवः ।
त्वष्टा तथैवोर्जितविश्वकर्मा
पूषा च साक्षाद् दिवि देवराजः ॥ ३.५२.४०॥
सोरश्छदैः सध्वजकिङ्किणीकै-
र्वैदूर्यनिष्कैश्चितहेमकण्ठैः ।
हयैर्वरैः शक्ररथप्रकाशै-
र्युक्तान् रथानारुरुहुः सुरास्ते ॥ ४१॥
दिवाकराकारनिभानि केचि-
द्धुताशनार्चिः प्रतिमानि केचित् ।
निशाकरांशुप्रतिमानि केचित्
तडिद्गणोद्द्योतनिभानि केचित् ॥ ४२॥
नीलांशुमेघप्रतिमानि केचित्
कार्ष्णायसाकारनिभानि केचित् ।
वर्माणि दिव्यानि महाप्रभाणि
त्वष्ट्रा कृतान्युत्तमभानुमन्ति ॥ ४३॥
आमुच्य मालाश्च सुवर्णपुष्पाः
प्रयान्ति तोयानिलतुल्यवेगाः ।
द्वावश्विनौ चैव महानुभावौ
रूपोत्तमौ धर्मभृतां वरिष्ठौ ॥ ४४॥
रथं समारुह्य सुवर्णचित्रं
रणं गतौ काञ्चनतुल्यवर्णौ ।
मनोः सुता वै वसवश्च सर्वे
बलोत्कटा दैत्यवधाय देवाः ॥ ४५॥
रथांश्च नागांश्च महाप्रमाणा-
नास्थाय जग्मुः सुशुभास्त्रहस्ताः ।
रुद्राश्च सर्वेऽरुणधूमवर्णाः
श्वेतैर्ययुर्गोपतिभिर्बृहद्भिः ॥ ४६॥
महौजसः सर्वगुणोपपन्ना
दीप्तात्न्मनो भाभिरिव ज्वलन्तः ।
नानायुधव्यग्रकरैर्भुजैस्तै
र्लोकान् समस्तानिव निर्दहन्तः ॥ ४७॥
ययुः ससैन्यास्तपनीयनद्धाः
सविद्युतस्तोयधरा यथैव ।
विश्वे च देवास्तपसा ज्वलन्तो
वीर्योत्तमाः सूर्यमरीचिवर्णाः ॥ ४८॥
ययुः ससैन्या युधि दुर्निवार्या
बलोत्कटाः पद्मसहस्रमालाः ।
रथैः सुयुक्तैस्तपनीयवर्णै-
र्वैदूर्यमुक्तामणिदामचित्रैः ॥ ४९॥
नानाविधाकारसमाकुलास्ते
पारिप्लवैश्चैव सितातपत्रैः ।
तेजोमयैः काञ्चनचारुचित्रैः
सुनिर्मलैः पावकसन्निभास्ते ॥ ३.५२.५०॥
सोरश्छदैः सध्वजकिङ्किणीकै-
र्हयैश्च वायोः समवेगवद्भिः ।
दिशां गजैश्चैव महाबलैस्तैः
कैलासशृङ्गप्रतिमैर्महद्भिः ॥ ५१॥
प्रजग्मुरुग्रायुधचापहस्ता-
श्चतुर्युगान्ते ज्वलिता इवोल्काः ।
साध्याश्च देवाः सुमहाप्रभावाः
स्वाधीनचक्राः प्रतिदीप्तवक्त्राः ॥ ५२॥
प्रयान्ति जाम्बूनदभूषिताङ्गा
गाङ्गौघमात्रैर्गगनैर्बलौघैः ।
विद्योतयन्तो विदिशो दिशश्च
महाबलास्ते जयतां वरिष्ठाः ॥ ५३॥
वरिष्ठपुष्टाष्टभुजाः सुदृप्ता
वैश्वानरार्कप्रतिमप्रभावाः ।
ते ब्रह्मविद्भिश्च नमस्यमानाः
सम्पूज्यमानाश्च सुरैः सशक्रैः ॥ ५४॥
गन्धर्वसङ्घैरनुगम्यमाना
वधाय तेषामसुराधिपानाम् ।
वैदूर्यवज्रस्फटिकाग्रचित्रै-
र्ध्वजैः सुवर्णैश्च परिष्कृतानाम् ॥ ५५॥
रूपं बभौ चोत्कटभूषणानां
दैत्येन्द्रनाशाय विभूषितानाम् ।
आत्मप्रभाभिश्च रणोत्कटाभि-
र्वर्मप्रभाभिश्च तमोनुदाभिः ॥ ५६॥
ध्वजोत्थभाभिः स्वशरोरुभाभि-
र्महाप्रभाभिश्च महोज्ज्वलाभिः ।
विभान्ति ते देववराः ससाध्याः
प्रध्मातशङ्खस्वनसिंहनादाः ॥ ५७॥
महारथस्थास्त्रिदिवौकसस्ते
महाबलाः शत्रुबलं प्रयान्ति ।
महास्त्रहस्ता ययुरुग्रकाया
महासुराणां निधनाय देवाः ॥ ५८॥
तथैव सर्वे मरुतोऽतिवीर्या
बलोत्कटास्ते समरं प्रतीताः ।
ययुर्महामेघसमानवर्णा-
श्चक्रायुधास्तोयदनादनादाः ॥ ५९॥
महेन्द्रकेतुप्रतिमा महाबलाः
प्रगृह्य सर्वासुरसूदनां गदाम् ।
रणोत्कटा लोहितचन्दनाक्ताः
सहेममाल्याम्बरभूषिताङ्गाः ॥ ३.५२.६०॥
ते युद्धशौण्डाः सभुजास्त्रवीर्या
बलोत्कटाः क्रोधविलोहिताक्षाः ।
ययुः सजाम्बूनदपद्ममाला
यथेष्टनानाविधकामरूपाः ॥ ६१॥
खड्गप्रभाश्यामलितांसपीठाः
पुरन्दरं वै परिवार्य देवाः ।
वैदूर्यचामीकरचारुरूपा-
ण्याबध्य गात्रेषु महाप्रभाणि ॥ ६२॥
वर्माणि दैत्यास्त्रनिवारणानि
प्रयान्ति युद्धाय सपत्नसाहाः ।
तैरुत्थितैः काञ्चनवेदिकाढ्यै-
र्वरध्वजैर्भास्कररश्मिवर्णैः ॥ ६३॥
ययौ सुराणां पृतनोग्रभासा
समुन्नदन्ती युधि सिंहनादान् ।
इत्येवमुक्तं त्रिदिवेश्वरस्य
सैन्यं तदासीत् सुमहत्प्रभावम् ॥ ६४॥
युद्धं प्रयातस्य जयावहस्य
वधाय तेषामसुराधिपानाम् ॥ ६५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥
३.५३ त्रिपञ्चाशत्तमोऽध्यायः
देवासुरयुद्धाद्यारंभे सनकाद्यागमनम् As the battle begins between deva-s and asura-s, the coming of sanaka etc.
देवानां असुरैः सह द्वन्द्वयुद्धं, भीषणानि उत्पातानि, ब्रह्मणः सनकादीनां
योगेश्वराणां च युद्धस्यावलोकने आगमनं
वैशम्पायन उवाच ।
ततः प्रवृत्तोऽसुरदेवविग्रह-
स्तदद्भुतो भाति सुरासुराकुलः ।
वेलामतिक्रम्य युगान्तकाले
महार्णवान्योन्यमिवाश्रयन्तः ॥ १॥
नानायुधोद्द्योतविदीपिताङ्गा
महाबला व्यायतकार्मुकास्ते ।
रणोत्सुका वारणहस्तहस्ताः
सुदुर्जयास्तोयदनादनादाः ॥ २॥
विस्फारयन्तः सहसा धनूंषि
चक्राणि चादित्यसमप्रभाणि ।
समुत्क्षिपन्तो ह्यशनीश्च घोरान्
खड्गांश्च ते वज्रमुखाश्च शक्तीः ॥ ३॥
महागदाः काञ्चनपट्टनद्धा-
स्तथायसान् कार्मुकमुद्गरांश्च ।
शूलांश्च वृक्षांश्च विगृह्य दीप्तान्
नदन्ति शूराः शतशो रणस्थाः ॥ ४॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिनिघ्नताम् ।
द्वन्द्वयुद्धान्यवर्तन्त देवानां दानवैः सह ॥ ५॥
मरुतां पञ्चमो यस्तु स बाणेनाभ्ययुध्यत ।
महाबलः सुरवरः सावित्र इति यं विदुः ॥ ६॥
दनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
सोऽयुध्यत रणेऽत्युग्रो ध्रुवेण वसुना सह ॥ ७॥
नमुचिश्चासुरश्रेष्ठो धरेण सह युध्यत ।
प्रवरौ विश्वकर्माणौ ख्यातौ देवासुरेश्वरौ ॥ ८॥
पुलोमा तु महादैत्यो वायुना सह युध्यत ।
ससैन्यः पर्वताकारो रणेऽयुध्यत दंशितः ॥ ९॥
हयग्रीवस्तु दितिजः सह पूष्णा त्वयुध्यत ।
शूरेणामितवीर्येण भास्कराकारवर्चसा ॥ ३.५३.१०॥
शम्बरस्तु महादैत्यो महामायो महासुरः ।
भगेनायुध्यत तदा सहितो युद्धदुर्मदः ॥ ११॥
शरभः शलभश्चैव दैत्यानां चन्द्रभास्करौ ।
प्रयुद्धौ सह सोमेन शैशिरास्त्रेण धीमता ॥ १२॥
विरोचनस्तु बलवान् बलेर्बलवतः पिता ।
विष्वक्सेनेन साध्येन देवेन च स युध्यत ॥ १३॥
कुजम्भस्तु महातेजा हिरण्यकशिपोः सुतः ।
अंशेनायुध्यत तदा प्रासप्रहरणेन वे ॥ १४॥
असिलोमा तु बलिना मारुतेन समं विभो ।
तदायुध्यत दीप्तास्यो विकृतः पर्वतायुधः ॥ १५॥
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
अश्विभ्यां देववैद्याभ्यां सह युध्यत संयुगे ॥ १६॥
एकचक्रस्तु दितिजश्चक्रहस्तो दुरासदः ।
सहायुध्यत देवेन साध्येन दितिजारिणा १७॥
बलस्तु मधुपिङ्गाक्षो वृत्रभ्राता महासुरः ।
मृगव्याधेन रुद्रेण सहायुध्यत वीर्यवान् १८॥
राहुस्तु विकृताकारः शतशीर्षा महोदरः ।
अजैकपादेन रणे सहायुध्यत दंशितः ॥ १९॥
केशी तु दानवश्रेष्ठः प्रावृट्कालाम्बुदप्रभः ।
धनेश्वरेण भीमेन सहायुध्यत संयुगे ॥ ३.५३.२०॥
वृषपर्वा तु बलिना पावनेन महारणे ।
विश्वेदेवेन विश्वेशः सहायुध्यत वीर्यवान् ॥ २१॥
प्रह्रादस्तु महावीर्यो वीरैः स्वैस्तनयैर्वृतः ।
युयुधे सह कालेन रणे काल इवापरः ॥ २२॥
अनुह्रादः कुबेरेण धनदेन महारणे ।
गदाहस्तेन युयुधे क्षोभयन् रिपुवाहिनीम् ॥ २३॥
विप्रचित्तिस्तु दैतेयो वरुणेन महात्मना ।
प्रवृत्तो वै रणं कर्तुं दैत्यानां नन्दिवर्धनः ॥ २४॥
बलिस्तु सह शक्रेण सुरेशेन महात्मना ।
युयुधे देवराजेन बलिना बलवान् रणे ॥ २५॥
शेषा देवाश्च दैत्याश्च जघ्नुरन्योन्यमाहवे ।
विनर्दन्तो महानादान् प्रासासिशरशक्तिभिः ॥ २६॥
अदृश्यन्त महोत्पाता ये प्रोक्ता जगतः क्षये ।
मारुताः सप्त ते क्षुब्धा व्यशीर्यन्त महीधराः ॥ २७॥
सप्त चैवोत्थिताः सूर्याः शोषयन्तो महार्णवान् ।
बहुनाभिद्यत धरा वायुना मथिता यथा ॥ २८॥
व्युत्थिताश्च महामेघाः शक्रचापाङ्कितोदराः ।
प्रणेदुः सर्वभूतानि सर्वाः सतिमिरा दिशः ॥ २९॥
देवानामजयो घोरो दृश्यते कालनिर्मितः ।
घोरोत्पातः समुद्भूतो युगान्तसमये यथा ॥ ३.५३.३०॥
न ह्यन्तरिक्षं न दिशो न भूमि-
र्न भास्करोऽदृश्यत रेणुजालैः ।
ववुश्च वातास्तुमुलाः सधूमा
दिशश्च सर्वास्तिमिरोपगूढाः ॥ ३१॥
एते चान्ये च बहवो दृश्यन्ते देवनिर्मिताः ।
भूमौ तथान्तरिक्षे च महोत्पाताः समन्ततः ॥ ३२॥
तद् युद्धं देवदैत्यानां भीमानां भीमदर्शनम् ।
अपश्यत गुरुर्ब्रह्मा सर्वैरेव सुरैः सह ॥ ३३॥।
वेदैश्चतुर्भिः साङ्गैश्च विद्याभिश्च सनातनः ।
पद्मयोनिर्वृतः श्रीमान् सिद्धैश्च परमर्षिभिः ॥ ३४॥
नानामणिस्तम्भसहस्रचित्र-
मारुह्य यानं ददृशे स्वयम्भूः ।
सुभास्वरं भूतसहस्रयुक्तं
प्रदीप्यमानो वपुषा वरेण ॥ ३५॥
सुतप्तजाम्बूनदभक्तिचित्र-
मानन्दभेरीशतसम्प्रणादम् ।
नक्षत्रचण्डांशुभिरंशुमन्तं
वैदूर्यसोमार्कविभूषिताङ्गम् ॥ ३६॥
तमात्मजा वै पुलहः पुलस्त्य-
स्तथा मरीचिर्भृगुरङ्गिराश्च ।
ऋक्सामभिः सम्यगभिष्टुवन्तः
सेवन्ति देवं वरदं विमाने ॥ ३७॥
तं पावका लोकगुरुं स्वयम्भुवं
साङ्गाश्च वेदा मखदेवताश्च ।
सेवन्ति देवं भुवनेश्वरेशं
भूतानि चान्यानि महानुभावम् ॥ ३८॥
एते बभूवुश्च महर्षिसङ्घा
``वैश्वानराः पावकयोनयश्च ।
सर्वे ययुर्देवपुरोहिताश्च
युद्धोत्सुकाः सर्वसुरासुराणाम् ॥ ३९॥
योगेश्वरा षट् च दिवाकराभा
विभूषणैर्भूषितसर्वदेहाः ।
अन्तहिता वै ददृशुर्नभःस्था
नारायणश्चैव नरश्च देवाः ॥ ३.५३.४०॥
वक्त्रैश्चतुर्वेदधरैश्चतुर्भिः
सम्पूर्णचन्द्रप्रतिमैः सुकान्तैः ।
सर्वा दिशो निस्तिमिराश्चकार
नवोदितोऽसौ शरदीव चन्द्रः ॥ ४१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि देवासुरयुद्धे सनकादिकागमनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥
३.५४ चतुष्पञ्चाशत्तमोऽध्यायः
देवासुरयोस्तुमुलयुद्धस्य यज्ञरूपेण वर्णनम् Description of the battle between deva-s and asura-s in the form of a sacrifice
देवासुराणां युद्धस्य यज्ञरूपेण वर्णनं, द्वयोः सेनयोः तुमुलं युद्धं, सावित्रध्रुवयोः पराजयं
वैशम्पायन उवाच ।
उभयोः सेनयो राजन् भूयो युद्धमवर्तत ।
नादेन सञ्चालयतां त्रैलोक्यमिदमव्ययम् ॥ १॥
गोमुखाडम्बराणां च भेरीणां मुरजैः सह ।
झल्लरीडिण्डिमानां च व्यभूयन्त महास्वनाः ॥ २॥
प्रवृत्तो युद्धयज्ञस्तु तुमुलो लोमहर्षणः ।
रणमध्ये महानादः स्वर्गीयः शूरसम्मतः ॥ ३॥
युद्धयज्ञस्य नेताभूत् प्रह्रादो दैत्यसत्तमः ।
विरोचनस्तथाध्वर्युर्युद्धयज्ञप्रवर्तकः ॥ ४॥
होता चैवात्र नमुचिर्वृत्रः स्तोत्रोपकल्पकः ।
मन्त्रा दैत्याः समाख्याता यज्ञकर्मणि तत्र वै ॥ ५॥
अनुयातश्च पितरमधिको वा पराक्रमैः ।
यष्टा तत्राभवद् बाण संयुगे चोपतिष्ठते ॥ ६॥
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं सुदुर्जयम् ।
मन्त्रास्तत्राभ्यवर्तन्त साध्वनुह्रादयोजिताः ॥ ७॥
उद्गाता च मयः श्रीमान् स्थितः शत्रुभयङ्करः ।
विनदन् दितिजश्रेष्ठो देवानीकं व्यदारयत् ॥ ८॥
बलिस्तु राजा द्युतिमान् स्वयं तत्र महासुरः ।
जाप्यैर्होमैश्च संयुक्ता ब्रह्मत्वमकरोत्प्रभुः ॥ ९॥
रणाग्निर्ज्वलितो घोरो वैरेन्धनसमीरितः ।
हूयते त्वसुरैस्तत्र देवो विष्णुः सुरैः सह ॥ ३.५४.१०॥
शङ्खशब्दैः सुतुमुलैर्भेरीणां च महास्वनैः ।
उद्घुष्टं विमलं चैव सुब्रह्मण्यं प्रयुज्यते ॥ ११॥
बलश्च बलकश्चैव पुलोमा च महासुरः ।
प्रशस्तं च समं कृत्वा सत्रं सम्यक् प्रचक्रिरे ॥ १२॥
कल्माषदण्डा विमला विपुला रथपङ्क्तयः ।
यूपाश्च समकल्पन्त युद्धयज्ञे महाफले ॥ १३॥
कर्णिनालीकनाराचा वत्सदन्तोपबृंहिकाः ।
तोमराः सोमकलशा विचित्राणि धनूंषि च ॥ १४॥
अस्थीन्यत्र कपालानि पुरोडाशाः शिरांसि च ।
आज्यं च रौद्रं रुधिरं तस्मिन् यज्ञेऽभिहूयते ॥ १५॥
इध्माः परिधयस्तत्र प्रस्तारा विपुला गदाः ।
हयग्रीवोऽसिलोमा च राहुः केशी च दानवः ॥ १६॥
विरोचनश्च जम्भश्च कुजम्भश्च महाबलः ।
सदस्यास्तत्र तु मखे विप्रचित्तिस्तु वीर्यवान् ॥ १७॥
इषवस्तु स्रुवास्तत्र रथाक्षसदृशाः शुभाः ।
धनुष्कोट्या धनुर्ज्याश्च स्रुवस्तत्र महामखे ॥ १८॥
प्रतिप्रास्थानिकं कर्म वृषपर्वाकरोदिह ।
दीक्षितस्तत्र तु बलिस्तस्य पत्नी महाचमूः ॥ १९॥
शम्बरस्तत्र शामित्रमकरोद् दितिनन्दनः ।
अतिरात्रे महाबाहुर्वितते यज्ञकर्मणि ॥ ३.५४.२०॥
दक्षिणास्तस्य यज्ञस्य कालनेमिर्महासुरः ।
वैताने कर्मणि विभोर्यः ख्यातो हव्यवाडिव ॥ २१॥
त्रिदशानां तु सैन्यस्य शरीरैर्गतजीवितैः ।
तस्मिन् यज्ञे तु सवनं वर्धते दैत्यनिर्मितम् ॥ २२॥
देवानां रुधिरं सङ्ख्ये पपुरुग्रा दितेः सुताः ।
नर्दमानाः प्रमुदिताः सोमपानं रणाध्वरे ॥ २३॥
यदा बलिर्महादैत्यो विजेता समरे सुरान् ।
तदा ह्यवभृथो यज्ञे भविष्यति न संशयः ॥ २४॥
महासुरेन्द्रपतयो यज्वानो भूरिदक्षिणाः ।
वेदवन्तो वृत्तवन्तः शूराः सर्वे तनुत्यजः ॥ २५॥
त्रैलोक्यहरणे सृष्टा युद्धयज्ञाय दीक्षिताः ।
बद्धकृष्णाजिनाः सर्वे व्रतिनो मुञ्जधारिणः ॥ २६॥
एकनिश्चयकार्याश्च त्रैलोक्यजयकाङ्क्षिणः ।
सुरदानवदैत्यानां शब्दः समभवन्महान् ॥ २७॥
नानायुधविहस्तानां त्वरितानां प्रधावताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिःस्वनैः ॥ २८॥
रथनेमिस्वनैर्घोरैस्तुमुलः सर्वतोऽभवत् ।
शङ्खदुन्दुभिनिर्घोषैर्हयहेषितनिःस्वनैः ॥ २९॥
हयानां हेषमाणानां दानवानां च गर्जताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैः पाणिपादरवैस्तथा ॥ ३.५४.३०॥
दानवानां परेषां च शस्त्रवन्ति महान्ति च ।
समरे भीमकर्माणि सैन्यानि प्रचकाशिरे ॥ ३१॥
ततो नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यराजन्त मेघा इव सविद्युतः ॥ ३२॥
ऋष्टिखड्गगदास्तीक्ष्णाः शूलशक्तिपरश्वधाः ।
चारु विभ्राजिरे तत्र तेष्वनीकेषु भागशः ॥ ३३॥
रथा बहुविधाकाराः शतशोऽथ सहस्रशः ।
हेमप्रच्छन्नशिखरा ज्वलन्त इव पावकाः ॥ ३४॥
दानवानां सुराणां च समालोक्यन्त सैनिकाः ।
काञ्चनैः कवचैः सर्वे ज्वलितार्कसमप्रभैः ॥ ३५॥
सन्नद्धाः समदृश्यन्त ज्योतींषि गगने यथा ।
उद्यतैरायुधैश्चित्रैस्तलबद्धाः कलापिनः ॥ ३६॥
ऋषभाक्षाः सुरगणाश्चमूमुखगता बभुः ।
नानावर्णाः पताकाश्च ध्वजमालाश्च संयुगे ॥ ३७॥
युद्ध्यतां रणशौण्डानामीरयामास मारुतः ।
ध्वजालङ्कारवस्त्राणि कवचानि च रश्मिभिः ॥ ३८॥
भासयामास सर्वाणि रश्मिवर्णानि रश्मिवान् ।
सर्वेषामप्रमेयाणां बलानां पादचारिणाम् ॥ ३९॥
रजः प्रच्छादयामास पत्रोर्णं पाण्डुरं दिशः ।
दिव्यायुधधराः सर्वे दीप्तायुधपरिच्छदाः ॥ ३.५४.४०॥
प्रतितस्तम्भिरेऽन्योन्यमनीकं प्रत्यनीकतः ।
गिरिकूटोच्छ्रयाः सर्वे तदा ते देवदानवाः ॥ ४१॥
अन्योन्यमभिनिघ्नन्तो रणस्थाश्चित्रयोधिनः ।
बाणैः सुरुचिरैस्तीक्ष्णैः पत्रवाजैर्दुरासदैः ॥ ४२॥
मुद्गरैर्मुसलैः शूलैरयस्तुण्डैरुलूखलैः ।
वज्रैरशनिकल्पैश्च खड्गवृक्षादिभिस्तथा ॥ ४३॥
तथा प्रवर्तिते तेषां विमर्देऽद्भुतविक्रमे ।
सावित्रस्य वधं प्रेप्सुर्बाणो जग्राह कार्मुकम् ॥ ४४॥
शरजालेन दिव्येन च्छादयानः सुरोत्तमम् ।
मन्त्रैर्हुत इवार्चिष्मान् सम्प्रजज्वाल तेजसा ॥ ४५॥
सागराभां महासेनां देवानां दैत्यपुङ्गवः ।
संशोषयति बाणौघैरर्कोंऽशुभिरिवार्णवम् ॥ ४६॥
मारुतः सुमहावेगः सावित्रः शक्तिमुत्तमाम् ।
चिक्षेप बलिपुत्राय शक्रोऽशनिमिवाद्रये ॥ ४७॥
आपतन्ती च सा शक्तिर्महोल्का ज्वलिता इव ।
द्विधा छिन्ना क्षुरप्रेण बाणेनाद्भुतकर्मणा ॥ ४८॥
हतायामथ शक्त्यां तु सावित्रो देवसत्तमः ।
विश्वकर्मकृतं दिव्यं सुतीक्ष्ण दानवार्दनम् ॥ ४९॥
सुपीनधारं विमलं विपुलं चन्द्रवर्चसम् ।
अगृह्णन्निशितं खड्गमाशीविषमिवोरगम् ॥ ३.५४.५०॥
तं गृहीत्वा रणमुखे प्रज्वलन्तं महाप्रभम् ।
बाणाभ्याशे महातेजाः खड्गपाणिरवस्थितः ॥ ५१॥
स तं स्थितमथालक्ष्य सावित्रं बलिनन्दनः ।
लोहिताक्षं महाकायं चिक्षेप च ननाद च ॥ ५२॥
ततोऽर्ककिरणाकारानशनिप्रतिमाञ्छितान् ।
सन्दधे चाशु बाणौघानाशीविषशिलीमुखान् ॥ ५३॥
रुक्मपुङ्खान् प्रदीप्ताग्रानुग्रवेगानलङ्कृतान् ।
आकर्णपूरांश्चिक्षेप शरानुग्रान् समन्ततः ॥ ५४॥
दृढचापप्रयुक्तास्ते शरा वैश्वानरप्रभाः ।
सावित्रं छादयामासुः कैलासमिव तोयदाः ॥ ५५॥
सञ्छाद्यमानः शस्त्रौघैर्बाणेन बलिसूनुना ।
पराङ्मुखः सुरवरः प्रयातः सरथध्वजः ॥ ५६॥
पराजित्य स सावित्रं बाणः परमहर्षितः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ॥ ५७॥
बलश्चाप्यसुरश्रेष्ठः प्रगृह्य महतीं गदाम् ।
ध्रुवाय वसवे मूर्ध्नि रौद्रां चिक्षेप दानवः ॥ ५८॥
तस्य निर्मथितं त्वंसे हेमचित्रं च वर्म वै ।
गदावेगेन भीमेन ध्रुवस्य समरे तदा ॥ ५९॥
शेषाश्च वसवः सर्वे दिव्यास्त्रैर्घोरदर्शनैः ।
प्राच्छादयन् रणे दैत्यमादित्यमिव तोयदाः ॥ ३.५४.६०॥
ततः सम्मर्दितो बाणैर्बलो दानवसत्तमः ।
अवातरद् रथात्तस्माद् गदामुद्यम्य वेगवान् ॥ ६१॥
पातयामास शत्रूणां समाविध्य महासुरः ।
दिशः प्राद्रावयत्सर्वांस्त्रिदशान्सा महागदा ॥ ६२॥
इन्द्राशनिरिवेन्द्रेण प्रवृद्धा सुमहास्वना ।
तस्याः सविद्युद्धोषायास्तेन शब्देन वेपिताः ॥ ६३॥
व्यद्रवन्त परिभ्रष्टा रथेभ्यो रथिनस्तदा ।
तदुदीर्णे रथानीकं सूर्याभं मेघनिःस्वनम् ॥ ६४॥
देवानां शरधाराभिः समन्तादभ्यवर्षत ।
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैः शिलीमुखैः ॥ ६५॥
मुहुर्मुहुर्महातेजाः प्रत्यविध्यन्महासुरः ।
बलाकस्तु गदापाणिर्व्यादितास्य इवान्तकः ॥ ६६॥
तडिद्गणार्कसदृशो वैश्वानर इवापरः ।
पिबन्निव शरौघांस्तान् देवचापसमुच्छ्रितान् ॥ ६७॥
अभ्यद्रवत दैत्येन्द्रो महार्णव इवापरः ।
अवस्फूर्जन् दिशः सर्वाः स्वेन वीर्येण दानवः ॥ ६८॥
अरुणत्त्रिदशान् दैत्यः सिन्धुवेगान् नगा इव ।
समुद्रस्तरसा देवान् वायुर्वृक्षानिवौजसा ॥ ६९॥
दमयंश्च महेष्वासान् वसुभ्यां समसज्जत ।
आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ ॥ ३.५४.७०॥
शरवर्षाणि दीप्तानि मेघाविव परन्तपौ ।
क्षिप्तांस्तान् विशिखान् दीप्तानन्तरिक्षे स चिच्छिदे।७१॥
अमृष्यमाणस्तत्कर्म ध्रुवस्तमभिदुद्रुवे ।
तौ पृथक्छरवर्षाभ्यामन्योन्यमभिजघ्नतुः ॥ ७२॥
उत्तमाभिजनौ शूरौ देवदैत्यौ यशस्करौ ।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ॥ ७३॥
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ।
निर्भिन्दन्तौ च गात्राणि विलिखन्तौ च सायकैः ॥ ७४॥
स्तम्भयन्तौ च बलिनौ प्रतुदन्तौ स्थितौ रणे ।
चरन्तौ विविधान् मार्गान्मण्डलानि च भागशः ॥ ७५॥
मुद्गरैर्जघ्नतुः क्रुद्धावन्योन्यमभिमानिनौ ।
असिभ्यां चर्मणी दिव्ये विपुले च शरासने ॥ ७६॥
निकृत्याचलसङ्काशौ बाहुयुद्धं प्रचक्रतुः ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ॥ ७७॥
बाहुभिः समसज्जेतामायसैः परिघैरिव ।
तयोरासीद् भुजाघातैर्निग्रहः प्रग्रहस्तथा ॥ ७८॥
अतीव भीमः संह्रादो वज्रपर्वतयोरिव ।
द्विपाविव विषाणाग्रैः शृङ्गैरिव महावृषौ ॥ ७९॥
अन्योन्यमभिसंरब्धौ मुहूर्तं पर्यकर्षताम् ॥ ३.५४.८०॥
ततः पराजितो देवो बलाकेन तथा ध्रुवः ।
रथं त्यक्त्वा भयात्तस्य प्रणष्टः प्राङ्मुखो वसुः ॥ ८१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४॥
३.५५ पञ्चपञ्चाशत्तमोऽध्यायः
धरादिदेवैः सह नमुचिप्रभृतीनां घोरतरयुद्धम् Terrible war between deva-s dhara etc. and asura-s namuchi etc.
नमुचिना धरसंज्ञकस्य वसोः, मयासुरेण त्वष्टुः, वायुदेवेन पुलोम्नोः, हयग्रीवेण पूष्णः देवस्य, शम्बरासुरेण भगस्य, चन्द्रदेवेन सम्पूर्णायाः असुरसैन्यस्य पराजयं
वैशम्पायन उवाच ।
पुनरेव तु तत्रासीन्महायुद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश्चैव धरस्य च महात्मनः ॥ १॥
संरब्धौ च महाबाहू महेष्वासावरिन्दमौ ।
परस्परमुदैक्षेतां दहन्ताविव लोचनैः ॥ २॥
विस्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरम्भात्स वसुश्रेष्ठस्त्यक्त्वा प्राणानयुध्यत ॥ ३॥
स सायकमयैर्जालैर्धरो दैत्यरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम् ॥ ४॥
ततः प्रहस्य नमुचिर्धरस्य च शिलाशितान् ।
असृजत्सायकान्दीप्तान्भीमवेगान्दुरासदान् ॥ ५॥
महातेजा महाबाहुर्महावेगो महारथः ।
विव्याधातिबलो दैत्यो नवभिर्निशितैः शरैः ॥ ६॥
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभिः ।
अभ्यधावच्च सङ्क्रुद्धो नमुचिं वसुसत्तमः ॥ ७॥
तमापतन्तं वेगेन सरम्भान्नमुची रणे ।
दैत्यः प्रत्यसरद् देवं मत्तो मत्तमिव द्विपम् ॥ ८॥
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादिनम् ।
विक्षोभ्य तद्बलं हर्षादुद्भूतार्णवसप्रभम् ॥ ९॥
अश्वानृक्षस्ववर्णाभान् हंसवर्णैः सुवाजिभिः ।
मिश्रयन् समरे दैत्यो वसुं प्राच्छादयच्छरैः ॥ ३.५५.१०॥
समाश्लिष्टावथान्योन्यं वसुदानवयो रथौ ।
दृष्ट्वा प्राकम्पत मुहुस्त्रिदशानां महद्बलम् ॥ ११॥
क्रोधसंरम्भताम्राक्षौ प्रेक्षमाणौ मुहुर्मुहुः ।
गर्वन्ताविव शार्दूलौ प्रभिन्नाविव वारणौ ॥ १२॥
यमराष्ट्रोपमं रौद्रमासीदायोधनं तयोः ।
रथाश्वनरसम्बाधं मत्तवारणसङ्कुलम् ॥ १३॥
समाजमिव तं दृष्ट्वा प्रेक्षमाणा महारथाः ।
आशंसन्तो जयं ताभ्यां योधा नैकत्रसंश्रयाः ॥ १४॥
तयोः प्रैक्षन्त संरम्भं सन्निकृष्टं महास्त्रयोः ।
सिद्धगन्धर्वमुनयो देवदानवयोस्तदा ॥ १५॥
तौ च्छादयन्तावन्योन्यं समरे निशितैः शरैः ।
शरजालावृतं व्योम चक्रतुश्च महाबलौ ॥ १६॥
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।
प्रेक्षणीयतमावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ १७॥
सुवर्णविकृतान् बाणान् प्रमुञ्चन्तावरिन्दमौ ।
भास्कराभं तदाकाशमुल्काभिरिव चक्रतुः ॥ १८॥
तयोः शराः प्रकाशन्ते देवदानवयोस्तदा ।
पङ्क्तयः शरदि मत्तानां सारसानामिवाम्बरे ॥ १९॥
त्रिदशाश्वगजानां हि शरीरैर्गतजीवितैः ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्तलम् ॥ ३.५५.२०॥
ततः सुधारं ज्वलितं सूर्यमण्डलसन्निभम् ।
धराय वसवे मुक्तं चक्रं नमुचिना रणे ॥ २१॥
पतता तेन चक्रेण धरस्य स्यन्दनोत्तमः ।
सध्वजः सायुधः साश्वो दग्धोऽर्ककिरणप्रभः ॥ २२॥
स त्यक्त्वा स्यन्दनं देवः प्रदीप्तं चक्रतेजसा ।
भयात् तस्यासुरेन्द्रस्य गतः स्वगृहमुत्तमम् ॥ २३॥
पराजित्य सुरं दैत्यो नमुचिर्बलगर्वितः ।
प्रयातः स्वेन सैन्येन भूयः सुरचमूं प्रति ॥ २४॥
यौ तौ मयश्च त्वष्टा च देवदैत्येषु विश्रुतौ ।
प्रवरौ विश्वकर्माणौ मायाशतविशारदौ ॥ २५॥
घोरस्तयोः सम्प्रहारः प्रावर्तत सुदारुणः ।
अन्योन्यस्पर्द्धिनोस्तत्र चिरात्प्रभृति संयुगे ॥ २६॥
त्वष्टा तु निशितैर्बाणैर्दैत्यं तु बलदर्पितम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिशतैः शरैः ॥ २७॥
मयस्तु प्रतिविव्याध त्वष्टारं निशितैः शरैः ।
सुधातैः सुप्रसन्नाग्रैः शातकुम्भविभूषितैः ।
ननाद दितिजश्रेष्ठो हतस्त्वष्ट्रः शरैर्मयः ॥ २८॥
सङ्क्रुद्धो दैत्यसैन्यस्य विचिन्वन्निव जीवितम् ।
शक्तिं कनकवैदूर्यचित्रदण्डां महाप्रभाम् ॥ २९॥
देवो गृहीत्वा समरे दैत्येन्द्रं समपातयत् ।
भईह्मां सर्वायसीं पुरन्दर इवाशनिम् ॥ ३.५५.३०॥
तां त्वष्टुर्भुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।
मयश्चिच्छेद तीक्ष्णाग्रैच्चूर्णं सप्तभिराशुगैः ॥ ३१॥
ततः क्षुण्वन्निव प्राणांस्त्वष्टुः कोपान्महासुरः ।
प्रेषयामास संरम्भः शरान् बर्हिणवाससः ॥ ३२॥
चिच्छेद बाणांस्त्वष्टा ताञ्ज्वलितैर्नतपर्वभिः ।
दैत्यस्य सुमहावेगैः सुवर्णविकृतैः शरैः ॥ ३३॥
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यं प्रसक्तावभिजघ्नतुः ॥ ३४॥
अन्योन्यं प्रतियुध्यन्तावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यमभिवीक्षन्तौ क्रुद्धावाशीविषाविव ॥ ३५॥
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ३६॥
ततः सुविपुलां दीप्तां मयो रुक्माङ्गदो गदाम् ।
त्वष्टरि प्राहिणोत् क्रुद्धः सर्वप्राणहरां रणे ॥ ३७॥
तया जघानातिरथस्त्वष्टुरुत्तमवाजिनः ।
गदया दानवः क्रुद्धो वज्रेणेन्द्र इवाचलान् ॥ ३८॥
ततः क्रुद्धो महादैत्यः क्षुराभ्यामथ संयुगे ।
पुनर्द्वाभ्यां शराभ्यां तु निशिताभ्यां महारणे ॥ ३९॥
ध्वजं त्वष्टुरथ च्छित्वा सूतं निन्ये यमक्षयम् ।
महाबलान् महावेगान्सदश्वान् गदया हनत् ॥ ३.५५.४०॥
दृष्ट्वा त्वष्टा हतं सूतमश्वांश्च विनिपातितान् ।
हताश्वं रथमुत्सृज्य सूतं च पतितं भुवि ॥ ४१॥
विस्फारयन् महाचापं स्थितो भूमाविवाचलः ।
हताश्वसूतं विरथं दृष्ट्वा रिपुमवस्थितम् ॥ ४२॥
जयश्रिया सेव्यमानो दीप्यमान इवानलः ।
मयः कालान्तकप्रख्यश्चापपाणिरदृश्यत ॥ ४३॥
प्रादहद् देवसैन्यानि दावाग्निरिव काननम् ॥
त्वष्टुः सोऽक्षिपतात्युग्रान्नाराचांस्तिग्मतेजसः ॥ ४४॥
चतुर्दशशिलाधौतान् सायकान्विविधाकृतीन् ।
ते पपुस्तस्य सैन्यस्य शोणितं रुक्मभूषणाः ॥ ४५॥
आशीविषा इव क्रुद्धा भुजङ्गाः कालचोदिताः ।
ते क्षितिं समवर्तन्त शोभन्ते रुधिरोक्षिताः ॥ ४६॥
अर्द्धप्रविष्टाः संरब्धा विलानीव महोरगाः ।
तं प्रत्यविध्यत् त्वष्टा तु जाम्बूनदविभूषितैः ॥ ४७॥
चतुर्दशभिरत्युग्रैर्नाराचैरभिदारयन ।
ते तस्य दैत्यस्य भुजं सव्यं निर्भिद्य पत्रिणः ॥ ४८॥
विदार्य विविशुर्भूमिं पन्नगा इव वेगतः ।
ते प्रकाशन्त नाराचाः प्रविशन्तो वसुन्धराम् ॥ ४९॥
अस्तं गच्छतमादित्यं प्रविशन्त इवांशवः ।
मयस्त्रिभिरथानर्च्छत् त्वष्टारं तु पतत्रिभिः ॥ ३.५५.५०॥
सुपर्णवेगैर्विकृतैर्ज्वलद्भिः प्राणनाशनैः ।
त्वष्टाथ मयनिर्मुक्तैः सायकैरर्दितः प्रभुः ॥ ५१॥
अपयातो रणं हित्वा व्रीडयाभिसमन्वितः ।
तं तत्र हतसूतं च भुजङ्गमिव निर्विषम् ॥ ५२॥
त्वष्टारं विरथं कृत्वा मुदितः स तु दानवः ।
विस्फार्यमाणो रुचिरं चापं रुक्माङ्गदं दृढम् ॥ ५३॥
रणे व्यतिष्ठद् दैत्येन्द्रो ज्वलन्निव हुताशनः ।
पुलोमा तु बलश्लाघी दृप्तो दानवसत्तमः ॥ ५४॥
रथे श्वेतहयेनेह सार्धं युद्ध्यति वायुना ।
सर्वेषामेव भूतानां यः प्राणः कथ्यते द्विजैः ॥ ५५॥
बलिना कालकल्पेन वायुना सह सङ्गतः ।
पुलोम्नस्तत्र पवनः श्रुत्वा ज्यातलनिःस्वनम् ॥ ५६॥
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ।
दैत्यचापच्युतैर्बाणैः प्राच्छाद्यन्त दिशो दश ॥ ५७॥
रश्मिजालैरिवार्कस्य विततं साम्बरं जगत् ।
स ताम्रनयनः क्रुद्धः श्वसन्निव महोरगः ॥ ५८॥
वृतो दैत्यशतैर्वायू रश्मिवानिव भास्करः ।
दैत्यचापभुजोत्सृष्टाः शरा बर्हिणवाससः ॥ ५९॥
रुक्मपुङ्खाः प्रकाशन्ते हंसाः श्रेणीकृता इव ।
चापध्वजपताकाभ्यः शस्त्रा दीप्तमुखाश्च्युताः ॥ ३.५५.६०॥
प्रपतन्तः स्म दृश्यन्ते दैत्यस्यापततः शराः ।
एवं सुतीक्ष्णान् खचराञ्छलभानिव पावके ॥ ६१॥
सुवर्णविकृतांश्चित्रान् मुमोच दितिजः शरान् ।
तमन्तकमिव क्रुद्धमापतन्तं स मारुतः ॥ ६२॥
त्यक्त्वा प्राणानतिक्रम्य विव्याध नवभिः शरैः ।
तस्य वेगमसंहार्यं दृष्ट्वा वायुः सनातनः ॥ ६३॥
उत्तमं जवमास्थाय व्यधमत् सायकव्रजान् ।
तेजो विधम्य बलवाञ्छरजालानि मारुतः ॥ ६४॥
विव्याध दैत्यं विंशत्या विशिखैर्नतपर्वभिः ।
मरुद्गणानां प्रवरा दश दिव्या महौजसः ॥ ६५॥
साधु साध्विति वेगेन सिंहनादं प्रचक्रिरे ।
तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे ॥ ६६॥
अभ्यधावन्त दितिजाः पौलोमाः क्रोधमूर्च्छिताः ।
ते समासाद्य पवनं समावृण्वञ्छरोत्तमैः ॥ ६७॥
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ।
ते पीडयन्तः पवनं क्रुद्धाः सप्त महारथाः ॥ ६८॥
प्रजासंहरणे घोराः सोमं सप्त ग्रहा इव ।
ततो दक्षिणमक्षोभ्यं नानारत्नविभूषितम् ॥ ६९॥
करं गजकराकारमुद्यम्य युधि मारुतः ।
तेषां मूर्धसु दैत्यानां पातयामास वीर्यवान् ॥ ३.५५.७०॥
निहता वायुवेगेन तेन सप्त महारथाः ।
त्यक्त्वा प्राणान्पुलोमा तु विव्याध नवभिः शरैः ॥ ७१॥
प्रदर्पितमसंहार्यं दृष्ट्वा वायुं सनातनम् ।
असञ्चिन्त्य शरौघांस्ताञ्ज्वलितांश्च पुलोमतः ॥ ७२॥
तेषां विदार्य तेजांसि दानवानां महात्मनाम् ।
शोणितक्लिन्नमुकुटा गैरिकाक्ता इवाद्रयः ॥ ७३॥
ते भिन्नवर्मास्थिभुजाः पतन्तो भान्ति दानवाः ।
मातङ्गयूथसम्भग्नाः पुष्पिता इव पादपाः ॥ ७४॥
तेषां विदारितैर्देहैर्दानवानां महात्मनाम् ।
ततः प्रावर्तत नदी रौद्ररूपा भयावहा ॥ ७५॥
प्रस्रवन्ती रणे रक्तं भीरूणां भयवर्धिनी ।
देवदैत्यगजाश्वानां रुधिरौघपरिप्लुता ।
रणभूमिरभूद् रौद्रा तत्र तत्र सहस्रशः ॥ ७६॥
सम्भृता गतसत्त्वैश्च यक्षराक्षसखेचरैः ।
सानुगैः सपताकैश्च सोपासङ्गरथध्वजैः ॥ ७७॥
शीर्षकुम्भैस्तथा नागैर्घण्टाभिस्तु विभूषितैः ।
सुवर्णपुङ्खैर्ज्वलितैर्नाराचैस्तिग्मतैजसैः ॥ ७८॥
देवदानवनिर्मुक्तैः सविषैरुरगैरिव ।
प्रासतोमरनाराचैः शक्तिखङ्गपरश्वधैः ७९॥
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।
कनकाङ्गदकेयूरैर्मणिभिश्च सकुण्डलैः ॥ ३.५५.८०॥
तनुत्रैः सतलत्रैश्व हारैर्निष्कैश्च शोभनैः ।
हतैश्च दितिजैस्तत्र शस्त्रस्यन्दनवर्जितैः ॥ ८१॥
पतितैरपि विद्धैश्च शतशोऽथ सहस्रशः ।
निपातितध्वजरथो हतवाजिरथद्विपः ॥ ८२॥
विमर्दो देवदैत्यानां सदृशः कर्मणा बभौ ।
अथ दैत्यसहस्रेण पौलोमेन महारथः ॥ ८३॥
संवृतः पवनः श्रीमान् गदामुसलपाणिना ॥ ८४॥
ते जघ्नुः शतसाहस्राः पवनं दानवोत्तमाः ।
तैर्वध्यमानः स बभौ समन्तादर्पितैः शरैः ॥ ८५॥
हत्वाष्टौ तत्र योधानां शतानि पवनः प्रभुः ।
कृत्वा मार्गं सुरश्रेष्ठो ननाद सुमहारथः ॥ ८६॥
अद्यापि च सुविस्तीर्णः पन्थाः सन्दृश्यते दिवि ।
नाम्ना वायुरथो नाम सिद्धाः पश्यन्ति तं दिवि ॥ ८७॥
वैशम्पायन उवाच ।
हयग्रीवस्तु दितिजः पूषणं प्रति वीर्यवान् ।
ननाद सुमहानादं सिंहनादं महारथः ॥ ८८॥
विस्फार्य सुमहच्चापं हेमजालविभूषितम् ।
पूषणं दितिजोऽपश्यत् क्रुद्धो घोरेण चक्षुषा ॥ ८९॥
भुजाभ्यामाददानस्य सन्दधानस्य वै शरान् ।
मुञ्चतः कर्षतो वापि ददृशुस्तत्र नान्तरम् ॥ ३.५५.९०॥
अग्निचक्रोपमं दीप्तं मण्डलीकृतकार्मुकम् ।
तदासीद् दानवेन्द्रस्य सव्यदक्षिणमस्यतः ॥ ९१॥
रुक्मपुङ्खैस्ततस्तस्य चापमुक्तैः शितैः शरैः ।
प्राच्छाद्यन्त शिलाधौतैर्दिशः सूर्यस्य च प्रभाः ॥ ९२॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
नभश्चराणां नभसि दृश्यन्ते बहवो व्रजाः ९३॥
गिरिकूटनिभाच्चापात् प्रभवन्तः शरोत्तमः ।
श्रेणीभूताः प्रकाशन्ते यान्तः श्येना इवाम्बरे ॥ ९४॥
गृध्रपत्राञ्छिलाधौतान् कार्तस्वरविभूषितान् ।
महावेगान्प्रशस्ताग्रान् मुमोच दितिजः शरान् ॥ ९५॥
ततश्चापबलोद्भूताः शातकुम्भविभूषिताः ।
देहे समवकीर्यन्त पूष्णः सन्निहिताः शराः ॥ ९६॥
ते व्योम्नि रुक्मविकृताः सम्प्रकाशन्त सर्वशः ।
खद्योता इव घर्मान्ते खे चरन्तः समन्ततः ॥ ९७॥
शिलाधौताः प्रसन्नाग्राः पूषणं सिषिचुः शराः ।
पर्वतं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥ ९८॥
ततः प्रच्छादयामास पूषणं शरवृष्टिभिः ।
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥ ९९॥
ततः सपूष्णोऽदेवस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च सत्त्वं च पश्यन्ति त्रिदशाद्भुतम् ॥ ३.५५.१००॥
तां समुद्रादिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
नाचिन्तयत्तदा पूषा दैत्यं चाभ्यद्रवद् रणे ॥ १०१॥
हेमपृष्ठं महानादं पूष्ण आसीन्महाधनुः ।
विकृतं मण्डलीभूतं शक्राशनिरिवापरा ॥ १०२॥
ततः शराः प्रादुरासन् पूरयन्त इवाम्बरम् ॥ १०३॥
सुवर्णपुङ्खाः पूष्णस्ते प्रभवन्तः शरासनात् ।
मालेव रुक्मपुङ्खानां वितता व्योम्नि पत्रिणाम् ॥ १०४॥
प्रादुरासीन्महाघोरा बृहती पूषकार्मुकात् ।
ततो व्योम्नि विभक्तानि शरजालानि सर्वशः ॥ १०५॥
आहतानि व्यशीर्यन्त शरैः सन्नतपर्वभिः ।
ततः कनकपुङ्खानां छिन्नानां कङ्कवाससाम् ॥ १०६॥
पततां पात्यमानानां खमासीच्चावृतं रणे ।
पूषा प्रापूरयद् बाणैर्हयग्रीवं शिलाशितैः ॥ १०७॥
नामङ्कैरर्कसदृशैर्दिव्यहेमपरिष्कृतैः ।
ततो व्यसृजदुग्राणि शरजालानि दानवः ॥ १०८॥
अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः ।
पूष्णस्त्वाजौ ध्वजं चैव पताकां धनुरेव च ॥ १०९॥
रश्मीन् योक्त्राणि चाश्वानां हयग्रीवो रणेऽच्छिनत् ।
अथाप्यश्वान् पुनर्हत्वा चतुर्भिः सायकोत्तमैः ॥ ३.५५.११०॥
सारथिं सुमहातेजा रथोपस्थादपातयत् ।
कृतस्तु विरथः पूषा हयग्रीवेण संयुगे ॥ १११॥
पूषा तस्य रथाभ्याशात् स ययौ तेन वै जितः ।
गतः शक्ररथाभ्याशं मुक्तो मृत्युमुखादिव ॥ ११२॥
तत्राद्भुतमिदं भूयो युद्धं वर्तत दारुणम् ।
कृतप्रतिकृतं घोरं शम्बरस्य भगस्य च ॥ ११३॥
सप्तकिष्कुपरीणाहं द्वादशारत्निकार्मुकम् ।
चापं चाशनिनिर्घोषं दृढज्यं भारसाधनम् ॥ ११४॥
विक्षिपन्नक्षसदृशान्व्यसृजत्सायकान् बहून् ।
क्रोधसंरक्तनयनः शम्बरः सर्वयोगवित् ॥ ११५॥
तेन वित्रास्यमानानि देवसैन्यानि सर्वशः ।
समकम्पन्त भीतानि सिन्धोरिव महोर्मयः ॥ ११६॥
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् ।
भगः प्रस्फुरमाणौष्ठस्त्वरमाणो व्यदारयत् ॥ ११७॥
ततो भगो महेष्वासो दिव्यं विस्कारयन्धनुः ।
अवाकिरद् दैत्यगणाञ्छरजालेन छादयन् ॥ ११८॥
तमभ्यगाद् भगो दैत्यं तूर्णमस्यन्तमन्तिकात् ।
मातङ्गमिव मातङ्गो वृषं प्रति वृषो यथा ॥ ११९॥
तौ प्रगृह्य महावेगौ धनुषी भारसाधने ।
प्राच्छादयेतामन्योन्यं तक्षमाणौ रणे शरैः ॥ ३.५५.१२०॥।
तयोः सुतुमुलं युद्धमासीद् घोरं महारणे ।
भगशम्बरयोभीम्ममप्रमेयं महात्मनोः ॥ १२१॥।
अथ पूर्णायतोत्सृष्टैः शरैः सन्नतपर्वभिः ।
व्यदारयेतामन्योन्यं कार्ष्णे निर्भिद्य चर्मणी ॥ १२२॥
तौ तु विकृतसर्वाङ्गौ रुधिरेण समुक्षितौ ।
सम्प्रेक्ष्यमाणौ रथिनावुभौ परमदुर्मदौ ।
तक्षमाणौ शितैर्बाणैर्न वीक्षितुमशक्नुताम् ॥ १२३॥
अथ विव्याध समरे त्वरमाणोऽसुरो भगम् ।
नाराचैः क्रोधताम्राक्षः कालान्तकयमोपमः ॥ १२४॥
गरुत्मानिव चाकाशे पोथयानो महोरगम् ।
नाराचा न्यपतन् देहे तूर्णं शम्बरचोदिताः ॥ १२५॥
तानन्तरिक्षे नाराचान् भगश्चिच्छेद पत्रिभिः ।
ज्वलन्तमचलप्रख्यं वैश्वानरसमप्रभम् ॥ १२६॥
ततो भगं चतुःषष्ट्या विव्याधासुरसत्तमः ।
शिलीमुखैर्महावेगैर्जाम्बूनदविभूषितैः ॥ १२७॥
तदा तत्सुचिरं कालं युद्धं सममिवाभवत् ।
शम्बरस्य च मायाभिर्नादृश्यत ततोऽम्बरम् ॥ १२८॥
दोर्भ्यां विक्षिपतश्चापं रणे विष्टभ्य तिष्ठतः ।
श्रूयते धनुषः शब्दो विस्फूर्जितमिवाशनेः ॥ १२९॥
स भगस्य हयान् हत्वा सारथिं च महाहवे ।
अभ्यवर्षच्छरैरेनं पर्जन्य इव वृष्टिमान् ॥ ३.५५.१३०॥
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।
भगदेवस्य दैत्येन शम्बरेणास्त्रघातिना ॥ १३१॥
देवस्य चाद्भुतं दिव्यमस्त्रमस्त्रेण वारयन् ।
मायायुद्धेन मायावी शम्बरस्तमयोधयत् ॥ १३२॥
अवञ्चयद् भगं दैत्यो मायाभिर्लाघवेन च ।
भगस्तस्य रथं साश्वं शरवर्षैरवाकिरत् ॥ १३३॥
सहस्रमायो द्युतिमान् देवसेनां निषूदयन् ।
अदृश्यत शरैश्छन्नः शम्बरः शतशो रणे ॥ १३४॥
अदृश्यत् पतितो भूमौ गतचेता इवासुरः ।
अथ स्म युध्यते भूयः शतधा शैलसन्निभः ॥ १३५॥
दिशां गजेन्द्रमारूढो दृश्यते स पुनर्बली ।
प्रादेशमात्रश्च पुनः पुनर्भवति शैलवत् ॥ १३६॥
महामेघ इव श्रीमांस्तिर्यगूर्ध्वं च सोऽभवत् ।
पुनः कृत्वा विरूपाणि विकृतानि च सर्वशः ॥ १३७॥
सर्वां भीषयते सेनां देवानां भीमदर्शनः ।
ते भीताः प्रपलायन्ते सिंहं दृष्ट्वा मृगा यथा ॥ १३८॥
ततः सोऽन्यं वरं देहं कृत्वा प्रांशुतरं पुनः ।
गच्छत्यूर्ध्वगतिं घोरो दिशः शब्देन पूरयन् ॥ १३९॥
नभस्तलगतश्चापि वर्षते वासवो यथा ।
संवर्तकाम्बुदप्रख्यः पूरयन् पृथिवीतलम् ॥ ३.५५.१४०॥
संवर्तकोऽनलश्चैव भूत्वा भीमपराक्रमः ।
शतवर्त्मा शतशिखो ददाह च पुनः सुरान् ॥ १४१॥
मुहूर्ताच्च महाशैलः शतशीर्षा शतोदरः ।
अदृश्यत दिवः स्तम्भः शतशृङ्ग इवाचलः १४२॥
येऽन्ये देवाश्च साध्याश्च ये च विश्वे च देवताः ।
क्षिपन्त्यस्त्राणि दिव्यानि तानि सोऽग्रसतासुरः ॥ १४३॥
युद्ध्यमानश्च समरे सरथः सोऽसुरोत्तमः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ॥ १४४॥
ते भीताः समुदीक्षन्त त्रिदशा भीमविक्रमाः ।
सहस्रमायं समरे शम्बरं चित्रयोधिनम् ॥ १४५॥
स भगो भयसन्त्रस्तो दानवेन्द्रस्य संयुगे ।
रथं त्यक्त्वा महाभागो महेन्द्रं शरणं गतः ॥ १४६॥
पराजित्य तु तं देवं दानवेन्द्रः प्रतापवान् ।
गतो यत्र महातेजा जातवेदा महाप्रभः ॥ १४७॥
स वह्निं वाग्भिरुग्राभिः क्रुद्धस्तर्जयते बली ।
भवाम्येष हि ते मृत्युरित्युक्त्वान्तरधीयत ॥ १४८॥
वैशम्पायन उवाच ।
एतस्मिन्नन्तरे चैव ब्राह्मणेन्द्रो महाबलः ।
जघान सोमः शीतास्त्रो दानवानां चमूं रणे ॥ १४९॥
कैलासशिखराकारो द्युतिमद्भिर्गणैर्वृतः ।
अवधीद् दानवान् दृष्ट्वा दण्डपाणिरिवान्तकः ॥ ३.५५.१५०॥
पोथयद् रथवृन्दानि वाजिवृन्दानि वै प्रभुः ।
दैत्येषु विचरञ्छ्रीमान्युगान्ते कालवद्बली ॥ १५१॥
सोऽमर्षाद् रथजालानि उरुवेगेन चन्द्रमाः ।
ददाह दानवान् सर्वान्दावाग्निरिव चोदितः ॥ १५२॥
मृद्नन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः ॥ १५३॥
शीतेन व्यधमत्सर्वान् वायुर्वृक्षानिवौजसा ।
चन्द्रमाः सुमहातेजा दानवानां महाचमूम् ॥ १५४॥
तदस्त्रमभवत् तस्य प्रदिग्धं शत्रुशोणितैः ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ १५५॥
युगान्तकोपमः श्रीमान् दैत्येषु व्यचरद्बली ।
आवार्य महतीं सेनां प्राद्रवन्तीं पुनः पुनः ॥ १५६॥
चन्द्रं मृत्युमिवायान्तं दृष्ट्वा योधा विसिस्मियुः ।
यतो यतः प्रक्षिपति शिशिरास्त्रं तमोनुदः ॥ १५७॥
ततस्ततो व्यशीर्यन्त दैत्यसैन्यानि संयुगे ।
व्यदारयत् च सैन्यानि स्वबलेनाभिसंवृतः ॥ १५८॥
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ।
तं तथा भीमकर्माणं गृहीतास्त्रं महाहवे ॥ १५९॥
दृष्ट्वा शशाङ्कमायान्तं दैत्याभं चन्द्रभास्करौ ।
तालमात्राणि चापानि कर्षमाणौ महाबलौ ॥ ३.५५.१६०॥
छादयेतां शरैश्चन्द्रं वृष्टिमन्ताविवाम्बुदौ ।
अथ विस्फार्यमाणानां कार्मुकाणां सुरासुरैः ॥ १६१॥
अभवत् सुमहाशब्दो दिशः सन्नादयन्निव ।
विनदद्भिर्महानागैर्ह्रेषमाणैश्च वाजिभिः ॥ १६२॥
भेरीशङ्खनिनादैश्च तुमुलं सर्वतोऽभवत् ।
युयुत्सवस्ते संरब्धा जयगृद्धा यशस्विनः ॥ १६३॥
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महावृषाः ।
शिरसां पात्यमानानां समरे निशितैः शरैः ॥ १६४॥
अश्मवृष्टिरिवाकाशे ह्यभवत् सेनयोस्तथा ।
कुण्डलोष्णीषधारीणि जातरूपस्रजांसि च ॥ १६५॥
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ।
विशिखैर्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ॥ १६६॥
सहस्ताभरणैश्चान्यैर्विच्छिन्नै रुधिरोक्षितैः ।
कवचैरावृतैर्गात्रैरुरुभिश्चन्दनोक्षितैः ॥ १६७॥
मुखैश्च चन्द्रसङ्काशैस्तप्तकुण्डलभूषणैः ।
गजवाजिमनुष्याणां सर्वगात्रैः समन्ततः ॥ १६८॥
आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ।
चापमेघाश्च विपुलाः शस्त्रविद्युत्प्रकाशिनः ।
वाहनानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥ १६९॥
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत सुराणां च दानवानां च संयुगे ॥ ३.५५.१७०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
३.५६ षट्पञ्चाशत्तमोऽध्यायः
देवासुरयुद्धे कुजम्भोत्कर्षवर्णनम् Description of kujamba's success in the fight between deva-s and asura-s
देवदानवानां घोरसङ्ग्रामं - विरोचनस्य विष्वक्सेनेन सह, कुजम्भस्य अंशदेवेन सह युद्धकाले घोरपराक्रमस्य प्रदर्शनं
वैशम्पायन उवाच ।
तस्मिन् महाहवे रौद्रे तुमुले लोमहर्षणे ।
ववर्षुः शरवर्षाणि संरब्धा देवदानवाः ॥ १॥
व्याक्रोशन्त गजास्तत्र शरघातप्रपीडिताः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ २॥
उत्पत्य निपतन्त्यन्ये शरवर्षप्रपीडिताः ।
देवानां दानवानां च गजाश्वरथिनां रणे ॥ ३॥
समरे तत्र शूराणामन्योन्यमभिधावताम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किञ्चन ॥ ४॥
शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।
निजघ्नुर्महतीं सेनामन्योन्यस्य परन्तप ॥ ५॥
बाहूनामुत्तमाङ्गानां कार्मुकाणां च संयुगे ।
राशयस्तत्र दृश्यन्ते देवदैत्यसमागमे ॥ ६॥
अश्वानां कुञ्जराणां च रथानां च वरूथिनाम् ।
नान्तं समभिगच्छन्ति निहतानां सुरासुरैः ॥ ७॥
गदाभिरसिभिः प्रासैर्भल्लैः सन्नतपर्वभिः ।
योधास्तत्राभ्यहन्यन्त हस्त्यश्वं चामितं बहु ॥ ८॥
प्रावर्तत नदी घोरा शोणितौघा तरङ्गिणी ।
तदा मध्ये तु सैन्यानां केशशैवलशाद्वला ॥ ९॥
हाहाकारो महाशब्दो योधानामभवत् तदा ।
दानवैर्हन्यमानानां त्रिदशानां महारणे ॥ ३.५६.१०॥
वैशम्पायन उवाच ।
तेषां तदभवद् युद्धं देवानामसुरैः सह ।
विभीषणं महारौद्रं विकृतं भीमदर्शनम् ॥ ११॥
विरोचनस्तु तत्रैव विष्वक्सेनं महाहवे ।
जघान रुधिराभाक्षं साध्यं परमधन्विनम् ॥ १२॥
तमायान्तमभिप्रेक्ष्य विष्वक्सेनः सुरैर्वृतः ।
अमेयात्मा सुरश्रेष्ठः प्रत्यविध्यत् स्तनान्तरे ॥ १३॥
साध्यस्य बाणाभिहतस्तोत्रार्पित इव द्विपः ।
विरोचनः प्रजज्वाल क्रोधेनाग्निरिवाध्वरे ॥ १४॥
स कार्मुकविनिर्मुक्तैः शरैर्दानवसत्तमः ।
विष्वक्सेनं बिभेदाजौ दीप्तैः सप्तभिराशुगैः ॥ १५॥
सोऽतिविद्धो बलवता दानवेन सुरोत्तमः ।
मूर्च्छामभिजगामाशु ध्वजं चाप्याश्रयत्प्रभुः ॥ १६॥
ततः स पुनराश्वस्य साध्यो युद्धे मनो दधे ।
विस्फार्य च महाचापं दैत्यमध्ये व्यवस्थितः ॥ १७॥
विरोचनस्तु बलवानभ्ययुध्यत सर्वशः ।
क्षोभयन् सुरसैन्यानि समन्तान्निशितैः शरैः ॥ १८॥
ततस्तस्यासुरेन्द्रस्य युद्ध्यमानस्य संयुगे ।
श्रूयते तुमुलः शब्दो जीमूतस्येव गर्जतः ॥ १९॥
जगर्ज च महाघोषो विनिघ्नन् देववाहिनीम् ।
चण्डवेगाश्मवर्षी च सविद्युत्स्तनयित्नुमान् ॥ ३.५६.२०॥
दिशो विद्रावयामास शरवर्षेण दानवः ।
सर्वसैन्यानि देवानामुद्यतास्त्रो महाहवे ॥ २१॥
ते प्राद्रवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ २२॥
श्रुत्वा कार्मुकनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि निव्यलीयन्त संयुगे ॥ २३॥
विरोचनभयत्रस्ता रथेभ्यो रथिनस्तदा ।
पदातीनां ययुः सङ्घा यत्र देवः शचीपतिः ॥ २४॥
विष्वक्सेनस्य साध्यस्य सर्वतः सुमहाबलः ।
पदा रक्षःसहस्राणि निजघान चतुर्दश ॥ २५॥
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च सङ्घेषु विनिघ्नन् प्रत्यदृश्यत ॥ २६॥
वितत्य श्येनवत् पक्षौ सर्वतः स वरूथिनीम् ।
भित्त्वा छित्त्वा महाबाहुः शिरांस्याजौ ह्यकृन्तत ॥ २७॥
सादिनश्च पदाताश्च हतशेषा रथास्तथा ।
विष्वक्सेनेन सहिता विरोचनमथाद्रवन् ॥ २८॥
तेऽसिचर्मगदाशक्तिपरिघप्रासतोमरैः ।
तमेकमभ्यधावन्त सिंहनादं प्रचक्रिरे ॥ २९॥
ततः सोऽसिं समुद्यम्य जवमास्थाय दानवः ।
वकर्त रथिनामाजौ शिरांसि च धनूंषि च ॥ ३.५६.३०॥
रथनागाश्ववृन्देषु बलवानरिसूदनः ।
विरोचनश्चरन् मार्गान् प्रकारानेकविंशतिम् ॥ ३१॥
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् ।
सम्पातं समुदीर्णं च दर्शयामास दानवः ॥ ३२॥
केचिद् वरासिना रुग्णा दानवेन महात्मना ।
विनेदुश्छिन्नवर्माणो निपेतुश्च गतासवः ॥ ३३॥
छिन्नपृष्ठा हतारोहा दानवेन महात्मना ।
विद्रुताः स्वान्यनीकानि जघ्नुस्त्रिदशवारणाः ॥ ३४॥
निपेतुरुर्व्यामाकाशे निकृता दृढधन्विना ।
विविधास्तोमराश्चापा महामात्रशिरांसि च ॥ ३५॥
प्रतीपमाहरन्नागानश्वांश्च दृढविक्रमान् ।
चकर्त रथिनः कांश्चित् परामृश्य महाबलः ।
सूतांश्चिच्छेद खड्गेन रथानपि च दानवः ॥ ३६॥
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ।
मार्गांश्चरति वैचित्रान् व्यस्मयन्त ततोऽसुराः ॥ ३७॥
निजघान पदा काश्चिदाक्षिप्यान्यानपोथयत् ।
खड्गेन चान्यांश्चिच्छेद नादेनान्यांश्च भीषयन् ॥ ३८॥
ऊरुस्तम्भगृहीताश्च निपतन्त्यपरे भुवि ।
अपरे दैत्यमालोक्य भयात्प्राणानवासृजन् ॥ ३९॥
तस्मिंस्तथा वर्तमाने युद्धे महति दारुणे ।
रथौघगजपत्तीनां सुराणां च महाक्षये ॥ ३.५६.४०॥
कुजम्भो दानवश्रेष्ठो ह्यंशमादित्यमाहवे ।
योधयामास समरे वृषः प्रतिवृषं यथा ४१॥
जघानाचलसङ्काशो मत्तवारणविक्रमः ।
स्फुरद्भिर्निशितैस्तीक्ष्णशरैर्बहुभिराशुगैः ॥ ४२॥
देवसैन्यसहस्राणि सरथानि महाहवे ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ ४३॥
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
देवानामजयः क्रूरः प्रत्यपद्यत दारुणः ॥ ४४॥
अंशस्तु दानवेन्द्रस्य जघानोत्तमविक्रमः ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ ४५॥
आपतन्तं गजानीकं कुजम्भो वीक्ष्य दानवः ।
गदापाणिरवारोहद् रथोपस्थादरिन्दमः ॥ ४६॥
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अभ्यद्रवद् गजानीकं व्यादितास्य इवान्तकः ॥ ४७॥
स गजान् गदया निघ्नन् व्यचरत्समरे बली ।
कुजम्भो दानवश्रेष्ठो गदापाणिर्बलाधिकः ॥ ४८॥
विशीर्णदन्तांश्च वद्वन्भिन्नकुम्भाम्बदारुणान् ।
अकरोद् दानवश्रेष्ठ उद्दिश्योद्दिश्य तान् बली ॥ ४९॥
विशीर्णदन्ता बहवो भिन्नकुम्भास्तथा परे ।
कुजम्भेनार्दिता नागा व्यद्रवन्त दिशो दश ॥ ३.५६.५०॥
कुजम्भस्य च येऽमात्या दानवा घोरविक्रमाः ।
नाराचैर्विविधैस्तीक्ष्णैरपास्तगजयोधिनः ॥ ५१॥
क्षुरैः क्षुरप्रैर्भल्लैश्च पातैरञ्जलिकैः शितैः ।
चिच्छेद चोत्तमाङ्गानि कुजम्भो दानवोत्तमः ॥ ५२॥
शिरोभिः प्रपतद्भिस्तु गगनं प्रत्यपूर्यत ।
अश्मवृष्टिरिवाकाशे बहुभिश्च सहाङ्कुशैः ॥ ५३॥
कृत्तोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्त महाराज ताला विशिरसो यथा ॥ ५४॥
आपतन्तं महानागमंशस्यासुरसत्तमः ।
जघानैकेषुणा क्रुद्धस्ततः स विमुखोऽभवत् ॥ ५५॥
विगाह्यैवं गजानीकं कुजम्भो दानवोत्तमः ।
विनिघ्नन्प्रवरान्सैन्यान्गदया बलिनां वरः ॥ ५६॥
एकप्रहाराभिहतान् कुजम्भेन महागजान् ।
अपश्यन्त सुराः सर्वे पर्वतानिव पातितान् ॥ ५७॥
कुजम्भस्य च मार्गेषु विशीर्णास्ते महागजाः ।
वज्राहता इवेन्द्रेण विशीर्णा इव पर्वताः ॥ ५८॥
अपश्यंस्त्रिदशाः सर्वे मूर्तिमन्तमिवान्तकम् ।
गजास्तथा व्यदीर्यन्त सिंहस्येवेतरे मृगाः ॥ ५९॥
स बभौ तां गदां बिभ्रत् प्रोक्षितां गजशोणितैः ।
व्यादितास्योऽनदत्क्रुद्धो रौद्ररूपो भयानकः ॥ ३.५६.६०॥
यथा हि भगवान्क्रुद्धः प्रजानां सङ्क्षये पुरा ।
विक्रीडमानो गदया रणमध्ये महासुरः ॥ ६१॥
गोपाल इव दण्डेन कालयन्स महागजान् ।
क्रुद्धं कालमिवाकाले दण्डमुद्यम्य दानवम् ।
अपश्यन्त सुराः सर्वे कुजम्भं भीमविक्रमम् ॥ ६२॥
हतारोहास्तु तत्रान्ये प्रभिन्ना वारणोत्तमाः ।
ते हन्यमाना गदया बाणैश्च भृशविक्षताः ॥ ६३॥
असहन्तः कुजम्भस्य गदावेगं महाहवे ।
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्त महागजाः ॥ ६४॥
महावात इवाभ्राणि विधमन् गदया गजान् ।
अतिष्ठत्समरे दैत्यः कालः संवर्तको यथा ॥ ६५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे कुजम्भस्योत्कर्षवर्णने षट्पञ्चाशत्तमोऽध्यायः ॥ ५६॥
३.५७ सप्तपञ्चाशत्तमोऽध्यायः
देवासुरयुद्धे वृत्रोत्कर्षवर्णनम् In the battle between deva-s and asura-s, surge of vRitra
देवासुरसङ्ग्रामे कुजम्भस्य, असिलोम्नः वृत्रासुरस्य च उत्कर्षस्य वर्णनं, हरेः अश्विनीकुमाराभ्यां च पराजयः
वैशम्पायन उवाच ।
ततः सर्वाणि सैन्यानि देवराजस्य शासनात् ।
अभ्यद्रवन्त दितिजान्नदन्तो भैरवान् रवान् ॥ १॥
तं बलौघमपर्यन्तं देवानां सुदुरासदम् ।
रथनागाश्वकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ २॥
आपतन्तं सुदुष्पारं रजसा सर्वतोवृतम् ।
सैन्यसागरमक्षोभ्यं वेलेव मकरालयम् ॥ ३॥
तदाश्चर्यमपश्यन्त अश्रद्धेयमिवाद्भुतम् ।
उदीर्णां पृतनां सर्वां साश्वां सरथकुञ्जराम् ॥ ४॥
आवार्य समरेऽतिष्ठत् कुजम्भस्तरसा बली ।
सैन्यार्णवं देवतानां गिरिर्मेरुरिवाचलः ॥ ५॥
अनीकिनीं कुजम्भस्तु गदया स न्यवारयत् ।
सा तथा वारिता सेना विह्वलाभून्निरुद्यमा ॥ ६॥
तस्मिंस्तथा वर्तमाने सम्प्रहारे सुदारुणे ।
असिलोमा तु बलवान् दानवो दानवाधिपः ॥ ७॥
देवसैन्यस्य सर्वस्य धूमकेतुरिवोत्थितः ।
तपत्यर्क इवामोघः सुरसैन्यानि संयुगे ॥ ८॥
सहस्ररश्मिप्रतिमो दानवस्य रथोत्तमः ।
शरैर्मेघ इवावर्षद् देवानीकं प्रतापवान् ॥ ९॥
शरौघरश्मिभिर्दीप्तैः प्रतप्तो घोरविक्रमः ।
रौद्रः क्रूरो दुराधर्षो दुरापो ध्वजिनीमुखे ॥ ३.५७.१०॥
युध्यते दैवतैः सार्धं ग्रसमान इव प्रभुः ।
उग्रेषुरुग्रवदनः समारुह्य महागजम् ॥ ११॥
सुराणामुत्तमाङ्गानि प्रचिनोति महाबलः ।
ग्रसन् दैवतसैन्यानि शरदंष्ट्रः प्रतापवान् ॥ १२॥
असिजिह्वश्चक्रहस्तश्चापव्यात्ताननोऽसुरः ।
परश्वधनखः श्रीमान् मृदङ्गापूरितध्वनिः ॥ १३॥
तिष्ठते दानवश्रेष्ठः संयुगे व्याघ्रवद् बली ।
मौर्वीघोषस्तनयित्नुः पृषत्कः प्रथितो महान् ॥ १४॥
धनुर्विद्युद्गणश्चापो महामेघ इवापरः ।
इष्वस्त्रसागरो घोरो बाहुग्राहो दुरासदः ॥ १५॥
कार्मुकोर्मितरङ्गौघो बाणावर्तमहाह्रदः ।
गदासिमकरो रौद्रो ज्यावेलः शिक्षयोद्धतः ११६॥
पदातिमीनः सुमहान् गर्जितोत्क्रुष्टघोषवान् ।
हयान्गजान्पदातींश्च रथांश्च सहसा बहून् ॥ १७॥
न्यमज्जयत समरे परवीरान् महारथान् ।
आप्लावयत् स देवौघान् दारुणो दानवेश्वरः ॥ १८॥
प्रावर्तत युधि श्रीमान्युधि श्रेष्ठो युधि स्थिरः ।
अपश्यंस्त्रिदशाः सर्वे शुद्धजाम्बूनदप्रभम् ॥ १९॥
सन्नद्धं तत्र युध्यन्तं ज्वलन्तमिव पावकम् ।
मध्यन्दिनगतं सूर्यं ज्वलन्तमिव तेजसा ॥ ३.५७.२०॥
न शेकुः सर्वभूतानि दानवं प्रसमीक्षितुम् ।
यथा प्ररूढं घर्मान्ते दहेत् कक्षं हुताशनः ॥ २१॥
तथा सुरवरान् दैत्यो दहति स्म सुतेजसा ।
देवानां दानवानां च बलं नर्दति दारुणम् ॥ २२॥
विरूढमभवत् सर्वमाकुलं च समन्तत ।
शूराश्च ते बलोदग्रा हस्त्यश्वरथधूर्गताः ॥ २३॥
आर्यां बुद्धिं समास्थाय न त्यजन्ति महारणम् ।
तदुत्पिञ्जलकं युद्धमभवद् रोमहर्षणम् ॥ २४॥
देवदानवयोः सङ्ख्ये रुधिरस्रावकर्दमम् ।
न दिशः प्रत्यजानन्त भयग्राहनिपीडिताः ।
शस्त्रपातांश्च विविधान् दानवानां महारणे ॥ २५॥
अन्योन्यं मूढचित्तास्ते निजघ्नुर्व्याकुलीकृताः ।
स्वान् परान्नाभिजानन्ति विमूढाः शस्त्रपाणयः ॥ २६॥
शिरोरुहेषु सङ्गृह्य कश्चिच्छूरस्य संयुगे ।
शूरश्छिनत्ति मूर्धानं सन्दष्टौष्ठपुटाननम् ॥ २७॥
बाहुभिर्मुष्टिभिश्चैव वज्रकल्पैः सुदारुणैः ।
प्रहरन्ति रणे वीरा आत्तशस्त्राः परस्परम् ॥ २८॥
योधप्राणहरे रौद्रे स्वर्गद्वारेनपावृते ।
सङ्कुले तुमुले युद्धे वर्तमाने महाभये ॥ २९॥
हयो हयं गजो नागं वीरो वीरं महाहवे ।
अभ्यद्रवज्जिघांसन्तो ह्यसमञ्जसमाहवे ॥ ३.५७.३०॥
असुराश्च सुराश्चैव विक्रमाख्या महारथाः ।
जुहुवुः समरे प्राणान् निजघ्नुरितरेतरम् ॥ ३१॥
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
हस्तैः पादैश्च युध्यन्ते दानवास्त्रिदशैः सह ॥ ३२॥
हरिस्तु निशितं भल्लं प्रेषयामास संयुगे ।
स तस्य धनुषः कोटिं छित्त्वा भूमावपातयत् ॥ ३३॥
पुनश्चापि पृषत्कानां शतानि नतपर्वणाम् ।
प्राहिणोत् सहसा तस्य दानवेन्द्रस्य संयुगे ॥ ३४॥
तस्य देहे विमुक्तास्ते मारुतेन समीरिताः ।
मग्नार्धकाया विविशुः पन्नगा इव पर्वते ॥ ३५॥
स तैर्निपतितैर्गात्रैः क्षरद्भिरसृगावली ।
बभौ दैत्यो महाबाहुर्मेरुर्धातुमिवोत्सृजन् ।
पुनश्चापि पृषत्कानां शतानि नतपर्वणाम् ॥ ३६॥
ततोऽसिलोमा सङ्क्रुद्धः प्रगृह्यान्यन्महाधनुः ।
रुक्मपुङ्खांश्च निशितान्प्रेषयामास सायकान् ॥ ३७॥
तैस्तु मर्मसु विव्याध सर्पानलविषोपमैः ।
गात्रं सछादयामास महाभ्रैरिव पर्वतम् ॥ ३८॥
भूयः सन्धाय च शरं मुमोचान्तकसन्निभम् ।
सुपुङ्खं सूर्यसङ्काशं बाणमप्रतिमं रणे ॥ ३९॥
तेन बाणप्रहारेण संयुगे भीमकर्मणा ।
मुमोह सहसा देवो भूमौ चापि पपात ह ॥ ३.५७.४०॥
ततो हाहाकृताः सर्वे देवे भूतलमाश्रिते ।
जगत् सदेवमाविग्नं यथार्कपतनं तथा ॥ ४१॥
परिवारं तु समरे तस्य हत्वा महासुरः ।
एकत्रिंशत्सहस्राणि योधानां दानवोत्तमः ॥ ४२॥
जयश्रिया सेव्यमानो दीप्यमान इवाचलः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ॥ ४३॥
तथैव तु महायुद्धे ससैन्यावश्विनावुभौ ।
प्रयुद्धौ सह वृत्रेण बलिना देवतारिणा ॥ ४४॥
बाणखड्गधनुष्पाणिः समरे त्यक्त जीवितः ।
आसाद्य सोऽश्विनौ दैत्यः स्थितो गिरिरिवाचलः ॥ ४५॥
ततः शङ्खमुपाध्माय द्विषतां लोमहर्षणम् ।
ज्याघोषतलशब्दैश्च सर्वभूतान्यवेजयत् ॥ ४६॥
ततः संहृष्टरोमाणः शङ्खशब्दं विशुश्रुवुः ।
यक्षराक्षसदेवौघा वृत्रस्यापि च निःस्वनम् ॥ ४७॥
गदातोमरनिस्त्रिंशशूलशक्तिपरश्वधाः ।
प्रगृहीता व्यराजन्त यक्षराक्षसबाहुभिः ॥ ४८॥
तैः प्रयुक्तान्महाकायैः शूलशक्तिपरश्वधान् ।
भल्लैर्वृत्रः प्रचिच्छेद भीमवेगरवैस्तथा ॥ ४९॥
अन्तरिक्षचराणां च भूमिस्थानां च गर्जताम् ।
शरैर्विव्याध गात्राणि देवानां प्रियदर्शिनाम् ॥ ३.५७.५०॥
वृत्रासुरभुजोत्सृष्टैर्बहुधा यक्षरक्षसाम् ।
निकृत्तान्येव दृश्यन्ते शरीराणि शिरांसि च ॥ ५१॥
अथ रक्तमहावृष्टिरभ्यवर्षत मेदिनीम् ।
गदापरिघभिन्नानां देवानां गात्रसम्भवा ॥ ५२॥
प्रच्छादयन्तं बाणौघैर्वृत्रं भीमपराक्रमम् ।
ददृशुः सर्वभूतानि भानुमन्तमिवांशुभिः ॥ ५३॥
तीक्ष्णरश्मिरिवादित्यः प्रतपन् सर्वदेवताः ।
अविध्यद् बलवान् क्रुद्धः सायकैर्मर्मभेदिभिः ॥ ५४॥
नदतो विविधान् नादानर्दितस्यापि सायकैः ।
न मोहमसुरेन्द्रस्य ददृशुस्त्रिदशा रणे ॥ ५५॥
तेऽसिचर्मगदाभिश्च परिघप्रासतोमरैः ।
परश्वधैश्च शूलैश्च प्रववर्षुर्महारथाः ॥ ५६॥
ततो वृत्रः सुसङ्क्रुद्धस्तैस्तदाभ्यर्दितो बली ।
अभ्यवर्षच्छितैर्बाणैस्तान् सर्वान् सत्यविक्रमः ॥ ५७॥
तेन वित्रासिता देवा विप्रकीर्णमहायुधाः ।
घोरमार्तस्वरं चक्रुर्वृत्रासुरभयार्दिताः ॥ ५८॥
उत्सृज्य ते गदाशक्तिशूलर्ष्टिपरिघाशनीन् ।
उत्तरां दिशमाजग्मुस्त्रासिता दृढधन्विना ॥ ५९॥
शूलशक्तिगदापाणिर्व्यूढोरस्को महाभुजः ।
प्रावर्तत रणे वृत्रस्त्रासयानश्चराचरान् ॥ ३.५७.६०॥
तत्रैकस्तु महाबाहुरसिशूलधरः प्रभुः ।
अभ्यधावत दैत्येन्द्रं वृत्रमप्रतिमं रणे ॥ ६१॥
तमापतन्तं सम्प्रेक्ष्य निर्भिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे विव्याध सुरसत्तमम् ॥ ६२॥
सोऽपि विद्धो महेष्वासः शरैरमितविक्रमः ।
गदां जग्राह बलवान् गदायुद्धविशारदः ॥ ६३॥
तां प्रगृह्य गदां भीमामयःसारमयीं दृढाम् ।
अश्विनं सहसाऽऽगम्य ताडयामास वीर्यवान् ॥ ६४॥
दीप्यमानं ततः शूलमश्वी सुविपुलं दृढम् ।
प्रासृजद् वृत्रदैत्याय सहसा रोमहर्षणम् ॥ ६५॥
भङक्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ।
अश्विनं सहसाभ्येत्य गरुत्मानिव पन्नगम् ॥ ६६॥
सोऽन्तरिक्षात्समुत्पत्य विधूय महतीं गदाम् ।
नासत्योपरि चिक्षेप गिरिशृङ्गोपमां बली ॥ ६७॥
गदयाभिहतः सोऽश्वी त्यक्त्वा शूलमनुत्तमम् ।
प्रयातः सहसा तत्र यत्र युध्यति वासवः ॥ ६८॥
पराजित्य तु सङ्ग्रामे अश्विनं भीमविक्रमम् ।
जयश्रिया सेव्यमानो वृत्रो युद्धे व्यवस्थितः ॥ ६९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनावतारे
देवासुरयुद्धे वृत्रासुरोत्कर्षवर्णने सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७॥
३.५८ अष्टपञ्चाशत्तमोऽध्यायः
देवासुरयुद्धे केशिरुद्रयोस्तुमुलयुद्धम् In the fight of deva-s and asura-s, rudra engages keshi in battle
रणाजेः एकचक्रस्य सार्द्धं, मृगव्याधस्य बलासुरेण, अजैकपादस्य राहोः,
सुधूम्राक्षस्य केशीदैत्येन सार्द्धं युद्धस्य वर्णनं
वैशम्पायन उवाच ।
तत्रैव तु महायुद्धे रणाजिर्देवसत्तमः ।
युध्यते सह दैत्येन एकचक्रेण धीमता ॥ १॥
प्रच्छाद्य रथपन्थानमुत्क्रोशंश्च महाबलः ।
एकचक्रस्य सैन्यं तच्छरवर्षैरवाकिरत् ॥ २॥
महासुरा महावीर्या महापट्टिशयोधिनः ।
शूलानि च भुशुण्डीश्च क्षिपन्ति स्म महारणे ॥ ३॥
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।
अविशद् दितिजैर्मुक्तं दुर्निवार्यं चराचरैः ॥ ४॥
अन्योन्यमभिवर्तन्ते देवासुरगणा युधि ।
महाद्रिशिखराकारा वीर्यवन्तो महाबलाः ॥ ५॥
तुरङ्गमाणां तु शतं युक्तं तस्य महारथे ।
महासुरवरस्येव हिरण्यकशिपोर्युधि ॥ ६॥
तेषां चरणपातेन चक्रनेमिस्वनेन च ।
तथा बाणनिपातैश्च हता वै शतशः सुराः ॥ ७॥
ततः स लघुभिश्चित्रैः शरैः सन्नतपर्वभिः ।
सायुधानच्छिनत्क्रुद्धः शतशोऽथ सहस्रशः ॥ ८॥
वध्यमानाः शरैस्तीक्ष्णै रथद्विरदवाजिनः ।
गमिताः प्रक्षयं केचित् त्रिदशैर्दानवा रणे ॥ ९॥
ततः प्रमीयमाणास्तानुपप्रेक्ष्य दितेः सुताः ।
त्यक्त्वा प्राणान् न्यवर्तन्त प्रगृहीतवरायुधाः ॥ ३.५८.१०॥
ते दिशो विदिशश्चैव प्रतियुद्धप्रहारिणः ।
अभ्यघ्नन् निशितैः शस्त्रैर्देवान्दितिसुता रणे ॥ ११॥
रणाजिर्ज्वलितं घोरं परमं तिग्मतेजसम् ।
मुमोचास्त्रं महाबाहुर्मथनं नाम संयुगे ॥ १२॥
ततः शस्त्राणि शूलानि निशितानि सहस्रशः ।
अस्त्रवीर्येण महता दितिजः सम्प्रचिच्छिदे ॥ १३॥
छित्त्वा शूलेन तान् सर्वानेकचक्रो महासुरः ।
अभ्यविध्वत तं साध्यं दशभिर्निशितैः शरैः ॥ १४॥
अस्त्रवेगं निहत्यैवं सोऽस्त्रैस्तस्यानुसैनिकान् ।
ज्वलितैरपरैः शीघ्रैस्तानविध्यत् सहस्रशः ॥ १५॥
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवास्त्रवृष्टीनि शृङ्गाणि धरणीभृताम् ॥ १६॥
इन्द्राशनिसमस्पशैर्निपतद्भिरजिह्मगैः ।
दितिजैर्बध्यमानास्ते वित्रेसुः सुरसत्तमाः ॥ १७॥
एकचक्रो रथे तिष्ठन्नपश्यद् गजयूथपान् ।
वराभरणनिर्ह्रादान् समुद्रस्वननिःस्वनान् ॥ १८॥
मत्तान् सुविहितान् दृप्तान् महामात्रैरधिष्ठितान् ।
कुलीनान् वीर्यसम्पन्नान् प्रतिद्विरदघातिनः ॥ १९॥
शिक्षितान् गजशिक्षायामैरावतसमान् युधि ।
न्यहनत् सुरसैन्यस्य गजान् गज इवासुरः ॥ ३.५८.२०॥
विक्षरन्तो महानागान् भीमवेगांस्त्रिधा मदम् ।
मेघस्तनितनिर्घोषान् महाद्रीनिव चोत्थितान् ॥ २१॥
सहस्रसम्मितान् दिव्याञ्जाम्बूनदपरिष्कृतान् ।
सुवर्णजालैर्विततांस्तरुणादित्यवर्चसः ॥ २२॥
एकचक्रो गदापाणिर्बलवान् गदिनां वरः ।
उत्सारयामास गजान् महाभ्राणीव मारुतः ॥ २३॥
निहत्य गदया सर्वांस्तान् गजान् गजमर्दनः ।
भूयोऽश्वसङ्घान् स बली निरैक्षत महासुरः ॥ २४॥
शुकवर्णानृष्यवर्णान् मयूरसदृशांस्तथा ।
पारावतसवर्णांश्च हंसवर्णांस्तथैव च ॥ २५॥
मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनोजवान् ।
अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः ।
निषूदयामास बली गदया भीमविक्रमः ॥ २६॥
रणाजिर्व्यस्य समरे सर्वान् दृष्ट्वा सुरद्विषः ।
अजिन्त्यविक्रमः श्रीमान् स युद्धाद् विरराम ह ॥ २७॥
गदायुद्धेषु कुशलो रथेन रथयूथपः ।
नष्टसैन्यो महाबाहुः प्रस्थितः शक्रसन्निधौ ॥ २८॥
त्रिंशच्छतसहस्राणि रथानां विनिहत्य सः ।
रणेऽतिष्ठत दैत्येन्द्रो विधूम इव पावकः ॥ २९॥
तस्मिन्तेव तु सङ्ग्रामे बलो दृप्तो महासुरः ।
मृगव्याधं महात्मानं योधयत्यजितं रणे ॥ ३.५८.३०॥
मृगव्याधस्य रुद्रस्य महापारिषदास्तथा ।
समुत्पेतुर्बलं दृष्ट्वा हुताग्निसमतेजसः ॥ ३१॥
गजैर्मत्तै रथैर्दिव्यैर्वाजिभिश्च महाजवैः ।
अस्त्रैश्च निशितैर्बाणैः शरैश्चानलसन्निभैः ॥ ३२॥
ददृशुस्ते ततो वीरा दीप्यमानं महासुरम् ।
रश्मिवन्तमिवोद्यन्तं सुतेजोरश्मिमालिनम् ॥ ३३॥
सङ्ग्रामस्थं महावेगं महासत्त्वं महाबलम् ।
महामतिं महोत्साहं महाकायं महारथम् ॥ ३४॥
समीक्ष्य तं महायोधं दिक्षु सर्वास्ववस्थितम् ।
ततः प्रहरणैर्घोरैरभिपेतुः समन्ततः ॥ ३५॥
तस्य सर्वायसास्तीक्ष्णाः शराः पीतमुखाः शिताः ।
शिरस्यद्रिप्रतीकाशे मृगव्याधेन पातिताः ॥ ३६॥
तैश्च सप्तभिराविष्टः शरैः शिरसि चार्पितैः ।
उत्पपात तदा व्योम्नि दिशो दश विनादयन् ॥ ३७॥
ततस्तं त्रिदशो वीरः सरथः सज्जकार्मुकः ।
अनुवव्राज संहृष्टः खे तदा स महाबलः ॥ ३८॥
असुरं छादयामास तं व्योम्नि शरवृष्टिभिः ।
वृष्टिमानिव जीमूतो निदाघान्ते धराधरम् ॥ ३९॥
अर्द्यमानस्ततस्तेन मृगव्याधेन दानवः ।
चकार निनदं घोरमम्बरे जलदो यथा ॥ ३.५८.४०॥
स दूरं सहसोत्पत्य मृगव्याधरथं प्रति ।
निपपात महावेगः पक्षवातैर्गिरिर्यथा ॥ ४१॥
बभञ्ज च ततो दैत्यो भग्नेषाकूबरं रथम् ।
मृगव्याधः परित्यज्य स्थितो भूमौ महाबलः ॥ ४२॥
विरथं प्रेक्ष्य रुद्रं तु तस्य पारिषदाः शुभाः ।
उत्थिता घोररक्ताक्षा व्योम्नि मुद्गरपाणयः ॥ ४३॥
स तैः सहसोत्थाय वेष्टितो विमलेऽम्परे ।
भीमेर्भ्रूकः परशुभिर्यथा ॥ ४४॥
तेषां वेगवतां वेगं निहत्य स महारथः ।
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ ४५॥
स शालवृक्षमुत्पाट्य महाशासं महाबलः ।
सर्वान् पारिषदान्संणये सूदयामास दानवः ॥ ४६॥
स तैर्विक्षतदेहस्तु रुधिरौघपरिप्लुतः ।
शुशुभे दानवश्रेष्ठो बालसूर्य इवोदितः ॥ ४७॥
अथोत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
जघान तान् पारिषदान् समरे दानवेश्वरः ॥ ४८॥
ततस्तेपु च भग्नेषु महापारिवदेतु वै ।
बलं तदवशेषं तु नाशयामास वीर्यवान् ॥ ४९॥
अल्पैरश्वादगणैर्नागान् योधान्योधे रथान्रथैः ।
दानवः स्त्वयामास युगान्तेऽन्तकवत्प्रजाः ॥ ३.५८.५०॥
हतैरश्वैश्च नागैश्च भग्नाक्षैश्च महारथैः ।
त्रिदशैश्चाभवद् भूमी रुद्धमार्गा समन्ततः ॥ ५१॥
एवं बलः स दैत्येन्द्रो मृगव्याधश्च वीर्यवान् ।
युधि प्रवृद्धौ बलिनौ प्रभिन्नाविव वारणौ ॥ ५२॥
वैशम्पायन उवाच ।
तत्रैव युध्यते रुद्रो द्वितीयो राहुणा सह ।
विश्रुतस्त्रिषु लोकेषु क्रोधात्मा ह्यज एकपात् ॥ ५३॥
तत् यथा सुमहद् युद्धं तुमुलं लोमहर्षणम् ।
आसीत्प्रतिभयं रौद्रं वीराणां जयमिच्छताम् ॥ ५४॥
देवदानवदेहैस्तु दुस्तरा केशशाद्वला ।
शरीरसङ्घातवहा प्रसृता लोहितापगा ॥ ५५॥
आजघानाथ सङ्क्रुद्धो रुद्रो रौद्राकृतिः प्रभुः ।
राहुं शतमुखं युद्धे शत्रुसैन्यनिवारणम् ॥ ५६॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमान् क्रुद्धो दैत्यस्य सायकैः ॥ ५७॥
तस्य पारिषदस्त्वेकः शरशक्त्या महाबलः ।
बिभेद समरे हृष्टो दानवं तं स्तनान्तरे ॥ ५८॥
स भिन्नगात्रो रुद्रेण तथा पारिषदैरपि ।
रुद्रस्य रथमायान्तं स राहुर्दानवोत्तमः ॥ ५९॥
प्रममाथ तलेनाशु सहसा क्रोधमूर्च्छितः ।
भिन्नगात्रं शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ॥ ३.५८.६०॥
हतैर्दानवमुख्यैस्तु रुद्रेणामिततेजसा ।
रुद्रपारिषदान् सर्वान् निजघान महासुरः ॥ ६१॥
सृजन्तं शरवर्षाणि दानवं घोरदर्शनम् ।
बिभेद समरे रुद्रो बाणैः सन्नतपर्वभिः ॥ ६२॥
वर्तमाने महाघोरे सङ्ग्रामे लोमहर्षणे ।
रुधिरौघा महावेगा महानद्यः प्रसुस्रवुः ॥ ६३॥
दानवं समरे रुद्रो नीलाञ्जनचयोपमम् ।
निर्बिभेद शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ॥ ६४॥
हतैर्दानवमुख्यैश्च शक्तिशूलपरश्वधैः ।
पतितैः पर्वताभैश्च दानवैः कामरूपिभिः ॥ ६५॥
वर्तमाने महाघोरे सङ्ग्रामे लोमहर्षणे ।
विरेजुस्ते तदा दैत्याः पुष्पिता इव किंशुकाः ॥ ६६॥
महाभेरीमृदङ्गानां पणवानां च निःस्वनः ।
शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥ ६७॥
हतानां स्वनतां तत्र दैत्यानां चापि निःस्वनः ।
देवानां च तथा तत्र शुश्रुवे दारुणो महान् ॥ ६८॥
तुरङ्गमखुरोत्कीर्णं रथनेमिसमुत्थितम् ।
रुरोध मार्गं योधानां चक्षूंषि च धरारजः ॥ ६९॥
शस्त्रपुष्पोपहारा सा तत्रासीद् युद्धमेदिनी ।
दुर्दर्शा दुर्विगाह्या च मांसशोणितकर्दमा ॥ ३.५८.७०॥
भग्नैः खड्गैर्गदाभिश्च शक्तितोमरपट्टिशैः ।
अपविद्धैश्च भग्नैश्च रथैः साङ्ग्रामिकैर्हतैः ॥ ७१॥
निहतैः कुञ्जरैर्मत्तैस्तथा त्रिदशदानवैः ।
चक्राक्षयुगशस्त्रैश्च भग्नैरवनिपातितैः ॥ ७२॥
बभूवायोधनं घोरं पिशिताशनसङ्कुलम् ।
उत्पेतुश्च कबन्धानि दिक्षु सर्वासु संयुगे ॥ ७३॥
अन्योन्यबद्धवैराणां दैत्यानां जयगृद्धिनाम् ।
सम्प्रहारस्तथा युद्धे वर्ततेऽतिभयङ्करः ॥ ७४॥
सैन्यानां सम्प्रयुद्धानां शूराणामनिवर्तिनाम् ।
अजस्य चैकपादस्य राहोश्चैव महात्मनः ॥ ७५॥
तेषां तु तत्र पततां क्रुद्धानाशतिनिःस्वनः ।
उद्वर्त इव भूतानां समुद्राणां तु शुश्रुवे ॥ ७६॥
तत्रैकस्तु सुधूम्राक्षः श्रीमान् रुद्रो मुनीश्वरः ।
बिभेद केशिनं शक्त्या गदापरिघशूलभृत् ॥ ७७॥
नानाप्रहरणा घोरा भीमाक्षा भीमविक्रमाः ।
निष्पेतू रुद्रदयिता महापारिषदास्तथा ॥ ७८॥
रथमास्थाय च श्रीमांस्तप्तकाञ्चनकुण्डलः ।
दानवैः संवृतः केशी युध्यते युद्धदुर्जयैः ॥ ७९॥
तस्य सङ्ग्रामशौण्डस्य सङ्ग्रामेषु युयुत्सतः ।
निपेतुरुग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ॥ ३.५८.८०॥
स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः ।
महाजलदसङ्काशो मृदङ्गध्वनिनिःस्वनः ॥ ८१॥
तस्य निष्पतमानस्य दानवैः संवृतस्य च ।
बभूव सुमहानादः क्षोभयंस्त्रिदिवं यथा ॥ ८२॥
तेन शब्देन वित्रस्ता त्रिदशानां महाचमूः ।
द्रुमशैलप्रहरणा योद्धुमेवाभ्यवर्तत ॥ ८३॥
तेषां च देवदैत्यानां युयुत्सूनां परस्परम् ।
सन्निपातः सुतुमुलो रौद्रो लोकभयावहः ॥ ८४॥
तेषां युद्धं महाघोरं सञ्जज्ञे लोमहर्षणम् ।
देवदानवसङ्घानां प्राणांस्त्यक्त्वा महाहवे ॥ ८५॥
सर्वे ह्यतिबलाः शूरा सर्वे पर्वतसन्निभाः ।
सर्वे सर्वास्त्रविद्वांसः सर्वे सर्वायुधोद्यताः ।
त्रिदशा दानवाश्चैव परस्परजिघांसवः ॥ ८६॥
तेषां वै नदतां शब्दः संयुगे मेघनिःस्वनः ।
शुश्रुवेऽतिमहाघोरश्चरस्थावरकम्पनः ॥ ८७॥
रेणुश्चारुणसङ्काशो भीमः स समपद्यत ।
उद्भूतो देवदैत्यौघैः संरुरोध दिशो दश ॥ ८८॥
अन्योन्यं रजसा तेन कौशेयारुणपाण्डुना ।
संवृता बहुरूपेण ददृशुर्न च किञ्चन ॥ ८९॥
न ध्वजो न पताकाश्च न वर्म तुरगोऽपि वा ।
आयुधं स्यन्दनो वापि दृश्यते नैव सारथिः ॥ ३.५८.९०॥
स शब्दस्तुमुलस्तेषामन्योन्यमभिधावताम् ।
श्रूयते तुमुलः शब्दो न रूपाणि चकाशिरे ॥ ९१॥
दानवास्तत्र सङ्क्रुद्धा दानवानेव जघ्निरे ।
त्रिदशास्त्रिदशाश्चैव निजघ्नुस्तुमुले तदा ॥ ९२॥
ते परांश्च विनिघ्नन्तः स्वांश्च युद्धे महासुरान् ।
रुधिरार्द्रा तथा चक्रुर्मेदिनीमसुराः सुराः ॥ ९३॥
ततस्तु रुधिरौघेण संसिक्तमुदितं रजः ।
शरीरशतसङ्कीर्णं बभूव धरणीतलम् ॥ ९४॥
शूलशक्तिगदाखड्गपरिघप्रासतोमरैः ।
त्रिदशा दानवाश्चैव जघ्नुरन्योन्यमाहवे ॥ ९५॥
बाहुभिः परिघाकारैर्निघ्नतः परिघैस्तथा ।
रुद्रपारिषदान् सर्वान् सूदयन्ति स्म दानवाः ॥ ९६॥
रुद्रपारिषदाश्चैव महाद्रुममहाश्मभिः ।
व्यदारयन्नतिक्रम्य शस्त्रैश्चादित्यसन्निभैः ॥ ९७॥
एतस्मिन्नन्तरे क्रुद्धः केशी दानवसत्तमः ।
सङ्ग्रामामर्षघोरः सन् स्वान्यनीकानि हर्षयन् ।
तेषां परमसङ्क्रुद्धो वज्रमस्त्रमुदीरयत् ॥ ९८॥
वज्रेणास्त्रेण दिव्येन शस्त्रेण च महात्मना ।
महापारिषदाः सर्वे निहता युधि दुर्जयाः ॥ ९९॥
वज्रास्त्रपीडिता भ्रान्ता रुद्रपारिषदा युधि ।
विप्रकीर्णद्रुमाः पेतुः शैला वज्रहता इव ॥ ३.५८.१००॥
एवं सुतुमुलं युद्धमभवल्लोमहर्षणम् ।
केशिनः सह रुद्रेण तदद्भुतमिवाभवत् ॥ १०१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धकेशिरुद्रयुद्धकथने अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८॥
३.५९ एकोनषष्टितमोऽध्यायः
देवासुरयुद्धे कालप्रह्रादयोर्युद्धम् KAla engages prahrAda in the battle between bwetween deva-s and asura-s
वृषपर्वणः निष्कुम्भेन विश्वेदेवेन सार्द्धं, प्रह्रादस्य कालेन सार्द्धं घोरयुद्धस्य वर्णनं
वैशम्पायन उवाच ।
वृषपर्वा तु दैत्येन्द्रो विश्वमद्भुतदर्शनम् ।
निष्कुम्भं योधयामास लोहितार्कसमद्युतिम् ॥ १॥
क्रोधमूर्च्छितवक्त्रस्तु धुन्वन् परमकार्मुकम् ।
धनूंषि प्रेक्ष्य शत्रूणां सारथिं त्वरितोऽब्रवीत् ॥ २॥
अत्रैव तावत् त्वरितं नय मे सारथे रथम् ।
एते देवाश्च सहिता घ्नन्ति नः समरे बलम् ॥ ३॥
एतान् निहन्तुमिच्छामि समरश्लाघिनो रणे ॥
एतैर्हि दानवानीकं कृतच्छिद्रमिदं महत् ॥ ४॥
ततः प्रजविताश्वेन रथेन रथिनां वरः ॥
अरीनभ्यहनत् क्रुद्धः शरजालैर्महासुरः ॥ ५॥
न स्थातुं देवताः शक्ताः किं पुनर्योद्धुमाहवे ॥
वृषपर्वेषुनिर्भिन्नाः सर्व एवाभिदुद्रुवुः ॥ ६॥
तान् मृत्युवशमापन्नान् वैवस्वतवशं गतान् ॥
समीक्ष्य निहतांज्ञातीनवतस्थे महासुरः ॥ ७॥
दृष्ट्वा तं तत्र निष्कुम्भं सर्वे ते त्रिदशोत्तमाः ।
समेत्य सहिताः सर्वे द्रुतं तं पर्यवारयन् ॥ ८॥
व्यवस्थितं तु निष्कुम्भं दृष्ट्वा त्रिदशसत्तमम् ।
बभूवुर्बलवन्तो वै तस्यास्त्रबलतेजसा ॥ ९॥
वृषपर्वा तु शैलाभं निष्कुम्भं समरे स्थितम् ।
महेन्द्र इव धाराभिः शरवर्षैरवाकिरत् ॥ ३.५९.१०॥
अचिन्तयित्वा तु शराञ्छरीरे पतितान् बहून् ।
स्थितश्च प्रमुखे श्रीमान् ससैन्यः स महाबलः ॥ ११॥
सम्प्रहस्य महातेजा वृषपर्वाणमाहवे ।
अभिदुद्राव वेगेन कम्पयन्निव मेदिनीम् ॥ १२॥
तस्य त्वाधावमानस्य दीप्यमानस्य तेजसा ॥
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १३॥
रथं त्यक्त्वा महातेजाः सक्रोधः समपद्यत ॥
वृक्षमुत्पाटयामास महातालं महोच्छ्रयम् ॥ १४॥
ततश्चिक्षेप तं वृक्षं निष्कुम्भो वृषपर्वणः ।
तं गृहीत्वा महावृक्षं पाणिनैकेन दानवः ॥ १५॥
विनद्य सुमहानादं भ्रामयित्वा च वीर्यवान् ॥
सगजान् सगजारोहान् सरथान् रथिनस्तथा ॥ १६॥
जघान दानवस्तेन शाखिना त्रिदशांस्तदा ॥
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ॥ १७॥
वृषपर्वाणमासाद्य त्रिदशा विप्रदुद्रुवुः ।
तमापतन्तं सङ्क्रुद्धं त्रिदशानां भयावहम् ॥ १८॥
आलोक्य धन्वी निष्कुम्भश्चुक्रोध च ननाद च ।
स तत्र निशितैर्बाणैस्त्रिंशद्भिर्मर्मभेदिभिः ॥ १९॥
निर्बिभेद महावीर्यो निष्कुम्भो दानवाधिपम् ॥
शरशक्तिभिरुग्राभिदैत्यानामधिपोऽप्यमुम् ॥ ३.५९.२०॥
विद्धः स रणमध्यस्थो रुधिरं प्रास्रवद् बहु ॥
उद्विग्ना मुक्तकेशास्ते भग्नदर्पाः पराजिताः ॥ २१॥
श्वसन्तो दुद्रुवुः सर्वे भयाद् वै वृषपर्वणः ॥
अन्योन्यं प्रममन्थुस्ते त्रासिता वृषपर्वणा ॥ २२॥
पृष्ठवक्त्राः सुसंविग्नाः प्रेक्षमाणा मुहुर्मुहुः ॥
त्यक्तप्रहरणाः सर्वे कृतास्ते वृषपर्वणा ॥ २३॥
सङ्ग्रामे युद्धशौण्डेन तदा निष्कुम्भसैनिकाः ॥
तत्रैव तु महावीर्यः प्रह्लादः कालमाहवे ॥ २४॥
योधयामास रकाक्षो हिरण्यकशिपोः सुतः ॥
तस्य दानववीरस्य युद्धकाले जयक्रियाः ॥ २५॥
चकार त्वरया युक्तो भार्गवो विजयावहाः ॥
हुताशनं तर्पयतो ब्राह्मणांश्च नमस्यतः ॥ २६॥
आज्यगन्धप्रतिवहो मारुतः सुरभिर्ववौ ॥
स्रजश्च विविधाश्चित्रा जयार्थमभिमन्त्रिताः ॥ २७॥
प्रह्लादस्य शुभे मूर्धन्याबबन्धोशनाः स्वयम् ॥
कालेन सह सङ्ग्रामे प्रयुद्धस्य महात्मनः ॥ २८॥
प्रह्लादस्यातिवीर्यस्य शान्ति चक्रे स भार्गवः ॥
दश शिष्यसहस्राणि भार्गवस्य महात्मनः ॥ २९॥
यानि दानववीराणां जेपुः शान्तिमनुतमाम् ।
अथवणमथो दिव्यं ब्रह्मसंस्तवचोदितम् ॥ ३.५९.३०॥
ततः सर्वास्त्रविदुषः समरेष्वनिवर्तिनः ॥ ३१॥
विद्यया तपसा युक्ताः कृतस्वस्त्ययनक्रियाः ।
धनुर्हस्ताः कवचिनो वेगेनाप्लुत्य दानवाः ॥
बलिमभ्यर्च्य राजानं प्रह्लादं पर्यवारयन् ॥ ३२॥
आस्थाय परमं दिव्यं रथं पररथारुजम् ॥
नानाप्रहरणाकीर्णं सवज्रमिव पर्वतम् ॥ ३३॥
तद् बभूव मुहूर्तेन क्ष्वेडितास्फोटिताकुलम् ।
मेरोः शिखरमाकीर्णं द्यौरिवाम्बुधरागमे ॥ ३४॥
स्रजः पद्मपलाशानामामुच्य सुविभूषिताः ।
बान्धवान् सम्परित्यज्य निपतन्ति रणप्रियाः ॥ ३५॥
महायुधधरः श्रीमाञ्छुभचर्मधरः प्रभुः ॥
सतनुत्रशिरस्त्राणो धन्वी परमदुर्जयः ॥ ३६॥
सिंहशार्दूलदर्पाणां गदतां किङ्किणीकिनाम् ।
दैत्यानां च सहस्राणि प्रयान्त्यग्रे महारणे ॥ ३७॥
सैन्यपक्षहितास्तस्य रथाः परमदुर्जयाः ।
सप्ततिर्वै सहस्राणि गजास्तावन्त एव च ॥ ३८॥
मध्ये व्यूहोदरस्थस्तु कालनेमिर्महासुरः ॥
धनुर्विस्फारयन् घोरं ननाद प्रजहास च ॥ ३९॥
तस्मिञ्छतसहस्राणि पुरो यान्ति महाद्युतेः ॥
दानवानां बलवतां शक्रप्रतिमतेजसाम् ॥ ३.५९.४०॥
स समं वर्तमानस्तु पक्षाभ्यां विस्तृतो महान् ।
अभवद् दानवव्यूहो दुर्भेद्यः सर्वदैवतैः ॥ ४१॥
षष्टी रथसहस्राणि दानवानां धनुर्भृताम् ।
नानाप्रहरणानां च परिमाणं न विद्यते ॥ ४२॥
गदापरिघनिस्त्रिशैः शूलमुद्गरपट्टिशैः ॥
प्रगृहीतैर्व्यराजन्त दानवाः पर्वतोपमाः ॥ ४३॥
गर्जन्तो निनदन्तश्च विक्रोशन्तः पुनः पुनः ॥
अयुध्यन्त महावीर्याः समरेष्वनिवर्तिनः ॥ ४४॥
तत्र तूर्यसहस्राणि भेरीशङ्खरवाणि च ।
हयानां च गजानां च गर्जतामतिवेगिनाम् ॥ ४५॥
दुन्दुभीनां च निर्घोषः पर्जन्यनिनदोपमः ।
शुश्रुवे शङ्खशब्दश्च पटहानां च निःस्वनः ॥ ४६॥
तेन शङ्खनिनादेन भेरीतूर्यरवेण च ।
निर्घोषेण रथानां च क्रोशतीव नभस्तलम् ॥ ४७॥
सागरप्रतिमौघेन बलेन महता वृतः ॥
प्रह्लादोऽयुध्यत रणे कालान्तकयमोपमः ॥ ४८॥
तस्य नादेन रौद्रेण घोरेणाप्रतिमौजसः ।
विनेदुः सर्वभूतानि त्रैलोक्यनिकृतैः स्वनैः ॥ ४९॥
अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ॥
वमन्त्यः पावकं घोरं शिवाश्चैव ववाशिरे ॥ ३.५९.५०॥
प्रह्लादस्तु महावीर्यः प्रहसन् युद्धदुर्मदः ।
उवाच वचनं श्रीमांस्तत्कालक्षममुत्तमम् ॥ ५१॥
अद्याहं दर्शयिष्यामि स्वबाहुबलमूर्जितम् ।
अद्य मद्बाणनिहतान् देवान् द्रक्ष्यथ संयुगे ॥ ५२॥
बान्धवा निहता येषां त्रिदशैरिह संयुगे ॥
अद्य निर्वर्तयिष्यन्ति शत्रुमांसानि दानवाः ॥ ५३॥
इममद्य समुद्भूतं रेणुं समरमूर्धनि ।
अहं तु शमयिष्यामि शत्रुशोणितविस्रवैः ॥ ५४॥।
तिमिरौघहतार्कं तु सैन्यरेण्वरुणीकृतम् ।
आकाशं सम्पतिष्यन्ति खद्योता इव मे शराः ॥ ५५॥
हृष्टाः सम्परिमोदध्वं देवेभ्यस्त्यज्यतां भयम् ।
अद्याहं निहनिष्यामि कालेन्द्रं धनुषा रणे ॥ ५६॥
तोषयिष्यामि राजानं बलिं बलवतां वरम् ।
त्रिदशान् सगणान् हत्वा रणे चान्तकमन्तिकात् ॥ ५७॥
अक्षयाः सन्ति मे तूणाः शराश्चाशीविषोपमाः ॥
स्थातुं मे पुरतः शक्ताः के रणे जीवितेप्सवः ॥ ५८॥
हत्वा रिपुगणांस्तुष्टिरनुरागश्च राजसु ॥
हतस्य त्रिदिवे वासो नास्ति युद्धसमा गतिः ॥ ५९॥
तद् भयं पृष्ठतः कृत्वा रणे दानवसत्तमाः ॥
निहत्येमानरीन् सर्वान् मोदध्वं नन्दने वने ॥ ३.५९.६०॥
एवमुक्त्वा महत्सैन्यं प्रह्लादो दानवोत्तमः ।
कालसैन्यं महारौद्रं तरसामर्दतासुरः ॥ ६१॥
सर्वास्त्रविद्वान् वीरश्च नित्यं चाप्यपराजितः ।
युद्धे ह्यभिमुखो नित्यं स्वबाहुबलदर्पितः ॥ ६२॥
षष्टिं रथसहस्राणि विविधायुधधारिणीम् ।
प्रह्लादस्यातिवीर्यस्य ते तस्य तनया निजाः ॥ ६३॥
तैस्तु क्रतुशतैरिष्टं विपुलैराप्तदक्षिणैः ॥
क्षान्ता धर्मपरा नित्यं सत्यव्रतपरायणाः ॥ ६४॥
दातारः प्रियवक्तारो वक्तारः शास्त्रवस्तुषु ।
स्वदारनिरता दान्ता ब्रह्मण्याः सत्यसङ्गराः ॥ ६५॥
यष्टारः क्रतुभिर्नित्यं नित्यं चाध्ययने रताः ।
इष्वस्त्रकुशलाः सर्वे बहुशो दृढविक्रमाः ॥ ६६॥
मत्तवारणविक्रान्ताः शत्रुसैन्यप्रमर्दकाः ।
दारयन्तः पदाक्षेपैः सुघोरान् वातरेचकान् ॥ ६७॥
युद्धोत्सुकधिया नित्यं क्रोधरञ्जितलोचनाः ॥
सन्दष्टौष्ठपुटा दैत्या विनेदुर्भीमविक्रमाः ।
क्ष्वेडितास्फोटितरवैरन्योन्यं समहर्षयन् ॥ ६८॥
वेणुशङ्खरवैश्चैव सिंहनादैश्च पुष्कलैः ।
आप्लुत्याप्लुत्य सहसा रणे वव्रुरनेकशः ॥ ६९॥
तालमात्राणि चापानि विकृष्य सुमहाबलाः ॥
अमृष्यमाणाः सहसा दानवाश्चापपाणयः ॥ ३.५९.७०॥
सुरासुरैरप्यजितं योधयन्ति रणेऽन्तकम् ॥
प्रतप्तहेमाभरणाः सर्वे ते श्वेतवाससः ॥ ७१॥
दानवा मानिनः सर्वे सर्वे स्वर्गाभिकाङ्क्षिणः ।
सर्वे जयैषिणो वीराः सर्वे शत्रुवधोद्यताः ॥ ७२॥
शुशुभे सा चमूर्दीप्ता पताकाध्वजमालिनी ॥
गजाश्वरथसम्बाधा स्वर्गमार्गाभिकाङ्क्षिणी ॥ ७३॥
ततः कालः सुनिर्यातो भीमो भीमपराक्रमः ।
निनदन् सुमहाकायो व्याधिभिर्बहुभिर्वृतः ॥ ७४॥।
ददर्श महतीं सेनां दानवानां बलीयसाम् ॥
अभिसञ्जातदर्पाणां कालं समभिगर्जताम् ॥ ७५॥
तदायान्तं तदानीकं दानवानां तरस्विनाम् ।
प्रतिलोमं चकाराशु व्याधिभिः सहितोऽन्तकः ॥ ७६॥
प्रविश्य ध्वजिनीं चैषां पातयामास दानवान् ।
कालो रुधिररक्ताक्षः स्वेनानीकेन संवृतः ॥ ७७॥
प्रह्लादबलमत्युग्रं प्रह्लादं च महाबलम् ।
आजघान रणे कालो दण्डमुद्गरपट्टिशैः ॥ ७८॥
शरशक्त्यृष्टिखड्गांश्च शूलानि मुसलानि च ।
गदाश्च परिघाश्चैव विचित्राश्च परश्वधाः ॥ ७९॥
धनूंषि च विचित्राणि शतघ्नीश्च स्थिरायसीः ।
पात्यन्ते व्याधिभिर्युद्धे दानवानां चमूमुखे ॥ ३.५९.८०॥
बहवो व्याधयो युद्धे बहूनसुरपुङ्गवान् ।
व्याधीनपि च दैत्यौघा निजघ्नुर्बहवो बहून् ॥ ८१॥
शूलैः प्रमथिताः केचित् केचिच्छिन्नाः परश्वधैः ।
परिघैराहताः केचित् केचिच्च परमायुधैः ॥ ८२॥
केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ॥
व्याधयो दानवैरेव नानाशस्त्रैर्विदारिताः ॥ ८३॥
ते चापि व्याधिभिः सर्वे विविधैरायुधोत्तमैः ।
खड्गैश्च मुसलैस्तीक्ष्णैः प्रासतोमरमुद्गरैः ।
भिन्नाश्च दानवाः सर्वे निकृत्ताश्च परश्वधैः ॥ ८४॥
मुद्गरैः पट्टिशैश्चैव व्याधिभिश्च महाबलैः ॥
कृत्वा शस्त्रैरनेकैश्च मुष्टिभिश्च हता भृशम् ॥ ८५॥
वेमुः शोणितमन्योन्यं विष्टब्धदशनेक्षणाः ॥
आर्तस्वरं च नदतां सिंहनादं च गर्जताम् ॥ ८६॥
बभूव तुमुलः शब्दः सङ्ग्रामे लोमहर्षणे ।
मुष्टिभिश्चोत्तमाङ्गानि तलैर्गात्राणि चासकृत् ॥ ८७॥
सादितानि महीं जग्मुस्तिष्ठतामेव संयुगे ।
अस्त्रफेना ध्वजावर्ता च्छिन्नबाहुमहोरगा ॥ ८८॥
शूलशक्तिमहामत्स्या चापग्राहसमाकुला ॥
रथेषोपलसम्बाधा ध्वजदुमलतावृता ॥ ८९॥
सशब्दघोषविस्तारा लोहितोदाभवन्नदी ।
स्वधनुःशक्रधनुषौ काञ्चनाङ्गदविद्युतौ ॥ ३.५९.९०॥
तौ दैत्यकालजलदौ शरधारां व्यमुञ्चताम् ॥
तौ महामेघसङ्काशौ रथनागगतौ तदा ॥ ९१॥
बभूवतुरभिक्रुद्धौ साम्बुगर्भाविवाम्बुदौ ।
तप्तकाञ्चनसन्नाहौ दिव्यहारविभूषितौ ॥ ९२॥
तौ विरेजतुरायस्तौ सूर्यवैश्वानरोपमौ ।
तौ महाबलसङ्काशावन्योन्यस्य चमूमुखे ॥ ९३॥ शक्राशनिसमस्पर्शैर्बाणैर्जघ्नतुराहवे ।
परस्परं समासाद्य तयोर्युधि दुरासदे ॥ ९४॥
नाशंसन्त तदा योधा जीवितान्यपि संयुगे ।
शरैर्विभिन्नसर्वाङ्गा युधि प्रक्षीणबान्धवाः ॥
निपेतुर्योधमुख्यास्तु रुधिरोक्षितवक्षसः ॥ ९५॥
पतितैर्निष्पतद्भिश्च पात्यमानैश्च संयुगे ।
बभूव भूः समाकीर्णा योधैरुद्गतजीवितैः ॥ ९६॥
सङ्गृह्णतोः शरान् घोरान्न च सन्दधतोस्तयोः ।
अन्तरं ददृशे कश्चित् प्रयत्नादपि संयुगे ॥ ९७॥
लघुत्वाच्च महाबाहू युद्धशौण्डौ महाबलौ ।
मण्डलीभूतधनुषौ सकृदेव बभूवतुः ॥ ९८॥
प्रह्लादस्य च बाणौघैर्दुद्रावान्तकवाहिनी ॥
उह्यमानं बलवता वायुनेवाभ्रमण्डलम् ॥ ९९॥
हतदर्पं तु विज्ञाय प्रह्लादः कालमाहवे ।
अपयातं च समरे द्विषन्तं सम्प्रतर्क्य तम् ॥ ३.५९.१००॥
मत्वा वशगतं चैव प्रह्लादो युद्धदुर्मदः ।
तत्रैवान्यां चमूं भूयः सम्ममर्द महासुरः ॥ १०१॥
कालप्रह्लादयोर्युद्धमभवद् यादृशं पुरा ।
तादृशं सर्वलोकेषु न भूतं न भविष्यति ॥ १०२॥
एवमद्भुतवीर्यौजा महारणकृतव्रणः ।
प्रह्लादस्त्वथ वृद्धोऽत्र कालस्त्वपसृतो रणात् ॥ १०३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने देवासुरयुद्धे कालप्रहादयुद्धे एकोनषष्टितमोध्यायः ॥ ५९॥
३.६० षष्टितमोऽध्यायः
देवासुरयुद्धे कुबेरानुह्रादयोर्युद्धम् Battle between anuhrAda and kubera
कुबेरस्य अनुह्रादेन सार्द्धं भयङ्करं युद्धं
वैशम्पायन उवाच ।
धनाध्यक्षमनुह्रादः प्रह्रादस्यानुजो बली ।
ससैन्यं योधयामास क्षोभयन् यक्षवाहिनीम् ॥ १॥
महता च बलौघेन त्वनुह्रादोऽसुरोत्तमः ।
अर्दयामास सङ्क्रुद्धो धनाध्यक्षं प्रतापवान् ॥ २॥
अमृष्यमाणस्त्रिदशानाहवस्थानुदायुधान् ।
चकार कदनं घोरं धनुष्पाणिर्महासुरः ॥ ३॥
आवर्त इव सञ्जज्ञे बलस्य महतो महान् ।
क्षुभितस्याप्रमेयस्य सागरस्येव सम्प्लवे ॥ ४॥
त्रिदशानां शरीरैस्तु दानवानां च मेदिनी ।
बभूव निचिता घोरैः पर्वतैरिव सम्प्लवे ॥ ५॥
मेरुपृष्ठं तु रक्तेन रञ्जितं सम्प्रकाशते ।
सर्वतो माधवे मासि पुष्पितैरिव किंशुकः ॥ ६॥
हतैर्वीरैर्गजैरश्वैः प्रावर्तत महानदी ।
शोणितौघा महाघोरा यमराष्ट्रविवर्धिनी ॥ ७॥
शकृन्मेदोमहापङ्का सम्प्रकीर्णान्त्रशैवला ।
छिन्नकायशिरोमीना अङ्गावयवशाद्वला ॥ ८॥
गृध्रहंससमाकीर्णा केकिसारसनादिता ।
वसाफेनसमाकीर्णा प्रोत्क्रुष्टस्तनितस्वरा ॥ ९॥
तां कापुरुषदुस्तारां युद्धभूमौ महानदीम् ।
नदीमिवातपापाये हंससङ्घोपशोभिताम् ॥ ३.६०.१०॥
त्रिदशा दानवाश्चैव तेरुस्ते दुस्तरां नदीम् ।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ ११॥
ततः सृजन्तं बाणौघाँननुह्रादं रथे स्थितम् ।
ददर्श तरसा देवो निघ्नन्तं यक्षवाहिनीम् ॥ १२॥
क्रुद्धस्ततो दैत्यबलं सूदयामास वित्तपः ।
विक्षिपन्निव खे वायुर्महाभ्रपटलं बलात् ॥ १३॥
समीक्ष्य तुमुलं युद्धमनुह्रादश्च वीर्यवान् ।
रथेनादित्यवर्णेन कुबेरमभिदुद्रुवे ॥ १४॥
स धनुर्धन्विनां श्रेष्ठो विकृष्य रणमूर्धनि ।
उत्ससर्ज शितान् बाणान्वित्तेशस्य महात्मनः ॥ १५॥
कुबेरं प्राप्य ते बाणा निर्भिद्य सुसमाहिताः ।
अपरान्पृष्ठतो जघ्नुर्व्यासक्तान्यक्षराक्षसान् ॥ १६॥
देवः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
अनुह्रादं प्रत्युदियात् सङ्क्रुद्धः परमाहवे ॥ १७॥
ततो वैश्रवणो राजा क्रुद्धो यक्षगणैः सह ।
ववर्ष शरवर्षाणि दानवं प्रति वीर्यवान् ॥ १८॥
तद्यथा शारदं वर्षं गोवृषः शीघ्रमागतम् ।
अपारयन् वारयितुं प्रतिगृह्णन् निमीलितः ॥ १९॥
एवमेव कुबेरस्य शरवर्षं महासुरः ।
निमीलिताक्षः सहसा दैत्यः सहति दारुणम् ॥ ३.६०.२०॥
रोषितः शरवर्षेण धनदेन महासुरः ।
इन्द्रकेतुप्रतीकाशमभीतोऽपश्यत द्रुमम् ॥ २१॥
प्रवृद्धशाखाविटपं तरुणाङ्कुरपल्लवम् ।
उत्पाट्य कुपितो दैत्यस्तरुं फलसमन्वितं २२॥
निजघान हयाञ्छ्रेष्ठान् कुबेरस्य महात्मनः ।
तस्य कर्म महाघोरं दृष्ट्वा सर्वे महासुराः ॥ २३॥
सिंहनादं नदन्ति स्म अनुह्रादप्रहर्षिताः ।
तयोस्तु तुमुलं युद्धं सञ्जज्ञे देवदैत्ययोः ॥ २४॥
ततस्तौ क्रोधरक्ताक्षावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यं विविधैः शस्त्रैर्घोरैर्जघ्नतुराहवे ॥ २५॥
त्रिदशा दानवान् सर्वे मथित्वा प्राणदंस्तदा ।
दानवैस्त्रिदशाश्चापि क्रुद्धैर्भुवि निपातिताः ॥ २६॥
दानवास्त्वथ सङ्क्रुद्धास्त्रिदशान् निशितैः शरैः ।
विव्यधुर्वज्रसङ्काशैः कङ्कपत्रैरजिह्मगैः ॥ २७॥
विदार्यमाणा दैत्यौघैस्त्रिदशास्तु महाबलाः ।
अमर्षिततराश्चक्रुर्युद्धकर्माण्यभीतवत् ॥ २८॥
तैर्गदाभिः सुभीमाभिः पट्टिशैः शूलमुद्गरैः ।
परिघैश्च सुतीक्ष्णाग्रैर्दानवाः पीडिताः शरैः ॥ २९॥
शरनिर्भिन्नगात्राश्च खड्गविच्छिन्नवक्षसः ।
जगृहुस्ते शिलाश्चैव द्रुमाश्चासुरसत्तमाः ॥ ३.६०.३०॥
ते भीमवेगा दितिजा नर्दमानाः पुनः पुनः ।
ममन्थुस्त्रिदशान् वीर्याच्छतशोऽथ सहस्रशः ॥ ३१॥
ततस्तु तुमुलं युद्धं तेषां समभिवर्तत ।
शिलाभिर्विपुलाभिश्च शतशश्चैव पादपैः ॥ ३२॥
परिघैः पट्टिशैर्भल्लैर्भिन्दिपालैः परश्वधैः ।
केचिन्निवृत्तशिरसः केचिच्च विदलीकृताः ॥ ३३॥
केचिद् विनिहता भूमौ रुधिरार्द्राः सुरासुराः ।
केचिद् रणाजिरान्नष्टाः परस्परवधार्दिताः ॥ ३४॥
विभिन्नहृदयाः केचिच्छिन्नपादाश्च शेरते ।
विदारितास्त्रिशूलैश्च केचित् तत्र गतासवः ॥ ३५॥
तत् सुभीमं महद्युद्धं देवदानवसङ्कुलम् ।
बभूव तुमुलं युद्धं शिलापादपसङ्कुलम् ॥ ३६॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
आर्तस्तनितघोषाढ्यं युद्धं गान्धर्वमाबभौ ॥ ३७॥
कुबेरः स धनुष्पाणिर्दानवान् रणमूर्धनि ।
दिशो विद्रावयामास सङ्क्रुद्धः शरवृष्टिभिः ॥ ३८॥
कुबेरेणार्दितं सैन्यं विद्रुतं प्रेक्ष्य दानवः ।
अम्यद्रवदनुह्रादः प्रगृह्य महतीं शिलाम् ॥ ३९॥
क्रोधाद् द्विगुणरक्ताक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास कुबेरस्य रथोत्तमे ॥ ३.६०.४०॥
आपतन्तीं शिलां दृष्ट्वा गदापाणिर्धनाधिपः ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ ४१॥
सचक्रकूबरहयं सध्वजं सशरासनम् ।
भङ्क्त्वा रथोत्तमं तस्य निपपात शिला भुवि ॥ ४२॥
विमथ्य तु कुबेरस्य प्रह्रादस्यानुजो रथम् ।
शूराणां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ ४३॥
निर्भिन्नशिरसो भग्नास्त्रिदशाः शोणितोक्षिताः ।
द्रुमप्रव्यथिताङ्गाश्च निपेतुर्धरणीतले ॥ ४४॥
विद्राव्य विपुलं सैन्यमनुह्रादो महासुरः ।
गिरिशृङ्गं गृहीत्वा तु कुबेरमभिदुद्रुवे ॥ ४५॥
तमापतन्तं धनदो गदामुद्यम्य वीर्यवान् ।
विनदित्वाऽऽह्वयामास दानवेन्द्रं महाबलम् ॥ ४६॥
तस्य दैत्यस्य सङ्क्रुद्धो गदां तां बहुकण्टकाम् ।
न्यपातयत वित्तेशो दानवस्योरसि प्रभो ॥ ४७॥
दैत्यः सक्रोधताम्राक्षस्तं प्रहारमचिन्तयन् ।
वित्तेशस्योपरि तदा गिरिशृङ्गमपातयत् ॥ ४८॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विशीर्ण इव पर्वतः ॥ ४९॥
वित्तेशं विह्वलं दृष्ट्वा सर्वे ते यक्षराक्षसाः ।
परिवार्य महात्मानं ररक्षुर्भीमविक्रमाः ॥ ३.६०.५०॥
मुहूर्तं विह्वलो भूत्वा पुनर्विश्रवसः सुतः ।
उपतस्थे च सहसा धनदः क्रोधमूर्च्छितः ॥ ५१॥
स ननाद महानादं त्रैलोक्यमभिनादयन् ।
जनयन्निव निर्घोषं विधमन्निव पर्वतान् ॥ ५२॥
तमवध्यं तु विज्ञाय निहन्तुं पुनरुत्थितम् ।
प्रेक्ष्य पिङ्गाक्षमायान्तं दानवा विप्रदुद्रुवुः ॥ ५३॥
तांस्तु विद्रवतो दृष्ट्वानुह्रादो ह्यसुरोऽब्रवीत् ।
कालनेमिं दानवं च वीर्यदर्पसमन्वितम् ॥ ५४॥
आत्मानं चैव वीर्यं च विस्मृत्याभिजनं तथा ।
क्व गच्छथ भयत्रस्ताः प्राकृता इव दानवाः ॥ ५५॥
निवर्तध्वं महावीर्याः किं प्राणान् परिरक्षथ ।
नालं युद्धाय यक्षोऽयं महतीयं विभीषिका ॥ ५६॥
एतां विभीषिकामद्य दानवानां समुत्थिताम् ।
विक्रम्य विधमिष्यामि निवर्तध्वं महासुराः ॥ ५७॥
तेऽसुराः सन्निवृत्ताश्च समदा इव कुञ्जराः ।
निजघ्नुः परमक्रुद्धा देवसैन्यं महासुराः ॥ ५८॥
क्षीणप्रहरणाः केचिन्महामेघनिभस्वनाः ।
दर्पोत्कटा भुजैरेव सम्प्रहारं प्रचक्रिरे ॥ ५९॥
प्रांशुभिश्चैव काष्ठैश्च शिलाभिश्च महाबलाः ।
बाहुभिश्च तथान्योन्यमाक्षिपन्ति स्म वेगिताः ॥ ३.६०.६०॥
मुष्टिभिश्च तलैश्चैव नखपातैर्महाबलाः ।
पादपैश्च महाशाखैरयुध्यन्त रणाजिरे ॥ ६१॥
अनुह्रादस्तु सङ्क्रुद्धो देवतानां महाचमूम् ।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ ६२॥
रुधिरार्द्रास्तु बहवः शेरते योधसत्तमाः ।
विकृताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ ६३॥
अनुह्रादस्य विक्रान्तो देवस्त्वाशीविषोपमान् ।
युध्यमानस्य समरे व्यसृजन्निशिताञ्छरान् ॥ ६४॥
धनाधिपेन विद्धस्य अनुह्रादस्य संयुगे ।
अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ ६५॥
अथ बाणसहस्रेण वित्तेशं दानवोत्तमः ।
विव्याध स शरैः क्रुद्धो दण्डपाणिरिवान्तकः ॥ ६६॥
कुबेरस्तु शरैर्भिन्नः समन्तात्क्षतजोक्षितः ।
रुधिरं परिसुस्राव गिरिः प्रस्रवणैरिव ॥ ६७॥
लब्ध्वा स तु पुनः संज्ञां रोषरक्तेक्षणः सुरः ।
गदामथ समासाद्य भीमां भीमपराक्रमः ।
चिक्षेप दैत्यमुद्दिश्य बलात्क्रोधेन मूर्छितः ॥ ६८॥
अप्राप्तामन्तरे सोऽथ तां गदां गदयासुरः ।
बभञ्ज विनदन् क्रुद्धस्तदाश्चर्यमभूत् तदा ॥ ६९॥
प्रगृह्य तु गदां भूयो ह्यभिदुद्राव दानवम् ।
तमापतन्तं दृष्ट्वैव अनुह्रादो महाबलः ॥ ३.६०.७०॥
गिरिशृङ्गमिवोत्पाट्य कैलासाचलसन्निभम् ।
धनाधिपं प्रदुद्राव व्यादितास्य इवान्तकः ॥ ७१॥
तमन्तकमिवायान्तमजेयं सकलैः सुरैः ।
ग्रसन्तमिव तं दैत्यं त्रैलोक्यमखिलं रुषा ॥ ७२॥
तमालोक्य तथा भूतं धनाध्यक्षो रणं भयात् ।
अपहाय ययौ तत्र यत्र शक्रः सुराधिपः ॥ ७३॥
तस्य चापि महत् कर्म दृष्ट्वा वित्तपतिस्तदा ।
जगाम भयसन्त्रस्तो यत्र देवः शचीपतिः ॥ ७४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे
अनुह्रादकुबेरयुद्धवर्णने षष्टितमोऽध्यायः ॥ ६०॥
३.६१ एकषष्टितमोऽध्यायः
देवासुरयुद्धे वरुणविप्रचित्तियोर्युद्धम् Viprachitti takes on varuNa
वरुणस्य विप्रचित्तेः सार्द्धं युद्धं पराजयं च
वैशम्पायन उवाच ।
विप्रचित्तिस्तु वरुणं दैत्यानामादिरव्ययम् ।
जघानेषुगणैः क्रुद्धो दीप्तैरिव महोरगैः ॥ १॥
स दह्यमानो दैत्येन दीप्तैः शरगभस्तिभिः ।
नाभ्यजानत कर्तव्यं सङ्ग्रामे स जलेश्वरः ॥ २॥
सर्वलोकेश्वरस्येव परमेष्ठी प्रजापतिः ।
न शक्नोत्यग्रतः स्थातुं विप्रचित्तेर्जलाधिपः ॥ ३॥
वज्रो नाम महाव्यूहो निर्भयः सर्वतोमुखः ।
तं व्यूह्य प्रत्ययुध्यन्त दानवा देववाहिनीम् ॥ ४॥
वह्निज्वालासमं तत्र रविमण्डलसन्निभम् ।
मुखमाभाति दैत्यस्य विप्रचित्तेर्महात्मनः ॥ ५॥
वरुणस्तु महातेजा विप्रचित्तिं महासुरम् ।
प्रदहन्निव तेजोभिर्जिगीषुः प्रत्यवैक्षत ॥ ६॥
स्रग्दाममालाभरणः केयूराङ्गदभूषणः ।
जग्राह परिघं दैत्यः कैलासशिखरोपमम् ॥ ७॥
पिनद्धं काञ्चनैः पट्टैर्हेममालिनमायसम् ।
यमदण्डोपमं घोरं दैत्यानां भयनाशनम् ॥ ८॥
भ्रामयामास सङ्क्रुद्धो महाशक्रध्वजोपमम् ।
विननाद विवृत्तास्यो विप्रचित्तिर्महासुरः ॥ ९॥
स कण्ठस्थेन निष्केण भुजस्थैरपि चाङ्गदैः ।
कुण्डलाभ्यां विचित्राभ्यां भ्राजते काञ्चनस्रजा ॥ ३.६१.१०॥
दानवो भूषणैर्भाति परिघेणायसेन च ।
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥ ११॥
प्रस्फुरन् परिघास्त्रेण वातस्कन्धान्महास्वनः ।
जज्वाल च सधूमार्चिः साङ्कर्षण इवानलः ॥ १२॥
विद्याधरगणैः सार्धं गन्धर्वनगरैरपि ।
सह चैवामरावत्या सिद्धलोकैस्तथा सह ॥ १३॥
ग्रहनक्षत्रसहितं सार्कचन्द्रविभूषितम् ।
दैत्येन्द्रपरिघोद्धूतं भ्रमतीव नभस्तलम् ॥ १४॥
दुरासदः सुसञ्जज्ञे परिघाभरणक्षमः ।
सुरेन्धनोऽसुरेन्द्राग्निर्युगान्ताग्निरिवोत्थितः ॥ १५॥
त्रिदशा वरुणश्चैव न शेकुः स्पन्दितुं भयात् ।
तत्रासीन्निर्भयस्त्वेकः कौशिको वासवः प्रभुः ॥ १६॥
भास्करप्रतिमं घोरं परिघं रौद्रदर्शनम् ।
पातयामास सेनायां जलेशस्य स दानवः ॥ १७॥
पतता तेन सङ्ग्रामे जलेशस्य महात्मनः ।
भूतानां शतसाहस्रं परिघेण समाहतम् ।
तेषां गात्राणि चासाद्य व्यशीर्यन्त सहस्रशः ॥ १८॥
विशीर्यमाणं विबभावुल्काशतमिवाम्बरे ।
भूयश्चैनं तदाऽऽभ्राम्य वरुणाय न्यपातयत् ॥ १९॥
पात्यमाने तदा तस्मिञ्छरीरे वारुणे तदा ।
स भिन्नः परिघो घोरो देवगात्रे व्यशीर्यत ॥ ३.६१.२०॥
शीर्यमाणस्य चूर्णानि खद्योता इव चाम्बरे ।
स तु तेन प्रहारेण न चचाल जलाधिपः ॥ २१॥
परिघेण हतः सङ्ख्ये यथा वज्रहतोऽचलः ।
स्वसैन्येष्वपि भग्नेषु भिन्नदेहेषु चाहवे ॥ २२॥
मुहूर्तमगमत् क्षोभमपाम्पतिरमर्षणः ।
सोऽमर्षं च समापन्नो वरुणोऽमितविक्रमः ॥ २३॥
सर्वसंहारमकरोत् स्वपक्षस्यारिमर्दनः ।
स सागरैश्चतुर्भिश्च वृतो दीप्तैश्च पन्नगैः ॥ २४॥
शङ्खमुक्तामणिचितो बिभ्रत्तोयमयं वपुः ।
पाण्डुरोद्भूतवसनो नानारत्नविभूषितः ॥ २५॥
वरुणः पाशधृक्छ्रीमान् कूर्ममीनसमाकुलः ।
वरुणस्तु तदा क्रुद्धस्तान्निरीक्ष्य स्वसैनिकान् ॥ २६॥
उवाच दृष्ट्वा युध्यध्वं दानवानां जिघांसया ।
अहमेनं हनिष्यामि भयं मुक्त्वा तु युध्यत ॥ २७॥
ततस्ते पन्नगाः सर्वे महार्णवजलाश्रयाः ।
जघ्नुर्दैत्यान् रणमुखे नदन्तो जयगृद्धिनः ॥ २८॥
ते तु नालीकनाराचैर्गदाभिर्मुसलैस्तथा ।
अभ्यघ्नन् दानवान् हृष्टा मुदिता वरुणानुगाः ॥ २९॥
विप्रचित्तिस्तु सङ्क्रुद्धो महाबलपराक्रमः ।
पन्नगानां शरीराणि व्यधमद् युद्धदुर्मदः ॥ ३.६१.३०॥
गरुडेनापि चास्त्रेण पन्नगान् दानवोत्तमः ।
समरे घातयामास गरुडैः पन्नगाशनैः ॥ ३१॥
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः ।
पन्नगान् समरे वीरः प्रममाथ सुदुर्जयान् ॥ ३२॥
समरे भिन्नगात्रास्ते पन्नगाः शरपीडिताः ।
पेतुर्मथितसर्वाङ्गा गजा इव महागजैः ॥ ३३॥
तपन्तं तमिवादित्यं दीप्तैर्बाणगभस्तिभिः ।
अभ्यधावत सङ्क्रुद्धः समरे वरुणः प्रभुः ॥ ३४॥
ततस्तु दानवास्तत्र भिन्नदेहाः सहस्रशः ।
व्यथिता विद्रवन्ति स्म दिशो दश विचेतसः ॥ ३५॥
इन्द्रस्यार्थे पराक्रम्य वरुणस्त्यक्तजीवितः ।
विनर्दमानो युयुधे समरे पाशभृद्वरः ॥ ३६॥
वरुणः पन्नगाश्चैव मुष्टिभिः समरोत्कटाः ।
अभ्यवर्तन्त समरे विप्रचित्तिं महासुरम् ॥ ३७॥
ततोऽस्त्रैश्च शिलाभिश्च प्राहरत् स बलोत्कटः ।
व्यपोहत महातेजा विप्रचित्तिर्महासुरः ॥ ३८॥
ततः पावकसङ्काशैः स मुक्तैः शीघ्रगामिभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ॥ ३९॥
कर्मणा तेन महता विप्रचित्तेर्महात्मनः ।
अग्नेराज्याहुतस्येव तेजः समभिवर्धत ॥ ३.६१.४०॥
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः ।
वारुणीं तां महासेनां निर्ममन्थ महाबलः ॥ ४१॥
क्षीणास्त्रां सायकाक्रान्तां शरजालेन मोहिताम् ।
शूलशक्त्यृष्टिभिन्नां च चकार रुधिरोक्षिताम् ॥ ४२॥
स शेरैर्वह्निसङ्काशैः सुमुक्तैर्नतपर्वभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ॥ ४३॥
अभिद्रुतोऽथ दैत्येन ससैन्यः सलिलाधिपः ।
महेन्द्रं शरणं प्राप्तो विप्रचित्तेर्भयार्दितः ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने वरुणविप्रचित्तियुद्धे एकषष्टितमोऽध्यायः ॥ ६१॥
३.६२ द्विषष्टितमोऽध्यायः
बृहस्पतिकृतोऽग्निस्तवः Brihaspati's hymn to agni
अग्निना दैत्यानां पराजयः, बृहस्पतिना अग्नेर्देवस्य स्तवनं
वैशम्पायन उवाच ।
पराजयं तु देवानां दृष्ट्वाग्निर्देवसत्तमः ।
चकार बुद्धिं दैत्यानां वधे ब्रह्मर्षिभिः स्तुतः ॥ १॥
स्वयम्प्रभायाः शाण्डिल्या यः पुत्रो हव्यवाहनः ।
हिरण्यरेताः पिङ्गाक्षो देवहूतो हुताशनः ॥ २॥
रोहितो लोहितग्रीवो हर्ता दाता हविः कविः ।
पावको विश्वभुग् देवः सर्वदेवाननः प्रभुः ॥ ३॥
सुब्रह्मात्मा सुवर्चस्कः सहस्रार्चिर्विभावसुः ।
कृष्णवर्त्मा चित्रभानुर्देवानामपि देवराट् ॥ ४॥
लोकसाक्षी द्विजहुतः सदर्चिष्मान् वषट्कृतः ।
हव्यभक्षः शमीगर्भस्वयोनिः सर्वकर्मकृत् ॥ ५॥
पावनः सर्वभूतानां त्रिदशानां तपोनिधिः ।
शमनः सर्वपापानां लेलिहानस्तपोमयः ॥ ६॥
प्रदक्षिणावर्तशिखः शुचिरोमा मखाकृतिः ।
हव्यभुग् भूतभव्येशो यज्ञभागहरो हरिः ॥ ७॥
सोमपः सुमहातेजा भूतेशः सुमहातपाः ।
अधृष्यः पावको भूतिर्भूतात्मा वै स्वधाधिपः ॥ ८॥
स्वाहापतिः सामगीतः सोमपूताशनोऽद्रिधृक् ।
देवदेवो महाक्रोधो रुद्रात्मा ब्रह्मसम्भवः ॥ ९॥
लोहिताश्वं वायुचक्रं रथमास्थाय भूतधृक् ।
धूमकेतुर्धूमशिखो नीलवासाः सुरोत्तमः ॥ ३.६२.१०॥
उद्यम्य दिव्यमाग्नेयं शस्त्रं देवो रणे महान् ।
दानवानां सहस्राणि प्रयुतान्यर्बुदानि च ॥ ११॥
ददाह भगवान् वह्निः सङ्क्रुद्धः प्रलये यथा ।
प्राणो यः सर्वभूतानां देहे तिष्ठति पञ्चधा ॥ १२॥
यन्ता यश्च हुताशस्य सखा च प्रभुरीश्वरः ।
प्रभञ्जनो यो लोकानां युगान्ते सर्वनाशनः ॥ १३॥
सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते ।
यो ह्याकाशमयो देवो दूरगः सर्वसम्भवः ॥ १४॥
यश्च कर्ता विकर्ता च गतिर्गतिमतां प्रभुः ।
वेदकर्ता समो लोके ब्रह्मणा यः सनातनः ॥ १५॥
अमूर्तिमन्तं यं प्राहुर्महाभूतं महत्तरम् ।
सोऽग्निं समीरयामास शमीगर्भं समीरणः ॥ १६॥
त्रिदिवारोहिभिर्ज्वालैर्जम्भमाणो दिशो दश ।
दानवानामभावाय युगान्ताग्निरिवोत्थितः ॥ १७॥
मेदोमज्जामहापङ्कां केशशैवलशालिनीम् ।
योधशीर्षोपलवहां मृतद्विपतटोत्कटाम् ॥ १८॥
शोणितोदां रणे दृष्ट्वा सङ्ग्रामसरितं विभुः ।
वह्निः प्रस्कन्दयामास दैत्यानां भयवर्धनः ॥ १९॥
ततोऽग्निर्दितिजान् सर्वान् प्रह्रादप्रमुखांस्तथा ।
पराजयानः स विभुः क्रोशमानो महामृधे ॥ ३.६२.२०॥
केचित् प्रदीप्तैर्मुकुटैः केचिद् दीप्तैः शिरोरुहैः ।
केचित् प्रदीप्तवसनैः केचिद् दीप्तैर्भुजाननैः ॥ २१॥
केचित् प्रदीप्तैरुरुभिः केचिच्छत्रैर्ध्वजै रथैः ।
असुरास्तत्र दृश्यन्ते प्रदीप्तेनाग्निना वृताः ॥ २२॥
त्यक्त्वाऽऽयुधानि सर्वाणि सध्वजांश्च रथोत्तमान् ।
प्रयान्ति समरे भीताः पावकेन पराजिताः ॥ २३॥
न च पश्यन्ति ते वह्निं प्रदीप्तं ध्वजिनीमुखे ।
दिशः खड्गांश्च मेघांश्च दीप्तान् पश्यन्ति दानवाः ॥ २४॥
ध्रुवः स्वयम्भुवा सृष्टो युगान्तस्तोययोनिना ।
इत्येवं दानवाः सर्वे मेनिरे त्रस्तचेतसः ॥ २५॥
मयश्च शम्बरश्चैव महामायाधरौ तदा ।
पार्जन्यवारुणी मयि सृजतां वारिविक्षरे ॥ २६॥
ताभ्यां वह्निः स मायाभ्यां सिच्यमानः समन्ततः ।
तोयौघैः पर्वतनिभैर्मृद्वर्चिरभवद् रणे ॥ २७॥
शम्यमाने तु समरे पावके दैत्यनाशिनि ।
बृहत्कीर्तिर्बृहत्तेजा वह्निमाह बृहस्पतिः ॥ २८॥
गुरुरुवाच ।
हिरण्यरेतः सुमुख ज्वलनाह्वय सर्वभुक् ।
सप्तजिह्वानन क्षाम लेलिहान महाबल ॥ २९॥
आत्मा वायुस्तव विभो शरीरं सर्ववीरुधः ।
योनिरापश्च ते प्रोक्ता योनिस्त्वमसि चाम्भसः ॥ ३.६२.३०॥
ऊर्ध्वं चाधश्च गच्छन्ति सञ्चरन्ति च पार्श्वतः ।
अर्चिषस्ते महाभाग सर्वतः प्रभवन्ति च ॥ ३१॥
त्वमेवाग्ने सर्वमसि त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ ३२॥
त्वमग्ने हव्यवाडेकस्त्वमेव परमं हविः ।
यजन्ति च सदा सन्तस्त्वामेव परमाध्वरे ॥ ३३॥
त्वमन्नं प्राणिनां भुङ्क्षे जगत्त्रातासि त्वं प्रभो ।
त्वयि प्रवृत्तो विजयस्त्वयि लोकाः प्रतिष्ठिताः ॥ ३४॥
सर्वांल्लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले त्वं पचस्येव दीप्तः ।
त्वमेवैकस्तपसे जातवेदो नान्यस्त्वत्तो विद्यते गोषु देव ॥ ३५॥
वृषाकपिः सिन्धुपतिस्त्वमग्ने महामखेष्वग्र्यहरस्त्वमेव ।
विश्वस्य भूम्नस्त्वमसि प्रसूतिस्त्वं च प्रतिष्ठा भगवन् प्रजानाम् ॥ ३६॥
सृजस्यपो रश्मिभिर्जातवेदस्तथौषधीरोषधीनां रसांश्च ।
विश्वं त्वमादाय युगान्तकाले स्रष्टा भवस्यानल सर्गकाले ॥ ३७॥
त्वमग्ने सर्वभूतानां योनिर्वेदेषु गीयसे ।
त्वया देवहितार्थाय निहता दानवा रणे ॥ ३८॥
स्वयोनिस्ते महातेजस्तोयं मखशतार्चित ।
तां स्वयोनिं समासाद्य किं विषीदसि पावक ॥ ३९॥
त्रायस्व समरे देवान् दैत्येभ्यः सुरसत्तम ।
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन ॥ ३.६२.४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनेऽग्निस्तवे द्विषष्टितमोऽध्यायः ॥ ६२॥
३.६३ त्रिषष्टितमोऽध्यायः
बलिं प्रति प्रह्रादवाक्यम् PrahrAda talks to bali
राजानं बलिं प्रति प्रह्लादस्य वचनं, बलिना देवसैन्योपरि आक्रमणं
वैशम्पायन उवाच ।
बृहस्पतेस्तु वचनं श्रुत्वा सत्यं समीरितम् ।
भूयः प्रजज्वाल रणे हविषेव महामखे ॥ १॥
हतास्तु माया दैत्यानां प्रदीप्तेनाग्निना रणे ।
हतमाया हतबला बलिं ते समुपस्थिताः ॥ २॥
पराजितेषु दैत्येषु वह्निनाद्भुतकर्मणा ।
प्रह्रादस्तूत्तरं वाक्यमाह दैत्यपतिं बलिम् ॥ ३॥
भवानग्निश्च वायुश्च भास्करः सलिलं शशी ।
नक्षत्राणि दिशो व्योम भूश्च दानवसत्तम ॥ ४॥
भविष्यं चैव भूतं च भवच्चासुरसत्तम ।
दत्तं चैतद् भागवता वरदेन स्वयम्भुवा ॥ ५॥
इन्द्रत्वं चामरत्वं च युद्धे चाप्यपराजयः ।
ईशित्वं च वशित्वं च बलं चैवामितं शुभम् ॥ ६॥
सर्वभूतेश्वरत्वं च दैत्यराज सदा तव ।
महायोगीश्वरत्वं च शूरत्वं च महामृधे ॥ ७॥
अणिमा लघिमा चैव ये चान्ये सात्त्विका गुणाः ।
तत्पराजित्य दैत्येन्द्र देवान् सर्वांश्च सानुगान् ॥ ८॥
यथोक्तं ब्रह्मणा राजंस्तत्तथा न तदन्यथा ।
तस्य तद् वचनं श्रुत्वा प्रह्रादस्य महात्मनः ।
बलिः परमसंहृष्टः प्रायाच्छक्ररथं प्रति ॥ ९॥
ततः प्रयान्तं त्रिदशेन्द्रसन्निधौ महासुरेन्द्रं बलिमुत्तमश्रियम् ।
तमञ्जसा जग्मुरभिप्रदक्षिणं द्विजाश्च पुण्याः पशवश्च सत्तमाः ॥ ३.६३.१०॥
महाजटाभारधरास्तपस्विनस्तदा तमाहुर्विधिमन्त्रमङ्गलैः ।
अभिष्टुवन्तः कवयः स्वलङ्कृतं बलिं प्रयान्तं रणमूर्धनि स्थिताः ॥ ११॥
प्रतप्तजाम्बूनदचित्रभूषणैर्दिव्यैश्च रत्नैर्विविधैरलङ्कृतः ।
विराजमानः परमेण वर्चसा रणे विभात्यग्निशिखेव दानवः ॥ १२॥
स वै तदा शत्रुबलार्दितं बलं बलिर्ददर्शोत्तमसत्त्ववीर्यवान् ।
जलागमे श्रीमदिवाभ्रमण्डलं विशीर्यमाणं नभसीव वायुना ॥ १३॥
ततो ददर्शाथ बलानि सर्वतो रणे प्रगुप्तानि हुताशनेन वै ।
समुच्छ्रितान्युग्रतराणि तत्र वै समुद्रवेगानिव पर्वसन्धिषु ॥ १४॥
सशूलशक्त्यृष्टिगदासिसायकान् क्षिपन् रिपूणां समरे महात्मनाम् ।
ननाद सिंहर्षभमत्तनागवज्जलागमे तोयदवच्च वीर्यवान् ॥ १५॥
दिव्यास्त्रधूमः सुभुजोग्रवायुर्महाबलः पौरुषविक्रमेन्धनः ।
प्रजा दिधक्षन्निव कालवह्निः सुघोररूपो विबभौ रणे बलिः ॥ १६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे त्रिषष्टितमोऽध्यायः ॥ ६३॥
३.६४ चतुःषष्टितमोऽध्यायः
बलिवासवयोर्युद्धं, वासवस्य पराजयश्च Bali defeats indra
बलेः इन्द्रेण सार्द्धं युद्धं, इन्द्रस्य रणभूमितः पलायनं
वैशम्पायन उवाच ।
बलिना तु सुराः सर्वे वर्जयित्वा सुराधिपम् ।
रणे शरशतैर्भिन्नाः ससैन्या वै पराजिताः ॥ १॥
विमुखा याति दैत्येन्द्रैर्वध्यमाना महाचमूः ।
जितास्तु बलिना देवाः शक्रमाहुर्महाबलम् ॥ २॥
देवा ऊचुः ।
भवानिन्द्रश्च धाता च लोकानां प्रभुरव्ययः ।
त्वमप्रतिमकर्मा च तथैवानुपमद्युतिः ॥ ३॥
विद्रुतानीह सैन्यानि सहास्माभिः सुरेश्वर ।
रथचक्रध्वजाक्षाणि विभिन्नानि महासुरैः ॥ ४॥
रथहस्त्यश्वयोधाश्च पदाताश्च सहस्रशः ।
भिन्नच्छिन्नाश्च शतशो गदामुशलपट्टिशैः ॥ ५॥
महाभैरवरूपं हि दैत्येन्द्रेण कृतं रणे ।
किमुपेक्षसि दैत्येन्द्रैर्हन्यमाना महाचमूम् ॥ ६॥
त्रायस्व त्रिदशश्रेष्ठ शरण्यः शरणागतान् ।
श्रुत्वा तु वचनं तेषां देवानाममराधिपः ॥ ७॥
संवर्ताग्निसमक्रुद्धः सर्वान् दहति दानवान् ।
दिवाकरकराकारं किरीटं धारयन् प्रभुः ॥ ८॥
वैदूर्यवर्णसङ्काशो नानारत्नचिताङ्गदः ।
मयूररोमा रक्ताक्षः शतबाहुः सहस्रदृक् ॥ ९॥
हरिरेको हरिश्मश्रुर्नानाकेतुर्महाबलः ।
वज्रप्रहरणः श्रीमान् योगी शतशिरोधरः ॥ ३.६४.१०॥
सधनुर्बद्धसन्नाहः शतादित्यसमप्रभः ।
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ॥ ११॥
सामगैश्च जयैश्चापि स्तूयमानो महर्षिभिः ।
शतपर्वं महारौद्रं स्फोटनं सर्वतोमुखम् ॥ १२॥
प्रगृह्य रुचिरं वज्रं दीप्तं रौद्राट्टहासनम् ।
दैत्यानयोधयत् सर्वान् महेन्द्रः पाकशासनः ॥ १३॥
अधृष्यः सर्वभूतानामदित्या दयितः सुतः ।
ततः प्रवृत्तः सङ्ग्रामो बलिवासवयोस्तदा ॥ १४॥
उभाभ्यां देवदैत्याभ्यामचिरान्महदद्भुतः ।
अतिवीर्यबलोदग्रस्तुमुलो लोमहर्षणः ॥ १५॥
प्रह्लादेन स्तुतिशतैः कर्मभिर्जयसम्मतैः ।
प्रबोधितो दैत्यपतिरग्निरिद्ध इवाबभौ ॥ १६॥
सुरासुरेन्द्रयोर्दृष्ट्वा सङ्ग्रामं लोमहर्षणम् ।
देवानां दानवानां च भूयो युद्धमभूत् तदा ॥ १७॥
ततोऽविध्यन्महेन्द्रस्तं बलिमस्त्रैर्महाबलम् ।
तान्यस्त्राणि महाबाहुश्चिच्छेद शतधा रणे ॥ १८॥
ततः क्रुद्धः पुनस्तत्र निजघ्ने दानवं महत् ।
आग्नेयमथ शत्रुघ्नं चिक्षेपेन्द्रो महाबलः ॥ १९॥
तद्दृष्ट्वा खे समागच्छत् प्रलयानलसन्निभम् ।
पातयामास तच्चैन्द्रं वारुणास्त्रेण दानवः ॥ ३.६४.२०॥
सङ्क्रुद्धो मघवा वज्रमगृह्णात् पर्वतोपमम् ।
हन्तुकामो रणश्लाघी बलिं दैत्याधिपं रणे ॥ २१॥
ततः शुश्राव देवेन्द्रः कौशिको हरिवाहनः ।
अशरीरां शुभां वाणीं तस्मिन् महति वैशसे ॥ २२॥
निवर्तस्व महाबाहो सुराणां नन्दिवर्धन ।
पुरन्दर सुरश्रेष्ठ न जेष्यसि रणे बलिम् ॥ २३॥
तपसात्युत्तमो दैत्यो वरदानेन चाधिकः ।
स्वयम्भूपरितोषाच्च सत्यधर्माच्च वासव ॥ २४॥
नैष शक्यस्त्वया जेतुं त्रिदशैर्वा सुरेश्वर ।
यो ह्यस्य जेता भगवांस्तं शृणुष्व समाहितः ॥ २५॥
ब्रह्मणः स हि सर्वस्वं देवानां चैव सा गतिः ।
परं रहस्यं धर्मस्य परस्य च परा गतिः ॥ २६॥
परात्परतरः श्रीमान् परावरगतिः प्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २७॥
शङ्खचक्रगदापाणिः पीतवासाः सुरारिहा ।
जेता जेयो जयः श्रीमान्सोऽस्य जेता भविष्यति ॥ २८॥
श्रुत्वा दिव्यां तु मधुरां वाणीं तामशरीरिणीम् ।
अपयातो रणाच्छक्रः सार्धं सर्वैः सुरोत्तमैः ॥ २९॥
अपयाते तु देवेन्द्रे कौशिके हरिवाहने ।
सिंहनादो महानासीद् दानवानां महामृधे ॥ ३.६४.३०॥
ततः किलकिलाशब्दः क्ष्वेडितास्फोटितस्वनः ।
शङ्खानां निनदश्चात्र योधानां वल्गितस्वनः ॥ ३१॥
वादित्राणां च निर्घोषस्तुमुलश्चाभवत्तदा ।
जयशब्दरवाश्चैव देवानां तु पराजये ॥ ३२॥
ससैन्यो दैत्यराजस्तु स्तूयमानः सुहृद्गणैः ।
बलीन्द्रो विबभौ दैत्यो हिरण्यकशिपुर्यथा ॥ ३३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने देवासुरसङ्ग्रामे शक्रापयाने चतुःषष्टितमोऽध्यायः ॥ ६४॥
३.६५ पञ्चषष्टितमोऽध्यायः
बलिर्विजये श्रियः स्वयमागमनकथनम् On bali's victory, Goddess shrI and others come over to bali
विजयिनं बलिनं प्रति राजलक्ष्म्यादीनां शुमागमनं
वैशम्पायन उवाच ।
निष्प्रयत्नेषु देवेषु त्रैलोक्ये दैत्यपालिते ।
जये बलेर्बलवतो मयशम्बरयोस्तथा ॥ १॥
सुधासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ।
अपावृत्ते धर्मपथे अयनस्थे दिवाकरे ॥ २॥
प्रह्रादशम्बरमयैरनुह्रादेन चैव हि ।
दिक्षु सर्वासु गुप्तासु गगने दैत्यपालिते ॥ ३॥
दैत्येषु मखशोभाश्च स्वर्गार्थं दर्शयत्सु च ।
प्रकृतिस्थे तदा लोके वर्तमाने च सत्पथे ॥ ४॥
अभावे सर्वपापानां भावे चैव तथा स्थिते ।
भावे तपसि सिद्धानां सर्वत्राश्रमरक्षिषु ॥ ५॥
चतुष्पादे स्थिते धर्मे अधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ॥ ६॥
स्वधर्मसम्प्रयुक्तेषु सर्वाश्रमनिवासिषु ।
अभिषिक्तोऽसुरैः सर्वैर्दैत्यराजो बलिस्तदा ॥ ७॥
हृष्टेष्वसुरसङ्घेषु नदत्सु मुदितेषु च ।
अथाभ्युपगता लक्ष्मीर्बलिं पद्मासने स्थिता ॥ ८॥
पद्मोद्यतकरा देवी वरदा सुरमोहिनी ।
श्रीरुवाच ।
बले बलवतां श्रेष्ठ महाराज महाद्युते ॥ ९॥
प्रीतास्मि तव भद्रं ते देवतानां पराजये ।
यस्त्वया युधि विक्रम्य देवराजः पराजितः ॥ ३.६५.१०॥
दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ।
नाश्चर्यं दानवश्रेष्ठ हिरण्यकशिपोः कुले ॥ ११॥
प्रसूतस्यासुरेन्द्रस्य तव कर्मेदमीदृशम् ।
विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ॥ १२॥
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ।
विशेषतस्तव विभो सर्वे धर्मपथे स्थिताः ॥ १३॥
तेन त्रैलोक्यमुख्येन भोक्ष्यस्यमितविक्रम ।
एवमुक्त्वा हि सा देवी लक्ष्मीर्दैत्यपतिं बलिम् ॥ १४॥
प्रविष्टा वरदा सौम्या सर्वभूतमनोरमा ।
शिष्टाश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च ॥ १५॥
प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्यादया स्मृतिः ।
कृतिर्लज्जा तथा मेधा लक्ष्मीरीहा गतिस्तथा ॥ १६॥
श्रुतिः प्रीतिरिला कीर्तिः शान्तिः पुष्टिः क्रियास्तथा ।
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः ॥ १७॥
पतिं प्राप्ताः सुदैतेयं त्रैलोक्ये सचराचरे ।
प्राप्तमैश्वर्यममितं बलिना ब्रह्मवादिना ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविण्यपर्वणि वामनप्रादुर्भावे पञ्चषष्टितमोऽध्यायः ॥ ६५॥
३.६६ षट्षष्टितमोऽध्यायः
देवगणैः सह कश्यपादित्योर्ब्रह्मसदनगमनकथनम् Together with deva-s kashyapa and aditi go to brahma
अदितेः कश्यपेन च सार्धं देवानां ब्रह्मलोकगमनं
जनमेजय उवाच ।
पराजिताः सुरा दैत्यैः किमकुर्वत वै मुने ।
कथं च त्रिदिवं लब्धं भूयो देवैर्द्विजोत्तम ॥ १॥
वैशम्पायन उवाच ।
श्रुत्वा वाणीं तु तां दिव्यां सह देवैः सुराधिपः ।
प्राग्दिशं प्रस्थितः श्रीमानदित्यालयमुत्तमम् ॥ २॥
अदितिरुवाच ।
यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।
बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ॥ ४॥
सहस्रशिरसा हन्तुं केवलं शक्यतेऽसुरः ।
तेनैकेन सहस्राक्ष न ह्यन्येन शतक्रतो ॥ ५॥
तद् वः पृच्छस्व पितरं कश्यपं सत्यवादिनम् ।
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥ ६॥
ततोऽदित्या सह सुराः सम्प्राप्ताः कश्यपान्तिकम् ।
अपश्यन् कश्यपं तत्र मुनिं दिव्यतपोनिधिम् ॥ ७॥
आद्यं देवं गुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ।
तेजसा भास्कराकारं गौरमग्निशिखाप्रभम् ॥ ८॥
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनोत्तरम् ।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसा ॥ ९॥
हुताशमिव दीप्यन्तमाज्यमन्त्रपुरस्कृतम् ।
स्वाध्यायनिरतं शान्तं वपुष्मन्तमिवानलम् ॥ ३.६६.१०॥
तं ब्रह्मवादिनां श्रेष्ठं सुरासुरगुरुं प्रभुम् ।
प्रतपन्तमिवादित्यं मारीचं दीप्ततेजसम् ॥ ११॥
यः स्रष्टा सर्वभूतानां प्रजानां पतिरुत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥ १२॥
ततः प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥ १३॥
यच्छ्रुतं युधि शक्रेण सरस्वत्या समीरितम् ।
अजेयस्त्रिदशैः सर्वैर्बलिर्दानवसत्तमः ॥ १४॥
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपस्तदा ।
चकार गमने बुद्धिं ब्रह्मलोकाय लोककृत् ॥ १५॥
कश्यप उवाच ।
गच्छाम ब्रह्मसदनं ब्रह्मघोषनिनादितम् ।
यथाश्रुतं च तत्रैव ब्रह्मणे वदतानघाः ॥ १६॥
वैशम्पायन उवाच ।
ततोऽदित्या सह सुरा यान्तं कश्यपमन्वयुः ।
प्रस्थितं ब्रह्मसदनं देवर्षिगणसेवितम् ॥ १७॥
ते मुहूर्तेन सम्प्राप्ता ब्रह्मलोकं दिवौकसः ।
दिव्यैः कामगमैर्यानैर्महार्हैः सुमनोहरैः ॥ १८॥
दिदृक्षवस्ते ब्रह्माणं तपसो राशिमव्ययम् ।
अभ्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् ॥ १९॥
षट्पदोद्गीतनिनदां सामगीतविमिश्रिताम् ।
श्रेयस्करीममित्रघ्नीं दृष्ट्वा सञ्जहृषुर्मुदा ॥ ३.६६.२०॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
ऋचो बह्वृचमुख्यैश्च शिक्षाविद्भिस्तथा द्विजैः ॥ २१॥
शब्दनिर्वचनार्थं च प्रेर्यमाणपदाक्षराः ।
शुश्रुवुस्तेऽमरव्याघ्रा विततेषु च कर्मसु ॥ २२॥
यज्ञवेदाङ्गविदुषां पदक्रमविदां तथा ।
घोषेण परमर्षीणां सा बभूव निनादिता ॥ २३॥
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।
शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः ॥ २४॥
मीमांसाहितवाक्यज्ञैः सर्ववादविशारदैः ।
हृष्टपुष्टस्वरैस्तत्र द्विजेन्द्रैर्वल्गुवादिभिः ।
नादितं ब्रह्मसदनं प्रवरं देवसद्मवत् ॥ २५॥
ते तत्र समनुप्राप्य शृण्वन्तो वै ध्वनिं सुराः ।
पूतान्यात्मशरीराणि मेनिरे तु न संशयः ॥ २६॥
तूष्णीम्भूता एकचित्ता ब्रह्मण्यागतमानसाः ।
विस्मयोत्फुल्लनयना निरीक्षन्तः परस्परम् ॥ २७॥
नमस्कुर्वन्ति च पुनर्गुरुं लोकगुरुं प्रभुम् ।
मनसैव सुरश्रेष्ठाः पुरस्कृत्य तु कश्यपम् ॥ २८॥
पुनः सम्पूज्य परमं वेदोच्चारणनिःस्वनम् ।
गम्भीरोदारमधुरं सुस्वरं हंसगद्गदम् ॥ २९॥
ऐक्यनानात्वसंयोगसमवायविशारदैः ।
लोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ॥ ३.६६.३०॥
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् ।
जपहोमपरान् मुख्यान् ददृशुः कश्यपात्मजाः ॥ ३१॥
तस्यां सभायामास्ते स्म ब्रह्मा लोकपितामहः ।
सुरासुरगुरुः श्रीमान् विधिवद् देवमायया ॥ ३२॥
उपासते च तत्रैनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः ॥ ३३॥
भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ।
मनुर्द्यौरन्तरिक्षं च वायुस्तेजो जलं मही ॥ ३४॥
शब्दस्पर्शौ च रूपं च रसौ गन्धस्तथैव च ।
प्रकृतिश्च विकाराश्च यच्चान्यत् कारणं महत् ॥ ३५॥
साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्यपदक्रमाः ।
क्रियाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च ॥ ३६॥
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ।
अर्थो धर्मश्च कामश्च द्वेषो दर्पश्च नित्यदा ॥ ३७॥
शक्रो बृहस्पतिश्चैव संवर्तो बुध एव च ।
शनैश्चरोऽथ राहुश्च ग्रहाः सर्वे ह्यशेषतः ॥ ३८॥
मरुतो विश्वकर्मा च नक्षत्राणि च भारत ।
दिवाकरश्च सोमश्च ब्रह्माणं समुपासते ॥ ३९॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।
सर्वाणि श्रुतिशास्त्राणि गाथाश्च नियमास्तथा ॥ ३.६६.४०॥
भाष्याणि सर्वशास्त्राणि देहवन्ति विशाम्पते ।
क्षणा लवा मुहूर्ताश्च दिवा रात्रिश्च भारत ॥ ४१॥
अर्धमासाश्च मासाश्च ऋतवः षट् तथैव च ।
संवत्सराश्चतुर्युगं मासा रात्रिश्चतुर्विधा ॥ ४२॥
कालचक्रं च यद् दिव्यमनित्यं ध्रुवमव्ययम् ।
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ॥ ४३॥
ते प्रविष्टाः सभां दिव्यां ब्रह्मणः सर्वकामदाम् ।
कश्यपस्त्रिदशैः सार्धं पुत्रैर्धर्मविशारदैः ॥ ४४॥
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।
ब्राह्म्या श्रिया दीप्यमानमचिन्त्यं विगतक्लमम् ॥ ४५॥
ब्रह्माणं वीक्ष्य ते सर्वे आसीनं परमासने ।
जग्मुर्मूर्ध्ना शुभौ पादौ ब्रह्मणस्ते दिवौकसः ॥ ४६॥
शिरोभिः स्पृश्य चरणौ तस्य ते परमेष्ठिनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥ ४७॥
दृष्ट्वा तु तान्सुरान्सर्वान्कश्यपेन सहागतान् ।
आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे ब्रह्मलोकगमने षट्षष्टितमोऽध्यायः ॥ ६६॥
३.६७ सप्तषष्टितमोऽध्यायः
कश्यपादीन्प्रति ब्रह्मवाक्यं, क्षीरोदस्योत्तरेतीरं कश्यपादेर्गमनं, तपश्चर्या च Kashyapa and others commence penance, on brahma's advice
ब्रह्मणः आज्ञया कश्यपेन अदित्या सह देवानां क्षीरसागरस्य उत्तरे तीरे गत्वा तपःकरणे संलग्नता ।
ब्रह्मोवाच ।
यदर्थमिह सम्प्राप्ता भवन्तः सर्व एव हि ।
विजानाम्यहमव्यग्र एतत् सर्वं महाबलाः ॥ १॥
भविष्यति च वः सोऽर्थः काङ्क्षितो यः सुरोत्तमाः ।
बलेर्दानवमुख्यस्य यो विजेता भविष्यति ॥ २॥
न खल्वसुरसङ्घानामेको जेता स विश्वकृत् ।
त्रैलोक्यस्यापि जेतासौ देवानामपि चोत्तमः ॥ ३॥
धाता चैव हि लोकानां विश्वयोनिः सनातनः ।
पूर्वं देवं सदा प्राहुर्हेमगर्भनिदर्शनम् ॥ ४॥
आत्मा देवेन विभुना कृतोऽजेयो महात्मनः ।
बलेरसुरमुख्यस्य विश्वस्य जगतस्तथा ॥ ५॥
प्रभवः स हि सर्वेषामस्माकमपि पूर्वजः ।
अचिन्त्यः स हि विश्वात्मा योगयुक्तः परन्तपः ॥ ६॥
तं देवापि महात्मानं न विदुः कोऽप्यसाविति ।
वेदात्मानं च विश्वं च स देवः पुरुषोत्तमः ॥ ७॥
तस्यैव तु प्रसादेन प्रवक्ष्येऽहं परां गतिम् ।
यत्र योगं समास्थाय तपश्चरति दुश्चरम् ॥ ८॥
क्षीरोदस्योत्तरे कूले उदीच्यां दिशि देवताः ।
अमृतं नाम परमं स्थानमाहुर्मनीषिणः ॥ ९॥
भवन्तस्तत्र वै गत्वा तपसा संशितव्रताः ।
अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ॥ ३.६७.१०॥
तत्र श्रोष्यथ विस्पष्टां स्निग्धगम्भीरनिःस्वनाम् ।
उष्णगे तोयपूर्णस्य तोयदस्य समस्वनाम् ॥ ११॥
युक्ताक्षरपदस्निग्धां रम्यामभयदां शिवाम् ।
वाणीं परमसंस्कारां वरदां ब्रह्मवादिनीम् ॥ १२॥
दिव्यां सरस्वतीं सत्यां सर्वकिल्बिषनाशिनीम् ।
सर्वदेवाधिदेवस्य भाषितां भावितात्मनः ॥ १३॥
तस्य व्रतसमाप्तौ तु यावद् व्रतविसर्जनम् ।
अमोघस्य तु देवस्य विश्वेदेवा महात्मनः ॥ १४॥
स्वागतं वः सुरश्रेष्ठा मत्सकाशे व्यवस्थिताः ।
कस्य किं वा वरं देवा ददामि वरदः स्थितः ॥ १५॥
तं कश्यपोऽदितिश्चैव वरं गृह्णीत वै ततः ।
प्रणम्य शिरसा पादौ तस्मै योगात्मने तदा ॥ १६॥
भवानेव च नः पुत्रो भवत्विति न संशयः ।
उक्तश्च परया भक्त्या तथास्त्विति स वक्ष्यति ॥ १७॥
देवा ब्रुवन्तु तं सर्वे भ्राता नस्त्वं भवेति ह ।
तथास्त्विति च स श्रीमान् वक्ष्यते सर्वलोककृत् ॥ १८॥
तस्मादेवं गृहीत्वा तु वरं त्रिदशसत्तमाः ।
कृतकृत्याः पुनः सर्वे गच्छध्वं स्वं स्वमालयम् ॥ १९॥
तथास्त्विति सुराः सर्वे कश्यपोऽदितिरेव च ।
वन्दित्वा ब्रह्मचरणौ गताः सौम्यां दिशं प्रति ॥ ३.६७.२०॥
तेऽचिरेणैव सम्प्राप्ताः क्षीरोदस्योत्तरं तटम् ।
यथोद्दिष्टं भगवता ब्रह्मणा ब्रह्मवादिना ॥ २१॥
तेऽतीत्य सागरान् सर्वान्पर्वतांश्च बहून्क्षणात् ।
नद्यश्च विविधा दिव्याः पृथिव्यां सुरसत्तमाः ॥ २२॥
पश्यन्ति च सुघोरां वै सर्वसत्त्वविवर्जिताम् ।
अभास्कराममर्यादां तमसा संवृतां दिशम् ॥ २३॥
अमृतं स्थानमासाद्य कश्यपेन सुराः सह ।
दीक्षिताः कामदं दिव्यं व्रतं वर्षसहस्रकम् ॥ २४॥
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।
नारायणाय देवाय सद्दस्राक्षाय धीमते ॥ २५॥
ब्रह्मचर्येण मौनेन स्थानवीरासनेन च ।
दमेन च सुराः सर्वे तपो दुश्चरमास्थिताः ॥ २६॥
कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः ।
उदीरयति वेदोक्तं यमाहुः परमं स्तवम् ॥ २७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भाबे सप्तषष्टितमोऽध्यायः ॥ ६७॥
३.६८ अष्टषष्टितमोऽध्यायः
कश्यपकृता परब्रह्मस्तुतिः Kashyapa's hymn to the parabrahma
कश्यपेन परमपुरुषस्य परमात्मनः स्तवनं
कश्यप उवाच ।
नमोऽस्तु देवदेवेश एकशृङ्ग वराह वृषार्चिष वृषसिन्धो
वृषाकपे सुरवृषभ सुरनिर्मित अनिर्मित भद्रकपिल विष्वक्सेन
ध्रुव धर्म धर्मराज वैकुण्ठ त्रेतावर्त अनादिमध्यनिधन
धनञ्जय शुचिश्रवः अग्निज वृष्णिज अज अजयामृतेशय सनातन
विधातस्त्रिकाम त्रिधाम त्रिककुत् ककुद्मिन् दुन्दुभे महानाभ लोकनाभ
पद्मनाभ विरिञ्चे वरिष्ठ बहुरूप विरूप विश्वरूपाक्षयाक्षर
सत्याक्षर हंसाक्षर हव्यभुक् खण्डपरशो शुक्र मुञ्जकेश
हंस महाहंस महदक्षर हृषीकेश सूक्ष्म परसूक्ष्म
तुराषाड् विश्वमूर्ते सुराग्रज नील निस्तमो विरजस्तमोरजःसत्त्वधाम
सर्वलोकप्रतिष्ठ शिपिविष्ट सुतपस्तपोऽग्र अग्र अग्रज धर्मनाभ
गभस्तिनाभ धर्मनेमे सत्यधाम सत्याक्षर गभस्तिनेमे विपाप्मन्
चन्द्ररथ त्वमेव समुद्रवासाः अजैकपात् सहस्रशीर्षं सहस्रसम्मित
महाशीर्ष सहस्रदृक् सहस्रपात् अधोमुख महामुख महापुरुष
पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्राक्ष सहस्रभुज
सहस्रभव सहस्रशस्त्वामाहुर्वेदाः ॥ १॥
विश्वेदेव विश्वसम्भव सर्वेषामेव देवानां सौभग आदौ गतिः
विश्वं त्वमाप्यायनः विश्वं त्वामाहुः पुष्पहास परमवरदस्त्वमेव
वौषट् ओङ्कार वषट्कार त्वामेकमाहुरग्र्यं मखभागप्राशिनम् ॥ २॥
शतधार सहस्रधार भूर्द भुवर्द स्वर्द भूर्भुवः स्वर्द
त्वमेव भूतं भुवनं त्वं स्वधा त्वमेव ब्रह्मसख ब्रह्ममय
ब्रह्मादिस्त्वमेव ॥ ३॥
द्यौरसि पृथिव्यसि पूषासि मातरिश्वासि धर्मोऽसि मघवासि होता
पोता नेता हन्ता मन्ता होम्यहोता परात्परस्त्वं होम्यस्त्वमेव ॥ ४॥
आपोऽसि विश्ववाग् धात्रा परमेण धाम्नः त्वमेव दिग्भ्यः स्रुक्
स्रुग्भाण्डस्त्वं गण इष्टोऽसि इज्योऽसि ईड्योऽसि त्वष्टा त्वमसि
समिद्धस्त्वमेव गतिर्गतिमतामसि मोक्षोऽसि योगोऽसि गुह्योऽसि
सिद्धोऽसि धन्योऽसि धातासि परमोऽसि यज्ञोऽसि सोमोऽसि यूपोऽसि
दक्षिणासि दीक्षासि विश्वमसि ॥ ५॥
स्थविष्ठ स्थविर विश्व तुराषाड् हिरण्यगर्भ हिरण्यनाभ
हिरण्यनारायण नारायणान्तर नृणामयन आदित्यवर्ण आदित्यतेजः
महापुरुष सुरोत्तम आदिदेव पद्मनाभ पद्मेशय पद्माक्ष पद्मगर्भ
हिरण्याग्रकेश शुक्ल विश्वदेव विश्वतोमुख विश्वाक्ष विश्वसम्भव
विश्वभुक्त्वमेव ॥ ६॥
भूरिविक्रम चक्रक्रम त्रिभुवन सुविक्रम स्वविक्रम स्वर्विक्रम
बभ्रुः सुविभुः प्रभाकरः शम्भुः स्वयम्भूश्च भूतादिर्भूतात्मन्
महाभूत विश्वभुक् त्वमेव विश्वगोप्तासि विश्वम्भर पवित्रमसि
हविर्विंशारद हविःकर्मा अमृतेन्धन सुरासुरगुरो महादिदेव नृदेव
ऊर्ध्वकर्मन् पूतात्मन् अमृतेश दिवःस्पृग् विश्वस्यपते घृताच्यसि
अनन्तकर्मन् द्रुहिणवंश स्ववंश विश्वपास्त्वं त्वमेव विश्वं
बिभषिं वरार्थिनो नस्त्रायस्वेति ॥ ७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे महापुरुषस्तवे अष्टषष्टितमोऽध्यायः ॥ ६८॥
३.६९ एकोनसप्ततितमोऽध्यायः
कश्यपादीन्प्रति महाविष्णोर्वरप्रदानकथावतारः A pleased viShNu grants kashyapa's wish
कश्यपाय अदितये देवेभ्यश्च भगवतः विष्णोः वरदानं, अदितेः गर्भात् प्राकट्यं
वैशम्पायन उवाच ।
नारायणस्तु भगवाञ्छ्रुत्वैतत् परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥ १॥
स्निग्धगम्भीरनिर्घोषजीमूतस्वननिःस्वनम् ।
मनसा प्रीतियुक्तेन विबुधानां महात्मनाम् ॥ २॥
उवाच वचनं सम्यग् हृष्टपुष्टपदाक्षरम् ।
आकाशाच्छुश्रुवे शब्दो दर्शनं नोपलभ्यते ।
श्रीमान् प्रीतमना देवः प्रोवाच प्रभुरीश्वरः ॥ ३॥
विष्णुरुवाच ।
प्रीतोऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयम् ।
वरं वृणुत भद्रं वो वरदोऽस्मि सुरोत्तमाः ॥ ४॥
कश्यप उवाच ।
यदैव भगवान् प्रीतः सर्वेषाममरोत्तमः ।
तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः ॥ ५॥
यदि प्रसन्नो भगवान् दातव्यो वा वरो यदि ।
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्यां वामनः श्रीमान् भगवानस्तु वै सुतः ॥ ६॥
वैशम्पायन उवाच ।
अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी ॥ ७॥
अदितिरुवाच ।
याचे त्वां पुत्रकामा वै भवान् पुत्रो भवत्विति ।
निःश्रेयसाय सर्वेषां देवानां हि महात्मनाम् ॥ ८॥
देवा ऊचुः ।
भ्राता भर्ता च दाता च शरणं च भवस्व नः ।
अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।
देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव ॥ ९॥
वैशम्पायन उवाच ।
ततस्तानब्रवीद् विष्णुर्देवान् कश्यपमेव च ।
एवं भवतु भद्रं वो यथेष्टं काममाप्नुत ॥ ३.६९.१०॥
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥ ११॥
हत्वासुरगणान् सर्वान् ये चान्ये देवशत्रवः ।
करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ॥ १२॥
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितॄनपि ।
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ॥ १३॥
यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः ।
देवमातुस्तथादित्याः कश्यपस्यामितात्मनः ।
यथामनीषितं कर्ता गच्छध्वं स्वं स्वमालयम् ॥ १४॥
वैशम्पायन उवाच ।
एवमुक्ते तु वचने विष्णुना प्रभविष्णुना ।
देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः ॥ १५॥
विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।
साध्या मरुद्गणाश्चैव शक्रश्चैव महाबलः ॥ १६॥
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ।
प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ॥ १७॥
गत्वा ते आश्रमं तत्र ब्रह्मर्षिगणसेवितम् ।
चेरुः स्वाध्यायनियता अदित्या गर्भमीप्सवः ॥ १८॥
अदितिर्देवमाता च गर्भे दध्रेऽतितेजसम् ।
भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम् ॥ १९॥
पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ।
सुराणां शरणं देवमसुराणां विनाशनम् ॥ ३.६९.२०॥
गर्भस्थेन तु देवेन परित्राताः सुरास्तदा ।
आददानेन तेजांसि त्रैलोक्यस्य महात्मना ॥ २१॥
तस्मिञ्जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।
भयदे दैत्यसङ्घानां सुराणां नन्दिवर्धने ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकोनसप्ततितमोऽध्यायः ॥ ६९॥
३.७० सप्ततितमोऽध्यायः
वामनप्रादुर्भावः PrAdurbhAva of vAmana
ऋषिभिः देवेभिश्च वामनाय नमस्कारं, गन्धर्वाप्सरेभ्यो नृत्यं गानं च, भगवतः वैशिष्ट्यस्य वर्णनं, भगवतः देवेभ्यः तेषां मनोरथं पृष्ट्वा बृहस्पतिना सह बलेः यागं गमनं, तत्र स्ववाक्पटुतया सर्वान् चकितं करणं, राज्ञा बलिना तस्य परिचयं आगमनस्य प्रयोजनस्य च पृच्छा ।
वैशम्पायन उवाच ।
प्रजानां पतयः सप्त सप्त चैव महर्षयः ।
तस्य देवस्य जातस्य नमस्कारं प्रचक्रिरे ॥ १॥
भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।
यश्चोदितो भास्करे सम्प्रणष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ॥ २॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षप्रजापतिश्चैव नमस्कारं प्रचक्रिरे ॥ ३॥
और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
कपीवानकपीवांश्च दत्तो निश्च्यवनस्तथा ॥ ४॥
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुताः पूर्वजाताः सुतेजसः ॥ ५॥
गार्ग्यः पृथुस्तथैवान्यो जन्यो वामन एव च ।
देवबाहुर्यदुध्रश्च पर्जन्यश्चैव सोमजः ॥ ६॥
हिरण्यरोमा वेदशिराः सप्तनेत्रस्तथैव च ।
विश्वोऽतिविश्वश्च्यवनः सुधामा विरजास्तथा ॥ ७॥
अतिनामा सहिष्णुश्च नमस्कारमकुर्वत ।
उद्दयोतमाना वपुषा सर्वाभरणभूषिताः ॥ ८॥
उपनृत्यन्ति देवेशं विष्णुमप्सरसां वराः ।
ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि ॥ ९॥
बहुभिः सह गन्धर्वैः प्रागायत च तुम्बुरुः ।
महाश्रुतिश्चित्रशिरा ऊर्णायुरनघस्तथा ॥ ३.७०.१०॥
गोमायुः सूर्यवर्चाश्च सोमवर्चाश्च सप्तमः ।
युगपस्तृणपः कार्ष्णिर्नन्दिश्च त्रिशिरास्तथा ॥ ११॥
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चदशश्चात्र तत्रैव तु महीपते ॥ १२॥
दश पञ्च त्विमे प्रोक्ता नारदश्चैव षोडशः ।
हाहा हूहूश्च गन्धर्वौ हंसश्चैव महाद्युतिः ॥ १३॥
सर्वे ते देवगन्धर्वा उपगायन्ति केशवम् ।
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः ॥ १४॥
वपुष्मन्तः सुजघनाः सर्वाङ्गशुभदर्शनाः ।
ननृतुश्च महाभागा जगुश्चायतलोचनाः ॥ १५॥
सुमध्याश्चारुमध्याश्च प्रियमुख्यो वराननाः ।
अनूकाथ तथा जामी मिश्रकेशी त्वलम्बुषा ॥ १६॥
मरीचिः शुचिका चैव विद्युत्पूर्णा तिलोत्तमा ।
अद्रिका लक्षणा चैव रम्भा तद्वन्मनोरमा ॥ १७॥
असिता च सुबाहुश्च सुप्रिया सुभगा तथा ।
उर्वशी चित्रलेखा च सुग्रीवा च सुलोचना ॥ १८॥
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ।
नन्दा शारद्वती चैव तथान्यास्तत्र सङ्घशः ॥ १९॥
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
एताश्चाप्सरसोऽन्याश्च प्रनृत्यन्ति सहस्रशः ॥ ३.७०.२०॥
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥ २१॥
कथितो विष्णुरित्येवं काश्यपेयो गणस्तथा ।
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ॥ २२॥
चक्रुस्तस्य सुरेशस्य नमस्कारं महात्मनः ।
मृगव्याधश्च सर्पश्च निरृतिश्च महाबलः ॥ २३॥
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।
दहनोऽथेश्वरश्चैव कपाली च विशाम्पते ॥ २४॥
स्थाणुर्भर्गश्च भगवान् रुद्रास्तत्रावतस्थिरे ।
प्रजानाथ! मृगव्याधः सर्प, महाबली निष्कृतिः
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ॥ २५॥
विश्वेदेवाश्च साध्याश्च तस्य प्राञ्जलयः स्थिताः ।
शेषानुजा महाभागा वासुकिप्रमुखास्तथा ॥ २६॥
कच्छपश्चापहर्ता च तक्षकश्च महाबलः ।
अधृष्टास्तेजसा युक्ता महाक्रोधा महाबलाः ॥ २७॥
एते नागा महात्मानस्तस्मै प्राञ्जलयः स्थिताः ।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ॥ २८॥
अरुणश्चारुणिश्चैव वैनतेया ह्युपस्थिताः ।
पितामहश्च भगवान् स्वयमागम्य लोककृत् ।
प्राह चैवं गुरुः श्रीमान् सह सर्वैर्महात्मभिः ॥ २९॥
ब्रह्मोवाच ।
यस्मात् प्रसूयते लोकः प्रभविष्णुः सनातनः ।
तस्माल्लोकेश्वरः श्रीमान् विष्णुरेव भवत्वयम् ॥ ३.७०.३०॥
एवमुक्त्वा तु भगवान् सार्धं देवर्षिभिः प्रभुः ।
नमस्कृत्वा सुरेशाय जगाम त्रिदिवं पुनः ॥ ३१॥
स तु जातः सुरेशानः कश्यपस्यात्मजः प्रभुः ।
नवदुर्दिनमेघाभो रक्ताक्षो वामनाकृतिः ॥ ३२॥
श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता ।
उत्फुल्ललोचनाः सर्वाः पश्यन्त्यप्सरसस्तदा ॥ ३३॥
दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद् भासा तस्य महात्मनः ॥ ३४॥
सुरर्षिप्रतिमः श्रीमान् भूर्भुवर्भूतभावनः ।
शुचिरोमा महास्कन्धः सर्वतेजोमयः प्रभुः ॥ ३५॥
या गतिः पुण्यकीर्तीनामगतिः पापकर्मणाम् ।
योगसिद्धा महात्मानो यं विदुर्योगमुत्तमं ॥ ३६॥
यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम् ।
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकाङक्षिणः ॥ ३७॥
जन्मनो मरणाच्चैव मुच्यन्ते भवभीरवः ।
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः ॥ ३८॥
सेवन्ते यं यताहारा दुश्चरं व्रतमास्थिताः ।
योऽनन्त इति नागेषु सेव्यते सर्वभोगिभिः ॥ ३९॥
सहस्रमूर्धा रक्ताक्षः शेषादिभिरनुत्तमैः ।
यो यज्ञ इति विप्रेन्द्रैरिज्यते स्वर्गलिप्सुभिः ॥ ३.७०.४०॥
नानास्थानगतः श्रीमानेकः कविरनुत्तमः ।
यं देवा यान्ति वेत्तारं यज्ञभागप्रदायिनम् ॥ ४१॥
वृषार्चिश्चन्द्रसूर्याक्षं देवमाकाशविग्रहम् ।
स प्राह त्रिदशान् सर्वान् वाचा वै परया विभुः ॥ ४२॥
जानन्नपि महातेजा गतो योगेन बालताम् ।
किं करोमि सुरश्रेष्ठाः कं वरं च ददामि वः ॥ ४३॥
यत्काङ्क्षितं वै सर्वेषां तद्वै ब्रूत मुदा युताः ।
तस्य तद् वचनं श्रुत्वा वामनस्य महात्मनः ॥ ४४॥
सर्वे ते हृष्टमनसो देवाः कश्यपनन्दनम् ।
ऊचुः प्राञ्जलयो विष्णुं सुराः शक्रपुरोगमाः ॥ ४५॥
ब्रह्मणो वरदानेन हृतं नो निखिलं जगत् ।
तपसा महता चैव विक्रमेण दमेन च ॥ ४६॥
बलिना दैत्यमुख्येन सर्वज्ञेन महात्मना ।
अवध्यः किल सोऽस्माकं सर्वेषां देवसत्तम ॥ ४७॥
भवान् प्रभवते तस्य नान्यः कश्चन सुव्रत ।
तत् प्रपद्यामहे सर्वे भवन्तं शरणार्थिनः ।
शरण्यं वरदं देवं सर्वदेवभयापहम् ॥ ४८॥
ऋषीणां च हितार्थाय लोकानां च सुरेश्वर ।
प्रियार्थं च तथादित्याः कश्यपस्य तथैव च ॥ ४९॥
कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमम् ।
प्रवर्तेत महाबाहो यथापूर्वं सुरोत्तम ॥ ३.७०.५०॥
आनृण्यार्थं सुरेशस्य वासवस्य महात्मनः ।
प्रत्यानय महेन्द्रस्य त्रैलोक्यमिदमव्ययम् ॥ ५१॥
क्रतुना वाजिमेधेन यजते स हि दानवः ।
यत् प्रत्यानयने युक्तं लोकानां तद् विचिन्तय ॥ ५२॥
वैशम्पायन उवाच ।
एवमुक्तस्तदा देवैर्विष्णुर्वामनरूपधृक् ।
प्रहर्षयन्नुवाचाथ सर्वान् देवानिदं वचः ॥ ५३॥
तस्य यज्ञसकाशं मां महर्षिर्वेदपारगः ।
बृहस्पतिर्महातेजा नयत्वङ्गिरसः सुतः ॥ ५४॥
तस्याहं समनुप्राप्तो यज्ञवाटं सुरोत्तमाः ।
विचरिष्ये यथायुक्तं त्रैलोक्यहरणाय वै ॥ ५५॥
वैशम्पायन उवाच ।
ततो बृहस्पतिर्धीमाननयद् वामनं प्रभुम् ।
यज्ञवाटं महातेजा दानवेन्द्रस्य धीमतः ॥ ५६॥
मौञ्जी यज्ञोपवीती च छत्री दण्डी ध्वजी तथा ।
वामनो धूम्ररक्ताक्षो भगवान् बालरूपधृक् ॥ ५७॥
तं गत्वा यत्रवाटं च ब्रह्मर्षिगणसङ्कुलम् ।
आत्मना चैव भगवान् वर्णयामास तं क्रतुम् ॥ ५८॥
लोकेश्वरेश्वरः श्रीमान् सुरैर्व्रह्मपुरोगमैः ।
अध्यास्यमानो भगवानवृद्धोऽप्यथ वृद्धवत् ॥ ५९॥
दानवाधिपतेस्तस्य बलेर्वैरोचनस्य च ।
यज्ञवाटमचिन्त्यात्मा जगाम सुरसत्तमः ॥ ३.७०.६०॥
पालितोऽपि हि दैतेयः साङ्ग्रामिकपरिच्छदैः ।
द्वारे दानवसम्बाधे सहसैव विवेश ह ॥ ६१॥
ऋषिभिश्चैव मन्त्राद्यैः सर्वतः परिवारितम् ।
दैत्यदानवराजेन्द्रमुपतस्थे बलिं बली ॥ ६२॥
वर्णयित्वा यथान्यायं यज्ञं यज्ञः सनातनः ।
विस्तरेण नरश्रेष्ठ प्रयोगैर्विविधैस्तथा ॥ ६३॥
शुक्रादीनृत्विजश्चापि यज्ञकर्मविचक्षणान् ।
सर्वानेव निजग्राह चकार च निरुत्तरान् ॥ ६४॥
आरादथ बलेस्तस्य ऋत्विजामभितस्तथा ।
यज्ञमात्मानमेवासौ हेतुभिः कारणं विभुः ॥ ६५॥
वैदिकैरप्रकाशैश्च पुनरप्यथ भारत ।
प्रत्यक्षमृषिसङ्घानां वर्णयामास चित्रगुः ॥ ६६॥
ततो निरुत्तरान् दृष्ट्वा सोपाध्यायानृषींश्च तान् ।
अवृद्धेनापि वृद्धांस्तान् वामनेन महौजसा ॥ ६७॥
अद्भुतं चापि मेने स विरोचनसुतो बली ।
मूर्ध्ना कृताञ्जलिश्चेदमब्रवीद् विस्मितो वचः ॥ ६८॥
कुतस्त्वं कोऽसि कस्यासि किं तेहास्ति प्रयोजनम् ।
नैवंविधः परिज्ञातो दृष्टपूर्वो मया द्विजः ॥ ६९॥
बालो मतिमतां श्रेष्ठो ज्ञानविज्ञानकोविदः ।
शिष्टवाग्रूपसम्पन्नो मनोज्ञः प्रियदर्शनः ॥ ३.७०.७०॥
नेदृशाः सन्ति देवानामृषीणामपि सूनवः ।
न नागानां न यक्षाणां नासुराणां न रक्षसाम् ॥ ७१॥
न पितॄणां न सिद्धानां गन्धर्वाणां तथैव च ।
योऽसि सोऽसि नमस्तेऽस्तु ब्रूहि किं करवाणि ते ॥
वैशम्पायन उवाच ।
उक्त एवं ह्यचिन्त्यात्मा बलिना वामनस्तदा ।
प्रोवाचोपायतत्त्वज्ञः स्मितपूर्वमिदं वचः ॥ ७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्राद्रुर्भावे सप्ततितमोऽध्यायः ॥ ७०॥
३.७१ एकसप्ततितमोऽध्यायः
वामनस्य बलियज्ञे गमनम्, त्रिपादभूमिलाभः, त्रिविक्रममूर्तिधारणं च VAmana transforms to trivikrama
वामनेन बलेः यागस्य प्रशंसा, बलिना आदानाय प्रेरितः सन् वामनेन तं त्रिपाद्भूमेः याचना, शुक्राचार्येण प्रह्लादेन च बलेः दानाय वर्जनं, बलिना दानस्य समर्थनं, दानं गृहीतेनैव वामनेन स्वविराड्रूपस्य प्राकट्यं
विष्णुरुवाच ।
अहो यज्ञोऽसुरेशस्य बहुभक्षः सुसंस्कृतः ॥
पितामहस्येव पुरा यजतः परमेष्ठिनः ॥ १॥
सुरेशस्य च शक्रस्य यमस्य वरुणस्य च ॥
विशेषितस्त्वया यज्ञो दानवेन्द्र महाबल ॥ २॥
यजता वाजिमेधेन क्रतूनां प्रवरेण तु ॥
सर्वपापविनाशाय त्वया स्वर्गप्रदर्शिऽना ॥ ३॥
सर्वकाममयो ह्येष सम्मतो ब्रह्मवादिनाम् ॥
क्रतूनां प्रवरः श्रीमानश्वमेध इति श्रुतिः ॥ ४॥
सुवर्णशृङ्गो हि महानुभावो लोहक्षुरो वायुजवो महारयः ॥
स्वर्गेक्षणः काञ्चनगर्भगौरः स विश्वयोनिः परमो हि मेध्यः ॥ ५॥
आस्थाय वै वाजि- नमश्वमेधमिष्ट्वा नरा दुष्कृतमुत्तरन्ति ॥
आहुश्च यं वेदविदो द्विजेन्द्रा वैश्वानरं वाजिनमश्वमेधम् ॥ ६॥
यथाश्रमाणां प्रवरो गृहा- श्रमो यथा नराणां प्रवरा द्विजातयः ॥
यथाऽसुराणां प्रवरो भवानिह तथा क्रतूनां प्रवरोऽश्वमेधः ॥ ७॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा तु वचनं वामनेन समीरितम् ॥
मुदा परमया युक्तः प्राह दैत्यपतिर्बलिः ॥ ८॥
बलिरुवाच ।
कस्यासि ब्राह्मणश्रेष्ठ किमिच्छसि ददामि ते ॥
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ९॥
वामन उवाच ।
न राज्यं न च यानानि न रत्नानि न च स्त्रियः ॥
कामये यदि तुष्टोऽसि धर्मे च यदि ते मतिः ॥ १०॥
गुर्वर्थं मे प्रयच्छस्व पदानि त्रीणि दानव ॥
त्वमग्निशरणार्थाय एष मे प्रवरो वरः ॥
वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर्बलिः ॥ ११॥
बलिरुवाच ।
त्रिभिः किं तवं विप्रेन्द्र पदैः प्रवदतां वर ॥
शतं शतसहस्राणां पदानां मार्गतां भवान् ॥ १२॥
शुक्र उवाच ।
मा ददस्व महाबाहो न त्वं वेत्सि महासुर ॥
एष मायाप्रतिच्छन्नो भगवान्प्रवरो हरिः ॥ १३॥
वामनं रूपमास्थाय शक्रप्रियहितेप्सया ॥
त्वां वञ्चयितुमायातो बहुरूपधरो विभुः ॥ १४॥
एवमुक्तः स शुक्रेण चिरं सञ्चिन्त्य वै बलिः ॥
प्रहर्षेण समायुक्तः किमतः पात्रमिष्यते ॥ १५॥
प्रगृह्य हस्ते सम्भ्रान्तो भृङ्गारं कनकोद्भवम् ॥
बलिरुवाच ।
विप्रेन्द्र प्राङ्मुखस्तिष्ठ स्थितोऽस्मि कमलेक्षण ॥ १६॥
प्रतीच्छ देहि किं भूमिं का (किं)मात्रा भोः पदत्रयम् ॥
दत्तं च पातय जलं नैव मिथ्या भवेद्गुरुः ॥ १७॥
शुक्र उवाच ।
भो न देयं कुतो दैत्य विज्ञातोऽयं मया ध्रुवम् ॥
कोऽयं विष्णुरहो प्रीतिर्वञ्चितस्त्वं न वञ्चितः ॥ १८॥
बलिरुवाच ।
कथं स नाथोऽयं विष्णुर्यज्ञे स्वयमुपस्थितः ॥
दास्यामि देवदेवाय यद्यदिच्छत्ययं विभुः ॥ १९॥
को वान्यः पात्रभूतोऽस्माद्विष्णोः परतरो भवेत् ॥
एवमुक्त्वा बलिः शीघ्रं पातयामास वै जलम् ॥ २०॥
वामन उवाच ।
पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ ॥
यन्मया पूर्वमुक्तं हि तत्तथा न तदन्यथा ॥ २१॥
वैशम्पायन उवाच ॥
इत्येतद्वचनं श्रुत्वा वामनस्य महौजसः ॥
कृष्णाजिनोत्तरीयं स कृत्वा वैरोच- निस्तदा ॥ २२॥
एवमस्त्विति दैत्येशो वाक्यमुक्त्वारिसूदनः ॥
ततो वारिसमापूर्णं भृङ्गारं स परामृशत् ॥ २३॥
वामनो ह्यसु रेन्द्रस्य चिकीर्षुः कदनं महत् ॥
क्षिप्रं प्रसारयामास दैत्यक्षयकरं करम् ॥ २४॥
प्राङ्मुखश्चापि देत्येशस्तस्मै सुमनसा जलम् ॥
दातुकामः करे यावत्तावत्तं प्रत्यषेधयत् ॥ २५॥
तस्य तद्रूपमालोक्य ह्यचिन्त्यं च महात्मनः ॥
अभूतपूर्वं च हरेर्जिहीर्षोः श्रियमासुरीम् ॥ २६॥
इङ्गितज्ञोऽग्रतः स्थित्वा प्रह्रादस्त्वब्रवीद्वचः ॥
प्रह्लाद उवाच ।
मा ददस्व जलं हस्ते बटोर्वामनरूपिणः ॥ २७॥
स त्वसौ येन ते पूर्वं निहतः प्रपितामहः ॥
विष्णुरेष महाप्राज्ञस्त्वां वञ्चयितुमा- गतः ॥ २८॥
बलिरुवाच ।
हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम् ॥
अनुग्रहकरं देवमीदृशं जगतः प्रभुम् ॥ २९॥
ब्रह्मणोऽपि गरीयांसं पात्रं लप्स्यामहे वयम् ॥
अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै ॥ ३०॥
इत्युक्त्वासुरसङ्घानां मध्ये वैरोचनिस्तदा ॥
देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे ॥ ३१॥
प्रह्लाद उवाच ।
दानवेश्वर मा दास्त्वं विप्रायास्मै प्रतिग्रहम् ॥
नेमं विप्रशिशुं मन्ये नेदृशो भवति द्विजः ॥ ३२॥
रूपेणानेन दैत्येन्द्र सत्यमेवं ब्रवीमि ते ॥
नारसिंहमहं मन्ये तमेवं पुनरागतम् ॥ ३३॥
एवमुक्तस्तदा तेन प्रह्लादेनामितौजसा ॥
प्रह्रादमब्रवीद्वाक्यमिदं निर्भर्त्सयन्निव ॥ ३४॥
बलिरुवाच ।
देहीति याचते यो हि प्रत्या- ख्याति च योऽसुर ॥
उभयोरप्यलक्ष्म्या वे भागस्तं विशते नरम् ॥ ३५॥
प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम् ॥
स याति नरकं पापी मित्रगोत्रसमन्वितः ॥ ३६॥
अलक्ष्मीभयभीतोऽहं ददाम्यस्मै वसुन्धराम् ॥
प्रतिग्रहीता चाप्यन्यः कश्चिदस्माद्द्विजोऽथ वै ॥ ३७॥
नाधिको विद्यते यस्मात्तद्ददामि वसुन्धराम् ॥
हृदयस्य च मे तुष्टिः परा भवति दानव ॥ ३८॥
दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम् ॥
एष तस्मात्प्रदास्यामि न स्थास्यामि निवारितः ॥ ३९॥
भूयश्च प्राब्रवीदेव वामनं विप्ररूपिणम् ॥
स्वल्पे स्वल्पमते किं ते पदैस्त्रिभिरनुत्तमम् ॥ ४०॥
कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर्वृताम् ॥
वामन उवाच ।
न पृथ्वीं कामये कृत्स्नां सन्तुष्टोऽस्मि पदैस्त्रिभिः ॥
एष एव रुचिष्यो मे वरो दानवसत्तम ॥ ४१॥
वैशम्पायन उवाच ।
तथास्त्विति बलिः प्रोच्य स्पर्शयामास दानवः ॥
पदानि त्रीणि देवाय विष्णवेऽमिततेजसे ॥ ४२॥
तोये तु पतिते हस्ते वामनोऽभूदवामनः ॥
सर्वदेवमयं रूपं दर्शयामास वै विभुः ॥ ४३॥
भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी ॥
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥ ४४॥
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ॥
यक्षा नखेषु सम्भूता लेखाश्चाप्सरसस्तथा ॥ ४५॥
तडिद्वृष्टिः सुविपुला केशाः सूर्यांशवस्तथा ॥
तारका रोमकूपाणि रोमाणि च महर्षयः ॥ ४६॥
बाहवो विदिशश्चास्य दिशः श्रोत्रे तथैव च ॥
अश्विनौ श्रवणौ चास्य नासा वायुर्महाबलः ॥ ४७॥
प्रसादश्चन्द्रमाश्चैव मनो धर्मस्तथैव च ॥
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥ ४८॥
ग्रीवादितिर्महादेवी तालुः सूर्यश्च दीप्तिमान् ॥
द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा च वै भ्रुवौ ॥ ४९॥
मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ॥
हदयं भगवान्ब्रह्मा पुंस्त्वं वै विश्वतोमुनिः ॥ ५०॥
पृष्ठेऽस्य वसवो देवा मरुतः पादसन्धिषु ॥
सर्वच्छन्दासि दशना ज्योतींषि विमलाः प्रभाः ॥ ५१॥
ऊरू रुद्रो महादेवो धैर्यं चास्य महार्णवः ॥
उदरे चास्य गन्धर्वा भुजगाश्च महाबलाः ॥ ५२॥
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्या च वै कटिः ॥
ललाटमस्य परमं स्थानं च परमात्मनः ॥ ५३॥
सर्वज्योतींषि यानीह तपः शक्रस्तु देवराट् ॥
तस्य देवाधिदेवस्य तेजो ह्याहुर्महात्मनः ॥ ५४॥
स्तनौ कक्षौ च वेदाश्च ओष्ठौ चास्य मखाः स्थिताः ॥
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥ ५५॥
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महासुराः ॥
अभ्यसर्पन्त सङ्कुद्धाः पतङ्गा इव पावकम् ॥ ५६॥
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकसप्ततितमोऽ- ध्यायः ॥ ७१॥
३.७२ द्विसप्ततितमोऽध्यायः
विष्णोरादेशात् बलेः पातालप्रवेशः, तत्कृत विष्णुस्तवः, बलिं प्रति गरुडस्य उक्तिप्रयुक्ति, वामनस्तवफलकथनं च Following viShNu's instruction, bali enters pAtAla, hymn to viShNu by bali (mokSaviMshaka) etc.
विराड्रूपधारिणः वामनोपरि आक्रमणकारिणां दैत्यानां नामानि, रूपाणां आयुधानां च परिचयं, भगवता त्रयाणां लोकानां मापयित्वा राज्यस्य विभाजनं, बलिं पातालस्य राज्यं दत्त्वा मर्यादां बन्धयित्वा तेषां तत्र प्रेषणम्, जीविकायाः व्यवस्थाकरणं, नारदेन बलिं मोक्षविंशकसंज्ञकस्य स्तोत्रस्य उपदेशकरणं, तस्य प्रभावेण बलेः बन्धनमुक्तिः, स्तोत्रस्य महिमा
वैशम्पायन उवाच ।
शृणु नामानि सर्वेषां रूपाण्यभिजनानि च ।
आयुधानि च मुख्यानि दानवानां महात्मनाम् ॥ १॥
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥ २॥
वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च ॥ ३॥
प्रहादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वाराहः संहरो रुजः ॥ ४॥
वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।
निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः ॥ ५॥
एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः ।
शरभः शलभश्चैव कुणपः कुलपः क्रथः ॥ ६॥
बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः ।
दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः ॥ ७॥
वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ॥ ८॥
कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः ।
गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः ॥ ९॥
चन्द्रतापनवातापी केतुमान् बलदर्पितः ।
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ॥ ३.७२.१०॥
शृगालवदनश्चैव करालः केशिरेव च ।
एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः ॥ ११॥
एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।
उपतस्थुर्महात्मानं विष्णुं दैत्यगणास्तदा ॥ १२॥
प्रासोद्यतकराः केचिद् व्यादितास्याः खरस्वनाः ।
शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे ॥ १३॥
खड्गपट्टिशहस्ताश्च परश्वधधराः परे ।
प्रासमुद्गरहस्ताश्च तथा परिघपाणयः ॥ १४॥
महाशनिव्यग्रकरा मौशलास्तु महाबलाः ।
महावृक्षोद्यतकरास्तथैव च धनुर्धराः ॥ १५॥
गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे ।
महापट्टिशहस्ताश्च तथा परिघपाणयः ॥ १६॥
असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः ।
नानाप्रहरणा घोरा नानावेषा महाबलाः ॥ १७॥
कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे ।
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥ १८॥
भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा ।
मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ॥ १९॥
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।
अश्ववक्त्रा वभ्रुवक्त्रा घोरा मृगमुखास्तथा ॥ ३.७२.२०॥
उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।
नकुलस्येव वक्त्राश्च पारावतमुखास्तथा ॥ २१॥
चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे ।
तथा मृगाननाः शूरा गोऽजादिमहिषाननाः ॥ २२॥
कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे ।
ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे ॥ २३॥
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतगात्राश्च तथा फलकवाससः ॥ २४॥
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ॥ २५॥
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।
स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ॥ २६॥
क्रममाणं हृषीकेशमुपातिष्ठन्त दानवाः ।
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ॥ २७॥
रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ।
त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसम्भवा ॥ २८॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ॥ २९॥
परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ।
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥ ३.७२.३०॥
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।
ददौ शक्राय वसुधां हरिर्लोकनमस्कृतः ॥ ३१॥
सुतलं नाम पातालमधस्ताद् वसुधातले ।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ॥ ३२॥
तदवाप्यासुरश्रेष्ठश्चकार मतिमुत्तमाम् ।
रसातलतले वासमकरोदसुराधिपः ॥ ३३॥
तत्रस्थश्च महातेजा ध्यानं परममास्थितः ।
उवाच वचनं धीमान् विष्णुं लोकनमस्कृतम् ॥ ३४॥
किं मया देव कर्तव्यं ब्रूहि सर्वमशेषतः ।
ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः ॥ ३५॥
विष्णुरुवाच ।
ददामि ते महाभाग परितुष्टोऽस्मि तेऽसुर ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ३६॥
मा च शुक्रस्य वचनं प्रतिहासीः कथञ्चन ।
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ॥ ३७॥
अथ दैत्याधिपं प्राह विष्णुर्देवाधिपानुजः ।
वाचा परमया देवो वरेण्यः प्रभुरीश्वरः ॥ ३८॥
यत् त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
तस्मात् ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित् ॥ ३९॥
सुतलं नाम पातालं तत्र त्वं सानुगो वस ।
सर्वदैत्यगणैः सार्धं मत्प्रसादान्महासुर ॥ ३.७२.४०॥
न च ते देवदेवस्य शक्रस्यामिततेजसः ।
शासनं प्रतिहन्तव्यं स्मरता शासनं मम ॥ ४१॥
देवताश्चापि ते सर्वाः पूज्या एव महासुर ।
भोगांश्च विविधान् सम्यग्यज्ञांश्च सहदक्षिणान् ॥ ४२॥
प्राप्स्यसे च महाभाग दिव्यान्कामान्यथेप्सितान् ।
इह चामुत्र चाक्षय्यान्विविधांश्च परिच्छदान् ॥ ४३॥
दैत्याधिपत्यं च सदा मत्प्रसादादवाप्स्यसि ।
यदा च तां मया प्रोक्तां मर्यादां चालयिष्यसि ॥ ४४॥
वधिष्यन्ति तदा हि त्वां नागपाशैर्महाबलाः ।
नमस्कार्याश्च ते नित्यं महेन्द्राद्या दिवौकसः ॥ ४५॥
मम ज्येष्ठः सुरश्रेष्ठः शासनं प्रतिगृह्यताम् ।
बलिरुवाच ।
देवदेव महाभाग शङ्खचक्रगदाधर ॥ ४६॥
सुरासुरगुरो श्रेष्ठ सर्वलोकमहेश्वर ।
तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम ॥ ४७॥
ममान्नमशनं देव प्राशनार्थमरिन्दम ।
तद् वदस्व सुरश्रेष्ठ तृप्तिर्येन ममाक्षया ॥ ४८॥
श्रीभगवानुवाच ।
अश्रोत्रियं श्राद्धमधीतमव्रतमदक्षिणं यज्ञमनर्त्विजा हुतम् ।
अश्रद्धया दत्तमसंस्कृतं हविरेते प्रदत्तास्तव दैत्य भागाः ॥ ४९॥
पुण्यं मद्द्वेषिणां यच्च मद्भक्तद्वेषिणां तथा ।
क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम् ॥ ३.७२.५०॥
अश्रद्धया च यद् दानं ददतां यजतां तथा ।
तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद् भविष्यति ॥ ५१॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा तु वचनं बलिर्विष्णोर्महात्मनः ।
एवमस्त्विति तं प्रोक्त्वा पातालमसुरोत्तमः ।
प्रविवेश महानादो देवाज्ञां प्रतिपालयन् ॥ ५२॥
एतस्मिन्नन्तरे चापि विष्णुस्त्रिदशपूजितः ।
भगवानपि राज्यानां प्रविभागांश्चकार ह ॥ ५३॥
ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे ।
याम्यां यमाय देवाय पितृराज्ञे महात्मने ॥ ५४॥
पश्चिमां तु दिशं प्रादाद् वरुणाय महात्मने ।
उत्तरां च कुबेराय यक्षाधिपतये दिशम् ॥ ५५॥
अधःस्थां नागराजाय सोमायोर्ध्वां दिशं ददौ ।
एवं विभज्य त्रैलोक्यं विष्णुर्बलवतां वरः ॥ ५६॥
जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः ।
वामनः सर्वभूतेशः प्रतिष्ठाप्य च वासवम् ॥ ५७॥
तस्मिन् प्रयाते दुर्धर्षे वामनेऽमिततेजसि ।
सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम् ॥ ५८॥
वैशम्पायन उवाच ।
गते तु त्रिदिवं कृष्णे बद्ध्वा वैरोचनिं बलिम् ।
नागैः सप्तशिरोभिश्च कम्बलाश्वतरादिभिः ॥ ५९॥
नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः ।
यदृच्छयासौ देवर्षिर्नारदः प्रत्यपद्यत ॥ ३.७२.६०॥
स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ॥ ६१॥
स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः ।
अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च ॥ ६२॥
तमधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना ।
तद्गतस्तन्मना भूत्वा द्रुतं मोक्षमवाप्स्यसि ॥ ६३॥
ततो विरोचनसुतः प्रयतः प्राञ्जलिः शुचिः ।
मोक्षविंशकमव्यग्रो नारदात् समधीतवान् ॥ ६४॥
तमधीत्य स्तवं दिव्यं नारदेन समीरितम् ।
पृथिवी चोद्धृता येन तं जजाप महासुरः ॥ ६५॥
ओन्नमोऽस्त्वनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनाभाय विष्णवे ॥ ६६॥
सप्तसूर्यवपुः कृत्वा त्रींल्लोकान् क्रान्तवानसि ।
भगवन् कालकालस्त्वं तेन सत्येन मोक्षय ॥ ६७॥
नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये ।
पुनश्चिन्तयसे लोकांस्तेन सत्येन मोक्षय ॥ ६८॥
ब्रह्मरुद्रेन्द्रवाय्वग्निसरिद्भुजगपर्वताः ।
त्वत्स्था दृष्टा द्विजेन्द्रेण तेन सत्येन मोक्षय ॥ ६५॥
मार्कण्डेन पुरा कल्पे प्रविश्य जठरं तव ।
चराचरगतं दृष्टं तेन सत्येन मोक्षय ॥ ३.७२.७०॥
एको विद्यासहायस्त्वं योगी योगमुपागतः ।
पुनस्त्रैलोक्यमुत्सृज्य तेन सत्येन मोक्षय ॥ ७१॥
जलशय्यामुपासीनो योगनिद्रामुपागतः ।
लोकांश्चिन्तयसे भूयस्तेन सत्येन मोक्षय ॥ ७२॥
वाराहं रूपमास्थाय वेदयज्ञपुरस्कृतम् ।
धरा जलोद्धृता येन तेन सत्येन मोक्षय ॥ ७३॥
उद्धृत्य दंष्ट्रया यज्ञांस्त्रीन्पिण्डान्कृतवानसि ।
त्वं पितॄणामपि हरे तेन सत्येन मोक्षय ॥ ७४॥
प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ॥ ७५॥
दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे ।
शिरो जहार चक्रेण तेन सत्येन मोक्षय ॥ ७६॥
भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा ।
हुङ्कारेण हतो दैत्यस्तेन सत्येन मोक्षय ॥ ७७॥
दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ॥ ७८॥
कृत्वा हयशिरोरूपं हत्वा तु मधुकैटभौ ।
ब्रह्मणे तेऽर्पिता वेदास्तेन सत्येन मोक्षय ॥ ७९॥
देवदानवगन्धर्वा यक्षसिद्धमहोरगाः ।
अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय ॥ ३.७२.८०॥
अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षय ॥ ८१॥
वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च ।
रहस्यं तव देवस्य तेन सत्येन मोक्षय ॥ ८२॥
ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः ।
त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय ॥ ८३॥
ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् ।
भक्तं मोक्षितवांस्त्वं हि तेन सत्येन मोक्षय ॥ ८४॥
अक्षयश्चाव्ययश्च त्वं ब्रह्मण्यो भक्तवत्सलः ।
उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय ॥ ८५॥
शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडमेव च ।
प्रसादयामि शिरसा ते बन्धान्मोक्षयन्तु माम् ॥ ८६॥
शङ्खं चक्रं गदा पद्मं शार्ङ्गं च गरुडादयः ।
हरिं प्रसादयामासुर्बलिं मोक्षय बन्धनात् ॥ ८७॥
ततः प्रसन्नो भगवानादिदेश खगेश्वरम् ।
गरुडं नागहन्तारं बलिं मोक्षय बन्धनात् ॥ ८८॥
ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः ।
जगाम वसुधामूलं यत्रास्ते संयतो बलिः ॥ ८९॥
आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् ।
ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः ॥ ३.७२.९०॥
मुक्तं कृष्णप्रसादेन चिन्तयानमधोमुखम् ।
भ्रष्टश्रियमुवाचेदं गरुत्मान् पन्नगाशनः ॥ ९१॥
गरुड उवाच ।
दानवेन्द्र महाबाहो विष्णुस्त्वामब्रवीत् प्रभुः ।
मुक्तो निवस पाताले सपुत्रजनबान्धवः ॥ ९२॥
इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव ।
समयं यदि भिन्द्यास्त्वं मूर्धा ते शतधा भवेत् ॥ ९३॥
पक्षेन्द्रवचनं श्रुत्वा दानवेन्द्रो ब्रवीदिदम् ।
स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ॥ ९४॥
जीव्योपायं तु भगवान्मम किञ्चित्करोतु सः ।
इहस्थोऽहं सुखासीनो येनाप्याये खगेश्वर ॥ ९५॥
बलेस्तु वचनं श्रुत्वा गरुत्मानिदमब्रवीत् ।
पूर्वमेव कृतस्तेन जीव्योपायो महात्मना ॥ ९६॥
वर्तयिष्यन्ति ये यज्ञान् विधिहीनामऋत्विजः ।
प्रायश्चित्तमजानन्तो यज्ञभागस्ततस्तव ॥ ९७॥
न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः ।
अनेनाप्यायितबलः सुखमात्रं निवत्स्यसि ॥ ९८॥
सन्देशमेतं भगवान् दत्तवान् कश्यपात्मजः ।
दानवेन्द्र महाबाहो विष्णुस्त्रैलोक्यभावनः ॥ ९९॥
वैशम्पायन उवाच ।
इमं स्तवमनन्तस्य सर्वपापप्रमोचनम् ।
यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम् ॥ ३.७२.१००॥
गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥ १०१॥
सद्यो गर्भात्प्रमुच्येत गर्भिणी जनयेत्सुतम् ।
ये च मोक्षैषिणो लोके योगिनः साङ्ख्यकापिला ॥ १०२॥
स्तवेनानेन गच्छन्ति श्वेतद्वीपमकल्मषाः ।
सर्वकामप्रदो ह्येष स्तवोऽनन्तस्य कीर्त्यते ॥ १०३॥
यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ।
सर्वान् कामानवाप्नोति मानवो नात्र संशयः ॥ १०४॥
एष वै वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेवं पठ्यते वैष्णवं यशः ॥ १०५॥
यस्त्विमं वामनं दिव्यं प्रादुर्भावं महात्मनः ।
शृणुयान्नियतो भक्त्या सदा पर्वसु पर्वसु ॥ १०६॥
परान् विजयते राजा यथा विष्णुर्महाबलः ।
यशो विमलमाप्नोति विपुलं चाप्नुते वसु ॥ १०७॥
प्रियो भवति भूतानां सर्वेषां वामनो यथा ।
पुत्रपौत्राश्च वर्धन्ते आरोग्यं गुणसम्पदः ॥ १०८॥
प्रीयते पठतश्चास्य देवदेवो जनार्दनः ।
सर्वकामयुतश्चैव कृष्णद्वैपायनोऽब्रवीत् ॥ १०९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विसप्ततितमोऽध्यायः ॥ ७२॥
३.७३ त्रिसप्ततितमोऽध्यायः
श्रीकृष्णं प्रति रुक्मिण्याः पुत्रप्रार्थनाकथनम् RukmiNi asks kRiShNa for a son
रुक्मिण्या देव्या भगवन्तं श्रीकृष्णं पुत्राय प्रार्थना, भगवता तां आश्वासयित्वा कैलासगमनस्य विचारस्य प्रकटनं
जनमेजय उवाच ।
किमर्थं भगवान् विष्णुर्देवदेवो जनार्दनः ।
गतः कैलासशिखरमालयं शङ्करस्य च ॥ १॥
नारदाद्यैस्तपोवृद्धैर्मुनिभिस्तत्त्वदर्शिभिः ।
तत्र दृष्टो महादेवः शङ्करो नीललोहितः ॥ २॥
केशवेन पुरा विप्र कुर्वता तप उत्तमम् ।
अर्चितो देवदेवेन शङ्करश्चेति नः श्रुतम् ॥ ३॥
देवौ तत्र जगन्नाथौ दृष्टवन्तौ पुरातनौ ।
अर्चयाञ्चक्रिरे देवा इन्द्राद्याः शङ्करं हरिम् ॥ ४॥
तौ हि देवौ महादेवावेकीभूतौ द्विधा कृतौ ।
एकात्मानौ जगद्योनी सृष्टिसंहारकारकौ ॥ ५॥
परस्परसमावेशाज्जगतः पालने स्थितौ ।
तयोस्तत्र यथावृत्तं कैलासे पर्वतोत्तमे ॥ ६॥
ऋषयः किमचेष्टन्त दृष्ट्वा तौ पुरुषोत्तमौ ।
एतत् सर्वमशेषेण वक्तुमर्हसि सत्तम ॥ ७॥
यथा गतो हरिर्विष्णुः कृष्णो जिष्णुः पुरातनः ।
यथा च शङ्करः साक्षात्कृतवान्नागभूषणः ।
एतत् सर्वं विप्रवर्य ब्रूहि तत्त्वेन यत्नतः ॥ ८॥
वैशम्पायन उवाच ।
शृणुष्वावहितो राजन् यथा कृष्णो गतो नगम् ।
यथा च दृष्टो देवेशः शङ्करो वृषवाहनः ॥ ९॥
यथा चचार स तपो यथा ते मुनयो गताः ।
एवं तयोर्यथावृत्तं तथा शृणु नरोत्तम ॥ ३.७३.१०॥
द्वैपायनोऽथ भगवान् यथा प्रोवाच मां तथा ।
नमस्कृत्य प्रवक्ष्यामि केशवं खगवाहनम् ॥ ११॥
यथाशक्ति यथाप्रज्ञं शृणु यत्नेन सुव्रत ।
न चाशुश्रूषवे वाच्यं नृशंसायातपस्विने ॥ १२॥
नानधीताय वक्तव्यं पुण्यं पुण्यवता सदा ।
स्वर्ग्यं यशस्यं धन्यं च बुद्धिशुद्धिकरं सदा ॥ १३॥
ध्येयं पुण्यात्मनां नित्यमिदं वेदार्थनिश्चितम् ।
अनेकारण्यसंयुक्तं सेवन्ते नित्यमीदृशम् ॥ १४॥
मुनयो वेदनिरता नारदाद्यास्तपोधनाः ।
अत्यद्भुतं महापुण्यं वृत्तं कैलासपर्वते ॥ १५॥
शिवयोर्देवयोस्तत्र हरेश्चैव भवस्य ह ।
हतेष्वसुरसङ्घेषु नरकादिषु भूमिप ॥ १६॥
हतेष्वथ नृपेष्वेवं किञ्चिच्छिष्टेषु शत्रुषु ।
शासति स्म सदा विष्णुः पृथिवीं पुरुषोत्तमः ॥ १७॥
द्वारवत्यां जगन्नाथो वसन् वृष्णिभिरीश्वरः ।
रुक्मिण्या सङ्गतो देवो वसंस्तत्र पुरे हरिः ॥ १८॥
कदाचिच्च तया सार्धं शेते रात्रौ जगत्पतिः ।
विहरंश्च यथायोगं प्रीतः प्रीतियुजा तया ॥ १९॥
अथोवाच तदा देवी रुक्मिणी रुक्मभूषणा ।
पुत्रमिच्छामि देवेश त्वत्तो माधव नन्दनम् ॥ ३.७३.२०॥
बलिनं रूपसम्पन्नं त्वयैव सदृशं प्रभो ।
वृष्णीनामपि नेतारं वीर्यवन्तं तपोनिधिम् ॥ २१॥
सर्वशास्त्रार्थकुशलं राजविद्यापुरस्कृतम् ।
एवमादिगुणैर्युक्तं दातुमर्हसि सत्तम ॥ २२॥
त्वयि सर्वस्य दातृत्वं नित्यमेव प्रतिष्ठितम् ।
त्वं हि सर्वस्य कर्ता च दाता भोक्ता जगत्पतिः ॥ २३॥
विशेषतस्तु भृत्यानां शुश्रूषानियतात्मनाम् ।
वक्तव्यं किमु देवेश यदि भक्तास्मि केशव ॥ २४॥
अनुग्रहो यदि स्यान्मे देवदेव जगत्पते ।
दातुमर्हसि पुत्रं त्वं वीर्यवन्तं जनार्दन ॥ २५॥
वैशम्पायन उवाच ।
इत्युक्तो देवदेवेशः प्रियया प्रीयमाणया ।
तया महिष्या रुक्मिण्या रुक्मिशत्रुर्यदूद्वहः ॥ २६॥
प्रोवाच वचनं काले रुक्मिणीं यादवेश्वरः ।
दातास्मि तादृशं पुत्रं यं त्वमिच्छसि भामिनि ॥ २७॥
नित्यं भक्तासि मे देवि नात्र कार्या विचारणा ।
अवश्यं तव दास्यामि पुत्रं शत्रुनिबर्हणम् ॥ २८॥
पुत्रेण लोकाञ्जयति सतां कामदुघा हि ये ।
नरकं पुदिति ख्यातं दुःखं च नरकं विदुः ॥ २९॥
पुदस्त्राणात् ततः पुत्रमिहेच्छति परत्र च ।
अनन्ताः पुत्रिणो लोकाः पुरुषस्य प्रिये शुभाः ॥ ३.७३.३०॥
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् ।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ॥ ३१॥
पुत्रवन्तं बिभेतीन्द्रः किं नु तेनाशितं भवेत् ।
नापुत्रो विन्दते लोकान् कुपुत्राद् वन्ध्यता वरा ॥ ३२॥
कुपुत्रो नरके यस्मात् सुपुत्रात् स्वर्ग एव हि ।
तस्माद् विनीतं सत्पुत्रं श्रुतवन्तं दयापरम् ॥ ३३॥
विद्यया विनयो यस्माद् विद्यायुक्तं सुधार्मिकम् ।
इच्छेत् पुत्रं पुत्रकामः पुरुषो यत्नवान् बुधः ॥ ३४॥
तस्माद् दास्यामि ते पुत्रं विद्यावन्तं सुधार्मिकम् ।
एष गच्छामि पुत्रार्थं कैलासं पर्वतोत्तमम् ॥ ३५॥
तत्रोपास्य महादेवं शङ्करं नीललोहितम् ।
ततो लब्धास्मि पुत्रं ते भवाद् भूतहिते रतात् ॥ ३६॥
तपसा ब्रह्मचर्येण भवं शङ्करमव्ययम् ।
तोषयित्वा विरूपाक्षमादिदेवमजं विभुम् ॥ ३७॥
गमिष्याम्यहमद्यैव द्रष्टुं शङ्करमव्ययम् ।
स च मे दास्यते पुत्रं तोषितस्तपसा मया ॥ ३८॥
तत्र गत्वा महादेवं नमस्कृत्य सहोमया ।
प्रविश्य बदरीं पुण्यां मुनिजुष्टां तपोमयीम् ॥ ३९॥
अग्निहोत्राकुलां दिव्यां गङ्गाम्बुप्लावितां सदा ।
मृगपक्षिसमायुक्तां सिंहद्वीपिशताकुलाम् ॥ ३.७३.४०॥
बदरीफलसम्पूर्णा वानरक्षोभितद्रुमाम् ।
वेत्रारूढमहावृक्षां कदलीखण्डमण्डिताम् ॥ ४१॥
मुनिभिर्वेदतत्त्वार्थविचारनिपुणैः सदा ।
वेदनिश्चिततत्त्वार्थैः प्रमाणकुशलैर्युताम् ॥ ४२॥
इदमेकमिदं तत्त्वमिति निश्चितमानसैः ।
उपास्यमानामन्यत्र सिद्धैः सिद्धार्थतत्परैः ॥ ४३॥
इतिहासपुराणज्ञैः सेव्यमानां महर्षिभिः ।
गच्छद्भिः स्वर्गनिलयं परित्यज्य कलेवरम् ॥ ४४॥
प्रसिद्धां महतीं देवीं यास्यामि सुकृतालयाम् ।
इत्युक्त्वा विररामैव देवदेवो जनार्दनः ॥४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां त्रिसप्ततितमोऽध्यायः ॥ ७३॥
३.७४ चतुःसप्ततितमोऽध्यायः
श्रीकृष्णस्य कैलासगमनविचारः KRiShNa ponders on trip to kailAsa
भगवतः श्रीकृष्णेन यादवसभायां कैलासयात्रायाः स्वविचारं प्रकटयित्वा
नगरस्य रक्षार्थं यादवेभ्यः सावधानं भवितुं आदेशं
वैशम्पायन उवाच ।
प्रभातायां तु शर्वर्यां गन्तुमैच्छज्जनार्दनः ।
हुताग्निः कृतकल्याणः समाप्तवरदक्षिणः ॥ १॥
गाश्च दत्त्वाथ विप्रेभ्यो नमस्कृत्य द्विजोत्तमान् ।
आस्थानमण्डपं कृष्णः प्रविवेश जगत्पतिः ॥ २॥
आसनं महदास्थाय वृष्णीनाहूय सर्वशः ।
बलभद्रं शिनेः पौत्रं हार्दिक्यं शुकसारणौ ॥ ३॥
उग्रसेनं महाबुद्धिमुद्धवं नीतिमत्तरम् ।
यस्य बुद्धिं समाश्रित्य जीवन्ते यादवाः सुखम् ॥ ४॥
नेता च यदुवृष्णीनां स तु धर्मपरः सदा ।
यस्य बिभ्यति देवाश्च नीतेस्तस्य महात्मनः ॥ ५॥
यस्य बुद्धिबलाद् विष्णुः शशास पृथिवीं सदा ।
तं च वृष्णिवरं वीरमुद्धवं देवसुप्रभम् ॥ ६॥
अन्यानपि यदून् सर्वानुवाच भगवान् हरिः ।
शृण्वन्तु मम वाक्यानि यादवाः सर्व एव हि ।
शृणु चापि वचो मह्यं पितुरुद्धव मे सखे ॥ ७॥
बाल्यात्प्रभृति यो यत्नो मम दुष्टनिबर्हणे ।
प्रत्यक्षं भवता दृष्टं पूतनानिधनं नृप ॥ ८॥
केशी च निहतो बाल्ये मया बालेन यादवाः ।
गोवर्धनो धृतः शैलो गावश्च परिपालिताः ॥ ९॥
अभिषिक्तोऽस्मि शक्रेण देवानामग्रतः स्थितः ।
कंसोऽपि निधनं नीतो मया चाणूरमुष्टिकौ ॥ ३.७४.१०॥
उग्रसेनोऽभिषिक्तश्च कृता द्वारवती मया ।
अन्ये चापि नृपा राजन् बलिनो निहता मया ॥ ११॥
योऽपि वीरो जरासन्धो निगृहीतो बलान्मया ।
भीमेन बलिना राजन्नयने मम यादवाः ॥ १२॥
शृगालो निहतः सङ्ख्ये गोमन्ताद् गच्छता मया ।
योऽपि वीरो दुरात्मासौ दानवो नरको हतः ॥ १३॥
निष्कण्टकमिमं लोकं कृतवान् राजसत्तमाः ।
किं तु वीरो नृपो जज्ञे सखा भौमस्य यादवाः ॥ १४॥
पौण्ड्रो वीर्यवतां नेता द्वेष्टा चासौ सदा मम ।
शिष्यो द्रोणस्य राजेन्द्रो बली ब्रह्मास्त्रवित्कृती ॥ १५॥
शास्त्रज्ञो नीतिमान्साक्षान्नेता सर्वस्य यत्नवान् ।
योद्धा युद्धप्रियो राजा जामदग्न्य इवापरः ॥ १६॥
एकान्तशत्रुरस्माकं छिद्रान्वेषी सदा मम ।
बाधिष्यते पुरीं योद्धाच्छिद्रं यदि लभेत सः ॥ १७॥
न ह्यल्पसाध्यो बलवान् पुण्ड्रस्येशो नृपोत्तमाः ।
यत्ता भवन्तस्तिष्ठन्तु प्रगृहीतशरासनाः ॥ १८॥
यथा न बाधते राजा पुरीं यदुकुलाश्रयाम् ।
अहं तु यास्ये कैलासं कुतश्चित्कारणान्नृपाः ॥ १९॥
शङ्करं द्रष्टुकामोऽस्मि भूतभावनभावनम् ।
यावदागमनं मह्यं तावद् यत्ता भवन्त्विह ॥ ३.७४.२०॥
मया विरहितां चेमां यदि जानाति पुण्ड्रकः ।
आगमिष्यति राजेन्द्रो योत्स्यते च पुरीमिमाम् ॥ २१॥
इमां निर्यादवीं कर्तुं शक्नोतीति च मे मतिः ।
यत्ता भवत राजेन्द्राः खड्गैः पाशैः परश्वधैः ॥ २२॥
पाषाणैः कर्षणीयैश्च सन्नद्धा भवत स्वकैः ।
पिधाय च कपाटानि महाद्वाराणि यत्नतः ॥ २३॥
एक एव महाद्वारो गमनागमने सदा ।
मुद्रया सह गच्छन्तु राज्ञो ये गन्तुमीप्सवः ॥ २४॥
न चामुद्रः प्रवेष्टव्यो द्वारपालस्य पश्यतः ।
यावदागमनं मह्यं तावदेवं भविष्यति ॥ २५॥
मृगया नात्र कर्तव्या न च क्रीडा बहिः पुरात् ।
ज्ञातव्याश्च परे स्वे च गमनागमने सदा ॥ २६॥
एवमादिक्रिया कार्या यावदागमनं मम ।
इत्युक्त्वा यादवान्सर्वान्सात्यकिं पुनराह च ॥ २७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां चतुःसप्ततितमोऽध्यायः ॥ ७४॥
३.७५ पञ्चसप्ततितमोऽध्यायः
द्वारवतीरक्षने यादवान् प्रति श्रीकृष्णस्य वचनम् KRiShNa addresses the yAdava to protect dvAravati
भगवतः श्रीकृष्णस्य सात्यकिना उद्धवेन सार्धं च नगरस्य रक्षाविषयकं वार्तालापं, बलरामादिभ्यः यादवेभ्यः रक्षणस्य भारं समर्पयित्वा कैलासयात्रायां प्रति उद्योगं
श्रीभगवानुवाच ।
सात्यके शृणु मद्वाक्यं यत्तो भव युधां वर ।
त्वं तु खड्गी गदी भूत्वा चापपाणिस्तनुत्रवान् ॥ १॥
तिष्ठ यत्नेन रक्षस्व पुरीं बहुनृपाश्रयाम् ।
न च निद्रा त्वया कार्या रात्रौ यदुवृष प्रभो ॥ २॥
न च व्याख्या त्वया कार्या शास्त्राणां शास्त्रतत्पर ।
न च वादस्त्वया कार्यो वादिभिः सह वृष्णिप ॥ ३॥
त्वं हि योद्धा बली ज्ञाता धनुर्वेदाख्यवेदवित् ।
तथा कुरु यथा वीर नोपहास्या भवेदियम् ॥ ४॥
सात्यकिरुवाच ।
करिष्यामि वचस्तुभ्यं यथाशक्ति जनार्दन ।
आज्ञा तव जगन्नाथ धार्या यत्नेन मे सदा ॥ ५॥
भृत्यवत् प्रचरिष्यामि कामपालस्य माधव ।
यावदागमनं तुभ्यं तावत्स्थास्यामि यत्नतः ॥ ६॥
प्रसादस्तव गोविन्द यदि स्यान्मयि माधव ।
किं नाम मे च दुःसाध्यं शत्रूणां निग्रहे रणे ॥ ७॥
यदि शक्रं यमं वापि कुबेरमपि पाशिनम् ।
सर्वानेतान्विजेष्यामि किमु पौण्ड्रं नृपोत्तमम् ॥ ८॥
गच्छ कार्य कुरुष्वेदं यत्तोऽहं सततं हरे ।
उद्धवं पुनराहेदं कृष्णः पद्मनिभेक्षणः ॥ ९॥
शृणूद्धव त्वं वाक्यं मे कुर्यास्त्वेतत्प्रयत्नवान् ।
रक्ष्या नयेन राजेन्द्र पुरी द्वारवती त्वया ॥ ३.७५.१०॥
यत्तो भव सदा तात कुरु साहय्यमत्र नः ।
लज्जा मम समुत्पन्ना वदतस्तव साम्प्रतम् ॥ ११॥
त्वं हि नेता समस्तस्य विद्यापारस्य सर्वतः ।
को नु शक्ष्यति मेधावी वक्तुं विद्यावतः पुरः ॥ १२॥
यत् कार्यं तद्भवान् वेत्ति ह्यकार्यं वापि सर्वतः ।
अतोऽहं विरमे तात वक्तुं सम्प्रति वृष्णिप ॥ १३॥
उद्धव उवाच ।
किमिदं तव गोविन्द वर्तते मां प्रति प्रभो ।
अहो प्रसन्नता मह्यं किन्तु प्रीतिरियं तव ॥ १४॥
जानाम्यहं जगन्नाथ प्रसादस्यैष विस्तरः ।
यस्य प्रसन्नो भवति तस्य किं नास्ति केशव ॥ १५॥
त्वं हि सर्वस्य जगतः कर्ता हर्ता प्रधानतः ।
प्रभवः सर्वकार्याणां वक्ता श्रोता प्रमाणवित् ॥ १६॥
ध्याता ध्यानमयो ध्येय इति ब्रह्मविदो विदुः ।
जेता देवरिपूणां च गोप्ता नाकसदां भवान् ॥ १७॥
त्वन्नाथा वयमेवेति जीवामो निहतद्विषः ।
इयं नीतिरहं मन्ये नेता नीतेर्यतो भवान् ॥ १८॥
को नु नाम नयो वेद त्वां विना साम्प्रतं वद ।
नीतिस्त्वं सर्वकार्याणामिति मे निश्चिता मतिः ॥ १९॥
दुर्गाढो नयमार्गोऽयमित्याहुस्तद्विदो जनाः ।
चतुर्धा प्रोच्यते नीतिः सामदाने जनार्दन ॥ ३.७५.२०॥
दण्डो भेदो मनुष्याणां निग्राहावग्रहे सदा ।
दण्ड्येषु दण्डमिच्छन्ति समान्यं तु नये हरे ॥ २१॥
बलवत्स्वथ दानं तु त्रयाणामप्यगोचरे ।
प्रयोक्तव्यो महाभेद इति नीतिमतां मतम् ॥ २२॥
तेषु तेष्वथ सर्वेषु प्रमाणं त्वां विदुर्बुधाः ।
किमत्र बहुनोक्तेन सर्वं त्वयि समर्पितम् ॥ २३॥
वैशम्पायन उवाच ।
इत्युक्त्वा विररामैव उद्धवो नीतिमत्तरः ।
ततः स भगवान् विष्णुरेवमेव नृपोत्तम ॥ २४॥
कामपालं महाबाहुमुवाच यदुसंसदि ।
उग्रसेनं नृपं राजंस्तथा हार्दिक्यमेव च ॥ २५॥
कामपालं पुनर्विष्णुरिदं प्रोवाच तत्त्ववित् ।
न प्रमादस्त्वया कार्यः सर्वदा यत्नवान् भव ॥ २६॥
स्थिते त्वयि महाबाहो का पीडा जगतो भवेत् ।
गदी भव सदा त्वार्य न क्रीडा सर्वदा भवेत् ॥ २७॥
रक्ष त्वं सर्वदा यत्नात् पुरीं द्वारवतीं प्रभो ।
नोपहास्या यथा स्याम तथा कुरु गदी भव ॥ २८॥
उत्साहः सर्वदा कार्यो निरुत्साहो न यत्नतः ।
बाढमित्यब्रवीद् रामः कृष्णं वृष्णिकुलोद्भवम् ॥ २९॥
वृष्णयः सर्व एवैते स्वं स्वं सद्म समाययुः ।
गन्तुमैच्छज्जगन्नाथः कैलासं पर्वतोत्तमम् ॥ ३.७५.३०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पञ्चसप्ततितमोऽध्यायः ॥ ७५॥
३.७६ षट्सप्ततितमोऽध्यायः
श्रीकृष्णस्य बदरिकाश्रमगमनम् KRiShNa goes to badarika Ashram
गरुडोपरि आरूढो भूत्वा श्रीकृष्णस्य बदरिकाश्रमे गमनं, मार्गे देवेभिः मुनिभिश्च तस्य स्तुतिः
वैशम्पायन उवाच ।
ततः सञ्चिन्तयामास गरुडं पक्षिपुङ्गवम् ।
आगच्छ त्वरितं तार्क्ष्य इति विष्णुर्जगत्पतिः ॥ १॥
ततः स भगवांस्तार्क्ष्यो वेदराशिरिति स्मृतः ।
बलवान् विक्रमी योगी शास्त्रनेता कुरूद्वह ॥ २॥
यज्ञमूर्तिः पुराणात्मा साममूर्द्धा च पावनः ।
ऋग्वेदपक्षवान् पक्षी पिङ्गलो जटिलाकृतिः ॥ ३॥
ताम्रतुण्डः सोमहरः शक्रजेता महाशिराः ।
पन्नगारिः पद्मनेत्रः साक्षाद् विष्णुरिवापरः ॥ ४॥
वाहनं देवदेवस्य दानवीगर्भकृन्तनः ।
राक्षसासुरसङ्घानां जेता पक्षबलेन यः ॥ ५॥
प्रादुरासीन्महावीर्यः केशवस्याग्रतस्तदा ।
जानुभ्यामपतद् भूमौ नमो विष्णो जगत्पते ॥ ६॥
नमस्ते देवदेवेश हरे स्वामिन्निति ब्रुवन् ।
पस्पर्श पाणिना कृष्णः स्वागतं तार्क्ष्यपुङ्गवम् ॥ ७॥
इत्युवाच तदा तार्क्ष्यं यास्ये कैलासपर्वतम् ।
शूलिनं द्रष्टुमिच्छामि शङ्करं शाश्वतं शिवम् ॥ ८॥
बाढमित्यब्रवीत् तार्क्ष्य आरुह्यैनं जनार्दनः ।
तिष्ठध्वमिति होवाच यादवान् पार्श्ववर्तिनः ॥ ९॥
ततो ययौ जगन्नाथो दिशं प्रागुत्तरां हरिः ।
रवेण महता तार्क्ष्यस्त्रैलोक्यं समकम्पयत् ॥ ३.७६.१०॥
सागरं क्षोभयामास पद्भ्यां पक्षी व्रजंस्तदा ।
पक्षेण पर्वतान् सर्वान् वहन् देवं जनार्दनम् ॥ ११॥
ततो देवाः सगन्धर्वा आकाशेऽधिष्ठितास्तदा
तुष्टुवुः पुण्डरीकाक्षं वाग्भिरिष्टाभिरीश्वरम् ॥ १२॥
जय देव जगन्नाथ जय विष्णो जगत्पते ।
जयाजेय नमो देव भूतभावनभावन ॥ १३॥
नमः परमसिंहाय दैत्यदानवनाशन ।
जयाजेय हरे देव योगिध्येय परागत ॥ १४॥
नारायण नमो देव कृष्ण कृष्ण हरे हरे ।
आदिकर्तः पुराणात्मन् ब्रह्मयोने सनातन ॥ १५॥
नमस्ते सकलेशाय निर्गुणाय गुणात्मने ।
भक्तिप्रियाय भक्ताय नमो दानवनाशन ॥ १६॥
अचिन्त्यमूर्तये तुभ्यं नमस्ते सकलेश्वर ।
इत्यादिभिस्तदा देवं वाग्भिरीशानमव्ययम् ॥ १७॥
तुष्टुवुर्देवगन्धर्वा ऋषयः सिद्धचारणाः ।
शृण्वन्नेवं जगन्नाथः स्तुतिवाक्यानि तानि च ॥ १८॥
ययौ सार्धं सुरगणैर्मुनिभिर्वेदपारगैः ।
यत्र पूर्वं स्वयं विष्णुस्तपस्तेपे सुदारुणम् ॥ १९॥
लोकवृद्धिकरः श्रीमाँल्लोकानां हितकाम्यया ।
वर्षायुतं तपस्तप्तं विष्णुना प्रभविष्णुना ॥ ३.७६.२०॥
यत्र विष्णुर्जगन्नाथस्तपस्तप्त्वा सुदारुणम् ।
द्विधाकरोत् स्वमात्मानं नरनारायणाख्यया ॥ २१॥
गङ्गा यत्र सरिच्छ्रेष्ठा मध्ये धावति पावनी ।
यत्र शक्रः स्वयं हत्वा वृत्रं वेदार्थतत्त्वगम् ॥ २२॥
ब्रह्महत्याविनाशार्थं तपो वर्षायुतं चरत् ।
यत्र सिद्धाश्च सिद्धाः स्युर्ध्यात्वा देवं जनार्दनम् ॥ २३॥
यत्र हत्वा रणे रामो रावणं लोकरावणम् ।
एतच्छासनमिच्छंश्च तपो घोरमतप्यत ॥ २४॥
देवाश्च मुनयश्चैव सिद्धिं यान्ति शुचिव्रताः ।
यत्र नित्यं जगन्नाथः साक्षाद् वसति केशवः ॥ २५॥
यत्र यज्ञाः प्रवर्तन्ते नित्यं मुनिगणैः सह ।
यस्याः स्मरणमात्रेण नरः स्वर्गं गमिष्यति ॥ २६॥
स्वर्गसोपानमिच्छन्ति यां पुण्यां मुनिसत्तमाः ।
शत्रवो मित्रतां यान्ति यत्र नित्यं नृपोत्तम ॥ २७॥
यामाहुः पुण्यशीलानां स्थानमुत्तमधर्मिणाम् ।
यत्र विष्णुं समाराध्य देवाः स्वर्गं समाययुः ॥ २८॥
सिद्धक्षेत्रमिदं प्राहुरृषयो वीतमत्सराः ।
विशालां बदरीं विष्णुस्तां द्रष्टुं सकलेश्वरः ॥ २९॥
सायाह्ने चामरगणैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रविवेश महापुण्यमृषिजुष्टं तपोवनम् ॥ ३.७६.३०॥
अग्निहोत्राकुले काले पक्षिव्याहारसङ्कुले ।
नीडस्थेषु विहङ्गेषु दुह्यमानासु गोषु च ॥ ३१॥
ऋषिष्वप्यथ तिष्ठत्सु मुनिवीरेषु सर्वतः ।
समाधिस्थेषु सिद्धेषु चिन्तयत्सु जनार्दनम् ॥ ३२॥
अधिश्रितेषु हविषु ज्वाल्यमानेषु चाग्निषु ।
हूयमानेषु तत्रैव पावकेषु समन्ततः ॥ ३३॥
अतिथौ पूज्यमाने च सन्ध्याविष्टे जगन्मणौ ।
स तस्यामथ वेलायां देवैः सह जनार्दनः ॥ ३४॥
विवेश बदरीं विष्णुर्मुनिजुष्टां तपोमयीम् ।
आश्रमस्याथ मध्यं तु प्रविश्य हरिरीश्वरः ॥ ३५॥।
गरुडादवरुह्याथ दीपिकादीपिते तदा ।
प्रदेशे पुण्डरीकाक्षः स्थितस्तावत् सहामरैः ॥ ३६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां षट्सप्ततितमोऽध्यायः ॥ ७६॥
३.७७ सप्तसप्ततितमोऽध्यायः
श्रीकृष्णस्य बदरिकाश्रमे आतिथ्यस्वीकारः KRiShNa welcomed at badarika Ashram
देवेभिः सहितस्य श्रीकृष्णस्य बदरिकाश्रमे ऋषिभिः आतिथ्यसत्कारं
वैशम्पायन उवाच ।
ततो मुनिगणा दृष्ट्वा देवदेवमुपस्थितम् ।
समाप्य चाग्निहोत्राणि सम्पूज्यातिथिसत्तमान् ॥ १॥
मुनयो दीर्घतपसः समाधौ कृतनिश्चयाः ।
जटिनो मुण्डिनः केचिच्छिराधमनिसन्तताः ॥ २॥
निर्मज्जा नीरसाः केचिद् वेताला इव केचन ।
अश्मकुट्टाशनपराः पर्णभक्षास्तथा परे ॥ ३॥
वेदविद्याव्रतस्नाता निराहारा महातपाः ।
स्मरन्तः सर्वदा विष्णुं तद्भक्तास्तत्परायणाः ॥ ४॥
आसन्नमुक्तयः केचित् केचिद्ध्यानैकतत्पराः ।
ध्यानेन मनसा विष्णुं दृष्टवन्तस्तपोधनाः ॥ ५॥
संवत्सराशिनः केचित् केचिज्जलविचारिणः ।
शक्रस्य भयदातारः श्रुतिस्मृतिपरायणाः ॥ ६॥
वसिष्ठो वामदेवश्च रैभ्यो धूम्रस्तथैव च ।
जाबालिः कश्यपः कण्वो भरद्वाजोऽथ गौतमः ॥ ७॥
अत्रिरश्वशिरा भद्रः शङ्खः शङ्खनिधिः कुणिः ।
पाराशर्यः पवित्राक्षो याज्ञवल्क्यो महामनाः ॥ ८॥
कक्षीवानङ्गिराश्चैव मुनिर्दीप्ततपास्तथा ।
असितो देवलस्तात वाल्मीकिश्च महातपाः ॥ ९॥
एते चान्ये च मुनयो द्रष्टुमीश्वरमव्ययम् ।
आदायार्घ्यं यथायोगमुटजात्स्वात्समाययुः ॥ ३.७७.१०॥
ते च गत्वा हरिं कृष्णं विष्णुमीशं जनार्दनम् ।
भक्तिनम्रास्तदा देवं प्रणेमुर्भक्तवत्सलम् ॥ ११॥
नमोऽस्तु कृष्ण कृष्णेति देवदेवेति केशवम् ।
प्रणवात्मञ्जगन्नाथ नताः स्म शिरसा हरे ॥ १२॥
कृष्ण विष्णो हृषीकेश केशवेति च सर्वदा ।
प्रणामप्रवणा विप्राः प्राहुरित्थं जगत्पतिम् ॥ १३॥
इदमर्घ्यमिदं पाद्यमिदं विष्टरमेव च ।
कृतार्थाः सर्वदा देव प्रसन्नो नो जगत्पतिः ॥ १४॥
किं कुर्मः किं नु नः कृत्यं कश्चिद् दोषः प्रभो हरे ।
इति प्राञ्जलयः सर्वे प्राहुर्देवस्य पश्यतः ॥ १५॥
कृष्णोऽपि तद् यथायोगमुपयुज्य सहामरैः ।
कृतं सर्वं मुनिवरा वर्धतां तप उत्तमम् ॥ १६॥
इति ब्रुवन् पुराणात्मा प्रीतस्तेन गरुत्मता ।
आसनं लम्भयामास रात्रौ देवो जनार्दनः ॥ १७॥
कुशलं पृष्टवान् भूयो मुनीनां भावितात्मनाम् ।
अग्निहोत्रेषु तपसि तथा भृत्येषु सर्वतः ॥ १८॥
एवमादि जगन्नाथः पृष्टवानीश्वरस्तदा ।
सर्वत्र कुशलं तेऽत्र ब्रूयुः कृष्णस्य सर्वतः ॥ १९॥
आतिथ्यं चक्रिरे ते तु नीवारैः फलमूलकैः ।
देवानामथ सर्वेषां विष्णोः कृष्णस्य यत्नतः ।
आतिथ्यमुपयुञ्जानस्ततः प्रीतोऽभवद्धरिः ॥ ३.७७.२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां सप्तसप्ततितमोऽध्यायः ॥ ७७॥
३.७८ अष्टसप्ततितमोऽध्यायः
श्रीकृष्णस्य समाधिः कोलाहलश्च SamAdhi of kRiShNa
भगवतः श्रीकृष्णस्य समाधिः, महान् कोलाहलं, तस्य पार्श्वे धावद्भ्यां मृगादीनां आगमनं
वैशम्पायन उवाच ।
ततः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
यत्र पूर्वम तपस्तप्तमात्मना यादवेश्वरः ॥ १॥
गङ्गायाश्चोत्तरे तीरे देशं द्रष्टुमुपागतः ।
स्वयमेव हरिः साक्षात् प्रविवेश तपोवनम् ॥ २॥
प्रविश्य सुचिरं देशं ददर्श च मनोरमम् ।
निषसाद ततस्तस्मिन्नाश्रमे पुण्यवर्धनः ॥ ३॥
समाधौ योजयामास मनः पद्मनिभेक्षणः ।
किमप्येष जगन्नाथो ध्यात्वा देवेश्वरः स्थितः ॥ ४॥
स्थिते देवगुरौ तत्र समाधौ दीपवद्धरौ ।
तत्र शब्द महाघेरः प्रादुरासीत् समन्ततः ॥ ५॥
खाद खादत मोदेत यात यात मृगानिमान् ।
प्रेषयेह पुनः सर्वान् प्रसादाच्छार्ङ्गधन्वनः ॥ ६॥
एष विष्णुरयं कृष्णो हरिरीश इतोऽच्युतः ।
नमोऽस्तु विष्णो देवेश स्वामिन्माधव केशव ॥ ७॥
इत्यादिशब्दः सुमहानाविरासीत् तदा निशि ।
ततश्च सुमहानादः सिंहानां मृगविद्विषाम् ॥ ८॥
धावतां च शुनां राजन् मृगाननु विनर्दताम् ।
मृगाणां भीतियुक्तानामृक्षाणां द्वीपिनां तथा ॥ ९॥
गजानां नदतां राजन् बृंहितं च ततस्ततः ।
महावातसमुद्धूतक्षुभितस्येव वारिधेः ॥ ३.७८.१०॥
नादस्त्रैलोक्यवित्रासः प्रादुरासीत्तदा निशि ।
श्रुत्वा शब्दं हरिर्देवस्तादृशं तत्र धिष्ठितः ॥ ११॥
समाधिक्षोभमासाद्य विश्वस्य च जगत्पतिः ।
ततः सञ्चिन्तयामास कोऽयमेष महास्वनः ॥ १२॥
कस्यायमीदृशः शब्दः स्तुतियुक्तो मम त्विति ।
अहोऽस्मिन्मृगयाशब्दः शुनां सञ्चरतां वने ॥ १३॥
मृगाणामथ सर्वेषां नादश्च सुमहानयम् ।
व्यामिश्रस्तुतियुक्ताभिर्वाग्भिर्मम समन्ततः ॥ १४॥
इति सञ्चिन्त्य मनसा दिशो विप्रेक्ष्य सर्वतः ।
तत आस्ते हरिस्तत्र ज्ञातुं तस्य समुद्भवम् ॥ १५॥
ततो मृगाः समाधावन् यत्र तिष्ठति केशवः ।
तांश्चैवानुचरो राजन् श्वगणः समपद्यत ॥ १६॥
अथ वै दीपिका राजञ्छतशोऽथ सहस्रशः ।
ततस्तमोऽपि व्यनशद् दिवेव समपद्यत ॥ १७॥
ततो नु भूतसङ्घाश्च समदृश्यन्त तत्र ह ।
पिशाचाश्च महाघोरा नदन्तो बहु विस्वनम् ॥ १८॥
भक्षयन्तोऽथ पिशितं पिबन्तो रुधिरं बहु ।
प्रादुरासन्महाघोराः पिशाचा विकृताननाः ॥ १९॥
हन्यमाना हता राजन् पतन्तः पतिता मृगाः ।
इतश्चेतश्च धावन्तो बाणैर्विद्धा मृगा द्विपाः ॥ ३.७८.२०॥
ततो मृगसहस्राणि समुदीर्णानि भारत ।
यत्रासौ तिष्ठते देवस्तत्र याता निरन्तरम् ॥ २१॥
अन्तरीकृत्य देवेशं स्थितानीत्यनुशुश्रुम ।
पिशाच्यो विकृताकाराः कराला रोमहर्षणाः ॥ २२॥
पुत्रवत्यः समापेतुर्यत्र तिष्ठति केशवः ।
श्वगणस्तत्र राजेन्द्र चरत्येवं ततस्ततः ॥ २३॥
ततः स भगवान् विष्णुः सर्वमालोक्य वेष्टितः ।
विस्मयं परमं गत्वा पश्यन्नास्ते स्म केशवः ॥ २४॥
कस्यैष विस्तृतो नादः कस्य वायं जनोऽपतत् ।
को नु मां स्तौति भक्त्या वै भविष्ये प्रीतिमानहम् ॥ २५॥
कस्य मुक्तिः समायाता प्रीते मयि सुदुर्लभा ।
इति सञ्चिन्त्य भगवानास्ते प्राकृतवद्धरिः ॥ २६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां अष्टसप्ततितमोऽध्यायः ॥ ७८॥
३.७९ एकोनाशीतितमोऽध्यायः
पिशाचागमनम् The arrival of the pishAcha-s
भगवतः श्रीकृष्णस्य पार्श्वे पिशाचद्वयानां आगमनं
वैशम्पायन उवाच ।
तेषामनु महाघोरौ पिशाचौ विकृताननौ ।
प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू ॥ १॥
लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ ।
खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु ॥ २॥
अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ ।
लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ ॥ ३॥
कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।
हसन्तौ विविधं हासं स्वजातिसदृशं नृप ॥ ४॥
वदन्तौ बहुरूपाणि वचांसि प्राकृतानि च ।
कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः ॥ ५॥
सृक्किणीं लेलिहन्तौ च दन्तान्कटकटायिनौ ।
अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसन्ततौ ॥ ६॥
वदन्तौ कृष्ण कृष्णेति माधवेति च सन्ततम् ।
कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ॥ ७॥
स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे ।
अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ॥ ८॥
कुतः पद्मपलाशाक्षः साक्षादिन्द्रानुजो हरिः ।
यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ॥ ९॥
तमजं पुरुषं विष्णुं द्रष्टुमभ्युद्यता वयम् ।
अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ॥ ३.७९.१०॥
तमजं विश्वकर्तारं कुतो द्रक्ष्याम साम्प्रतम् ।
यस्य विस्तार एवैष लोकः प्राणिनिवासिनः ॥ ११॥
तं द्रष्टुं देवमीशानं यतामः साम्प्रतं हरिम् ।
दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ॥ १२॥
पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात् ।
नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी ॥ १३॥
अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसञ्चये ।
अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा ॥ १४॥
यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी ।
दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ॥ १५॥
सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसञ्चयैः ।
तथा हि तत्फलं घोरमद्यापि न निवर्तते ॥ १६॥
यताः स्म प्राणिनो हन्तुं श्वगणैः सह साम्प्रतम् ।
तथा हि प्राणिनो लोके बाल्यमादौ समास्थिताः ॥ १७॥
अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते ।
तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः ॥ १८॥
यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।
विषयाविष्टचित्ता हि मनुष्या न विजानते ॥ १९॥
तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः ।
ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः ॥ ३.७९.२०॥
यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ।
ततो मृता गर्भवासे वसन्ति सततं नराः ॥ २१॥
विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः ।
च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले ॥ २२॥
परस्परं विहिंसन्तः कुर्वन्तः कर्मसञ्चयम् ।
महत्येवं सदा घोरे संसारे दुःखसङ्कुले ॥ २३॥
पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा ।
संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु ॥ २४॥
अच्छेद्यः शस्त्रसम्पातैरुपायैर्बहुभिः सदा ।
एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ॥ २५॥
इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् ।
चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम् ॥ २६॥
निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली ।
इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम् ॥ २७॥
अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ।
भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ।
आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ॥ २८॥
ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।
इत्थं पिशाचौ भाषन्तौ प्रादुरास्तां हरेः पुरः ॥ २९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि
कैलासयात्रायामेकोनाशीतितमोऽध्यायः ॥ ७९॥
३.८० अशीतितमोऽध्यायः
घण्टाकर्णकृता विष्णुस्तवप्रार्थना तस्य समाधिलाभश्च GhaNTAkarNa and kRiShNa meet, ghaNTAkarNa enters meditation
घण्टाकर्णेन भगवतः श्रीकृष्णेन च अन्योन्यं परिचयदानं, घण्टाकर्णेन भगवतः विष्णोः स्तवनं समाधिलाभं च ।
वैशम्पायन उवाच ।
ततः स भगवान् विष्णुः पिशाचौ मांसभक्षकौ ।
ददर्शाथ महाघोरौ दीपिकाधारिणौ हरिः ॥ १॥
विलोकयाञ्चक्रतुस्तौ पिशाचौ देवकीसुतम् ।
स्थितं सुखासने विष्णुं दृष्ट्वा लोकेश्वरेश्वरम् ॥ २॥
तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह ।
ततस्तावूचतुर्विष्णुमन्तरीकृत्य केशवम् ॥ ३॥
कौ भवान् कस्य वा मर्त्य कुतश्चागम्यते त्वया ।
किमर्थमिह सम्प्राप्तो वने घोरे मृगाकुले ॥ ४॥
निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते ।
श्वापदैः सेव्यमाने च विपिने व्याघ्रसङ्कुले ॥ ५॥
सुकुमारोऽनवद्याङ्गः साक्षाद् विष्णुरिवापरः ।
पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम् ॥ ६॥
अस्मत्प्रीतिकरः साक्षात् प्राप्तो विष्णुरिवापरः ।
देवो वा यदि वा यक्षो गन्धर्वः किन्नरोऽपि वा ॥ ७॥
इन्द्रो वा धनदो वापि यमोऽथ वरुणोऽपि वा ।
एकाकी विपिने घोरे ध्यानार्पितमना इव ॥ ८॥
ब्रूहि मर्त्य यथातत्त्वं ज्ञातुमिच्छामि मानद ।
एवं पृष्टः पिशाचाभ्यामाह विष्णुरुरुक्रमः ॥ ९॥
क्षत्रियोऽस्मीति मामाहुर्मानुष्याः प्रकृतिस्थिताः ।
यदुवंशे समुत्पन्नः क्षात्रं वृत्तमनुष्ठितः ॥ ३.८०.१०॥
लोकानामथ पातास्मि शास्ता दुष्टस्य सर्वदा ।
कैलासं गन्तुकामोऽस्मि द्रष्टुं देवमुमापतिम् ॥ ११॥
इत्येवं मम वृत्तान्तः कथ्यतां कौ युवामिति ।
युवामिह समायातौ किमर्थं ब्राह्मणाश्रमम् ॥ १२॥
एषा हि महती पुण्या नानाविप्रनिषेविता ।
बदरीयं समाख्याता न क्षुद्रैराश्रिता क्वचित् ॥ १३॥
तपस्विभिस्तपोयुक्तैर्जुष्टा सिद्धनिषेविता ।
श्वगणा नात्र दृश्यन्ते पिशाचा मांसभोजनाः ॥ १४॥
न हन्तव्या मृगाश्चात्र मृगया नात्र वर्तते ।
न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर्न नास्तिकैः ॥ १५॥
अहमस्य तु देशस्य रक्षिता नात्र संशयः ।
व्यतिक्रमो यदि भवेत्तस्य शास्तास्मि यत्नतः ॥ १६॥
कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः ।
नातः परं प्रवेष्टव्यमृषयस्त्वत्र संस्थिताः ॥ १७॥
विघ्नस्तत्र प्रवर्तेत तपःसु च तपस्विनाम् ।
इहैव स्थीयतां तावद् वक्तव्यं च ततः सुखम् ॥ १८॥
अन्यथाहं निषेद्धा स्यां बलाद्वाक्यैस्तथैव च ।
वैशम्पायन उवाच ।
एवं पृष्टौ पिशाचौ तु वक्तुमेवोपचक्रतुः ॥ १९॥
तयोरेको महाघोरः पिशाचो दीर्घबाहुकः ।
उवाच वचनं तत्र यथा हृदि समर्पितम् ॥ ३.८०.२०॥
पिशाच उवाच ।
श्रूयतामभिधास्यामि समातितमना भव ।
नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम् ॥ २१॥
आदिदेवमजं विष्णुं वरेण्यमनघं शुचिम् ।
वक्ष्यामि सकलं यद्वत्तथा शृणु यदीच्छसि ॥ २२॥
घण्टाकर्णोऽस्मि नाम्नाहं पिशाचो घोरदर्शनः ।
मांसादो विकृतो घोरः साक्षान्मृत्युरिवापरः ॥ २३॥
धनदस्यानुगन्ताहं साक्षाद् रुद्रसखस्य च ।
ममायमनुजः साक्षादन्तकस्यान्तको ह्ययम् ॥ २४॥
मृगयेयं सुमहती विष्णोः पूजार्थमित्युत ।
ममेयं वर्तते सेना श्वगणोऽपि ममैव तु ॥ २५॥
आगतोऽहं महाशैलात् कैलासाद् भूतसेवितात् ।
अहं पिशाचवेषेण संविष्टः पापकर्मकृत् ॥ २६॥
सततं दूषयन् विष्णुं घण्टामाबध्य कर्णयोः ।
मम न प्रविशेन्नाम विष्णोरिति विचिन्तयन् ॥ २७॥
अहं कैलासनिलयमासाद्य वृषभध्वजम् ।
आराध्य तं महादेवमस्तुवं सततं शिवम् ॥ २८॥
ततः प्रसन्नो मामाह वृणीष्वेति वरं हरः ।
ततो मुक्तिर्मया तत्र प्रार्थिता देवसन्निधौ ॥ २९॥
मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः ।
मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः ॥ ३.८०.३०॥
तस्माद् गत्वा च बदरीं तत्राराध्य जनार्दनम् ।
मुक्तिं प्राप्नुहि गोविन्दान्नरनारायणाश्रमे ॥ ३१॥
इत्युक्तो देवदेवेन शूलिना ज्ञातवानहम् ।
तमेव परमं मत्वा गोविन्दं गरुडध्वजम् ॥ ३२॥
तस्मात् प्रार्थयमानः सन्मुक्तिं देशममुं गतः ।
अन्यच्च शृणु मे कार्यं यदि कौतूहलं तव ॥ ३३॥
पुरी द्वारवती नाम पश्चिमस्योदधेस्तटे ।
यदुवृष्णिसमाकीर्णां सागरोर्मिसमाकुलाम् ॥ ३४॥
अध्यास्ते स हरिर्विष्णुस्तां पुरीं पुरुषोत्तमः ।
द्रष्टुं लोकहितार्थाय वसन्तं द्वारकापुरे ॥ ३५॥
निर्गतः साम्प्रतं मर्त्यं वयमेतैः सहानुगैः ।
विष्णुः सर्वेश्वरः साक्षाद्द्रष्टव्योऽस्माभिरद्यवै ॥ ३६॥
लोकानां प्रभवः पाता कर्ता हर्ता जगत्पतिः ।
आदिः स हि समस्तस्य प्रभवः कारणं हरिः ॥ ३७॥
कर्ता समस्तस्य हरिः पुरातनः प्रभुः प्रभूणामपि यः सदात्मकः ।
तमादिदेवं वरदं वरेण्यं द्रष्टुं हरिं सम्प्रति संयताः स्मः ॥ ३८॥
यस्य प्रसादाज्जगदेवमासीत् सप्राणिगन्धर्वमद्वोरगौघम् ।
देवं जगद्योनिमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः ॥ ३९॥
यस्योदराद् विश्वमिदं प्रभूतं लयं च तस्मिन् समुपैति कल्पे ।
तस्यैव साक्षाद् वशवर्ति विश्वं द्रक्ष्याम देवं पुरुषोत्तमं हरिम् ॥ ३.८०.४०॥
स्रष्टा च योऽसौ सकलस्य देवः पाता च हर्ता च हरिः स एव ।
द्रक्ष्याम नित्यं भुवनेश्वरं हरिं पुराणमाद्यं प्रभविष्णुमव्ययम् ॥ ४१॥
अजस्य कर्ता भुवनस्य गोप्ता भुवश्च कर्ता हरिरेक एव ।
तं योगिनो योगविशुद्धबुद्धिं लभेम तेनैव मतिः समाकुला ॥ ४२॥
निगीर्य विश्वं सकलं जगत्पतिः शेते शिशुत्वं समवाप्य साक्षात् ।
वटस्य पत्रे जगतां निवासः पादौ च विक्षिप्य करौ विधुन्वन् ॥ ४३॥
यस्योदरे देवमुनिः पुरातनो ददर्श लोकानखिलान् स मायया ।
प्रविश्य विश्वं सकलं यथावद् बहिर्यथाभूतमभूदिदं महत् ॥ ४४॥
निगीर्य विश्वं जगदादिकाले शेते महात्मा जलधेर्जलौघे ।
देव्या श्रिया चामरलोलहस्तया निषेव्यमाणः पुरुषोत्तमस्तदा ॥ ४५॥
नाभेश्च यस्याविरभूत् सपत्रं पद्मं महत्काञ्चनसप्रभं प्रभोः ।
जन्मास्पदं लोकगुरोर्यदासीद्विस्तारि पद्मं जगदादिसृष्टौ ॥ ४६॥
दधार यो भूतपतिर्महान्महीं दंष्ट्राग्रसंस्थापितरूढमूलाम् ।
नादं महामेघ इवादिकाले कुर्वन् वराहो मुनिगीतमूर्तिः ॥ ४७॥
हरिः पुराणः पुरुषोत्तमः प्रभुः कर्ता समस्तस्य समस्तसाक्षी ।
यज्ञात्मको यज्ञपतिर्जगत्पतिर्द्रष्टुं तमीशं वयमुद्यताः स्मः ॥ ४८॥
केचिद् बहुत्वेन वदन्ति देवमेकात्मना केचिदिमं पुराणम् ।
वेदान्तसंस्थापितसत्त्वयुक्तं द्रष्टुं तमीशं वयमुद्यताः स्मः ॥ ४९॥
अनेकमेके बहुधा वदन्ति श्रुतिस्मृतिन्यायनिविष्टचित्ताः ।
आहुर्यमात्मानमजं पुराविदो द्रष्टुं तमीशं वयमुद्यताः स्मः ॥ ३.८०.५०॥
यं प्राहुरीड्यं वरदं वरेण्यमेकान्ततत्त्वं मुनयः पुरातनाः ।
यं सर्वगं देवमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः ॥ ५१॥
यस्मिन् विश्वमिदं प्रोतमादिकाले जगत्पतौ ।
तं द्रष्टुमभिसंवृत्ताः किं नु वक्ष्याम साम्प्रतम् ॥ ५२॥
गच्छामो वयमन्यत्र गच्छ त्वं काममन्यतः ।
नियमोऽप्यस्ति नो मर्त्य यथेष्टं गच्छ साम्प्रतम् ॥ ५३॥
रात्रिमध्यमनुप्राप्तं नात्र कार्या विचारणा ।
इत्युक्त्वा घोररूपोऽसौ पिशाचो विकृताननः ॥ ५४॥
तस्मिन्नेव समे देशे पीत्वा च रुधिरं बहु ।
भक्षयित्वा यथाकामं मांसराशिं विचक्षणः ॥ ५५॥
अपः संस्पृश्य तत्रैव पार्श्वे संस्थाप्य साधनम् ।
अन्त्रपाशं महाघोरं संस्थाप्य विपुलं महत् ॥ ५६॥
आसनं कुशसंयुक्तं कृत्वा चाभ्युक्ष्य वारिणा ।
उत्सार्य श्वगणान् सर्वान् यत्नेन महता तदा ॥ ५७॥
सुखासनं समास्थाय समाधौ यतते श्वपः ।
एकचित्तस्तदा भूत्वा नमस्कृत्य च केशवम् ।
इमं मन्त्रं पठन् घोरः पिशाचो भक्तवत्सलम् ॥ ५८॥
नमो भगवते तस्मै वासुदेवाय चक्रिणे ।
नमस्ते गदिने तुभ्यं वासुदेवाय धीमते ॥ ५९॥
ॐ नमो नारायणाय विष्णवे प्रभविष्णवे ।
मम भूयान्मनःशुद्धिः कीर्तनात् तव केशव ॥ ३.८०.६०॥
जन्मेदमीदृशं घोरं मा भून्मम दुरासदम् ।
देवदूतो भविष्यामि स्मरणात् तव गोपते ॥ ६१॥
तव चक्रप्रहारेण कायो नश्यतु मामकः ।
मम भूयो भवो मा भूदेषा मे प्रार्थना विभो ॥ ६२॥
अर्थिनां कल्पवृक्षोऽसि दाता सर्वस्य सर्वदा ।
यत्र यत्र भवेज्जन्म तत्र तत्र भवान् हृदि ॥ ६३॥
वर्ततां मम देवेश प्रार्थनैषा ममापरा ।
नमस्तुभ्यं नमस्तुभ्यं भवत्वेवं सदा मम ॥ ६४॥
निर्विघ्ना प्रार्थना देव नमस्तेऽस्तु सदा मम ।
यदा मे मरणं भूयात्तदा मा भूत्स्मृतिभ्रमः ॥ ६५॥
दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्विति ।
एवं प्रेरय मां देव मा भूत् ते चित्तमीदृशम् ॥ ६६॥
नृशंसोऽयं पिशाचोऽयं दयास्मिन् का भवेदिति ।
एवं चिन्तय मां देव भृत्यो मह्यमिति प्रभो ॥ ६७॥
परपीडा न मत्तोऽस्तु नमस्ते भगवन् प्रभो ।
इन्द्रियाणीन्द्रियार्थेषु मा भूवन्साम्प्रतं हि मे ॥ ६८॥
अन्तकाले ममाप्येवं प्रसादात् तव केशव ।
पृथिवी यातु मे घ्राणं रसनां यातु मे पयः ॥ ६९॥
सूर्यश्च यातु मे चक्षुः स्पर्शं यातु च मारुतः ।
श्रोत्रमाकाशमप्येतु मनः प्राणं च गच्छतु ॥ ३.८०.७०॥
जलं मां रक्षतां नित्यं पृथिवी रक्षतां हरे ।
सूर्यो मां रक्षतां विष्णो नमस्ते सूर्यतेजसे ॥ ७१॥
वायुर्मां रक्षतां दुःखादाकाशं च जनार्दन ।
न मनः सर्वगं देव रक्षतां विषयान्तरे ॥ ७२॥
मनो विपर्यये घोरे पुरुषान् हन्ति नित्यशः ।
पापेषु योजयेत् पुंसः परपीडात्मकेषु च ॥ ७३॥
मनस्तद् रक्षतां देव भूयो भूयो जनार्दन ।
मा भून्मनसि कालुष्यं मनो मे निर्मलं भवेत् ॥ ७४॥
कलुषं तस्य यच्चित्तं नरके पातयत्यमुम् ।
बाह्यानि निर्मलान्येवमिन्द्रियाणि भवन्त्युत ॥ ७५॥
न तानि कार्यवन्तीह मनश्चेत्कलुषं भवेत् ।
नाङ्गानां मुष्टिनामेध्यं गृहीत्वा यो व्यवस्थितः ॥ ७६॥
बहिः प्रक्षालनं कुर्वन् किं भवेत् तस्य केशव ।
व्यर्थो हि केवलं तस्य प्रग्रहो बाह्यगोचरः ॥ ७७॥
तस्मात् सर्वप्रयत्नेन चित्तं रक्ष जनार्दन ।
वलवानिन्द्रियग्रामो वारयैनं जनार्दन ॥ ७८॥
परीवादाज्जगन्नाथ वाचं रक्ष दुरुद्वहाम् ।
परद्रव्यान्मनो रक्ष परदाराज्जनार्दन ।
सर्वत्र मे दया भूयात् प्रसादात् तव केशव ॥ ७९॥
त्वय्येव भक्तिरचला भूयाद् भूतेषु मे दया ।
बहुनात्र किमुक्तेन शृणुष्वेदं वचो मम ॥ ३.८०.८०॥
सुखे दुःखे च रागे च भोजने गमने तथा ।
जाग्रत्स्वप्नेषु सर्वत्र त्वय्येव रमतां मनः ॥ ८१॥
मामकं देवदेवेश नमस्तेऽस्तु जनार्दन ।
इति ब्रुवन् घोरतमो जात्या हीनो न चित्ततः ॥ ८२॥
पिशाचो भगवद्भक्तः समाधिं समपद्यत ।
दृढं बद्ध्वाऽऽत्मनः कायमान्त्रपाशेन मांसपः ॥ ८३॥
निश्चलेनैव मनसा सुखमास्ते स्म संयतः ।
ध्यायन्हरिं जगद्योनिं विष्णुं पीताम्बरं शिवम् ॥ ८४॥
मुकुन्दमादिपुरुषमेकाकारमनामयम् ।
नित्यं शुद्धं ज्ञानगम्यं कारणं सर्वदेहिनाम् ॥ ८५॥
नासिकाग्रं समालोक्य पठन् ब्रह्म सनातनम् ।
निर्वातस्थो यथा दीपः प्रोच्चरन् प्रणतः सदा ॥ ८६॥
प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः ।
एकाग्रं सततं कृत्वा चित्तं विष्णौ समर्पितम् ॥ ८७॥
विकल्परहितं चित्तं हृदि मध्ये न्यवेशयत् ।
पुण्डरीके शुभदले समावेश्य जगत्पतिम् ॥ ८८॥
आस्ते सुखं महायोगी पिशिताशस्तदा महान् ।
त्रिधामानं जपंस्तत्र स्मरन् विष्णुं सनातनम् ॥ ८९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां
घण्टाकर्णचित्तसमाधावशीतितमोऽध्यायः ॥ ८०॥
३.८१ एकाशीतितमोऽध्यायः
घण्टाकर्णस्य विष्णुसाक्षात्कारलाभः GhaNTAkarNa blessed with vision of viShNu
पिशाचेन समाधिअवस्थायां विष्णोः साक्षात्कारं
वैशम्पायन उवाच ।
ततः स भगवान् विष्णुः पिशाचं दृष्टवांस्तदा ।
चिन्तयत्त स्वमात्मानं शुद्धबुद्धिसमन्वितम् ॥ १॥
आत्मन्यवस्थितं साक्षात् पठन्तं प्रणवं सकृत् ।
प्रार्थयन्तं स्वमात्मानमेकान्ते नियतं हरिः ॥ २॥
अचिन्तयज्जगन्नाथः कारणं पुण्यसञ्चये ।
ध्यात्वा तु सुचिरं विष्णुः कारणं पुण्यकर्मणः ॥ ३॥
धनदस्योपदेशेन पठन् सुबहुशः क्षितौ ।
वासुदेवेति कृष्णेति माधवेति च मां सदा ॥ ४॥
जनार्दन हरे विष्णो भूतभावनभावन ।
नराकार जगन्नाथ नारायण परायण ॥ ५॥
इति मां नामभिर्नित्यं पठत्येव दिवानिशम् ।
स्वपञ्जाग्रंस्तथा तिष्ठन्भुञ्जन्गच्छंस्तथा वदन् ॥ ६॥
भक्षयन् मांसपिटकं पिबञ्च्छोणितमेव वा ।
बाधमानश्च सुचिरं हत्वा चापि मृगान् बहून् ॥ ७॥
हनने भोजने चैष जाग्रत्स्वप्ने तथैव च ।
सर्वेष्वपि च कार्येषु कर्ताहमिति मन्यते ॥ ८॥
एतस्य कर्मणः पाक एष घोरस्य कर्मणः ।
निश्चित्यैवं जगन्नाथः प्रीतस्तस्य बभूव ह ॥ ९॥
अदर्शयत् स्वमात्मानमनन्यस्य जगत्पतिः ।
शुद्धेऽन्तःकरणे तस्य पिशाचस्यापि भूमिप ॥ ३.८१.१०॥
स च घोरः पिशाचोऽपि ददर्शात्मनि केशवम् ।
पीतकौशेयवसनं पद्माक्षं श्यामलं हरिम् ॥ ११॥
शङ्खिनं चक्रिणं विष्णुं स्रग्विणं गदिनं विभुम् ।
किरीटिनं कौस्तुभिनं श्रीवत्साच्छादितोरसम् ॥ १२॥
नीलमेघनिभं कान्तं गरुडस्थं प्रभञ्जनम् ।
चतुर्भुजं शुभगिरं निश्चलं सर्वगं शिवम् ॥ १३॥
अनादिनिधनं नित्यं मायाविनममायिनम् ।
सत्ययुक्तं सदा शुद्धं बुद्धिगम्यं सदामलम् ॥ १४॥
मनस्येवं जगन्नाथं दृष्ट्वा विष्णुमनेकधा ।
अनुन्मील्यैव नयने कृतार्थोऽस्मीत्यमन्यत ॥ १५॥
अथ दृष्टो हरिर्विष्णुः साक्षात् सर्वत्रगः शुभः ।
प्रसन्नो हि हरिर्मह्यं तेनाहं दृष्टवान् हरिम् ॥ १६॥
सिद्धं मे जन्मनः कृत्यं किमतः कृत्यमस्ति मे ।
ग्रन्थयो मम निर्भिन्ना वश्यान्येवेन्द्रियाणि मे ॥ १७॥
प्रायेण जितमित्येव मनो मन्ये स्मृते हरौ ।
एषणाश्च निरस्ता मे प्रसन्नोऽहं तथाभवम् ॥ १८॥
एतेभ्योऽपि पिशाचेभ्यो निर्मुक्तः साम्प्रतं तथा ।
योऽसौ ममानुजः साक्षात्स च भक्तस्तथा हरौ ॥ १९॥
कालेन चैव निर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ।
इत्येवं चिन्तयित्वा स आन्त्रपाशं विभिद्य च ॥ ३.८१.२०॥
क्रमेण प्राणानुन्मुच्य विलोक्य च दिशस्तथा ।
शरीरं सुगमं कृत्वा प्राविशत् स सुखेन ह ॥ २१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां
पिशाचस्य विष्णुसाक्षात्कारे एकाशीतितमोऽध्यायः ॥ ८१॥
३.८२ द्व्यशीतितमोऽध्यायः
घण्टाकर्णकृतो विष्णुस्तवः GhaNTAkarNa's Hymn to viShNu
घण्टाकर्णेन भगवतः विष्णोः स्तुतिः
वैशम्पायन उवाच ।
पिशिताशो जगन्नाथं ददर्शाथ जगद्गुरुम् ।
समाधौ च यथा दृष्टं भूमौ चापि तथा हरिम् ॥ १॥
अयं विष्णुरयं विष्णुरित्यूचे पिशिताशनः ।
समाधौ च यथा दृष्टः सोऽयमत्रापि दृश्यते ।
इत्युक्त्वा च पुनर्ब्रूते नृत्यन्निव हसन्निव ॥ २॥
अयं स चक्री शरशार्ङ्गधन्वा गदी रथी सध्वजतूणपाणिः ।
सहस्रमूर्धा सकलामरेशो जगत्प्रसूतिर्जगतां निवासः ॥ ३॥
विष्णुर्जिष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः ।
विश्वात्मा विश्वकर्ता यः सोऽयमेष सनातनः ॥ ४॥
अस्यैव देवस्य हरेः स्तनान्तरे विराजते कौस्तुभरत्नदीपः ।
यस्य प्रसादाज्जगदेतदादौ विराजते चन्द्रमसेव रात्रिः ॥ ५॥
योऽसौ पृथ्वीं दधाराशु दंष्ट्रया जलसञ्चयात् ।
योऽयमेव हरिः साक्षाद् वाराहं वपुरास्थितः ॥ ६॥
बद्ध्वा तथा दानवमुग्रपौरुषं ददौ च शक्राय ततोऽनुराज्यम् ।
बलिं बलादेव हरिः स वामनः स्तुतश्च भक्त्या मुनिभिः पुरातनैः ॥ ७॥
दंष्ट्राकरालः सुमहान् हत्वा यो दानवान् रणे ।
निःशोकमखिलं लोकं चकारासौ जनार्दनः ॥ ८॥
आदौ दधारैकभुजेन मन्दरं निर्जित्य सर्वानसुरान् महार्णवे ।
ददौ च शक्राय सुधामयं महान् स एष साक्षादिह मामवस्थितः ॥ ९॥
यः शेते जलधौ नागे देव्या लक्ष्म्या सुखावहे ।
हत्वा तौ दानवौ घोरौ मधुकैटभसंज्ञितौ ॥ ३.८२.१०॥
यमाहुराद्य विबुधा जगत्पतिं सर्वस्य धातारमजं जनित्रम् ।
अणोरणीयांसमतिप्रमाणं स्थूलात्स्थविष्ठं हरिमेव विष्णुम् ॥ ११॥
यत्र स्थितमिदं सर्वं प्राप्ते लोकस्य नाशने ।
आदौ यस्मात्समुत्पन्नं सोऽयं विष्णुरिति स्थितः ॥ १२॥
यस्येच्छया सर्वमिदं प्रवृत्तं प्रवर्तते चापि जनार्दनस्य ।
अयं स विष्णुः पुरुषोत्तमः शिवः प्रवर्तते मामिह यादवेश्वरः ॥ १३॥
भृगोर्वंशे समुत्पन्नो जामदग्न्य इति श्रुतः ।
शिष्यत्वं समवाप्यैव मृगव्याधस्य यः स्थितः ॥ १४॥
जघान वीर्याद् बलिनं महारणे कुठारशस्त्रेण गिरीशशिष्यः ।
सहस्रबाहुं कृतवीर्यसम्भवं हयैर्गजैश्चैव रथैश्च निर्गतम् ॥ १५॥
कुरुक्षेत्रं समासाद्य यश्चकार पितृक्रियाम् ।
निःक्षत्रियमिमं लोकं कृतवानेकविंशतिः ॥ १६॥
रघोरथ कुले जातो रामो नाम जनार्दनः ।
सीतया च श्रिया युक्तो लक्ष्मणानुचरः कृती ॥ १७॥
कृत्वा च सेतुं जलधौ जनार्दनो हत्वा च रक्षःपतिमाशुगैः शरैः ।
दत्त्वा च राज्यं स विभीषणाय दशाश्वमेधैरयजच्च योऽसौ ॥ १८॥
वसुदेवकुले जातो वासुदेवेति शब्दितः ।
गोकुले क्रीडते योऽसौ सङ्कर्षणसहायवान् ॥ १९॥
उत्तानशायी शिशुरूपधारी पीत्वा स्तनं पूतनिकाप्रदत्तम् ।
व्यसुं चकाराशु जनार्दनस्तदा दनोः सुतां तामवसत् सुखं हरिः ॥ ३.८२.२०॥
पयःपानं तथा कुर्वन् भक्षयन् दधिपिण्डकम् ।
दाम्ना बद्धोदरो विष्णुर्मात्रा रुषितया दृढम् ॥ २१॥
ततश्च दाम्ना सुदृढेन बद्धो जघान योऽसौ यमलार्जुनौ च ।
क्रीडन् हरिर्गोकुलवासवासी गोपीभिरास्वाद्य मुखं स्तनं च ॥ २२॥
वृन्दावने वसन् विष्णुर्गोपैर्गोकुलवासिभिः ।
तत्र हत्वा हयं राजन् विरराजांशुमानिव ॥ २३॥
यः क्रीडते नागफणौ जनार्दनो निषेव्यमाणः सह गोपदारकैः ।
महाह्रदे नागपतिं जगत्पतिर्ममर्द वीर्यातिशयं प्रदर्शयन् ॥ २४॥
यो धेनुकं तालवने तत्फलैः सममच्छिनत् ।
हत्वा दानवमुग्रं तं गोपान् विस्मापयत्यसौ ॥ २५॥
दधार यो गोधरमुग्रपौरुषान् महामतिर्मेघसमागमे सति ।
विडम्बयञ्छक्रबलं प्रमोदयन् गोपांश्च गोपीश्च स गोकुलं हरिः ॥ २६॥
गोपीनां स्तनमध्ये तु क्रीडते काममीश्वरः ।
योऽसौ पिबंस्तदधरं मायामानुषदेहवान् ॥ २७॥
गोपीभिरास्वाद्य मुखं विविक्ते शेते स्म रात्रौ सुखमेव केशवः ।
स्तनान्तरेष्वेव तदा च तासां कामीव कान्ताधरपल्लवं पिबन् ॥ २८॥
अक्रूरेण समाहूतस्तेन गच्छन् हि यामुने ।
जले यो ह्यर्चितस्तेन नागलोके स एव हि ॥ २९॥
ततश्च गच्छन्बलवाज्जनार्दनो हत्वा तमुग्रं रजकं बलात्पथि ।
हृत्वा च वस्त्राणि यथेष्टमीश्वरो ययौ सरामो मथुरां पुरीं हरिः ॥ ३.८२.३०॥
लब्ध्वा च दामानि बहूनि कामदो दत्त्वा वरं माल्यकृते महान्तम् ।
लब्ध्वानुलेपं सुरभिं च यादवः कुब्जां चकाराशु महार्हरूपाम् ॥ ३१॥
योऽसौ चापं समादाय मध्ये छित्त्वा महद्धनुः ।
सिंहनादं महांश्चक्रे कल्पान्ते जलदो यथा ॥ ३२॥
हत्वा गजं घोरमुदग्ररूपं विषाणमादाय ततोऽनु केशवः ।
ननर्त रङ्गे बहुरूपमीश्वरः कंसस्य दत्त्वा भयमुग्रवीर्यः ॥ ३३॥
योऽसौ हत्वा महामल्लं चाणूरं निहतद्विषम् ।
यादवेभ्यो ददौ प्रीतिं कंसस्यैव तु पश्यतः ॥ ३४॥
जघान कंसं रिपुपक्षघातिनं पितृद्विषं यादवनामधेयम् ।
संस्थाप्य राज्ये हरिरुग्रसेनं सान्दीपनं काश्यमुपागतो यः ॥ ३५॥
विद्यामवाप्य सकलां दत्त्वा पुत्रं महामुनेः ।
साग्रजोऽथ जगामाशु मथुरां यादवीं पुरीम् ॥ ३६॥
हत्वा निशुम्भं नरकं महामतिः कृत्वा स घोरं कदनं जनार्दनः ।
ररक्ष विप्रान् मुनिवीरसङ्घान् देवांश्च सर्वाञ्जगतो जगत्पतिः ॥ ३७॥
स एष भगवान् विष्णुरद्य दृष्टो जनार्दनः ।
कृतकृत्योऽस्मि सञ्जातः सायुज्यं प्राप्तवानहम् ॥ ३८॥
येन दृष्टो हरिः साक्षात्तस्य मुक्तिः करे स्थिता ।
सोऽयमेष हरिः साक्षात् प्रत्यक्षमिह वर्तते ॥ ३९॥
नूनं जन्मान्तरे पूर्वं धर्मः सञ्चित एव मे ।
यस्य पाकः समुत्पन्नौ येनासौ दृश्यते मया ॥ ३.८२.४०॥
सर्वथा पुण्यवानस्मि नष्टसंसारबन्धनः ।
किमस्मै दीयते वस्तु किं नु वक्ष्यामि साम्प्रतम् ।
करिष्ये किमहं विष्णो वदस्वाद्य यथेप्सितम् ॥ ४१॥
वैशम्पायन उवाच ।
इत्युक्त्वा विस्तरं नादं ननर्द बहुशस्तदा ।
जहास विकृतं भूयो ननर्त पिशिताशनः ॥ ४२॥
नमो नमो हरे कृष्ण यादवेश्वर केशव ।
प्रत्यक्षं च हरेस्तत्र ननर्त विविधं नृप ॥ ४३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां घण्टाकर्णस्तुतौ द्व्यशीतितमोऽध्यायः ॥ ८२॥
३.८३ त्र्यशीतितमोऽध्यायः
घण्टाकर्णस्य मुक्तिः GhaNTAkarNa attains liberation
घण्टाकर्णेन भगवन्तं श्रीकृष्णं उपहारसमर्पणं, भगवता तं वरप्रदानं, मृतस्य ब्राह्मणस्य जीवनदानं
वैशम्पायन उवाच ।
विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।
ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः ॥ १॥
द्विधाकृत्य महाघोरं पिशितं केशशाड्वलम् ।
ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः ॥ २॥
विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।
इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ॥ ३॥
गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।
भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे ॥ ४॥
भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।
दत्तं यद् भक्तिनम्रेण ग्राह्यं तत् स्वामिना हरे ॥ ५॥
नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् ।
अस्माकं पिशिताशानां शास्त्रे नियतमेव हि ॥ ६॥
तस्माद् गृहाण भगवन् यदि दोषो न विद्यते ।
इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः ॥ ७॥
दातुमैच्छत् तदा खण्डमस्पृश्यं तु शवस्य ह ।
ततः प्रीतोऽभवत् तस्मै मनसा पूजयच्च तम् ॥ ८॥
अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ।
इति सञ्चिन्त्य मनसा प्रोवाच यदुपुङ्गवः ॥ ९॥
अलमेतेन सर्वत्र पिशाच पिशिताशन ।
अस्पृश्य मादृशैरेतद् ब्राह्मण्यं शवमुत्तमम् ॥ ३.८३.१०॥
ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः ।
पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने ॥ ११॥
न हन्तव्याः सदा विप्रास्तद्धिंसा नरकावहा ।
तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा ॥ १२॥
भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलमेतया ।
मनःशुद्ध्यै कृतो यत्नस्ततः प्रीतोऽस्मि मांसप ॥ १३॥
अस्मत्सङ्कीर्तनाच्छश्वच्छुद्धं हि करणं तव ।
अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः ॥ १४॥
पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।
करेण मृदुना देवः पापान्निर्मोचयद्धरिः ॥ १५॥
ततस्तस्याभवद् रूपं कामरूपसमप्रभम् ।
दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ॥ १६॥
समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।
पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः ॥ १७॥
केयूरी चाङ्गदी चैव कौशेयवसनस्तदा ।
ज्ञानवान्सत्त्वसम्पन्नः साक्षादिन्द्र इवापरः ॥ १८॥
गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् ।
साक्षात्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम् ॥ १९॥
न नूनं तादृशं रूपमासीत् कालान्तरेष्वपि ।
अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ॥ ३.८३.२०॥
कृत्वा सुबहुशो घोरं तपः परमदारुणम् ।
यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम ॥ २१॥
को नु नाम जगन्नाथमाश्रितः सीदते नृप ।
स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम् ॥ २२॥
ध्यायन् पठञ्जपन्वापि तस्य किं नास्ति भूपते ।
ततः प्रोवाच भगवान् स्थितं काममिवापरम् ॥ २३॥
अक्षयः स्वर्गवासस्ते यावदिन्द्रो वसिष्यति ।
तावत् स्वर्गी भवानस्तु शासनान्मम नान्यतः ॥ २४॥
नष्टे शक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु ।
योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा ॥ २५॥
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा ॥ २६॥
घण्टाकर्ण उवाच ।
यश्चेमं सङ्गमं देव संस्मरेन्नियतात्मवान् ।
भक्तिस्तस्याचला देव त्वयि भूयाज्जनार्दन ॥ २७॥
मनःशुद्धिर्भवेत्तस्य मा भूत् कलुषता हरे ।
कालुष्यं मनसस्तस्य मा भूदेष वरो मम ॥ २८॥
एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः ।
इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः ॥ २९॥
इत्युक्त्वा भगवान् कृष्ण उत्थाप्य ब्राह्मणं तदा ।
तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम् ॥ ३.८३.३०॥
ततो विसृज्य गोविन्दस्तस्माद् देशादुपागमत् ।
यत्र ते मुनयः सिद्धा अग्निहोत्रसमन्विताः ॥ ३१॥
स च स्वर्गी गतः स्वर्गमाज्ञया केशवस्य ह ।
तस्मात्पठ सदा राजन्मनःशुद्धिं यदीच्छसि ।
मनश्च शुद्धं भवति पठतस्ते जगत्पते ॥ ३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि घण्टाकर्णमुक्तिप्रदाने त्र्यशीतितमोऽध्यायः ॥ ८३॥
३.८४ चतुरशीतितमोऽध्यायः
श्रीकृष्णतपोवर्णनम् KRiShNa's penance
श्रीकृष्णस्य कैलासं प्रापयित्वा तत्र द्वादशवर्षेभ्यः कठोरतपश्चरणं
वैशम्पायन उवाच ।
ततः स भगवान्विष्णुर्मुनिभ्यस्तत्त्वमादितः ।
कथयामास यद् वृत्तं पिशाचस्य महात्मनः ॥ १॥
तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ।
अहोऽस्य कर्मणः पाकस्तव सन्दर्शनात्तत ॥ २॥
अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः ।
ततः प्रभाते विमले सूर्ये चाभ्युदिते सति ॥ ३॥
आरुह्य गरुडं विष्णुर्ययौ कैलासमुत्तमम् ।
भवद्भिस्तत्र गन्तव्यमित्युक्त्वा मुनिसत्तमान् ॥ ४॥
यत्र विश्वेश्वराः सिद्धास्तपस्यन्ति यतव्रताः ।
यत्र वैश्रवणः साक्षादुपास्ते शङ्करं सदा ॥ ५॥
यश्च तन्मानसं नाम सरो हंसालयं महत् ।
यत्र भृङ्गीरिटिर्देवमुपास्ते शङ्करं शिवम् ॥ ६॥
गाणपत्यमवाप्याथ हरपार्श्वचरः सदा ।
यत्र सिंहा वराहाश्च द्विपद्वीपिमृगैः सह ॥ ७॥
क्रीडन्ति वन्यरतयः परस्परहिते रताः ।
यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरङ्गमाः ॥ ८॥
यत्र विश्वेश्वरः शम्भुरच्छिनद् ब्रह्मणः शिरः ।
यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः ॥ ९॥
उमया यत्र सहितः शङ्करो नीललोहितः ।
ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र गिरिः सुताम् ॥ ३.८४.१०॥
शङ्कराय जगद्धात्रे शिवाय जगतीपते ।
यत्र लेभे हरिश्चक्रमुपास्य बहुभिर्दिनैः ॥ ११॥
पुष्करैः शतपत्रैश्च नेत्रेण च जगत्पतिम् ।
गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिन्नराः ॥ १२॥
प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् ।
यमुद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह ॥ १३॥
तमारुह्य महाशैलं देवकीनन्दनो हरिः ।
मानसस्योत्तरं तीरं जगाम यदुनन्दनः ॥ १४॥
तपश्चर्तुं किल हरिर्विष्णुः सर्वेश्वरः शिवः ।
जटी चीरी जगन्नाथो मानुषं वपुरास्थितः ॥ १५॥
तपसे धृतचित्तस्तु शुचौ भूमावुपाविशत् ।
अवरुह्य ततो यानाद् गरुडाद्वेदसम्मितात् ॥ १६॥
द्वादशाब्दं तपश्चर्तुं मनो दध्रे ततो हरिः ।
फाल्गुनेन तु मासेन समारेभे जगत्पतिः ॥ १७॥
शाकभक्षः कृतजपो वेदाध्ययनतत्परः ।
किमुद्दिश्य जगन्ताथस्तपश्चरति मानवः ॥ १८॥
तं न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना ।
तपस्यति तदा विष्णौ पर्वते भूतसेविते ॥ १९॥
गरुडः कश्यपसुत इन्धनानि समाचिनोत् ।
होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ॥ ३.८४.२०॥
चक्रराजोऽथ पुष्पाणि सञ्चिनोति तदा हरेः ।
दिक्षु सर्वासु सर्वत्र ररक्ष जलजस्तदा ॥ २१॥
खड्ग आहृत्य यत्नेन कुशान् सुबहुशस्तदा ।
गदा कौमोदकी चैव परिचर्या चकार ह ॥ २२॥
धनुःप्रवरमत्युग्रं शार्ङ्ग दानवभीषणम् ।
स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत् स्वयम् ॥ २३॥
जुहोति भगवान् विष्णुरेधोभिर्बहुभिः सदा ।
आज्यादिभिस्तदा हव्यैरग्निं सम्पूज्य माधवः ॥ २४॥
सप्तार्चिषः समाप्तिं च समस्तव्यस्ततः कृती ।
एकस्मिन्नेकदा मासे भुञ्जानो नियतात्मवान् ॥ २५॥
द्वितीये त्वथ पर्याये भुञ्जन्नेकेन केशवः ।
एकस्मिन् वत्सरे भुञ्जंस्तथैवैकेन केनचित् ॥ २६॥
समाप्य तत् तपः सर्वमेवमेव जगत्पतिः ।
द्वादशाब्दे तथा पूर्णे ऊनमासे जगत्पतिः ॥ २७॥
जुह्वन्नग्निं समास्थाय पठन् मन्त्रं जनार्दनः ।
आरण्यकं पठन् विष्णुः साक्षात् सर्वेश्वरो हरिः ।
आस्ते ध्यानपरस्तत्र पठन् प्रणवमुत्तमम् ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां
कृष्णतपोवर्णने चतुरशीतितमोऽध्यायः ॥ ८४॥
३.८५ पञ्चाशीतितमोऽध्यायः
श्रीकृष्णसमीपे इन्द्रादिदेवआनामागमनम् Indra and others come to watch
भगवतः श्रीकृष्णस्य समीपे इन्द्रादीनां देवानां उमासहितस्य भगवतः शिवस्य चागमनं
वैशम्पायन उवाच ।
तत इन्द्रः स्वयं तत्र आरुह्य गजमुत्तमम् ।
द्रष्टुं सर्वेश्वरं विष्णुं तपस्यन्तं समाययौ ॥ १॥
ततो यमस्तु भगवानारुह्य महिषं वरम् ।
किङ्करैश्च स्वयं साक्षादाययौ नगमुत्तमम् ॥ २॥
प्रचेता हंसमारुह्य वारुणैश्च समन्वितः ।
श्वेतच्छत्रसमायुक्तः श्वेतव्यजनवीजितः ॥ ३॥
ययौ कैलासशिखरं द्रष्टुं केशवमञ्जसा ।
अन्ये चापि तथा देवा आदित्या वसवस्तथा ॥ ४॥
रुद्राश्चैव तथा राजन् द्रष्टुं केशवमाययुः ।
सिद्धाश्च मुनयश्चैव गन्धर्वा यक्षकिन्नराः ॥ ५॥
सर्वाश्चाप्सरसो राजन् नृत्यगीतविशारदाः ।
ततो देवगणः सर्वः कैलासं समपद्यत ॥ ६॥
पर्वतो नारदश्चैव तथान्ये मुनिसत्तमाः ।
विस्मयस्थितलोलाक्षाः सर्वदेवगणास्तथा ॥ ७॥
आश्चर्यं खलु पश्यध्वं न भूतं न भविष्यति ।
योगिध्येयः स्वयं कृष्णो यत्तप्यति गुरुः स्वयम् ।
को न्वत्र समयो भूयादिति ते मेनिरे गणाः ॥ ८॥
ततः समाप्ते सकले जगत्पतेर्व्रते समूले सकलेश्वरः शिवः ।
द्रष्टुं हरिं लोकहितैषिणं प्रभुं ययौ भवान्या सह भूतसङ्घैः ॥ ९॥
सार्धं कुबेरेण सगुह्यकेन सख्या प्रियेण प्रभुरीश्वरः शिवः ।
स्वयं जटी भूतपिशाचसंवृतः शरी च खड्गी शशिखण्डशेखरः ॥ ३.८५.१०॥
करेण बिभ्रत्सहदर्भकुण्डिकां करेण साक्षादपरेण दीपिकाम् ।
अन्येन विभ्रन्महतीं स डिण्डिमां शूलं च बिभ्रन्नपरेण बाहुना ॥ ११॥
गुणान् स रुद्राक्षकृतान् समुद्वहञ्जटाभिरापिङ्गलताम्रमूर्तिः ।
विराजमानः प्रभुरिन्दुशेखरो वृषेण युक्तः स सितेन शङ्करः ॥ १२॥
उमास्तनद्वन्द्वसमर्पिताननस्तथा समाश्लिष्य निपीडिताधरः ।
गङ्गाम्बुविक्षालितचन्द्रशेखरस्तां चापि वीक्षन् बहुशस्तदा शिवः ॥ १३॥
भस्माङ्गरागैरनुलेपिताननो महोरगैर्बद्धजटः सनातनः ।
शिरःकपालैः परिशोभितस्तदा द्रष्टुं हरिं केशवमभ्ययाच्छिवः ॥ १४॥
यमाहुरग्र्यं पुरुषं महान्तं पुरातनं साङ्ख्यनिबद्धदृष्टयः ।
यस्यापि देवस्य गुणान् समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके ॥ १५॥
यमाहुरेकं पुरुषं पुरातनं कणादनामानमजं महेश्वरम् ।
दक्षस्य यज्ञं विनिहत्य यो वै विनाश्य देवानसुरान् सनातनः ॥ १६॥
यं विदुर्भूततत्त्वज्ञं भूतेशं भूतभावनम् ।
वामदेवं विरूपाक्षमाहुस्तत्त्वविदो जनाः ॥ १७॥
महादेवं सहस्राक्षं कालमूर्तिं चतुर्भुजम् ।
रुद्रं रोदननामानमाहुर्विश्वेश्वरं शिवम् ॥ १८॥
अप्रमेयमनाधारमाहुर्माहेश्वरा जनाः ।
नग्नं नग्नपरीतं तु नागिनं त्वग्निवर्चसम् ॥ १९॥
आहुर्विश्वेश्वरं शान्तं शिवमादिं सनातनम् ।
तस्य मूर्तिरिमाः सर्वा धराद्याः सकला नृप ॥ ३.८५.२०॥
भूमिरापोऽनलो वायुः खं सूर्यश्च तथा शशी ।
अग्निश्च यजमानश्च प्रकृतिश्चैवमष्टधा ॥ २१॥
महादेवो महायोगी गिरीशो नीललोहितः ।
आदिकर्ता महाभर्ता शूलपाणिरुमापतिः ।
द्रष्टुं विश्वेश्वरं विष्णुं भूतसङ्घैः समाययौ ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवागमनकथने पञ्चाशीतितमोऽध्यायः ॥ ८५॥
३.८६ षडशीतितमोऽध्यायः
श्रीकृष्णसमीपे शिवागमनम् Shri shiva's arrival near shri kRiShNa
पिशाचैः, मुनिभिः अप्सरोभिश्च साकं उमासहितस्य भगवतः शङ्करस्य श्रीकृष्णस्य समीपे गमनं
वैशम्पायन उवाच ।
तस्याग्रे समपद्यन्त भूतसङ्घाः सहस्रशः ।
घण्टाकर्णो विरूपाक्षः कुण्डधार कुमुद्वहः ॥ १॥
दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः ।
उरुनेत्रः शतमुखः शतग्रीवः शतोदरः ॥ २॥
कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः ।
पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ॥ ३॥
त्रिबाहुः पञ्चबाहुश्च व्याघ्रवक्त्रः सिताननः ।
एते चान्ये च बहवो दीर्घास्या दीर्घलोचनाः ॥ ४॥
नृत्यन्तः प्रहसन्तश्च स्फोटयन्तः परस्परम् ।
तथान्ये घोररूपाश्च तथान्ये विकृताननाः ॥ ५॥
प्रेतभक्षाः प्रेतवाहा मांसशोणितभोजनाः ।
शवानि सुबहून्याशु भक्षयन्तस्ततस्ततः ॥ ६॥
पिबन्तो रुधिरं घोरं खण्डयन्तः शवान् बहून् ।
कराला वितता दीर्घा धमनिस्नायुसन्तताः ॥ ७॥
नानाविधाः सुवीराश्च शूलाग्रप्रोतमानुषाः ।
शिरोमालावृताः केचिदान्त्रपाशावपाशिताः ॥ ८॥
डिण्डिमैरट्टहासैश्च नादयन्तो वसुन्धराम् ।
कपालिनो भैरवाश्च जटिला मुण्डिनस्तथा ॥ ९॥
एवं बहुविधा घोराः पिशाचा विकृताननाः ।
तथान्ये मुनिवीराश्च ध्यायन्तः परमेश्वरम् ॥ ३.८६.१०॥
पठन्तो वेदवाक्यानि साङ्गानि विविधानि च ।
कुण्डि=कास्थकराः केचित्केचित्कुशविचारिणः ॥ ११॥
कौपीनवसनाः केचित् केचित् कार्पाससंवृताः ।
स्तुवन्तः शङ्करं भक्त्या स्तोत्रैर्माहेश्वरैस्तथा ॥ १२॥
एकत्र ते मुनिगणा अपरत्र गणास्तथा ।
अन्यत्र सिद्धगन्धर्वाः प्रियाभिः सह सङ्गताः ॥ १३॥
नृत्यन्ति नृत्यकुशला गायन्ति स्म च कन्यकाः ।
विद्याधरास्तथान्यत्र स्तुवन्तः शङ्करं शिवम् ॥ १४॥
ननृतुस्तस्य पुरतो गच्छन्तोऽप्सरसां गणाः ।
एवमेतैर्महाघोरैः पिशाचैर्भूतकिन्नरैः ॥ १५॥
मुनिभिश्चैव प्रमथैः समं शर्वः समाययौ ।
यत्र विश्वेश्वरो विष्णुस्तपस्तेपे सुदारुणम् ॥ १६॥
यत्र ते लोकपालाश्च तिष्ठन्ति स्म दिदृक्षया ।
उमया लोकभाविन्या गङ्गया चन्द्रशेखरः ॥ १७॥
स सर्वलोकप्रभवो भवो विभुर्जटी च साक्षात् प्रणवात्मकः कृती ।
द्रष्टुं हरिं विष्णुमुदारविक्रमो ययौ यथेष्टं पिशिताशनैर्वृतः ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां महादेवागमने षडशीतितमोऽध्यायः ॥ ८६॥
३.८७ सप्ताशीतितमोऽध्यायः
श्रीविष्णुकृता शिवस्तुतिः KRiShNa's hymn to shiva
भगवता श्रीकृष्णेन महादेवस्य स्तुतिः
वैशम्पायन उवाच ।
एवं बहुविधैर्भूतैः पिशाचैरुरगैः सह ।
आगत्य भगवान् रुद्रः शङ्करो वृषवाहनः ॥ १॥
ददर्श विष्णुं देवेशं तपन्तं तप उत्तमम् ।
जुह्वानमग्निं विधिवद् द्रव्यैर्मेध्यैर्जगत्पतिम् ॥ २॥
गरुडाहृतकाष्ठं तु जटिलं चीरवाससम् ।
चक्रेणानीतकुसुमं खड्गानीतकुशं तथा ॥ ३॥
गदाकृतसमाचारं देवदेवं जनार्दनम् ।
इन्द्राद्यैर्देवसङ्घैश्च वृतं मुनिगणैः सह ॥ ४॥
अचिन्त्यं सर्वभूतानां ध्यायन्तं किमपि प्रभुम् ।
अवरुह्य वृषाच्छर्वो भगवान् भूतभावनः ॥ ५॥
ततः प्रीतः प्रसन्नात्मा ललाटाक्ष उमापतिः ।
ततो भूतपिशाचाश्च राक्षसा गुह्यकास्तथा ॥ ६॥
मुनयो विप्रवर्याश्च जयशब्दं प्रचक्रिरे ।
जय देव जगन्नाथ जय रुद्र जनार्दन ॥ ७॥
जय विष्णो हृषीकेश नारायण परायण ।
जय रुद्र पुराणात्मञ्जय देव हरेश्वर ॥ ८॥
आदिदेव जगन्नाथ जय शङ्कर भावन ।
जय कौस्तुभदीप्ताङ्ग जय भस्मविराजित ॥ ९॥
जय चक्रगदापाणे जय शूलिंस्त्रिलोचन ।
जय मौक्तिकदीप्ताङ्ग जय नागविभूषण ॥ ३.८७.१०॥
इति ते मुनयः सर्वे प्रणामं चक्रिरे हरिम् ।
तत उत्थाय भगवान् दृष्ट्वा देवमवस्थितम् ॥ ११॥
वृषध्वजं विरूपाक्षं शङ्करं नीललोहितम् ।
ततो हृष्टमना विष्णुस्तुष्टाव हरमीश्वरम् ॥ १२॥
श्रीभगवानुवाच ।
नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे ।
नमस्ते शोचिषे अस्तु नमस्ते उपवासिने ॥ १३॥
नमस्ते मीढुषे अस्तु नमस्ते गदिने हर ।
नमस्ते विश्वतनवे वृषाय वृषरूपिणे ॥ १४॥
अमूर्ताय च देवाय नमन्तेऽस्तु पिनाकिने ।
नमः कुब्जाय कूपाय शिवाय शिवरूपिणे ॥ १५॥
नमस्तुष्टाय तुण्डाय नमस्तुटितुटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः ॥ १६॥
नमो हराय हिप्राय नमो हरिहराय च ।
नमोऽघोराय घोराय घोराघोरप्रियाय च ॥ १७॥
नमोऽघण्टाय घण्टाय नमो घटिघटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः ॥ १८॥
नमो विरूपरूपाय पुराय पुरहारिणे ।
नम आद्याय बीजाय शुचयेऽष्टस्वरूपिणे ॥ १९॥
नमः पिनाकहस्ताय नमः शूलासिधारिणे ।
नमः खट्वाङ्गहस्ताय नमस्ते कृत्तिवाससे ॥ ३.८७.२०॥
नमस्ते देवदेवाय नम आकाशमूर्तये ।
हराय हरिरूपाय नमस्ते तिग्मतेजसे ॥ २१॥
भक्तप्रियाय भक्ताय भक्तानां वरदायिने ।
नमोऽभ्रमूर्तये देव जगन्मूर्तिधराय च ॥ २२॥
नमश्चन्द्राय देवाय सूर्याय च नमो नमः ॥
नमः प्रधानदेवाय भूतानां पतये नमः ॥ २३॥
करालाय च मुण्डाय विकृताय कपर्दिने ।
अजाय च नमस्तुभ्यं भूतभावनभावन ॥ २४॥
नमोऽस्तु हरिकेशाय पिङ्गलाय नमो नमः ।
नमस्तेऽभीषुहस्ताय भीरुभीरुहराय च ॥ २५॥
हराय भीतिरूपाय घोराणां भीतिदायिने ॥
नमो दक्षमखघ्नाय भगनेत्रापहारिणे ॥ २६॥
उमापते नमस्तुभ्यं कैलासनिलयाय च ।
आदिदेवाय देवाय भवाय भवरूपिणे ॥ २७॥
नमः कपालहस्ताय नमोऽजमथनाय च ।
त्र्यम्बकाय नमस्तुभ्यं त्र्यक्षाय च शिवाय च ॥ २८॥
वरदाय वरेण्याय नमस्ते चन्द्रशेखर ।
नम इध्माय हविषे ध्रुवाय च कृशाय च ॥ २९॥
नमस्ते शक्तियुक्ताय नागपाशप्रियाय च ।
विरूपाय सुरूपाय भद्रपानप्रियाय च ॥ ३.८७.३०॥
श्मशानरतये नित्यं जयशब्दप्रियाय च ।
स्वरप्रियाय खर्वाय खराय खररूपिणे ॥ ३१॥
भद्रप्रियाय भद्राय भद्ररूपधराय च ।
विरूपाय सुरूपाय महाघोराय ते नमः ॥ ३२॥
घण्टाय घण्टभूषाय घण्टभूषणभूषिणे ।
तीव्राय तीव्ररूपाय तीव्ररूपप्रियाय च ॥ ३३॥
नग्नाय नग्नरूपाय नग्नरूपप्रियाय च ।
भूतावास नमस्तुभ्यं सर्वावास नमो नमः ॥ ३४॥
नमः सर्वात्मने तुभ्यं नमस्ते भूतिदायक ।
नमस्ते वामदेवाय महादेवाय ते नमः ॥ ३५॥
का नु वाक्स्तुतिरूपा ते को नु स्तोतुं प्रशक्नुयात् ।
कस्य वा स्फुरते जिह्वा स्तुतौ स्तुतिमतां वर ॥ ३६॥
क्षमस्व भगवन् देव भक्तोऽहं त्राहि मां हर ।
सर्वात्मन् सर्वभूतेश त्राहि मां सततं हर ॥ ३७॥
रक्ष देव जगन्नाथ लोकान् सर्वात्मना हर ।
त्राहि भक्तान् सदा देव भक्तप्रिय सदा हर ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां विष्णुकृतेश्वरस्तुतौ सप्ताशीतितमोऽध्यायः ॥ ८७॥
३.८८ अष्टाशीतितमोऽध्यायः
श्रीशिवकृता विष्ण्स्तुतिः Shiva praises viShNu
भगवता शिवेन श्रीविष्णोः स्तुतिः
वैशम्पायन उवाच ।
ततो वृषध्वजो देवः शूली साक्षादुमापतिः ।
करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह ॥ १॥
प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् ।
शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम् ॥ २॥
किमिदं देवदेवेश चक्रपाणे जनार्दन ।
तपश्चर्या किमर्थं ते प्रार्थना तव का विभो ॥ ३॥
स्वयं विष्णुर्भवान्नित्यस्तपस्त्वं तपसां हरे ।
पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन ॥ ४॥
पुत्रो दत्तो मया देव पूर्वमेव जगत्पते ।
शृणु तत्रापि भगवन् कारणं कारणात्मक ॥ ५॥
तपश्चर्तुं प्रवृत्तोऽहं कुतश्चित् कारणाद्धरे ।
वर्षायुतं महाघोरं पुरा कृतयुगे तदा ॥ ६॥
भवानी तत्र मे देव परिचर्तुं तदाभवत् ।
पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी ॥ ७॥
भीत इन्द्रस्तदा देव मारं मां प्रैषयत्तदा ।
मधुना सह संयुक्तो मारो मामागतस्तदा ॥ ८॥
लक्ष्यं मामकरोत् तत्र बाणस्य प्रेषितस्य ह ।
एष मां सेवते तत्र दानात् पुष्पादिनां हरे ॥ ९॥
ततः क्रुद्धोऽहमभवं दृष्ट्वा मारं तथाविधम् ।
क्रुद्ध्यतो मम देवेश नेत्रादग्निः पपात ह ॥ ३.८८.१०॥
सोऽयमग्निस्तदा मारं भस्मसात्कृतवान् हरे ।
अचिन्तयं तदा विष्णो शक्रस्यैतच्चिकीर्षितम् ॥ ११॥
ततः प्रभृति देवेश दया तं प्रति वर्तते ।
ब्रह्मणा च नियुक्तोऽस्मि प्रीतस्तत्र जनार्दन ॥ १२॥
नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।
ज्येष्ठस्तव सुतो देव प्रद्युम्नेत्यभिविश्रुतः ॥ १३॥
स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।
इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव ॥ १४॥
मुनीनां श्रोतुकामानां याथात्म्यं तत्र सत्तमः ।
अञ्जलिं सम्पुटं कृत्वा विष्णुमुद्दिश्य शङ्करः ॥ १५॥
उमया सार्धमीशानो याथात्म्यं वक्तुमैहत ।
हरे कुर्वति तत्रैवमञ्जलिं कुरुसत्तम ॥ १६॥
मुनयो देवगन्धर्वाः सिद्धाश्च सह किन्नराः ।
अञ्जलिं चक्रिरे विष्णौ देवदेवेश्वरे हरौ ॥ १७॥
महेश्वर उवाच ।
यत्तत्कारणमाहुस्तत्साङ्ख्याः प्रकृतिसंज्ञकम् ।
ततो महान् समुत्पन्नः प्रकृतिर्यस्य कारणम् ॥ १८॥
त्रिधा भूतं जगद्योनिं प्रधानं कारणात्मकम् ।
सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दन ॥ १९॥
तस्य कारणमाहुस्त्वां साङ्ख्यप्रकृतिसंज्ञकम् ।
तद्रूपेण भवान् विष्णो परिणम्याधितिष्ठति ॥ ३.८८.२०॥
तस्मात्तु महतो घोरादहङ्कारो महानभूत् ।
स त्वमादौ जगन्नाथ परिणामस्तथा हि सः ॥ २१॥
अहङ्कारात् प्रभो देव करणानि महान्ति च ।
तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत ॥ २२॥
तानि त्वामाहुरीशानं भूतानीह जगत्पते ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ २३॥
चक्षुर्घ्राणं तथा स्पर्शो रसनं श्रोत्रमेव च ।
मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ॥ २४॥
कर्मेन्द्रियाणि चान्यानि वागादीनि जनार्दन ।
त्वमेव तानि सर्वाणि करोषि नियतात्मवान् ॥ २५॥
स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।
निवेशयसि देवेश योग्यामिन्द्रियपद्धतिम् ॥ २६॥
यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् ।
यदाच सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम् ॥ २७॥
यदा त्वं तमसाऽऽकृष्टस्तदा संहरसे जगत् ।
त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने ॥ २८॥
वर्तसे त्रिविधां भूतिमादाय नियतात्मवान् ।
इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ॥ २९॥
प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो ।
तस्मात् सर्वत्र भूतेषु वर्तते सर्वभोगवान् ॥ ३.८८.३०॥
ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो ।
संहारे रुद्रनामासि त्रिधामा त्वमसि प्रभो ॥ ३१॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ॥ ३२॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रधारः साहस्री सहस्रात्मा दिवस्पतिः ॥ ३३॥
भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् ।
अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद् दशाङ्गुलम् ॥ ३४॥
त्वमेवेदं जगत् सर्वं यद् भूतं यद् भविष्यति ।
त्वत्तो विराट् प्रादुरभूत् संराट् चैव जनार्दन ॥ ३५॥
तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः ।
प्रादुरासीत्पुराणात्मन् षट्कर्मनिरतः सदा ॥ ३६॥
राजन्यस्तु तथा बाह्वोरासीत् संरक्षणे रतः ।
ऊर्वोर्वैश्यस्तथा विष्णो पादाच्छूद्र उदाहृतः ॥ ३७॥
एवं वर्णा जगन्नाथ तव देहाज्जनार्दन ।
मनसस्तव देवेश चन्द्रमाः समपद्यत ॥ ३८॥
सुखकृत् सर्वभूतानां शीतांशुरमितप्रभः ।
अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः ॥ ३९॥
यस्य भासा जगत् सर्वं भासते भानुमानसौ ।
मुखादिन्द्रश्च अग्निश्च प्राणाद् वायुरजायत ॥ ३.८८.४०॥
नाभेरभूदन्तरिक्षं तव देव जनार्दन ।
द्यौरासीत् तु महाघोरा शिरसस्तव गोपते ॥ ४१॥
पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते ।
एव सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितः ॥ ४२॥
व्याप्य सर्वानिमाँल्लोकान् स्थितः सर्वत्र केशव ।
ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात् ॥ ४३॥
नारा आपः समाख्यातास्तासामयनमादितः ।
यतस्त्वं भूतभव्येश तन्नारायणशब्दितः ॥ ४४॥
हरसि प्राणिनो देव ततो हरिरिति स्मृतः ।
शङ्करोऽसि सदा देव ततः शङ्करतां गतः ॥ ४५॥
बृहत्त्वाद् बृंहणत्वाच्च तस्माद् ब्रह्मेति शब्दितः ।
मधुरिन्द्रियनामेति ततो मधुनिषूदनः ॥ ४६॥
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ।
हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव ॥ ४७॥
क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशवनामवान् ॥ ४८॥
मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान्माधवनामासि धवः स्वामीतिब्दितः ॥ ४९॥
गौरेषा तु यतो वाणी तां च वेद यतो भवान् ।
गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् ॥ ३.८८.५०॥
त्रिरित्येव त्रयो वेदाः कीर्तिता मुनिसत्तमैः ।
क्रमते तांस्तथा सर्वांस्त्रिविक्रम इति श्रुतः ॥ ५१॥
अणुर्वामननामासि यतस्त्वं वामनाख्यया ।
मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥ ५२॥
तपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ।
वसन्ति त्वयि भूतानि भूतावासस्ततो हरे ॥ ५३॥
ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ।
प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो ॥ ५४॥
अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।
रुद्राणामहमेवासि वसूनां पावको भवान् ॥ ५५॥
अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् ।
मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ॥ ५६॥
दानवानां भवान् दैत्यः प्रह्रादो भक्तवत्सलः ।
सर्पाणामेव सर्वेषां भवान् वासुकिसंज्ञितः ॥ ५७॥
गुह्यकानां च सर्वेषां भवान् धनद एव च ।
वरुणो यादसां राजा गङ्गा त्रिपथभाग् भवान् ॥ ५८॥
आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद् विश्वं त्वयि सर्वं प्रलीयते ॥ ५९॥
अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥ ३.८८.६०॥
नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणा ॥ ६१॥
त्वदुपासा जगन्नाथ सैवास्ति मम गोपते ।
यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥ ६२॥
त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः ।
न तदस्ति विना देव यत् ते विरहितं हरे ॥ ६३॥
यदासीद् वर्तते यच्च यच्च भावि जगत्पते ।
सर्वे त्वमेव देवेश विना किञ्चित्त्वया न हि ॥ ६४॥
स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो ।
ऋक्च त्वं यजुरेवासि सामासि सततं प्रभो ॥ ६५॥
किमुच्यते मया देव सर्वं त्वं भूतभावन ।
नमः सर्वात्मना देव विष्णो माधव केशव ॥ ६६॥
नमस्करोमि सर्वात्मन् नमस्तेऽस्तु सदा हरे ।
नमः पुष्करनाभाय वन्दे त्वामहमीश्बर ॥ ६७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवकृतविष्णुस्तुतौ अष्टाशीतितमोऽध्यायः ॥ ८८॥
३.८९ एकोननवतितमोऽध्यायः
महादेवेन कृष्णस्वरूपवर्णनम् The description of kRiShNa's own form by mahAdeva
भगवता शङ्करेण ऋषिभ्यः श्रीकृष्णतत्त्वस्य उपदेशं
वैशम्पायन उवाच ।
इत्युक्त्वा देवदेवेशं मुनीनाह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुमागताः ॥ १॥
एतदेव परं वस्तु नैतस्मात् परमस्ति वः ।
एतदेव विजानीध्वमेतद् वः परमं तपः ॥ २॥
एतदेव सदा विप्रा ध्येयं सततमानसैः ।
एतद् वः परमं श्रेय एतद् वः परमं धनम् ॥ ३॥
एतद् वो जन्मनः कृत्यमेतद् वस्तपसः फलम् ।
एष वः पुण्यनिलय एष धर्मः सनातनः ॥ ४॥
एष वो मोक्षदाता च एष मार्ग उदाहृतः ।
एष पुण्यप्रदः साक्षादेतत् च कर्मणः फलम् ॥ ५॥
एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः ।
एष त्रयीगतिर्विप्राः प्रार्थ्यो ब्रह्मविदां सदा ॥ ६॥
एतदेव प्रशंसन्ति साङ्ख्ययोगसमाश्रिताः ।
एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः ॥ ७॥
एवमेव विजानीत नात्र कार्या विचारणा ।
हरिरेकः सदा ध्येयो भवद्भिः सत्त्वमास्थितैः ॥ ८॥
नान्यो जगति देवोऽस्ति विष्णोर्नारायणात्परः ।
ओमित्येवं सदा विप्राः पठत ध्यात केशवम् ॥ ९॥।
ततो निःश्रेयसप्राप्तिर्भविष्यति न संशयः ।
एवं ध्यातो हरिः साक्षात्प्रसन्नो वो भविष्यति ॥ ३.८९.१०॥
भवनाशमयं देवः करिष्यति दृढं हरिः ।
सदा ध्यात हरिं विप्रा यदीच्छ प्राप्तुमच्युतम् ॥ ११॥
एष संसारविभवं विनाशयति वो गुरुः ।
स्मरध्वं सततं विष्णुं पठध्वं त्रिशरीरिणम् ॥ १२॥
मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा ।
शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः ॥ १३॥
ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ।
उपास्योऽहं सदा विप्रा उपास्येऽस्मिन् हरी स्मृतः ॥ १४॥
उपायोऽयं मया प्रोक्तो नात्र सन्देह इत्यपि ।
अयं मायी सदा विप्रा यतध्वमघनाशने ॥ १५॥
यथा वो बुद्धिरखिला शुद्धा भवति यत्नतः ।
तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति ॥ १६॥
वैशम्पायन उवाच ।
एवमुक्तास्ततः सर्वे मुनयः पुण्यशीलिनः ।
यथावदुपगृह्णाना निरसन् संशयं नृप ॥ १७॥
एवमेवेति तं विप्राः प्राहुः प्राञ्जलयो हरम् ।
छिन्नो नः संशयः सर्वो गृहीतोऽर्थः स तादृशः ॥ १८॥
एतदर्थं समायाता वयमद्य तवालयम् ।
सङ्गमाद् युवयोः सर्वो नष्टो मोहो महानिह ॥ १९॥
यथा वदसि देवेश तथा नः श्रेयसे परम् ।
यथाऽऽह भगवान् रुद्रो यतामः सततं हरौ ।
इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् ॥ ३.८९.२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि ऋष्युपदेशे एकोननवतितमोऽध्यायः ॥ ८९॥
३.९० नवतितमोऽध्यायः
पुनरपि शिवकृता विष्णुस्तुतिः Shiva's hymn to viShNu
भगवता शङ्करेण द्वारा श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य कैलासात् बदरिकाश्रमे प्रत्यागमनं
वैशम्पायन उवाच ।
ततः स भगवान्रुद्रः सर्वान्विस्मापयन्निव ।
स्तुत्या प्रचक्रमे स्तोतुं विष्णुं विश्वेश्वरं हरिम् ।
अर्थ्याभिस्तु तदा वाग्भिर्मुनीनां शृण्वतां तथा ॥ १॥
महेश्वर उवाच ।
नमो भगवते तुभ्यं वासुदेवाय धीमते ।
यस्य भासा जगत् सर्वं भासते नित्यमच्युत ॥ २॥
नमो भगवते देव नित्यं सूर्यात्मने नमः ।
यः शीतयति शीतांशुर्लोकान् सर्वानिमान् विभुः ॥ ३॥
नमस्ते विष्णवे देव नित्यं सोमात्मने नमः ।
यः प्रजाः प्रीणयत्येको विश्वात्मा भूतभावनः ॥ ४॥
नमः सर्वात्मने देव नमो वागात्मने हरे ।
यो दधार करेणासौ कुशचीरादि यत् सदा ॥ ५॥
दधार वेदान् सर्वांश्च तुभ्यं ब्रह्मात्मने नमः ।
सर्वान् संहरते यस्तु संहारे विश्वदृक् सदा ॥ ६॥
क्रोधात्मासि विरूपोऽसि तुभ्यं रुद्रात्मने नमः ।
सृष्टौ स्रष्टा समस्तानां प्राणिनां प्राणदायिने ॥ ७॥
अजाय विष्णवे तुभ्यं स्रष्ट्रे विश्वसृजे नमः ।
आदौ प्रकृतिमूलाय भूतानां प्रभवाय च ॥ ८॥
नमस्ते देवदेवेश प्रधानाय नमो नमः ।
पृथिव्यां गन्धरूपेण संस्थितः प्राणिनां हरे ॥ ९॥
दृढाय दृढरूपाय तुभ्यं गन्धात्मने नमः ।
अपां रसाय सर्वत्र प्राणिनां सुखहेतवे ॥ ३.९०.१०॥
नमस्ते विश्वरूपाय रसाय च नमो नमः ।
तेजसा भास्करो यस्तु घृणिर्जन्तुहितः सदा ॥ ११॥
तस्मै देव जगन्नाथ नमो भास्कररूपिणे ।
वायोः स्पर्शगुणो यत्र शीतोष्णसुखदुःखदः ॥ १२॥
नमस्ते वायुरूपाय नमः स्पर्शात्मने हरे ।
आकाशेऽवस्थितः शब्दः सर्वश्रोत्रनिवेशनः ॥ १३॥
यो दधार जगत् सर्वं मायामानुषदेहवान् ॥ १४॥
नमस्तुभ्यं जगन्नाथ मायिनेऽमायदायिने ।
नम आद्याय बीजाय निर्गुणाय गुणात्मने ॥ १५॥
अचिन्त्याय सुचिन्त्याय तस्मै चिन्त्यात्मने नमः ।
हराय हरिरूपाय ब्रह्मणे ब्रह्मदायिने ॥ १६॥
नमो ब्रह्मविदे तुभ्यं ब्रह्मब्रह्मात्मने नमः ।
नमः सहस्रशिरसे सहस्रकिरणाय च ॥ १७॥
नमः सहस्रवक्त्राय सहस्रनयनाय च ।
विश्वाय विश्वरूपाय विश्वकर्त्रे नमो नमः ॥ १८॥
विश्ववक्त्रे नमो नित्यं भूतावास नमो नमः ।
इन्द्रियायेन्द्ररूपाय विषयाय सदा हरे ॥ १९॥
नमोऽश्वशिरसे तुभ्यं वेदाभरणरूपिणे ।
अग्नयेऽग्निपते तुभ्यं ज्योतिषां पतये नमः ॥ ३.९०.२०॥
सूर्याय सूर्यपुत्राय तेजसां पतये नमः ।
नमः सोमाय सौम्याय नमः शीतात्मने हरे ॥ २१॥
नमो वषट्कृते तुभ्यं स्वाहास्वधास्वरूपिणे ।
नमो यज्ञाय इज्याय हविषे हव्यसंस्कृते ।
नमः स्रुवाय पात्राय यज्ञाङ्गाय पराय च ॥ २२॥
नमः प्रणवदेहाय क्षरायाप्यक्षराय च ।
वेदाय वेदरूपाय शस्त्रिणे शस्त्ररूपिणे ॥ २३॥
गदिने खड्गिने तुभ्यं शङ्खिने चक्रिणे नमः ।
शूलिने चर्मिणे नित्य वरदाय नमो नमः ॥ २४॥
बुद्धिप्रियाय बुद्धाय प्रबुद्धाय सुखाय च ।
हरये विष्णवे तुभ्यं नमः सर्वात्मने गुरो ॥ २५॥
नमस्ते सर्वलोकेश सर्वकर्त्रे नमो नमः ।
नभः स्वभावशुद्धाय नमस्ते यज्ञसूकर ॥ २६॥
नमो विष्णो नमो विष्णो नमो विष्णो नमो हरे ।
नमस्ते वासुदेवाय वासुदेवाय धीमते ॥ २७॥
नमः कृष्णाय कृष्णाय सर्वावास नमो नमः ।
नमो भूयो नमस्तेऽस्तु पाहि लोकान् जनार्दन ॥ २८॥
इति स्तुत्वा जगन्नाथमुवाच मुनिसत्तमान् ।
इदं स्तोत्रमधीयाना नित्यं व्रजत केशवम् ॥ २९॥
शरण्यं सर्वभूतानां तत्र श्रेयो विधास्यति ।
ये चेमं धारयिष्यन्ति स्तवं पापविमोचनम् ॥ ३.९०.३०॥
तेषां प्रीतः प्रसन्नात्मा पठतां शृण्वतां हरिः ।
श्रेयो दास्यति धर्मात्मा नात्र कार्या विचारणा ॥ ३१॥
अवश्यं मनसा ध्यात केशवं भक्तवत्सलम् ।
श्रेयः प्राप्तुं यदीच्छन्ति भवन्तः शंसितव्रताः ॥ ३२॥
इत्युक्त्वा भगवान् रुद्रस्तत्रैवान्तरधीयत ।
सगणः शङ्करः साक्षादुमया भूतभावनः ॥ ३३॥
नेमुस्तं मुनयः सर्वे परां निर्वृतिमाययुः ।
तमेव परमं तत्त्वं मत्वा नारायणं हरिम् ।
विस्मयं परमं गत्वा मेनिरे स्वकृतार्थताम् ॥ ३४॥
लोकपालास्तदा विष्णुं नमस्कृत्य हरिं मुदा ।
जग्मुः स्वान्यथ वेश्मानि गणैः सर्वैर्नृपोत्तम ॥ ३५॥
आरुह्य भगवान् विष्णुर्गरुडं पक्षिपुङ्गवम् ।
शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणी तनुत्रवान् ॥ ३६॥
यथागतं जगन्नाथो ययौ बदरिकामनु ।
सायाह्ने पुण्डरीकाक्षो नित्यं मुनिनिषेविताम् ॥ ३७॥
तत्र गत्वा यथायोगं विनम्य हरिरीश्वरः ।
अर्चितो मुनिभिः सर्वैर्निषसाद सुखासने ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां कृष्णप्रत्यागमने नवतितमोऽध्यायः ॥ ९०॥
३.९१ एकनवतितमोऽध्यायः
पौण्ड्रकवृत्तान्तारम्भः Beginning of pauNDraka's story
पौण्ड्रकेन राजानां सभायां स्वकं शङ्ख, चक्रादि युक्तं वासुदेवं
घोषयित्वा श्रीकृष्णस्य पराजयितुं काङ्क्षाकरणं
वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु पौण्ड्रो नृपवरोत्तमः ।
बलवान् सत्त्वसम्पन्नो योद्धा विपुलविक्रमः ॥ १॥
वृष्णिशत्रुस्तदा राजा कृष्णद्वेषी बलात् तदा ।
नृपान् सर्वान् समाहूय प्रोवाच नृपसंसदि ॥ २॥
जिता च पृथिवी सर्वा जिताश्च नृपसत्तमाः ।
वृष्णयस्ते बलोन्मत्ताः कृष्णमाश्रित्य गर्विताः ॥ ३॥
दास्यन्ति मे करं सर्वे न हि ते कृष्णसंश्रयात् ।
स तु कृष्णश्चक्रबलान्मामवज्ञाय तिष्ठति ॥ ४॥
अहं चक्रीति गर्वोऽभूत्तस्य गोपस्य सर्वदा ।
शङ्खी चक्री गदी शार्ङ्गी शरी तूणी सहायवान् ॥ ५॥
एवमादिर्महागर्वस्तस्य सम्प्रति वर्तते ।
लोके च मम यन्नाम वासुदेवेति विश्रुतम् ॥ ६॥
अगृह्णान्मम तन्नाम गोपो मदबलान्वितः ।
तस्य चक्रस्य यच्चक्रं ममापि निशितं महत् ॥ ७॥
गर्वहन्तृ सदा तस्य नाम्ना चापि सुदर्शनम् ।
सहस्रारं महाघोरं तस्य चक्रस्य नाशनम् ॥ ८॥
अनेकमहतं चक्रं गोपजस्य नृपोत्तमाः ।
ममाप्येतद् धनुर्दिव्यं शार्ङ्गं नाम महारवम् ॥ ९॥
गदा कौमोदकी नाम ममेयं बृहती दृढा ।
कालायससहस्रस्य भारेण सुकृता मया ॥ ३.९१.१०॥
खड्गो नन्दकनामासौ ममायं विपुलो दृढः ।
अन्तकस्यान्तको घोरस्तस्य खड्गस्य नाशकः ॥ ११॥
तत्राहं च गदी खड्गी शङ्खी चक्री तनुत्रवान् ।
युधि जेता च कृष्णस्य नात्र कार्या विचारणा ॥ १२॥
मां च ब्रूत नृपाश्चैव गदिनं चक्रिणं तथा ।
शङ्खिनं शार्ङ्गिणं वीरं ब्रूत नित्यं नृपोत्तमाः ॥ १३॥
वासुदेवेति मां ब्रूत न तु गोपं यदूत्तमम् ।
एकोऽहं वासुदेवो हि हत्वा तं गोपदारकम् ॥ १४॥
सख्युर्मम बलाद्धन्ता नरकस्य महात्मनः ।
मां तथा यदि न ब्रूत दण्ड्या भारशतैः शतम् ॥ १५॥
सुवर्णस्य च निष्कस्य धान्यस्य बहुशस्तदा ।
तथा ब्रुवति राजेन्द्रे मनसा दुस्सहं यथा ॥ १६॥
केचिल्लज्जासमायुक्ता आसंस्ते बलवत्तराः ।
रसज्ञा बलवीर्यस्य राजानस्ते सदा नृप ॥ १७॥
अपरे तु नृपा राजन्नेवमेवेति चुक्रुशुः ।
अन्ये बलमदोत्सिक्ता जेष्यामः केशवं रणे ॥ १८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकोक्तौ एकनवतितमोऽध्यायः ॥ ९१॥
३.९२ द्विनवतितमोऽध्यायः
पौण्ड्रकनारदसंवादः PauNDraka-nArada conversation
पौण्ड्रकस्य अन्तिके नारदस्यागमनं, तस्य सार्धं वार्तालापः
वैशम्पायन उवाच ।
ततः कैलासशिखरान्निर्गतो मुनिसत्तमः ।
नारदः सर्वलोकज्ञः पौण्ड्रस्य नगरं प्रति ॥ १॥
अवतीर्य नभोभागात् प्रत्यागम्य नरोत्तमम् ।
द्वाःस्थेन च समाज्ञप्तः प्रविवेश गृहोत्तमम् ॥ २॥
अर्घ्यादिसमुदाचारं नृपाल्लब्ध्वा महामुनिः ।
निषसादासने शुभ्रे ह्यास्तृते शुभवाससा ॥ ३॥
कुशलं पृष्टवान्भूयो नृपः स मुनिसत्तमम् ।
उवाच नारदं भूयः पौण्ड्रको बलगर्वितः ॥ ४॥
भवान् सर्वत्र कुशलः सर्वकार्येषु पण्डितः ।
प्रथितो देवसिद्धेषु गन्धर्वेषु महात्मसु ॥ ५॥
सर्वत्रगो निराबाधो गत्वा सर्वत्र सर्वदा ।
अगम्यं तव विप्रेन्द्र ब्रह्माण्डे न हि किञ्चन ।
नारदेदं वद त्वं हि यत्र यत्र गतो भवान् ॥ ६॥
तत्र तत्र तपःसिद्धो लोके प्रथितवीर्यवान् ।
पौण्ड्र एव च विख्यातो वासुदेवेति शब्दितः ॥ ७॥
शङ्खी चक्री गदी शार्ङ्गी खड्गी तूणी तनुत्रवान् ।
विजेता राजसिंहानां दाता सर्वस्य सर्वदा ॥ ८॥
भोक्ता राज्यस्य सर्वस्य शास्ता राजा बलाद् बली ।
अजेयः शत्रुसैन्यानां रक्षिता स्वजनस्य च ॥ ९॥
योऽद्य गोपकनामासौ वासुदेवेति शब्दितः ।
तस्य वीर्यबले न स्तो नाम्नोऽस्य मम धारणे ॥ ३.९२.१०॥
स हि गोपो वृथा बाल्याद्धारयत्येव नाम मे ।
इदं निश्चिनु विप्रेन्द्र एक एव भवाम्यहम् ॥ ११॥
वासुदेवो जगत्यस्मिन् निर्जित्य बलिनं यदुम् ।
वृष्णीन्सर्वान् बलात् क्षिप्त्वा निहनिष्ये च तां पुरीम् ॥
द्वारकां विष्णुनिलयां योद्धा चाहं महामते ।
एते च बलिनः सर्वे नृपा मम समागताः ॥ १३॥
अश्वाश्च वेगिनः सन्ति रथा वायुजवा मम ।
उष्ट्रा मत्ताः सहस्रं च गजा नियुतमेव च ॥ १४॥
एतेनाहं बलेनाजौ हनिष्ये केशवं रणे ।
तस्मादेवं सदा विप्र वद ब्रह्मन् पुरे मम ॥ १५॥
इन्द्रस्यापि सदा विप्र वद नारद साम्प्रतम् ।
प्रार्थनैषा मम विभो नमस्ये त्वां तपोधन ॥ १६॥
नारद उवाच ।
सर्वत्रगः सदा चास्मि यावद् ब्रह्माण्डसंस्थितिः ।
आचार्यः सर्वकार्येषु गमने केनचिन्नृप ॥ १७॥
किं नु वक्तुं तथा राजन्नुत्सहे नृपसत्तम ।
महीं शासति देवेशे चक्रपाणौ जनार्दने ॥ १८॥
विष्णौ सर्वत्रगे देवे दुष्टान् हत्वा सबान्धवान् ।
वासुदेवेति को नाम तिष्ठत्यस्मिन् हराविति ॥ १९॥
को नाम वक्तुमेवेदं कृष्णे शासति गोमती ।
अज्ञानाद् वक्तुमेवं च समर्थाः प्राकृता जनाः ॥ ३.९२.२०॥
हरिः सर्वत्रगो विष्णुर्दर्पं ते व्यपनेष्यति ।
अचिन्त्यविभवो विष्णुः शार्ङ्गधन्वा गदाधरः ॥ २१॥
आदिदेवः पुराणात्मा दर्प ते व्यपनेष्यति ।
हास्यमेतन्महाराज यच्च वै तत्र संस्थितम् ॥ २२॥
शार्ङ्ग खड्गं तथा राजन् महाघोरं न दाप्यते ।
अतीव ह्रासकालोऽयं तव सम्प्रति वर्तते ॥ २३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकनारदसंवादे द्विनवतितमोऽध्यायः ॥ ९२॥
३.९३ त्रिनवतितमोऽध्यायः
पौण्ड्रकस्य द्वारकावरोधः PauNDraka besieges dvAraka
नारदेन श्रीकृष्णस्य समीपे गमनं, पौण्ड्रकस्य द्वारकोपरि आक्रमणं
वैशम्पायन उवाच ।
ततः क्रुद्धौ महाराज पौण्ड्रो मदबलान्वितः ।
नारदं विप्रवर्यं तं प्रोवाच नृपसंसदि ॥ १॥
किमिदं प्राह विप्रर्षे राजाहं च द्विजैः सह ।
गच्छ त्वं काममथ वा मुने शापप्रदः सदा ॥ २॥
भीतस्त्वत्तो महाबुद्धे गच्छ त्वं काममद्य हि ।
इत्युक्तो नृपवर्येण तूष्णीमेव स नारदः ॥ ३॥
जगामाकाशगमनो यत्र तिष्ठति केशवः ।
स गत्वा विष्णुसङ्काशं विष्णोः सर्वं शशंस ह ॥ ४॥
तच्छ्रुत्वा भगवान् विष्णुर्यथेष्टं वदतामिति ।
दर्प तस्यापनेष्यामि श्वोभूते द्विजसत्तम ॥ ५॥
इत्युक्त्वा विररामैव तस्मिन् बदरिकाश्रमे ।
ततः पौण्ड्रो महाबाहुर्बलैर्बहुभिरीश्वरः ॥ ६॥
अश्वैरनेकसाहस्रैर्गजैर्बहुभिरन्वितः ।
अस्त्रकोटिसमायुक्तः स राजा सत्यसङ्गरः ॥ ७॥
अनेकशतसाहस्रैः पत्तिभिश्च समन्वितः ।
एकलव्यप्रभृतिभी राजभिश्च समन्ततः ॥ ८॥
अष्टौ रथसहस्राणि नागानामयुतं तथा ।
अर्बुदं पत्तिसङ्घानां तद्बलं समपद्यत ॥ ९॥
एतेन च बलेनाजौ प्रस्फुरन् नृपसत्तमः ।
विरराज महाराज उदयस्थो महारविः ॥ ३.९३.१०॥
स ययौ मध्यरात्रेण नगरीं द्वारकामनु ।
पत्तयो दीपिकाहस्ता रात्रौ तमसि दारुणे ॥ ११॥
ययुर्विविधशूस्त्रौघाः सम्पतन्तो महाबलाः ।
द्वारकां वीर्यसम्पन्नां महाघोरां नृपोत्तमाः ॥ १२॥
रथं महान्तमारुह्य शस्त्रौघैश्च समावृतम् ।
पट्टिशासिसमाकीर्णं गदापरिघसङ्कुलम् ॥ १३॥
शक्तितोमरसङ्कीर्णं ध्वजमालासमाचितम् ।
किङ्किणीजालसंयुक्तं शरासिप्राससंयुतम् ॥ १४॥
महाघोरं महारौद्रं युगान्तजलदोपमम् ।
धनुर्गदासमाकीर्णं महावाद्योपमं महत् ॥ १५॥
अग्न्यर्कसदृशाकारं ययौ द्वारवतीमनु ।
गृहीतदीपिको राजा वीर्यवान् बलवान् नृप ॥ १६॥
हन्तुमैच्छज्जगन्नाथं वृष्णींश्चैव समन्ततः ।
आकर्षन् बलमुख्यांस्तान् राज्ञः सर्वान्महाद्युतिः ॥ १७॥
पुरद्वारं समासाद्य बलं संस्थाप्य यत्नतः ।
इदं प्रोवाच राजा तु नृपान् सर्वानवस्थितान् ॥ १८॥
ताड्यतामत्र भेरी तु नाम विश्राव्य मामकम् ।
युध्यतां युध्यतामत्र देयं वा प्रतिदीयताम् ॥ १९॥
आगतः पौण्ड्रको राजा युद्धार्थी वीर्यवत्तरः ।
हन्तुकामः समग्रान् वः कृष्णबाहुबलाश्रयान् ॥ ३.९३.२०॥
इति ते प्रेषिताः सर्वे समीयुः सूचकान् बहून् ।
दीपिकाश्च प्रदीप्यन्ते बह्व्यः शतसहस्रशः ॥ २१॥
इतश्चेतश्च राजानो युध्यन्ते युद्धलालसाः ।
पुरीं ते पुरतस्तत्र क्षत्रियाः शस्त्रिणस्तदा ॥ २२॥
सिंहनादं प्रकुर्वन्तः शस्त्रधारासमाकुलाः ।
कुतोऽयं वृष्णिप्रवरः कुतो राजा जगत्पतिः ॥ २३॥
कुतोऽयं सात्यकिर्वीरः कुतो हार्दिक्य एव च ।
कुतो नु बलभद्रश्च सर्वयादवसत्तमः ।
इत्येवं कथयन्तो वै राजानः सर्व एव ते ॥ २४॥
आदाय शस्त्राणि बहूनि सर्वतः शरांश्च चापानि बहूनि सर्वे ।
युद्धाय सन्नाहनिबद्धशो ययुर्हरेः पुरीं द्वारवतीं नृपोत्तमाः ॥ २५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकस्य द्वारकागमने त्रिनवतितमोऽध्यायः ॥ ९३॥
३.९४ चतुर्नवतितमोऽध्यायः
यादवानां युद्धोद्योगः War-effort of yAdava-s
यादववीरेभिः पौण्ड्रकस्य सैन्यस्य एवं एकलव्येन यादवसैन्यस्य संहारं
वैशम्पायन उवाच ।
ततश्च यादवाः सर्वे दृष्ट्वा सैनिकसञ्चयम् ।
रात्रौ व व्यसनं प्राप्तं महाशस्त्रसमाकुलम् ॥ १॥
महावातसमुद्भूतं कल्पान्ते सागरोपमम् ।
सन्नद्धाः समपद्यन्त शस्त्रिणो युद्धलालसाः ॥ २॥
गृहीतदीपिकाः सर्वे यादवाः शस्त्रयोधिनः ।
सात्यकिर्बलभद्रश्च हार्दिक्यो निशठस्तथा ॥ ३॥
उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः ।
अन्ये च यादवाः सर्वे कवचप्रग्रहे रताः ॥ ४॥
समस्तयुद्धकुशला रात्रौ सन्नाहयोधिनः ।
शस्त्रिणः खड्गिनश्चैव सर्वे शस्त्रसमाकुलाः ॥ ``५॥
युद्धाय समपद्यन्त बहवो बाहुशालिनः ।
रथिनो गजिनश्चैव सादिनः सायुधास्तथा ॥ ६॥
नित्ययुक्ता महात्मानो धन्विनः पुरुषोत्तमाः ।
निर्ययुर्नगरात् तूर्णं दीपिकाभिः समन्ततः ॥ ७॥
कुतः पौण्ड्रक इत्येवं वदन्तः सर्वसात्वताः ।
दीपिकादीपितो देशो निस्तमाः समपद्यत ॥ ८॥
ततो वितिमिरो देशः समन्तात् प्रत्यपद्यत ।
युद्धं समभवद् घोरं वृष्णिभिः शत्रुभिः सह ॥ ९॥
ततो महान् समभवत् सन्नादो रोमहर्षणः ।
हया हयैः समायुक्ताः गजाश्च गजयूथपैः ॥ ३.९४.१०॥
रथा रथैः समायुक्ताः सादिभिः सादिनस्तथा ।
खड्गिनः खड्गिभिः सार्धं गदिभिर्गदिनस्तथा ॥ ११॥
परस्परव्यतीकारो रण आसीत् सुदारुणः ।
महाप्रलयसङ्क्षोभः शब्दस्तेषां महात्मनाम् ॥ १२॥
धावन्तः प्रहरन्त्येतान् घ्नन्त्येतान् सर्वतो नृपान् ।
अयमेष महाबाहुः खड्गी पतति वीर्यवान् ॥ १३॥
अयमेष शरो घोरो वर्ततेऽतिसुदारुणः ।
गदी चायं महावीर्यः सर्वान् नो बाधते नृपः ॥ १४॥
अयं रथी शरी चापी गदी तूणी तनुत्रवान् ।
पट्टिशी सर्वतो याति कुन्तपाणिरयं बली ॥ १५॥
अयमत्र महाशूली संश्रितः सर्वतो दिशम् ।
गजोऽयं सविषाणाग्रो वर्तते सर्वतः प्रति ॥ १६॥
अतिसर्वत्रगः शूरो वेगवान् वातसन्निभः ।
शराञ्च्छरैः समाहन्ति दण्डान् दण्डैर्जगत्पते ॥ १७॥
कुन्तान् कुन्तैः समाजघ्नुर्गदाभिश्च गदास्तथा ।
परिघान् परिघैः सार्धं शूलाञ्च्छूलैः समन्ततः ॥ १८॥
एवं तेषां महाराज कुर्वतां रणमुत्तमम् ।
सङ्ग्रामः सुमहानासीच्छब्दश्चापि महानभूत् ॥ १९॥
भूतानि सुबहून्याजौ शब्दवन्ति महान्ति च ।
प्रादुरासन् सहस्राणि शङ्खानां भीमनिःस्वनः ॥ ३.९४.२०॥
रात्रौ प्रादुरभूच्छब्दः सङ्ग्रामे रोमहर्षणः ।
वर्तमाने महायुद्धे वृष्णीनां चैव तैः सह ॥ २१॥
केचिद् ग्रस्ताः समापेतुः पृथिव्यां पृथिवीक्षितः ।
केचिच्च पतिताः क्लिष्टाः विप्रकीर्णशिरोरुहाः ॥ २२॥
पेतुरुर्व्यां महावीर्या राजानः शस्त्रपाणयः ।
केचित् तु भिन्नवर्माणः समापेतुः सहस्रधा ॥ २३॥
परस्परं समाश्रित्य परस्परवधैषिणः ।
न्यस्तशस्त्रा महात्मानः समन्तात् क्षतविग्रहाः ॥ २४॥
पेतुर्गतासवः केचिद् यमराष्ट्रविवर्धनाः ।
एवं ते निहता राजन् योधिताः सर्व एव तु ॥ २५॥
एतस्मिन्नन्तरे शूर एकलव्यो निषादपः ।
धनुर्गृह्य महाघोरं कालान्तकयमोपमः ॥ २६॥
शरैरनेकसाहस्रैरर्दयामास यादवान् ।
परःशतैः शराणां तु निशितैर्मर्मभेदिभिः ॥ २७॥।
वृष्णीनां च बलं सर्वं पोथयामास सर्वतः ।
युद्ध्यतः शस्त्रपाणींश्च क्षत्रियान् वीर्यवत्तरान् ॥ २८॥
निशठं पञ्चविंशत्या शराणां नतपर्वणाम् ।
सारणं दशभिर्विद्ध्वा हार्दिक्यं पञ्चभिः शरैः ॥ २९॥
उग्रसेनं नवत्याशु वसुदेवं च सप्तभिः ।
उद्धवं दशभिश्चैव ह्यक्रूरं पञ्चभिः शरैः ॥ ३.९४.३०॥
एवमेकैकशः सर्वे निहता निशितैः शरैः ।
विद्राव्य यादवीं सेनां नाम विश्राव्य वीर्यवान् ॥ ३१॥
एकलव्यो यदुवृषान् वीर्यवान् बलवानहम् ।
इदानीं सात्यकिर्वीरः क्व यास्यति महाबलः ॥ ३२॥
मदमत्तो हली साक्षात् क्व यातीह गदाधरः ।
इत्याह सिंहनादेन सिंहान् विस्मापयन्निव ॥ ३३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकवधे रात्रियुद्धे चतुर्नवतितमोऽध्यायः ॥ ९४॥
३.९५ पञ्चनवतितमोऽध्यायः
सात्यकिपौण्ड्रकयोः संवादः SAtyaki-pauNDraka conversation
पौण्ड्रकेन पूर्वद्वारस्य प्राकारचयानां भेदनस्य प्रयत्नं, सात्यक्यादि यादववीराणां रक्षार्थं आगमनम्, सात्यकिना वायव्यास्त्रेन पौण्ड्रकसैनिकान् अपनयित्वा पौण्ड्रकस्य युद्धाय आह्वानं, पौण्ड्रकस्य गर्वोक्तिः
वैशम्पायन उवाच ।
निवृत्तेष्वथ सैन्येषु वृष्णिवीरेषु चैव हि ।
भीतेष्वथ महाराज हतेषु युधि सर्वतः ॥ १॥
दीपिकासु प्रशान्तासु निःशब्दे सति सर्वतः ।
जितमित्येव यन्मत्वा वृष्णीनां बलमुत्तमम् ॥ २॥
ततः पौण्ड्रो महावीर्यो बभाषे सैनिकान् स्वकान् ।
शीघ्रं गच्छत राजेन्द्राष्टङ्कैः कुन्तैः पुरीमिमाम् ॥ ३॥
कुठारैः कुन्तलैश्चैव पाषाणैः सर्वतोदिशम् ।
कर्षणस्थैः सुपाषाणैः सर्वतो यात भूमिपाः ॥ ४॥
भिद्यन्तां प्राकारचयाः प्रासादाश्च समन्ततः ।
गृह्यन्तां कन्यकाः सर्वा दास्यश्चैव समन्ततः ॥ ५॥
गृह्यन्तां वसुमुख्यानि धनानि सुबहून्यथ ।
ते तथेति महात्मानो राजानः सर्व एव तु ॥ ६॥
कुठारैः सर्वतश्चैव चिच्छिदुः पौण्ड्रकाज्ञया ।
प्राकारांश्चैव सर्वत्र प्रासादान् नरसञ्चयान् ॥ ७॥
अथ तत्र महाशब्दः प्रादुरासीत् समन्ततः ।
टङ्केषु पात्यमानेषु प्राकारेषु महाबलैः ॥ ८॥
पूर्वद्वारे महाराज भिन्नाः प्राकारसञ्चयाः ।
श्रुत्वा शब्दं महाघोरं सात्यकिः क्रोधमूर्च्छितः ॥ ९॥
मयि सर्वं समारोप्य केशवो यादवेश्वरः ।
गतः कैलासशिखरं द्रष्टुं शङ्करमव्ययम् ॥ ३.९५.१०॥
अवश्यं हि मया रक्ष्या पुरी द्वारवती त्वियम् ।
इति सञ्चिन्त्य मनसा धनुरादाय सत्वरम् ॥ ११॥
रथं महान्तमारुह्य दारुकस्य महात्मनः ।
पुत्रेण संस्कृतं घोरं यन्ता च स्वयमेव हि ॥ १२॥
धनुर्महत् तदादाय शरांश्चाशीविषोपमान् ।
आमुच्य कवचं घोरं शस्त्रसम्पातदुःसहम् ॥ १३॥
अङ्गदी कुण्डली तूणी शरी चापी गदासिमान् ।
ययौ युद्धाय शैनेयः संस्मरन् कैशवं वचः ॥ १४॥
दीपिकादीपिते देशे ययौ सात्यकिरुत्तमः ।
तथैव बलदेवोऽपि रथमारुह्य भास्वरम् ॥ १५॥
गदी शरी महावीर्यः प्रायाद् रणचिकीर्षया ।
सिंहनादं प्रकुर्वन्तो मुञ्चन्तो भैरवं रवम् ॥ १६॥
उद्धवोऽपि बली साक्षाद् गजमारुह्य सत्वरम् ।
मत्तं महारवं घोरं सङ्ग्रामे नीतिमत्तरः ॥ १७॥
ययौ नीतिं विचिन्वानः परां प्रीतिं महाबलः ।
अन्ये च वृष्णयः सर्वे ययुः सङ्ग्रामलालसाः ॥ १८॥
रथान्गजान्समारुह्य हार्दिक्यप्रमुखास्तथा ।
दीपिकाभिश्च सर्वत्र पुरोवृत्ताभिरीश्वराः ॥ १९॥
सिंहनादं प्रकुर्वन्तः स्मरन्तः कैशवं वचः ।
पूर्वद्वारं समागम्य वृष्णयो युद्धलालसाः ॥ ३.९५.२०॥
ते समेत्य यथायोगं स्थितास्तत्र महाबलाः ।
स्थिते सैन्ये महाघोरे दीपिकादीपिते पथि ॥ २१॥
शिनिर्वीरः शरी चापी गदी तूणीरवान्विभो ।
वायव्यास्त्रं समादाय योजयित्वा महाशरम् ॥ २२॥
आकर्णं तूर्णमाकृष्य धनुःप्रवरमुत्तमम् ।
मुमोच परसैन्येषु शिनिर्वीरः प्रतापवान् ॥ २३॥
वायव्यास्त्रेण ते सर्वे तत्रस्था नरसत्तमाः ।
विजिता ह्यस्त्रवीर्येण यत्र तिष्ठति पौण्ड्रकः ॥ २४॥
तत्र गत्वा स्थिताः सर्वे निर्धूता वातरंहसा ।
यत्र पूर्वं स्थिताः सर्वे विद्रुता राजसत्तमाः ॥ २५॥
तत्र स्थित्वा च शैनेयः शरमादाय सत्वरम् ।
निशितं सर्पभोगाभं बभाषे सात्यकिस्तदा ॥ २६॥
क्व इदानीं महाबुद्धिः पौण्ड्रको राजसत्तमः ।
स्थितोऽस्मि व्यवसायेन शरी चापी महाबलः ॥ २७॥
यदि द्रष्टा दुरात्मानं ततो हन्ता नृपाधमम् ।
भृत्योऽस्मि केशवस्याहं जिघांसुः पौण्ड्रकं स्थितः ॥ २८॥
छित्त्वा शिरस्तु तस्यास्य सर्वक्षत्रस्य पश्यतः ।
बलिं दास्यामि गृध्रेभ्यः श्वभ्यश्चैव दुरात्मनः ॥ २९॥
को नाम ईदृशं कर्म चौरवच्च समाचरेत् ।
सुप्तेषु निशि सर्वत्र यादवेषु महात्मसु ॥ ३.९५.३०॥
चौरोऽयं सर्वथा राजा न हि राजा बलान्वितः ।
यदि शक्तो न कुर्याच्च चौर्यमेवं नृपाधमः ॥ ३१॥
अहोऽस्य बलिनो राज्ञश्चौरकार्यं प्रकुर्वतः ।
सर्वथाऽऽगमनं तस्य न हि पश्यामि साम्प्रतम् ॥ ३२॥
इत्युक्त्वा सात्यकिर्वीरः प्रजहास महाबलः ।
विस्फार्य सुदृढं चापं सन्दधे कार्मुके शरम् ॥ ३३॥
आकर्ण्य वचनं वीरः सात्यकेस्तस्य धीमतः ।
क्व नु कृष्णः क्व गोपालः कुतः सोऽथ प्रवर्तते ॥ ३४॥
स्त्रीहन्ता पशुहन्ता च क्व च स्वामीति सेवितः ।
स इदानीं क्व वर्तेत गृहीत्वा मम नाम तत् ॥ ३५॥
हन्ता सख्युर्महावीर्यो नरकस्य महात्मनः ।
ममैव तात युद्धेऽस्मिन्हते तस्मिन्दुरात्मनि ॥ ३६॥
गच्छ त्वं कामतो वीर योद्धुं न क्षमते भवान् ।
अथवा तिष्ठ किञ्चित्तु ततो द्रष्टासि मे बलम् ॥ ३७॥
शिरस्ते पातयिष्यामि शरैर्घोरैर्दुरासदैः ।
हतस्य तव वीरेह भूमिः पास्यति शोणितम् ॥ ३८॥
श्रोष्यते स तथा गोपो हतः सात्यकिरित्यपि ।
यो गर्वस्तस्य गोपस्य सर्वदा वर्तते महान् ॥ ३९॥
विनश्यति स तु क्षिप्रं हते त्वयि यदूत्तम ।
त्वयि रक्षां समादिश्य गोपः कैलासपर्वतम् ॥ ३.९५.४०॥
गत इत्येवमस्माभिः श्रुतं पूर्वं महामते ।
शरं गृहाण निशितं यदि शक्तोऽसि सात्यके ।
इत्युक्त्वा बाणमादाय ययौ योद्धं व्यवस्थितः ॥ ४१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि रात्रियुद्धे सात्यकिपौण्ड्रकभाषणे पञ्चनवतितमोऽध्यायः ॥ ९५॥
३.९६ षण्णवतितमोऽध्यायः
सात्यकिपौण्ड्रकयोर्युद्धम् SAtyaki-pauUNraka battle
पौण्ड्रकस्य सात्यकिना सह युद्धं
वैशम्पायन उवाच ।
ततः क्रुद्धो महाराज सात्यकिर्वृष्णिपुङ्गवः ।
उवाच वचनं राजन् वासुदेवं स्मरन्निव ॥ १॥
अवोचदीदृशं वाक्यं वासुदेवं नृपाधमः ।
को नाम जगतां नाथमित्थं ब्रूयाज्जिजीविषुः ॥ २॥
मृत्युस्त्वां सर्वथा याति वदन्तं तादृशं वचः ।
जिह्वा ते शतधा दीर्याद् वदतस्तादृशं वचः ॥ ३॥
एष ते पातयिष्यामि शिरः कायाच्च पौण्ड्रक ।
यन्नाम वासुदेवेति तव सम्प्रति वर्तते ॥ ४॥
यावत् पतति कायात्ते शिरस्तावत्प्रवर्तते ।
स एव श्वो न भगवान् वासुदेवो भविष्यसि ॥ ५॥
एक एव जगन्नाथः कर्ता सर्वस्य सर्वगः ।
दुरात्मन् सर्वथा देवो भविष्यति न संशयः ॥ ६॥
एष तेऽहं शिरः कायात् पातयिष्यामि राजक ।
यदसौ भगवान् विष्णुर्नागमिष्यति साम्प्रतम् ॥ ७॥
अस्त्रवीर्यं बलं चैव सर्वं दर्शय साम्प्रतम् ।
नातः परतरं राजन् वीर्यं च तव वर्तते ॥ ८॥
सर्वं दर्शय यत्नेन स्थितोऽस्मि व्यवसायवान् ।
शरी चापी गदी खड्गी सर्वथाहमुपस्थितः ॥ ९॥
नैतन्नगरमायासीः सत्यमेतद् ब्रवीम्यहम् ।
सर्वथा कृतकृत्योऽस्मि दृष्ट्वा त्वां वासुदेवकम् ॥ ३.९६.१०॥
तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ।
इत्युक्त्वा बाणमादाय वासुदेवं महाबलः ॥ ११॥
आकर्णपूर्णमाकृष्य विव्याध निशितं शरम् ।
स तेन विद्धो यदुना वासुदेवः प्रतापवान् ॥ १२॥
वमञ्छोणितमत्युष्णमङ्गान्नेत्रान्नृपोत्तम ।
ततश्चुक्रोध नृपतिर्वासुदेवः प्रतापवान् ॥ १३॥
नवभिर्दशभिश्चैव शरैः सन्नतपर्वभिः ।
विव्याध सात्यकिं राजा नदंश्च बहुधा किल ॥ १४॥
ततो नाराचमादाय निशितं यमसन्निभम् ।
धनुराकृष्य भगवान् वासुदेवो नृपोत्तम ॥ १५॥
विव्याध सात्यकिं भूयो निशि प्रह्रादयन् स्वकान् ।
नाराचेन समाविद्धः सात्यकिः सत्यसङ्गरः ॥ १६॥
ललाटे सुदृढं वीरो वृष्णीनामग्रणीस्तदा ।
निषसाद रथोपस्थे निश्चेष्ट इव सत्तमः ॥ १७॥
ततः स पौण्ड्रको राजा विद्ध्वा दशभिराशुगैः ।
सारथिं पञ्चविंशत्या हयांश्च चतुरो नृप ॥ १८॥
ते हया रुधिराक्ताङ्गाः सारथिश्च समन्ततः ।
विह्वलाः समपद्यन्त वासुदेवस्य पश्यतः ॥ १९॥
वासुदेवो रथे चापि सिंहनादं समाददे ।
तेन नादेन तत्राभूद् विबुद्धः सात्यकिर्नृप ॥ ३.९६.२०॥
विद्धान् हयांस्तथा दृष्ट्वा सारथिं च तथागतम् ।
शैनेयोऽथ महावीर्यो रुषितो नृपसत्तम ॥ २१॥
अलं द्रक्ष्यामि ते वीर्यमित्युक्त्वा बाणमाददे ।
विव्याध तेन बाणेन वक्षस्येनं महाबलः ॥ २२॥
ततश्चचाल तेनाजौ वासुदेवः शरेण ह ।
सुस्राव रुधिरं घोरमत्युष्णं वक्षसो नृप ॥ २३॥
रथोपस्थे पपाताशु निःश्वसन्नुरगो यथा ।
कृत्यं चापि न जानाति केवलं निषसाद ह ॥ २४॥।
सात्यकिस्तु रथं विद्ध्वा दशभिः सायकैस्तथा ।
ध्वजं चिच्छेद भल्लेन वासुदेवस्य वृष्णिपः ॥ २५॥
हयांश्च चतुरो हत्वा बाणैः सारथिमेव च ।
युयुधानोऽथ राजेन्द्र पौण्ड्रकस्य च पश्यतः ॥ २६॥
सारथेश्च शिरः कायादहरत् स रथात् तदा ।
रथग्रन्थिं च चिच्छेद हयाश्च व्यसवोऽभवन् ॥ २७॥
चक्रं च तिलशः कृत्वा बाणैर्दशभिरञ्जसा ।
जहास विपुलं राजन् वासुदेवं महाबलः ॥ २८॥
ततः परं महत्प्रायं सात्यकिर्वृष्णिनन्दनः ।
शब्दं कृत्वा बली साक्षात् सर्वक्षत्रस्य पश्यतः ॥ २९॥
शरैः सप्ततिसङ्ख्याकैरर्दयामास सत्वरम् ।
ते शराः शलभाकारा निपेतुः सर्वशस्तदा ॥ ३.९६.३०॥
शिरस्तः पार्श्वतश्चैव पृष्ठतः पुरतस्तथा ।
केवलं धैर्यनिचयस्तृषार्तः शरवान् यथा ॥ ३१॥
यथा मनस्वी रिक्तश्च तथा तिष्ठति पौण्ड्रकः ।
ततश्चुक्रोध बलवान् वासुदेवः प्रतापवान् ॥ ३२॥
अर्धचन्द्रं समादाय विव्याध युधि सात्यकिम् ।
विद्ध्वा सप्तभिरायान्तं क्रोधेन प्रस्फुरन्निव ॥ ३३॥
विद्धोऽथ सात्यकिस्तेन शरैः पञ्चभिराशुगैः ।
चापं चिच्छेद पौण्ड्रस्य सिंहनादं व्यनीनदत् ॥ ३४॥
वासुदेवो गदां गृह्य भ्रामयित्वा पदात्पदम् ।
त्वरितं पातयामास सात्यकेर्वक्षसि प्रभो ॥ ३५॥
सव्येन तां समाकृष्य करेण यदुनन्दनः ।
शरं प्रगृह्य विव्याध सात्यकिर्युधि पौण्ड्रकम् ॥ ३६॥
तमन्तरे गृहीत्वाशु वासुदेवः प्रतापवान् ।
शक्तिभिर्दशभिश्चैव सात्यकिं निजघान ह ॥ ३७॥
ताभिर्विद्धो रणे वीरः सात्यकिः सत्यसङ्गरः ।
अपास्य धनुरन्यत् तद् धनुरादाय सत्वरम् ।
आजघान तदा वीरो वृष्णीनामग्रणीर्नृप ॥ ३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकसात्यकियुद्धे षण्णवतितमोऽध्यायः ॥ ९६॥
३.९७ सप्तनवतितमोऽध्यायः
सात्यकिपौण्ड्रकयुद्धम् SAtyaki- pauNDraka battle continues
सात्यकेः पौण्ड्रकस्य सार्द्धं युद्धं
वैशम्पायन उवाच ।
ततः क्रुद्धो गदापाणिः सात्यकिर्वृष्णिनन्दनः ।
वासुदेवं जघानाशु गदया तीक्ष्णया नृप ॥ १॥
सात्यकिं वासुदेवस्तु गदयाभ्यहनद् बली ।
तावुद्यतगदौ वीरौ शुशुभाते सुदारुणौ ॥ २॥
दृप्तौ वने यथा सिंहौ परस्परवधैषिणौ ।
ततः स सात्यकिः क्रुद्धः सव्यं मण्डलमागमत् ॥ ३॥
दक्षिणं वासुदेवस्तु तं जघान स्तनान्तरे ।
युयुधानोऽथ वीरस्तु बाह्वोर्मध्यमताडयत् ॥ ४॥
दृढं स ताडितो वीरो जानुभ्यामपतद् भुवि ।
तत उत्थाय वीरस्तु ललाटेऽभ्यहनद् गदाम् ॥ ५॥
विषण्णः किञ्चिदास्थाय तत उत्थाय सत्वरम् ।
गदयाभ्यहनद् वीरः सात्यकिः पौण्ड्रसत्तमम् ॥ ६॥
वासुदेवो बली वीरः साक्षान्मृत्युरिवापरः ।
जघान गदया वृष्णिं निर्दहन्निव चक्षुषा ॥ ७॥
स तया ताडितो वृष्णिर्गदया बाहुमुक्तया ।
आलम्ब्य भूमिं सहसा मृत्योरङ्कगतो यथा ॥ ८॥
संज्ञां पुनः समालम्ब्य पाणिभ्यां दृढमेव च ।
गदां तस्य महाराज गृहीत्वा प्रग्रहेण ह ॥ ९॥
द्विधा कृत्वा महागुर्वीं गदां कालायसीं शुभाम् ।
उत्सृज्य सहसा वीरः सिंहनादं व्यनीनदत् ॥ ३.९७.१०॥
तत उत्सृज्य राजा तु वासुदेवो महाबलः ।
सव्येन सात्यकिं गृह्य दक्षिणेन करेण ह ॥ ११॥
मुष्टिं कृत्वा महाघोरां वासुदेवः प्रतापवान् ।
ताडयामास मध्ये तु स्तनयोः सात्यकेर्नृप ॥ १२॥
शैनेयो वृष्णिवीरस्तु गदामुत्सृज्य सत्वरम् ।
तलेनाभ्यहनद् वीरो वासुदेवं रणाजिरे ॥ १३॥
तलेन वासुदेवोऽपि सात्यकिं सत्यसङ्गरम् ।
तयोरेवं महाघोरं तलयुद्धं प्रवर्तत ॥ १४॥
जानुभ्यां मुष्टिभिश्चैव बाहुभ्यां शिरसा तदा ।
उरसोरः समाहत्य जानुभ्यां जानुनी तथा ॥ १५॥
कराभ्यां करमाहत्य तौ युद्धं सम्प्रचक्रतुः ।
तालयोस्तत्र राजेन्द्र वृक्षयोः सन्निकर्षयोः ॥ १६॥
वने यथा निरुत्पन्नस्तथैवाभून्महास्वनः ।
तावाजौ प्रथितौ वीरावुभौ पौण्ड्रकसात्यकी ॥ १७॥
निशि स्तिमितमूकायां शस्त्रं त्यक्त्वा महाबलौ ।
युयुधाते महारङ्गे मल्लौ द्वाविव विश्रुतौ ॥ १८॥
उभे सेने महाराज्ञोः संशयं जग्मतुस्तदा ।
किं नु स्यात् सात्यकिर्वीरो हतस्तेन भविष्यति ॥ १९॥
आहोस्विद् वासुदेवस्तु हतस्तेन महात्मना ।
अद्य वै तौ महावीरौ परस्परवधैषिणौ ॥ ३.९७.२०॥
युध्यमानौ महावीरौ तदा स्वर्गं गमिष्यतः ।
अन्यथा नोपरम्येतां युद्धाद् वीरौ सुनिश्चितौ ॥ २१॥
अहो वीर्यमहो धैर्यमेतयोर्बलशालिनोः ।
एतौ महाबलौ लोके एतौ प्रकृतिसत्तमौ ॥ २२॥
नैवं युद्धं महाघोरमासीद् देवासुरेष्वपि ।
न श्रुतो न च वा दृष्टः सङ्ग्रामोऽयं कदाचन ॥ २३॥
एते वै सैनिका ब्रूयुः सेनयोरुभयोरपि ।
रात्रौ निशीथे मेघौघे दृष्ट्वा युद्धं सुदारुणम् ॥ २४॥
अथ तौ बाहुभिर्वीरौ सनिपेततुरञ्जसा ।
दशभिर्मुष्टिभिर्जघ्ने सात्यकिः पौण्ड्रकं तदा ॥ २५॥
पञ्चभिः सात्यकिं पौण्ड्रः समाजघ्ने महाबलः ।
तयोश्चटचटाशब्दो ब्रह्माण्डक्षोभणो महान् ।
प्रादुरासीत् तु सर्वत्र सर्वान् विस्मापयन्निव ॥ २६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकसात्यकियुद्धे सप्तनवतितमोऽध्यायः ॥ ९७॥
३.९८ अष्टनवतितमोऽध्यायः
एकलव्यवधः Destruction of ekalavya's army
बलभद्रस्य एकलव्येन सार्धं युद्धं, बलभद्रेण निषादानां संहारः
वैशम्पायन उवाच ।
एतस्मिन्नन्तरे क्रुद्ध एकलव्यो निषादपः ।
बलभद्रमभि क्षिप्रं धनुरादाय सत्वरम् ॥ १॥
नाराचैर्दशभिर्विद्ध्वा बाणैश्च दशभिः परैः ।
चिच्छेद धनुरर्धं तत् सर्वक्षत्रस्य पश्यतः ॥ २॥
सूतं दशभिराहत्य रथं त्रिंशद्भिरेव च ।
ध्वजं चिच्छेद भल्लेन निषादस्य जगत्पतिः ॥ ३॥
ततः परं महच्चापं निषादो वीर्यसम्मतः ।
दृढमौर्व्या समायुक्तं दशतालप्रमाणतः ॥ ४॥
कामपालं शरेणाशु जघान जनमध्यतः ।
बलदेवो महावीर्यः सर्पः शेष इव श्वसन् ॥ ५॥
दशभिस्तद्धनुर्दिव्यं शरैः सर्पसमैर्बलः ।
चिच्छेद मुष्टिदेशे तु माधवो माधवाग्रजः ॥ ६॥
एकलव्यो निषादेशः खड्गमादाय सत्वरः ।
प्राहिणोद् बलमादाय निशितं घोरविग्रहम् ॥ ७॥
तमन्तरे पटुर्वीरो वृष्णिवीरः प्रतापवान् ।
तिलशः पञ्चभिर्बाणैश्चकार यदुनन्दनः ॥ ८॥
ततोऽपरं महत् खड्गं सर्वकालायसं शुभम् ।
प्राहिणोत् सारथेः कायमालोक्याथ निषादजः ॥ ९॥
तं चापि दशभिर्वीरो माधवो यदुनन्दनः ।
बाह्वोरन्तरयोश्चैव निर्बिभेद महारणे ॥ ३.९८.१०॥
ततः शक्तिं समादाय घण्टामालाकुलां नृपः ।
निषादो बलदेवाय प्रेषयित्वा महाबलः ॥ ११॥
सिंहनादं महाघोरमकरोत् स निषादपः ।
सा शक्तिः सर्वकल्याणी बलदेवमुपागमत् ॥ १२॥
उत्पतन्तीं महाघोरां बलभद्रः प्रतापवान् ।
आदायाथ निषादेशं सर्वान् विस्मापयन्निव ॥ १३॥
तयैव तं जघानाशु वक्षोदेशे च माधवः ।
स तया ताडितो वीरः स्वशक्त्याथ निषादपः ॥ १४॥
विह्वलः सर्वगात्रेषु निपपात महीतले ।
प्राणसंशयमापन्नो निषादो रामताडितः ॥ १५॥
निषादास्तस्य राजेन्द्र शतशोऽथ सहस्रशः ।
अष्टाशीतिसहस्राणि निषादास्तस्य योधिनः ॥ १६॥
गदिनः खड्गिनश्चैव महेष्वासा महाबलाः ।
शरैरनेकसाहस्रैः शक्तिभिश्च परश्वधैः ॥ १७॥
गदाभिः पट्टिशैः शूलैः परिघैः प्रासतोमरैः ।
कुन्तैरथ कुठारैश्च यादवानां महौजसाम् ॥ १८॥
शलभा इव राजेन्द्र दीप्यमानं हुताशनम् ।
ते शरैः पातयाञ्चक्रू रामं राममिवापरम् ॥ १९॥
केचित् कुठारैराजघ्नुः केचित् कुन्तैः परश्वधैः ।
गदाभिः केचिदाघ्नन्ति शक्तिभिश्च तथा परे ॥ ३.९८.२०॥
निजघ्नुः सहसा रामं स्फुरन्तं पावकं यथा ।
ततः क्रुद्धो हली साक्षाद्धलमुद्यम्य सत्वरम् ॥ २१॥
सर्वानाकर्षयामास मुसलेन हि पीडयन् ।
ते हन्यमाना राजेन्द्र निषादाः पर्वताश्रयाः ॥ २२॥
निपेतुर्धरणीपृष्ठे शतशोऽथ सहस्रशः ।
क्षणेन तन्महाराज हत्वा सर्वान् महाबलान् ॥ २३॥
सिंहवद् व्यनदंस्तत्र तस्थौ रामो महाबलः ।
ततो रात्रौ महाघोराः पिशाचाः पिशिताशनाः ॥ २४॥
आकृष्य मांसयूथानि भक्षयन्तः समासते ।
पिबन्तः शोणितं कोष्ठात् सञ्छिद्य च शवं बहु ॥ २५॥
इति श्रीभहाभारते खिलभागे हरिवंशे भविष्यपर्वणि एकलव्यसैन्यवधे अष्टनवतितमोऽध्यायः ॥ ९८॥
३.९९ नवनवतितमोऽध्यायः
पौण्ड्रकयुद्धम् The battles continue
बलभद्रस्य एकलव्येन सार्धं एवं पौण्ड्रकस्य सात्यकिना सार्धं युद्धं
वैशम्पायन उवाच ।
क्रव्यादाः सर्व एवाशु भक्षयन्तस्तदा शवम् ।
हसन्तो विविधं घोरं नादयन्तो वसुन्धराम् ॥ १॥
राक्षसाश्च पिशाचाश्च पिबन्तः शोणितं बहु ।
आशिखं भुञ्जते राजञ्छवस्य पिशिताशनाः ॥ २॥
नृत्यन्ति स्म तदा राजन् नगर्यां रणतोषिताः ।
काका बलाका गृध्राश्च श्येना गोमायवस्तथा ॥ ३॥
भक्षयन्तः प्रवर्तन्ते राक्षसाश्चैव दारुणाः ।
एतस्मिन्नन्तरे वीरो निषादो लब्धसंज्ञकः ॥ ४॥
हतान् सर्वान् समालोक्य निषादान् नगचारिणः ।
गदामादाय कुपितो राममेव जगाम ह ॥ ५॥
जघान गदया राजञ्जत्रुदेशे निषादपः ।
ततो रामो गदी राजन् निषादं बाहुशालिनम् ॥ ६॥
आजघ्ने गदया क्रूरं मदमत्तो हलायुधः ।
तयोश्च तुमुलं युद्धं गदाभ्यां समवर्तत ॥ ७॥
आकाशे शब्द आसीत् तु तयोर्युद्धे महाभुज ।
समुद्राणां यथा घोषः सर्वेषां सन्निगच्छताम् ॥ ८॥
कल्पक्षये महाराज शब्दः सुतुमुलोऽभवत् ।
क्षोभितो नागराजश्च नागाः क्षोभं समाययुः ॥ ९॥
पृथिवी चान्तरिक्षं च सर्वं शब्दमयं बभौ ।
ततः स पौण्ड्रको राजा सात्यकिं वृष्णिनन्दनम् ॥ ३.९९.१०॥
गदयैव जघानाशु सत्वरं रणकोविदः ।
युयुधानो बली राजन् वासुदेवं जघान ह ॥ ११॥
तयोश्च तुमुलः शब्दः प्रादुरासीन्महारणे ।
चतुर्णां युध्यतां राजन् परस्परवधैषिणाम् ॥ १२॥
ब्रह्माण्डक्षोभणो राजञ्छब्द आसीत् सुदारुणः ।
ततो रजः प्रादुरभूत् तस्मिन् सङ्ग्राममूर्धनि ॥ १३॥
तारका निष्प्रभा राजंस्तमस्येवं क्षयं गते ।
उषसि प्रतिबुद्धायां ततो निःशेषतां ययौ ॥ १४॥
उदितो भगवान् सूर्यश्चन्द्रश्च क्षयमाययौ ।
तेषां युद्धं प्रादुरभूच्चतुर्णां बाहुशालिनाम् ।
देवासुरसमं राजन्नुदिते भास्करे महत् ॥ १५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकयुद्धे नवनवतितमोऽध्यायः ॥ ९९॥
३.१०० शततमोऽध्यायः
द्वारकायां प्रत्यागतस्य श्रीकृष्ण पौण्ड्रकेन सह युद्धम् KRiShNa returns, and engages pauNDraka
श्रीकृष्णस्य द्वारकायां आगमनं, पौण्ड्रकेन सह तस्य वार्तालापं
वैशम्पायन उवाच ।
ततः प्रभाते विमले भगवान् देवकीसुतः ।
गन्तुमैच्छज्जगन्नाथः पुरं बदरिकाश्रमात् ॥ १॥
नमस्कृत्य मुनीन् सर्वान् ययौ द्वारवतीं नृप ।
आरुह्य गरुडं विष्णुर्वेगेन महता प्रभुः ॥ २॥
सुमहाञ्छुश्रुवे शब्दस्तेषां युद्धं प्रकुर्वताम् ।
गच्छता देवदेवेन पुरीं द्वारवतीं नृप ॥ ३॥
अचिन्तयज्जगन्नाथः को न्वयं शब्द उत्थितः ।
सङ्ग्रामसम्भवो घोर आर्यशैनेयसंयुतः ॥ ४॥
व्यक्तमागतवान् पौण्ड्रो नगरीं द्वारकामनु ।
तेन युद्धं समभवत् पौण्ड्रकेण दुरात्मना ॥ ५॥
यदूनां वृष्णिवीराणां युद्ध्यतामितरेतरम् ।
शब्दोऽयं सुमहान् व्यक्तो नात्र कार्या विचारणा ॥ ६॥
इत्येवं चिन्तयित्वा तु दध्मौ शङ्खं महारवम् ।
पाञ्चजन्यं हरिः साक्षात् प्रीणयन् वृष्णिपुङ्गवान् ॥ ७॥
रोदसी पूरयामास तेन शब्देन केशवः ।
यादवा वृष्णयश्चैव श्रुत्वा शङ्खस्य ते रवम् ॥ ८॥
व्यक्तमायाति भगवान् पाञ्चजन्यरवो ह्ययम् ।
इति ते मेनिरे राजन् वृष्णयो यादवास्तथा ॥ ९॥
निर्भयाः समपद्यन्त वृष्णयो यादवाश्च ते ।
तस्मिन्नेव क्षणे दृष्टस्तार्क्ष्यश्च पततां वरः ॥ ३.१००.१०॥
ततश्च देवकीसूनुर्दृष्टस्तैर्यादवेश्वरः ।
सूताश्च मागधाश्चैव पुरो यान्ति जगत्पतेः ॥ ११॥
स्तुत्या स्तुतं हरिं विष्णुमीश्वरं कमलेक्षणम् ।
गताश्च यादवाः सर्वे परिवव्रुर्जनार्दनम् ॥ १२॥
कृष्णस्तु गरुडं भूयो गच्छ त्वं नाकमुत्तमम् ।
इत्युक्त्वा गरुडं विष्णुर्विसृज्य यदुनन्दनः ॥ १३॥
दारुकं पुनराहेदं रथमानय मे प्रभो ।
स तथेति प्रतिज्ञाय रथमादाय सत्वरम् ॥ १४॥
रथोऽयं भगवन् देव किमतः कृत्यमस्ति मे ।
इत्युक्त्वा रथमादाय प्रणम्याग्रे स्थितो हरेः ॥ १५॥
गतेऽथ गरुडे विष्णू रथमारुह्य सत्वरम् ।
यत्र युद्धं समभवत् तत्र याति स्म केशवः ॥ १६॥
तत्र गत्वा महाराज युध्यतां च महात्मनाम् ।
पाञ्चजन्यं महाशस्त्रं दध्मौ यदुवृषोत्तमः ॥ १७॥
पौण्ड्रोऽथ वासुदेवस्तु कृष्णं दृष्ट्वा रणोत्सुकम् ।
सात्यकिं पृष्ठतः कृत्वा वासुदेवमुपागमत् ॥ १८॥
क्रुद्धोऽथ सात्यकी राजन् वारयामास पौण्ड्रकम् ।
न गन्तव्यमितो राजन्नैष धर्मः सनातनः ॥ १९॥
जित्वा मां गच्छ राजेन्द्र परं योद्धुं महारणे ।
क्षत्रियोऽसि महावीर स्थिते मयि रणोत्सुके ॥ ३.१००.२०॥
एष ते गर्वमखिलं नाशयिष्यामि संयुगे ।
इत्युक्त्वा चाग्रतस्तस्थौ गच्छतो यादवेश्वरः ॥ २१॥
पौण्ड्रस्य शिनिनप्ता तु पश्यतः केशवस्य ह ।
अवज्ञाय शिनेः पौत्रं कृष्णमेव जगाम ह ॥ २२॥
निर्भर्त्स्य सहसा भूयः सात्यकिः क्रोधमूर्च्छितः ।
गदया प्राहरत् पौण्ड्रं वासुदेवस्य पश्यतः ॥ २३॥
यथाप्राणं यथायोगं सात्यकिः सत्यविक्रमः ।
दृष्ट्वाथ भगवानेवं सात्यकिं प्रशशंस ह ॥ २४॥
निवार्य सात्यकिं कृष्णो यथेष्टं क्रियतामसौ ।
उपारमद् यथायोगं सात्यकिः कृष्णवारितः ॥ २५॥
स ततः पौण्ड्रको राजा वासुदेवमुवाच ह ।
भो भो यादव गोपाल इदानीं क्व गतो भवान् ॥ २६॥
त्वां द्रष्टुमथ सम्प्राप्तो वासुदेवोऽस्मि साम्प्रतम् ।
हत्वा त्वां सबलं कृष्ण बलैर्बहुभिरन्वितः ॥ २७॥
अहमेको भविष्यामि वासुदेवो महीतले ।
यच्चकं तव गोविन्द प्रथितं सुप्रभं महत् ॥ २८॥
अनेन मम चक्रेण पीडितोऽस्मि च तद्रणे ।
चक्रमस्तीति तद्वीर्यं तव माधव साम्प्रतम् ॥ २९॥
नाशयिष्यामि तत् सर्वं सर्वक्षत्रस्य पश्यतः ।
शार्ङ्गीति मां विजानीहि न त्वं शार्ङ्गीति शिष्यसे ॥ ३.१००.३०॥
शङ्खमस्तीति तद्वीर्यं तव माधव साम्प्रतम् ।
शङ्खी चाहं गदी चाहं चक्री चाहं जनार्दन ॥ ३१॥
मामेव हि सदा ब्रूयुर्जानन्तो वीर्यशालिनः ।
आदौ त्वं बलवद् वृद्धान्हत्वा स्त्रीबालकान्बहून ॥ ३२॥
गाश्च हत्वा महागर्वस्तव सम्प्रति वर्तते ।
तत् तेऽहं व्यपनेष्यामि यदि तिष्ठसि मत्पुरः ॥ ३३॥
शस्त्रं गृहाण गोच्चिन्द्र यदि योद्धुं व्यवस्थितः ।
इत्युक्त्वा बाणमादाय तस्थौ पार्श्वं जगत्पतेः ॥ ३४॥
एतद् वचनमाकर्ण्य वासुदेवेन भाषितम् ।
स्मितं कृत्वा हरिः कृष्णो बभाषे पौण्ड्रकं नृपम् ॥ ३५॥
कामं वद नृप त्वं हि पातक्यस्मि सदा नृप ।
गोघाती बालघाती च स्त्रीहन्ता सर्वथा नृप ॥ ३६॥
चक्री भव गदी राजञ्छार्ङ्गी च सततं भव ।
नामधेयं वृथा मह्यं वासुदेवेति च प्रभो ॥ ३७॥
शार्ङ्गी चक्री गदी शङ्खीत्येवमादि वृथा मम ।
किं तु वक्ष्यामि किञ्चित्तु शृणुष्व यदि मन्यसे ॥ ३८॥
क्षत्रिया बलिनो ये तु स्थिते मयि जगत्पतौ ।
तथानुब्रुवते त्वां हि जीवत्येव मयि प्रभो ॥ ३९॥
यन्मे चक्रं महाघोरमसुरान्तकरं महत् ।
तत्तुल्यं तव चक्रं तु वृत्ततो न तु वीर्यतः ।
आयुधेष्वथ सर्वत्र शब्दसादृश्यमस्ति ते ॥ ३.१००.४०॥
गोपोऽहं सर्वदा राजन् प्राणिनां प्राणदः सदा ।
गोप्ता सर्वेषु लोकेषु शास्ता दुष्टस्य सर्वदा ॥ ४१॥
कत्थनं सर्वकार्यं हि जित्वा शत्रून् नृपाधम ।
अजित्वा किं भवान् ब्रूते स्थिते मयि च शस्त्रिणि ॥ ४२॥
हत्वा मां ब्रूहि राजेन्द्र यदि शक्तोऽसि पौण्ड्रक ।
स्थितोऽहं चक्रमाश्रित्य रथी चापी गदासिमान् ॥ ४३॥
रथमारुह्य युद्धाय सन्नद्धो भव मानद ।
इत्युक्त्वा भगवान् विष्णुः सिंहनादं व्यनीनदत् ॥ ४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कृष्णपौण्ड्रकयुद्धे शततमोऽध्यायः ॥ १००॥
३.१०१ एकाधिकशततमोऽध्यायः
पौण्ड्रकवधः PauNDraka killed
पौण्ड्रकस्य श्रीकृष्णेन सार्धं युद्धं, पौण्ड्रकस्य वधं
वैशम्पायन उवाच ।
ततः शरं समादाय वासुदेवः प्रतापवान् ।
पौण्ड्रं जघान सहसा निशितेन शरेण ह ॥ १॥
पौण्ड्रोऽथ वासुदेवस्तु शरैर्दशभिराशुगैः ।
वासुदेवं जघानाशु वार्ष्णेयं वृष्णिनन्दनम् ॥ २॥
दारुकं पञ्चविंशत्या हयान् दशभिरेव च ।
सप्तत्या वासुदेवं तु यादवं वासुदेवकः ॥ ३॥
ततः प्रहस्य सुचिरं केशवः केशिसूदनः ।
धृष्टोऽसाविति मनसा सम्पूज्य यदुनन्दनः ॥ ४॥
आकृष्य शार्ङ्गं बलवान् सन्धाय रिपुसूदनः ।
नाराचेन सुतीक्ष्णेन ध्वजं चिच्छेद केशवः ॥ ५॥
सारथेश्च शिरः कायादाहृत्य यदुनन्दनः ।
अश्वांश्च चतुरो हत्वा चतुर्भिः सायकोत्तमैः ॥ ६॥
रथं राज्ञः समाहत्य तदोभौ पार्ष्णिसारथी ।
चक्रे च तिलशः कृत्वा हसन् किञ्चिदिव स्थितः ॥ ७॥
पौण्ड्रको वासुदेवस्तु रथादुत्प्लुत्य सत्वरः ।
आदाय निशितं खङ्गं प्राहिणोत् केशवाय सः ॥ ८॥
स खङ्गं शतधा कृत्वा तूष्णोमासीच्च केशवः ।
ततः परं महाघोरं परिघं कालसम्मितम् ॥ ९॥
गृहीत्वा वासुदेवाय वासुदेवः प्रतापवान् ।
प्राहिणोद् वृष्णिवीराय सर्वक्षत्रस्य पश्यतः ॥ ३.१०१.१०॥
तद् द्विधा जगतां नाथश्चकार यदुनन्दनः ।
ततश्चक्रं महाघोरं सहस्रारं महाप्रभम् ॥ ११॥
त्रिंशद्भारसमायुक्तमायसाख्यममित्रहा ।
आदायाथ महाराज केशवं वाक्यमब्रवीत् ॥ १२॥
पश्येदं निशितं घोरं तव चक्रविनाशनम् ।
अनेन तव गोविन्द दर्पं दर्पवतां वर ॥ १३॥
अपनेष्यामि वार्ष्णेय सर्वक्षत्रस्य पश्यतः ।
त्वामुद्दिश्य महाघोरं कृतमन्यद् दुरासदम् ॥ १४॥
यदि शक्तो हरे कृष्ण दारयेदं महास्पदम् ।
इत्युक्त्वा तच्छतगुणं भ्रामयित्वा महाबलः ॥ १५॥
चिक्षेपाथ महावीर्यः पौण्ड्रको नृपसत्तमः ।
अवप्लुत्य ततो देशात् तदुत्सृज्य महाबलः ॥ १६॥
सिंहनादं महाघोरं व्यनदद् वीर्यवांस्तदा ।
ततो विस्मयमापन्नो भगवान् देवकीसुतः ॥ २७॥
अहो वीर्यमहो धैर्यमस्य पौण्ड्रस्य दुःसहम् ।
इति मत्वा जगन्नाथ उत्थितश्च रथोत्तमात् ॥ १८॥
ततः शिलां समादाय प्रेषयामास केशवम् ।
तां शिलां प्रेषयामास तस्मै यदुकुलोद्वहः ॥ १९॥
पौण्ड्रेण सुचिरं कालं विक्रीड्य भगवान् हरिः ।
ततश्चक्रं समादाय निशितं रक्तभोजनम् ॥ ३.१०१.२०॥
दैत्यमांसप्रदिग्धाङ्गं नारीगर्भविमोचनम् ।
शातकुम्भमयं घोरं दैत्यदानवनाशनम् ॥ २१॥।
सहस्रारं शतारं तदद्भुतं दैत्यभीषणम् ।
ऐश्वर्यवर्म परमं नित्यं सुरगणार्चितम् ॥ २२॥
विष्णुः कृष्णस्तथा शार्ङ्गी नित्ययुक्तः सदा हरिः ।
जघान तेन गोविन्दः पौण्ड्रकं नृपसत्तमम् ॥ २३॥
तस्य देहं विदार्याशु चक्रं पिशितभोजनम् ।
कृष्णस्याथ करं भूयः प्राप सर्वेश्वरस्य ह ॥ २४॥
ततः स पौण्ड्रको राजा गतासुः प्रापतद् भुवि ।
निहत्य भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
प्रतिपेदे सुधर्मां तु यादवैः पूजितो हरिः ॥ २५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवासुदेववधे
एकाधिकशततमोऽध्यायः ॥ १०१॥
३.१०२ द्व्यधिकशततमोऽध्यायः
एकलव्यकथासमाप्ति Ekalavya hounded off
एकलव्यस्य द्वीपान्तरगमनं, भगवता श्रीकृष्णेन यादवानां स्वयात्रायाः सङ्क्षिप्त वृत्तान्तकथनं, अन्तःपुरे रुक्मिणीं सत्यभामां च मिलित्वा ताभ्यां सन्तोषप्रदानं
वैशम्पायन उवाच ।
निषादेशं ततो रामः शक्त्या वीर्यवतां वरः ।
आजघान स्तनद्वन्द्वे सिंहनादं व्यनीनदत् ॥ १॥
ततः क्रुद्धो निषादेशो रामं मत्तं महाबलम् ।
गदया लोकविख्यातो जघान स्तनवक्षसि ॥ २॥
आहतः स तु तेनाशु बलभद्रो महाबलः ।
उभाभ्यां चैव रामस्तु कराभ्यां वृष्णिपुङ्गवः ॥ ३॥
गदां गृह्य महाघोरामायान्तीं प्राणहारिणीम् ।
दुद्रावाथ निषादेशः समुद्रं मकरालयम् ॥ ४॥
धावत्येवं तदा राज्ञि एकलव्ये निषादपे ।
धावत्येवं च रामोऽपि यत्र यातो निषादपः ॥ ५॥
सागरं स प्रविश्याशु गत्वा योजनपञ्चकम् ।
भीत एव तदा राजन्नेकलव्यो निषादपः ॥ ६॥
कञ्चिद् द्वीपान्तरं राजन् प्रविश्य न्यवसत् तदा ।
इत्थं रामो निषादेशं जिगाय यदुनन्दनः ॥ ७॥
तां सभां मणिरत्नाढ्यां प्रविवेश हलायुधः ।
सात्यकिर्युद्धसंसक्तस्तां सभां प्रविवेश ह ॥ ८॥
अन्ये च यादवा राजन् यथायोगमुपस्थिताः ।
आसीनेषु च सर्वेषु वृष्णिवीरेषु सर्वतः ॥ ९॥
अभिवाद्य यथायोगं वृष्णीन् सर्वांश्च केशवः ।
उवाच वचनं काले भगवान् देवकीसुतः ॥ ३.१०२.१०॥
दृष्टं कैलासशिखरं शङ्करो नीललोहितः ।
स तु मह्यं यदुवराः प्रीतिमांश्च ददौ वरम् ॥ ११॥
तत्र देवाः समायाता मुनयश्च तपोधनाः ।
दृष्ट्वा मां शङ्करश्चैव प्रीतः स्तुत्वा समाययौ ॥ १२॥
अत्यद्भुतं मया दृष्टं रात्रौ यादवसत्तमाः ।
पिशाचौ द्वौ महाघोरौ वदन्तौ मामिकां कथाम् ॥ १३॥
मृगयां चक्रतुस्तौ तु चिन्तयन्तौ तु मां सदा ।
दृष्ट्वा मां तौ तु राजेन्द्राः प्रीतिमन्तौ तपस्विनौ ॥ १४॥
भक्तिनम्रौ महात्मानौ प्रणामं चक्रतुस्तदा ।
ततोऽहं सर्वथा प्रीतस्तौ नीतौ स्वर्गमुत्तमम् ॥ १५॥
तोषयित्वा महादेवं मया चाद्य समागतम् ।
वैशम्पायन उवाच ।
ततस्ते वृष्णयः सर्वे देवदेवं शशंसिरे ॥ १६॥
सर्वथा कृतकृत्यास्ते वृष्षयः केशवाश्रयाः ।
यादवाः सर्व एवैते स्वं स्वं जग्मुर्यथालयम् ॥ १७॥
अभ्यन्तरे जगन्नाथः प्रविश्य हरिरीश्वरः ।
रुक्मिणीसत्यभामाभ्यामाचचक्षे यथाभवत् ॥ १८॥
ते प्रीते प्रीतियुक्तेन केशवेन समन्विते ।
एतत् ते सर्वमाख्यातं केशवस्य विचेष्टितम् ॥ १९॥
शशास पृथिवीं कृत्स्नां दुष्टान् हत्वा महाबलान् ।
नरकं घोरकर्माणं पौण्ड्रकं नृपसत्तमम् ॥ ३.१०२.२०॥
हयग्रीवं निशुम्भं च तथा सुन्दोपसुन्दकौ
ररक्ष विप्रान् देवेशो मुनीन् मुनिवरार्चितः ॥ २१॥
विप्रेभ्यश्च ददौ वित्तं गाश्च दत्त्वा स केशवः ।
अग्निहोत्रं प्रयुञ्जानो ब्राह्मणांश्च सुतपर्यन् ॥ २२॥
मुनींश्च ब्रह्मचर्येण देवान् यज्ञैरनेकधा ।
स्वधया च पितॄन् सर्वान् प्रीणयन्नेव सर्वदा ॥ २३॥
तस्मिञ्छासति देवेशे राज्यं निष्कण्टकं प्रभो ।
सुखमेव प्रजाः सर्वा जीवन्ति ब्राह्मणादयः ॥ २४॥
इति श्रोमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवधसमाप्तौ द्व्यधिकशततमोऽध्यायः ॥ १०२॥
३.१०३ त्र्यधिकशततमोऽध्यायः
वैशम्पायनं प्रति जनमेजयप्रश्नः Janamejaya's query to vaishampAyana
हंसडिम्भकाभ्यां विषये जनमेजयस्य प्रश्नं
जनमेजय उवाच ।
भूय एव द्विजश्रेष्ठ शङ्खचक्रगदाभृतः ।
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥ १॥
न हि मे तृप्तिरस्तीह शृण्वतः कैशवीं कथाम् ।
को नु नाम हरेर्विष्णोर्देवदेवस्य चक्रिणः ॥ २॥
शृण्वंस्तथा रमन् वापि तृप्तिं याति दिवानिशम् ।
पुरुषार्थोऽयमेवैको यत्कथाश्रवणं हरेः ॥ ३॥
कथमासीज्जगद्धेतोर्हंसस्य डिम्भकस्य च ।
समितिः सर्वभूतानां सदा विस्मयदायिनी ॥ ४॥
विचक्रस्य कथं युद्धं दानवस्य महात्मनः ।
स तयोर्मित्रतां यात इत्येवमनुशुश्रुम ॥ ५॥
तौ सुतौ वीर्यसम्पन्नौ शिष्यौ भृगुसुतस्य ह ।
सर्वास्त्रकुशलौ वीरौ हराल्लब्धवरौ किल ॥ ६॥
सङ्ग्रामः सुमहानासीदित्युक्तं भवता पुरा ।
तयोश्च नृपयोर्विप्र केशवस्य जगत्पतेः ॥ ७॥
कस्य पुत्रौ समुत्पन्नौ यथाभूद् विग्रहो महान् ।
अष्टाशीतिसहस्राणि दानवानां तरस्विनाम् ॥ ८॥
बलान्यथ विचक्रस्य शितशूलधराणि च ।
आसन् युद्धे महाराज दानवस्य जयैषिणः ॥ ९॥
यदूनामन्तरं प्रेप्सुर्यदूनां युद्धकाङ्क्षया ।
देवासुरे महायुद्धे देवाञ्जयति दुर्धरः ।
तद्वधार्थं सदा यत्नमकरोच्चैव केशवः ॥ ३.१०३.१०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने जनमेजयवाक्ये त्र्यधिकशततमोऽध्यायः ॥ १०३॥
३.१०४ चतुरधिकशततमोऽध्यायः
हंसडिम्भकोत्पत्तिः Birth of hamsa and Dimbhaka
राज्ञा ब्रह्मदत्तेन भगवतः शङ्करस्य आराधनेन हंसडिम्भकाभ्यां पुत्राणां प्राप्तिः,
राजसखेन विप्रवरेण मित्रसहेन भगवतः विष्णोः उपासनया जनार्दनसंज्ञकस्य पुत्रस्य लाभः ।
वैशम्पायन उवाच ।
आसीच्छाल्वेषु राजेन्द्र ब्रह्मदत्तो नृपोत्तमः ।
नाम्ना राजन् स पूतात्मा सर्वभूतदयापरः ॥ १॥
पञ्चयज्ञपरो नित्यं जितात्मा विजितेन्द्रियः ।
ब्रह्मविद् वेदविच्चैव सदा यज्ञमयः शिवः ॥ २॥
तस्य भार्ये महीपाल रूपौदार्यगुणान्विते ।
बभूवतुः सुसम्पन्ने अनपत्ये नृपोत्तम ॥ ३॥
स ताभ्यां मुमुदे राजा शच्या शक्र इवाम्बरे ।
नाम्ना मित्रसहो नाम सखा चासीद् द्विजोत्तमः ॥ ४॥
तस्य राज्ञो महायोगी वेदवेदान्ततत्परः ।
अनपत्यः स विप्रेन्द्रो यथा राजा बभूव ह ॥ ५॥
स राजा सहितस्ताभ्यामर्चयामास शङ्करम् ।
पुत्रार्थं शूलिनं शर्वं दश वर्षाण्यनन्यधीः ॥ ६॥
स विप्रो वैष्णवं सत्रं पुत्रार्थे समयोजयत् ।
अर्चितस्तेन राजेन्द्र शङ्करो नीललोहितः ॥ ७॥
आत्मानं दर्शयामास स्वप्ने राजानमब्रवीत् ।
प्रीतोऽस्मि तव भद्रं ते वरं वरय सुव्रत ॥ ८॥
अथ राजा जगन्नाथमुवाचेदं स्मयन्निव ।
पुत्रौ मम भवेतां हि तथेत्युक्त्वा वृषध्वजः ॥ ९॥
अन्तर्धानं गतः शम्भुः प्रतिबुद्धस्ततो नृपः ।
सोऽपि मित्रसहो विद्वान् देवं केशवमव्ययम् ॥ ३.१०४.१०॥
पञ्चवर्षं जगन्नाथमर्चयामास भक्तितः ।
विद्वान् मित्रसहने भी अविनाशी जगदीश्वर भगवान्
केशवकी पीच वर्षोतक बदे भक्तिमावसे आराधनाकी ॥ १०३॥
अर्चितस्तेन विप्रेण देवदेवो जनार्दनः ॥ ११॥
पुत्रमेकं ददौ तस्मै स्वात्मना सदृशं हरिः ।
ते भार्ये गर्भमाधत्तां तेजसा शङ्करस्य ह ॥ १२॥
विप्रभार्या महाराज वैष्णवं तेज आदधत् ।
महिष्यौ ते महावीर्यौ पुत्रौ शङ्करनिर्मितौ ॥ १३॥
असूयेतां महीपाल क्रमेणैव नृपस्य ह ।
स तयोश्च महाराज नामकर्मादिकाः क्रियाः ॥ १४॥
चकार विधिवत्सर्वा विप्रेभ्योऽदान्महद्धनम् ।
स च विप्रो विनीतात्मा पुत्रमेकं हि लब्धवान् ॥ १५॥
साक्षादिव जगन्नाथं स्थितं पुत्रात्मना नृप ।
जातकर्मादिकं सर्वं ब्राह्मणः स चकार ह ॥ १६॥
तौ कुमारावयं चैव त्रयः सवयसोऽभवन् ।
वेदानधीत्य ते सर्वाञ्छ्रुत्वा चान्वीक्षिकीं तथा ॥ १७॥
धनुर्वेदे तथाऽस्त्रे च निपुणास्तेऽभवंस्तदा ।
हंसो ज्येष्ठो नृपसुतो डिम्भकोऽनन्तरोऽभवत् ॥ १८॥
स च विप्रसुतो राजन् जनार्दन इति स्मृतः ॥
अन्योन्यं मित्रतां याताः सर्वे चैव कुमारकाः ॥ १९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोत्पत्तौ चतुरधिकशततमोऽध्यायः ॥ १०४॥
३.१०५ पञ्चाधिकशततमोऽध्यायः
हंसडिम्भकयोर् वरलाभः Hamsa and Dimbhaka obtain boons
हंसडिम्भकाभ्यां तपश्चरणं, वरप्राप्तिः, जनार्दनस्य सहितस्य तयोः विवाहः, तेषां त्रयाणां कुमाराणां धर्मनिष्ठा
वैशम्पायन उवाच ।
हंसश्च डिम्भकश्चैवं तपश्चर्तुं महामती ।
मनश्चक्रतुरात्मांशौ शङ्करस्य नृपोत्तम ॥ १॥
गत्वा तु हिमवत्पार्श्वं तपश्चक्रतुरञ्जसा ।
उद्दिश्य शङ्करं शर्वं नीलग्रीवमुमापतिम् ॥ २॥
वीर्यास्त्रे चैव नौ स्यातामित्याधाय तु मानसे ।
एकाग्रौ प्रयतौ भूत्वा वाय्वम्बुप्राशिनौ नृप ॥ ३॥
नमस्ते देवदेवेति शङ्करेति दिवानिशम् ।
हर शर्व शिवानन्द नीलग्रीव उमापते ॥ ४॥
वृषध्वज विरूपाक्ष हर्यक्ष जगतां पते ।
भक्तप्रिय गिरीशेश वासुदेव शिवाच्युत ॥ ५॥
सद्योजात महादेव देवदेव गुहाशय ।
भूतभावन देवेश प्रणवात्मन् सदाशिव ॥ ६॥
इत्यादिनामभिर्नित्यं स्तुवन्तौ शङ्करं भवम् ।
हृदि कृत्वा विरूपाक्षं तपस्तेपतुरञ्जसा ॥ ७॥
निर्ममौ निरहङ्कारौ मौनव्रतसमास्थितौ ।
वर्षाणीह तदा राजन् पञ्च चक्रतुरोजसा ॥ ८॥
ततः प्रीतोऽभवच्छर्वस्ताभ्यां संयमनेन च ।
स ददौ दर्शनं नैजं व्याघ्रचर्माम्बरो हरः ॥ ९॥
त्रियक्षः शङ्करः शर्वः शूलपाणिरुमापतिः ।
अग्रतः संस्थितं शर्वं चन्द्रार्धकृतशेखरम् ।
तौ दृष्ट्वा प्रीतमनसौ नमश्चक्रतुरञ्जसा ॥ ३.१०५.१०॥
श्रीभगवानुवाच ।
वरं वरय भद्रं वां यथेच्छा वां तथास्तु वै ।
तावूचतुस्तदा राजन् प्रीतस्त्वं भगवन् यदि ॥ ११॥
देवासुरचमूमुख्यैर्यक्षगन्धर्वदानवैः ।
आवामजय्यौ सर्वात्मन्नेष नौ प्रथमो वरः ॥ १२॥
द्वितीयो नौ विरूपाक्ष रौद्रास्त्राणां च सङ्ग्रहः ।
माहेश्वरं तथा रौद्रमस्त्रं ब्रह्मशिरो महत् ॥ १३॥
अभेद्यं कवचं दिव्यमच्छेद्यं चापि कार्मुकम् ।
परशुं च तथा शर्व सदा रक्षार्थमेव च ॥ १४॥
सहायौ द्वौ महादेव भूतौ युद्धे हि गच्छताम् ।
एवमस्त्विति देवेश आह भृङ्गिरिटी हरः ॥ १५॥
कुण्डोदरं विरूपाक्षं सर्वप्राणिहिते रतम् ।
युवामथ च भूतेशौ सहायौ सततं रणे ॥ १६॥
सङ्ग्रामं गच्छतां घोरमेतयोर्बलशालिनोः ।
इत्युक्त्वा भगवाञ्छर्वस्तत्रैवान्तरधीयत ॥ १७॥
ततस्तौ वीर्यसम्पन्नौ हंसो डिम्भक एव च ।
कृतास्त्रौ शस्त्रसम्पन्नौ चापिनौ वीर्यवत्तरौ ॥ १८॥
आमुक्तकवचौ वीरावजय्यौ देवदानवैः ।
अत्यन्तभक्तौ देवेशे शङ्करे नीललोहिते ॥ १९॥
नित्योत्सवकरौ देवे भस्मोद्धूलनशोभिनौ ।
कृतत्रिपुण्ड्रकौ नित्यं जटायुक्तशिरोधरौ ॥ ३.१०५.२०॥
रुद्राक्षार्पितसर्वाङ्गौ व्याघ्रचर्माम्बरावृतौ ।
नमः शिवाय शान्ताय महादेवाय धीमते ॥ २१॥
इत्यादिभिर्महादेवं स्तुवन्तौ नामभिः शिवम् ।
साक्षादिव महादेवौ रेजतुर्जलधारिणौ ॥ २२॥
ततः स्वभवनं गत्वा पितुः पादावगृह्यताम् ।
पितुश्च सख्युर्बलिनौ मातुश्च चरणौ तदा ॥ २३॥
जनार्दनोऽपि धर्मात्मा कालेन महता नृप ।
विद्यापारं महाबुद्धिर्युक्तेनासावुपेयिवान् ॥ २४॥
स च विष्णुं हृषीकेशं पीतकौशेयवाससम् ।
ब्रह्मतत्त्वपरो नित्यमुपास्ते विजितेन्द्रियः ॥ २५॥
हंसश्च डिम्भकश्चैव कृतदारो बभूवतुः ।
जनार्दनोऽपि धर्मात्मा कृतदारो बभूव ह ॥ २६॥
सर्वे ते यज्ञनिरताः पञ्चयज्ञपरास्तथा ।
स्वदारनिरताः सर्वे गुरुशुश्रूषणे रताः ।
धर्म एव परं श्रेय इति ते मेनिरे नृप ॥ २७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने पञ्चाधिकशततमोऽध्यायः ॥ १०५॥
३.१०६ षडधिकशततमोऽध्याय्ः
हंसडिम्भकयोर् मृगया Hamsa and Dimbhaka go ahunting
हंसडिम्भकाभ्यां मृगया
वैशम्पायन उवाच ।
ततः कदाचित् तौ वीरौ मृगयामाटतुः किल ।
जनार्दनेन सहितौ रथैरश्वैर्गजैरपि ॥ १॥
वनं गत्वा तु तौ वीरौ सिंहव्याघ्रांश्च जघ्नतुः ।
शितैर्बाणैर्महाराज वराहानथ सर्वशः ॥ २॥
व्यालानन्यान् मृगान् हिंस्राञ्छ्वभिश्च सहितौ नृप ।
एष आयाति विपुलो वराहो दीर्घलोचनः ॥ ३॥
एनं वाणेन सञ्छिन्धि याति चायं मृगाधिपः ।
अयमन्योऽथ महिषः शृङ्गप्रोतसरीसृपः ॥ ४॥
एते खलु मृगाः सार्धं शावैर्बाधन्ति सर्वशः ।
एतद् भ्रमति सर्वत्र भीतं शशकुलं महत् ॥ ५॥
शावं स्तनं पिबत्साधु न हन्तव्यमिदं शुभम् ।
ग्रहीतव्यमिदं सर्वं निरुध्य श्वगणैरिह ॥ ६॥
इत्यादिशब्दः सुमहान् मृगयां कुर्वतां नृप ।
क्षत्रियाणां नृपश्रेष्ठ व्याधानां चैव धावताम् ॥ ७॥
हत्वा मृगान् सुबहुशो व्याघ्रान् सिंहान् नृपोत्तमौ ।
श्रमं च जग्मतुर्वीरौ मध्यं याते दिवाकरे ॥ ८॥
अलं हि मृगयास्माकं श्रमः समुपजायते ।
इत्यूचतुर्महाराज पुष्करं जग्मतुः सरः ॥ ९॥
सरःसमीपमागम्य मुनिसिद्धनिषेवितम् ।
वीजन् मारुतसानूपं श्रमात् तत्र सुखस्थितौ ॥ ३.१०६.१०॥
ततो जनाः सरः सर्वे विगाह्य श्रमकर्षिताः ।
बिसान् प्रवालान् पद्मानां भक्षयामासुरार्तवत् ॥ ११॥
जनार्दनेन सहितौ हंसो डिम्भक एव च ।
सरः क्वचित् समाश्रित्य श्रमं सन्त्यज्य तिष्ठतः ॥ १२॥
विश्रम्य सरसस्तीरे तदाऽऽसाते सुखं नृपौ ।
अशृण्वातां परं ब्रह्म मुनिमुख्यैः समीरितम् ॥ १३॥
मध्यन्दिनं तथा सर्वैः सवनं सस्वरं नृपौ ।
ततः प्रीतौ नृपौ भूत्वा श्रुत्वा वेदध्वनिं तदा ॥ १४॥
ऐच्छेतां तौ तदा द्रष्टुं यज्ञं मुनिकृतं तदा ।
स्थापयित्वा ततः सेनां सर्वां मृगसमन्विताम् ॥ १५॥
आदाय च महाचापे शरान् कतिचिदेव च ।
जनार्दनस्तदा वीरौ हंसो डिम्भक एव च ॥ १६॥
पदातिनौ महाराज जग्मतुश्चाश्रमं किल ।
महर्षेः काश्यपस्याथ सत्रं वैष्णवसंज्ञकम् ।
यजतो मुनिभिः सार्धं जपहोमपरायणैः ॥ १७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने मृगयावर्णने षडधिकशततमोऽध्यायः ॥ १०६॥
३.१०७ सप्ताधिकशततमोऽध्यायः
दुर्वासोदर्शनम् Hamsa and Dimbhaka in durvAsa Ashrama
सेनासहितस्य हंसडिम्भकाभ्यां पुष्करतटे विश्रमणं, महर्षेः कश्यपस्य वैष्णवसत्रस्य दर्शनं, दुर्वासादीनां यतीनां समुदाये गत्वा तेषां प्रति स्वाश्रद्धायाः प्रदर्शनं
वैशम्पायन उवाच ।
जनार्दनश्च धर्मात्मा हंसो डिम्भक एव च ।
सदः प्रविश्य सत्रस्य नमश्चक्रुर्मुनीश्वरान् ॥ १॥
तानागतान् महात्मानो मुनयः शिष्यसंयुताः ।
अर्घ्यपाद्यासनादीनि चक्रुः पूजां प्रयत्नतः ॥ २॥
तौ नृपौ स च विप्रेन्द्रः सपर्यां प्रतिगृह्य च ।
प्रीतात्मानो महात्मान आसते ससुखं नृप ॥ ३॥
ततो हंसो बभाषे तान् मुनीन् संयतवाङ्नृप ।
पिता हि नौ मुनिश्रेष्ठा यष्टुमैच्छत् ससाधनम् ॥ ४॥
गन्तव्यं तत्र युष्माभिः सत्रान्ते मुनिसत्तमाः ।
राजसूयेन यज्ञेन कृत्वा दिग्विजयं वयम् ॥ ५॥
याजपिष्यामहे विप्राः पितरं धार्मिकं नृपम् ।
आयान्तु तत्र विप्रेन्द्राः सशिष्याः सपरिच्छदाः ॥ ६॥
वयमद्यैव सहितौ दिशो जेष्यामहे वयम् ।
शक्ता वयमिहैवैतत् कर्तुं सैनिकसञ्चयैः ॥ ७॥
आवयोः पुरतः स्थातुं न शक्ता देवदानवाः ।
कैलासनिलयाद् देवाद् वरं लब्धाः स्म यत्नतः ॥ ८॥
अजय्यौ शत्रुसङ्घानामस्त्राणि विविधानि च ।
इत्युक्त्वा विररामैव हंसो मदबलान्वितः ॥ ९॥
मुनय ऊचुः ।
यदि स्यात् तत्र गच्छामो वयं शिष्यैर्नृपोत्तम ।
आस्महे वान्यथा राजन्नित्यूचुः किल तापसाः ॥ ३.१०७.१०॥
वैशम्पायन उवाच ।
ततो देशान् महाराज गन्तुं निश्चितमानसौ ।
पुष्करस्योत्तरं तीरं दुर्वासा यत्र तिष्ठति ॥ ११॥
यतयो नियता भूत्वा मन्त्रब्रह्मनिषेविणः ।
ब्रह्मसूत्रपदे सक्तास्तदर्थालोकतत्पराः ॥ १२॥
निर्ममा निरहङ्काराः कौपीनाच्छादनव्रताः ।
तमात्मानं जगद्योनिं विष्णुं विश्वेश्वरं विभुम् ॥ १३॥
ब्रह्मरूपं शुभं शान्तमक्षरं सर्वतोमुखम् ।
वेदान्तमूर्तिमव्यक्तमनन्तं शाश्वतं शिवम् ॥ १४॥
नित्ययुक्तं विरूपाक्षं भूताधारमनामयम् ।
ध्यायन्तः सर्वदा देवं मनसा सर्वतोमुखम् ॥ १५॥
दुर्वाससा सदोपास्यं वेदान्तैकरसं गुरुम् ।
तर्कनिश्चिततत्त्वार्था ज्ञाननिर्मलचेतसः ॥ १६॥
हंसाः परमहंसाश्च शिष्या दुर्वाससः प्रभो ।
गत्वा तत्र महात्मानौ तौ दृष्ट्वा तूर्ध्वरेतसम् ॥ १७॥
दुर्वाससं महाबुद्धिं विचिन्वानं परं पदम् ।
क्रुद्धो यदि स दुर्वासा दग्धुं लोकानिमान् क्षमः ॥ १८॥
देवा अपि च यं द्रष्टुं क्रुद्धं वै न क्षमाः सदा ।
रोषमूर्तिः सदा यस्तु रुद्रात्मा विश्वरूपधृक् ॥ १९॥
रक्तकौपीनवसनो हंसः परम एव च ।
दृष्ट्वैनं च तयोरेवं बुद्धिरासीन्महामते ॥ ३.१०७.२०॥
को नामासौ महाभूतः काषायी वर्णवित्तमः ।
कश्चायमाश्रमो नाम विहाय च गृहाश्रमम् ॥ २१॥
गृहस्थ एव धर्मात्मा गृहस्थो धर्मवित्तमः ।
गृहस्थो धर्मरूपस्तु गृहस्थो वर्ण एव च ॥ २२॥
गृहस्थश्च सदा माता प्राणिनां जीवनं खदा ।
तं विनान्येन रूपेण वर्तते योऽतिमूर्खवत् ॥ २३॥
उन्मत्तोऽयं विरूपोऽयमथवा मूर्ख एव च ।
ध्यायन्निव सदा चायमास्ते वञ्चयितापि वा ॥ २४॥
किमेते प्राकृतज्ञाना ध्यायन्त इति किञ्चन ।
वयमेतान् दुरारोहानाश्रमान्तरकल्पकान् ॥ २५॥
स्थापयिष्यामहे सर्वान् मन्दबुद्धीनिमान् गृहे ।
बलादेव द्विजानेतान् मूढविज्ञानतत्परान् ॥ २६॥
असद्ग्राहगृहीताश्च बालिशान् दुर्मतीनिमान् ।
एषां शास्ता च को मूढो न विप्रो वयमत्र ह ॥ २७॥
धर्म्ये वर्त्मनि संस्थाप्य पुनर्यास्याव निर्वृतौ ।
इति सञ्चिन्त्य तौ वीरौ विप्रेण सहितौ नृप ॥ २८॥
जनार्दनेन राजानौ मोहाद् भाग्यक्षयान्नृप ।
समीपं तस्य राजेन्द्र यतेः संयतचेतसः ॥ २९॥
गत्वा च प्रोचतुरुभौ दुर्वाससमतीन्द्रियम् ।
यतींश्च नियतान् क्रुद्धौ राजानौ राजसत्तम ॥ ३.१०७.३०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सप्ताधिकशततमोऽध्यायः ॥ १०७॥
३.१०८ अष्टाधिकशततमोऽध्यायः
संन्यासधर्मनिन्दा Abuse of saMnyAsadharma
हंसडिम्भकाभ्यां संन्यासस्य निन्दा, जनार्दनेन सन्न्यासाश्रमस्य मण्डनं
हंसडिम्भकावूचतुः
ज्ञानलेशाद्विहीनात्मन्किं ते व्यवसितं द्विज ।
कश्चायमाश्रमो विप्र भवता यः समाश्रितः ॥ १॥
गृहमेधं परित्यज्य किं त्वया साधितं पदम् ।
दम्भ एव भवान् व्यक्तं शङ्के नास्त्यत्र कारणम् ॥ २॥
लोकांश्चेमान्सदा मूढ नाशयिष्यसि निर्वृतः ।
एतान् सर्वान् विनेतासि नरके पातयिष्यसि ॥ ३॥
स्वयं नष्टः परान् मूर्ख नाशयिष्यसि यत्नतः ।
अहो शान्ता कथं नास्ति तव मन्दमतेर्द्विज ॥ ४॥
सर्वथा त्वद्विनेता च पापो नास्त्यत्र संशयः ।
त्यक्त्वेममाश्रमं विप्र गृही भव यतात्मवान् ॥ ५॥
पञ्च यज्ञान् सदा विप्र कुरु यत्नपरो भव ।
ततः स्वर्गं परं गत्वा स्वर्गे हि सुमहत्सुखम् ॥ ६॥
एष श्रेयः पथो विप्र जीविते चेत् स्पृहा तव ।
इत्युक्तवन्तौ धर्मात्मा श्रुत्वा विप्रो जनार्दनः ॥ ७॥
उवाच च यतिं दृष्ट्वा प्रणम्यासौ सुनीतवत् ।
मा ब्रूतामीदृशं वाक्यं राजानौ मन्दतेजसौ ॥ ८॥
अश्राव्यमीदृशं घोरं लोकयोरुभयोरपि ।
को वक्तुमीशो मन्दात्मा यदि जीवेत् सबान्धवः ॥ ९॥
सर्वथा काल एवायं युवयोर्मन्दचेतसोः ।
समाप्त आयुषः शेषो ब्रह्मदण्डहतौ युवाम् ॥ ३.१०८.१०॥
एते हि यतयः शुद्धा ज्ञानदीपितचेतसः ।
ज्ञानाग्निदग्धकर्माणः प्राणान् प्राणेषु जुह्वति ॥ ११॥
ऋते वामीदृशं वाक्यं कः समर्थो ह्यनुब्रुवन् ।
सर्वथा ज्ञातमस्माभिः समाप्तमिह जीवितम् ॥ १२॥
चत्वार आश्रमाः पूर्वमृषिभिर्विहिता नृपौ ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १३॥
तेषामग्रश्चतुर्थोऽयमाश्रमो भिक्षुकः स्मृतः ।
आस्ते तस्मिन्महाबुद्धिः स हि पुण्यतरः स्मृतः ॥ १४॥
नोपासिता भवद्भ्यां च वृद्धाः सम्यग् विनीतवत् ।
ज्ञानं नाप्तं तपस्विभ्यस्तथा चैवं वदेत कः ॥ १५॥
अश्राव्यमीदृशं घोरं मया प्राणभृता नृप ।
किं करिष्यामि मन्दात्मन्मित्रत्वाद् भवतो नृप ॥ १६॥
ज्ञानं यदाप्तं भवता गुरुभ्यस्तदत्र दुःखाय हि केवलं नृप ।
ज्ञानं हि धर्मप्रभवं यथेष्टं वलाद्धि पापस्य विधातृरूपम् ॥ १७॥
युवां विहाय यास्ये वा पतेयं वा शिलातलम् ।
पिबेयं वा विषं घोरं पतेयं वा महोर्मिषु ॥ १८॥
आत्मानं वात्र सन्त्यक्ष्ये पश्यतां शृण्वतां पुनः ।
इत्युक्त्वा विललापैवं मा ब्रूतमिति तौ वदन् ॥ १९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने अष्टाधिकशततमोऽध्यायः ॥ १०८॥
३.१०९ नवाधिकशततमोऽध्यायः
दुर्वाससो भाषणम् DurvAsa chides hamsa and Dimbhaka
दुर्वाससः रोषं, हंसेन तेषां तिरस्करणं, दुर्वाससा ताभ्यां शापदानं,
जनार्दनाय वरदानं
वैशम्पायन उवाच ।
ततः क्रुद्धोऽथ दुर्वासा धक्ष्यन्निव तयोरसून् ।
एकेनाक्ष्णाथ दुर्वासा रौद्रेणाग्नियुजा सदा ॥ १॥
पश्यंस्तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः ।
कुर्वन्निव तदा लोकान् भस्मभूतानिमान् नृप ॥ २॥
ब्राह्मणं चक्षुषा पश्यन् सौम्येनान्येन केवलम् ।
उवाच वचनं राजन् ध्वंसत ध्वंसतेतरान् ॥ ३॥
इतो गच्छत राजानौ किं विलम्बत मा चिरम् ।
न वां वचनसम्भूतं रोषं धारयितुं क्षमे ॥ ४॥
अन्यथा वो महीपालान्सर्वान् दग्धुमहं क्षमः ।
किमतः साहसं वक्तुं कश्च शक्नोति मत्परः ॥ ५॥
दर्पं वां लोकविख्यातः शङ्खचक्रगदाधरः ।
व्यपनेष्यति मन्दज्ञौ किं वां वक्ष्यामि साम्प्रतम् ॥ ६॥
तत उत्थाय धर्मात्मा गन्तुमैच्छद् यतीश्वरः ।
ततो निषेद्धुं हंसस्तं यतते स्म यतीश्वरम् ॥ ७॥
तस्य बाहुं समादाय हंसो नृपवरोत्तम ।
कौपीनं चिच्छिदे क्रूरः कृतान्त इव सत्तम ॥ ८॥
यतयोऽन्ये पलायन्ति दिशो दश विचेतसः ।
कष्टं हेति वदन् विप्रो मित्रभावाज्जनार्दनः ॥ ९॥
न्यवारयद् यथाशक्ति किमिदं साहसं त्विति ।
दुर्वासाः सत्यधर्मस्तु हन्तुमीशोऽपि तं ततः ॥ ३.१०९.१०॥
मन्दं मन्दमुवाचेदं हंसं डिम्भकमेव च ।
शापेनाहं समर्थोऽपि हन्तुं राजकुलाधमौ ॥ ११॥
तथापि न करोम्यन्तं यतयो ह्यत्र ते वयम् ।
यो दि देवो जगन्नाथः केशवो यादवेश्वरः ॥ १२॥
शङ्खचक्रगदापाणिर्गर्वं वां व्यपनेष्यति ।
लोके तस्मिन् यदुश्रेष्ठे रक्षत्येवं जगत्पतौ ॥ १३॥
युवयोः सर्वथा जीवः सज्जीव इति मे मतिः ।
जरासन्धोऽपि वां बन्धुः स च वक्तुं न चेच्छति ॥ १४॥
ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा ।
एतावता स वां बन्धुर्न हि भूयो भविष्यति ॥ १५॥
विद्वेषो ह्यस्तु वां तस्य मागधस्य महीपतेः ।
श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत् ॥ १६॥
धर्मनाशो भवेत् तस्य नात्र कार्या विचारणा ।
इत्युक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः ॥ १७॥
जनार्दनमुवाचेदं दुर्वासा यतिसत्तमः ।
स्वस्त्यस्तु तव विप्रेन्द्र भक्तिरस्तु जनार्दने ॥ १८॥
संसृतिस्तव तस्यास्तु शङ्खचक्रगदाभृतः ।
अद्य श्वो वा परश्वो वा साधुरेव सदा भवान् ॥ १९॥
न हि साधोर्विनाशोऽस्ति लोकयोरुभयोरपि ।
गच्छ सर्वं पितुर्ब्रूहि ज्ञात्वा वृत्तं यथाखिलम् ॥ ३.१०९.२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासोभाषणे नवाधिकशततमोऽध्यायः ॥ १०९॥
३.११० दशाधिकशततमोऽध्यायः
यतीनां द्वारकागमनम् The sages go to dvAraka
दुर्वासादीनां मुनीनां द्वारकागमनं
वैशम्पायन उवाच ।
ततस्तौ हंसडिम्भकौ क्रुद्धौ कालेन चोदितौ ।
शिक्यं कमण्डलुं चैव द्विदलं दारुमेव च ॥ १॥
दण्डान् पात्रविशेषांश्च छित्त्वा भित्त्वा च सर्वशः ।
तस्मिन् देशे महाराज व्याधैर्मांसान्यदीदहन् ॥ २॥
भक्षयित्वा ततो देशात् स्वपुरीं तौ प्रजग्मतुः ।
जनार्दनश्च धर्मात्मा स्नेहादनुययौ तयोः ॥ ३॥
नष्टाविमाविति तदा स मेने दुःखितः परम् ।
गतेषु तेषु सर्वेषु दुर्वासा यतिसत्तमः ॥ ४॥
पलायनपरान् सर्वानिदं प्राह यतीश्वरान् ।
इतो देशाद्विनिर्गत्य पुष्करात्पुण्यसंयुतात् ॥ ५॥
मन्दं मन्दं समाश्वस्य विश्रम्य च ततस्ततः ।
प्रविश्य द्वारकां देवं शङ्खचक्रगदाधरम् ॥ ६॥
दृष्ट्वा च तस्मै प्रभवे वक्ष्यामो यतिसत्तमाः ।
स हि रक्षञ्जगदिदं धर्मवर्त्मनि संस्थितः ॥ ७॥
आद्यो लोकगुरुर्विष्णुर्यतात्मा तत्त्ववित्प्रियः ।
उद्धृत्य कण्टकान् सर्वाञ्छशास पृथिवीमिमाम् ॥ ८॥
स च पापान् महाघोरान् सर्वान् पापकृतान् प्रभुः ।
रक्षेन्नः सकलान् सर्वांज्ञानेषु नियतात्मनः ॥ ९॥
इदमद्य क्षमं विप्रा यानमद्य विधीयताम् ।
साहसं यत्कृतं ताभ्यां पात्रभेदादि सत्तमाः ॥ ३.११०.१०॥
एतत् सर्वमशेषेण दर्शयाम जनार्दनम् ।
तथेति ते प्रतिज्ञाय यतयो ज्ञानचक्षुषः ॥ ११॥
छिन्नं ताभ्यां समादाय शिक्यं दारुमयं तथा ।
द्विदलं कर्पटं चैव कौपीनमथ वल्कलम् ॥ १२॥
कमण्डलुं तथा राजन्नर्धप्रोतकपालकम् ।
एतानन्यान् समादाय द्रष्टुं केशवमाययुः ॥ १३॥
पञ्च चैव सहस्राणि पुरस्कृत्य महामुनिम् ।
दुर्वाससं तपोयोनिमीश्वरस्यात्मसम्भवम् ॥ १४॥
अहोरात्रेण ते सर्वे द्वारकां कृष्णपालिताम् ।
ययुर्दान्ता महात्मानो लोमशाः केशवर्जिताः ॥ १५॥
प्रातः प्रविश्य राजेन्द्र वापिकायां यतीश्वराः ।
स्नात्वोपस्पृश्य ते सर्वे यत्नेन महता तदा ॥ १६॥
द्रष्टुमभ्युद्यता विष्णुं कण्टकोद्धृतितत्परम् ।
एकरूपं समास्थाय सुधर्मायामवस्थितम् ॥ १७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतीनां द्वारकागमने
दशाधिकशततमोऽध्यायः ॥ ११०॥
३.१११ एकादशाधिकशततमोऽध्यायः
श्रीकृष्णं प्रति दुर्वससो वाक्यम् DurvAsa complains to kRiShNa
श्रीकृष्णस्य गोलक्रीडा, सुधर्मासभायां दुर्वासादीनां मुनीनां आगमनं, यादवेभिः कृष्णेन च तेषां सत्कारं, श्रीकृष्णेन तेभ्यः आगमनस्य कारणस्य पृच्छा, दुर्वाससा भगवतः स्तुति एवं उपालम्भनपूर्वकं तस्य प्रश्नस्य प्रतिवादं कृत्वा स्वदुर्दशायाः वृत्तान्तकथनं
वैशम्पायन उवाच ।
अथ सर्वेश्वरो विष्णुः पद्मकिञ्जल्कलोचनः ।
श्यामः पीताम्बरः श्रीमान् प्रलम्बाम्बरभूषणः ॥ १॥
किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः ।
अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः ॥ २॥
क्रीडाविहारोपगतः कदाचिदभवद्धरिः ।
कुमारैरपरैः सार्धं सात्यकिप्रमुखैर्नृप ॥ ३॥
गोलक्रीडां सुधर्माया मध्ये यादवसत्तमः ।
चकार प्रियकृत् कृष्णो युयुधानेन केशवः ॥ ४॥
ममायं प्रथमो गोलस्तव पश्चाद् भविष्यति ।
इति ब्रुवंस्तदा विष्णुः सात्यकिं कमलेक्षणः ॥ ५॥
पार्श्वस्था यादवास्तस्य वसुदेवपुरोगमाः ।
उद्धवप्रमुखा राजन्नासेदुः क्वचिदत्र वै ॥ ६॥
अन्यव्यापाररहितो भूतात्मा भूतभावनः ।
विजहार यथा रामः सुग्रीवेण पुरा नृप ॥ ७॥
मध्यन्दिने महाविष्णुः शैनेयेन सहाच्युतः ।
विक्रीड्य सुचिरं कृष्ण उपारंसीत् स यादवः ॥ ८॥
द्वाःस्थेन वारिताः पूर्वं द्वार्येव च समास्थिताः ।
इदमन्तरमित्येव विविशुस्तां सभां नृप ॥ ९॥
यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् ।
दुर्वाससं सुमनसो ददृशुर्यादवेश्वरम् ॥ ३.१११.१०॥
गोलक्रीडासमासक्तं करसंस्थितगोलकम् ।
पद्मपत्रविशालाक्षं विष्णुं तं सात्यकिं हरिम् ॥ ११॥
एकेनाक्ष्णा ह्लादयन्तं परेणान्येन गोलकम् ।
यतयश्च महाराज प्रत्यदृश्यन्त तत्पुरः ॥ १२॥
वृष्णिपः पुण्डरीकाक्षः सात्यकिर्बलभद्रकः ।
वसुदेवस्तथाक्रूरः उग्रसेनस्तथा नृप ॥ १३॥
अन्ये च यादवाः सर्वे सम्भ्रमं प्रतिपेदिरे ।
इदं किमिदमित्येवं व्याशङ्कमनसोऽभवन् ॥ १४॥
पृष्ठतोऽप्यनुगच्छन्ति दिधक्षन्तं जगत्त्रयम् ।
अर्धकौपीनवसनं स्मरन्तं कमपि द्विजम् ॥ १५॥
अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् ।
अन्तर्ज्वलन्तं रोषेण हंसासादितकल्मषम् ॥ १६॥
नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् ।
दुर्वाससं ते ददृशुर्भीता यादवसत्तमाः ॥ १७॥
किं करिष्यत्यसौ क्रुद्धः कि वा वक्ष्यति नः प्रभुः ।
इति प्राञ्जलयः सर्वे यादवाः प्रतिपेदिरे ॥ १८॥
इदमासनमित्येवं किञ्चिदूचुश्च वृष्णयः ।
ततः कृष्णो हृषीकेशः किञ्चिदुत्प्लुत्य तत्पुरः ॥ १९॥
इदमासनमित्येवं स्थीयतामिह निर्वृतः ।
अहमद्य स्थितो विप्र किङ्करोऽस्मीति चाव्रवीत् ॥ ३.१११.२०॥
ततः किञ्चिदिवासीन आसने यतिविग्रहः ।
आसने संस्थिते तस्मिन् यतयो वीतमत्सराः ॥ २१॥
आसनानि यथायोगं भेजिरे निर्वृताः किल ।
अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत् ॥ २२॥
आह भूयो हृषीकेशो यतिं दुर्वाससं प्रभुम् ।
किमर्थं ब्रूहि विप्रेन्द्र अस्मिन् प्रत्यागमो हि वः ॥ २३॥
दृष्टं वा ह्यथवा किञ्चित् कारणं चास्ति वो महत् ।
संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः ॥ २४॥
निःस्पृहाश्च सदा यूयमस्मत्तो द्विजपुङ्गवाः ।
प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः ॥ २५॥
स्पृहाप्रेरितकर्माणः क्षत्रियान् यान्ति सुव्रताः ।
निरूप्यमाणमस्माभिर्विप्र किञ्चिन्न दृश्यते ॥ २६॥
न जाने कारणं ब्रह्मन् युष्मदागमनं प्रति ।
एतावता चानुमेयं किएचित्कारणमस्ति वै ॥ २७॥
तद् ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् ।
इत्युक्तवति देवेशे चक्रपाणौ जनार्दने ॥ २८॥
तस्यापि राजन्विप्रस्य भूयः कोपो महानभूत् ।
तस्मादभ्यधिकः पूर्वात् कोपः सञ्जायते महान् ॥ २९॥
दिधक्षन्निव लोकांस्त्रीन् भक्षयन्निव पश्यतः ।
रोषरक्तेक्षणः क्रुद्धो हसन्निव दहन्निव ॥ ३.१११.३०॥
उवाच वचनं विष्णुं दुर्वासा क्रोधमूर्च्छितः ।
न जाने इति कस्मात् त्वं ब्रूषे नो यादवेश्वर ॥ ३१॥
जानामि त्वां महादेवं वञ्चयन्निव भाषसे ।
पुरातना वयं विष्णो पूर्ववृत्तान्तवेदिनः ॥ ३२॥
यथा हि देवदेवोऽसि मायामानुषदेहवान् ।
निगूहसे प्रभुरतः कस्मान्नो जगतीपते ॥ ३३॥
सोऽसि ब्रह्मविदां मूर्तिस्तवैतत् परमं पदम् ।
यदभ्यर्च्य पुरा ब्रह्मा यच्च ज्ञाना वयं पुरा ॥ ३४॥
यतो विश्वमिदं भूतं तदेतत् परमं पदम् ।
यच्च स्थूलं विजानन्ति पुरा तत्त्वेन चेतसा ॥ ३५॥
पुराविदोऽथ विश्वेश यदेतत् परमं वपुः ।
कर्मणा प्राप्यते यत्तु यत्स्मृत्वा निर्वृता वयम् ॥ ३६॥
प्रत्यक्षमपि यद्रूपं नैव जानन्ति मानुषाः ।
न हि मूढधियो देव न वयं तादृशा हरे ॥ ३७॥
न जाने इति यद् ब्रूषे किमतः साहसं वचः ।
ये हि मूलं विजानन्ति तेषां तु प्रविवेचनम् ॥ ३८॥
कुर्वतः किं फलं देव तव केशिनिषूदन ।
वेदान्ते प्रथितं तेजस्तव चेदं विचार्यते ॥ ३९॥
ये च विज्ञानतृप्तास्तु योगिनो वीतकल्मषाः ।
पश्यन्ति हृत्सरोजेऽपि तदेवेदं वपुः प्रभो ॥ ३.१११.४०॥
वेदैर्यद् गीयते तेजो ब्रह्मेति प्रतिपाद्य वै ।
तदेवेदं विजानेऽहं रूपमैश्वरमेव च ॥ ४१॥
वैष्णवं परमं तेज इति वेदेषु पठ्यते ।
अवगच्छाम्यहं विष्णो तदेवेदं वपुस्तव ॥ ४२॥
य ओमित्युच्यते शब्दो यस्य वागिति गीयते ।
स एवासि प्रभो विष्णो न जाने इति मा वद ॥ ४३॥
परोक्षं यदि किञ्चित् स्यात् तव वक्तुं प्रयुज्यते ।
न जाने इति गोविन्द मा वादीः साहसं हरे ॥ ४४॥
विश्वं यतः प्रादुरासीद् यस्मिँल्लीन क्षये सति ।
इदं तदैश्वरं तेजस्त्ववगच्छाघि केशव ॥ ४५॥
कर्ता त्वं भूतभव्येश प्रतिभासि सदा हृदि ।
यद् यद् रूपं स्मरे नित्यं तत् तदेवासि मे हृदि ॥ ४६॥
वायुरेव यदा विष्णुरिति मे धीयते मतिः ।
तदा तद्रूप एवासि हृन्मध्ये संस्थितो विभो ॥ ४७॥
आकाशो विष्णुरित्येव कदाचिद्धीयते मतिः ।
तदा तद्रूप एवासि हृन्मध्ये संस्थितो विभो ॥ ४८॥
पृथिवी विष्णुरित्येतत् कदाचिद्धीयते मतिः ।
तदा पार्थिवरूपस्त्वं प्रतिभासि सदा मम ॥ ४९॥
रसोऽयं देव इत्येव कदाचिच्चिन्त्यते मया ।
तदा रसात्मना विष्णो हृन्मध्येसंस्थितोविभो ॥ ३.१११.५०॥
यदा त्वां तेज इत्येवं स्मर्ता स्यां पुरुषोत्तम ।
तदा तद्रूपसम्पन्नः प्रतिभासि सदा हृदि ॥ ५१॥
चन्द्रमा हरिरित्येवं तदा चान्द्रमसं वपुः ।
निरीक्ष्य चक्षुषा देव ततः प्रीतोऽस्मि केशव ॥ ५२॥
यदा सौरं वपुरिति स्मर्ता स्यां जगतीपते ।
तदा तद्भावनायोगात् सूर्य एव विराजसे ॥ ५३॥
तस्मात् सर्वं त्वमेवासि निश्चिता मतिरीदृशी ।
अतो न जानेऽहमिति वक्तुं नेशो जनार्दन ॥ ५४॥
इत्यर्थं संस्थितो विष्णो पीडां नो नैव चिन्त्यसे ।
अत्यन्तदुःखिता विष्णो वयं त्वामनुसंस्थिताः ॥ ५५॥
ईदृशीयमवस्था नो नैतां स्मरसि केशव ।
एतत् पुनर्भाग्यमतो नष्टमित्येव चिन्तये ॥ ५६॥
मन्दभाग्या वयं विष्णो यतो नो न स्मरेः प्रभो ।
कौचित् क्षत्रियदायादौ गिरीशवरगर्वितौ ॥ ५७॥
नाम्ना च हंसडिम्भकौ बाधेते नो जनार्दन ।
गार्हस्थ्यं हि सदा श्रेयो वदन्ताविति केशव ॥ ५८॥
इतस्ततश्च धावन्तौ वदन्तौ बहु किल्बिषम् ।
अयुक्तं बहु भाषन्तौ धर्षयन्तौ च नः सदा ॥ ५९॥
इदमन्यत् कृतं देव असह्यं पापमुच्यते ।
पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः ॥ ३.१११.६०॥
शक्यं च दारवं पात्रं द्विदलान् वेणुकान् बहून् ।
इदमप्यपरं पश्य तयोः साहसचेष्टितम् ॥ ६१॥
कौपीनं बहुधा छिन्नं तदस्माकं महद्धनम् ।
कृतं कपालमात्रेण कमण्डलु जगत्प्रभो ॥ ६२॥
त्वं तु नो रक्षसे नित्यं क्षात्रं वै व्रतमास्थितः ।
चित्रं चित्रमिदं देव रक्षस्यसि सदानिशम् ॥ ६३॥
किं करिष्यामि मन्दात्मा मन्दभोग्या वयं विभो ।
किं नः शरणमद्यैव तद् ब्रूहि जगतां पते ॥ ६४॥
जीवन्तौ तौ यदि स्यातां नष्टा लोका इमे त्रयः ।
न विप्रा न च राजानो न वैश्या न च पादजाः ॥ ६५॥
अत्यन्तबलिनौ मत्तौ तीक्ष्णदण्डधरौ नृप ।
न तयोः पुरतः स्थातुं शक्ता देवाः सवासवाः ॥ ६६॥
न च भीष्मो न वा राजा वाह्लीको भीमविक्रमः ।
यो हि वीरो जरासन्धः क्षत्रियाणां भयङ्करः ॥ ६७॥
नैव च प्रायशः स्थातुं गिरीशवरदर्पिणोः ।
तयोः कृष्ण हरे शक्तो नित्यमप्रतिसङ्गिनोः ॥ ६८॥
तस्मात् त्वं जहि तौ वीरौ रक्ष लोकानिमान् प्रभो ।
अन्यथा रक्षसीत्येवं व्यर्थः शब्दोऽत्र जायते ॥ ६९॥
बहुनात्र किमुक्तेन रक्ष रक्ष जनत्त्रयम् ।
इत्युक्त्वा विररामैव दुर्वासाः क्रोधमूर्च्छितः ॥ ३.१११.७०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भबिष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासः समागमे एकादशाधिकशततमोऽध्यायः ॥ १११॥
३.११२ द्वादशाधिकशततमोऽध्यायः
कृष्णस्य हंसडिम्भक वधप्रतिज्ञा, यतिभोजनं च KRiShNa vows to kill hamsa and Dimbhaka, also the feeding of the sages
भगवता श्रीकृष्णेन हंसडिम्भकयोः वधाय प्रतिज्ञा, क्षमायाचनापूर्वकं यतीभ्यः भोजनदानं
वैशम्पायन उवाच ।
यतेर्वचनमाकर्ण्य मन्दमुच्छ्वस्य केशवः ।
दुर्वाससं समालोक्य बभाषे यादवेश्वरः ॥ १॥
क्षन्तव्यं भवता सर्वं दोष एष ममैव हि ।
शृणु वाक्यं ममैतत् तु श्रुत्वा शान्तिपरो भव ॥ २॥
जेष्यामि तौ रणे विप्र हंसं डिम्भकमेव च ।
गिरीशो वा वरं दद्याच्छक्रो वा धनदोऽपि वा ॥ ३॥
यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः ।
सबलौ सानुजौ हत्वा पुनर्दास्यामि वो रतिम् ॥ ४॥
सत्येनैव शपाम्यद्य मा रोषवशगो भव ।
रक्षां वोऽहं करिष्यामि हत्वा तौ च नृपाधमौ ॥ ५॥
जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ ।
श्रुतं च पूर्वमस्माभिस्तीक्ष्णदण्डधराविति ॥ ६॥
अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ ।
नाल्पप्रयत्नसंसाध्यौ जरासन्धहितैषिणौ ॥ ७॥
प्राणानपि तयो राजा दास्यत्येव न संशयः ।
जरासन्धो न भूपालो विना तौ जयते महीम् ॥ ८॥
जये तयोर्विप्रवर्य तत्र श्रेयो भवेत् ततः ।
यत्र यत्र तु तौ गत्वा स्थितावित्यनुशुश्रुम ॥ ९॥
तत्र तत्र च हन्ताहं नात्र कार्या विचारणा ।
गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः ॥ ३.११२.१०॥
अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ ।
ततः प्रीतः प्रसन्नात्मा यादवेश्वरमाह सः ॥ ११॥
स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति कुर्वते ।
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥ १२॥
त्रिलोकेश त्रिधामासि सर्वसंहारकारकः ।
देवानामपि देवेशः सर्वत्र समदर्शनः ॥ १३॥
विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥ १४॥
शब्दगोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथवा ज्ञानाद् यन्मयोक्तं क्षमस्व तत् ॥ १५॥
त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ॥ १६॥
श्रीभगवानुवाच ।
क्षन्तव्यं भवता विप्र क्षमासारा वयं सदा ।
संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम् ॥ १७॥
क्षमा मोक्षकरी नित्यं तत्त्वज्ञानमिव द्विज ।
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः ॥ १८॥
क्षमा स्वर्गस्य सोपानमिति वेदविदो विदुः ।
तस्मात् सर्वप्रयत्नेन क्षमां पालयत स्वकाम् ॥ १९॥
प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः ।
य एते यतयो विप्राः पूजनीया मयाद्य वै ॥ ३.११२.२०॥
भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि ।
तथेति ते प्रतिज्ञाय भोक्तुमैच्छन् हरेर्गृहे ॥ २१॥
ततः स्वभवनं विष्णुः प्रविश्य हरिरीश्वरः ।
चतुर्विधं तथाऽऽहारं कारयित्वा यथाविधि ॥ २२॥
भोजयामास तान् सर्वान्यतीन्यतिवरार्चितः ।
छित्त्वा छित्त्वा च देवेशो दुकूलानि मृदूनि सः ॥ २३॥
ददौ तेभ्यस्तदा विष्णुः सर्वेभ्यो जनमेजय ।
ते च प्रीता यथायोगं यथापूर्वं ततो गताः ॥ २४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतिभोजने
द्वादशाधिकशततमोऽध्यायः ॥ ११२॥
३.११३ त्रयोदशाधिकशततमोऽध्यायः
हंसडिम्भकयोर्दूतप्रेषणम् Hamsa and Dimbhaka send the messenger
जनार्दनस्य हंसाय सत्परामर्शं, हंसेन तस्य उपेक्षां कृत्वा तं दूतं कृत्वा द्वारकायां प्रेषणं
वैशम्पायन उवाच ।
दुर्वासास्त्वथ तत्रैव नारदेन महात्मना ।
चिन्तयन् ब्रह्मणस्तत्त्वं विजहार यथासुखम् ॥ १॥
भगवानपि गोविन्दस्तयोर्वासममन्यत ।
ततस्तौ हंसडिम्भकौ तस्मिन्काले महीपतिम् ॥ २॥
ब्रह्मदत्तं महीपालं पितरं वीर्यशालिनम् ।
प्रावोचतामिदं वाक्यं समन्ताज्जनसंसदि ॥ ३॥
राजसूयं महायज्ञं पितः कुरु सुयत्नतः ।
अस्मिन् मासि नृपश्रेष्ठ यतावो यज्ञसिद्धये ॥ ४॥
आवां तेऽद्य महाराज दिशां विजयतत्परौ ।
यतिष्यावो बलैः सार्धं गजैरश्वै रथैरपि ॥ ५॥
सम्भारा यज्ञसिद्ध्यर्थमानेतव्या नृपोत्तम ।
तथेति स महावाहो ब्रह्मदत्तोऽब्रवीत् तदा ॥ ६॥
जनार्दनस्तु विप्रेन्द्रो दृष्ट्वा साहसतत्परौ ।
अशक्यमिति मन्वानो वयस्यं हंसमब्रवीत् ॥ ७॥
शृणु हंस वचो मह्यं श्रुत्वा निश्चित्य वीर्यवान् ।
आयुष्मन् साहसं कर्तुमुद्यतोऽसि नृपोत्तम ॥ ८॥
स्थिते भीष्मे जरासन्धे बाह्लीके च नृपोत्तमे ।
किं च वीरेषु सर्वेषु यादवेषु नृपोत्तम ॥ ९॥
भीष्मो हि बलवान् वृद्धः सत्यसन्धो जितेन्द्रियः ॥
त्रिःसप्तकृत्वः पृथिवीं यो जिगाय भृगूत्तमः ॥ ३.११३.१०॥
तं युद्धे जितवान् भीष्मः सर्वक्षत्रस्य पश्यतः ।
जरासन्धस्य यद् वीर्यं तद् भवान्वेत्ति संयुगे ॥ ११॥
वृष्णिवीरास्तु ते सर्वे कृतास्त्रा युद्धदुर्मदाः ।
तत्र कृष्णो हृषीकेशो जितशत्रुः कृती सदा ॥ १२॥
जरासन्धेन सहितः सदा युद्धे जितश्रमः ।
प्रमुखे तस्य न स्थातुं शक्तो जीवन् नृपोत्तमः ॥ १३॥
बलभद्रस्तथा मत्तः क्रुद्धो यदि भवेद् बली ॥
लोकानिमान् समाहर्तुं शक्नोतीति मतिर्मम ॥ १४॥
तथा च सात्यकिर्वीरः शक्तो जेतुं रणे रिपून् ।
तथान्ये यादवाः सर्वे कृष्णमाश्रित्य दंशिताः ॥ १५॥
अस्माभिश्च कृतः पूर्वं विरोधो यतिभिः सह ।
दुर्वासा यतिभिः सार्धं गतो द्रष्टुं स केशवम् ॥ १६॥
इति श्रुतं नृपश्रेष्ठ ब्राह्मणाद् भोक्तुमागतात् ।
तथा सति यथा सिद्ध्येत्तथा चिन्त्यं च मन्त्रिभिः ॥ १७॥
ततः पत् विधास्यामो राजसूयं महाक्रतुम् ।
हंस उवाच ।
को नाम भीष्मो मन्दात्मा वृद्धो हीनबलः सदा ॥ १८॥
आवयोः पुरतः स्थातुं शक्तः स किल वृद्धकः ।
यादवा इति चित्रं नः शक्ताः स्थातुं रणे द्विज ॥ १९॥
कश्च कृष्णः पुरः स्थातुं बलदेवश्च मत्तकः ।
शैनेयश्चापि विप्रेन्द्र स्थातुं न इति चिन्तय ॥ ३.११३.२०॥
जरासन्धस्तु धर्मात्मा बन्धुरेव सदा मम ।
गच्छ प्रिय यदुश्रेष्ठं ब्रूहि मद्वचनात् त्वरन् ॥ २१॥
दीयतां करसर्वस्वं यज्ञार्थं सुन्दरं बहु ।
लवणानि बहून्यद्य गृह्य केशव मा चिरम् ॥ २२॥
आगच्छ त्वरितं कृष्ण न ते कार्यं विलम्बनम् ।
इति ब्रूहि यदुश्रेष्ठं याहि त्वरितविक्रमः ॥ २३॥
न ब्रूयाश्चोत्तरं विप्र शपेयं त्वां प्रियोऽसि मे ।
मित्रभावादिदं ब्रूहि पश्यामि त्वां पुनः पुनः ॥ २४॥
इति सञ्चोदितो विप्रो नोत्तरं प्रत्यभाषत ।
मित्रभावात् तथा राजन् स्नेहाच्च जनमेजय ॥ २५॥
जनार्दनस्तु धर्मात्मा नित्यं गन्तुं समुद्यतः ।
अद्य श्वो वा परश्वो वा गच्छामीति यतेत सः ॥ २६॥
देवं द्रष्टुं जगद्योनिं शङ्खचक्रगदाधरम् ।
एक एव च धर्मात्मा हयमारुह्य सत्वरम् ॥ २७॥
प्रातरेव जगामाशु द्रष्टुं द्वारवतीं द्विजः ।
हरिं कृष्णं हृषीकेशं मनसा संस्मरन् द्विजः ॥ २८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ॥ ११३॥
३.११४ चतुर्दशाधिकशततमोऽध्यायः
जनार्दनाख्यस्य दूतस्य द्वारवतीप्रयाणम् The messenger janaAdana goes to dvAraka
जनार्दनस्य भगवद्दर्शनविषयक उत्कण्ठा
वैशम्पायन उवाच ।
ततः प्रायाद्धरिं विष्णुं ब्राह्मणो ब्रह्मवित्तमः ।
हयेनैकेन राजेन्द्र त्वरितं स ययौ नृप ॥ १॥
यथा निदाघसमये सूर्यांशुपरिपीडितः ।
पान्थो याति जलं दृष्ट्वा त्वरितं तत्पिपासया ॥ २॥
धावत्येव तथा विप्रो हरिं द्रष्टुं जनार्दनः ।
गच्छन्स चिन्तयामास चोदयन्हयमुत्तमम् ॥ ३॥
हंस एव प्रियो मह्यं कुर्यात् प्रियहितं मम ।
तथा हि प्रेषितस्तेन हरिं पश्याम्यहं प्रभुम् ॥ ४॥
अहमेव सदा धन्यो मत्तो ह्यभ्यधिको न हि ।
यतो द्रक्ष्याम्यहं विष्णुं वसन्तं द्वारकापुरे ॥ ५॥
सा हि मे जननी धन्या हरिं दृष्ट्वा पुनर्गतम् ।
कृतार्थं सर्वदा देवी द्रक्ष्यत्येषा मनस्विनी ॥ ६॥
मुखमुन्निद्रहेमाब्जकिञ्जल्कसदृशप्रभम् ।
द्रक्ष्यामि देवदेवस्य चक्रिणः शार्ङ्गधन्वनः ॥ ७॥
``मैं शार्ङ्ग धनुष धारण करनेबाले देवाधिदेव श्रीकृष्णके
उश्च मुखका दर्शन करूँगा जो विकसित सुवर्णमय कमलके
केसरकीन्ही कान्तिसे प्रकाशित होता हैम् ॥ ७॥
वपुर्द्रक्ष्याम्यहं विष्णोर्नीलोत्पलदलच्छवि ।
शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ॥ ८॥
नेत्रे ते देवदेवस्य पद्मकिञ्जल्कसप्रभे ।
पश्याम्यहमदीनात्मा नष्टदुःखोऽस्मि निर्वृतः ॥ ९॥
अपि द्रक्ष्यति योगात्मा सौम्येनैव स्वचक्षुषा ।
अपि वा मत्प्रियं ब्रूयात् स्वस्ति चेति च वा वदेत् ॥ ३.११४.१०॥
द्रक्ष्यामि चक्रिणो वर्ष्म ततस्त्रैलोक्यसन्निभम् ।
पादाब्जं चक्रिणो द्रष्टुं त्वरत्येव च मे मनः ॥ ११॥
वक्षःस्थलं सदा विष्णोः स्फुरद्रत्नप्रभायुतम् ।
पश्यन्निव च गच्छामि स्मरश्चानिशमीश्वरम् ॥ १२॥
पीतकौशेयवसनं लम्बहारविभूषितम् ।
ईषत्स्मिताधरं विष्णुं पश्यामि च पुनः पुनः ॥ १३॥
स्मरतश्च हरे रूपं रोमहर्षोऽयमीदृशः ।
गच्छतश्च पुरो भाति शङ्खचक्रगदासिमान् ॥ १४॥
यातीव च पुरो भाति मह्यं देवा जगद्गुरुः ।
एषोऽयमिति मे वक्तुं जिह्वा प्रस्फुरतीव तम् ॥ १५॥
इदं दुःखतरं मन्ये करं देहीति मद्वचः ।
इदं तत्साहसं मन्ये तद्वचस्तस्य भूपतेः ॥ १६॥
हंसस्य करदो विष्णुस्तदाज्ञापरिचारकः ।
तस्य सर्वं पुरो गत्वा वक्ताहं किल निर्दयः ॥ १७॥
मूढानामग्रणीरस्मि निर्लज्जश्च तथा वदन् ।
करं देहि हरे विष्णो हंसस्य यदुपुङ्गव ॥ १८॥
लवणानि बहून्याशु दातव्यानि करात्मना ।
इति वक्तुं न मे युक्तं पुरतस्तस्य शार्ङ्गिणः ॥ १९॥
तथापि मित्रभावात् तु वक्तव्यं घोरमीदृशम् ।
कष्टो ह्ययं मित्रभावो मनुष्याणां कृतात्मनाम् ॥ ३.११४.२०॥
अथवा सर्वविद् विष्णुः सर्वस्य हृदि संस्थितम् ।
जानात्येव सदा भावं प्राणिनां शोभने रतः ॥ २१॥
तथा सति न मे दोषो मित्रभावो यतो ह्ययम् ।
सर्वथा रक्षतां विष्णुर्घोरं वक्तुं यतस्य मे ॥ २२॥
द्रक्ष्याम्यहं जगन्नाथं नीलकुञ्चितमूर्धजम् ।
कम्बुग्रीवधरं विष्णुं श्रीवत्साच्छादितोरसम् ॥ २३॥
स्फुरत्पद्ममहाबाहुं रत्नच्छायाविराजितम् ।
द्रक्ष्यामि केशवं विष्णुं चक्रिणं यादवेश्वरम् ॥ २४॥
अचिन्त्यविभवं देवं भूतभव्यभवत्प्रभुम् ।
आत्मेच्छया जगद्रक्षं द्रक्ष्यामि जलशायिनम् ॥ २५॥
कृतार्थः सर्वथा चाहं भवामि विगतज्वरः ।
अद्य मे सफलं जन्म साक्षाद् दृष्टवतो हरिम् ॥ २६॥
अद्य मे सफला यज्ञाः साक्षात्कृतवतो हरिम् ।
नेत्रे मे सफले विष्णुं पश्यतश्च जगन्मयम् ॥ २७॥
प्रीतिमानस्तु मे विष्णुर्वक्तुर्घोरस्य कर्मणः ।
उन्मिषन्नेत्रयुग्मेन द्रक्ष्यामि सकृदीश्वरम् ॥ २८॥
आमूलमसकृद् विष्णुं पश्यामि च पुनः पुनः ।
पिबामि नेत्रयुग्मेन वपुः कृष्णस्य केवलम् ॥ २९॥
धारयिष्याम्यहं पांसुं तत्पादप्रभवं शिवम् ।
ततः कृतार्थतां यास्ये स्वर्गमार्गो हि तद्रजः ॥ ३.११४.३०॥
मेघगम्भीरनिर्घोषं श्रोष्यामि च हरेः स्वरम् ।
पादाब्जं चक्रिणो विष्णोः पश्यामि च जगत्पतेः ॥ ३१॥
पश्यामि च हरेर्वक्त्रं पूर्णेन्दुसदृशप्रभम् ।
हरेरिदं जगद् रूपं पश्यामीव च सर्वतः ॥ ३२॥
प्रसीदतु सदा विष्णुरयुक्तं वक्तुमिच्छतः ।
आलोलकुण्डलयुतं हरिचन्दनचर्चितम् ॥ ३३॥
स्फुरत्केयूररत्नार्चिर्बाहुद्वयविराजितम् ।
सव्ये द्योतन्महाशङ्खं रश्मिजालविराजितम् ॥ ३४॥
प्रोद्यद्भास्करवर्णाभं चक्रज्वालाविराजितम् ।
प्रोज्ज्वलत्कङ्कणयुतं तप्तजाम्बूनदाङ्गदम् ॥ ३५॥
पीतकौशेयवसनं विस्तीर्णोरस्कमच्युतम् ।
कदा द्रक्ष्यामि देवेशमिदानीमथवान्यदा ॥ ३६॥
सर्वथा कृतकृत्योऽहं यद्वपुर्द्रष्टुमुद्यतः ।
नमो मह्यं नमो मह्यं यतो द्रष्टुमहं हरिम् ॥ ३७॥
उद्यतोऽस्मि जगन्नाथं बलभद्रकृतास्पदम् ।
द्रक्ष्याम्यवश्यमद्यैव जिष्णुं विष्णुं जगद्गुरुम् ॥ ३८॥
श्रीकौस्तुभोद्भवरुचि स्फुरितोरुवक्षः पीताम्बरं मकरकुण्डलपङ्कजाक्षम् ।
कृष्णं किरीटवरचक्रगदोर्ध्वहस्तं तेजोमयं मम हरेर्वपुरस्तु भूत्यै ॥ ३९॥
वेदोदधौ विशदशास्त्रमहाहियोगे निष्णातशुद्धमतिमन्दरमथ्यमाने ।
उद्योतमानममरैरनिशं निषेव्यं नारायणाख्यममृतं प्रपिबामि वाद्य ॥ ३.११४.४०॥
ध्येयं मुमुक्षुभिरमेयमनाद्यनन्तं स्थूलं सुसूक्ष्मतरमेकमनेकमाद्यम् ।
ज्योतिस्त्रिलोकजनकं त्रिदशैकवन्द्यमक्ष्णोर्ममास्तु सततं हृदयेऽच्युताख्यम् ॥ ४१॥
चिन्तयन्निति विप्रेन्द्रो ययौ द्वारवतीं पुरीम् ।
मत्वा कृतार्थमात्मानं वाहयन् हयमुत्तमम् ॥ ४२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने विप्रस्य द्वारवतीगमने चतुर्दशाधिकशततमोऽध्यायः ॥ ११४॥
३.११५ पञ्चदशाधिकशततमोऽध्यायः
दूतस्य संदेशनिवेदनम् JanArdana conveys the demands of hamsa and Dimbhaka
जनार्दनस्य सुधर्मासभायां गत्वा भगवतः श्रीकृष्णस्य दर्शनेन सन्तुष्टो भूत्वा तस्याज्ञया भगवत्स्तवनपूर्वकं हंसडिम्भकयोः सन्देशस्य श्रावणं
वैशम्पायन उवाच ।
स निवेदितसर्वस्वो द्वाःस्थेन हि जनार्दनः ।
अथ प्रविश्य धर्मात्मा सुधर्मां वै द्विजोत्तमः ॥ १॥
अपश्यद् देवदेवेशं सुधर्माकृतिसंस्थितम् ।
बलभद्रेण संयुक्तमध्यासितमहासनम् ॥ २॥
अग्रतः स्थितशैनेयं पार्श्वतः स्थितनारदम् ।
दुर्वाससा कृतकथमुग्रसेनपुरस्कृतम् ॥ ३॥
गायद्गन्धर्वमुख्यैश्च नृत्यदप्सरसां गणैः ।
सेव्यमानं महाराज सूतमागधबन्दिभिः ॥ ४॥
उद्गीयमानयशसं माधवं मधुसूदनम् ।
उद्गीयमानं विप्रैश्च सामभिः सामगैर्हरिम् ॥ ५॥
दृष्ट्वा प्रीतमना विष्णुं प्रोद्भूतपुलकच्छविः ।
नाम्ना जनार्दनोऽस्मीति ननाम चरणौ हरेः ।
बलभद्रं ततो देवं ववन्दे शिरसा द्विज ॥ ६॥
दूतोऽस्मि देवदेवेश हंसस्य डिम्भकस्य च ।
इति ब्रुवाणं विप्रेन्द्रमिदमाह स माधवः ॥ ७॥
आस्स्वैदं विष्टरं पूर्वं पश्चाद् ब्रूहि प्रयोजनम् ।
तथेति चाब्रवीद् विप्रो महदासनमास्थितः ॥ ८॥
वाचा सम्पूज्य विप्रेन्द्रमपृच्छत्कुशलं हरिः ।
ब्रह्मदत्तस्य राजेन्द्र हंसस्य डिम्भकस्य च ॥ ९॥
श्रुतं चापि तयोर्वीर्यं प्रयोजनमतो द्विज ।
अपि वा कुशलं विप्र पितुस्तव जनार्दन ॥ ३.११५.१०॥
जनार्दन उवाच ।
कुशलं ब्रह्मदत्तस्य पितुश्च मम केशव ।
तयोरेव जगन्नाथ हंसस्य डिम्भकस्य च ॥ ११॥
श्रीभगवानुवाच ।
किमाहतुर्महीपालौ तौ हंसडिम्भकौ नृपौ ।
ब्रूहि सर्वमशेषेण नात्र शङ्का द्विजोत्तम ॥ १२॥
वाच्यं वाप्यथवावाच्यं कर्तव्यमथ चेतरत् ।
श्रुत्वा तस्य विधास्यामो युक्तरूपं द्विजोत्तम ॥ १३॥
दूतोऽसि सर्वथा विप्र न वाच्यावाच्यकल्पना ।
यत् कर्मकारनिर्दिष्टं तद् वाच्यं दूतजन्मना ॥ १४॥
नात्र शङ्का त्वया कार्या वक्तव्यस्येतरस्य च ।
अतो वद यथा प्रोक्तं ताभ्यामिह जनार्दन ॥ १५॥
केशवेनैवमुक्तस्तु प्रोवाच स जनार्दनः ।
अजानन्निव किं ब्रूषे सर्वं प्रत्यक्षदर्शिवान् ॥ १६॥
न चास्ति ते परोक्षं तु जगद्वृत्तान्तमच्युत ।
सर्वं हि मनसा पश्यन् किं त्वमात्थ वदेति माम् ॥ १७॥
विद्वद्भिर्गीयसे विष्णुस्त्वमेव जगतीपते ।
इच्छया सर्वमाप्नोषि दृष्टादृष्टविवेचनम् ॥ १८॥
त्वमेवेदं जगत् सर्वं जगच्च त्वयि तिष्ठति ।
न त्वया रहितो ह्येकः पदार्थः सचराचरः ॥ १९॥
नास्ति किञ्चिदवेद्यं ते सर्वगोऽसि जगत्पते ।
त्वमिन्द्रः सर्वभूतानां रुद्रः संहारकर्मकृत् ॥ ३.११५.२०॥
रक्षितासि सदा विष्णुः सर्वलोकस्य माधव ।
संसारस्य भवान्स्रष्टा किं त्वमात्थ वदेति माम २१॥
विद्वद्भिर्गीयसे नित्यं ज्ञानात्मेति च माधव ।
प्राणं प्राणविदः प्राहुस्त्वामेव पुरुषोत्तम ॥ २२॥
शब्दं शब्दविदः प्राहुस्त्वामेव पुरुषोत्तम ।
तथा सति हृषीकेश किं त्वमात्थ वदेति माम् ॥ २३॥
तथापि शृणु देवेश चोदितोऽस्मि यतस्त्वया ।
वदेत्यसकृदेवैतत् तस्माद् वक्ष्यामि माधव ॥ २४॥
राजसूयेन यज्ञेन ब्रह्मदत्तोऽद्य यक्ष्यते ।
तदर्थं प्रेषितस्ताभ्यां हंसेन डिम्भकेन च ॥ २५॥
करार्थं यदुमुख्येभ्यस्तव चामन्त्रणाय हि ।
लवणं बहु देयं ते यज्ञार्थं तस्य केशव ॥ २६॥
इत्यर्थं प्रेषितस्ताभ्यां करं देहि तदाज्ञया ।
इदं त्वमपरं ताभ्यामुक्तं शृणु जगत्पते ॥ २७॥
लवणानि बहून्याशु प्रगृह्य त्वरितं भवान् ।
आगच्छतु तयो राज्ञोः सेयं केशव वाग् विभो ॥ २८॥
इत्युक्तवति विप्रेन्द्रे दूते तत्र तयोर्नृप ।
प्रहस्य सुचिरं कृष्णो बभाषे दूतमीश्वरः ॥ २९॥
शृणु दूत वचो मह्यं युक्तमुक्तं द्विजोत्तम ।
करं ददामि ताभ्यां तु करदोऽस्मि यतो नृपः ॥ ३.११५.३०॥
धार्ष्ट्यमेतत् तयोर्विप्र मत्तो यस्तु करग्रहः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यं तयोः क्षत्रियबीजयोः ॥ ३१॥
इदमश्रुतपूर्वं मे मत्तो यस्तु करग्रहः ।
इत्युक्त्वा केशवो दूतमिदमाह स्म यादवान् ॥ ३२॥
हास्यमेतद् यदुश्रेष्ठा मत्तो यस्तु करग्रहः ।
यष्टासौ राजसूयस्य ब्रह्मदत्तो महीपतिः ॥ ३३॥
तौ तु याजयितारौ हि हंसो डिम्भक एव च ।
वोढा किल यदुश्रेष्ठो लवणस्य दुरात्मनः ॥ ३४॥
करदो वासुदेवो हि जितोऽस्मि यदुसत्तमाः ।
हास्यं हास्यमिदं भूयः शृणुध्वं यादवा वचः ॥ ३५॥
इत्युक्तवति देवेशे बलभद्रपुरोगमाः ।
यादवाः सर्व एवैते हासाय समवस्थिताः ॥ ३६॥
करदः कृष्ण इत्येवं ब्रुवन्तः सर्वसात्वताः ।
हासं मुमुचुरत्यर्थं तलं दत्त्वा परस्परम् ॥ ३७॥
तलशब्दो हासशब्दो रोदसी पर्यपूरयत् ।
स च विप्रो नृपश्रेष्ठ निन्दयन् मित्रमात्मनः ॥ ३८॥
अहो कष्टमहो कष्टं दौत्यं यत् कृतवानहम् ।
इति लज्जासमाविष्टस्तूष्णीमासीदवाङ्मुखः ॥ ३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने
वासुदेववाक्ये पञ्चदशाधिकशततमोऽध्यायः ॥ ११५॥
३.११६ षोडशाधिकशततमोऽध्यायः
श्रीकृष्णस्य प्रतिसंदेशः KRiShNa's reply
श्रीकृष्णेन जनार्दनं सन्देशं दत्त्वा प्रत्यागमनाय निर्देशं
वैशम्पायन उवाच ।
हासं कुर्वत्सु तेष्वेवं केशवः केशिसूदनः ।
उवाच वचनं दूतं गच्छ मद्वचनाद् द्विज ॥ १॥
तावित्थं हंसडिम्भकौ ब्रूहि त्वरितविक्रमः ।
बाणैर्दास्यामि निशितैः शार्ङ्गमुक्तैः शिलाशितैः ॥ २॥
असिना वाथ दास्यामि निशितेन महात्मनोः ।
शिरो वा छेत्स्यते चक्रं मत्करप्रहितं बलिम् ॥ ३॥
यो वरं दत्तवान् रुद्रो युवयोर्धार्ष्ट्यकारणम् ।
स एव रक्षिता वां स्यात्तं जित्वा वां निहन्म्यहम् ॥ ४॥
देशोऽयं संविधातव्यो यत्र नः सङ्गतिर्भवेत् ।
तत्र गन्ता तथा चास्मि सबलः सहवाहनः ॥ ५॥
भवन्तौ निर्भयौ भूत्वा गच्छेतां सबलौ नृपौ ।
पुष्करे वा प्रयागे वा मथुरायामथापि वा ॥ ६॥
तत्राहं सबलो याता नात्र कार्या विचारणा ।
अथवा मित्रभावाच्च वक्तुमेवं न ते क्षमम् ॥ ७॥
न शक्यं यत् त्वया वक्तुं तच्च वक्ष्यति सात्यकिः ।
त्वया सह ततो गत्वा साक्षिभूतो भव द्विज ॥ ८॥
इदं च जाने विप्रेन्द्र स्नेहो मयि सदा तव ।
तेन त्वं विजयी भूत्वा संसारे दुःखसङ्कुले ।
मत्कथापरमो नित्यं सदा भव जनार्दन ॥ ९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने षोडशाधिकशततमोऽध्यायः ॥ ११६॥
३.११७ सप्तदशाधिकशततमोऽध्यायः
हंसवाकय्म् Speech of haMsa
सात्यकिसहितस्य जनार्दनस्य शाल्वनगरे गमनं, हंसेन सह मिलनं, हंसेन जनार्दनात् कार्यसिद्धिविषये पृच्छा
वैशम्पायन उवाच ।
इत्युक्त्वा ब्राह्मणं कृष्णः सात्यकिं पुनराह सः ।
गत्वा शैनेय विप्रेण ब्रूहि मद्वचनात् तयोः ॥ १॥
यन्मयोक्तमशेषेण वद गत्वा तयोः पुरः ।
यथा नः सङ्गतिर्युद्धे तथा वद बलात् तदा ॥ २॥
धनुरादाय गच्छ त्वं बद्धगोधाङ्गुलित्रवान् ।
एकेनाश्वेन गच्छ त्वमसहायो यदूत्तम ॥ ३॥
सात्यकिस्तं तथेत्युक्त्वा हयमारुह्य शीघ्रगम् ।
गन्तुमैच्छत् ततो राजन्नसहायः स सात्यकिः ॥ ४॥
जनार्दनं विसृज्याशु दूतं तं यादवेश्वरः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यमित्युवाच जनार्दनः ॥ ५॥
नमस्कृत्य तदा दूतो माधवं माधवेश्वरम् ।
स ययौ शाल्वनगरं शैनेयेन समन्वितः ॥ ६॥
ततः प्रविश्य धर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
आसनं महदास्थाय विसृज्य यादवे पुनः ॥ ७॥
आस्ते सुखं यदा विप्रः शैनेयेन समन्वितः ।
अथ तं हंसडिम्भयोर्दर्शयामास सात्यकिम् ॥ ८॥
दूतोऽयं सात्यकिः प्राप्तः सव्यो बाहुरयं हरेः ।
तस्य तद् वचनं श्रुत्वा हंसः प्राह वचस्तदा ॥ ९॥
श्रुतः समागमः पूर्वमद्य दृष्टो मया त्वसौ ।
धनुर्वेदे च वेदे च शास्त्रे शस्त्रे तथैव च ॥ ३.११७.१०॥
निपुणोऽयं सदा धीर इत्येवमनुशुश्रुम ।
अथो दृष्टिपथं प्राप्तः प्रीतिं नौ विदधात्यसौ ॥ ११॥
कुशलं वासुदेवस्य बलभद्रस्य वा पुनः ।
कुशलाः सात्वताः सर्वे उग्रसेनपुरोगमाः ॥ १२॥
तथेति सात्यकिः प्राह मन्दमुन्मथिताननः ।
ततो जनार्दनं प्राह हंसो वाक्यविशारदः ॥ १३॥
अपि दृष्टस्त्वया चक्री सिद्धं नः कार्यमीहितम् ।
वद सर्वमशेषेण मा वृथा कालमत्यगाः ॥ १४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवाक्ये सप्तदशाधिकशततमोऽध्यायः ॥ ११७॥
३.११८ अष्टादशाधिकशततमोऽध्यायः
सात्यकिवाक्यम् SAtyaki conveys kRiShNa's message
जनार्दनेन हंसं श्रीकृष्णदर्शनजनितस्य उल्लासस्य कथनं, द्वारकायां हंसस्य सन्देशस्य प्रतिक्रियां वर्णयित्वा तं राजसूय अकरणस्य परामर्शं, हंसेन तं रोषपूर्वकं तिरस्कृत्य गमनस्यादेशं, तदनन्तरं सात्यकिना हंसं श्रीकृष्णस्य सन्देशं श्रावयित्वा भर्त्सनम ।
वैशम्पायन उवाच ।
इत्युक्तवति हंसे च धर्मात्माथ जनार्दनः ।
उवाच प्रहसन् वीरः स्तुवन् नारायणं सदा ॥ १॥
अद्राक्षमद्राक्षमहं जनार्दनं हस्तस्थशङ्खं वरचक्रधारिणम् ।
आतप्तजाम्बूनदभूषिताङ्गदं स्फुरत्प्रभाद्योतितरत्नधारिणम् ॥ २॥
अद्राक्षमेनं यदुभिः पुरातनः संसेव्यमानं मुनिवृन्दमुख्यैः ।
संस्तूयमानं प्रभुभिः समागधैः स्मितप्रवालाधरपल्लवारुणम् ॥ ३॥
अद्राक्षमेनं कविभिः पुरातनैर्विविच्य वेद्यं विधिवत्सहामरैः ।
प्रफुल्लनीलोत्पलशोभितं श्रिया विनिद्रहेमाब्जविराजितोदरम् ॥ ४॥
भूयोऽहमद्राक्षमजं जगद्गुरुं प्रमोदयन्तं वचनेन यादवान् ।
निरूपयन्तं विधिवन्मुनीश्वरैः प्रवृत्तवेदार्थविधिं पुरातनैः ॥ ५॥
अद्राक्षमद्राक्षमहं पुनः पुनः समस्तलोकैकहितैषिणं हरिम् ।
वसन्तमस्मिञ्जगतो हिताय जगन्मयं तान् परिभूय शत्रून् ॥ ६॥
भूयोऽप्यपश्यं सह यादवेश्वरैर्विक्रीडमानं च विहारकाले ।
रमन्तमीड्यं रमयन्तमीश्वरान् यदूत्तमान् यादवमुख्यमीश्वरम् ॥ ७॥
भूयोऽप्यपश्यं सरसीरुहेक्षणं समेतया भीष्मतनूजया हरिम् ।
वसन्तमम्भोनिधिशायिनं विभुं भक्तप्रियं भक्तजनास्पदं शिवम् ॥ ८॥
अद्राक्षमद्राक्षमहं सुनिर्वृतः पिबन् पिबंस्तस्य वपुः पुरातनम् ।
नेत्रेण मीलद्विवरेण केवलं धन्योऽहमस्मीति तदा व्यचिन्तयम् ॥ ९॥
अद्राक्षमम्भोजयुगं दधानं प्रभुं विभुं भूतमयं विभावनम् ।
आद्यं ककुद्मानमुरुं विभावसुं संस्मृत्य संस्मृत्य तमेव निर्वृतः ॥ ३.११८.१०॥
अद्राक्षं जगतामीशं वक्षोराजितकौस्तुभम् ।
वीज्यमानं हरिं कृष्णं चामराणां शतैः सदा ॥ ११॥
युवां विद्वेषयुक्तेन चेतसा यादवेश्वरम् ।
स्मरन्तं सर्वदा विष्णुं क्व चैवं क्व च वेत्ति कः ॥ १२॥
क्व च द्रक्ष्यामि तौ मन्दौ कुतो वा मत्पुरोगतौ ।
ध्यायन्तमित्थं देवेशं करे शङ्खवहं सदा ॥ १३॥
हसन्तमेनमद्राक्षं करदं हास्यतत्परम् ।
वदन्तं नारदे वाचं दुर्वाससि यतीश्वरे ॥ १४॥
ब्रह्मसूत्रपदां वाणीं दापयन्तं मुनीश्वरम् ।
दृष्ट्वाहं तं हरिं देवं पुनः पुनरचिन्तयम् ॥ १५॥
असाध्यमिदमारब्धं ताभ्यामिति नृपोत्तम ।
नारब्धव्यमिदं कार्यमितःप्रभृति भूमिप ॥ १६॥
निवृत्ता सा कथा हंसाचिन्तयद् ग्रहणं तव ।
तद् वृत्तमखिलं सर्वं वदिष्यति हि सात्यकिः ।
एतद् वचनमाकर्ण्य हंसः कुद्धोऽब्रवीद् वचः ॥ १७॥
हंस उवाच ।
अरे ब्राह्मणदायाद का नाम तव वागियम् ।
आवयोः पुरतो वक्तुं त्रैलोक्यं जेतुमिच्छतोः ॥ १८॥
मायया त्वां भ्रामयति कृष्णो लीलाविधानवित् ।
तं दृष्ट्वा भ्रम एवैष तव सञ्जायते महान् ॥ १९॥
शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ।
वृष्णिवीरं समावेक्ष्य समुच्छ्रितयशोधरम् ॥ ३.११८.२०॥
सूतमागधसंस्तावप्रकटद्बाहुवीर्यकम् ।
अत्यद्भुतयशोराशिं विक्रमाल्लोकमण्डनम् ॥ २१॥
चतुर्भुजं बलाक्रान्तं वृष्णियादवसम्मतम् ।
अहोऽद्य भ्रम एवैष दर्शनात् तस्य चक्रिणः ॥ २२॥
इदानीं च महाराज भ्रामयत्येव दुर्मतिः ।
त्वामेव विप्र मन्दात्मन्निन्द्रजालिकता हि या ॥ २३॥
चापल्यमिदमैवैतत् तव विप्र भ्रमोद्भवम् ।
अहो हि खलु सादृश्यं वक्तव्यं भवता मम ॥ २४॥
अहमेव त्वया विप्र मर्षये प्रोदितं वचः ।
सखिभावाद् द्विजश्रेष्ठ अन्यथा कः सहेदिदम् ॥ २५॥
गच्छ मन्दमते विप्र यथेष्टं साम्प्रतं तव ।
द्विज गच्छ यथेष्टं त्वं पृथिवीं पृथिवी तव ॥ २६॥
जित्वा गोपालदायादं हत्वा यादवकान् बहून् ।
एष नः प्रथमः कल्पो जेष्याम इति यादवान् ॥ २७॥
गच्छ गच्छेति विप्र त्वं धृष्टं परुषवादिनम् ।
शत्रुपक्षस्तुतिपरं सह युक्त्वा सदा मया ॥ २८॥
न मे विप्रवधः कार्यः कष्टादपि हि सर्वतः ।
इत्युक्त्वा ब्राह्मणं भूयो हंसः सात्यकिमब्रवीत् ॥ २९॥
भो भो यादवदायाद किमर्थं प्राप्तवानिह ।
किमब्रवीन्नन्दसुतः किं वासौ मेऽदिशत् करम् ॥ ३.११८.३०॥
सात्यकिरुवाच ।
इदं सत्यं वचो हंस शङ्खचक्रगदाभृतः ।
शरैर्निशितधाराग्रैः शार्ङ्गमुक्तैः शिलाशितैः ॥ ३१॥
दास्यामि करसर्वस्वमसिना निशितेन ते ।
शिरश्छेत्स्यामि ते हंस करदानस्य सङ्ग्रहम् ॥ ३२॥
धार्ष्ट्यं हि तव मन्दात्मन्किमतोऽपि नृपाधम ।
देवदेवाज्जगन्नाथात् करमिच्छति यो नृपः ॥ ३३॥
तस्यैष करसङ्क्षेपो जिह्वाच्छेदो नराधम ।
तस्य शार्ङ्गरवं श्रुत्वा शङ्खस्य च हरेः पुनः ॥ ३४॥
को नाम जीवितं काङ्क्षेत् तिष्ठेदानीं त्वमद्य वै ।
गिरीशवरदर्पेण को ब्रूयादीदृशं वचः ॥ ३५॥
सहाया वयमेवैते बलभद्रपुरोगमाः ।
प्रथमो बलभद्रोऽसौ द्वितीयोऽहं च सात्यकिः ॥ ३६॥
कृतवर्मा तृतीयस्तु चतुर्थो निशठो बली ।
पञ्चमोऽथ च बभ्रुस्तु षष्ठश्चैवोत्कलः स्मृतः ॥ ३७॥
सप्तमस्तारणो धीमानस्त्रशस्त्रविशारदः ।
अष्टमस्त्वथ सारङ्गो नवमो विपृथुस्तथा ॥ ३८॥
दशमश्चोद्धवो धीमान् वयमेते बलान्विताः ।
त एते पुरतो गोप्तुः शङ्खचक्रगदाभृतः ॥ ३९॥
देवदेवस्य युद्धेषु तिष्ठन्त्येव दिवानिशम् ।
यौ हि वीरौ सुतौ तस्य नासत्यसदृशौ बले ॥ ३.११८.४०॥
तावेव वां क्षमौ युद्धे हन्तुं बलमदान्वितौ ।
यो गिरीशो गिरां देवो वरं दत्त्वा स तिष्ठति ॥ ४१॥
युवां हि किम्बलौ युद्धे तिष्ठतः सशरं धनुः ।
गृहीत्वा शत्रुभिः सार्धं युद्धं कर्तुं समुद्यतौ ॥ ४२॥
ईदृशेष्वथ भृत्येषु युद्धं कुर्वत्सु शत्रुभिः ।
त्रैलोक्यं रक्षतस्तस्मात्करमिच्छन् व्रजेत कः ॥ ४३॥
हनिष्यत्येव वां युद्धे त्रैलोक्यं यो हि रक्षति ।
शरेण निशितेनाजौ शार्ङ्गमुक्तेन केवलम् ॥ ४४॥
क्व नः सङ्ग्राम इत्येवं पुनराह जगत्पतिः ।
पुष्करे पुण्यदे नित्यमुत गोवर्धने गिरौ ॥ ४५॥
मथुरायां प्रयागे वा दर्शयन्तो बलानि मे ।
शङ्खचक्रधरे देवे जगत्पालनतत्परे ॥ ४६॥
राजसूयं महायज्ञं कर्तुमिच्छति कः स्वयम् ।
वदन्वा स्वस्तिमान्मर्त्यस्त्वां विना को व्रजेत् सुखम् ॥ ४७॥
इदमिच्छसि चेन्मूढ हास्यतां यासि भूतले ।
इत्युक्त्वा सात्यकिर्वीरो हसन्निव भुवि स्थितः ॥ ४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिवाक्ये अष्टादशाधिकशततमोऽध्यायः ॥ ११८॥
३.११९ एकोनविंशाधिकशततमोऽध्यायः
सात्यकिप्रतिप्रयाणम् SAtyaki returns to dvAraka
हंसडिम्भकयोः सात्यकिं प्रति रोषपूर्णं वचनानि तथा सात्यकिना
तान् तथैवोत्तरं दत्त्वा द्वारकां प्रति प्रस्थानं
वैशम्पायन उवाच ।
ततः क्रुद्धौ महाराज हंसो डिम्भक एव च ।
इदं वै प्रोचतुर्वाक्त्यं रोषव्याकुलितेक्षणौ ॥ १॥
दिधक्षन्तौ दिशः सर्वाः सर्वान् वीक्ष्य नृपोत्तमान् ।
करेण निष्पीड्य करं स्मरन्तौ तद्वचो महत् ॥ २॥
क्व नु क्व वा नन्दसूनुः क्व वा रामो बलोत्कटः ।
इति ब्रुवाणौ साक्षेपौ सात्यकिं सत्यसङ्गरम् ॥ ३॥
अरे यादवदायाद किं ब्रूषे नः पुरो गतः ।
इतो निर्गच्छ मन्दात्मन्दूतस्त्वमसि साम्प्रतम् ॥ ४॥
अन्यथा वध्य एव त्वं प्रलपन् परुषं वचः ।
सत्यं निर्लज्ज एवासि यद् ब्रूया ईदृशं वचः ॥ ५॥
आवामिदं जगत् सर्वं शासितुं संयतौ नृपौ ।
को नाम मानुषे लोके करदो नैव जीवति ॥ ६॥
हत्वा गोपालकान् सर्वान् बद्ध्वा यादवकान् बहून् ।
गृह्णीमः करसर्वस्वं ततो गच्छ नराधम ॥ ७॥
अवध्यो दूततां प्राप्तो बह्वबद्धं प्रभाषसे ।
ईश्वरो नौ वरं दाता ह्यस्त्राणामपि च प्रभुः ॥ ८॥
रक्षितारौ महाभूतौ सङ्ग्रामं गच्छतोश्च नौ ।
पितरं याजयिष्यावो जित्वा गोपालकं रणे ॥ ९॥
एते प्रोक्ता भृशं युद्धे कातराः सर्व एव ते ।
हत्वा तान्सबलान् युद्धे पुनर्जेष्यामि केशवम् ॥ ३.११९.१०॥
संहर्तव्या महासेना प्रगृहीतशरासना ।
गृहीतप्रासमुशला गृहीतकवचा सदा ॥ ११॥
आरूढरथसाहस्रा गदापरिघसङ्कुला ।
सुप्रभूतेन्धनवती प्रभूतबलसाधना ॥ १२॥
चाल्यतां वाहिनी घोरा बलाध्यक्षाः समन्ततः ।
अवध्य एव गच्छ त्वं न ते मरणतो भयम् ॥ १३॥
सङ्ग्रामः पुष्करेऽस्माकं श्वः परश्वोऽपि वा नृप ।
ततो ज्ञास्यामहे वीर्यं केशवस्य वलस्य च ।
ये त्वयोक्ता नृपाः सङ्ख्ये तेषामपि च यद् बलम् ॥ १४॥
सात्यकिरुवाच ।
हंसागच्छामि वां हन्तुं श्वः परश्वोऽपि वा नृप ।
अद्यैव हि मया वध्यौ न चेद् दूतो भवाम्यहम् ॥ १५॥
न हि श्वो वा परश्वो वा युवां कटुकभाषिणौ ।
दौत्ये हि दुःखमतुलं वहाम्येव सदा नृणाम् ॥ १६॥
अन्यथाहं युवां हत्वा ततो यास्यामि निर्वृतिम् ।
स्ववीर्यं बाहुदर्पं च दर्शयन् वां नृपाधमौ ॥ १७॥
शङ्खचक्रगदापाणिः शार्ङ्धन्वा किरीटभृत् ।
नीलकुञ्चितकेशाढ्यो लम्बबाहुः श्रिया वृतः ॥ १८॥
स सर्वलोकप्रभवो विश्वरूपः सुरूपवान् ।
दैत्यदानवहन्तासौ योगिध्येयः पुरातनः ॥ १९॥
पद्मकिञ्जल्कनयनः श्यामलः सिंहविक्रमः ।
सृष्टिस्थितिलयेष्वेकः कर्ता त्रिजगतो गुरुः ॥ ३.११९.२०॥
शरेण निशितेनाजौ दर्पं वां व्यपनेष्यति ।
इत्युक्त्वा रथमारुह्य प्रययौ सात्यकिः किल ॥ २१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिप्रतिप्रयाणे एकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९॥
३.१२० विंशत्यधिकशततमोऽध्यायः
स्रीकृष्णस्य पुष्करं प्रति गमनम् KRiShNa sets out for puShkara
भगवता श्रीकृष्णेन यादवसेनासहितं पुष्करतीर्थं गत्वा हंसडिम्बकयोः प्रतीक्षणं
वैशम्पायन उवाच ।
प्रविश्य स पुरं विष्णोः सात्यकिः शिनिपुङ्गवः ।
आचचक्षेऽथ कृष्णाय यथा वृत्तं तयोस्तथा ॥ १॥
ततः प्रभाते विमले केशवः केशिसूदनः ।
बलाध्यक्षानुवाचेदं चक्रपाणिर्गदाधरः ॥ २॥
सन्नह्यतां बलं सर्वं रथकुञ्जरवाजिमत् ।
अनेकभेरीपणवं प्रासासिपरिघाकुलम् ॥ ३॥
सध्वजं सपताकं च सालङ्कारपरिच्छदम् ।
ते तथेति प्रतिज्ञाय सर्वं चक्रुरधीनगाः ॥ ४॥
आदाय सुदृढं चापं रथमारुह्य दंशिताः ।
अग्रतो जग्मुरत्यर्थं सेनायाः पुरुषोत्तमाः ॥ ५॥
सात्यकिश्च तथा राजन् प्रगृहीतशरासनः ।
बभौ क्रोधसमायुक्तो जगामाग्रे महाबलः ॥ ६॥
अन्ये च यादवाः शूरा प्रगृहीतमहायुधाः ।
सिंहनादं प्रकुर्वन्तो जग्मुरत्यर्थमुत्तमाः ॥ ७॥
हरिस्तु रथमारुह्य संस्कृतं दारुकेण ह ।
शार्ङ्गं भारसहं घोरं गृहीत्वा सशरं धनुः ॥ ८॥
चक्रपाणिस्तदा शङ्खी गदाशरवरासिमान् ।
बद्धगोधाङ्गुलित्राणः पीतवासा जनार्दनः ॥ ९॥
पद्ममालावृतोरस्को नवजीमूतसन्निभः ।
ययौ रथगतो विप्रैः स्तूयमानो मुदान्वितैः ॥ ३.१२०.१०॥
सूतैर्मागधपुत्रैश्च गीयमानस्ततस्ततः ।
आनीय सेनां सकलां ययौ काष्ठामथोत्तराम् ॥ ११॥
पाञ्चजन्यं मुखे न्यस्य सर्वप्राणेन केशवः ।
दध्मौ महारवं कुर्वञ्छत्रूणां भयवर्धनम् ॥ १२॥
आध्मातस्तेन हरिणा स चक्रे शङ्खराट् ध्रुवम् ।
रवः स रोदसी राजन् पूरयामास सर्वतः ॥ १३॥
तस्मिञ्छङ्खे तथाऽऽध्माते दध्मुः शङ्खान्सहस्रशः ।
भेर्यश्चापि समाध्माता मृदङ्गा बहवो नृप ॥ १४॥
नेदुरत्यर्थमतुलं घर्मान्ते जलदा यथा ।
अथाययुर्महाराज पुष्करं पुण्यवर्धनम् ॥ १५॥
सरसस्तस्य राजेन्द्र पुष्करस्य नृपोत्तमाः ।
प्रतीक्ष्य हंसडिम्भकौ युद्धाय समवस्थिताः ॥ १६॥
निवेशं कारयामासुर्यादवाः सर्व एव हि ।
स्वं स्वं ययुः सुखं राजन् प्रगृहीतकुटीमठम् ॥ १७॥
भगवानपि गोविन्दः सरो दृष्ट्वा सुशोभनम् ।
उपस्पृश्य जले तस्मिन् प्रणम्य यतिपुङ्गवान् ॥ १८॥
तयोरागमनं लिप्सुरास्ते तीरे यथासुखम् ।
शृण्वन् वेदध्वनिं विष्णुर्ब्राह्मणानां समन्ततः ॥ १९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णपुष्करप्रवेशे विंशत्यधिकशततमोऽध्यायः ॥ १२०॥
३.१२१ एकविंशत्यधिकशततमोऽध्यायः
उभयसैन्ययोः पुष्कर तीर्थप्रवेशः Both armies enter the battlefield
हंसडिम्भकयोः सेनयोः पुष्करतीर्थे प्रवेशः
वैशम्पायन उवाच ।
अथ तौ हंसडिम्भकौ जग्मतुः पुष्करं प्रति ।
प्रगृहीतमहाचापौ सरथौ सध्वजौ नृप ॥ १॥
पुरःसरमहाभूतौ संहरन्ताविवोल्बणौ ।
प्रकुर्वन्तौ सिंहरवं भस्मना परिलेपितौ ॥ २॥
त्रिपुण्ड्रकललाटान्तौ रुद्राक्षपरिशोभितौ ।
अन्यौ द्वाविव रुद्रौ तौ लोकसंहारकारकौ ॥ ३॥
ततोऽनुजग्मुः शतशः सैन्यानि नृपसत्तम ।
अक्षौहिण्यो दशैवासंस्तयोरथ समागताः ॥ ४॥
विचक्रस्तु महाराज दानवो नगसन्निभः ।
तयोरेव सखा पूर्वमासीच्च बलशालिनोः ॥ ५॥
शक्रो यस्य पुरःसरः स्थातुं शक्तो न वज्रभृत् ।
यो हि वीरो महाराज देवदैत्यसमागमे ॥ ६॥
देवान् निघ्नंस्तथा राजन् देवेन्द्रमजयन्महान् ।
अकरोच्च पुरा युद्धं विष्णुना प्रभविष्णुना ॥ ७॥
यो हि द्वारवतीं प्राप्य बबाधे यदुपुङ्गवान् ।
स तदानीं महाराज श्रुत्वा युद्धमुपस्थितम् ॥ ८॥
अनेकशतसाहस्रैर्दानवैः परिघायुधैः ।
वृतः समभवद् दैत्यो वृष्णिद्वेषान् नृपोत्तम ॥ ९॥
हंसस्य डिम्भकस्याथ साहाय्यं कर्तुमुद्यतः ।
विचक्रस्याथ दैत्यस्य हिडिम्बो राक्षसेश्वरः ॥ ३.१२१.१०॥
अतीव मित्रतां यातो दद्यात् प्राणांश्च संयति ।
राक्षसैरपरैः सार्धं शिलाशूलासिपाणिभिः ॥ ११॥
ययौ तस्य सहायार्थं हिडिम्बः पुरुषादपः ।
अष्टाशीति सहस्राणि राक्षसास्तस्य चाभवन् ॥ १२॥
अनुयाता महाराज शिलापरिघबाहवः ।
तयोस्तत्र महासैन्यं गच्छतोः केशवं प्रति ॥ १३॥
मिश्रितं दैत्यसङ्घैश्च राक्षसैश्च समन्ततः ।
अत्यद्भुतं महारौद्रं त्रैलौक्यभयदायकम् ॥ १४॥
दैत्येन सहितौ तौ हि जग्मतुः पुष्करं प्रति ।
तावेतौ हंसडिम्भकौ हन्तुं केशवमञ्जसा ॥ १५॥
ततः श्रुत्वा जरासन्धो विग्रहं यदुभिः सह ।
नाकरोन्नृपसाहाय्यं पापं मे भवितेति ह ॥ १६॥
गच्छतोः समितिं राजन्हंसस्य डिम्भकस्य च ।
अतित्वरितविक्रान्तास्ते ययुः पुष्करं प्रति ॥ १७॥
सिंहनादं विमुञ्चन्तः कथयन्तः परस्परम् ।
अहमेव नृपा युद्धं करोमि प्रथमं हरेः ॥ १८॥
इत्यब्रुवन् नृपा राजञ्छतशः केशवं प्रति ।
सम्प्राप्तास्ते नृपश्रेष्ठाः पुष्करं पुण्यवर्धनम् ॥ १९॥
मुनिजुष्टं तपोवृद्धैरृषिभिश्च निषेवितम् ।
अत्यन्तभद्रं लोकेषु पुष्करं प्रथमं नृप ॥ ३.१२१.२०॥
पुष्करं पुण्डरीकाक्षो द्वावेव जगतीपते ।
दर्शनात् स्पर्शनाच्चैव किल्विषच्छेदिनौ नृप ॥ २१॥
पुष्करं पुण्डरीकाक्षो द्वावेव नृपसत्तम ।
सेव्यमानौ मुनिश्रेष्ठैरमरौघैर्महात्मभिः ॥ २२॥
द्वावेव हि नृपश्रेष्ठ सर्वपापप्रणाशकौ ।
तावुभौ यत्र सहितौ तत्र ते संस्थिता नृपाः ॥ २३॥
दृष्टवन्तो हरिं विष्णुं विष्टरश्रवसं परम् ।
पुष्करं पुण्यनिलयं तीर्थं ब्रह्मनिषेवितम् ॥ २४॥
ताभ्यां कुरु नमस्कारं मनसा नृपसत्तम ।
अहो निःशेषमभवत् तत्र भूयो न संशयः ॥ २५॥
सैन्यं तत्र च सम्प्राप्तं दैत्यरक्षःसमाकुलम् ।
अनेकभेरीपणवझर्झरीडिण्डिमाकुलम् ॥ २६॥
नानापणवसम्मिश्रं रक्षोनादविनादितम् ।
प्रविश्य सरसस्तीरं पुष्करस्य विशाम्पते ।
दर्शयामास देवेशं युद्धाय समुपस्थितम् ॥ २७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने युद्धार्थं हंसडिम्भकसैन्यानां पुष्करागमने एकविंशत्यधिकशततमोऽध्यायः ॥ १२१॥
३.१२२ द्वाविंशत्यधिकशततमोऽध्यायः
संकुलयुद्धम् Close combat
उभयपक्षयोः सैन्यानां घोरयुद्धं
वैशम्पायन उवाच ।
द्वे सेने सङ्गते राजन् सध्वजे सपरिच्छदे ।
महापरिघसङ्कीर्णे गदाशक्तिसमाकुले ॥ १॥
भेरीझर्झरसम्पूर्णे डिण्डिमारावसङ्कुले ।
प्रगृहीतमहाशस्त्रशूलासिवरकार्मुके ॥ २॥
परस्परकृतोत्साहे चक्राते युद्धमुल्बणम् ।
ते शराः कार्मुकोत्सृष्टा निर्भिद्याथ शरीरिणाम् ॥ ३॥
शरीराणि महाराज जग्मुर्दूरं सहस्रशः ।
भटबाहुविनिर्मुक्ताः खड्गा निर्भिद्य वक्षसि ॥ ४॥
स्फुरन्तश्च तथा राजञ्छिरांस्याहृत्य खं ययुः ।
परिघाश्च तथा राज्ञां बाहुभिः परिचोदिताः ॥ ५॥
तिलशश्चक्रुरतुलं शरीरं नृपरक्षसाम् ।
दैत्यानां कुर्वतां नादमन्योन्यवधकाङ्क्षिणाम् ॥ ६॥
दैत्या रक्षांसि राजेन्द्र राजानश्च समन्ततः ।
अन्योन्यं परिघैर्जघ्नुश्चापमुक्तैः शिलाशितैः ॥ ७॥
शरैश्च भोगिभोगाभैस्तीक्ष्णमन्ये महाबलाः ।
राक्षसा दानवाश्चान्ये मत्तमातङ्गविक्रमाः ॥ ८॥
अन्योन्यं जघ्निरे राजंश्चापमुक्तैर्महाशरैः ।
नागा नागैर्महाराज हया अश्वैः समन्ततः ॥ ९॥
रथा रथैः समाजग्मुः सादिनः सादिभिस्तथा ।
पट्टिशासिशरव्रातैः कुन्तैः सायककर्षणैः ॥ ३.१२२.१०॥
सशक्तिपरिघपासपरश्वधसमाकुलैः ।
भिन्दिपालैर्महारौद्रैर्जघ्नुरन्योन्यमाहवे ॥ ११॥
अन्योन्यं जघ्निरे राजंश्चापमुक्तैः शिलाशितैः ।
राक्षसा दानवा राजन् क्षत्रियाश्च समन्ततः ।
इतश्चेतश्च धावन्तः कुर्वन्तो विस्वरं रवम् ॥ १२॥
हताः केचिन्महाराज पेतुरुर्व्यां महासिभिः ।
केचिन्मथितमस्तिष्का गदाभिर्वीर्यवत्तमाः ॥ १३॥
भिन्नग्रीवा महाराज परिघैः परिघायुधैः ।
यमराष्द्रं गताः केचित् केचित् स्वर्गं समाययुः ॥ १४॥
अप्सरोभिः समासेदुः पश्यन्तः स्वं कलेवरम् ।
केचित्स्वांश्च परांश्चैव हत्वा भ्रान्ता इवाभवन् ॥ १५॥
एतस्मिन्नन्तरे राजञ्छङ्खा भेर्यः सहस्रशः ।
सस्वनुः सर्वतः सैन्ये मृदङ्गा बहवस्तथा ॥ १६॥
मध्यन्दिनगते सूर्ये तापं दधति घोरवत् ।
ततः पिशाचा विकृताः करालविततोदराः ॥ १७॥
राक्षसाश्च महाघोराः पिशितं केशशाद्बलम् ।
मुदिता भक्षयामासुः पिबन्तः शोणितं वहु ॥ १८॥
सञ्चितानि शवान्यासन् कबन्धाः खड्गपातिताः ।
विभज्य देशं बहुशो युद्धभूमौ शवाशिनः ॥ १९॥
अथ श्येना मृगाश्चैव कङ्का गृध्रास्तथा परे ।
तुण्डैः शवान् विनिष्कृष्य भक्षयन्ति ततस्ततः ॥ ३.१२२.२०॥
सप्ताशीतिसहस्राणि हता नागा नृपोत्तम ।
त्रिंशत्सहस्रमयुतं निहता हयसत्तमाः ॥ २१॥
हतं लक्षं महाराज रथानां रथिभिः सह ।
त्रिंशत्कोट्यो हतास्तत्र सादिनः सायुधा भृशम् ॥ २२॥
मध्यन्दिनगते सूर्ये हताः केचन निर्गताः ।
केचिच्च तृषिता राजन् विविशुः पुष्करं सरः ॥ २३॥
केचिद् भूमिं समालिङ्ग्य भीता इत्यब्रुवन् रणे ।
मुक्तकेशाः पतन्ति स्म रथान् सन्त्यज्य केचन ॥ २४॥
सन्दष्टौष्ठपुटाः केचित् सादिनः पुरतो हताः ।
अत्यद्भुतं महायुद्धमासीत् पुष्करतीर्थके ।
यथा देवासुरं युद्धमासीत् पूर्वं नृपोत्तम ॥ २५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सङ्कुल युद्धे द्वाविंशत्यधिकशततमोऽध्यायः ॥ १२२॥
३.१२३ त्रयोविंशत्यधिकशततमोऽध्यायः
विचक्रवधः Vichakra killed
श्रीकृष्णस्य विचक्रेण सह घोरं युद्धं, विचक्रस्य वधम् ।
वैशम्पायन उवाच ।
एतस्मिन्नन्तरे राजन् द्वन्द्वयुद्धमवर्तत ।
विचक्रं योधयामास शार्ङ्गधन्वा गदाधरः ॥ १॥
बलभद्रोऽथ हंसेन डिम्भकेन च सात्यकिः ।
वसुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः ॥ २॥
शेषाश्च शेषै राजेन्द्र चकुर्युद्धमदीनगाः ।
वासुदेवस्त्रिसप्तत्या दैत्यं वक्षस्यताडयत् ॥ ३॥
शरैर्निशितधारात्रैर्विस्मयं दर्शयन् रणे ।
दानवो देवदेवेशं दृढेन निशितेन च ॥ ४॥
शरेणाकर्णमाकृष्य धनुःप्रवरमीश्वरम् ।
जघान स्तनमध्ये च पश्यतस्तु शचीपतेः ॥ ५॥
तेन विद्धोऽथ भगवान् वक्षोदेशे जनार्दनः ।
अवमच्छोणितं विष्णुरादिकाले यथा प्रजाः ॥ ६॥
ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहनद् ध्वजम् ।
अश्वांश्च चतुरो हत्वा सारथिं च शरैस्त्रिभिः ॥ ७॥
ततो दध्मौ महाशङ्खं यथा तारामये रणे ।
रथादुत्प्लुत्य सहसा दानवः क्रोधमूर्च्छितः ॥ ८॥
गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीम् ।
तया जघान दैत्येन्द्रः किरीटे केशवस्य ह ॥ ९॥
ललाटे च पुनर्विष्णुं सिंहनादं व्यनीनदत् ।
ततः शिलां च महतीं प्रगृह्य दनुजः किल ॥ १०॥
भ्रामयित्वा दशगुणं प्राहरत् केशवोरसि ।
तामापतन्तीं सम्प्रेक्ष्य हस्तेनादाय केशवः ॥ ११॥
जघान च तया दैत्यं स पपातार्दितः क्षितौ ।
गतासुरिव सञ्जज्ञे श्वसन्निव पपात ह ॥ १२॥
प्राप्य संज्ञां ततो दैत्यः क्रोधाद् द्विगुणमाबभौ ।
आदाय परिघं घोरमिदमाह जनार्दनम् ॥ १३॥
अनेन तव गोविन्द दर्पजातं निहन्म्यहम् ।
विक्रमज्ञस्तदा चासि मम देवासुरे रणे ॥ १४॥
तावेव विपुलौ बाहू स एवास्मि जनार्दन ।
तथापि युध्यसे वीर ज्ञात्वा त्वं मामकं बलम् ॥ १५॥
वारयैनं महाबाहो परिघं बाहुनिःसृतम् ।
इत्युक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् ।
चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः ॥ १६॥
तं गृह्य बाहुना कृष्णो हतोऽसीति वदन् हरिः ।
खण्डशः कारयामास खङ्गेन निशितेन ह ॥ १७॥
उत्पाट्य वृक्षं दैत्येशः शतशाखं महाशिखम् ।
तेन सम्पोथयामास विष्टरश्रवसं विभुम् ॥ १८॥
छित्त्वा तं चापि खड्गेन तिलशश्च चकार ह ।
विक्रीड्य सुचिरं विष्णुस्तेन दैत्येन माधवः ॥ १९॥
हन्तुमैच्छत् तदा दैत्यमादाय निशितं शरम् ।
आग्नेयास्त्रेण संयोज्य जघानैनं महान् हरिः ॥ २०॥
सन्दह्य स शरो दैत्यं सर्वलोकस्य पश्यतः ।
यथापूर्वं जगामाशु करं भगवतः पुनः ॥ २१॥
हतशिष्टास्ततो दैत्याः पलायन्तो दिशो दश ।
अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम् ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णस्योत्कर्षे त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३॥
३.१२४ चतुर्विंशत्यधिकशततमोऽध्यायः
हंसबलभद्रयोर्युद्धम् Hamsa - balarAma battle
हंसबलभद्रयोः युद्धं
वैशम्पायन उवाच ।
बलदेवस्तु धर्मात्मा धनुरादाय सत्वरं
जघान हंसं दशभिर्बाणैर्बाणभृतां वर ॥
तं प्रत्यविध्यन्नाराचैर्हंसः पञ्चभिराशुगैः
तानन्तरे हली छित्त्वा नाराचैर्दशभिः पुनः ।
नाराचेनाशु विव्याध ललाटे हंसमोजसा ॥ २॥
दृढं पतन् स नाराचस्तस्य संज्ञां समाददे ।
रथोपस्थे चिरं स्थित्वा तूणाद् बाणं समाददे ॥ ३॥
लब्ध्वा हंसः स संज्ञां तु विद्ध्वा तेन यदूत्तमम् ।
सिंहवद् व्यनदद्धंसो देवान् विस्मापयन् रणे ॥ ४॥
ततः क्रुद्धो हली विद्धस्तेन बाणेन माधवः ।
वमञ्छोणितमत्युष्णं निःश्वसंश्च रणाजिरे ॥ ५॥
लोहिताविष्टगात्रस्तु कुङ्कुमार्द्र इवाभवत् ।
नाराचैः शतसाहस्रैरर्दयामास माधवः ॥ ६॥
हंसं हंसगतिं वीरं नीलवासा हलायुधः ।
ते मुक्ता निशिता घोरा नाराचाश्च सुवाजिनः ॥ ७॥
रथे ध्वजे तथा चापे चक्रे तूणीद्वये नृप ।
पतिताः सर्वतो राजन् व्यथां चैव तथा ददुः ॥ ८॥
ततः क्रुद्धो महाराज हंसो वीर्यमदान्वितः ।
शरेण हलिनं विद्ध्वा ध्वजं चिच्छेद कालवित् ॥ ९॥
शरैश्चतुर्भिरश्वांश्च सूतं प्रेताधिपे ददौ ।
ततः क्रुद्धो हली तस्मै गदां गृह्य महारणे ॥ ३.१२४.१०॥
आपपात महाबाहुर्हंसं शेष इव श्वसन् ।
तया रथं ध्वजं चक्रमश्वान् सूतं हलायुधः ।
बभञ्ज तिलशः सर्वं ननाद च पुनः पुनः ॥ ११॥
भूयश्च गदया हंसं चिक्षेप च बली किल ।
सोऽपि हंसो गदां गृह्य रथात्तस्मादवापतत् ॥ १२॥
ततस्तौ हंसहलिनौ युयुधाते महारणे ।
महारथौ महाबाहू लोके प्रथिततेजसौ ॥ १३॥
अत्यद्भुतं सुविक्रान्तौ परस्परवधैषिणौ ।
कृतश्रमौ महायुद्धे हंसविक्रान्तगामिनौ ॥ १४॥
यथा देवासुरे युद्धे शक्रवृत्रौ पुराम्बरे ।
उभौ संसिक्तसर्वाङ्गौ शोणितेन महारणे ॥ १५॥
अत्यन्तखेदिनौ युद्धे परस्परबलेन ह ।
ततश्च दक्षिणं मार्गं बलभद्रोऽन्वगच्छत ॥ १६॥
सव्यं तु हंसो राजेन्द्र व्यगृह्णात् स्वयमेव हि ।
पोथयाञ्चक्रतुर्युद्धे गदाभ्यां गजविक्रमौ ॥ १७॥
यथाप्राणं महाबाहू जघ्नतुर्मरणाय तौ ।
अतिप्रवृद्धं सङ्ग्रामं देवासुररणोपमम् ॥ १८॥
विदधाते महारङ्गे पश्यतां त्रिदिवौकसाम् ।
देवाश्च मुनयश्चैव विस्मयं परिजग्मिरे ॥ १९॥
अहो खल्वीदृशं युद्धं दृष्टं पूर्वं न च श्रुतम् ।
इत्यूचुर्विस्मयवशाद् देवगन्धर्वकिन्नराः ॥ ३.१२४.२०॥
परस्परकृतोत्साहौ चक्रतुर्युद्धमुत्तमम् ।
अथ हंसो महारङ्गे दक्षिणं दक्षिणोत्तमः ।
व्यचरन्मार्गमत्यर्थं सव्यं तु बलवान् बलः ॥ २१॥
निकुञ्च्य जानुनी पूर्वं चक्रतुर्गदया भृशम् ।
रणे रणविदां श्रेष्ठौ पश्यतां त्रिदिवौकसाम् ॥ २२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसबलभद्रयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ॥ १२४॥
३.१२५ पञ्चविंशत्यधिकशततमोऽध्यायः
सात्यकिडिम्भकयोर्युद्धम् SAtyaki - Dimbhaka battle
सात्यकिडिम्भकयोः युद्धं
वैशम्पायन उवाच ।
युद्धं चक्रतुरत्यर्थं ततो डिम्भकसात्यकी ।
तावुभौ बलिनौ वीरौ विख्यातौ क्षत्रियेषु च ॥ १॥
कृतश्रमौ महायुद्धे सततं वृद्धसेविनौ ।
सात्यकिर्दशभिर्वीरो डिम्भकं वेदपारगम् ॥ २॥
अविध्यन्निशितैर्बाणैः स्तने वक्त्रे तथोरसि ।
स तेन विद्धो बलिना डिम्भकः क्षत्रियोत्तमः ॥ ३॥
नाराचैः पञ्चसाहस्रैर्विव्याध युधि गर्वितः ।
तानन्तरे वृष्णिवीरो निषिद्धन् निनदन् ब्रुवन् ॥ ४॥
अथ क्रुद्धो नृपवरो विद्धः सप्तभिराशुगैः ।
पुनः शतसहस्रेण प्रत्यविध्यत सात्यकिम् ॥ ५॥
सात्यकिस्त्वथ विक्रान्तो धनुश्चिच्छेद तस्य तत् ।
अर्धचन्द्रेण तीक्ष्णेन डिम्भकस्य स यादवः ॥ ६॥
आजघ्ने डिम्भको वीरश्चापमादाय चापरम् ।
क्षुरप्रेणाथ रौद्रेण तैलधौतेन विक्रमी ॥ ७॥
स तेन विद्धो बाणेन वमञ्छोणितकं नृप ।
अतीव शुशुभे राजन् वसन्ते किंशुको यथा ॥ ८॥
धनुश्चिच्छेद भूयस्तु गृहीतं यत्पुनर्महत् ।
ततोऽन्यद् धनुरादाय डिम्भको यादवेश्वरम् ॥ ९॥
जघान निशितैर्बाणैः सर्वक्षत्रस्य पश्यतः ।
स धनुः पुनरत्युग्रं चिच्छेद युधि सात्यकिः ॥ ३.१२५.१०॥
शरेण तीक्ष्णपुङ्खेन डिम्भकस्य दुरात्मनः ।
ततोऽन्यद् धनुरादाय सत्वरं स नृपोत्तमः ॥ ११॥
धनुषा तेन राजेन्द्र सात्यकिं विव्यधे पुनः ।
एवं धनूंषि राजेन्द्र शतं पञ्च च पञ्च च ॥ १२॥
छित्त्वा ननाद शैनेयः सर्वक्षत्रस्य पश्यतः ।
धनुषी तौ परित्यज्य वीरौ डिम्भकसात्यकी ॥ १३॥
खड्गौ प्रगृह्य चात्युग्रौ युद्धाय समुपस्थितौ ।
तौ हि खङ्गविदां श्रेष्ठौ वीरौ डिम्भकसात्यकी ॥ १४॥
दौःशासनिर्महाभागः सौमदत्तिस्तथैव च ।
अभिमन्युश्च विक्रान्तो नकुलश्च तथैव च ॥ १५॥
एते खङ्गविदां श्रेष्ठाः कीर्तिता युधि सत्तमाः ।
एतेष्वेतौ नृपश्रेष्ठौ षट्सु वै नृपसत्तम ॥ १६॥
तावेतावसिना युद्धं चक्रतुर्युद्धलालसौ ।
भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बाहुनिःसृतम् ॥ १७॥
आकरं विकरं भिन्नं निर्मर्यादममानुषम् ।
सङ्कोचितं कुलचितं सव्यजानु विजानु च ॥ १८॥
आहिकं चित्रकं क्षिप्तं कुसुम्बं लम्बनं धृतम् ।
सर्वबाहु विनिर्बाहु सव्येतरमथोत्तरम् ॥ १९॥
त्रिबाहु तुङ्गबाहुत्वं सव्योन्नतमुदासि च ।
पट्टिकं मौष्टिकं चैव यौधिकं प्रथितं तथा ॥ ३.१२५.२०॥
इति प्रकारान् द्वात्रिंशच्चक्रतुः खड्गयोधिनौ ।
पुनः पुनः प्रहरन्तौ न च श्रममुपेयतुः ॥ २१॥
पुष्करस्थौ महाराज युद्धाय कृतनिश्चयौ ।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ २२॥
तुष्टुवुस्तौ महाराज जये कृतपरिश्रमौ ।
अहो वीर्यमहो धैर्यमनयोर्बाहुशालिनोः ॥ २३॥
एतावेव रणे शक्तौ खड्गे धनुषि पारगौ ।
एकः शिष्यो गिरीशस्य द्रोणस्यान्यो हि धीमतः ॥ २४॥
अर्जुनः सात्यकिश्चैव वासुदेवो जगत्पतिः ।
त्रय एते महावीराः प्रथिताः सङ्गरे सदा ॥ २५॥
डिम्भकः शक्तिभृच्छर्वस्त्रय एते महारथाः ।
प्रसिद्धाः सर्व एवैते वीर्येषु च बलेषु च ॥ २६॥
इति ते देवगन्धर्वाः सिद्धा यक्षा महोरगाः ।
दिविस्थिताः समं ब्रूयुर्युद्धदर्शनलालसाः ॥ २७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिडिम्भकयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः ॥ १२५॥
३.१२६ षड्विंशत्यधिकशततमोऽध्यायः
हिडिम्बेन साकं वसुदेवोग्रसेनयोर्युद्धं, बलभद्रेण हिडिम्बपराभवम् Vasudeva and ugrasena fight with hiDimba, balarAma kills hiDimba
हिडिम्बेन सार्द्धं वसुदेवउग्रसेनयोः युद्धं, बलभद्रेण हिडिम्बस्य वधं वैशम्पायन उवाच ।
वसुदेवोग्रसेनौ च वृद्धौ युद्धे सुनिर्वृतौ ।
जराजरितसर्वाङ्गौ पलिताङ्गशिरोरुहौ ॥ १॥
ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ ।
युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥ २॥
शरैरनेकसाहस्रैरर्दयामासतू रणे ।
राक्षसेन्द्रं दुरात्मानं हिडिम्बं पुरुषादकम् ॥ ३॥
हिडिम्बो राक्षसेन्द्रस्तु भक्षयन्सर्वतो नरान् ।
अतिप्रवृद्धो दुष्टात्मा लम्बबाहुर्महाहनुः ॥ ४॥
लम्बोदरो विरूपाक्षः पिङ्गकेशो विलोचनः ।
श्येननासो महारौद्र ऊर्ध्वरोमा महाभुजः ॥ ५॥
पर्वताकारवर्ष्मा च दीर्घदंष्ट्रः शिवाननः ।
लम्बोदरो दीर्घदन्तो जगद्ग्रासपरस्तथा ॥ ६॥
उत्तुङ्गांसो महोरस्को दीर्घग्रीवो गजोपमः ।
भक्षयन् मांसपिटकं पिबञ्शोणितसञ्चयम् ॥ ७॥
गजान् नागैः समाहत्य हयैरश्वान् नृपोत्तम ।
रथान् रथैः समाहृत्य सादिनः सादिभिस्तथा ॥ ८॥
मनुष्यान् स पुरो दृष्ट्वा नास्यग्रासं चकार सः ।
कांश्चिद्धत्वा महाराज वृष्णिपालान्समन्ततः ॥ ९॥
भक्षयामास सहसा हिडिम्बः पुरुषादकः ।
यान् पश्यन् पुरतो रक्षस्ताञ्जघान विरूपधृक् ॥ ३.१२६.१०॥
भक्षयन्नपरान् वृष्णीन्यादवान्राक्षसेश्वरः ।
चिक्षेप सहसा कांश्चिद्धिडिम्बः पुरुषादकः ॥ ११॥
अन्तकाले यथा क्रुद्धो रुद्रः प्राणभृतो नृप ।
क्षणेनैकेन सर्वांस्तान् भक्षयामास राक्षसः ॥ १२॥
केचिद् भीता दिशः प्रापुर्वृष्णयो वीर्यशालिनः ।
केचित् तु भक्षितास्तेन रक्षसा वृष्णिपुङ्गवाः ॥ १३॥
कुम्भकर्णो यथा राजन् भक्षयामास वानरान् ।
निःशेषं वृष्णिसैन्यं तु चकार पुरुषादकः ॥ १४॥
एतस्मिन्नन्तरे क्रुद्धौ वृद्धौ यादवपुङ्गवौ ।
धनुर्गृह्य महाघोरं राक्षसस्य पुरः स्थितौ ॥ १५॥
यथा क्रुद्धस्य सिंहस्य मृगौ वृद्धतमाविव ।
व्यादायास्यं महारक्षस्तौ वृद्धावभ्यधावत ॥ १६॥
चिखादिषुर्विरूपाक्षः पातालतलसन्निभः ।
ततो रक्षः पर्यधावत् खादत् खादत्कलेवरम् ॥ १७॥
पूरयामासतुर्वीरौ शरैर्यदुवृषौ नृप ।
हिडिम्बस्य महाघोरं व्यादितास्यमिवान्तकम् ॥ १८॥
सर्वांस्तान् वारयामास देवशत्रुर्विरूपधृक् ।
धावति स्म ततो रक्षो व्यादितास्यं भयानकम् ॥ १९॥
तयोर्गृहीत्वा धनुषी बभञ्ज युधि सत्वरम् ।
बाहू प्रसार्य दुष्टात्मा राक्षसो विकृताननः ॥ ३.१२६.२०॥
वसुदेवं महीपालं राजानं वृद्धसेविनम् ।
ग्रहीतुं राक्षसश्रेष्ठो यतते नृपसंसदि ॥ २१॥
हिडिम्ब उवाच ।
एष वां भक्षयिष्यामि वसुदेवं त्वया सह ।
उग्रसेन किमर्थ त्वं तिष्ठसे मत्पुरोगमः ॥ २२॥
आगच्छ प्रविशास्यं मे ग्रासभूतौ तु वां मम ।
विधिना निर्मितो वृद्धो वसुदेवो हरेः पिता ॥ २३॥
बुभुक्षितः श्रमार्तश्च युद्धे त्वरितविक्रमः ।
मन्मुखान्नैव गच्छेतां प्रविशेतां त्वरान्वितौ ॥ २४॥
युवयोः शोणितं पीत्वा तृप्तिं यास्यामि निर्वृतः ।
खादामि च पुनर्मांसं वृद्धयोर्युवयोः सुखम् ॥ २५॥
इति ब्रुवंस्तथा रक्षो व्यादितास्यो महाहनुः ।
धावति स्म तदा क्षिप्रं हिडिम्बो राक्षसेश्वरः ॥ २६॥
वसुदेवोग्रसेनौ च भीतौ विप्रेक्ष्य सर्वतः ।
दिशोऽभ्यभजतां राजन्निःशस्त्रौ वृष्णिपुङ्गवौ ॥ २७॥
एतस्मिन्नन्तरे दृष्ट्वा बलभद्रः प्रतापवान् ।
दृष्ट्वा च तौ तथाभूतौ वसुदेवोग्रसेनकौ ॥ २८॥
वासुदेवे समादिश्य हंसं युध्यन्तमीश्वरे ।
निर्गत्य चान्तरं तस्य राक्षसस्य दुरात्मनः ॥ २९॥
मा कृथाः साहसं रक्षो मुञ्चैतौ राजसत्तमौ ।
स्थितोऽस्मि युध्यतां रक्षो मया शत्रूञ्जिघांसता ॥ ३.१२६.३०॥
अहमेव हनिष्ये त्वां का चेयं तव भीषिका ।
इति ब्रुवाणं हलिनं तौ विसृज्य महारणे ॥ ३१॥
महानयमसौ दुष्टो भक्षयाम्येनमग्रतः ।
विदार्य पूर्ववद् वक्त्रं बलभद्रमुपाद्रवत् ॥ ३२॥
विसृज्य सशरं चापं राक्षसस्य पुरः स्थितः ।
मुष्टिं प्रगृह्य बलवान्स्फोटयन् बाहुमुत्तमम् ॥ ३३॥
हिडिम्बस्त्वथ दुष्टात्मा मुष्टिं कृत्वा भयानकम् ।
जघान वक्षो रामस्य व्यादितास्य इवान्तकः ॥ ३४॥
कुद्धोऽथ बलभद्रस्तु मुष्टिना तेन ताडितः ।
जघान मुष्टिना तेन राक्षसेशमनिन्दितः ॥ ३५॥
मुष्टियुद्धं समभवन्नरराक्षसवीरयोः ।
युद्ध्यतोर्युद्धरङ्गेऽथ नरराक्षससिंहयोः ॥ ३६॥
तयोश्चटचटाशब्दः प्रादुरासीद् भयानकः ।
अथ राक्षसराजस्तु मुष्टिना राममाहवे ॥ ३७॥
जघान वक्षोदेशे तु वज्रेणेव पुरन्दरः ।
अथ रामो बली साक्षान्मुष्टिं संवर्त्य यत्नतः ॥ ३८॥
हिडिम्बं ताडयामास वक्षस्यमरविद्विषम् ।
तलाभ्यामथ रामस्तु वक्त्रे हत्वा स राक्षसम् ॥ ३९॥
आहतस्तलघातेन हिडिम्बो राक्षसेश्वरः ।
जानुभ्यामपतद् भूमौ गतासुर्वीरराक्षसः ॥ ३.१२६.४०॥
तत उत्पत्य रामस्तु दोर्भ्यां सङ्गृह्य राक्षसम् ।
आदाय बहुवेगेन भ्रामयित्वा पदात्पदम् ॥ ४१॥
व्याविध्यत् सुचिरं रामो दर्शयन्नात्मनो बलम् ।
उत्क्षिप्य राक्षसेन्द्रं तं सर्वलोकस्य पश्यतः ॥ ४२॥
गव्यूतिमात्रं चिक्षेप ततो देशाद्धलायुधः ।
गतासू राक्षसश्रेष्ठस्ततो देशान्निराक्रमत् ॥ ४३॥
ये केचिद् राक्षसास्तत्र हतशेषा महारणे ।
बलभद्रात् ततो भीता जग्मुश्चैवं दिशो दश ॥ ४४॥
अथांशुमाली भगवान् दिनेशः संहृत्य तेजांसि सहस्ररश्मिः ।
अस्तं ययौ चक्षुरपि प्रजानामीषत्तमश्चापि समाविवेश ॥ ४५॥
तस्मिन् प्रविष्टेऽथ समुद्रतोयं प्रजापतौ विश्वमुखे जगद्गुरौ ।
नक्षत्रनाथः समुपाजगाम सन्ध्यातमोऽपि व्यनशन्नृपोत्तम ॥ ४६॥
प्रभातकाले नृप सत्तमो रणो गोवर्धने किन्नरगीतनादिते ।
इति ब्रुवन्तो नृपसत्तमास्तदा व्युपारमंस्तत्र रणोत्सवे नृप ॥ ४७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हिडिम्बपराभवे षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६॥
३.१२७ सप्तविंशत्यधिकशततमोऽध्यायः
श्रीकृष्णहंसयोर्युद्धम् KRiShNa - hamsa battle
गोवर्धनपर्वतस्य समीपे हंसडिम्भकाभ्यां सार्द्धं यादवानां युद्धं, श्रीकृष्णेन
भूतेश्वरानां पराजयं, श्रीकृष्णहंसयोः घोरं युद्धं
वैशम्पायन उवाच ।
उभौ तौ हंसडिम्भकौ रात्रावेव महागिरिम् ।
जग्मतुः सहितौ राजन् गोवर्धनमथो नृप ॥ १॥
अथ प्रभाते विमले सूर्ये चाभ्युदिते सति ।
गोवर्धनं जगामाशु केशवः केशिसूदनः ॥ २॥
शैनेयो बलभद्रश्च यादवाः सारणादयः ।
गन्धर्वैरप्सरोभिश्च नादितं बहुधा गिरिम् ॥ ३॥
जग्मुस्ते सहिता राजन् गोवर्धनमथो गिरिम् ।
गोधनैरथ सैन्यैश्च नादितं वहुधा गिरिम् ॥ ४॥
तस्योत्तरं नृपश्रेष्ठ पार्श्वं सम्प्राप्य यादवाः ।
निकषा यमुनां राजंस्ततो युद्धमवर्तत ॥ ५॥
विव्याध हंसडिम्भकौ वसुदेवश्च सप्तभिः ।
सारणः पञ्चविंशत्या दशभिः कङ्क एव च ॥ ६॥
हंसेन डिम्भकेनाथ यादवैश्च समन्ततः ।
उग्रसेनस्त्रिसप्तत्या शराणां नतपर्वणाम् ॥ ७॥
विराटस्त्रिंशता राजन् सात्यकिश्चापि सप्तभिः ।
अशीत्या विपृथू राजन्नुद्धवो दशभिः शरैः ॥ ८॥
प्रद्युम्नस्त्रिंशता राजन्साम्बश्चापि च सप्तभिः ।
अनाधृष्टिस्त्वेकषष्ट्या शराणां नतपर्वणाम् ॥ ९॥
एवं ते सहिता राजंश्चक्रुर्युद्धमदीनवत् ।
अत्यद्भुतं महाघोरं यादवाः सर्व एव हि ॥ ३.१२७.१०॥
चक्रुस्ताभ्यां महायुद्धं वासुदेवस्य पश्यतः ।
सर्वानपि महाराज यादवान् बलदर्पितान् ॥ ११॥
तावुभौ हंसडिम्भकौ नृपांस्तान् प्रत्यविध्यताम् ।
प्रत्येकं दशभिर्विद्ध्वा बाणैर्निशितनिर्मलैः ॥ १२॥
जघ्नतुश्च शरैस्तीक्ष्णैरत्यर्थं यादवेश्वरान् ।
व्यथिताः सर्व एवैते वमन्तः शोणितं बहु ॥ १३॥
माधवे किंशुका राजन् पुष्पिता इव ते बभुः ।
भीताश्च यादवा राजन् पलायनपरायणाः ॥ १४॥
एतस्मिन्नन्तरे राजन् वसुदेवात्मजो नृप ।
वासुदेवो हली युद्धे प्रमुखे धन्विनौ तयोः ॥ १५॥
चक्रतुर्युद्धमतुलं स्कन्दशक्राविवाम्बरे ।
तयोरेव सगन्धर्वाः सिद्धा यक्षा महर्षयः ॥ १६॥
विमानस्थाश्च ददृशुर्युद्धं देवासुरोपमम् ।
ततः प्रादुरभूतां तौ दूतौ भूतेश्वरौ नृप ॥ १७॥
शूलिना प्रेषितौ युद्धे रक्षार्थं बलिनोस्तयोः ।
हंसोऽथ वासुदेवश्च युद्धं चक्रतुरीश्वरौ ॥ १८॥
रामश्च डिम्भकश्चैव संयुक्तौ युद्धकाङ्क्षया ।
विक्रान्ताः सर्व एवैते ह्यस्त्रे शस्त्रे तथा बले ॥ १९॥
शङ्खान् दध्मुः पृथग्घ्रादं स्वे स्वे सर्वे रथे स्थिताः ।
अथ कृष्णो हृषीकेशः पाञ्चजन्यं महारवम् ॥ ३.१२७.२०॥
दध्मौ पद्मपलाशाक्षः सर्वान् विस्मापयन्निव ।
अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ ॥ २१॥
दुद्रुवतुर्महाराज शूलमादाय केशवम् ।
शूलेन पोथयां राजञ्चक्रतुर्यादवेश्वरम् ॥ २२॥
ताभ्यां समाहतो विष्णुर्देवगन्धर्वसन्निधौ ।
ईषत्स्मिताधरो देवः किञ्चिदुत्प्लुत्य सत्वरम् ॥ २३॥
रथाद् रथिवरश्रेष्ठस्तौ प्रगृह्य जनार्दनः ।
भ्रामयित्वा शतगुणमलातमिव केशवः ॥ २४॥
कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः ।
तावुपेत्य गिरेः शृङ्गं कैलासस्य महामते ॥ २५॥
दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् ।
हंसश्च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः ॥ २६॥
उवाच वचनं हंसः शृण्वतां त्रिदिवौकसाम् ।
किमर्थं राजसूयस्य विघ्नं चरसि केशव ॥ २७॥
ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः ।
करं दिश यथायोगं यदि प्राणान् हि रक्षसि ॥ २८॥
अथवा त्वं क्षणं तिष्ठ ततो ज्ञात्वा परं बहु ।
ददासि त्वं नन्दपुत्र ततो यष्टा स मे गुरुः ॥ २९॥
ईश्वरोऽहं सदा राज्ञां देवानामिव शूलभृत् ।
एष ते वीर्यमतुलं नाशयिष्यामि संयुगे ॥ ३.१२७.३०॥
इत्युक्त्वा सशरं चापं शालतालोपमं नृप ।
आकृष्य च यथाप्राणं नाराचेन च केशवम् ॥ ३१॥
ललाटे चिक्षिपे हंसो ललाम इव सोऽभवत् ।
उवाच सात्यकिं कृष्णो रथं वाहय मे प्रभो ॥ ३२॥
दारुकं पृष्ठवाहं तं कृत्वा देशं तमीश्वरः ।
अथ तेन समादिष्टः सात्यकिर्वाहयन् रथम् ॥ ३३॥
मण्डलानि बहून्याजौ दर्शयामास सत्वरम् ।
अथ विद्धो दृढं तेन शरेण हरिरीश्वरः ॥ ३४॥
आग्नेयमस्त्रं संयोज्य शरे कस्मिंश्चिदव्ययः ।
उवाच हंसं राजेन्द्र सात्यकिं प्रेरयन् रणे ॥ ३५॥
अनेन त्वां दहे पाप यदि शक्तोऽसि वारय ।
अलं ते बह्वबद्धेन क्षत्रियोऽसि सदा शठ ॥ ३६॥
मत्तश्चेत् करमिच्छेस्त्वं दर्शयाद्य पराक्रमम् ।
यतयो बाधिता हंस पुष्करे संस्थितास्त्वया ॥ ३७॥
शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम ।
स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान् ॥ ३८॥
शास्तास्म्यथो सतां लोके दुष्टानां ब्रह्मविद्विषाम् ।
शापेन यतिमुख्यानां हत एव नराधम ॥ ३९॥
मृत्यवे त्वां निवेद्याद्य रक्षिता ब्राह्मणानहम् ।
इति ब्रुवंस्तदस्त्रं तु मुमोच युधि केशवः ॥ ३.१२७.४०॥
तदस्त्रं वारुणेनाथ हंसोऽपि प्रत्यषेधयत् ।
वायव्यमथ गोविन्दो मुमोच युधि हंसके ॥ ४१॥
तदस्त्रं वारयामास माहेन्द्रेण नृपोत्तमः ।
अथ माहेश्वरं कृष्णो मुमोचात्युग्रमाहवे ॥ ४२॥
रौद्रेण तत् ततो हंसो वारयामास तत्क्षणात् ।
गान्धर्वं राक्षसं चैव पैशाचमथ केशवः ॥ ४३॥
ब्रह्मास्त्रमथ कौबेरमासुरं याम्यमेव च ।
चत्वार्येतानि हंसस्तु मुमोच युधि सत्वरम् ॥ ४४॥
वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह ।
अथ ब्रह्मशिरो नाम घोरमस्त्रं विनाशकम् ॥ ४१॥
मुमोच हंसमुद्दिश्य देवदेवो जनार्दनः ।
योजयामास तद्धंसे महाघोरपराक्रमम् ॥ ४६॥
अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तमः ।
हंसोऽपि तेन राजेन्द्र वारयामास तं शरम् ॥ ४७॥
यमुनाप उपस्पृश्य देवदेवो जनार्दनः ।
अस्त्रं वैष्णवमादाय शरे स निशिते हरिः ॥ ४८॥
योजयामास भूतात्मा भूतभावनभावनः ।
येन देवा रणे हत्वा राज्यमापुः पुरासुरान् ।
तदस्त्रं योजयामास वधार्थं तस्य भूपतेः ॥ ४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि
हंसडिम्भकोपाख्याने हंसकेशवयुद्धे सप्तविंशत्यधिकशततमोऽध्यायः ॥ १२७॥
३.१२८ अष्टाविंशत्यधिकशततमोऽध्यायः
हंसवधम् Killing of haMsa
श्रीकृष्णेन हंसस्य वधं
वैशम्पायन उवाच ।
अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव सम्बभौ ॥ १॥
उत्प्लुत्य स रथात्तस्माद् यमुनामभ्यधावत ।
यत्र कृष्णो हृषीकेशः कालियाहिं ममर्द ह ॥ २॥
महाह्रदं महारौद्रं यावत्पातालसंस्थितम् ।
तावद्दीर्घं महानीलं कालाञ्जननिभं हि यत् ॥ ३॥
तस्मिन् ह्रदे महाघोरे पपाताथ स हंसकः ।
हंसे पतति तस्मिंस्तु महान् रावो बभूव ह ॥ ४॥
गिरीणां पात्यमानानां समुद्र इव वज्रिणा ।
रथादुत्प्लुत्य कृष्णोऽपि तस्योपरि पपात ह ॥ ५॥
देवदेवो जगन्नाथो जगद् विस्मापयन्निव ।
प्राहरन् तं महाबाहुः पादाभ्यामथ केशवः ॥ ६॥
पादक्षेपं नृपस्तस्माल्लब्ध्वा हंसो नृपोत्तम ।
ममार च नृपश्रेष्ठ केचिदेवं वदन्ति हि ॥ ७॥
अन्ये पातालमायातो भक्षितः पन्नगैरिति ।
अद्यापि नैव राजेन्द्र दृष्ट इत्यनुशुश्रुम ॥ ८॥
यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् ।
हते तस्मिन् महाराज धर्मपुत्रो युधिष्ठिरः ॥ ९॥
अकरोत् राजसूयं च तव पूर्वपितामहः ।
यदि जीवेदसौ हंसः को नमस्यति तं क्रतुम् ॥ ३.१२८.१०॥
स च सर्वास्त्रविन्नित्यं रुद्राल्लब्धवरः प्रभो ।
क्षणादेव महाराज वार्तेयं गामगाहत ॥ ११॥
हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना ।
जगुर्गन्धर्वपतयो देवलोके दिवानिशम् ॥ १२॥
कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना ।
यमुनाया ह्रदे घोरे हंसो निहत इत्यपि ॥ १३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवधे
अष्टाविंशत्यधिकशततमोऽध्यायः ॥ १२८॥
३.१२९ एकोनत्रिंशदधिकशततमोऽध्यायः
डिम्भकस्यात्मत्यागः Dimbhaka commits suicide
डिम्भकस्य आत्महत्या
वैशम्पायन उवाच ।
श्रुत्वा निहतमत्युग्रं भ्रातरं वीर्यशालिनम् ।
बलदेवं परित्यज्य युध्यमानं महारणे ॥ १॥
डिम्भको वीर्यसम्पन्नो यमुनामनुजग्मिवान् ।
तमन्वधावद् वेगेन बलभद्रो हलायुधः ॥ २॥
हंसो हि यत्र पतितस्तत्रासौ निपपात ह ।
यमुनायां महाराज विलोड्य जलसञ्चयम् ॥ ३॥
अथं क्रुद्धः स डिम्भको भ्रामयित्वा जलं बहु ।
उन्मज्ज्योन्मज्ज्य सहसा निमज्ज्य च पुनः पुनः ४॥
न ददर्श तदा राजन् भ्रातरं वीर्यशालिनम् ।
उन्मज्ज्याथ महाबाहुर्वासुदेवं विलोक्य च ॥ ५॥
उवाच वचनं राजन् डिम्भको वीर्यवत्तमः ।
अरे गोपकदायाद क्वासौ हंस इति स्थितः ॥ ६॥
वासुदेवोऽपि धर्मात्मा यमुनां पृच्छ राजक ।
इत्यब्रवीत् प्रसन्नात्मा वासुदेवः प्रतापवान् ॥ ७॥
तच्छ्रुत्वा यमुनां भूयः प्रविश्य डिम्भकः किल ।
बहुप्रकारमुद्वीक्ष्य भ्रातरं भ्रातृवत्सलः ॥ ८॥
विललाप ततो राजा डिम्भको भ्रान्तमानसः ।
क्व नु गच्छसि राजेन्द्र विहायैनमबान्धवम् ॥ ९॥
कुतो भ्रातरितो गच्छेः परित्यज्यैव मामिह ।
विलप्यैवं नृपश्रेष्ठ डिम्भको भ्रातृवत्सलः ॥ ३.१२९.१०॥
आत्मत्यागे मनः कुर्वन् यमुनाया महाह्रदे ॥
निमज्योन्मज्य सहसा मरणे कृतनिश्चयः ॥ ११॥
हस्तेन जिह्वामाकृष्य भूयो भूयो विलप्य च ।
ततः समूलामाकृष्य जिह्वां साहसकृत् स्वयम् ॥ १२॥
ममारान्तर्जले राजन् डिम्भको नरकाय वै ।
एवं तु निहते हंसे डिम्भके वीर्यशालिनि ॥ १३॥
आगमत्पुण्डरीकाक्षो भूतान्विस्मापयन्निव ।
ततः प्रीतः प्रसन्नात्मा वासुदेवः प्रतापवान् ॥ १४॥
गोवर्धनेऽथ विश्रम्य बलभद्रसहायवान् ।
कञ्चित् कालं महाराज पूर्वभुक्तमुवास ह ॥ १५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि डिम्भकमरणे एकोनत्रिंशदधिकशततमोऽध्यायः ॥ १२९॥
३.१३० त्रिंशदधिकशततमोऽध्यायः
नन्दयशोदयोर्गोवर्धने श्रीकृष्णदर्शनम् Yashoda and nandagopa meet kRiShNa
गोपगोपीभिःसहितेन यशोदानन्दयोः गोवर्धनपर्वते आगत्वा
श्रीकृष्णबलभद्राभ्यां समागमम् ।
वैशम्पायन उवाच ।
यशोदा नन्दगोपश्च कृष्णदर्शनलालसौ ।
गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम् ॥ १॥
नवनीतं च दधि च पायसं कृसरं तथा ।
वन्यं पुष्पं महाराज मयूराङ्गदमेव च ॥ २॥
बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः ।
जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप ॥ ३॥
क्वचिद् वृक्षे समासक्तं कृष्णं कृष्णमृगेक्षणम् ।
ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम् ॥ ४॥
प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।
दर्शयामासतुर्देवौ पायसानि महान्ति च ॥ ५॥
तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् ।
अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ॥ ६॥
अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः ।
अपि वा दारका मातर्वत्सपालाः पिबन्ति च ॥ ७॥
बहूनि चापि दामानि कीलका अपि वा बहु ।
तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ॥ ८॥
शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् ।
अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन् ॥ ९॥
घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे ।
किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः ॥ ३.१३०.१०॥
हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।
गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते ॥ ११॥
नन्द उवाच ।
सर्वमेतद् यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।
कुशलं गोधनस्यैव सर्वकालेषु केशव ॥ १२॥
रक्षणात् तव देवेश सदा कुशलिनो वयम् ।
सगोधनाः सवत्साश्च नीरोगा इव केशव ॥ १३॥
एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव ।
यदेतत् केवलं दुःखमिति धीः शीर्यते सदा ॥ १४॥
वैशम्पायन उवाच ।
एवमादि विलप्यन्तं गच्छेत्याह स केशवः ।
यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति ॥ १५॥
ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः ।
ये केचित् त्वां नमस्यन्ति ते मे प्रियतराः सदा ॥ १६॥
मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः ।
इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः ॥ १७॥
गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः ।
यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति ॥ १८॥
ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः ।
गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल ॥ १९॥
य एतच्छृणुयान्नित्यं पठेद् वापि समाहितः ।
पुत्रवान् धनवांश्चैव अन्ते मोक्षं च गच्छति ॥ ३.१३०.२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि
यशोदानन्दगोपबलभद्रकृष्णसमागमे त्रिंशदधिकशततमोऽध्यायः ॥ १३०॥
३.१३१ एकत्रिंशदधिकशततमोऽध्यायः
श्रीकृष्णस्य द्वारवतीगमनम् KRiShNa, praised by sages at puShkara, returns to dvAraka
द्वारकां गच्छन्तं श्रीकृष्णस्य पुष्करे ऋषिभ्यः समागमं, ऋषिभिः तस्य स्तवनं
वैशम्पायन उवाच ।
गच्छन्नथ महाविप्णुः पुष्करं प्राप्य यादवैः ।
अपश्यन्मुनिमुख्यांस्तु पुस्करस्थान् नृपोत्तम ॥ १॥
ते समेत्य महादेवमृषयो वीतमत्सराः ।
अर्घ्यादिसमुदाचारं कृत्वैनं यादवोत्तमम् ॥ २॥
प्रोचुर्विश्वेश्वरं विष्णुं भूतभव्यभवत्प्रभुम् ।
अत्यद्भुतमिदं विष्णो तव वीर्यं जनार्दन ॥ ३॥
येन तौ निहतौ युद्धे हंसो डिम्भक एव च ।
यो विचक्रो दुराधर्षो देवैरपि सुदुःसहः ॥ ४॥
सङ्गरे निहतो देव दुःसाध्य इति नो मतिः ।
क्षेमो नः सर्वकार्येषु चरतां तप उत्तमम् ॥ ५॥
निष्कल्मषा भविष्यामस्तव संस्मरणाद्धरे ।
त्वं हि सर्वस्य दुःखस्य हर्ता त्वां ध्यायतां सदा ॥ ६॥
त्वदनुस्मरणं जन्तोः सदा पुण्यप्रदं प्रभो ।
त्वं हि नः सततं धाता विधाता तपसो हरे ॥ ७॥
त्वमोङ्कारो वषट्कारस्त्वं यज्ञस्त्वं पितामहः ।
त्वं ज्योतिर्ब्रह्मणो मूर्तित्वं ब्रह्मा रुद्र एव च ॥ ८॥
प्राणस्त्वं सर्वभूतानामन्तरात्मेति कथ्यते ।
उपास्यः सर्वभूतानां यज्ञैर्दानैर्जगत्पते ॥ ९॥
नमो विश्वसृजे देव नमस्ते विश्वमूर्तये ।
पाहि लोकमिमं देव हत्वा ब्रह्मद्विषः सदा ॥ ३.१३१.१०॥
स तथेति हरिर्विष्णुर्ययौ द्वारवतीं पुरीम् ।
अवसद्वृष्णिभिः सार्ध स्तूयमानः समागधैः ॥ ११॥
इयं च देवदेवस्य चेष्टा हि जनमेजय ।
प्रोक्ता ते पृच्छते राजन्किमन्यच्छ्रोतुमिच्छसि ॥ १२॥
इति श्रोमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि द्वारकायां कृष्णस्य प्रत्यागमने एकत्रिंशदधिकशततमोऽध्यायः ॥ १३१॥
३.१३२ द्वात्रिंशदधिकशततमोऽध्यायः
पारायणपर्वक्रमेण महाभारतश्रवणफलम् Procedures for reciting Mahabharata and benefits thereof
महाभारतहरिवंशयोः श्रवणविधिः फलं च, वाचकस्य गुणाः, प्रतिपर्वणि दानार्हं द्रव्यं,
एकतः दशसङ्ख्याकानां पारणानां महत्त्वं, महाभारतहरिवंशयोः माहात्म्यं
जनमेजय उवाच ।
भगवन् केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥ १॥
देयं समाप्ते भगवन् किं च पर्वणि पर्वणि ।
वाचकः कीदृशश्चात्र यष्टव्यस्तद् ब्रवीहि मे ॥ २॥
वैशम्पायन उवाच ।
शृणु राजन् विधिमिमं फलं यच्चापि भारतात् ।
श्रुताद् भवति राजेन्द्र यत् त्वं मामनुपृच्छसि ॥ ३॥
दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥ ४॥
हन्त यत् ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
ऋषीणां देवतानां च सम्भवं वसुधातले ॥ ५॥
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥ ६॥
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।
सिद्धा धर्मः स्वयम्भूश्च मुनिः कात्यायनो वरः ॥ ७॥
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥ ८॥
स्थावरं जङ्गमं चैव जगत् सर्वं सुरासुरम् ।
भारते भरतश्रेष्ठ एकस्थमिह दृश्यते ॥ ९॥
तेषां श्रुतिप्रतिष्ठानां नामकर्मानुकीर्तनात् ।
कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥ ३.१३२.१०॥
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥ ११॥
तेषां शृणु त्वं श्राद्धानि श्रुत्वा भारत भारतम् ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥ १२॥
महादानानि देयानि रत्नानि विविधानि च ।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥ १३॥
सर्वकामगुणोपेता यानानि विविधानि च ।
भाजनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥ १४॥
वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥ १५॥
यद् यद् गृहे वरं किञ्चिद् यद् यदस्ति महद्वसु ।
तत् तद् देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥ १६॥
श्रद्धया परया दद्यात् क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः शुश्रूषुरविकम्पनः ॥ १७॥
सत्यार्जवरतो यत्तः शुचिः शौचपरायणः ।
श्रद्दधानो जितक्रोधो यथा सिद्ध्यति तच्छ्रृणु ॥ १८॥
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥ १९॥
रूपवान् सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानग्रहीता च कार्यो भवति वाचकः ॥ ३.१३२.२०॥
अविलम्बमनायस्तमद्रुतं घोरमूर्जितम् ।
असंसक्ताक्षरपदं न च भावसमन्वितम् ॥ २१॥
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।
वाचयेद् वाचकः स्वस्थः स्वाधीनः सुसमाहितः ॥ २२॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २३॥
ईदृशाद्वाचकाद्राजञ्च्छ्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥ २४॥
पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयेत् ।
अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥ २५॥
अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥ २६॥
द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।
सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥ २७॥
दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥ २८॥
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरसङ्काशो वर्षाण्ययुतशो दिवि ॥ २९॥
चतुर्थं वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसङ्काशं ज्वलन्तमनलोपमम् ॥ ३.१३२.३०॥
विमानं विबुधैः सार्धमारुह्य दिवि गच्छति ।
वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥ ३१॥
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥ ३२॥
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥ ३३॥
सर्वांल्लोकान् विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम् ॥ ३४॥
चन्द्रोदयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥ ३५॥
सेव्यमानो वरस्त्रीणां चन्द्रकान्ततरैर्मुखैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥ ३६॥
अङ्के परमनारीणां सुखं सुप्तो विबुध्यते ।
नवमं क्रतुराजस्य वाजिमेधस्य भारत ॥ ३७॥
काञ्चनस्तम्भनिर्व्यूहं वैदूर्यकृतवेदिकम् ।
जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥ ३८॥
सेवितं चाप्सरसङ्घैर्गन्धर्वैर्दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥ ३९॥
दिव्यमाल्याम्बरधरो दिव्यचन्दनभूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापर ॥ ३.१३२.४०॥
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥ ४१॥
रत्नवेदिकसङ्काशं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥ ४२॥
गन्धर्वैर्गीतकुशलैरप्सरोभिर्निषेवितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते ॥ ४३॥
मुकुटेनार्कवर्णेन जाम्बूनदविभूषणः ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥ ४४॥
दिव्याँल्लोकान् प्रचरति दिव्यैर्भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥ ४५॥
अथ वर्षगणानेवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिः ॥ ४६॥
पुरन्दरपुरे रम्ये शक्रेण सह मोदते ।
दिव्ययानविमानेषु लोकेषु विविधेषु च ॥ ४७॥
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ॥ ४८॥
शिवस्य भवने राजन् विष्णोर्याति सलोकताम् ।
एवमेतन्महाराज नात्र कार्या विचारणा ॥ ४९॥
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ।
वाचकस्य तु दातव्यं मनसा यद् यदिच्छति ॥ ३.१३२.५०॥
हस्त्यश्वरथयानादि वाहनं च विशेषतः ।
कटके कुण्डले चैव ब्रह्मसूत्रं तथापरम् ॥ ५१॥
वस्त्रं चैव विचित्रं च गन्धं चैवं विशेषतः ।
देववत् पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥ ५२॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाच्यमानेऽथ विप्रेभ्यो राजन् पर्वणि पर्वणि ॥ ५३॥
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ ।
धर्मवृत्तिं च विज्ञाय ब्राह्मणानां नराधिप ॥ ५४॥
स्वस्ति वाच्यं द्विजैरादौ ततः कार्यं प्रवर्तयेत् ।
समाप्तपर्वणि ततः स्वशक्त्या तर्पयेद् द्विजान् ॥ ५५॥
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
विधिवद् भोजयेद् राजन् मधुपायससंयुतम् ॥ ५६॥
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तीके भोजयेद् राजन् दद्याच्चैव गुडौदनम् ॥ ५७॥
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् ॥ ५८॥
आरण्यके मूलफलैस्तर्पयेच्च द्विजोत्तमान् ।
अरणीपर्व आसाद्य जलकुम्भान् प्रदापयेत् ॥ ५९॥
तर्पणानि च मुख्यानि वन्यमूलफलानि च ।
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ॥ ३.१३२.६०॥
विराटपर्वणि तथा वासांसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥ ६१॥
भोजनं भोजयेद् विप्रान् गन्धमाल्यैरलकृतान् ।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ।
ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥ ६२॥
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ।
शराश्च देया राजेन्द्र चापान्यसिवरांस्तथा ॥ ६३॥
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ।
विप्रेभ्यः संस्कृतं सम्यग् दद्यात् संयतमानसः ॥ ६४॥
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ।
अपूपैस्तर्पयेच्चैव सर्वमन्नं प्रदापयेत् ॥ ६५॥
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ।
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत् तु द्विजोत्तमान् ६६॥
घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः ।
ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥ ६७॥
शान्तिपर्वण्यपि गते हविष्यं भोजयेद्द्विजान् ।
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् ॥ ६८॥
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद् द्विजान् ।
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ॥ ६९॥
महाप्रास्थानिके तद्वत् सर्वकामगुणान्वितम् ।
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद् द्विजान् ॥ ३.१३२.७०॥
हरिवंशसमाप्तौ तु सहस्रं भोजयेद् द्विजान् ।
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ॥ ७१॥
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ।
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ॥ ७२॥
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ।
हरिवंशे पर्वणि च पायसं तत्र भोजयेत् ॥ ७३॥
श्लोकं वा श्लोकपादं वा अक्षरं वा नृपात्मज ।
शृणुयादेकचित्तस्तु स विप्णुदयितो भवेत् ॥ ७४॥
व्यासं चैव सपत्नीकं पूजयेच्च यथाविधि ।
लक्ष्मीनारायणं देवं पूजितं तं च पूजयेत् ॥ ७५॥
वाचकं पूजयेद् यस्तु भूमिवस्त्रसुधेनुभिः ।
विष्णुः सम्पूजितस्तेन स साक्षाद् देवकीसुतः ॥ ७६॥
पारणे पारणे राजन् यथावद् भरतर्षभ ।
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ॥ ७७॥
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृतः ।
शुक्लाम्बरधरः श्रीमाञ्छुचिर्भूत्वा स्वलङ्कृतः ॥ ७८॥
अर्चयेत् तं यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।
संहितापुस्तकान् राजन् प्रयतः शिष्टसम्मतः ॥ ७९॥
भक्ष्यैर्भोज्यैश्च पेयैश्च कामैश्च विविधैः शुभैः ।
हिरण्यं गां च वस्त्रं च दक्षिणामथ दापयेत् ॥ ३.१३२.८०॥
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रणतात्मना ।
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् ॥ ८१॥
यद् यदेवात्मनोऽभीष्टं तत् तद् देयं द्विजातये ।
सर्वथा तोषयेत् भक्त्या वाचकं गुरुमात्मनः ।
देवताः कीर्तयेत् सर्वा नरनारायणौ तथा ॥ ८२॥
ततो गन्धैश्च माल्यैश्च स्वलङ्कृतद्विजोत्तमान् ।
तर्पयेद् विविधैः कामैर्दानैश्चोच्चावचैस्तथा ॥ ८३॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि ॥ ८४॥।
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद् विप्रान् भारतं भरतर्षभ ॥ ८५॥
भुक्तवत्सु द्विजेन्द्रेषु यथावत् सम्प्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलङ्कृतम् ॥ ८६॥
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
ब्राह्मणेषु च तुष्टेषु प्रसन्नाः सर्वदेवताः ॥ ८७॥
ततो हि भरणं कार्यं द्विजानां भरतर्षभ ।
सर्वकामैर्यथान्यायं साधुभिश्च यथाक्रमम् ॥ ८८॥
इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥ ८९॥
भारतश्रवणे राजन् पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥ ३.१३२.९०॥
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥ ९१॥
भारतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परिकीर्तयेत् ॥ ९२॥
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ ।
भारतात् प्राप्यते मोक्षस्तत्त्वमेतद् ब्रवीमि ते ॥ ९३॥
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् ।
ब्राह्मणं केशवं चापि कीर्तयन् नावसीदति ॥ ९४॥
वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥ ९५॥
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥ ९६॥
एतत् पवित्रं परममेतद् धर्मनिदर्शनम् ।
एतत् सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥ ९७॥
क्रियतेऽसारसंसारे वाञ्छितस्यैव कारणम् ।
हरिवंशस्य श्रवणमिति द्वैपायनोऽब्रवीत् ॥ ९८॥
अश्वमेधसहस्रेण वाजपेयशतैस्तथा ।
यत् फलं प्राप्यते पुम्भिस्तद्धरेर्वंशपारणात् ॥ ९९॥
अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् ।
निरुपममनुमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो ॥ ३.१३२.१००॥
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वेषां वाञ्छिता अर्था भवन्त्वस्य च पारणात् ॥ १०१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि श्रवणफलकथने द्वात्रिंशदधिकशततमोऽध्यायः ॥ १३२॥
३.१३२.२२ - १. कण्ठ, तालु, मूर्धा, दन्त, ओष्ठ, नासिका, जिह्वामूल और हृदय-ये वर्णों के उच्चारण के आठ स्थान हैं :-
२. पाणिनीय शिक्षा में तिरसठ वर्णो की गणना इस प्रकार दी गयी है - इक्कीस स्वर, पच्चीस स्पर्श, आठ यादि, चार यम, अनुस्वार, विसर्ग, क, प तथा दुःस्पृष्ट ये सब मिलाकर तिरसठ बर्ण हैं । इसका स्पष्टीकरण इस प्रकार है--``अ इ उ ऋ ये चार स्वर हस्व, दीर्घ और प्लुत के भेद से तीन-तीन तरह के माने गये है, अतः ये बारह हुए । लृकार का केवल ह्रस्व रूप ही ग्रहण किया गया है - इस प्रकार ये तेरह स्वर हुए । इनके सिवा, ए ओ ऐ औ'' ये दीर्घ और प्लुत के भेद से दो-दो प्रकार के हैं,अतः आठ हुए । पूर्वोक्त १३ और ये ८ मिलकर २१ स्वर होते हैं । ``क'' से लेकर ``म'' तक २५ अक्षर स्पर्श कहलाते हैं । इनको मिलाने से ४६ अक्षर हुए । ``य'' से देकर ``ह'' तक के आठ अक्षरों को जोड़ लेने पर इनकी सङ्ख्या ५४ होती है । प्रतिशाख्य के अनुसार चार यम होते हैं । यथा- पलिक्क्नी'' चख्ख्नतुः अग्ग्निः ``घ् घ्नन्ति'' इन उदाहरणों में क् ख् ग् घ्'' से परे जो इन्हीं के सदृश वर्ण है, इन्हीं की ``यम'' संज्ञा हैं । इन चार यमों को जोड लेने से अक्षरों की सङ्ख्या ५८ तक पहुँचती है । इनके सिवा, अनुस्वार (अं ), विसर्ग (अः )क (जिह्वामूलीय ), प (उपध्मानीय )तथा दुःस्पृष्टवर्ण (दो स्वरों के मध्य में वर्तमान लकार )--ये पाँच अक्षर और हैं । इन सबका योग तिरसठ होता है । ये ही तिरसठ अक्षर हैम् ।
३.१३३ त्रयस्त्रिंशदधिकशततमोऽध्यायः
त्रिपुरवधवृत्तान्तः Description of elimination of demon tripura
त्रिपुरवधस्य कथा
जनमेजय उवाच ।
त्र्यक्षाद् वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
त्रयाणां पुरसंज्ञानां खेचराणां समासतः ॥ १॥
वैशम्पायन उवाच ।
शृणु विस्तरतः सर्वं यन्मां पृच्छसि नैधनम् ।
दैत्यानां बाहुबलिनां सर्वप्राणिविरोधिनाम् ॥ २॥
शङ्करेण वधं राजञ्शूलैस्त्रिभिरजिह्मगैः ।
कृतं पुरासुरेन्द्राणां सर्वभूतवधैषिणाम् ॥ ३॥
त्रिपुरं पुरुषव्याघ्र वृहद्धातुसमीरितम् ।
विक्रामति नभोमध्ये मेघवृन्दमिवोत्थितम् ॥ ४॥
प्राकारेण प्रवृद्धेन काञ्चनेन विराजता ।
मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः ॥ ५॥
बभासे नभसो मध्ये श्रिया परमया ज्वलत् ।
गन्धर्वाणामिवोदग्रं कर्मणा साधितं पुरम् ॥ ६॥
वाजिनः पक्षसंयुक्ता वहन्ति बलदर्पिताः ।
पुरं प्रभाकरश्रेष्ठं मनोभिः कामबृंहणैः ॥ ७॥
धावन्ति ह्रेषमाणास्ते विक्रमैः प्राणसम्भृतैः ।
आहूयत इवाकाशं खुरैः श्यामदलप्रभैः ॥ ८॥
वायुवेगसमैर्वेगैः कालयन्त इवाम्बरम् ।
असुराः समदृश्यन्त चक्षुर्भिर्विदितात्मभिः ॥ ९॥
ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।
गीतवादित्रबहुलं गन्धर्वनगरोपमम् ॥ ३.१३३.१०॥
चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः ।
भवनैर्बहुभिश्चैव प्रांशुभिः समलङ्कृतैः ॥ ११॥
देवेन्द्रभवनाकारैः शुशुभे तन्महाद्युति ।
प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः ॥ १२॥
शुशुभे दैत्यनगरं बहुसूर्यमिवाम्बरम् ।
वराट्टालकसम्पन्नं तप्तकाञ्चनसप्रभम् ॥ १३॥
प्रदीप्तमिव तेजोभी रराजाथ महाप्रभो ।
क्ष्वेडितोत्क्रुष्टबहुलं सिंहनादविनादितम् ॥ १४॥
बभौ वल्गुजनाकीर्ण वनं चैत्ररथं यथा ।
समुच्छ्रितपताकं तदसिभिश्च विराजितम् ॥ १५॥
रराज त्रिपुरं राजन् महाविद्युदिवाम्बरे ।
सूर्यनाभश्च दैत्येन्द्रश्चन्द्रनाभश्च भारत ॥ १६॥
तथान्ये च महावीर्या दानवा बलदर्पिताः ।
ममृदुश्च बभञ्जुश्च मोहिताः परमेष्ठिना ॥ १७॥
पन्थानं देवगमनं पितृयानं च भारत ।
तैरेवमसुराग्रैश्च प्रगृहीतशरासनैः ॥ १८॥
दानवैर्नरशार्दूल देवयाने महापथे ।
पितृवह्नियलोपेते हृते भरतसत्तम ॥ १९॥
ब्रह्माणमभ्यधावन्त सर्वे सुरगणास्तथा ।
विवर्णवदना दीनाश्छिन्ने वै गतिकर्मणि ॥ ३.१३३.२०॥
अब्रुवंश्च गताः स्थित्वा स्वरेणार्तनिनादिना ।
हन्यामहे शत्रुगणैर्भागोच्छेदेन भागद ॥ २१॥
तेषां चैव वधोपायं वदस्व वदतां वर ।
यं ज्ञात्वा बाहुबलिनो बाधेम समरे परान् ॥ २२॥
सान्त्वयित्वा तु वरदो ब्रह्मा प्रोवाच देवताः ।
शृणुध्वं देवताः सर्वाः शत्रुप्रतिकृतिं पराम् ॥ २३॥
अवध्या दानवाः सर्वे ऋते शङ्करमव्ययम् ।
प्रतिगृह्य च तद् वाक्यं मनोभिर्वाग्भिरेव च ॥ २४॥
भूमौ प्रपेदिरे सर्वे सह रुद्रैश्च भारत ।
विन्ध्यपादे च मेरौ च मध्ये च पृथिवीतले ॥ २५॥
तपसोग्रेण योगज्ञा सर्वे ते मुनयोऽभवन् ।
काश्यपेयं हरं प्राप्ता जपन्तो ब्रह्मसंहिताम् ॥ २६॥
तेषां च परदाराणामभवद् वन्ध्यता जने ।
विन्यस्तदर्भनिचये ताम्रलोहं च भूषणम् ॥ २७॥
परिधानानि चर्माणि मृदूनि च शुभानि च ।
स्वयं मृतानां कृष्णानां मृगाणां कुरुसत्तम ॥ २८॥
गृहीतानि विमुक्तानि देहेभ्यो वनचारिणाम् ।
अन्तरिक्षमथोपेत्य विविशुर्माययाऽऽवृताः ॥ २९॥
हरालयं सुराः सर्वे व्याघ्रचर्भनिवासिनः ।
प्रणिपत्याथ ते दीना भगवन्तं जगत्पतिम् ॥ ३.१३३.३०॥
सुव्यक्तेनाभिधानेन प्रभाषन्त हरं ततः ।
हविर्दत्तमविज्ञानाद् भस्मच्छन्नेषु वह्निषु ॥ ३१॥
वरदानं वृथास्मासु भगवन् विमुखे त्वयि ।
यथादेशं यथाकालं क्रियतां ब्रह्मणो वचः ॥ ३२॥
यदुक्तं देवदेवेन खेचराणां समीपतः ।
एवं देववचोभिश्च भाविनोऽर्थस्य वैभवात् ॥ ३३॥
समनह्यन्महादेवो देवैः सह सवासवैः ।
आदित्यपथमास्थाय सन्नद्धाः समलङ्कृताः ॥ ३४॥
सर्वे काञ्चनवर्णाभा बभुर्दीप्ता इवाग्नयः ।
रुद्रेण सहिता रुद्रा दहन्त इव तेजसा ॥ ३५॥
सन्नद्धाः कुशलाः सर्वे प्रांशवः पर्वता इव ।
विश्वे विश्वेन वपुषा बलिनः कामरूपिणः ॥ ३६॥
समनह्यन्महात्मानो दानवान्तं विधित्सवः ।
एभिः सहधनाध्यक्षैः समन्तात् परिवारितः ॥ ३७॥
त्रिपुरं योधयत् त्र्यक्षः प्रगृह्य सशरं धनुः ।
अथ दैत्या भिन्नदेहाः पुराट्टालं गता इव ॥ ३८॥
न्यपतन्त विदेहास्ते विशीर्णा इव पर्वताः ।
अ तिविद्धाः सुविद्धाश्च रणमध्यगता नृप ॥ ३९॥
न्यपतन् दैत्यसङ्घाता वज्रेणेव हता नगाः ।
असिभिश्च हता देवैः शक्तिचक्रपरश्वधैः ॥ ३.१३३.४०॥
बाणैश्च भिन्नमर्माणो दैत्येन्द्रा युद्धगोचरे ।
प्रपेतुः सहिता उर्व्यां छिन्नपक्षा इवाचलाः ॥ ४१॥
तत्र संज्ञां विमुञ्चन्ति दीप्यमानेन तेजसा ।
एवं तेऽन्योन्यसम्बाधे क्षीयन्ते क्षयकर्मणा ॥ ४२॥
नोपालभ्यन्त चक्षुर्भ्यामपि दिव्येन चक्षुषा ।
अस्तं प्राप्ते दिनकरे सुरेन्द्रास्ते निशामुखे ।
छिन्नभिन्नक्षतमुखा निपेतुर्वसुधातले ॥ ४३॥
अथ दैत्या जयं प्राप्ता निशायां निशितैः शरैः ।
विनेदुर्विपुलैर्नादैर्मेघा इव महारवाः ॥ ४४॥
जयप्राप्त्यासुराश्चैव तेऽन्योन्यमभिजल्पिरे ।
त्रासितास्त्रिदशाः सर्वे सङ्ग्रामजयकाङ्क्षिणः ॥ ४५॥
अस्माभिर्बलसम्पन्नैः सह प्रासासितोमरैः ।
विरेजुश्च जयं प्राप्ता उशनोहव्यबोधिताः ॥ ४६॥
समरे ब लसम्पन्नाः सायुधा दैत्यसत्तमाः ।
सुरैश्च सहितः सर्वै रथमास्थाय शङ्करः ॥ ४७॥
दर्पितान् निनदन् दैत्यान् प्रदहन्निव तेजसा ।
युगान्तकाले वितते रश्मिवानिव निर्दहन् ॥ ४८॥
सर्वभूतानि भूताग्र्यः प्रलये समुपस्थिते ।
स रथो वाजिभिः शीघ्रैरुह्यमानो मनोजवैः ॥ ४९॥
विबभौ नभसो मध्यं सविद्युदिव तोयदः ।
वृषभेण ध्वजाग्रेण गर्जमानेन भारत ॥ ३.१३३.५०॥
भाति स्म स रथो राजन्सेन्द्रायुध इवाम्बुदः ।
ततोऽम्बरगताः सिद्धास्तुष्टुवुर्वृषभध्वजम् ॥ ५१॥
कर्मभिः पूर्वजं पूर्वैः शुचिभिस्त्र्यम्बकं तदा ।
ऋषयश्च तपःशान्ताः सत्यव्रतपरायणाः ॥ ५२॥
अमृतप्राशिनश्चैव सुरसङ्घास्तथैव च ।
गन्धर्वाप्सरसश्चैव गान्धर्वेण स्वरेण वै ॥ ५३॥
प्रहृष्टवदनाः सौम्याः पैत्र्ये स्थानान्तरे नृप ।
चयाट्टालकसम्पन्ने शतघ्नीशतसङ्कुले ॥ ५४॥
तस्मिंस्तु दैत्यनगरे सर्वभूतभयावहे ।
ततस्तु शरवर्षाणि मुमुचुर्दैत्यदानवाः ॥ ५५॥
सुराणामरयो मध्ये तीक्ष्णाग्राणि समन्ततः ।
शतघ्नीभिश्च निघ्नन्तो भल्लैः शूलैश्च भारत ॥ ५६॥
ते चक्रिरे महत्कर्म दानवा युद्धकोविदाः ।
गदाभिश्च गदा जघ्नुर्भल्लैर्भल्लांश्च चिच्छिदुः ॥ ५७॥
अस्त्रैरस्त्राण्यबाधन्त माया मायाभिरेव च ।
ततोऽपरे समुद्यम्य शरशक्तिपरश्वधान् ॥ ५८॥
अशनींश्च महाघोरानमुञ्चन्त सहस्रशः ।
असिभिर्मायाविहितैर्मृत्योर्विषयगोचरे ॥ ५९॥
ते वध्यमाना विबुधाः शरवर्षैरवस्थिताः ।
गन्धर्वनगराकारः सोऽसीदत् सहरो रथः ॥ ३.१३३.६०॥
हन्यमानोऽसुरगणैः प्रासासिशरतोमरैः ।
तैश्च दैत्यप्रहरणैर्गुरुभिर्भारसाहिभिः ।
चित्रैश्च बहुभिः शस्त्रैरतिष्ठत शचीपतिः ॥ ६१॥
ततो मध्ये दिव्यशब्दः प्रादुरासीन्महीपते ।
ऋषीणां ब्रह्मपुत्राणां महतामपि भारत ॥ ६२॥
स एष शङ्करस्याग्रे रथो भूमिं प्रतिष्ठितः ।
अजेयो जय्यतां प्राप्तः सर्वलोकस्य पश्यतः ॥ ६३॥
तस्मिन्निपतिते राजन् रथानां प्रवरे रथे ।
निपेतुः सर्वभूतानि भूतले वसुधाधिप ॥ ६४॥
विचेलुः पर्वताग्राणि चेलुश्चैव महाद्रुमाः ।
विचुक्षुभुः समुद्राश्च न रेजुश्च दिशो दश ॥ ६५॥
वृद्धाश्च ब्राह्मणास्तत्र जेपुश्च परमं जपम् ।
यत्तद् ब्रह्ममयं तेजः सर्वत्र विजयैषिणाम् ॥ ६६॥
शान्त्यर्थं सर्वभूतानामिह लोके परत्र च ।
समाधायात्मनाऽऽत्मानं योगप्राप्तेन हेतुना ॥ ६७॥
रथन्तरेण साम्नाथ ब्रह्मभूतेन भारत ।
तेजसा ज्वलयन्विष्णोस्त्र्यक्षस्य च महात्मनः ॥ ६८॥
सर्वेषां चैव देवानां बलिनां कामरूपिणाम् ।
ऋषीणां तपसाऽऽढ्यानां वसतां विजने वने ॥ ६९॥
अथ विष्णुर्महायोगी सर्वतोदृश्य तत्त्वतः ।
वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम् ॥ ३.१३३.७०॥
समाक्रान्तं देवगणैः समग्रबलपौरुषैः ।
बलवांस्तोलयित्वा तु विषाणाभ्यां महाबलः ।
ननाद प्राणयोगेन मथ्यमान इवार्णवः ॥ ७१॥
तृतीयं वायुविषयं समाक्रम्य विषाणवान् ।
ननाद बलवान् नादं समुद्र इव पर्वणि ॥ ७२॥
ततो नादेन वित्रस्ता दैतेया युद्धदुर्मदाः ।
पुनस्ते कृतसन्नाहा युयुधुः सुमहाबलाः ॥ ७३॥
सर्वे वै बाहुबलिनः समर्थबलपौरुषाः ।
सुरसैन्यं प्रमर्दन्तः प्रगृहीतशरासनाः ॥ ७४॥
अग्निं सन्धाय धनुषि शितं बाणं सुपत्रिणम् ।
ब्रह्मास्त्रेणाभिसंयोज्य ब्रह्मदण्डं शिवोऽव्ययः ।
मुमोच दैत्यनगरे त्रिधाशब्देन संज्ञितम् ॥ ७५॥
तं बाणं त्रिविधं वीर्यात् सन्धाय मनसा प्रभुः ।
सत्येन ब्रह्मयोगेन तपसोग्रेण भारत ॥ ७६॥
मुमोच दैत्यनगरे सर्वप्राणहराञ्छरान् ।
दीप्तान्कनकवर्णाभान् सुवर्णांश्च सुनिर्मलान् ॥ ७७॥
मुक्त्वा वरशरान् घोरान् सविषानिव पन्नगान् ।
सुप्रदीप्तैस्त्रिभिर्बाणैर्वेगिभिस्तद्विदारितम् ॥ ७८॥
शरघातप्रदीप्तानि विन्ध्याग्राणीव भारत ।
गोपुराणि पुरैः सार्धं व्यशीर्यन्त नराधिप ॥ ७९॥
अग्निना सम्प्रदीप्तानि वह्निगर्भाणि भारत ।
धरणीं सम्प्रपद्यन्त पुराणि वसुधाधिप ॥ ३.१३३.८०॥
तानि वैदूर्यवर्णानि शिखराणि गिरेरिव ।
शङ्करेण प्रदग्धानि ब्रह्मास्त्रेणापतन्नृप ॥ ८१॥
हते च त्रिपुरे देवैर्वाचो हर्षात् किलेरिताः ।
सर्वाञ्जहीति शत्रूंस्त्वं प्रवृद्धान् पुरुषोत्तम ॥ ८२॥
विष्णुरेव महायोगी योगेन प्रस्मयन्निव ।
स्तूयते ब्रह्मसदृशैरृषिभिः शङ्करेण च ।
ब्रह्मणा सहितैर्देवैः सम्पन्नबलपौरुषैः ॥ ८३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि त्रिपुरवधे त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ १३३॥
३.१३४ चतुस्त्रिंशदधिकशततमोऽध्यायः
हरिवंशवृत्तान्तसंग्रहः A precise of harivamsha
हरिवंशे वर्णितानां वृत्तान्तानां सङ्ग्रहः
वैशम्पायन उवाच ।
हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः ।
तत्रादावादिसर्गस्तु भूतसर्गस्ततः परः ॥ १॥
पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ।
वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा ॥ २॥
गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम् ।
पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च ॥ ३॥
अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् ।
च्युतिम्प्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः ॥ ४॥
दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।
ययातिचरितं चैव पूरुवंशस्य कीर्तनम् ॥ ५॥
फिर दिवोदासकी प्रतिष्ठा, राजा त्रिशङ्कुकी कथा,
ययातिका चरित्र और पूरुवशका वर्णन ह ॥ ५॥
कीर्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा ।
सङ्क्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम् ॥ ६॥
तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।
योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः ॥ ७॥
पृथ्वीवाक्यं च देवानामंशावतरणं तथा ।
ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा ॥ ८॥
आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः ।
गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ॥ ९॥
पूतनाया वधो भङ्गो यमलार्जुनयोरपि ।
वृकसन्दर्शानं चैव बृन्दावननिवेशनम् ॥ ३.१३४.१०॥
प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।
कालियस्यापि दमनं धेनुकस्य च भञ्जनम् ॥ ११॥
प्रलम्बनिधनं चैव शरद्वर्णनमेव च ।
गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम् ॥ १२॥
गोविन्दस्याभिषेकं च गोपीसङ्क्रीडनं तथा ।
रिष्टासुरस्य निधनमकूरप्रेषणं तथा ॥ १३॥
अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।
अक्रूरागमनं चैव नागलोकस्य दर्शनम् ॥ १४॥
धनुर्भङ्गस्य कथनं कंसवाक्यमतः परम् ।
कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा ॥ १५॥
कंसस्य निधनं चापि विलापः कंसयोषिताम् ।
उग्रसेनाभिषेकश्च यादवाश्वासनं तथा ॥ १६॥
प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः ।
मथुरायाश्चोपरोधो जरासन्धनिवर्तनम् ॥ १७॥
विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।
गोमन्तारोहणं चापि जरासन्धगतिस्तथा ॥ १८॥
गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः ।
शृगालस्य वधस्तत्र मथुरागमनं ततः ॥ १९॥
यमुनाकर्षणं चैव मथुरापक्रमस्तथा ।
उपायेन वधः कालयवनस्य प्रकीर्तितः ॥ ३.१३४.२०॥
निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा ।
विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा ॥ २१॥
बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च ।
नरकस्य वधः पारिजातस्य हरणं तथा ॥ २२॥
द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् ।
द्वारकायां प्रवेशश्च सभायां च प्रवेशनम् ॥ २३॥
नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।
षट्पुरस्य वधाख्यानमन्धकस्य निबर्हणम् ॥ २४॥
समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम् ।
तथा भैमप्रवीराणां मधुपानप्रवर्तकम् ॥ २५॥
ततश्छालिक्यगान्धर्वसमुदाहरणं हरेः ।
भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम् ॥ २६॥
शम्बरस्य वथश्चैव धन्योपाख्यानमेव च ।
वासुदेवस्य माहात्म्यं बाणयुद्धं प्रपञ्चितम् ॥ २७॥
भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितम् ।
वाराहं नारसिंहं च वामनं बहुविस्तरम् ॥ २८॥
कैलासयात्रा कृष्णस्य पौण्ड्रकस्य वधस्ततः ।
हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः ॥ २९॥
पुरत्रयस्य संहार इति वृत्तान्तसङ्ग्रहः ।
कथितो नृपशार्दूल सर्वपापप्रणाशनः ॥ ३.१३४.३०॥
वृत्तान्तं शृणुयाद्यस्तु सायम्प्रातः समाहितः ।
स याति वैष्णवं धाम लब्धकामः कुरूद्वह ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥ ३१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वृत्तान्तसङ्ग्रहे चतुष्त्रिंशदधिकशततमोऽध्यायः ॥ १३४॥
३.१३५ पञ्चत्रिंशदधिकशततमोऽध्यायः
हरिवंशश्रवणफलं महाभारतसमाप्तिश्च Benefits of listening to harivamsha - mahAbhArata concluded
हरिवंशश्रवणस्य दक्षिणा, फलं एवं माहात्म्यस्य वर्णनं
जनमेजय उवाच ।
हरिवंशे पुराणे तु श्रुते मुनिवरोत्तम ।
किं फलं किं च देयं वै तद् ब्रूहि त्वं ममाग्रतः ॥ १॥
वैशम्पायन उवाच ।
हरिवंशे पुराणे तु श्रुते च भरतोत्तम ।
कायिकं वाचिकं चैव मनसा समुपार्जितम् ॥ २॥
तत् सर्वं नाशमायाति तमः सूर्योदये यथा ।
अष्टादशपुराणानां श्रवणाद् यत्फलं भवेत् ॥ ३॥
तत् फलं समवाप्नोति वैष्णवो नात्र संशयः ।
श्लोकार्धं श्लोकपादं वा हरिवंशसमुद्भवम् ॥ ४॥
शृण्वन्ति श्रद्धया युक्ता वैष्णवं पदमाप्नुयुः ।
जम्बूद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ॥ ५॥
भविष्यन्ति नरा राजन् सत्यं सत्यं वदाम्यहम् ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥ ६॥
दक्षिणा चात्र देया वै निष्कत्रयसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥ ७॥
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंयुताम् ।
वाचकाय प्रदद्याद् वै आत्मनः श्रेयकाङ्क्षया ॥ ८॥
अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ ।
कर्णस्याभरणं दद्याद् यानं च सविशेषतः ॥ ९॥
भूमिदानं समादद्याद् ब्राह्मणाय नराधिप ।
भूमिदानसमं दानं न भूतं न भविष्यति ॥ ३.१३५.१०॥
शृणोति श्रावयेद् वापि हरिवंशं तु यो नरः ।
सर्वथा पापनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥ ११॥
पितॄनुद्धरते सर्वानेकादशसमुद्भवान् ।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥ १२॥
दशांशश्चात्र होमो वै कार्यः श्रोत्रा नराधिप ।
इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ ॥ १३॥
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
अपुत्रः पुत्रमाप्नोति अधनो धनमाप्नुयात् ॥ १४॥
नरमेधाश्वमेधाभ्यां यत् फलं प्राप्यते नरैः ।
तत् फलं लभते नूनं पुराणश्रवणाद्धरेः ॥ १५॥
ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः ।
सकृत्पुराणश्रवणात् पूतो भवति नान्यथा ॥ १६॥
इदं मया ते परिकीर्तितं महच्छ्रीकृष्णमाहात्म्यमपारमद्भुतम् ।
शृण्वन् पठन्नाशु समाप्नुयात्फलं यच्चापि लोकेषु सुदुर्लभं महत् ॥ १७॥
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां खिलभागे हरिवंशे भविष्यपर्वणि श्रवणफलकथने पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ १३५॥
॥ हरिवंशपर्व सम्पूर्ण ॥
९९९ श्रीहरिवंशमाहात्म्यं
श्रीपरमात्मने नमः ।
०.१ प्रथमोऽध्यायः
हरिवंशश्रवणस्य माहात्म्यं, नार्याः पञ्च दोषाणि, हरिवंशश्रवणेन तेषां निवृत्तिः,
पाठस्य उत्तम, मध्यमादि भेदाः, गोव्रतस्य विधिः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति ॥ २॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ३॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत् पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥
जनमेजय उवाच ।
त्वया मे भगवन् प्रोक्तो भारतश्रवणे विधिः ।
श्रवणे हरिवंशस्य विशेषाद् वद मे विधिम् ॥ ५॥
वैशम्पायन उवाच ।
ब्रह्मविष्णुमहेशानां हरिवंशं जगुर्वपुः ।
शब्दब्रह्ममयं विद्धि हरिवंशं सनातनम् ॥ ६॥
शाब्दे ब्रह्मणि निष्णातः परब्रह्माधिगच्छति ।
हरिवंशपुराणे तु श्रुते वै राजसत्तम ॥ ७॥
कायिकं वाचिकं पापं मनसा समुपार्जितम् ।
तत् सर्वं नाशमायाति तमः सूर्योदये यथा ॥ ८॥
अष्टादशपुराणानां श्रवणाद् यत् फलं लभेत् ।
तत् फलं समवाप्नोति वैष्णवो नात्र संशयः ॥ ९॥
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः ।
जम्बूद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ॥ १.१०॥
भविष्यन्ति नरा राजन् सत्यंसत्यं वदाम्यहम् ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥ ११॥
बालघाती च पुरुषो मृतवत्सः प्रजायते ।
श्रवणं हरिवंशस्य कर्तव्यं च यथाविधि ॥ १२॥
गुरुचन्द्राग्निसूर्याणां सम्मुखे मेहते च यः ।
बीजमुसृज्यते तेन त्यक्तरेता नरो भवेत् ॥ १३॥
योषित्पुष्पफलानां च बालानां घातिनी तथा ।
फलानां कर्तनकरी मातापितृवियोगिनी ॥ १४॥
स्राविणी परगर्भाणां तत् तत् प्रायोपजोषिणी ।
ईदृग्विधा भविष्यन्ति पञ्चदोषयुताः स्त्रियः ॥ १५॥
अपुष्पा मृतवत्साश्च काकवन्ध्यास्तथैव च ।
कन्याप्रजात्वं च तथा स्रावयुक्ताः स्वपातकैः ॥ १६॥
तासां दोषापहारार्थं हरिवंशोऽभिगर्जति ।
मदीयश्रवणात्सद्यो दोषा नश्यन्ति सत्वरम् ॥ १७॥
नरः सुवर्णं सर्पिश्च पददानैः समन्वितम् ।
दशावृत्तीः शृणोत्येवं बीजसाफल्यमाप्नुयात् ॥ १८॥
दशावृत्तीरपुष्पार्थं मृतवत्सा तु सप्त वै ।
पञ्चावृत्तीः स्रवद्गर्भा काकवन्ध्या त्रयं तथा ॥ १९॥
कन्याप्रसूश्चैकावृत्तिं श्रुत्वा पुत्रमवाप्नुयात् ।
जीवितावधिकं श्राव्यं सर्वदोषोपशान्तये ॥ १.२०॥
भविष्यं जन्मसम्प्राप्य न भवेत् तादृशी पुनः ।
उत्तमं सार्थपाठं च मध्यमं च निरर्थकम् ॥ २१॥
विनार्थं शुद्धपाठश्चेदुत्तमेन समो भवेत् ।
नवाहमुत्तमं प्रोक्तमेकविंशाह मध्यमम् ॥ २२॥
निकृष्टमेकत्रिंशाहं सुखसाध्यं समाचरेत् ।
बहुभिर्दिवसै राजन् साध्यानां साधनं कलौ ॥ २३॥
तेन पारायणं साध्यं प्रोक्तं नारायणात्मना ।
नवाहो गर्जति कलौ चैकविंशाहिकस्तथा ॥ २४॥
एकत्रिंशाहिको यज्ञो वन्ध्यादोषविनाशकः ।
गोव्रतं तु स्त्रिया कार्यं पारणं पुरुषेण च ॥ २५॥
श्रवणारम्भणे राजन् यथावत् कथयामि ते ।
अवसायान्तपर्यन्तं कार्यं मासव्रतं शुभम् ॥ २६॥
चतुर्थ्यां प्रातरुत्थाय स्त्रिया हृष्टेन चेतसा ।
गोव्रतं नियतं कार्यं निराहारं निरूदकम् ॥ २७॥
सृर्यास्तकालपर्यन्तं यावद्ग्रामागमो भवेत् ।
आगतां च सवत्सां हि पूजयित्वा यथाविधि ॥ २८॥
यवसं पुष्कलं दत्त्वा यवान्नं कुरुते स्वयम् ।
एवं मासे चतुर्थ्यां सा शुक्लायां व्रतमाचरेत् ॥ २९॥
स्त्रीव्रतं कथितं राजन् पुरुषस्य तथैव च ।
एवं मासव्रतं कृत्वा सुपुत्रं लभते ध्रुवम् ॥ १.३०॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम प्रथमोऽध्यायः ॥ १॥
०.२ द्वितीयोऽध्यायः
(१)हरिवंशश्रवणस्य विधिः फलं च
वैशम्पायन उवाच ।
अथ ते सम्प्रवक्ष्यामि नवाहश्रवणे विधिम् ।
सहायैर्बहुभिश्चैव प्रायः साध्यो विधिस्त्वयम् ॥ १॥
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः ।
विवाहे यादृशं वित्तं तादृशं परिकल्प्य च ॥ २॥
नभस्यश्चाश्विनोर्जौ च मार्गशीर्षः शुचिर्नभः ।
एते मासाः कथारम्भे श्रोतॄणां कामसूचकाः ॥ ३॥
सहायाश्च त एवात्र कर्तव्याः सोद्यमाश्च ये ।
देशे देशे तथा सेयं वार्ता प्रोच्या प्रयत्नतः ॥ ४॥
भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ।
देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ॥ ५॥
तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम् ।
सतां समाजो भविता नवरात्रं सुदुर्लभः ॥ ६॥
आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ।
तीर्थे वापि वने वापि गृहे वा श्रवणं स्मृतम् ॥ ७॥
विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ।
शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ॥ ८॥
गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ।
कर्तव्यो मण्डपः प्रोच्चैः कदलीस्तम्भमण्डितः ॥ ९॥
फलपुष्पदलैर्विष्वग्वितानेन विराजितः ।
चतुर्दिक्षु ध्वजारोपस्तोरणेन विराजितः ॥ २.१०॥
ऊर्ध्वं सप्तैव लोकाश्च सप्ताधः परिकल्पयेत् ।
तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य वै ॥ ११॥
पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरम् ।
वक्तुश्चापि तथा दिव्यमासनं परिकल्पयेत् ॥ १२॥
उदङ्मुखो भवेद् वक्ता श्रोता वै प्राङ्मुखस्तथा ।
प्राङ्मुखोऽथ भवेद् वक्ता श्रोता चोदङमुखस्तथा ॥
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशारदः ।
दृष्टान्तकुशलो धीरो वक्ता कार्यो दयान्वितः ॥ १४॥
वेदवेदान्ततत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ।
नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते ॥ १५॥
अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः ।
नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ॥ १६॥
अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।
धर्मशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥ १७॥
वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः ।
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ १८॥
वक्त्रा क्षौरं प्रकर्तव्यं दिनादर्वाग् व्रताप्तये ।
वक्तुः श्रोतुश्चन्द्रशुद्धौ दम्पत्योः शुभतारके ॥ १९॥
अरुणोदये विनिर्वर्त्य शौचं स्नानं समाचरेत् ।
नित्यं सङ्क्षेपतः कृत्वा सन्ध्याद्यं प्रयतस्ततः ॥ २.२०॥
सुक्षालितपाणिपादः स्वस्तिवाचनपूर्वकम् ।
गोमयोपलिप्तदेशे सर्वतोभद्रकल्पनम् ॥ २१॥
स्वीयशक्त्यनुसारेण पूजनं सर्वमाचरेत् ।
कथाविघ्नविनाशाय गणनाथं प्रपूजयेत् ॥ २२॥
सलक्ष्मीपुत्रसहितं गोपालं स्थापयेत् ततः ।
निर्विघ्नेनैव सिद्ध्यर्थं देवपूजनपूर्वकम् ॥ २३॥
सङ्कल्पं कुर्यात्-
अद्येहेत्यादिदेशकालौ स्मृत्वा अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः सपत्नीकस्य मम जन्मनि जन्मनि सञ्चितमहापातकपटलनाशपूर्वकं तेन पापसञ्चयेन कृतसन्तानबाधकताविनाशपूर्वकमिह जन्मनि सन्तानोत्पत्तिहेतवे तस्य सन्तानस्य शरदां
शतमायुषो वृद्ध्यर्थमात्मनश्च सकलसुखाप्तिहेतवे इह शरीरशुद्धयर्थं परत्र चेन्द्रादिलोकातिक्रमणपूर्वकश्रीमद्विष्णुभक्त्युद्रेकजनितकल्पावधितल्लोकगमन तत्र वासपूर्वक तत्स्वरूपावाप्तिहेतवे आवां दम्पती श्रीमद्धरिवंशपुराणश्रवणं कर्तृकतया करिष्यावहे ।
अन्यतरकर्तृत्वे करिष्ये इत्येव सङ्कल्पः ।
इति कृत्वा तु सङ्कल्पं वक्तारं वृणुयात्ततः ।
श्रुताध्ययनसम्पन्नं पूजयित्वा यथाविधि ॥ २४॥
सुवर्णमुद्रिकां गृह्य कुण्डले च विशेषतः ।
धौतवस्त्रं सोत्तरीयं चोष्णीषेण समन्वितम् ॥ २५॥
सुवर्णषोडशपलं पुष्पताम्बूलसंयुतम् ।
पूगीफलं चाक्षतान् वै गृहीत्वा शुद्धमानसः ॥ २६॥
सङ्कल्पः -
अद्येहेत्यादि अमुकगोत्रममुकशर्माणं ब्राह्मणमेभिश्चन्दनताम्बूलसुवर्णवस्त्रादिभिर्हरिवंशश्रवणे वाचकत्वेनावां दम्पती त्वां वृणीवहे ।
वृतोऽस्मीति तेनोक्ते-
व्रतेन दीक्षामाप्नोति इति मन्त्रेण वक्तुर्दक्षिणकरमूले रक्षाबन्धनं कार्यं । ब्राह्मणेन श्रोतॄणां रक्षाबन्धनं कार्यम् ।
(३)यजमानः व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥
चन्दनाद्युपचारैस्तु वस्त्रपुष्पाक्षतैस्तथा ।
हेमालङ्करणैः पूगैः फलैरृतुसमुद्भवैः ॥ २७॥
पुराणपूजनं प्रोक्तं विधिना षोडशेन तु ।
पूजयित्वा द्विजश्रेष्ठाञ्श्रवणं फलदं स्मृतं २८॥
तस्मात् सर्वप्रयत्नेन श्रोतव्यं विधिपूर्वकम् ।
अथ व्यासं नमस्कुर्युर्मन्त्रमेतमुदीरयेत् ॥ २९॥
नमस्ते भगवन् व्यास सर्वशास्त्रार्थकोविद ।
ब्रह्मविष्णुमहेशानमूर्ते सत्यवतीसुत ॥ २.३०॥
इति व्यासं नमस्कृत्य शुभदेशे कुशासने ।
उपविश्य प्रतिदिनमुल्लसत्प्रीतमानसः ॥ ३१॥
बालो युवाथ वृद्धो वा दरिद्रो दुर्बलोऽपि वा ।
पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ॥ ३२॥
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ ३३॥
गुरवः सन्ति लोकस्य जन्मतो गुणतश्च ये ।
तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः ॥ ३४॥
भवकोटिसहस्रेषु भूत्वा भूत्वा च सीदते ।
यो ददाति पुण्यवृत्तिं कोऽन्यस्तस्मात्परो गुरुः ॥ ३५॥
पुराणज्ञः शुचिर्दान्तः शान्तोऽपि जितमत्सरः ।
साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधीः ॥ ३६॥
व्यासासनसमारूढो यदा पौराणिको द्विजः ।
आ समाप्तेः प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥ ३७॥
ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ।
तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ॥ ३८॥
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।
देशे नापूतसदने वदेत् पुण्यकथां सुधीः ॥ ३९॥
सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ।
पुण्ये नदनदीतरे वदेत् पुण्यकथां सुधीः ॥ २.४०॥
ईदृशाद् वाचकाद् राजञ्छ्रुत्वा फलमवाप्नुयात् ।
ऐहिकामुष्मिकं शर्म पुण्यं पुत्रादिसिद्धिदम् ॥ ४१॥
महापापादिशमनं पुराणं हरिवंशकम् ।
योज्यं पुत्रादिसिद्ध्यर्थं हरिवंशं जितेन्द्रियैः ॥ ४२॥
शृणुयात् सर्वभावेन पुण्यं पापप्रणाशनम् ॥ ४३॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम द्वितीयोऽध्यायः ॥ २॥
०.३ तृतीयोऽध्यायः
(२)हरिवंशश्रवणस्य विधिः फलं च
वैशम्पायन उवाच ।
जपाद्धि श्रवणं प्रोक्तं हरिवंशस्य सूरिभिः ।
पितॄन् सन्तर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ॥ १॥
सुमण्डपं च कर्तव्यं तत्र स्थाप्यो हरिस्तथा ।
कृष्णमुद्दिश्य मन्त्रेण चरेत्पूजाविधिं क्रमात् ॥ २॥
प्रदक्षिणानमस्कारान् पूजान्ते स्तुतिमाचरेत् ।
संसारसागरे मग्नं दीनं मां करुणानिधे ॥ ३॥
कर्मग्राहगृहीतोऽहं मामुद्धर भवार्णवात् ।
ततः श्रीहरिवंशस्य पूजा कार्या प्रयत्नतः ॥ ४॥
विधिना षोडशेनैव धूपदीपसमन्विता ।
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ॥ ५॥
स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ।
स्वीकृतोऽसि मया नाथ पुत्रार्थं भवसागरे ॥ ६॥
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।
निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव ॥ ७॥
एवं दीनवचः प्रोक्त्वा वक्तारं चाथ पूजयेत् ।
सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत् ॥ ८॥
व्यासरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ९॥
तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।
नवरात्रं यथाशक्त्या धारणीयः स एव हि ॥ ३.१०॥
वरणं पञ्चविप्राणां कथाभङ्गनिवृत्तये ।
कर्तव्यं तैर्हरेर्जाप्यं द्वादशाक्षरविद्यया ॥ ११॥
सन्तानगोपालमन्त्रो महारुद्रजपस्तथा ।
पूजनं पार्थिवस्यैव गणनाथमनोर्जपः ॥ १२॥
ब्राह्मणान् वैष्णवांश्चान्यांस्तथा कीर्तनकारिणः ।
नत्वा सम्पूज्य दत्ताज्ञः स्वयमासनमाविशेत् ॥ १३॥
लोकवित्तधनागारसर्वचिन्ता व्युदस्य च ।
कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् ॥ १४॥
दम्पती शुद्धमनसौ श्रद्धाभक्तिसमन्वितौ ।
श्रद्धैव सर्वधर्माणां मातेव हितकारिणी ॥ १५॥
श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ।
श्रद्धया भजतः पुंसः शिलापि फलदायिनी ॥ १६॥
मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति ज्ञानदः ।
श्रद्धया भजतो मन्त्रस्त्वसद् योऽपि फलप्रदः ॥ १७॥
श्रद्धया पूजितो देवो नीचस्यापि वरप्रदः ।
अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ॥ १८॥
सर्वं निष्फलतां याति पुष्पं बन्धुतरोरिव ।
सर्वत्र संशयाविष्टः भद्धाहीनोऽतिचञ्चलः ॥ १९॥
परमार्थात् परिभ्रष्टः संसृतेर्न हि मुच्यते ।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥ ३.२०॥
यादशी भावना यस्य सिद्धिर्भवति तादृशी ।
अतो भावमयं विश्वं पुण्यपापं च भावतः ॥ २१॥
ते उभे भावहीनस्य न भवेतां कदाचन ।
तस्मात्सर्वात्मना राजञ्छ्रद्धाभक्ती समाश्रयेत् ॥ २२॥
आ सूर्योदयमारभ्य सार्धं त्रिप्रहरार्धकम् ।
वाचनीया कथा सम्यग् धीरकण्ठं सुधीमता ॥ २३॥
कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयम् ।
तत् कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥ २४॥
एवं श्रुत्वा विधानेन सर्वान्कामानवाप्नुयात् ॥ २५॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम तृतीयोऽध्यायः ॥ ३॥
०.४ चतुर्थोऽध्यायः
नवाहव्रतिभ्यः श्रोताभ्यः पालनीयानि नियमानि, तेभ्यः त्याजनीयानि द्रव्याणां उल्लेखम्, न्यायविरुद्धेन कथाश्रवणीयानां दुर्गतिः, कथायां विघ्नकरणेन एका
नार्या नरकयातना एवं राक्षसयोनेः प्राप्तिः, श्रोतॄणां चतुर्दश भेदाः
वैशम्पायन उवाच ।
नवाहव्रतिनां पुंसां नियमाञ्छृणु सत्तम ।
एककालाशनश्चैव अधःशायी भवेन्नरः ॥ १॥
स्थातव्यं ब्रह्मचर्येण यावद् ग्रन्थः समाप्यते ।
हरिवंशे तथा राजन् पायसं चरुभोजनम् ॥ २॥
पारणे पारणे यातं यथावद् भरतर्षभ ।
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ॥ ३॥
हविष्यान्नेन कर्तव्यमेकवारं कथार्थिना ।
उपोष्य नवरात्रं वा शक्तिश्चेच्छृणुयात्तदा ॥ ४॥
घृतपानं पयःपानं कृत्वा वा शृणुयात्सुखम् ।
फलाहारेण वा भाव्यमेकभुक्तेन वा पुनः ॥ ५॥
सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत् ।
भोजनं तु वरं मन्ये कथाश्रवणकारकम् ॥ ६॥
नोपवासो वरः प्रोक्तो कथाविघ्नकरो यदि ।
शृणुयाद्यः शुचिस्तिष्ठन्नेकचित्ततया सदा ॥ ७॥
प्रातःस्नानादिकं कृत्वा पुत्रदारसमन्वितः ।
पुराणश्रवणं कुर्यात् कृष्णपूजनपूर्वकम् ॥ ८॥
पुष्पधूपफलैः सम्यङ् नैवेद्यैः श्रद्धयोद्धृतैः ।
गुरोः शुश्रूषणं तेन कर्तव्यं फलकाङ्क्षिणा ॥ ९॥
श्रुत्वा यथेच्छया शौचं कार्यं पुण्येन वर्त्मना ।
सायङ्काले गुरुश्रेष्ठं तोषयित्वा सबान्धवः ॥ ४.१०॥
स्वपरिग्रहसङ्गेन सुखं स्वपिति वै तदा ।
नियमादि प्रकर्तव्यं पापानां विनिवर्तने ॥ ११॥
यथासुखं व्यवहरेन्नित्यं विष्णुपरायणः ।
शुचिःशुद्धमनास्तिष्ठन् पत्रावल्यां च भोजनम् ॥ १२॥
कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ।
द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ॥ १३॥
भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती ।
वृन्ताकं च कलिङ्गं च दग्धमन्नं मसूरिकाम् ॥ १४॥
निष्पावानामिषाद्यं च वर्जयेच्च कथाव्रती ।
पलाण्डुं लशुनं हिङ्गुं मूलकं गृञ्जनं तथा ॥ १५॥
नालिकामूलकूष्माण्डं नैवाद्याच्च कथाव्रती ।
कामं क्रोधं मदं मानं मत्सरं लोभमेव च ॥ १६॥
दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ।
वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ॥ १७॥
स्त्रीराजमहतां निन्दां वर्जयेच्च कथाव्रती ।
रजस्वलान्त्यजम्लेच्छपतितव्रात्यकैः सह ॥ १८॥
द्विजद्विड्वेदबाह्यैश्च न वदेच्च कथाव्रती ।
सत्यं शौचं दया मौनमार्जवं विनयं तथा ॥ १९॥
उदारं मानसं तद्वत् कुर्यादेव कथाव्रती ।
श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥ ४.२०॥
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ।
अभक्त्या ये कथां पुण्यां शृण्वन्ति मनुजाधमाः ॥ २१॥
तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ।
पुराणं ये तु सम्पूज्य ताम्बूलाद्यैरुपायनैः ॥ २२॥
शृण्वन्ति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ।
कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः ॥ २३॥
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ।
सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम् ॥ २४॥
ते बलाका प्रजायन्ते पापिनो मनुजाधमाः ।
ताम्बूलं भक्षयन्तो ये कथां शृण्वन्ति पावनीम् ॥ २५॥
स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ।
नार्या रजस्वलायाश्च योनितुल्यं मुखं भवेत् ॥ २६॥
ये तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ।
अक्षय्यान्नरकान् भुक्त्वा ते भवन्त्येव वायसाः ॥ २७॥
ये च वीरासनारूढा ये च शय्यासनस्थिताः ।
शृण्वन्ति तत्कथां ते वै भवन्त्यर्जुनपादपाः ॥ २८॥
असम्प्रणम्य शृण्वन्तो विषवृक्षा भवन्ति ते ।
तथा शयानाः शृण्वन्तो भवन्त्यजगरा नराः ॥ २९॥
यः शृणोति कथां वक्रः समानासनमास्थितः ।
गुरुतल्पसमं पापं सम्प्राप्य नरकं व्रजेत् ॥ ४.३०॥
ये निन्दन्ति पुराणज्ञान् कथां वा पापहारिणीम् ।
ते वै जन्मशतं मर्त्याः शुनकाः सम्भवन्ति च ॥ ३१॥
कथायां वर्तमानायां ये वदन्ति दुरुत्तरम् ।
ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥ ३२॥
कदाचिदपि ये पुण्यां न शृण्वन्ति कथां नराः ।
ते भुक्त्वा नरकान् घोरान् भवन्ति वनशूकराः ॥ ३३॥
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये शठाः ।
कोट्यब्दान्नरकान्भुक्त्वा भवन्ति ग्रामसूकराः।३४॥
मध्ये वार्तां न कुर्वीत चेत् कुर्यान्निरयं व्रजेत् ।
कथायां श्रूयमाणायां न कुर्याच्छिशुलालनम् ॥ ३५॥
नर्मवादान् वदेन्नैव स्त्रिया सम्भाषणं तथा ।
न कर्तव्यं प्रयत्नेन कथाविच्छेदकारणम् ॥ ३६॥
विच्छेदेन कथायास्तु ब्रह्महत्यासमं त्वघम् ।
प्राप्नोति नृपशार्दूल कथाविच्छेदकः पुमान् ॥ ३७॥
न कुर्यात्तु कथामध्ये त्वन्यवार्ताः प्रयत्नतः ।
नारी वा पुरुषो वापि कुर्यान्निरयमाप्नुयात् ॥ ३८॥
इतिहासं वदाम्यत्र शृणुष्वैकं हि मानद ।
यं श्रुत्वा न वदेद् वार्तां कथामध्ये कदाचन ॥ ३९॥
जनस्थाने पुरा कश्चिद् ब्राह्मणो वेदपारगः ।
धर्मशास्त्रेऽतिनिपुणः सदाचारपरायणः ॥ ४.४०॥
गङ्गास्नानं विधायादौ कृत्वा माध्याह्निकं तथा ।
कृत्वा देवार्चनं चैव श्रवणे तत्परोऽभवत् ॥ ४१॥
तस्य भार्यातिदुष्टा च कर्कशा कलहप्रिया ।
असत्यालापनिपुणा परद्वेषपरायणा ॥ ४२॥
हृत्वा चक्रे धनस्यापि सङ्ग्रहं पापनिश्चया ।
दधि दुग्धं समानीय शर्करागुडमेव च ॥ ४३॥
घृतं च नवनीतं च स्वयमानीय सर्वदा ।
एकान्ते भक्षणं चक्रे भर्तर्यन्नं प्रशुष्ककम् ॥ ४४॥
दुराग्रहा दुष्टमनाः पतिनिन्दापरायणा ।
बहुपापप्रकर्त्री च परवेश्मोपवेशिनी ॥ ४५॥
सुभाषणं वदेन्नैव द्विषः क्षेमविधायिनी ।
पङ्क्तिभेदं प्रकुर्वाणा सदा निष्ठुरभाषिणी ॥ ४६॥
अतिथिषु सदा वैरकारिणी धर्मनाशिनी ।
सज्जनोऽपि गुणी सौम्यस्तस्या भर्ता सुपूजितः ४७॥
यदा भर्ता पुराणस्य श्रवणाय हि संस्थितः ।
प्रत्यहं तत्र गत्वा तु तस्य निन्दां चकार ह ॥ ४८॥
संन्यासिवत् कथं ह्यत्र श्रवणे व्यासवत् कृतः ।
समुत्पन्ननिरुद्योग किं कर्तव्यं मया वद ॥ ४९॥
शिशवो मां पीडयन्ति भक्षणाय दिने दिने ।
किं तेषां व प्रकर्तव्यं भक्षणार्थं मया वद ॥ ४.५०॥
नास्त्येवान्नं गृहे किञ्चिद् वस्त्रं वाप्यथवा धनम् ।
किं मया च प्रकर्तव्यं कुत्र गन्तव्यमेव च ॥ ५१॥
कथं विलिखितं दिष्टं धात्रा पापेन मे पुरा ।
मूर्खश्चालस्यसंयुक्तो दरिद्रो निष्ठुरस्तथा ॥ ५२॥
स्नेहहीनः कुटुम्बे च कथायाः श्रवणे रतः ।
एतादृशः पतिर्मह्यं धात्रा दत्तो दुरात्मना ॥ ५३॥
पृथिव्यां दुर्भगैकाहं दरिद्रगृहमागता ।
उदरापूर्तिमात्रं हि नान्नं मे भक्षितं कदा ॥ ५४॥
सौभाग्यास्ताः स्त्रियो लोके यासामुद्योगशालिनः ।
पतयो धनधान्यादिसमृद्धिपरिशोभिताः ॥ ५५॥
ते वै स्त्रीणां वाक्यकराः शिशुपालनतत्पराः ।
नित्यं गृहेषु तिष्ठन्ति स्त्रीणां सन्तोषकारकाः ॥ ५६॥
सदन्नभक्षणात् पुष्टा भार्याज्ञापरिपालकाः ।
व्यवसायं च भार्याणां कुर्वन्ति बुद्धिशालिनः ॥ ५७॥
अयं मूर्खश्च जडधीरुपेक्षां कुरुते गृहे ।
अद्य तैलं गृहे नास्ति चेन्धनं लवणं तथा ॥ ५८॥
शाकश्च मम नास्त्येव धान्यलेशो न मद्गृहे ।
किं मया तु प्रकर्तव्यं पतिरेतादृशो मम ॥ ५९॥
कथायां श्रूयमाणायां पत्या सन्मार्गमूर्तिन्ना ।
धान्यादौ विद्यमानेऽपि मिथ्याभाषणतत्परा ॥ ४.६०॥
कथाविघ्नं चकारासौ कर्कशा सा दिने दिने ।
ततः कालेन मरणं प्राप्ता सा दुष्टमानसा ॥ ६१॥
यमदूतैस्तु बद्धा सा नीता च यममन्दिरे ।
ततो यमाज्ञया तैस्तु नरके पातिता चिरम् ॥ ६२॥
पश्चात् सा राक्षसी जाता भैरवे जलवर्जिते ।
अरण्ये क्षुत्तृषायुक्ता पूर्वपापप्रभावतः ॥ ६३॥
तस्माद् विघ्नं न कर्तव्यं भार्यया पुरुषेण वा ।
श्रीहरेः सत्कथायास्तु तव सत्यं वदाम्यहम् ॥ ६४॥
मीनालिनो महिषहंसबकस्वभावा मार्जारकाकवृककङ्कजलौकतुल्याः ।
सच्छिद्रकुम्भजलसिन्धुशिलोपमाश्च ते श्रावकाश्च सुचतुर्दशधा भवन्ति ॥ ६५॥
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।
अनपत्यो मोक्षकामः शृणुयात् स कथामिमाम् ॥ ६६॥
अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।
स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः ॥ ६७॥
सुपुत्रं लभते राजन् व्यासस्य वचनं यथा ।
सर्वान्कामानवाप्नोति कथां श्रुत्वा हरेरिमाम् ॥ ६८॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम चतुर्थोऽध्यायः ॥ ४॥
०.५ पञ्चमोऽध्यायः
हरिवंशस्य नवाह-पारायणस्य उद्यापनं, तस्मिन् क्रियमाणानि दानानि, पुस्तकपूजा, वाचकपूजनादिविधानं माहात्म्यं च
वैशम्पायन उवाच ।
एवं कृत्वा व्रतविधिमुद्यापनमथाचरेत् ।
जन्माष्टमीव्रतमिव कर्तव्यं फलकाङ्क्षिभिः ॥ १॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनग्रहः ।
श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥ २॥
एवं नवाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।
पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ॥ ३॥
प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।
मृदङ्गतालललितं कीर्तनं कीर्त्यतां ततः ॥ ४॥
जयशब्दो नमःशब्दः शङ्खशब्दश्च गीयताम् ।
विप्रेभ्यो याचकेभ्यश्च वित्तमन्नं च दीयताम् ॥ ५॥
श्रवणान्ते हरेर्मूर्तिः सश्रीकस्य प्रदीयताम् ।
सुवर्णस्य कृता सम्यग्लक्ष्म्यङ्का पलमानतः ॥ ६॥
समाप्तौ विधिवद् वस्त्रं क्षौमं दद्याच्च वाचके ।
विशेषोऽयं समुद्दिष्टो मुनिभिस्तत्त्वदर्शिभिः ॥ ७॥
समाप्य सर्वं प्रयतः संहिताशास्त्रकोविदः ।
शुभे दिने निवेश्याथ क्षौमवस्त्राभिसंवृतः ॥ ८॥
शुक्लाम्बरधरस्तत्र शुचिर्भूत्वा स्वलङ्कृतः ।
अर्चयत्तु यथान्यायं गन्धमाल्यैः पृथक्पृथक् ॥ ९॥
सहितापुस्तकं तत्र प्रयतः सुसमाहितः ।
भक्ष्यैर्भोज्यैश्चापूपैश्च कौतुकैर्विविधैः शुभैः ॥ ५.१०॥
हिरण्यमन्यद् द्रव्यं च दक्षिणां तत्र दापयेत् ।
ये श्रावयन्ति मनुजान्पुण्यां पौराणिकीं कथाम् ॥ ११॥
कल्पकोटिशतं साग्रं यान्ति ते ब्रह्मणः पदे ।
आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः ॥ १२॥
कम्बलाजिनवासांसि मञ्चाफलकमेव च ।
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥ १३॥
स्थित्वा ब्रह्मादिलोकेषु पदं यान्ति निरामयम् ।
पुराणस्य प्रयच्छन्ति ये सूत्रवसनं नवम् ॥ १४॥
भोगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ।
ये महापातकैर्युक्ता उपपातकिनश्च ये ॥ १५॥
पुराणश्रवणादेव ते यान्ति परमं पदम् ।
हरिवंशं लिखित्वा यो वाचकाय प्रदापयेत् ॥ १६॥
यत्फलं भूमिदानस्य तत् फलं लभते हि सः ।
राजसूयेन तेनेष्टमश्वमेधेन वै नृप ॥ १७॥
दत्तानि सर्वदानानि हरिवंशे श्रुतेऽखिले ।
राजसूयाश्वमेधाद्या यज्ञाश्चैव युगे युगे ॥ १८॥
श्रवणं हरिवंशस्य कलौ यज्ञफलप्रदम् ।
श्रद्धावानास्तिको दान्तो हरिवंशं यदारभेत् ॥ १९॥
पातकानि प्रकम्पन्ते प्रत्यूहानि ज्वलन्ति च ।
समारभ्य नयेत् पारं हरिवंशं य आदितः ॥ ५.२०॥
स्पर्शनाद् दर्शनात्तस्य विष्णुर्दृष्टो भवेन्नृप ।
जन्मत्रयस्य निकषः पातकस्य क्षयो धुवम् ॥ २१॥
फलाप्तिश्च समाप्तौ च हरिवंशस्य बुद्ध्यते ।
श्रोतुर्भारत विज्ञेयं पूर्वं सुकृतिलक्षणम् ॥ २२॥
येन सञ्जायते बुद्धिर्हरिवंशावधारणे ।
सर्वाणि च पुराणानि वेदाश्च स्मृतयस्तथा ॥ २३॥
हरिवंशेन बद्धार्था व्यासेन च महर्षिणा ।
श्रुतिस्मृतिपुराणानां निन्दकेभ्यः कथञ्चन ॥ २४॥
पापिभ्यश्च महाराज श्रावयेन्नैव वाचकः ।
श्रुत्या तुष्टेन मनसा वाचकं परिपूजयेत् ॥ २५॥
दान्तं यशस्विनं कान्तं शुचिं स्पष्टाक्षरब्रुवम् ।
त्रिशुक्लमाचारपरमक्रोधनमवादिनम् ॥ २६॥
ग्रामं दद्यात्सुवसितं कुण्डलोष्णीषमालिकाम् ।
पादुकोपानहौ छत्रं सवितानं मसूरिकाम् ॥ २७॥
एवं कृत्वा तु विधिवद् वाचकाय प्रदापयेत् ।
यानं बार्षं हयगजौ क्षौमं मणिमयासनम् ॥ २८॥
पञ्च भाण्डानि ताम्रस्य ताम्रस्यैवाम्बुभाजनम् ।
सकुटुम्बं च सस्त्रीकं वाचकं परया मुदा ॥ २९॥
विभूषणैरलङ्कृत्य परिधाय्य सुवाससी ।
कृष्णद्वैपायनं ध्यायन् नमस्कुर्वीत भावतः ॥ ५.३०॥
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।
वित्तशाठ्यं न कर्तव्यं हरिवंशफलेप्सुभिः ॥ ३१॥
प्रदेया गौः शुभा चैका सवत्सा हेमपूरिता ।
पलेन च पलार्धेन तदर्धं वाथ वा पुनः ॥ ३२॥
वाचकं येन केनापि तोषयेत् सुसमाहितः ।
तुष्टे तु वाचके राजंस्तुष्टाः स्युः सर्वदेवताः ॥ ३३॥
तुष्टेषु सर्वदेवेषु कार्यं तु सफलं भवेत् ।
हरिवंशे समाप्ते तु वाचके परिपूजिते ॥ ३४॥
ऋणत्रयेण मुक्ताः स्युस्ते नरा जनमेजय ।
मोदन्ते पितरस्तेषां लोकान् प्राप्याक्षयान्नृप ॥ ३५॥
हरिवंशस्य प्रारम्भे समाप्तौ चैव तैः सह ।
सर्वान् कामानवाप्नोति विपाप्मा जायते नरः ॥ ३६॥
एवं कृते विधाने तु प्रजां प्राप्नोति मानवः ।
धनमारोग्यमायुष्यं सौभाग्यं गुणगौरवम् ॥ ३७॥
प्राप्नोति मनुजः सम्यङ्नात्र कार्या विचारणा ॥ ३८॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम पञ्चमोऽध्यायः ॥ ५॥
०.६ षष्ठोऽध्यायः
हरिवंशारम्भाय उत्तममास, तिथि, नक्षत्रादीनां निर्देशः, देवपूजनं,
व्यासपूजनं एवं कथासमाप्त्योपरि दीयमाना दक्षिणा एवं दानादीनां
उल्लेखं, श्रवणस्य माहात्म्यं
जनमेजय उवाच ।
प्रारम्भस्तु कथं कार्यः कथं पूजाविधिः स्मृतः ।
कथं विसर्जयेद्व्यासं कथं सम्यक्फलं लभेत् १॥
वैशम्पायन उवाच ।
शृणु राजन् यथावन्ध्या सन्ततिं लभते ध्रुवम् ॥ २॥
वैशाखे माघ ऊर्जे च अन्यस्मिञ्छुभमासके ।
शुक्लपक्षे तिथौ पूर्णा नन्दा भद्रा जयासु च ॥ ३॥
वारे गुरौ तथा शुक्रे चन्द्रे चन्द्रात्मजे तथा ।
नक्षत्रे श्रवणे हस्ते पुष्ये मूले पुनर्वसौ ॥ ४॥
वासवे तुहिनांशौ च पौष्णे च हयतारके ।
सौभाग्यादिषु योगेषु करणे विष्टिवर्जिते ॥ ५॥
श्रोतुऽश्चाथापि वक्तुश्च चन्द्रे च बलशालिनि ।
पूर्वाह्णे चापि मध्याह्ने प्रारम्भः क्रियते बुधैः ॥ ६॥
आदौ लम्बोदरः पूज्यः कलशस्तु ततः परम् ।
श्रीखण्डागुरुकर्पूरकुङ्कुमामोदलेपनैः ॥ ७॥
पङ्कजैश्चम्पकैरन्यैर्जातीपुष्पैः सुगन्धिभिः ।
तुलसीबिल्वधात्रीणां पत्रैरन्यैर्नवाङ्कुरैः ॥ ८॥
धूपैर्दीपैश्च विविधैर्नारिकेलफलादिभिः ।
ताम्बूलैर्मुखवासैश्चाखण्डितैः शुक्लतण्डुलैः ॥ ९॥
चामरैर्व्यजनैश्चैव घण्टावाद्यादिभिस्तथा ।
प्रत्यहं पूजयेद् देवं यावद् ग्रन्थः समाप्यते ॥ ६.१०॥
लत्तादिदोषरहिते वारे च शुभसंज्ञके ।
समर्पयेत् पुराणं तु ततः पूजां समाचरेत् ॥ ११॥
प्रारम्भे च यथा पूजा तथा कार्या विसर्जने ।
चन्दनागुरुकर्पूरकुङ्कुमैर्गन्धकादिभिः ॥ १२॥
गीतवादित्रनृत्यैश्च राजन् कार्यो महोत्सवः ।
ततः पुराणपूजायां यथा दानं तथा शृणु ॥ १३॥
अष्टादशशतं दानं पुराणाय समर्पयेत् ।
अभावे द्वादशशतं पूजा वै जनमेजय ॥ १४॥
तदभावेऽपि राजेन्द्र षट्शतं परिकीर्तितम् ।
उत्तमं मध्यमं दानमधमं च प्रकीर्तितम् ॥ १५॥
सपत्नीकं ततो व्यासं दुकूलैरंशुकैर्नवैः ।
पूजयेत् सर्वभावेन स सम्यक् फलमश्नुते ॥ १६॥
परिधेयानि देयानि कुण्डलानि शुभानि च ।
मुकुटाद्यैरलङ्कृत्य केयूराङ्गदभूषणैः ॥ १७॥
गावस्तु कपिला देयाः सवत्सा गर्भसंयुताः ।
यानमश्वादिकं राजन्दासीदासान् समर्पयेत् ॥ १८॥
आसनं पुरुषव्याघ्र धूपदीपादि भाजनम् ।
शय्या तूलादिकं सर्वं सोपधानं सलड्डुकम् ॥ १९॥
स्थाली पीठादिकं राजञ्जलपात्रं तथैव च ।
अन्नं च बहु दातव्यं लवणं जनमेजय ॥ ६.२०॥
घृततैलादिकं राजन् यावद् वर्षं समाप्यते ।
एतत् सर्वं द्विजेन्द्राय व्यासासनगताय च ॥ २१॥
मनोऽभीष्टं वरं लब्ध्वा ततः कुर्यात्प्रदक्षिणाम् ।
पारणान्ते तु राजेन्द्र द्विजेन्द्रं रुद्रजापिनम् ॥ २२॥
वस्त्रादिभिरलङ्कृत्य मुद्रिकाभिस्तथैव च ।
नवीनं कम्बलं शुभ्रं ताम्रपात्रं तथैव च ॥ २३॥
द्विजं द्विजं समुद्दिश्य दातव्या दक्षिणा बहु ।
ततोऽभिषेकसंयुक्तं गुडं चैव पुरोधसम् ॥ २४॥
वस्त्रादिभिरलङ्कृत्य दक्षिणाभिश्च तोषयेत् ।
ततोऽन्यान्ब्राह्मणान्सर्वान्दक्षिणाभिः समर्चयेत् ॥ २५॥
हवनं च तथा राजन् कर्तव्यं कर्मशान्तये ।
प्रतिश्लोकं च जुहुयाद् दशांशेनैव वा पुनः ॥ २६॥
पायसं मक्षु सर्पिश्च तिलान्नादिकसंयुतम् ।
अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ॥ २७॥
तन्मयत्यात्पुराणस्य परमस्यास्य तत्त्वतः ।
होमाशक्तौ बुधो हेम दद्यात् तत्फलसिद्धये ॥ २८॥
नानाच्छिद्रनिरोधार्थं न्यूनताधिकताख्ययोः ।
दोषयोः प्रशमार्थं च पठेन्नामसहस्रकम् ॥ २९॥
तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः ।
भोजयेन्मिथुनान्येव चतुर्विंशतिमादरात् ॥ ६.३०॥
ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान् ।
तोषयेद् दक्षिणाहेमैर्धान्यै रत्नादिभिस्तथा ॥ ३१॥
भुक्तवत्सु च विप्रेषु यथावत्समया च तान् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलङ्कृतम् ॥ ३२॥
सपत्नीकं च सन्तोष्य वस्त्रालङ्करणादिभिः ।
ब्राह्मणेषु प्रसन्नेषु प्रसन्नास्तस्य देवताः ॥ ३३॥
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वसिद्धये ॥ ३४॥
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।
तत्रास्य पुस्तकं स्थाप्य लिखितं ललिताक्षरम् ॥ ३५॥
सम्पूज्यावाहनाद्यैश्च उपचारैः सदक्षिणैः ।
वस्त्रभूषणगन्धाद्यैः पूजिताय महात्मने ॥ ३६॥
आचार्याय सुधीर्दत्त्वा मुक्तः स्याद्भवबन्धनैः ।
एवं कृते विधाने च सर्वपापनिवारणे ॥ ३७॥
फलदं स्यात् पुराणं तु सर्वकामार्थसिद्धिदम् ।
अनेन विधिना राजन् यः पुराणं समापयेत् ॥ ३८॥
तस्य स्त्री लभते गर्भं मासेनैकेन भारत ।
अनेन विधिना राजन्व्यासं यस्तु समर्चयेत् ॥ ३९॥
पूजयेद् दानमानाभ्यां तस्य स्त्री गर्भिणी भवेत् ।
यन्मया विविधं प्रोक्तं भक्तिपूजादिकं पुनः ॥ ६.४०॥
तत् कृत्वा लभते नारी पुत्रं भास्करतेजसम् ।
तथा वन्ध्या लभेद्गर्भं व्यासस्य वचनं यथा ॥ ४१॥
विप्ररत्नापहारी च सोऽनपत्यः प्रजायते ।
तेन कायविशुद्ध्यर्थं महारुद्रजपादिकम् ॥ ४२॥
अथ पारीक्षितो राजा श्रद्धायुक्तेन चेतसा ।
भावतः सत्त्वयुक्तेन चैकाग्रमनसा तथा ॥ ४३॥
श्रुत्वान्ते निश्चयं कृत्वा दम्भशाठ्यविवर्जितः ।
श्रुत्वेमं हरिवंशं वै व्यासं सम्पूज्य भक्तितः ॥ ४४॥
दानं च बहुलं कृत्वा व्यासाशीर्गृह्य भारतः ।
प्रसन्नवदनो भूत्वा रमते रमणीयुतः ॥ ४५॥
प्राग्जन्मजनिते पापे क्षीणे वै जनमेजय ।
ऋतावाद्ये तु सन्धत्ते गर्भं तस्य कुलाङ्गना ॥ ४६॥
द्वितीये वा तृतीये वा चतुर्थे मासि वै पुनः ।
पञ्चमे वापि षष्ठे वा सप्तमे अष्टमेऽपि वा ॥ ४७॥
नवमे दशमे मासि दोहदं निश्चयं भवेत् ।
व्यासेनोक्तमिदं पुण्यं वन्ध्यागर्भस्य लक्षणम् ॥ ४८॥
पितॄनुद्धरते सर्वान् दश पूर्वान् दशापरान् ।
हरिवंशं नरः श्रुत्वा सेतिहासं पुरातनम् ॥ ४९॥
इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ ।
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ६.५०॥
अपुत्रः पुत्रमाप्नोति ह्यधनो धनमाप्नुयात् ।
नरमेधाश्वमेधाभ्यां यत् फलं प्राप्यते नरैः ॥ ५१॥
तत्फलं लभ्यते सर्वं पुराणश्रवणाद्धरेः ।
ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः ।
सकृत् पुराणश्रवणात्पूतो भवति नान्यथा ॥ ५२॥
इदं मया ते परिकीर्तितं महच्छ्रीकृष्णमाहात्म्यमपारमद्भुतम् ।
शृण्वन् पठन्नाशु समाप्नुयात् फलं यच्चापि लोकेषु सुदुर्लभं महत् ॥ ५३॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणविधौ दानविधानकथनं नाम षष्ठोऽध्यायः ॥ ६॥
॥ सविधि हरिवंशमाहात्म्य सम्पूर्ण ॥
(१) सन्तानगोपालमन्त्रविधिः
श्रीगणेशाय नमः ।
अस्य श्रीसन्तानगोपालमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णो देवता, ग्लौं बीजम्, नमः शक्तिः, पुत्रार्थे जपे विनियोगः ।
अङ्गन्यां
द्वदेवकीसुत गोविन्द'' हृदयाय नमः ।
``वासुदेव जगत्पते शिरसे स्वाहा ।
``देहि मे तनयं कृष्ण'' शिखायै वषट् ।
``त्वामहं शरणं गतः'' ।
ॐ नमः'' अस्त्राय फट् ।
ध्यानं -
वैकुण्ठादागतं कृष्णं रथस्थं करुणानिधिम् ।
किरीटिसारथिं पुत्रमानयन्तं परात्परम् ॥ १॥
आदाय तं जलस्थं च गुरवे वैदिकाय च ।
अर्पयन्तं महाभागं ध्यायेत् पुत्रार्थमच्युतम् ॥ २॥
मूल मन्त्रं -
ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥
(२) सन्तानगोपालमन्त्रः
विनियोगः -
अस्य श्रीसन्तानगोपालमन्त्रस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दः, श्रीकृष्णो देवता, क्लीं बीजम्, नमः शक्तिः पुत्रार्थे जपे विनियोगः ।
अङ्गन्यासः
ग्लौं हृदयाय नमः । क्लीं शिरसे स्वाहा । ह्रीं शिखायै वषट् । श्रीं कवचाय हुं । ॐ अस्त्राय फट्
ध्यानं --
शङ्खचक्रगदापद्मं दधानं सूतिकागृहे ।
अङ्के शयानं देवक्याः कृष्णं वन्दे विमुक्तये ॥
मूलमन्त्रं --
ॐ नमो भगवते जगदात्मसूतये नमः'' ।
विनियोगः --
ॐ अस्य श्रीसन्तानगोपालमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णो देवता, ग्लौं बीजम्, नमः शक्तिः।, पुत्रार्थे जपे विनियोगः ।
अङ्गन्यासं
देवकीसुत गोविन्द हृदयाय नमः ।
वासुदेव जगत्पते'' शिरसे स्वाहा ।
``देहि मे तनयं कृष्ण शिखायै वषट् ।
त्वामहं शरणं गतः'' कवचाय हुम् ।
``देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ``अस्त्राय फट् ।
ध्यानं --
शङ्खचक्रगदापद्मं धारयन्तं जनार्दनम् ।
अङ्के शयानं देवक्याः सूतिकामन्दिरे शुभे ॥
एवं रूपं सदा कृष्ण सुतार्थं भावयेत् सुधीः ॥
मन्त्रं --
ॐ देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥
(३) सन्तानगोपालस्तोत्रं
श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् ।
सुतसम्प्राप्तये कृष्णं नमामि मधुसूदनम् ॥ १॥
नमाम्यहं वासुदेवं सुतसम्प्राप्तये हरिम् ।
यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥ २॥
अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् ।
नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥ ३॥
गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् ।
पुत्रसम्प्राप्तये कृष्णं नमामि यदुपुङ्गवम् ॥ ४॥
पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् ।
देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥ ५॥
पद्मापते पद्मनेत्र पद्मनाभ जनार्दन ।
देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ ६॥
यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् ।
अस्माकं पुत्रलाभाय नमामि श्रीशमच्युतम् ॥ ७॥
श्रीपते देवदेवेश दीनार्तिहरणाच्युत ।
गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥ ८॥
भक्तकामद गोविन्द भक्तं रक्ष शुभप्रदम् ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ९॥
रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा ।
भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ॥ १०॥
देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ११॥
वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १२॥
कञ्जाक्ष कमलानाथ परकारुणिकोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १३॥
लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १४॥
कार्यकारणरूपाय वासुदेवाय ते सदा ।
नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ १५॥
राजीवनेत्र श्रीराम रावणारे हरे कवे ।
तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ १६॥
अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते ।
देहि मे तनयं कृष्ण वासुदेव रमापते ॥ १७॥
श्रीमानिनीमानचोर गोपीवस्त्रापहारक ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ १८॥
अस्माकं पुत्रसम्प्राप्तिं कुरुष्व यदुनन्दन ।
रमापते वासुदेव मुकुन्द मुनिवन्दित ॥ १९॥
वासुदेव सुतं देहि तनयं देहि माधव ।
पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ २०॥
डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव ।
भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥ २१॥
नन्दनं देहि मे कृष्ण वासुदेव जगत्पते ।
कमलानाथ गोविन्द मुकुन्द मुनिवन्दित ॥ २२॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ २३॥
यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनम् ।
वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ २४॥
नन्दनन्दन देवेश नन्दनं देहि मे प्रभो ।
रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ २५॥
पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव ।
अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥ २६॥
गोपालडिम्भ गोविन्द वासुदेव रमापते ।
अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥ २७॥
मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत ।
मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥ २८॥
याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसम्पदम् ।
भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥ २९॥
आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् ।
अर्भकं तनयं देहि सदा मे रघुनन्दन ॥ ३०॥
वन्दे सन्तानगोपालं माधवं भक्तकामदम् ।
अस्माकं पुत्रसम्प्राप्त्यै सदा गोविन्दमच्युतम् ॥ ३१॥
ओङ्कारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् ।
क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ ३२॥
वासुदेव मुकुन्देश गोविन्द माधवाच्युत ।
देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ ३३॥
राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो ।
समस्तकाम्यवरद देहि मे तनयं सदा ॥ ३४॥
अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते ।
देहि मे वरसत्पुत्रं रमानायक माधव ॥ ३५॥
नन्दपाल धरापाल गोविन्द यदुनन्दन ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ३६॥
दासमन्दार गोविन्द मुकुन्द माधवाच्युत ।
गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ॥ ३७॥
यदुनायक पद्मेश नन्दगोपवधूसुत ।
देहि मे तनयं कृष्ण श्रीधरः प्राणनायक ॥ ३८॥
अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते ।
भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥ ३९॥
रमाहृदयसम्भार सत्यभामामनःप्रिय ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ४०॥
चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव ।
अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ ४१॥
कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित ।
देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥ ४२॥
देवकीसुत श्रीनाथ वासुदेव जगत्पते ।
समस्तकामफलद देहि मे तनयं सदा ॥ ४३॥
भक्तमन्दार गम्भीर शङ्कराच्युत माधव ।
देहि मे तनयं गोपबालवत्सल श्रीपते ॥ ४४॥
श्रीपते वासुदेवेश देवकीप्रियनन्दन ।
भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥ ४५॥
जगन्नाथ रमानाथ भूमिनाथ दयानिधे ।
वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ ४६॥
श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४७॥
दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४८॥
गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४९॥
श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन ।
मत्पुत्रफलसिद्धयर्थं भजामि त्वां जनार्दन ॥ ५०॥
स्तन्यं पिबन्तं जननीमुखाम्बुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।
स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ५१॥
याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ५२॥
अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते ।
शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥ ५३॥
वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम ।
कुरुं मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥ ५४॥
कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दन ।
मह्यं च पुत्रसन्तानं दातव्यं भवता हरे ॥ ५५॥
वासुदेव जगन्नाथ गोविन्द देवकीसुत ।
देहि मे तनयं राम कौसल्याप्रियनन्दन ॥ ५६॥
पद्मपत्राक्ष गोविन्द विष्णो वामन माधव ।
देहि मे तनयं सीताप्राणनायक राघव ॥ ५७॥
कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित ।
लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ ५८॥
देहि मे तनयं राम दशरथप्रियनन्दन ।
सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ॥ ५९॥
विभीषणस्य या लङ्का प्रदत्ता भवता पुरा ।
अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ ६०॥
भवदीयपदाम्भोजे चिन्तयामि निरन्तरम् ।
देहि मे तनयं सीताप्राणवल्लभ राघव ॥ ६१॥
राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद ।
देहि मे तनयं श्रीश कमलासनवन्दित ॥ ६२॥
राम राघव सीतेश लक्ष्मणानुज देहि मे ।
भाग्यवत्पुत्रसन्तानं दशरथात्मज श्रीपते ॥ ६३॥
देवकीगर्भसञ्जात यशोदाप्रियनन्दन ।
देहि मे तनयं राम कृष्ण गोपाल माधव ॥ ६४॥
कृष्ण माधव गोविन्द वामनाच्युत शङ्कर ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ ६५॥
गोपबाल महाधन्य गोविन्दाच्युत माधव ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ ६६॥
दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं
दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।
दिशतु दिशतु श्रीशो राघवो रामचन्द्रो
दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ ६७॥
दीयतां वासुदेवेन तनयो मत्प्रियः सुतः ।
कुमारो नन्दनः सीतानायकेन सदा मम ॥ ६८॥
राम राघव गोविन्द देवकीसुत माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ ६९॥
राघव! गोविन्द! देवकीपुत्र! माधव! श्रीपते!
गोपबालकनायक श्रीकृष्ण! मुप्ते पुत्र दीजिये ॥ ६९॥
वंशविस्तारकं पुत्रं देहि मे मधुसूदन ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७०॥
ममाभीष्टसुतं देहि कंसारे माधवाच्युत ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७१॥
चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७२॥
विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा ।
देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥ ७३॥
नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् ।
मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥ ७४॥
भगवन् कृष्ण गोविन्द सर्वकामफलप्रद ।
देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः ॥ ७५॥
स्वामिंस्त्वं भगवन् राम कृष्ण माधव कामद ।
देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ ७६॥
तनयं देहि गोविन्द कञ्जाक्ष कमलापते ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७७॥
पद्मापते पद्मनेत्र प्रद्युम्नजनक प्रभो ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७८॥
शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ७९॥
नारायण रमानाथ राजीवपत्रलोचन ।
सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥ ८०॥
राम राघव गोविन्द देवकीवरनन्दन ।
रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ ८१॥
देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ ८२॥
मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८३॥
गोपिकार्जितपङ्केजमकरन्दासक्तमानस ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८४॥
रमाहृदयपङ्केजलोल माधव कामद ।
ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ ८५॥
वासुदेव रमानाथ दासानां मङ्गलप्रद ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८६॥
कल्याणप्रद गोविन्द मुरारे मुनिवन्दित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८७॥
पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८८॥
पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८९॥
दयानिधे वासुदेव मुकुन्द मुनिवन्दित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९०॥
पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् ।
वन्दामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ ९१॥
कारुण्यनिधये गोपीवल्लभाय मुरारये ।
नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ ९२॥
नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ ९३॥
नमस्ते वासुदेवाय नित्यश्रीकामुकाय च ।
पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ॥ ९४॥
रङ्गशायिन् रमानाथ मङ्गलप्रद माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ ९५॥
दासस्य मे सुतं देहि दीनमन्दार राघव ।
सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ ९६॥
यशोदातनयाभीष्टपुत्रदानरतः सदा ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९७॥
मदिष्टदेव गोविन्द वासुदेव जनार्दन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९८॥
नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजायते ।
भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ॥ ९९॥
यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् ।
श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ १००॥
जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् ।
ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ १०१॥
॥ इति श्रीसन्तानगोपालस्तोत्रं सम्पूर्णम् ॥
The word ending n and d are left
separated following Gitapress convention.