मुद्गलपुराणं खण्डः ५ लम्बोदरचरितम्

मुद्गलपुराणं खण्डः ५ लम्बोदरचरितम्

॥ मुद्गलपुराणं खण्डः ५॥ ॥ अथ श्रीमुद्गलपुराणे पञ्चमः खण्डः प्रारभ्यते ॥ (Page खं. ५ अ. १ पान १)

५.१ त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं मया महाख्यानं गजाननकथाश्रितम् । सर्वसौख्यकरं तात ब्रह्मभूतपदप्रदम् ॥ १॥ तथा तृप्तिं न याम्येव पीत्वा ब्रह्मामृतं परम् । गुणज्ञो गणराजस्य कस्तं मुञ्चति मानद ॥ २॥ धन्या वयं महाभाग त्वदासङ्गसमाश्रयात् । यत्र योगप्रदा गाथा वर्तते त्वन्मुखे द्विज ॥ ३॥ लम्बोदरस्य माहात्म्यमधुना वद सर्वदम् । कीदृशोऽयं गणेशानः कीदृशं ब्रह्म तस्य च ॥ ४॥ कति तस्यावताराश्च किङ्कर्मा सोऽपि विघ्नपः । किमर्थमागतो भूमौ तत् सर्वं वद विस्तरात् ॥ ५॥ सूत उवाच । एवं दक्षेण संश्रुत्य गजाननचरित्रकम् । पृष्टो योगीन्द्रमुख्यश्च गाणपत्योऽथ मुद्गलः ॥ ६॥ दक्ष उवाच । गजाननस्य माहात्म्यं श्रुत्वा सङ्क्षेपतः परम् । न तृप्तोऽहं महाभाग पायं पायं सुधामिव ॥ ७॥ अतो लम्बोदरस्य त्वं चरित्रं वद विस्तरात् । सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ ८॥ गणेशस्य कथां योगिन् श‍ृण्वन्ति च पठन्ति ये । श्रावयन्ति प्रपृच्छन्ति चत्वारः पुण्यभागिनः ॥ ९॥ धन्या ये पुरुषा लोके सादरा मुनिसत्तम । कथायां कृतकृत्यास्ते योगिनो योगभूषणाः ॥ १०॥ सूत उवाच । एवं तस्यादरं दृष्ट्वा हर्षितो मुद्गलो मुनिः । जगाद तं महाभागं प्राजापत्येन्द्रमादरात् ॥ ११॥ मुद्गल उवाच । साक्षाद्ब्रह्मसुतस्त्वं च ब्रह्मतुल्यो न संशयः । तत्र किं गणनाथे वै चित्रं रसयुतः प्रभो ॥ १२॥ येषां मुखारविन्देषु गणेशस्मरणं भवेत् । इच्छामि तेषां दासत्वं नित्यं दक्ष प्रजापते ॥ १३॥ अधुना श‍ृणु वक्ष्यामि सङ्क्षेपण चरित्रकम् । लम्बोदरस्य विस्तारे कः समर्थो भवेत् प्रभो ॥ १४॥ संवादं पूर्णसम्भूतमसितस्य महात्मनः । नैध्रुवस्याऽत्र वक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ १५॥ प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् । ययौ तपःप्रसिद्ध्यर्थं महाभागो महामुनिम् ॥ १६॥ स तताप तपो घोरं दिव्यवर्षसहस्रकम् । तपसा तस्य देवेन्द्रा भीताश्च प्रबभूविरे ॥ १७॥ किमयं तपसा साध्यं कर्तुमिच्छति वाडवः । न तुल्यं तपसोऽस्यात्र ब्रह्माण्डे किं भविष्यति ॥ १८॥ ततस्तस्याऽऽश्रमेऽकस्मादसितोऽभवदागतः । पितृव्यं मुनिरुत्थाय प्रणनाम कृताञ्जलिः ॥ १९॥ पुपूज भक्तिसंयुक्तः कृताञ्जलिपुटः स्थितः । तस्याऽऽज्ञया विनीतः स आसने संस्थितोऽभवत् ॥ २०॥ तमुवाच महायोगी सोऽसितो हितकारकम् । वचो भावेन सन्तुष्टो भ्रातृपुत्रं तपोधनम् ॥ २१॥ असित उवाच । देहं किं तपसा पुत्राऽतिशोषयसि तापस । देहशोषणरूपं यत्तपो मुख्यं न शास्त्रतः ॥ २२॥ अतो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर । येन त्वं ब्राह्मणो भूत्वांऽते ब्रह्मणि गमिष्यसि ॥ २३॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुतः । पुनः प्रपच्छ योगीद्रं संशयेन समन्वितः ॥ २४॥ नैध्रुव उवाच । कृच्छ्रचान्द्रादिधर्मेण यथाविधि कृतं मुने । तपो ब्रुवन्ति सर्वज्ञास्तत्र मुख्यं किमप्यहो ॥ २५॥ (Page खं. ५ अ. १ पान २) असित उवाच । तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः । तच्छ्रुणुष्व विधानेन योगिवन्द्यो भविष्यसि ॥ २६॥ कृच्छ्रचान्द्रायणादीनि तपांसि प्रवदन्ति च । पञ्चाग्निसाधनादीनि वायुभक्षात्मकानि च ॥ २७॥ इत्यादिभेदा बहवस्तपसो विविधस्य च । तदेव बाह्यभावस्थं पुत्र जानीहि निश्चितम् ॥ २८॥ इहामुत्रप्रदं तात तपः फलमयं स्मृतम् । फलं भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल ॥ २९॥ अन्यच्छ्रुणु महाभाग तपः परमदुश्चरम् । वायुरोधात्मकं देहे प्राणायामेन जायते ॥ ३०॥ तत्र प्राणस्य सन्तापो जायते नात्र संशयः । देहस्यापि तथा पुत्र तपस्तेन तदुच्यते ॥ ३१॥ षट्चक्रभेदने दक्षमन्तर्ध्यानपरायणः । सहस्रारे गतं वायुं रोधयेत्तत्र लालसः ॥ ३२॥ तपःप्रभावेन तेन क्षुद्रसिद्धियुतो नरः । भवति ज्ञानमार्गज्ञस्त्रिकालज्ञानसंयुतः ॥ ३३॥ दूरश्रवणसामीप्यं कुरुते कामगां गतिम् । जले स्थलं स्थले तोयमाकाशे नगरादिकम् ॥ ३४॥ अहताज्ञश्च सर्वत्र भवते परमद्युतिः । अपरायुः समायुक्तो ब्रह्माद्यांश्चालयत्यपि ॥ ३५॥ एककल्पस्य सर्वेषां वृत्तान्तं कथयत्यपि । जानाति स तपो योगादन्तर्ध्यानपरायणः ॥ ३६॥ सोऽपि गत्वा विधेर्लोकं भुनक्ति विविधं सुखम् । पुण्यान्ते पुनरत्रैव दीनो भवति निश्चितम् ॥ ३७॥ तृतीयं त्वं तपोरूपं श‍ृणु मत्तो सुयोगदम् । द्विविधं च तपो येन साधितं गुरुमार्गतः ॥ ३८॥ तेनैकाग्रमयं चित्तं भवत्यत्र न संशयः । सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा ॥ ३९॥ तत्रानुभवमात्रेण शमदमपरायणः । भवते तेन सन्तापो देहे मनसि जायते ॥ ४०॥ विषयान्निन्दयन् सोऽपि जडोन्मत्तपिशाचवत् । चरति सर्वभावज्ञ आत्मनिष्ठतया सुत ॥ ४१॥ ततो निरोधयोगेन निवृत्तिषु परायणः । चित्तं संरुध्य सर्वत्र निवृत्तिं लभते स्वयम् ॥ ४२॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भयं भवेत् । न जगज्जगदात्मा वै मनो वाणीविहीनकः ॥ ४३॥ स्वत उत्थानभावो नोत्थानं परत एव न । न स्वतः परतस्तत्र उत्थानं वर्जितं भवेत् ॥ ४४॥ एवं निरोधयोगेन शमी दमपरायणः । सन्तोषेण स्वयं योगी वर्तते नित्यदा सुत ॥ ४५॥ तत्र सन्तोषभावेन स्थितस्य देहचेतसोः । सन्तापो जायते नित्यं तदेव तप उच्यते ॥ ४६॥ ततो निरोधभूमिं स त्यक्त्वा शान्तिपरायणः । त्यक्त्वा पञ्चविधं चित्तमेवं ब्रह्मैव जायते ॥ ४७॥ ततो विधिनिषेधाभ्यां हीनो योगधरः स्वयम् । रसहीनश्चरत्यत्र प्रारब्धानुभवेन सः ॥ ४८॥ यथा जलानि सर्वत्र सुत गच्छन्ति सागरे । यदृच्छया तथा सोऽपि भोक्ता भोगेन नित्यदा ॥ ४९॥ तत्रांऽतरे शरीरेऽस्य तापः सञ्जायते सदा । शान्त्या भोगपरत्वेन तदेव तप उच्यते ॥ ५०॥ (Page खं. ५ अ. २ पान ३) एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया । तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥ ५१॥ तपोधना महाभागा योगिनस्तत्परायणाः । ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवन्ति ते ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते असितनैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥ ५.१

५.२ भस्मासुरवधो नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् । प्रणम्य तं महाभागं जगाद विनयान्वितः ॥ १॥ नैध्रुव उवाच । स्वामिन् वद महायोगं योगदं साधनं परम् । तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम ॥ २॥ असित उवाच । श‍ृणु पुत्र प्रवक्ष्यामि लम्बोदरकथानकम् । तेन सर्वं महायोगं लभसे नात्र संशयः ॥ ३॥ एकदाऽहं तथा पुत्र वत्सरस्ते पिता पुरा । तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥ ४॥ ततो योगस्य प्राप्त्यर्थं यत्नवन्तौ सुसंस्थितौ । अन्तर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥ ५॥ एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा । सहजावस्थया युक्तौ सुखयुक्तौ भवावहे ॥ ६॥ तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ । शान्तिहीनौ ततो जातौ गतौ च ब्रह्मणोंऽतिकम् ॥ ७॥ तत्र स्पर्धासमायुक्तौ विश्वामित्रवसिष्ठकौ । समायातौ प्रणम्यैनं प्रतिष्ठन्तौ मदान्वितौ ॥ ८॥ क्रोधयुक्तौ विधातारं प्रपृच्छन्तौ विशेषतः । कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥ ९॥ तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः । येन क्रोधो जितो नूनं तं जानाम्यधिकं मुनिम् ॥ १०॥ युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः । सर्वत्र शान्तिदं योगं तं यो जयति सोऽधिकः ॥ ११॥ ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ । विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥ १२॥ वसिष्ठविश्वामित्रावूचतुः । कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयङ्करः । कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥ १३॥ जयन्ति केन योगेन तं दुष्टं योगिनः प्रभो । सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥ १४॥ ब्रह्मोवाच । अत्राऽहं कथयिष्यामीतिहासं सर्वसिद्धिदम् । तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥ १५॥ शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् । उपसङ्गम्य सङ्गृह्य विद्यां पञ्चाक्षरीं पुरा ॥ १६॥ दीक्षां गृह्य महादेवमुपासनविधानतः । साधयामास भावेन भस्मोद्धूलितविग्रहः ॥ १७॥ सहस्रे प्रगतेष्वेव प्रभुर्वर्षेषु शङ्करः । तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥ १८॥ आगतं शङ्करं दृष्ट्वा उत्थाय प्रणिपत्य तम् । (Page खं. ५ अ. २ पान ४) पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥ १९॥ जगाद शङ्करो दैत्यं सन्तुष्टो भक्तमुत्तमम् । वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥ २०॥ भस्मासुर उवाच । यस्य शम्भो महेशान मस्तकेऽहं धरामि सः । हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥ २१॥ अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन । भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥ २२॥ तच्छ्रुत्वा विस्मितः शम्भुस्तं जगाद महासुरम् । सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥ २३॥ हस्तस्ते यस्य शिरसि दक्षिणः सम्पतिष्यति । स वै भस्ममयः सद्यो भविष्यति न संशयः ॥ २४॥ ततः शिवो ययौ स्थानं कैलासं गणसंवृतः । दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥ २५॥ अहो शिवस्य वामाङ्गे संस्थिता जगदम्बिका । रूपलावण्यसंयुक्ता रत्नभूताऽतिसुन्दरी ॥ २६॥ एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी । नग्नः शम्भुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥ २७॥ अतोऽहं यत्नमास्थाय वरदानप्रभावतः । शम्भुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥ २८॥ एवं विचार्य दैत्येन्द्र आययौ शङ्करान्तिकम् । कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥ २९॥ दक्षिणं हस्तमूर्ध्वं स कृत्वा शङ्करसन्निधौ । आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥ ३०॥ नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ । असुरं भावसंयुक्तं भयभीतः समन्ततः ॥ ३१॥ ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः । धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥ ३२॥ ततोऽतिवेगमास्थाय शिवो भीत्या पलायत । अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥ ३३॥ पलन्तं शङ्करं तत्र ददर्श कमलापतिः । सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥ ३४॥ सोऽपि तुष्टाव चाथर्वशिरसा विघ्ननायकम् । विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥ ३५॥ शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् । महासङ्कटनाशार्थं शरणागतवत्सलम् ॥ ३६॥ शिव उवाच । किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् । दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥ ३७॥ नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभङ्गकारिन् । चिन्तामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥ ३८॥ त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ । न कोऽपि हेरम्ब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥ ३९॥ लम्बोदरामोघ सुचिन्तनं ते स्वानन्दवासिंश्च महोदरस्य । रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभञ्जनाशु ॥ ४०॥ किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् । भक्तानुकम्पीति तवैव नाम वेदे कथं सङ्कथितं महात्मन् ॥ ४१॥ किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च । मां रक्ष नो चेन्निगमस्य देव व्यर्थं यशः सम्भविता परात्मन् ॥ ४२॥ (Page खं. ५ अ. ३ पान ५) यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् । तथा हि ते भक्तजनानपारान् क्षमोऽसि तान् रक्षितुमन्तरं किम् ॥ ४३॥ किं योगरूपातिविलम्बनेन रक्षस्व भीतं मरणे सुसंस्थम् । हेरम्ब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥ ४४॥ एवं स्तुवति शम्भौ स विष्णोर्हृदि गजाननः । प्रविश्य बुद्धिसन्दाता बभूवे भक्तवत्सलः ॥ ४५॥ धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् । महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥ ४६॥ तां समागत्य पप्रच्छ दैत्येन्द्रो मोहसंयुतः । कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥ ४७॥ वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः । अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥ ४८॥ भज मां भावसंयुक्ता भजन्तं ते च दासकम् । त्वदधीनो भविष्यामि सदा वराङ्गने मतम् ॥ ४९॥ तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह । अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥ ५०॥ मदाज्ञया दैत्य यदि वर्तसे त्वं निरन्तरम् । तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥ ५१॥ तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः । नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥ ५२॥ तथेति प्रतिपाद्यैव सा ननर्त कलान्विता । तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥ ५३॥ तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके । तथा सोऽपि चकाराशु भ्रान्तो विघ्नेशमायया ॥ ५४॥ भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् । ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥ ५.२

५.३ क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । गाणेशैः स्तोत्रमुख्यैः सन्तुष्टाव विष्टरश्रवाः । गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥ १॥ ततः स मोहिनीरूपमभूत् त्यक्तुं समुद्यतः । एतस्मिन्नन्तरे तत्राऽमरैः सम्बोधितः शिवः ॥ २॥ ज्ञात्वा भस्मासुरं शम्भुर्मृतं विस्मितमानसः । ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥ ३॥ ततः सर्वैः समायुक्तो मुकुन्दकपुरं ययौ । तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥ ४॥ महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः । तदज्ञानो महादेवस्तां ययौ कामविह्वलः ॥ ५॥ तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् । तामन्वधावद्देवेशः शङ्करो विह्वलो भृशम् ॥ ६॥ ततस्तत्याज तद्रूपं विष्णुः स पुरुषोऽभवत् । (Page खं. ५ अ. ३ पान ६) शिवः खिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः ॥ ७॥ ततः सर्वे ययुर्देवाः स्वस्वस्थानं मुदा युताः । स्तुत्वा विष्णुं महाभागं शिवः स्वस्थानगोऽभवत् ॥ ८॥ शिवस्य वीर्यसम्पातात्तद्वीर्यप्रभवोऽसुरः । बभूव श्यामवर्णश्च ताम्रचक्षुः प्रतापवान् ॥ ९॥ स शुक्रमुपसङ्गम्योवाच तं विनयान्वितः । प्रणम्य तेजसा युक्तः शिष्यं पालय मां मुने ॥ १०॥ ततो ध्यानेन स ज्ञात्वा तस्य सर्वं महामुनिः । पुनस्तं प्रजगादैव वचनं हर्षयन्नरम् ॥ ११॥ शुक्र उवाच । मोहिनीं शङ्करो दृष्ट्वा कामबाणप्रपीडितः । पश्चाद्विष्णुं समालोक्य स्वचित्ते क्रोधमादधे ॥ १२॥ मनो मे चञ्चलं पूर्णं तद् ग्रहीष्यामि यत्नतः । मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते ॥ १३॥ तस्मिन् काले च वीर्यस्य स्खलनं सहसाऽभवत् । तस्माज्जातोऽसि तेन त्वं क्रोधनामा भविष्यसि ॥ १४॥ ततो दानवमुख्यैः स कारयामास विप्रप । मौञ्ज्यन्तसर्वसंस्कारान् यथाविधि स शास्त्रवित् ॥ १५॥ क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ । शम्बरस्य सुतां तुल्यामुपयेमे महासुरः ॥ १६॥ प्रीतिनाम्नीं महारूपां सर्वावयवशालिनीम् । रूपलावण्यसंयुक्तां विषयानां प्रवर्धिनीम् ॥ १७॥ ततः शुक्रं समागम्य जगाद प्रणिपत्य तम् । कृताञ्जलिर्महातेजा दैत्येभ्यः सुखदं वचः ॥ १८॥ क्रोधासुर उवाच । ब्रह्माण्डविजयं स्वामिन् करिष्यामि त्वदाज्ञया । मन्त्रं देहि तदर्थं मे सर्वं यशोविवर्धनम् ॥ १९॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा काव्यः सर्वज्ञसत्तमः । दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् ॥ २०॥ सूर्यस्य विधियुक्तं प्रणम्य सङ्गृह्य तं ययौ । वनं व्याघ्रादिसङ्कीर्णं तपसे कृतनिश्चयः ॥ २१॥ एकपादेन तिष्ठन् समजपन् मन्त्रमुत्तमम् । चित्ते ध्यायन्नर्यमाणमूर्ध्वदृष्टिर्महासुरः ॥ २२॥ निराहारेण देवेशं तोषयामास यत्नतः । शीतोष्णादिभयं त्यक्त्वा काष्ठवत् संस्थितोऽभवत् ॥ २३॥ दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ । वरं दातुं महादैत्यमुवाच घननिःस्वनः ॥ २४॥ रविरुवाच । वरान् वृणु महाभाग क्रोधाऽहं ते ददामि तान् । सन्तुष्टस्तपसोग्रेणेप्सितान् हृदि महामते ॥ २५॥ श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् । प्रणनाम महाभक्त्याऽपूजयत्तेजसां निधिम् ॥ २६॥ पुनः प्रणम्य तुष्टाव कृताञ्जलिपुटोऽसुरः । सौरसूक्तेन देवेशं पुनः सन्नत आदरात् ॥ २७॥ तमुवाचार्यमा दैत्यं वरं वृणु महामते । यं यमिच्छसि तं तं ते दास्याम्यत्र न संशयः ॥ २८॥ क्रोधासुर उवाच । उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः । तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ॥ २९॥ ब्रह्माण्डजयने शक्तं मां कुरुष्व विशेषतः । राज्यं चराचरस्यैव देहि मेऽदितिनन्दन ॥ ३०॥ आरोग्यं मनसा यद्यच्चिन्तितं सफलं भवेत् । न मे समो भवेत् कुत्र तथा कुरु दिवस्पते ॥ ३१॥ श्रुत्वा तस्य वचो रम्यं सर्वेभ्यो भयदायकम् । (Page खं. ५ अ. ४ पान ७) विस्मितस्तेजसां नाथस्तं जगाद सुयन्त्रितः ॥ ३२॥ भानुरुवाच । क्रोध त्वया च यत् प्रोक्तं तदेव सफलं भवेत् । तपसा यन्त्रितो दैत्य तस्माद्दत्तं मया परम् ॥ ३३॥ एवमुक्त्वार्यमा लोकमगमद्दुःखसंयुतः । क्रोधो हर्षसमाविष्टः प्रययौ स्वगृहं ततः ॥ ३४॥ सुहृदो नन्दयामासासुरान् सर्वान् महायशाः । काव्यं प्रणम्य स्वस्थाने संस्थितोऽभून मदान्वितः ॥ ३५॥ हर्षः शोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः । नानाभोगान् प्रभुञ्जानो गर्वितोऽभूत्ततः परम् ॥ ३६॥ शुक्रं सकलनीतिज्ञं समानाय्य प्रपूज्य तम् । तस्यानुमतमागृह्य नगरं निर्ममेऽसुरः ॥ ३७॥ आवेशनामकं रम्यं सर्वशोभासमन्वितम् । तत्राजग्मुश्च विप्रर्षे दानवा दैत्यराक्षसाः ॥ ३८॥ चातुर्वर्ण्यसमायुक्ता निवासं चक्रिरे पुरा । जना हर्षयुतास्तत्र मुमुदुः ससुहृद्गणाः ॥ ३९॥ ततः काव्यः समागत्य क्रोधं चकार विप्रपैः । अभिषिक्तं स सर्वेषां दानवानां पदे प्रभुम् ॥ ४०॥ ततः क्रोधस्य तत्पुर्यां प्रधानाः पञ्च दारुणाः । बभूवुः सर्वनीतिज्ञा महामाया महाबलाः ॥ ४१॥ बलिर्जृम्भस्तथा राहू रावणो माल्यवान् परः । तैर्युक्तः शुशुभेऽत्यन्तं क्रोधः परमदारुणः ॥ ४२॥ अन्ये प्रहस्तमुख्याश्च राक्षसा दानवास्तथा । सिषेविरे भावयुक्ता महाक्रोधं महाबलाः ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ५.३

५.४ क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततः किञ्चिद्गते काले क्रोधो हर्षसमन्वितः । उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः ॥ १॥ क्रोधासुर उवाच । श‍ृणुध्वं दानवाः सर्वे बलिमुख्या महाबलाः । ब्रह्माण्डं प्रजयिष्यामि भवद्भिः संयुतो ह्यहम् ॥ २॥ तस्य तद्वचनं श्रुत्वा दैत्याः संहर्षिता नृपम् । जगुस्तं भक्तिसंयुक्ता कृत्वा करपुटं वचः ॥ ३॥ बल्याद्या ऊचुः । सम्यगुक्तं त्वया नाथ प्रजेष्यामः सुराधिपान् । त्वत्प्रसादेन दैत्येश आज्ञापय महासुरान् ॥ ४॥ पराक्रमतुलां ते न तिष्ठन्ति ब्रह्मगोलके । निर्भयोऽसि महाराज जय त्वं सर्वदेवपान् ॥ ५॥ तेषां वचनमाकर्ण्याऽसुरः क्रोधः प्रहर्षितः । शुक्रं नत्वा समानाय्य बभौ तेनानुमोदितः ॥ ६॥ ततो दैत्यगणान् सर्वानाजुहाव नरैः स्वकैः । ते सर्वे हर्षसंयुक्ता आययुस्तं नराधिपम् ॥ ७॥ ततः सैन्यसमायुक्तो निर्जगाम महासुरः । चतुरङ्गबलैर्युक्तोऽपारैः सर्वत्र सम्बभौ ॥ ८॥ रथस्थश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ । तत्रादौ पृथिवीं जेतुं ययौ भूमण्डले नृपान् ॥ ९॥ बलिमुख्यैर्महावीरैः स्थितैर्यत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥ १०॥ राजानः शरणं जग्मुर्दैत्येन्द्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहङ्कारसंयुताः ॥ ११॥ केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः । एवं वसुन्धरां जित्वा मुमुदुः सप्तसागराम् ॥ १२॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् । मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥ १३॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥ १४॥ ततः पाताललोकेषु ययुर्दैत्येन्द्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥ १५॥ दूतमुखेन वृत्तान्तं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥ १६॥ समागतं महानागैः शेषं ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्य तं सादरोऽभवत् ॥ १७॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥ १८॥ ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्यानान्यभञ्जयत् ॥ १९॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवन्तं च स गत्वा चेष्टितं महत् ॥ २०॥ बृहस्पतिं च देवेन्द्रैस्तत इन्द्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहान्तरम् ॥ २१॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः । आययावमरावत्यामिन्द्रासनस्थितोऽभवत् ॥ २२॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥ २३॥ नाना भोगान् प्रभुञ्जाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥ २४॥ गन्धर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषेविरे । दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥ २५॥ ततः कदाचिद्दैत्येन्द्रो दैत्यपैः संवृतो ययौ । सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥ २६॥ तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः । बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥ २७॥ ततो विकुण्ठमेवं स जगामासुरसंवृतः । ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीतितः ॥ २८॥ तत्र स्थित्वा विकुण्ठस्य भोगान् विष्णुकृतान् स्वयम् । बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥ २९॥ ततः कैलासकं दैत्यः शङ्करं जेतुमाययौ । महादेवः पपालैव क्रोधसन्तापतापितः ॥ ३०॥ तत्रस्थः क्रोधको दैत्यो ननन्द हृदि चाद्भुतम् । दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥ ३१॥ क्रोधासुर उवाच । बले रावणमुख्याश्च श‍ृणुध्वं मे वचो हितम् । अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥ ३२॥ दैत्येन्द्रा ऊचुः । सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः । न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥ ३३॥ जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः । इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥ ३४॥ (Page खं. ५ अ. ५ पान ९) तस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः । जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥ ३५॥ अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः । भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥ ३६॥ देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि । तदा वन्द्योऽर्यमा नाथ नान्यथा जय तं बलात् ॥ ३७॥ परपक्षाश्रितं देवमस्मत्संहनने रतम् । जयिष्यामो वयमतो हितं राजन् समाचर ॥ ३८॥ दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् । दूतं सम्प्रेषयामास रावणं गर्वसंयुतम् ॥ ३९॥ रावणात् सर्ववृत्तान्तं ज्ञात्वा भानुः प्रतापवान् । तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥ ४०॥ रविरुवाच । देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः । न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥ ४१॥ उन्मत्तं वरसंयुक्तं क्रोधं वद महामते । त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥ ४२॥ एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः । पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥ ४३॥ ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः । आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥ ४४॥ आत्मानं कृतकृत्यं स मानयामास दुर्मतिः । ब्रह्माण्डविजयी भूत्वा भोगांश्च बुभुजे परान् ॥ ४५॥ ततः संस्थाप्य दैत्येन्द्रान् तेषु स्वर्गेषु दैत्यपः । पृथिव्यां नगरं मुख्यमाययौ प्रीतिसंज्ञकम् ॥ ४६॥ क्रोधासुरोऽसौ तत्रस्थः प्रशशास प्रतापवान् । त्रैलोक्यं भोगसंयुक्तः सुहृदानन्ददायकः ॥ ४७॥ स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः । न बुबोध गतं कालं यथाकालेन वञ्चितः ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः ॥ ५.४

५.५ देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् । दैत्यानाज्ञापयत् क्रूरान् कर्मणः खण्डनाय तान् ॥ १॥ तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले । ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥ २॥ अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे । देवतीर्थादिकं दैत्या बभञ्जुर्यज्ञवृक्षकान् ॥ ३॥ सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे । न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥ ४॥ ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् । मदीयनामसंयुक्तं कर्म कुर्वन्तु विप्रपाः ॥ ५॥ जगदीशो महाभागा अहं द्विजा न संशयः । भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥ ६॥ ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ । त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥ ७॥ केचिद् भ्रष्टास्तदाज्ञायां संस्थिता दुःखसंयुताः । (Page खं. ५ अ. ५ पान १०) वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे ॥ ८॥ सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिताऽभवत् । गृहे गृहे तथा तस्याऽसुरैः पूजा प्रवर्तिता ॥ ९॥ एवं हा हा कृतं सर्वं त्रैलोक्यं तेन वैरिणा । देवाः सर्वे भयोद्विग्ना बभूवुः कर्मखण्डनात् ॥ १०॥ कर्मखण्डनभावेनोपोषणैः संयुताः सुराः । ततस्तस्य विनाशार्थं यत्नवन्तो बभूविरे ॥ ११॥ न प्रापुस्तस्य शान्त्यर्थमुपायं ते सुरेश्वराः । ततोऽतिखेदसंयुक्ता बभूवुस्त्रासकम्पिताः ॥ १२॥ एतस्मिन्नन्तरे तत्र वसिष्ठो योगिनां वरः । जगाद तान् सुरेशानान्निःश्वस्य हितकारकः ॥ १३॥ वसिष्ठ उवाच । उत्पत्तिस्थितिसंहारैर्वयं युक्ता न संशयः । अस्मभ्यो मरणं तस्य न भविष्यति निश्चितम् ॥ १४॥ स्वानन्दवासकरणं गणेशं ब्रह्मनायकम् । त्रिभिर्हीनं जगुर्वेदास्तं सेवध्वं सुरेश्वराः ॥ १५॥ हत्वा क्रोधासुरं सोऽपि स्वपदानि प्रदास्यति । अस्मभ्यं नात्र सन्देहं कुर्वन्तु प्रयताः सुराः ॥ १६॥ वसिष्ठवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः । साधु साधु मुनि सर्वे जगुर्ज्ञाननिधिं परम् ॥ १७॥ ततस्ते मन्त्रराजं वै जेपुर्लम्बोदरस्य च । भक्तियुक्तास्तपोनिष्ठा ध्यानसंस्था बभूविरे ॥ १८॥ नानानुष्ठानयोगैश्चातोषयंस्ते गजाननम् । उपोषणपराः सर्वे विधियुक्ता महामुनी ॥ १९॥ एवं वर्षसहस्रे च प्रगते तोषसंयुतः । लम्बोदरः प्रसन्नात्मा तान् ययौ वरदायकः ॥ २०॥ समागतं गणेशानं दृष्ट्वा देवर्षयः पुरः । उत्थाय हर्षसंयुक्ताः प्रणेमुर्दण्डवद्भुवि ॥ २१॥ पुपूजुर्भक्तिसंयुक्ताः प्रभुं नानोपचारकैः । पुनः प्रणम्य सन्तुष्टास्तुष्टुवुः करसम्पुटैः ॥ २२॥ देवर्षय ऊचुः । नमस्ते गणनाथाय लम्बोदरधराय च । गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥ २३॥ स्वानन्दपतये तुभ्यं सर्वस्वानन्ददायिने । अनाथाय च सर्वेषां नायकाय नमो नमः ॥ २४॥ नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने । अभक्तानां महाविघ्नकारकाय नमो नमः ॥ २५॥ उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे । अनादये परेशाय महोदर नमोऽस्तु ते ॥ २६॥ मायिनां मोहकायैव मायाविने परात्मने । सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥ २७॥ अपाराननरूपायापारहस्तपदाय च । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ २८॥ आदिमध्यान्तरूपायादिमध्यान्तस्वरूपिणे । अनाकाराय ते चाकारयुक्ताय नमो नमः ॥ २९॥ ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने । आदिपूज्याय चान्ते ते संस्थिताय नमो नमः ॥ ३०॥ नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो । सम्भूतमुदरात्ते वै तेन लम्बोदरो भवान् ॥ ३१॥ तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः । तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते ॥ ३२॥ सर्वेषामुदराणां त्वं पारं जानासि विघ्नप । उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥ ३३॥ एतादृशोऽयमानन्दानामानन्दप्रदायकः । प्रत्यक्षं दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥ ३४॥ (Page खं. ५ अ. ५ पान ११) मनोवाणीविहीनो न मनोवाणीमयो न च । लम्बोदरः समायात आश्चर्यं भाति ते नमः ॥ ३५॥ किं स्तुवीमः गणेशानं यत्र वेदादयः प्रभो । शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः ॥ ३६॥ एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा । तानुवाच गणेशानो मेघगम्भीरनिःस्वनः ॥ ३७॥ लम्बोदर उवाच । वरं ब्रूत महाभागा देवेन्द्रा मुनयोऽमलाः । तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥ ३८॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । पठते श‍ृण्वते चेहामुत्र सौख्यप्रदं परम् ॥ ३९॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥ ४०॥ ब्रह्मोवाच । लम्बोदरवचः श्रुत्वा हृष्टा देवर्षयोऽभवन् । जगुस्तं प्रणिपत्यैव सर्वेशं भक्तपालकम् ॥ ४१॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो ॥ ४२॥ स्थानभ्रष्टा वयं तेन कृताः कर्मविहीनकाः । ऋषयश्च जगत् सर्वं स्वधास्वाहाविवर्जितम् ॥ ४३॥ अतो लम्बोदर स्वामिंस्तवोदरसमुद्भवान् । एकं हत्वा तथा सर्वान् रक्ष स्वभक्तकान् प्रभो ॥ ४४॥ भक्तिं देहि त्वदीयां नः सर्वक्रोधविनाशिनीम् । तया शान्तिसमायुक्ता भजिष्यामो विशेषतः ॥ ४५॥ तव भक्तिर्यदा प्राप्ता लम्बोदर तदा शुभम् । भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै स्मृतः ॥ ४६॥ सर्वं मुनीनां देवानां वचः श्रुत्वा महाप्रभुः । लम्बोदरश्च तान् प्राह तथेति भक्तियन्त्रितः ॥ ४७॥ ततः सोंऽतर्हितो देवो देवास्तत्रैव संस्थिताः । मुनयश्च भयोद्विग्नाः कालकाङ्क्षां प्रचक्रिरे ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५.५

५.६ देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । विश्वामित्रवसिष्ठौ च श‍ृणुतं परमाद्भुतम् । चरितं गणनाथस्य महाशान्तिप्रदायकम् ॥ १॥ कदाचित् क्रोधको दैत्यः सभासनगतोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ २॥ लम्बोदरश्च मुनिभिर्देवैः सार्धं वधाय ते । प्रार्थितः स तु हत्वा त्वां जगत् सुखि करिष्यति ॥ ३॥ तच्छ्रुत्वा मूर्च्छितं क्रोधं सहसा भयविह्वलम् । तं दैत्येन्द्राश्च विप्रर्षी सावधानं प्रचक्रिरे ॥ ४॥ शोकयुक्ता विशेषेण पप्रच्छुस्तं महासुराः । बल्याद्या भयभीताश्च किं जातं वद मानद ॥ ५॥ दैत्येशानां वचः श्रुत्वा भययुक्तो महासुरः । जगाद तान् स वृत्तान्तमाकाशे वाक्समुद्भवम् ॥ ६॥ तच्छ्रुत्वा कुपिता दैत्यास्तमूचुर्मदसंयुताः । (Page खं. ५ अ. ६ पान १२) देवान् मुनिगणान्नाथ हनिष्यामोऽद्य निश्चितम् ॥ ७॥ अस्माकं शत्रवो देवास्तैः कृतं दारुणं महत् । आज्ञापय महाभाग सर्वान् देवजिघांसया ॥ ८॥ ततोऽतिहर्षितः क्रोधः स्वयं युद्धाय सज्जितः । दैत्येशैः संवृतः सद्यो ययौ शैलेन्द्रमुख्यकम् ॥ ९॥ समागतं महाक्रोधं दैत्येशैः संवृतं ततः । देवाः सर्वे भयोद्विग्नाः सस्मरुर्गणनायकम् ॥ १०॥ तेषां स्मरणमात्रेण लम्बोदरः प्रतापवान् । मूषकारूढ एवासावागतोऽभून् महाप्रभुः ॥ ११॥ पाशादिशस्त्रसंयुक्तं सिद्धिबुद्धिसमन्वितम् । नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः ॥ १२॥ ततस्तं ते प्रणेमुर्वै भयं त्यक्त्वा सुहर्षिताः । स्तुत्वा वृत्तान्तमुग्रं तं कथयामासुरादृताः ॥ १३॥ श्रुत्वा वृत्तान्तमुग्रं स तान् जगाद सुराधिपान् । लम्बोदरः प्रसन्नात्मा मुनीन् क्रोधयुतः प्रभुः ॥ १४॥ लम्बोदर उवाच । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् । स्वधर्मस्थान् जनान् सर्वान् करिष्यामि न संशयः ॥ १५॥ ततः क्रोधासुरस्तत्र समीपे समुपागतः । दृष्ट्वा लम्बोदरं देवं भयभीतो बभूव ह ॥ १६॥ उवाच दैत्यपांस्तत्र सत्या वाक् सा न संशयः । अयं लम्बोदरो नूनं देवैः सम्प्रार्थ्यतेऽसुराः ॥ १७॥ तस्य तद्वचनं श्रुत्वा दैत्याः क्रोधारुणेक्षणाः । ऊचुस्तं दैत्यनाथं ते गर्वयुक्ता बलान्विताः ॥ १८॥ दैत्येशा ऊचुः । लम्बोदरयुतान् देवान् हनिष्यामो न संशयः । मा कुरुष्व वृथा चिन्तां रक्ष पृष्ठं महामते ॥ १९॥ देहधारी गणाध्यक्ष आगतो नात्र संशयः । उत्पत्तिनाशवान् देहः किं करिष्यति तेऽशुभम् ॥ २०॥ काव्यं दैत्यगणास्तत्र सस्मरुर्भक्तिसंयुताः । तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवत् ॥ २१॥ तं प्रणम्य गुरुं दैत्या वृत्तान्तं सर्वमञ्जसा । कथयन्ति स्म तं श्रुत्वा शुक्रस्तान् प्रत्युवाच ह ॥ २२॥ शुक्र उवाच । सिद्धिपतिं परित्यज्य सिद्धिमिच्छति दुर्मतिः । तथा त्यक्त्वा बुद्धिपतिं स्फूर्तिमिच्छति मूर्खवत् ॥ २३॥ विघ्नराजं सदैकं यं तं त्यक्त्वा विघ्नहीनकाः । कथं भवन्ति वदत दैत्येन्द्रा मां विनिश्चयात् ॥ २४॥ अतो युद्धं परित्यज्य शरणं तस्य शोभनम् । भविष्यति न सन्देहो नोचेत् क्रोधो मरिष्यति ॥ २५॥ शुक्रस्य वचनं श्रुत्वा बलिस्तत्र जगाद तम् । कर्मणा सिद्धिदाताऽयं स्फूर्तिदाता भवत्यहो ॥ २६॥ कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च । अतो वयं महायोगिन् कर्मणा तं जयामहे ॥ २७॥ तस्य तद्वचनं श्रुत्वा सर्वे दैत्येन्द्रकादयः । साधु साध्वब्रुवंस्तत्र सङ्ग्रामायोद्यता बभुः ॥ २८॥ ततो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ । तूष्णीम्भावं समाधृत्य संस्थितोऽभूत् स योगवित् ॥ २९॥ देवाः सर्वे महास्त्रैस्ते युक्ताः क्रोधसमन्विताः । आययू रणभूमिं च दैत्येशाश्च तथा ययुः ॥ ३०॥ ततः परस्परं युद्धं बभूवे दारुणं महत् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ ३१॥ देवा दैत्या युयुधिरे कृत्वा मरणनिश्चयम् । (Page खं. ५ अ. ६ पान १३) शस्त्रास्त्रैर्बलगर्वेण प्रेरिता रणदुर्मदाः ॥ ३२॥ वीराणामभवन्नादैर्वादित्राणां च वाजिनाम् । बृंहितानां च शङ्खानां दिशो नादयुतास्ततः ॥ ३३॥ सैन्यपादभवो रेणुश्छादयामास भास्करम् । नाभूत् स्वपरबोधोऽपि जघ्नुस्ते च परस्परम् ॥ ३४॥ ततो रक्तप्रवाहश्च सम्भूतः शस्त्रघाततः । रजःकणास्तेन सर्वे मज्जिता अभवन् मृधे ॥ ३५॥ ततः परस्परं दृष्ट्वा जघ्निरे क्रोधसंयुताः । देवाश्च दानवास्तद्वत् परस्परजये रताः ॥ ३६॥ दिनत्रयमभूद्युद्धं घोरं सर्वभयावहम् । ततो दैत्यगणाः सर्वे पपलुस्त्राससंयुताः ॥ ३७॥ देवा हर्षयुतास्तत्र जय लम्बोदर प्रभो । ऊचुस्तान् हन्तुमायाता दैत्येशाः क्रोधसंयुताः ॥ ३८॥ बलिश्च रावणो जृम्भो माल्यवान् कुम्भकर्णकः । राहुश्चान्ये महावीराः सङ्ख्यातुं न प्रशक्यते ॥ ३९॥ तैः शस्त्रनिचयैर्देवाः संहताः पपलुस्तदा । हित्वा सङ्ग्रामभूमिं ते छिन्नभिन्नाः समन्ततः ॥ ४०॥ तत इन्द्रश्च सङ्क्रुद्धः शङ्करो विष्णुरेव च । सूर्यश्चन्द्रश्च देवेन्द्रा आययुः क्रोधसंयुताः ॥ ४१॥ तैरस्त्राणां महावृष्टिः कृता परमदारुणा । तया दैत्यगणाः सर्वे पपलुश्च दिशो दश ॥ ४२॥ ततोऽतिक्रोधसंयुक्ता रावणाद्याः समाययुः । द्वन्द्वयुद्धमभूद्घोरं सर्वेभ्यो भयदायकम् ॥ ४३॥ जृम्भो ययौ महेन्द्रेण राहुः सूर्येण संयुगे । बलिश्च विष्णुना क्रुद्धो रावणः शङ्करेण च ॥ ४४॥ कुम्भकर्णश्च चन्द्रेण नाना दैत्येन्द्रकादयः । देवेन्द्रैर्वायुमुख्यैश्च युयुधुर्जयकाङ्क्षिणः ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६

५.७ क्रोधासुरसमागमो नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एकरात्रं महाघोरं युद्धं बभूव दारुणम् । ततो रक्तप्रवाहैश्च नद्यो जाता जलौघवत् ॥ १॥ न जयः प्राप्यते देवैर्नासुरैर्यमसन्निभैः । मघवा वज्रपातैस्तांश्चूर्णयामास दानवान् ॥ २॥ ततो जृम्भोऽतिसङ्क्रुद्धो गदामादाय दारुणाम् । युयुधे देवराजेन महाबलपराक्रमः ॥ ३॥ गदया देवराजं स मूर्च्छितं प्रचकार ह । ततो हाहाकृतं सर्वैर्देवसैन्यं पपाल तत् ॥ ४॥ इन्द्रः संज्ञासमायुक्तः पुनः संयुयुधे भृशम् । वज्रेण पातयामास जृम्भं तं धरणीतले ॥ ५॥ त्रिशूलेन हतस्तत्र रावणः पतितो भुवि । शङ्करेण ततः सर्वे पपलुर्दानवा मृधे ॥ ६॥ गदया विष्णुना तत्र बलिः सम्मूर्च्छितः कृतः । कुम्भकर्णश्च चन्द्रेण पीडितो मूर्च्छितोऽभवत् ॥ ७॥ राहुः सूर्येण सङ्ग्रामे तेजसा पीडितो भृशम् । पपात मूर्च्छया भूमौ हा हा कृत्वा महामुनी ॥ ८॥ (Page खं. ५ अ. ७ पान १४) द्वन्द्वयुद्धं परे ये ये ह्यकुर्वन्नमरैर्बलात् । ते ते सर्वे च देवेन्द्रैर्जिताः सर्वे पलायिताः ॥ ९॥ भक्तवत्सलभावेन शङ्करो विष्णुरञ्जसा । रावणं च बलिं तत्र चक्रतुर्न मृतौ मृधे ॥ १०॥ ततोऽतिकोपसंयुक्ता देवेन्द्राः शस्त्रवृष्टिभिः । असुरान् मारयामासुः सर्वत्र भयसंयुतान् ॥ ११॥ प्रलयं मेनिरे तत्र दैत्यास्त्राससमाकुलाः । देवांस्ते शरणं जग्मुः केचित् प्राणपरीप्सया ॥ १२॥ जय लम्बोदर स्वामिन् जय विघ्नेश देवप । हेरम्ब वक्रतुण्ड त्वं जयेत्यूचुः प्रहर्षिताः ॥ १३॥ दैत्यानां कदनं दृष्ट्वा क्रोधः परमविस्मितः । निःश्वस्य चिन्तया युक्तो बभूवे किं भविष्यति ॥ १४॥ पितुः शोकं विदित्वा तौ हर्षः शोकश्च संयुगे । ययतुः शस्त्रवर्षेण ववर्ष तौ घनौ यथा ॥ १५॥ तयोरमोघरूपैश्च शस्त्रैर्देवा हता मृधे । छिन्नाङ्गाः पपलुस्तत्र दैत्यसन्त्रासतापिताः ॥ १६॥ इन्द्रं च सहसाऽऽगत्य शोकः परमदारुणः । चकार मूर्च्छितं सद्यो गदया मूर्ध्नि घाततः ॥ १७॥ सङ्गृह्य स्वबले सोऽपि स्थापयामास देवपम् । ततः शुक्रेण दैत्येन्द्रा विद्यया नीरुजाः कृताः ॥ १८॥ बलिमुख्या ययुः सङ्ग्रामं पुनश्च महामुनी । चक्रेण सहसा हर्षश्चन्द्रं चक्रे स मूर्च्छितम् ॥ १९॥ ततः कोपसमायुक्तः शङ्करो युयुधे भृशम् । त्रिशूलेन महादैत्यान् जघान सकलान् प्रभुः ॥ २०॥ शङ्करस्य बलं वीक्ष्य हर्षस्तत्र समाययौ । युयुधे तेन दैत्येन्द्रपुत्रस्तेजस्विनां वरः ॥ २१॥ नानाविधं महाघोरं युद्धं बभूव दारुणम् । हर्षस्य शङ्करस्यैव परस्परजयैषिणोः ॥ २२॥ ततस्त्रिशूलघातेन शङ्करस्तं जघान ह । पतितं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः ॥ २३॥ पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः । हर्षं मूर्च्छाविहीनं वै चकार स्वेन तेजसा ॥ २४॥ ततो हर्षसमायुक्ता दैत्येन्द्रा युयुधुर्भृशम् । विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणम् ॥ २५॥ चक्रेण क्षुरधारेण हता दैत्या अनेकशः । प्रपेलुर्भयसंयुक्ताश्छिन्नभिन्नाङ्गका मृधे ॥ २६॥ ततः शोकः समायातः शूलं मुमोच तैजसम् । आगत्य सहसा विष्णोः पपात हृदि विप्रपौ ॥ २७॥ ततः सम्मूर्च्छितस्तत्र पपात च जनार्दनः । दैत्या हर्षयुताः सर्वे नादं चक्रुर्महारणे ॥ २८॥ ततो हर्षो महाक्रोधाद्गदया मृत्युकल्पया । चकार शङ्करं तत्र पतितं मूर्च्छया भृशम् ॥ २९॥ ततो हा हा रवं कृत्वा देवाः सर्वे पराजिताः । प्रपेलुः सर्वदेवेन्द्रा दैत्याभ्यां त्रासिता बलात् ॥ ३०॥ तद् दृष्ट्वा परमाश्चर्यं लम्बोदरः प्रतापवान् । अङ्कुशं क्रोधसंयुक्तो मुमोच दैत्यमण्डले ॥ ३१॥ तेजोरूपं महास्त्रं तद् दृष्ट्वा दैत्या विसिस्मिरे । यावत्तावच्च दैत्येन्द्रौ हतौ हर्षश्च शोककः ॥ ३२॥ मायया गणनाथश्च शुक्रं गृह्य गुहान्तरे । चिक्षेप च ततः सर्वे प्रपेलू राहुमुख्यकाः ॥ ३३॥ ततोऽतिकोपसंयुक्तः क्रोधः स्वयमुपागतः । पुत्रशोकं हठात् गृह्य बाणवृष्टिं चकार ह ॥ ३४॥ (Page खं. ५ अ. ८ पान १५) तद्बाणैरपि तत्रस्था देवाः सर्वे महामुनी । छिन्नाङ्गा अपलन् सद्यो हाहाकाररवा दिशः ॥ ३५॥ लम्बोदरः समाश्वास्य देवेशस्तान् प्रतापवान् । आययौ रणभूमिं स पाशहस्तोऽसिधारकः ॥ ३६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरसमागमो नाम सप्तमोऽध्यायः ॥ ५.७

५.८ क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । लम्बोदरं महादैत्यः समालोक्य रणं गतः । जगाद क्रोधसंयुक्तः क्रोधः सर्वविचारवित् ॥ १॥ क्रोधासुर उवाच । लम्बोदर महामूर्ख किमर्थं रणमागतः । देवानां हितमिच्छन् सन् मरिष्यसि च मेऽग्रतः ॥ २॥ येन ब्रह्माण्डगं पूर्णं जितं देवादयः कृताः । पशुतुल्या वने संस्था जेतुमिच्छसि तं मुधा ॥ ३॥ मम क्रोधो दहेत् सर्वं त्रैलोक्यं सचराचरम् । तत् पुरः कथमायातः सङ्ग्रामाय सुयन्त्रितः ॥ ४॥ त्वया मदीयकं सैन्यं हतं पुत्रौ हतौ तथा । अधुना शोकसंयुक्तो हनिष्यामि मदान्वितम् ॥ ५॥ शरणं याहि मां नो चेन् मरिष्यसि गजानन । उदरं स्फोटयिष्यामि बाणेनैकेन ते महत् ॥ ६॥ इत्यादि विविधैर्वाक्यैर्लम्बोदरं महासुरः । भर्त्सयामास तं देवो जगाद मदसंयुतम् ॥ ७॥ लम्बोदर उवाच । किं मां वदसि दैत्येन्द्र हनिष्यामि महाखलम् । त्वां धर्मस्य निहन्तारं स्वधर्मस्थापको ह्यहम् ॥ ८॥ सूर्यदत्ताद् वराद् दुष्ट दुष्टकर्मरतो भवान् । अतिपापैश्च तत् सर्वं निष्फलं ते बभूव ह ॥ ९॥ उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेत् । नाऽहं जातो न दैत्येन्द मरिष्यामि कदाचन ॥ १०॥ ब्रह्मभूतं च मां विद्धि सदा स्वानन्दवासिनम् । कथं जेष्यसि तं दुष्ट मनोवाणीविवर्जितम् ॥ ११॥ लम्बोदरस्य वचनं श्रुत्वा तत्तस्य धीमतः । उवाच विस्मितो भूत्वा तं पुनर्दैत्यनायकः ॥ १२॥ क्रोधासुर उवाच । न जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै । मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद ॥ १३॥ लम्बोदर उवाच । इयं मदीयवामांऽगे सिद्धिर्भ्रान्तिस्वरूपिका । सिद्ध्यर्थं सर्वलोकाश्च भ्रमन्ति भ्रान्तिसंयुताः ॥ १४॥ दक्षिणांऽगे स्वयं बुद्धिः संस्थिता भ्रान्ति धारिणी । बुध्या बुध्या पुनस्तत्र भ्रान्तो भवति मानवः ॥ १५॥ चित्तरूपा स्वयं बुद्धिः पञ्चधा परिकीर्तिता । पञ्चभ्रान्तिमयी सिद्धिस्तयोः पतिरहं किल ॥ १६॥ नाना विश्वं महादैत्य नाना ब्रह्म तथा सदा । मदीयोदरगं विद्धि तेन लम्बोदरः स्मृतः ॥ १७॥ ममोदरात् समुत्पन्नं मया सम्पालितं तथा । अन्ते उदरगं कृत्वा क्रीडयामि निरन्तरम् ॥ १८॥ अतो मां शरणं गच्छ जीवितुं यदि वाञ्छसि । (Page खं. ५ अ. ८ पान १६) शुक्रो मां वेत्ति तेन त्वं बोधितोऽपि न बुद्ध्यसे ॥ १९॥ नाऽहं दैत्यवधाकाङ्क्षी तथा देववधप्रियः । स्वस्वधर्मयुतान् सर्वान् पालयामि न संशयः ॥ २०॥ पाताले दैत्यपाः सर्वे नरा भूमौ सुरा दिवि । संस्थिताश्चेदहं दैत्य स्वानन्दस्थो भवामि च ॥ २१॥ देवाः क्रोधसमाविष्टा जघ्नुर्दैत्यान् विशेषतः । पातालस्थांस्ततोऽहं वै दैत्येभ्यः सिद्धिदोऽभवम् ॥ २२॥ पुनस्तपोयुता दैत्या जित्वा देवान् महाबलान् । कर्मखण्डनभावेन हन्तुमिच्छां प्रचक्रिरे ॥ २३॥ तदाऽहं देवसङ्घेभ्यः सिद्धिदाताऽभवं पुरा । तेन च्छिद्रज्ञका देवा जघ्नुः सर्वासुरान् पुनः ॥ २४॥ त्वया सर्वं जितं दैत्य देवमूलनिकृन्तनः । सर्वेन्द्रस्तेन भवसि त्वां हनिष्यामि निश्चितम् ॥ २५॥ तस्य तद्वचनं रम्यं श्रुत्वा क्रोधासुरः पुनः । विस्मितस्तं जगादैव हर्षनिर्भरमानसः ॥ २६॥ क्रोधासुर उवाच । नमामि त्वां गणाध्यक्ष सुरासुरमयं परम् । अधुना भक्तिसंयुक्तं पालयस्व शरण्यद ॥ २७॥ दर्शय स्वात्मरूपं मे सर्वसंशयनाशनम् । लम्बोदरार्थसंयुक्तं ब्रह्माकारं गजाननम् ॥ २८॥ लम्बोदरस्तस्य वाक्यं समाकर्ण्य सुहर्षितः । भक्तियुक्तं मनस्तस्य ज्ञात्वा रूपमदर्शयत् ॥ २९॥ ज्ञानचक्षुश्च सन्दत्तं तेन दैत्याय तं पुनः । लम्बोदरं महाक्रोधोऽपश्यत् परमविस्मितः ॥ ३०॥ ब्रह्मेशं प्रणनामाऽथ सरोमाञ्चो महासुरः । लम्बोदरः पुनस्तत्र पूर्वरूपो बभूव ह ॥ ३१॥ तत्र क्रोधासुरस्तं वै पूजयन् भक्तिसंयुतः । नत्वा तुष्टाव संहृष्टः साश्रुनेत्रः प्रतापवान् ॥ ३२॥ क्रोधासुर उवाच । लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे । सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ ३३॥ असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः । सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ ३४॥ स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ ३५॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो । ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ३६॥ त्वदीयकृपया देव मया ज्ञातं महोदर । त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ३७॥ हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे । आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ३८॥ सिद्धिबुद्धिविहारज्ञ सिद्धिबुद्धिपते नमः । सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ३९॥ सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः । सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ४०॥ अतः प्रसीद विघ्नेश दासोऽहं ते गजानन । लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ४१॥ स्वत उत्थानपरत उत्थाने ब्रह्म धारयन् । तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ ४२॥ इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् । तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ४३॥ लम्बोदर उवाच । वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् । दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ ४४॥ (Page खं. ५ अ. ९ पान १७) त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ ४५॥ श‍ृणुयात्तस्य तद्वच्च भविष्यति न संशयः । यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ ४६॥ क्रोधासुर उवाच । यदि लम्बोदर त्वं मे प्रसन्नो वरदोऽसि भोः । तदा त्वत्पादपद्मे च भक्तिं देहि दृढां प्रभो ॥ ४७॥ आज्ञां कुरु महाभाग सेवार्थं तां करोम्यहम् । स्थानं वृत्तिं च मे देहि देहपोषणकारिणीम् ॥ ४८॥ ब्रह्मोवाच । क्रोधासुरस्य वाक्यं तच्छ्रुत्वा हर्षसमन्वितः । लम्बोदरस्तं जगाद स पुनर्दैत्यनायकम् ॥ ४९॥ लम्बोदर उवाच । मदीया सुदृढा भक्तिः प्रभविष्यति तेऽनघ । वस त्वं भयहीनश्च स्थाने ते नात्र संशयः ॥ ५०॥ यत्रारम्भे महादैत्य मदीयं स्मरणं न हि । तत्र त्वं दैत्यभावेन कुरु राज्यं महामते ॥ ५१॥ तदीयपुण्यजं सर्वं भुङ्क्ष्व नित्यं सुकर्मजम् । ज्ञानादिसकलं तद्वत् त्वदीयं नात्र संशयः ॥ ५२॥ मद्भक्ता ये महादैत्य तान् रक्षस्व यथासुखम् । गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः ॥ ५३॥ एवमुक्तो महादैत्यः क्रोधः परमहर्षितः । लम्बोदरं प्रणम्यैव ययौ स्वस्थानमुत्तमम् ॥ ५४॥ दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः । पातालं विविशुर्विप्रौ शुक्रः संहर्षितोऽभवत् ॥ ५५॥ एवं क्रोधासुरं शान्तं चकार गणनायकः । क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितोऽभवत् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः ॥ ५.८

५.९ लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ १॥ पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ २॥ देवर्षय ऊचुः । श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् । नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ ३॥ बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् । वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ ४॥ जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ ५॥ सोऽहं सदाभेदविवर्जितं वै देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ ६॥ बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ ७॥ नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुः श्रुतितुण्डभूतम् । (Page खं. ५ अ. ९ पान १८) सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥ संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् । आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ ९॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ १०॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ ११॥ अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् । देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ १२॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ १३॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ १४॥ आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ १५॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दश नामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ १६॥ तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् । सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः ॥ १७॥ जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ १८॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ १९॥ विराट्स्वरूपस्थमनन्तपारं सर्वत्रनेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ २०॥ रजोयुतं सृष्टिकरं द्विजेशमादिस्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ २१॥ सत्त्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् । सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ २२॥ इत्यादिभेदैः सुविराजमानं सर्वैविहीनं तु कथं स्तुवीमः । देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ २३॥ ब्रह्मोवाच । स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तानुवाच महाभागान् सुसिद्धिदः ॥ २४॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां श‍ृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ २५॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ २६॥ मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ २७॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ २८॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्वमेकविंशतिवारतः ॥ २९॥ (Page खं. ५ अ. ९ पान १९) एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति । स सद्यो हि फलं भुङ्क्त एकविंशद्दिनावधि ॥ ३०॥ प्रसन्नोऽहं प्रदास्यामि स्तोत्रेण मुनयोऽमराः । वरं ब्रूत महाभागा यद्यपि स्यात् सुदुर्लभम् ॥ ३१॥ लम्बोदरवचो देवर्षयः श्रुत्वा प्रणम्य तम् । जगुः प्रहृष्टचित्तास्ते साश्रुनेत्राः सुयन्त्रिताः ॥ ३२॥ देवर्षय ऊचुः । लम्बोदर प्रसन्नोऽसि वरदोऽसि महाप्रभो । तव भक्तिं सुसम्पूर्णां देहि क्रोधविवर्जिताम् ॥ ३३॥ क्रोधासुरस्त्वया नाथ कृतः सुशान्तिधारकः । तेन विश्वं गणाधीश वरयुक्तं कृतं प्रभो ॥ ३४॥ स्वस्वकर्मरताः सर्वे भविष्यन्ति सुधर्मिणः । वयं च स्वाधिकारेषु स्थास्यामस्त्वत्प्रसादतः ॥ ३५॥ मुनयो भयहीनास्ते यथाऽऽचारकराः प्रभो । भविष्यन्ति गणाधीश कं वरं तु वृणीमहे ॥ ३६॥ एवमुक्त्वा प्रणेमुस्ते लम्बोदरं सुखप्रदम् । ननृतुस्तत्पुरः सर्वे हर्षनिर्भरमानसाः ॥ ३७॥ लम्बोदरस्तानुवाच तथेत्येव प्रतापवान् । अन्तर्धानं चकाराऽसौ पश्यताममरर्षिणाम् ॥ ३८॥ ततो देवा द्विजास्तत्र मूर्तिं कृत्वा सुशोभनाम् । चतुर्भुजां गणेशस्य स्थापयामासुरादरात् ॥ ३९॥ पश्चिमे सागरे तीरे पुपूजुस्तां विशेषतः । तदादि तत् समुद्भूतं क्षेत्रं लम्बोदरस्य च ॥ ४०॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयोऽमलाः । पूर्णभावेन तत्रैव भक्तिं कुर्वन्ति नित्यदा ॥ ४१॥ एतल्लम्बोदरस्यैव कथितं सुचरित्रकम् । विश्वामित्रवसिष्ठौ च संश्रुतं क्रोधनाशनम् ॥ ४२॥ असद्ब्रह्ममयो लम्बोदरश्चायं गणेश्वरः । स्वतः परत उत्थानं करोति लीलया प्रभुः ॥ ४३॥ तस्य रूपं परं केन वक्तुं नैव प्रशक्यते । सर्वसंयोगयोगेन लभ्यते योगसेवया ॥ ४४॥ अयं लम्बोदरश्चैव पूर्णयोगप्रवाचकः । संयोगायोगयोर्योगे लभ्यते योगसेवया ॥ ४५॥ उदरात्तस्य सम्भूतौ संयोगायोगरूपकौ । तेन लम्बोदरश्चायं कथ्यते वेदवादिभिः ॥ ४६॥ असित उवाच । एवमुक्त्वा स्वयं ब्रह्मा विरराम महामते । वसिष्ठस्तं प्रणम्यैव गतः स्वाश्रममण्डले ॥ ४७॥ विश्वामित्रश्च मेधावी निःश्वस्य स्वस्थलं गतः । एवं गते मया तत्र पृष्टः सोऽपि पितामहः ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे गजाननचरिते लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः ॥ ५.९ (Page खं. ५ अ. १० पान २०)

५.१० वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ नैध्रुव उवाच । श्रुत्वा कथां महाभाग क्रोधशान्तिकरीं प्रभो । न तृप्यामि पुनः स्वामिन् वद विघ्नेशचेष्टितम् ॥ १॥ त्वया पृष्टः कथं ब्रह्मा स जगाद किमप्यहो । तद्वदस्व दयासिन्धो तात योगप्रदं हि चेत् ॥ २॥ मुद्गल उवाच । एवं पृष्टो महातेजा नैध्रुवेण पितृव्यकः । कथान्तरमुवाचेदं महायोगप्रदं महत् ॥ ३॥ असित उवाच । श‍ृणु पुत्र प्रवक्ष्यामि योगशान्तिपदप्रदम् । गणेशानस्य माहात्म्यं ब्रह्मेशस्य विचक्षण ॥ ४॥ ब्रह्माणं च प्रणम्यादावपृच्छं विनयान्वितः । वद तात महायोगं शान्तिदं सर्वतारक ॥ ५॥ सहजे च महायोगिन् स्वाधीनत्वं प्रदृश्यते । स्वेच्छामयं कथं नाथ भवति ब्रह्म ते नमः ॥ ६॥ अतः शान्तिविहीनौ त्वां समागतौ न संशयः । शान्त्यर्थं वद किं सेव्यं करिष्यावस्त्वदाज्ञया ॥ ७॥ असित उवाच । वत्सरेण मया तात पृष्टः सर्वविदां वरः । उवाच प्रेमसंयुक्तो गाणपत्यः पितामहः ॥ ८॥ ब्रह्मोवाच । कर्मज्ञानं समं ब्रह्म सहजं तु चतुर्थकम् । तेषां संयोगभावे वै स्वानन्दो मौनधारकः ॥ ९॥ तत्र स्वाधीनगं ब्रह्म पराधीनं कुतस्त्रिधा । स्वसंवेद्यमयेनैव सुतो योगेन लभ्यते ॥ १०॥ संयोगो मायया युक्तः सर्वसंयोगभावतः । अयोगे सर्वसंयोगो नश्यति व्यतिरेकतः ॥ ११॥ निवृत्त्या स्वधिया ब्रह्म प्राप्यते नान्यथा क्वचित् । स्वकीयाऽभेदतस्तत्र निवृत्तिर्योगिभिर्धृता ॥ १२॥ संयोगायोगयोर्योगे योगः शान्तिप्रदायकः । शान्त्या स एव लभ्यश्च सुतौ भवति नान्यथा ॥ १३॥ शान्तिरूपधरं पूर्णं गणेशं संवदन्ति च । वेदास्तं भावसंयुक्तो मुनी यदि भजिष्यथः ॥ १४॥ तदा शान्तियुतौ योगी भवन्तौ योगिसम्मतौ । भविष्यथो महाभागौ नान्यथा मे वचोऽनृतम् ॥ १५॥ सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः । गजाकारं तयोर्योगे गणेशो देहधारकः ॥ १६॥ गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः । तेषां स्वामी न सन्देहो गणेशो नामधारकः ॥ १७॥ चित्तरूपा महाबुद्धिश्चित्तमोहकरी मता । सिद्धिस्तयोः पतिः साक्षाद्गणेशो वेदवादतः ॥ १८॥ चित्तं मोहयुतं त्यक्त्वा चिन्तामणिं भजिष्यथः । योगशान्त्या महाभागौ नित्यं तं योगरूपकम् ॥ १९॥ असित उवाच । एवमुक्त्वा विधाता वां विरराम महामते । वत्सरेण समायुक्तस्तं प्रणम्य वनेऽगमम् ॥ २०॥ आवाभ्यां साधितं पुत्र यथोद्दिष्टं च वेधसा । शमदमयुताभ्यां वै शान्तिः प्राप्ता सुनिश्चला ॥ २१॥ तथापि गणराजस्य भजने निरतौ पुरा । गते वर्षे गणाध्यक्ष आययौ वरदायकः ॥ २२॥ तं दृष्ट्वा प्रणतौ देवं पुनः पूज्य यथाविधि । गणेशानं तुष्टुविव भक्त्या नम्रात्मकन्धरौ ॥ २३॥ असितवत्सरावूचतुः । लम्बोदर नमस्तुभ्यं सततं योगरूपिणे । योगाकारशरीराय योगशान्तिप्रदायिने ॥ २४॥ विघ्नेशाय महाभक्तानां विघ्नहरणाय च । अभक्तानां महाविघ्नकारिणे ते नमो नमः ॥ २५॥ (Page खं. ५ अ. १० पान २१) स्वानन्दवासिने तुभ्यं सदा स्वानन्ददायिने । मूषकवाहनायैव मूषकध्वज वै नमः ॥ २६॥ अनाथाय गणेशाय सर्वेषां नाथरूपिणे । नाथानां नाथरूपाय विनायक नमोऽस्तु ते ॥ २७॥ हेरम्बाय च सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठ ते नमः ॥ २८॥ अमेयायाऽप्रेमयायाऽनन्तखेलकराय ते । अनन्तानन्तरूपायानन्तदाय नमो नमः ॥ २९॥ सिद्धिबुद्धिपते नाथ भक्तसंरक्षकाय च । नानाशक्तिप्रपालायानन्तमायाविहारिणे ॥ ३०॥ गजवक्त्राय सर्वेषामादिपूज्याय ते नमः । सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः ॥ ३१॥ वक्रतुण्डाय वीराय चैकदन्ताय ते नमः । महोदराय देवाय देवदेवेश ते नमः ॥ ३२॥ असुराणां सहायाय नानावरप्रदाय च । असुराणां निहन्त्रे त आसुराय नमो नमः ॥ ३३॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणां ब्रह्मवादिने । ब्रह्माकाराय वै ढुण्ढे वेदवेद्याय ते नमः ॥ ३४॥ मनोवाणी विहीनाय मनोवाणीमयाय च । योगेशाय परेशाय सर्वामयविवर्जित ॥ ३५॥ किं स्तुवस्त्वां गणाधीश यत्र शान्तिं समागताः । वेदा योगीन्द्रमुख्याश्चास्तुवन्तं प्रणमावहे ॥ ३६॥ एवं स्तुतो गणाधीशस्तौ जगाद महामुनी । वरं संवृणुतं विप्रौ दास्यामि भक्तियन्त्रितः ॥ ३७॥ भवद्भ्यां यत् कृतं स्तोत्रं तदेव मे प्रियं भवेत् । सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकम् ॥ ३८॥ एवमुक्तौ महायोगिनावूचतुर्गजाननम् । भक्तिं देहि गणाध्यक्ष त्वत्पदे सुदृढां पराम् ॥ ३९॥ गाणपत्यप्रियत्वं नौ देहि नाथ नमोऽस्तु ते । नान्यं वरं गणाधीश वृणुवः सुखदं कदा ॥ ४०॥ तथेति तावुवाचाथ गणेशोंऽतर्दधे स्वयम् । आवां भक्तिसमायुक्तौ भजावो गणनायकम् ॥ ४१॥ इति ते कथितं वत्स ज्ञानं गणपतेर्मया । शमदमपरो भूत्वा भज तं गणनायकम् ॥ ४२॥ एवमुक्त्वाऽसितस्तं वै नैध्रुवं गणपस्य सः । मन्त्रं ददौ प्रजानाथ तस्मात् एकाक्षरं पुनः ॥ ४३॥ ततश्चान्तर्हितो योगी सोऽसितः परमार्थवित् । गणेशं नैध्रुवस्तेपे तपः सम्पूज्य यत्नतः ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः ॥ ५.१० (Page खं. ५ अ. ११ पान २२)

५.११ लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नैध्रुवो योगमार्गेण शमदमपरायणः । शान्तिं प्राप्तः क्रमेणैव योगिवन्द्यो बभूव ह ॥ १॥ ततः सोऽपि गणाधीशं न मुमोच तताप सः । तपः सेवापरो भूत्वा गाणपत्यप्रियार्थतः ॥ २॥ एवं तस्य तपो ज्ञात्वा तं ययौ स गजाननः । तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ॥ ३॥ पुपूज भक्तिसंयुक्तः साश्रुनेत्रो महायशाः । सरोमाञ्चः प्रतुष्टाव सूक्तैर्गाणेशकैः प्रभुम् ॥ ४॥ ततस्तुष्टो गणाधीशस्तस्मै भक्तिं ददौ दृढाम् । गाणपत्यप्रियं कृत्वांऽतर्धानं स चकार वै ॥ ५॥ तदादि नैध्रुवो योगी गाणपत्यो बभूव ह । भजते गणनाथं सोऽधुना सर्वत्र सम्मतः ॥ ६॥ इति ते कथितं दक्ष चरित्रं सर्वदं परम् । लम्बोदरस्य माहात्म्यं सर्वशान्तिप्रदं प्रभो ॥ ७॥ क्रोधासुरचरित्रं तत्तथा ते कथितं मया । न संशयो भवेत्तस्मै श्रवणात् क्रोधशान्तिदम् ॥ ८॥ स्वस्वखण्डेषु सर्वत्र पश्चिमान्तदिगन्तरे । मुनिभिः स्थापितो लम्बोदरश्चैव गजाननः ॥ ९॥ तस्य दर्शनमात्रेण यथेप्सितफलं लभेत् । समुद्रतीरसंस्थस्य मूषकारूढकस्य वै ॥ १०॥ एवं लम्बोदरस्यांशा अनन्ता विविधाः स्मृताः । स्वस्वधर्मप्ररक्षार्थं जनेभ्यः सर्वदाः प्रभो ॥ ११॥ तेषां चरित्रकोट्यंशो वक्तुं नैव प्रशक्यते । ब्रह्मादिभिर्महाभाग तत्र कोऽहं नराकृतिः ॥ १२॥ जगद्ब्रह्मक्रियार्थं स याचितस्तैः पुरा प्रभो । शक्तिरूपावतारं च धृत्वा सर्वार्थदोऽभवत् ॥ १३॥ महिषासुरनाशार्थं याचितो मायया पुरा । विघ्नराजः स्वयं सोऽपि बभूवे धर्मपालकः ॥ १४॥ मायाकरविनाशाय शेषपुत्रो बभूव ह । लम्बोदरः स्वयं साक्षात् स वै मूषकगः स्मृतः ॥ १५॥ सावर्णिमनुना चैवाऽऽराधितो गणनायकः । बभूव वै तत्र लम्बोदरः शक्तिविनायकः ॥ १६॥ ब्रह्म नानाविधं वेदे कथितं तु प्रजापते । जगत्तेषां तथा भिन्नं विहारार्थं बभूव ह ॥ १७॥ तेषु स्वानन्दभावेन स्थितोऽयं ब्रह्मधारकः । संयोगाभेदयोगेन स वै लम्बोदरः स्मृतः ॥ १८॥ संयोगाभेदयोगेन समाधिना प्रजापते । नानाविधं जगद्ब्रह्म भवन्नश्यति तद्गतम् ॥ १९॥ तेषां भेदा गणेशेन तथा सृष्टाश्च पालिताः । हृतास्तेन समाख्यातो वेदे स ब्रह्मवाचकः ॥ २०॥ भेदा असत्यरूपाश्च तेषां ब्रह्म प्रकथ्यते । शक्तिर्जानीहि तां लम्बोदरमेव गजाननम् ॥ २१॥ समुत्पन्नास्तदुदरादन्ते तत्र गता बभुः । भेदा लम्बोदरस्तेन समाख्यातो ह्यसन्मयः ॥ २२॥ इदं लम्बोदराऽऽख्यानं कथितं ते प्रजापते । श्रवणात् पठनात् सर्वदायकं सर्वसम्मतम् ॥ २३॥ श्रोतुमिच्छसि किं भूयस्तद्वदस्व प्रजापते । कथयिष्यामि ते भावं प्रभो ज्ञात्वा गणेश्वरे ॥ २४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः ॥ ५.११ (Page खं. ५ अ. १२ पान २३)

५.१२ शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । लम्बोदरस्य माहात्म्यं त्वं जानासि सुखप्रदम् । मुखाम्बुजात् स्रवति च यस्यैवं शान्तिदामृतम् ॥ १॥ लम्बोदरस्य माहात्म्यं श्रुतं क्रोधहरं परम् । श्रोतुमिच्छा तथा मेऽपि वर्धते भावसंयुता ॥ २॥ अतो वद महाभाग पुनर्विघ्नेशसत्कथाम् । दक्षेण संश्रुतां पुण्यां मुद्गलाद्योगसागरात् ॥ ३॥ सूत उवाच । मुने शौनक धन्यस्त्वं महच्छृणु कथामृतम् । दक्षेण संश्रुतं पूर्णं मुद्गलेन प्रभाषितम् ॥ ४॥ लम्बोदरकथां श्रुत्वा हृष्टरोमा प्रजापतिः । प्रणम्य मुद्गलं विप्रमुवाच वचनं हितम् ॥ ५॥ दक्ष उवाच । धन्योऽसि योगिवन्द्योऽसि मुद्गल त्वं न संशयः । कथां वदसि कल्याणदायिनीं हर्षवर्धिनीम् ॥ ६॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृतसन्निभाम् । अधुना वद योगीन्द्र पुनर्गणपतेः कथाम् ॥ ७॥ लम्बोदरः कथं चायं शक्तिरूपो बभूव ह । तस्य मुख्यं चरित्रं मे वद सर्वार्थदायकम् ॥ ८॥ शक्त्या संराधितो देवो महिषस्य वधाय च । कथं प्रकटरूपोऽसौ बभूवे तद्वदस्व मे ॥ ९॥ शेषपुत्रः कथं साक्षाद्बभूव गणनायकः । मायाकरविनाशाय कथं मूषकगः स्मृतः ॥ १०॥ सावर्णिमनुना चैव कथमाराधितोऽभवत् । कथं शक्तिगणेशानोऽवतारः प्रबभूव ह ॥ ११॥ एतत्सर्वं सुविस्तीर्य वद मे करुणानिधे । लम्बोदरावताराश्च सुखदाः श्रवणात् प्रभो ॥ १२॥ अन्यत्त्वं वद योगीन्द्र गाणपत्यस्वरूपकम् । दीक्षायुक्तं विशेषेण कीदृशो गणपः स्मृतः ॥ १३॥ पूजा गणपतेश्चैव कीदृशी क्रियते जनैः । मन्त्रः केन प्रकारेण गृह्यते गुरुवक्त्रतः ॥ १४॥ विधियुक्तं गाणपत्यमार्गं मे वद विस्तरात् । येनाहं गाणपत्यश्च भविष्यामि सुदीक्षया ॥ १५॥ गाणपत्यांश्च योगीन्द्र प्रभो ज्ञास्यामि दृष्टिगान् । तदर्थं वद विप्रर्षे सर्वज्ञोऽसि न संशयः ॥ १६॥ महाभाग्येन ते विप्र दर्शनं मेऽभवत् किल । तव पादस्य वैचित्र्यं सर्वसन्तोषकारकम् ॥ १७॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण गणपप्रियः । जगाद तं प्रजानाथं पुनर्भावेन तोषितः ॥ १८॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि दक्ष त्वं नात्र संशयः । येन प्रीतिर्गणपतावद्भुता ते प्रजापते ॥ १९॥ प्रष्टुः श्रोतुश्च वक्तुर्वै पावनीं सर्वदां पराम् । गणेशं कथयिष्यामि भक्तिं दृष्ट्वा सुतोषितः ॥ २०॥ आदौ ब्रह्म च यत् प्रोक्तं तदेव ब्रह्मणि स्थितम् । स्वेच्छा तत्र समुत्पन्ना माया तस्य प्रजायते ॥ २१॥ स्वेच्छया द्विविधं जातं तदेवात्र न संशयः । स्वतः परत उत्थानात्तच्छृणुष्व सुयोगदम् ॥ २२॥ सदा स्वसुखनिष्ठं वै नानामायाविवर्जितम् । तद्वै परत उत्थानवाचकं कथितं मया ॥ २३॥ मायाखेलकरं यच्च ब्रह्म स्वेच्छामयं प्रभो । स्वत उत्थानकं प्रोक्तं पश्य वेदेषु मानद ॥ २४॥ स्वत उत्थानकं ब्रह्म विकल्पं प्रचकार ह । विकल्पात्तत् द्विधा भूतमेकानेकमयत्वतः ॥ २५॥ एकं देहिस्वरूपं तद्बहुरूपं शरीरकम् । ताभ्यां चतुर्विधं सृष्टं जगदेतच्चराचरम् ॥ २६॥ (Page खं. ५ अ. १२ पान २४) एते ब्रह्मगणाः सर्वे क्रियासामर्थ्यहीनतः । न शक्ताः स्वस्वकार्येषु तपोयुक्तास्ततोऽभवन् ॥ २७॥ स्वस्वरूपं च सर्वेषां भवेत्तु किल यादृशम् । तादृशाय नमस्तुभ्यं मन्त्रं जेपुः परेश्वराः ॥ २८॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । नरकुञ्जररूपः स प्रकटोऽभूत् हृदि प्रभुः ॥ २९॥ तं दृष्ट्वा ज्ञानसम्पन्ना जाता ब्रह्मगणाः परम् । ततस्ते ध्यानशीलाश्च पुपूजुर्हृदि संस्थितम् ॥ ३०॥ तेषां पुरः स्वयं साक्षात् प्रकटोऽभूत् प्रजापते । शक्तिरूपधरो भूत्वा प्रसन्नो वरदायकः ॥ ३१॥ चतुर्बाहुधरा देवी सर्वावयवसंयुता । स्तनभारभराक्रान्ता शुशुभे परमात्मिका ॥ ३२॥ तां दृष्ट्वा विस्मिताः सर्वे पप्रच्छुः स्वहिते रताम् । का त्वं कस्मादिहायाता वद नः सकलं परे ॥ ३३॥ श्रीदेव्युवाच । गणेशोऽहं महाभागा यं ध्यायथ तपोन्विताः । तपसा तुष्टभावेन वरदाता समागतः ॥ ३४॥ एवमुक्त्वा स्वयं तत्र शक्तिः सा परमाद्भुता । गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् ॥ ३५॥ लम्बोदरं समालोक्य पुनर्विस्मितचेतसा । स्तोत्रं तैर्वै समारब्धं तावत् स्त्रीरूपमादधे ॥ ३६॥ दृष्ट्वा ब्रह्मगणास्तां ते विस्मिता गणपे रताः । गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ॥ ३७॥ ततस्तैश्चेष्टितं तस्य ज्ञातं भक्त्या प्रजापते । लम्बोदरः स्वयं शक्तिरूपोऽयं नात्र संशयः ॥ ३८॥ या शक्तिः स गणेशानो गणेशः शक्तिरुच्यते । लम्बोदरात्मिका साक्षात् सर्वेषां जननी परा ॥ ३९॥ ततस्तां ते प्रणम्यादौ तुष्टुवुःकरसम्पुटैः । प्रजानाथ ब्रह्मगणाः सरोमाञ्चा विशेषतः ॥ ४०॥ ब्रह्मगणा ऊचुः । नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने । सर्वसत्ताप्रदात्र्यै ते जगदम्ब नमोऽस्तु ते ॥ ४१॥ अपारायै च सर्वेभ्यः सर्वदायै नमो नमः । भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥ ४२॥ सदा स्वानन्दसंस्थायै जगद्ब्रह्मप्रचालिके । नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥ ४३॥ अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि । कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥ ४४॥ समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः । तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥ ४५॥ स्तनपानेन देवेशि पोषणं कुरुषे सदा । स्थितिरूपं तदेवाङ्गे स्तनौ ते वै नमो नमः ॥ ४६॥ अन्ते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च । संहारकं तदेवाङ्गे मुखं ते वै नमो नमः ॥ ४७॥ मनोवाणीविहीना त्वं भक्तवत्सलभावतः । स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥ ४८॥ किं स्तुमस्त्वां महामाये शक्तिनामधरे परे । सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥ ४९॥ वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् । त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥ ५०॥ इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो । प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥ ५१॥ शक्तिरुवाच । वरान् ब्रह्माणि वृणुत येषां ये मनसीप्सिताः । (Page खं. ५ अ. १२ पान २५) दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः ॥ ५२॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । भक्तिप्रदं महाभागाः सर्वसामर्थ्यदायकम् ॥ ५३॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ५४॥ एवं शक्तेर्वचः श्रुत्वा तां ब्रह्माणि प्रणम्य च । जगुः प्रहृष्टभावेन तां परां सर्वमातरम् ॥ ५५॥ ब्रह्माण्यूचुः । वरान् दास्यसि सर्वेशि तदा ते भक्तिमुत्तमाम् । देहि शक्ते यया मोहो नश्यत्यत्र न संशयः ॥ ५६॥ किं कर्तव्यं महादेवि तत्र सामर्थ्यमुत्तमम् । देह्यस्मभ्यस्ततो मातः करिष्यामश्च ते प्रियम् ॥ ५७॥ तेषां वचनमाकर्ण्य सन्तुष्टा सर्वदायिनी । तथेति तान्युवाचाथांऽतर्धानं सा चकार ह ॥ ५८॥ ततो वरबलेनैव सृष्ट्वा विश्वं चराचरम् । स्वस्वभोगप्रदं भिन्नं तेषु क्रीडन्ति नित्यदा ॥ ५९॥ पालयन्ति च विश्वानि संहरन्ति प्रजापते । स्वमहिम्नि स्थितान्येव ब्रह्माण्यत्र न संशयः ॥ ६०॥ इति ते कथितश्चायमवतारः पुरातनः । लम्बोदरस्य भो दक्ष शक्तिरूपः सुखप्रदः ॥ ६१॥ यः श‍ृणोति नरो भक्त्या तस्मै सर्वार्थदो भवेत् । ब्रह्मभूतकरश्चापि भुक्तिमुक्तिप्रदः परः ॥ ६२॥ सूत उवाच । श्रुत्वा मुद्गलवाक्यं वै दक्षो हृष्टमनाः स्वयम् । जगाद तं पुनर्विप्र श‍ृणु संशयसंयुतः ॥ ६३॥ दक्ष उवाच । त्वया मुद्गल माहात्म्यं कथितं शक्तिसम्भवम् । श्रुतं मया महाभाग तथापि नुद संशयम् ॥ ६४॥ ब्रह्माणि देहहीनानि देहिहीनानि योगिप । तपादिकं तेषु नाथ कथं भवति तद्वद ॥ ६५॥ साश्रुनेत्रादिकं सर्वं स्तुतिपूजादिकं प्रभो । कथं तेषु भवेदेतद्भ्रान्तोऽहमधुना ह्यतः ॥ ६६॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः । जगाद तं प्रजानाथं सर्वज्ञानां शिरोमणिः ॥ ६७॥ मुद्गल उवाच । ब्रह्माणि ब्रह्मभूतानि तेषु नास्ति महामते । देहदेहिमयो भाव इति सत्यं श्रुतेर्मुखात् ॥ ६८॥ तथापि सर्वरूपाणि वदन्ते तानि निश्चितम् । देहविकारहीनानि देहरूपाणि सर्वतः ॥ ६९॥ देहिविकारहीनानि देहिरूपाणि सर्वतः । ताभ्यां हीनानि भो दक्ष द्वाभ्यां वै संयुतानि च ॥ ७०॥ ब्रह्माणि सर्वशास्त्रेषु विचारय महामते ॥ अतः सर्वं सदा तेषु सम्भवति न संशयः ॥ ७१॥ अन्यच्च श‍ृणु वाक्यं मे सर्वसंशयनाशनम् । ब्रह्मणि ब्रह्मभावश्च वक्तुं केन न शक्यते ॥ ७२॥ सर्वं भोगादिकं तेषां तप आदि महामते । कथनीयं कथं शास्त्रैर्देहवद्वर्ण्यते ह्यतः ॥ ७३॥ शिष्यस्य बोधदानार्थं जानीहि त्वं प्रजापते । मा कुरुष्व वृथा तत्र संशयं वा विकारकम् ॥ ७४॥ सूत उवाच । मुद्गलस्य वचःश्रुत्वा हृष्टो दक्षस्तमब्रवीत् । संशयो मे गतःस्वामिंस्त्वदुक्तवचसाऽधुना ॥ ७५॥ लम्बोदरस्य माहात्म्यमधुना वद मानद । सर्वज्ञस्त्वमतो निःसंशयं सर्वं करोषि वै ॥ ७६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ५.१२

५.१३ शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरा दैत्याधिपः क्रूरो ब्रह्मणो वरदानतः । महिषासुरनामाऽथ बभूव भुवनाधिपः ॥ १॥ जित्वा देवगणान् सर्वांस्तथा स्वर्गेषु दैत्यपान् । स्थापयामास दुर्बुद्धिरवध्यः सर्वभावतः ॥ २॥ ततः कर्मविहीनं वै चकार स धरातलम् । अभवन्नमराः सर्वे उपोषणपरास्ततः ॥ ३॥ ततो देवर्षिभिस्तत्र तपसाऽऽराधिताऽभवत् । शक्तिः सर्वमयी साक्षादसत्स्वानन्दवासिनी ॥ ४॥ प्रगतेषु सहस्रे वै वर्षेषु प्रकटाऽभवत् । वरदानैर्वृता देवी वधाय महिषस्य सा ॥ ५॥ पुरुषात्तस्य भवति न भयं महिषस्य च । जिता वयं महादेवि रक्ष नो महतो भयात् ॥ ६॥ तस्य नाशं कुरुष्व त्वं सर्वेषां सुखकारणात् । पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयात् ॥ ७॥ तथेति तानुवाचैव सिंहगा क्रोधसंयुता । ययौ दैत्यवधार्थं सा महामाया प्रजापते ॥ ८॥ स्थिता वनान्तरे धृत्वा मोहिनीरूपकं जगौ । गानं रसयुतं शक्तिः शुश्रुवे तत्र कोऽसुरः ॥ ९॥ स आगत्य महाशक्तिं दृष्ट्वा मोहयुतोऽभवत् । गत्वा दैत्याधिपं सद्यः कथयामास विस्तरात् ॥ १०॥ न ब्रह्माण्डे समं किञ्चित्तया रूपेण तेजसा । स्त्रीरत्नं तद्विजानीहि राज्यभोगि गृहाण च ॥ ११॥ दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः । प्रधानं प्रेषयामास तां समानेतुमादरात् ॥ १२॥ प्रधानेन महामाया दृष्टा मोहविवर्धिनी । मोहितः स उवाचाथ तां सर्वातिगरूपिणीम् ॥ १३॥ महिषो देवि सर्वस्य ब्रह्माण्डस्य पतिः परः । मृत्युहीनः सदा यौवनशाली शोभया युतः ॥ १४॥ तेनाऽहं प्रेषितो नूनं त्वदर्थं रूपशालिनि । भव पत्नी महाभागे दैत्येशस्य महात्मनः ॥ १५॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूव ह । जगाद तं मदोत्सिक्तं दैत्यामात्यं प्रजापते ॥ १६॥ शक्तिरुवाच । परस्याऽहं महादैत्य स्त्री किं वदसि मां वचः । मूढवत्त्वां हनिष्यामि पुनर्भाषणसंयुतम् ॥ १७॥ तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः । दैत्यानाज्ञापयामास तां समानेतुमादरात् ॥ १८॥ तदाज्ञया महादैत्याः समाजग्मुः समन्ततः । तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी ॥ १९॥ क्रोधानलेन सर्वान् सा ददाह च प्रजापते । तद् दृष्ट्वा परमाश्चर्यं पपाल सचिवो भयात् ॥ २०॥ ज्ञात्वा वृत्तान्तमुग्रं स महिषो मोहसंयुतः । स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीम् ॥ २१॥ तां दृष्ट्वा कामबाणैः स विद्धो दैत्याधिपः स्वयम् । सचिवान् प्रेषयामास धर्तुं समीपसंस्थिताम् ॥ २२॥ देव्या शस्त्रप्रहारेण हताः सर्वे प्रजापते । ततोऽतिकोपसंयुक्तः स्वयं रणसमागतः ॥ २३॥ समागतं महादैत्यं देवी क्रोधसमन्विता । धनुः सज्जमथो कृत्वा बाणान् चिक्षेप दारुणान् ॥ २४॥ तद्बाणैरपि दैत्येशा मृताः केचिद्रणाजिरे । केचिच्छिन्नास्तथा केचिन् मूर्च्छिताः सम्बभूविरे ॥ २५॥ ततः कोपयुतो दैत्यो महिषासुरसंज्ञितः । (Page खं. ५ अ. १३ पान २७) युयुधे तां महाभागां नानाशस्त्रास्त्रकैः परैः ॥ २६॥ युद्धं तत्र महाघोरं जातं तद्भयदायकम् । सर्वेषां च प्रजानाथ परस्परजयैषिणोः ॥ २७॥ एकवर्षं महादैत्यो युयुधे च तया पुरा । ततः कोपसमायुक्तः पर्वतं चिक्षिपेऽसुरः ॥ २८॥ पर्वताघातमात्रेण मूर्च्छितां जगदम्बिकाम् । तादृशीं तां गृहीत्वा स गन्तुं यावन्मनो दधे ॥ २९॥ तावत् सा सावधानाऽभूत् दृष्ट्वा दैत्यं महाबलम् । अन्तर्धाय स्वमात्मानं ययौ देवी हिमालयम् ॥ ३०॥ तत्र खेदसमायुक्ता सा चेतसि दधार ह । अहोऽहं मनसा सर्वं भस्म कुर्यां क्षणार्धतः ॥ ३१॥ स्त्रीहस्तेन महादैत्यो मरिष्यति न संशयः । तथाऽपि मां जिगायैव यशोयुक्तोऽभवत् कथम् ॥ ३२॥ अतो विघ्नेश्वरेणैव कृतो विघ्नो न संशयः । भ्रान्ताऽहं तमपूज्याऽऽदौ गता सङ्ग्राममण्डले ॥ ३३॥ अहो शक्तिस्वरूपाऽहं मच्छक्त्या वर्ततेऽखिलम् । जिता शक्तिविहीना च जाता कौतुकमुत्तमम् ॥ ३४॥ अतः शक्तिरशक्तत्वं ममाधीनं न वर्तते । विघ्नराजस्य सत्ता या सत्या साऽन्यत्र भ्रान्तिजा ॥ ३५॥ यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः । ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन ॥ ३६॥ एवं मनसि सन्धार्य सती सन्तापसंयुता । त्यक्त्वा सर्वं तपस्तेपे निराहारपरायणा ॥ ३७॥ विन्ध्याचलं समासाद्य संस्थिता जगदम्बिका । विघ्नराजं हृदि ध्यात्वा जजाप मन्त्रमुत्तमम् ॥ ३८॥ एवं वर्षसहस्रेणैकाक्षरं विधिना तथा । तपसोग्रेण विघ्नेशः सन्तुष्टस्तां ययौ परम् ॥ ३९॥ अस्थिचर्मावशेषां तां वीक्ष्य विस्मितमानसः । बोधयामास शक्तिं स विघ्नेशः करुणानिधिः ॥ ४०॥ विघ्नेश उवाच । पश्य शक्ते च मां प्राप्तं यं ध्यायसि निरन्तरम् । वरं दातुं वृणुष्व त्वं दास्यामि भक्तियन्त्रितः ॥ ४१॥ भक्त्या च तपसा देवि सन्तुष्टं ते विशेषतः । तवाधीनं न सन्देहः पश्य मां वरदायिनम् ॥ ४२॥ तस्य तद्वचनं श्रुत्वा जगदम्बा बुबोध च । अपश्यद्गणराजं तमुत्थाय प्रणनाम सा ॥ ४३॥ पुपूज भक्तिसंयुक्ता तुष्टाव करसम्पुटैः । पुनः प्रणम्य विघ्नेशं सर्वसिद्धिप्रदायकम् ॥ ४४॥ शक्तिरुवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ४५॥ गणेशाय गणानां वै पालकाय परात्मने । गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥ ४६॥ अमेयशक्तये चैवामेयमायाप्रचालक । मायाहीनस्वरूपाय मायिभ्यो मोहदायिने ॥ ४७॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः । ब्रह्मणे ब्रह्मरूपाय हेरम्बाय नमो नमः ॥ ४८॥ कर्मणां फलदात्रे ते कर्मणां कर्मधारक । कर्मयोगस्वरूपाय परेशाय नमो नमः ॥ ४९॥ ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे । सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥ ५०॥ समाय च स्वरूपाय समेभ्यः साम्यदाय ते । (Page खं. ५ अ. १३ पान २८) आनन्दानन्दकन्दाय समहीनाय ते नमः ॥ ५१॥ सहजाय विहीनाय सहजैः सहजात्मने । सहजानां तु योगाय निर्मोहाय नमो नमः ॥ ५२॥ स्वानन्दाय सदा स्वानन्दानां स्वानन्दमूर्तये । मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥ ५३॥ अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः । असम्प्रज्ञातभावाय लम्बोदर नमो नमः ॥ ५४॥ शान्तिरूपाय योगाय योगेभ्यो योगदाय ते । चित्तभूमिविहीनाय नमश्चिन्तामणे नमः ॥ ५५॥ क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता । अप्रपूज्य गणाधीश गता योद्धुं परात्परम् ॥ ५६॥ अधुना मे वरं देहि त्वत्पादरसदायकम् । महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥ ५७॥ जयं देहि गणाधीश महिषस्य वधाय वै । रतायै देवदेवेश नमस्ते परमेश्वर ॥ ५८॥ एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः । तेन युक्ता ननर्तैव साश्रुनेत्रा प्रजापते ॥ ५९॥ लम्बोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् । त्वया यद्याचितं देवि तत् सर्वं सफलं भवेत् ॥ ६०॥ त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् । अपराधस्य देवेशि सहने कारणं मयि ॥ ६१॥ भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः । यं यं चिन्तयसे कामं तं तं दास्यामि निश्चितम् ॥ ६२॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । शक्तिः खिन्नेव तत्रैव संस्थिता ध्यानसंयुता ॥ ६३॥ स्थापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः । पूजयामास तां तत्र ततो योद्धुं समागता ॥ ६४॥ तदादि गणराजस्य स्थानं तत् पप्रथे भुवि । सर्वसिद्धिकरं पूर्णं यात्राकारि जनस्य च ॥ ६५॥ ब्रह्मभूयप्रदं पूर्णं तत्रैव मरणे सति । विघ्नेश्वरस्य दक्षैतद् बभूवे सर्वदा प्रियम् ॥ ६६॥ महिषासुरकं देवी जघान वरदानतः । युद्धं कृत्वा महाघोरं जगद्रक्षणलालसा ॥ ६७॥ पुनः समागता देवी विघ्नेशक्षेत्रके प्रभो । तत्र नित्यं महाभक्त्या भजते गणनायकम् ॥ ६८॥ इदं लम्बोदरस्यैव चरित्रं सर्वदं परम् । यः श‍ृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् ॥ ६९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः ॥ ५.१३ (Page खं. ५ अ. १४ पान २९)

५.१४ शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु महाभाग लम्बोदरचरित्रकम् । शक्त्यधीनस्वभावाख्यं सर्वसिद्धिप्रदायकम् ॥ १॥ एकदा मिलिता देवाः सर्वे तत्र प्रजापते । विन्ध्ये देशे महाक्षेत्रे यात्रार्थं गणपस्य च ॥ २॥ तत्र वादः समुत्पन्नो मुनीनां सर्वसन्निधौ । पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः ॥ ३॥ कथं विघ्नेश्वरो देवः सर्वपूज्यो बभूव ह । सर्वादौ पूजनीयः स चतुर्भिरपि निश्चितम् ॥ ४॥ अन्यदेवस्य भक्तैश्चेष्टदेवादौ गजाननः । पूजनीयः प्रयत्नेन किमिदं विपरीतकम् ॥ ५॥ गणेशोच्छिष्टभोक्तारो देवा विष्णुशिवादयः । इदं किं वेदवादेषु कथितमादिपूज्यतः ॥ ६॥ यथा देवाश्च चत्वारस्तथाऽयं गणनायकः । स्वस्वभक्तविधानेन पूजनीयो यदा भवेत् ॥ ७॥ तदा सर्वं समीचीनं स्वस्वमार्गपरं भवेत् । शुभाशुभे गणाधीशः सर्वादौ सम्मतः कथम् ॥ ८॥ इति प्राप्ते विवादे तु शक्तिः क्रोधसमन्विता । जगाद तान् मुनीन् सर्वान् देवांस्तद्धितकाम्यया ॥ ९॥ शक्तिरुवाच । लम्बोदरोऽयमेकश्च वेदे सङ्कथितोऽभवत् । न वयं तादृशा विप्रा लम्बोदरप्रवाचकाः ॥ १०॥ तस्योदरात् समुत्पन्नं नाना विश्वं न संशयः । नाना ब्रह्म तथेशाश्च तत्रान्ते संस्थिता बभुः ॥ ११॥ मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यः स सर्वपूज्यो बभूव ह ॥ १२॥ सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ ॥ १३॥ तस्यास्तद्वचनं श्रुत्वा जगदम्बामुवाच ह । शङ्करः क्रोधसंयुक्तस्तथा विष्णुश्च मानद ॥ १४॥ शिवविष्णू ऊचतुः । किं शक्ते वदसि प्रेम्णा गणेशे भक्तिभाविता । वयं पञ्च समानाश्च तत्राधिक्यं न विद्यते ॥ १५॥ परस्परं च देवेशि भावयामो न संशयः । आधिक्यं तेन किं देवे कत्थसे त्वं गणेश्वरे ॥ १६॥ यदि लम्बोदरश्चायमेको देवो न संशयः । तस्योदरात् समुत्पन्ना वयं सर्वे सुनिश्चितम् ॥ १७॥ तदाधारास्तथांऽते वै तत्र लीना भवामहे । तदा वयं सृजामश्च जगद्ब्रह्म कथं वद ॥ १८॥ पालयामो हरामश्चाधिकं भवति किं महः । तथापि वेदवादेषु वयं लम्बोदरा नहि ॥ १९॥ अतो लम्बोदरस्यादौ सामर्थ्यं कीदृशं महत् । पश्यामस्त्वत्सन्निधाने पश्चात्तं प्रभजामहे ॥ २०॥ यदाधिक्यं प्रपश्यामस्तदा सर्वादिपूज्यकम् । सर्वपूज्यं करिष्यामो नान्यथा देवि निश्चितम् ॥ २१॥ ततः शिवश्च विष्णुश्च कल्पयित्वा ह्यपारकम् । नैवेद्यं सत्यसङ्कल्पौ पूजायां संस्थितौ परौ ॥ २२॥ एककालसमाविष्टावावाह्य गणनायकम् । पुपूजतुर्महाभक्त्या छलधर्मस्वरूपया ॥ २३॥ गणेश्वरस्तत्र साक्षात् समायातः प्रजापते । दृष्ट्वाऽपारं स नैवेद्यं विस्मितोऽभूत् स्वेचतसि ॥ २४॥ ध्यानेनालोक्य विघ्नेशो ज्ञात्वा तयोर्हृदि स्थितम् । सत्यसङ्कल्परूपां तां सिद्धिमाकृष्य संस्थितः ॥ २५॥ सिद्धिहीनौ विष्णुशिवौ पूजायां निरतौ मुदा । (Page खं. ५ अ. १४ पान ३०) नैवेद्यं गणराजाय ददतुः परमं ततः ॥ २६॥ एकग्रासेन नैवेद्यमपारं गणनायकः । बभक्ष पुनरूचे तौ क्षुधितोऽहं विशेषतः ॥ २७॥ तस्य तद्वचनं श्रुत्वा शिवो विष्णुः पुनः प्रभू । नैवेद्यं सत्यसङ्कल्पात् कल्पयामासतुः पुरः ॥ २८॥ तथापि न च नैवेद्यं बभूवाणुस्वरूपकम् । तेन खेदसमायुक्तौ परस्परमथोचतुः ॥ २९॥ सत्यसङ्कल्परूपं यदैश्वर्यं क्व गतं परम् । आवां नरसमौ जातौ किं भविष्यति दैवतः ॥ ३०॥ ब्रह्माणामीश्वराणां च महत् ब्रह्मत्वमैश्वरम् । सत्यसङ्कल्पभावाख्यं तेन हीना नराः स्मृताः ॥ ३१॥ अधुना किं करिष्यावो जीवतुल्यौ न संशयः । अयं लम्बोदरः क्रोधान्नरके पातयिष्यति ॥ ३२॥ अथवा मृत्युलोके वै निश्चितं भयमागतम् । कं यावः शरणं नाथं छलनायां परायणौ ॥ ३३॥ शक्त्या सम्बोधितं पूर्वं तत्राज्ञानसमन्वितौ । वादं कृत्वा महाविघ्नमावाभ्यां प्रकटीकृतम् ॥ ३४॥ अधुना शरणं श्रेष्ठं शुभदं प्रभविष्यति । गणेशश्च विशेषेण ब्रह्मनायक एव सः ॥ ३५॥ ततस्तौ भक्षितुं तत्र क्रोधयुक्तो गजाननः । बभूवाद्भुतरूपश्च दृष्ट्वा तं सम्प्रपेलतुः ॥ ३६॥ शक्तेश्चरणमासाद्य पेततुर्भयविह्वलौ । ततः सा तौ समाश्वास्यागृह्य दूर्वां तमाययौ ॥ ३७॥ प्रणम्य गणनाथं सोवाच कृत्वा कराञ्जलिम् । हृष्टरोमा च सर्वेशी भक्तिनम्रात्मकन्धरा ॥ ३८॥ शक्तिरुवाच । क्षमापराधमत्युग्रं देवदेवेश ते नमः । त्वन्मायागर्वसंयुक्तयोर्विष्णुशिवयोः प्रभो ॥ ३९॥ समुत्पन्नौ त्वदुदराद् बालभावधरौ तथा । शिवविष्णुगणेशानतयोर्दण्डं च मा कुरु ॥ ४०॥ सर्वेषां पोषणे स्वामिंस्त्वं शक्तो नात्र संशयः । त्वदीयपोषणं पूर्णं त्वमेव कुरुषे सदा ॥ ४१॥ एवमुक्त्वा महामाया तस्मै दूर्वाङ्कुरं ददौ । मनसा कल्पयामासान्नं चतुर्विधमुत्तमम् ॥ ४२॥ ततो दूर्वाङ्कुरेणैव तृप्तोऽभूद्गणनायकः । महाभक्तिं ददौ तस्यै शक्तये भक्तवत्सलः ॥ ४३॥ प्रसन्नं तं गणाधीशं दृष्ट्वा तत्र समाययौ । हरिश्च शङ्करो देवः प्रणम्य प्रोचतुर्वचः ॥ ४४॥ क्षमापराधमुग्रं नौ गणाधीश विशेषतः । त्वन्मायया मोहितयोः सदा स्वानन्ददायक ॥ ४५॥ अधुना ते स्वरूपं यज्ज्ञातं पूर्णं महाप्रभो । सर्वादिपूज्य एकस्त्वं सर्वपूज्यो यथातथम् ॥ ४६॥ एवमुक्त्वा तुष्टुवतुर्गणेशानं महेश्वरौ । अथर्वशिरसा भक्त्या सन्तुष्टः स ततोऽभवत् ॥ ४७॥ शक्त्या सम्प्रार्थितस्तत्र भावयुक्तेन चेतसा । यथापूर्वं शिवो विष्णुस्तादृशौ स चकार ह ॥ ४८॥ सङ्कल्पसिद्धिसंयुक्तौ सम्बभूवतुरीश्वरौ । सदा भक्तिसमायुक्तौ भजतो गणनायकम् ॥ ४९॥ संशयेन विहीनाश्च जाता देवर्षयो जनाः । पूर्णभावयुतं ढुण्ढिमभजंस्ते विमत्सराः ॥ ५०॥ न गणेशात् परं किञ्चित्तस्मादादौ गणेश्वरः । अन्ते सोऽपि न सन्देहो मध्ये नानाविधः स्मृतः ॥ ५१॥ सर्वेषां बीजरूपोऽयमतः सर्वादिपूज्यकः । (Page खं. ५ अ. १५ पान ३१) सर्वपूज्यो गणेशानो वेदेषु कथितोऽभवत् ॥ ५२॥ गाणपत्यस्वभावस्था बभूवुर्मुनयोऽमलाः । यत्र तत्र गणेशानं भजन्ते तेऽधुना प्रभुम् ॥ ५३॥ एतल्लम्बोदरस्यैव चरित्रं यः श‍ृणोति वा । पठते तस्य विघ्नेशः सर्वदः प्रभविष्यति ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः ॥ ५.१४

५.१५ शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सुरथो नाम राजर्षिः प्रधानैर्नयवर्जितैः । बलिष्ठैः पीडितोऽत्यन्तं राज्यं त्यक्त्वा वनं ययौ ॥ १॥ तत्र मुनिवरेणैवोपदिष्टः शक्तिमाभजत् । तस्याश्च कृपया राजा समर्थः प्रबभूव ह ॥ २॥ स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुतः । अभजच्छक्तिमत्यन्तं भावयुक्तेन चेतसा ॥ ३॥ ततो मृतः पुनः सोऽपि सावर्णिश्च बभूव ह । मनुर्भानुसुतो दक्ष सर्वमान्य उदारधीः ॥ ४॥ पूर्वसंस्कारयोगेन शक्तिभक्तो बभूव ह । वने गत्वा महाशक्तिं पूजयामास नित्यदा ॥ ५॥ उपोषणसमायुक्तस्तताप तप उत्तमम् । ध्यात्वा हृदि महामायां नवार्णजपकारकः ॥ ६॥ माहात्म्यमपठन्नित्यं शक्त्या भक्तिसमन्वितः । एवं वर्षशते पूर्णे प्रसन्नाऽभून् महासती ॥ ७॥ अन्ते तत्तपसा युक्तं ज्ञानमार्गपरायणम् । ज्ञात्वा लम्बोदरस्तत्र वरदाता समाययौ ॥ ८॥ हृदि तस्य स्थितं ध्यानं शक्तेस्तत्र गणेश्वरः । शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः ॥ ९॥ ततः शक्तिस्वरूपं स ददर्श पुनरञ्जसा । पुनर्लम्बोदरं देवं पुनः शक्तियुतं प्रभुम् ॥ १०॥ वामाङ्गे संस्थितां शक्तिं हावभावसमन्विताम् । भक्तियुक्तां गणेशस्य ततोऽतिविस्मितोऽभवत् ॥ ११॥ लम्बोदरार्थजं दक्ष शक्तेश्च कृपया महत् । ज्ञानं प्रकटरूपं तद्बभूव हृदये मनोः ॥ १२॥ ततो मनुर्विशेषेण भक्तियुक्तो हृदि स्वयम् । विचारमकरोत् पूर्णं तच्छृणु त्वं प्रजापते ॥ १३॥ लम्बोदरः स्वयं शक्तिः शक्तिर्लम्बोदरात्मिका । शक्तेर्लम्बोदरस्यैव नान्तरं विद्यते कदा ॥ १४॥ शक्तिर्वामाङ्गसम्भूता दक्षिणाङ्गाद्गणेश्वरः । तयोरभेदभावे यद्ब्रह्म स्वानन्दसंज्ञकम् ॥ १५॥ क्रीडार्थं भक्तरक्षार्थं देहाकृतिधराविमौ । बभूवतुर्न सन्देहस्ततः सर्वमिदं बभौ ॥ १६॥ एवं विचारयुक्तः स मनुर्यावत् प्रतापवान् । तावत्तौ बहिरायातौ वरदौ च प्रजापते ॥ १७॥ हृदि संस्थौ विस्मितः स क्व गतौ शक्तिविघ्नपौ । पुनर्ध्यानबलेनैव चिन्तयामास भूमिपः ॥ १८॥ (Page खं. ५ अ. १५ पान ३२) ततस्तं तावूचतुश्च वरं वरय सुव्रत । तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने ॥ १९॥ तयोर्वचनमाकर्ण्योन्मील्याऽपश्यद्वहिर्मनुः । दृष्ट्वा शक्तियुतं देवं प्रणनाम मुदायुतः ॥ २०॥ पूजयित्वा विधानेन तुष्टाव भक्तिसंयुतः । प्रणम्य तौ पुनर्देवौ कृत्वा करपुटं विधे ॥ २१॥ सावर्णिरुवाच । नमस्ते गणनाथायै नमस्ते गणपालक । चतुर्बाहुधरायैव चतुर्बाहुधराय ते ॥ २२॥ अनाद्यायै ह्यनाद्याय परेशायै परात्मने । भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥ २३॥ हेरम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः । लम्बोदरस्वरूपायै नमो लम्बोदराय ते ॥ २४॥ नानारूपधरायैव नानारूपधराय च । नमो नमो महादेव्यै देवाधिपतये नमः ॥ २५॥ गजवक्त्रधरायै ते गजवक्त्रधराय च । शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः ॥ २६॥ एकदन्तधरायै चैकदन्तरूपिणे नमः । मायामोहहरायैव मोहहर्त्रे नमो नमः ॥ २७॥ स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने । परश्वादिधरायै च परश्वादिधराय ते ॥ २८॥ नमः सर्वप्रबोधायै नमः सर्वप्रबोधक । मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥ २९॥ ढुण्ढिराज्ञ्यै नमस्तुभ्यं ढुण्ढिराजाय ते नमः । वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः ॥ ३०॥ सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते । नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥ ३१॥ अनन्तखेलकारिण्यै ह्यनन्तखेलकारिणे । नमो नमो महाशक्ते नमः शक्तिधराय ते ॥ ३२॥ नानाभेदकरायै ते नानाभेदमयाय च । नमो नमः परेशायै परेशाय नमो नमः ॥ ३३॥ या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् । अज्ञानेन महाभागौ स्त्रीपुम्भावः प्रदृश्यते ॥ ३४॥ यत्र वेदादयो योगिनो देवेशा विसिस्मिरे । तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥ ३५॥ भवतोर्दर्शनेनैव बोधयुक्तोऽहमञ्जसा । तेन स्तुतौ गणाध्यक्षौ योगशान्तिप्रदायकौ ॥ ३६॥ प्रयच्छतं महायोगमधुना मे नमाम्यहम् । भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः ॥ ३७॥ इत्युक्त्वा दण्डवद्भूमौ पपात पदयोस्तयोः । मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥ ३८॥ शक्तिविनायकावूचतुः । शान्तियोगं महाभाग लभसे योगसेवया । भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥ ३९॥ भुक्त्वा मन्वन्तरं पूर्णं यशः स्थाप्य जगत्त्रये । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यसि ॥ ४०॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । पठते श‍ृण्वते चैव भविष्यति न संशयः ॥ ४१॥ एवमुक्त्वा गणाध्यक्षावन्तर्धानं प्रचक्रतुः । मनुः स्वगृहमागत्याऽभजत्तौ भावसंयुतः ॥ ४२॥ मन्वन्तरसमा भुक्त्वा ब्रह्मभूतो बभूव ह । गाणपत्यो महाभागः सावर्णिः प्रथितोऽभवत् ॥ ४३॥ मयाऽवतारः कथितो नाम्ना शक्तिविनायकः । सर्वसिद्धिप्रदः पूर्णो लम्बोदरस्य भक्तितः ॥ ४४॥ मायया मोहितानां वै भिन्ना शक्तिः प्रदृश्यते । या शक्तिः स स्वयं दक्ष लम्बोदरो न संशयः ॥ ४५॥ (Page खं. ५ अ. १६ पान ३३) स्त्रीपुम्भावमयी माया त्यक्तव्या योगसेवया । तदा लम्बोदरः प्राप्तो योगिभिर्ब्रह्मनायकः ॥ ४६॥ केचिच्छक्तिं वदन्त्येनं केचिल्लम्बोदरं परम् । भक्त्या भिन्नं स्वरुच्यर्थं जानीह्यत्र न संशयः ॥ ४७॥ असत्स्वानन्दरूपा वै शक्तिर्वेदे प्रकीर्तिता । स लम्बोदर आख्यातो गणेशस्यावतारभृत् ॥ ४८॥ शक्तिविनायकस्यैतच्चरित्रं यः श‍ृणोति वा । पठते भविता तस्य भुक्तिर्मुक्तिर्न संशयः ॥ ४९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः ॥ ५.१५

५.१६ शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शेषपुत्रस्य माहात्म्यं कथयामि समासतः । तच्छृणुष्व प्रजानाथ योगशान्तिप्रदायकम् ॥ १॥ एकदा सत्यलोकस्थो ब्रह्मा ध्यानपरायणः । बभूव सर्वजन्तूनां हितार्थं मोहितः स्वयम् ॥ २॥ सदा सृष्टिर्मदीयेयमखण्डा जायते कथम् । तत्र तस्य स्वनिःश्वासात् पुरुषः सम्बभूव ह ॥ ३॥ स प्रणम्य विधातारं तुष्टाव विविधैः स्तवैः । तमुवाच तदा ब्रह्मा किं वाञ्छसि वदाऽशु मे ॥ ४॥ ब्रह्मणो वचनं श्रुत्वा हर्षयुक्तः पुमानभूत् । तं जगाद प्रजानाथं भक्तिनम्रात्मकन्धरः ॥ ५॥ पुमानुवाच । तव निःश्वाससम्भूतं पुत्रं मां पालय प्रभो । देहि नाम तथा स्थानं भक्ष्यं नानाविधं विधे ॥ ६॥ अन्यत् सुखकरं सर्वं देहि नाथ नमोऽस्तु ते । त्वं गतिः सर्वभूतानामधुना मे विशेषतः ॥ ७॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतोऽभवत् । स जगाद तमालिङ्ग्य चुचुम्बे पुत्रवत्सलः ॥ ८॥ ब्रह्मोवाच । मायादर्शनमात्रेण वर्धसे त्वं महामते । मायाकरस्ते विख्यातमतो नाम भविष्यति ॥ ९॥ यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति । त्रैलोक्ये वसतिः पुत्र गतिरव्याहता भवेत् ॥ १०॥ चतुःपदार्थसम्भूतं सदा वश्यं भविष्यति । चतुर्विधमयेभ्यस्ते मरणं न कदा भवेत् ॥ ११॥ युद्धे चतुर्विधं सर्वं प्रजेष्यसि न संशयः । सदाऽऽरोग्यादिसंयुक्तो भविष्यसि मदात्मज ॥ १२॥ ब्रह्मणो वचनं श्रुत्वा हर्षितोऽभूत् पुमान् स्वयम् । मायाकरः प्रणम्यैव तं ययौ स्वेच्छया चरन् ॥ १३॥ ततो दानवमुख्यश्च विप्रचित्तिः प्रतापवान् । तं दृष्ट्वा बलसंयुक्तं समागत्य ननाम सः ॥ १४॥ ज्ञात्वा वृत्तान्तमेतस्य मायाकरस्य दुर्मतिः । जगाद तं पुनः सोऽपि विप्रचित्तिः प्रतापवान् ॥ १५॥ विप्रचित्तिरुवाच । मायाकर महाभाग श‍ृणु मे परमं वचः । वराः प्राप्तास्त्वया सर्वे दुर्लभा नात्र संशयः ॥ १६॥ तेषां भोगः प्रकर्तव्यस्त्वया नित्यं महामते । तदा शोभायुता जाता वरास्ते नान्यथा प्रभो ॥ १७॥ यथा रूपवयोयुक्ता नारी स्वपतिना युता । नित्यं भुक्ता विशेषेण शोभतेऽतीव मानद ॥ १८॥ मिलिता विविधा भोगा भुक्ताश्चेत् सार्थकं भवेत् । निक्षिप्ता भोगहीनास्ते शपन्ति पुरुषं सदा ॥ १९॥ अतो वरान् महाभाग साधयस्व विशेषतः । नोचेत्ते त्वां शपिष्यन्ति वरा भोगविहीनतः ॥ २०॥ वयं दानवमुख्याश्च त्वदधीना भवामहे । अस्माभिर्बलसंयुक्तैर्भुङ्क्ष्व भोगं महाबल ॥ २१॥ दानवा बलसंयुक्ता अजेयाः सर्वभावतः । त्वदाज्ञावशगा नाथ चरिष्यन्ति न संशयः ॥ २२॥ एवं मायाकरस्तेन बोधितो दुष्टधीः स्वयम् । तदधीनो बभूवाऽपि ययौ तेन रसातलम् ॥ २३॥ तत्र दानवमुख्यैश्च मिलितैर्यमसन्निभैः । तैर्मानितो विधेः पुत्रो मायाकरस्तुतोष ह ॥ २४॥ ततः शुक्रं समानीय प्रणता दानवा विधे । ब्राह्मणैरभिषिक्तं तं कारयामासुरादरात् ॥ २५॥ असुराणां महाराजो बभूव ब्रह्मणः सुतः । मायाकरोऽतिशुशुभे सर्वेभ्यो भयदायकः ॥ २६॥ नानाभोगान् प्रभुञ्जानो बलेन गर्वितोऽभवत् । अमन्यतासुराधीश आत्मनः कृतकृत्यताम् ॥ २७॥ ततो दानवमुख्यैः स जित्वा पृथ्वीं ससागराम् । ततो देवगणान् जित्वेन्द्रासने संस्थितोऽभवत् ॥ २८॥ ततः सिषेविरे सर्वे दानवास्तं विशेषतः । स्वर्गभोगकरा भूत्वा हर्षिताः स्वजनैः प्रभो ॥ २९॥ ततः शिवं समागम्य स युद्धायोद्यतोऽभवत् । त्यक्त्वा कैलासमादौ स पपाल शङ्करः स्वयम् ॥ ३०॥ ततो विकुण्ठगो भूत्वा रराजे दानवाधिपः । त्यक्त्वा विकुण्ठमेवं स विष्णुः पपाल भीतितः ॥ ३१॥ ततः शान्तिधरं वीक्ष्य तमूचुर्दानवाः पुनः । जय त्वं सत्यलोकस्थं ब्रह्माणं देवनायकम् ॥ ३२॥ सुरेभ्यः सर्वदाता स पक्षगश्च पितामहः । असुराणामहो हन्ता न समो वर्तते कदा ॥ ३३॥ तमाश्रित्य महादेवादयोऽभूवंश्च संस्थिताः । कालं प्राप्य महावेगा मारयिष्यन्ति नः खलु ॥ ३४॥ त्वया सर्वं जितं राजन् तदपि पश्य चेष्टितम् । ब्रह्मणा दूतवर्येण सत्कृतो न कदा भवान् ॥ ३५॥ मायाकरस्ततस्तेषां वचः श्रुत्वाऽसुरः स्वयम् । सत्यं विचार्य धातारमभूत् जेतुं समुद्यतः ॥ ३६॥ दानवैर्ब्रह्मलोके तमागतं वीक्ष्य वै विधिः । शोकयुक्तः पपालाऽसौ देवौघैः संवृतः प्रभुः ॥ ३७॥ ततः स सत्यलोकस्थः शुशुभेऽतीव तत्क्षणात् । दानवान् मानयन् दैत्यः सह तैर्बुभुजे सुखम् ॥ ३८॥ ततः स सत्यलोके च कैलासे वैष्णवे पदे । सौरे शाक्तेऽन्यदेवानां पदेष्वास्थापयत् स्वकान् ॥ ३९॥ पुनर्भूमौ समागम्य संस्थितो नगरे स्वके । प्रपञ्चाख्ये महादैत्यो दैत्यपैः संवृतो बभौ ॥ ४०॥ ततो दानवमुख्यांश्च पातालजयने सुरः । प्रास्थापयच्च ते सर्वे गताः सर्वे समन्विताः ॥ ४१॥ (Page खं. ५ अ. १७ पान ३५) तैर्जिताः सर्पराजास्ते शेषस्ताञ्छरणं ययौ । स्वीकृत्य करभारं स संस्थितो नागपैर्वृतः ॥ ४२॥ तथापि दानवास्तत्र संस्थिता भयदायकाः । नागानधर्षयन् सर्वे यमकालनिभा बलात् ॥ ४३॥ ततोऽतिदुःखितः शेषः सस्मार गणनायकम् । निर्विघ्नार्थं प्रजानाथ पुत्रभावार्थमादरात् ॥ ४४॥ अन्तर्ध्यानेन विघ्नेशं तोषयामास नागपः । ततो वर्षे गते पूर्णे प्रकटोऽभूद् गजाननः ॥ ४५॥ हृदयाद् बहिरेवाऽसौ निर्गत्य तमुवाच ह । पश्य शेष महाभाग ध्यानजं ते सुतं च माम् ॥ ४६॥ दक्ष उवाच । स्वल्पायासेन हेरम्बः कथं पुत्रो बभूव ह । कथयस्व महायोगिन् शेषस्य चरितं महत् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः ॥ ५.१६

५.१७ शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरा कश्यपविप्रेणाराधितौ तपसा प्रभू । शिवविष्णू च पुत्रार्थं मन्त्रध्यानसमाधिना ॥ १॥ दश वर्षे गते तौ च वरदौ तं समागतौ । सुतौ मुनिवरेणैव वरं दत्त्वा प्रजग्मतुः ॥ २॥ तयोरंशेन शेषश्च पुत्रस्तस्य बभूव ह । धराधरणभावेन पालको विष्णुरेव सः ॥ ३॥ ब्रह्मणो दिवसान्ते स ज्वालया विष्टपं महत् । ददाह शङ्करांशश्च महानागः प्रतापवान् ॥ ४॥ सहस्रशीर्षा पुरुषः शेष एव स उच्यते । मृत्युहीनो ह्यनन्तोऽयं सर्वेषामन्तकोऽभवत् ॥ ५॥ लय एकोऽवशेषश्च तेन शेषः प्रकीर्तितः । ब्रह्माण्डं धारयामास सर्वाधारो बभूव ह ॥ ६॥ उत्पन्नोऽभूत् स्वयं शेषः साक्षाद्धरिहरात्मकः । ब्रह्मणागत्य तत्रैवाऽभिषिक्तो राज्यकर्मणि ॥ ७॥ नागानामीश्वरो भूत्वा स्थितः सर्वत्र सम्मतः । ततः स कश्यपं नत्वा जगाद वचनं हितम् ॥ ८॥ शेष उवाच । ब्रह्माण्डं धारयामीश कथं सर्वसमाकुलम् । तदर्थं मां महायोगिन् शाधि शिष्यं पितः प्रभो ॥ ९॥ ततस्तस्मै मुनिश्रेष्ठो ददौ मन्त्रं षडक्षरम् । गणेशस्य यथान्यायं शोधयित्वा प्रजापते ॥ १०॥ ततस्तं प्रणिपत्यैव तताप तप उत्तमम् । वने गत्वा गणेशं स ध्यात्वा जपपरायणः ॥ ११॥ निराहारेण विघ्नेशं तोषयामास नित्यदा । पुपूज भक्तिसंयुक्तस्तुष्टाव विविधैः स्तवैः ॥ १२॥ एवं वर्षसहस्रेण प्रसन्नो गणनायकः । अस्थिमात्रावशेषं तं त्वचायुक्तं समाययौ ॥ १३॥ तं दृष्ट्वा नागपः शेषः प्रणम्योत्थाय चादरात् । पुपूज हर्षसंयुक्तस्तुष्टाव करसम्पुटैः ॥ १४॥ (Page खं. ५ अ. १७ पान ३६) ततस्तं गणराजः स जगाद वृणु वाञ्छितम् । दास्यामि तपसा तुष्टो यत्ते चित्ते भविष्यति ॥ १५॥ शेषः प्रणम्य विघ्नेशं जगाद हर्षसंयुतः । ब्रह्माण्डधारणे शक्तिं देहि नाथ नमोऽस्तु ते ॥ १६॥ भक्तिं देहि गणाधीश भुक्तिमुक्तिप्रदायिनीम् । मृत्युहीनं दिशां नाथं मां कुरुष्व यशोतिगम् ॥ १७॥ तथेति गणराजस्तु तमुक्त्वांऽतरधात्ततः । शेषो हृष्टः स्वयं दक्ष स्वस्थानं प्रजगाम ह ॥ १८॥ तदारभ्य स्वयं नागो धराधारो बभूव ह । दिक्पालत्वं सदा लेभे मान्यः सर्वार्थदोऽभवत् ॥ १९॥ ततो योगबलेनैव नाना मायाविशारदः । नाना रूपधरः शेषः शुशुभे सर्वमण्डले ॥ २०॥ एवं बहौ गते काले हिरण्यकशिपोर्भयात् । ऐश्वर्यं नश्वरं मत्वाऽभवत् ज्ञानार्थमुद्यतः ॥ २१॥ विपुलं स तपस्तप्त्वा शमदमपरायणः । योगभूमिस्थभावेनान्तर्निष्ठश्च बभूव ह ॥ २२॥ ततः क्रमेण नागेशः समस्वानन्दगोऽभवत् । योगेन तत्र शान्तिं च स दृष्ट्वा संस्थितोऽभवत् ॥ २३॥ विष्णुं ज्ञात्वा परं भावं तदर्थं संयतः स्वयम् । वैष्णवेनैव मार्गेण तोषयामास केशवम् ॥ २४॥ ततस्तं वरदो विष्णुर्ययो शेषेण संस्तुतः । याचितो नित्यमेवं मे दर्शनं देहि केशव ॥ २५॥ मदीयदेहसंस्थस्त्वं भव नित्यं जनार्दन । तथेति तमुवाचाऽसौ नारायणो बभूव ह ॥ २६॥ शेषशायी सदा तस्य स देहे संस्थितोऽभवत् । तेन संहर्षितोऽत्यन्तं बभूवे नागपालकः ॥ २७॥ ततो योगबलेनाऽसौ मायामोहं ददर्श ह । समानन्दं द्वन्द्वमयमशान्तोऽपि बभूव ह ॥ २८॥ एवं बहौ गते काले योगमार्गरतोऽभवत् । समाधिना प्रजानाथ सहजं ब्रह्म संश्रितः ॥ २९॥ साहजं शङ्करं ज्ञात्वा शैवमार्गपरोऽभवत् । ब्रह्म स्वेच्छामयं दृष्ट्वा शान्तिं प्राप्य समास्थितः ॥ ३०॥ ततस्तं वरदः शम्भुराययौ तं प्रणम्य सः । शेषस्तुष्टाव संहृष्टः शैवैः स्तोत्रैः सदाशिवम् ॥ ३१॥ प्रसन्नं शङ्करं दृष्ट्वा ययाचे भक्तिमुत्तमाम् । सदा दर्शनभावार्थं सङ्गतिं शङ्करस्य सः ॥ ३२॥ तथेति शङ्करो देवः स चकार प्रजापते । मस्तके तं बबन्धाऽथ नित्यदर्शनकाङ्क्षिणम् ॥ ३३॥ ततोऽतिहर्षितोऽनन्तः शम्भुमार्गपरायणः । सिषेवे भावसंयुक्तः शङ्करं वृषभध्वजम् ॥ ३४॥ ततो योगबलेनैव शेषस्तत् सहजं परम् । मोहहीनं विदित्वा स शान्तिहीनो बभूव ह ॥ ३५॥ मनसा शाङ्करं ब्रह्म नामन्यत परं प्रभुम् । शिवं नत्वा महानागः पप्रच्छ योगशान्तिदम् ॥ ३६॥ पात्रं गणेशयोगे तं ज्ञात्वा शेषं सदाशिवः । जगाद गणनाथस्य ज्ञानं सर्वहितावहम् ॥ ३७॥ शिव उवाच । योगशान्तिप्रदं पूर्णं गणेशं विद्धि मानद । सत्यासत्यसमानानि सहजेन युतानि वै ॥ ३८॥ ब्रह्माणि यत्र लीयन्ते संयोगेन महामते । स्वसंवेद्यं तद्वदन्ति ब्रह्म शान्तिप्रदं परम् ॥ ३९॥ संयोगे गणनाथस्य स्वसंवेद्यात्मकं परम् । (Page खं. ५ अ. १८ पान ३७) दर्शनं जायते येनाऽभवत् स्वानन्दवासिकः ॥ ४०॥ सर्वसंयोगरूपश्च दोषस्तत्र महान् स्मृतः । तेन शान्तिप्रदं पूर्णं न मतं योगिभिः कदा ॥ ४१॥ स्वसंवेद्यविहीनं यद्ब्रह्म योगमयं भवेत् । तत्र सन्दर्शनं तस्य न भवेद्व्यतिरेकतः ॥ ४२॥ स्वकीयाऽभेदतस्तत्र निवृत्तिर्जायते नृणाम् । तत्र शान्तिः समाख्याता सा न मुख्या मता बुधैः ॥ ४३॥ अयोगात्मकरूपश्च दोषः संवर्तते सदा । मायाहीनप्रभावेण तिष्ठते गणनायकः ॥ ४४॥ संयोगायोगयोर्योगे योगः शान्तिप्रदायकः । सा शान्तिः सर्वमान्या वै भवते वेदवादतः ॥ ४५॥ संयोगश्च गकारस्थो णकारो योगगः प्रभो । तयोरीशो गणेशानो वेदे पश्य विचक्षण ॥ ४६॥ पञ्चभूमिमयं चित्तं तदेव बुद्धिभावगम् । मोहो भ्रान्तिप्रदस्तेषु सा सिद्धिः सम्मता बुधैः ॥ ४७॥ तयोः स्वामी गणेशानः चिन्तामणिः प्रकथ्यते । चित्तप्रकाशकः साक्षाच्छान्तिदो योगसेवया ॥ ४८॥ तं भजस्व महानाग ततः शान्तिमवाप्स्यसि । नान्यथा कोटिवर्षैः कः शान्तिं प्रलभते नरः ॥ ४९॥ एवमुक्त्वा महादेवो विरराम स तं प्रभुः । प्रणम्य शेषनागश्च ययौ तपोवनं परम् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७

५.१८ शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः शेषः स्वयं तत्र तताप तप उत्तमम् । शमदमपरो भूत्वा योगभूमिमशोधयत् ॥ १॥ क्रमेण पञ्चभूमीनां चित्तस्य पारमागतः । शान्तिं प्राप्तो महानागोऽभजत्तं गणनायकम् ॥ २॥ गाणपत्यस्वभावेनाऽपूजयद् भक्तिसंयुतः । एवं तपःप्रभावेण सन्तुष्टोऽभूद् गजाननः ॥ ३॥ तमाययौ महाभक्तं ध्यानस्तिमितलोचनम् । जगाद स वृणुष्व त्वं वरान् मत्तो सुदुर्लभान् ॥ ४॥ तस्य तद्वचनं श्रुत्वा प्रबुद्धो गणनायकम् । दृष्ट्वा लम्बोदरं देवं प्रणनाम कृताञ्जलिः ॥ ६॥ प्रणम्य विघ्नपं भक्तिसंयुक्तोऽपूजयत् पुनः । तुष्टाव सुस्थिरो भूत्वा निबद्धकरसम्पुटः ॥ ६॥ शेष उवाच । गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः । चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ ७॥ सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः । ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ ८॥ (Page खं. ५ अ. १८ पान ३८) विनायकाय सर्वेषां नायकाय नमो नमः । नायकानां प्रचालाय नायकैः सेविताय ते ॥ ९॥ विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते । अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ १०॥ ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद । ढुण्ढितानां महाराज परेशाय नमो नमः ॥ ११॥ ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने । ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ १२॥ स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये । नाना विहारकर्त्रे ते समाधये नमो नमः ॥ १३॥ मूषकवाहनायैव मूषकप्रियमूर्तये । मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ १४॥ अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये । असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ १५॥ योगाय योगनाथाय योगेभ्यो योगदायिने । चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ १६॥ किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् । मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ १७॥ अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः । योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ १८॥ एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः । ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ १९॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ २०॥ त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ २१॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ २२॥ ततस्तं नागराजश्च जगाद वचनं हितम् । प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ २३॥ शेष उवाच । भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् । सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ २४॥ चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो । तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ २५॥ मनश्चञ्चलभावेन संसारविषये रतम् । भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ २६॥ संसारे पुत्रभावेन भजिष्यामि निरन्तरम् । हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ २७॥ गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः । सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ २८॥ चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन । धरणीधरसंज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ २९॥ येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः । अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ ३०॥ अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः । त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ ३१॥ एवमुक्त्वा गणेशानं विरराम च काश्यपः । तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ ३२॥ श्रीगणेश उवाच । त्वयोक्तं सकलं शेष सफलं ते भविष्यति । सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ ३३॥ (Page खं. ५ अ. १८ पान ३९) योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद । न योगे त्वत्समः क्वापि भविष्यति महामते ॥ ३४॥ सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर । भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ ३५॥ धराधरणदुःखश्रमादिकं वै कदाचन । न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ ३६॥ तव विष्णुः शरीरस्थः शयिता नित्यमादरात् । पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ ३७॥ सदा यज्ञेषु भागस्थो भविष्यसि न संशयः । दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ ३८॥ एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् । दर्शयामास शेषाय नाना योगधरं परम् ॥ ३९॥ समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् । बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ ४०॥ स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा । ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ ४१॥ अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः । शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ ४२॥ धरणीधरविघ्नेशोऽभवत्तत्रैव संस्थितः । भक्तेभ्यः सिद्धिदाता स यात्रामात्रेण निश्चितम् ॥ ४३॥ शेषो जगाम दक्ष स्वभवनं हर्षसंयुतः । विघ्नराजस्य नाभौ च स्वयं तिष्ठति नागराट् ॥ ४४॥ अनन्यभावसंयुक्तोऽभजत्तं गणनायकम् । अथो व्यासावतारश्च बभूवे धर्मपालकः ॥ ४५॥ ब्रह्माणं शरणं गत्वा गाणेशं शुश्रुवे मुनिः । पुराणं स तथा देवमभजत्तपसा युतः ॥ ४६॥ प्रसन्नो गणराजः स तस्मै दत्वा ययौ वरम् । वेदशाखादिकं सर्वं चकार भिन्नमादरात् ॥ ४७॥ ततो बहौ गते काले मायया भ्रान्तिसंयुतः । योगभ्रष्टोऽभवद्योगी चित्तचञ्चलभावतः ॥ ४८॥ कदा नदीजले व्यासस्तर्पणं नित्यमाकरोत् । तस्याञ्जलौ स्वयं शेषः पपात सूक्ष्मरूपधृक् ॥ ४९॥ तं दृष्ट्वा विस्मितो व्यासस्तत्याज स जले भयात् । मुनिं तं प्रत्युवाचेदं सर्पोंऽगुष्ठप्रमाणकः ॥ ५०॥ सर्प उवाच । जले सत्त्वा महोग्राश्च प्रग्रसिष्यन्ति मां प्रभो । रक्षस्व त्वं महाभाग शरणं त्वां समागतम् ॥ ५१॥ तच्छ्रुत्वा विस्मितो व्यासस्तं प्रणम्य महायशाः । जगाद हर्षसंयुक्तो वचनं स्वहितावहम् ॥ ५२॥ व्यास उवाच । कस्त्वं वद महाभागाञ्जलौ मम समागतः । नरवन्नाथ वदसि न त्वां जानामि भावतः ॥ ५३॥ तस्य तद्वचनं श्रुत्वा तं जगाद पतञ्जलिः । हर्षयन् हेतुगर्भाभिर्वाग्भिर्हर्षसमन्वितः ॥ ५४॥ चिन्तनं यदि सन्त्यक्तं तदा कुत्र प्रवर्तते । अपूर्वं मुनिशार्दूल मायया पृच्छसि प्रभो ॥ ५५॥ मायया सर्पजातिस्थो नरवद्भाषणं सदा । करोति नात्र सन्देहो न तया दुर्लभं भवेत् ॥ ५६॥ तस्य तद्वचनं श्रुत्वा तं प्रणम्य मुनिः पुनः । पप्रच्छ ते स्वरूपं मे दर्शयस्व नमो नमः ॥ ५७॥ ततो नराकृतिर्भूत्वा संस्थितो भगवान् स्वयम् । शेषो ब्राह्मणरूपस्थस्तं जगाद महामुनिम् ॥ ५८॥ पतञ्जलिरुवाच । तवाञ्जलौ महाभाग पतितोऽहं हिताय ते । (Page खं. ७ अ. ९९ पान ४०) पतञ्जलिं च मां विद्धि मुने शेषं धराधरम् ॥ ५९॥ गणेशाऽनेन विप्रेश प्रेरितं मां विशेषतः । भ्रान्तिनाशार्थमेवं ते जानीहि सहसाऽऽगतम् ॥ ६०॥ ज्ञात्वाऽतिहर्षितो व्यासः प्रणम्य तमुवाच ह । चिन्तनं च कथं नाथ त्यक्तव्यं चित्तगेन तु ॥ ६१॥ नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेत् । चित्तं नागेन्द्रवन्द्य त्वं वदस्वातिमहाद्भुतम् ॥ ६२॥ योगशास्त्रं स्वयं तस्मै जगाद स पतञ्जलिः । यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् ॥ ६३॥ विप्रेशोंऽतर्हितो योगी शेषः सर्वार्थदायकः । व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूव ह ॥ ६४॥ शुश्राव स यथाशास्त्रं परं शेषमुखात् पुरा । तथा चित्तं समागृह्य योगिवन्द्यो बभूव ह ॥ ६५॥ पञ्चधा चित्तभूमिस्थस्त्यक्त्वा तच्चिन्तनं स्वयम् । चिन्तामणौ तदाकारो बभूव मुनिसत्तमः ॥ ६६॥ तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये । नराणां प्रहितार्थाय सुगमार्थं प्रजापते ॥ ६७॥ इदं शेषस्य माहात्म्यं कथितं योगशान्तिदम् । अधुना श‍ृणु दक्ष त्वं प्रकृतं यत् कथानकम् ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॥ ५.१८

५.१९ मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । हृदयाद्बहिरागत्य शेषस्य गणनायकः । पुत्रभावेन संस्थोऽभून् मूषकारूढ आदरात् ॥ १॥ तत उत्थाय शेषस्तं प्रणनाम कृताञ्जलिः । पूजयामास सर्वेशं पुनः स प्रणतोऽभवत् ॥ २॥ अथर्वोपनिषद्भिस्तं तुष्टाव करसम्पुटैः । नागेशः प्रार्थयामास भक्तिनम्रात्मकन्धरः ॥ ३॥ शेष उवाच । योगेशस्त्वं गणाध्यक्ष ब्रह्मणां नायकः स्मृतः । कथं मे पुत्रभावेन संस्थितोऽसि विडम्बनम् ॥ ४॥ ततो गजाननस्तं वै मोहयामास मायया । मोहितो नागराजस्तं पुत्रं मेने गजाननम् ॥ ५॥ शेषः सस्त्रीक आगृह्य लालयामास बालकम् । क्रमेण पञ्चवर्षस्थो बभूवे तद्गृहे प्रभुः ॥ ६॥ अथ श‍ृणु प्रजानाथ वृत्तान्तं दैत्यसम्भवम् । मायाकरासुरो दुष्टश्चकार कर्मखण्डनम् ॥ ७॥ आसुरं कर्म सर्वत्र कृतं तेन दुरात्मना । तेनोपोषणसंयुक्ता बभूवुर्देवनायकाः ॥ ८॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः । न स्वाहा न स्वधाद्यं वै कर्तुं केनाऽपि शक्यते ॥ ९॥ ततो मुनिवराः सर्वे देवाः शम्भुपुरोगमाः । विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ॥ १०॥ तत्रोवाच महायोगी बृहस्पतिरुदारधीः । (Page खं. ५ अ. १९ पान ४१) गणेशं भक्तिसंयुक्ता भजध्वं पदप्राप्तये ॥ ११॥ चतुःपदार्थसंयोगे गणेशो निजबोधकः । चतुर्भिर्वर्जितश्चाऽयं हनिष्यति महाखलम् ॥ १२॥ श्रुत्वा ते गुरुसंयुक्तास्तपस्तेपुर्महत् प्रभो । निराहारादिसंयुक्ता नानाऽनुष्ठानतत्पराः ॥ १३॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । आययौ तान् वरान् दातुं भक्त्या तुष्टो महायशाः ॥ १४॥ तं दृष्ट्वा हर्षसंयुक्ता देवा मुनय आदरात् । प्रणेमुः पूजयामासुस्तुष्टुवुर्विविधैः स्तवैः ॥ १५॥ वरयामासुरादृत्य गणेशं सर्वनायकम् । दैत्यं जहि गणाध्यक्ष प्रभो मायाकरासुरम् ॥ १६॥ तथा मायाविहीनां वै भक्तिं देहि त्वदीयकाम् । दासास्ते पादपद्मस्य वयं सर्वे न संशयः ॥ १७॥ श्रुत्वा तान् गणराजस्तु जगाद हर्षसंयुतः । मायाकरं हनिष्यामि शेषपुत्रोऽहमञ्जसा ॥ १८॥ यदि मे वाहनं तत्र मुख्यं भवति देवपाः । चतुर्देवमयं विप्रास्तदाऽऽरोहं करोम्यहम् ॥ १९॥ मदीया भक्तिरुग्रा वो भविष्यति तु निश्चितम् । सुदृढा मे सदा दासा भविष्यथ विशेषतः ॥ २०॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो देवनायकः । शेषध्यानात् समुद्भूतो भक्तानां कार्यसिद्धये ॥ २१॥ अथो देवर्षिमुख्यास्ते विचारं चक्रुरञ्जसा । चतुर्देवमयं तस्य वाहनं कीदृशं भवेत् ॥ २२॥ सर्वांस्तत्र शिवः साक्षादुक्तवान् वाक्यमुत्तमम् । वेदमूर्तिमयो देवः सर्वेषां गुरुरञ्जसा ॥ २३॥ शिव उवाच । अयं मूषकवाहश्च वेदेषु कथितोऽभवत् । मूषस्तेये तथा धातुर्ज्ञातव्यः स्तेयबह्मधृक् ॥ २४॥ नामरूपात्मकं सर्वं तत्राऽसद्ब्रह्म वर्तते । नामरूपेषु ये भोगास्तेषां भोक्ता स्वमायया ॥ २५॥ भोगेषु भोगभोक्ता यस्तदाकारेण वर्तते । अहङ्कारयुतास्ते वै न जानन्ति विमोहिताः ॥ २६॥ वयं भोक्तार एवं ते मानयन्ति विशेषतः । ईश्वरः सर्वभोक्ता च चौर्यवृत्तिषु संस्थितः ॥ २७॥ स एव मूषकः प्रोक्तो मनुजानां प्रचालकः । मायया गूढरूपो भोगान् भुनक्ति स चोरवत् ॥ २८॥ तद्वज्जीवनगो देवः सूर्य आत्मा विशेषतः । नाना जीवेषु भोगान् भुनक्ति वै चौरवत् स्वयम् ॥ २९॥ समेषु सर्वभोक्ता च विष्णुस्तद्वन्न संशयः । सदसन्मयरूपश्च चौरवन् मायया प्रभुः ॥ ३०॥ सहजेषु तथा देवः शिवो भोक्ता तुरीयगः । चौरवन्नाऽत्र सन्देहो युतो निर्मोहमायया ॥ ३१॥ भोक्तारं चौरभावस्थं वाहनं कुरुत प्रियाः । मूषकाकृतिरूपं वै दीयतां गणपाय तत् ॥ ३२॥ श्रुत्वा ते हर्षिताः सर्वे शिवं देवर्षयोऽब्रुवन् । साधु साधु त्वया प्रोक्तं सर्वज्ञस्त्वं सदाशिव ॥ ३३॥ ततो गणेश्वरं ध्यात्वा चतुर्भिः कल्पितं वपुः । तत्र स्वांशं ददुर्देवा भोक्तृरूपं प्रजापते ॥ ३४॥ तदंशेन सजीवोऽभून मूषको बलसंयुतः । ब्रह्मा देवर्षिभिः सार्धमभिषेकं चकार ह ॥ ३५॥ अन्तर्बाह्यादिकं स्तेयं परं सर्वत्र वर्तते । (Page खं. ५ अ. १९ पान ४२) नानाविधं तथैकं च तेषु राजाऽयमुच्यते ॥ ३६॥ अभिषिक्तः स्वयं तत्र मूषको हर्षितोऽभवत् । यज्ञभागस्य भोक्ताऽसौ कृतो देवैः सवासवैः ॥ ३७॥ सङ्गृह्य सर्वदेवास्तं मुनयः शेषमन्दिरम् । आजग्मुस्तान् समालोक्य शेषश्च विस्मितोऽभवत् ॥ ३८॥ पूजयामास सर्वान् स नागराजो महायशाः । नानाऽऽसनेषु संस्थाप्य पुनस्तान् प्रत्युवाच ह ॥ ३९॥ शेष उवाच । धन्यं मे जन्म दानं वै तपो ज्ञानं स्वभावजम् । पितरो मुनयो देवा दर्शनाद्भवतां किल ॥ ४०॥ किमर्थमागताः सर्वे वदत मां सुरर्षयः । भवतां कृपया युक्तः करिष्यामि सुभक्तितः ॥ ४१॥ तस्य तद्वचनं श्रुत्वा शङ्करः सर्वनायकः । जगाद नागराजं तं हर्षयन् हर्षवर्धनः ॥ ४२॥ शिव उवाच । शेष शेष महाभाग धन्यस्त्वं सर्वमण्डले । तव पुत्रत्वमापन्नो ब्रह्मणां नायकः प्रभो ॥ ४३॥ मूषकगोऽवतारोऽयं पञ्चवर्षवयोन्वितः । मा पुत्रं तं विजानीहि तपसा ध्यानजं प्रभुम् ॥ ४४॥ तस्येदं वाहनं मुख्यं चतुर्देवकलांशजम् । स्तेयधर्मधरं पूर्णं सर्वेषां हृदि वर्तते ॥ ४५॥ अस्योपरि समारुह्य मूषकगः प्रतापवान् । मायाकरासुरं सद्यो हनिष्यति गणेश्वरः ॥ ४६॥ एवं तेषां वचः श्रुत्वा खेदयुक्तः स नागराट् । न किञ्चित् सञ्जगौ देवान् पुत्रवत्सलभावतः ॥ ४७॥ ततस्तं शङ्करो देव उवाच वचनं पुनः । मा खेदं कुरु कल्याण विघ्नहा न मरिष्यति ॥ ४८॥ तपोभिर्विविधैर्देवैः मुनिभिः प्रार्थितोऽभवत् । मायाकरविनाशाय तव पुत्रो गजाननः ॥ ४९॥ त्वयाऽऽदौ तपसा देव आराधितो गजाननः । वरदानप्रभावेण तव पुत्रो बभूव ह ॥ ५०॥ एतस्मिन्नन्तरे मूषकगस्तत्र समागतः । नागबालैर्महाभागैः क्रीडायुक्तो गजाननः ॥ ५१॥ समुत्तस्थुः प्रणेमुस्तं दृष्ट्वा विप्राः सदेवपाः । तुष्टुवुः सामवेदस्थेन स्तोत्रेण गणेश्वरम् ॥ ५२॥ ततस्तान् गणराजो वै वचनं हितकारकम् । उवाच वृणुत प्राज्ञा वरं मनेप्सितं परम् ॥ ५३॥ ततोऽतिहर्षसंयुक्तास्तमूचुस्ते सुरर्षयः । मायाकरासुरं स्वामिन् जहि सर्वभयङ्करम् ॥ ५४॥ भक्तिं देहि गणाधीश तव पादे च निश्चलाम् । दासा वयं गणेशान पालयस्व विशेषतः ॥ ५५॥ तथेति तानुवाचाऽथ वाहनं मे न वर्तते । अतो योग्यं महादेवा वाहनं दीयतां परम् ॥ ५६॥ चतुःपदार्थरूपेभ्यो मरणं न प्रविद्यते । मायाकरस्य दुष्टस्य कथं कार्यं मया सुराः ॥ ५७॥ चतुःपदार्थरूपं मे वाहनं यदि जायते । तदाऽहं तं हनिष्यामि नाऽत्र कार्या विचारणा ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः ॥ ५.१९ (Page खं. ५ अ. २० पान ४३)

५.२० मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मूषकगवचः श्रुत्वा देवेन्द्रा हर्षिता बभुः । ऊचुः प्राञ्जलयस्तं ते विघ्नेशं विघ्नवारणम् ॥ १॥ देवर्षय ऊचुः । चतुर्ब्रह्ममयं देव वाहनं ते प्रवर्तते । स्वानन्दे मूषकाख्यं च सर्वभोगकरं परम् ॥ २॥ अधुना भोगकारं तु चतुर्भिः शिवमुख्यकैः । कृतं स्वस्वकलांशेन वाहनं ते गजानन ॥ ३॥ जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः । तदेव वाहनं तेऽभूद् गृहाण स्तेयरूपिणम् ॥ ४॥ एवमुक्त्वा गणेशानं देवा मुनिसमन्विताः । तुष्टुवुस्तं महावीर्यं मूषकं मूषकाकृतिम् ॥ ५॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ ६॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ ७॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ ८॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वजसंस्थित ॥ ९॥ सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः । चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ॥ १०॥ ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे । नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥ ११॥ चतुर्णां गणपः पाता त्वया तद्रूपधारिणा । भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥ १२॥ इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह । भविष्यामि महाभागा वाहनं गणपस्य च ॥ १३॥ एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः । मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥ १४॥ मूषक उवाच । देवाय योगरूपाय नमो मूषकगाय ते । गणेशाय परेशाय परात्परतराय ते ॥ १५॥ अनन्ताय महेशाय महेशैः संस्तुताय च । विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥ १६॥ अनन्तसूनवे तुभ्यं दैत्यदानवमर्दिने । देवानां पालकायैव हेरम्बाय नमो नमः ॥ १७॥ स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने । ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥ १८॥ चतुर्णां चालकायैव चतुःसंयोगमूर्तये । चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥ १९॥ योगेशयोगरूपाय योगिभ्यो योगदायिने । शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः ॥ २०॥ मूषकवाहनायैव मूषकध्वजिने नमः । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ २१॥ वेदवाक्यप्रमाणेन मां कुरुष्व गजानन । वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥ २२॥ इदं मूषकगो नाम मदीयं तु त्वया धृतम् । अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥ २३॥ मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो । ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥ २४॥ एवं स्तुत्वा गणाधीशं प्रणनाम स दण्डवत् । भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥ २५॥ मूषकग उवाच । वाहनं मे सदा साधो भविष्यसि महामते । (Page खं. ५ अ. २० पान ४४) मदीया भक्तिरत्यन्तं सुदृढा ते भविष्यति ॥ २६॥ त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् ॥ २७॥ पठते श‍ृण्वते चैतत् पुत्रपौत्रादिकप्रदम् । यद्यदिच्छति तत्तद्वै सफलं प्रभविष्यति ॥ २८॥ अन्यत्त्वं श‍ृणु मे वाक्यं देवैर्विप्रैः कृतं महत् । स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥ २९॥ यस्त्वां स्तोष्यति चौरेशस्तोत्रेणानेन मानवः । स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥ ३०॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति । मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥ ३१॥ एवमुक्त्वा महादेवं मूषकं गणनायकः । तमारुह्य ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३२॥ ते देवराजास्तमनुदेवाश्च मुनयः प्रभो । नागाः शेषमुखाः सर्वे ययुर्ब्रह्मसमन्विताः ॥ ३३॥ ब्रह्माणं प्रेषयामास मूषकगः प्रतापवान् । दूतं मायाकरस्याऽग्रे बोधार्थं नीतिपालकः ॥ ३४॥ गत्वा तमसुरं ब्रह्मा जगाद वचनं हितम् । आखुवाहं च शरणं याहि नो चेन् मरिष्यसि ॥ ३५॥ चतुर्णां ब्रह्मणां मूषकगो योगे प्रकीर्तितः । स्वानन्दवासकारी स गणेशोऽयं विचारय ॥ ३६॥ सुरासुरमयश्चायं गच्छतं भक्तिसंयुतः । मम पुत्रत्वमापन्नो हितं ते प्रवदाम्यहम् ॥ ३७॥ ब्रह्मणो वचनं श्रुत्वा क्रोधयुक्तस्तमब्रवीत् । मायाकरासुरः पापी पापयुक्तेन चेतसा ॥ ३८॥ मायाकरासुर उवाच । त्वं देवपक्षगो भूत्वा मोहनार्थं समागतः । पञ्चमं ब्रह्म सर्वत्र योगरूपं प्रतिष्ठति ॥ ३९॥ तदेव नागतं कुत्र न गतं च प्रजापते । समागतं गणेशानं तं हनिष्यामि सामरम् ॥ ४०॥ त्वं गच्छ दूतरूपेणागतस्तस्मान् महामते । सहामि तेऽपराधं वै नोचेद्धन्मि सुरप्रियम् ॥ ४१॥ ततो ब्रह्मा गणेशानमाययौ प्रणिपत्य तम् । वृत्तान्तं कथयामास तच्छ्रुत्वा क्रोधमादधे ॥ ४२॥ देवानाज्ञापयामास जेतुं मूषकगोऽपि तम् । ततस्ते शस्त्रसङ्घातैर्जघ्नुर्दैत्यगणान् मृधे ॥ ४३॥ असुराः छिन्नभिन्नास्ते पपलुर्गुल्मसंस्थिताः । सभासीनं समाचख्युर्वचो मायाकरासुरम् ॥ ४४॥ दैत्या ऊचुः । किं स्थितोऽसि महावीर देवाः क्रोधसमन्विताः । आगता नगरं सर्वं तेषामस्त्रैः सुपीडितम् ॥ ४५॥ तेषां तद्वचनं श्रुत्वा क्रोधयुक्तः समाययौ । प्रधानैरसुरैः सर्वैः संवृतो रणमण्डलम् ॥ ४६॥ मायाकरं समालोक्य पपलुर्देवसत्तमाः । आगम्य तं मूषकगं शशंसुश्चेष्टितं महत् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः ॥ ५.२० (Page खं. ५ अ. २१ पान ४५)

५.२१ मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मायाकरासुरं वीक्ष्य तुतोष गणनायकः । मूषकं स समारुह्य ययौ सङ्ग्राममण्डलम् ॥ १॥ चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः । दैत्यानाज्ञापयामास देवानां हननाय सः ॥ २॥ ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः । ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥ ३॥ दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् । एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥ ४॥ परस्परं मम्रुरेत्य सम्मुखं ते जयेप्सवः । रक्तौघैः सरितस्तत्र सञ्जाता भयदायिकाः ॥ ५॥ कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे । न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥ ६॥ एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः । पलायन्तामरा भिन्ना हाहारवकरा भृशम् ॥ ७॥ तद् दृष्ट्वा शङ्करः क्रुद्ध आययौ रणमण्डले । ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥ ८॥ तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः । प्रजापते पलायन्त भयभीता दिशो दश ॥ ९॥ मूर्च्छिता दैत्यराजास्ते सर्वे भूतलमाश्रिताः । दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥ १०॥ क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह । तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥ ११॥ अग्न्यस्त्रेण महादैत्यः पातयामास शङ्करम् । अन्ये दाहयुताः सर्वे पलायन्त दिशो दश ॥ १२॥ एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह । स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥ १३॥ दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः । क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥ १४॥ मायाकरासुर उवाच । किं सङ्ग्रामाय विघ्नेश मया सह समागतः । एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥ १५॥ चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते । तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥ १६॥ ब्रह्माण्डं निर्जितं येन तेन सार्धं गजानन । योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥ १७॥ नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् । त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥ १८॥ नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम । मूर्खवन्नैव जानासि मां सर्वभयदायकम् ॥ १९॥ एवं मायाकरं वीक्ष्य ब्रुवन्तं स्वपराक्रमम् । मूषकगस्तमेवं वै जगाद वचनं हितम् ॥ २०॥ मूषकग उवाच । किं मां वदसि दैत्येन्द्र नाऽहं बालोऽसुराधम । स्वानन्दवासकारी वै त्वां हन्तुं रूपवान् परः ॥ २१॥ हनिष्यामि न सन्देहश्चतुर्भिर्वर्जितोऽधुना । बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥ २२॥ इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् । बिन्दुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥ २३॥ आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् । मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥ २४॥ गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् । पपात कण्ठदेशेऽस्य ममार दैत्यनायकः ॥ २५॥ कमलं गणराजस्य हस्तगं पुनरञ्जसा । (Page खं. ५ अ. २१ पान ४६) बभूव चासुरेशाना विस्मिताः सम्बभूविरे ॥ २६॥ अहो मायाकरो राजा कथं ममार गर्वितः । शरीरं यादृशं तस्य तादृशं दृश्यतेऽधुना ॥ २७॥ तेजः समागतं ह्यत्र तेन तेजो हृतं मृधे । शस्त्रघातविहीनोऽयं ममार दैत्यनायकः ॥ २८॥ ततो दैत्यगणाः सर्वे भयभीताः समन्ततः । पातालं विविशुर्दक्ष देवा हर्षयुता बभुः ॥ २९॥ मूषकगं नमस्कृत्य मुनिभिस्तत्त्वकोविदैः । सर्वे पुपूजुर्देवेशास्तुष्टुवुः करसम्पुटैः ॥ ३०॥ देवर्षय ऊचुः । सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः । सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ ३१॥ लम्बोदराय विघ्नानां नायकाय परात्मने । भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ ३२॥ हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे । स्वानन्दवासिने चैव परेशाय नमो नमः ॥ ३३॥ महोदराय पूज्याय सर्वेषां सर्वरूपिणे । सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः ॥ ३४॥ त्रिनेत्राय चतुर्हस्तकमलस्य धराय ते । मूषकोपरिसंस्थाय ज्येष्ठराजाय ते नमः ॥ ३५॥ अमेयाय गणाध्यक्ष शूर्पकर्णप्रधारिणे । सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ॥ ३६॥ अनादये तथा मध्ये नानारूपधराय ते । अन्ते तादृशरूपाय त्रिस्वरूपाय वै नमः ॥ ३७॥ शेषपुत्राय शैवाय पाराशर्याय ते नमः । सर्वेषां जनकायैव मात्रे ब्रह्मेश ते नमः ॥ ३८॥ स्रष्ट्रे पात्रे च संहर्त्रे गणेशाय नमो नमः । शान्तिरूपाय शान्तिभ्यः शान्तिदाय नमो नमः ॥ ३९॥ अपारगुणधाराय योगिनां हृदि संस्थित । तत् किं स्तुमो नः प्रसीद गणाधीश नमो नमः ॥ ४०॥ एवं स्तुत्वा गणेशानं प्रणेमुस्ते सुरर्षयः । प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः ॥ ४१॥ मूषकग उवाच । कृतं मे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेत् । यद्यदिच्छथ तत्तद्दास्यामि वै भक्तितन्त्रितः ॥ ४२॥ पठतां श‍ृण्वतां नित्यं स्वाधीनोऽहं भवामि च । भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ॥ ४३॥ वरं वृणुत देवेशा देवा मुनिसमन्विताः । दास्यामि स्तोत्रतुष्टोऽहं वाञ्छितं नात्र संशयः ॥ ४४॥ देवर्षय ऊचुः । मायाकरासुरस्यैव त्वया नाशः कृतो महान् । तेन तुष्टा गणाधीश किं वदामो वरं परम् ॥ ४५॥ भक्तिं देहि दृढां नाथ त्वदीयां शान्तिदायिनीम् । तया वयं गणेशान कृतकृत्या न संशयः ॥ ४६॥ तथेति तानुवाचाथ गणेशोंऽतर्दधे स्वयम् । देवाः खिन्ना ययुः सर्वे स्वस्वस्थानं निरामयाः ॥ ४७॥ मुनयः स्वाश्रमं जग्मुर्महाहर्षसमन्विताः । पूर्ववत् कर्मकर्तारो बभूवुः सर्वजन्तवः ॥ ४८॥ शेषः सम्मूर्च्छितस्तत्र पपात धरणीतले । हृदि तस्य गणेशानः प्रकटोऽभूच्च तत्क्षणात् ॥ ४९॥ जगाद तं महानागं मन्मूर्तिस्थापनं कुरु । तत्र पूजापरो भूत्वा कालं क्राम च सर्पप ॥ ५०॥ पातालविवरे क्षेत्रं भविष्यति सुसिद्धिदम् । तत्र मां पूजयिष्यन्ति तेभ्यः सर्वं ददाम्यहम् ॥ ५१॥ (Page खं. ५ अ. २२ पान ४७) एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । शेषः स्वगृहमागत्य तथा चक्रे स भावतः ॥ ५२॥ शतयोजनपर्यन्तं क्षेत्रं गणपतेः स्मृतम् । पाताले सिद्धिदं सर्वं स्वानन्दं कथ्यतेऽपरम् ॥ ५३॥ तत्र पूजनमात्रेण वाञ्छितं लभते नरः । अनुष्ठानविधानेन ब्रह्मभूयं लभेत्तथा ॥ ५४॥ इदं ते कथितं दक्ष मूषकगस्य चेष्टितम् । भुक्तिमुक्तिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ ५५॥ जगत्सु ब्रह्मसु स्थित्वा चौरवद् गणनायकः । भुनक्ति भोगकान् सर्वांस्तेनाऽयं मूषकध्वजः ॥ ५६॥ भक्तानां स्मरणेनाऽयं पुण्यपापभवं मलम् । हृत्वा ब्रह्ममयांस्तांश्च कुरुते मूषकध्वजः ॥ ५७॥ ज्येष्ठशुक्लचतुर्थ्यां महोत्सवो वै प्रवर्तते । जनुस्तिथिर्गणेशस्याङ्गारकी मध्यगे रवौ ॥ ५८॥ स्तेयानां विविधानां स राजवाहोऽयमुच्यते । ततो मूषकगो लम्बोदरः प्रोक्तः प्रजापते ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः ॥ ५.२१

५.२२ शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लम्बोदरावतारो मूषकगोऽयं प्रकीर्तितः । स एव शक्तिपुत्रोऽभूत्तच्छृणुष्व प्रजापते ॥ १॥ शक्तिलोकस्थिता देवी निर्ममे सकलं जगत् । तद्रक्षणविहारार्थं त्रिधाऽभूत् साऽपि मायया ॥ २॥ महाकाली तथा दक्ष महालक्ष्मीः प्रकीर्तिता । महासरस्वती प्रोक्ता भक्तानां भेदनाशनात् ॥ ३॥ ताभ्यो नानाविधा जाता देव्यो दुर्गादिकाः किल । देवीभिः सहिता साऽपि तताप तप उत्तमम् ॥ ४॥ एकाक्षरविधानेन दिव्यवर्षसहस्रकम् । ततः प्रसन्नभावन विघ्नेशो वरदोऽभवत् ॥ ५॥ स्तुतः सम्पूजितस्ताभिर्वरं चित्तेप्सितं ददौ । बहुत्वान्नो कथयितुं भवेच्छक्यं प्रजापते ॥ ६॥ वरस्यैव प्रभावेण स्वस्वकार्यरता बभुः । देव्यो लम्बोदरं नित्यं भजन्ते कुलदैवतम् ॥ ७॥ आदिशक्तिर्महामाया शान्त्यर्थं पुनरारभत् । तपो दुष्करमत्यन्तं ततः शान्तिमवाप सा ॥ ८॥ तथापि तपसा युक्ता पुपूज गणनायकम् । ततो वर्षेषु पूर्णेषु शते हृदि समागतः ॥ ९॥ तं दृष्ट्वा हृदि संस्थं सा तुष्टाव विविधैः स्तवैः । ततो बहिर्विनिःसृत्य जगाद जगदम्बिकाम् ॥ १०॥ पुत्रोऽहं ते महाभागे ध्यानजो नाऽत्र संशयः । पश्य मां त्वं महामाये स्थितं लम्बोदरं बहिः ॥ ११॥ सा प्रबुद्धा बहिर्लम्बोदरं वीक्ष्य तुतोष ह । (Page खं. ५ अ. २३ पान ४८) अथर्वशिरसा देवी तुष्टवापूज्य साश्रुका ॥ १२॥ तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् । दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥ १३॥ शक्तिरुवाच । अनेन वपुषा नाथ स्थिरो भव गजानन । भक्तिं देहि दृढां वत्स तव पादाम्बुजे पराम् ॥ १४॥ योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः । तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥ १५॥ श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् । मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरन्तरम् ॥ १६॥ पुत्रवत्सलतां तत्र कुलदेवत्वमादरात् । ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥ १७॥ तत्र पूजोपचाराद्यैः पूजयस्व निरन्तरम् । तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥ १८॥ एवमुक्त्वांऽतर्दधेऽसौ लम्बोदरः प्रजापते । शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् ॥ १९॥ एवं नानाऽवताराश्च लम्बोदरस्य मानद । भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥ २०॥ रक्तदन्तादिभिश्चैव देवीभिस्तपसा प्रभुः । आराधितो वधार्थाय दैत्यानां गणनायकः ॥ २१॥ देवीभिः संस्तुतो देवः प्रसन्नो वरदोऽभवत् । वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥ २२॥ योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् । कुलदैवतभावेन शान्त्यर्थं च प्रजापते ॥ २३॥ ते सर्वे गणराजा वै स्मृता लम्बोदरात्मकाः । ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥ २४॥ इदं लम्बोदरस्यैवावतारस्य कथामृतम् । श‍ृणोति पठते वापि स सर्वफलभाग् भवेत् ॥ २५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥ ५.२२

५.२३ गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो श‍ृणु महाभाग गाणपत्यस्वरूपकम् । येन त्वं गाणपत्ये वै पदे सुनिपुणो भवेः ॥ १॥ नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः । गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥ २॥ गाणपत्यं सुशान्तिस्थं गुरुं वेदार्थपारगम् । नत्वा तं संवदेत् पूर्वं दीक्षां देहि महाप्रभो ॥ ३॥ त्वमेव गणराजोऽसि गाणपत्यपरायणः । मां कुरुष्व महाभाग गाणपत्यं सुशीलकम् ॥ ४॥ एवं पृष्टो गुरुः शिष्यं वदेद् दृष्ट्वा सुशीलगम् । श्रौतस्मार्तक्रियायुक्तं गणेशभावलालसम् ॥ ५॥ ततस्तं शिक्षयेदादौ धर्मान् गाणेशकान् परान् । तांस्तुभ्यं कथयाम्येव श‍ृणु सर्वसुखप्रदान् ॥ ६॥ (Page खं. ५ अ. २३ पान ४९) परान्नं भक्षयेन्नैवालोकयेन्न रजस्वलाम् । परस्त्रीगमनं क्वापि न कुर्यान् मनसाऽपि सः ॥ ७॥ स्वार्थाय क्रोधसंयुक्तो न भवेल्लोभसंयुतः । अभक्ष्यभक्षणं नैव कुर्यात् हिंसां कदापि न ॥ ८॥ गुरुद्रोहं च पैशून्यं ज्येष्ठानामपमानकम् । वेदशास्त्रादिमार्गेभ्यो हीनं नैव समाचरेत् ॥ ९॥ इहामुत्र विरक्तः स भवेद्ब्रह्मपरायणः । इत्यादिविविधान् धर्मानुपदिश्य मनुं दिशेत् ॥ १०॥ आदौ कृच्छ्रादिकं तस्मै दापयेच्च ततः परम् । गाणपत्यान् समाज्ञाप्य सुदिनं त्ववलोकयेत् ॥ ११॥ अथवा गणराजस्योत्सवदां तिथिमादरात् । चतुर्थीं शुक्लपक्षस्थां वा कृष्णामवलोकयेत् ॥ १२॥ गणेशप्रियकालं वा समालोक्य सुसिद्धिदः । गुरुः शिष्याय मन्त्रं वै दद्याद्भक्त्यर्थमादरात् ॥ १३॥ श‍ृणु तत्र विधिं दक्ष कथयामि सुखप्रदम् । शुचौ मण्डपिकां कृत्वा गोमयेनाऽवलेपयेत् ॥ १४॥ मृन्मयां तु स्वयं तत्र वेदिं कुर्याद्विचक्षणः । चतुरस्रां च तन्मध्ये दिक्षु संस्थापयेद् घटान् ॥ १५॥ आदौ गणेशयन्त्रं स्वं कुङ्कुमेनात्र कारयेत् । स्वेष्टमष्टगणेशानान् पूजयेद् विधिपूर्वकम् ॥ १६॥ दीक्षायुक्तांश्च गाणेशान् पूजयेत् स ततः परम् । तेभ्यो भूषणवस्त्रादीन् दापयेच्छाठ्यवर्जितः ॥ १७॥ गाणेशेनैव मन्त्रेण स जपं कारयेत्तु तैः । पुरश्चरणसङ्ख्याकमथवा लक्षमादरात् ॥ १८॥ अथवा दशसाहस्रमथवा च सहस्रकम् । तद्दशांशेन होमं वै कुर्यात्तत्र महामतिः ॥ १९॥ ततो बलिप्रदानं वै कुर्यात् पूर्णाहुतिं ततः । पुनः सम्पूज्य विघ्नेशं स प्रणम्य ततो गुरुम् ॥ २०॥ प्रार्थयेत् सर्वभावेन शिष्यं मां तारय प्रभो । मन्त्रं देहि महाभाग गाणपत्यं विशेषतः ॥ २१॥ पुनर्गुरुं समभ्यर्च्य ततः सकलशं पुनः । स्थापयेत् स्वेष्टदेवाढ्यं गाणेशेनैव मन्त्रतः ॥ २२॥ तत्र विघ्नेश्वरं ध्यात्वा पूजयेत् स्वल्पमार्गतः । ततो वस्त्रं समाच्छाद्य मस्तके गुरुसंयुतः ॥ २३॥ प्रणम्य स्वगुरुं तत्र प्रार्थयेद्वद मन्त्रकम् । संसारतारणार्थाय देहि मन्त्रं द्विजोत्तम ॥ २४॥ एवं गुरुर्महर्षिश्च प्रार्थितस्तं सुशिक्ष्य वै । गणेशं मनसा ध्यात्वा मन्त्रं शिष्याय दापयेत् ॥ २५॥ ततस्तान् कलशान् गृह्य पूर्वदिक्क्रमतश्च तैः । अष्टोत्तरशतं मन्त्रं जपंस्तं स्नापयेद्गरुः ॥ २६॥ एकैकसिद्धिदः प्रोक्तः कलशः स्नानमात्रतः । ब्रह्मभूयकरः प्रोक्तो मध्यमः सर्वसिद्धिदः ॥ २७॥ स्नातं शिष्यं समादाय गणेशं प्रणिपत्य च । शिष्येण पूजयेद्देवं ततस्तं स विसर्जयेत् ॥ २८॥ प्रणमेद् गाणपत्यांस्तांस्ततो दद्याच्च दक्षिणाम् । पुष्कलां शाठ्यहीनः स भोजयेत्तान् महायशाः ॥ २९॥ मोदकापूपलड्डूकपायसान्नैर्महामते । सूक्ष्मतन्दुलसंयुक्तैर्नानापक्वान्नमिश्रितैः ॥ ३०॥ यथेष्टं भोजयित्वा वै प्रणमेत् स पुनः पुनः । प्रार्थयेत्तान् विशेषेण तारितोऽहं भवार्णवात् ॥ ३१॥ सम्भारं गुरवे दद्याद्गुरुवंशं नमेत् सदा । (Page खं. ५ अ. २४ पान ५०) गाणपत्यान् प्रदृश्यैवोत्थाय तांश्च नमेन्नरः ॥ ३२॥ गाणपत्यान् समालोक्य न नमेद्यः प्रजापते । तेन विघ्नेश्वरः साक्षाद्धिंसितो नाऽत्र संशयः ॥ ३३॥ एवं दीक्षां समागृह्य गणेशं पूजयेत् सदा । तत्समीपे तु मन्त्रस्य पुरश्चरणकं चरेत् ॥ ३४॥ अथ धर्मान् प्रवक्ष्यामि श‍ृणु तान् सुसमाहितः । दन्तकाष्ठमभुक्त्वा तु न गच्छेद्गणपालयम् ॥ ३५॥ मैथुनं यदि कृत्वा देवालयं च गमिष्यति । स सद्यो भ्रंशमागच्छेदतः स्नात्वा च तं व्रजेत् ॥ ३६॥ अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेत् । परवस्त्रधरो भूत्वा पूजयेन्न गणाधिपम् ॥ ३७॥ छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने । मौनेन पूजयेद्देवं यथाविधि गणेश्वरम् ॥ ३८॥ गणेशपूजने सक्तो यदि वाचं वदेन्नरः । पूजान्तरायदोषेण विघ्नयुक्तो भवेन्नरः ॥ ३९॥ अभ्यङ्गसंयुतो यस्तु स्नानहीनो यदा भवेत् । देवालयं समागच्छेत्तदा भ्रंशमवाप्नुयात् ॥ ४०॥ उपानत्स्पर्शसंयुक्तः पादक्षालनवर्जितः । गणेशानालयं गच्छेद्विघ्नयुक्तो भवेन्नरः ॥ ४१॥ गन्धादिचर्चितो भूत्वा यो नार्च्य गणनायकम् । देवालयं गतो दैवाल्लभेद् भ्रंशं स मानवः ॥ ४२॥ अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ । उद्गाराधः समीरेण विघ्नयुक्तो भवेत्तु सः ॥ ४३॥ भेरीशब्दमनावाद्य गणेशालयगो भवेत् । स भ्रंशं च लभेद्दक्ष देवगुह्यप्रभञ्जनात् ॥ ४४॥ देवालयं समागत्याऽनृतवाचं वदेन्नरः । अथवा देवस्तुत्यादिहीनां स भ्रंशितामियात् ॥ ४५॥ नित्यं तत्र प्रजानाथ संयतो देवसन्निधौ । मर्यादां पालयंस्तिष्ठेत् स ईप्सितफलं लभेत् ॥ ४६॥ यथाशास्त्रं विचारेण गणेशं सर्वसिद्धिदम् । यो भजेत् गाणपत्यस्तं स गणेशो भवेन्नरः ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३

५.२४ गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् । गाणेशीं श‍ृणु वक्ष्यामि विधिं तस्य प्रजापते ॥ १॥ ब्राह्मणस्यैव हस्तेन कारयेदेतदादरात् । मन्त्रमात्रं जपेत् सोऽपि न होमादि स्वहस्ततः ॥ २॥ शस्त्रविद्यां परित्यज्य दण्डादिकमशेषतः । गाणपत्यो भवेत् सोऽपि क्षत्रियो नात्र संशयः ॥ ३॥ वैश्यः स्ववृत्तिजं कर्म क्रयविक्रयकं परम् । त्यजेत्ततो गणेशस्य दीक्षायां योग्यतामियात् ॥ ४॥ शूद्राणां नाममन्त्रश्च वक्तव्यो ब्राह्मणैः सदा । हिंसादिकमथो त्यक्त्वा शूद्रो दीक्षां लभेत् पराम् ॥ ५॥ (Page खं. ५ अ. २४ पान ५१) नाममन्त्रेण सर्वं वै कुर्यात् शूद्रः स्वयं विधिम् । गणेश्वरस्य पूजादि न श्लोकादि समुच्चरेत् ॥ ६॥ न होमादिभवं कर्म प्रायश्चित्तं चरेत्तथा । गाणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः ॥ ७॥ गणेशदीक्षया युक्तो भवेद् विपथगो यदि । स एव विघ्नसंयुक्तो भविष्यति प्रकोपतः ॥ ८॥ अथ दीक्षितजन्तूनां चिह्नानि ते वदाम्यहम् । तैर्युक्तान् गाणपत्यान् वै परान् जानाति मानवः ॥ ९॥ प्रातः स्नानादिकं कृत्वा सन्ध्यां शाखोक्तमार्गतः । आगमोक्तां च वेदोक्तां पूजां कृत्वा समापयेत् ॥ १०॥ अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् । सर्वाङ्गलेपनेनैव तत्र मन्त्रान् श‍ृणु प्रभो ॥ ११॥ गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् । स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥ ललाटं गणनाथाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः । अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ १४॥ बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् । वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ १५॥ हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे । उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ १६॥ दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः । वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ १७॥ पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः । एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ १८॥ ललाटं चार्चयेत् सुज्ञः सर्वभद्रविधानतः । अङ्गानि स तथा दक्ष नाभेरूर्ध्वं समर्चयेत् ॥ १९॥ सर्वाङ्गलेपनं शस्तं गाणेशानां विशेषतः । रक्तचन्दनसंयुक्तो गन्धस्तेषां मतः सदा ॥ २०॥ मालां शमीभवां वाऽपि प्रभो मन्दारवृक्षजाम् । प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीम् ॥ २१॥ धारयेन्नात्र सन्देहो देवकाष्ठप्रमाणतः । अन्यकाष्ठभवां मालां धारयेन्न कदाचन ॥ २२॥ वैष्णवानां यथा दक्ष तुलसीकाष्ठसम्भवा । तथा वै गाणपत्यानां शमीमन्दारसम्भवा ॥ २३॥ तदभावे प्रजानाथ विद्रुमजां तु धारयेत् । अथवाऽक्षमयीं मालां धारयेन् मन्दमार्गतः ॥ २४॥ सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः । द्वन्द्वभावविनिर्मुक्तो गाणपत्यश्चरेन् महीम् ॥ २५॥ शुक्लकृष्णचतुर्थीजं व्रतं नित्यं समाचरेत् । गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः ॥ २६॥ अन्यदेवप्रियं दक्ष व्रतं तीर्थं चरेत्तथा । शक्तियुक्तो भवेत् सोऽपि तदा सर्वं प्रतिष्ठितम् ॥ २७॥ क्षेत्राणि गाणपत्यानि चरेन्नियमसंयुतः । अन्यानि शक्तियुक्तश्चेत् निश्चितं मुनिभिः पुरा ॥ २८॥ यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः । अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकम् ॥ २९॥ गाणेशानां यथा दक्ष एक एव गणेश्वरः । आवश्यकेन तद्वद्व्रतादिकं च समाचरेत् ॥ ३०॥ सदा गणेशनाम्नश्च कीर्तनं तत्र वर्तते । (Page खं. ५ अ. २४ पान ५२) कथा नानाविधा रम्याः कथयन्ति परस्परम् ॥ ३१॥ चरित्राणि गणेशस्य गायेयुर्हर्षसंयुताः । पात्रीभूतान् जनान् दृष्ट्वा बोधयन्ति सुसिद्धये ॥ ३२॥ अत्र ते कथयिष्यामि संवादं नारदेन्द्रजम् । एकदा नारदो योगी भ्रमन्निन्द्रं समाययौ ॥ ३३॥ इन्द्रेण पूजितः सोऽपि गाणेशं गानमाकरोत् । तं प्रणम्य महेन्द्रश्च जगाद वाक्यमुत्तमम् ॥ ३४॥ इन्द्र उवाच । वद ब्रह्मन् महाभाग चिह्नानि गणपात्मनाम् । कैश्चिह्नैः संयुता नित्यं गाणपत्याश्चरन्ति हि ॥ ३५॥ नारद उवाच । सर्वाङ्गे चन्दनालेपो रक्तचन्दनसंयुतः । शमीमन्दारमाला च तेषां हस्ते गले भवेत् ॥ ३६॥ सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः । कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥ ३७॥ द्वन्द्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः । गाणेश्वरा वन्दनशीलकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३८॥ नित्यं स्वधर्मेण च संयुतास्तथा न मानयन्ति ह्यपवर्गकं कदा । भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३९॥ न स्थानगेहादिकमाश्रयन्ति ये प्रारब्धमात्रेत्यवलम्बिनोऽपरे । चिन्तामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४०॥ श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये । सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४१॥ निन्दां स्तुतिं वीक्ष्य विकारवर्जिताः कान्तासुवर्णादिषु भावहीनकाः । प्राटन्ति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४२॥ आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठभोजिनः । जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४३॥ नेच्छन्ति कैलासविकुण्ठकादिकं न ब्रह्मभूयं न रसां रसातलम् । भक्तिं सदेच्छन्ति गणेशभाविकान् तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४४॥ मुद्गल उवाच । एवमुक्त्वा महेन्द्रं स नारदः स्वेच्छया मुनिः । ययौ विघ्नेश्वरं गायन् यत्र तत्र प्रजापते ॥ ४५॥ एतत्ते गाणपत्यानां स्वरूपं कथितं मया । श्रवणात् पापसम्भूतमज्ञानं नाशमाव्रजेत् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ ५.२४ (Page खं. ५ अ. २५ पान ५३)

५.२५ शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शमीमन्दारमाहात्म्यं वद मे करुणानिधे । कथं विघ्नेश्वरस्यैव प्रियौ तौ सम्बभूवतुः ॥ १॥ मुद्गल उवाच । और्वो नामाऽभवद्विप्रः श्रौतस्मार्तक्रियापरः । स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः ॥ २॥ तयोः कालेन सञ्जाता पुत्री तेजस्विनी प्रभो । तस्या नाम द्विजौ तौ तु शमीकेति प्रचक्रतुः ॥ ३॥ सा कन्या रूपसंयुक्ता गुणयुक्ता प्रजापते । सप्तवर्षवयः संस्था बभूव जनकप्रिया ॥ ४॥ तदर्थं ब्राह्मणः सोऽपि वरमिच्छन् समाययौ । शौनकस्याश्रमं तत्र ददर्श मुनिसत्तमम् ॥ ५॥ पूजितः शौनकेनैव मन्दारं शिष्यमुत्तमम् । शौनकस्य ददर्शाऽसौ विद्याढ्यं धौम्यनन्दनम् ॥ ६॥ सुशीलं गुरुसेवायां निरतं धर्मलालसम् । हर्षयुक्तोऽभवत्तत्र मेने जामातरं हृदि ॥ ७॥ विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत । सुदिने तं समानाय्य ददौ कन्यां महात्मने ॥ ८॥ तेन युक्ता शमी तत्र शुशुभे रूपसंयुता । रत्नकाञ्चनयोर्योगस्तथा जातः प्रजापते ॥ ९॥ पुनर्गते कियत्काले यौवनस्थां विभाव्य ताम् । शमीकां स समानेतुं मन्दारः प्रययौ स्वयम् ॥ १०॥ तं प्रपूज्य ददौ कन्यामौर्वो हर्षसमन्वितः । मन्दारः श्वशुरं नत्वा मार्गसंस्थो बभूव ह ॥ ११॥ कदा भृशुण्डिनामा यो गाणेशश्च महायशाः । विश्रान्तिमाश्रमे तस्य चक्रतुर्दम्पती परे ॥ १२॥ स्वकाश्रमविहारार्थं भृशुण्डी सङ्गतोऽभवत् । तं दृष्ट्वा शुण्डया युक्तं जहसतुश्च मूर्खवत् ॥ १३॥ शुण्डाया अपमानेन पापं प्राप्तं महाद्भुतम् । तेन सम्प्रेरितो योगी चुकोप रक्तलोचनः ॥ १४॥ उवाच तौ महायोगी भृशुण्डी च द्विजाधमौ । दृष्ट्वा जहसथुः शुण्डां पादपौ भवतं रुषा ॥ १५॥ शुण्डाया अपमानं यः करिष्यति नराधमः । स मे शत्रुर्न सन्देहो गजास्यस्यापमानतः ॥ १६॥ तौ तं भृशुण्डिनं विप्रौ प्रणेमतुः सुदुःखितौ । अज्ञानेन कृतं हास्यं क्षन्तुमर्हसि योगिप ॥ १७॥ उच्छापं वद विप्रेश दासौ ते नात्र संशयः । अत्यन्तं गणराजस्य प्रियौ कुरु च मानद ॥ १८॥ ततोऽतिकरुणाविष्टो जगाद मुनिसत्तमः । शुण्डाया अपमानेन मया शप्तौ न संशयः ॥ १९॥ अतः शुण्डाधरो देवः प्रसन्नश्च भविष्यति । तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ॥ २०॥ ममाधीनं न किञ्चिद्वै शापदाता गजाननः । क्रोधहीनस्य मे क्रोधः प्रेरितस्य समाययौ ॥ २१॥ एवमुक्त्वा महायोगी स्वासनस्थो बभूव ह । तौ सद्यो वृक्षयोनिस्थौ बभूवतुः प्रजापते ॥ २२॥ अथ मासे गते विप्रः शौनकश्चिन्तयान्वितः । शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः ॥ २३॥ तं पप्रच्छ शनैः सोऽपि मन्दारः कुत्र वर्तते । शमीकाया आनयने प्रेषितोऽयं मया सुतः ॥ २४॥ ततस्तं शोकसंयुक्तमौर्वो जगाद विस्मितः । दत्वा कन्यां मया सद्यः प्रेषितश्च त्वदन्तिके ॥ २५॥ (Page खं. ५ अ. २५ पान ५४) श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः । तयोः शोधनकामास्ते निसस्रुस्त्वरितास्ततः ॥ २६॥ तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् । पप्रच्छुस्ते समूचुस्तान् मासमात्राद् गतौ किल ॥ २७॥ एवं विचार्य ते याता भृशुण्ड्याश्रममुत्तमम् । तत्र विश्रान्तिकृत् स्थाने जनानां ददृशुस्तरू ॥ २८॥ अनुपेतौ ततो ज्ञात्वा शौनको ध्यानमाश्रितः । ज्ञात्वा भृशुण्डिना शप्तौ वृत्तान्तं तानवेदयत् ॥ २९॥ ततः सर्वान् महायोगी विसृज्य तपसि स्थितौ । शौनकौर्वौ महादुःखाद् गणेशाराधने रतौ ॥ ३०॥ अवायुभक्षभावेन ध्यानेन गणनायकम् । तोषयामासतुः प्रीत्या तयोरघविमुक्तये ॥ ३१॥ एवं द्वादशवर्षेषु गतेषु द्विरदाननः । आययौ तौ वरं दातुं भृशं तत् क्लेशतापितः ॥ ३२॥ दृष्ट्वा विघ्नेश्वरं तौ तु प्रणम्यापूज्य हर्षतः । गणाध्यक्षं तुष्टुवतुः प्रणम्य करसम्पुटैः ॥ ३३॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरम्बाय नमो नमः ॥ ३४॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥ ३५॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥ ३६॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः ॥ ३७॥ शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये । विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥ ३८॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च । योगेशाय सुशान्ताय शान्तिदाय नमो नमः ॥ ३९॥ गुणान्तं न ययुर्यस्य शिवविष्ण्वादयोऽमराः । योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥ ४०॥ नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन । धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाऽधुना ॥ ४१॥ तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप । वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥ ४२॥ भक्तिं ते देहि हेरम्ब यया भ्रान्तिर्विनश्यति । दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥ ४३॥ तयोर्वचनमाकर्ण्य जगाद गणनायकः । तौ भक्तौ तपसा युक्तौ भक्तिबद्धस्वभावतः ॥ ४४॥ श्रीगजानन उवाच । भृशुण्डिना च विप्रर्षी शप्तौ तौ दम्पती पुरा । ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः ॥ ४५॥ भृशुण्डिनोऽतिभक्तस्य मम मिथ्यावचः कदा । न करोमि महाभागौ देहादधिक एव सः ॥ ४६॥ भृशुण्डिनोऽपमानश्च क्रियते विविधैर्जनैः । न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥ ४७॥ मदीयमपमानं स सहते न कदाचन । अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥ ४८॥ भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् । श‍ृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥ ४९॥ मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः । मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः ॥ ५०॥ (Page खं. ५ अ. २५ पान ५५) देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मताः । दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥ ५१॥ मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ । भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥ ५२॥ शमीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः । तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥ ५३॥ मन्दारपुष्पमेकं समर्पयिष्यति मे नरः । तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥ ५४॥ कृता नानाविधा पूजा मदीया मानवेन च । दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥ ५५॥ अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता । मन्दारकुसुमेनैव सफला सा भविष्यति ॥ ५६॥ शमीपत्रं नरेणैव भवेन् मयि समर्पितम् । न तु ऋतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥ ५७॥ शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरम् । मन्दारपुष्पकेणैव को वदेत्तु तयोः फलम् ॥ ५८॥ नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत् । स सप्तकुलसंयुक्तः स्वानन्दं मे गमिष्यति ॥ ५९॥ तथा मन्दारवृक्षं यो नमेत् सम्पूजयेन्नरः । संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः ॥ ६०॥ प्रदक्षिणां प्रकुर्वीत शमीमन्दारवृक्षयोः । सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥ ६१॥ यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत् । शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥ ६२॥ बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु । तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥ ६३॥ वृक्षबुद्ध्या शमीं यो वै मन्दारं यदि पश्यति । स नारकी नरो विप्रौ भविष्यति न संशयः ॥ ६४॥ शमीं मन्दारकं वीक्ष्य न नमेद्यो नराधमः । दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥ ६५॥ शमीं यश्छेदयेद्वापि मन्दारं मुनिसत्तमौ । नरकेषु महापापी पतिष्यति न संशयः ॥ ६६॥ शाखां पत्रं तु यः पापी छेदयिष्यति मानवः । नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥ ६७॥ शमीं यो निन्दयेद्वा यो मन्दारं वृक्षसत्तमम् । सर्वभाग्यविहीनः स नारकी जायते ततः ॥ ६८॥ मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति । स भुक्त्वा विविधान् भोगानन्ते स्वानन्दगो भवेत् ॥ ६९॥ मन्दारमूलमादाय मूर्तिं कृत्वा मदीयिकाम् । पूजयिष्यन्ति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥ ७०॥ मन्दारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका । तद्वन्नैवान्यसम्भूता मम मूर्तिर्भविष्यति ॥ ७१॥ मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः । दूर्वामन्दारपुष्पैश्च त्रयं सुदुर्लभं मतम् ॥ ७२॥ शमी मन्दारदूर्वाश्च त्रयमेकत्र कारितम् । भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥ ७३॥ शमीमन्दारजां मालां कृत्वा जपं समाचरेत् । अनन्तफलभोक्ताऽसौ भविष्यति न संशयः ॥ ७४॥ शमीमन्दारजां मालां दधानः पुरुषो भवेत् । तस्य देहं समालोक्य विघ्ना नश्यन्ति पापकाः ॥ ७५॥ अन्ते शमीभवं पत्रं मन्दारकुसुमं तथा । (Page खं. ५ अ. २६ पान ५६) दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥ ७६॥ शमीमन्दारसामीप्ये पूजयेन् मां च मानवः । तेनाप्यसङ्ख्यका पूजा कृता मे नाऽत्र संशयः ॥ ७७॥ एवमुक्त्वा पुनस्तौ स जगाद गणनायकः । मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥ ७८॥ तदा मन्दारवृक्षस्य मूलजां मूर्तिमादरात् । कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥ ७९॥ शमीमन्दारदूर्वाभिः सन्तुष्टोऽहं भवामि तु । नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥ ८०॥ तुलसीवर्जितां पूजां मदीयां कुरुतं सदा । शमीमन्दारमालाभिर्जपं मे कुरुतं सदा ॥ ८१॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥ ८२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः ॥ ५.२५

५.२६ शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो धौम्यं समागम्य शौनको हर्षसंयुतः । कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् ॥ १॥ धन्यो मे वृक्षगः पुत्रः सर्वसिद्धिप्रदायकः । साक्षाद्गणेशरूपश्च सर्वेषां वन्द्य आदरात् ॥ २॥ शमीसमीपगो हर्षसंयुक्तस्तत और्वकः । तताप तप उग्रं स शमीसंयोगकारणात् ॥ ३॥ स एव मरणे तत्र शमीगर्भस्थितो ह्यभूत् । अग्निरौर्वाभिधानश्च गाणपत्यो महायशाः ॥ ४॥ कल्पान्ते गणनाथं स ययौ योगसमन्वितः । शौनकश्च तथा ढुण्ढिमभजत् स्नेहसंयुतः ॥ ५॥ मन्दारमूलजां मूर्तिं कृत्वा पूजापरायणः । शमीमन्दारदूर्वाभिस्तोषयामास विघ्नपम् ॥ ६॥ शमीमन्दारमालाभिः शुशुभे ब्राह्मणोत्तमः । गाणपत्यस्वरूपेण तथा धौम्यो बभूव ह ॥ ७॥ भृशुण्डी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः । आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ ॥ ८॥ नित्यं पुपूज च शमीं मन्दारं भक्तिसंयुतः । शमीमन्दारदूर्वाभिः पूजयामास विघ्नपम् ॥ ९॥ शमीमन्दारमालाभिर्भूषितो मुनिसत्तमः । शुशुभे गाणपत्येषु गणराज इवापरः ॥ १०॥ एवं ये ये स्थिता दक्ष गाणपत्या विशेषतः । ते ते सर्वे शमीमन्दारपूजासंयुता बभुः ॥ ११॥ एतत्ते कथितं सर्वं शमीमन्दारसम्भवम् । माहात्म्यं पुनरन्यत्त्वं श‍ृणु पापहरं परम् ॥ १२॥ द्राविडे शूद्रयोनिस्थो बभूवे पापकारकः । वनं गत्वा जनान् हत्वा द्रव्यलोभी दुरात्मवान् ॥ १३॥ एकदा वनमध्यस्थोऽभवत् व्याघ्रेण धर्षितः । पपात भयभीतश्च सद्यस्तेन प्रभक्षितः ॥ १४॥ तत्र वायुबलेनैव शमीपत्रं समाययौ । (Page खं. ५ अ. २६ पान ५७) तस्य स्पर्शोऽभवत्तस्य दैवयोगात् प्रजापते ॥ १५॥ तं नेतुं यमदूताश्च समाजग्मुर्महाबलाः । गाणेशास्तत्र संयाताः समकाले नराधमम् ॥ १६॥ यमदूतांस्तिरस्कृत्य गाणेशास्तं प्रगृह्य वै । गन्तुं समुद्यता यावत्तावत्ते तान् प्रदुद्रुवुः ॥ १७॥ मुसलेन हताः पेतुर्यमदूता महीतले । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ १८॥ यमदूता यमं गत्वा शोकदुःखसमन्विताः । वृत्तान्तं कथयामासुः क्रोधेन परिपूरिताः ॥ १९॥ यामा ऊचुः । स्वामिन् शास्त्रकराः केचिद्बभूवुर्भूमिमण्डले । त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद् गतम् ॥ २०॥ त्वं साक्षाद्धर्मराजश्च यथा वेदार्थवान् प्रभुः । वर्तसे तेन सर्वं वै त्वदाज्ञावशगं मतम् ॥ २१॥ शम्भुविष्णुमुखा देवा धर्माधारा भवन्ति वै । धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः ॥ २२॥ महापापी विशालाक्षो नाम शूद्रो ममार ह । तं गृहीतुं वयं तत्र गताः पाशधराः प्रभो ॥ २३॥ अकस्मात्तत्र संयाता पुरुषाः परमाद्भुताः । शुण्डादण्डधराः सर्वे चतुर्बाहुविराजिताः ॥ २४॥ अस्मांस्ते तु तिरस्कृत्य तं शूद्रं गृह्य सूर्यज । गन्तुं समुद्यता यावत्तावद्योद्धुं वयं स्थिताः ॥ २५॥ निपात्य नो महावीर्या मुसलेन प्रगृह्य तम् । गताः कुत्र न जानीमोऽधुना सर्वे महामते ॥ २६॥ अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च । एवमुक्त्वा प्रणम्यैनं स्थिताः प्राञ्जलयोऽभवन् ॥ २७॥ मुद्गल उवाच । तेषां तद्वचनं श्रुत्वा ध्यानस्थोऽभून् महामतिः । यमः सर्वं विदित्वा तु भयं दध्रे महायशाः ॥ २८॥ ध्यात्वा गजाननं देवं हृष्टरोमा च साश्रुकः । हृदि प्रणम्य विघ्नेशमुवाच भयसङ्कुलः ॥ २९॥ मदीयकिङ्करैः स्वामिन्नपराधः कृतो महान् । तं क्षमस्व दयासिन्धो प्रभो ह्यज्ञानसंयुतैः ॥ ३०॥ गाणपत्यैर्महाभागैर्विवादो नैव शोभनः । स एव तु मया प्राप्तो भाग्यहीनबलेन च ॥ ३१॥ एवं क्षमाप्य विघ्नेशं स्थितं मनसि किङ्करान् । आकार्य भानुजः सर्वान् जगाद वचनं हितम् ॥ ३२॥ यम उवाच । मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् । पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ ३३॥ दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् । पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ ३४॥ गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ ३५॥ अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३६॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ ३७॥ प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे । द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३८॥ (Page खं. ५ अ. २५ पान ५८) विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र । अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ ३९॥ विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् । सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ ४०॥ वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह । दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ ४१॥ अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज । निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४२॥ वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र । गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४३॥ सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् । दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ ४४॥ धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः । अमेयमायामितविक्रमेमि वदन्तमेवं त्यजत प्रभीताः ॥ ४५॥ द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रदप्रकाश । चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४६॥ यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो । विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ ४७॥ गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र । अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४८॥ विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध । कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ ४९॥ इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये । श‍ृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ ५०॥ भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् । ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ ५१॥ यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः । धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ ५२॥ तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः । केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ ५३॥ एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे । यामाः सर्वे गणेशानं भजन्ते भावसंयुताः ॥ ५४॥ इदं शमीभवं पुण्यं माहात्म्यं यः श‍ृणोति चेत् । पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः ॥ ५.२६ (Page खं. ५ अ. २७ पान ५९)

५.२७ दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । दूर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल । अहो शम्यासमं नास्ति मन्दारेण पवित्रकम् ॥ १॥ मुद्गल उवाच । पुराऽऽदौ देवदेवेशो ब्रह्मा सृष्ट्वा चराचरम् । तेषामन्नार्थमत्यन्तचिन्तायुक्तो बभूव ह ॥ २॥ ध्यात्वा गजाननं देवं संस्थितः प्रपितामहः । तस्य रोमभ्य एका वै देवी सन्निःसृता बभौ ॥ ३॥ सर्वतः पाणिपादां तां सहस्रवदनां पराम् । सहस्रावयवैः सर्वैः शोभमानां ददर्श सः ॥ ४॥ ततोऽतिहर्षितो ब्रह्मा बभूवे सर्वधारकः । ज्ञात्वा तामन्नरूपां वै सर्वपोषणकारिणीम् ॥ ५॥ धातारं तं प्रणम्याऽसौ संस्थिता करसम्पुटा । आज्ञां कुरु जगद्धातः किं करोमि पितामह ॥ ६॥ ब्रह्मोवाच । सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि । तपस्व च ततः सर्वमन्नं सृज विधानतः ॥ ७॥ तथेति तं प्रणम्यैव तताप तप उत्तमम् । गणेशं मनसि ध्यात्वा निराहारसमन्विता ॥ ८॥ एकाक्षरस्य मन्त्रस्य जपेन द्विरदाननः । दिव्यवर्षसहस्रेण ययौ तां वरदायकः ॥ ९॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज सा । अथर्वशिरसा देवं तुष्टाव करसम्पुटा ॥ १०॥ तामुवाच गणेशानः सृष्टिं नानाविधां सदा । करिष्यसि महाभागे सर्ववन्द्या भविष्यसि ॥ ११॥ एवमुक्त्वा गणाधीशोंऽतर्धानं प्रजगाम ह । साऽपि हर्षसमायुक्ता सृष्टिं कर्तुं मनो दधे ॥ १२॥ तस्या मस्तकभागाद् वै स्वर्गान्नं विविधं महत् । निःसृतं तेन स्वर्गस्था भुञ्जते विविधान् रसान् ॥ १३॥ उदराद् भूमिसंस्थानां निःसृतं विविधं विधे । अन्नं तेनैव भूमिस्था भुञ्जते विविधान् रसान् ॥ १४॥ पातालवासिनां पद्भ्यामन्नं नानाविधं परम् । भुञ्जते षड्रसान्नित्यं निःसृतं तेन तद्गताः ॥ १५॥ अङ्गप्रत्यङ्गरूपेभ्यो नानान्नं ससृजे प्रभो । देवी तेन तु सन्तुष्टा बभूवुः सर्वजन्तवः ॥ १६॥ हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा सन्तोषमादधे । तामागत्य द्विजैर्मन्त्रैरभिषेकं चकार ह ॥ १७॥ अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा पुरा । शुशुभे सर्वमान्या सा देवी दूर्वा विशेषतः ॥ १८॥ राज्यश्रीसंयुता देवी मदयुक्ता बभूव ह । विसस्मार जपं मन्त्रं गणेशस्य प्रजापते ॥ १९॥ ततो विघ्नाकुला जाता स्पर्धां चक्रे विशेषतः । पार्वत्या नित्यमानन्दादन्नपूर्णाहमादरात् ॥ २०॥ जगदम्बा च सर्वेषामन्नपूर्णत्वकारणात् । साऽहमन्नस्वरूपस्था वृथेयं गर्वमादधे ॥ २१॥ तस्याश्चेष्टितमाज्ञाय क्रोधयुक्ता जगन्मयी । दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसन्निधौ ॥ २२॥ एकदा चन्द्रगेहे वै बभूव ह महोत्सवः । तत्र देवादिकाः सर्वे सस्त्रीकाश्च समाययुः ॥ २३॥ तत्र दूर्वा मदोत्सिक्ता निनिन्द जगदम्बिकाम् । वृथेयं जगदम्बा वै नाम्ना ख्याता बभूव ह ॥ २४॥ इत्यादिविविधैर्वाक्यैर्निनिन्द जगदम्बिकाम् । ततः क्रोधसमायुक्ता पार्वती तां शशाप ह ॥ २५॥ पार्वत्युवाच । मदीयरोमकूपस्था निःसृता त्वं न संशयः । वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥ २६॥ (Page खं. ५ अ. २७ पान ६०) पृथिव्यां तृणरूपा च सा बभूव प्रजापते । तदादि सर्ववन्द्येयं दूर्वा परमपावनी ॥ २७॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । भो क्षमस्वापराधं मे मन्त्रत्यागकृतं प्रभो ॥ २८॥ गत्वा वनान्तरे दूर्वा तताप तप उत्तमम् । ध्यात्वा विघ्नेश्वरं देवं मन्त्रजपपरायणा ॥ २९॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥ ३०॥ आगतं गणराजं सा दृष्टा ननाम भावतः । संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥ ३१॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ ३२॥ अनन्तायाप्रमेयाय नानालीलाधराय च । हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ ३३॥ सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ ३४॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥ ३५॥ लम्बोदराय चौरेशवाहनाय परात्मने । चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ३६॥ ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३७॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ ३८॥ किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ ३९॥ एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह । जगाद गणराजस्तु दूर्वां तां हर्षसंयुतः ॥ ४०॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् । मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥ ४१॥ यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा । भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥ ४२॥ वरं वरय दास्यामि चित्तस्थं भक्तितोषितः । क्रोधयुक्तोऽपि देवि त्वां मन्त्रत्यागकरीं पुनः ॥ ४३॥ श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् । दूर्वा लम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥ ४४॥ दूर्वोवाच । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥ ४५॥ अन्यच्च मदसंयुक्तां जगदम्बां गजानन । स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥ ४६॥ तृणरूपा भविष्यामि पतिष्यामि धरातले । तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥ ४७॥ श्रीगजानन उवाच । मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागते । सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः ॥ ४८॥ अंशेन तृणरूपा त्वं भविष्यसि महीतले । देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥ ४९॥ पृथिव्यां तृणरूपा त्वममृतरूपधारिका । शतमूला प्रकाण्डाद् वै प्ररोहा च शताङ्कुरा ॥ ५०॥ सर्वमान्या सर्वपूज्या देवादीनां सदा प्रिया । (Page खं. ५ अ. २७ पान ६१) भविष्यसि न सन्देहो मद्वरादन्ननायिके ॥ ५१॥ महामङ्गलदा प्रोक्ता मम प्रीतिविवर्धिनी । भविष्यसि तु लोकानां शुभमङ्गलदायिका ॥ ५२॥ त्वत्पत्रेण नरा भूमावर्चयिष्यन्ति देवपान् । न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥ ५३॥ शक्तेश्चैवावतारा ये लक्ष्मीललितिकादयः । तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥ ५४॥ शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा । अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥ ५५॥ मदीया भक्तिरत्यन्तं दृढा ते प्रभविष्यति । मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥ ५६॥ मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः । करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥ ५७॥ दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः । तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥ ५८॥ दूर्वासमं न मे किञ्चित् पूजायां सुप्रियं भवेत् । विना दूर्वां निराहारी भविष्यामि निरन्तरम् ॥ ५९॥ त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः । शत्रवस्ते मता नित्यं नरकेषु पचन्तु ते ॥ ६०॥ येनार्पितं च पूजायां दूर्वापत्रं महामते । तेनापारमयं सर्वं दत्तं मह्यं विशेषतः ॥ ६१॥ दूर्वापत्रेण सन्तुष्टो दास्यामि सकलं च मे । ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥ ६२॥ ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् । पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥ ६३॥ एवमुक्त्वा गणेशानोंऽतर्दधे च प्रजापते । दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥ ६४॥ यथा लम्बोदरेणैव कथितं तादृशं नराः । देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥ ६५॥ सर्वमङ्गलरूपा सा बभूवे पापनाशिनी । गणेशवरदानेन गाणपत्या तथाऽभवत् ॥ ६६॥ एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् । श‍ृण्वते पठते तस्मै भुक्तिमुक्तिप्रदं भवेत् ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥ ५.२७

५.२८ दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अत्र ते वर्णयिष्येहमितिहासं पुरातनम् । दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥ १॥ दण्डकारण्यदेशस्थो बभूवान्त्यजजः पुमान् । पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥ २॥ चौरकर्मा वने गत्वा जनान् जघान दारुणः । क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमयभत् खलः ॥ ३॥ शिश्नोदरपरो भूत्वा विचचार वनान्तरे । ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥ ४॥ ब्रह्महत्यादिकं पापमपारं स चकार ह । न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥ ५॥ एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः । कोटरात् स विनिःस्मृत्याधावच्छस्त्रधरः स्वयम् ॥ ६॥ तमागतं समालोक्य कालं दण्डधरं यथा । (Page खं. ५ अ. २८ पान ६२) पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ ७॥ द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् । दैवयोगेन पञ्चैव समीपे मार्गयायिनः ॥ ८॥ तैः शस्त्रैः स हतः पापी ममार च पपात ह । ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥ ९॥ ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् । रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥ १०॥ पञ्चमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै । नरकः शान्तरूपश्च यातनावर्जितोऽभवत् ॥ ११॥ तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः । वृत्तान्तं कथयामासुर्नरकस्य सुशान्तिजम् ॥ १२॥ तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह । ज्ञात्वा तान् कथयामास स्मृत्वा लम्बोदरं प्रभुः ॥ १३॥ धर्मराज उवाच । पिशुनोऽयं महापापी चाण्डालो नाऽत्र संशयः । न योग्यो नरके दूता अधुना पुण्यवानभूत् ॥ १४॥ यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः । तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥ १५॥ यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा । तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥ १६॥ पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः । अत एनं तु निष्कास्यानयन्तु मम सन्निधौ ॥ १७॥ यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः । निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥ १८॥ गणेशदूतसंयुक्तं विमानं नेतुमाययौ । तं गृह्य गाणपत्यास्ते ययुः स्वानन्दकं पुरम् ॥ १९॥ पिशुनं ब्रह्मभूतं ते चक्रुर्हर्षसमन्विताः । पूर्वदेहस्य दूर्वायाः स्पर्शे भक्तिपरायणाः ॥ २०॥ धर्मोऽतिविस्मितो भूत्वा तान् जगाद स्वसेवकान् । अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥ २१॥ धन्योऽयं पिशुनो पापी यस्य देहे समागता । दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥ २२॥ महिमानं तु दूर्वायाः को जानाति समग्रकम् । शवस्पर्शेन दूतेशा ब्रह्मभूतपदप्रदम् ॥ २३॥ तानुक्त्वा साश्रुनेत्रः स बभूव रविनन्दनः । गणेशं मन्यते नित्यं भजते भक्तिसंयुतः ॥ २४॥ इदं दूर्वाभवं चित्रं माहात्म्यं यः श‍ृणोति चेत् । पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥ २५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ ५.२८ (Page खं. ५ अ. २९ पान ६३)

५.२९ त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यत्त्वं श‍ृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् । यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥ १॥ एकदा नारदो योगी जगाम जनकालयम् । पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥ २॥ नारद उवाच । धन्यस्त्वं गणनाथस्य भक्तः परमभाविकः । मनेप्सितं गणाध्यक्षो ददते ते नियन्त्रितः ॥ ३॥ नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् । जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥ ४॥ जनक उवाच । याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः । पूर्णशान्तिप्रदो विप्र गाणेशो नात्र संशयः ॥ ५॥ एकाक्षरं गणेशस्य ददौ मन्त्रं सुसिद्धिदम् । मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥ ६॥ तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् । गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥ ७॥ अतोऽहं गणनाथश्च न भिन्नौ मुनिसत्तम । गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥ ८॥ मया यच्चिन्तितं तत्तत् कथं ददाति विघ्नपः । अयोगिनामिदं सर्वं भ्रान्तिदं भवतीत्यहो ॥ ९॥ पञ्चधा चित्तवृत्तिश्च तासां प्रकाशकारकः । चिन्तामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥ १०॥ जनकः कुत्र योगीन्द्र वर्तते वद साम्प्रतम् । तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥ ११॥ अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् । भ्रान्तवद्भाषणं योग्यं नैव ते योगिसत्तम ॥ १२॥ जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः । उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥ १३॥ नारद उवाच । ज्ञानमत्तोऽसि राजेन्द्र नश्वरस्त्वं कथं भवेः । गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥ १४॥ ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः । शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥ १५॥ योगिदेहेन सा सत्ता कदापि नृप वर्तते । समाधिना च योगीन्द्रो गणेशः कथितो बुधैः ॥ १६॥ प्रारब्धदेहधारित्वान्नरो योगी न संशयः । नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥ १७॥ गर्विष्ठो योगमाहात्म्याज्जनक त्वां विशेषतः । भविता गर्वभङ्गस्ते गजाननप्रसादतः ॥ १८॥ एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ । तं प्रणम्य विनीतः स वृत्तान्तं प्रजगाद ह ॥ १९॥ पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः । नारदो गणनाथस्य गानासक्तो महामतिः ॥ २०॥ ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् । आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥ २१॥ कम्पेन संयुतः सोऽपि दुर्गन्धेन समावृतः । पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥ २२॥ द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः । ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥ २३॥ राज्ञा सम्पूजितो विप्रो बुभुजेऽन्नं समागतम् । अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥ २४॥ तदेव तेन सम्भुक्तं पुना राजा भयाकुलः । अयुतानां समं तस्मै ददावन्नं सुतुष्टिदम् ॥ २५॥ (Page खं. ५ अ. २९ पान ६४) भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः । ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥ २६॥ ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः । अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥ २७॥ पुरप्रान्ते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् । अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥ २८॥ ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम । राज्ञा लज्जासमायुक्तो न किञ्चित्तमुवाच ह ॥ २९॥ राजानं मुनिवर्यश्च जगाद प्रहसन्निव । त्वं गणेशो न सन्देहः कथं सत्ताविवर्जितः ॥ ३०॥ अकर्तुं कर्तुमद्यैवान्यथा कर्तुं गजाननः । समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥ ३१॥ भ्रान्तो योगमदेनासि राजेन्द्रात्र न संशयः । प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥ ३२॥ एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् । बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥ ३३॥ लोकाः सर्वे समूचुस्तं सर्वेषां गृहगं मुने । राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥ ३४॥ नास्मद्गेहेऽधुना किञ्चिदन्नं त्वं गच्छ वाडव । सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥ ३५॥ श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु । पुरप्रान्ते गतो दैवाद् ददर्शद् वाडवालयम् ॥ ३६॥ त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः । गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥ ३७॥ तं ददर्श गणेशानः प्रविवेश तदाश्रमम् । सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥ ३८॥ ययाचे तं महाभागमन्नं तृप्तिकरं मुने । दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥ ३९॥ जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्यमुत्तमम् । मद्गृहे नैव विप्रेन्द्र धान्यं किञ्चित् प्रवर्तते ॥ ४०॥ दरिद्राणां महाराजोऽहमेको नात्र संशयः । मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥ ४१॥ दूर्वाङ्कुराः समानीता गणेशपूजनाय च । तेष्वेको विद्यते विप्र नान्यत् किञ्चिद् विचारय ॥ ४२॥ तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः । भक्त्या देहि महाभाग दूर्वाङ्कुरं क्षुधापहम् ॥ ४३॥ ततो विरोचना विप्रं ददौ नत्वा गजाननम् । ध्यात्वा दूर्वाङ्कुरं तस्मै नानान्नं कल्प्य तत्र सा ॥ ४४॥ भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः । तेन दूर्वाङ्कुरेणैव सन्तृप्तोऽभून् महामते ॥ ४५॥ भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः । गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥ ४६॥ दृष्ट्वा लम्बोदरं तौ तु प्रणेमतुः पुनः पुनः । तं साश्रुनयनौ पूज्य तुष्टुवतुः कृताञ्जली ॥ ४७॥ विरोचनात्रिशिरसावूचतुः । गणेशाय नमस्तुभ्यं नमः सर्वप्रियङ्कर । ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥ ४८॥ हेरम्बाय परेशाय मूषकध्वजिने नमः । आत्मनेऽनात्मने तुभ्यं नमो लम्बोदराय वै ॥ ४९॥ अनामय ह्यनाधार सर्वाधार सुमूर्तये । (Page खं. ५ अ. २९ पान ६५) वक्रतुण्डाय सर्वेषां नमः पूज्याय ते नमः ॥ ५०॥ आदिमध्यान्तहीनाय तदाकाराय ढुण्ढये । ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ५१॥ सर्वादिशूर्पकर्णाय पूर्णाय धरणीधर । शेषनाभिविभूषाय नमश्चिन्तामणे नमः ॥ ५२॥ सिद्धिबुद्धिप्रदात्रे ते स्वानन्दे वासकारिणे । भक्तेभ्यः शान्तिदात्रे वै शान्तिस्थाय नमो नमः ॥ ५३॥ सिद्धिबुद्धिवरायैव नमो मूषकवाहन । गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥ ५४॥ धन्यौ माता पिता नाथ कुलशीलादिकं च मे । येन दृष्टो गणाधीशो वेदान्तागोचरो विभुः ॥ ५५॥ वेदा विदुर्नो न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः । शान्त्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥ ५६॥ परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम । न मत्समो ह्यण्डकटाहमध्ये गणेश ते पादसमीपगादहो ॥ ५७॥ एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने । अत्यन्तभक्तिमाहात्म्यात् कण्ठरोधः समाभवत् ॥ ५८॥ ननर्त परमानन्दयुक्तस्तत्र प्रजापते । सरोमाञ्चो न सस्मार यथा भ्रान्तश्च साश्रुकः ॥ ५९॥ ततस्तं गणनाथो वै जगाद वचनं हितम् । स्वयं साश्रुः सरोमाञ्चो भक्तिं दृष्ट्वा महामुने ॥ ६०॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु । भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥ ६१॥ यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् । भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥ ६२॥ वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् । सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥ ६३॥ गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः । उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥ ६४॥ त्रिशिरा उवाच । मां मोहयसि किं नाथ न वृणोमि गजानन । सर्वं भ्रान्तिप्रदं मत्वा भक्तिं याचे त्वयि स्थिराम् ॥ ६५॥ श्रुत्वा जगाद तं विघ्नराजोऽसौ विस्मितोऽभवत् । अहो यः सुदृढां भक्तिमेकां वृणोति वाडवः ॥ ६६॥ श्रीगणेश उवाच । पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः । मदीयां ते वशे नित्यं भविष्यामि तया किल ॥ ६७॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । सस्त्रीकस्त्रिशिरास्तत्र खेदयुक्तो बभूव ह ॥ ६८॥ गणेशकृपया तत्र गृहं तस्य महामुनेः । शुशुभे रत्नसंयुक्तं सुवर्णभित्तिराजितम् ॥ ६९॥ द्वारि नाना जनास्तत्र सुवर्णयष्टिधारकाः । स्थितास्तथा स्त्रियो दासाः सेवां कर्तुं सुलालसाः ॥ ७०॥ नानासम्पत्तिसंयुक्तं दृष्ट्वाऽसौ विस्मितोऽभवत् । तावद्दासाश्च तं गृह्य सेवां चक्रुः सुभाविकाः ॥ ७१॥ तद् दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीत् । माया भक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण च ॥ ७२॥ अतो यत्नसमायुक्ता भुङ्क्ष्व भोगान् महासति । एवं मदविहीनौ तौ परं बुभुजतुः सुखम् ॥ ७३॥ (Page खं. ५ अ. ३० पान ६६) दानमार्गेण स ददौ द्रव्यं नानाविधं विधे । तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥ ७४॥ एतत्ते कथितं किञ्चित् दूर्वामाहात्म्यमुत्कटम् । गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥ ७५॥ गणेशरोमकूपेषु ब्रह्माण्डानि ह्यनेकशः । ब्रह्म नानाविधं देहे स्थितं तस्य प्रजापते ॥ ७६॥ तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे । फलं तस्य च लोके को वर्णयेद्वद मानद ॥ ७७॥ त्रैलोक्यादिकमेतस्मान्न तुल्यं दूर्वया भवेत् । अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी ॥ ७८॥ दूर्वाया महिमा दक्ष कथितो ब्रह्मदायकः । भुक्तिमुक्तिप्रदः पूर्णः पठते श‍ृण्वते भवेत् ॥ ७९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः ॥ ५.२९

५.३० दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुतं दूर्वार्पणस्याऽपि माहात्म्यं सर्वसिद्धिदम् । न दूर्वया समं किञ्चिद् दृश्यते भुवनेषु वै ॥ १॥ तथापि तृप्तिं नो यामि योगामृतपरायणः । अतो मे वद योगीन्द्र जनकस्य कथानकम् ॥ २॥ गणेशेन महायोगी जनकश्छलितोऽभवत् । किं चकार ततः सोऽपि गते विघ्नेश्वरे वद ॥ ३॥ मुद्गल उवाच । श‍ृणु प्रजापते चित्रं चरित्रं जनकस्य च । गते गणेश्वरे सोऽपि दुःखयुक्तो बभूव ह ॥ ४॥ शुशोच हृदि सङ्क्षुब्धो जगाद स्वस्य चेतसि । अहो नारदविप्रेण कथितं सत्यमेव तत् ॥ ५॥ देहो भक्तिकरः प्रोक्तो न भजेद्यस्तमाप्य सः । गजाननं नरो नित्यं वञ्चितो मायया परम् ॥ ६॥ कर्मनिष्ठैर्गणेशानः सेव्यः स्वहितकारणात् । तपःफलप्रदः सेव्यः तपोनिष्ठैस्तथाऽपि सः ॥ ७॥ ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः । योगिभिर्योगदाता स सेव्यो ब्रह्ममयः प्रभुः ॥ ८॥ अहो देहधरः साक्षाद्ब्रह्मणस्पतिवाचकः । वेदेषु कथितश्चायं गणेशो नात्र संशयः ॥ ९॥ सन्त्यज्य मूर्खवद्भ्रान्तोऽहं गणेशं प्रभावतः । योगस्य चावदं मिथ्या नरतुल्यस्वभाववान् ॥ १०॥ गणेशभजनं मुख्यं धृतं येन महात्मना । स योगीन्द्रगुरुः साक्षात्तत्समं नैव विद्यते ॥ ११॥ एवं क्षोभसमायुक्तो जनकः स्वगृहे स्थितः । समाययुश्च योगीन्द्रास्तं नवर्षभनन्दनाः ॥ १२॥ नग्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः । अव्याहतास्त्रिलोकेषु भ्रमन्तः स्वेच्छयाचराः ॥ १३॥ सर्ववन्द्याः सदा दक्ष ब्रह्मभूयपरायणाः । (Page खं. ५ अ. ३० पान ६७) विधिनिषेधहीनाश्च योगरूपधरा इव ॥ १४॥ गणेशस्य चरित्राणि कथयन्तः परस्परम् । तद्रूपास्तस्य नामानि वदन्तो हर्षसंयुताः ॥ १५॥ स्वपरभ्रान्तिशून्याश्च समलोष्टाश्मकाञ्चनाः । भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः ॥ १६॥ स्वेच्छया कर्म कर्तारः स्वेच्छया ज्ञानधारकाः । स्वेच्छया समशीला वै स्वेच्छया सहजप्रियाः ॥ १७॥ स्वेच्छया स्वस्वरूपस्था स्वेच्छया योगतत्पराः । स्वेच्छया पूर्णयोगस्था वर्णवन्तश्च स्वेच्छया ॥ १८॥ स्वेच्छयाऽऽश्रमसंयुक्ताः स्वेच्छया विधिधारकाः । निषेधे स्वेच्छया युक्ताः स्वाधीनास्ते च योगिनः ॥ १९॥ विधिनिषेधहीनाश्च स्वेच्छया वै विनायकाः । दण्डादिभिर्विहीनास्ते गणेशगानतत्पराः ॥ २०॥ तान् दृष्ट्वा जनको राजा सम्भ्रमाकुलचेतसा । समुत्थाय ननामाऽऽदौ दण्डवत् पृथिवीतले ॥ २१॥ उत्थाय तान् प्रपूज्याऽथ भोजयामास चान्धसा । पादसंवाहने संस्थो जगाद वचनं हितम् ॥ २२॥ जनक उवाच । धन्यौ मे पितरौ विद्या तपःस्वाध्यायकादयः । ब्रह्मणस्पतिरूपाणां भवतां दर्शनात् किल ॥ २३॥ निःस्पृहाः सर्वभावेषु भवन्तो नात्र संशयः । तथापि भवदाज्ञां वै कर्तुमीहे च योगिनः ॥ २४॥ भवतां किञ्चिदाज्ञायां संस्थितो यदि मानवः । सकृत्तस्य पुनर्जन्म विद्यते नैव भक्तिभाक् ॥ २५॥ अवमानेन सद्यो वै नारकी जायते नरः । साक्षाद्योगस्वरूपाश्च भवन्तः कृपयाऽऽगताः ॥ २६॥ न मत्समस्त्रिलोकेषु भवतां दर्शनाद्भवेत् । अधुना कृतकृत्योऽस्मि जातोऽहं भाग्यगौरवात् ॥ २७॥ मुद्गल उवाच । जनकस्य वचः श्रुत्वा साधु तं ते प्रजापते । जगुः प्रहृष्टभावेन राजानं शान्तिदायकाः ॥ २८॥ नवयोगिन ऊचुः । धन्यस्त्वं मानवो राजा विदेहोऽसि न संशयः । साधुत्वे देहसंस्थोऽपि त्वयि चित्रं न सम्भवेत् ॥ २९॥ साधुदर्शनकामाश्च वयं ते गृहमागताः । दृष्ट्वा त्वां योगिनं पूर्णं तृप्ताः स्मः श्रुतकीर्तयः ॥ ३०॥ गच्छामो राजशार्दूल नेच्छामः किञ्चिदप्यहो । पूजां त्वया कृतां दृष्ट्वा सन्तुष्टाः स्मो महामते ॥ ३१॥ तेषां तद्वचनं श्रुत्वा तान् जगाद नृपः पुनः । प्रणम्य भक्तिसंयुक्तो हितं सर्वजनप्रियः ॥ ३२॥ जनक उवाच । वदेत योगसंसिध्यै किं कर्तव्यं जनैः सदा । येन योगीन्द्र वन्द्यास्ते भवन्ति मानवा बुधाः ॥ ३३॥ कविरुवाच । स्वधर्मपालको नित्यं भवेद्योगपरायणः । रजस्तमस्तिरस्कृत्य सत्त्वयुक्तो मुमुक्षुकः ॥ ३४॥ गणेशार्पणबुद्ध्या वै कर्माणि सततं नरः । कुर्याच्छ्रौतानि स्मार्तानि व्रतादीनि विशेषतः ॥ ३५॥ आन्तराणि महाराज वायुसाधनकानि वै । स्मृतानि तानि सर्वाणि कुर्यात् ध्यानपरायणः ॥ ३६॥ गणेशस्य सदा ध्यानं कुर्यात् स्वहृदि भूमिप । एकाक्षरादिमन्त्राश्च तेष्वैकजपकारकः ॥ ३७॥ सम्प्रज्ञातसमाधिस्थः सम्भवेद्यदि मानवः । तथापि गणराजस्य ध्यानं नैव परित्यजेत् ॥ ३८॥ असम्प्रज्ञातयोगस्थः भवेद्यदि स मानवः । तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥ ३९॥ गणेशध्यानसंयुक्तो योगभूमिं नृपात्मज । स च स्वल्पेन कालेनोल्लङ्घयेद्विघ्नहानतः ॥ ४०॥ ततो योगी भवेन्नूनं शान्तियोगपरायणः । चित्ते चिन्तामणौ सोऽपि तदाकारः सुसाधनात् ॥ ४१॥ न गणेशसमं किञ्चिज्जगत्सु ब्रह्मदं भवेत् । सर्वेभ्यो योगदानार्थं बभूवे देहधारकः ॥ ४२॥ एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् । भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥ ४३॥ जनक उवाच । कथं चिन्तामणिः प्रोक्तो गणेशानो वदन्तु मे । तस्य रूपं कथं ज्ञेयं नरैश्चित्ते विशेषतः ॥ ४४॥ हरिरुवाच । चित्तं पञ्चविधं प्रोक्तं तत्र चिन्तामणिः स्थितः । चित्तप्रकाशकत्वाद्वै विघ्नेशानः प्रकथ्यते ॥ ४५॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चधा चित्तमेवं तु भवते श‍ृणु भूमिप ॥ ४६॥ यत्र क्षिप्तं मनः सर्वैस्तत्र ज्ञानयुतं भवेत् । तदेव कर्तुमुद्युक्तं समर्थं सम्भवेत् कथम् ॥ ४७॥ क्षिप्तं चित्तं विजानीहि स्मृतस्तत्र प्रकाशकः । चिन्तामणिर्गणाधीशस्तं भजस्व महामते ॥ ४८॥ यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति । ज्ञानहीनतया तस्य मूढवन् मूढसंज्ञितम् ॥ ४९॥ अन्यच्च भ्रान्तियुक्तानां पिशाचवत् स्थितं सदा । चित्तं तदेव मूढं च ज्ञातव्यं जनवत्सल ॥ ५०॥ तत्र प्रकाशकर्ता स नानाखेलपरायणः । चिन्तामणिर्गणाध्यक्षः स तिष्ठति भजस्व तम् ॥ ५१॥ सत्वभावसमायुक्तो मानवो मोक्षकामुकः । ब्रह्मार्पणतया सर्वं कुरुते कर्म नित्यदा ॥ ५२॥ ब्रह्मानुभवहीनो न जगत्सु सुखलालसः । ब्रह्मार्थं तस्य चित्तं वै विक्षिप्तं कथितं बुधैः ॥ ५३॥ संसारे क्षिप्तभावश्च तस्माद्विगतक्षेपणम् । कर्तुं समुद्यतः सोऽपि सदा साधनतत्परः ॥ ५४॥ अनेन विधिना राजन् विक्षिप्तं चित्तमुच्यते । तत्र प्रकाशकर्तारं चिन्तामणिं भजस्व तम् ॥ ५५॥ ज्ञानदृष्टिः समुत्पन्ना हृदि सर्वत्र भूमिप । साक्षाद्भावस्यैक्यकरावयवादिकवर्जिता ॥ ५६॥ तया सोऽपि नरस्तत्र यत्र पश्यति योगवित् । आकाररहितं भाति विश्वं सर्वं न संशयः ॥ ५७॥ अष्टधा सा समाख्याता सम्प्रज्ञातस्वरूपिका । एकभावकरा वृत्तिरेकाग्रा कथिता बुधैः ॥ ५८॥ तत्र चिन्तामणिः साक्षात् प्रकाशकारकः स्मृतः । तं भजस्व विधानेन सर्वसिद्धिप्रदायकम् ॥ ५९॥ जगदवयवैर्युक्तं चतुर्देहमयं नृप । बिन्दुस्तस्य परा काष्ठा ब्रह्मकायाप्रधारकम् ॥ ६०॥ देही भेदविहीनश्च देहचालक उच्यते । सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः ॥ ६१॥ तयोर्योगे निरोधश्च सदा भवति चेतसः । तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ ॥ ६२॥ स्वत उत्थानयुक्तं परत उत्थानधारकम् । स्वतः परत उत्थानवर्जितं ब्रह्म उच्यते ॥ ६३॥ एतत् संयोगकं प्रोक्तं समाधेर्धारकं परम् । सर्वेषां तत्र संयोगो ब्रह्माकारेण जायते ॥ ६४॥ (Page खं. ५ अ. ३० पान ६९) अन्यदयोगरूपं वै निवृत्तेर्धारकं परम् । ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥ ६५॥ केषाञ्चित्तत्र संयोगो ब्रह्मणां जगतां भवेत् । नैव केषु च तस्यापि ब्रह्मायोगं प्रकथ्यते ॥ ६६॥ स्वकीयभेदनाशेन लभ्यते नात्र संशयः । तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥ ६७॥ निरोधे चित्तके राजन् प्रकाशदगणेश्वरम् । चिन्तामणिं भजस्व त्वं परं तत् खेललालसम् ॥ ६८॥ पञ्चधा चित्तभूमिस्थं त्यक्त्वा योगपरो भवेत् । स्वयं चिन्तामणिः साक्षाद्भवते चित्तनाशनात् ॥ ६९॥ शान्त्या सर्वत्र राजेन्द्र चित्तेषु नित्यमादरात् । चिन्तामणिः प्रलभ्येत त्यक्त्वा सद्यश्च चिन्तनम् ॥ ७०॥ एतत्ते कथितं पूर्णं चिन्तामणिस्वरूपकम् । तं भजस्व विधानेन शान्त्या योगपरायणः ॥ ७१॥ जनक उवाच । एतादृशो गणेशानः कथं देहधरोऽभवत् । तत्र श्रद्धादिकं नाथास्तादृशं जायते कथम् ॥ ७२॥ अन्तरिक्ष उवाच । वामभागे राजसश्च दक्षिणे तामसः स्मृतः । मध्ये सत्त्वमयः प्रोक्तस्तेषां योगे तुरीयकः ॥ ७३॥ चतुर्विधमयो देहस्तत्राहङ्कारधारकः । देही च तन्मयः साक्षात् कण्ठाधो गणनायकः ॥ ७४॥ यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप । समाधिना महोग्रेण प्रलये तद्गजः स्मृतः ॥ ७५॥ कदा न जायते भूप लयं गच्छति नो कदा । तदेव गजशब्दाख्यं ब्रह्म वेदैः प्रकथ्यते ॥ ७६॥ तदेव मस्तकं तस्य गणेशस्य महात्मनः । तयोर्योगे गणाध्यक्षः साकारो भवतीत्यहो ॥ ७७॥ सम्प्रज्ञातमयो देहः कण्ठाधस्तस्य कीर्तितः । असम्प्रज्ञातरूपं च कण्ठादूर्ध्वं शिरः स्मृतम् ॥ ७८॥ तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणात् । देहधारी बभूवाऽपि गणेशो ब्रह्मनायकः ॥ ७९॥ न सर्वसमभावाख्यो देहस्तस्य महात्मनः । देहधारी गणाधीशो भक्तिभोगार्थमञ्जसा ॥ ८०॥ न भक्तेश्च समं तस्य प्रियं राजेन्द्र वर्तते । तदर्थं सकलं हित्वा भक्ताधीनो भवेत् स्वयम् ॥ ८१॥ मायया भ्रान्तचित्तानां देहधारी यथा नरः । तथाऽयं भवति प्राज्ञ साक्षाद्योगस्वरूपधृक् ॥ ८२॥ जनक उवाच । कीदृशी गणराजस्य माया भ्रान्तिकरी मता । तां मे वदत योगीन्द्रा ब्रह्मभूयार्थमञ्जसा ॥ ८३॥ प्रबुद्ध उवाच । वामाङ्गात् सिद्धिरुत्पन्ना वामभागप्रकाशिनी । दक्षिणाङ्गात्तथा बुद्धिर्दक्षिणाङ्गधरा बभौ ॥ ८४॥ सिद्धिपुत्रः स्वयं लक्षो बुद्धिपुत्रो महामते । लाभस्तयोश्च चित्तात्तौ सञ्जातौ खेलकौ परौ ॥ ८५॥ मायामोहितचित्तानां भ्रामकौ नात्र संशयः । तयो रूपं प्रवक्ष्यामि श‍ृणु लोकहिताय च ॥ ८६॥ पापेषु च नरा राजन् यदा लक्षं प्रकुर्वते । तदा नरकदो लाभो भवते पापकारिणाम् ॥ ८७॥ यदा पुण्येषु लक्षं वै कुर्वते मानवा नृप । तदा स्वर्गप्रदो लाभो जायते पुण्यकर्मणाम् ॥ ८८॥ यदा ब्रह्मणि लक्षं वै कुर्वते मानवा नृप । तदा योगमयो लाभः सदा भवति योगिनाम् ॥ ८९॥ हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः । पदार्थेषु स्थितो लाभो मतो नाना फलप्रदः ॥ ९०॥ ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् । बन्धहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥ ९१॥ तत्र भ्रान्तिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते । सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥ ९२॥ धर्मसिद्धिस्तथार्थस्य सिद्धिः कामप्रदायिनी । मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥ ९३॥ अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते । भुक्तिमुक्तिब्रह्मभूयं सिद्धिः सुभ्रान्तिदा मता ॥ ९४॥ भ्रान्तिधारकरूपा सा बुद्धिः सर्वत्र वर्तते । बुद्ध्या बुद्ध्वा तु राजेन्द्र पश्चान् मोहो निवर्तते ॥ ९५॥ पञ्चचित्तमयी बुद्धिः स्वयं विश्वात्मिका मता । ब्रह्माकारा तथा भिन्नं पदमिच्छति दुःखदम् ॥ ९६॥ सकामा चैव निष्कामा ब्रह्मभूयपरायणा । बुद्धिर्भवति सा भ्रान्त्या भ्रान्तिधारकतां गता ॥ ९७॥ नानाभ्रान्तियुतं सर्वं चकार सिद्धिमञ्जसा । नानामोहयुतं तद्वद् बुद्धिश्चकार खेलया ॥ ९८॥ ताभ्यां सम्मोहितं सर्वं लक्षलाभयुतं भवेत् । नानालक्षसमायुक्तं नानालाभफलैर्युतम् ॥ ९९॥ अतो मायायुतः सोऽपि गणेशो ब्रह्मनायकः । बिम्बे खेलति बिम्बीव जानीहि नृपसत्तम ॥ १००॥ एतन् मायास्वरूपं ते कथितं मोहकारकम् । यज्ज्ञात्वा योगिवन्द्यश्च जायते मानवः क्षणात् ॥ १०१॥ जनक उवाच । भक्तिप्रियो गणेशश्चेत् कथं मोहयुतान् जनान् । स्वभक्तान्न स योगीन्द्राः करोति वदत प्रियाः ॥ १०२॥ न पराधीनता तस्य स्वप्रियं गणनायकः । पराधीनसमानं न न करोति महाद्भुतम् ॥ १०३॥ पिप्पलायन उवाच । गणेशेन महाराज क्रीडार्थं रचितं जगत् । मायामयं विशेषेण नानाखेलयुतं तथा ॥ १०४॥ तत्रादौ द्विविधं तेन तदर्थं रचितं पुरा । तच्छ्रुणुष्व विधानेन सर्वसंशयहारकम् ॥ १०५॥ स्वस्वस्वार्थयुतं पूर्णं मायासुखकरं मतम् । तदर्थं सर्वलोकाश्च ब्रह्माणि सम्भ्रमन्ति वै ॥ १०६॥ योगमार्गस्तथा राजन् गाणेशः शान्तिदः परः । रचितो मोहनाशार्थं मायानाशकरो मतः ॥ १०७॥ योगेन गणपं ज्ञात्वा नरः पूर्णं ततो नृप । भजतेऽनन्यभावेन तन्निष्ठस्तत्परायणः ॥ १०८॥ यस्य भावो भवेद्यत्र यादृशस्तादृशं चरेत् । तत्र विघ्नेश्वरः साक्षादाग्रहं न करोति च ॥ १०९॥ यदा गणेश्वरो विश्वं भक्तियुक्तं निरन्तरम् । करोति चेद्गणेशस्य तदा खेलः कुतो भवेत् ॥ ११०॥ न पराधीनता तस्य क्रीडार्थं गणनायकः । विश्वं तु द्विविधं कृत्वा परां पश्यति भावनाम् ॥ १११॥ एतत्ते कथितं राजन् श्रोतुमिच्छसि किं परम् । स्वाधीनं तु पराधीनं मायया दृश्यते सदा ॥ ११२॥ जनक उवाच । किं कर्म किमकर्मापि विकर्मापि कथं भवेत् । कर्मयोगश्च विप्रेन्द्राः कीदृशो वदत प्रियाः ॥ ११३॥ आविर्होत्र उवाच । स्वस्वधर्मयुतं कर्म विधियुक्तं महामते । (Page खं. ५ अ. ३० पान ७१) देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥ ११४॥ स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः । विकर्म विद्धि राजेन्द्र तदेवं पापरूपकम् ॥ ११५॥ पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् । देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥ ११६॥ सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात् । ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥ ११७॥ शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम् । अकर्मणः प्रभावेण स निष्कामपरो मतः ॥ ११८॥ कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव । क्रियायां यत् स्थितं ब्रह्म स एव कर्मयोगकः ॥ ११९॥ क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते । तस्य भेदान् प्रवक्ष्यामि समाहितमनाः श‍ृणु ॥ १२०॥ मौनं यदि धृतं तेन तदा जातं नृपात्मज । अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥ १२१॥ वायुबन्धनयोगेन प्राणो नीतः स्वमस्तके । तदेव कर्मरूपं वै वायुचालनतः परम् ॥ १२२॥ ध्यानं करोति चेच्चित्ते दमयित्वा मनः स्वयम् । तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥ १२३॥ जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत् । अज्ञानं विद्धि सौषुप्तं कर्मरूपं न संशयः ॥ १२४॥ इत्याद्या बहवो भेदा मया वक्तुं न शक्यते । नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥ १२५॥ उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् । सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥ १२६॥ असद्ब्रह्म च यत् प्रोक्तं वेदे तन्मायया बभौ । कर्मरूपं न सन्देहो नामरूपप्रधारणात् ॥ १२७॥ नामरूपपरित्यागे ह्यसत् स्वानन्दगं भवेत् । मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ॥ १२८॥ एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् । कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥ १२९॥ जनक उवाच । ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः । येन योगी भवेज्जन्तुर्ज्ञानयोगपरायणः ॥ १३०॥ द्रुमिल उवाच । हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा । स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥ १३१॥ नामरूपविहीनं यत् सदाऽमृतमयं भवेत् । आद्यन्तभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥ १३२॥ ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् । नानाज्ञानलयं कृत्वा ज्ञानयोगी भवेत्ततः ॥ १३३॥ सत्यस्वानन्दरूपं त्वं जानीहि ज्ञानमूलकम् । ज्ञानानां योगभावेन लभ्यते योगसेवया ॥ १३४॥ जनक उवाच । आनन्दः कीदृशः प्रोक्तः सहजं कीदृशं मतम् । ब्रह्मभूयं च योगीन्द्राः कीदृशं कथयन्तु मे ॥ १३५॥ चमस उवाच । बाह्यान्तरविभेदेनानन्दः सर्वत्र वर्तते । उभयात्मकभावस्थः समरूपधरो मतः ॥ १३६॥ नानाद्वन्द्वेषु राजेन्द्र स्थितमानन्दरूपकम् । समं विद्धि च सर्वत्र जगत्सु ब्रह्मसु परम् ॥ १३७॥ सत्यासत्यमयं तद्धि समस्वानन्दगं परम् । ब्रह्म राजन् सदानन्दरूपं तदेव सम्मतम् ॥ १३८॥ द्वन्द्वेषु त्वासमन्ताद्यन्नन्दनात्तन् महीपते । आनन्दः परमानन्दो ब्रह्मानन्दः प्रकथ्यते ॥ १३९॥ समभावस्थितानां च योगेन ब्रह्म लभ्यते । (Page खं. ५ अ. ३० पान ७२) आनन्दाख्यं प्रजानाथ योगसाधनतः परम् ॥ १४०॥ एतत्ते कथितं पूर्णमानन्दस्य स्वरूपकम् । आनन्दानां समायोगे समस्वानन्दगो भवेत् ॥ १४१॥ द्विविधा तस्य माया तु द्वन्द्वभावधरा मता । तयोः संयोगभावे स उभयात्मक उच्यते ॥ १४२॥ तदेव द्विविधेष्वेव मोहयुक्तं नराधिप । समं सर्वत्र जानीहि द्वन्द्वमोहादिदायकम् ॥ १४३॥ त्रिषु मोहविहीनं यत् सदा नेति स्वरूपकम् । स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥ १४४॥ स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् । स्वेच्छयाऽऽनन्दसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥ १४५॥ आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः । सर्वेषां नाशकं तुर्यं सहजं नेति भावतः ॥ १४६॥ न तस्य नेति कर्ता वै विद्यते योगभावतः । तेन नेतिमयं स्वच्छन्दगं प्रोक्तं सनातनम् ॥ १४७॥ स्वेच्छया बन्धयुक्तश्च स्वेच्छया बन्धवर्जितः । स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥ १४८॥ अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते । सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥ १४९॥ स्वाधीनानां समायोगे व्यक्तः स्वानन्द उच्यते । अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥ १५०॥ एतत्ते कथितं भूप सहजं मोहवर्जितम् । अधुना श‍ृणु योगं त्वं ब्रह्मभूयप्रकाशकम् ॥ १५१॥ स्वानन्दः सर्वसंयोगे भवति ब्रह्मधारकः । चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥ १५२॥ त्रिविधं मोहयुक्तं च मोहहीनं चतुर्थकम् । नैव ब्रह्मणि राजेन्द्र मोहयुक्तविहीन ते ॥ १५३॥ स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते । ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥ १५४॥ स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः । तत्र किं भिन्नभावाख्यं वर्तते योगनाशकम् ॥ १५५॥ संयोगे नाशभूते तु ब्रह्मायोगः प्रकीर्तितः । न तत्र जगतां भूप संयोगो ब्रह्मणां भवेत् ॥ १५६॥ अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः । योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्विचारय ॥ १५७॥ संयोगे मायया युक्तो भवते गणनायकः । मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥ १५८॥ मायया सर्वभावस्थो भवति द्विरदाननः । संयोगाभेदभावेन निजमायामयः स्मृतः ॥ १५९॥ स्वानन्दे गणनाथस्य दर्शनं योगिनां भवेत् । संयोगाभेदकं तेन विदुः स्वानन्दवासिनम् ॥ १६०॥ अयोगे माययाहीनो गणेशः सर्वदा मतः । यादृशस्तादृशः सोऽपि नागतो न गतो भवेत् ॥ १६१॥ वृथा भ्रान्तिमयं सर्वं भासते मायया किल । भ्रान्तानां तेन सर्वत्र निवृत्तिर्जायते परा ॥ १६२॥ स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः । धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥ १६३॥ अयोगे मायया हीनः संयोगे मायया युतः । नरो भवति राजेन्द्र पञ्चपञ्चस्वरूपया ॥ १६४॥ ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते । (Page खं. ५ अ. ३० पान ७३) अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥ १६५॥ चित्तं पञ्चविधं त्यक्त्वा चित्तभ्रान्तिं च पञ्चधा । स्वयं चिन्तामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥ १६६॥ संयोगात्मा गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणाधीशः संयोगायोगवर्जितः ॥ १६७॥ इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥ १६८॥ जनक उवाच । गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् । न भक्तिसमभावाख्यं मोहदं तस्य सम्भवेत् ॥ १६९॥ अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः । तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥ १७०॥ करभाजन उवाच । भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी । कथयामि समासेन स्वरूपं रसदायकम् ॥ १७१॥ श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ १७२॥ नवधा मानसी राजन् गतिः सर्वत्र वर्तते । भावेषु रससंयुक्ता दशमी नैव विद्यते ॥ १७३॥ यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते । तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥ १७४॥ यदा मुक्तौ तथा जन्तो रसः पूर्णो जनाधिप । तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥ १७५॥ यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते । तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥ १७६॥ योगी भूत्वा नरो यस्तु भजते गणनायकम् । तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥ १७७॥ योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् । अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥ १७८॥ ततो गणेशरूपस्य भजनं पूर्णभावतः । भवत्यत्र न सन्देहो रसयुक्तं विशेषतः ॥ १७९॥ गणेशगुणवादानां प्रीत्या सम्पूर्णभावतः । प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥ १८०॥ सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः । गणेशगुणवादेषु रसं पूर्णं स पश्यति ॥ १८१॥ एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप । समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥ १८२॥ तथा कीर्तनभावश्च उत्पद्येत नराधिप । गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥ १८३॥ गणेशार्थं च या किञ्चिद्विस्मृतिस्तत्र नो भवेत् । तदा स्मरणभक्तिः सा प्राप्ता सम्पूर्णभावतः ॥ १८४॥ गणेशपादपद्मं यो मत्वा शाश्वतकं परम् । तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥ १८५॥ (Page खं. ५ अ. ३० पान ७४) साङ्गं गाणेश्वरं सर्वं कुरुते नित्यमादरात् । अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥ १८६॥ गणेशान्न परं श्रेष्ठं वेदशास्त्रविचारतः । न चलेत् क्वापि जानीहि तदा वन्दनवान् भवेत् ॥ १८७॥ गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा । तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥ १८८॥ अन्तर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः । अन्तर्भयेन भक्तिर्या सा प्रोक्ता सख्यरूपिणी ॥ १८९॥ पञ्चधा मोहयुक्तं स चित्तमुत्सृज्य योगतः । न भिन्नोऽहं गणेशानान् मत आत्मनिवेदकः ॥ १९०॥ मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा । भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥ १९१॥ रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः । यस्य तिष्ठति जन्तुः स तद्भक्तः सम्मतो नृप ॥ १९२॥ भोगेषु न रसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके । गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥ १९३॥ आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् । ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥ १९४॥ तत्र विश्वासभावेन तादृगुत्पद्यते रसः । तदा भक्तो महाराज भवते योगिवन्द्यकः ॥ १९५॥ नारदेनैव राजेन्द्र बोधितस्त्वं न बुद्ध्यसे । तव भावपरीक्षार्थं भक्तिदानार्थमञ्जसा ॥ १९६॥ प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुतो द्विजः । समायातः सर्वभक्षी छलयामास साधुपम् ॥ १९७॥ नरदेहं समासाद्य गणेशं भजेत न यः । पशुतुल्यः स राजेन्द्र तस्य धिक् जन्म निश्चितम् ॥ १९८॥ मुद्गल उवाच । एवमुक्त्वा विदेहं तं जनकं योगिनो नव । अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपे रताः ॥ १९९॥ जनकस्तान्नमस्कृत्य स्वगृहे गणनायके । योगी नवविधां भक्तिमकरोद्भावसंयुतः ॥ २००॥ अहर्निशं गणेशानमभजन्नान्यचेतसा । जनकः सर्वभावेन योगिवन्द्यो बभूव ह ॥ २०१॥ तिष्ठन् स्वपन् पिबन् वाऽदन् गच्छन् विघ्नेश्वरे रतः । अतो गणेशसन्तुष्ट्या तद्वंशे जनका बभुः ॥ २०२॥ सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः । गणेशभजने सक्ता बभूवुश्च प्रजापते ॥ २०३॥ नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् । वृत्तान्तं परिशुश्राव गणेशगमनात्मकम् ॥ २०४॥ स्वयं तस्य गृहं गत्वा ननाम मुनिपुङ्गवम् । दैवीसमृद्धिसंयुक्तं योगपारङ्गतं परम् ॥ २०५॥ तेन सम्बोधितो राजा नित्यं दूर्वापरायणः । पुपूज गणनाथं तं सदा भक्तिसमन्वितः ॥ २०६॥ दूर्वाहीनां न पूजां स चकार मरणावधि । अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ २०७॥ इदं जनकमाहात्म्यं कथितं ते प्रजापते । भुक्तिमुक्तिप्रदं नृभ्यः श्रवणात् पठनाद्भवेत् ॥ २०८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ५.३० (Page खं. ५ अ. ३१ पान ७५)

५.३१ तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया । किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥ १॥ तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् । येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥ २॥ मुद्गल उवाच । धर्मध्वजो महीपालो बभूवे धर्मसंयुतः । दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥ ३॥ तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता । न तया सदृशी कुत्र वर्तते कामिनी विधे ॥ ४॥ वृन्दा नाम्नी च विख्याता प्रणम्य पितरं कदा । जगाद भावगम्भीरा चतुरा सुवयोयुता ॥ ५॥ वृन्दोवाच । तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् । वरं तदर्थमेवं मां देहि तस्मै महामते ॥ ६॥ धर्मध्वज उवाच । विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः । स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥ ७॥ मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् । नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥ ८॥ एवं नानाविधैर्भावैर्बोधिता न बुबोध सा । तदर्थं मन्त्रराजं सङ्गृह्य विष्णोर्वनं ययौ ॥ ९॥ ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा । तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥ १०॥ तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद । तपस्तताप वृन्दोग्रं नानामार्गपरायणा ॥ ११॥ शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा । भुक्त्वा सन्तोषयामास विष्णुं देववरं विधे ॥ १२॥ वर्षाणि लक्षसङ्ख्यानि गतानि तपसो बलात् । राजपुत्र्याश्च वृन्दाया न तुतोष जनार्दनः ॥ १३॥ अतीव तपसा तस्या अन्तर्ज्ञानं बभूव ह । आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥ १४॥ कदा विघ्नेश्वरं वृन्दा ददर्श नियमे रतम् । सम्पूज्य गणनाथं वै हृदि ध्यानपरायणम् ॥ १५॥ तं दृष्ट्वा कुञ्जरास्यं सा शिवपुत्रं नृपात्मजा । भागीरथीसन्निधिस्थं विस्मिताऽभूत् प्रजापते ॥ १६॥ गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि । अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥ १७॥ अस्य कलांशसम्भूताः शिवविष्ण्वादयोऽपरे । पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥ १८॥ शिवेन तपसोग्रेणाराधितो गणनायकः । पुत्रोऽभूद्योगशान्तिस्थो भक्तभक्तिपदप्रदः ॥ १९॥ खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः । अयं विष्णुस्तथा शम्भुः शक्तिः सूर्यो न संशयः ॥ २०॥ पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् । अधुना तं समालोक्य बोधयुक्ता न संशयः ॥ २१॥ तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् । व्यभिचारो न मे भावी विष्णुरूपोऽयमञ्जसा ॥ २२॥ एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् । ध्यानभङ्गार्थमुद्युक्ता वृन्दा तं प्रत्युवाच ह ॥ २३॥ वृन्दोवाच । त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् । शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥ २४॥ शिवविष्ण्वादयो देवास्त्वां भजन्ति निरन्तरम् । (Page खं. ५ अ. ३१ पान ७६) कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥ २५॥ गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो । गणेश्वरो विशेषेण स्वयं ध्यायसि तं प्रभो ॥ २६॥ अहो चित्रं मया दृष्टं गणेशो गणनायकम् । भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥ २७॥ न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा । कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥ २८॥ तव स्मरणमात्रेण ब्रह्मभूता भवन्ति ते । नरा देवेन्द्रमुख्याश्च योगिनो वेदकादयः ॥ २९॥ स्वयं शान्तिप्रदाता त्वं किं ध्यायसि गणेश्वरम् । गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥ ३०॥ कामबाणार्दिता सा तं वृन्दा नानाप्रकारतः । बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥ ३१॥ ततः सा जलबिन्दुं वै चिक्षेप गणपोपरि । तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥ ३२॥ जघान मोहसंयुक्तांऽगुल्या तं सा ततोऽसकृत् । ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥ ३३॥ गणेशाय नम इति मन्त्रमुच्चार्य विघ्नपः । जगाद तां सकामां स निष्कामो गणपे रतः ॥ ३४॥ श्रीमहागणपतिरुवाच । काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते । ध्यानभङ्गो न कर्तव्यः साधुभिश्च कदाचन ॥ ३५॥ गणेशकर्मसंस्थं तं नरं यश्च नराधमः । पृच्छते बोधयति वा स वै नरकगो भवेत् ॥ ३६॥ ध्यानभङ्गस्य दोषस्ते माऽस्तु बाले सुलक्षणे । मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥ ३७॥ किमर्थमागता बाले वद मां काममोहिते । निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥ ३८॥ वृन्दोवाच । धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् । वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥ ३९॥ सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः । तथापि मां भजस्व त्वं भजमानां गजानन ॥ ४०॥ तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः । उवाच कामबाणैस्तामर्दितां शान्तिधारकः ॥ ४१॥ श्रीमहागणपतिरुवाच । नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा । तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥ ४२॥ सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे । अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥ ४३॥ वृणोमि नैव निष्कामः सकामां देवि निश्चितम् । शान्तिस्था मे भवेत् पत्नी गच्छातो यत्र ते समः ॥ ४४॥ तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह । अहं शान्तिसमायुक्ता मां भजस्व दयानिधे ॥ ४५॥ तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि । तथाऽपि तं हठाद्देवी चालिलिङ्ग सुविह्वला ॥ ४६॥ अङ्कुशं गणनाथस्याकृष्य तं काममोहिता । नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥ ४७॥ दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः । असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥ ४८॥ मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता । अतो वृक्षस्वरूपा त्वं मूढयोनौ पतिष्यसि ॥ ४९॥ (Page खं. ५ अ. ३२ पान ७७) गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कम्पमानाङ्गी ननाम रुदती भृशम् ॥ ५०॥ उवाच तं गणाधीशं मां क्षमस्व महागसाम् । न योग्याऽहं गणाधीश तव वामाङ्गके कदा ॥ ५१॥ कम्पन्तीं रुदतीं वीक्ष्य दयायुक्तो गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोयुताम् ॥ ५२॥ श्रीमहागणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदाचन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥ ५३॥ तत्र त्वां केशवः क्वापि शङ्खचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः शम्भुहस्तान् मरिष्यति ॥ ५४॥ ज्ञात्वा तं देहसन्त्यागं करिष्यसि हुताशने । पुनर्वृक्षस्वरूपस्था भविष्यसि न संशयः ॥ ५५॥ त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरन्तरम् ॥ ५६॥ पतिस्ते भविता विष्णुः सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥ ५७॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यन्तं भविष्यसि । त्वत्काष्ठसम्भवां मालां धरिष्यन्ति गले जनाः ॥ ५८॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यन्ति निश्चितम् । त्रिलोकस्था जना नैव मा चिन्तां कुरु भामिनि ॥ ५९॥ देवानां त्वं प्रिया भूया विष्णोरत्यन्तभावतः । पत्रैः पुष्पैश्च वृन्दे त्वां पूजयिष्यन्ति मानवाः ॥ ६०॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिन्तां त्यक्त्वा विशेषतः ॥ ६१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥ ५.३१

५.३२ तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृन्दा तं प्रणिपत्यैव तपसे वनमाययौ ॥ १॥ चिन्ताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥ २॥ नाममन्त्रं जजापैव पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥ ३॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य तं प्रपूज्यैव वृन्दा तुष्टाव हर्षिता ॥ ४॥ वृन्दोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥ ५॥ परेशाय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥ ६॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥ ७॥ अमेयायाप्रतर्क्याय सदा स्वानन्दवासिने । (Page खं. ५ अ. ३२ पान ७८) शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥ ८॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुण्डाय सर्वेषामादिपूज्याय ते नमः ॥ ९॥ विनायकाय वीराय शूर्पकर्णाय ढुण्ढये । गजाननाय चिन्तामणये हेरम्ब ते नमः ॥ १०॥ अनन्तगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥ ११॥ पूर्णानन्दाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥ १२॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥ १३॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लङ्घनभावजम् ॥ १४॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किञ्चिदल्पेन भावेन वरदायक ॥ १५॥ क्वाऽहं ते समतां नाथ सम्प्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षन्तुं त्वमर्हसि ॥ १६॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृन्दा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १७॥ श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥ १८॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यन्ति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥ १९॥ एकविंशतिपत्राणि ह्यर्पयिष्यन्ति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥ २०॥ उल्लङ्घनसमं पापं न भूतं न भविष्यति । स्वल्पोल्लङ्घनमात्रेण त्वं त्यक्ता च मया सदा ॥ २१॥ ये मामुल्लङ्घयिष्यन्ति तांस्त्यजामि निरन्तरम् । तत्रापि तपसा बद्धो वृन्दे त्वां मानयाम्यहम् ॥ २२॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते श‍ृण्वते सदा ॥ २३॥ तुलसीं ये नरा मह्यमर्पयन्ति कदा सुते । तत्पापहरणं स्तोत्रं भविष्यति कृतं त्वया ॥ २४॥ उल्लङ्घनाघहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥ २५॥ एवमुक्त्वा गणाधीशोंऽतर्धानमगमत् स्वयम् । तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥ २६॥ तदादि सा महाभागा बभूव विगतज्वरा । क्रमेण तुलसी जाता विष्णुपत्नी सुपूतिता ॥ २७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥ ५.३२ (Page खं. ५ अ. ३३ पान ७९)

५.३३ तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् । पूजनं गणनाथस्य कृतं तस्य फलं वद ॥ १॥ श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः । अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥ २॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरा भवम् । श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥ ३॥ ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले । स तु नित्यं गणपतिं तुलस्याऽपूजयद्धठात् ॥ ४॥ अन्ये तत्र द्विजास्तं वै वारयन्तो विशेषतः । न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥ ५॥ गणेशः सर्वरूपश्चेत् कुतस्तत्र प्रवर्तते । विधिनिषेधकाद्यं हि मा वदेत क्रियात्मकाः ॥ ६॥ ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः । परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥ ७॥ अहो गाणेश्वरे देहे तुलसी मस्तकेऽथवा । दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥ ८॥ अन्यैरपि न सन्देहो नो चेन्नरकगामिनः । उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥ ९॥ तत्र विलम्बभावेन पापभागी नरो भवेत् । किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥ १०॥ यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः । तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥ ११॥ ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा । बहिष्कृतो महापापी स्वगृहे तादृशे रतः ॥ १२॥ ततः स्वल्पेन कालेन ममार काश्यपाधमः । नरकेषु च तं यामाः पातयामासुरञ्जसा ॥ १३॥ एककल्पसमं कालं नरकेषु स्थितोऽभवत् । क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥ १४॥ सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः । अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥ १५॥ एकदा तत्र गार्ग्यश्च समायातो निजेच्छया । गणेशभक्तमुख्यः स महायोगी प्रजापते ॥ १६॥ तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ । गार्ग्यो गणेशमन्त्रेण मन्त्रितं जलमाक्षिपत् ॥ १७॥ जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः । धर्मध्रुक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८॥ ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् । जगाद प्राञ्जलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥ १९॥ धर्मध्रुगुवाच । रक्ष मां मुनिशार्दूल गाणपत्य महायशाः । त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥ २०॥ ततः स सर्ववृत्तान्तं कथयामास राक्षसः । पूर्वजन्मभवं तस्मै गार्ग्याय भयसङ्कुलः ॥ २१॥ त्वदीयदर्शनेनैव मन्त्रितेन जलेन च । जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥ २२॥ श्रुत्वा शरणगं वीक्ष्य दयायुक्तो महामुनिः । गणेशनाममन्त्रं स ददौ तस्मै हितावहम् ॥ २३॥ जगाद तं महायोगी जप त्वं नाममन्त्रकम् । नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥ २४॥ एवमुक्त्वांऽतर्दधेऽसौ गार्ग्यः परमपावनः । दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥ २५॥ (Page खं. ५ अ. ३४ पान ८०) ततः क्षुधा सुशान्ता वै बभूवे तस्य दुर्मतेः । रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥ २६॥ अन्ते गणेश्वरं सोऽपि जगाम दुःखवर्जितः । तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥ २७॥ एतत्ते कथितं सर्वं सङ्क्षेपेण चरित्रकम् । तुलसीवर्जने भूतं सर्वसंशयनाशनम् ॥ २८॥ तुलसीं गणनाथाय समर्पयति यो नरः । स चाण्डालो न सन्देहो नारकीभूमिसंस्थितः ॥ २९॥ वंशहानिर्भवेत्तस्य लक्ष्मीनाशस्तथा विधे । रोगाद्यैः पीडितोऽत्यन्तमन्ते नरकगो भवेत् ॥ ३०॥ तस्य स्पर्शं न कुर्यात् कः कृत्वा स्नानं समाचरेत् । सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥ ३१॥ नाम तस्य प्रजानाथ न ग्राह्यं पापदायकम् । बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥ ३२॥ इदं ते कथितं सर्वं पृच्छते च यथातथम् । श्रोतुमिच्छसि किं भूयश्चरित्रं वद साम्प्रतम् ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ५.३३

५.३४ रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । वद पूजां विधियुतां गणेशस्य सविस्तराम् । मानसीं बाह्यरूपां च सर्वसिद्धिप्रदायिनीम् ॥ १॥ गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे । कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥ २॥ मुद्गल उवाच । अत्र ते कथयिष्यामि पुरातनभवं शुभम् । इतिहासं महाभाग सर्वसिद्धिप्रदायकम् ॥ ३॥ पुरा ते कथितं स्थानं गणेशस्य महात्मनः । कार्तिकेयवराज्जातं लक्षवैनायकात्मकम् ॥ ४॥ तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः । ऐलः शस्त्रास्त्रतत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥ ५॥ सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा । सार्वभौमः सुविख्यातो गाणपत्यप्रियोऽभवत् ॥ ६॥ तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः । तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥ ७॥ ऐल उवाच । स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक् । साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥ ८॥ मयूरेशावतारे त्वं मयूरेशसमन्वितः । स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥ ९॥ धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम् । मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥ १०॥ मयूरेशस्य विप्रेशाज्ञया योगविदांवर । भाष्यं कृतं गणेशस्य गीतायाः शान्तिदं परम् ॥ ११॥ (Page खं. ५ अ. ३४ पान ८१) त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः । बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥ १२॥ यादृशं गणनाथेन कथितं तादृशं प्रभो । त्वया ज्ञातं न सन्देहो गणेशस्त्वमतो मतः ॥ १३॥ गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः । त्वं त्रयः सम्मताः शास्त्रे जानते पूर्णयोगतः ॥ १४॥ धन्येन येन भाग्येन दृष्टं ते पादपङ्कजम् । विद्याव्रततपोदानं पितरौ कुलमेव मे ॥ १५॥ यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् । न ह्यल्पपुण्ययोगेन दर्शनं योगिनां भवेत् ॥ १६॥ अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि । पूजां बाह्यां तथांऽऽतर्यां गाणपत्यप्रकारतः ॥ १७॥ एवं पृष्टो महायोगी गार्ग्यः सर्वार्थकोविदः । तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥ १८॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥ १९॥ वाचक्नविस्तपोनिष्ठो बभूव परमार्थवित् । तस्य पत्नी मुकुन्दा वै रूपयौवनशालिनी ॥ २०॥ वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः । रुक्माङ्गदो नृपो भूप मृगयासक्तचेतसा ॥ २१॥ क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् । प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥ २२॥ तस्मिन् काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् । निर्जगामाश्रमाद्वाचन्कविस्तस्मान् महायशाः ॥ २३॥ गते मुनौ नृपस्तत्र जगाद देहि मे जलम् । मातर्मुकुन्दे श्रान्ताय चाकुलाय क्षुधातृषा ॥ २४॥ तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला । दृष्ट्वा नृपवरं तं च कामबाणार्दिताऽवदत् ॥ २५॥ मुकुन्दोवाच । त्वत्समं पुरुषं क्वापि न पश्यामि नृपात्मज । त्रैलोक्येऽतो महाभाग मां भजस्व सुविह्वलाम् ॥ २६॥ नो चेत् प्राणा गमिष्यन्ति कामबाणैर्हता मम । इत्युक्त्वा तं नृपं सा तु चुचुम्बे हठतत्परा ॥ २७॥ ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् । जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥ २८॥ रुक्माङ्गद उवाच । सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः । पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥ २९॥ तत्र विघ्नेश्वरे सक्ता न चलन्ति कदाचन । परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥ ३०॥ एवं निर्भर्त्स्य तां राजा निःसृतः शोकसङ्कुलः । आश्रमात् सा शशापैव तं नृपं काममोहिता ॥ ३१॥ कुष्ठी भव महादुष्ट सकामां त्यजसि स्त्रियम् । मोहितां पापकर्मा त्वं कठिनोऽसि सुदुर्मते ॥ ३२॥ तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह । रुक्माङ्गदो वने गत्वा सस्मार द्विरदाननम् ॥ ३३॥ ततो रात्रौ महायोगी नारदस्तत्र चागतः । तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥ ३४॥ रुक्माङ्गद उवाच । कुष्ठनाशकरं तीर्थं क्षेत्रमौषधमेव च । वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥ ३५॥ नारद उवाच । इन्द्रेण तपसा देवो गणेशः पूजितोऽभवत् । (Page खं. ५ अ. ३४ पान ८२) सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥ ३६॥ गणेशवरदानेन महेन्द्रस्तेजसा युतः । योगयुक्तोऽपालयत त्रैलोक्यं सचराचरम् ॥ ३७॥ तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् । चिन्तामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥ ३८॥ तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् । कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥ ३९॥ तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः । भवन्ति स्वानन्दगास्तु नृप नास्त्यत्र संशयः ॥ ४०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥ ४१॥ ततः प्रातः समायाता सेना तस्य महात्मनः । तया सार्द्धं जगामाऽसौ विदर्भे तीर्थसेवकः ॥ ४२॥ चिन्तामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते । कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥ ४३॥ ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् । पूजयामास हर्षेण चिन्तामणिं नृपात्मजः ॥ ४४॥ पूजयित्वा यथान्यायं दत्त्वा दानानि कृत्स्नशः । संस्थितो मण्डपे राजा गणेशे भक्तिसंयुतः ॥ ४५॥ तत्राकस्माद्विमानं तु समायातं सुखप्रदम् । तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥ ४६॥ गाणपत्या ऊचुः । इदं विमानमारुह्य ससैन्यो नृपसत्तम । चल स्वानन्दलोके त्वं तीर्थस्नानप्रभावतः ॥ ४७॥ ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः । पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥ ४८॥ रुक्माङ्गद उवाच । भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् । मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥ ४९॥ गाणेशानौ विशेषेण तथा तं ते समब्रुवन् । तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥ ५०॥ ततस्तावपि नेष्यामो मा चिन्तां कुरु सत्तम । स्नानमात्रेण स्वानन्ददायकं तीर्थमुच्यते ॥ ५१॥ ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः । नाम्ना ग्रन्थिं समाबध्य चक्रे स्नानं यथाविधि ॥ ५२॥ ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः । स्नानं चक्रुर्जनानां ते आबालं श्वपचावधि ॥ ५३॥ ततस्ते यानमारुह्य कौण्डिन्यनगरं ययुः । पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानन्दमाययुः ॥ ५४॥ एवं तीर्थप्रभावेण नगरस्थजना नृप । गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥ ५५॥ धर्मयुक्तो गणेशस्य भक्तो रुक्माङ्गदः स्वयम् । स्वल्पकालेन निर्विघ्नो बभूव छलितोऽपि सः ॥ ५६॥ गणेशभक्तमत्युग्रं ये छलन्ति नराधमाः । तेषां तु निष्कृतिर्नास्ति दुःखं भुञ्जन्ति दारुणम् ॥ ५७॥ रुक्माङ्गदं मुकुन्दा सा छलयित्वा विशेषतः । या गतिश्च तया प्राप्ता तां श‍ृणुष्व महीपते ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ५.३४ (Page खं. ५ अ. ३५ पान ८३)

५.३५ गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गार्ग्य उवाच । मुकुन्दा कामदग्धा सा पपात धरणीतले । न किञ्चित् सुखदं तस्या बभूव पृथिवीतले ॥ १॥ ततोऽतिशोकसंयुक्ता तमेवाचिन्त्य संस्थिता । निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥ २॥ तस्याः शान्तिप्रदानार्थं स्वयं तत्राजगाम ह । रुक्माङ्गदस्वरूपी स बुभुजे तां सुराधिपः ॥ ३॥ सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता । इन्द्रः स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥ ४॥ वाचक्नविः समायातः कृत्वा नित्यक्रियां मुनिः । न बुबोध मुकुन्दायाश्चरितं स तपोरतः ॥ ५॥ ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम् । जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥ ६॥ गृत्समदेति पुत्रस्य नाम चक्रे सुखप्रदम् । चकार व्रतबन्धं तु पञ्चमे हर्षसंयुतः ॥ ७॥ वेदानध्यापयामास श्रवणग्राहकाय वै । स्वयं तस्मै ददौ मन्त्रं गणानां त्वेति ऋग्भवम् ॥ ८॥ तेन मन्त्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः । तोषयामास भावेन नित्यं जपपरायणः ॥ ९॥ कदाचित्तत्र राजा स मगधस्तं जुहाव च । पितुः श्राद्धे सुदान्तं वै तपोयुक्तं यशस्विनम् ॥ १०॥ तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः । समागताः सभायां ते विविशुः पूजिता नृप ॥ ११॥ तत्र शास्त्रप्रसङ्गे स गृत्समद उवाच ह । योगमयोगिभावस्थः श्रुत्वाऽत्रिस्तं वचोऽब्रवीत् ॥ १२॥ अयोगी योगिनां मध्ये रुक्माङ्गदसुतस्तथा । वदसि त्वं न योग्योऽसि पङ्क्तौ गच्छ निजाश्रमम् ॥ १३॥ ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम् । जगाम सोऽपि जननीमपृच्छद्रक्तलोचनः ॥ १४॥ वद तातं मदीयं त्वं कामुके निरपत्रपे । कथं रुक्माङ्गदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥ १५॥ जगाद शापभीता तं ततः सा कम्पसंयुता । वृत्तान्तं पूर्वसम्भूतं रुक्माङ्गदविहारजम् ॥ १६॥ तच्छ्रुत्वा कोपसंयुक्तः शशाप जननीं सुतः । कण्टकी भव मातस्त्वं दुष्टकर्मपरायणा ॥ १७॥ अतितिक्तफलां तत्र भक्षिष्यन्ति नरा न ताम् । अरण्ये निन्दिता नित्यं भुङ्क्ष्व पापं पुरा कृतम् ॥ १८॥ ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता । त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ॥ १९॥ ततो देहं समुत्सृज्य मुकुन्दा साऽभवन्नृप । कण्टकी श्यामसंज्ञा सा पापकर्मपरायणा ॥ २०॥ गणेशभक्तविक्षेपदातृत्वादघमुत्तमम् । तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥ २१॥ कल्पे कल्पे च शापात् सा सदा वृक्षत्वमागता । पश्य विघ्नस्वरूपं त्वं महाभयकरं नृप ॥ २२॥ ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः । तत आकाशवाणी तं जगाद प्रेमसंयुता ॥ २३॥ इन्द्रो रुक्माङ्गदीभूतस्तस्माज्जातोऽसि मानद । भज लम्बोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥ २४॥ श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम् । निराहारेण संस्थश्च गणेशमभजत् सदा ॥ २५॥ ब्रह्मणस्पतिसूक्तैश्चाभिषिञ्चन् मण्डले स्थितम् । (Page खं. ५ अ. ३५ पान ८४) जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥ २६॥ ऐल उवाच । ब्रह्मणस्पतिसूक्तानां मण्डलं कीदृशं स्मृतम् । फलं च कीदृशं तत्र लभते मानवः प्रभो ॥ २७॥ कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे । येन विघ्नेश्वरः प्रीतो भवेत् सर्वार्थदायकः ॥ २८॥ गार्ग्य उवाच । ब्रह्मणस्पतिसूक्तानां विधिं श‍ृणु महामते । यथा गृत्समदः सिद्धो बभूवे तस्य सेवनात् ॥ २९॥ गणानां त्वेति मन्त्रेण षोडशाङ्गेषु भूमिप । न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥ ३०॥ एकविंशतिभिर्भूपा वृत्तिभिरेकविंशतिः । समाख्याता च सूक्तानामभिषेके तथा जपे ॥ ३१॥ एतादृशाश्च राजेन्द्र भवन्त्येकाधिकास्ततः । विंशत्यो मण्डलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥ ३२॥ मण्डलानि महाभाग एकविंशन्मितानि च । भवन्ति चेत् समाख्यातं महामण्डलकं बुधैः ॥ ३३॥ अभिषेके समाख्यातं जपे वा राजसत्तम । सर्वसिद्धिप्रदं पूर्णं महामण्डलकं सुरैः ॥ ३४॥ धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् । गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥ ३५॥ ब्राह्मणत्वस्य कार्यार्थं कृतं तेन महात्मना । गृत्समदेन सूक्तानां महामण्डलकं नृप ॥ ३६॥ एतत्ते कथितं भूपाधुना श‍ृणु कथानकम् । विघ्नेशप्रापकं गृत्समदस्य दुरितापहम् ॥ ३७॥ स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि । गणानां त्वेति मन्त्रेण पुपूज विघ्ननायकम् ॥ ३८॥ एकविंशतिमेकां स नित्यं चकार भूमिप । अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥ ३९॥ गणानां त्वेति मन्त्रस्य जपं चकार नित्यदा । शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥ ४०॥ नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः । महोग्रतपसा देवं तोषयामास विघ्नपम् ॥ ४१॥ एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ । मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥ ४२॥ श्रीगणेश उवाच । पश्य मां मूनिशार्दूल ब्रह्मणस्पतिमागतम् । वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥ ४३॥ गणेशवचनं श्रुत्वा गृत्समदः सुहर्षितः । उन्मील्य लोचने ढुण्ढिमपश्यन्निकटे स्थितम् ॥ ४४॥ ततोऽतिहर्षसंयुक्तः प्रणनाम विनायकम् । भक्त्या सम्पूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ५.३५ (Page खं. ५ अ. ३६ पान ८५)

५.३६ गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ १॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ २॥ कर्तॄणां कतृरूपाय कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ ३॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥ ४॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय बृहतां नाथाय बृहस्पतये नमः ॥ ५॥ सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे । गुहाहिताय साङ्ख्याय बृहस्पतिसखाय ते ॥ ६॥ स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे । जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥ ७॥ सत्यायायोगरूपाय मनोवाणीविवर्जित । भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥ ८॥ सर्वेषां पोषकायैव सोमायामृतरूपिणे । सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥ ९॥ उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च । त्रयीमयाय तूर्याय तूर्यातीताय ते नमः ॥ १०॥ इन्द्रादिदेवतानां वै सहायाय नमो नमः । धर्मपालकभावाय धर्माधीशाय ते नमः ॥ ११॥ सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः । अराज्याय परेशाय संसारार्णवतारिणे ॥ १२॥ योगेभ्यो योगदात्रे च योगयोगाय ते नमः । शान्तिदाय सदा शान्तिस्थाय तत्पतये नमः ॥ १३॥ इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः । तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥ १४॥ किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् । भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥ १५॥ एवं गृत्समदः स्तुत्वा गणेशानं महीपते । हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥ १६॥ दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः । वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥ १७॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न सन्देहो मम भक्तिविवर्धनम् ॥ १८॥ सदा शान्तिमयो भूत्वा मां भजिष्यसि मानद । त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥ १९॥ पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् । प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥ २०॥ तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह । नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥ २१॥ उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् । गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥ २२॥ गृत्समद उवाच । धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः । विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ २३॥ अहो साक्षाद्गणेशानो ब्रह्मेन्द्रो दृष्टिमागतः । मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥ २४॥ एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् । तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥ २५॥ ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः । (Page खं. ५ अ. ३६ पान ८६) अतो मां ब्राह्मणं नाथ कुरु योगीन्द्र वन्द्यकम् ॥ २६॥ यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् । नाथो भवामि विघ्नेश योगीन्द्राणां गुरोर्गुरुः ॥ २७॥ त्वदीयपादपद्मे वै भक्तिं देहि गजानन । सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे ॥ २८॥ गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः । गृत्समदसमो नास्ति गाणपत्यस्वभावधृक् ॥ २९॥ एवमुक्त्वा गणेशानं प्रणनाम महामुनिः । तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥ ३०॥ श्रीगणेश उवाच । गणानां त्वेति मन्त्रस्य जपः खलु कृतस्त्वया । सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥ ३१॥ ऋषिर्भव महाभाग गणानां त्वास्य मन्त्रतः । सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु ॥ ३२॥ आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति । पश्चान् मे देवतायाश्च मुख्यो भव मदीयके ॥ ३३॥ न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने । मानयिष्यन्ति विप्रास्त्वामत्रिमुख्या न संशयः ॥ ३४॥ त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च मे । गणानां त्वा जपिष्यन्ति फलहीना भवन्तु ते ॥ ३५॥ शिवविष्ण्वादयो देवा ब्रह्माद्या ब्राह्मणा नराः । शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा ॥ ३६॥ त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् । त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥ ३७॥ त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् । भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥ ३८॥ भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद । तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥ ३९॥ यद्यच्चिन्तयसि प्राज्ञ तत्तत्ते सफलं भवेत् । स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥ ४०॥ एवमुक्त्वांऽतर्दधेऽसौ ब्रह्मणस्पतिरञ्जसा । स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥ ४१॥ ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपम् । ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥ ४२॥ ततो गृत्समदो योगी सर्वमान्यो बभूव ह । ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥ ४३॥ यथा गजाननः प्राह तथा सर्वं बभूव ह । मुनिस्तत्र महीपालाऽभजत्तं स विनायकम् ॥ ४४॥ नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः । गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥ ४५॥ इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् । सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ५.३६ (Page खं. ५ अ. ३७ पान ८७)

५.३७ गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । कथं नित्यं महायोगी गाणपत्याग्र्य एव च । महापूजां गृत्समदो द्विविधां प्रचकार ह ॥ १॥ तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै । गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥ २॥ गार्ग्य उवाच । श‍ृणु तस्य मुनीन्द्रस्य चरित्रं भक्तिसंश्रितम् । यथा गजाननं सोप्यभजत्तं नित्यमादरात् ॥ ३॥ प्रातः काले समुत्थाय गुरुं नत्वा स्वमस्तके । मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥ ४॥ गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् । क्षमाप्य धरणीं पश्चात् पादं चिक्षेप विप्रपः ॥ ५॥ शौचाचारमशेषं च चकार शास्त्रमार्गतः । दन्तकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥ ६॥ आदावाभ्यन्तरं स्नानं चकार श‍ृणु तन्नृप । वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥ ७॥ सहस्रारे समासीनं गजाननमनामयम् । अङ्गुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥ ८॥ पाशाङ्कुशधरं पूर्णं दन्ताभयसमन्वितम् । त्रिनेत्रं भूषणैर्युक्तमनर्घ्यवस्त्रराजितम् ॥ ९॥ पादाङ्गुष्ठाग्रसम्भूतां तस्य तीर्थमयीं पराम् । सरितं चिन्तयेत् पूर्णामासमन्तात् प्रसारिणीम् ॥ १०॥ सर्वान्तर्गतजं पूर्णमज्ञानं मलरूपकम् । तया सङ्क्षालयेच्चित्ते नृप सर्वगया सुधीः ॥ ११॥ एवमान्तरगं स्नानं यः करोति नरोत्तमः । स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥ १२॥ बाह्यं ततः समाख्यातं वैदिकं तान्त्रिकं द्विधा । स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥ १३॥ ततः स्वमूलमन्त्रेण युक्तं तान्त्रिकमाचरेत् । स शुद्धः सर्वकर्मार्हो भवते देवतासमः ॥ १४॥ एवं गृत्समदः सर्वं चकार राजसत्तम । गणेशप्रीतिकामार्थं भक्तियुक्तो महामुनिः ॥ १५॥ शुचिवस्त्रे तथा गृह्य सन्ध्यां चकार वैदिकीम् । तत आगमसम्भूतां गाणेशीं सर्वसिद्धिदाम् ॥ १६॥ तत्राचमनकं प्रोक्तं त्रिविधं विबुधोत्तमैः । वैदिकं तान्त्रिकं पौराणिकं चैव सुसिद्धिदम् ॥ १७॥ व्याहृत्या वैदिकं प्रोक्तं मूलमन्त्रेण तान्त्रिकम् । पौराणिकं चतुर्थ्यन्तं तं गणेशनामसंयुतम् ॥ १८॥ तत्र पौराणिकं वक्ष्ये महत् शुचिकरं श‍ृणु । यथा गृत्समदो विप्रेन्द्रश्चकार महायशाः ॥ १९॥ गणेशो ढुण्ढिराजश्च हेरम्बो वक्रतुण्डकः । शूर्पकर्णश्च विघ्नेशश्चिन्तामणिर्गजाननः ॥ २०॥ लम्बोदरश्चैकदन्तो ब्रह्मणस्पतिरेव च । विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥ २१॥ धरणीधर आशापूरको महोदरस्तथा । धूम्रकेतुर्मयूरेशः स्वानन्दवासकारकः ॥ २२॥ त्रिभिराचम्य हस्तौ वै द्वाभ्यां सङ्क्षालयेन्नरः । द्वाभ्यामोष्ठौ सम्पुटं चैकेन वै संस्पृशंस्ततः ॥ २३॥ पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप । द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशेत्ततः ॥ २४॥ द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा । ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥ २५॥ जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् । आचमनं भवेत् साक्षाद्गणेशो भूमिमण्डले ॥ २६॥ (Page खं. ५ अ. ३८ पान ८८) ततो न्यासादिकं कुर्यात् कलशस्थापनं चरेत् । पीठपूजां ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ २७॥ आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् । चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥ २८॥ ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् । स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥ २९॥ मानस्यां स्थिरचित्तत्वं कारणं परमं मतम् । न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥ ३०॥ वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् । अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥ ३१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ५.३७

५.३८ गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलगं कुरुष्व ॥ १॥ एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ २॥ शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् । वस्त्रेण सम्प्रोञ्छ्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३॥ द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः । सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४॥ रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥ ५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । तोयं सुवासै रचितं गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६॥ शुद्धेन वस्त्रेण गणेश पादौ सम्प्रोञ्छ्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबन्धो चित्तं विलीनं कुरु ते पदाब्जे ॥ ७॥ कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाऽऽशु ॥ ८॥ प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९॥ शुद्धं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण । तोयेन चाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०॥ द्रव्यैर्युतं चम्पकजातिकाद्यैः तैलं मया कल्पितमेव ढुण्ढे । दत्तं गृहाणाऽऽशु विमर्दयामि सर्वाङ्गमानन्दद सेवनाय ॥ ११॥ (Page खं. ५ अ. ३८ पान ८९) देवं सुखोष्णेन जलेन चाऽहं सर्वाद्यतीर्थाहृतकेन ढुण्ढिम् । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२॥ ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामय त्वं प्रकल्पितं नाथ जलस्य चाथ ॥ १३॥ ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे । ततो जलस्नानमघापहन्तर्गणेश मायाभ्रमवारणाशु ॥ १५॥ सुयक्षपङ्कस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कमण्डलौ सम्भवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥ १६॥ दुग्धेन सूक्तैर्मनसा सुतीर्थैः सम्पूज्य दूर्वादिभिरल्पभावैः । सङ्ख्यातिगैर्मण्डलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥ १७॥ ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन चाचान्तमेव ढुण्ढे कुरु विघ्नराज ॥ १८॥ अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९॥ आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् । भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥ २०॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धृतिकारणाय ॥ २१॥ आचान्तमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुण्ढे । भावेन कामण्डलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥ २२॥ उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् । सर्वाङ्गसंलेपनमादरात्त्वं हेरम्ब चित्तेन कुरुष्व पूर्णम् ॥ २३॥ साहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनन्तरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४॥ विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५॥ शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कञ्चुकमागृहाण । रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥ २६॥ सुवर्णरत्नैश्च युतानि सम्प्रकल्प्यैकदन्ताभरणानि ढुण्ढे । गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥ २७॥ रत्नैः सुवर्णेन कृतानि यानि चत्वारिसङ्कल्प्य गृहाण तानि । सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८॥ विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् । तथाङ्गुलिष्वेव यदङ्गुलीयं गणेश संशोभय तत्परेश ॥ २९॥ रत्नैर्विचित्रैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०॥ प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कण्ठे । चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥ ३१॥ (Page खं. ५ अ. ३८ पान ९०) चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२॥ चिन्तामणिं चिन्तितदं परेश हृद्देशगं कान्तिमयं कुरुष्व । मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानथ पालयस्व ॥ ३३॥ नाभौ फणीशं च सहस्रशीर्षं संवेष्टनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥ ३४॥ देशे कटौ रत्नसुवर्णयुक्तां काञ्चीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥ ३५॥ गणेश ते रत्नसुवर्णयुक्ते मञ्जीरके नूपुरके तथैव । सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥ इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि । सुभूषयाम्येव तवाङ्गकेषु रत्नादिधातुप्रभवाणि ढुण्ढे ॥ ३७॥ सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगन्धमुख्यैः । मया युतं कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८॥ लिप्तेषु वैचित्रमथाष्टगन्धैरङ्गेषु तेऽहं प्रकरोमि चित्रम् । मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥ ३९॥ आज्येन वै कुङ्कुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥ गृहाण भोश्चम्पकमालतीस्थलपङ्कजान्यम्बुजपङ्कजानि । मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥ ४१॥ पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि । दत्तानि चित्तेन सुकल्पितानि सङ्ख्यातिगानि प्रणवाकृते ते ॥ ४२॥ दूर्वाङ्कुरान् वै मनसा प्रदत्तान् पञ्चत्रिपत्रान्वितकार्द्रभूतान् । श्वेतांश्च विघ्नेश्वर सङ्ख्यया त्वं हीनांश्च सर्वोपरि सङ्गृहाण ॥ ४३॥ दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्नौ । मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह सङ्गृहाण ॥ ४४॥ दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसकं गृहाण । विघ्नेश कर्पूरभवं गृहाण तैलादिसम्भूतममोघदृष्टे ॥ ४५॥ भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् । हेरम्ब नैवेद्यमथो गृहाण सङ्कल्पितं पुष्टिपते ह्यपारम् ॥ ४६॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥ ततः करोद्वर्तनकं गृहाण सुगन्धयुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुण्ढे ॥ ४८॥ आचम्य सर्वेश सुवासितं च दत्तं मया तीर्थजलं पिबस्व । सङ्कल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखे करोमि ॥ ४९॥ द्राक्षादिरम्भाफलचूतकानि खर्जूरकर्कन्धुकदाडिमानि । स्वादेन युक्तानि मया गृहाण सङ्कल्प्य दत्तानि फलानि ढुण्ढे ॥ ५०॥ पुनर्जलेनैव करादिकं क्षालयामि तेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥ अष्टाङ्गयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै । (Page खं. ५ अ. ३८ पान ९१) सुकल्प्य विघ्नेश्वर सङ्गृहाण नाथासकृत्तुण्डविशोधनार्थम् ॥ ५२॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसञ्छादितके प्रसीद ॥ ५३॥ भक्त्या त्वदीयावरणं परेश सम्पूजयामि मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥ गृहाण लम्बोदर दक्षिणां तामसङ्ख्यभूतां मनसा प्रदत्ताम् । सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृस्नमिदं सुपाहि ॥ ५५॥ राजोपचारान्विविधान् गृहाण छत्राश्वहस्त्यादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६॥ दानस्य नानाविधरूपकांस्ते दत्तान् मया वै मनसा गृहाण । गोभूमिकाद्यान् स्थिरजङ्गमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥ मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि । हेरम्ब लम्बोदर दीनपाल सङ्गृह्य भक्तं कुरु मां पदस्ते ॥ ५८॥ ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९॥ ततः शुकाद्याः शिवविष्णुमुख्यामराधिपाः शेषमुखास्तथान्ये । मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०॥ वामाङ्गके भक्तियुता गणेशं सिद्धिश्च नानाविधसिद्धिभिस्तम् । अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१॥ ब्रह्मेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेशा माया सुसाङ्ख्यप्रदचित्तरूपा ॥ ६२॥ प्रमोदमुख्याः प्रभुपृष्ठभागे गणेश्वरं भावयुता भजन्ते । भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३॥ गन्धर्वमुख्या मधुरं जगुश्च विश्वेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४॥ इत्यादि नानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु नीराजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५॥ चतुर्भुजं पाशधरं गणेशं तथांऽकुशं वै दधतं च दन्तम् । त्रिनेत्रयुक्तं ह्यभयन्धरं तं महोदरं चैकरदं गजास्यम् ॥ ६६॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् । ध्याये गणेशं विविधप्रकारैः सम्पूजितं शक्तियुतं परेशम् ॥ ६७॥ ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् । असङ्ख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८॥ आरार्तिकं त्वेतदपारदीपं कर्पूरभूतं प्रकरोमि पूर्णम् । चित्तेन लम्बोदर तत् गृहाण ह्यज्ञानध्वान्ताघहरं निजानाम् ॥ ६९॥ गणेश वैघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलप्रभूतम् । गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७०॥ अनन्तवृत्त्या स्तुतिमेकदन्त विघ्नेश चित्तेन कृतां गृहाण । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥ ७१॥ प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः । (Page खं. ५ अ. ३८ पान ९२) असङ्ख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥ ७२॥ नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्यां विविधस्वरूपाम् । सङ्ख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३॥ न्यूनातिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण । दूर्वाङ्कुरान् विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४॥ क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । मदीयभक्तिं सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५॥ मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवन्द्यम् । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६॥ गणेश उत्थाय सभां विहाय गतस्ततस्त्वन्तरधामशक्तया । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७॥ सर्वान्नमस्कृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८॥ एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महान्तम् ॥ ७९॥ विघ्नेशपादोदकपानकं मे तत्त्यक्तगन्धस्य सुलेपनं तु । निर्मात्यसन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०॥ करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१॥ शय्यामनर्घां परिकल्पयामि मन्दारकार्पासकवस्त्रयुक्ताम् । नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु सङ्गृहाण ॥ ८२॥ सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३॥ एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते रसलालसोऽहम् ॥ ८४॥ गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥ श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥ यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ५.३८ (Page खं. ५ अ. ३९ पान ९३)

५.३९ गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो । तेन मार्गेण विघ्नेशं भजिष्यामि निरन्तरम् ॥ १॥ गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । चकार विधिवद्बाह्यां तां श‍ृणुष्व सुखप्रदाम् ॥ २॥ हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारन्ध्रमार्गेण बाह्यगं तं चकार सः ॥ ३॥ आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् । पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४॥ गृत्समद उवाच । चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तये ॥ ५॥ आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित । सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ ६॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥ ७॥ रत्नसिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ ८॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥ ९॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरुष्व गणनायक ॥ १०॥ रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो । अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११॥ दधिमधुघृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२॥ पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३॥ चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४॥ यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥ १५॥ नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः । कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६॥ कामधेनुसमुद्भूतं पयः परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७॥ पञ्चामृतस्य मध्ये तु जलस्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेन ब्रह्मकमण्डलूद्भवैः ॥ १८॥ दधिधेनुपयोभूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९॥ सन्तोषकारकं ढुण्ढे घृतं धेनुसमुद्भवम् । महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥ २०॥ पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१॥ इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२॥ यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३॥ ततो गन्धाक्षतादीन् दूर्वां कुरांश्च गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४॥ ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं ते करोमि गृहाण द्विरदानन ॥ २५॥ तीर्थैराचमनं देव सुवस्त्वभिसुवासितैः । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६॥ (Page खं. ५ अ. ३९ पान ९४) वस्त्रयुग्मे गृहाण त्वमनर्घे रक्तवर्णके । लोकलज्जाहरायैव विघ्नराज नमोऽस्तु ते ॥ २७॥ उत्तरीयं सुचित्रं ते नभस्ताराङ्कितं यथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८॥ उपवीतं गणाध्यक्ष गृहाण त्वं ततः परम् । त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९॥ ततः सिन्दूरकं देव गृहाण गणनायक । अङ्गलेपनभावार्थं सदानन्दविवर्धन ॥ ३०॥ भूषणानि विचित्राणि सर्वाङ्गे भूषणाय ते । सुवर्णरत्नकाद्यैश्च निर्मितानि गृहाण भोः ॥ ३१॥ अष्टगन्धं समायुक्तं गन्धं रक्तं गजानन । द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२॥ रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् । गणराज गृहाण त्वमक्षतान् भालमण्डले ॥ ३३॥ कह्लारचम्पकादीनि रक्तानि च गजानन । पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥ ३४॥ दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५॥ नानाजातिभवं दीपं गृहाण गणनायक । अज्ञानं मानसं दोषं हरन्तं ज्योतिरात्मकम् ॥ ३६॥ चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७॥ सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् । भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८॥ भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९॥ खर्जूरं दाडिमं द्राक्षां रम्भादीनि फलानि वै । गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४०॥ अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१॥ दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२॥ राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३॥ तत आवरणं तेऽद्य पूजयामि विधानतः । उपचारैश्च विविधैस्तेन तुष्टो भव प्रभो ॥ ४४॥ ततो दूर्वाङ्कुरान् ढुण्ढे एकविंशतिसङ्ख्यकान् । गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५॥ नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥ ४६॥ गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७॥ कर्पूराद्यां महार्तिं च नानादीपमयीं प्रभो । गृहाण ज्योतिषां नाथ तया नीराजयाम्यहम् ॥ ४८॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वाङ्गेषु नीराजनम् ॥ ४९॥ चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन । मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५०॥ गाणपत्यैः पञ्चविधमयैः स्तोत्रैर्गणाधिप । स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१॥ एकविंशतिसङ्ख्याकां त्रिसङ्ख्यां वा गजानन । प्रदक्षिणां गृहाण त्वं ब्रह्मब्रह्मेशभावतः ॥ ५२॥ साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् । हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३॥ (Page खं. ५ अ. ३९ पान ९५) न्यूनातिरिक्तभावार्थं काञ्चित् दूर्वाङ्कुरान् प्रभो । समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व मे ॥ ५४॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५॥ अपराधानसङ्ख्यातान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६॥ त्वं माता त्वं पिता त्वं वै सुहृत् सम्बन्धिकादयः । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७॥ जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् । सांसर्गिकं च यत् कर्म गणेशाय समर्पये ॥ ५८॥ बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके वन्दनात् किल ॥ ५९॥ पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् । सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ॥ ६०॥ गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु योऽर्चयेत् । गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ ६१॥ यदि गणेशपूजादौ गन्धं भस्मादिकं चरेत् । गणेशोच्छिष्टगन्धं तु नोचेत्तत्र विधिं चरेत् ॥ ६२॥ द्वादशाङ्गेषु विघ्नेश नाममन्त्रेण चार्चयेत् । तेन सोऽपि गणेशस्य समो भवति भूतले ॥ ६३॥ गणेश्वरं मूर्ध्नि चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४॥ वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् । कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५॥ बाहौ दक्षिणके चैव हेरम्बं वामबाहुके । विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६॥ कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७॥ सर्वाङ्गलेपनं शस्तं चित्रितं गन्धमष्टकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८॥ भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९॥ गणेशस्मरणेनैव करोमि कालखण्डनम् । गाणपत्यैश्च संवासो गजानन सदाऽस्तु मे ॥ ७०॥ गार्ग्य उवाच । एवं गृत्समदो विप्रश्चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१॥ तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ५.३९ (Page खं. ५ अ. ४० पान ९६)

५.४० स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् । न तृप्तोऽहं महायोगिन् भवाम्यमृतपानवत् ॥ १॥ न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके । धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥ २॥ अधुना वद योगीश गणेशलोकवर्णनम् । कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥ ३॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥ ४॥ एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप । जगाम कपिलस्यैवाश्रमं गङ्गातटे स्थितम् ॥ ५॥ प्रणम्य स जगादापि कपिलं हर्षसंयुतः । कृत्वा करपुटं चाङ्गिरस आदौ वराग्रणीः ॥ ६॥ मुद्गल उवाच । साक्षाद्विष्णुस्वरूपस्त्वं शुक्ल सर्वार्थदायक । गाणपत्येषु मुख्यस्त्वं साङ्ख्यानां परमा गतिः ॥ ७॥ त्वद्दर्शनजपुण्येन कृतकृत्योऽहमञ्जसा । कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥ ८॥ एवं वदन्तमत्यन्तं कपिलस्तं ननाम च । पूजयामास हर्षेण मुद्गलं भावभावितम् ॥ ९॥ ततस्तं कपिलो योगी जगाद वचनं हितम् । तात ते दर्शनेनाद्य पवित्रोऽहं च साम्प्रतम् ॥ १०॥ पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने । साक्षान् मुद्गल शस्त्रेशो गाणेशो नात्र संशयः ॥ ११॥ यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् । नामरूपविहीनांश्च कुरुते मानवः परान् ॥ १२॥ तथा त्वया महायोगिंस्तपसा योगसेवया । अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥ १३॥ नानायोगिन एवं तं योगेन स्वाभिमानकम् । चूर्णयन्ति महाभाग तथापि हृदि तिष्ठति ॥ १४॥ तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम । वयं न तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥ १५॥ त्वदीयकृत्याङ्गिरसं पुराणं सम्भविष्यति । सर्वेषां मान्यमेकं तद्योगप्रदं न संशयः ॥ १६॥ अभिमानेन युक्तानि पुराणानि विशेषतः । शास्त्राणि नात्र सन्देहः कारणं श‍ृणु मुद्गल ॥ १७॥ ज्ञातं गुह्यं तत्तथापि सङ्गोप्य स्वमतं पुनः । स्थापयित्वा विशेषेणाञ्जसा तथ्यं वदन्ति ते ॥ १८॥ गणेशभक्तः संस्त्वं तु तथापि गणनायकम् । रहस्येन विशेषार्थं न करोषि कदाचन ॥ १९॥ त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः । अभिमानेन हीनत्वाद्वेदगुह्यप्रकाशकम् ॥ २०॥ त्वया कृतं पुराणं यत्तदान्त्यं प्रभविष्यति । पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥ २१॥ त्वयोक्तं निन्दयेद्यो वै भवेत् स निरयप्रदः । अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥ २२॥ वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् । ग्रन्थो भविष्यन् नूनं निरभिमानत्वकारणात् ॥ २३॥ न मुद्गलसमो योगी न मुद्गलसमः कदा । गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥ २४॥ स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ । त्वद्दर्शनेन संहृष्टो भवामि गणपप्रिय ॥ २५॥ (Page खं. ५ अ. ४० पान ९७) कपिलेन महायोगी सत्कृतस्तत्र भूमिप । मुद्गलस्तत्र सान्निध्ये न्यवसद्भावसंयुतः ॥ २६॥ एकदा सुखमासीनं कपिलं योगिनां वरम् । पप्रच्छ मुद्गलो हर्षात् विनयावनतोऽभवत् ॥ २७॥ मुद्गल उवाच । स्वामिंस्त्वदीयगेहे स चिन्तामणिः समागतः । पुत्रभावेन साक्षात्तु ब्रह्मणां नायकः परः ॥ २८॥ त्वया भावेन सर्वेश आराधितो निरन्तरम् । गुह्यं तस्य त्वमेवेह जानास्यत्र न संशयः ॥ २९॥ न त्वत्समो महासिद्धः साक्षाद्विष्णुस्त्वमञ्जसा । गाणपत्यः स्वयं योगी गणेशजनकः पुनः ॥ ३०॥ परिपृच्छाम्यतस्त्वाहं वद सर्वं महाप्रभो । भवादृशा जनानां तु तारणाय भवन्ति हि ॥ ३१॥ स्वानन्दवसतिः स्वामिन् कीदृशी तत्र किं सुखम् । विस्तारः कीदृशस्तस्याः केन योगेन लभ्यते ॥ ३२॥ न कोऽपि तस्य लोकस्य जानाति त्वदृते परम् । रहस्यं वद सर्वेश गाणपत्यस्य विस्तरात् ॥ ३३॥ गार्ग्य उवाच । एवं पृष्टो महासिद्धस्तं प्रहस्य प्रशंसयन् । जगाद कपिलो हर्षाद्गाणपत्याग्रणीर्वचः ॥ ३४॥ कपिल उवाच । श‍ृणु मुद्गल माहात्म्यं सङ्क्षेपेण ब्रवीम्यहम् । स्वानन्दलोकगं पूर्णं सारं सर्वत्र सम्मतम् ॥ ३५॥ गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् । गन्तुं समुद्यतस्तत्र निजलोके यदाऽभवत् ॥ ३६॥ ततो मयाऽतिभक्त्या वै प्रार्थितो गणनायकः । उवाच मां वरं योगिन् वृणु दास्यामि मानद ॥ ३७॥ ततश्चिन्तामणिं विप्र प्रणम्योचेऽतिदुःखितः । वद स्वानन्दलोकस्य माहात्म्यं गणनायक ॥ ३८॥ नानालोकाः श्रुताः स्वामिन् न स्वानन्दं गजानन । जानाति कोऽपि यत्र त्वं प्रभो वससि नित्यदा ॥ ३९॥ चिन्तामणिरुवाच । स्वानन्दं यच्च वेदेषु ब्रह्म योगीन्द्रसत्तम । तदेव मायया पूर्वं बभूव नगरं महत् ॥ ४०॥ स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचित् । अथवा मे व्रताद्यैश्चोपासनेन महामुने ॥ ४१॥ न जपैस्तपसा दानैर्नानाकर्मपरायणैः । लभ्यते निजलोको वै जानीहि मुनिसत्तम ॥ ४२॥ न तत्र विष्णुशम्भ्वाद्याः शुकाद्या योगिनोऽपरे । गच्छन्ति मार्गहीनत्वादगम्यः सम्मतः सदा ॥ ४३॥ चतुर्विधमयैर्भावैर्लभ्यते न कदाचन । अगम्यस्तैर्न सन्देहो मम लोको महामते ॥ ४४॥ दशसाहस्रकं विप्र योजनानां प्रविस्तरः । अत ऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः ॥ ४५॥ वर्तुलः सर्वतः सोऽपि स्वस्थाधारेण तिष्ठति । सदा ज्योतिर्मयः साक्षाज्ज्योतिषां ज्योतिरुच्यते ॥ ४६॥ न तत्र सगुणं सर्वं निर्गुणं नैव विद्यते । पुमान् नपुंसकं न स्त्री वर्तते मुनिसत्तम ॥ ४७॥ चतुर्विधेषु सर्वेषु नानाभावगतेषु च । स्वसंवेद्यं निजात्मस्थं संस्थितं मेऽत्र सन्निधौ ॥ ४८॥ चतुर्विधेषु सर्वेषु मायायुक्तमिह स्थितम् । सदा भ्रान्तं विजानीहि स्वस्वरूपं महामते ॥ ४९॥ तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितम् । (Page खं. ५ अ. ४० पान ९८) निर्गुणेन स्वभावेन सदा खण्डमयं परम् ॥ ५०॥ तयोर्योगे निजानन्दो ढुण्ढिलोकग एव सः । बभूव तत्र भक्त्या मे भक्तास्तिष्ठन्ति सन्निधौ ॥ ५१॥ मम लोके महाभाग न क्षुधा न तृषादिकम् । सदा स्वानन्दभोगस्था वसन्ति मम सेवकाः ॥ ५२॥ न कृत्रिमं सुखं तत्र विद्यतेऽकृत्रिमं न हि । स्वानन्देन निमग्नास्ते सर्वं भुञ्जन्ति नित्यदा ॥ ५३॥ सगुणं तु सुखं सर्वे भुञ्जते निर्गुणं तथा । स्वानन्दसम्भवं तत्स्था एककाले महामते ॥ ५४॥ अत्र यत् संस्थितं सर्वं नानाभेदमयं मुने । तदेव ज्योतीरूपेण मम लोके प्रतिष्ठति ॥ ५५॥ अत्रैव न स्थितं यच्च निर्गुणं विप्र तत्र तत् । ज्योतीरूपेण मे लोके किल तिष्ठति सर्वदा ॥ ५६॥ स्वानन्दसम्भवं सर्वं तत्र तिष्ठति नित्यदा । मायया मेऽत्र लोकेऽतः सदाऽऽश्चर्यमयो बभौ ॥ ५७॥ सगुणो नैव विप्रेश सगुणं तत्र वर्तते । निर्गुणो न स नैर्गुण्यं वर्तते मे च लोकगम् ॥ ५८॥ सगुणैर्निर्गुणैर्हीनं वर्तते तत्र सर्वदा । अत आश्चर्यसंयुक्तो मम लोको विशेषतः ॥ ५९॥ न तत्राऽहं स्वभावश्च नाऽहं भावविवर्जितः । मम लोके महायोगिन् सदा तिष्ठन्ति मत्प्रियाः ॥ ६०॥ सगुणाऽमृतरूपं यद्भोगदं मृततुल्यकम् । निर्गुणामृतरूपं यदमृते भोगकारकम् ॥ ६१॥ तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकम् । तन्मयः सागरस्तत्र स्वस्थाधारेण वर्तते ॥ ६२॥ मिष्टं नानाविधं तस्मान्निःसृतं सगुणात्मकम् । निर्गुणात्मकमेतस्मादिक्षुसागर उच्यते ॥ ६३॥ स्वस्वरूपात्मकं तत्र जलं रक्तस्वरूपकम् । तस्य नश्यति पानेन नैर्गुण्यं सगुणात्मकम् ॥ ६४॥ तस्माद्धारा समुद्भूता मधुधारा प्रकथ्यते । तया सगुणनैर्गुण्यं वर्तते तृप्तिसंयुतम् ॥ ६५॥ तत्राऽहं सिद्धिबुद्धिभ्यां सदा क्रीडामि मानद । ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसन्ति हि ॥ ६६॥ शुण्डादण्डादिचिह्नैश्च संयुतोऽहं सदा मुने । गणा मेऽन्ये तथा भक्ताः स्वेच्छारूपाः वसन्ति ते ॥ ६७॥ एतत्ते कथितं सर्वं मम लोकसुखं महत् । मानयुक्तं मानहीनं हृदये पश्य मां मुने ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॥ ५.४० (Page खं. ५ अ. ४१ पान ९९)

५.४१ स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कपिल उवाच । त्वदीयभक्तिसंयुक्ता नराः स्वानन्दगा बभुः । गच्छन्ति केन मार्गेण तद्वदस्व गजानन ॥ १॥ चिन्तामणिरुवाच । मदीयोपासनायुक्ता मन्निष्ठा मत्परायणाः । अन्ते मेऽत्र स्मृतिं कृत्वा गच्छन्ति मम लोककम् ॥ २॥ विमानं स्वस्वरूपाढ्यं प्रेषयामि महामुने । शिवविष्ण्वादिदेवानामदृश्यं निजलोकतः ॥ ३॥ तमारुह्य गणैर्युक्तं भक्तो मे देहधृक् स्वयम् । स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवतीत्यहो ॥ ४॥ न तं पश्यति देवाद्या योगिनो यानसंस्थितम् । स्वानन्दचक्षुषा हीना मृतदेहमया मुने ॥ ५॥ शक्तेर्लोकमतिक्रम्य तथा सौरं च वैष्णवम् । शैवं ततः परं सोऽपि मम लोकं प्रविन्दति ॥ ६॥ तत्राज्ञानमयश्चादावन्धकारः प्रदृश्यते । नरेण न गणैर्विप्र देहधारणकारणात् ॥ ७॥ विमानप्रभया तत्र मदीयस्मरणेन वै । योजनान्ययुतं गत्वा प्रकाशस्तेन दृश्यते ॥ ८॥ तत्र भ्रामरिका देवी प्रचण्डदेहधारिणी । ज्योतिर्मयस्वरूपेणाज्ञानिभ्यो भयदा बभौ ॥ ९॥ जन्ममृत्यभयं सर्वं नानाभेदकरं भ्रमम् । तया संरचितं पूर्णं मम जानीहि मायया ॥ १०॥ भ्रामयेत् सर्वभूतानि सा स्थिता भ्रामरी स्वयम् । स्वस्याधारेण तत्रैव स्वानन्दमयकायभृत् ॥ ११॥ तां पश्य भयभीतः स मां सस्मार विशेषतः । ततो गणैः समाश्वास्याऽग्रे निन्ये मानवोत्तमः ॥ १२॥ तस्या मस्तकगा शक्तिर्ज्योतिराधाररूपिणी । अज्ञानिभ्यो सदा विप्र भयदा सा बभूव ह ॥ १३॥ जीवरूपं सदा सर्वभेदमोहधरं परम् । शिवरूपं तथा साक्षि तदाधारं प्रवर्तते ॥ १४॥ देहादीनां महायोगिन्नाधारो जीवसंज्ञितः । स्वयमाधारहीनत्वात् परमात्मा तदेव च ॥ १५॥ सर्वेषां पूर्ण आधारस्तया क्लृप्तो महामुने । आधारशक्तिरेवं सा नाम्ना तस्य स्थिताऽभवत् ॥ १६॥ तयाऽहं द्विविधश्चित्ते भवाम्यज्ञानिनां सदा । जीवात्मपरमात्मस्थो माया तत्र बभौ परा ॥ १७॥ मदीयध्यानजेनैव तामतिक्रम्य मानवः । गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ॥ १८॥ ततोऽतिज्योतिषा रूपा शक्तिर्वै कामदायिनी । तस्या मस्तकगा विप्र शोभते हर्षदायिनी ॥ १९॥ जन्ममृत्युयुतं सर्वं भेदरूपं तथा परम् । आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता ॥ २०॥ तथा कामयुतं विप्र द्विविधं प्रकृतं सदा । तेन देहात्मनोर्योगः परस्परयुतोऽभवत् ॥ २१॥ उत्पत्तिस्थितिसंहारयुक्तं भ्रान्तिधरं स्मृतम् । नानाभेदमयं पूर्णं क्षयवृद्ध्यादिसंयुतम् ॥ २२॥ आत्मा सदाऽमृताधार उत्पत्तिस्थितिनाशकैः । हीना वृद्धिक्षयादिभ्यो वदन्ति वेदवादिनः ॥ २३॥ किमर्थं भेदयुक्तं च सर्वदाऽऽत्मानमिच्छति । तथा पश्यात्मवैचित्र्यं विरुद्धे सतिमानद ॥ २४॥ कामयुक्तं ह्यसिपदेन द्वन्द्वस्थं कृतं सदा । तेन मोहप्रभावेण परस्परहितं जगत् ॥ २५॥ अतः सा शक्तिराख्याता कामदा सर्वमोहिनी । असिरूपा विशेषज्ञ महामाया मदीयिका ॥ २६॥ भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र प्रदृश्यते । त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥ २७॥ आधाराया महायोगिन्नाधारान्या न विद्यते । शक्तिः कुत्र ततः सापि तत्पदस्थाऽत्र कथ्यते ॥ २८॥ कामदायाश्च का शक्तिः कामदान्या न विद्यते । सर्वदा सर्वरूपासि पदमय्यापि सा बभौ ॥ २९॥ तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् । मायया रचितं विप्र मया स्वानुभवात्मकम् ॥ ३०॥ तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् । जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥ ३१॥ भेदाभेदादिहीनश्च भूत्वा पश्यति मां ततः । मद्दर्शनजयोगेन ब्रह्मभूतो भवेन्नरः ॥ ३२॥ स्वेच्छया निजलोकस्थो यत्र तत्र स सञ्चरेत् । सगुणो निर्गुणो भूत्वा सदा स्वानन्दगः परः ॥ ३३॥ ततस्तस्य पुनर्भ्रान्तिर्न भवेन् मुनिसत्तम । कल्पकोटिशतैर्वाऽपि निश्चितं वेदवादिभिः ॥ ३४॥ महालये चतुर्भेदा मयि चैकत्वमागताः । verse 35 missing in the original अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥ ३६॥ एतत्ते कथितं सर्वं मम लोकागमे मुने । सङ्क्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥ ३७॥ कपिल उवाच । त्वदीयोपासनं कृत्वा बहवस्ते गजानन । लोकं गच्छन्ति विघ्नेश तथा योगिन एव च ॥ ३८॥ ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतन्ति चेत् । तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥ ३९॥ पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो । पूर्णं विश्वमिदं नित्यमञ्जसा भाति खेलसि ॥ ४०॥ चिन्तामणिरुवाच । यथाऽहं मायया विप्र युद्धकाले विशेषतः । भूत्वा ह्यनन्तरूपेण प्रयुद्ध्ये विश्वपालनात् ॥ ४१॥ हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् । भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥ ४२॥ तथा मायाबलेनैव नूतनं संसृजाम्यहम् । न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥ ४३॥ कपिल उवाच । ब्रह्मभूता नरा नार्यः स्वानन्दे संस्थिता बभुः । अनन्तास्ते प्रभक्त्या वै पुनः स्वानन्दगामिनः ॥ ४४॥ तेषां वासः सदा तत्र नगरं नियतं प्रभो । सङ्कीर्णता भवेन्नूनं कुत्र तिष्ठन्ति तद्वद ॥ ४५॥ चिन्तामणिरुवाच । स्वानन्दे कल्पपर्यन्तमवसन्नित्यमादरात् । महालये समुत्पन्ने मद्देहे सङ्गता बभुः ॥ ४६॥ मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम । युगान्ते योगभावेन मद्रूपं भवतीत्यहो ॥ ४७॥ मद्देहे योगभावेनाज्ञानेनैव समागताः । सा योगनिद्रा विप्रेन्द्र मदीया कथ्यते बुधैः ॥ ४८॥ स्वानन्दस्था जनाः सर्वे ज्ञानयुक्ता मदीयके । देहे लीना वै भवन्ति योगीन्द्रा योगभावतः ॥ ४९॥ पुनः सृष्टियुगे विप्र निःसृतं विश्वमञ्जसा । अज्ञानेन युतं लीनं मायया मे न संशयः ॥ ५०॥ ज्ञानेन ये समायाता मद्देहे ते पुनः कदा । भवन्ति भिन्नरूपा न सृष्ट्यादौ योगभाविताः ॥ ५१॥ (Page खं. ५ अ. ४१ पान १०१) एवं वसन्ति ये तत्र स्वानन्दे मुनिसत्तम । कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥ ५२॥ कपिल उवाच । भक्तिमिच्छन्ति विघ्नेश त्वदीयां नित्यमादरात् । न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥ ५३॥ कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः । भवन्ति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥ ५४॥ चिन्तामणिरुवाच । दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् । योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥ ५५॥ अपारयोजनाकारो मम लोको न संशयः । स्वानन्दस्तत्र मे भक्ता वसन्ति सेवनोत्सुकाः ॥ ५६॥ सङ्ख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः । नवधा मां भजन्ते ते कल्पे कल्पे गतव्यथाः ॥ ५७॥ भवन्ति तु भविष्यन्ति बभूवुर्ये महामुने । मद्भक्ता मे प्रसान्निध्ये वसन्ति मोहदाः सदा ॥ ५८॥ महाभागा प्रियं भक्तिसमं मे नैव विद्यते । भक्त्यधीनो महानन्दाद् भ्रमेयं भक्तसन्निधौ ॥ ५९॥ यत्र कुत्र तु तिष्ठन्ति भक्ता मे तत्र सर्वदा । तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥ ६०॥ नवधा चित्तभावेन भक्तसामीप्यगो मुदा । भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥ ६१॥ न स्वानन्दप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा । मम देहो न विप्रेश प्रिया भक्ता यथा च मे ॥ ६२॥ कपिल उवाच । स्वानन्दस्था गणास्ते ये भक्तान्नेतुं समागताः । ज्योतीरूपाश्च भक्तैस्ते दृश्यन्ते कथमप्यहो ॥ ६३॥ चिन्तामणिरुवाच । मायया मे महायोगिन् दुर्लभं किं भवेद्वद । कृपया मेऽत्र पश्यन्ति भक्तास्तान् चर्मचक्षुषा ॥ ६४॥ स्वानन्दः सर्वरूपश्च तत्र मार्गं वदामि ते । भेदयुक्तैर्गणा मे वै दृश्यन्ते भेदसंयुताः ॥ ६५॥ भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने । दृश्यन्ते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥ ६६॥ जलादिषु यथा बिम्बं भवते तादृशं किल । तथा मदीयलोकस्था दृश्यन्ते सर्वमण्डले ॥ ६७॥ एतत्ते कथितं सर्वं ममलोकविचेष्टितम् । अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ५.४१ (Page खं. ५ अ. ४२ पान १०२)

५.४२ चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कपिल उवाच । एतादृशी महाभक्तिस्त्वदीया गणनायक । यदा सर्वे प्रकुर्वन्ति तदा विश्वं कथं भवेत् ॥ १॥ सर्वेभ्यः श्रेष्ठभावेन जानन्ति त्वां यदा नराः । तदा त्वां सर्वभावेन भजन्ते ते न संशयः ॥ २॥ श्रेष्ठार्थिनो नराः सर्वे भजन्ते शीघ्रसिद्धये । देवेन्द्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥ ३॥ चिन्तामणिरुवाच । मया सृष्टं जगत् सर्वं नानाभावमयं मुने । नानाभावयुताः सर्वे न भजन्ते तु मां सदा ॥ ४॥ चतुर्णां देवमुख्यानां कृत्वा भजनमुत्तमम् । तेन शुद्धान्तरात्मानो मां भजन्ते ततः परम् ॥ ५॥ अन्यच्च श‍ृणु मे वाक्यं मया माया प्रकाशिता । सर्वश्रेष्ठतमं मां ते न जानन्ति प्रमोहिताः ॥ ६॥ यदाऽहं मायया विप्र छादयामि न मे वपुः । तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवन्दति च ॥ ७॥ मया नानावताराश्च कृतास्त्रैलोक्यगेषु वै । देवादीनां प्रगेहेषु तादृशं मां वदन्ति ते ॥ ८॥ अग्रपूज्यत्वमेवं यत् सर्वपूज्यत्वमञ्जसा । शिवेन दत्तमस्मै तद्गणेशाय वदन्ति ते ॥ ९॥ मायया मोहिता मे मां पार्वतीमलसम्भवम् । शिवपुत्रं शिवेनैव स्थापितं प्रवदन्ति ते ॥ १०॥ शिवगणस्वरूपोऽयं मुक्तिं दातुं न च क्षमः । कार्यसिद्धिस्वभावेन कामपूरो गणेश्वरः ॥ ११॥ इत्यादिभावा बहवो मया विप्र प्रकाशिताः । क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानन्ति चापरम् ॥ १२॥ नो चेत् स्वानन्दगाः सर्वे भवन्त्यत्र न संशयः । निर्मोहात् कल्पपर्यन्तं जगन्नैव प्रवर्तते ॥ १३॥ अन्यच्च कर्मणा सर्वं ब्रह्माण्डं जनसंयुतम् । नानाभावात्ममोहस्थं भवतेऽनेकनिश्चयात् ॥ १४॥ अन्ते मदीयभावस्था भवन्ते शुद्धचेतसः । वेदशास्त्रार्थतत्त्वज्ञाः स्वयमेव महामुने ॥ १५॥ अहं साक्षाद् बुद्धिपतिः कृत्वा बुद्धेश्च चालनम् । गोपयामि गणेशस्य स्वरूपं देहिनां हृदि ॥ १६॥ तेन मां नैव जानन्ति जना परमगं कदा । विवेकमार्गं ते तत्र वदामि श‍ृणु यत्नतः ॥ १७॥ कृते मां पूर्णभावेन भजन्ते सर्वमानवाः । अज्ञानावरणैर्हीनाः श्रेष्ठं ते प्रवन्दति हि ॥ १८॥ त्रेतायां पादहीनेन मां भजन्ते नरा मुने । पञ्चायतनभावेन पञ्च श्रेष्ठान् वदन्ति ते ॥ १९॥ तत्र सर्वेषु साम्येन मां भजन्ते न संशयः । चर्तुभ्यः श्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् ॥ २०॥ द्वापरे द्विपदा हीनं मां भजन्ते सुरादयः । वदन्ति न्यूनरूपं तु चतुर्भ्यः शङ्करात्मजम् ॥ २१॥ वेदशास्त्रे पुराणेषु श्रेष्ठं जानन्ति मानवाः । मोहेन युगमानेन मां न्यूनं प्रवदन्ति ते ॥ २२॥ सर्वं ब्रह्मेति वेदेषु कथितं तत्र किं भवेत् । सत्ता समानरूपा तु तथाऽयं गणनायकः ॥ २३॥ कलौ त्रिपादहीनेन मां ज्ञानेन भजन्ति ते । वदन्ति वै नरास्तत्र मलजोऽयं गजाननः ॥ २४॥ शिवस्य वरदानेनाग्रपूज्योऽयं गणेश्वरः । सर्वपूज्यो यथा दैत्या जन्तवो वरसंयुताः ॥ २५॥ सर्वं ब्रह्मेति वेदेषु कथितं तेन विघ्नपः । (Page खं. ५ अ. ४२ पान १०३) वर्णितोऽयं शिववरबलेनैव मुनीन्द्रकैः ॥ २६॥ स्वसत्तासंयुतो देवो नाऽयं चिन्तामणिः कदा । शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥ २७॥ कलिप्रान्ते मुने लोका न भजिष्यन्ति मां कदा । एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥ २८॥ मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः । शिवविष्ण्वादिकान् सर्वे भजन्ते त्वग्रपूज्यकान् ॥ २९॥ सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः । अन्ते विघ्नयुताः सर्वे नरकेषु पचन्ति वै ॥ ३०॥ युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने । कर्माकर्मविकर्माणि स्थापितानि विभागशः ॥ ३१॥ न करोमि यदाऽहं चेत्तदा मे वरदानकम् । कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥ ३२॥ नरकादय आख्याताः स्वर्गाश्चैव महामुने । भवन्ति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥ ३३॥ शुभाशुभमयं सर्वं मया स्ववरदानतः । स्थापितं तेन मोहेन मां न जानन्ति मूलगम् ॥ ३४॥ एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् । मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥ ३५॥ कपिल उवाच । एवमुक्त्वा गणेशानो मामन्तर्धानमाकरोत् । अहं खेदसमायुक्तो हृदये तमलोकयम् ॥ ३६॥ मयाऽसौ स्थापितश्चिन्तामणिर्विप्र परेश्वरः । पूजयामि भजे नित्यं भक्तिभावसमन्वितः ॥ ३७॥ एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः । लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥ ३८॥ त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः । तवदर्शनमात्रेण सर्वे पूता भवन्ति च ॥ ३९॥ गार्ग्य उवाच । श्रुत्वैवं मुद्गलो योगी महत् स्वानन्दलोकगम् । माहात्म्यं विस्मितो भूत्वा प्रणनाम महामुनिम् ॥ ४०॥ चिन्तामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः । मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥ ४१॥ एवं ते सर्वमाख्यातं भज तं भावसंयुतः । अनेन जडदेहेन स्वानन्दं लभसे नृप ॥ ४२॥ मुद्गल उवाच । एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः । अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥ ४३॥ ऐलोऽपि गणराजं तं लक्षसंज्ञं निरन्तरम् । सेव्यस्वानन्दगो भूत्वा भजते तं प्रजापते ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ५.४२

५.४३ भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानन्दजां कथाम् । विस्मितो योगिराजेन्द्र न समं तस्य विद्यते ॥ १॥ अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम् । गार्ग्येण नृपशार्दूल उपदिष्टः किमाचरत् ॥ २॥ गणेशलोकगः सोऽपि बभूव वद तत्कथम् । अत्र तत्र गणेशानं भजते कथमप्यहो ॥ ३॥ मुद्गल उवाच । गार्ग्येण नृपवर्यश्च गाणपत्येन शिक्षितः । गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥ ४॥ स्कन्देन स्थापितस्तत्र लक्षो नाम गजाननः । तं नित्यं सेवयामासानन्यभावेन विघ्नपम् ॥ ५॥ न गणेशात् परं किञ्चिज्जानाति नृपसत्तमः । एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥ ६॥ दक्ष उवाच । एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल । यया विघ्नेश्वरः साक्षात् सन्तुष्टो जायते नृणाम् ॥ ७॥ मुद्गल उवाच । पञ्चायतनपूजां वै तथाग्नेः सेवनं परम् । द्विजानां नित्यमेतत्ते कथितं सर्वसम्मतम् ॥ ८॥ विघ्नरूपं महाघोरं परत्रेह च बन्धकम् । ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥ ९॥ तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः । विद्यार्थं शङ्करं सोऽपि पूजयेन्नित्यमादरात् ॥ १०॥ यशोर्थं केशवं चैवारोग्यार्थं रविमञ्जसा । सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदम्बिकाम् ॥ ११॥ अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये । देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥ १२॥ एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा । स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥ १३॥ अथवा कामनायुक्तः स चेत्तदपि तादृशम् । कुर्यात् कर्माङ्गदेवेभ्यः समर्प्य सकलां क्रियाम् ॥ १४॥ सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते । स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥ १५॥ तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा । ईशान्यां विष्णुमेव त्वाग्नेय्यां शम्भुं प्रपूजयेत् ॥ १६॥ नैरृत्यां जगदम्बां च वायव्यां रविमादरात् । पञ्चायतनभावेन पूजयेत् पञ्च देवताः ॥ १७॥ सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः । ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥ १८॥ अथवा पञ्चदेवेषु मन्त्रं गृह्य स्वभावजम् । एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥ १९॥ सर्वं कलांशरूपस्थं पञ्चायतनकस्य वै । पूजितेषु प्रजानाथ पञ्चसु पूजितं जगत् ॥ २०॥ देवेन कार्यसिद्ध्यर्थं नाना देवाः कृताः पुरा । ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥ २१॥ इयं सर्वात्मिका भक्तिः कथिता च प्रजापते । स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥ २२॥ अधुना श‍ृणु दक्ष त्वमेकनिष्ठां महाद्भुताम् । स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥ २३॥ स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम् । तस्य पूजनमात्रेण सर्वं सम्पूजितं भवेत् ॥ २४॥ अनन्तरूपभावेन सर्वत्र कलया स्वयम् । तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥ २५॥ चराचरमयो देवः पूजनीयं चराचरम् । (Page खं. ५ अ. ४३ पान १०५) केनाऽपि तत्र विप्रेन्द्र भवेच्चासङ्ख्यभावतः ॥ २६॥ चराचरं पूजितं चेत्तदपि तस्य रोमगम् । ब्रह्माण्डकूटमेवेदं वदन्ति मुनयोऽपरे ॥ २७॥ यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः । अतः सम्पूर्णदेहस्य पूजनं न भवेत् कदा ॥ २८॥ भक्तवात्सल्यभावार्थं देहधारी बभूव ह । देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥ २९॥ अनेन निश्चयेनैव पूजयेत् स्वेष्टदैवतम् । अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥ ३०॥ नान्यान्निन्देन्न वै दक्ष स्तुयादेकत्वमाश्रितः । स्वेष्टदेवपरो भूत्वा भक्तिं कुर्याद्विशेषतः ॥ ३१॥ नरो विघ्नेश्वरेणैव सदा युक्तं प्रजापते । स्वेष्टदेवं समापूज्य सिद्धिं स लभते पराम् ॥ ३२॥ एकनिष्ठा महाभक्तिर्न भवेत्तत्र खण्डिता । तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनम् ॥ ३३॥ यथा स्वशाखया संयुक्तं सन्ध्यादिकमाचरेत् । तथाऽग्रपूज्यभावेन पूजयेद्गणनायकम् ॥ ३४॥ सर्वेषामादिपूज्योऽयं सर्वादौ वेदवादतः । अन्यथा वेदवैरुध्यात् सकला नश्यति क्रिया ॥ ३५॥ शिवविष्णुमुखादीनामग्रपूजा न विद्यते । सर्वादौ तेन ते त्याज्या न त्याज्योऽयं गजाननः ॥ ३६॥ अन्यच्च श‍ृणु मे वाक्यं सर्वेभ्यः फलदायकः । गणेशो नात्र सन्देहः सिद्धिबुद्धिसमन्वितः ॥ ३७॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमञ्जसा । सिद्ध्यधीनं प्रजानाथ पञ्चकं वेदवादतः ॥ ३८॥ कर्ता बुद्ध्या समायुक्तः स्वेष्टदेवस्तया युतः । बुद्ध्यधीनं जगत् सर्वं ज्ञानं देहादिकं परम् ॥ ३९॥ तयोः स्वामी गणेशानो ब्रह्मणस्पतिवाचकः । सर्वादौ तमसम्पूज्य नारकी स भवेन्नरः ॥ ४०॥ यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेत् । पतिव्रते सिद्धिबुद्धी तत्र नैवागमिष्यतः ॥ ४१॥ सर्वसिद्धिविहीनश्च भवेत् दुर्बुद्धिसंयुतः । देहान्ते नरकेष्वेव स पचेन्नात्र संशयः ॥ ४२॥ शिवविष्णुमुखानां स ज्येष्ठश्चैव प्रकीर्तितः । तस्योल्लङ्घनमात्रेण भ्रंशयिष्यन्ति देवताः ॥ ४३॥ यथा गणपतिद्वेषाद्बलिं वैष्णवमुत्तमम् । नरकेषु निबद्ध्यैवोद्यतो विष्णुर्बभूव ह ॥ ४४॥ सन्ध्यादि कर्मवच्चायं सर्वादौ सम्मतो बुधैः । तस्य पूजनमात्रेणैकनिष्ठा नैव खण्डिता ॥ ४५॥ गणेश एकनिष्ठश्चेत्तदा गणपतिः सदा । एकः पूज्यो न सन्देहोऽन्येषामावश्यखण्डनात् ॥ ४६॥ एकनिष्ठसमा भक्तिर्विद्यते नैव निश्चितम् । ब्रह्म नानाविधं तेन विश्वं भक्त्या प्रपूजितम् ॥ ४७॥ जगद्ब्रह्मयुतो देवः स्वेष्टः सम्पूर्णभावतः । पूजितस्तेन भवति सन्तुष्टे सकलं सदा ॥ ४८॥ एकनिष्ठो यथा भक्तस्तथा देवोऽपि मानद । एकभक्ताश्रितो भूत्वाऽभवत्तत्रैव संस्थितः ॥ ४९॥ एतत्ते कथितं दक्ष भजनं त्रिविधं मया । अनेन भक्तिमार्गेण वाञ्छितं लभते नरः ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ५.४३ (Page खं. ५ अ. ४४ पान १०६)

५.४४ ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमैलः स राजर्षिरेकनिष्ठापरायणः । गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥ १॥ ध्यात्वा गजाननं देवमेकान्ते तद्गताऽखिलः । मानसे राज्यभोगे स निःस्पृहः सम्बभूव ह ॥ २॥ पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननम् । ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥ ३॥ दक्ष उवाच । गणेशस्य ध्यानमैलकृतं मे वद साम्प्रतम् । तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरन्तरम् ॥ ४॥ मुद्गल उवाच । यथैलो नृपवर्यः स गार्ग्याज्ज्ञात्वा गणेश्वरम् । अभजत् ध्यानयुक्तश्च तत् ध्यानं श‍ृणु मानद ॥ ५॥ ऐल उवाच । नमामि विघ्नेश्वरपादपङ्कजं सुचिह्नितं चाखिलदं निजात्मनाम् । ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥ ६॥ सुरक्तपादाङ्गुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् । सुगुल्फयुक्तं मृदुमांसलं महन् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥ ७॥ जङ्घे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले । तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥ ८॥ ऊरू सुमांसेन समावृतौ परौ रम्भासमानौ सुविराजितौ तथा । रक्तौ हृदा चिन्तनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिन्तये ॥ ९॥ कटिं सदा मांसलरक्तरञ्जितां सुवर्तुलां मध्यमभागसंश्रिताम् । गणेश्वरस्यैव तु चिन्तयाम्यहं सदा सुखानन्दकरस्य नित्यदा ॥ १०॥ वस्त्रं सुरक्तं हृदि चिन्तयाम्यहमनन्तमौल्यं कटिभागसंस्थितम् । नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिन्तये ॥ ११॥ महोदरं मांसलभावसंयुतं सुरोमयुक्तं प्रभया विराजितम् । विचिन्तयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥ १२॥ श्रीवक्रतुण्डस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् । रक्तं स्तनाभ्यां हृदयं तु चिन्तये चिन्तामणिं तत्र सुखप्रदं परम् ॥ १३॥ कण्ठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् । स्कन्धौ वृषस्कन्धसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥ १४॥ बाहू सदा मांसलकौ प्रभासितौ स्वानन्दनाथस्य मनोऽतिसौख्यदौ । हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिन्तये ॥ १५॥ कराङ्गुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः । गणेश्वरस्यैव हृदि प्रचिन्तये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥ १६॥ मुखं तु शुण्डायुतमेव चिन्तये त्रिनेत्रयुक्तं परमप्रकाशकम् । सदैकदन्तस्य च तीक्ष्णदन्तकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥ १७॥ कर्णौ विशालौ हृदि चिन्तये परौ भक्ताय निष्कामसुकामदौ तथा । शूर्पाकृती चञ्चलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥ १८॥ कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैर्ब्रह्ममदद्रवार्थिभिः । सुसंवृतौ नादयुतैर्निरन्तरं गणेश्वरस्यैव हृदा विचिन्तये ॥ १९॥ भालं सुतेजोयुतमेव चिन्तये श्रीढुण्ढिराजस्य निशाकरस्थलम् । (Page खं. ५ अ. ४४ पान १०७) रक्ताष्टगन्धैश्च सुचित्रितं प्रभोर्बिन्दुप्रयुक्तं त्वथ तण्डुलैर्युतम् ॥ २०॥ केशैः समाच्छादितमस्तकं तथा सञ्चिन्तये विघ्नविनाशकारिणः । ब्रह्माण्डमूले प्रभुमस्तकाश्रिते कुम्भस्थले ब्रह्मवरस्य सौख्यदे ॥ २१॥ गणेशदेहं परिचिन्तयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥ २२॥ विचित्रगन्धैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिन्तयेऽहं निजभक्तिलालसम् ॥ २३॥ पाशाङ्कुशाद्यैश्च सुसंस्तुतं परं ढुण्ढिं प्रमोदादिभिरेव नित्यदा । गणेश्वरं दवेवरैस्तथोन्दुरुराजेन पूज्यं च सुचिन्तये हृदि ॥ २४॥ वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिन्तये । ब्रह्मप्रियाद्यैश्च गणैरसङ्ख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥ २५॥ सर्वाङ्गसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिन्तये हृदि । संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥ २६॥ बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि । सर्वाङ्गसंशोभनया स्वमायया सञ्चिन्तये दक्षिणभागभूषया ॥ २७॥ लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु । सञ्चिन्तये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥ २८॥ अनन्तमन्त्रैः कथितं स्वरूपकं विचिन्तये वक्तुमशक्यभावतः । हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥ २९॥ मुद्गल उवाच । एवमैलः स राजर्षिर्गणेशभजने रतः । ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥ ३०॥ प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः । धर्मयुक्तं चकाराऽपि नित्यं कर्म निरन्तरम् ॥ ३१॥ ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः । यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥ ३२॥ शमीमन्दारदूर्वाश्चापूजयद्भक्तिसंयुतः । प्रार्थ्य पत्राङ्कुराद्यं स पुष्पं चैवाऽऽचिनोन्नृपः ॥ ३३॥ दक्ष उवाच । शमीमन्दारदूर्वाणां पूजनं वद मुद्गल । सिद्धेर्बुद्धेश्च विपेन्द्र सुतयोर्लक्षलाभयोः ॥ ३४॥ शमीमन्दारदूर्वाणां प्रार्थना कीदृशी भवेत् । तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥ ३५॥ केन मन्त्रेण योगीन्द्र शमीमन्दारकांस्तदा । नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥ ३६॥ मुद्गल उवाच । श‍ृणु दक्ष महाप्राज्ञ गाणपत्यपरायण । सन्तुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥ ३७॥ गणेशस्यैव मन्त्रेण पूजनीया इमे मताः । वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥ ३८॥ स्त्रीपुम्भावात्मकं दक्ष नास्ति तत्र विचारतः । गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥ ३९॥ तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ । गणास्तस्य तथा पूज्या गाणपत्यैश्च मन्त्रकैः ॥ ४०॥ गकाराद्बिम्बभावाख्यो लक्षः पुत्रः प्रकथ्यते । तथा गकाररूपाद्वै लाभस्तौ तन्मयौ मतौ ॥ ४१॥ (Page खं. ५ अ. ४५ पान १०८) शमीमन्दारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥ ४२॥ दूर्वां देवीं गणेशस्य मन्त्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः काण्डादिभिः प्रपूजयेत् ॥ ४३॥ नाममन्त्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतदेव रहस्यं ते कथितं सर्वमञ्जसा ॥ ४४॥ प्रार्थनां ते प्रवक्ष्यामि श‍ृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमन्दिरे ॥ ४५॥ यत्र दूर्वा च मन्दारः शमी तिष्ठति तत्र सः । गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥ ४६॥ दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शताङ्कुरे । गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥ ४७॥ शमी सर्वप्रदे देवि गणेशरूपधारिणि । चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥ ४८॥ मन्दारवाञ्छितार्थस्य दातर्विघ्नेशरूपक । क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्यऽहम् ॥ ४९॥ एवं प्रार्थ्य प्रजानाथ शमीमन्दारकौ पुरा । दूर्वापत्राणि पुष्पाणि विभुं ह्यानाय्य पूजयेत् ॥ ५०॥ सहस्रनाममन्त्रैश्च अष्टोत्तरशतैर्नरः । एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥ ५१॥ अथवा मूलमन्त्रेण नाममन्त्रेण वा तथा । गाणेशैर्विविधैर्मन्त्रैर्दूर्वादीनि समर्पयेत् ॥ ५२॥ एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् । गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ५.४४

५.४५ श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १॥ मुद्गल उवाच । कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २॥ तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः । भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३॥ समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं श‍ृणु मानद ॥ ४॥ अस्य श्रीगणेशकीलकस्य । शिव ऋषिः । अनुष्टुप् छन्दः । श्रीगणपतिर्देवता । ॐ गं योगाय स्वाहा । ॐ गं बीजम् । विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५॥ ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६॥ शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७॥ (Page खं. ५ अ. ४५ पान १०९) एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् । पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८॥ एकविंशतिवारं तु जपं कुर्यात् प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥ ९॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १०॥ यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः । तदा त्वं तान् निहत्य स्म कुरुषे वीर्यसंयुतान् ॥ ११॥ तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः । शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२॥ शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो । ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३॥ चराचरं जगत् सर्वं सत्ताहीनं यदा भवेत् । त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४॥ तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप । स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५॥ ब्रह्माणि योगहीनानि जातानि स्मरणेन ते । यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६॥ इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो । सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७॥ तथा मन्त्रा गणेशान वीर्यहीना बभूविरे । स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते ॥ १८॥ सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो । मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९॥ उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः । सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २०॥ गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने । स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१॥ गणेशकीलकमिदं कथितं ते प्रजापते । शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२॥ यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् । स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३॥ एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा । स सर्वफलहीनश्च जायते नाऽत्र संशयः ॥ २४॥ सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् । पुराऽनेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५॥ विष्णुब्रह्मादयो देवा मुनयो योगिनः परे । अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६॥ ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः । गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७॥ सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु । गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८॥ दक्ष उवाच । ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् । ब्रह्माण्डं स ददर्शैव तन् मे वद कुतूहलम् ॥ २९॥ पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते । अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३०॥ मुद्गल उवाच । विमानस्थः स्वयं राजा कृपया तान् ददर्श ह । गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१॥ स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे । योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२॥ एतत्ते कथितं सर्वमैलस्य चरितं शुभम् । यः श‍ृणोति स वै मर्त्यो भुक्तिं मुक्तिं लभेत् ध्रुवम् ॥ ३३॥ खण्डं लम्बोदरस्यैतद्यः श‍ृणोति नरोत्तमः । पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥ ३४॥ नानेन सदृशं किञ्चिद्भुक्तिमुक्तिप्रदं मतम् । योगरूपो महाभाग यत्र लम्बोदरः स्तुतः ॥ ३५॥ नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् । तदस्यैकस्य खण्डस्य श्रवणेन भवेदिह ॥ ३६॥ नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः । तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥ ३७॥ व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो । अस्य श्रवणमात्रेण लभेत् तस्माच्छताधिकम् ॥ ३८॥ नानातपांसि सर्वाणि यः करोति नरोऽसकृत् । अस्य श्रवणमात्रेण लभेत् पुण्यमपारकम् ॥ ३९॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिभाग्यवान् । श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥ ४०॥ यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् । श्रवणेन प्रजानाथ खण्डस्यास्य न संशयः ॥ ४१॥ बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः । सर्वसिद्धिप्रदः खण्डः कथितस्ते प्रजापते ॥ ४२॥ इदं लम्बोदरस्यैव चरितं सर्वसिद्धिदम् । कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ ४३॥ सूत उवाच । यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् । मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥ ४४॥ चरितं शौनकाद्याश्च श्रुतं लम्बोदरस्य यत् । धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥ ४५॥ विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः । नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥ ४६॥ व्यासेन कथितं सर्वं चरितं यादृशं पुरा । तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ५.४५ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे पञ्चमः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 5 Lambodaracharitam
% File name             : mudgalapurANam5.itx
% itxtitle              : mudgalapurANaM khaNDaH 5 lambodaracharitam
% engtitle              : Mudgala Purana Khanda 5 Lambodaracharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org