मुद्गलपुराणं खण्डः ६ विकटचरितम्

मुद्गलपुराणं खण्डः ६ विकटचरितम्

॥ मुद्गलपुराणं खण्डः ६॥ ॥ अथ श्रीमुद्गलपुराणे षष्ठः खण्डः प्रारभ्यते ॥ (Page खं. ६ अ. १ पान १)

६.१ शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् । लम्बोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥ १॥ अहो गणेशमाहात्म्यं सर्वसन्तोषकारकम् । श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥ २॥ अधुना वद माहात्म्यं विकटस्य विशेषवित् । सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥ ३॥ अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा । पृष्टं दक्षेण किं तात वद तन्मे प्रविस्तरात् ॥ ४॥ तव सङ्गेन सन्तुष्टा वयं सर्वे विशेषतः । भवामः कृतकृत्याश्च कथाश्रवणमात्रतः ॥ ५॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र भार्गवाणां शिरोमणे । सारग्राही न सन्देहः शौनक त्वं विशेषतः ॥ ६॥ भवतां प्रीतिकामार्थं वदिष्यामि विशेषतः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ ७॥ न गणेशात् परं किञ्चिद् विद्यते वेदवादतः । अल्पपुण्ययुतानां तु न प्रीतिस्तत्र वर्धते ॥ ८॥ पुरा पृष्टो महायोगी योगं दक्षेण वीप्सता । तदेवाऽहं वदिष्यामि श‍ृणुत ब्राह्मणाः परम् ॥ ९॥ दक्ष उवाच । धन्यं मे जन्मकर्मादि येन ते दर्शनं प्रभो । प्राप्तं पुण्यवशेनैव परं मुद्गलयोगदम् ॥ १०॥ अधुना वद माहात्म्यं विकटस्य विचक्षण । श्रुत्वा लम्बोदरस्यैव तृष्णा मे वर्धते मुने ॥ ११॥ कीदृशोऽयं गणाध्यक्षः कीदृशं ब्रह्म तस्य वै । केन योगेन लभ्यश्च कति तस्यावतारकाः ॥ १२॥ किं विहारः किमर्थं स भूमौ देवः समागतः । कान् दैत्यान् हतवान् विप्र कथं देवैश्च संस्तुतः ॥ १३॥ इत्यादि विविधं तस्य चेष्टितं वद मानद । भवादृशा महाभागाः परोपकृतिकारकाः ॥ १४॥ संसाराब्धौ निमग्नानां नौकारूपा मता बुधैः । भवन्तो नात्र सन्देहस्तारयस्वधुना च माम् ॥ १५॥ सूत उवाच । दक्षस्य विनयेनैवं भावेन तोषसंयुतः । मुद्गलस्तमथोवाच परं तच्छृणु सौख्यदम् ॥ १६॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणनाथकथां मुहुः । प्रश्नेन भक्तिसंयुक्तो वर्धयसि सुसारवित् ॥ १७॥ साक्षाद्ब्रह्मसुतस्तत्र चित्रं किं भवति त्वयि । भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहम् ॥ १८॥ विकटस्य च माहात्म्यं ब्रह्मभूतकरं परम् । सर्वसिद्धिप्रदं तुभ्यं कथयामि समासतः ॥ १९॥ अत्रेतिहासं मुख्यं वै विधे श‍ृणु पुरा भवम् । कथयामि विचित्रं ते विकटाख्यानसंयुतम् ॥ २०॥ आदिमाया महाशक्तिः शक्तिलोके निरामये । संस्थिता सेव्यमाना सा देवीभिः सेश्वरात्मभिः ॥ २१॥ एकदा पूजने सक्तां नियमस्थां विशेषतः । गणेशानस्य तां दृष्ट्वा पप्रच्छुः शक्तयः पराः ॥ २२॥ महाकाली प्रजानाथ महालक्ष्मीस्तथैव च । महासरस्वती देव्योऽन्याश्च नानाविधा मताः ॥ २३॥ महाकालीमहालक्ष्मीमहासरस्वत्य ऊचुः । त्वं साक्षात् सर्वरूपाऽसि जगद्ब्रह्मप्रकाशिनी । त्वदीयध्यानयोगेन ब्रह्मभूता भवन्ति च ॥ २४॥ धर्मार्थकाममोक्षाणां दात्री त्वं कथिता बुधैः । वेदेषु सर्वशक्तीनां मूलभूता त्वमञ्जसा ॥ २५॥ (Page खं. ६ अ. १ पान २) ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति । ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥ २६॥ कर्मणां फलदात्री त्वं तपसां ज्ञानधारिणाम् । त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥ २७॥ त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् । ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥ २८॥ सदा नामावलिं तस्य वदसि जगदम्बिके । भ्रमार्थं सर्वजन्तूनां गुह्यगोपनकारणात् ॥ २९॥ सर्वसत्ताधरी देवी त्वमेवात्र न संशयः । अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥ ३०॥ लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् । नित्यं दृष्ट्वा प्रसङ्क्षुब्धा भवामः परमाद्भुते ॥ ३१॥ दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा । वेदमार्गेण सर्वेशि जानीमो वद साम्प्रतम् ॥ ३२॥ मुद्गल उवाच । तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा । स्नेहेन ता जगादाथ रहस्यं श‍ृणु मुख्यकम् ॥ ३३॥ आदिशक्तिरुवाच । श‍ृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् । सर्वसिद्धिप्रदं पूर्णं त्रय्याद्याः परमाद्भुतम् ॥ ३४॥ यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः । गणेशस्यांशरूपत्वाद्गणभावसमाश्रिता ॥ ३५॥ पुरा वयं समुत्पन्नाश्चत्वारो देवमुख्यकाः । शम्भुर्विष्णुरविर्देव्यो गणेशानादहं किल ॥ ३६॥ नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् । तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥ ३७॥ नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते । तत्र स्थितमतो ब्रह्माऽसत्स्वानन्दमयं मतम् ॥ ३८॥ उत्पत्तिनाशभूतेषु तदाधारं सदात्मगम् । सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥ ३९॥ असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः । नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥ ४०॥ चतुर्णां चैव संयोगे स्वानन्दः पञ्चमः स्मृतः । स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥ ४१॥ अयोगः पञ्चभिर्हीनो व्यतिरेकप्रभावतः । संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥ ४२॥ पञ्चधा चित्तवृत्तीनां चालकस्तेन कथ्यते । चिन्तामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥ ४३॥ मायारूपा स्वयं सिद्धिर्भ्रान्तिदा विविधा सदा । भ्रान्तिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥ ४४॥ तयोः स्वामी गणेशानः स्वानन्दनगरे स्थितः । योगशान्तिमयः साक्षाल्लक्षलाभपिता हृदि ॥ ४५॥ संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः । तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥ ४६॥ अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः । न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥ ४७॥ एतत् सर्वं समाख्यातं मदीयनियमात्मकम् । चित्ते चिन्तामणिं देव्यो ध्यायामि भक्तिसंयुता ॥ ४८॥ काममोहितचित्तानां न प्रत्यक्षो गजाननः । भवते भावहीनानां भजतामपि सर्वदा ॥ ४९॥ अज्ञानावरणैर्युक्ता मां वदन्ति परात्पराम् । गणास्तस्य वयं सर्वे शम्भुविष्णुमुखाः किल ॥ ५०॥ गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते । कण्ठाधः सगुणं ब्रह्म तयोर्योगे स देहभृत् ॥ ५१॥ (Page खं. ६ अ. २ पान ३) इत्युक्त्वा विररामाथ शक्तिः स्वानन्दवासिनी । असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥ ६.१

६.२ शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् । विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥ १॥ शक्तय ऊचुः । महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् । श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥ २॥ काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा । गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥ ३॥ गणेशप्राप्तिहीना ये जन्तवश्चेश्वरास्तथा । जन्म तेषां विशेषेण निष्फलं सम्मतं बुधैः ॥ ४॥ अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् । सर्वदं गणनाथं ये न भजन्तेऽतिगूढकाः ॥ ५॥ रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः । कामयुक्तस्वभावेन त्यजन्ति गणनायकम् ॥ ६॥ कामस्य चरितं शक्ते वद विस्तरतः परम् । कामनाशकरं चापि येन ढुण्ढिः प्रलभ्यते ॥ ७॥ त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता । देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥ ८॥ आदिशक्तिरुवाच । गणनाथावतारस्य तस्योपासनमात्रतः । विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥ ९॥ अत्र वोऽहं पुरा जातमितिहासं वदामि हि । येन कामव्यथाहीना भविष्यन्ति जनाः सदा ॥ १०॥ कैलासे गिरिवर्ये तु शङ्करः स्वेच्छयैकदा । पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥ ११॥ अदृष्ट्वा शङ्करं साऽपि शोकयुक्ता बभूव ह । एतस्मिन्नन्तरे तत्रेन्द्रस्तं द्रष्टुं समाययौ ॥ १२॥ मघवोग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम् । राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥ १३॥ वज्रं तत्याज तं हन्तुं महेन्द्रः सहसा परम् । शिवदेहं समासाद्य निष्फलं तद्बभूव ह ॥ १४॥ ततः क्रोधसमायुक्तः शङ्करोऽग्निं समासृजत् । तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥ १५॥ सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् । स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥ १६॥ प्रसाद्य गिरिजानाथमिद्रं भयसमाकुलम् । अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥ १७॥ इन्द्रस्तं विविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् । (Page खं. ६ अ. २ पान ४) अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥ १८॥ ततः शिवं समागत्याग्निस्तदंशसमुद्भवः । प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥ १९॥ त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् । समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥ २०॥ निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः । सर्वं ब्रह्माण्डमथ वा ग्रसिष्यामि त्वदाज्ञया ॥ २१॥ अग्नेस्तद्वचनं श्रुत्वा शङ्करस्तमुवाच ह । पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥ २२॥ सर्वैरवध्यभावेन भविष्यसि महाबलः । त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥ २३॥ वृन्दा धर्मध्वजस्यैव पत्नी तव भविष्यति । पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥ २४॥ तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः । तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥ २५॥ ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि । राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥ २६॥ एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः । जलधौ तत्र घोषश्च बभूव भयदायकः ॥ २७॥ ततस्तत्र समुद्भूतो बालकस्तेजसा युतः । तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलन्धरः ॥ २८॥ तस्य मौञ्ज्यादिकं कर्म चकार जलधिः स्वयम् । कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥ २९॥ शिवस्य वरदानेन जिग्ये ब्रह्माण्डमण्डलम् । जलन्धरस्ततो देवा वनवासं प्रचक्रिरे ॥ ३०॥ वने तपःस्थितां वृन्दां दानवोऽपि ददर्श सः । उपयेमे कदा तां च गान्धर्वेणैव शक्तयः ॥ ३१॥ तया रेमे सदा दैत्यो मोहितो मायया भृशम् । न बुबोध गतं कालं साऽपि तद्गतमानसा ॥ ३२॥ ततः कर्मविहीनं तु चकार स धरातलम् । उपोषणेन संयुक्ता देवादयो बभूविरे ॥ ३३॥ कदाचिन्नारदस्तत्र जगामासुरनायकम् । तेन सम्पूजितो योगी तं जगाद जलन्धरम् ॥ ३४॥ नारद उवाच । धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् । तथापि श‍ृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥ ३५॥ पार्वत्या न समं कुत्र वर्तते सा विशेषतः । रत्नभूता न सन्देहः शङ्करेणानुभाविता ॥ ३६॥ एवमुक्त्वा महायोगी नारदोंऽतर्दधे स्वयम् । सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥ ३७॥ दूतः सम्प्रेषितस्तेन शङ्करं स समागतः । जगाद तं निशुम्भश्च महादेवं महाखलः ॥ ३८॥ निशुम्भ उवाच । शिवस्त्वं नग्नताद्यैश्च चिह्नैर्युक्तो न ते प्रभो । पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥ ३९॥ ब्रह्माण्डाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना । जलन्धरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥ ४०॥ प्रतापवान् क्रोधसमायुक्तो नो चेत् जलन्धरः । हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥ ४१॥ वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः । शूलं धृत्वा निशुम्भं तं हन्तुं देवः प्रचक्रमे ॥ ४२॥ ततो भयसमायुक्तो माययाऽसुरनायकः । पपालाऽऽगत्य वृत्तान्तं कथयामास संसदि ॥ ४३॥ (Page खं. ६ अ. २ पान ५) निशुम्भभाषितं श्रुत्वा ततः क्रोधसमायुतः । जलन्धरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥ ४४॥ तमागतं समालोक्य महादेवः प्रतापवान् । विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥ ४५॥ देवानां दानवानां च युद्धं परमदारुणम् । अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥ ४६॥ वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् । मायया मोह्य सङ्गृह्य तं चिक्षेप गुहान्तरे ॥ ४७॥ कालनेमिमुखांस्तत्रास्थाप्य सङ्ग्राममण्डले । जगाम पार्वतीं दैत्यो मायया शङ्कराकृतिः ॥ ४८॥ तमागतं समालोक्य ज्ञानदृष्ट्या महासती । बुबोध विह्वलाङ्गं चान्तर्धानमकरोत् स्वयम् ॥ ४९॥ सा सस्मार महाविष्णुं गत्वा हिमगिरिं तदा । समागतं विलोक्यैव वृत्तान्तं सर्वमब्रवीत् ॥ ५०॥ श्रुत्वा तां सान्त्वयामास केशवः परवीरहा । जलन्धरस्वरूपेण वृन्दां मोहयितुं ययौ ॥ ५१॥ जलन्धराकृतिस्थं तं दृष्ट्वा विष्णुं बुबोध सा । शशाप त्वं महाविष्णो भव शैलाकृतेर्धरः ॥ ५२॥ ततोऽतिभयसंयुक्तो विष्णुः शापसमन्वितः । सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपम् ॥ ५३॥ गुहायां शङ्करश्चैव सावधानो बभूव ह । ध्यानेनैव महोग्रेण तोषयामास विघ्नपम् ॥ ५४॥ वरदानप्रसिद्ध्यर्थमाययौ तं गणेश्वरः । तं दृष्ट्वा शङ्करश्चादौ प्रणतो भक्तिसंयुतः ॥ ५५॥ तुष्टाव विविधैः स्तोत्रैर्गणेशं सर्वसिद्धिदम् । कथयामास वृत्तान्तं प्रणम्य करसम्पुटैः ॥ ५६॥ ततः स्वहस्तगं ढुण्ढिर्ददौ तस्मै महात्मने । चक्रं सुदर्शनं नाम्ना तं जगाद सदाशिवम् ॥ ५७॥ मां स्मृत्वा युद्धकाले तं चक्रेण जहि दानवम् । रक्ष सर्वान् महादेव विजयी प्रभविष्यसि ॥ २८॥ एवमुक्त्वा गणेशानोंऽतर्दधे शङ्करस्ततः । चक्रं गृह्य गुहायाः स निर्जगाम बहिः स्वयम् ॥ ५९॥ दण्डकारण्यदेशे तु विष्णुर्विघ्नेश्वरं गतः । तस्मै प्रत्यक्षभावेन वरं ददौ गणेश्वरः ॥ ६०॥ श्रीगणेश उवाच । मा चिन्तां कुरु विष्णो त्वं मामस्मृत्वा गतः पुरा । तेन शापयुतो जातोऽधुना शरणमागतः ॥ ६१॥ अत्रैव तपसा तेऽहं वरदश्च पुराऽभवम् । तेन ते वै सहाम्यद्यापराधं माधवाधुना ॥ ६२॥ कलया त्वं शिलासंस्थो भविष्यसि न संशयः । पूर्णरूपेण देवेशः स्वस्याकृतिधरो भव ॥ ६३॥ नरास्त्वां पूजयिष्यन्ति शिलारूपधरं प्रभुम् । तत्र देवस्वरूपेण तिष्ठस्यत्र न संशयः ॥ ६४॥ पुनर्मां हृदि सन्ध्याय जलन्धरस्वरूपधृक् । वृन्दां गच्छ महाविष्णो सा तेऽधीना भविष्यति ॥ ६५॥ एवमुक्वा गणेशानोंऽतर्दधे भक्तवत्सलः । विष्णुर्जलन्धरो भूत्वा ययौ वृन्दां तु शक्तयः ॥ ६६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः ॥ ६.२

६.३ कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । जलन्धरस्वरूपेण आगतं तं जनार्दनम् । नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥ १॥ नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः । जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥ २॥ ततो गणेशमायाभिर्मोहिता तं समीपगा । वृन्दा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥ ३॥ मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् । रूपेणाप्रतिमां पूर्णयौवनेन विराजिताम् ॥ ४॥ एकान्ते स तया सार्धं रेमे नारायणः स्वयम् । साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला ॥ ५॥ अधुना शङ्करस्यैव वृत्तान्तं कथयाम्यहम् । श‍ृणुध्वं शक्तयः सर्वा गणेशमायया युतम् ॥ ६॥ शङ्करः क्रोधसंयुक्तो युयुधे तेन वैरिणा । चक्रेण छेदयामास दैत्यानां बलमुत्कटम् ॥ ७॥ जलन्धरः स्वयं तेन युयुधे मायया युतः । राक्षस्या देवता दैत्या युयुधुश्च परस्परम् ॥ ८॥ वृन्दया सह विष्णुश्च रेमे तत्र मुदा युतः । जलन्धरः स चक्रेण तस्मिन् काले हतोऽभवत् ॥ ९॥ ततस्ते देवविप्रेन्द्रास्तुष्टुवुः शङ्करं परम् । तैः सार्धमगमत् सोऽपि कैलासं पर्वतेश्वरम् ॥ १०॥ ततश्च धर्मसंयुक्ता बभूवुर्मानवा ध्रुवम् । विश्वमानन्दसंयुक्तं बभूव स्वस्वकर्मतः ॥ ११॥ नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूव ह । समागतास्तत्र दैत्याः शशंसुश्चेष्टितं महत् ॥ १२॥ प्रतापवान् शङ्करेण हतो दैत्यो जलन्धरः । तच्छ्रुत्वा विस्मिताः सर्वे कोऽयं क्रीडति वृन्दया ॥ १३॥ ततोंऽतर्धाय चात्मानं स्वयं विष्णुः समास्थितः । वृन्दा देहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् ॥ १४॥ तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोद ह । स्मृत्वा वृन्दाचरित्राणि मोहितो मायया भृशम् ॥ १५॥ वृन्दाचितां समाश्रित्य विललाप जनार्दनः । दैत्याः पातालगाः सर्वे बभूवुर्भयसंयुताः ॥ १६॥ देवैः सम्बोधितो विष्णुर्मुनिभिर्न बुबोध सः । रुरोद कामबाणार्तस्तां स्मृत्वा दारुणं महत् ॥ १७॥ ततस्तस्य महाविष्णोः कामबाणार्दितस्य च । वीर्यं पपात भूपृष्ठेऽमोघं तेजोयुतं बभौ ॥ १८॥ तस्माच्च पुरुषो जज्ञे कामरूपातिगो बभौ । विचचार महीपृष्ठे विष्णुस्तत्र समास्थितः ॥ १९॥ ततो देवैश्च सा वृन्दा प्रार्थिता मुनिभिर्भृशम् । विष्णोः पत्नी भवाशु त्वं तपसाऽऽराधितस्य ते ॥ २०॥ सा तथेति समुच्चार्य वृक्षरूपा बभूव ह । विष्णुः शिलास्वरूपेणोपयेमे तां शुभावहाम् ॥ २१॥ कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् । उपयेमे महादेव्यस्तेन संहर्षितोऽभवत् ॥ २२॥ तां गृह्य केशवो देवो विकुण्ठमगमत् स्वयम् । सर्वे हर्षसमायुक्ता बभूवुरमरादयः ॥ २३॥ एवं कामः समुत्पन्नो महातेजोयुतः स्वयम् । बभ्राम वनसंस्थः स तत्र शुक्रः समाययौ ॥ २४॥ शिवपञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने । स गत्वा तं प्रणम्यैव वनं तपश्चचार ह ॥ २५॥ तपसोग्रेण शम्भुं स तोषयामास नित्यदा । निराहारेण नित्यं जजाप तं मन्त्रमुत्तमम् ॥ २६॥ (Page खं. ६ अ. ३ पान ७) एवं तस्योग्रतपसा विभ्रान्ताः सुरमानुषाः । दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥ २७॥ ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा । बोधयामास दैत्येशं वरं ब्रूहि समब्रवीत् ॥ २८॥ ततः स शङ्करं दृष्ट्वा प्रणनाम कृताञ्जलिः । समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुतः ॥ २९॥ यजुर्वेदभवेनैव रौद्रस्तोत्रेण शङ्करम् । कामासुरः प्रसन्नात्मा तोषयामास भावतः ॥ ३०॥ सन्तुष्टं शङ्करं दृष्ट्वा तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रः स वरदं भक्तवत्सलम् ॥ ३१॥ कामासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि महेश्वर । तव भक्तिं च मे देहि राज्यं ब्रह्माण्डकस्य वै ॥ ३२॥ उपत्तिस्थितिसंहारयुतास्तेभ्यो भयं न मे । सम्भवेत्तादृशं नाथ कुरुष्व बलसंयुतम् ॥ ३३॥ उत्पत्तिस्थितिसंहारकारका ये महेश्वराः । तेभ्यो मे मरणं नैव भवेद्देव तथा कुरु ॥ ३४॥ आरोग्यादिसमायुक्तं सङ्ग्रामे जयशालिनम् । कुरु मां देवदेवश सर्वातिगं प्रभावतः ॥ ३५॥ यद्यदिच्छामि तत्तन् मे सफलं त्वदनुग्रहात् । सर्वकालेषु भवतु नमस्ते परमेश्वर ॥ ३६॥ शक्तिरुवाच । कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः । शङ्करस्तमथोवाच तपसा बद्धभावतः ॥ ३७॥ शिव उवाच । दुर्लभं यत्त्वया काम प्रार्थितं देवदुःखदम् । दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तम ॥ ३८॥ त्वया ये ये वराः सर्वे प्रार्थितास्ते महासुर । सफलाः सन्तु मद्वाक्यात्त्वं श्रेष्ठश्च भविष्यसि ॥ ३९॥ एवमुक्त्वा महादैत्यमन्तर्धानमथाऽकरोत् । शिवः सोऽपि महादेव्योऽभवत्तत्रैव संस्थितः ॥ ४०॥ हर्षेण महता युक्तो जगाम शरणं स्वयम् । शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनाम ह ॥ ४१॥ कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् । श्रुत्वा योगीन्द्रमुख्यश्च दैत्याचार्यो महायशाः ॥ ४२॥ महिषासुरपुत्रीं स उपयेमे वरोद्धतः । तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीम् ॥ ४३॥ ततो दैत्यगणान् सर्वान् समागतान् दिगन्ततः । दैत्येशांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् ॥ ४४॥ वेदमन्त्रैर्महाभागो ब्राह्मणैर्विधिसंयुतः । कामासुरोऽभवद्राजश्रिया हृष्टो विलासवान् ॥ ४५॥ पञ्च तस्य प्रधानानि बभूवुश्च महौजसः । रावणः शम्बरश्चैव महिषो बलिदुर्मदौ ॥ ४६॥ नगरं निर्ममे भूमौ सर्वशोभासमन्वितम् । रतिदं नाम तस्यापि चकारोशनसेरितः ॥ ४७॥ तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः । चातुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ६.३ (Page खं. ८ अ. ४ पान ८)

६.४ कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचिद् दैत्यराजेन्द्रो बलिमुख्यान समागतान् । जगाद हर्षसंयुक्तः कामासुरः प्रतापवान् ॥ १॥ कामासुर उवाच । बले रावणमुख्याश्च वचनं मे हितावहम् । श‍ृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥ २॥ ब्रह्माण्डं हि प्रजेष्यामि वरदर्पेण निश्चितम् । भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥ ३॥ वरदानस्य माहात्म्यं वृथा भवति चान्यथा । न वयं जयसंहीना भविष्यामः कदाचन ॥ ४॥ कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येन्द्रसत्तमाः । हर्षयुक्ता पुनस्तं ते ऊचुः प्राञ्जलयः परम् ॥ ५॥ दैत्येशा ऊचुः । सम्यगुक्तं महाभाग वयं सर्वे त्वदात्मकाः । प्रजेष्यामो महेशेन्द्रान् प्रतापेन प्रभो च ते ॥ ६॥ न ते पराक्रमस्यैव तुलां ब्रह्माण्डमण्डले । लभते कोऽपि दैत्येन्द्रस्तत्र शुक्रः सहायकृत् ॥ ७॥ ततः सर्वे समागम्य शुक्रं नीतिविशारदम् । प्रणम्याऽऽपूज्य तेनैव युताः सर्वेऽपि निर्ययुः ॥ ८॥ अपारसेनया युक्तश्चतुरङ्गसुशोभया । शुशुभे कामसंज्ञोऽसौ तारायुक्तो यथा विधुः ॥ ९॥ नानावाहनगा वीराः शस्त्रहस्ता द्रुमैर्युताः । पर्वतानां धराः केचिन्निर्ययू रणदुर्मदाः ॥ १०॥ यथा पाथोनिधिश्चैव सर्वत्र जलरूपधृक् । तथा सैन्यं धरायां सङ्ख्यातिगं दृश्यते हि तत् ॥ ११॥ बलिरावणमुख्या वै यत्र तिष्ठन्ति शक्तयः । नृपालैः किन्तु सेनाभिर्युद्धं कर्तुं क्षमं भवेत् ॥ १२॥ राजानः शरणं केचिद्ययुस्तं च मृताः परे । केचित् त्यक्त्वा वनं राज्यं ययुर्भयसमन्विताः ॥ १३॥ एवं भूमण्डलं जित्वा सप्तद्वीपसमन्वितम् । दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ॥ १४॥ ततः पातालमाविश्य शेषं नागसमन्वितम् । वशं कृत्वा ययुस्तेऽपि स्वर्गं देवगणैर्युतम् ॥ १५॥ समागतं महादैत्यैर्युतं कामासुरं खलम् । ज्ञात्वा देवगणाः सर्वे भयभीता बभूविरे ॥ १६॥ विचार्य गुरुणा सार्धं शङ्करं ते ययुस्ततः । त्यक्त्वा राज्यं भयोद्विग्ना ब्रह्मविष्णुमुखाः सुराः ॥ १७॥ ततो दैत्येन्द्रमुख्याश्च शून्यां दृष्ट्वाऽमरावतीम् । प्रवेशं चक्रिरे सर्वे कामासुरपुरोगमाः ॥ १८॥ इन्द्रासने समासीनो दैत्यपैः संवृतो बभौ । कामासुरस्ततो दैत्यान् स्थापयामास सन्निधौ ॥ १९॥ ततस्तैः संयुतः सोऽपि प्रजापतिपदं ययौ । तत्रैव तादृशं दृष्ट्वा ब्रह्मासनगतोऽभवत् ॥ २०॥ बुभुजेऽसौ कियत्कालं भोगान्नानाविधान् खलैः । विकुण्ठमगमत् सोऽपि दैत्यपैः सुसमावृतः ॥ २१॥ तत्र शून्यं प्रदृश्यैव हर्षयुक्तो बभूव ह । कामासुरः स्वयं रेमे नानादैत्येन्द्रमुख्यकैः ॥ २२॥ ततो दैत्यगणान् सोऽपि जगाद हर्षसंयुतः । मोहेन मोहितोऽत्यन्तं गर्वयुक्तो वचः परम् ॥ २३॥ कामासुर उवाच । किं मया न जितं दैत्यास्तद्वदेत जयाम्यहम् । विष्णुमुख्याश्च देवेन्द्रा दुद्रुवुः क्लीबभावतः ॥ २४॥ न कोऽपि रणभूमौ वै सङ्ग्रामाय समागतः । देवेन्द्रा युद्धहीनास्तु भवामो जयशालिनः ॥ २५॥ (Page खं. ६ अ. ४ पान ९) ततस्तं शम्बरो दैत्यः प्राह वैरसमन्वितः । प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥ २६॥ शम्बरासुर उवाच । शम्भुं जय महाराज देवमुख्यैश्च संवृतम् । तदा ब्रह्माण्डकस्यैव राजा त्वं तु भविष्यसि ॥ २७॥ न त्वां वरप्रदो देवः शिवः श‍ृणु वचो हितम् । स्वधर्मसंयुतं राजन् सर्वेभ्यः सुखदायकम् ॥ २८॥ कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् । स्वधर्मस्थं विजानीहि नोचेन्नश्यन्ति देवताः ॥ २९॥ प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया । कर्मणा त्वं समर्थश्च जातोऽस्यत्र न संशयः ॥ ३०॥ वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः । भवामस्तमथो शम्भुं जय त्वं दैत्यपैर्वृतः ॥ ३१॥ देवनाथः स्वयं शम्भुस्तस्माद्देवान् प्रगृह्य सः । शत्रून्नः पश्य दैत्येन्द्र संस्थितः प्रबभूव ह ॥ ३२॥ सुराश्चासुरकाः प्रोक्ताः पश्य वेदेषु मानद । शिवो देवमयः प्रोक्तः कथं दैत्यहितो भवेत् ॥ ३३॥ कामासुरः शम्बरस्य वचः श्रुत्वा प्रतापवान् । मोहयुक्तः स्वभावेन तथ्यं मेने तु शक्तयः ॥ ३४॥ दैत्यपैः संवृतः सद्यः सन्नद्धैः शङ्करं ययौ । तमागतं समाज्ञाय शिवश्चिन्तातुरोऽभवत् ॥ ३५॥ देवैः सह विचार्येवं दृष्ट्वा दारुणरूपकम् । कामासुरं पपालाऽसौ त्यक्त्वा कैलासमात्मनः ॥ ३६॥ अरण्ये देवसंयुक्तो यत्र तत्र गुहासु सः । भयभीतः स्वभावेन वासं चक्रे सदाशिवः ॥ ३७॥ ततः कामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महत् । शैवं हर्षसमायुक्तो दैत्यपैः प्रविवेश ह ॥ ३८॥ कैलासशिखरारूढः कामासुरःप्रतापवान् । भोगान् कल्पितसम्भूतान् बुभुजे चासुरैः सह ॥ ३९॥ एवं ब्रह्माण्डमुग्रः स स्वयं जित्वा ननन्द ह । कृतकृत्यमिवात्मानं मेने दैत्येन्द्रनायकः ॥ ४०॥ ततो बहौ गते काले पुत्रं शोषणसंज्ञितम् । ज्येष्ठं कैलासनाथं वै चकार भयवर्जितः ॥ ४१॥ दुःपूरं स चकारैव विकुण्ठाधिपतिं खलम् । कनिष्ठं स्वसुतं कामासुरो दुष्टश्च शक्तयः ॥ ४२॥ बलिं सौरस्य लोकस्य नाथं चक्रे महासुरः । रावणं शक्तिलोकस्य तथा बलसमन्वितम् ॥ ४३॥ शम्बरं ब्रह्मलोकस्याधिपं दुष्टं चकार ह । इन्द्रलोकस्य नाथं तु महिषं रणदुर्मदम् ॥ ४४॥ दुर्मदं यमपुर्यां स स्थापयामास निर्भयः । एवं नानाऽसुरांश्चक्रे स्थापितान् भुवनेषु च ॥ ४५॥ स्वयं सर्वसमायुक्त आययौ भूमिमण्डलम् । स्वपुरे राज्यमुग्रं स चकार जगतो बलात् ॥ ४६॥ स्त्रीमद्यमांसकाद्यैश्च संसक्तः सन्महाबलः । भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः ॥ ४७॥ न बुबोध गतं कालं यथा कालेन वञ्चितः । आत्मानममृताकारं मेने स्वमदसंयुतः ॥ ४८॥ एवं कामासुरो दुष्टः शक्तयः स चकार ह । चराचरमयं सर्वं स्वाधीनं बलगर्वितः ॥ ४९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः ॥ ६.४ (Page खं. ६ अ. ५ पान १०)

६.५ मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो कामासुरस्यैवं प्रभावः परमाद्भुतः । शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥ १॥ एतादृशो महादैत्यो न श्रुतस्ते मुखाम्बुजात् । अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥ २॥ आदिशक्तिरुवाच । कालिमुख्याः श‍ृणुध्वं च शक्तयो मे वचो हितम् । यथा तं गणनाथः स जिग्ये सर्वैः सुदुर्जयम् ॥ ३॥ एकदा स्वसभासंस्थं कामासुरं महानृपम् । जगुर्दैत्याधिपाः सर्वे कृताञ्जलय आदरात् ॥ ४॥ दैत्येशा ऊचुः । महाराज महाराज कृतकृत्योऽसि निश्चितम् । तथापि श‍ृणु वाक्यं नः सर्वेषां ते हितावहम् ॥ ५॥ चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे । कालेन निहताः सर्वे देवैश्छद्मप्रदर्शिभिः ॥ ६॥ अतस्त्वमपि राजेन्द्र शत्रुभावसमाश्रितान् । देवान् शम्भुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥ ७॥ अमरा वेदवादेषु कथिता देवपा गणाः । शस्त्रादिभिश्च ते सर्वे न मरिष्यन्ति कर्हिचित् ॥ ८॥ अतः श‍ृणु महादैत्य विचारं शत्रुनाशकम् । कर्महीनप्रभावेण मरिष्यन्त्यमराः किल ॥ ९॥ कर्मान्ना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः । पुरा प्रोक्तं तु वेदेषु तादृशं कुरु मानद ॥ १०॥ तेनैवामररूपाश्च वयं निहतकण्टकाः । भवामो नात्र सन्देहस्त्वत्प्रसादेन नित्यदा ॥ ११॥ तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः । साधु साधु भवद्भिः सङ्कथितं तानुवाच ह ॥ १२॥ अधुना दैत्यपैः सर्वैः कर्तव्यं कर्मखण्डनम् । महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥ १३॥ तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः । पृथिव्यां तैः कृतं कर्मखण्डनं मदसंयुतैः ॥ १४॥ ब्राह्मणादींश्च सन्ताड्य वर्णाश्रमविवर्जितान् । चक्रुस्ते पापकर्माणो दानवा दुर्जयाः खलाः ॥ १५॥ कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः । देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥ १६॥ ततो हाहारवं सर्वे वर्णाश्रमयुता जनाः । स्नानादि नैव चक्रुस्ते दैत्यसन्त्रासतापिताः ॥ १७॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥ १८॥ केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः । स्वधर्मनिरतास्तत्रावसंस्ते विगतज्वराः ॥ १९॥ ततोऽभवन् महादेवा उपोषणपरायणाः । शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥ २०॥ कामासुरस्य नाशार्थं विचारं चक्रुरञ्जसा । न किञ्चित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥ २१॥ तत्राऽऽजगाम योगीन्द्रो मुद्गलः परमार्थवित् । तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥ २२॥ उत्थाय तं प्रणेमुस्ते शम्भुविष्णुमुखाः सुराः । भृग्वादयश्च योगीन्द्राः पूजयामासुरादरात् ॥ २३॥ आसने सुखमासीनं कृत्वा करपुटान् मुनिम् । शिवश्चिन्तातुरोऽत्यन्तं पप्रच्छ विनयान्वितः ॥ २४॥ श्रीशिव उवाच । धन्या वयं महायोगिन् दर्शनेन च ते प्रभो । गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥ २५॥ (Page खं. ६ अ. ५ पान ११) अस्माकमादिकाले तु गुरुर्भृशुण्डिकः परः । तेन सम्बोधिता विप्र वयं ज्ञानयुता मुदा ॥ २६॥ गुरुस्तस्य मुनीन्द्रस्य सर्वसिद्धिप्रदायकः । गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥ २७॥ शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो । नोचेदन्नविहीनान्नो मृतान् पश्यसि देवपान् ॥ २८॥ कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । अधुना कर्मनाशाद्वै हीना अन्नेन वै कृताः ॥ २९॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने । उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥ ३०॥ अतो योगीन्द्रमुख्य त्वं वदोपायं महागुरो । कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥ ३१॥ चराचरस्य रक्षार्थं कुरु कार्यमनुमत्तमम् । दुष्टं संहर योगीन्द्र मार्गदर्शनभावतः ॥ ३२॥ यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु । तथा हिंसा न ते स्वामिन् भविष्यति कदाचन ॥ ३३॥ इति तस्य वचः श्रुत्वा मुद्गलः शङ्करस्य तु । दयया गणनाथं स स्मरन् जगाद तं वचः ॥ ३४॥ मुद्गल उवाच । श‍ृणु शम्भो जगन्नाथ विष्णो देवादयो वचः । कथयामि हितार्थाय कामासुरविनाशनम् ॥ ३५॥ साक्षादीश्वरूपस्त्वं गणेशांशः सदाशिव । तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥ ३६॥ तव दर्शनमात्रेण कृतकृत्या भवन्ति वै । नरा ईश न सन्देहस्तं किं ब्रूमि भयापहम् ॥ ३७॥ तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः । गणेशं सर्वभावेन भजध्वं सर्वदेवताः ॥ ३८॥ स्वानन्दस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः । स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥ ३९॥ पूर्वस्मिन् यत्र वै शम्भो सिद्धिः प्राप्ता त्वया तथा । देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥ ४०॥ भूस्वानन्दे महाभाग आराधय गजाननम् । मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥ ४१॥ एकाक्षरेण मन्त्रेण चरध्वं तप उत्तमम् । स्वल्पकालेन विघ्नेशः प्रसन्नो भविता स्वयम् ॥ ४२॥ एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु । जगाम स्वेच्छया योगाद्गणेशभजने रतः ॥ ४३॥ ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे । मयूरेशं समाजग्मुर्दण्डकारण्यगं परम् ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः ॥ ६.५

६.६ भृशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । मयूरनामकं क्षेत्रं भूस्वानन्दमयं कथम् । बभूव तत् समाचक्ष्व परं कौतूहलं त्विदम् ॥ १॥ पुरा कथं शिवाद्यैश्च सिद्धिः प्राप्ता जगन्मयि । वद तत्र कथं तेषां भृशुण्डी चाऽभवद् गुरुः ॥ २॥ कीदृशं क्षेत्रमुख्यं तु केन तत्र गजाननः । स्थापितः पूर्वकाले वै के के सिद्धिमवाप्नुयुः ॥ ३॥ वद शक्ते मयूरस्य माहात्म्यं सर्वसिद्धिदम् । क्षेत्रस्य स्वल्पकालेन लभते स्वेप्सितं नरः ॥ ४॥ मुद्गल उवाच । एवं पृष्टा महामाया शक्तिभिश्च प्रजापते । भक्तियुक्ताभिरत्यन्तमादरात्ता उवाच सा ॥ ५॥ तत्तेऽहं श‍ृणु वक्ष्यामि सर्वसिद्धिप्रदायकम् । श्रवणेन न सन्देहो ब्रह्मभूतपदप्रदम् ॥ ६॥ आदिशक्तिरुवाच । अत्राहं कथयिष्यामीतिहासं परमाद्भुतम् । भृशुण्डिनः शिवादीनां संवादात्मकमुत्तमम् ॥ ७॥ कदाचित् प्रलये वृत्ते नष्टे स्थावरजङ्गमे । ब्रह्मविष्णुशिवाद्याश्च लयं ययुः स्वभावतः ॥ ८॥ ततोऽतिलयवेगेन पञ्चभूतानि शक्तयः । लयं प्राप्तानि सर्वत्र शून्यरूपं बभूव ह ॥ ९॥ ततो जागृन्मयं ब्रह्म स्थूलभूतं लयं गतम् । तथा सूक्ष्मं महादेव्यः स्वाप्नं प्रलयवेगतः ॥ १०॥ समभावमयं ब्रह्म सौषुप्तं तल्लयं गतम् । ततः प्रकृतिरूपा सा पुरुषे तन्मयी ह्यभूत् ॥ ११॥ पुरुषो ब्रह्मणि स्वात्मैकभावं संस्थितोऽभवत् । ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगं परम् ॥ १२॥ एवं महालये प्राप्ते क्षेत्रं स्वानन्दवाचकम् । स्वसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदम् ॥ १३॥ तदा विघ्नेश्वरः साक्षाद् योगनिद्रापरायणः । क्षेत्रे मयूरे सुष्वाप तदाकारधरः प्रभुः ॥ १४॥ ततो बहौ गते काले निद्राहीनो बभूव ह । निःश्वासतोऽभवन्नस्य सोङ्कारा निगमाः पुरा ॥ १५॥ तैः स्तुतो बोधितश्चैव ससर्ज सकलं पुनः । प्रकृतिं पुरुषाद्यं च नानातत्त्वस्वरूपकम् ॥ १६॥ तत्त्वैस्त्रिगुणकं सृष्टं स्थूलसूक्ष्मसमात्मकम् । त्रिविधं तु विराड्रूपं नानाभेदप्रसूतकम् ॥ १७॥ ततस्त्रिविधरूपं च नानाभिन्नं बभूव ह । चराचरात्मकं ब्रह्म पञ्चभूतमयं बभौ ॥ १८॥ भिन्नानि पञ्चभूतानि व्यवस्थासंयुतानि तु । बभूवुरादिकालेऽहं तेषां सृष्टिं वदामि वः ॥ १९॥ नाभेः समुद्भवस्तस्य ब्रह्मा लोकपितामहः । मुखाद्विष्णुः स्वयं पाता गणेशस्य चतुर्भुजः ॥ २०॥ नेत्राच्छिवः समुत्पन्नो वामाङ्गात्तस्य चाऽभवम् । अहं भानुर्दक्षिणाङ्गात् पञ्च देवाः पुरातनाः ॥ २१॥ अज्ञानेन समायुक्ता न विदुः स्वपरं तदा । देवा ज्ञानप्रसिद्ध्यर्थं तपश्चेरुर्महाद्भुतम् ॥ २२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकम् ॥ २३॥ मन्त्रं प्राप्य महेशाना जेपुर्विघ्नेशमाभजन् । गते वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ॥ २४॥ आदौ शङ्करहृद्देशे दर्शयामास रूपकम् । नरनागमयं पूर्णं चतुर्भुजादिचिह्नितम् ॥ २५॥ तं दृष्ट्वा विस्मितः सोऽपि चित्ते विचारमाकरोत् । नरकुञ्जररूपोऽयं चित्ते मे कः प्रतिष्ठति ॥ २६॥ (Page खं. ६ अ. ६ पान १३) यावत्तं प्रष्टुमारेभे तावदन्तर्हितं वपुः । ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥ २७॥ न ददर्श महद्रूपं सर्वमङ्गलमङ्गलम् । ततो विह्वलचित्तोऽसौ जगाम विष्णुसन्निधौ ॥ २८॥ तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् । शिवस्तस्मै स्ववृत्तान्तं कथयामास हृद्गतम् ॥ २९॥ शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः । एवं क्रमेण पञ्चैते देवेशा मिलिता जगुः ॥ ३०॥ परस्परं विचार्यैते ध्यानं विस्मितमानसाः । ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥ ३१॥ ततस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः । सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥ ३२॥ तत आकाशजां वाणीं शुश्रुवुस्ते महौजसः । ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥ ३३॥ आकाशवागुवाच । गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः । यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥ ३४॥ प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् । बीजमेकाक्षरं मे वै सिद्धा यूयं जपात्ततः ॥ ३५॥ साक्षान्मे दर्शने देवा नाधिकारोस्ति निश्चितम् । योगहीनप्रभावत्वात्ततश्चान्तर्हितोऽभवम् ॥ ३६॥ भृशुण्डिनं महाभक्तं पृच्छध्वं सर्वमञ्जसा । गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥ ३७॥ तत् ज्ञात्वा देवदेवा मां भविष्यथ समर्थकाः । सन्द्रष्टुं नात्र सन्देहस्ततः सिद्धिमवाप्स्यथ ॥ ३८॥ एवमुक्त्वा गणेशानः स्वस्थः सोंऽतर्हितोऽभवत् । शिवादयः प्रणम्यैव युयुस्तं मुनिपुङ्गवम् ॥ ३९॥ अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः । भृशुण्डिनं प्रणम्यैते संस्थिता हर्षसंयुताः ॥ ४०॥ ऊचुः प्राञ्जलयः सर्वे तं मुनिं शुण्डयायुतम् । एकमेव स्थितं पूर्णयोगानन्दमयं परम् ॥ ४१॥ देवेशा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् । धन्योऽपि योगिनां मध्य आदिमध्यान्तवर्जितः ॥ ४२॥ सोऽपि तान् पूजयामास ज्ञात्वा देवतमान् मुनिः । कृत्वाऽऽतिथ्यं जगादैवं भृशुण्डी परमार्थवित् ॥ ४३॥ भृशुण्ड्युवाच । जगतां मूलरूपाश्च भवन्तो जगदीश्वराः । समागता मदीये मे आश्रमे भाग्यगौरवात् ॥ ४४॥ किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् । आदिमध्यान्तभावज्ञा विश्वपालाः परेश्वराः ॥ ४५॥ शक्तय ऊचुः । महालये भृशुण्डी च कथं लयविवर्जितः । वद शक्ते मुनेस्तस्य चरितं परमाद्भुतम् ॥ ४६॥ मुद्गल उवाच । महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् । श्रुत्वा ता जगदम्बा सा कथयामास हर्षिता ॥ ४७॥ पुरा भृशुण्डिचरितं मया रम्यं प्रकाशितम् । श्रुत्वा संशयहीनास्तां पप्रच्छुर्विनयान्विताः ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भृशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः ॥ ६.६ (Page खं. ६ अ. ७ पान १४)

६.७ स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शक्तय उचुः । अहो शक्ते महाच्चित्रं चरित्रं मुख्यकं श्रुतम् । भृशुण्डिनश्च सन्तुष्टा वयं जाता न संशयः ॥ १॥ अधुना मुनिदेवानां संवादं वद सौख्यदम् । यत्र विघ्नेश्वरस्यैव ज्ञानं सङ्गीयतेऽमलम् ॥ २॥ आदिशक्तिरुवाच । श‍ृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् । सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥ ३॥ भृशुण्डिवचनं श्रुत्वा हर्षिताः शङ्करादयः । ऊचुस्तं प्रणिपत्यैव वृत्तान्तं पूर्वसम्भवम् ॥ ४॥ शिवादय ऊचुः । कोऽसौ गणेश्वरः स्वामिन् नरकुञ्जरवेषभृत् । तस्य ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥ ५॥ भृशुण्ड्युवाच । संयोगवाचकः प्रोक्तो गकारश्च णकारकः । अयोगात्मकसंज्ञो वै तयोः स्वामी गणेश्वरः ॥ ६॥ अविनाशिपदं वेदे प्रोक्तं तद्गजवाचकम् । मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥ ७॥ नाशवद्विश्वमेतद्वै तदेव देहरूपगम् । कण्ठाधो नात्र सन्देहस्तयोर्योगे गजाननः ॥ ८॥ चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः । चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥ ९॥ जीवात्मपरमात्मानौ पादौ तस्य महात्मनः । द्विपदो गणराजोऽतः कथ्यते वेदवादतः ॥ १०॥ तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः । तेन लम्बोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥ ११॥ भ्रान्तिदा गणराजस्य मायासिद्धिः प्रकीर्तिता । वामाङ्गाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥ १२॥ पञ्चचित्तमयी साक्षाद्बुद्धिर्भ्रान्तिधरा परा । दक्षिणाङ्गाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥ १३॥ तयोः स्वामी गणेशानो योगशान्तिमयः स्वयम् । भक्तवत्सलभावेन देहधारी बभूव ह ॥ १४॥ स एव ज्ञानगो देवा भवतां कार्यसिद्धये । बभूव तं भजध्वं तु तेन सर्वं शुभं भवेत् ॥ १५॥ श्रुत्वैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु । ऊचुर्विस्मितचित्तास्ते गुरुं भृशुण्डिनं वचः ॥ १६॥ ब्रह्मादय ऊचुः । त्वं साक्षाद्गणराजो वै शुण्डादण्डविराजितः । अस्माकं गुरुराद्यश्च बोधदातर्नमोऽस्तु ते ॥ १७॥ त्वदीयवचनेनैव गणेशार्थविचक्षणाः । जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥ १८॥ अधुना वद माहात्म्यं भजनस्य विशेषतः । तत्र स्थानं च मन्त्रादिविधियुक्तं महामुने ॥ १९॥ भृशुण्ड्युवाच । समाधिना भवन्तोऽपि गताः पुरा महेश्वराः । भेदाभेदादिहीने तु ब्रह्मणि तन्मयत्वतः ॥ २०॥ अधुना दण्डकारण्ये तादृशं क्षेत्रमुत्तमम् । स्वानन्दाख्यं च तत्रैव तपध्वं गणपे रताः ॥ २१॥ मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदि तादृशीम् । पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥ २२॥ एवमुक्त्वा महायोगी भृशुण्डी विरराम ह । गणेशभक्तराजेन्द्रो देवेशास्तं जगुः पुनः ॥ २३॥ शिवाद्या ऊचुः । कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते । कीदृशं तस्य माहात्म्यं वद योगीन्द्रसत्तम ॥ २४॥ तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च । किमर्थं भूमिसंस्थोऽयं गणेशः सम्बभूव ह ॥ २५॥ (Page खं. ६ अ. ७ पान १५) तत्र सिद्धिं समाजग्मुः सेव्य विघ्नेश्वरं नराः । माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽसि महामुने ॥ २६॥ गणनाथेन साक्षात्त्वं दर्शितो गुरुरादरात् । वयं शिष्यास्त्वदीयाश्च शाधि सर्वान् हिताय नः ॥ २७॥ तेषां वचनमाकर्ण्य भृशुण्डी पुनरब्रवीत् । गाणपत्यविचारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ २८॥ भृशुण्ड्युवाच । क्षेत्रं गणेश्वरस्यैव त्रिविधं परिकीर्तितम् । तेषां भेदं प्रवक्ष्यामि श‍ृणुध्वं त्वेकचेतसः ॥ २९॥ स्वर्गे शम्भुगृहे चैव पाताले शेषमन्दिरे । पृथिव्यां तु मयूरेशे क्षेत्रं विघ्नपतेः स्मृतम् ॥ ३०॥ तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा । वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य देवपाः ॥ ३१॥ प्रकृतिः सर्वरूपा तु पुरुषश्चात्मसंज्ञकः । तयोः संयोगभावे तु स्वानन्दः परिकथ्यते ॥ ३२॥ स्वसंवेद्येन योगेन लभ्यते मानवैः परम् । तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् ॥ ३३॥ तत्रैव संस्थितः साक्षाद्गणेशो योगवाचकः । तेन संरचितं स्वस्य मायया ब्रह्मदायकम् ॥ ३४॥ तस्य रूपं कथयितुं निजानन्दं न शक्यते । सर्वक्षेत्रसमायोगो ज्ञातव्यं क्षेत्रमुत्तमम् ॥ ३५॥ ततः स्वस्येच्छया देवा गणेशेन स्वमायया । सृष्टं चतुर्विधं तस्मात् क्षेत्रात् खेलनभावतः ॥ ३६॥ पश्चिमाङ्गादसद्रूपं ब्रह्म शक्तिमयं परम् । निःसृतं तत् द्विधा जातं स्वभावेन महेश्वराः ॥ ३७॥ रतिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः । भोक्ता तयोः समायोगे द्वारं तच्च प्रकीर्तितम् ॥ ३८॥ हृदि सर्वजनानां या रतिरुत्पद्यते परा । तया मोहितचित्तास्ते भ्रमन्ति विषये रताः ॥ ३९॥ तत्र चालकरूपेण संस्थितः पुरुषो महान् । कामस्तेन जनाः सर्वे नाना कार्ये परायणाः ॥ ४०॥ भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि । तदा शाक्तं लभेत् सोऽपि ब्रह्मासद्वाचकं परम् ॥ ४१॥ तेन द्वारेण विघ्नेशं साधयित्वा च योगिनः । गच्छन्ति तेन देवेन्द्रा द्वारं शास्त्रे प्रकथ्यते ॥ ४२॥ उत्तराङ्गाद्गणेशस्य समुद्भूतं स्वभावतः । ब्रह्म सौरं सदा सत्यवाचकं देवसत्तमाः ॥ ४३॥ तदेव द्विविधं जातं कर्म ज्ञानप्रभेदतः । इच्छया गणराजस्य तच्छृणुध्वं विधानतः ॥ ४४॥ कर्माधारं जगत् सर्वं कर्म सृष्टं प्रवर्तते । अन्ते कर्मगतं भावि शास्त्रेषु तन्मयत्वतः ॥ ४५॥ आधारात्मकभावेन संस्थिता धरणी परा । कर्मरूपा महामाया संज्ञा सूर्यस्य भामिनी ॥ ४६॥ वराहो ज्ञानरूपश्च सदा निःसङ्गभावतः । कर्मजातिषु तिष्ठेत्तु स एव रविवाचकः ॥ ४७॥ कर्मयोगयुताः केचित् केचित् ज्ञानपरायणाः । भ्रमन्ति द्विविधे भावे यन्त्रिता मोहसंयुताः ॥ ४८॥ कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः । तयोर्योगेऽमृतं ब्रह्म प्राप्नुयात् रविवाचकम् ॥ ४९॥ अथवा सौरमार्गेण लभ्यते भक्तमुख्यकैः । तदेव द्वाररूपं वै वदन्ति गणपस्य च ॥ ५०॥ तेन द्वारेण योगीन्द्रा गच्छन्ति गणनायकम् । बुधैस्तद् द्वारमाख्यातमुत्तराङ्गं विशेषतः ॥ ५१॥ ततो गणेश्वरस्यैव पूर्वाङ्गान्निःसृतं परम् । ब्रह्मानन्दमयं पूर्णं समभागप्रकाशकम् ॥ ५२॥ सत्यासत्यात्मके देवाः समरूपेण संस्थितम् । वैष्णवं सर्वमान्यं तु तदेव द्विविधं बभौ ॥ ५३॥ लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः । द्विविधं शोभया युक्तं कृतं तया विशेषतः ॥ ५४॥ लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः । शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥ ५५॥ यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् । भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥ ५६॥ तस्याश्चालकरूपश्च विष्णुः साम्ये व्यवस्थितः । आनन्दभुक् विशेषेण द्वन्द्वमायाधरो बभौ ॥ ५७॥ तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते । आनन्दवाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥ ५८॥ गणेशप्राप्तये देवा द्वारमानन्दधारकम् । तच्च क्षेत्रस्य पूर्वाङ्गं गाणेशस्य प्रकथ्यते ॥ ५९॥ ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् । निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥ ६०॥ तदेव शाङ्करं ब्रह्म सहजं सर्वसम्मतम् । मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥ ६१॥ स्वेच्छारूपा महामाया पार्वती कथिता बुधैः । इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥ ६२॥ तत्र मोहविहीनश्च शङ्करः कथ्यते परः । स्वाधीनः शैवभक्तेभ्यश्चतुर्थं ब्रह्म उच्यते ॥ ६३॥ तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् । द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥ ६४॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ ६५॥ तदेव गणराजस्य क्षेत्रं स्वानन्दवाचकम् । चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ ६६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ६.७

६.८ नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः । अधुना द्वारविस्तारं कथयामि समासतः ॥ १॥ पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ । ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥ २॥ ब्रह्माण्डे वैष्णवान्येव क्षेत्राणि विविधानि च । तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥ ३॥ लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु । लक्ष्मीवासकराण्येव प्रोक्तानि शास्त्रसम्मतम् ॥ ४॥ दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः । गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः ॥ ५॥ (Page खं. ६ अ. ८ पान १७) क्षेत्राणि यानि ब्रह्माण्डे स्वयं शैवानि शङ्करः । ससृजे च ततः शक्तिः शाक्तानि विविधानि वै ॥ ६॥ रतिकामौ ससृजतुः पश्चिमद्वारसंस्थितौ । प्रभावाद्विघ्नराजस्य क्षेत्राणि किल मायया ॥ ७॥ क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नतः । दिक्पालक्षेत्ररूपाणि सृष्टानि मदनेन तु ॥ ८॥ उत्तरद्वारसंस्थौ तौ महीवाराहकौ परौ । स्वक्षेत्राणि ससृजतुः परौ गणपमायया ॥ ९॥ संज्ञाक्षेत्राणि यावन्ति भूम्यां सृष्टानि तानि तु । सौराण्येवं वराहेण सृष्टानि विविधानि तु ॥ १०॥ परिवारयुता देवाः परं तेपुस्तपो महत् । क्षेत्रज्ञाः क्षेत्रसंयुक्ताः गणेशस्य महात्मनः ॥ ११॥ नानामन्त्रजपेनैव ध्यात्वा देवं गजाननम् । तोषयामासुरत्यन्तभक्त्या नित्यं विशेषतः ॥ १२॥ उपोषणयुतानि क्षेत्राणि ता देवतास्तथा । पूजयामासुरव्यग्राः क्षेत्रस्थं गणनायकम् ॥ १३॥ एवं वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तान् वरान् दातुं स क्षेत्रान् देवमुख्यकान् ॥ १४॥ तं दृष्ट्वा सहसोत्थाय प्रणेमुस्ते गजाननम् । पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ १५॥ सक्षेत्रा देवा ऊचुः । ब्रह्मणे विघ्नराजाय स्वानन्दस्थाय ते नमः । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ १६॥ गणेशाय नमस्तुभ्यं भुक्तिमुक्तिप्रदायिने । नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥ १७॥ सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे । गुणेशाय गुणानां तु चालकाय नमो नमः ॥ १८॥ परेशाय परेशेभ्यो मोहदाय गजानन । सर्वयोगमयायैव योगेशाय नमो नमः ॥ १९॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिप्रदात्रे ते नमश्चिन्तामणे नमः ॥ २०॥ पूर्वाङ्गे विष्णुरूपाय दक्षिणाङ्गे शिवात्मने । पश्चिमाङ्गे च मायायै रवये उत्तराङ्गके ॥ २१॥ चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा । नानाविधं तथा त्वां तु कश्च स्तोतुं क्षमो भवेत् ॥ २२॥ वयं धन्या वयं धन्या दृष्टवन्तो गजाननम् । ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं परम् ॥ २३॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गा गजानन । किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥ २४॥ एवं स्तुत्वा गणेशानं देवाः क्षेत्रसमन्विताः । प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥ २५॥ ततस्तान् प्रत्युवाचेदं वचनं गणनायकः । भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥ २६॥ श्रीगणेश उवाच । वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥ २७॥ स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् । स मत्प्रियो भवेद्देवाः श‍ृणुयाच्छ्रावयेत्तथा ॥ २८॥ भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् । पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥ २९॥ मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् । सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥ ३०॥ गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः । (Page खं. ६ अ. ८ पान १८) तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥ ३१॥ सक्षेत्रा देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥ ३२॥ किमर्थं तु वयं सर्वे सृष्टा वद गजानन । कार्यं ब्रूहि करिष्यामस्त्वदाज्ञावशभावतः ॥ ३३॥ स्वानन्दे वासकार्यार्थं देहि स्थानं महोदर । तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥ ३४॥ स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते । त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥ ३५॥ भृशुण्ड्युवाच । तेषां वचनमाकर्ण्य गणेशः करुणानिधिः । जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥ ३६॥ श्रीगणेश उवाच । धर्मार्थकाममोक्षान् वै ददतु क्षेत्रकाणि मे । वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥ ३७॥ धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा । कामदानि भवन्त्येव मोक्षदानि विभागशः ॥ ३८॥ कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु । कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि तु ॥ ३९॥ तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः । दर्शनेन भवन्त्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥ ४०॥ नामानि गणनाथश्च चकार विविधानि सः । काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥ ४१॥ पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः । क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥ ४२॥ पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानन्दरूपिणि । वासं कृत्वा सदा मां तु भजिष्यथ निरन्तरम् ॥ ४३॥ स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै । क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥ ४४॥ स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः । मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥ ४५॥ सर्वक्षेत्राणि ये भूम्यां करिष्यन्ति विधानतः । देवान् यथाविधि प्राज्ञा पूजयिष्यन्ति मानवाः ॥ ४६॥ तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः । ब्रह्मभूता भविष्यन्ति मत्क्षेत्रे मरणे सति ॥ ४७॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । क्षेत्राणि हर्षयुक्तानि संस्थितान्येव तत्र तु ॥ ४८॥ पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः । सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥ ४९॥ यथा गजाननः प्राह तथा सर्वे महेश्वराः । कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥ ५०॥ तत्र ते संस्थिता देवाः सक्षेत्रा ह्रस्वरूपकाः । स्वानन्दक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥ ५१॥ एतत् क्षेत्रामराणां वै चेष्टितं यः श‍ृणोति वा । पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ ६.८ (Page खं. ६ अ. ९ पान १९)

६.९ मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । द्वारेषु देवपाः सन्ति द्वारधारकभावतः । तेषां पूजनमार्गं तु वद विघ्नेश्वरस्य च ॥ १॥ भृशुण्ड्युवाच । क्षेत्रमध्ये गणेशानस्तिष्ठति सर्वदायकः । शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुधरः प्रभुः ॥ २॥ पृथूदरो विशालाक्षस्त्रिनेत्रः स्वस्तिकासनः । पाशाङ्कुशधरः सोऽपि दन्ताभयविराजितः ॥ ३॥ नाभिशेषो विचित्रैश्च भूषणैर्वस्त्रकादिभिः । नागयज्ञोपवीती तु शूर्पकर्णो विराजति ॥ ४॥ तस्य वामाङ्गभागे च सिद्धिः सर्वप्रदाऽमराः । द्विभुजा संस्थिता माया चामरव्यजनान्विता ॥ ५॥ दक्षिणाङ्गे तथा बुद्धिर्द्विहस्ता ज्ञानरूपिणी । सुगन्धवस्तुलेपार्थं संस्थिता सेवनोत्सुका ॥ ६॥ सम्मुखे मूषकस्तस्य मयूरश्च विराजति । प्रमोदाऽऽमोदकाद्याश्च गणाः पृष्ठे स्थितास्तथा ॥ ७॥ वैदिकेन च मार्गेण नमोंऽतेन प्रपूजयेत् । पौराणिकेन देवेशा गणेशं सर्वसिद्धिदम् ॥ ८॥ ततः पूर्वदिशायां स गत्वा द्वारसमास्थितम् । पूजयेद्गणनाथं तं सशक्तिपरिवारकम् ॥ ९॥ द्विभुजं गणनाथं तु वामभागे जगन्मयीम् । माञ्जारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुतः ॥ १०॥ तत्र ध्यानं समाख्यामि गजवक्त्रं गजाननम् । एकहस्ते धृतांऽभोजं द्वितीयाऽऽलिङ्गितप्रियम् ॥ ११॥ कपोलौ मदसंस्रावयुक्तौ भ्रमरसंयुतौ । सदानन्दमयं देवाश्चिन्तयेद्गणनायकम् ॥ १२॥ द्विभुजां शक्तिमुख्यां वै दक्षिणाऽऽलिङ्गितप्रियाम् । वामहस्तेन पद्मं सा बिभ्रतीं चिन्तयेद् हृदि ॥ १३॥ भक्ताभीष्टप्रदां पूर्णां सदानन्दसमन्विताम् । मायां संसारदुःखानां नाशिनीं भक्तिकारिणाम् ॥ १४॥ देवेशा ऊचुः । माञ्जारिका त्वया प्रोक्ता माया गणपतेः प्रिया । तस्याः स्वरूपगं ज्ञानं वद नो गुरुसत्तम ॥ १५॥ भृशुण्ड्युवाच । जारः सर्वत्र शब्दश्च व्यभिचार्यर्थवाचकः । सर्वेषु जारभावेषु मता नानार्थकारिणी ॥ १६॥ तेषु पुरुषरूपेण स्थित आत्मा सदैककः । तस्य जारादिकं नास्ति भ्रान्तिभावात्मकं कदा ॥ १७॥ तथापि देहसंस्थश्च माययात्मा प्रमोहितः । द्वन्द्वभावेषु देवेन्द्रास्तदाकारो बभूव ह ॥ १८॥ आत्मनो जारभावं तु दर्शयन्ति निरन्तरम् । मोहयित्वा क्रीडति तेन स्वयं शक्तिरुत्तमा ॥ १९॥ माञ्जारी सा समाख्याता मां प्रति जारदर्शिनी । गणपः क्रीडति द्वन्द्वविहारस्थः सदा तया ॥ २०॥ तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ । समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ ॥ २१॥ तेषां पूजनकं कार्यं यथाविधि सुरेश्वराः । तेन धर्मस्य भवति सम्प्राप्तिस्तस्य शाश्वती ॥ २२॥ विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकम् । देवेशास्तादृशं कार्यं तेन सिद्धिमवाप्स्यथ ॥ २३॥ मासे भाद्रपदे चैव शुक्लपक्षे विशेषतः । प्रतिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता ॥ २४॥ प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेत् । ततः स्नानं नरः कृत्वा द्वारदेवीं समर्चयेत् ॥ २५॥ पुनः स्नानं ततः कृत्वा गणेशं पूजयेत् स्वयम् । (Page खं. ६ अ. ९ पान २०) उपोषणयुतश्चैव सदा तिष्ठेत् स देवपाः ॥ २६॥ नियमस्थः स्वभावेन गणेशस्मरणादिकम् । कुर्यात्तद्वत् द्वितीयायां दक्षिणद्वारमर्चयेत् ॥ २७॥ तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः । माया च द्विभुजा प्रोक्ता पूर्ववत् ध्यानगावुभौ ॥ २८॥ विरजा नाम विख्याता शक्तिस्तत्र महेश्वराः । तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदम् ॥ २९॥ त्रिविधं तु रूजोरूपं मलिनं सर्वगं बभौ । तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते ॥ ३०॥ गणेशसंयुता देवी तन्मयी विरजा परा । तयोर्मानसिकौ पुत्रौ पार्वतीशङ्करौ मतौ ॥ ३१॥ तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः । तया सर्वार्थसंसिद्धिर्लभ्यते नात्र संशयः ॥ ३२॥ तृतीयायां ततो वै स पश्चिमद्वारदेवताम् । पूजयेद्विधिसंयुक्त उपोषणपरायणः ॥ ३३॥ देवीगणेश्वरौ तत्र पूर्वं ध्यानात्मकौ स्थितौ । आश्रया नाम शक्तिः सा सर्वाश्रयधरा बभौ ॥ ३४॥ तयोर्मानसिकौ पुत्रौ रतिकामौ प्रकीर्तितौ । तेषां पूजां प्रकुर्यात् स तेन कामान् लभेन्नरः ॥ ३५॥ ततश्चतुर्थिकायां स गच्छेदुत्तरगां पराम् । द्वारशक्तिं महादेवा भुक्तिमुक्तिसमन्विताम् ॥ ३६॥ देव्या गणेश्वरस्यात्र ध्यानं पूर्ववदुच्यते । तयोर्मानसिकौ पुत्रौ महीवराहकौ मतौ ॥ ३७॥ तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन च । तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः ॥ ३८॥ चतुर्थ्यां गणनाथं स पूजयेद्विधिसंयुतः । मध्याह्नसमये देवा उपोषणपरायणाः ॥ ३९॥ रात्रौ जागरणं कुर्यात् पञ्चम्यां पारणं चरेत् । द्विजैः सह नरः साक्षाच्चतुर्विधफलं लभेत् ॥ ४०॥ एवं माघे शुक्लपक्षे द्वारयात्रां समाचरेत् । ज्येष्ठे मासि तथा देवा वार्षिकं त्रिविधं स्मृतम् ॥ ४१॥ अथवा प्रतिमासेषु शुक्लपक्षे समाचरेत् । द्वारयात्रामथो नित्यं नरः सर्वार्थसिद्धिभाक् ॥ ४२॥ अथवा गणराजस्य यात्रार्थं यः समागतः । तस्मिन् काले चरेद्यात्रां द्वारभूतां महेश्वराः ॥ ४३॥ न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि । चतुर्भिर्दिवसैर्जन्तुः कुर्याद्यात्रां विधानतः ॥ ४४॥ अन्यच्च सम्प्रवक्ष्यामि द्वारयात्रामयं विधिम् । देहसामर्थ्ययुक्तानां चतुर्विधफलप्रदम् ॥ ४५॥ शुक्ला चतुर्थिका प्रोक्ता तस्यां द्वारमयीं चरेत् । यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यतः ॥ ४६॥ सूर्योदयात् समारभ्य पूजां स्वल्पां समाचरेत् । यावन्नास्तगतो भानुस्तावन्मध्ये समापयेत् ॥ ४७॥ किञ्चिद्दिवसशेषे स गणनाथस्य पूजनम् । विधियुक्तं नरो भक्त्या कुर्यात्तस्मिन् दिने स्वयम् ॥ ४८॥ अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः । तत्रैकदिवसे यात्रां प्रकुर्याच्छक्तिभावतः ॥ ४९॥ वृद्धानां रोगयुक्तानां नियमो नैव विद्यते । बालानां स्वेच्छया तत्र यात्रा प्रोक्ता मनीषिभिः ॥ ५०॥ अथवा ब्राह्मणेनैव नरो यात्रां समाचरेत् । द्वाररूपां स्वयं तत्र वाहनस्थो गतिं चरेत् ॥ ५१॥ (Page खं. ६ अ. १० पान २१) शक्त्याः प्रमाणभावेन पूजयेत् द्वारसंयुतम् । गणेशं विधिसंयुक्तश्चतुर्विधफलं लभेत् ॥ ५२॥ गणेशं द्वारसंयुक्तं यो नरः पूजयेत् कदा । यत्र तत्र गतश्चाऽसौ धर्मकामार्थमोक्षभाक् ॥ ५३॥ न तस्य मरणे देवा या मतिः सा गतिर्भवेत् । न भूम्यादिविकारश्च नीचोच्चो नैव विद्यते ॥ ५४॥ एतत् द्वारस्य माहात्म्यं यः श‍ृणोति नरोत्तमः । स वै संस्कारयोगेन भुक्तिं मुक्तिं लभेत् पराम् ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ॥ ६.९

६.१० द्वाररहस्यवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ पञ्चदेवा ऊचुः । क्षेत्रस्य मानसम्भूतं माहात्म्यं वद विस्तरात् । कियन्मानं समाख्यातं क्षेत्रं स्वानन्दवाचकम् ॥ १॥ अन्यच्च वद योगीन्द्र धर्मकामार्थमोक्षगान् । अर्थान् येनैव तेषां स ज्ञानयुक्तो भवेन्नरः ॥ २॥ पूर्वस्थे तु कथं द्वारे धर्म एकः प्रतिष्ठति । तथाऽर्थो दक्षिणद्वारि पश्चिमे काम एव च ॥ ३॥ उत्तरद्वारसंस्था तु कथं मुक्तिर्महामुने । चतुर्ब्रह्मसु चत्वारि विभक्तानि कथं वद ॥ ४॥ आदौ शाक्तं साधयित्वा पश्चात् सौरं लभेन्नरः । ततो वैष्णवकं बह्म ततः शैवं समाधिना ॥ ६॥ ततो गाणेश्वरं ब्रह्म प्रलभेन्नात्र संशयः । क्रमेण योगभूमिस्थो ब्रह्मभूतो नरो भवेत् ॥ ६॥ अन्नादौ वैष्णवं ब्रह्म द्वारभूतं नरोत्तमः । यात्रामार्गेण विप्रेश साधयेत् कथितं त्वया ॥ ७॥ ततः शैवं ततः शाक्तं ततः सौरं विधानतः । विपरीतं कथं प्रोक्तं वद कारणमत्र तु ॥ ८॥ शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेत् । अकस्माद् भ्रान्तभावेन भ्रष्टो भवति मानवः ॥ ९॥ शक्तिरुवाच । एवं पृष्टो महायोगी भृशुण्डी परमार्थवित् । जगाद तान् महादेवान् तच्छृणुध्वं तु शक्तयः ॥ १०॥ भृशुण्ड्युवाच । धर्मः स्वधर्मरूपश्च सर्वसिद्धिप्रदायकः । अर्थः समर्थरूपाख्यो ज्ञातव्यः सर्वदायकः ॥ ११॥ कामः शरीरभोगाख्यो हृद्यः सौख्यप्रदायकः । मुक्तिश्चतुः शरीरेभ्यो हीनत्वे परिकीर्तिता ॥ १२॥ धर्मः सर्वसमानाख्यो यथा भवति सर्वदा । कर्मानुसारभावेन फलं नित्यं ददाति सः ॥ १३॥ स्वं परं नैव देवेशाः कदा धर्मस्य वर्तते । शुभाशुभं कृतं येन तादृशं स फलं लभेत् ॥ १४॥ (Page खं. ६ अ. १० पान २२) समानं वैष्णवं ब्रह्म तेन धर्मः स्थितोऽभवत् । पूर्वद्वारे महाभागाः सर्वधर्मप्रकाशकाः ॥ १५॥ आदौ स्वधर्मनिष्ठश्चेत्ततः सर्वं नरोत्तमः । लभते नात्र सन्देहः कारणं धर्म एव च ॥ १६॥ विष्णोरङ्गमयो धर्मो विष्णुद्वारे समाश्रितः । अतः प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् ॥ १७॥ अर्थः समर्थरूपाख्य ईश्वरान्न परोत्तमः । समर्थस्तेन देवेन्द्रा अर्थस्तत्र समाश्रितः ॥ १८॥ समर्थभावेन यदि केऽपि तिष्ठन्ति देवताः । ते सर्वे तत्कलांशाश्च ज्ञातव्या नाऽत्र संशयः ॥ १९॥ ईश्वरः सर्वशास्त्रेषु शिव एकः प्रकीर्तितः । अर्थः शिवाङ्गात् सम्भूतस्तेन तं संश्रितोऽभवत् ॥ २०॥ धर्मं कृत्वा समर्थश्च भवते मानवोत्तमः । सर्वकार्येषु देवेन्द्राः क्रम एवं प्रकीर्तितः ॥ २१॥ द्वितीयाश्रितयात्रातो दक्षिणद्वारसम्भवा । कथिता सर्वभावज्ञैर्नरेभ्यः सर्वसिद्धये ॥ २२॥ कामो भोगात्मकः प्रोक्तो देहाय विषयप्रदः । विषयानां समाख्यातं कारणं शक्तिरञ्जसा ॥ २३॥ शक्तेरङ्गात् समुद्भूतः कामस्तेन महेश्वराः । तामाश्रित्य स्थितः सोऽपि सर्वकामविवर्धनः ॥ २४॥ आदौ धर्मं समाश्रित्य समर्थो जायते नरः । ततः कामान् स्वयं भुङ्क्ते सर्वान्नानासुखप्रदान् ॥ २५॥ तृतीयं द्वारमेतस्मात् कामभोगफलप्रदम् । कृतं यात्राविधाने तु ज्ञातव्यं विबुधैः सदा ॥ २६॥ मोक्षो जन्ममृतिभ्यां च हीनः सङ्कीर्तितो बुधैः । शुक्लां गतिं ददत्तत्र सूर्यस्तिष्ठति नित्यदा ॥ २७॥ आत्मा सूर्य इति प्रोक्तं तस्मान् मोक्षः प्रलभ्यते । तेन सूर्यं समाश्रित्य मोक्षस्तत्रैव तिष्ठति ॥ २८॥ कामेभ्यो धर्मसंयुक्तस्तृप्तो भवति मानवः । इच्छेन् मुक्तिं ततो यत्नाद्वितृष्णो देवसत्तमाः ॥ २९॥ वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते । अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् ॥ ३०॥ एतद् द्वारस्य देवेशा रहस्यं कथितं मया । श्रवणात् सौख्यदं पूर्णं भवेत पठनात्तथा ॥ ३१॥ एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितम् । वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ॥ ३२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्ग्ले महापुराणे षष्ठे खण्डे विकटचरिते द्वाररहस्यवर्णनं नाम दशमोऽध्यायः ॥ ६.१० (Page खं. ६ अ. ११ पान २३)

६.११ क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् । ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥ १॥ गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् । द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥ २॥ दक्षिणस्यां गणेशानाद् द्विगुणं द्वारमुत्तमम् । पूर्वद्वाराच्च सम्प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ ३॥ ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् । द्विगुणं दक्षिणाङ्गात्तु किञ्चिन्न्यूनं बुधैः पुरा ॥ ४॥ गणेशादुत्तरे भागे परं द्वारं च संस्थितम् । पश्चिमात् पादहीनं तदधिकं किञ्चिदञ्जसा ॥ ५॥ एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः । नवखण्डाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥ ६॥ क्षेत्राणि प्रलयेषु श्रेष्ठानि दैवतसत्तमाः । प्रगच्छन्ति लयं नैव रक्षितानि स्वदैवतैः ॥ ७॥ महाप्रलयवेलयां तत्त्वानि त्रिगुणैः सह । लयं गच्छन्ति वेगेन कालस्य परमात्मनः ॥ ८॥ तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च । लयं गच्छन्ति देवेशा निश्चितं योगिभिः पुरा ॥ ९॥ महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् । नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥ १०॥ देवेशा ऊचुः । क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः । कथं नाशविहीनं तद्वद योगीन्द्रसत्तम ॥ ११॥ स्वानन्दः सर्वसंयोगे जायते नाऽत्र संशयः । क्षेत्रस्याख्या कथं प्राप्ता स्वानन्दस्य वद प्रभो ॥ १२॥ भृशुण्ड्युवाच । क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न विद्यते । ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥ १३॥ यथा स्वानन्दरूपश्च स्वसंवेद्यात्मकः स्मृतः । तथा स्वानन्दक्षेत्रं तु ब्रह्माकारं प्रकीर्तितम् ॥ १४॥ देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् । तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥ १५॥ भ्रान्तिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह । भ्रान्तिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥ १६॥ सङ्गहीनतया सर्वं स्त्रीपुम्भावसुखं स्मृतम् । गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥ १७॥ बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो । क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥ १८॥ यत्किञ्चिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् । लोकादिकं मुनीन्द्रैश्च ब्रह्मणस्पतिरुच्यते ॥ १९॥ गणेशक्षेत्रसम्भूतानि क्षेत्राणि समन्ततः । तत्रैव मरणे देवाः फलदानि भवन्ति च ॥ २०॥ धर्मार्थकाममोक्षाणां प्रदानि कथितानि तु । गाणेशं पञ्चमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥ २१॥ ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः । संस्थितास्तत्र लभ्यन्ते यात्राकारिजनैः पराः ॥ २२॥ क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् । नरः सद्यस्तु संस्काराद्ब्रह्मभूतो न संशयः ॥ २३॥ सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् । साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥ २४॥ कमलमस्तकस्थत्वात् पश्चादासुरकं स्मृतम् । तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥ २५॥ यदैकद्वारयात्रां यः करोति च चतुर्षु सः । (Page खं. ६ अ. ११ पान २४) आप्नुयात्तद्भवं सौख्यं मानवो यत्र कुत्रगः ॥ २६॥ यस्मात् कस्मात् समायातः सकृद्यात्रां समाचरेत् । क्षेत्रस्य च गणेशस्य द्वारगां सर्वमाप्नुयात् ॥ २७॥ यो नित्यं द्वारयात्रां स क्षेत्रसंस्थः समाचरेत् । वन्द्यः क्षेत्रस्थलोकानामन्ते ब्रह्ममयो भवेत् ॥ २८॥ ब्रह्माण्डे न समं किञ्चिद्गणेशक्षेत्रकेण तु । चतुर्भिर्वर्जितं प्रोक्तं पञ्चमं तच्चतुर्मयम् ॥ २९॥ बुधैर्गणेश्वरक्षेत्रं त्रिविधं परिकीर्तितम् । बाह्यान्तरादिभेदैश्च श‍ृणुत देवनायकाः ॥ ३०॥ गर्भागारं गणेशस्य वासगं योजनार्धकम् । बभुर्गणपतेश्चैवावतारास्तत्र संस्थिताः ॥ ३१॥ गाणेशा मुद्गलाद्या ये तत्र ते संस्थिता बभुः । सेवार्थं गणराजस्यान्ये जना भवनागताः ॥ ३२॥ तदेव चतुरस्रं तु चतुर्द्वारसुशोभितम् । भक्तेभ्यः सिद्धिदं पूर्णं मनोरथसुपूरकम् ॥ ३३॥ गणेशात् पूर्वदिग्भागे धनुषां च शतानि तु । षट्किञ्चिन्न्यूनमानानि द्वारं सर्वार्थदं मतम् ॥ ३४॥ तत्र बुद्धिः स्थिता साक्षाद्विद्याभिः सेविता स्वयम् । कलाभिः पूजयित्वा तां ज्ञानवान् पुरुषो भवेत् ॥ ३५॥ गणेशाद्दक्षिणे भागे द्विगुणं दूरगं भवेत् । पूर्वद्वाराद्दक्षिणगं द्वारं गर्भाश्रितं महत् ॥ ३६॥ तत्र प्रमोदकाद्याश्च गणा ब्रह्मसुखे रताः । संस्थिताः पूजनेनैव गाणपत्यपदप्रदाः ॥ ३७॥ गणेशात् पश्चिमे भागे द्वारं गर्भगृहस्य च । द्विगुणं दक्षिणद्वाराद् दूरगं परिकीर्तितम् ॥ ३८॥ तत्र सिद्धिः स्वयं देवाः संस्थिता पूजनेन तु । नाना सिद्धिसमायुक्ता नाना सिद्धिप्रदायिनी ॥ ३९॥ पादन्यूनेन मानेन पश्चिमद्वारतस्तथा । उत्तरद्वारमाख्यातं गणेशसम्मुखे बुधैः ॥ ४०॥ तत्र देव्यश्चतुःषष्टिर्योगिन्यः संस्थिता बभुः । परिवारयुताः सर्वा योगसिद्धाश्च मातरः ॥ ४१॥ तासां पूजनमात्रेण योगं विद्यात् स मानवः । अन्तर्धानादिकं नाना कामदं नात्र संशयः ॥ ४२॥ गर्भागारस्य यात्रां यो नित्यं कुर्यान्नरोत्तमः । अथवा तु चतुर्थ्यां वै सर्वकामार्थसिद्धये ॥ ४३॥ यात्रार्थं मानवो देवाः समागतो भवेद्यदा । तदा कुर्यादथो भक्त्या यात्रां गर्भगृहस्य च ॥ ४४॥ गर्भागारात् परं क्षेत्रं देवालयमिति श्रुतम् । तत्र देवादयः सन्ति स्वर्गस्थाः सेवनोत्सुकाः ॥ ४५॥ त्रियोजनप्रमाणेन चतुरस्रं च तन्मतम् । द्वाराणि तस्य चत्वारि कथयामि समासतः ॥ ४६॥ गणेशात् पूर्वदिग्भागे किञ्चिन्न्यूनानि दूरतः । शतानि पूर्वद्वारं तु धनुषां हि चतुर्दश ॥ ४७॥ तत्र भैरवराजेन्द्रो नग्नः सर्वभयङ्करः । त्रिशूली मुक्तकेशश्चातिष्ठत् स्वतेजसान्वितः ॥ ४८॥ तस्य पूजनमात्रेण वाञ्छितं लभते नराः । यातनां न लभेत् सोऽपि नानाकर्मसमुद्भवाम् ॥ ४९॥ तस्माद् द्विगुणमानेन गणेशाद् दूरतः शिवः । नीलकण्ठश्च देवेशा दक्षिणद्वारपोऽभवत् ॥ ५०॥ तस्य पूजां प्रकुर्याद्यस्तया बन्धनतो नरः । मुच्यते नात्र सन्देहो विषबाधाविवर्जितः ॥ ५१॥ (Page खं. ६ अ. १२ पान २५) पश्चिमे विघ्नराजात्तु दक्षिणाद् द्विगुणे स्थितः । दूरे यः कृत्तिवासाः स द्वारदेवः प्रकीर्तितः ॥ ५२॥ तस्य पूजनमात्रेणाऽऽसुरं कर्म विनश्यति । ईप्सितं लभते चापि यात्रामात्रेण मानवः ॥ ५३॥ उत्तरे गणनाथाद्वै पश्चिमात् पादहीनतः । द्वाराद् द्वारं स्थितं देवास्तत्र भीमेश्वरः स्थितः ॥ ५४॥ तस्य यात्रां प्रकुर्याद्यः सद्यः सत्तासमन्वितः । भवेत् स मानवश्चारोग्यं लभेत निरन्तरम् ॥ ५५॥ तृतीयक्षेत्ररूपं तु कथितं विस्तरान् मया । चतुर्द्वारयुतं पुण्यं मयूरं तन्मतं परम् ॥ ५६॥ क्षेत्रात् सर्वत्र देवेशा योजनं चतुरस्रगम् । देवक्षेत्रं समाख्यातं चतुर्विधपदप्रदम् ॥ ५७॥ क्षेत्रात् पूर्वविभागस्थो नरो गच्छेन् मृतः स्वयम् । विकुण्ठे नात्र सन्देहस्तत् क्षेत्रं वैष्णवं यतः ॥ ५८॥ दक्षिणे क्षेत्ररूपात्तु मृतो योजनमध्यगः । स कैलासे वसेन्नूनं शैवं क्षेत्रं यतः स्मृतम् ॥ ५९॥ मयूरात् पश्चिमे क्षेत्राद्योजनस्थो मृतो भवेत् । शक्तिलोकं वसेत् सोऽपि शाक्तं क्षेत्रं च तत् स्मृतम् ॥ ६०॥ मयूरादुत्तरे देवा यो मृतो योजनस्थितः । स सौरे संवसेन्नित्यं सूर्यक्षेत्रं यतः स्मृतम् ॥ ६१॥ एवं क्षेत्रस्य माहात्म्यं प्रमाणसहितं मया । कथितं श्रवणाच्चैव पठनात् पापहारकम् ॥ ६२॥ तत्र गत्वा महेशाना पूजयेत गजाननम् । स्थापयित्वाऽचलां मूर्तिं सिद्धिं प्राप्स्यथ निश्चितम् ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः ॥ ६.११

६.१२ मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । पुरा कल्पे महाभाग मयूरे द्वारसंश्रिताम् । यात्रां कृत्वा नराः सिद्धिमलभंस्तद्वदस्व नः ॥ १॥ देवभूमौ मृता ये वै तेषां सिद्धिं वदस्व च । एकद्वाराश्रितां यात्रां कृत्वा के सिद्धिमाप्नुयुः ॥ २॥ श्रुत्वा कथां महारम्यां हर्षश्चेतसि वर्धते । सर्वज्ञोऽसि न सन्देह आदिमध्यान्तगस्तथा ॥ ३॥ भृशुण्ड्युवाच । पुरा जातां कथां रम्यां श‍ृणुध्वं देवसत्तमाः । स्वगुरुं मुद्गलं नत्वा कथयामि समासतः ॥ ४॥ द्राविडे ब्राह्मणः कश्चिद्विद्याहीनो बभूव ह । तत्रैवान्त्यजजातिस्थो नरो मूढस्तथाऽभवत् ॥ ५॥ माता पिता तस्य हीनौ तथा त्यक्तौ सुहृज्जनैः । त्यक्त्वा स्वदेशभूमिं बभ्रमतुस्तौ महीतलम् ॥ ६॥ प्रसङ्गात्तु जनानां तौ मयूरे दैवयोगतः । समागतौ जनैर्युक्तौ तस्थतुस्तत्र हर्षतः ॥ ७॥ स्नात्वा प्रभातकाले तौ शमीदूर्वादलं तथा । (Page खं. ६ अ. १२ पान २६) गृह्य विघ्नेशपूजार्थं जग्मतुः स्नेहभावतः ॥ ८॥ अन्त्यजेन स्वकीया च प्रदत्ता ब्राह्मणाय तु । पूजा दूर्वादिसंयुक्ता गणेशार्थं स्वधर्मतः ॥ ९॥ ब्राह्मणो गणराजं तं पूजयामास भावतः । विधिमन्त्रैर्विहीनस्तु जलपत्रादिभिः परम् ॥ १०॥ ततस्तौ जनसङ्घातैर्जग्मतुर्देवसत्तमाः । गर्भागारद्वारसंस्थां यात्रां चक्रतुरादरात् ॥ ११॥ पूर्वद्वारे समागम्य बुद्धिं सम्पूज्य तं पुनः । गणेशं पूजयित्वा तौ तस्थतुस्तत्र देवपाः ॥ १२॥ उपोषणसमायुक्तौ विधानेन बभूवतुः । द्वितीये दिवसे यात्रां क्षुधितौ तौ न चक्रतुः ॥ १३॥ यात्रां त्यक्त्वा गतौ हर्षात्त्यक्त्वा क्षेत्रं महाद्भुतम् । अकस्मात् ज्ञानसंयुक्तौ विद्यायुक्तौ बभूवतुः ॥ १४॥ जातिस्मरौ विशेषेण विचारं चक्रतुः परम् । अहो वर्णयितुं क्षेत्रमाहात्म्यं न प्रशक्यते ॥ १५॥ एकद्वारस्य यात्रा तु कृताऽऽवाभ्यां ततः परम् । ज्ञानं विद्यायुतं प्राप्तं सम्पूर्णां किं स्तुवः कृताम् ॥ १६॥ ततः स्वनगरं गत्वा सर्वमान्यौ बभूवतुः । तेन संस्कारयोगेन गणेशभजने रतौ ॥ १७॥ भक्तेर्बलेन तौ देवा अन्ते स्वानन्दलोकगौ । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतौ बभूवतुः ॥ १८॥ एवं नाना जना द्वारसिद्धिं तत्र प्रलेभिरे । न मया वर्णनं शक्यमन्यैर्वर्षशतैरपि ॥ १९॥ अन्यद्वारेषु सर्वेषु यथोक्तफलभोगिनः । न सन्देहो बभूवुः कथयितुं नैव शक्यते ॥ २०॥ मयूरे ये मृताः क्षेत्रे तेषां सिद्धिं वदाम्यहम् । देवमुख्याश्च श‍ृणुत सर्वसन्तोषवर्धिनीम् ॥ २१॥ पुरा शूद्रः समायातः कश्चिद्दैववशेन तु । कुष्ठरोगसमायुक्तो मयूरे धूम्रनामकः ॥ २२॥ तत्रोच्छिष्टादिकं भुञ्जन् भिक्षायां निरतोऽभवत् । मासमध्ये मृतः सोऽपि भृशं रोगेण पीडितः ॥ २३॥ स स्वानन्दं समाश्रित्य ब्रह्मभूतो बभूव ह । एवं नाना जनाः क्षेत्रे ब्रह्मभूता मयूरके ॥ २४॥ तेषां न शक्यते वक्तुं चरित्रं देवसत्तमाः । यथोक्तफलभोक्तारो बभूवुर्नात्र संशयः ॥ २५॥ तत्र क्षेत्रस्थिता देवा नराः पापपरायणाः । मृता क्षेत्रे यदा तेषां भयं यमकृतं न हि ॥ २६॥ नग्नभैरवनामाऽसौ कथितः क्षेत्रपालकः । दण्डधारक एवं तु सदा मायूरवासिनाम् ॥ २७॥ तस्याधीनं समग्रं तु क्षेत्रं वैनायकं परम् । शुद्धं कृत्वा नरं दण्ड्यं स्वानन्दे स्थापकोऽभवत् ॥ २८॥ देवेशा ऊचुः । कोऽसौ नग्नस्वरूपेण भैरवः सर्वभैरवः । कीदृशी यातना विप्र मयूरे पापकारिणाम् ॥ २९॥ भृशुण्ड्युवाच । मायासङ्गविहीनोऽयं सदा साक्षिवदुच्यते । तेन नग्न इति ख्यातो गाणपत्याग्रणीः परः ॥ ३०॥ यस्माद्भीतानि तत्त्वानि जगत् संवर्तयन्ति तु । ब्रह्मा सृष्टिकरो देवा विष्णुः पाता च तद्भयात् ॥ ३१॥ हरः संहारकारी च सूर्यस्तपति नित्यदा । सम्मोहधारिणी शक्तिः सदा भवति तद्भयात् ॥ ३२॥ इत्यादि सकलं तस्माद्भीतं स्वस्वपदे स्थितम् । स्वस्वकर्मकरं प्रोक्तं तेन भैरवकः स्मृतः ॥ ३३॥ मायया गणराजेन सृष्टः सर्वार्थदायकः । (Page खं. ६ अ. १२ पान २७) गाणेशानां न सन्देह इतरेषां भयङ्करः ॥ ३४॥ गर्भागारं गणेशस्य रहस्यं रूपमुच्यते । अतस्तत्रैव देवेशाः स्थातव्यं यत्नतः सदा ॥ ३५॥ तत्र पूजादिकं कार्यं सत्कर्मादिकमुत्तमम् । न तत्रानृतकामादिकर्तव्यं मानवेन च ॥ ३६॥ न च मूत्रमलत्यागः कर्तव्यस्तत्र देवपाः । सदा गाणेशभावेन स्थातव्यं मानवैः सदा ॥ ३७॥ क्षेत्रे पुण्यं यथा प्रोक्तमधिकं ह्यन्यदेशतः । तथा तत्र कृतं पापमधिकं भवतीत्यहो ॥ ३८॥ अतः क्षेत्रेषु पापानि नाचरेत्तु नरोत्तमः । यथाशास्त्रं विधानेन पुण्यं तेषु समाचरेत् ॥ ३९॥ अन्यक्षेत्रेषु पापं यत् कृतं नश्यति तत्क्षणात् । क्षेत्रेषु पञ्चदेवानां ब्रह्मादिपदगेषु वै ॥ ४०॥ नरैस्तेषु कृतं पापं मयूरे नश्यति क्षणात् । मयूरे यत् कृतं पापं वज्रलेपं तु तत् स्मृतम् ॥ ४१॥ विधिं तत्र प्रवक्ष्यामि श‍ृणुत देवसत्तमाः । येन संशयहीनाश्च भविष्यथ विचारतः ॥ ४२॥ मयूरे यत् कृतं पापं देवालये विनश्यति । देवालये कृतं चैतद्गर्भागारे लयं व्रजेत् ॥ ४३॥ गर्भागारे कृतं पापं द्वारयात्राबलेन च । नश्यत्यत्र न सन्देहः प्रदक्षिणविधानतः ॥ ४४॥ द्वारयात्राकृतं पापं वज्रलेपमयं भवेत् । तदेव यातनां दत्त्वा नरस्य नाशमेष्यति ॥ ४५॥ यदा जन्मादि प्रारभ्य मरणान्तं समाचरेत् । पापं मयूरक्षेत्रे स यातनां प्रलभेन्नरः ॥ ४६॥ दशवर्षसहस्राणि नग्नभैरवनायकः । भैरवीं यातनां दत्त्वा शुद्धं करोति मानवम् ॥ ४७॥ यातना त्रिविधा तस्य भैरवस्य महात्मनः । कथयामि समासेन तां श‍ृणुध्वं महेश्वराः ॥ ४८॥ अग्निकुण्डादिकं तत्र संस्थितं भैरवस्थले । याम्याल्लक्षाधिकं प्रोक्तमुग्रं वक्तुं न शक्यते ॥ ४९॥ आदावेव स तां दत्त्वा पश्चाद यमसमां प्रभुः । ददाति यातनां घोरां भैरवो भयदायकः ॥ ५०॥ ततो भूतपिशाचादि सम्भूतां प्रददाति सः । ततः शुद्धं नरं कृत्वा स्वानन्दे स्थापयिष्यति ॥ ५१॥ चत्वारिंशत्सहस्राणि भैरवीं यातनां स्वयम् । ददाति तु ततो याम्यां त्रीणि साहस्त्रकाणि हि ॥ ५२॥ ततस्त्रीणि सहस्राणि पैशाचीयोनिसम्भवाम् । ददाति क्रोधसंयुक्तो नग्नः शूलधरः प्रभुः ॥ ५३॥ एवं सर्वं समाख्यातं यातनाजं महद्भयम् । यथा मयूरक्षेत्रस्थो नरो विन्द्यान् मृतः परम् ॥ ५४॥ पापरूपा नरा ये वै गाणेशे संस्थिताः खलाः । तान् स्वयं भैरवाधीशो बहिः कुर्याद्भयप्रदः ॥ ५५॥ पुण्यशीलान् हृदिस्थश्च समानाय्य महेश्वराः । भैरवः क्षेत्रगान् कृत्वा रक्षेद्वै नित्यमादरात् ॥ ५६॥ मयूरक्षेत्रसंस्था ये क्षेत्रसंन्यासधारकाः । न तेषां दुःखलेशश्च भवेद्देवेन्द्रसत्तमाः ॥ ५७॥ लक्ष्म्या नारायणस्तान् वै धर्मयुक्तान् करोति सः । पार्वत्या शङ्करस्तद्वन्नानार्थान् सन्ददाति वै ॥ ५८॥ रत्या कामः स्वयं तेभ्यो नाना कामान् ददाति हि । भूम्या वराहकश्चैव ज्ञानं ददाति शाश्वतम् ॥ ५९॥ अतः सर्वं परित्यज्य मयूरं तत् समाश्रयेत् । सुहृद्भिस्तं तु देवेशा ब्रह्मभूतं वदन्ति हि ॥ ६०॥ नानायोनिगतो जन्तुस्तत्र स्त्रीपुत्रसंयुतः । देहपोषणसक्तश्च बभूवे देवसत्तमाः ॥ ६१॥ नरदेहं समाश्रित्य गाणेशक्षेत्रगो यदि । न भवेत् स सदा ज्ञेयो रासभैस्तुल्यभावगः ॥ ६२॥ पञ्चमं ब्रह्मरूपं यत्तदेव भूमिगं मतम् । क्षेत्ररूपेण तद्ये वै न सेवन्ते समाः पशोः ॥ ६३॥ स्वर्गेषु देवमुख्याश्चेच्छन्ति मानवदेहकम् । गत्वा मयूरक्षेत्रे तु मरिष्यामः सुभाग्यतः ॥ ६४॥ तत्रैव मरणे ब्रह्म प्राप्यते पञ्चमं परम् । धर्मार्थकाममोक्षास्तु यदिच्छन्ति परात्परम् ॥ ६५॥ काश्यादिक्षेत्रमुख्येषु यत्कृतं सुकृतं नरैः । तेन संस्कारयोगेन मयूरं लभ्यते परम् ॥ ६६॥ इति सर्वं समाख्यातं वासरूपं विशेषतः । पठनाच्छ्रवणान्नित्यं क्षेत्रवासफलप्रदम् ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः ॥ ६.१२

६.१३ मयूरेशनामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । कथं गणेशक्षेत्रस्य नाम जातं मयूरकम् । एतत् कौतूहलं ब्रूहि भृशुण्डिन् परमार्थद ॥ १॥ भृशुण्ड्युवाच । पुरा कल्पे महेशाना भवद्भिस्तत्र विघ्नपः । आराधितः स वै साक्षाद्वरदस्तान् समाययौ ॥ २॥ मयूरवाहनो भूत्वा दशहस्तो दशायुधः । लम्बोदरो गजमुखः प्रसन्नात्मा महेश्वरः ॥ ३॥ उवाच तान् वृणुध्वं मे वरांश्च मनसीप्सितान् । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रादिना परान् ॥ ४॥ तैर्मानसेप्सितं सर्वं वृत्तं तस्माद्गजाननात् । पुनस्तं ते गणाध्यक्षमूचुः प्राञ्जलयोऽमराः ॥ ५॥ मूषको वाहनं तेऽभून् मयूरध्वज चाधुना । मयूरारूढ एव त्वमागतोऽसि गजानन ॥ ६॥ अस्मिन् क्षेत्रे मयूरस्थो दृष्टस्त्वं गणनायक । अतो मयूरजन्माख्यं क्षेत्रं जातं त्वया कृतम् ॥ ७॥ अद्य प्रभृतिरेतत्तु क्षेत्रं मायूरनामकम् । भवेत्तत् सर्वविख्यातं त्वत्प्रसादाद्गजानन ॥ ८॥ मयूरक्षेत्रनाथस्त्वं मयूरेशो भव प्रभो । नाम्ना सर्वत्र विख्यातो भक्तानुग्रहकारकः ॥ ९॥ तथेति तानुवाचाथ गणेशोंऽतर्दधे स्वयम् । देवेशा अभवन्नत्वा स्वस्वकार्यपरायणाः ॥ १०॥ एतद्वः सर्वमाख्यातं कारणं नामधारणे । क्षेत्रस्य क्षेत्रनाथस्यान्यच्छृणुध्वं महेश्वराः ॥ ११॥ चित्राकारा महामाया ह्यनन्तखेलकारिणी । मयूरा सा समाख्याता मयूरेशस्तु तत्पतिः ॥ १२॥ चतुर्ब्रह्ममयं क्षेत्रं मायारूपं मयूरकम् । विहारतस्तत्र देवा मयूरेशः प्रकीर्तितः ॥ १३॥ (Page खं. ६ अ. १३ पान २९) देवेशा ऊचुः । चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् । कथं दशभुजः सोऽपि बभूव वद योगिप ॥ १४॥ भृशुण्ड्युवाच । भूस्वानन्दमयं क्षेत्रमेकं सर्वादिसम्मतम् । गाणेशं तत्र देवेशा न चित्रं किञ्चिदञ्जसा ॥ १५॥ एकाक्षरभवं ध्यानं प्रथमं परिकीर्तितम् । सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥ १६॥ सप्तकोट्यो महामन्त्रा गणेशस्य महात्मनः । सर्वे मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥ १७॥ अनन्तरूपधारी स हिताय गणपोऽभवत् । लोकानां तानि सर्वाणि मयूरे सम्भवन्ति हि ॥ १८॥ मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् । नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥ १९॥ अतः सर्वाणि रूपाणि गाणेशानि विशेषतः । मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥ २०॥ शक्तिरुवाच । भृशुण्डिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ २१॥ ब्रह्माद्या ऊचुः । दण्डकारण्यदेशे तु गणेशस्य महात्मनः । क्षेत्रं मुख्यं कथं जातं तन्नो वद महामुने ॥ २२॥ भृशुण्ड्युवाच । स्वस्वकर्मकृतं देवास्तस्य दण्डः प्रकीर्तितः । शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य एव च ॥ २३॥ दण्डानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् । शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥ २४॥ ब्रह्मभूयपदं पूर्णं परं चादण्डवाचकम् । दण्डकारण्यकं तेन नाम तस्य विशेषतः ॥ २५॥ दण्डकारण्यगे देवो ब्रह्मभूतमयः परः । गणेशो वेदवादेष्वदण्डिनां स हितावहः ॥ २६॥ अदण्डिनश्च योगीन्द्राः कथिताः शुकमुख्यकाः । योगेशो ब्रह्मणां नाथो गणेशस्तत्र राजति ॥ २७॥ इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः । सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥ २८॥ दण्डकारण्यकं तेषु गणेशं लालसं सदा । उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥ २९॥ दण्डकारण्यमुवाच । ब्रह्मभूयप्रदं देवं भजिष्यामि पितामह । तदर्थं मन्त्रराजं मे देहि सर्वज्ञ मुख्यक ॥ ३०॥ ब्रह्मोवाच । गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः । समूहानां प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥ ३१॥ स्वानन्दनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे । लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः परः ॥ ३२॥ गजाननमयो यस्य देहश्च नररूपधृक् । सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥ ३३॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥ ३४॥ दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् । लब्ध्वाऽरण्यं महादेवस्ततो भक्तिं चकार ह ॥ ३५॥ तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः । जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥ ३६॥ तं दृष्ट्वा दण्डकारण्यं समुत्थाय ननाम तु । पूज्यं स्तोतुं गणाधीशं चक्रमे तत्कृताञ्जलिः ॥ ३७॥ दण्डकारण्यमुवाच । नमस्ते गजवक्त्राय गणेशाय महोदर । ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८॥ हेरम्बाय चतुर्बाहुधराय कञ्जपाणये । (Page खं. ६ अ. १३ पान ३०) पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९॥ अनादये च सर्वेषामादिरूपाय ते नमः । ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४०॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥ ४१॥ मूषकोपरिसंस्थाय गणेशाय परात्मने । नानामायाप्रचालाय मयूरेशाय ते नमः ॥ ४२॥ नायकानां विशेषेण नायकाय विनायक । नायकैर्वर्जितायैव नायकत्वप्रदायिने ॥ ४३॥ विघ्नेशाय महाविघ्नधारिणे सर्वदायिने । पददात्रे तथा हन्त्रे विघ्नेशैस्ते नमो नमः ॥ ४४॥ अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः । किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥ ४५॥ अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् । कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥ ४६॥ भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् । तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥ ४७॥ एवमुक्त्वा गणेशानं प्रणनाम कृताञ्जलिः । भक्तिभावसमायुक्तं तञ्जगाद गजाननः ॥ ४८॥ श्रीगजानन उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति महारण्य भुक्तिमुक्तिप्रदं परम् ॥ ४९॥ त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् । मामेव सर्वभावेन भजिष्यसि न संशयः ॥ ५०॥ नानावतारवांश्चैव त्वद्देहस्थोऽहमञ्जसा । भविष्यामि गणेशोक्त्वांऽतर्दधे देवसत्तमाः ॥ ५१॥ अतो गणेशक्षेत्रं तु दण्डकारण्यमुत्तमम् । सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥ ५२॥ तेषां क्षेत्राणि देवेशा दण्डकारण्यगानि तु । तेषु स्थिता विशेषेण भजन्ते गणनायकम् ॥ ५३॥ सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति । दण्डकारण्यमध्ये स विशेषेणावतारकृत् ॥ ५४॥ दण्डकारण्यकं सर्वं गणेशक्षेत्रमुच्यते । मयूरक्षेत्रं तन्मध्ये भिन्नं स्वानन्दवाचकम् ॥ ५५॥ ब्रह्माद्या ऊचुः । धन्योऽसि योगिनां मध्ये सर्वसंशयनाशकः । श्रुत्वा त्वद्वदनाम्भोजान्न तृप्यामः कथामृतम् ॥ ५६॥ अधुना कृपया विप्र द्वारयात्रां विधानतः । वद क्षेत्रस्य त्रिविधामितिहासयुतां प्रभो ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशनामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः ॥ ६.१३ (Page खं. ६ अ. १४ पान ३१)

६.१४ द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । पुराकल्पभवां सर्वां कथयामि कथां पराम् । सङ्क्षेपेण महाभागाः श‍ृणुध्वं भक्तिसंयुताः ॥ १॥ काचिद्विप्रस्य भार्या तु पीडिता दुर्जनैः पुरा । सा सतीभावरक्षार्थं यत्नयुक्ता बभूव ह ॥ २॥ वने पतिविहीना सा तानुवाच महाखलान् । अद्य प्रारभ्य वश्चाह्नि पञ्चमे स्त्री भवाम्यहम् ॥ ३॥ सत्यं वाक्यं न सन्देहो गच्छध्वं वनवासिनः । एवमुक्ता गताश्चौरा हर्षिताः स्वगृहं ततः ॥ ४॥ सा वने शोकसंयुक्ता विचारमकरोत्तदा । यज्ञार्थं यजमानस्य भर्ता मे सङ्गतोऽभवत् ॥ ५॥ करोमि किं समीपस्थं गच्छामि च मयूरकम् । तत्र धर्मस्य संस्थानं वर्तते नात्र संशयः ॥ ६॥ यात्रामात्रेण तत्रैव स्वस्वधर्मः प्रलभ्यते । एवं विचार्य सा देवी मयूरेशं जगाम ह ॥ ७॥ स्नात्वा गणेशतीर्थे सा सम्पूज्य गणनायकम् । पूर्वद्वारस्थितां शक्तिं सर्वयुक्तां पुपूज ह ॥ ८॥ पुनश्चैव मयूरेशं पूजयित्वा विधानतः । सत्यसम्पालनार्थाय स्वगृहं तत्क्षणाद्ययौ ॥ ९॥ ततस्ते वनगा दुष्टास्तां ययौ पञ्चमेऽहनि । सा सस्मार गणेशानं धर्मशक्तियुतं परम् ॥ १०॥ तस्याः स्मरणमात्रेणाग्निस्तान् सर्वान् ददाह च । सा विस्मिता गणेशानममन्यत विशेषतः ॥ ११॥ मृता सा धर्मशक्तिस्थं गणेशं चिन्त्य मानदा । विकुण्ठमगमत् सा वै विष्णुना मानिता भृशम् ॥ १२॥ पुनः कल्पे मयूरे सा पतियुक्ता बभूव ह । ब्राह्मणी तं पुनर्भक्त्या सिषेवे धर्मतत्परा ॥ १३॥ अन्ते स्वानन्दगा चैव बभूवे देवनायिका । ब्रह्मभूता महाभक्त्या पत्या युक्ता महाद्भुतम् ॥ १४॥ एवं नाना जनास्तत्र नाना वर्णसमुद्भवाः । नरा नार्यश्च देवेशा महासिद्धिं प्रलेभिरे ॥ १५॥ अन्यच्च दक्षिणद्वारसंस्थां श‍ृणुत चादरात् । येन संशयहीनाश्च भविष्यथ विशेषतः ॥ १६॥ मद्रदेशमहीपालः शास्त्रज्ञो बलसंयुतः । बभूव सर्वनीतिज्ञः प्रजापालनलालसः ॥ १७॥ कदा सामन्तकैः सर्वैः पीडितोऽतितरां नृपः । न समर्थो बभूवैव तेषां निग्रहणे बलात् ॥ १८॥ ततोऽतिशोकसंयुक्तो राज्यं त्यक्त्वा महामतिः । जगाम मुनिशार्दूलं शौनकं कर्मसिद्धये ॥ १९॥ ज्ञात्वा वृत्तान्तमेवं तु तस्य राज्ञश्च शौनकः । जगाद गच्छ राजेन्द्र मयूरेशं सुसिद्धिदम् ॥ २०॥ तत्र दक्षिणभागे तु द्वारमर्थात्मकं परम् । यात्रामात्रेण सर्वार्थदायकं तत् समाचर ॥ २१॥ प्रणम्य भद्रसेनस्तं मयूरेशं समागतः । दक्षिणद्वारगां यात्रां चकार भक्तिसंयुतः ॥ २२॥ पुनः स्वनगरं गत्वा स्मृत्वा विघ्नेश्वरं नृपः । जित्वा सर्वान् भद्रसेनः शत्रून् राज्यं चकार ह ॥ २३॥ एवं यात्राविधानेन समर्थो जायते नरः । स्वस्वजातिभवं देवा अर्थं विन्दति निश्चितम् ॥ २४॥ ततः सोऽपि गणेशानं दक्षिणद्वारगं सदा । भुञ्जानो भोगमभजन् मृतः कैलासगोऽभवत् ॥ २५॥ (Page खं. ६ अ. १४ पान ३२) पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः । नित्यं गणेश्वरं देवेमभजद्भक्तिसंयुतः ॥ २६॥ अन्ते स्वानन्दगो भूत्वा क्षेत्रे मरणतः स्वयम् । ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥ २७॥ एवं नाना जना देवा अर्थयुक्ता बभूविरे । तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥ २८॥ अधुना पश्चिमद्वारसम्भूतं कथयाम्यहम् । चरित्रं सर्वभावज्ञाः श‍ृणुध्वं परमार्थदम् ॥ २९॥ भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः । दरिद्रो भोगहीनश्च सामो नाम्ना बभूव ह ॥ ३०॥ तेन स्कन्दपुराणस्थं माहात्म्यं संश्रुतं कदा । स्वानन्दक्षेत्रजं तेन विस्मितः प्रबभूव ह ॥ ३१॥ देवाः समागतो यात्रार्थं मयूरे पुरा स वै । यथाशास्त्रं विधानेन तीर्थदेवं पुपूज ह ॥ ३२॥ अतीव पीडितः सोऽपि रोगैस्तेन चकार ह । दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थिताम् ॥ ३३॥ ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुतः । स्वगृहं पुनरागत्य वैश्यवृत्तिं चकार ह ॥ ३४॥ धनाढ्यः स बभूवाऽपि सर्वमान्यः सुरेश्वराः । पश्चिमद्वारसंयुक्तमभजद्गणनायकम् ॥ ३५॥ स्वगृहे भोगसंयुक्तो बुभुजे विविधान् रसान् । अन्ते जगाम शक्तेः स लोकं परमसौख्यदम् ॥ ३६॥ पुनः क्षेत्रे बभूवाऽपि ब्राह्मणो वेदपारगः । मयूरे गणनाथं स शिवशर्माऽभजत्परम् ॥ ३७॥ क्षेत्रसंन्यासभावेन मयूरेशं समाश्रितः । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ३८॥ अथोत्तरभवां यात्रां श‍ृणुध्वं देवसत्तमाः । कर्णाटे शूद्रजातिस्थो बभूवे भीमनामकः ॥ ३९॥ कदा श्रुत्वा पुराणं स खेदयुक्तो बभूव ह । व्यर्थं मायामयं सर्वं तत्त्यजाम्यहमादरात् ॥ ४०॥ मुक्तिः सम्पूर्णभावेन लभ्यते केन कर्मणा । तदेव साधनीयं वै मया मानवदेहिना ॥ ४१॥ ततो बभ्रामातिखेदसंयुक्तो यत्र तत्र ह । वने ददर्श शूद्रः स विश्वामित्रं तपोधनम् ॥ ४२॥ तं प्रणम्य स्थितस्तत्र बभौ तेनाऽपि सत्कृतः । पप्रच्छ मुक्तिदं मार्गं तं जगाद स हर्षितः ॥ ४३॥ विश्वामित्र उवाच । महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः । अनेकजन्मसम्भूतैर्नरो मुक्तिमवाप्नुयात् ॥ ४४॥ अतो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज । उत्तरद्वारगां यात्रां कुरु मुक्तिमवाप्स्यसि ॥ ४५॥ आयासेन विहीनस्तु मुक्तिं तत्रैवमाप्नुयाः । मा खेदं कुरु शूद्र त्वं गच्छ गच्छ ममाज्ञया ॥ ४६॥ भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ । उत्तरद्वारगां यात्रां चकार विधिसंयुतः ॥ ४७॥ अत्यन्तलोलुपत्वात् स मुक्तिद्वारं चकार ह । पुनः स्वगृहमागत्य चकार कर्म देहजम् ॥ ४८॥ स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः । त्रिवर्णस्थजनानां वै सेवां चकार हर्षितः ॥ ४९॥ मुक्तियुक्तं गणेशानमभजन्नित्यमादरात् । (Page खं. ६ अ. १४ पान ३३) अन्ते जगाम सूर्यस्य लोकं तेजोमयं परम् ॥ ५०॥ ततः क्रमेण शूद्रः स शुक्लगत्या महेश्वराः । मोक्षरूपो बभूवाऽपि क्षेत्रयात्राप्रभावतः ॥ ५१॥ एवं नानाविधास्तत्र मुक्तिं प्राप्ता विशेषतः । तेषां मया चरित्रं यत्तद्वक्तुं न प्रशक्यते ॥ ५२॥ अथ देवेश्वराः पूर्णां यात्रां द्वारसमाश्रिताम् । कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीम् ॥ ५३॥ मालवेंऽत्यजजातिस्थो बभूवे दुन्दुभिस्वनः । नाम्ना ख्यातश्च पापात्मा विचचार महीतलम् ॥ ५४॥ द्रव्यलोभी नरादींश्च हत्वा कोटरगोऽभवत् । मुमोच ब्राह्मणं सोऽपि न गां वा पापनिश्चयः ॥ ५५॥ कदाचिन् मार्गगः कश्चिद्वैश्यो द्रव्यसमन्वितः । मालवाद्दण्डकारण्यं जगाम क्रयकारणात् ॥ ५६॥ स दृष्ट्वा द्रव्यसंयुक्तं महामार्गसमाश्रितम् । नाना जनैश्च सङ्कीर्णं तमनु प्रययौ खलः ॥ ५७॥ वैश्यं क्रमेण देवेशा मयूरेशं समागतम् । अनु तं सोऽपि दुर्बुद्धिराययौ दुन्दुभिस्वनः ॥ ५८॥ स वैश्यो गणनाथस्य यात्रायां निरतोऽभवत् । अन्त्यजोऽपि तथा तत्र यात्रां तेन चकार ह ॥ ५९॥ चतुर्द्वाराणि कृत्वा तु संस्थिता विविधा जनाः । चाण्डालस्तत्र मायूरे तद्वत्तस्थौ स वै खलः ॥ ६०॥ ततस्तस्य च दुर्बुद्धेर्बुद्धिभेदो बभूव ह । विचारमकरोच्चित्ते स स्वयं दुन्दुभिस्वनः ॥ ६१॥ अहो मयाऽतिमूर्खेण पापं नानाविधं कृतम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ ६२॥ ततो वैश्यं प्रणम्यैव गतः स्वस्थानमादरात् । स्वधर्मसंयुतो भूत्वा चकार कर्म देहजम् ॥ ६३॥ पूर्वद्वारजपुण्येन स्वधर्माचारसंयुतः । दक्षिणद्वारजेनैव सत्तायुक्तो बभूव ह ॥ ६४॥ पश्चिमद्वारपुण्येन रोगाद्यभिविवर्जितः । धनाढ्यो विविधान् भोगान् बुभुजेऽसौ सुहृद्वृतः ॥ ६५॥ उत्तरद्वारजेनैव यात्रायाः फलरूपिणा । महामोक्षं शुक्लगत्यांऽत्यजो लेभे महेश्वराः ॥ ६६॥ न शक्यते मया वक्तुं चरित्रं द्वारकारिणाम् । नानावर्णाश्रमे संस्थाश्चतुर्वर्गयुता बभुः ॥ ६७॥ नारीनरः पशुस्थश्च जीवस्तत्र समागतः । द्वारयात्रां तु कुर्यात् स चतुर्विधं फलं लभेत् ॥ ६८॥ इति द्वारस्य यात्रायाश्चरितं संश‍ृणोति चेत् । पठति तस्य सर्वं तु सफलं कर्म सम्भवेत् ॥ ६९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः ॥ ६.१४ (Page खं. ६ अ. १५ पान ३४)

६.१५ देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । देवालयस्य द्वाराणि चत्वारि कथितानि च । तेषां चरित्रकं देवाः कथयामि सुसेविनाम् ॥ १॥ बभूव शूद्रजातिस्थो गुर्जरे मानवः खलः । नाम्ना शम्भुरिति ख्यातो द्रव्ययुक्तः सुहृत्प्रियः ॥ २॥ स सायाह्ने जगामैव किञ्चित् कार्यार्थमादरात् । ग्रामाद्बहिश्च तत्राऽपि प्रेतैः संवेष्टितोऽभवत् ॥ ३॥ दृष्ट्वा प्रेतान् महोग्रान् स भयभीतो बभूव ह । ततस्तं विविशुः सर्वे प्रेताः परमदारुणाः ॥ ४॥ तत्रैव पतितः शूद्रस्तदर्थं सुहृदस्ततः । समाययुस्तं सङ्गृह्य स्वगृहं प्रययुः खलम् ॥ ५॥ ततः पिशाचतुल्यः स विचचार महीतलम् । तदर्थं सुहृदः सर्वेऽभवन् यत्नपरायणाः ॥ ६॥ तथाऽपि तं महाप्रेता मुमुचुर्न कदाचन । तत्तत् क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः ॥ ७॥ तदपि प्रेतराजास्तं मुमुचुर्न प्रतापतः । सुहृदस्तेन संयुक्ता महत् क्षेत्रं समाययुः ॥ ८॥ मयूरेशं समभ्यर्च्य शम्भुं गृह्य सुहृज्जनाः । जग्मुस्ते भैरवं देवं नग्नरूपधरं परम् ॥ ९॥ दर्शनेन महेशाना भैरवस्य महात्मनः । प्रेतास्त्यक्त्वा ययुः सर्वे शम्भुं भीता न संशयः ॥ १०॥ स्वस्थप्रकृतिगं दृष्ट्वा विस्मिताः सुहृदोऽखिलाः । पुनर्विघ्नेशमापूज्य ययुः स्वनगरं ततः ॥ ११॥ नग्नभैरवदेवस्य दर्शनेन महेश्वराः । पिशाचप्रेतदोषेभ्यो मुक्तः सञ्जायते नरः ॥ १२॥ ग्रहभूतादिजा नाना पीडादोषा भवन्ति न । कदाचिदपि देवेशा नग्नभैरवदर्शनात् ॥ १३॥ नाना जना महाक्षेत्रे तं प्रणम्य विधानतः । यात्रामात्रेण दोषैश्च बभूवुर्वर्जिताः पुरा ॥ १४॥ न वक्तुं शक्यते तत्र मया वर्षशतैरपि । सङ्क्षेपेण ततो देवाः कथितं तस्य चेष्टितम् ॥ १५॥ अथ दक्षिणद्वारस्य चरित्रं कथयामि वः । तत्र देवेश्वरः साक्षान्नीलकण्ठः स्थितोऽभवत् ॥ १६॥ गणेशानं समाराध्य पपौ विषं समुद्रजम् । महोग्रं शङ्करो देवः सर्वभस्मकरं परम् ॥ १७॥ यस्य स्पर्शेन विष्णुश्च श्यामरूपो बभूव ह । विषयुक्तः पपाताऽसौ गर्वयुक्तप्रभावतः ॥ १८॥ गणेशस्मरणं कृत्वा विषहीनो बभूव ह । महाविष्णुः शिवेनैवोपदिष्टः परवीरहा ॥ १९॥ गणेशकृपया तत्तु विषं पीतं महात्मना । शङ्करेण ततो दाहसंयुक्तः स बभूव ह ॥ २०॥ मयूरेशेति संस्मृत्य दाहहीनो बभूव ह । सकृच्छीतलदेहः स मयूरेशं समाययौ ॥ २१॥ तत्रैव संस्थितः सोऽपि नीलकण्ठो महेश्वरः । सेवार्थं गणराजस्य धाराधीशो बभूव ह ॥ २२॥ तं प्रणम्य जनाः सर्वे विषहीना भवन्ति ते । इतिहासं वदाम्यत्र श‍ृणुध्वं परमेश्वराः ॥ २३॥ दण्डकारण्यदेशस्थः कश्चित्तु क्षत्रियोऽभवत् । सुलोचन इति ख्यातो नानाशास्त्रविशारदः ॥ २४॥ तेन भूपेन राजानो जिताः शस्त्रबलेन वै । निस्तेजसः पुनस्तं ते शरणं जग्मुरादृताः ॥ २५॥ तमुग्रदण्डकर्तारं ज्ञात्वा सर्वे नृपास्ततः । विषबाधां ददुस्तस्मै किञ्चिच्छद्मबलेन वै ॥ २६॥ स्वयं व्याकुलचित्तः सन् ज्ञात्वा विषभवां व्यथाम् । (Page खं. ६ अ. १५ पान ३५) स जगाम मयूरेशं प्रधानैस्तत्क्षणान्नृपः ॥ २७॥ उद्देशेन गणेशस्य महद्विषं महेश्वराः । स्तम्भितं स ततो राजा क्षेत्रे समागतोऽभवत् ॥ २८॥ तावद्विषेण भूपालः पीडितोऽतितरां किल । देहचेष्टाविहीनः स बभूवे देवसन्निधौ ॥ २९॥ प्रधानास्तं प्रगृह्यैव यात्रां चक्रुर्यथाविधि । देवालयस्य द्वारस्थां दक्षिणे नीलकण्ठजाम् ॥ ३०॥ नीलकण्ठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके । राजा वन्द्य महेशानं विषहीनो बभूव ह ॥ ३१॥ ततो विघ्नेश्वरं राजा पूज्य स्वस्थानगोऽभवत् । सुलोचनः शशासैव धरां सन्दण्ड्य दुर्जनान् ॥ ३२॥ एवं यात्राविधानेन विषहीनो नराधिपः । नीलकण्ठसमायुक्तं गणेशमभजत् परम् ॥ ३३॥ अन्ते कैलासगो राजा बुभुजे विविधं सुखम् । पुनश्च ब्राह्मणो जातः क्षेत्रे मायूरसंज्ञिते ॥ ३४॥ तत्रैव गणराजं स सदा भक्तिपरायणः । अभजद्धर्मशीलश्च नाम्ना ख्यातो महेश्वराः ॥ ३५॥ एवमन्ते जगामाऽसौ स्वानन्दे गणपं परम् । ब्राह्मणो ब्रह्मभूतो वै बभूव परमद्युतिः ॥ ३६॥ एवं नाना जनास्तत्र नीलकण्ठं प्रदृश्य वै । सिद्धिं प्राप्ता महेशाना मया वक्तुं न शक्यते ॥ ३७॥ अधुना पश्चिमद्वारसंस्थं माहात्म्यमुत्तमम् । कथयामि महेशाना देवागारस्य सिद्धिदम् ॥ ३८॥ महिषासुरपुत्रश्च बभूव ह गजासुरः । तेन त्रैलोक्यगं सर्वं पीडितं सचराचरम् ॥ ३९॥ अजेयः सर्वभूतानां महाबलयुतो सुरः । कर्मखण्डनभावेनापीडयत् सकलामरान् ॥ ४०॥ ततश्च शोकसंयुक्तो शङ्करश्च मयूरगः । पूजयामास विघ्नेशं ततो दैत्यं जघान ह ॥ ४१॥ ततः क्षेत्रं समाश्रित्य संस्थितः पार्वतीपतिः । गणेशेन कृतः सोऽपि द्वाराधीशो महेश्वरः ॥ ४२॥ कृत्तिवासाः स्वयं शम्भुर्देवागारस्य मानदः । पश्चिमद्वारसंस्थोऽभूद्भजतां भावपूरकः ॥ ४३॥ अत्रेतिहासं मुख्यं यत् सङ्क्षेपेण वदाम्यहम् । श‍ृणुध्वं सर्वपापघ्नं गणेशे भक्तिदायकम् ॥ ४४॥ आन्ध्रदेशे द्विजः कश्चित् पापकर्मपरायणः । आसुरं धर्ममाश्रित्य दुर्विनीतो बभूव ह ॥ ४५॥ तदर्थं सुहृदः सर्वे नाना यत्नपरायणाः । हृदिस्थं राक्षसं वारयितुं शेकुर्न ते कदा ॥ ४६॥ तदाऽतिशोकसंयुक्ता ययुः कञ्चित्तपस्विनम् । तेनैव कथितः सर्ववृत्तान्तो द्विजसम्भवः ॥ ४७॥ तपस्वी उवाच । मलं त्यक्त्वा द्विजश्चायमकरोन्न कदा पुरा । शौचभ्रमयुतस्तत्र राक्षसः पिङ्गलो ययौ ॥ ४८॥ अपवित्रं द्विजं दृष्ट्वा ससार हृदि राक्षसः । करोति कर्म तेनाऽयमासुरं नित्यमादरात् ॥ ४९॥ अतः क्षेत्रे मयूरे वै कृत्तिवासोऽधरङ्गतः । द्वारयात्राविधानेन पूजयध्वमनेन तु ॥ ५०॥ तेनायं राक्षसो मुक्तो भविष्यति न संशयः । नान्यथाऽयुतवर्षैश्च समीचीनः कदाचन ॥ ५१॥ ततस्ते हर्षिताः सर्वे तं गृह्य क्षेत्रमाययुः । देवागारस्य यात्रां ते चक्रुः पश्चिमद्वारगाम् ॥ ५२॥ कृत्तिवाससमभ्यर्च्य द्विजः सद्यश्च देवपाः । (Page खं. ६ अ. १५ पान ३६) रक्षोहीनो बभूवाऽपि स्वधर्मसहितोऽभवत् ॥ ५३॥ ततः स्वगृहमागत्य गणेशमभजद् द्विजः । कृत्तिवासः समायुक्तमन्ते कैलासगोऽभवत् ॥ ५४॥ पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः । क्षेत्रसंन्यासभावेनाऽभजत्तं नित्यमादरात् ॥ ५५॥ अन्ते गणपतौ सोऽपि ब्रह्मभूतो बभूव ह । एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया ॥ ५६॥ नाना जना महेशानाः पश्चिमद्वारकारिणः । रक्षोभावविहीनाश्च बभूवुर्नाऽत्र संशयः ॥ ५७॥ अतः परं प्रवक्ष्यामि देवागारस्य देवपाः । उत्तरद्वारसंयुक्तं चरित्रं सर्वकामदम् ॥ ५८॥ राक्षस्यां कुम्भकर्णात्तु बभूवे राक्षसाधिपः । भीमः सर्वत्र शैवस्य मार्गध्वंसनकारकः ॥ ५९॥ तेन शैवा धृताः केचित् पुरा केचिच्च् संहताः । ततः कदा द्विजः कोऽपि महापाशुपतो धृतः ॥ ६०॥ स उपोषणसंयुक्तः शिवं ध्यात्वा समास्थितः । कारागारे राक्षसस्य वधार्थं ह्युद्यतोऽभवत् ॥ ६१॥ हृदिस्थं शङ्करं सोऽपि तं पुपूज विशेषतः ॥ ६२॥ शङ्करः क्षुभितोऽत्यन्तं भीमं हन्तुं समाययौ । युद्धं कृत्वा स भीमेन ताडितस्तु पपाल ह ॥ ६३॥ समागत्य मयूरेशं प्रार्थयामास शङ्करः । तं पूज्य प्रययौ तत्र जघान भीममुल्बणम् ॥ ६४॥ स एव भीमनाथस्तु स्थापितोऽभूद् द्विजैः पुरा । शैवास्तं हर्षसंयुक्ताः पुपूजुर्भक्तिभावतः ॥ ६५॥ ततः स भीमनाथस्तु मयूरे भक्तिकारणात् । समागतो मयूरेशं पूजयामास नित्यदा ॥ ६६॥ द्वाराधीशं चकारैव गणेशस्तं महेश्वराः । देवागारस्य देवेशमुत्तरे भीमशङ्करम् ॥ ६७॥ पूजयित्वाऽमरेशानं सत्तायुक्तो नरोऽभवत् । अत्रेतिहासमाद्यं यत् कथयामि समासतः ॥ ६८॥ दण्डकारण्यदेशस्थो राजा परमधार्मिकः । उग्रसेन इति ख्यातः सर्वविद्याविशारदः ॥ ६९॥ बलहीनो महीपालो बभूवे वायुदूषितः । जडवच्चेष्टया हीनः संस्थितो दुःखसंयुतः ॥ ७०॥ नानोपायांश्चकाराऽसौ शान्तये वैद्यनायकैः । तथाऽपि रोगनिर्मुक्तो न बभूव नराधिपः ॥ ७१॥ ततोऽकस्मान् महादैत्यः सुखभोक्ता समागतः । बलात् सर्वं नरेन्द्रस्य राज्यं जग्राह तत्क्षणात् ॥ ७२॥ ततोऽतिभयसंयुक्ताः प्रधानास्तं प्रगृह्य वै । मयूरेशं समायाताः पप्रच्छुर्जयदायकम् ॥ ७३॥ गाणेशैः क्षेत्रसंस्थैश्च कथितं द्वारसम्भवम् । माहात्म्यं तच्च ते श्रुत्वा हर्षयुक्ता बभूविरे ॥ ७४॥ नृपं गृह्य प्रधानास्ते देवागारस्य चोत्तरे । द्वारयात्रां विधानेन चक्रुः परमभक्तितः ॥ ७५॥ ततो रोगविहीनस्तु राजा सत्तायुतोऽभवत् । गणेशं पूज्य सैन्येन युतः स्वनगरं ययौ ॥ ७६॥ देवं गणेशं स्मृत्वा युतं भीमेशेन भूमिपः । युयुधे तेन दैत्येन शस्त्रास्त्रैर्विविधैर्बलात् ॥ ७७॥ ततो दैत्यः समाक्रुद्धो मल्लयुद्धाय तं ययौ । राजा तं योधयामास स्मृत्वा विघ्नेश्वरं हृदि ॥ ७८॥ दैवी सत्ता समायाता राज्ञो देहे तयामरः । क्षीणशक्तिः पपालैव सुखभोक्ता महाबलः ॥ ७९॥ (Page खं. ६ अ. १५ पान ३७) चकार नगरं गत्वा स ततो राज्यमुत्तमम् । भीमेशसंयुतं नित्यमभजद्गणनायकम् ॥ ८०॥ अन्ते कैलासगो भूत्वा बुभुजे भोगमुत्तमम् । पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूव ह ॥ ८१॥ गाणेशानेन मार्गेणाभजत्तं गणनायकम् । अन्ते स्वानन्दगः सोऽपि तल्लीनः प्रबभूव ह ॥ ८२॥ एवं नानाविधा देवाः सिद्धिं प्राप्ता विशेषतः । देवागारस्थभीमेशयात्रया नात्र संशयः ॥ ८३॥ अधुना पूर्णयात्राया देवालयस्य देवपाः । माहात्म्यं कथयामीह सङ्क्षेपेण पुरा भवम् ॥ ८४॥ द्राविडे शूद्रजातिस्थो बभूव विषयप्रियः । नाम्ना कदा स्वकार्यार्थं मार्गसंस्थो बभूव ह ॥ ८५॥ तत्राशुचिस्वभावस्थं राक्षसः प्रविवेश तम् । तेनासुरस्वभावस्थः शूद्रो बभूव सर्वदा ॥ ८६॥ ततः पिशाचकैः सोऽपि धृतो हृदि विशेषतः । प्रविश्य चेष्टया हीनः कृतः पैशाचकोऽभवत् ॥ ८७॥ ततो वीर्यविहीनं तं नानारोगैः प्रपीडितम् । एतादृशं गृहीत्वा तु सुहृदो दुःखमाययुः ॥ ८८॥ विदुषा ब्राह्मणेनाऽपि सुहृदश्चोपदेशिताः । मयूरेशं समागम्य यात्रां चक्रुर्यथाविधि ॥ ८९॥ देवागारस्य सम्पूर्णां चतुर्द्वारसमन्विताम् । तत्र सर्पेण दष्टाश्च यात्रां चक्रुस्तथाऽपि ते ॥ ९०॥ नग्नभैरवदेवस्य पूजनेन पिशाचकाः । तं त्यक्त्वा प्रययुः सर्वे भयभीताः सुरेश्वराः ॥ ९१॥ नीलकण्ठं समालोक्य विषबाधा पपाल ह । कृत्तिवासः समालोक्य राक्षसः प्रययौ ततः ॥ ९२॥ भीमेशं पूजयित्वा तु वीर्ययुक्तो बभूव ह । ततो विघ्नेशमापूज्य स्वगृहं स जगाम ह ॥ ९३॥ विस्मितो मानसेऽत्यन्तं सस्मार गणनायकम् । चतुर्द्वारयुतं तं सोऽभजद्भावसमन्वितः ॥ ९४॥ अन्ते शैवे समागम्य लोके भोगान् मनोगतान् । बुभुजे स पुनः क्षेत्रे मयूरे क्षत्रियोऽभवत् ॥ ९५॥ क्षेत्रसंन्याससंयुक्तोऽभजत्तं गणनायकम् । स्वानन्दे ब्रह्मभूतः स बभूवान्ते सुरेश्वराः ॥ ९६॥ एवं नानाविधा लोका ययुः सिद्धिं महेश्वराः । देवागारस्य तत्रैव ब्रूयां कति तु यात्रया ॥ ९७॥ देवालयस्य यात्राया माहात्म्यं यः श‍ृणोति चेत् । पठेद्वा तस्य विघ्नेशः प्रसन्नो भवति प्रभुः ॥ ९८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ ६.१५ (Page खं. ६ अ. १६ पान ३८)

६.१६ गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । गर्भालयस्य यात्राया माहात्म्यं कथयाम्यहम् । श‍ृणुध्वं भाग्यसंयुक्ता देवेशास्तत् समासतः ॥ १॥ मूर्खः कोऽपि पुरा विप्रो वङ्गदेशे बभूव ह । विष्णुदत्त इति ख्यातः पशुतुल्यः स्वभावतः ॥ २॥ तं दृष्ट्वा पितरौ तस्य काश्यपौ दुःखसंयुतौ । कश्यपं जग्मतुस्तेन श्रुतो वृत्तान्त उल्बणः ॥ ३॥ गर्भागारस्य माहात्म्यं कथयामास कश्यपः । पूर्वद्वारभवं तौ तं प्रणम्य ययतुर्गृहम् ॥ ४॥ पुत्रं गृह्य मयूरेशं जग्मतुर्भक्तिसंयुतौ । यात्रां पुत्रेण संयुक्तौ चक्रतुः परमादरात् ॥ ५॥ गर्भालयस्य पूर्वस्थद्वारगां बुद्धिमालभत् । सम्पूज्य स महाविद्यां ज्ञानयुक्तो बभूव ह ॥ ६॥ ततो हर्षसमायुक्तौ पितरौ तं प्रगृह्य च । स्वाश्रमं जग्मतुर्देवा विस्मितौ पुत्रचेष्टया ॥ ७॥ ततो बुद्धियुतं देवं गणेशमभजन् परम् । अन्ते कैलाससंस्थं तं गणपं जग्मुरादरात् ॥ ८॥ तत्रैव विविधान् भोगान् पुनर्भुक्त्वा महेश्वराः । मयूरे ब्राह्मणाः क्षेत्रे बभूवुः शीलसंयुताः ॥ ९॥ तत्र विघ्नेश्वरं नित्यमभजन् भक्तिभावतः । अन्ते स्वानन्दगा भूत्वा ब्रह्मभूता बभूविरे ॥ १०॥ एवं नाना जना देवाः सिद्धिं प्राप्ता मयूरके । गर्भागारस्य पूर्वद्वारस्थयात्राविधानतः ॥ ११॥ तत्र वक्तुं महादेवाः शक्यते न कदाचन । अतः सङ्क्षेपतः प्रोक्तं पूर्वद्वारयशोऽमलम् ॥ १२॥ अधुना दक्षिणद्वारयात्रामाहात्म्यमुत्तमम् । गर्भागारस्य वक्ष्यामि श‍ृणुध्वं चैकचेतसः ॥ १३॥ काश्मीरे शूद्रजात्यां कः पापकर्मा बभूव च । देवालयं समालोक्याभजद्देवान् सुदारुणः ॥ १४॥ कदा वैश्यं समालोक्य द्रव्ययुक्तं प्रलोभतः । तमनुप्रययौ दुष्टः प्रहन्तुं खड्गधारकः ॥ १५॥ वैश्योऽपि यत्नमास्थाय सार्थयुक्तो बभूव ह । तथापि पापकर्मा तं न मुमोच कदाचन ॥ १६॥ वैश्यः समागतः सार्थैर्जनैः क्षेत्रे मयूरके । शूद्रस्तत्र समायातो जिघांसुर्भाग्यगौरवात् ॥ १७॥ तत्र यात्रां चकाराऽसौ वैश्यो भावसमन्वितः । शूद्रः स्वयं स्थितश्चैव यात्राहीनः खलात्मवान् ॥ १८॥ द्वितीये दिवसे सर्वे दक्षिणद्वारगां पराम् । यात्रां चक्रुस्ततः शूद्रस्तेषामनुययौ खलः ॥ १९॥ गर्भागारस्थितान् पूज्य दक्षिणद्वारपान् जनाः । प्रमोदाद्यास्ततः सर्वे पुरो जग्मुर्महेश्वराः ॥ २०॥ शूद्रस्तत्र समासीनः पुनः स्वस्थानमाययौ । गणेशं पूज्य पापात्मा पुण्यवान् स बभूव ह ॥ २१॥ विचारमकरोच्चित्ते मया पापानि नित्यशः । अहो कृतानि तान्येव पीडयिष्यन्ति मां किल ॥ २२॥ अहो देवालये देवा मया सङ्खण्डिता मुधा । जनाः सम्पूजयन्तस्तान् किं कृतं पापरूपिणा ॥ २३॥ एवं विचार्य स्वस्थाने त्यक्त्वा वैश्यं जगाम ह । काश्मीरममरान् सर्वानभजद्भक्तिसंयुतः ॥ २४॥ अन्ते जगाम कैलासे गणेशं भक्तिसंयुतः । अभजत् स पुनर्देवान् मयूरे वैश्यजोऽभवत् ॥ २५॥ (Page खं. ६ अ. १६ पान ३९) गणेश्वरं तत्र देवं क्षेत्रसंन्यासमार्गतः । अभजच्चान्तकाले स तद्देहे लीनतां ययौ ॥ २६॥ नानाविधा जना एवं ययुः सिद्धिं सुरेश्वराः । तत्र वक्तुं न शक्यं तु मया भवति नित्यशः ॥ २७॥ अतः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितम् । माहात्म्यं यत् पुरा जातं गर्भागारस्य सौख्यदम् ॥ २८॥ विदर्भे क्षत्रियः कश्चिद्राज्यहीनो बभूव ह । सुदासः सर्वशास्त्रज्ञः क्षत्रियो पीडितो भृशम् ॥ २९॥ वनं गत्वा स राजर्षिः शोकयुक्तो बभूव ह । तत्राऽऽजगाम देवर्षिर्नारदः परमार्थवित् ॥ ३०॥ राज्ञा सम्पूजितो योगी हर्षयंश्च जगाद तम् । गच्छ क्षेत्रे मयूरे त्वं ततः सिद्धिमवाप्स्यसि ॥ ३१॥ गर्भागारस्य राजेन्द्र पश्चिमद्वारसंश्रिताम् । सिन्द्धिं पूज्य महाराजो भविष्यसि यथा पुरा ॥ ३२॥ एवमुक्त्वा नारदश्च विघ्नेशं संस्मरन् ययौ । राजा तथा चकाराऽसौ भक्तियुक्तेन चेतसा ॥ ३३॥ गर्भागारस्य यात्रां स चकार विधिसंयुतः । पश्चिमद्वारगामेकां ततस्तत्रैव संस्थितः ॥ ३४॥ कौडिन्यनगरे राजा सुबाहुः पीडितोऽभवत् । शूलेन दारुणेनैव मृत्युरूपेण देवपाः ॥ ३५॥ रात्रौ स्वप्ने महाभीमं पुरुषं स ददर्श ह । तेन सन्ताडितोऽत्यन्तं मुमूर्छ भयसंयुतः ॥ ३६॥ पुनः संज्ञायुतं भूपमुवाच पुरुषः परः । राज्यं देहि सुदासाय विदर्भदेशसम्भवम् ॥ ३७॥ मरिष्यसि न चेद्राजन् सकुलो नात्र संशयः । मयूरेशं समाश्रित्य स्थितं गच्छाधुना खल ॥ ३८॥ ततः पुरुषरूपं तं न ददर्श महीपतिः । शूलहीनो बभूवाऽसौ तं जगाम सुदासकम् ॥ ३९॥ विदर्भदेशगं राज्यं तं प्रणम्य ददौ परम् । स्वराज्यं स जगामैव वैरमुत्सृज्य देवपाः ॥ ४०॥ राजा सिद्धियुतं नित्यमभजद्गणनायकम् । अन्ते कैलासगः सोऽपि बभूवे कामनायुतः ॥ ४१॥ पुनः स ब्राह्मणो जातो मयूरे वर्मसंयुतः । गणेश्वरं तत्र नित्यमभजद्भक्तिसंयुतः ॥ ४२॥ अन्ते जगाम स्वानन्दे गणेशं गणपप्रियः । ब्रह्मभूतोऽभवत्तत्र क्षेत्रवासप्रभावतः ॥ ४३॥ एवं नाना जनाः सिद्धिं पश्चिमद्वारतो ययुः । यात्रामात्रेण गर्भागारस्य कति वदाम्यहम् ॥ ४४॥ अथोत्तरस्थितं द्वारं गर्भागारस्य मानदाः । चरित्रं तस्य वक्ष्यामि श्रवणात् सर्वसौख्यदम् ॥ ४५॥ पाञ्चालदेशगः कश्चिद्वैश्यो विषयलम्पटः । न बुबोध गतं कालं द्रव्ययुक्तः स्वभावतः ॥ ४६॥ स्त्रीमांसमदिरासक्तो बभूवे नित्यमादरात् । एकदा तत्र देशे तु परचक्राद्भयं परम् ॥ ४७॥ त्यक्त्वा स्वदेशं वैश्यश्च पपाल सकुटुम्बकः । आययौ दण्डकारण्यं निवासार्थं भयातुरः ॥ ४८॥ तत्र मार्गस्थभावेन क्षेत्रं प्राप्तं मयूरकम् । तद्दिने पश्चिमद्वारयात्रां चक्रुर्जनाः पराम् ॥ ४९॥ द्वितीयेऽह्नि स वैश्यस्तु लज्जया संयुतोऽभवत् । उत्तरद्वारयात्रार्थमुद्यतोऽभूज्जनैः स्वयम् ॥ ५०॥ गणेशं पूजयित्वा स गर्भागारं जगाम ह । पुपूज तत्र वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥ ५१॥ (Page खं. ६ अ. १६ पान ४०) ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषयप्रियः ॥ ५२॥ ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशाना विचारमकरोद् हृदि ॥ ५३॥ मया विषययुक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ ५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥ ५५॥ योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥ ५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानन्दान्निन्दयन् विषयान् सदा ॥ ५७॥ अन्ते जगाम कैलासे गणेशे कामनायुतः । तत्र भुक्त्वा महाभोगान् पुनः पपात भूतलम् ॥ ५८॥ मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुतः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥ ५९॥ अन्ते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह । पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥ ६०॥ एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां सङ्ख्यातुं न प्रशक्यते ॥ ६१॥ अतः परं प्रवक्ष्यामि सम्पूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥ ६२॥ आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ सम्मृतौ तस्याऽनाथो बभ्राम भूतले ॥ ६३॥ विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥ ६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् । तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥ ६६॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥ ६६॥ पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥ ६५॥ प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥ ६८॥ योगिनीस्तत आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥ ६९॥ ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥ ७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं विचिन्त्यैवाऽभजद्गर्भाश्रितं तदा ॥ ७१॥ अन्ते कैलासगो भूत्वा गणेशं तत्र चाभजत् । भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥ ७२॥ गणेश्वरं तत्र देवा अभजन् नान्यचेतसा । अन्ते स्वानन्दगः सोऽपि ब्रह्मभूतो बभूव ह ॥ ७३॥ मयूरे गर्भयात्रायां निरताः सकृदप्यहो । ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥ ७४॥ गर्भागारस्य माहात्म्यं श‍ृणोति द्वारजं त्विदम् । पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥ ७५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ ६.१६ (Page खं. ६ अ. १७ पान ४१)

६.१७ मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिवाद्या ऊचुः । एतादृशा महाभागाः कथं कैलासमाययुः । अञ्जसा सेव्य योगीन्द्र गणेशं वद कारणम् ॥ १॥ भृशुण्ड्युवाच । सकामा गणराजस्य भक्ता ये देवसत्तमाः । अन्तरे विषयेष्वेते संसक्ताः सम्भवन्ति च ॥ २॥ न तेषां गणराजस्य स्वानन्दे गतिरुच्यते । निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् ॥ ३॥ अतः कैलासगाः सर्वे गणेशं पूज्य योगिनः । बभूवुस्तत्र विघ्नेशमभजन्नान्यचेतसः ॥ ४॥ तदा कैलासनाथे ते स्वानन्दं देवसत्तमाः । गमिष्यन्ति न सन्देहः पुनरावृत्तिवर्जितम् ॥ ५॥ भुक्तिमुक्तिप्रिया ये वै कैलासात् सम्पतन्ति चेत् । ते पुनर्विघ्नराजं तं भजन्ते नान्यचेतसः ॥ ६॥ कैलासे गणपं गत्वा भोगयुक्ता भवन्ति ये । ते पुनर्मृत्युलोकेषु पतन्त्यत्र न संशयः ॥ ७॥ ब्रह्मभूता भवन्त्यन्ते स्वानन्दस्था महेश्वराः । गणेशेनैव रचितं क्रीडार्थं तत्तथाऽभवत् ॥ ८॥ अधुना क्षेत्रबाह्या वै देवभूमिः प्रकीर्तिता । तस्या माहात्म्यमुख्यं यत् कथयामि समासतः ॥ ९॥ दण्डकारण्यदेशस्थः शूद्रः कश्चिद्बभूव ह । दारिद्र्यदोषसंयुक्तो बभ्राम वसुधातले ॥ १०॥ क्षुधया पीडितोऽत्यन्तं ज्वरयुक्तो बभूव ह । स पूर्वद्वारबाह्यायां देवभूम्यां ममार ह ॥ ११॥ सङ्गृह्य वैष्णवा देवा विमानेन गणा नरम् । विकुण्ठे स्थापयामासुः शूद्रं क्षेत्रप्रभावतः ॥ १२॥ पूर्वद्वारात् समारभ्य योजनं वैष्णवं मतम् । तत्र सिद्धिं ययुः केचिद्वक्तुं शक्यं न वै भवेत् ॥ १३॥ अन्यच्च देवदेवशाः श‍ृणुध्वं दक्षिणे भवम् । चरित्रं शिवभावाख्यं द्वारात् सङ्क्षेपतः परम् ॥ १४॥ ब्राह्मणस्तत्र सम्भूतो जगाम वृत्तिकारणात् । तस्मात् समागतः सोऽपि श्रमयुक्तोऽभवत् परम् ॥ १५॥ ममाराह्नि द्वितीये स सद्यः कैलासगोऽभवत् । माहात्म्याद्देवभूम्यास्तु शैव्याः क्षेत्रान् महेश्वराः ॥ १६॥ अथ पश्चिमभागात्तु द्वाराच्छाक्तं मतं परम् । क्षेत्रं योजनमात्रं तु तस्य वक्ष्यामि चेष्टितम् ॥ १७॥ चाण्डालः कोऽपि देवेशा विदर्भादागतोऽभवत् । कार्यार्थं ज्वरयुक्तश्च बभूवाऽतीव पीडितः ॥ १८॥ ममार पञ्चमे देवा दिवसे दैवगौरवात् । शक्तिलोकं जगामाऽसौ माहात्म्याच्छाक्तसम्भवात् ॥ १९॥ अथोत्तरभवं चित्रं चरित्रं श‍ृणुत प्रियाः । सौरलोकप्रदं पूर्णं क्षेत्रादुत्तरभागतः ॥ २०॥ भिल्लः कश्चिन् महाभागाः कदा कार्यार्थमाययौ । दष्टः सर्पेण तत्रैव ममार भाग्यगौरवात् ॥ २१॥ सौरं लोकं समाश्रित्य मुमुदे सोऽपि देवपाः । मयूरक्षेत्रद्वारात्तूत्तरे सौरप्रभावतः ॥ २२॥ अनेकनार्य एवं च नरा वर्णाश्रमस्थिताः । भ्रष्टाश्चाऽपि महेशाना ययुः सिद्धिं विशेषतः ॥ २३॥ तेषां चरित्रकं कैस्तु वक्तुमत्र न शक्यते । सङ्क्षेपेण मया किञ्चित् कथितं पूर्वसम्भवम् ॥ २४॥ फलं मयूरक्षेत्रेऽपि मरणेनाऽधुना लभेत् । तस्य माहात्म्यमुख्यं यत् कथयामि समासतः ॥ २५॥ (Page खं. ६ अ. १७ पान ४२) चाण्डालः कोऽपि पापात्मा परस्त्रीलालसोऽभवत् । आन्ध्रे वनं समाश्रित्य जघ्ने लोकान् समागतान् ॥ २६॥ नानापापयुतो दुष्टो वर्णने न प्रशक्यते । ग्रन्थबाहुल्यभावाद्वै परदोषप्रकीर्तनात् ॥ २७॥ दुष्टो जगाम मायूरे सुहृज्जनयुतः कदा । भगिनीगृहसंस्थे स भागिनेयविवाहगः ॥ २८॥ पापानि तस्य दुष्टस्य बहिः क्षेत्रात् स्थितानि च । पुनः प्रतीक्षयन्ते तं क्रोधयुक्तानि देवपाः ॥ २९॥ नरं मयूरे पापानि यत्र कुत्र कृतानि वै । तं मुक्त्वा बहिरेवाऽपि प्रवेशात् संस्थितानि तु ॥ ३०॥ पुनर्यदि समायातमनु तं पापकानि तु । गच्छन्ति शुद्धरूपस्थं यत्र सोऽपि गमिष्यति ॥ ३१॥ कदाचित्तेन किञ्चिद्वै यदि पापं कृतं भवेत् । ततः पुनः प्रविश्याऽपि भुञ्जते तानि तं नरम् ॥ ३२॥ अतो मयूरक्षेत्रं वै न त्याज्यं देहधारिणा । पापप्रवेशहीनत्वात् सदा सेव्यं महेश्वराः ॥ ३३॥ यदा नरः समुद्युक्तो भवति स्वगृहात् कदा । मयूरेशं गमिष्यामि यात्रार्थं नात्र संशयः ॥ ३४॥ तदा पापानि तस्यैव विचारं कुर्वते परम् । महाभयकरो विघ्नः प्राप्तश्चास्माकमुल्बणः ॥ ३५॥ मयूरे यदि देही तु गमिष्यति तदा वयम् । स्थास्यामः कुत्र पापानि चरितुं विघ्नमुत्तमम् ॥ ३६॥ ततः पापानि सर्वाणि तं नरं यत्नभावतः । पीडयामासुरत्यन्तं येन व्यग्रो नरो भवेत् ॥ ३७॥ द्रव्यहानिं तथा पुत्रं पुरं पशुगृहादिकम् । पापानि कुर्वते नाशसंयुक्तं देवसत्तमाः ॥ ३८॥ तेन सम्पीडितो धत्ते यात्रार्थं न मनोऽपि सः । अतः सर्वमनादृत्य मयूरेशं समाश्रयेत् ॥ ३९॥ कामं नानाविधान्येव पापानि कुरुतां सदा । अन्ते मयूरकं गच्छेत् किं करिष्यन्ति तानि तम् ॥ ४०॥ येन केन विचारेण मयूरे देवसत्तमाः । वासः सदा प्रकर्तव्यो ब्रह्मभूयस्य कारणात् ॥ ४१॥ अन्यत्र विविधैर्युक्तो भोगै राज्यादिभिस्तथा । मयूरे श्रेष्ठकस्तस्माद्दारिद्र्यादियुतो भवेत् ॥ ४२॥ मयूरक्षेत्रे मरणे स्वानन्दं लभते नरः । अन्यत्र भोगयुक्तश्चेज्जन्ममृत्युयुतो भवेत् ॥ ४३॥ विषयासक्तचित्तश्चेन् मयूरेशं तथापि हि । समाश्रयेद् दुराचारो यातनां लभते पराम् ॥ ४४॥ अधुना श‍ृणुत प्राज्ञा अन्त्यजस्य तु चेष्टितम् । प्रकृतं कथयिष्यामि बहुना किं विचक्षणाः ॥ ४५॥ चाण्डालो भगिनीगेहे मयूरे संस्थितोऽभवत् । ममार तत्र सर्पेण स दष्टो देवसत्तमाः ॥ ४६॥ गाणपत्या विमानं तु समानीय तदर्थतः । सङ्गृह्य ब्रह्मभूतं तं चक्रुः क्षेत्रमृतेः फलात् ॥ ४७॥ मयूरे न चकाराऽसौ चाण्डालः पापमल्पकम् । तेन सद्यो बभूवैव ब्रह्मस्थो नीचयोनिजः ॥ ४८॥ मरणे ब्रह्मभूतश्च भवत्यत्र न संशयः । मयूरे तस्य किं देवाः कथयामि चरित्रकम् ॥ ४९॥ एवं नाना जनाद्याश्च पशुपक्ष्यादि सम्भवाः । मयूरे ब्रह्मभूताश्च बभूवुर्मरणात् पुरा ॥ ५०॥ अथो देवेशमुख्याश्च श‍ृणुध्वं त्वेकचेतसः । (Page खं. ६ अ. १८ पान ४३) चित्रं चरित्रकं वक्ष्ये मयूरे सम्भवं परम् ॥ ५१॥ वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् । भारेण संयुतं चक्रुरन्नाद्यैस्तं महेश्वराः ॥ ५२॥ ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् । गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥ ५३॥ स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः । पशुजातिज एवं तु नराणां तत्र का कथा ॥ ५४॥ एवं क्षेत्रप्रभावेण जना नाना महेश्वराः । सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते ॥ ५५॥ इदं क्षेत्रभवं चित्रं चरितं श‍ृणुयान्नरः । पठेद्यः श्रावयेद्वाऽपि सर्वार्थं प्रलभेत् सदा ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ ६.१७

६.१८ गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । क्षेत्रस्थानां च यात्राया माहात्म्यं वद योगिप । के के मुख्या महाक्षेत्रे पूज्या लोकैर्निरन्तरम् ॥ १॥ भृशुण्ड्युवाच । उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः । संस्थितस्तस्य वामाङ्गे सिद्धिः सेवार्थमास्थिता ॥ २॥ चामरैर्व्यजनैर्युक्ता नानासिद्धिसमन्विता । सेवते गणराजं सा सती भक्तिसमन्विता ॥ ३॥ दक्षिणाङ्गे तथा बुद्धिर्विद्याभिः संयुता स्वयम् । कलाभिश्च सरस्वत्याः समीपे सेवने स्थिता ॥ ४॥ सुगन्धिवस्तुभिर्युक्ता सती परमार्थवाचका । गणेशं भावसंयुक्ता भजते नित्यमादरात् ॥ ५॥ पुरतो लक्षलाभौ तु भक्तिनम्रात्मकन्धरौ । सेवेते तं गणाध्यक्षं नानोपचारसंयुतौ ॥ ६॥ पृष्ठभागे महादेव्यो भ्रामर्या धारका मदाः । नानाशक्तियुता देवं सेवन्ते भक्तिसंयुताः ॥ ७॥ समास्थितश्चासनाधो गणेशस्येक्षुसागरः । कमलं सागरोत्थं तु सहस्रदलराजितम् ॥ ८॥ तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा । तिष्ठन्तीमे हितं देवाः सेवन्ते रससंयुताः ॥ ९॥ एवं गणेश्वरः सर्वैः पूजनीयो विशेषतः । तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः ॥ १०॥ मयूराखू तत्पुरश्च संस्थितौ करसम्पुटैः । तत्पुरः सिद्धयोगिन्यो नीराजयन्ति विघ्नपम् ॥ ११॥ पृष्ठभागे तथा तस्य प्रमोदाद्याश्च सायुधाः । संस्थिता भक्तिसंयुक्ताः पूजनीया नरेण ते ॥ १२॥ अथ पूर्वदिशायां तु धर्ममण्डप उच्यते । तत्र विष्णुः स्वयं साक्षात्तिष्ठति सेवनोत्सुकः ॥ १३॥ सर्वान् कथयते धर्मान् गाणेशान् तत्र संस्थितः । गाणपत्यप्रियत्वात् स पूजनीयो विशेषतः ॥ १४॥ (Page खं. ६ अ. १८ पान ४४) तथा दक्षिणगः शम्भुरर्थमण्डपमाश्रितः । स गाणेशान् कथयते शब्दार्थान् विविधान् परान् ॥ १५॥ गुह्यानर्थान् सदा देवः प्रकाशयति सर्वदा । गाणेशज्ञानकुशला भवन्ते तेन मानवाः ॥ १६॥ मण्डपः कामसंज्ञस्तु दिशि देवाः समीपगाः । पश्चिमायां स्थिता तत्र महाशक्तिर्महेश्वरः ॥ १७॥ गणेशकामानायां सा कुरुते सर्वमानवान् । सौख्यमाद्यं कथयते गाणेशं परमाद्भुतम् ॥ १८॥ उत्तरे मण्डपो मुक्तेस्तत्र सूर्यः प्रतिष्ठते । गणेशभक्तियुक्तो बोधयते विविधान् नरान् ॥ १९॥ गाणेशीं मुक्तिमाद्यां तु पूर्णमोक्षप्रदायिनीम् । प्रकाशयति तत्रस्थो जनैः सम्पूजितो रविः ॥ २०॥ गणेशसन्निधाने तु मुद्गलाद्या महेश्वराः । महाभक्ताः प्रतिष्ठन्ते भक्तिं सम्बोधयन्ति ते ॥ २१॥ दक्षिणाङ्गे पुरस्तस्य मुद्गलो भक्तनायकैः । अव्याहतगतिः सोऽपि गुह्यधारक उच्यते ॥ २२॥ वामाङ्गे गणराजस्य पुरो योगिसमन्वितः । शुको गाणेशयोगं बोधयते सकलान् परम् ॥ २३॥ पूजनीयौ प्रयत्नेन गणेशपुरतः स्थितौ । मुद्गलश्च शुको देवाः प्रियौ विघ्नेश्वरस्य तौ ॥ २४॥ मण्डपा देवमुख्यानां कथिताश्च ततः परम् । विनायकाः स्थिता अष्टौ वक्रतुण्डादयः पराः ॥ २५॥ ततोऽष्टमातरः प्रोक्तास्ततोऽष्टौ भैरवा मताः । दिशां भागेषु देवेशाः पूजनीयाः प्रयत्नतः ॥ २६॥ ततो गणेशवामाङ्गे चतुर्थी सङ्कटा स्थिता । दक्षिणाङ्गे तथा शुक्ला तिष्ठति सेवनोत्सुका ॥ २७॥ पृष्ठभागे शमी तद्वत् पुरो मन्दार एव च । दूर्वा पुरः स्थिता एते सेवन्ते गणनायकम् ॥ २८॥ नग्नभैरवदेवश्च पूर्वभागे समाश्रितः । भक्तियुक्तः स्वभावेन सेवते गणनायकम् ॥ २९॥ तथा दक्षिणगो देवा नीलकण्ठः प्रतापवान् । सेवते विघ्नराजं स समागत्य निरन्तरम् ॥ ३०॥ पश्चिमे कृत्तिवासास्तु भीमेशश्चोत्तरे तथा । समागत्य गणेशानं सेवेते भक्तिसंयुतौ ॥ ३१॥ ततो दिक्पालरूपाश्च सेवन्ते द्विरदाननम् । समागत्य सशस्त्रास्ते नित्यं भक्तिसमन्विताः ॥ ३२॥ एते मुख्यात्मकाः प्रोक्ता गर्भागारनिवासिनः । केचिद्वासकरास्तत्र केचित् सेवार्थमागताः ॥ ३३॥ अतः परं प्रवक्ष्यामि सदा गर्भगृहस्थितान् । विनायकान् महाभागान् सर्वसिद्धिप्रदायकान् ॥ ३४॥ विदर्भाद्वक्रतुण्डश्च बल्लाळः यल्लिगः तथा । हेरम्बश्च महेशाना विद्यापुरसमाश्रितः ॥ ३५॥ विघ्नेशः पारिनेरस्थो भालचन्द्रस्तथैव च । गङ्गातटस्थो ज्ञानेशो दत्तात्रेयेण संयुतः ॥ ३६॥ चिन्तामणिः स्थावरस्थोऽमराः सिद्धिविनायकः । सिद्धिक्षेत्रस्थ एवं तु महागणपतिस्तथा ॥ ३७॥ मणिपूःस्थो विघ्नहरो विजयस्थो विनायकः । कश्यपालयसंस्थश्च एलास्थो लक्षविघ्नपः ॥ ३८॥ बङ्गालस्थो गणेशानो विघ्नराजो महेश्वराः । जीर्णपूःस्थस्तथाऽऽशापूरको ह्यमलक्षेत्रगः ॥ ३९॥ प्रवालस्थो गणेशश्च राजवेश्मस्थ एव च । इत्यादि बहवस्तत्र भवन्ति गणपाः स्थिताः ॥ ४०॥ मयूरेशं समाश्रित्य गर्भागारनिवासिनः । (Page खं. ६ अ. १८ पान ४५) भवन्ति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥ ४१॥ गर्भागारं गणेशस्य मूर्तिरूपं महत्परम् । ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥ ४२॥ शतकोटिगणेशानाः संस्थिता देवसत्तमाः । गर्भागारं समाश्रित्य निश्चितं गणपेन च ॥ ४३॥ नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः । गर्भागारे च ते सर्वे बुधैस्तेभ्योऽधिका मताः ॥ ४४॥ गर्भागारे गणेशानं स्वनाम्नाङ्कितमादरात् । स्थापयेत्तेन देवेशा जगद्ब्रह्म च स्थापिते ॥ ४५॥ केनाऽपि पुण्यं वक्तुं न शक्यते देवसत्तमाः । मयूरे गणनाथस्य स्थापने सम्भवं परम् ॥ ४६॥ जीर्णोद्धारं तु यः कुर्यात् स सम्पूर्णफलं लभेत् । मूर्तिखण्डं नरो दृष्ट्वा साङ्गं कुर्यात्तथा फलम् ॥ ४७॥ देवेशा ऊचुः । आश्चर्यं भासते वाक्यं त्वदीयं गुरुसत्तम । एते गणेश्वरास्तत्र कथं तिष्ठन्ति तद्वद ॥ ४८॥ मानं वद महाभाग सर्वेषां च यथातथम् । तेन संशयहीनाश्च भविष्यामो वयं प्रभो ॥ ४९॥ भृशुण्ड्युवाच । परमाणुस्वरूपेण केचित्तत्र गणेश्वराः । केचित्तु त्रसरेणुभिः समाने देहधारकाः ॥ ५०॥ अङ्गुष्ठपर्वमात्रेण देहेन शम्भुमुख्यकाः । देवाश्च मुनयः सर्वे तिष्ठन्त्यत्र न संशयः ॥ ५१॥ चतुर्हस्तप्रमाणेन मयूरेशश्च तिष्ठति । पीठादिसंयुतो देवाः सिद्धिबुद्धी द्विहस्तगे ॥ ५२॥ हस्तमात्रेण सर्वे ते पूर्वस्मिन् कथिता मया । तिष्ठन्ति गणराजस्य सदा सेवार्थलालसाः ॥ ५३॥ चतुर्धनुः प्रमाणेन धर्ममण्डप एव यः । तस्माद् द्विगुणितः प्रोक्तः समन्तादर्थमण्डपः ॥ ५४॥ तस्माद् द्विगुणितः प्रोक्तः काममण्डप एव च । पादहीनस्तथा प्रोक्तस्तस्मान् मुक्तेश्च मण्डपः ॥ ५५॥ गणेशाद्वै दशधनुर्द्वारे धर्मस्य मण्डपः । पूर्ववद् द्वारगाः सर्वे मण्डपाः स्वस्वमानतः ॥ ५६॥ मण्डपात् पूर्वदिग्देशे वक्रतुण्डः स्थितो मतः । बुधैर्दशधनुर्दूरे ज्ञातव्यं मानतोऽमराः ॥ ५७॥ दश पञ्चधनुर्दूरे संस्थस्तत्रैकदन्तकः । एवं पञ्च प्रवृद्ध्या तु धनुषां दिक्षु विघ्नपाः ॥ ५८॥ अष्टभ्यो गणनाथेभ्यो दूरे पञ्चधनुष्कतः । मातृका संस्थिताश्चैव वृद्ध्या क्षेत्रं यथाऽभवत् ॥ ५९॥ तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता । वृद्धिन्यूनत्वमानेन क्षेत्रसामान्यभावतः ॥ ६०॥ तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता । पूर्वभागे तथाऽन्याश्च वृद्धिन्यूनत्वमानतः ॥ ६१॥ ततः पञ्चधनुष्के तु दूरे पूर्वदिशि स्थितः । नग्नभैरवनामा चान्ये तद्वत् क्षेत्रमानतः ॥ ६२॥ तेभ्यः पञ्चधनुष्के तु दिक्पालाः संस्थिता मताः । वृद्धिन्यूनत्वमानेन यथा क्षेत्रं प्रकीर्तितम् ॥ ६३॥ पूर्वेशानदिशोर्मध्ये प्रजापतिः स्थितः स्वयम् । नैरृती पश्चिमाऽऽशागः शेषस्तत्र महेश्वराः ॥ ६४॥ तेभ्यः पञ्चधनुष्के तु वज्रादीनि स्थितानि च । क्षेत्रमानप्रमाणेन वृद्धिन्यूनेन निश्चितम् ॥ ६५॥ (Page खं. ६ अ. १९ पान ४६) एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः । गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥ ६६॥ अन्ये नाना गणेशाना गाणेशाः संस्थिताः परे । सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥ ६७॥ इदं श‍ृणोति पठति यश्चित्रं भक्तिसंयुतः । स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः ॥ ६.१८

६.१९ क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । अधुना वद माहात्म्यं देवागारस्य मानद । के के मुख्या जनैः पूज्याः संस्थिता गणपे रताः ॥ १॥ भृशुण्ड्युवाच । द्वारकासहितो विष्णुर्देवागारे समाश्रितः । पूर्वभागे गणेशात्तु दिशि देवेन्द्रसत्तमाः ॥ २॥ यावन्ति वैष्णवान्येव क्षेत्राणि विविधानि च । मथुराद्यानि सर्वाणि पूर्वभागे स्थितानि वै ॥ ३॥ तत्र मध्ये महेशाना द्वारकाशतमञ्जसा । धनुषां तु प्रमाणेन गर्भागारात् प्रकीर्तिता ॥ ४॥ तत्र कृष्णश्च रामश्च प्रद्युम्नो ह्यनिरुद्धकः । समातस्थुर्गणेशस्य भक्त्यर्थं भक्तसत्तमाः ॥ ५॥ गणेशानं पुष्टिपतिं स्थापयित्वा जनार्दनः । सेवते तं महाभागा द्वारकावासिनस्तथा ॥ ६॥ गोमती कुण्डरूपेण स्वयं तत्रैव संस्थिता । स्नानमात्रेण जन्तूनां ब्रह्महत्यां विनश्यति ॥ ७॥ कृष्णपक्षे नरो नारी श्रावणे तु जनार्दनम् । मयूरे पूजयेत् क्षेत्रे वासकृत् सर्वदायकम् ॥ ८॥ तेषां पूजनमात्रेण सद्यः पापविवर्जितः । मनेप्सितं लभेद् देवाः शतयज्ञफलं तथा ॥ ९॥ मथुरावामभागे तु द्वारकायाः समास्थिता । तावन्मानेन देवेशाः सर्वार्थस्य प्रदायिनी ॥ १०॥ बालरूपधरौ तत्र रामकृष्णौ समास्थितौ । पूजनीयौ नरेणैव सर्वकामफलप्रदौ ॥ ११॥ गौरीविनायकं तत्र स्थापयित्वा स्वहर्षतः । जनैः सह महाभक्तौ सेवेते तं जनार्दनौ ॥ १२॥ तत्रैव यमुना साक्षात् संस्थिता हृदरूपिणी । तस्यां स्नानेन देवेशाः सर्वपापक्षयो भवेत् ॥ १३॥ कृष्णाष्टम्यां विशेषेण तयोर्यात्रा प्रकीर्तिता । मासे मासे जनानां सा दहति ह्यशुभं महत् ॥ १४॥ अयोध्या दक्षिणाङ्गेऽस्यास्तावन्मानेन संस्थिता । द्वारकायाश्च तत्रैव शरयूकुण्डकं स्थितम् ॥ १५॥ तत्र स्नानेन जन्तूनां पापं नश्यति तत्क्षणात् । इहजन्मकृतं सर्वं स्वर्गदं कुण्डमञ्जसा ॥ १६॥ तत्र रामो लक्ष्मणश्च भरतः शत्रुसूदनः । (Page खं. ६ अ. १९ पान ४७) स्थिताः संस्थाप्य हेरम्बं सेवायां तत्परा जनैः ॥ १७॥ चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते । क्षेत्रवासिन आनन्दाद्वार्षिकीं दुरितापहाम् ॥ १८॥ द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः । संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥ १९॥ तत्पुरो नृहरिश्चैव वामनस्तत्पुरोऽभवत् । मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥ २०॥ नरनारायणौ देवौ तत्पुरः संस्थितौ किल । हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥ २१॥ तथा वामाङ्गभागे ये धनुषां दशके परे । तिष्ठन्ति विष्णुरूपाश्च मथुरायाः सुखप्रदाः ॥ २२॥ तान् श‍ृणुध्वं महेशानाः कथयामि समासतः । कूर्मः परशुरामश्च कल्की पृश्निसुतस्तस्था ॥ २३॥ कपिलः सिद्धेशः शेषः सनकाद्याश्च योगिनः । भजन्ति स्वस्वनामाङ्कानास्थाप्य गणनायकान् ॥ २४॥ अयोध्यायाः पुरः सप्त संस्थिताश्च जनार्दनाः । तावन्मानेन देवेशास्तान् श‍ृणुध्वं समासतः ॥ २५॥ नारदः कार्तवीर्यश्चात्रितो यज्ञस्तथा परः । ऋषभश्च पृथुर्वैन्यो मोहिनी या स्मृता बुधैः ॥ २६॥ स्वस्वेष्टनामकांस्तत्रास्थाप्य विघ्नेश्वरान् परान् । भजन्ते भावयुक्ताश्च सदा क्षेत्रनिवासनः ॥ २७॥ द्वादश्यां प्रतिमासेषु पूजनीयाः क्रमेण तु । चतुर्विंशतिदेवेश विष्णवः क्षेत्रवासिभिः ॥ २८॥ द्वारकास्थसमायुक्तास्तत्र विष्ण्वंशसम्भवाः । अवान्तरे स्थिताः सर्वे मयूरे हितकारकाः ॥ २९॥ स्वयं विष्णुस्ततस्तत्र तिष्ठति क्षेत्रगोऽमराः । विकुण्ठं तत् समाख्यातं धनुषां द्विशतात्मकम् ॥ ३०॥ एकादश्यां जनाः साक्षात् पूजयन्ति निरन्तरम् । तेन सौभाग्यसंयुक्ता भविष्यंन्ति मयूरके ॥ ३१॥ अन्ये नानाऽवताराश्च क्षेत्राणि विविधानि तु । संस्थितानि मयूरेऽस्मिन् गणेशे भक्तिकारणात् ॥ ३२॥ विकुण्ठवासी भगवान् सदा सिद्धिविनायकम् । स्थाप्य पूज्यं विधानेन भजतेऽनन्यभावतः ॥ ३३॥ अन्ये ये स्वस्वनाम्ना ते गणेशान् स्वेष्टरूपकान् । विष्णवः स्थापयित्वा तं भजन्तेऽनन्यभावतः ॥ ३४॥ गर्भागारस्य देवेशाः पूर्वाङ्गं वर्णितं मया । सङ्क्षेपेणाधुना तद्वत् दक्षिणाङ्गं तु वर्णये ॥ ३५॥ गर्भागारात् स्वयं काशी संस्थिता मध्यभागतः । धनुषां द्वे शते तस्या मानं क्षेत्रे प्रकीर्तितम् ॥ ३६॥ तत्र तिष्ठति विश्वेशो देवो भक्तिपरायणः । ढुण्ढिराजं समास्थाप्य भजतेऽनन्यचेतसा ॥ ३७॥ मणिकर्णी ह्रदस्तत्र वर्तते पापहारकः । स्नानेन मानवस्यैव ब्रह्मघ्नः पातकं व्रजेत् ॥ ३८॥ भागीरथी सरस्तत्र वर्तते देवनायकाः । सद्यः स्नानेन पापानि लयं गच्छन्ति निश्चितम् ॥ ३९॥ प्रदोषे पूजनं तस्य कुर्वन्ति क्षेत्रवासिनः । माघकृष्णचतुर्दश्यां यात्रां कुर्वन्ति मानवाः ॥ ४०॥ वार्षिकीं विश्वनाथस्य यात्रां क्षेत्रनिवासिनः । जनाः कुर्वन्ति ते सर्वे भवन्ति सुखभोगिनः ॥ ४१॥ तस्या वामाङ्गके देवास्तावन्मानेन संस्थिता । अवन्ती सर्वदा पुण्या महाकालश्च शङ्करः ॥ ४२॥ क्षिप्रानदीभवं कुण्डं वर्तते तत्र पापहृत् । (Page खं. ६ अ. १९ पान ४८) महाकालस्य कुण्डं तु स्नानेन पापनाशनम् ॥ ४३॥ सोमवारे प्रदोषे तमर्चयन्ति विशेषतः । ते सर्वे धनधान्यैश्च संयुक्ता निवसन्ति हि ॥ ४४॥ काश्या दक्षिभागे तु तावन्मानेन संयुता । मायापुरी महेशाना दक्षयज्ञच्छिदीश्वरः ॥ ४५॥ प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् । पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥ ४६॥ तत्र द्वारं च गङ्गायाः संस्थितं कुण्डरूपकम् । नरः स्नानेन सद्यश्च फलं प्राप्नोति वाञ्छितम् ॥ ४७॥ काश्याश्च पुरतो देवास्त्र्यम्बकः संस्थितो महान् । धनुषां शतकेनैव मानेन तस्य क्षेत्रकम् ॥ ४८॥ नदीस्वरूपेण गोदावरी तत्र महानदी । संस्थिता स्नानमात्रेण गोघ्नाद्यघं विनश्यति ॥ ४९॥ कपिलं गणनाथं स त्र्यम्बकः स्थाप्य नित्यदा । पुपूज भक्तिसंयुक्तो गाणपत्यप्रभाववित् ॥ ५०॥ क्षेत्रगो वैद्यनाथस्तु तावन्मानेन तत्पुरः । स्थितः सर्वार्थदो देवो भक्तानां भवनाशकृत् ॥ ५१॥ भवरोगविनाशार्थं वैद्य एकः शिवः स्मृतः । ददाति गणनाथाख्यमौषधं योगमिच्छताम् ॥ ५२॥ उत्कटेशस्तत्पुरश्च तावन्माने संस्थितः । उत्कण्ठां भक्तिमिच्छन् सन् गणेशस्य महात्मनः ॥ ५३॥ त्र्यम्बकस्य तथा वामे रामेशः संस्थितः शिवः । तावन्मानेन तत् क्षेत्रे समुद्रः कुण्डरूपतः ॥ ५४॥ तत्पुरः सोमनाथस्तु तत्पुरो मल्लिकार्जुनः । तावन्मानेन संयुक्तौ स्वस्वतीर्थसमन्वितौ ॥ ५५॥ दक्षिणाङ्गे त्र्यम्बकस्य घुसृणेशः स्थितः प्रभुः । तथोङ्कारेश्वरो देवोऽप्यमलेश्वरसंयुतः ॥ ५६॥ सरःस्वरूपेण तत्र नर्मदा संस्थिता नदी । दर्शनेनेह यत् पापं जन्तूनां नाशयेत् सदा ॥ ५७॥ स्नानमात्रेण देवेशा दशजन्मकृतं महत् । पापं नश्यति जन्तोश्च निश्चितं मुनिभिः पुरा ॥ ५८॥ ततः केदारशम्भुश्च क्रमेण देवसत्तमाः । तावन्मानेन संयुक्ताः शिवा एते प्रकीर्तिताः ॥ ५९॥ स्वस्वनाम्नाङ्कितान् सर्वे सदाऽऽस्थाप्य गणेश्वरान् । सेवन्ते भक्तिसंयुक्ताः शिवा एते प्रकीर्तिताः ॥ ६०॥ कृष्णपक्षे चतुर्दश्यां मासे मासे महेश्वराः । सेवनीयाः प्रयत्नेन क्षेत्रवासिभिरादरात् ॥ ६१॥ ततः पुरो महाक्षेत्रे कैलासे वासकारकः । शिवः साक्षात् स्थितस्तत्र धनुषां च चतुःशते ॥ ६२॥ क्षेत्रं कैलासनाथस्य तत्र भागीरथी नदी । स्वयं स्थिता विशेषेण स्नानमात्रेण सर्वदा ॥ ६३॥ महागणपतिं स्थाप्य पूजति नित्यमादरात् । भजते तं शिवः साक्षाद्गाणपत्याग्रणीर्महान् ॥ ६४॥ अन्यशङ्करक्षेत्राणि शिवा नानाविधा मताः । संस्थितानि स्थिताः सर्वे क्षेत्रसंन्यासभक्तितः ॥ ६५॥ तेषां स्थानादिकथयितुं देवा न प्रशक्यते । स्वस्वनामयुतान् पूजन्त्यास्थाप्य गणनायकान् ॥ ६६॥ दक्षिणे कथितं शैवं परं देवालयं मया । सङ्क्षेपेण महाभागा अधुना पश्चिमं वदे ॥ ६७॥ शतेषु गर्भागाराच्च धनुषां पञ्चसु स्थिता । महालक्ष्मीः स्वयं साक्षाद्भक्तेभ्यः कामदायिनी ॥ ६८॥ लक्ष्मीकुण्डभवं तीर्थं संस्थितं तत्र पापहृत् । (Page खं. ६ अ. १९ पान ४९) स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥ ६९॥ तस्या वामाङ्गके शक्तिर्महाकाली समास्थिता । कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥ ७०॥ महासरस्वती शक्तिर्दक्षिणाङ्गे स्थिता तथा । सारस्वतं महत् कुण्डं तत्र जाड्यविनाशनम् ॥ ७१॥ स्वानन्दवासमास्थाप्य भजते गणनायकम् । महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥ ७२॥ सिद्धीशं तु महाकाल्यास्थाप्य भक्तिपरायणा । भजते नित्यमानन्दाद्भूतायां पूज्यते तथा ॥ ७३॥ बुद्धीशं तु तृतीयायां महासरस्वती नरैः । शक्तियुक्ता स्थाप्य नित्यं भजते पूज्यते परा ॥ ७४॥ महालक्ष्म्याः पुरश्चैव विष्णुकाञ्ची स्थिता पुरी । लक्ष्म्या विष्णुः स्थितस्तत्र भजते स्थाप्य विघ्नपम् ॥ ७५॥ अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादरात् । पापनाशकरस्तेषां भवते सर्वदायकः ॥ ७६॥ तत्पुरो मातृकाणां च धनुषां द्विशतात्मकम् । क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतम् ॥ ७७॥ तत्पुरस्तावता मानेन युतं क्षेत्रमुत्तमम् । कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुता ॥ ७८॥ ततः क्षेत्रं समाख्यातं वाराह्याः सर्वदं परम् । तत्र शक्तिः स्थिता साक्षाद्वाराही दुरितापहा ॥ ७९॥ तत ऐन्द्र्या महाक्षेत्रं पूर्वमानेन कीर्तितम् । ऐन्द्री गणेश्वरं तत्र भजतेऽनन्यचेतसा ॥ ८०॥ महाकाल्याः पुरश्चैव पूर्वमानेन संस्थिता । नारसिंही महाशक्तिर्दैत्येभ्यो भयदायिनी ॥ ८१॥ ततः शाकम्भरी शक्तिश्च ततो रक्तदन्तिका । ततो भीमा महेशानाः संस्थिता तीर्थसंयुता ॥ ८२॥ अथो महासरस्वत्यास्तावन्मानेन संस्थिता । पुरस्तु वैष्णवी देवी ततो ब्राह्मी स्थिता मता ॥ ८३॥ चामुण्डा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मता । समानमानभावेन संस्थिता शक्तयः पराः ॥ ८४॥ कुण्डरूपेण तीर्थानि स्वस्वक्षेत्रगतानि तु । कृत्वा ताः शक्तयः सर्वाः मयूरे संस्थिताः सदा ॥ ८५॥ स्वस्वनाम्नाङ्कितानास्थाप्य गणेशांश्च देवपाः । भजन्तेऽनन्यभावेन गाणपत्यस्वभावतः ॥ ८६॥ अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः । नरैस्तासां नवम्यां तु यात्रा कार्या सुखप्रदा ॥ ८७॥ तासां नामादिकं देवा मया वक्तुं न शक्यते । मुख्यास्तु नवकोट्यो वै ज्ञातव्यं विबुधैः सदा ॥ ८८॥ धनुः पञ्चशतं तस्माच्छक्तिर्लम्बोदरं परम् । आस्थाप्य भजते तस्या यात्राऽष्टम्यां प्रकीर्तिता ॥ ८९॥ अथोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् । समासेन महेशानाः श‍ृणुत परमार्थदान् ॥ ९०॥ गर्भागारात् समारभ्य चतुःशतं पितामहः । धनुषां क्षेत्रगः सोऽपि तिष्ठति वेदसंयुतः ॥ ९१॥ तावन्मानेन वामाङ्गे तस्याग्निः संस्थितो महान् । अग्निभिः सहितस्तत्र सेवते गणनायकम् ॥ ९२॥ दक्षिणाङ्गे स्वयं कर्म सह तिष्ठति कर्मभिः । सूर्यकलांशसम्भूतास्त्रयो मुख्या इति स्मृताः ॥ ९३॥ ब्रह्माणं च समाश्रित्य सरः सारस्वतं स्थितम् । सरस्वती नदीरूपा तत्र तिष्ठति नित्यदा ॥ ९४॥ (Page खं. ६ अ. १९ पान ५०) तत्र स्नानेन पापानि प्रणश्यन्ति महान्ति चेत् । जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥ ९५॥ सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः । सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥ ९६॥ तथाऽग्निश्च महात्मानं विनायकं निरन्तरम् । आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥ ९७॥ आग्नेयं तत्र कुण्डं तु सर्वाघशमनं स्थितम् । स्नानमात्रेण जन्तूनामग्निलोकप्रदं भवेत् ॥ ९८॥ कर्मनाशकरं कुण्डं समीपं कर्मणः स्थितम् । स्नानेन त्रिविधं तत्र कृतं कर्म विनश्यति ॥ ९९॥ ब्रह्मणः पुरतो देवा धनुषां द्विशतात्मकम् । क्षेत्रं वेदाङ्गनाम्नश्च परं सूर्यस्य संस्थितम् ॥ १००॥ भानुक्षेत्रं तत्पुरस्तावता मानेन संयुतम् । इन्द्रनाम्नस्तत्पुरस्तु क्षेत्रं सर्वप्रदायकम् ॥ १०१॥ अग्नेः पुरस्तथा क्षेत्रं रवेस्तावत्प्रमाणकम् । ततः क्षेत्रं गभस्तेश्च यमस्य च ततः परम् ॥ १०२॥ कर्मणश्च पुरोभागे तावन्मानयुतं महत् । सुवर्णरेतसः क्षेत्रं ततो दैवाकरं मतम् ॥ १०३॥ ततः क्षेत्रं तु मित्रस्य ततो विष्णोः प्रकीर्तितम् । वरुणस्य क्षेत्रमिन्द्रात् पुरः सर्वाघनाशनम् ॥ १०४॥ यमात् पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितम् । समानमानभावेन स्थिता द्वादश भानवः ॥ १०५॥ स्वस्वतीर्थैः समायुक्ताः कुण्डरूपैर्महेश्वराः । स्वस्वनाम्ना स्थाप्य सेवन्ते गणेशान्निरन्तरम् ॥ १०६॥ तत्पुरः शिवकाञ्ची तु तस्यां शक्त्या शिवः स्थितः । सोमयुक्तो प्रदोषे स जनैः पूज्यः सुखप्रदः ॥ १०७॥ भजते सर्वभावेनास्थाप्य हेरम्बमादरात् । तीर्थं तस्य स्थितं तत्र सर्वाघशमनं परम् ॥ १०८॥ जनैः पूज्यः प्रतिपदि क्षेत्रस्थोऽग्निः प्रतापवान् । सर्वपापनिहन्ता च द्रव्यलाभप्रदो भवेत् ॥ १०९॥ सप्तम्यां सर्वदा देवाः पूजनीयः पितामहः । जाड्यभावहरः सोऽपि भवत्यत्र न संशयः ॥ ११०॥ भानुसप्तमिकायां तु कर्म सम्पूजयन्ति ये । सर्वदोषविहीनाश्च कर्मणां सम्भवन्ति ते ॥ १११॥ सङ्क्रमेषु सदा पूज्य भानून् द्वादश संस्थितान् । सर्वरोगादिनिर्मुक्ता भवन्ति क्षेत्रवासिनः ॥ ११२॥ तेषां पुरः स्वयं नित्यं तिष्ठति सौरलोकगः । चतुःशतं तु धनुषां क्षेत्रं तस्य महात्मनः ॥ ११३॥ रविवारे तु देवेशः पूजनीयो निरन्तरम् । नरः सर्वार्थसंसिद्धिं लभते मुक्तिमुत्तमाम् ॥ ११४॥ वरदं गणनाथं संस्थाप्य पूजापरायणः । भजते आदिदेवस्तं सूर्यः कालभृतां वरः ॥ ११५॥ तत्पुरश्चन्द्रमा देवाः संस्थितः शतमानतः । धनुषां क्षेत्रमेतत्तु तस्य सर्वान्नदायकम् ॥ ११६॥ ततः पुरो बुधः प्रोक्तस्तावता मानकेन च । तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः ॥ ११७॥ चन्द्रवामाङ्गसंस्थश्च भौमो देवपरायणः । तत्पुरो भार्गवः श्रेष्ठस्तत्पुरस्तु शनैश्चरः ॥ ११८॥ चन्द्रस्य दक्षिणे भागे राहुः सर्वारिमर्दनः । तत्पुरः केतुरेवं च नक्षत्राणि ततः पुरः ॥ ११९॥ आस्थाप्य स्वस्वनामाङ्कान् गणेशान् भक्तितत्परः । भानि ग्रहा भजन्ते तं क्षेत्रवासपरायणाः ॥ १२०॥ (Page खं. ६ अ. १९ पान ५१) स्वस्वाङ्कितेषु वारेषु पूजनीया इमे नरैः । पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥ १२१॥ अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः स्थिताः किल । तेषां नामादि कथयितुं देवाः शक्यते न वै ॥ १२२॥ देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः । नाना भैरवसंयुक्ताः संस्थिता देवतत्पराः ॥ १२३॥ तत इन्द्रो हव्यवाहः पूर्वभागे समाश्रितौ । यमपो निरृतिस्तद्वद्दक्षिणाङ्गे च तिष्ठतः ॥ १२४॥ पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ । धनपो निरृतिस्तद्वदुत्तराङ्गे समास्थितौ ॥ १२५॥ अष्टम्यां भैरवाः पूज्या जनैः पैशाचनायकाः । भूतादीनां विशेषेण भवन्ति भयनाशकाः ॥ १२६॥ दशम्यां दश दिक्पालाः पूजनीयाः प्रयत्नतः । चौरादिजं भयं सर्वं नाशयिष्यन्ति सर्वदा ॥ १२७॥ स्वस्वनामाङ्कितानास्थाप्य दिगीशा गणेश्वरान् । पूजयन्ति भजन्ते तं भैरवाश्च महेश्वराः ॥ १२८॥ पूजनीयौ द्वितीयायामश्विनौ पूर्वदिक् स्थितौ । द्वारस्य सन्निधाने तु धनुषां शतमानतः ॥ १२९॥ देवागारे गणेशं संस्थाप्य नित्यं महाप्रभुम् । भजतस्तेन सर्वेषां रूपलावण्यदौ मतौ ॥ १३०॥ दक्षिणे संस्थितौ तद्वद्गौरीस्कन्दौ परेश्वरम् । आस्थाप्य पूज्य विघ्नेशं भजतो नित्यमादरात् ॥ १३१॥ तयोः पूजनमात्रेण भवेत् सौभाग्यसंयुतः । स्वाचारनिष्ठभावेन चित्तं सुनियतं भवेत् ॥ १३२॥ षष्ठ्यां स्कन्दं भजेन्नित्यं तृतीयायां च पार्वतीम् । मयूरेशयुते देवास्ताभ्यां सौख्यं लभेन्नरः ॥ १३३॥ सर्वे वासुकिमुख्याः पश्चिमे नागा महाबलाः । संस्थिता द्वारसामीप्ये नागकुण्डं तथाऽमलम् ॥ १३४॥ पञ्चम्यां पूजनीयास्ते दारिद्र्यनाशकारकाः । सर्वव्याधिविहीनं तु कुर्वते मानवं सदा ॥ १३५॥ उत्तरे धननाथं तु पूजयेद्धननायकम् । एकादश्यां विशेषेण द्वारसामीप्यसंस्थितम् ॥ १३६॥ त्रयोदश्यां धर्मराजं पूजयेन्नात्र संशयः । धर्मप्रदं जनानां च सदा पुण्यविवर्धनम् ॥ १३७॥ अन्ये देवगणाः सर्वे स्थिता देवालये किल । पूर्णिमायां जनैः पूज्याः क्षेत्रवासिभिरादरात् ॥ १३८॥ यमस्य सन्निधाने तु पितरः क्षेत्रवासिनः । संस्थितास्ते नरैः पूज्या अमायां वंशवर्धनाः ॥ १३९॥ त्रयस्त्रिंशत् कोटिमिता देवाः सर्वत्र संस्थिताः । तेषां स्थानादि देवाः कथयितुं नैव शक्यते ॥ १४०॥ देवागारस्य देवेशाः कथितं यात्रया युतम् । माहात्म्यं देवजातीनां सर्वकामफलप्रदम् ॥ १४१॥ मयूरस्यापि अधुना कथयामि चरित्रकम् । तत्स्थानां श‍ृणुत प्राज्ञाः सर्वसिद्धिप्रदायकम् ॥ १४२॥ देवागाराच्छते द्वे तु धनुषां संस्थितो भृगुः । भृगुतीर्थं महत् क्षेत्रे कुण्डं पापप्रदाहकम् ॥ १४३॥ तत्र स्नानेन जन्तूनां वन्ध्यदोषो विनश्यति । तथा पूज्य प्रजानाथं भृगुं सर्वमवाप्नुयात् ॥ १४४॥ रोहिण्यां तस्य यात्रा वै कर्तव्या क्षेत्रवासिभिः । तेन तुष्टो महायोगी भृगुः सर्वार्थदो भवेत् ॥ १४५॥ स्वनामसंयुतं सोप्यास्थाप्य विघ्नेश्वरं परम् । पूजत्यनन्यभावेन गाणपत्यस्वभावतः ॥ १४६॥ (Page खं. ६ अ. १९ पान ५२) तस्य वामाङ्गगः साक्षात्तावन्मानेन संस्थितः । पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥ १४७॥ कुण्डं पुलहतीर्थाख्यं दोषहन्तृ स्थितं परम् । भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥ १४८॥ यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके । कर्तव्या क्षेत्रवासिभिर्महापुण्यप्रवर्द्धिनी ॥ १४९॥ दक्षिणाङ्गे क्रतुश्चैव कुण्डं कृत्वा स्वतीर्थजम् । गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥ १५०॥ आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः । यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥ १५१॥ भृगोः पुरश्च धनुषां शतं तत्र स्थितो मतः । च्यवनश्च तथा धाता विधाता देवसत्तमौ ॥ १५२॥ क्रमेण भार्गवाः सर्वे मुनयस्तत्र संस्थिताः । शतानि पञ्च तत् क्षेत्रं धनुषां शौनकादयः ॥ १५३॥ पूजनीयाश्च पञ्चम्यामृषयः सर्वभावनाः । श्रवणे मानवैस्तत्स्थैः पुण्यदाः सम्भवन्ति च ॥ १५४॥ पुलहस्य पुरस्तद्वत् पौलहा मुनयः सदा । तिष्ठन्ति पूजनीयास्ते रेवत्यां सर्वदा मताः ॥ १५५॥ क्रतोरग्रे महेशानाः क्रतुवंशसमुद्भवाः । तिष्ठन्ति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः ॥ १५६॥ अश्विन्यां पूजनीयाश्च मताः सर्वार्थदायकाः । गणेशमास्थाप्य विप्राः सेवन्ते भक्तितत्पराः ॥ १५७॥ तत्पुरो देवगन्धर्वा विश्वावसुपुरोगमाः । धनुषां द्वे शते तेषां क्षेत्रं ख्यातं मयूरके ॥ १५८॥ उर्वशी चैव रम्भाद्यास्ततो ह्यप्सरसः पुरः । धनुषां शतकं क्षेत्रं तासां तत्र प्रकीर्तितम् ॥ १५९॥ पूजनीया नरैः पुष्पैर्गन्धर्वाः पुण्यवर्धनाः । पुर्नवसावप्सरसः पूजनीया विशेषतः ॥ १६०॥ नानामुनिगणा अन्ये भवन्ते संस्थिताः पराः । विश्वामित्रो याज्ञवल्क्यस्तथा पाराशरोऽग्रणीः ॥ १६१॥ श्वेतकेतुर्वामदेवो परो रैभ्यो निदाघकः । इत्याद्याः बहवो देवाः कथयितुं न शक्यते ॥ १६२॥ स्वस्वनाम्नाङ्कितांस्ते संस्थाप्य लम्बोदरान् सदा । भजन्ते तीर्थसंयुक्ताः पूजनीयाः सुखप्रदाः ॥ १६३॥ पूर्वभागाश्रितं सर्वं कथितं वः समासतः । अधुना दक्षिणं वक्ष्ये मयूरं सर्वदायकम् ॥ १६४॥ देवालयाद्दक्षिणाच्चतुःशतं च प्रकीर्तितम् । धनुषां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः ॥ १६५॥ स्वनामाङ्कितमास्थाप्य गणेशं भजते सदा । तत्र कुण्डं तु वासिष्ठं स्नानेन पापनाशनम् ॥ १६६॥ भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेत् । यात्रा तस्य समाख्याता मयूरे सुखदायिका ॥ १६७॥ तस्य वामाङ्गभागे चात्रिः सर्वार्थप्रदायकः । गणेश्वरं स संस्थाप्य भजते स्वाभिधानकम् ॥ १६८॥ तीर्थं तत्र स्थितं तस्य स्नानमात्रेण मानदम् । कृत्तिकायां विशेषेण पूजनीयो नरैः सदा ॥ १६९॥ दक्षिणाङ्गे वसिष्ठस्य पुलस्त्यः संस्थितोऽभवत् । स्वनामाङ्कितमास्थाप्य ढुण्ढिं भजति देवपाः ॥ १७०॥ कुण्डं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम् । आसुरभावसम्भूतं मलं दहति सेविनाम् ॥ १७१॥ पूजनीयो धनिष्ठायां विशेषेण महामुनिः । सर्वार्थदायको भावी यात्राकारिण एव च ॥ १७२॥ वसिष्ठाच्च पुरोभागे वासिष्ठा मुनयोऽपरे । (Page खं. ६ अ. १९ पान ५३) द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता द्विजाः ॥ १७३॥ अत्रेः पुरस्तथात्रेयास्तावन्मानेन संस्थिताः । पुलस्त्याग्रे च पौलस्त्या भवन्ति मुनयः स्थिताः ॥ १७४॥ स्वस्वतीर्थसमासक्ताः स्थाप्य विघ्नेश्वरांस्तथा । पूजयन्ति स्वनामस्थान् भक्तियुक्ता महर्षयः ॥ १७५॥ मघायां चैव वासिष्ठाश्चित्रायामत्रिसम्भवाः । हस्ते पौलस्त्यकाः पूज्याः क्षेत्रवासिभिरादरात् ॥ १७६॥ अन्ये मुनिगणा नाना सदा तत्रैव संस्थिताः । तेषु मुख्यान् प्रवक्ष्यामि श‍ृणुध्वं देवसत्तमाः ॥ १७७॥ कण्वश्च जैमिनिश्चैको द्वितश्च त्रितरैवतौ । मेधातिथिर्भरद्वाजो जमदग्निश्च गौतमः ॥ १७८॥ इत्यादि बहवोऽन्ये स्थिताः संस्थाप्य गणेश्वरान् । पूजनीया नरेणैव सर्वधर्मविवर्धनाः ॥ १७९॥ कथितेषु महेशाना नक्षत्रेषु विशेषतः । यात्रा तेषां समाख्याता सर्वाघशमनी परा ॥ १८०॥ ततः पुरः पिशाचेशा भूतेशाः सिद्धचारणाः । संस्थिताः पूजनीयास्ते भौमवारे विशेषतः ॥ १८१॥ अतः परं पश्चिमस्थं वदामि पापहारकम् । चित्रं मयूरे माहात्म्यं क्षेत्रवासिभवं परम् ॥ १८२॥ देवालयादष्टशतं धनुषां स्थानमुत्तमम् । दक्षस्य तत्र देवेशा दक्षतीर्थं सरः स्थितम् ॥ १८३॥ तत्र स्नानेन दुर्बुद्धिः परा नश्यति तत्क्षणात् । सुबुद्धिर्जायते सद्यो जनानां भावितात्मनाम् ॥ १८४॥ महायात्राऽयभिजिति तस्य प्रोक्ता सुखप्रदा । कर्तव्या क्षेत्रवासीभिः परा सद्बुद्धिदायिका ॥ १८५॥ दक्षस्य वामभागे तु मरीचिः संस्थितो महान् । तावन्मानेन संयुक्तः स्वतीर्थेन समन्वितः ॥ १८६॥ स्वातौ तस्य महायात्रा कर्तव्या वृद्धिदायिनी । क्षेत्रवासिभिरानन्दाद्योगीन्द्रस्य महात्मनः ॥ १८७॥ अङ्गिरास्तस्य दक्षस्य दक्षिणे योगिसत्तमः । पूजनीयो विशेषेण ज्ञानदाता भवेत् सदा ॥ १८८॥ तीर्थं तत्र समाख्यातं कुण्डरूपेण योगिनः । स्नानेन भक्तिसंयुक्तो लभेज्ज्ञानं च मानवः ॥ १८९॥ दक्षादयस्त्रयः प्रोक्ताः संस्थाप्य गणनायकम् । स्वस्वनामाङ्कितं देवाः पूजयन्ति निरन्तरम् ॥ १९०॥ दक्षाग्रे दक्षसम्भूताश्चतुर्वर्णप्रकाशिकाः । पुत्र्यः षष्टीर्महाभागाः सेवन्ते गणनायकम् ॥ १९१॥ तासां क्षेत्रं समाख्यातं चतुः शतधनुर्मितम् । रविवारे पूजनीया वंशसौभाग्यवर्धनाः ॥ १९२॥ तासां पुरः प्रजाः सर्वा नरैस्ताभ्यः समुद्भवाः । संस्थिता पूजनीयास्ता धनिष्ठायां सुखप्रदाः ॥ १९३॥ द्वे शते धनुषां तासां क्षेत्रं चैव प्रकीर्तितम् । गणेशमास्थाप्य सर्वाः सेवन्ते नित्यमादरात् ॥ १९४॥ मरीचेस्तु पुरोभागे मारीचाः काश्यपादयः । संस्थितास्ते नरैः पूज्याः शततारे धनप्रदाः ॥ १९५॥ चतुःशतानि तत् क्षेत्रं धनुषां च प्रकीर्तितम् । स्थाप्य विघ्नेश्वरान् सर्वे पूजयन्ति निरन्तरम् ॥ १९६॥ पुरोभागे ह्यङ्गिरसः स्थिता आङ्गिरसाः सदा । तावन्मानेन संयुक्तास्तीर्थयुक्ता महर्षयः ॥ १९७॥ लम्बोदरांस्त आस्थाप्य स्वस्वनामाङ्कितान् सदा । (Page खं. ६ अ. १९ पान ५४) पूजयन्ति विशेषेण भक्तिभावसमन्विताः ॥ १९८॥ आश्लेषायां महायात्रा तेषां कार्या नरैः परा । पुत्रपौत्रप्रवृद्ध्यर्थं क्षेत्रवासिभिरादरात् ॥ १९९॥ अन्ये मुनिवरास्तत्र संस्थिता गणपे रताः । तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगीन्द्रकांस्तथा ॥ २००॥ दुर्वासा गालवश्चैव त्रिशिरा नै वो मुनिः । अगस्त्यश्च मृकण्डस्तु मार्कण्डेयो दधीचिकः ॥ २०१॥ कथितेषु दिनेष्वेते पूजनीया महात्मभिः । सर्वसौख्यप्रदातारो भवन्ते योगिसत्तमाः ॥ २०२॥ तीर्थयुक्तां गणेशानास्थाप्य सम्पूजयन्ति ते । मुनयो भक्तिसंयुक्ता क्षेत्रवासपरायणाः ॥ २०३॥ अतश्च किन्नराः साध्याः पुरो विद्याधरास्तथा । सेवन्ते गणनाथं संस्थाप्य क्षेत्रनिवासिनः ॥ २०४॥ पूजनीया नरैः सर्वे सर्वकारिण आदरात् । एवं सङ्क्षेपतः प्रोक्तं माहात्म्यं पश्चिमाश्रितम् ॥ २०५॥ अथोत्तरभवं देवाः कथयामि समासतः । मयूरक्षेत्रसंस्थानां चरित्रं सुखदं भवेत् ॥ २०६॥ देवागारात्तु धनुषां देवपाः शतपञ्चके । वसवोऽष्टौ स्थिताश्चैवास्थाप्य गाणेश्वरं परम् ॥ २०७॥ स्वस्वतीर्थभवं कुण्डं कृत्वा भक्तिपरायणाः । भजन्ते पूर्णिमायां ते पूजनीया विशेषतः ॥ २०८॥ तेषां वामाङ्गभागे तु धेनवः कामदायिकाः । संस्थिता तावता मानेन युतास्तीर्थसंयुताः ॥ २०९॥ गणेश्वरं ताः संस्थाप्य स्वस्वनामयुतं पराः । पूजयन्ति विधानेन भक्तियुक्ता महौजसः ॥ २१०॥ द्वादश्यां ता नरैः पूज्याः कामधेनुमुखाः सुराः । क्षेत्रवासिभिरानन्ददायिकाः कामपूरिकाः ॥ २११॥ दक्षिणाङ्गे सितश्चैव देवलश्च समास्थितौ । गणेश्वरं तौ संस्थाप्य पूजतो योगिसत्तमाः ॥ २१२॥ उत्तरायां विशेषेण पूजनीयौ नरैः सदा । एकनिष्ठाप्रदौ स्यातां नराणां पापहारकौ ॥ २१३॥ वसूनां च पुरोभागे क्षेत्रं शतधनुर्द्वयम् । गार्ग्याणां ते नरैर्विद्याप्रदाः पूज्या विशेषतः ॥ २१४॥ उत्तराषाढनक्षत्रे यात्रा तेषां प्रकीर्तिता । गर्गः स्वयं महायोगी भजते गणनायकम् ॥ २१५॥ गवां पुरो महेशाना मौद्गला गणपप्रियाः । सेवन्ते विघ्नराजं ते तावन्मानेन संस्थिताः ॥ २१६॥ देवा विप्राश्च माण्डूका देवलासितयोः पुरः । सेवन्ते गणनाथं ते सर्वे भक्तियुताः सदा ॥ २१७॥ उत्तराभाद्रनक्षत्रे मौद्गला मानवैः सदा । पूजनीया विशेषेण योगदाः सम्भवन्ति ते ॥ २१८॥ माण्डूकाः पूर्वफल्गुन्यां पूजनीया नरैः सदा । व्याधिदोषहरास्ते तु भवन्त्यत्र न संशयः ॥ २१९॥ असिताद्या इमे सर्वे स्वस्वनामाङ्कितं परम् । पूजयन्ति गणेशं संस्थाप्य तीर्थसमन्विताः ॥ २२०॥ तेषां पुरो महात्मानो मुनयस्तत्र संस्थिताः । मुख्यांस्तेषु प्रवक्ष्यामि श‍ृणुध्वं योगिसत्तमान् ॥ २२१॥ धौम्यश्च वाल्मीकिवाचक्नवी मङ्कणको मुनिः । कहोडश्च सुमन्तुर्वै वैशम्पायन एव च ॥ २२२॥ जाबालिः पर्वतः पैल ऋष्यश‍ृङ्गः प्रतापवान् । (Page खं. ६ अ. २० पान ५५) लोमशश्च विभाण्डोऽन्यो बल्लवाद्या महर्षयः ॥ २२३॥ स्वस्वतीर्थयुतास्ते संस्थाप्य विघ्नेश्वरान् सदा । पूजयन्ति महाभागाः स्वस्वनामसमन्वितान् ॥ २२४॥ उत्तराषाढनक्षत्रे पूजनीया नरैः सदा । सर्वपापहरास्ते वै भवन्ते योगिसत्तमाः ॥ २२५॥ तत्पुरो गुह्यकाश्चैव हनूमान् पवनात्मजः । यक्षा रक्षोगणाः सर्वे भजन्ते गणनायकम् ॥ २२६॥ स्थाप्य ढुण्ढिं स्वतीर्थैस्तु युता ध्यानपरायणाः । उत्तराभाद्रनक्षत्रे पूजनीयाः शुभप्रदाः ॥ २२७॥ मुक्तेरीशानभागे तु सरः प्रणवसंज्ञितम् । प्रणवाकृति तत्रैव स्नाने मूर्ध्नि ध्वनिर्भवेत् ॥ २२८॥ तत्रोङ्कारगणेशश्च सरस्वत्या समन्वितः । चतुर्थ्यां पूजनीयोऽसौ सर्वसिद्धिप्रदायकः ॥ २२९॥ तत्पुरो भैरवस्यैव दूता नग्नस्य सर्वतः । रक्षार्थं संस्थिता देवा महाबलसमन्विताः ॥ २३०॥ अन्ये नानाविधास्तत्र स्थितास्तेषां महात्मनाम् । नामादिकं बहुत्वात् कथयितुं नैव शक्यते ॥ २३१॥ इदमुत्तरगं प्रोक्तं मयूरस्य चरित्रकम् । सङ्क्षेपेण महादेवाः सर्वसिद्धिप्रदायकम् ॥ २३२॥ यात्रादिसंयुतं यस्तु श‍ृणोति क्षेत्रवासिनाम् । मुख्यानां चरितं पुण्यं स सर्वं प्रलभेत् सुखम् ॥ २३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ ६.१९

६.२० मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । मयूरं कीदृशं देवालयं विप्र किमात्मकम् । गर्भागारं तथा योगिन् वद गाणेशरूपकम् ॥ १॥ भृशुण्ड्युवाच । चित्रं नानाविधं सर्वं मायारूपं मयूरकम् । तदेव गणनाथस्य रूपं ज्ञातव्यमुत्तमम् ॥ २॥ दिवुः क्रीडात्मको धातुर्मायाक्रीडाकरः स्वयम् । गणेशस्तस्य रूपं यद्देवागारं प्रकीर्तितम् ॥ ३॥ यथा गर्भश्च देवेन्द्राः शुक्रशोणितसम्भवः । द्वाभ्यामेकत्वमापन्नो जायते द्वन्द्वधारकः ॥ ४॥ मायामायिकयोर्योगे तथा स्वानन्द उच्यते । गर्भागारं तदेवाऽपि ज्ञातव्यं योगिभिः परम् ॥ ५॥ स्वानन्दे वसतिस्तस्य गणेशस्य महात्मनः । स एव मूर्तिमास्थाय सन्तस्थावुत्तरामुखः ॥ ६॥ एतत् सर्वं रहस्यं यत् कथितं सर्वमञ्जसा । तं सेवध्वं महेशानास्तेन सर्वमवाप्स्यथ ॥ ७॥ देवेन्द्रा ऊचुः । क्षेत्रं गणपतेर्योगिन् सर्वं गाणेशरूपकम् । तत्र स्थिता विशेषेण देवविप्रादयः प्रभो ॥ ८॥ तेषां पुरीषमूत्रादिव्यवहारः कथं भवेत् । स्त्रीसङ्गपुत्रपौत्राद्यं सर्वं तद्दुर्घटं भवेत् ॥ ९॥ भृशुण्ड्युवाच । (Page खं. ६ अ. २० पान ५६) साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः । न तस्य बाधते किञ्चिन् मृतरूपमिदं कदा ॥ १०॥ लोकानामुपकाराय जलपृथ्व्यादिकं तथा । रचितं सर्वसामान्यं तत्र वासेन लभ्यते ॥ ११॥ गणेशः सर्वयोगानामधिपो नात्र संशयः । न गणेशस्वरूपस्य विक्रिया जायते ततः ॥ १२॥ योगरूपे नरास्तत्र निश्चये न मृताः किल । गाणेशे सम्भविष्यन्ति तदाकारा न संशयः ॥ १३॥ तथा नरादयश्चान्ये वसन्ति क्षेत्रवासिनः । कुर्वन्ति मलमूत्रादि देवादीनां न बाधते ॥ १४॥ देवविप्रादयस्तत्र संस्थिता व्याप्य देवपाः । अङ्गुष्ठपर्वमात्रेण रूपेण क्षेत्रवासिनः ॥ १५॥ मयूरं तन्मयं क्षेत्रं ज्ञातव्यं दिव्यचक्षुषा । मृन्मयं मानवानां तु तद्दोषस्तत्र नो भवेत् ॥ १६॥ तथापि मृन्मये क्षेत्रे गर्भागारं विशेषतः । मलमूत्रादिदोषैश्च संयुतं नैव कारयेत् ॥ १७॥ तेन सर्वं शुभं सर्वैर्लभ्यते मानवैः परम् । यथा धर्मयुतैर्नित्यं सेवनीयं मयूरकम् ॥ १८॥ भवेद्विपथभावेन मयूरे संस्थितो यदि । स यातनां लभेच्चोग्रां नग्नभैरवकारिताम् ॥ १९॥ देवेशा ऊचुः । गर्भागारे मलस्यैव नरस्त्यागं समाचरेत् । तस्मै भैरवदत्तां तां यातनां कीदृशीं वद ॥ २०॥ मयूरे पापकर्माणि यः करोति तु मानवः । स भुङ्क्ते यातनां विप्र कीदृशीं तां वदस्व नः ॥ २१॥ मयूरं केन पुण्येन लभ्यते तद्वदस्व च । क्षेत्रसंन्यासिनां चैव द्वारयात्रां किमात्मिकाम् ॥ २२॥ भृशुण्ड्युवाच । इतिहासं प्रवक्ष्यामि पुराकल्पसमुद्भवम् । तेन संशयहीनाश्च भविष्यथ सुरोत्तमाः ॥ २३॥ देवागारे द्विजः कश्चिद्देवानीकेति नामतः । अत्रिगोत्रोद्भवः सुज्ञः संस्थितोऽभूत् सुकर्मवान् ॥ २४॥ स्वधर्मसंयुतो नित्यं सिषेवे गणनायकम् । देवविप्रातिथिप्रेप्सुः क्षेत्रयात्रापरायणः ॥ २५॥ एवं बहौ गते काले वृद्धस्तत्र बभूव ह । तथापि नित्ययात्रायां रतोऽभूद् धर्मधारकः ॥ २६॥ एकदा ज्वरयुक्तश्चाजीर्णान्नेन प्रपीडितः । जगाम स मयूरेशं पूजनाय महायशाः ॥ २७॥ पूजयित्वा गणेशानं नित्ययात्रां चकार ह । तत्रापानभवो वायुः पीडयन्नतिदूषितः ॥ २८॥ हठात् सङ्गृह्य विप्रस्तं त्यक्त्वा यात्रां महामतिः । स्वगृहं प्रजगामाऽसौ त्वरायुक्तोऽतिदुःखितः ॥ २९॥ गच्छतोऽजीर्णदोषेणातिसारेण महात्मनः । मलः शिथिलभावेन निःसृतो गर्भमन्दिरे ॥ ३०॥ ततोऽतिदुःखसंयुक्तः स्नानं चक्रे स वाडवः । शनैः स्वगृहमागम्य शोकयुक्तो बभूव ह ॥ ३१॥ अहो मयाऽतिमूर्खेण गर्भागारे कृतं परम् । मलत्यागभवं पापं का गतिर्मे भविष्यति ॥ ३२॥ ततस्तत्र ममारैव स्वल्पकालेन विप्रपः । रोगेण पीडितोऽत्यन्तं देवानीको महायशाः ॥ ३३॥ ततस्तं भैरवस्यापि दूता नेतुं समागताः । बद्ध्वा सन्ताड्य विप्रं सङ्गृह्य ते भैरवं ययुः ॥ ३४॥ दृष्ट्वा स भैरवो देवस्तमुवाच द्विजाधमम् । किमर्थं रोगयुक्तस्त्वं गर्भागारं गतो वद ॥ ३५॥ (Page खं. ६ अ. २० पान ५७) अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् । भुङ्क्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥ ३६॥ साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् । तस्य मस्तकमध्ये तु पपात किल ते मलः ॥ ३७॥ अस्माभिश्च सुवासेन जलेन क्षालितं तदा । मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥ ३८॥ इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः । देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥ ३९॥ ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम् । चकार दूतवर्यैश्च नग्नभैरव एव च ॥ ४०॥ अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह । बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥ ४१॥ भैरवाणां महावह्निर्मतः कोटिगुणाधिकः । यमस्याग्नेश्च जन्तूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥ ४२॥ शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः । बभ्राम दाहसंयुक्तो न ममार स मायया ॥ ४३॥ भैरवेण निबद्धः स दुःखमेव सुदारुणम् । बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥ ४४॥ ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः । शतवर्षाणि तत्रैवाभवच्छैत्येन पीडितः ॥ ४५॥ ततः स रौरवे तेन निक्षिप्तो जन्तुभिस्तथा । दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥ ४६॥ शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् । ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥ ४७॥ शतवर्षाणि तत्रैव यातनां बुभुजे पराम् । ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥ ४८॥ अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः । अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥ ४९॥ तत्रैव शास्त्रमन्त्रेण वैदिकेन द्विजोत्तमैः । ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥ ५०॥ एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम् । आनाय्य भैरवो देवो जगाद वचनं हितम् ॥ ५१॥ देवानीक त्वया भक्त्या यात्रार्थं गर्भमन्दिरम् । अशक्तेन कृतं चैव मलयुक्तं महामते ॥ ५२॥ तेन त्वं पञ्चशतकं वर्षाणां यातनाभवम् । दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥ ५३॥ इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह । एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥ ५४॥ यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् । त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥ ५५॥ इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा । तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥ ५६॥ तं निर्भर्त्स्य महाक्रूरा भैरवा यातनाभवम् । दर्शयित्वा महद् दुःखं ब्रह्मभूतं तु चक्रिरे ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥ ६.२० (Page खं. ६ अ. २१ पान ५८)

६.२१ मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना । यथा दण्डः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥ १॥ मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत् । गत्वा वनान्तरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥ २॥ कुटुम्बपोषणे सक्तः शिश्नोदरपरायणः । चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥ ३॥ परस्त्रियं बलाद् गृह्यायभत्तां निरपत्रपः । जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥ ४॥ भगिनीमेकलां दृष्ट्वा कदा मद्येन विह्वलः । हठात् गृह्य महेशाना बुभुजे कामनायुतः ॥ ५॥ चौरादीनि चकारापि ब्रह्महत्यां तथा खलः । गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥ ६॥ गणेशं न पुपूजासौ कदाचिदमरान् परान् । यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥ ७॥ भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम् । निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥ ८॥ क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम् । हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥ ९॥ सावधानं ततः कृत्वा मायया नग्नभैरवः । मृतिमूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥ १०॥ ततस्तं गृह्य दूतास्ते भैरवस्य महात्मनः । अग्निकुण्डेषु सङ्क्षिप्य दाहयामासुरञ्जसा ॥ ११॥ सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः । अग्निचक्रे समाक्षिप्य भ्रामयामासुरञ्जसा ॥ १२॥ हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः । न ममार न मूर्च्छां सोऽलभद्भैरवमायया ॥ १३॥ ततः सहस्रवर्षान्ते हैमकुण्डे समाक्षिपन् । भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥ १४॥ ततः सहस्रवर्षान्ते शिलायां स्थाप्य मुद्गरैः । चूर्णयामासुरुग्रैस्तं खलं कण्टकसंयुतैः ॥ १५॥ एवं गतानि वर्षाणि सहस्रं देवसत्तमाः । ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥ १६॥ रुरुर्जन्तुभिरादष्टो रौरवेऽभून्नराधमः । स सहस्रं वर्षकाणि महोग्रैर्वह्निसन्निभैः ॥ १७॥ ततस्तैलकटाहेषु सन्तप्तेषु च तं भटाः । चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥ १८॥ ततः सहस्त्रवर्षान्ते तप्तवालुभिरेव तम् । आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥ १९॥ सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम् । ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥ २०॥ क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः । बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥ २१॥ तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम् । तदा दण्डादिभिः सर्वे ताडयामासुरोजसा ॥ २२॥ वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा । पपाल दुःखसंयुक्तो मन्त्रशस्त्रभयात् कदा ॥ २३॥ त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम् । भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥ २४॥ शुद्धस्तेन समानीतो गणेशस्यैव मन्दिरे । गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ २५॥ एवं पापप्रचारान् सन्दण्ड्य ब्रह्ममयं पुनः । चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते न वै ॥ २६॥ (Page खं. ६ अ. २१ पान ५९) अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् । कथयामि समासेन श‍ृणुध्वं शिवमुख्यकाः ॥ २७॥ ब्राह्मणः काश्यपः कश्चित् मयूरे संस्थितोऽभवत् । चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥ २८॥ परस्त्रीलम्पटः सोऽपि शिश्नोदरपरोऽभवत् । ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥ २९॥ ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् । बद्ध्वा क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥ ३०॥ ततो द्विजो विलप्यैव कृत्वा शपथमागतः । मयूरं तत्र लोकैः स द्वारयात्रा परोऽभवत् ॥ ३१॥ द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः । ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥ ३२॥ चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः । पञ्चम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥ ३३॥ मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् । सङ्गृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥ ३४॥ यातनागारकं देवो दर्शयामास भीतिदम् । तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः ॥ ३५॥ दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह । क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥ ३६॥ अन्यच्च श‍ृणुत प्राज्ञा मयूरे चरितं भवम् । पुरा कल्पे समासेन कथयामि महेश्वराः ॥ ३७॥ दण्डकारण्यदेशे तु ब्राह्मणोऽत्रिकुलोद्भवः । बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥ ३८॥ नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह । चौर्यद्रव्यं जनानां सङ्गृह्य भोगान् बुभोज च ॥ ३९॥ कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् । चर्तुवर्णजनाः सोऽपि तेषां मध्ये जगाम ह ॥ ४०॥ द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् । एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥ ४१॥ कृत्वा सप्तपुरीणां ते यात्रां पुनः समाययुः । स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥ ४२॥ ततः स्त्रीपुत्रकान् स्वस्य मण्डयामास भूषणैः । चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥ ४३॥ द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् । चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः ॥ ४४॥ ततो मयूरक्षेत्रस्य माहात्म्यं स्कान्दसम्भवम् । शुश्राव सुप्रतीकश्च जनैः सर्वैर्महेश्वराः ॥ ४५॥ मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः । द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥ ४६॥ स तु तत्र चकारापि विचारं मानसे परम् । अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥ ४७॥ विषादिना हता लोका ब्राह्मणाद्या मया बहु । तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥ ४८॥ काश्यां प्रदक्षिणायां तु पञ्चक्रोश्यां मया परम् । पापं कृतमपारं वै का गतिर्मे भविष्यति ॥ ४९॥ मद्विना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा । यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन कथ्यते ॥ ५०॥ एकान्तगं ततः पौराणिकं गत्वा द्विजाधमः । उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥ ५१॥ सुप्रतीक उवाच । (Page खं. ६ अ. २१ पान ६०) सर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् । वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥ ५२॥ पौराणिक उवाच । सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् । तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥ ५३॥ चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके । धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥ ५४॥ पञ्चमं ब्रह्मभूताख्यं मयूरं नात्र संशयः । तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेत् ॥ ५५॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ । गृहं दारादि सङ्गृह्य मयूरेशं जगाम ह ॥ ५६॥ यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् । द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥ ५७॥ देवागारं समाश्रित्याभजत्तं गणनायकम् । अन्ते पापविहीनः स ब्रह्मभूतो बभूव ह ॥ ५८॥ एवं नाना जनास्तत्र पतितानां महेश्वराः । पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥ ५९॥ अधुना कथयिष्यामि चरित्रं यत् पुरातनम् । श्रुत्वा संशयहीनास्तं मयूरेशं भजन्ति वै ॥ ६०॥ वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह । विषेण पितरं सोऽपि मारयामास लोभतः ॥ ६१॥ नानाद्विजादिकान् सोऽपि वन्द्य पूज्यान् दुरात्मवान् । विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥ ६२॥ स कदाचिद्वणिग्भिश्च क्रयविक्रयकारणात् । जगाम दण्डकारण्ये जनैः सह महाखलः ॥ ६३॥ तत्र माघे महायात्रां जग्मुर्लोका विशेषतः । मयूरेशं ततः सोऽपि तैर्जगाम सुहर्षितः ॥ ६४॥ द्रव्यलोभार्थमानन्दात् पुरं मायूरमाययौ । तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः ॥ ६५॥ बहिः स्थितानि पश्यन्ति यदाऽसावागमिष्यति । तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥ ६६॥ तत्र दैवप्रसङ्गेन न पापानि चकार ह । यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥ ६७॥ पुनर्मानवसङ्घैः स निर्जगाम महेश्वरः । मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥ ६८॥ तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः । स्प्रष्टुं तान्यसमर्थानि बभूवुर्देवसत्तमाः ॥ ६९॥ ततः पापानि सर्वाणि विचारं चक्रुरादरात् । अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥ ७०॥ तथाऽस्माभिर्मयूरेऽयं गत्वा पापं करिष्यति । ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥ ७१॥ अधुना शुद्धरूपोऽयं बहिः सदा समागतः । अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥ ७२॥ वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः । येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥ ७३॥ किञ्चित् पापयुतं वैश्यं प्रविश्यामो विशेषतः । ततो महाघसंयुक्तं करिष्यामो न संशयः ॥ ७४॥ एवं विचार्य पापानि पापिनां हृदयेषु च । प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥ ७५॥ अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् । तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥ ७६॥ ततः पापेषु दुर्बुद्धिश्चकार ह पुनर्मतिम् । (Page खं. ६ अ. २२ पान ६१) एतस्मिन्नन्तरे तत्र ब्राह्मणं स ददर्श ह ॥ ७७॥ तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् । श्रुत्वा तं पुनरप्याह ब्राह्मणः सर्वमार्गवित् ॥ ७८॥ त्वया कृतानि पापानि तानि त्वां पीडयन्ति वै । अतस्त्वं सत्वरो भूत्वा मयूरेशं समाश्रय ॥ ७९॥ स्वजनैः पुत्रदारादि समानाय्य महामते । तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥ ८०॥ तच्छ्रुत्वा स प्रणम्यादौ तं मयूरेशकं द्विजम् । जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥ ८१॥ मयूरे वैश्यवृत्या च धर्मयुक्तः समास्थितः । धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥ ८२॥ पापानि भोगहीनानि बहिर्मम्रुः स्थितान्यपि । धर्मध्वजश्च देवेशा ब्रह्मैवान्ते बभूव ह ॥ ८३॥ क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन । पीडितेन महादोषैर्मतं तदपि तद्वरम् ॥ ८४॥ अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः । मयूरे नीचजातिस्था किञ्च तेन समो न हि ॥ ८५॥ आयासेन विहीनत्वाद्ब्रह्मभूतो भवेन्नरः । मयूरे तेन किं तुल्यं भवेद्ब्रह्माण्डमण्डले ॥ ८६॥ इदं यः श‍ृणुयाद्देवा श्रावयेद्वा पठेन्नरः । पापहीनः स्वभावेन धर्मयुक्तो भविष्यति ॥ ८७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥ ६.२१

६.२२ क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् । पुण्यं चित्तैकभावेन श‍ृणुध्वं सुखदायकम् ॥ १॥ कुत्र आङ्गिरसे जातो देवप्रिय इति श्रुतः । पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥ २॥ गणेशे प्रीतिसंयुक्तो गाणपत्यप्रियोऽभवत् । मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥ ३॥ ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव ह । तया सम्प्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥ ४॥ शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः । क्षेत्राणि तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥ ५॥ ततः स्वगृहमागत्य दारापत्यैः समन्वितः । गणेशमभजन्नित्यं भक्तियुक्तेन चेतसा ॥ ६॥ ततश्च मानसे सोऽपि विचारमकरोत् परम् । अहो मयूरपक्षेत्रं सेवनीयं निरन्तरम् ॥ ७॥ ज्ञात्वा द्विजं समुद्युक्तं दारापत्यैः समन्वितम् । माया तं पीडयामास मयूरे वासभञ्जनात् ॥ ८॥ यात्रार्थं तेन यत्किञ्चित् गृहे द्रव्यादि सञ्चितम् । (Page खं. ६ अ. २२ पान ६२) तदेव चौरमार्गेण नष्टं मायाप्रभावतः ॥ ९॥ ततोऽतिविस्मितो भूत्वा खेदयुक्तो बभूव ह । पापयुक्तोऽहमत्यन्तं तेन विघ्नयुतः कृतः ॥ १०॥ शुक्लवृत्त्या गमिष्यामि मयूरेशं न संशयः । ततो ज्वरसमायुक्तो बभूव ब्राह्मणोत्तमः ॥ ११॥ निर्जगाम ततः सोऽपि स्वगृहे ज्वरसंयुतः । शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना ॥ १२॥ तृतीये दिवसे तत्र विघ्नेशो विघ्नहारकः । बभूव स द्विजस्याऽपि परं श‍ृणुत चेष्टितम् ॥ १३॥ गणेशकृपया विप्रो ज्वरहीनो बभूव ह । ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ ॥ १४॥ तस्य पुत्रं समाहूय द्रव्यं दत्वा सुपुष्कलम् । अन्तर्धानं चकाराऽसौ पुत्रस्तातं जगाद तु ॥ १५॥ ज्ञात्वा देवं विचार्यैव स्वस्थचित्तो बभूव ह । देवप्रियो मयूरेशमाजगाम द्विजोत्तमः ॥ १६॥ यात्रादिकं चकाराऽसौ गर्भागारे समाश्रितः । अभजद्गणराजं तमन्ते तल्लीनतां ययौ ॥ १७॥ यानि क्षेत्राणि तीर्थानि ब्रह्माण्डे सेवितानि चेत् । तदा नरेण मायूरक्षेत्रं लभ्यं महेश्वराः ॥ १८॥ देवेशा ऊचुः । चोरादयः समाख्यातास्त्वया ब्रह्मर्षिसत्तम । किं चक्रुर्येन पुण्येन मयूरेशे लयं ययुः ॥ १९॥ भृशुण्ड्युवाच । पूर्वजन्मनि माहात्म्यं संश्रुतं किञ्चिदप्यहो । क्षेत्रस्य पापकर्मस्था अन्ते तत् सस्मरुर्यदि ॥ २०॥ अन्ते स्मरणयोगेन पापिनोऽन्यभवे कदा । ययुः क्षेत्रे मरणतो लयं देवा गणेश्वरे ॥ २१॥ गाणेशस्य च मार्गस्य श्रवणं पापचेतसाम् । भवेन्नानाविधस्याऽपि किञ्चिद्देवेन्द्रसत्तमाः ॥ २२॥ यदि मरणकाले तु तस्य संस्मरणं भवेत् । पुरो जन्मनि चाज्ञानात्तस्य संसेवनं भवेत् ॥ २३॥ अथवा ज्ञानयुक्तः स नरस्तत् सकृदाचरेत् । यद्वा तद्वाऽऽचरेद्वापि ब्रह्मभूतः स जायते ॥ २४॥ अथासंस्कारयुक्तस्य गाणेशेनाधिकारतः । प्रवेशो न भवेत्तस्य चरित्रं श‍ृणुत प्रियाः ॥ २५॥ क्षत्रियः सुलभो नामा बभूव पृथिवीपतिः । अङ्गदेशस्य राज्यं स चकार धर्मसंयुतः ॥ २६॥ मयूरेशस्य स श्रुत्वा माहात्म्यं क्षेत्रसम्भवम् । पुत्रे राज्यं परित्यज्य वासार्थं तु मनो दधे ॥ २७॥ यथाशास्त्रं विधानेन मयूरेशं समाययौ । चकार विधिना यात्रां स्वयं द्वारादिचिह्निताम् ॥ २८॥ ततस्तत्र स्थितो राजा वार्षिकीं विविधां पुनः । चकार यात्रां क्षत्रस्थो देवादीनां विधानतः ॥ २९॥ ततो मनसि सन्धार्य क्षेत्रसंन्यासकारणात् । सर्वानाज्ञापयामास सस्त्रीकः स उवास ह ॥ ३०॥ ततः स भैरवेणैव बुद्धिभेदयुतः कृतः । विचारमकरोच्चित्ते किमिदं क्षेत्रमुत्तमम् ॥ ३१॥ न काशीतुल्यतां याति क्षेत्रं ब्रह्माण्डमण्डले । अयं शिवसुतः प्रोक्तो मयूरेशो न संशयः ॥ ३२॥ ब्रह्म सर्वत्र योगेन तिष्ठति तेन वर्ण्यते । वेदादिषु गणेशानो ब्रह्मरूपी न मुख्यतः ॥ ३३॥ अतोऽहं भ्रमितो नूनं वाण्या पुराणसंस्थया । (Page खं. ६ अ. २२ पान ६३) गमिष्यामि न सन्देहः क्षेत्रं काशीसमाश्रितम् ॥ ३४॥ एवं विचार्य भूपालो मयूरं त्यज्य देवपाः । काशीं जगाम मार्गे स ममार रोगसंयुतः ॥ ३५॥ पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् । धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥ ३६॥ मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् । गणेशैकाक्षरं मन्त्रं ददौ तारकनामकम् ॥ ३७॥ शौनक उवाच । कथां विचित्रां वदसि सूत त्वं हर्षदायिनीम् । तत्र संशयकं छिन्धि वदिष्यामि त्वदग्रतः ॥ ३८॥ रामनामभवं मन्त्रमवदत्तारकं परम् । पुराणं कुत्रचित् देवं शिवपञ्चाक्षरं पुनः ॥ ३९॥ कुत्रौङ्कारं च कुत्रापि शक्तिसूर्यात्मकं परम् । गणेशैकाक्षरं कुत्र निश्चयो नैव जायते ॥ ४०॥ अतः संशयनाशार्थं वद सर्वज्ञसत्तम । त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥ ४१॥ सूत उवाच । बिम्बरूपं महद्ब्रह्म स एव चतुराननः । गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥ ४२॥ तस्य पालकभावेन विष्णुः सर्वप्रवर्तकः । अकाराक्षरसंस्थश्च मन्त्रराजे महामुने ॥ ४३॥ तयोः संहारकर्ता त्वनुस्वारः शङ्करः स्मृतः । वरदानाद् गणेशस्य मन्त्रे जानीहि निश्चितम् ॥ ४४॥ तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ । सानुनासिकरूपेण मन्त्रे सोऽपि प्रतिष्ठितः ॥ ४५॥ चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता । सर्वत्र संस्थिता विप्र मन्त्रे दृश्यस्वभावतः ॥ ४६॥ एभिः सृष्टं जगत्सर्वमोङ्काराकृतिलक्षणम् । तत्र क्रीडन्ति तेनैव मन्त्र ओङ्कारसंयुतः ॥ ४७॥ एतेषामर्थभावेन गणेशश्च प्रकीर्तितः । स एव देवता प्रोक्ता वेदेषु वेदवादिभिः ॥ ४८॥ गणेशमन्त्रगाः सर्वे देवेशाः शङ्करादयः । जगन्नानाविधं ब्रह्म तथा तत्र स्थितं मतम् ॥ ४९॥ यथा देवाश्च विप्रेश कलया गणपस्य वै । गणेशाकाररूपास्ते तथा मन्त्राः प्रकीर्तिताः ॥ ५०॥ अन्यच्च श‍ृणु भावेन काश्यां नानाविधा जनाः । तिष्ठन्ति विविधान् देवान् भजन्ते भक्तिसंयुताः ॥ ५१॥ तेषु स्वधर्मनिष्ठा ये काशीवासं यथाविधि । कुर्वन्ति तारकं तेभ्यो ददाति शङ्करः स्वयम् ॥ ५२॥ तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् । तारकं कथयामास शङ्करः करुणानिधिः ॥ ५३॥ सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् । वैष्णवं विष्णुभक्तेभ्यस्तारकं ह्यवदच्छिवः ॥ ५४॥ स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः । कर्माङ्गदेवप्रीत्यर्थमोङ्कारं तेभ्य आदिशत् ॥ ५५॥ गाणेशा ये स्थितास्तेभ्यः पूर्णतारकरूपकम् । गणेशैकाक्षरं मन्त्रं ददाति हर्षसंयुतः ॥ ५६॥ ते सर्वे तारकं प्राप्य कैलासे शिवसन्निभाः । अतिष्ठन् योगमास्थाय मन्त्रध्यानपरायणाः ॥ ५७॥ साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मन्त्रगं परम् । तत्र तल्लीनभावेन योगिनो बभ्रमुस्ततः ॥ ५८॥ महालये महेशस्य शरीरे लीनतां ययुः । पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥ ५९॥ (Page खं. ६ अ. २२ पान ६४) मन्त्रं मन्त्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः । स्वस्वेष्टब्रह्मगा अन्ते भवंस्ते मुनिसत्तम ॥ ६०॥ ये पापकारिणः काश्यां वसन्ति यदि ते मृताः । तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥ ६१॥ भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः । लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥ ६२॥ शौनक उवाच । वदन्ति वै पुराणेषु मुनयो ब्रह्मवादिनः । क्षेत्रेषु नानाभावेषु मृता मुक्तिमवाप्नुयुः ॥ ६३॥ तीर्थानि स्नानमात्रेण मुक्तिदानि वदन्ति च । व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥ ६४॥ सकामानि च कर्माणि कथितानि मुनीश्वरैः । नानाविधानि वै तेषु संस्मृतानि फलानि च ॥ ६५॥ तेषां कर्तार एवं ये फलानि प्राप्नुवन्ति ते । इहैव किञ्चित् केचित्तु परत्र द्विजसत्तम ॥ ६६॥ केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः । किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥ ६७॥ काश्यां मुक्तिं विशेषेण प्राप्नुवन्ति नरादयः । तत्रैव मरणे सूत कथं ते जन्मिनोऽभवन् ॥ ६८॥ सूत उवाच । शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः । सर्वेषां विविधानां तु शिष्याणां नात्र संशयः ॥ ६९॥ शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा । अधमा अधमेषु चाधमा मुनीन्द्रसत्तम ॥ ७०॥ विषयासक्तचित्ता ये पापकर्मपरायणाः । दुःखयुक्ता यदाऽत्यन्तं तदर्थं कर्मसेविनः ॥ ७१॥ अधमाधमरूपाश्च कथितास्ते महर्षिभिः । स्वल्पं फलं प्राप्नुवन्तीह परत्र सुनिश्चितम् ॥ ७२॥ यदि कर्मफलं स्वल्पं ददाति कथितं सदा । तेषां तत्र रुचिर्नैवोत्पद्यते मूर्खभावतः ॥ ७३॥ तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि । फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥ ७४॥ परेषां लज्जया ये तु भयाद्वा कर्म कारिणः । अधमास्ते समाख्याताः प्राप्नुवन्त्यधिकं फलम् ॥ ७५॥ सकामा ये स्वधर्मस्थाः कर्म कुर्वन्ति नित्यशः । मध्यमास्ते फलं सर्वं भुञ्जन्ति कालमानतः ॥ ७६॥ निःकामाः कर्मकर्तार उत्तमास्ते फलं मुने । अक्षयं कल्पपर्यन्तं भुञ्जन्त्यत्र न संशयः ॥ ७७॥ तत्रैव युगमानं ते कथयामि समासतः । कृते कर्म कृतं सद्यः फलदं जायते मुने ॥ ७८॥ त्रेतायां च कृतं कर्मान्यकर्माबाधभावतः । कालेन फलसंयुक्तं भवति प्राणिनां किल ॥ ७९॥ द्वापरे परलोके वाऽन्यकर्माबाधभावतः । इह ते वापि भुञ्जन्ति धर्महीनप्रभावतः ॥ ८०॥ कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः । सम्भोक्ष्यन्ति कृतं कर्म कालमानप्रभावतः ॥ ८१॥ आसुरेणैव भावेन नराः सत्तादिवर्जिताः । अतो जानीहि रुच्यर्थं फलं चित्रं भवत्यहो ॥ ८२॥ यथाविधि कृतं कर्म तदा फलप्रदं भवेत् । अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥ ८३॥ कृते कर्म कृतं येन सकृत्तस्य फलं लभेत् । त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥ ८४॥ फलं ददाति त्रिगुणं द्वापरे कर्म निश्चितम् । (Page खं. ६ अ. २२ पान ६५) कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥ ८५॥ सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः । अथवा युगधर्मेण चतुर्गुणं फलं लभेत् ॥ ८६॥ अन्यत् काश्यादि माहात्म्यसम्भवं विपरीतगम् । मन्यसे तत्र वक्ष्यामि श‍ृणु संशयनाशनम् ॥ ८७॥ आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै । इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥ ८८॥ यथा देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः । ब्रह्मणो दिवसान्ते ते मृत्युयुक्ता भवन्त्युत ॥ ८९॥ नराणां तत्र जन्मानि सङ्ख्याहीनानि शौनक । भवन्ति तेन देवाश्चामराः सङ्कीर्तिता बुधैः ॥ ९०॥ तथापि पञ्च देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः । विघ्नयुक्ता अनीशास्ते भवन्ति पश्य मानद ॥ ९१॥ महालये मरिष्यन्ति त्रिगुणैः संयुताः किल । पञ्च देवा न सन्देहो ब्रह्माद्याः शास्त्रमार्गतः ॥ ९२॥ तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी । मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥ ९३॥ इन्द्रादीनां विनाशे ते समर्था मृत्युहीनकाः । तेषां जन्ममृती जन्तुर्न पश्यति कदाचन ॥ ९४॥ ईश्वरत्वमतः शास्त्रे कथितं रुचिकारणात् । जन्ममृत्युविहीनाऽपि मुक्तिः सङ्कथिता बुधैः ॥ ९५॥ वेदशास्त्रपुराणेषु स्वानन्दो लयवर्जितः । सदा ब्रह्ममयत्वाद्वै तत्र मुक्तिर्विशिष्यते ॥ ९६॥ स्वानन्देनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् । पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥ ९७॥ अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसम्मतैः । वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥ ९८॥ मृतः षट्सु नरस्तासु काश्यां धर्मयुतो भवेत् । मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥ ९९॥ पुनर्जन्मनि योगी स भवत्यत्र न संशयः । स्वेष्ठं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥ १००॥ योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः । मरणे संस्मरेद्योगं स मयूरे भविष्यति ॥ १०१॥ यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् । मरिष्यति न सन्देहो महापापयुतोऽपि चेत् ॥ १०२॥ अथवा क्षेत्रमाहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् । यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥ १०३॥ मयूरस्याथ वा यात्रामेव कृत्वा नरोत्तमः । यत्र कुत्र मृतः सोंऽते संस्मरेत् स तथा भवेत् ॥ १०४॥ अथवा सङ्गयोगेन गणेशे रुचिमालभेत् । नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परम् ॥ १०५॥ शिवविष्ण्वादिलोकेषु संस्थितस्तत्र सङ्गतः । गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥ १०६॥ अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः । क्षेत्रसंन्यासभावेन मरणं तत्र चालभेत् ॥ १०७॥ योगिनः शान्तिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे । लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥ १०८॥ योगिनां मरणे विप्र यादृशं स्मरणं भवेत् । तादृशीं न गतिं सोऽपि लभते ब्रह्मणि रतः ॥ १०९॥ तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते । अन्ते मतिर्यथा विप्र गतिः सर्वत्र पठ्यते ॥ ११०॥ इदं सर्वं समाख्यातं श‍ृणु प्रकृतमुत्तमम् । कथानकं महीपस्य यथा मुद्गलभाषितम् ॥ १११॥ भृशुण्ड्युवाच । मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः । काश्यां तस्य मृतौ क्षेत्रं मयूरं स्मृतिगं बभौ ॥ ११२॥ तेन गणेश्वरस्यैव ददौ मन्त्रं महेश्वरः । सस्त्रीकः शिवरूपः कैलासे वासं चकार सः ॥ ११३॥ महालये शिवे लीनः पुनः सृष्टौ मयूरके । ब्राह्मणः स बभूवाऽपि सस्त्रीको भक्तिसंयुतः ॥ ११४॥ तत्र स्वल्पेन कालेन योगयुक्तो बभूव ह । ब्रह्मभूतः स जीवन् वै मरणे तत्र का कथा ॥ ११५॥ एवं संस्कारयोगेन मयूरे निवसन्ति ते । यत्र कुत्र स्थिताश्चेद्वै गमिष्यन्ति मयूरकम् ॥ ११६॥ क्षेत्रसंन्यासिनां देवा वदामि मार्गमुत्तमम् । आदौ द्वारयुतां यात्रां कुर्यात् संन्यासकारणात् ॥ ११७॥ पश्चात् क्षेत्रं समाश्रित्य तिष्ठेन्नियमसंयुतः । न गच्छेत् क्षेत्रबाह्यं संन्यासभङ्गभयाकुलः ॥ ११८॥ नानादुःखयुतश्चेत् त्यागं मयूरस्य वै न सः । कुर्यात्तेन गणेशेन तुल्यः सर्वत्र सम्मतः ॥ ११९॥ देवागारस्य यात्रां स कुर्याद् द्वारसमन्विताम् । अन्त्यां नैव समाख्यातां क्षेत्रबाह्यप्रवेशनात् ॥ १२०॥ क्षेत्रसीमास्थदेवाद्यास्तेषां कुर्यान्निरन्तरम् । यात्रां यात्राविचारज्ञः स योगी योगिनां गुरुः ॥ १२१॥ अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् । क्षेत्रसंन्यासिना युक्तं क्षेत्रं नैव भवेत् कदा ॥ १२२॥ जामदग्न्यो द्विजः कश्चित् सोमदत्त इति श्रुतः । बाल्यात् प्रारभ्य विघ्नेशभक्तियुक्तो बभूव ह ॥ १२३॥ स्वाश्रमात् सोऽपि सस्त्रीको मयूरेशं समाययौ । यात्रां कृत्वा विधानेन स्थितो द्वारादिचिह्निताम् ॥ १२४॥ ततः क्षेत्रे स वासार्थं मनो दध्रे महामतिः । क्षेत्रसंन्यासकं कृत्वा मयूरे संस्थितः पुरा ॥ १२५॥ तत्र रक्षोबलं प्राप्तं खरस्य दारुणं महत् । राक्षसं पपलुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः ॥ १२६॥ दृढाऽऽग्रहं सोऽपि कृत्वा सोमदत्तो महामुनिः । मयूरे संस्थितो देवा मयूरेशपरायणः ॥ १२७॥ राक्षसास्तं महाभागं धृत्वा क्रोधसमन्विताः । ताडयामासुरत्यन्तं कर्मखण्डनकारणात् ॥ १२८॥ मुमोचाऽसौ तदापि न स्वधर्मं सोमदत्तकः । मद्यमांसादिकं गृह्य छलितो राक्षसैर्बहु ॥ १२९॥ तथापि धैर्यमालम्ब्य स्मृत्वा विघ्नेश्वरं द्विजः । मयूरेशं समभ्यर्च्य संस्थितो भयसङ्कुलः ॥ १३०॥ ततस्तं राक्षसा बद्ध्वा खरं निन्युर्महोल्बणम् । तेन कारागृहे क्षिप्तो मयूरेशपरायणः ॥ १३१॥ उपोषणपरः पूजां मानसीं स चकार ह । अतिशोकसमायुक्तो हृदि ध्यात्वा गजाननम् ॥ १३२॥ ततो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणात् । चकार राक्षसेशं स सविघ्नं विघ्नदायकः ॥ १३३॥ समायाता शूर्पनखा तं जगाद खरं वचः । छिन्ननासिकरूपं स्ववृत्तान्तं तु न्यवेदयत् ॥ १३४॥ तच्छ्रुत्वा क्रोधसंयुक्तः खरो रामं जगाम ह । रामेण राक्षसैः सार्द्धं हतो मृत्युमवाप ह ॥ १३५॥ ततः क्षेत्रनिवासस्था आययुस्ते महेश्वराः । (Page खं. ६ अ. २३ पान ६७) बन्धाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥ १३६॥ एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः । तथापि क्षेत्रसन्त्यागं न चकार कदाचन ॥ १३७॥ ततो गणेश्वरो देवो ययौ भक्त्या नियन्त्रितः । स्तुतः सम्पूजितस्तेन तमीप्सितवरं ददौ ॥ १३८॥ स ययाचे गणेशानं तव सान्निध्यगं कुरु । तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥ १३९॥ तथेति तं चकारासौ मयूरेशो महामुनिम् । स बभूव महेशाना योगप्रिय इति श्रुतः ॥ १४०॥ एवं नानाविधास्तत्र क्षेत्रसंन्यासमाश्रिताः । सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥ १४१॥ इति सर्वं समाख्यातं सङ्क्षेपेण मया परम् । श्रवणात् पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥ १४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥ ६.२२

६.२३ गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । मयूरे तीर्थमुख्यं किं वद योगीन्द्रनायक । तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥ १॥ भृशुण्ड्युवाच । क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः । गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥ २॥ यथा पञ्चविधं सर्वं भासते विविधार्थतः । चतुर्विधं जगत् संस्थं पञ्चमं ब्रह्म उच्यते ॥ ३॥ गङ्गा च यमुनादेवी सरस्वती महानदी । त्रिगुणरूपसंयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥ ४॥ तुरीया सर्वतीर्थाख्या ब्रह्मकमण्डलूद्भवा । तासां संयोगभावे तु पञ्चमं ब्रह्म उच्यते ॥ ५॥ तदेव तीर्थरूपेण प्रकटं सम्बभूव ह । गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥ ६॥ भूस्वानन्दमयं क्षेत्रं गणेशेन प्रकाशितम् । मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥ ७॥ ततोंऽकुशेन पृथ्वीं स भेदयामास मायया । तीर्थं ब्रह्ममयं तत्र सेवार्थं तु समाययौ ॥ ८॥ ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः । अक्षयं जलसंयुक्तं कुण्डं तत्र बभूव ह ॥ ९॥ नाम तस्य चकाराऽसौ गणेशकुण्डमादरात् । तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥ १०॥ जलस्पर्शादिसम्भूतं पुण्यं वक्तुं न शक्यते । साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥ ११॥ स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमण्डलूद्भवा । तुरीया सर्वतीर्थानां ज्ञातव्यं शास्त्रसम्मतम् ॥ १२॥ भागीरथी तृतीया च स्नानेन स्वर्गदायिनी । स्वर्णदी सा समाख्याता विशेषेण महेश्वराः ॥ १३॥ ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी । त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥ १४॥ यमुना च ततः ख्याता स्थूलरूपा महानदी । (Page खं. ६ अ. २३ पान ६८) सप्तभिर्दिवसैः साक्षाज्जन्तूनां स्वर्गदा मता ॥ १५॥ अन्या नानाविधास्ताभ्यः कथनं नैव शक्यते । अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं पञ्चसम्भवम् ॥ १६॥ अत्रेतिहासकं वक्ष्ये श‍ृणुध्वं ह्येकचेतसः । गुर्जरे पापकर्मा तु राजा भद्रोऽभवत् पुरा ॥ १७॥ स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः । यथेच्छं वर्तयामास नानापापपरायणः ॥ १८॥ एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः । एकान्ते बुभुजे तां स हाहाकाररवाकुलाम् ॥ १९॥ इत्यादिविविधान्येव चकार देवसत्तमाः । पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्तते ॥ २०॥ मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम् । बद्ध्वा सन्ताड्य तत्रैकं चित्रं पूर्णं बभूव ह ॥ २१॥ गच्छता तेन सन्दृष्टं विमानं सूर्यसन्निभम् । गणेशकुण्डतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥ २२॥ तस्याङ्गवायुना स्पृष्टो भद्रः पापपरः परः । पापहीनो बभूवाऽपि जगाम यममन्दिरम् ॥ २३॥ यमेन नरयोन्यां स सङ्क्षिप्तो वैश्ययोनिजः । बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥ २४॥ स्वर्गात् पतनकाले स सस्मार कुण्डमुत्तमम् । तेन संस्कारयोगेन मयूरेशं समाययौ ॥ २५॥ दृष्ट्वा गणेशकुण्डं स जातिस्मरो बभूव ह । ततः क्षेत्रं समाश्रित्य कुण्डपूजापरोऽभवत् ॥ २६॥ ममार कुण्डसान्निध्ये ब्रह्मभूतो बभूव ह । एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥ २७॥ देवेशा ऊचुः । गणेशकुण्डद्रष्टा स कथं जातो महामते । किं जातिर्यो वद स्वामिन्नाश्चर्यं भासते परम् ॥ २८॥ भृशुण्ड्युवाच । चाण्डालः कोऽपि पापात्मा नित्यं पापपरोऽभवत् । कञ्चिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥ २९॥ स आगतो मयूरेशं कथयामास मानवान् । जघान द्रव्यलोभी च चाण्डालो मानवान् सदा ॥ ३०॥ समाययौ मे सान्निध्यमधुनाऽत्र विशेषतः । मारणाय न सन्देहस्तच्छ्रुत्वा स पपाल ह ॥ ३१॥ लोका यात्रारताः सर्वे नैव मत्ताडने रताः । पलता तेन कुण्डं तु दृष्टं गाणेश्वरं महत् ॥ ३२॥ क्षेत्रं त्यक्त्वा गतं दूरे ममार विषयप्रियम् । भोगबुद्धियुतं दुष्टं निन्युरिन्द्रपुरेऽमराः ॥ ३३॥ गणेशकुण्डजेनैव दर्शनेन न संशयः । पापानि विलयं यान्ति भुक्तिर्मुक्तिस्ततो भवेत् ॥ ३४॥ अन्यच्छृणुत देवेशाश्चरितं कुण्डसम्भवम् । वैश्यः कश्चित् समायातो द्रव्यलोभी मयूरके ॥ ३५॥ प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरञ्जसा । स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥ ३६॥ तत्र यात्रापरा लोका अवदंस्ते परस्परम् । गणेशकुण्डमाहात्म्यं सोऽपि शुश्राव मन्दधीः ॥ ३७॥ विचारमकरोच्चित्ते दर्शनेनात्र लभ्यते । भुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥ ३८॥ अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः । तदा दर्शनमेवं मे कुण्डस्यात्र भविष्यति ॥ ३९॥ इति विचार्य खाद्यानि गृह्य कुण्डगतोऽभवत् । दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो ॥ ४०॥ (Page खं. ६ अ. २३ पान ६९) पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् । तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥ ४१॥ ततो विमानमारुह्य शुक्लगत्या महेश्वराः । मोक्षं जगाम वैश्यः स गणेशकुण्डदर्शनात् ॥ ४२॥ अन्यच्च श‍ृणुत प्राज्ञा इतिहासं पुरातनम् । शूद्रौ मेघमणीसंज्ञौ मालवे सम्बभूवतुः ॥ ४३॥ सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ । स काश्यां प्रेमसंयुक्तो यात्रार्थं प्रजगाम ह ॥ ४४॥ तेन नीतौ स्वसेवार्थं सपुत्रौ शूद्रयोनिजौ । मेघो मार्गे ममारैव तस्य पुत्रो ददाह तम् ॥ ४५॥ तत्राऽऽवन्त्यो द्विजः कोऽपि चकारास्थिप्रसञ्चयम् । मणिः पप्रच्छ तं विप्रं कुत्रास्थि त्वं प्रणेष्यसि ॥ ४६॥ स उवाच गणेशस्य क्षेत्रे कुण्डं महाद्भुतम् । तत्रास्थित्यागमात्रेण पञ्चमं लभते पदम् ॥ ४७॥ अतो मेऽस्थि पितुस्तत्र शूद्र नेष्यामि निश्चितम् । तच्छ्रुत्वा सोऽपि शूद्रस्यास्थिसञ्चयं चकार ह ॥ ४८॥ काश्यां दुःखयुतो त्यक्त्वा ममार मणिरेव च । तस्यास्थिसञ्चयं चक्रे तस्य पुत्रो महेश्वराः ॥ ४९॥ तज्ज्ञात्वा क्षत्रियस्तं स निर्भर्त्स्य बहुधा जगौ । काशीं त्यक्त्वा मयूरे किमस्थित्यागं करिष्यसि ॥ ५०॥ उवाच पितुराज्ञा स मया मान्या निरन्तरम् । एतस्मिन्नन्तरे तत्र ब्राह्मणः शास्त्रवित् ययौ ॥ ५१॥ तं प्रणम्य विशेषेण पप्रच्छ क्षत्रियोद्भवः । दुराग्रहं स्वशूद्रस्य दृष्ट्वा सर्वं विधानतः ॥ ५२॥ ज्ञात्वा वृत्तान्तमेतस्य तमुवाच जनार्दनः । ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजं वचः ॥ ५३॥ जनार्दन उवाच । चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय । पञ्चमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ॥ ५४॥ ब्रह्मणस्पतिनामाऽसौ गणेशो वेदवादतः । तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ ॥ ५५॥ काश्यां ये शास्त्रवादज्ञास्तेऽस्थि तत्र नयन्ति तु । अन्यक्षेत्रस्य गास्तद्वन्नयन्त्यस्थि मयूरके ॥ ५६॥ ततः संशयहीनः स सम्पूज्य प्रणनाम ह । जनार्दनं स्वगेहं स आययौ हर्षसंयुतः ॥ ५७॥ कृत्वा क्षत्रियजो यात्रां स्वगृहं प्रत्यपद्यत । शूद्रावस्थि समागृह्य मयूरेशं प्रजग्मतुः ॥ ५८॥ गणेशकुण्डं सम्पूज्य त्यक्त्वा तावस्थिसञ्चयम् । यथाशास्त्रं विधानेन यात्रां चक्रतुरादरात् ॥ ५९॥ स्वगृहं जग्मतुः शूद्रौ देवेशाः श‍ृणुताऽपरम् । अस्थित्यागप्रभावेण मेघं नेतुं ययुर्गणाः ॥ ६०॥ शङ्करलोकसंस्थं तं गृह्य स्वानन्दमाययुः । मणिं कैलासगं ते तु ब्रह्मभूतौ प्रचक्रिरे ॥ ६१॥ एवं नाना जनास्तत्र सिद्धिं प्राप्ता विशेषतः । तत्र किं कथयामीह वक्तुं केन प्रशक्यते ॥ ६२॥ एतद्गणेशकुण्डस्य माहात्म्यं श‍ृणुयान्नरः । श्रावयेत् स लेभेद्देवा ईप्सितं फलमुत्तमम् ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ६.२३ (Page खं. ६ अ. २४ पान ७०)

६.२४ ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । एकदा गणनाथस्य दर्शनार्थं समाययौ । ब्रह्मा स्नात्वा महाकुण्डे स्तोतुं स्तोत्रं समारभत् ॥ १॥ ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च । अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ २॥ अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ ३॥ भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ ४॥ तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च । सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥ ५॥ स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः । नित्यं जले ते विनिमज्य शुद्धा आयान्ति स्वस्थानमघापहारि ॥ ६॥ प्रयागतीर्थे मरणेन जन्तुर्मनीषितं तीर्थवरे लभेद्वै । तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्चेत् ॥ ७॥ वाचः परं ते जलबिन्दुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् । साक्षाद्गणेशाङ्कुशघातजं तन्नमामि कुण्डं गणनायकस्य ॥ ८॥ धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन । तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥ ९॥ त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तत् । विना श्रमेणैव नरा लभन्ते शुकादिकानां पदमत्र चित्रम् ॥ १०॥ त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः । किं वर्णयाम्येव गणेशकुण्ड स्वल्पज्ञभावात्तु नमो नमस्ते ॥ ११॥ भृशुण्ड्युवाच । स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः । भुक्तिं मुक्तिं लभेत् सोऽपि श्रद्धया ब्रह्मभूयकम् ॥ १२॥ इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् । यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥ १३॥ ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः । पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरोऽभवत् ॥ १४॥ पादस्पर्शेन तस्यापि कमण्डलुजलैर्युतः । न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥ १५॥ ततः प्रणम्य विघ्नेशं योगमायासमन्वितः । सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमण्डलौ ॥ १६॥ जगाद गणराजश्च ततस्तं हर्षसंयुतः । मा गृह्णीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥ १७॥ मम सेवार्थमत्यन्तलालसा नित्यमाभजेत् । मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥ १८॥ ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः । जगाद तीर्थहीनोऽहं भविष्यमि गजानन ॥ १९॥ श्रीगजानन उवाच । योगमायाबलेनेमां मा कर्ष त्वं पितामह । कमण्डलुं तीर्थजलैरापूर्य स्थानगो भव ॥ २०॥ श्रुत्वा ब्रह्मा तथा कृत्वा ययौ हर्षसमन्वितः । ब्रह्मकमण्डलुः साक्षान्नदी तत्र प्रतिष्ठिता ॥ २१॥ तया क्षेत्रं महेशानाः शुशुभेऽतीव विघ्नपम् । नद्याश्च महिमानं को वर्णयितुं क्षमो भवेत् ॥ २२॥ देवेशा ऊचुः । तुरीयं तीर्थमुख्यं यत् स्थितं ब्रह्मकमण्डलौ । कथं बभूव विप्रेश तद्वदस्व सुखप्रदम् ॥ २३॥ (Page खं. ६ अ. २४ पान ७१) भृशुण्ड्युवाच । ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः । दृष्ट्वा कामं स्वयं तत्र विह्वलोऽभूत् पितामहः ॥ २४॥ दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः । तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥ २५॥ हाहाकाररवा देवी सस्मार गणनायकम् । ततः शान्तमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥ २६॥ मुक्त्वा तां गर्हयामास स्वात्मानं काममोहितम् । ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥ २७॥ मां प्रमोहयुतं कृत्वा क्रीडसि त्वं खलाऽधुना । काम शङ्करतो वह्नौ नष्टरूपो भविष्यसि ॥ २८॥ शप्त्वा कामं विधाताऽसौ ततः सस्मार देवपान् । मुनीन् श्रेष्ठांश्च ते सर्वे समाजग्मुः पितामहम् ॥ २९॥ श्रुत्वा वृत्तान्तमुग्रं ते शोकयुक्ताः बभूविरे । प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः ॥ ३०॥ ततस्तीर्थानि सर्वे ते निर्ममुर्दैवतर्षयः । सार्धत्रिकोटिसंज्ञानि स्वस्वतेजोयुतानि वै ॥ ३१॥ तेषु सम्मज्जितो ब्रह्मा पवित्रो न बभूव ह । तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महेतवे ॥ ३२॥ स वै प्रत्यक्षतां तत्र ययौ सर्वेच्छया परः । ब्रह्मा ममज्ज तत्रापि स्वयं शुद्धोऽभवन्न च ॥ ३३॥ ततः सूर्यः स्वदेहाद्वै यमुनां निर्ममे पराम् । तस्यां निमज्य धाताऽसौ पवित्रो न बभूव ह ॥ ३४॥ आदिमाया ततस्तत्र विनिर्ममे सरस्वतीम् । निमज्य तत्र वेधाः सोऽभवन्नैव यथा पुरा ॥ ३५॥ ततः शिवः स्वयं रेवां निर्ममे तीर्थरूपिणीम् । तथा निमज्य तस्यां स पवित्रो न बभूव ह ॥ ३६॥ ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च । गङ्गां तस्यां निमज्याऽसौ वेधाः शुद्धोऽभवन्न च ॥ ३७॥ ततः खेदसमायुक्तो देवेशा मुनिभिः सह । विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्टुवुः ॥ ३८॥ ततः प्रसन्नभावेन तुरीयं तत्र देवपाः । प्रकटं तेजसा युक्तं बभूव जलमञ्जसा ॥ ३९॥ प्रकाशमयतीर्थं तद् दृष्ट्वा देवर्षयोऽमराः । प्रणम्यापूज्य संहर्षादूचुः प्राञ्जलयोऽभवन् ॥ ४०॥ सर्वतीर्थमिदं नाम भवतु त्रिजगत्सु ते । पवित्रं कुरु धातारं नमस्ते तीर्थतीर्थमु ॥ ४१॥ त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु । त्रिजगत्पावनान्येव भवन्ते शास्त्रसम्मते ॥ ४२॥ ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं द्रुतम् । न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् ॥ ४३॥ अतस्तुरीयतीर्थं चास्माभिः सम्प्रार्थितं परम् । त्रिगुणानां हितार्थाय पावनाय विशेषतः ॥ ४४॥ अतो हितं च सर्वेषां कुरु तीर्थात्मरूपकम् । एवमुक्त्वा प्रणेमुस्ते सर्वतीर्थं महेश्वराः ॥ ४५॥ ततः प्रसन्नतां यातं दर्शयामास रूपकम् । विधात्रे तेन निःपापो बभूव प्रपितामहः ॥ ४६॥ ततस्तीर्थं प्रणम्याऽसौ तुष्टाव सर्वसंयुतः । ततस्तं प्रत्युवाचेदं वचनं तीर्थमुत्तमम् ॥ ४७॥ सर्वतीर्थमुवाच । वरं वृणु महाभाग तुष्टं दास्यामि वाञ्छितम् । स्तोत्रेण सृष्टिकर्तस्वं विधातर्मा विचारय ॥ ४८॥ ब्रह्मोवाच । वरं ददासि तीर्थ त्वं तदा मे संस्थितं भव । (Page खं. ६ अ. २४ पान ७२) कमण्डलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥ ४९॥ भृशुण्ड्युवाच । तथेति तमथोक्त्वा तत्तीर्थं तस्य कमण्डलौ । जानीत वरदानेन संस्थितं देवनायकाः ॥ ५०॥ तत्र स्थितं गणेशस्य ध्यानं चक्रे निरन्तरम् । सर्वतीर्थं हितार्थाय तस्य सेवार्थमादरात् ॥ ५१॥ उवाच विघ्नराजं सञ्चिन्त्य तीर्थं परं हृदि । दृश्यभावं समासाद्य न ते पादार्चनं कृतम् ॥ ५२॥ वरदानप्रभावेण ब्रह्मणः सदने प्रभो । स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥ ५३॥ पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रगम् । भविष्यामि तदर्थायाकरवं दृश्यभावकम् ॥ ५४॥ पराधीनतया स्वामिन् किं करोमि गणेश्वर । विघ्नहीनं कुरुष्व त्वं मां भक्तं भक्तवत्सल ॥ ५५॥ दृश्यभावं समासाद्य मयूरं नावलोकितम् । निरर्थकं जनुस्तस्यातस्त्वां सम्प्रार्थये प्रभो ॥ ५६॥ एवं नित्यं गणेशानं ध्यात्वा सम्प्रार्थयत् परम् । स्थापितं सर्वतीर्थं तद्गणेशानेन सन्निधौ ॥ ५७॥ देवेशा ऊचुः । तीर्थराजः प्रयागो यस्तत्र ब्रह्मा बभूव न । पवित्रश्च ततः श्रेष्ठं कथं तीर्थं भवेन् मुने ॥ ५८॥ कथं राजेति संज्ञा च तस्य शास्त्रे प्रकीर्तिता । एतत् संशयकं छिन्धि योगीन्द्रोऽसि पुरातनः ॥ ५९॥ भृशुण्ड्युवाच । यथा देवसमूहानां राजेन्द्रः परिकीर्तितः । इन्द्रान्नैवापरः श्रेष्ठो देवो भवति कुत्रचित् ॥ ६०॥ ब्रह्मादयो न देवाश्च गुणाधाराः प्रकीर्तिताः । पूज्यत्वाद्देवसंज्ञास्था भवन्ते चैकदेशतः ॥ ६१॥ सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः । प्रयागान्न परं तीर्थं श्रेष्ठं कुत्राऽपि वर्तते ॥ ६२॥ गङ्गाद्याः सरितस्तद्वद् गुणाधाराः प्रकीर्तिताः । तीर्थसंज्ञा तथा तासामेकलक्षणतो मता ॥ ६३॥ प्रार्थिते तीर्थराजेन तत्रैकभवकारणात् । गङ्गायमुनयोर्योगस्तेन सम्मिलितोऽभवत् ॥ ६४॥ गङ्गायमुनयोर्योगे स्नानजं यत् फलं लभेत् । तदेव महिमा तत्र तयोरेव न संशयः ॥ ६५॥ नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः । गुणरूपा न सा प्रोक्ता जानीत शास्त्रसम्मते ॥ ६६॥ अधुना श‍ृणुत प्राज्ञा प्रकृतं यत् कथानकम् । कमण्डलुस्थितत्वात्तन्नाम्ना ब्रह्मकमण्डलुः ॥ ६७॥ गां गता तेन गङ्गा सा कमण्डलूद्भवा मता । पूर्वगा सा समाख्याता ब्रह्मादीनां सुदुर्लभा ॥ ६८॥ तस्या मूलस्थितः साक्षाद्ब्रह्मा लोकपितामहः । तस्यां स्नात्वा गणेशानं भजतेऽनन्यचेतसा ॥ ६९॥ पूर्वं पितामहं तत्र नरः स्नात्वा समर्चयेत् । विद्यायुक्तो भवेत् सद्योंऽते परां मुक्तिमाप्नुयात् ॥ ७०॥ मध्ये शिवस्तथा तस्या मयूरे संस्थितस्ततः । मध्यमेश्वरनामा स भजते गणनायकम् ॥ ७१॥ मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेत् । स सामर्थ्यं परं प्राप्यापूज्येशं मुक्तिमाप्नुयात् ॥ ७२॥ अन्ते विष्णुः स्थितस्तस्या हृषीकेश इति श्रुतः । स्नात्वा नित्यं गणेशानं भजतेऽनन्यमानसः ॥ ७३॥ (Page खं. ६ अ. २५ पान ७३) तत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्चयेत् । यशः स विपुलं प्राप्यांऽते परं मोक्षमाप्नुयात् ॥ ७४॥ यस्यास्तीरे च तीर्थानि देवास्तिष्ठन्त्यनेकशः । उभयत्र महेशाना मया वक्तुं न शक्यते ॥ ७५॥ कमण्डलूद्भवायास्तु दर्शनेनाघनाशनम् । प्रभवेत् सर्वजन्तूनां निश्चितं चेहजन्मजम् ॥ ७६॥ सञ्चितं जलबिन्दोश्च स्पर्शेनैव विनश्यति । पापं ह्यनेकजन्मस्थं नराणां सर्वदेहिनाम् ॥ ७७॥ जलपानेन तस्यास्तु शक्रलोकं लभेत् स्वयम् । स्नानेन मुक्तिमाप्नोति यत्र तत्र महेश्वराः ॥ ७८॥ मयूरे ये नरास्तस्यां स्नानं कुर्वन्ति देवपाः । सकृच्चेदीप्सितं सद्यो लभन्ते ते समोक्षकम् ॥ ७९॥ एतादृशी महाभागा नदी तत्र व्यवस्थिता । दशयोजनविस्तारस्तस्याः प्रोक्तो मनीषिभिः ॥ ८०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ ६.२४

६.२५ ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । कथं देवैश्च मुनिभिः स्तुता विप्र महानदी । ब्रह्मणोऽर्थं तदेवापि स्तोत्रं वद सुखप्रदम् ॥ १॥ भृशुण्ड्युवाच । नानातीर्थबलेनैव ब्रह्माणं ते सुरर्षयः । शुद्धं कर्तुं समर्था न बभूवुश्च यदा पुरा ॥ २॥ ततः सर्वे विचार्यैव तुरीयं तीर्थमुत्तमम् । स्तोतुं करपुटा भूत्वा समारेभुः सुस्तोत्रकम् ॥ ३॥ देवर्षय ऊचुः । सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् । तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥ ४॥ गङ्गादिनद्यः प्रभवा यतश्च सर्वान्तरस्थं स्थितमात्मरूपम् । नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥ ५॥ पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् । अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥ ६॥ नाथो विधाता च भवेन्महात्मन् पापेन युक्तश्च तथा स्थितश्चेत् । विश्वं परं नाशमुपैष्यति त्वं प्रत्यक्षतामेहि दयाकरातः ॥ ७॥ गङ्गास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूपधराय तुभ्यम् । तुभ्यं प्रयागाय च नार्मदाय कालिन्दिकास्थाय नमो नमो वै ॥ ८॥ कृष्णास्वरूपाय ककुद्मतीस्थ यद्देवनद्यै च पयोष्णिकायै । वेणीस्वरूपाय च पुष्कराय तापीप्रभासाय च सर्वतीर्थ ॥ ९॥ गोदावरीरूपधराय तुभ्यं क्षिप्रास्थसिन्धुस्थ महीस्वरूप । कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेऽस्तु कमण्डलुस्थम् ॥ १०॥ सार्धत्रिकोटीप्रवरस्थकाय तीर्थेश्वरायैव नमो नमस्ते । (Page खं. ६ अ. २५ पान ७४) अनन्ततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥ ११॥ वाराम्पतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते । यद्यज्जलं भानुघनस्थरूपं तत्रस्थकायैव नमो नमस्ते ॥ १२॥ त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश । कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व सन्दर्शय ते स्वरूपम् ॥ १३॥ भृशुण्ड्युवाच । एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम् । प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥ १४॥ तानुवाच महातीर्थं हर्षयुक्तेन चेतसा । वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥ १५॥ भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम् । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ १६॥ पठते श‍ृण्वते नित्यं मयि स्नानफलप्रदम् । सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥ १७॥ सर्वतीर्थवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुः प्रणम्य देवेशाः प्रबद्धकरसम्पुटाः ॥ १८॥ देवर्षय ऊचुः । प्रसन्नं चेन् महातीर्थ तदा पितामहं परम् । शुद्धं कुरु तथा तस्य कमण्डलौ स्थितिं स्थिराम् ॥ १९॥ सर्वतीर्थं च ते नाम तथा ब्रह्मकमण्डलुः । भवतु त्वत्प्रसादेन वर एव वृतः परः ॥ २०॥ तथेति तानुवाचैव याचितं तीर्थमुत्तमम् । चकार देवविप्रैर्यत्तत् सर्वं कथितं मया ॥ २१॥ देवेशा ऊचुः । श्रुतं सर्वं विशेषेण सर्वसंशयनाशनम् । तथापि न च तृप्यामः परं पीत्वा कथामृतम् ॥ २२॥ माहात्म्यं कथितं विप्र तत्र सिद्धिं महाद्भुताम् । अलभन् के पुरा योगिन् वद तेषां चरित्रकम् ॥ २३॥ भृशुण्ड्युवाच । पुरा कल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः । मूर्खो बभूव देवेशा विद्यासन्ध्यादिवर्जितः ॥ २४॥ तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमण्डलौ । ब्रह्माणं ययुतः प्रीत्या नदीमूलविराजितम् ॥ २५॥ स्नात्वा नदीजले तत्र पूजयामासुरादरात् । विधिं कमण्डलुस्थाने बभूवुर्भक्तिसंयुताः ॥ २६॥ पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव तत्क्षणात् । वेदादीन् कण्ठगान् देवा अवदत् प्रेमसंयुतः ॥ २७॥ ततो हर्षयुतौ तस्य पितरौ गृह्य तं सुतम् । स्वस्थानं जग्मतुः प्रीत्या मुक्तिमन्ते प्रलेभिरे ॥ २८॥ एवं नाना जनास्तत्र ज्ञानतोऽज्ञानतोऽपि वा । स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् ॥ २९॥ अथान्यत् कथयिष्यामि क्षत्रियो रविवंशजः । सुरथो मालवे राजा बभूव परवीरहा ॥ ३०॥ स्वराज्यं धर्मसंयुक्तश्चकार सचिवैर्युतः । बहुकाले गते तत्र विदर्भाधिपतिर्ययौ ॥ ३१॥ दिग्जयार्थं ततस्तेन युयुधे बलसंयुतः । पराजितो विदर्भस्य राज्ञा राजा पपाल ह ॥ ३२॥ ततो यत्नं समास्थाय ह्यन्यराजसमन्वितः । सङ्ग्राममकरोद्घोरं पुनः पराजितोऽभवत् ॥ ३३॥ भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागतोऽभवत् । मध्यमेश्वरतीर्थे स स्नात्वा शिवं पुपूज ह ॥ ३४॥ तं नमस्कृत्य सेनाभिः संयुतो युयुधे पुनः । भूपः सञ्जित्य वैदर्भं स्वराज्यं प्राप तत्क्षणात् ॥ ३५॥ अन्ते मुक्तिं जगामैव स्नानमाहात्म्यकारणात् । (Page खं. ६ अ. २५ पान ७५) एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥ ३६॥ अन्यच्च श‍ृणुत प्राज्ञाश्चरितं पुण्यदं परम् । द्विजो गौतमवंशेऽभूत् स्वधर्माचारसंयुतः ॥ ३७॥ विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा । दीक्षादिषु प्रयत्नेनाभवत् कर्मसु तत्परः ॥ ३८॥ ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् । दोषयुक्तं विशेषेण ददृशुः पापगौरवात् ॥ ३९॥ ततोऽतिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् । अन्ते विचार्य तस्यां स स्नानं चकार भक्तितः ॥ ४०॥ हृषीकेशं प्रपूज्यैव नमस्कृत्य गृहं ययौ । ततः कर्म कृतं तेन ददृशुः सविधि द्विजाः ॥ ४१॥ यद्यत्तेन कृतं देवा यशोयुक्तं बभूव ह । अन्ते मुक्तिं ययौ सोऽपि तीर्थसेवनपुण्यतः ॥ ४२॥ ज्ञानतोऽज्ञानतस्तत्र ययुः सिद्धिं विशेषतः । मया वक्तुं न शक्येत केनापि देवसत्तमाः ॥ ४३॥ अर्थान्यच्चरितं देवाः श‍ृणुध्वं भावसंयुताः । दण्डकारण्यदेशैकश्चाण्डालः पापकारकः ॥ ४४॥ वने गत्वा द्विजादींश्च मारयामास नित्यदा । परस्त्रियं स एकान्तेऽयभत् दृष्ट्वा हठेन च ॥ ४५॥ एवं नानाविधं पापं चकार विषयप्रियः । एकदा धनसंयुक्तं वणिजं स दर्दश ह ॥ ४६॥ तमनु प्रययौ दुष्टः शस्त्रपाणिर्जिघांसया । तत्र मार्गे महेशाना ब्रह्मकमण्डलूद्भवाम् ॥ ४७॥ महानदीं स चाण्डालो ददर्श सन्निधौ गतः । जलस्पर्शादिकं तत्र न चकार सुदुर्मतिः ॥ ४८॥ ततो योजनमात्रेण जघान वणिजं खलः । द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमत् ॥ ४९॥ एवं कृत्वा ततः काले ममार नीचयोनिजः । यामास्तं गृह्य सन्ताड्य ययुः संयमिनीं पुरीम् ॥ ५०॥ यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणम् । महापापी भटा नूनमयं तदपि मुच्यताम् ॥ ५१॥ सर्वतीर्थस्य दूतेशा दर्शनं त्वभवत् पुरा । वणिजं हन्तुकामस्य पापनाशकरं महत् ॥ ५२॥ त्यज्यतां मानुषे देहेषु नरेनं विचक्षणाः । शुभाशुभं तत्र कृत्वा गमिष्यति पुनः पुरम् ॥ ५३॥ स कैवर्तोऽभवत्तत्र बङ्गाले देवसत्तमाः । एवं दर्शनमात्रेणेह कृतं दुरितं गतम् ॥ ५४॥ अन्यद्यज्जलबिन्दोश्च स्पर्शजं कथयाम्यहम् । चरितं तस्य सर्वज्ञाः श‍ृणुध्वं सिद्धिदं परम् ॥ ५५॥ व्याधः कश्चिद्वने संस्थो बभूवे तत्र देशजः । ब्रह्महत्यादिकं पापं चकार नित्यमादरात् ॥ ५६॥ ददर्श द्रव्यसंयुक्तं दुष्टधीरेकदा नरम् । खड्गमुद्यम्य निःकोशं तं हन्तुं धावितोऽभवत् ॥ ५७॥ पपाल मानवो भीतः पृष्ठे व्याधस्तथा गमत् । कमण्डलूद्भवा गङ्गा प्राप्ता दैववशेन ह ॥ ५८॥ तामुल्लङ्घ्य पपालाऽसौ सोऽपि खड्गयुतस्तथा । व्याधः पपात दैवेनोल्लङ्घ्य तीरे दुरात्मवान् ॥ ५९॥ स तत्र जलबिन्दूनां स्पशर्युक्तो बभूव ह । नरो दूरं गतः सोऽपि निःश्वस्य स्वगृहं ययौ ॥ ६०॥ एवं पापसमाचारं मृतं काले सुदुर्मतिम् । व्याधं तं गृह्य देवेशा यमदूता यमं ययुः ॥ ६१॥ तं दृष्ट्वा धर्मराजस्तानुवाच प्रेमसंयुतः । (Page खं. ६ अ. २५ पान ७६) अयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥ ६२॥ कमण्डलूद्भवातीरे पपात धावनाकुलः । तत्र तस्या जलस्पर्शो बभूवे चास्य दर्शनम् ॥ ६३॥ दर्शनेनेहजं पापं गतं सर्वं लयं किल । अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥ ६४॥ ततः परं कृतं पापं यातनादं मतं यमाः । तथापि नैव योग्योऽयं यातनायां विशेषतः ॥ ६५॥ ब्रह्मकमण्डलोर्यस्य दर्शनादिकमञ्जसा । भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥ ६६॥ काश्मीरे स बभूवापि ब्राह्मणो वेदपारगः । एवं नाना जनास्तस्यां पापहीना बभूविरे ॥ ६७॥ अथेतिहासकं वक्ष्ये पुराकल्पभवं परम् । शूद्रः कश्चिद्बभूवाऽपि बङ्गदेशे महेश्वराः ॥ ६८॥ श्यामो नाम महापापी शिश्नोदरपरायणः । चौर्यकर्मपरो नित्यं नगरेषु वनेषु च ॥ ६९॥ बभ्राम शस्त्रसंयुक्तो मारयामास नित्यदा । जनान्नानाविधांश्चैव मद्यमांसपरोऽभवत् ॥ ७०॥ स कदाचिद्वने संस्थो ददर्श वणिगुत्तमान् । द्रव्ययुक्तांस्ततो दुष्टो मार्गसंस्थो बभूव तैः ॥ ७१॥ ते ययुर्दण्डकारण्ये सोऽपि चौर्यार्थमाययौ । तत्रोष्णकामयोगेन जलहीनाश्च बभ्रमुः ॥ ७२॥ तृषायुक्ताः समायातास्तटे ब्रह्मकमण्डलोः । तस्यां जलं पपुः सर्वे पुनर्ग्रामं समाययुः ॥ ७३॥ निशि सुप्ताश्च चौरेण हता मृत्युं ययुस्ततः । देवेन्द्रनगरे सर्वे ययुः पुण्यप्रभावतः ॥ ७४॥ जलपानेन देवेशाः किल ब्रह्मकमण्डलोः । इन्द्रपुर्यां निवासं ते चक्रिरे वणिगुत्तमाः ॥ ७५॥ ततः काले मृतं चौरं गृहीतुं तं यमस्य च । दूता ययुर्यमं गृह्य दृष्ट्वा देवोऽब्रवीद्यमः ॥ ७६॥ धर्म उवाच । अयं शूद्रो महापापी तथाऽपि पुण्यवानभूत् । सर्वतीर्थमयीं दृष्ट्वा दुष्टकार्यवशात् किल ॥ ७७॥ जलपानं कृतं तस्यास्तत्र स्पर्शो जलस्य च । बभूव त्रिविधं पुण्यं तेषां वक्ष्यामि कारणम् ॥ ७८॥ इह जन्मकृतं पापं दर्शनेन लयं गतम् । कमण्डलूद्भवायास्तु स्पर्शेनानेकजन्मजम् ॥ ७९॥ पानेनेन्द्रपदप्राप्तिसमं पुण्यं बभूव ह । बाह्यान्तः पापहीनश्च पुण्ययुक्तोऽयमुच्यते ॥ ८०॥ अत एनं प्रगृह्य त्वं महेन्द्रं दूतसत्तम । प्रापय तत्पुरे संस्थो भोगान् भोक्ष्यति निश्चितम् ॥ ८१॥ पुनः पतिष्यति प्राज्ञः पृथिव्यां नात्र संशयः । दूतस्तथा चकारैव प्रणनाम यमं पुनः ॥ ८२॥ एवं नाना नरा देवा ययुः सिद्धिं विशेषतः । तन्न शक्यं कथयितुं न भवति शतवर्षतः ॥ ८३॥ अन्यद्वः कथयिष्यामि चेतिहासं पुरा भवम् । सङ्क्षेपेण महाभागा स्नानसिद्धिप्रकाशकम् ॥ ८४॥ धनप्रिय इति ख्यातो बङ्गाले कारुकोऽभवत् । पापनिष्ठः सदा पापं चकार दुर्मतिर्मुदा ॥ ८५॥ द्रव्यार्थं विषदानेन हतौ मातापिता स्वकौ । प्रणम्य ब्राह्मणादींश्च जघान विषयोगतः ॥ ८६॥ साधुभावप्रदर्शी स बाह्येन्तस्तु दुरात्मवान् । तेन मोहयुताः सर्वे तदधीना बभूविरे ॥ ८७॥ ततो बहौ गते काले राज्ञा ज्ञातं दुरात्मनः । (Page खं. ६ अ. २५ पान ७७) कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥ ८८॥ स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः । पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥ ८९॥ ततोऽयं दण्डकारण्ये पुत्रदारैर्जगाम ह । तत्रैव रोचयामास वासार्थं ग्राममुत्तमम् ॥ ९०॥ तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह । एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥ ९१॥ अनु तं विषसंयुक्तो जगाम दुष्टधीः खलः । साधुलक्षणसंयुक्तो लोभनाय वणिक्सुतम् ॥ ९२॥ मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा । तस्यां स्नानं चकाराऽसौ वणिजेन समन्वितः ॥ ९३॥ प्रगच्छन्तं ततो मार्गे द्वितीये दिवसे खलः । विषेणामोह्य वणिजं मारयामास तत्क्षणात् ॥ ९४॥ वणिक्स स्नानपुण्येन शुक्लगत्या महेश्वराः । कमण्डलोर्महामोक्षं लेभे क्रमेण निश्चितम् ॥ ९५॥ धनप्रियो ममारैव कालेन स्वगृहे स्थितः । सोऽपि मोक्षं महादेवा लेभे स्नानप्रभावतः ॥ ९६॥ अधुनाऽन्यत् प्रवक्ष्यामि चरित्रं च कमण्डलोः । स्मरणेन महेशाना महासिद्धिप्रदायकम् ॥ ९७॥ गुर्जरे वैश्यजः कश्चिद् बभूवे धर्मनामकः । स्वधर्मनिरतो नित्यं चकार कर्म चादरात् ॥ ९८॥ तेन स्कान्दभवं तत्र माहात्म्यं संश्रुतं परम् । कमण्डलुप्रभावेण युक्तं स्वयं सुविस्मितः ॥ ९९॥ मनसा धारयामास धन्येयं सरितांवरा । मया लभ्या यदा देवी तदा मे सफलं जनुः ॥ १००॥ धर्मो नित्यं महेशानास्तां सस्मार महानदीम् । तत्र कोऽपि समायातः क्षत्रियो मार्गगः कदा ॥ १०१॥ तेनाऽपि संश्रुतं नाम ब्रह्मकमण्डलूद्भवम् । प्रातरुत्थाय स्वस्थानं जगाम क्षत्रियः खलः ॥ १०२॥ ततो बहौ गते काले धर्मसंज्ञो ममार ह । स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् ॥ १०३॥ पुनश्च ब्राह्मणः सोऽपि बभूवात्रिकुलोद्भवः । शिवदत्त इति ख्यातः सर्वतीर्थनदीतटे ॥ १०४॥ स्वधर्मनिरतो विप्रो न मुमोच नदीतटम् । तत्र स्नानादिकं सर्वं जलकार्यं चकार ह ॥ १०५॥ पूर्वपुण्यबलेनैवोत्तमतीर्थस्य सेवनात् । योगी बभूव तत्राऽसौ ममार तु तटे स्थितः ॥ १०६॥ ब्रह्मणि ब्रह्मभूतः स बभूवे देवसत्तमाः । एवं दूरस्थितस्याऽपि स्मरणेन गतिप्रदा ॥ १०७॥ येन श्रुतं महन्नाम सर्वतीर्थस्य देवपाः । क्षत्रियः पापकर्मा स चकार पापमुल्बणम् ॥ १०८॥ मृतं तं यमदूताः सङ्गृह्य सन्ताड्य भानुजम् । प्रणम्य नरके दुष्टं चिक्षिपुश्च तदाज्ञया ॥ १०९॥ पुनः श्वानो बभूवाऽपि क्षत्रियः पापकारकः । बभ्राम दण्डकारण्य आजगाम महानदीम् ॥ ११०॥ तत्र कीटादिभिः श्वानो मक्षिकाभिः प्रपीडितः । स्नानं चक्रे महानद्यां पूर्वसंस्कारयोगतः ॥ १११॥ ममार तेन पुण्येन मोक्षं लेभे न संशयः । सकृन्नाम्नः श्रुतस्यैव पुण्येनेदं कृतं महत् ॥ ११२॥ धन्यास्ता वीरुधो वल्ल्यस्तृणानि वृक्षकादयः । ब्रह्मकमण्डलोस्तीरे नान्यत्र राज्यसंयुतः ॥ ११३॥ (Page खं. ८ अ. २५ पान ७८) यस्यास्तीरे मृतो जन्तुः शुक्लगत्या गमिष्यति । ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥ ११४॥ एवं सर्वत्र देवेशा ब्रह्मकमण्डलूद्भवा । शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥ ११५॥ चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा । सर्वत्र दुर्लभा देवादीनां त्रिषु कमण्डलुः ॥ ११६॥ कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा । अन्ते कोटिश्च सर्वत्र तीरे कोट्यर्धमञ्जसा ॥ ११७॥ सङ्क्षेपेण मया तस्याश्चरितं कथितं परम् । श्रवणात् पठनाद्देवाः सर्वपापहरं भवेत् ॥ ११८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः ॥ ६.२५

६.२६ सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । अधुना यानि मायूरे कमण्डलुतटेऽमराः । तीर्थानि तेषु मुख्यानि कथयामि समासतः ॥ १॥ मुख्यं गणेशकुण्डाख्यं तीर्थमेकं प्रकीर्तितम् । सङ्क्षेपतश्चरित्रं तु कथितं तस्य देवपाः ॥ २॥ अतः परं पञ्चतीर्थानि श‍ृणुध्वं समासतः । गाणेशं मध्यभागे यद्धनुषां द्विशतात्मकम् ॥ ३॥ तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः । स्नानं कुर्वन्ति सर्वेऽन्ये नित्यमेकं प्रयत्नतः ॥ ४॥ उभयोस्तीरगं प्रोक्तं परं ब्रह्म कमण्डलोः । तत्र स्नानेन गाणेशा भवन्ति जन्तवः सदा ॥ ५॥ ततः परं महातीर्थं कापिलं तादृशं मतम् । कमलासुरनाशाय गणेशः कपिलोऽभवन् ॥ ६॥ हत्वाऽसुरं महावीर्यमजेयं शङ्करादिभिः । तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवत् ॥ ७॥ तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः । कपिलाय गणेशस्य सूक्तैर्हर्षसमन्वितः ॥ ८॥ तत्र पञ्चामृतं नाम बभूव किल पूजनात् । नद्यास्तेषां च योगेन तत्तीर्थं परमं मतम् ॥ ९॥ स्नानेन कापिलं तत्र ज्ञानं साङ्ख्यात्मकं लभेत् । कपिलो विष्णुराख्यातोऽभवत्तत्रैव संस्थितः ॥ १०॥ ततः परं व्यासतीर्थं सर्वाज्ञानविनाशनम् । तावता मानयोगेन ज्ञातव्यं विबुधैः परम् ॥ ११॥ व्यासेन तत्र देवेशास्तपस्तप्तं सुदारुणम् । शतवर्षे गते चाढ्यं ददौ वरं गणेश्वरः ॥ १२॥ तेन भारतकं धर्माऽधर्मयुक्तं चकार ह । शास्त्रं ब्रह्मपदं तच्च तयोरैक्ये महेश्वराः ॥ १३॥ तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः । धर्माऽधर्मव्यवस्थां स ज्ञात्वा बोधयुतो भवेत् ॥ १४॥ गणेशतीर्थादथ तु पूर्वभागे समास्थितम् । भीमकुण्डं महेशाना भीमेशेन विनिर्मितम् ॥ १५॥ तत्र स्थित्वा तपश्चक्रे भीमेशो गणपस्य च । (Page खं. ६ अ. २६ पान ७९) वरदानप्रभावेण भीमासुरं जघान सः ॥ १६॥ भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् । तत्र स्नानेनैव सद्यस्तावन्मानयुतं बभौ ॥ १७॥ कदाचिदुष्णकाले तज्जलहीनं बभूव ह । तीर्थं तत्रागतो भीमः पाण्डुपुत्रः प्रतापवान् ॥ १८॥ गदा प्रहारेण तेन खातं तीर्थमनुत्तमम् । जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥ १९॥ बलात्मकं तेन तत्रैश्वर्यं प्राप्तं महाद्भुतम् । धृतराष्ट्रसुतान् सर्वान् जघानैश्वर्यसंयुतः ॥ २०॥ ततः परमृषीणां च तीर्थं स्वधर्मदायकम् । तावन्मानेन तत्रैव तपः सामर्थ्यदायकम् ॥ २१॥ अष्टाशीति सहस्राणि मुनयो ब्रह्म तत्पराः । प्राप्त्यर्थं ब्राह्मणत्वस्य तपश्चेरुश्च तत्र ते ॥ २२॥ ब्रह्मभूता बभूवुस्ते स्थितास्तत्र विशेषतः । जीवन्मुक्तस्वभावेनाभजल्लम्बोदरं परम् ॥ २३॥ पञ्चतीर्थी समाख्याताऽमराः क्षेत्रे मयूरके । पञ्चसु स्नानमात्रेण ब्रह्मभूतो नरो भवेत् ॥ २४॥ आदौ स्नायात् स गाणेशे भैमे चार्षे ततः परम् । व्यासतीर्थे कापिले च गाणेशेंऽते क्रमं चरेत् ॥ २५॥ गणेशतीर्थात् पूर्वस्मात् क्षेत्रान्ते तीर्थमुत्तमम् । षट्त्रिंशत्तु शतान्येव धनुषां पापनाशनम् ॥ २६॥ दक्षिणतीरगस्तत्र शिवः शक्तिसमन्वितः । संस्थितस्तीर्थमाश्रित्य सर्वार्थानां प्रवर्तकः ॥ २७॥ उत्तरं तीरमाश्रित्य रमया केशवः स्थितः । सर्वधर्मप्रदाता तु क्षेत्रान्ते क्षेत्रधारकः ॥ २८॥ सर्वाघघ्नमिति ख्यातं तीर्थं स्नानेन देवपाः । षष्ठं सर्वत्र विख्यातं दुःखनाशकरं भवेत् ॥ २९॥ गणेशतीर्थकाद्देवाः प्रतीच्यां तीर्थमुत्तमम् । क्षेत्रान्ते संस्थितं नाम्ना सर्वपुण्यप्रदायकम् ॥ ३०॥ तीर्थस्योत्तरतीरस्थो भानुः संज्ञासमन्वितः । दक्षिणतीरसंस्थौ च परौ प्रकृतिपूरुषौ ॥ ३१॥ तत्र स्नानेनैव सद्यः पुण्यराशिर्भवेन्नरः । यद्यदिच्छेच्छुभं तत्तत् स लभेन्नात्र संशयः ॥ ३२॥ सप्तमं तीर्थमुख्यं तु पूर्वे दूरे चतुर्गुणम् । सप्ततीर्थेषु यः स्नायात् स वै सर्वं लभेच्छुभम् ॥ ३३॥ आदौ गाणेशके स्नायाद्भैमे चार्षे ह्यघघ्नके । पुण्यदेव्या स तीर्थे स कापिले गाणपे पुनः ॥ ३४॥ एवं मुख्यानि सप्तैव कथितानि समासतः । श्रवणात् पापनाशं तु कुर्वन्ति पठनान्नृणाम् ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः ॥ ६.२६ (Page खं. ६ अ. २७ पान ८०)

६.२७ ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् । वामे सिद्धेः समाख्यातं तीर्थं स्नानेन सिद्धिदम् ॥ १॥ दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् । लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥ २॥ बुद्धेर्लाभस्थतीर्थं तु समीपे लाभदं परम् । लाभस्य सन्निधाने तु मयूरस्य प्रकीर्तितम् ॥ ३॥ स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् । लक्षस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥ ४॥ अहम्भावहरं प्रोक्तं नराणां देवसत्तमाः । ततश्च मौद्गलं तीर्थं ततो गार्त्समदं स्मृतम् ॥ ५॥ ततश्च शुकतीर्थं तु दत्तात्रेयस्य तत्परम् । अन्यानि गाणपत्यानां तीर्थानि विविधानि तु ॥ ६॥ तत्र मानं प्रवक्ष्यामि समासेन विचक्षणाः । धनुर्दशकमानं तु गाणेशं परिकीर्तितम् ॥ ७॥ तदर्धं सिद्धिबुद्ध्योश्चान्येषां धनुः प्रमाणकम् । तेषां शिष्यादिकानां तु यवमात्रं प्रकीर्तितम् ॥ ८॥ मयूराखुपुरोभागे तीर्थं ब्रह्मप्रियस्य च । प्रमोदस्य तथा मोदस्य योगप्रियकस्य च ॥ ९॥ गणानां तीर्थमुख्यानि तत्रैवं संस्थितान्यपि । एतद्गणेशतीर्थस्थतीर्थानि कथितानि तु ॥ १०॥ दक्षिणोत्तरगान्येव तीर्थानि द्विधनूंषि च । वक्रतुण्डादिकानां चाष्टानां देवेन्द्रसत्तमाः ॥ ११॥ अन्ये नानाऽवताराश्च गणेशस्य महात्मनः । तेषां तत्रैव तीर्थानि गाणपत्यप्रदानि तु ॥ १२॥ तत्र क्रमं प्रवक्ष्यामि पूर्वभागे गणेश्वराः । संस्थितास्तीर्थगास्तान् वै श‍ृणुध्वं देवसत्तमाः ॥ १३॥ वक्रतुण्डश्चैकदन्तो महोदरो गजाननः । बल्लाळश्चैव हेरम्बो विघ्नेशो भालचन्द्रकः ॥ १४॥ ज्ञानेशः शूर्पकर्णश्च चिन्तामणिर्विनायकः । एते द्वादश मुख्याश्च कथितास्तेषु विघ्नपाः ॥ १५॥ संस्थांस्तु पश्चिमे भागे कथयामि समासतः । लम्बोदरोऽथ विकटो विघ्नेशो धूम्रवर्णकः ॥ १६॥ महागणपतिश्चैव तथा सिद्धिविनायकः । विघ्नहारश्च ढुण्ढीशो लक्ष्य आशाप्रपूरकः ॥ १७॥ वरदो देवदेवेशा मदोत्कट इति श्रुतः । एते द्वादश विघ्नेशाः संस्थितास्तीर्थगाः पराः ॥ १८॥ अन्ये नानावताराश्चाङ्गुष्ठपर्वसमाश्रिताः । तीर्थं मया समाख्यातं गाणेशं गणपप्रियम् ॥ १९॥ एतादृशानि चान्यानि कथयितुं न शक्यते । तथापि प्रब्रवीम्येव भवतां भक्तियन्त्रितः ॥ २०॥ ऋषितीर्थाच्चतुर्थ्याश्च तीर्थं कार्ष्णं च शौक्लकम् । चतुर्थ्यां स्नानमात्रेण चतुर्विधफलं भवेत् ॥ २१॥ ततः शम्याश्च मन्दारस्य ततस्तीर्थमुत्तमम् । दूर्वाया धनुषां पञ्च प्रमाणेन व्यवस्थितम् ॥ २२॥ तेषु स्नानेन देवेशा ईप्सितं सर्वमाप्नुयात् । संस्थमुत्तरत्तीरे यत्तीर्थं तद्भैरवप्रियम् ॥ २३॥ नग्नभैरवदेवेशः स्थितस्तत्र बभूव ह । नग्नभैरवतीर्थे तु यः स्नायाद्भावसंयुतः ॥ २४॥ यातनासम्भवं दुःखं प्राप्नुयान्न नरोत्तमः । तत्पुरो द्वारकातीर्थं तत्र स्नानेन मोक्षदम् ॥ २५॥ ततोऽयोध्याश्रितं तीर्थं मथुरासंश्रितं ततः । स्नानेन मुक्तिदं तत्र नराणामीप्सितं भवेत् ॥ २६॥ (Page खं. ६ अ. २७ पान ८१) संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् । तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥ २७॥ ततः पुष्करतीर्थं च स्नानतः पापनाशकम् । ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥ २८॥ चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् । तीर्थानि पापसङ्घानां दाहकानि स्थितान्यपि ॥ २९॥ तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः । एतेषु स्नानमात्रेण स लभेद्वैष्णवं पदम् ॥ ३०॥ भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् । ततः क्रतोः समाख्यातं तीर्थं पापहरं परम् ॥ ३१॥ ततो मुनिगणानां च तीर्थानि संस्थितान्यपि । तत्र मानं प्रवक्ष्यामि श‍ृणुध्वं ह्येकचेतसः ॥ ३२॥ वैष्णवानि च तीर्थानि स्नानतो देवसत्तमाः । विष्णुलोकप्रदान्येव ज्ञातव्यानि विशेषतः ॥ ३३॥ येषां देवोऽपदेवानामृषीनां तीर्थकानि तु । तत्तल्लोकप्रदान्येव स्नानेन स्नानकारिणाम् ॥ ३४॥ शुक्लगत्या लये तेषां मुक्तिं गच्छन्ति मानवाः । मयूरक्षेत्रमाहात्म्यात् स्नानेनैव कमण्डलोः ॥ ३५॥ एकैकं धनुराख्यातं मानं मुख्यात्मनां परम् । तीर्थं सर्वत्र माहात्म्ये मयूरे कथितं मया ॥ ३६॥ अन्यमुनिगणादीनां तीर्थानि कथितानि च । अङ्गुष्ठपर्वमात्राणि ज्ञातव्यानि विशेषतः ॥ ३७॥ आदौ सृष्टिसमारम्भे स्रष्टा देवालयः किल । मुनयः क्षेत्रतीर्थानि तपस्तेपुः स्वसिद्धये ॥ ३८॥ मयूरे तपसा सिद्धाः स्वस्थाने सङ्गता बभुः । कलया मुख्यभावेन मयूरेशं समाययुः ॥ ३९॥ अतो वक्तुमशक्तं तत्तेषां स्थानादिकं परम् । मानं तीर्थं च तद्वच्च ज्ञातव्यं सूक्ष्मचक्षुषा ॥ ४०॥ अवन्तीतीर्थमाख्यातं दक्षिणे च तटे स्थितम् । शुक्रतीर्थमगस्त्यस्य तीर्थं सोमेश्वरस्य च ॥ ४१॥ पिशाचानां तथा तीर्थं तीर्थमेव यमस्य च । नैरृतस्य तथा तीर्थं हंसतीर्थं ततः परम् ॥ ४२॥ भैरवाणां महातीर्थं रुद्राणां तीर्थकानि तु । रामेश्वरस्य तीर्थं तु मल्लिकार्जुनकस्य च ॥ ४३॥ अधुनोत्तरतीर्थस्य सीमां वः कथयाम्यहम् । विष्ण्ववतारतीर्थेभ्योऽप्सरस्तीर्थं प्रकीर्तितम् ॥ ४४॥ देवतीर्थं ततः पश्चात्ततो गन्धर्वतीर्थकम् । इन्द्रस्याग्नेस्ततस्तीर्थे विष्णुतीर्थं तदन्तगम् ॥ ४५॥ दक्षिणतीरगं तीर्थमत्रेः पापहरं परम् । एकद्वितत्रितादीनां तीर्थानि गणपात्मनाम् ॥ ४६॥ ततः शम्भोर्महातीर्थं सीमासंस्थं महेश्वराः । गाणेशात्पूर्वभागे च तीर्थानि कथितानि वै ॥ ४७॥ अथ पश्चिमदिग्भागे तीर्थानि कथयाम्यहम् । सङ्क्षेपेण सुरश्रेष्ठाः श‍ृणुध्वं विधिपूर्वकम् ॥ ४८॥ व्यासतीर्थात् परं तीर्थं काश्याश्चैव ततः परम् । मायापुर्याः समाख्यातं ततो विरजकं मतम् ॥ ४९॥ कृत्तिवस्त्रत्र्यम्बकेशशिवानां च ततः परम् । वैद्यनाथादिकानां च तीर्थानि संस्थितानि च ॥ ५०॥ ततः कैलासनाथस्य तीर्थं पापहरं परम् । ततो द्वादश मासानां तीर्थानि संस्थितानि च ॥ ५१॥ मलमासस्य तीर्थं तु गाणेशं नात्र संशयः । (Page खं. ६ अ. २७ पान ८२) देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥ ५२॥ मलमासे गणेशस्य पूजनं सेवनं मतम् । सर्वार्थसाधकं तच्च भविष्यति महेश्वराः ॥ ५३॥ ततः शिवस्य शैवानि तीर्थानि संस्थितानि च । लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥ ५४॥ विष्णुकाञ्च्यास्ततस्तीर्थं कौमार्याश्च ततः परम् । वाराह्यास्तीर्थमुख्यं तु तत ऐन्द्र्याः प्रकीर्तितम् ॥ ५५॥ वैष्णव्याश्च ततस्तीर्थं माहेश्वर्यास्ततः परम् । ब्राह्म्यास्तीर्थं ततो रक्तदन्तायाश्च प्रकीर्तितम् ॥ ५६॥ ततो वसिष्ठतीर्थं तु पौलस्त्यं तीर्थमुत्तमम् । ततश्चाङ्गिरसस्तीर्थं कण्वतीर्थं ततः परम् ॥ ५७॥ जैमिनेस्तीर्थमुख्यं च ततो मेधातिथेः स्मृतम् । कार्तवीर्यस्य तीर्थं तु मान्धातुश्च ततः परम् ॥ ५८॥ ययातेर्नहुषस्यैव ध्रुवस्य च ततः परम् । भरद्वाजस्य तीर्थं तु जमदग्नेस्ततः परम् ॥ ५९॥ गौतमस्य ततस्तीर्थं पाण्डवैश्च ततः कृतम् । ततो वरुणतीर्थं तु मरुतश्च ततः परम् ॥ ६०॥ पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततः परम् । तत्रैव संस्थिता देवी गयागदाधरादिभिः ॥ ६१॥ उभयोस्तीरयोः सेवि नराणां ब्रह्मदायिनी । तत्र पिण्डप्रदानेन ब्रह्मभूताः पितामहाः ॥ ६२॥ पितरश्च तथाऽन्ये वै भवन्ति क्षेत्रकारणात् । ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततः परम् ॥ ६३॥ ततः परं मुनीनां तु तीर्थानि विविधानि च । कथयितुं न शक्यानि मया केनापि निश्चितम् ॥ ६४॥ भैरवाणां ततस्तीर्थं स्कन्दस्य च ततः परम् । नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परम् ॥ ६५॥ वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च । पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च ॥ ६६॥ साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च तीर्थकम् । सीमाभूतं महेशानास्तटे दक्षिणगे परम् ॥ ६७॥ अधुनोत्तरगे तीरे व्यासतीर्थान् महेश्वराः । तीर्थानि संस्थितान्येव तान्यहं प्रवदामि तु ॥ ६८॥ व्यासतीर्थात् स्वयं ब्रह्मा प्रयागसंयुतः स्थितः । तस्य तीर्थं महत्तत्र सर्वपापप्रणाशनम् ॥ ६९॥ कर्मतीर्थं ततः पश्चात्ततोऽग्नेस्तीर्थमुत्तमम् । द्वादशादित्यकानां च तीर्थानि च ततः परम् ॥ ७०॥ शिवकाञ्च्यास्ततस्तीर्थं ततः सूर्यस्य तीर्थकम् । पूर्णस्य पूर्णभावाख्यं सर्वरोगनिकृन्तनम् ॥ ७१॥ ततो ग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः । तेषां तीर्थानि देवेशा देवानां यक्षरक्षसाम् ॥ ७२॥ महाकाल्यास्ततस्तीर्थं नारसिंह्यास्ततः परम् । शाकम्भर्यास्ततः प्रोक्तं चामुण्डायास्ततः परम् ॥ ७३॥ त्रिपुरायास्ततस्तीर्थं ततस्तीर्थानि देवपाः । महामायायुतानां वै शक्तीनां विविधानि च ॥ ७४॥ चतुःषष्टिमितानां च योगिनीनां मतानि वै । तीर्थानि योगदान्येव परदेहजकानि च ॥ ७५॥ ततश्च नैध्रुवं तीर्थं देवलस्य ततः परम् । मार्कण्डेयस्य तीर्थं तु भैरवाणां ततः परम् ॥ ७६॥ कालभैरवतीर्थं तु ततः क्रतुमुखाः परम् । तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ॥ ७७॥ ततो रैवतकं तीर्थं ततो योगमयं परम् । जडभरततीर्थं च योगसिद्धिप्रदायकम् ॥ ७८॥ (Page खं. ६ अ. २७ पान ८३) ओङ्कारगणनाथस्य ततस्तीर्थं प्रकीर्तितम् । विद्याधराणां तीर्थं च ततः पैशाचमोचनम् ॥ ७९॥ ततो धर्मस्य तीर्थं त्वश्विनोस्तीर्थं ततः परम् । नागानां शेषकादीनां ततस्तीर्थशतानि च ॥ ८०॥ ततो गवां महातीर्थं सनकादेस्ततः परम् । चतुर्दश मनूनां च तीर्थानि च ततः परम् ॥ ८१॥ महाशक्तेस्ततस्तीर्थमसितस्य ततः परम् । दक्षादीनां च तीर्थानि ततो मातृगणाः स्मृताः ॥ ८२॥ तेषां तीर्थानि देवेशाः षष्टिर्दक्षस्य कन्यकाः । तासां तीर्थानि तत्पश्चाद्गन्धर्वाणां ततः परम् ॥ ८३॥ गुह्यकानां तु तीर्थानि ततो विभीषणस्य च । रावणस्य ततस्तीर्थं श्वेतकेतोस्ततः परम् ॥ ८४॥ उद्दालकस्य तीर्थं तु रक्षसां च ततः स्मृतम् । अष्टावक्रस्य तीर्थं तु वैश्वदेवं ततः परम् ॥ ८५॥ तीर्थानि चैव तेषां तु ततो दक्षस्य धीमतः । पुत्री सन्तानकादीनां तीर्थानि विविधानि च ॥ ८६॥ मारीचमौद्गलादीनां विप्राणां च ततः परम् । तीर्थानि पाण्डवेशस्य तीर्थं दुर्वाससः परम् ॥ ८७॥ दत्तस्य तीर्थकं प्रोक्तं निदाघस्य ततः परम् । हनूमतस्ततस्तीर्थं सुग्रीवस्य ततः परम् ॥ ८८॥ तीर्थं जाम्बवतः प्रोक्तं बलेस्तीर्थं ततः परम् । ततश्च वालखिल्यानां गालवस्य ततः परम् ॥ ८९॥ विश्वामित्रस्य तीर्थं तु तीर्थं त्रिशिरसस्ततः । मृकण्डस्य ततस्तीर्थं दधीचेश्च ततः परम् ॥ ९०॥ किन्नराणां ततस्तीर्थं साध्यानां च ततः परम् । कामधेनुमुखीनां च गवां तीर्थं ततः परम् ॥ ९१॥ असितस्य ततस्तीर्थमिक्ष्वाकोश्च ततः परम् । गार्ग्याणां च ततस्तीर्थं माण्डूकानां ततः परम् ॥ ९२॥ धौम्यस्य चैव वाल्मीकेस्ततस्तीर्थं च जैमिनेः । वाचक्नवेस्ततस्तीर्थं ततो मङ्कणकस्य च ॥ ९३॥ प्रह्लादस्य ततस्तीर्थं दधीचेश्च ततः परम् । उपमन्योस्ततस्तीर्थं वैशम्पायनकस्य च ॥ ९४॥ जाजलेः पर्वतस्यैव पैलस्य च ततः परम् । लोमशस्य विभाण्डस्य ऋष्यश‍ृङ्गस्य तत्परम् ॥ ९५॥ ततो मुनिगणानां च तीर्थानि विविधानि तु । अश्वत्थाम्नस्ततस्तीर्थं कृपस्य च ततः परम् ॥ ९६॥ ततो वराहतीर्थं तु भूम्यास्तीर्थं ततः परम् । प्रकृतेः पुरुषस्यैका महामाया प्रकीर्तिता ॥ ९७॥ तस्यास्तीर्थं समाख्यातं सीमासंस्थं महेश्वराः । एतानि तीर्थमुख्यानि कथितानि समासतः ॥ ९८॥ स्वस्वमुख्यदिनेष्वेव सेवनीयानि मानवैः । मयूरवासिभिः स्वस्वसिद्धिदानि भवन्ति हि ॥ ९९॥ मयूरेऽपारतीर्थानि तेषां मानं वदाम्यहम् । अङ्गुष्ठपर्वमात्राणि तीर्थानि तीर्थसेविनाम् ॥ १००॥ यवमात्रस्वरूपेण संस्थितास्तीर्थसेविनः । त्रैलोक्ये यानि तीर्थानि नानाभेदधरणि च ॥ १०१॥ मयूरे तानि सर्वाणि संस्थितानि विशेषतः । अणुमात्रस्वरूपैस्तु ज्ञातव्यानि मनीषिभिः ॥ १०२॥ मयूरे यानि तीर्थानि न गच्छन्ति तु कुत्रचित् । (Page खं. ६ अ. २८ पान ८४) स्वस्वस्थानं समाश्रित्य सेवन्ते द्विरदाननम् ॥ १०३॥ गाणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः । संस्थितास्ते तु गच्छन्ति मयूरे दर्शनार्थिनः ॥ १०४॥ एतत् सङ्क्षेपतः प्रोक्तं तीर्थानां तु चरित्रकम् । श्रवणात् पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेत् ॥ १०५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ ६.२७

६.२८ नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । एतेषु तीर्थमुख्येषु के के सिद्धिं समाययुः । तेषां समासतः स्वामिंश्चरित्रं वद सौख्यदम् ॥ १॥ भृशुण्ड्युवाच । गच्छध्वं देवदेवेशा मयूरेशं मदाज्ञया । तत्र सिद्धा भविष्यन्तः सर्वं ज्ञास्यथ सिद्धिदम् ॥ २॥ स्कान्दे विस्तरतः सर्वं प्रोक्तं चैव न संशयः । समासतः समाख्यातं मया क्षेत्रचरित्रकम् ॥ ३॥ देवेशा ऊचुः । नित्ययात्रां वद स्वामिंस्तथा क्षेत्रप्रदक्षिणाम् । यात्रामन्यनराणां तु सर्वसिद्धिप्रदां वद ॥ ४॥ पापयुक्तः स्वभावेन मयूरे संस्थितोऽभवत् । चकार नगराद्बाह्यं कथं तं नग्नभैरवः ॥ ५॥ संस्कारेण समायुक्तं गाणपत्यं तथा प्रभुः । कथं स मानयत् क्षेत्रे तद्वदस्व समासतः ॥ ६॥ भृशुण्ड्युवाच । बङ्गाले ब्राह्मणः कश्चिद्गाणपत्यपरायणः । विश्वामित्रकुले जातो नाम्ना शम्भुर्महायशाः ॥ ७॥ हृदि तस्य समाश्रित्य नग्नो भैरवनायकः । बुद्धिभेदं चकाराऽसौ तेन संव्यथितो द्विजः ॥ ८॥ मयूरेशं तु द्रक्ष्यामि कदाऽहं देहधारकः । क्षणभङ्गुरदेहस्थः किं करोमि त्वरायुतः ॥ ९॥ ततः सपुत्रदारादिसंयुक्तो निःसृतो गृहात् । भिक्षाशनश्च देवेशा द्रव्यहीनतयाऽभवत् ॥ १०॥ द्वाभ्यां समागतः सोऽपि मासाभ्यां लङ्घ्य मार्गकम् । गणेशतीर्थगो विप्रो ननन्द हर्षयन् स्वकान् ॥ ११॥ मयूरेशं प्रपूज्यादौ यात्रां कृत्वा विधानवित् । क्षेत्रसंन्यासभावेनाऽभजत्तं द्विरदाननम् ॥ १२॥ अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् । हृदि प्रभुः समाश्रित्य नरमेवं समानयत् ॥ १३॥ अथ पापपरा ये च तेषां वदामि देवपाः । क्षेत्रत्यागभवं चित्रं चरित्रं श‍ृणुत प्रियाः ॥ १४॥ मयूरे ब्राह्मणः कश्चिद्वासिष्ठे जनितोऽभवत् । जन्मारभ्य महापापी पापनिष्ठो बभूव ह ॥ १५॥ न वेदाध्ययनं चक्रे बाल्ये चौर्यपरोऽभवत् । यौवने मद्यमांसादि सिषेवे स परस्त्रियम् ॥ १६॥ तस्य बुद्धिविभेदं स चकार नग्नभैरवः । परस्त्रियं समागृह्य विदर्भे प्रययौ खलः ॥ १७॥ एवं नानाविधं देवो नग्नो भैरवनायकः । चकार चाधिपत्यं स मयूरे दण्डधारकः ॥ १८॥ (Page खं. ६ अ. २८ पान ८५) अन्यच्च कथयिष्यामि चरित्रं पापकारिणाम् । मयूरे ये मतिं कृत्वा न प्रापुस्तं मयूरकम् ॥ १९॥ द्राविडे वैश्यजातिस्था बभूवुः पापकारकाः । विषादिना जनान् जघ्नुर्द्रव्ययुक्तान्निरन्तरम् ॥ २०॥ शम्भुश्च सोमकः कुब्जः कम्बलश्चैव मित्रकाः । चत्वारो मद्यमांसादिबभक्षुर्नित्यमादरात् ॥ २१॥ परस्त्रीलालसाः सर्वे शिश्नोदरपरायणाः । न चक्रुः पुण्यलेशं ते न स्वधर्मादिकं कदा ॥ २२॥ तत्रैव नगरे कश्चिद्वैश्यः श्यामलसंज्ञितः । द्रव्ययुक्तो महापापी ममार दैवयोगतः ॥ २३॥ श्यालकस्तस्य तत्रस्थः स्वधर्मस्थो बभूव ह । नाम्ना शङ्कर आख्यातः पुण्यकर्मपरायणः ॥ २४॥ तेनास्थिसञ्चयस्तस्य कृत उद्धारकारणात् । गते मासे महापापा वैश्याश्चत्वार एव ये ॥ २५॥ दण्डकारण्यदेशे तु जग्मुर्विक्रयकारणात् । श्यामलास्थि ददौ तेभ्यः शङ्करो विनयान्वितः ॥ २६॥ जगाद तान् महाभागो मयूरेऽस्थि प्रगृह्य तु । त्यज्यतां गणनाथस्य तीर्थे ब्रह्मसुखप्रदे ॥ २७॥ तथेति गृह्य तस्यास्थि समाजग्मुर्मयूरकम् । तत्र विघ्नं चकाराऽसौ नग्नो भैरवनायकः ॥ २८॥ चौरैस्तेषां हृतं सर्वं गतस्तत्रास्थिसञ्चयः । ते पुनः स्वगृहं जग्मुः किञ्चिद् द्रव्ययुताः खलाः ॥ २९॥ मयूरेशस्य चक्रुर्न यात्रां पापपरायणाः । निश्चितामपि देवेशा बुद्धिभेदबलाश्रयात् ॥ ३०॥ एवं महाबलः सोऽपि भैरवो हृदि संस्थितः । गणेशाज्ञावशो भूत्वा रक्षति क्षेत्रमुत्तमम् ॥ ३१॥ एतद्भैरवनाथस्य चरित्रं यः श‍ृणोति चेत् । तस्य सर्वं मयूरे तु शुभरूपं भविष्यति ॥ ३२॥ देवेशा ऊचुः । एतादृशो महाभागो नग्नो भैरवनायकः । स्तोत्रं तस्य वद स्वामिन् संस्तुमस्तं निरन्तरम् ॥ ३३॥ बुद्धिभेदात् स नः क्रुद्धः करिष्यति विशेषतः । क्षेत्रप्रवेशहीनांश्चेदतस्तं सेवयामहे ॥ ३४॥ भृशुण्ड्युवाच । सर्वमायाविहीनाय सर्वमायाप्रचालक । सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥ ३५॥ मयूरेशपरायैव मयूरपुरपालक । धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥ ३६॥ अधर्मनिरतांश्चैव बहिःकाराय देवप । सदा स्वानन्दनिष्ठाय नग्नभैरव ते नमः ॥ ३७॥ संस्कारयुक्तभावेन पापकर्मपरात्मनाम् । मयूरे दण्डकर्त्रे वै नग्नभैरव ते नमः ॥ ३८॥ महाबलधरायैव ब्रह्मादीनां प्रचालक । अमेयशक्तये देव नग्नभैरव ते नमः ॥ ३९॥ भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन । गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥ ४०॥ प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक । शूलप्रोतमहाण्डाय नग्नभैरव ते नमः ॥ ४१॥ अट्टहासेन देवेन्द्रांस्तथा सन्त्रास्य चासुरान् । नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥ ४२॥ विश्वं ततं सर्वमिदं त्वयेश आद्यन्तमध्येषु महानुभाव । संरक्ष देवेश मयूरसंस्थानस्मान् कुरुष्व त्वमनन्यभावान् ॥ ४३॥ शूलिन्नमस्तेऽखिलकारणाय त्वद्भीतिभावेन जगत्प्रवृत्तिः । व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यं प्रकरोति चात्मन् ॥ ४४॥ (Page खं. ६ अ. २९ पान ८६) अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व । गणेशक्षेत्रं त्वदधीनगं तुं गणेशसंस्थं कुरु ते नमो वै ॥ ४५॥ इदं स्तोत्रं महेशाना नग्नभैरवकस्य च । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥ ४६॥ धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् । लभेदनेन देवेशास्तुविध्वं नग्नभैरवम् ॥ ४७॥ मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् । स्तोत्रेण स्तुवतां नित्यं न किञ्चिद् दुर्लभं भवेत् ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः ॥ ६.२८

६.२९ भृशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । द्वारयात्रा समाख्याता सैव क्षेत्रप्रदक्षिणा । ज्ञातव्या देवदेवेशाः कुरुध्वं यत्नसंयुताः ॥ १॥ पुण्यकर्म नरः कुर्यात्तदा पापानि मानवम् । छलयन्ति विशेषेण तस्माद्यत्नपरो भवेत् ॥ २॥ नित्ययात्रां प्रवक्ष्यामि मयूरक्षेत्रवासिनाम् । अन्येषां सर्वदां पूर्णां श‍ृणुध्वं सुसमाहिताः ॥ ३॥ मयूरेशं समभ्यर्च्य परिवारसमन्वितम् । ततोऽष्टगणपान् क्षेत्रं कुण्डं नदीं प्रपूजयेत् ॥ ४॥ शमीं मन्दारकं दूर्वां चतुर्थीं च ततः परम् । मुद्गलं शुकयोगीशं ततो मण्डपगो भवेत् ॥ ५॥ चतुर्देवांश्च पूर्वादिक्रमतः संस्थितो नरः । तत्र धर्मादिकान् श्रुत्वा यथावकाशमानतः ॥ ६॥ पुनर्गणेश्वरं नत्वा गच्छेत् स्वगृहकं ततः । एवं कुर्यान्नित्ययात्रां स गणेशप्रियो भवेत् ॥ ७॥ नित्ययात्रां नरो यस्तु न कुर्याद्यदि देवपाः । क्षेत्रवासफलं तस्य न भवेत् पूर्णमञ्जसा ॥ ८॥ यातनां स लभेदन्ते सम्पूर्णां भैरवीं पराम् । अतो यात्रां समाकुर्यात् क्षेत्रस्थो नियमेन तु ॥ ९॥ अधुना गणपप्रीत्यै यात्रामन्यां वदाम्यहम् । सम्पूर्णभक्तिदात्रीं च गाणेशीं गणपप्रियाः ॥ १०॥ गर्भागारे चतुर्दिक्षु स्थिता विघ्नेश्वराः पराः । षट्पञ्चाशच्च ते तेषु मुख्याः पूज्या विशेषतः ॥ ११॥ दिक्पालानां महास्त्राणि तेभ्यः पञ्च धनुः पुरः । सर्वत्र संस्थिताः सर्वे गणेशा गणपे रताः ॥ १२॥ चतुर्दशप्रमाणेन प्रत्येकं दिक्षु संस्थितान् । गणपान् पूजयेद्यस्तु गाणपत्यो भवेन्नरः ॥ १३॥ बल्लाळः कपिलो ढुण्ढिर्वक्रतुण्डो महोदरः । हेरम्बो गणनाथस्तु विघ्नेशो विघ्नहारकः ॥ १४॥ भालचन्द्रः शूपकर्णो ज्येष्ठराजो गजाननः । महोत्कटश्च देवेशा अभवन् पूर्वदिक् स्थिताः ॥ १५॥ एकैकस्मात् क्रमेणैव धनुषां पञ्चविंशतिम् । (Page खं. ६ अ. २९ पान ८७) दूरे संस्था गणेशाना ज्ञातव्या भक्तिकारिभिः ॥ १६॥ तस्माद् द्विगुणमानेन दक्षिणे संस्थिताः पराः । तस्माच्चतुर्गुणेनैव पश्चिमे गणपा बभुः ॥ १७॥ तस्मात् पादविहीनेन गणपा उत्तरे भवन् । एवं क्रमेण पूज्यास्ते सर्वसिद्धिप्रदायकाः ॥ १८॥ अथ दक्षिणसंस्थांस्तु कथयामि गणेश्वरान् । ज्ञानेशः कर्मपश्चैव योगेशः सिद्धिविघ्नपः ॥ १९॥ चिन्तामणिश्च बुद्धीशो महागणपतिस्तथा । पूर्णानन्दश्च लक्ष्येशः सहजेशैकदन्तकौ ॥ २०॥ लम्बोदरो धूम्रवर्णस्तथा क्षिप्रप्रसादनः । एते दक्षिणगाः प्रोक्ता गर्भागारे महेश्वराः ॥ २१॥ विनायकश्च विकट आशापूरक संज्ञितः । धूम्रकेतुः प्रमोदश्च मोदः सुमुखदुर्मुखौ ॥ २२॥ पाशपाणिः परेशश्च लाभेशो धरणीधरः । मङ्गलेशश्च मूषकध्वज एते प्रकीर्तिताः ॥ २३॥ पश्चिमे देवदेवेशाः पूजनीया विधानतः । अथोत्तरगतान् वक्ष्ये गणेशान् भक्तपालकान् ॥ २४॥ मयूरध्वजसंज्ञश्च राजेशो विद्रुमेश्वरः । ओङ्कारेशो गुणेशश्च वरदः सिद्धिबुद्धिपः ॥ २५॥ गणेशश्च चतुर्बाहुस्त्रिनेत्रो गजमस्तकः । निधिपो गजकर्णश्च चिन्तामणिविभूषणः ॥ २६॥ एते गणेश्वराः प्रोक्ताः पूजनीया महेश्वराः । यात्राकारिण एवैते ददति स्वेप्सितं फलम् ॥ २७॥ अथ देवालये देवाः स्थितां यात्रां वदाम्यहम् । मुख्यां सर्वार्थदां पूर्णां यात्राकारिजनस्य च ॥ २८॥ अयोध्या मथुरा चैव द्वारका पूर्वमन्दिरे । महाविष्णुस्ततो देवाः पूजनीयो विशेषतः ॥ २९॥ काशी माया ह्यवन्ती च शिवः कैलासगस्ततः । गौरी स्कन्दो जनैः पूज्या दक्षिणे मुख्यभावतः ॥ ३०॥ महाकाली महालक्ष्मीर्महासरस्वती परा । आदिशक्तिर्जनैः पूज्या पश्चिमे विष्णुकाञ्चिका ॥ ३१॥ विधाताग्निः कर्मजडभरतोऽथ दिवाकरः । शिवकाञ्ची जनैः पूज्या उत्तरे देवमन्दिरे ॥ ३२॥ देवागारस्य देवेशा रहस्यं सम्प्रकाशितम् । यात्रां कुर्यान्नरस्तेषां सर्वसिद्धिप्रदा भवेत् ॥ ३३॥ अथो मयूरसंस्थानां रहस्यं कथयाम्यहम् । पुलहं च भृगुं देवाः क्रतुं सम्पूजेयन्नरः ॥ ३४॥ पूर्वभागे तथा याम्ये वसिष्ठात्री पुलस्त्यकम् । पश्चिमे दक्षमेवं तु मरीचाङ्गिरसौ तथा ॥ ३५॥ उत्तरे वसवोऽष्टौ च कामधेनुश्च देवलः । असितः पूजनीयास्ते जनैः सर्वार्थसिद्धये ॥ ३६॥ एतद्यात्राविधानं तु सङ्क्षेपेण निरूपितम् । सर्वसिद्धिप्रदं देवा जनेभ्यो यात्रया भवेत् ॥ ३७॥ गच्छध्वं तत्र देवेशा मयूरे भक्तिसंयुताः । भजिष्यथ गणेशानं ततः सर्वमवाप्स्यथ ॥ ३८॥ आदिशक्तिरुवाच । एवमुक्त्वा महायोगी भृशुण्डी विरराम ह । तस्मादेकाक्षरं गृह्य विधियुक्तं महामनुम् ॥ ३९॥ प्रणम्यापूज्य योगीशं ततः कृत्वा प्रदक्षिणम् । ययुर्हर्षयुताः सर्वे देवेन्द्राः पञ्च मुख्यकाः ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भृशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ ६.२९ (Page खं. ६ अ. ३० पान ८८)

६.३० मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततो भ्रान्ता महेशाना ददृशुर्न मयूरकम् । स्वानन्दरूपगं ब्रह्म सस्मरुर्गणनायकम् ॥ १॥ भृशुण्डिनं हृदि ध्यात्वा पुपूजुर्गणपप्रियम् । ततो गणेश्वरं पूज्य प्रार्थयामासुरादरात् ॥ २॥ देवेशा ऊचुः । मयूरं दर्शयस्वाद्य न जानीमो वयं परम् । अज्ञानावरणैर्युक्तान् रक्ष नस्ते पदार्थिनः ॥ ३॥ अकस्माद् वेदमुख्याश्च बभुः साङ्गाः समागताः । गणेशश्वाससम्भूता देवेशान् ज्ञानदायिनः ॥ ४॥ तान् दृष्ट्वा तेजसा पुञ्जयुक्तांस्ते देवसत्तमाः । प्रणम्य वेदान् पप्रच्छुः के यूयं वदत प्रियाः ॥ ५॥ अज्ञानावरणैर्युक्ता गणेशस्मरणे रताः । वयं तत्र भवन्तोऽपि प्रेषिता गणपेन किम् ॥ ६॥ वेदा ऊचुः । वेदा वयं महेशानाः साङ्गा अत्र समागताः । किमर्थं दुःखसंयुक्ता भवन्तो वदत प्रियाः ॥ ७॥ ततः सर्वं जगुर्देवा वृत्तान्तं पूर्वसम्भवम् । तच्छ्रुत्वा वेदमुख्यास्तान् मयूरं तददर्शयन् ॥ ८॥ ततो ब्रह्ममयं क्षेत्रं दृष्ट्वा ज्योतिर्मयं परम् । प्रणेमुस्ते ततः सर्वे प्रवेशं चक्रुरादरात् ॥ ९॥ विधियुक्तं प्रचक्रुस्ते देवेशा वेदसंयुताः । ततो वेदाज्ञया हृष्टाः स्थापयन्ति स्म मूर्तिकाम् ॥ १०॥ सम्पूज्य ध्याननिष्ठास्ते जेपुर्मन्त्रं विधानतः । निराहारेण विघ्नेशं तोषयन्ति स्म देवपाः ॥ ११॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरुत्तमा । भाद्रशुक्लचतुर्थी सा तदा माध्याह्नगाऽभवत् ॥ १२॥ सोमवासरसंयोगः स्वातीनक्षत्रकं महत् । दैवयोगेन कालश्च सम्प्राप्तः शक्तयः परः ॥ १३॥ शक्तय ऊचुः । सृष्टिहीनं तदा देवि कथं मासादिकं बभौ । एतत् कुतूहलं ब्रूहि संशयच्छेदनाय नः ॥ १४॥ आदिशक्तिरुवाच । दृश्यभावात्मकः कालो नश्यति स्म युगे युगे । सदैव ब्रह्मणि सर्वं ब्रह्माकारं प्रवर्तते ॥ १५॥ कालमानेन विघ्नेशो योगनिद्रापरोऽभवत् । तथा निद्राविहीनः स चकार सृष्टिमुत्तमाम् ॥ १६॥ ब्रह्मणि ब्रह्मरूपः स कालस्तत्र समास्थितः । अज्ञानेन जनानां चेत्तस्य संसेवनं भवेत् ॥ १७॥ तेन सिद्धियुताः सर्वे भवन्ति स्म न संशयः । ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् ॥ १८॥ माघे शुक्लचतुर्थ्यां स गणेशो वरदोऽभवत् । अङ्गारकयुतायां तु मूर्तिमध्याद्विनिर्ययौ ॥ १९॥ दृष्ट्वा चतुर्भुजं ढुण्ढिं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं भालचन्द्रं महोदरम् ॥ २०॥ त्रिनेत्रं शेषनाभिं च चिन्तामणिधरं परम् । शूर्पकर्णं गजास्यं च एकदन्तविराजितम् ॥ २१॥ पाशाङ्कुशरदैर्युक्तमभयं दधतं प्रभुम् । भूषणैर्भूषितं वस्त्रै राजितं ददृशुः परम् ॥ २२॥ तत उत्थाय देवेशा मया युक्ताः प्रणम्य तम् । पुपूजुस्तुष्टुवुश्चैव प्रहृष्टमनसोऽभवन् ॥ २३॥ ब्रह्माद्या ऊचुः । अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् । मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥ अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् । चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥ (Page खं. ६ अ. ३० पान ८९) जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् । विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥ तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् । अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २७॥ प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् । चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ २८॥ महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् । परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ २९॥ नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च । विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ ३०॥ अनाथानां प्रणाथाय शक्तये मोहधारिणे । कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ ३१॥ मयूरेशाय देवाय मयूरध्वजधारिणे । विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ ३२॥ किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् । यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ ३३॥ अतो नमामहे नाथ तेन तुष्टो भवस्व च । भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ ३४॥ एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः । साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ ३५॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । पठतां श‍ृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ ३६॥ वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् । तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ ३७॥ देवेशा ऊचुः । यदि विघ्नेश सन्तुष्टो वरं दास्यसि वाञ्छितम् । तदा ते पादपद्मे नो भक्तिरस्तु निरन्तरम् ॥ ३८॥ अन्यच्चास्माभिरानन्दात् करणीयं किमप्यहो । कार्यं ब्रूहि गणाधीश करिष्यामो जवान्विताः ॥ ३९॥ श्रीगणेश उवाच । चतुर्मुख रजोयुक्तः सृष्टिं कुरु मदाज्ञया । ब्रह्मा नाम्ना भवस्व त्वं मां स्मृत्वाऽहंविवर्जितः ॥ ४०॥ विष्णुश्चतुर्भुजः सत्वयुक्तोऽसि कुरु पालनम् । नानावतारभृन्नित्यं मां स्मृत्वा सिद्धिमेष्यसि ॥ ४१॥ तमोयुक्तः पञ्चमुख तेन त्वं संहरस्व च । मां स्मृत्वा बन्धहीनश्च भविष्यसि हरो भव ॥ ४२॥ चतुर्भुजे क्रियायुक्ता त्वं ततो मोहयस्व च । नानाभेदविभागेन मां स्मृत्वा सिद्धिमेष्यसि ॥ ४३॥ नाम्ना शक्तिर्भवस्व त्वं सर्वशक्तियुतेऽनघे । सहस्रकरसूर्यस्त्वं भव नाम्ना महामते ॥ ४४॥ कर्माधारस्वरूपेण धारयस्व चराचरम् । मां स्मृत्वा बन्धहीनोऽपि भविष्यसि न संशयः ॥ ४५॥ एवमुक्त्वा गणाधीशो ददौ तेभ्यो विशेषतः । सङ्कल्पसिद्धिजं देव्यः सामर्थ्यं विविधं तथा ॥ ४६॥ शक्तयो नगराण्येवायुधानि वहनादिकम् । निर्मायांऽतर्दधे सद्यो मूर्तिसंस्थो बभूव ह ॥ ४७॥ देवाः स्वस्वपदे गत्वा चक्रुः सर्वं जगत्ततः । चराचरं यथाभागमाश्रित्य किल रेमिरे ॥ ४८॥ तत्र ये मुख्यरूपाश्च प्रजापतिमुखोद्भवाः । अप्रेषयन् महेशास्तान् मयूरेशहिताय च ॥ ४९॥ (Page खं. ६ अ. ३० पान ९०) ते गणेशं समाराध्य मयूरे वरसंयुताः । स्वस्वव्यापारसंयुक्ता बभूवुः स्वपदे रताः ॥ ५०॥ एवं क्रमेण सर्वे तु चराचरमया मुखाः । मयूरेशं समाराध्य सत्तायुक्ता बभूविरे ॥ ५१॥ ततः सर्वांशभावेन मयूरेशं सिषेविरे । क्षेत्रवासपरा देव्यः कथितं सर्वमञ्जसा ॥ ५२॥ शङ्करेण तपस्तप्तं पुनस्तत्र मयूरके । गणेशवरदानेन महादेवो बभूव ह ॥ ५३॥ इदं मयूरक्षेत्रस्य माहात्म्यं कथितं मया । सङ्क्षेपेण महादेव्यः सर्वसिद्धिप्रदायकम् ॥ ५४॥ श‍ृणुयाद्यो नरो भक्त्या श्रावयेद्यः पठेत्तथा । धर्मार्थकाममोक्षांश्च भुक्त्वा ब्रह्ममयो भवेत् ॥ ५५॥ नानेन सदृशं किञ्चित् पावनं त्रिषु वर्तते । वेदशास्त्रपुराणेषु सारात् सारतमं मतम् ॥ ५६॥ पुत्रपौत्रयुतश्चात्र धनधान्यसमन्वितः । सुहृद्भिः संयुतः सोऽपि मोदते सुखदायकः ॥ ५७॥ अन्ते स्वानन्दवासी तु भूत्वा ब्रह्ममयो भवेत् । अस्य श्रवणमात्रेण नरः सर्वमवाप्नुयात् ॥ ५८॥ अपुत्रो यो लभेत् पुत्रान् गुणयुक्तांस्तु शक्तयः । मयूरस्यैव श्रवणात् दुर्लभं न भविष्यति ॥ ५९॥ व्रतानि सर्वभावेन यः करोति नरोत्तमः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६०॥ तीर्थानि क्षेत्रमुख्यानि सेवन्ते धर्मसंयुताः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६१॥ दानानि सर्वयज्ञांश्च यः करोति विधानतः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६२॥ वेदशास्त्रपुराणानि श्रुत्वा यत् प्राप्नुयात् फलम् । तस्माच्छताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६३॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् । किञ्चित् साधनकं प्रोक्तं सत्यं सत्यं वदाम्यहम् ॥ ६४॥ यत्र ब्रह्मपतिः साक्षात् क्षेत्रं स्वानन्दवाचकम् । कमण्डलुर्नदी तस्य साम्यं किं भवतीत्यहो ॥ ६५॥ ब्रह्मभूयकरं प्रोक्तं वेदादिषु इदं किल । तेन किं शक्तयः कुत्र समतां लभते परम् ॥ ६६॥ नित्यं भक्तियुतो जन्तुर्माहात्म्यं यः पठिष्यति । स गणेशो न सन्देहो दर्शनाद् दुःखहारकः ॥ ६७॥ अथवा शुक्लकृष्णायां चतुर्थ्यां नियतः पठेत् । सोऽपि दर्शनमात्रेण पवित्रान् कुरुते नरान् ॥ ६८॥ संस्कारहीनभावेन नरो नेदं कदाचन । श‍ृणुयाच्च पठेद्वाऽपि सदा पापैः स वञ्चितः ॥ ६९॥ नहि श्रावयितव्यं तद् भक्तिहीनाय विद्विषे । शठाय पापयुक्ताय पाखण्डनिरताय च ॥ ७०॥ यदि विघ्नेश्वरं सर्वे भावयुक्ता भजन्ति चेत् । तदा जन्मधराः के वै भवन्ते विघ्नसंयुताः ॥ ७१॥ अतः पात्रं प्रदृश्य श्रावयितव्यं विशेषतः । भक्तियुक्तः स निन्दां तु न करिष्यति सेवितुम् ॥ ७२॥ सर्वसारं मया प्रोक्तं देव्यः सर्वपदं परम् । तत्र गत्वा गणेशानं सेवध्वं भक्तिसंयुताः ॥ ७३॥ देहधारणकस्यैव सार्थकं वस्तदा भवेत् । नो चेत् पतिततुल्यश्च देहो वश्च न संशयः ॥ ७४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ६.३० (Page खं. ६ अ. ३१ पान ९१)

६.३१ विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो भाग्यबलेनैव संश्रुतं जगदम्बिके । मयूरक्षेत्रमाहात्म्यं सर्वसिद्धिप्रदायकम् ॥ १॥ अधुना वद देवेशि मुद्गलेनोपदेशिताः । शिवाद्याः किं समाचक्रुः कामासुरभयार्दिताः ॥ २॥ आदिशक्तिरुवाच । गते मुनौ महाभागे मुद्गले योगिनां गुरौ । तं प्रणम्य शिवाद्यास्ते ययुः क्षेत्रं मयूरकम् ॥ ३॥ यथाशास्त्रं विधानेन यात्रां चक्रुः सुरर्षयः । ततस्तपोयुताः सर्वे गणेशमभजन् पुरा ॥ ४॥ एकाक्षरविधानेनातोषयंस्ते विनायकम् । ततस्तान् वरदो ढुण्ढिवेषेणैव समाययौ ॥ ५॥ मयूरोपरिसंस्थं तं दृष्ट्वा विघ्नेश्वरं पुरः । देवर्षयः समुत्थाय प्रणेमुर्हर्षसंयुताः ॥ ६॥ प्रणम्य परया भक्त्या पुपूजुर्विघ्नपं पुनः । तुष्टुवुर्विष्णुमुख्यास्तं कृताञ्जलिपुटाऽमराः ॥ ७॥ देवर्षय ऊचुः । नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक । ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८॥ स्वानन्दवासिने तुभ्यं परात्परतराय च । ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९॥ अनादये च सर्वेषां पूज्याय परमात्मने । अनन्ताननधारायानन्तरूपाय ते नमः ॥ १०॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च । ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥ ११॥ त्रिनेत्राय चतुर्बाहुधराय कञ्जपाणये । महोदराय सर्पेशनाभये ते नमो नमः ॥ १२॥ मायाश्रयाय मायायाश्चालकाय विलासिने । ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥ १३॥ एकदन्ताय सर्वादिपूज्याय सर्वमूर्तये । शूर्पकर्णाय योगाय शान्तिदाय नमो नमः ॥ १४॥ पूर्वाङ्गे विष्णुरूपाय दक्षिणे शङ्करात्मने । पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥ १५॥ किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः । शान्तिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥ १६॥ चित्तं पञ्चविधं देव तत्र माया भ्रमात्मिका । चित्रा मयूरसंज्ञा च नमस्तत् स्वामिने नमः ॥ १७॥ माया मयूरवाच्या तु तत्र खेलकरो भवान् । मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥ १८॥ जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् । तवाङ्घ्रिदर्शनान्नाथ कृतकृत्या भवामहे ॥ १९॥ एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः । सरोमाञ्चा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥ २०॥ जगाद गणनाथश्च ततस्तान् भक्तिभावितः । वरान् वृणुत दास्यामि देवेशा भक्तियन्त्रितः ॥ २१॥ भवद्भिर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति सदा भक्तिदायकं पठते परम् ॥ २२॥ यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः । पठेद्वा श‍ृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥ २३॥ देवेशाद्या ऊचुः । प्रसन्नोऽसि गणाध्यक्ष तदा भक्तिं त्वदीयिकाम् । देहि कामासुरं नाथ जहि सर्वभयङ्करम् ॥ २४॥ स्थानभ्रष्टाः सुरश्रेष्ठाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेनासुरेणैवातस्तं जहि गजानन ॥ २५॥ तथेति गणनाथस्तानुक्त्वाऽन्तर्धानमकरोत् । (Page खं. ६ अ. ३१ पान ९२) देवा हर्षयुताः सर्वे जग्मुर्गिरिगुहान्तरे ॥ २६॥ गणेशं भजमानास्ते मुनयो देवनायकाः । कालाकाङ्क्षिण आनन्दाद्बभूवुः शक्तिमुख्यकाः ॥ २७॥ अथ कामासुरः क्वापि सभायां संस्थितोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ २८॥ देवैः सम्प्रार्थितं ब्रह्म मयूरेश्वरसंज्ञितम् । हत्वा त्वामखिलं विश्वं सुखयुक्तं करिष्यति ॥ २९॥ ततो मुमूर्च्छ तस्मात् स कामासुरो भयातुरः । श्रुत्वा वाचं महाक्रूरां दैत्येशास्तं समाययुः ॥ ३०॥ महायत्नेन दैत्येशाः सावधानं महासुरम् । चक्रुः स तानुवाचेदं वचनं खसमुद्भवम् ॥ ३१॥ तच्छ्रुत्वा क्रोधसंयुक्ता दैत्येशास्तमथाऽब्रुवन् । देवाः शत्रव आद्याश्चास्माकं नित्यं श्रुतेर्मुखात् ॥ ३२॥ अस्माभिः कथितं स्वामिन् जहि देवान् महामते । मुक्तेस्त्वया सुरेशानैस्तैरिदं दारुणं कृतम् ॥ ३३॥ उत्पत्तिस्थितिसंहारकारकेभ्यो महाप्रभो । तद्भवेभ्यो भयं ते न किं करिष्यति देवपः ॥ ३४॥ आज्ञापय महाभागास्मान् देवहननाय वै । मृता देवा यदा नाथ निःसपत्ना वयं तदा ॥ ३५॥ ततः कामासुरस्तानाज्ञापयद्देवकदने । कुम्भकर्णादयो जग्मुर्गिरिकन्दरकानने ॥ ३६॥ ततो मेरुगुहासंस्थान् दृष्ट्वा देवर्षिसत्तमान् । शस्त्राणि दैत्यास्तान् हन्तुं तत्यजुर्दैत्यनायकाः ॥ ३७॥ शिवमुख्या मयूरेशं सस्मरुर्भयसङ्कुलाः । एहि नाथ दयासिन्धो रक्ष नो भयसंयुतान् ॥ ३८॥ स्मृतिमात्रेण हेरम्बस्तान् ययौ मूषकध्वजः । मयूरोपरिसंस्थश्च शस्त्रधारक आदरात् ॥ ३९॥ तेजोराशिमयं रूपं दृष्ट्वा देवा विसिस्मिरे । तुष्टुवुस्तं महेशाना नानास्तोत्रैर्गजाननम् ॥ ४०॥ ततस्तेजोमयं रूपं तान् जगाद सुरर्षिकान् । विकटोऽहं महाभागास्तथा भजत मां चिरम् ॥ ४१॥ कामयुक्ता मया माया मयूरा विविधात्मिका । कामहीनोऽयमेवाहं भजध्वं कामहानतः ॥ ४२॥ मायासुखाच्च देवेशा विकटा भवत प्रियाः । तदा मे रूपकं द्रष्टुं भविष्यथ समर्थकाः ॥ ४३॥ तस्य तद्वचनं श्रुत्वा शोकयुक्ताः सुरर्षयः । बलेन चित्तमागृह्य निःकामं चक्रुरादरात् ॥ ४४॥ ततो गणेश्वरं देवा मुनयो ददृशुश्च ते । तं प्रणम्य स्थिताः सर्वे दैत्यशस्त्रैः प्रपीडिताः ॥ ४५॥ ततोऽतिक्रोधसंयुक्तो विकटस्तानुवाच ह । भयहीना मदीयेन दर्शनेन भवेत वै ॥ ४६॥ अधुना शस्त्रसंयुक्ता युध्यध्वं मे ह्यनुग्रहात् । कामासुरं हनिष्यामि आगतं तं महेश्वराः ॥ ४७॥ ततस्ते क्रोधसंयुक्ता देवेन्द्राः शस्त्रपाणयः । युयुधुर्दैत्यमुख्यैश्च तेजोयुक्ता विशेषतः ॥ ४८॥ इन्द्रेण सहसाऽऽगत्य वज्रेण निहतोऽपतत् । कुम्भकर्णस्ततो दैत्या प्रपेलुर्भयसङ्कुलाः ॥ ४९॥ द्विमुहूर्ते गते देव्यो राक्षसेशः प्रतापवान् । (Page खं. ६ अ. ३२ पान ९३) सावधानो बभूवाऽपि पपाल भयसङ्कुलः ॥ ५०॥ जययुक्ता महेशानाः प्रणेमुर्विकटं ततः । जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः ॥ ६.३१

६.३२ देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । कामासुरवधार्थाय भक्तियुक्ता गजाननम् । देवर्षयः प्रार्थयन्तो निःकामाः कथमप्यहो ॥ १॥ आदिशक्तिरुवाच । अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः । श‍ृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥ २॥ स्वदेहपोषणाद्यर्थं यशोर्थं भावसंयुताः । भजन्ते कामसंयुक्ता देवं जानीत तान्नरान् ॥ ३॥ स्वस्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये । निःकामास्ते भजन्ते तं देवं भावसमन्विताः ॥ ४॥ निःकामिका कृता भक्तिर्देवेशैः श‍ृणुत प्रियाः । तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥ ५॥ सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः । वयं तदेव सेवा ते खेलसि त्वं गजानन ॥ ६॥ हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः । भुङ्क्षे तेन गणेशान सेवा ते देहपोषिका ॥ ७॥ तव प्रीत्यर्थमानन्दात् प्रकुर्मः स्वस्वधर्मजाम् । क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥ ८॥ अधुना दैत्यमुख्येन सेवा ते खण्डिता परा । असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥ ९॥ एवं सम्प्रार्थितो देवैर्विकटो नात्र संशयः । देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥ १०॥ स्वधर्मसंयुतैः सर्वैः स्वस्वव्यापारजा क्रिया । कर्तव्या ढुण्ढिप्रीत्यर्थं निःकामा सा मता किल ॥ ११॥ अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् । विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥ १२॥ कुम्भकर्णादयः सर्वे जग्मुर्भयसमन्विताः । कामासुरं महावीर्यं वृत्तान्तं तं न्यवेदयन् ॥ १३॥ मयूरेशः समायातो विकटश्चेति कथ्यते । देवैः सम्प्रार्थितो नाथ हनिष्यति महासुरान् ॥ १४॥ तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः । वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥ १५॥ शरणं विकटं चैव शुभदं ते भविष्यति । अन्यथाऽसुरसङ्घानां विनाशो निश्चितोऽधुना ॥ १६॥ कुम्भकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् । निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥ १७॥ बलिरुवाच । किं भ्रान्तोऽसि विशेषेण वदसे विकलो यथा । कामासुरस्य वेगं तु सहते कः स्वरूपधृक् ॥ १८॥ (Page खं. ६ अ. ३३ पान ९४) बलेर्वचनमाकर्ण्यासुरः कामः प्रतापवान् । जगाद दैत्यमुख्यांश्च हृदयेन विदूयता ॥ १९॥ कामासुर उवाच । वाणी सत्या बभूवापि स्वस्था मे शत्रुरागतः । हनिष्यामि मरिष्यामि किं वा तत्र भविष्यति ॥ २०॥ कामासुरवचः श्रुत्वा दुर्मदस्तत्र चाब्रवीत् । वचनं तेजसा युक्तो वीर्ययुक्तं महासुरः ॥ २१॥ दुर्मद उवाच । कुम्भकर्णेन दृष्टश्च विकटो नात्र संशयः । उत्पत्तिनाशसंयुक्तो विचारय महामते ॥ २२॥ यद् दृष्टं तत्प्रणष्टं वै पश्य वेदे विचक्षण । कथं त्वां स महाराज हनिष्यति वरैर्युतम् ॥ २३॥ मा चिन्तां कुरु राजेन्द्र वधिष्यामो वयं च ते । शत्रुं तत्र जयैर्युक्ता भविष्यामो न संशयः ॥ २४॥ अज्ञापय महादैत्यास्मांस्ते पादस्य किङ्करान् । पश्य नो यत् महावीर्यं देवनाशकरं परम् ॥ २५॥ देवैर्माया कृता चेयं खवाणी भयरूपिणी । मायया तं विनिर्माय भयार्थं दैत्यरक्षसाम् ॥ २६॥ नेयमाकाशवाणी वै विचारय महामते । देहधारी कथं त्वां स हनिष्यति महाबलम् ॥ २७॥ दुर्मदस्य वचः श्रुत्वा बलिमुख्या महाऽसुराः । हर्षयुक्ताः पुनस्तं ते जगुः सत्यं त्वयोदितम् ॥ २८॥ ततः कामासुरश्चैव सन्नद्धः सर्वदैत्यपैः । चतुरङ्गबलैर्युक्तैर्निर्जगाम गजाननम् ॥ २९॥ ततः शुक्रेण दैत्येन्द्रो बोधितो बहुलोक्तिभिः । न बुबोध मदोत्सिक्तो बलगर्वेण मोहितः ॥ ३०॥ भाविनं मुनिमुख्यश्च ज्ञात्वा काव्यो महायशाः । कालवेगं समाश्रित्य प्रययौ तमनु प्रभुः ॥ ३१॥ दैत्याः क्रोधयुताः सर्वे समाजग्मुः प्रहर्षिताः । देवमर्दनकामार्थं यत्र देवाः स्थिताः पुरा ॥ ३२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः ॥ ६.३२

६.३३ कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । समागतं महत् सैन्यं नानाशस्त्रविराजितम् । अपारं तत् समालोक्य देवेशा गणपं ययुः ॥ १॥ देवेशा ऊचुः । कामासुरः स्वयं साक्षादागतः स महाबलः । यस्याग्रे देवदेवेशा मशका इव सम्बभुः ॥ २॥ यस्य शस्त्रबलं स्वामिन्नमोघं सर्वदा बभौ । न बले सदृशस्तस्य सोऽयं कामः समागतः ॥ ३॥ रक्ष नः कामसन्त्रस्तान्नोचेत् कामः प्रतापवान् । देवर्षीणां गणेशान जीवग्राहं करिष्यति ॥ ४॥ तेषां वचनमाकर्ण्य तान् जगाद गजाननः । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ ५॥ (Page खं. ६ अ. ३३ पान ९५) मदनुग्रहतः सर्वे समर्था देवनायकाः । भविष्यथ न सन्देहो युध्यध्वं दानवैः सह ॥ ६॥ विकटस्य वचः श्रुत्वा देवा हर्षसमन्विताः । जगर्जुः शस्त्रसंयुक्ता भयहीनाश्च शक्तयः ॥ ७॥ तेषां गर्जितशब्देन व्याप्तं सर्वं दिगन्तरम् । दैत्या भययुताः सर्वे बभूवुर्ये समागताः ॥ ८॥ ततः क्रोधसमाविष्टा दैत्येशा बलिमुख्यकाः । जगर्जुः सिंहनादैश्च शङ्खनादैः समन्ततः ॥ ९॥ ततो दैत्यगणाः सर्वे मुमुचुः शस्त्रपाणयः । शस्त्रवृष्टिं महोग्रां च मेघा इव शिलोच्चये ॥ १०॥ ततो देवाः स्वशस्त्रैस्तान्निवार्य युयुधुः परम् । दैत्या देवा महोग्राश्च युयुधुस्ते परस्परम् ॥ ११॥ नाऽभूत् स्वपरबोधोऽपि रजसा छादिते रवौ । जघ्नुः परस्परं देव्यः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १२॥ ततो रक्तसमोघैश्च नदी जाता दुरत्यया । प्रवाहबहुला रक्तै रजः शान्तं बभूव ह ॥ १३॥ एवमेकदिनं घोरं दिवानिशि निरन्तरम् । युद्धं बभूव दैत्यानां देवानां तु जयैषिणाम् ॥ १४॥ ततो देवा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् । जघ्नुः शस्त्रप्रहारैस्तु प्रपेलुर्दैत्यनायकाः ॥ १५॥ तद् दृष्ट्वा परमाश्चर्यं दैत्येन्द्राः क्रोधमादधुः । बलिमुख्या महावीर्या आययू रणमण्डलम् ॥ १६॥ तैः शस्त्रास्त्रबलैः सर्वं देवानां प्रहतं बलम् । प्रपेलुरमरास्तत्र भयभीता दिशो दश ॥ १७॥ तत इन्द्रः समायातो जघानामर्षतो बलिम् । वज्रेण पातयामास दानवेन्द्रं महाबलम् ॥ १८॥ ततो हर्षयुता देवा जगर्जुर्नादसंयुताः । महेद्रं कुम्भकर्णश्च हृदि विव्याध मुष्टिना ॥ १९॥ इन्द्रः पपात भूपृष्ठे ततो विष्णुर्महाबलः । चक्रं तत्याज सङ्क्रुद्धो रणभूमौ विचक्षणः ॥ २०॥ चक्रेण क्षुरधारेण हता दैत्याः समन्ततः । रावणः क्रोधसंयुक्तस्तं ययौ रणकाम्यया ॥ २१॥ गदया विष्णुना तत्र हतो मूर्च्छामवाप ह । कुम्भकर्णं तथा विष्णुर्मूर्च्छितं प्रचकार ह ॥ २२॥ ततो दुर्मदकस्तत्र महिषः शङ्करस्तथा । समाजग्मुर्महाविष्णुं क्रोधयुक्ताः समन्ततः ॥ २३॥ ततोऽतिव्याकुलं दृष्ट्वा केशवं शङ्करः स्वयम् । त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ ॥ २४॥ भानुना दुर्मदस्तत्र गदया पीडितो भृशम् । मूर्च्छितः स पपातैव वमन् रक्तं मुखाद् बहु ॥ २५॥ त्रिशूलेन हतस्तत्र शङ्करः शङ्करेण च । पपात स धरापृष्ठे मूर्च्छितो सुरनायकः ॥ २६॥ चक्रेण महिषस्तत्र विष्णुना मूर्च्छितः कृतः । ततो हाहारवं कृत्वा प्रपेलुर्दैत्यदानवाः ॥ २७॥ देवानां जययुक्तानां बलं दृष्ट्वा महामुनिः । शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे ॥ २८॥ एतस्मिन्नन्तरे तत्र महाकाली समाययौ । काव्यं गृह्य ययौ देवी तं चिक्षेप गुहान्तरे ॥ २९॥ ततः कामासुरः शोकयुतो दैत्यः प्रतापवान् । निःश्वस्य योद्धुमायातस्तस्य पुत्रौ समूचतुः ॥ ३०॥ तिष्ठ तात गमिष्यावो रणं कृत्वा महारिपुम् । हनिष्यावो न सन्देहः किं करिष्यति विघ्नपः ॥ ३१॥ (Page खं. ६ अ. ३३ पान ९६) एवमुक्त्वा महावीर्यौ दैत्यपुत्रौ रणस्थलम् । ययतुः शङ्करं विष्णुमूचतुः क्रोधसंयुतौ ॥ ३२॥ शोषण उवाच । तिष्ठ तिष्ठ महादेव हत्वा दैत्यगणान् पुरा । अधुना त्वां हनिष्यामि पश्य मे पौरुषं परम् ॥ ३३॥ शिवोऽसि त्वं शिवातुल्यो गच्छारण्यं मरिष्यसि । पशुभिश्च मदग्रे तु किं करिष्यसि तद्वद ॥ ३४॥ श्रीशङ्कर उवाच । शोषण त्वं समर्थश्चाधुना हन्मि न संशयः । विकट तेजसा युक्तः पौरुषं दर्शयस्व रे ॥ ३५॥ श्रुत्वा बाणान् महाबाहुश्चिक्षिपामोघरूपकान् । तैस्ते देवगणाः सर्वे मूर्च्छिताः पतिता मृधे ॥ ३६॥ शङ्करस्तं महावीर्यं योधयामास वेगतः । सोऽपि क्रोधसमायुक्तस्तं विव्याध शरैः पुनः ॥ ३७॥ ततस्त्रिशूलघातेन शोषणश्च पपात ह । क्षणाल्लभ्य ततः संज्ञां शम्भुं जग्राह कोपतः ॥ ३८॥ भ्रामयित्वा प्रचिक्षेप महापर्वतमस्तके । ततो हर्षयुता दैत्यास्तं जयेति शशंसिरे ॥ ३९॥ दुष्पूरो विष्णुमागत्य तं जगाद सुरेश्वरम् । क्रोधयुक्तो महाबाहुर्बलेन भृशगर्वितः ॥ ४०॥ दुष्पूर उवाच । किं विष्णो त्वं मदोत्सिक्तो मां न जानासि दुर्मते । हतास्त्वया महावीरा मदीया दैत्यनायकाः ॥ ४१॥ फलं गृहाण मत्तस्त्वं तेषां देवानुसारिणाम् । सहायस्त्वं हतो नूनं गमिष्यसि यमक्षयम् ॥ ४२॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तश्च केशवः । जगाद तं महावीर्यं दैत्यपुत्रं सुगर्वितम् ॥ ४३॥ श्रीविष्णुरुवाच । किं मां वदसि पापिष्ठ हनिष्यामि न संशयः । विकट सत्तया त्वाऽहं मा गर्वं कुरु दैत्यज ॥ ४४॥ ततः क्रोधसमाविष्टो दुष्पूरो गदया त्वहन् । विष्णुं तयाऽतिदुःखेन पपात धरणीतले ॥ ४५॥ ततो देवेन्द्रमुख्याश्च दुष्पूरं शस्त्रवर्षतः । मारयामासुरव्यग्राः सोऽपि चिक्षेप सायकान् ॥ ४६॥ शतैः सन्ताडयामास भानुं तेजस्विनां वरम् । इन्द्रं शतैर्यमं वायुं ब्रह्माणं च व्यपातयत् ॥ ४७॥ ततो विष्णुश्च दुष्पूरं सावधानो जघान ह । चक्रेण मूर्च्छितं चक्रे दैत्यपं रणमूर्धनि ॥ ४८॥ पुनः संज्ञां समासाद्य बाणैर्विष्णुमपीडयत् । सहस्रैर्मूर्च्छितं कृत्वा जगर्ज हर्षयन् स्वकान् ॥ ४९॥ एवं दुष्पूरदैत्येन शोषणेन च शक्तयः । कृतं कर्म रणे तुल्यं जययुक्तप्रभावतः ॥ ५०॥ दैत्येन्द्रैर्बलिमुख्यैश्च सावधानैस्तदन्तरे । तैः स्तुतौ दैत्यराजस्य पुत्रौ तत्र विरेजतुः ॥ ५१॥ ततो देवगणान् हन्तुं दैत्येशा बलसंयुताः । मतिं चक्रुस्ततः क्रुद्धो बभूव द्विरदाननः ॥ ५२॥ पाशं चिक्षेप वेगेन तथांऽकुशं गजाननः । पाशः शोषणकण्ठं तु समागत्य स्थितोऽभवत् ॥ ५३॥ रुद्धश्वासः स पाशेन पपात शोषणो मृधे । हस्तौ पादौ प्रचाल्यैव ममार तत्क्षणात्ततः ॥ ५४॥ अङ्कुशः सहसाऽऽगत्य जघानोदरके ततः । दुष्पूरं स ममारैव पश्यतां दैत्यरक्षसाम् ॥ ५५॥ ततः पाशाङ्कुशौ तत्र चेरतू रणमण्डले । हत्वा दैत्याननेकांश्च हाहाकाररवाकुलान् ॥ ५६॥ (Page खं. ६ अ. ३४ पान ९७) बलिमुख्या भयोद्विग्नास्त्यक्त्वा लज्जां च शक्तयः । प्रपेलुः शस्त्रहीनास्ते दशदिक्षु तथाऽपरे ॥ ५७॥ ततो विघ्नेश्वरस्यैव हस्तगौ सम्बभूवतुः । पाशाङ्कुशौ गणेशस्योत्तस्थुर्दृष्ट्वाऽमराः पुनः ॥ ५८॥ नीरुजो बलसंयुक्तास्तुष्टुवुर्विकटं ततः । दैत्याः शोकाकुलास्तद्वद्रुरुदुः सर्वतो दिशाम् ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ६.३३

६.३४ कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । छिन्नाङ्गा असुराः कामासुरं केचिन् महाबलम् । जग्मुर्भययुतं दृष्ट्वा वृत्तान्तं तमवेदयन् ॥ १॥ दैत्या ऊचुः । किं स्थितोऽसि महाराज मृता दैत्या महामृधे । तव पुत्रौ मृतौ तत्र शरणं व्रज विघ्नपम् ॥ २॥ नोचेत् दैत्यकुलानां वै मूलच्छेदो भविष्यति । इति तेषां वचः श्रुत्वा कामासुरो मुमूर्च्छ ह ॥ ३॥ सावधानः कृतो दैत्यै रुरोद भयसङ्कुलः । शोकसन्तप्तगात्रोऽसौ देवान् हन्तुं मनो दधे ॥ ४॥ गृहीत्वा शस्त्रसङ्घातान् रथारूढो बभूव ह । शेषसेनां समादाय विकटं प्रययौ पुरः ॥ ५॥ रणभूमौ महावीरं प्राप्तं कामासुरं परम् । दृष्ट्वा भययुता देवा वचो विकटमब्रुवन् ॥ ६॥ समागतः स्वयं कामासुरः स्वामिन् महायशाः । इदानीं गणनाथ त्वं यत् करिष्यसि तत् कुरु ॥ ७॥ ततः क्रोधयुतो देवान् विकटः प्रत्युवाच ह । भयहीना महेशाना युध्यध्वं मदनुग्रहात् ॥ ८॥ तस्य तद्वचनं श्रुत्वा शम्भुविष्णुमुखाऽमराः । गर्जित्वा घनवद्धोरं तं ययुः शस्त्रपाणयः ॥ ९॥ समागतान् महेशाद्यान् जगाद दैत्यनायकः । क्रोधेन महता युक्तो देवान् देवनिषूदनः ॥ १०॥ कामासुर उवाच । शम्भो विष्णो तथाऽन्ये तु देवेशा मे वचोऽधुना । श‍ृणुध्वं किं कृतं घोरं वैरं पुत्रवधात्मकम् ॥ ११॥ मया स्नेहयुतेनैव न हताः प्राक् सुरेश्वराः । दयायुक्तेन तस्येदं फलं दत्तं सुरैः परम् ॥ १२॥ अधुना क्रोधसंयुक्तो हनिष्यामि सुरेश्वरान् । विकटं देवप हत्वा मुनीन् देवेन्द्रसत्तमाः ॥ १३॥ एवमुक्त्वा धनुः सज्जं चकार दैत्यनायकः । जगाद धैर्यमालम्ब्य ततस्तं शङ्करो वचः ॥ १४॥ श्रीशङ्कर उवाच । त्वयाऽस्माकं महादैत्य गृहीतं सकलं पुरा । धर्मनाशः कृतश्चैव त्रैलोक्यं पीडितं बलात् ॥ १५॥ फलं दैत्यपते तस्य त्वया प्राप्तं न संशयः । त्वां हनिष्यामि विकट कृपयाऽहं खलोत्तम ॥ १६॥ (Page खं. ६ अ. ३४ पान ९८) शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । गदया तं जघानैव पातयामास शङ्करम् ॥ १७॥ शङ्करं पतितं दृष्ट्वा चक्रं तत्याज केशवः । कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥ १८॥ ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च । सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥ १९॥ तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले । छिन्नाङ्गा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥ २०॥ ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः । देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समन्ततः ॥ २१॥ विष्णुः कामं जघानैव बाणैः परमदारुणैः । सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥ २२॥ ततो मूर्च्छां परित्यज्य शङ्करो युयुधे भृशम् । कामासुरेण दैत्येन्द्रस्तं जघानासिघाततः ॥ २३॥ तथापि न चचालैव शिवः संहारकारकः । ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥ २४॥ भानुना शरघातेन रावणस्ताडितो भृशम् । दुर्मदश्च तथा देव्यः पेततुस्तौ धरातले ॥ २५॥ विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह । महिषः कुम्भकर्णश्च शङ्करश्च बलिस्तथा ॥ २६॥ ततश्चक्रेण गोविन्दो जघान दानवान् परम् । हाहा कृत्वा सुराः सर्वे पलायन्त दिशो दश ॥ २७॥ तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः । क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥ २८॥ विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके । भानुं गृह्य धरायां स पोथयामास दारुणः ॥ २९॥ ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः । प्रपलुश्छिन्नभिन्नाङ्गाः कामासुरनिपीडिताः ॥ ३०॥ दैत्येन्द्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् । मूषकोपरि संस्थाय ययौ सङ्ग्रामकारणात् ॥ ३१॥ कामासुरः समालोक्य आगतं तं प्रतापवान् । क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥ ३२॥ कामासुर उवाच । मयूरेश कथं यातः सङ्ग्रामाय मया सह । मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥ ३३॥ मम पुत्रौ महावीर्यौ गजानन हतौ त्वया । तयोः शोकेन सन्तप्तो हनिष्यामि समूषकम् ॥ ३४॥ देवैः सम्प्रार्थितस्त्वं तु किं करिष्यसि मां वद । मम भ्रूभङ्गमात्रेण कम्पते सचराचरम् ॥ ३५॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन । तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥ ३६॥ देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् । अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥ ३७॥ कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् । जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥ ३८॥ मूर्खोऽसि काम अत्यन्तं विकटोऽहं विचारय । जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥ ३९॥ न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुङ्गव । यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥ ४०॥ नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः । गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥ ४१॥ शुक्रेण कथितं सर्वं न बुद्धं मूर्खभावतः । (Page खं. ६ अ. ३५ पान ९९) स्वरूपं मे त्वया दुष्टाधुनापि शरणं व्रज ॥ ४२॥ विकटस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । कामासुरश्च तं हन्तुं गदां चिक्षेप दारुणाम् ॥ ४३॥ सा गदा निष्फला तत्र पपात धरणीतले । अकस्माद्दैत्यराजस्तु मूर्च्छितः प्रबभूव ह ॥ ४४॥ प्रहरेण महाक्रूरः सावधानो बभूव ह । अशक्तः सर्वदेहे स पीडां लेभेऽतिदारुणाम् ॥ ४५॥ ततो मनसि सन्धार्य विचारमकरोत् खलः । अहो शस्त्रं विना मां स जघान विकटः कथम् ॥ ४६॥ शक्तिहीनोऽहमत्यन्तं कथं युद्धं करोमि वै । शुक्रेण कथितं सत्यं ब्रह्माकारोऽयमुच्यते ॥ ४७॥ तथापि देवपक्षस्य धारकोऽयं कथं भवेत् । अतः संशयसंयुक्तः शरणं न व्रजाम्यहम् ॥ ४८॥ मरिष्यामि न सन्देहस्तदेव कीर्तिवर्धनम् । शत्रूणां शरणं चैव न योग्यं भासते हृदि ॥ ४९॥ अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतम् । देवपक्षविहीनश्चेद्व्रजामि शरणं च तम् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ६.३४

६.३५ कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः कामासुरो दैत्यैर्जगाम द्विरदाननम् । जगाद भयसंयुक्तो वचनं हितकारकम् ॥ १॥ कामासुर उवाच । ब्रह्म त्वं विकट प्राज्ञ देव साहाय्यकृत् कथम् । सुरासुरमयं तद्वै कथमेकगुणाश्रितम् ॥ २॥ विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु । जन्मादिहीनभावश्चेत् कथं देहप्रधारकः ॥ ३॥ वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः । तदा ते शरणं नाथाऽऽगमिष्यामि न संशयः ॥ ४॥ विकट उवाच । माया नानाविधा दैत्य सा खेलति मया धृता । भेदान् कृत्वा तदाधारान् मयूरेशं वदन्ति माम् ॥ ५॥ मायाशब्दं मयूराख्यं वदन्ते तत्त्वदर्शिनः । तस्याः स्वामिनमेवं मां मयूरेशं विलोकय ॥ ६॥ नानाभेदयुतं ब्रह्मासद्रूपं कथ्यते बुधैः । उत्पत्तिस्थितिसंहारसाक्षिरूपप्रदर्शनात् ॥ ७॥ तत्रामृतमयं ब्रह्म सदा भेदविवर्जितम् । तदेव विकटं तस्मात् सत्यं जानीहि मां परम् ॥ ८॥ सदाऽखण्डमये दैत्य कुत्र ब्रह्मणि वर्तते । सृष्टिस्थितिलयत्वं च साक्षिरूपं वदस्व माम् ॥ ९॥ चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामते । तत्र नैव विजानीहि विकटेऽमृतसंज्ञिते ॥ १०॥ सर्वेषां जीवनं ब्रह्म तदेव विकटं मतम् । तं भजस्व विधानेन मृत्युहीनो भविष्यसि ॥ ११॥ (Page खं. ५ अ. २५ पान १००) सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा मता । तयोः स्वामी गणेशश्च विचारय हृदि स्थितः ॥ १२॥ चित्तं पञ्चविधं दैत्य तत्र भ्रान्तिश्च पञ्चधा । भ्रान्तियुक्तं महच्चित्तं त्यक्त्वा चिन्तामणिं भज ॥ १३॥ सर्वेषां चित्तगोऽहं तु मत्प्राप्त्यर्थं महामते । देहधारी स्वयं भूत्वा भक्तान् शान्तिं ददाम्यहम् ॥ १४॥ सम्प्रज्ञातो नराकारो सम्प्रज्ञातात्मकं शिरः । तयोर्योगेऽभवं देहधारी गजं विचारय ॥ १५॥ अतोऽहं गजवक्त्रश्च दर्शनं मे सुयोगिनाम् । स्वसंवेद्यं भवेन्नूनं तेन स्वानन्दवासकृत् ॥ १६॥ मायाक्रीडार्थमानन्दाद्रचितं विविधं पुरा । स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा ॥ १७॥ देवासुरमयोऽहं तु न भिन्नं मे प्रवर्तते । तथापि धर्मरक्षार्थं हन्मि सर्वान्न संशयः ॥ १८॥ स्वर्गेषु स्थापिता देवा नराः पृथ्व्यां मया तथा । असुरा विवरेष्वेवं त्रिविधं त्रिषु संस्थितम् ॥ १९॥ यदा लोभयुता देवाः पातालस्थान् महासुरान् । हन्तुं विष्णुमुखाः क्रोधाद् बभूवुश्चोत्सुका बलात् ॥ २०॥ तदा क्रोधयुतोऽहं तु दैत्यानां हृदि संस्थितः । तपःसामर्थ्यसंयुक्तान् करोमि दानवान् परान् ॥ २१॥ विघ्नकर्ताऽमराणां वै दैत्यानां विघ्नहारकः । भवामि तेन दैत्येन्द्रा जययुक्ताः सदाऽभवन् ॥ २२॥ असुरैर्हन्यमानाश्च देवेन्द्रा वनवासिनः । बभूवुः काम जानीहि संशयो न मदिच्छया ॥ २३॥ यदा दैत्या महादुष्टा मदयुक्ता बभूविरे । कर्मनाशप्रभावेण देवानां मूलछेदकाः ॥ २४॥ तदा देवाः समर्थाश्च प्रजघ्नुर्दैत्यनायकान् । दैत्यानां छिद्रकं सर्वं दर्शयामि हृदि स्थितः ॥ २५॥ ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवन्ति च । तदाऽहं देहधारी तान् भूत्वा हन्मि विशेषतः ॥ २६॥ यदा स्वधर्मसंयुक्ता देवा दैत्या बभूविरे । तदा तेषां हृदि स्थित्वा तिष्ठाम्यसुर सर्वदा ॥ २७॥ त्वया देवगणाः सर्वे पीडिता धर्मलोपक । अतस्त्वां हन्तुमायातो देवपक्षधरो ह्यहम् ॥ २८॥ हनिष्यामि महादुष्ट यदि मामवमन्यसे । जीवितुं त्वं सुखी देव वैरं त्यक्त्वा भवेच्छसि ॥ २९॥ एवमुक्त्वा महादैत्यं विकटो विरराम ह । कामासुरः प्रसन्नात्मा बभूवे भाविगौरवात् ॥ ३०॥ विचारमकरोच्चित्ते विकटोऽयं न संशयः । सुरासुरमयः पूर्णो व्रजामि शरणं ततः ॥ ३१॥ कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥ कामासुर उवाच । नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश देवासुरमयाय च ॥ ३४॥ अनन्तमाययायुक्त ब्रह्मभूतस्वरूपिणे । गजाननाय हेरम्ब देवेशाय नमो नमः ॥ ३५॥ शूर्पकर्णाय विघ्नानां चालकाय नमो नमः । भक्तानां विघ्नहर्त्रे ते ह्यभक्तानां विनाशिने ॥ ३६॥ स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे । (Page खं. ६ अ. ३५ पान १०१) योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ ३७॥ अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे । ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ ३८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ ३९॥ त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च । लम्बोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥ ४०॥ देवानां पालकायैव दैत्येभ्यो वरदायिने । सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ ४१॥ विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप । वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ ४२॥ किं स्तौमि त्वां गणाधीश यत्र योगीन्द्रमुख्यकाः । वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ ४३॥ मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे । त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥ ४४॥ अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा । विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ ४५॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् । कामासुरो ननर्ताऽसौ रुद्धकण्ठो महायशाः ॥ ४६॥ भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् । वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥ ४७॥ त्वां हन्तुं क्रोधयुक्तोऽहं समागतो न संशयः । अधुना न हनिष्यामि शरणागतमादरात् ॥ ४८॥ त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् । श‍ृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ ४९॥ एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् । प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥ ५०॥ कामासुर उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥ ५१॥ गाणपत्यप्रियत्वं मे देहि नित्यं गजानन । नान्यद्याचे परं किञ्चिन्नश्वरं सर्वमञ्जसा ॥ ५२॥ अहो योगीन्द्रमुख्यानां दुर्लभं ते पदं प्रभो । साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥ ५३॥ तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः । उवाच तं महाभक्तं कामं गाणेशकामुकम् ॥ ५४॥ विकट उवाच । मदीया भक्तिरुग्रा ते भविष्यति महासुर । गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥ ५५॥ तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव । मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥ ५६॥ आदौ तत्रासुरेणैव फलं भुङ्क्ष्व सुकर्मजम् । मदीयभक्तिसंयुक्तान् कुरु मत् कामसंयुतान् ॥ ५७॥ तथेति गणपं नत्वा सुरः कामो महायशाः । स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥ ५८॥ तं शान्तं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः । स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ६.३५ (Page खं. ६ अ. ३६ पान १०२)

६.३६ विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्य तुष्टुवुः करसम्पुटाः ॥ १॥ देवर्षय ऊचुः । अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २॥ अनादिमध्यान्तविवर्जितं यत् सुजीवनं जीवनधर्मधारम् । सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३॥ त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ ४॥ तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ ५॥ ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ ६॥ जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ ७॥ ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ । अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ ८॥ अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ ९॥ हरिस्वरूपेण विनायक त्वं सुरक्षसीदं रजसा विधाता । तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ १०॥ प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ ११॥ सदात्मरूपेण च ढुण्ढिराज स्थितोऽसि विश्वम्भर विश्वमूर्ते । न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ १२॥ सदादिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ १३॥ स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ १४॥ स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ १५॥ नियन्तृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो । महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ १६॥ भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्बन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ १७॥ त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ १८॥ निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ १९॥ असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् । अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ २०॥ (Page खं. ६ अ. ३६ पान १०३) वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च । शुकादिभिस्स्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ २१॥ तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश सुसंस्तुतोऽसि । अतः प्रतुष्टो भव दीनपाल भजामहे तं विकटं परेशम् ॥ २२॥ आदिशक्तिरुवाच । एवं स्तुत्वा महादेव्यो विकटं त्वमरर्षयः । प्रणेमुर्दण्डवत् सर्वे ततश्च ननृतुः पुरः ॥ २३॥ स तानुवाच सर्वेशो विकटो भक्तियन्त्रितः । देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥ २४॥ विकट उवाच । वरान् ब्रूत महाभागा देवा मुनिसमन्विताः । दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः ॥ २५॥ इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् । भविष्यति जनायैव पठते श‍ृण्वते परम् ॥ २६॥ भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् । धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ २७॥ षट्कर्मसाधनकरं परकृत्यविनाशनम् । नानारोगहरं पूर्णं भविष्यति सुसेविनाम् ॥ २८॥ कारागृहगतानां च बन्धमोक्षकरं भवेत् । सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥ २९॥ नानापापसमूहानां दाहकं पठनात्तथा । सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥ ३०॥ एकविंशतिवारं यः पठिष्यति निरन्तरम् । स सर्वं साधयेत् सद्यो दिनानामेकविंशतिम् ॥ ३१॥ एवं विकटवाक्यं ते श्रुत्वा देवर्षिसत्तमाः । जगुस्तं प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः ॥ ३२॥ देवर्षय ऊचुः । कामासुरं महावीर्यं शान्त्या युक्तं गजानन । दृष्ट्वा सर्वे च सन्तुष्टा भवामो नात्र संशयः ॥ ३३॥ अधुना कर्मसंयुक्ता भविष्यन्ति द्विजादयः । देवाः स्वपदसंस्थास्तु स्वस्वधर्मयुता जनाः ॥ ३४॥ जातं वरस्य कृत्यं यदधुना किं वृणीमहे । तव भक्तिं स्थिरां देहि यथा कामभयं न हि ॥ ३५॥ तथेति तानुवाचैव विकटोंऽतर्दधे ततः । देवर्षयोऽभवंस्तत्र स्थिताः खेदसमन्विताः ॥ ३६॥ ततो मुनिगणैः सार्धं विकटं देवसत्तमाः । स्थापयामासुरानन्ददायकं भक्तिकारिणे ॥ ३७॥ हिमाचलस्य प्रान्ते तत् स्थानं वायुदिशि स्थितम् । विकटस्य महादेव्यः सर्वसिद्धिप्रदायकम् ॥ ३८॥ मूर्तिं देवर्षयः पूज्य विकटस्य महात्मनः । गत्वा स्वस्वपदेष्वेते पुनः क्षेत्रं समाययुः ॥ ३९॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयो मताः । विकटं पूर्णभावेनाभजंस्ते क्षेत्रवासिनः ॥ ४०॥ चतुरस्रं महत् क्षेत्रं दशयोजनविस्तृतम् । तत्र मध्ये स्वयं साक्षाद्विकटः संस्थितोऽभवत् ॥ ४१॥ चतुर्दिक्षु चतुर्देवाः शम्भुमुख्याः स्थितास्ततः । अन्ये देवा वामभागे दक्षिणे मुनयस्तथा ॥ ४२॥ तीर्थानि क्षेत्रयुक्तानि पश्चिमे संस्थितानि च । पुरो भक्तजनास्तत्र सेवार्थं संस्थिता बभुः ॥ ४३॥ मूषको विकटस्यैव समीपे स्थापितोऽभवत् । वामाङ्गे संस्थिता सिद्धिर्बुद्धिर्वै दक्षिणाङ्गके ॥ ४४॥ ब्रह्मप्रियादिकास्तत्र गणाः सर्वत्र संस्थिताः । (Page खं. ६ अ. ३६ पान १०४) शस्त्रहस्ता भजन्ते स्म विकटं विकटप्रियाः ॥ ४५॥ तत्र विकटतीर्थं तु विख्यातमभवत् परम् । जन्तुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥ ४६॥ अन्ते मुक्तिमवाप्नोति स्वानन्दे नात्र संशयः । विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥ ४७॥ अन्यानि तीर्थमुख्यानि देवर्षीणां समन्ततः । स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥ ४८॥ अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् । विकटस्य च ते तस्य लोकं गच्छन्ति निश्चितम् ॥ ४९॥ तत्र भोगान् प्रभुक्त्वा ते लये स्वानन्दगामिनः । विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥ ५०॥ क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः । दर्शनेन तथा तस्य विकटस्य न संशयः ॥ ५१॥ विकटस्य च ये भक्ता यत्र कुत्र मृता यदि । ब्रह्मभूता न सन्देहो बभूवुः शास्त्रसम्मतम् ॥ ५२॥ भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् । विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥ ५३॥ भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः । वार्षिकस्तत्र कुर्वन्ति देवाद्या भक्तिसंयुताः ॥ ५४॥ मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् । स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥ ५५॥ धन्यास्ते पुरुषा लोके पश्यन्ति विकटं परम् । कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥ ५६॥ तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः । भजन्ते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥ ५७॥ विकटस्य चरित्राणि कथयन्ति परस्परम् । साश्रुनेत्राः स रोमाञ्चा भवन्ते भक्तिभावतः ॥ ५८॥ नरदेहं समासाद्य न दृष्टो विकटो जनैः । निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥ ५९॥ एतत् सङ्क्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसम्भवम् । विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥ ६०॥ अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः । न समर्था वर्णयितुं भवन्ते वर्षकोटिभिः ॥ ६१॥ एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः । विकटः कलया देव्यो रक्षति स्म चराचरम् ॥ ६२॥ एतद्विकटमाहात्म्यं यः श‍ृणोति नरोत्तमः । पठेद्वा स लभेत् सर्वमन्ते ब्रह्ममयो भवेत् ॥ ६३॥ न कामस्य भयं तस्य भवेद्देव्यः कदाचन । कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥ ६४॥ एवं कामं निगृह्यैव स्ववशं तं चकार ह । विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥ ६५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ६.३६ (Page खं. ६ अ. ३७ पान १०५)

६.३७ गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । विकटस्य च माहात्म्यं श्रुत्वा शक्ते वयं परम् । हर्षं प्राप्ता विशेषेण योगामृतमयं किल ॥ १॥ तथापि देवि तृप्तिं न प्रयामो रसवर्धिनीम् । कथां श्रुत्वा पुनस्तां च वद वैघ्नेश्वरीं पराम् ॥ २॥ विकटेन जगन्मातरवतारा धृताः परे । तेषां सङ्क्षेपतो ब्रूहि चरित्रमवतारजम् ॥ ३॥ आदिशक्तिरुवाच । गण्डकी नगरीपालश्चक्रपाणिर्नृपोऽभवत् । उग्रा पत्नी च तस्यासीत् पातिव्रत्यगुणान्विता ॥ ४॥ धर्मशीलो वदान्यश्च राजा नीतिपरायणः । देवविप्रातिथिप्रेप्सुः पञ्चयज्ञकरोऽभवत् ॥ ५॥ जित्वा भूमण्डलं सर्वं चकार वशवर्तिनम् । सम्पत्तिं बुभुजे सोऽपि देवमान्यां विशेषतः ॥ ६॥ अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् । वान्ध्यदोषसमायुक्तौ दम्पती सम्बभूवतुः ॥ ७॥ तदर्थं व्रतदानादींश्चकार विधिसंयुतः । तथापि सन्ततिं राजा न प्राप परमेश्वरात् ॥ ८॥ ततो राज्यममात्येषु निक्षिप्याऽभवदुद्यतः । वनं गन्तुं महादेव्यः सस्त्रीकः शोकसंयुतः ॥ ९॥ एतस्मिन्नन्तरे तत्र शौनको मुनिसत्तमः । यदृच्छया ययौ योगी तं नृपं विचरन् परः ॥ १०॥ भानोस्तेनोपदिष्टं स व्रतं चक्रे नराधिपः । तुष्टस्तेन रविः स्वप्ने राज्ञ्यां गर्भं समादधे ॥ ११॥ सूर्यतेजोयुतं गर्भं न क्षमा सम्बभूव ह । धर्तुं दाहयुतोग्रा सा समुद्रे तं ततोऽत्यजत् ॥ १२॥ तत्र पुत्रो बभूवापि त्रिनेत्रश्चक्रधारकः । जलं संशोषयामास समुद्रस्य विशेषतः ॥ १३॥ ततो ब्राह्मणरूपेण चक्रपाणिं समाययौ । समुद्रः कथयामास वृत्तान्तं पुत्रसम्भवम् ॥ १४॥ दत्वा पुत्रं समुद्रस्त्वन्तर्दधे हर्षितोऽभवत् । नृपः सर्वजनैः सार्धं जातकर्माऽकरोद् द्विजैः ॥ १५॥ सिन्धुर्नाम्ना द्विजैः पुत्रः कृतस्तस्य विशेषतः । अपारवीर्ययुक्तत्वात् सोऽपि बलयुतोऽभवत् ॥ १६॥ आज्ञां गृह्य वनायैव तपोऽर्थं मार्गमध्यगः । काव्यः सौरं ददौ मन्त्रं विधियुक्तं तु सिन्धवे ॥ १७॥ एकपादमधिष्ठाय तताप तप उत्तमम् । निराहारः स्वभावेन तोषयामास काश्यपम् ॥ १८॥ द्विसहस्रे तु वर्षेषु सविता वरदोऽभवत् । त्रैलोक्यविभवं तस्मै ददावमृतपानकम् ॥ १९॥ त्रिगुणैर्हीनभावेन तिष्ठति ब्रह्मशास्त्रगम् । देहं धृत्वाऽमृतं सोऽपि निष्काश्य त्वां हनिष्यति ॥ २०॥ एवमुक्त्वा स्वभक्तं तु सवितांऽतर्दधे तदा । हर्षयुक्तः स्वयं सिन्धुः स्वगृहं प्रत्यपद्यत ॥ २१॥ पितृभ्यां मानितोऽत्यन्तं शुशुभे तेजसा युतः । तस्मै राज्यं ददौ राजा सस्त्रीको वनगोऽभवत् ॥ २२॥ ततः सिन्धुर्धरां जिग्ये सप्तद्वीपवतीं पराम् । वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः ॥ २३॥ शुम्भोतिशुम्भवृत्रौ च कमलः शङ्ख एव च । कोलासुरादयश्चान्ये तदाज्ञागा बभूविरे ॥ २४॥ तैर्युतो देवराजेन्द्रान् जिग्ये शम्भुमुखान् किल । पपाल शङ्करः सद्यस्त्यक्त्वा कैलासमात्मनः ॥ २५॥ विष्णुं सूर्यं विधीन्द्रादीन् सङ्गृह्य स्वपुरं ययौ । (Page खं. ६ अ. ३७ पान १०६) कारागारे स चिक्षेप देवेन्द्रान् बलसंयुतः ॥ २६॥ एवं जित्वा त्रिलोकान् स राज्यं चक्रे महासुरः । दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः ॥ २७॥ ततो बहुगते काले क्रोधयुक्तो महासुरः । देवतीर्थादिकान् भङ्क्त्वा दैत्यः कर्म त्वलोपयत् ॥ २८॥ स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमण्डले । देशे देशे पुरे ग्रामे पूजयत्तां स मानवैः ॥ २९॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः । स्वाहा स्वधादिकं कर्म नष्टं सर्वत्र शक्तयः ॥ ३०॥ अधुना तद्वधोपायं वदामि श‍ृणुत प्रियाः । शङ्करो गणसंयुक्तस्त्रिसन्ध्याक्षेत्रमागमत् ॥ ३१॥ गौतमाद्यैर्युतस्तत्र वासं सस्त्रीक आकरोत् । ध्यानमास्थाय विघ्नेशमभजद्भक्तिसंयुतः ॥ ३२॥ एकदा संशयाविष्टा पार्वती तं प्रणम्य च । जगाद शङ्करं देव्यो विनयेन समन्विता ॥ ३३॥ पार्वत्युवाच । ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च । तेनेशो वेदवादेषु कथितोऽसि महेश्वर ॥ ३४॥ तथापि ध्यानसंयुक्तो भजसे कं विशेषतः । वद मां पादपद्मस्य दासीं संशयसंयुताम् ॥ ३५॥ शिव उवाच । अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः । तं गणेशं भजाम्येव भक्त्या ब्रह्मपतिं सदा ॥ ३६॥ अनीशश्च गकारो णकार ईशमयः स्मृतः । तयोः स्वामी गणेशानः पश्य वेदे शुचिस्मिते ॥ ३७॥ तस्य तद्वचनं श्रुत्वा पार्वती विनयान्विता । जगाद तस्य प्राप्त्यर्थं वचनं शकरं प्रति ॥ ३८॥ पार्वत्युवाच । एतादृशं गणेशं चेन्न जानामि कदाचन । प्राप्त्यर्थं वद मुख्यं मे चोपायं साधयाम्यहम् ॥ ३९॥ शिव उवाच । एकाक्षरं गृहाण त्वं सविधिं च तपः कुरु । ध्यात्वा गजाननं देवं ततः सिद्धिमवाप्स्यसि ॥ ४०॥ एवमुक्त्वा ददौ तस्यै मन्त्रं गणपतेः परम् । तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् ॥ ४१॥ अवायुभक्षणेनैव तपसा ध्यानशालिना । तया संराधितो ढुण्ढिर्वरदश्च बभूव ह ॥ ४२॥ ययौ वर्षशते देवीं वरं याचेति सोऽब्रवीत् । तया संयाचितो देव्या पुत्रो मे भव विघ्नप ॥ ४३॥ तत्र ते सेवनं नाथ करिष्यामि विशेषतः । माता पिता भविष्यावो बन्धहीनौ सुते त्वयि ॥ ४४॥ तथेति पार्वतीं दत्वा वरं सोंऽतर्हितोऽभवत् । देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः ॥ ४५॥ पूजयित्वा गणेशानं ययौ सा शङ्करं ततः । वृत्तान्तं कथयामास सोऽपि संहर्षितोऽभवत् ॥ ४६॥ ततः सा तन्मना जाता सस्मार वरदं प्रभुम् । सर्वत्र गणराजं तं ददर्श भाग्यगौरवात् ॥ ४७॥ ततो भाद्रपदे मासि कृत्वा मूर्तिं पुपूज ह । शङ्करेण युता देवी मध्याह्ने शुक्लपक्षगे ॥ ४८॥ चतुर्थ्यां सोमवारे तु स्वातीनक्षत्रसंयुते । सचेतनाऽभवन् मूर्तिर्विकटस्य वरप्रदा ॥ ४९॥ तेजसा धर्षितौ देवौ किञ्चित् द्रष्टुं न शेकतुः । स्तुतस्ताभ्यां ततः सौम्यतेजोयुक्तो बभूव ह ॥ ५०॥ शिवो ददर्श तं तत्र षड्भुजं शशिसन्निभम् । (Page खं. ६ अ. ३८ पान १०७) जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥ ५१॥ एकादशदिने नाम गुणेश इति चक्रिरे । द्विजाः शिवौ हर्षयुतौ पूजयामासतुर्द्विजान् ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे विकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ६.३७

६.३८ बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः सिन्धुचरास्तत्र गुप्तरूपेण संस्थिताः । ज्ञात्वा सङ्कथयामासुर्वृत्तान्तं सिन्धवे परम् ॥ १॥ एतस्मिन्नन्तरे वाणी बभूवे तत्र शक्तयः । अशरीरा च तां सिन्धुं शुश्राव भयदायिनीम् ॥ २॥ अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः । स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥ ३॥ श्रुत्वा सम्मूर्च्छितो दैत्यः सावधानो बभूव ह । मुहूर्तेन महायत्नैस्ततः शुशोच मन्दधीः ॥ ४॥ तं हन्तुं प्रेषयामास दैत्येन्द्रान् दैत्यनायकः । गुप्तरूपेण ते सर्वे त्रिसन्ध्याक्षेत्रमाययुः ॥ ५॥ नानामायां समाश्रित्य तं हन्तुं तान् समागतान् । पशुपक्ष्यादिरूपस्थान् जघान शिवनन्दनः ॥ ६॥ ततः सा पार्वती देवी शुशोच बहुधा सती । अहा सङ्ख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥ ७॥ तथापि दैत्या राजानः किं करिष्यन्ति मे सुतम् । हनिष्यन्ति गुणाधीशं न जानामि विचारतः ॥ ८॥ साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह । भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥ ९॥ ततो मायां गुणेशानश्चकार मोहिनीं पराम् । तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥ १०॥ एतस्मिन्नन्तरे योगी मरीचिर्गणपं भजन् । प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥ ११॥ ततः सोऽपि महायोगी शुश्राव स्ववचोऽमलम् । शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥ १२॥ श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह । प्रणम्यापूज्य सम्भोज्य प्रार्थयामास तं मुनिम् ॥ १३॥ त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् । त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥ १४॥ यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् । अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥ १५॥ दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् । समायाति गणेशानं हन्तुं भवन्ति ते मृताः ॥ १६॥ अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः । स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥ १७॥ शङ्करेण गणेशानः सेवितोऽभून् महामुने । (Page खं. ६ अ. ३८ पान १०८) तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥ १८॥ पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः । साक्षाच्छक्तिरियं भ्रान्ता सुतं जानाति विघ्नपम् ॥ १९॥ गणेशकवचं तस्मै ददौ शम्भुसुताय सः । तं प्रणम्य च संस्तुत्य ययौ स्वस्याश्रमं मुनिः ॥ २०॥ तथापि दैत्यराजान् स तं हन्तुं नित्यमागतान् । नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥ २१॥ एकदा पार्वती प्रातः समुत्थाय शिवे रता । मूर्तिं लिङ्गमयीं कृत्वा वामहस्ते दधार ताम् ॥ २२॥ आवाह्य शङ्करं तस्यां पूजने संरताऽभवत् । एतस्मिन्नन्तरे तत्र गुणेशोऽभवदुत्थितः ॥ २३॥ स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत् । पूजयित्वा महेशानं दास्यामि स्तनपानकम् ॥ २४॥ ततस्तां स जगादैव किमर्थं पूजने रता । मां त्यक्त्वा तेऽधिकं देवि ददते शङ्करः कुतः ॥ २५॥ स्तन्यं देहि च मे मातस्तत्रानन्तशिवादयः । सन्तुष्टाः प्रभविष्यन्ति ब्रह्माणि शैलनन्दिनि ॥ २६॥ तथापि हास्यसंयुक्ता न ददौ स्तनपानकम् । ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥ २७॥ तलाघातेन देव्याः स हस्तस्थं शिवलिङ्गकम् । पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥ २८॥ ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः । जघान तलघातेन महाक्रोधवती परम् ॥ २९॥ ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम् । ददंशाङ्गुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥ ३०॥ हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः । भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥ ३१॥ दृष्ट्वा रुरोदातिदुःखसंयुक्ता शङ्करप्रिया । प्राणप्रतिष्ठया युक्तं भग्नं लिङ्गं शिवस्य च ॥ ३२॥ शिवहत्यासमं पापं मया प्राप्तं न संशयः । अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥ ३३॥ अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः । वन्ध्याहं चेत्तदा दैवं धन्यं मे नात्र संशयः ॥ ३४॥ अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् । देहत्यागं करिष्यमि विघ्नराज नमोऽस्तु ते ॥ ३५॥ गणेशस्मरणेनैव बुद्धिभेदो बभूव ह । ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥ ३६॥ यष्टिहस्ता ययौ देवी हन्तुं पुत्रं परात्परम् । पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥ ३७॥ सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया । मायां चकार विघ्नेशः शिवरूपो बभूव ह ॥ ३८॥ मोहिता शङ्करं देवी मायया दृश्य दुःखिता । किमर्थं यष्टिहस्ताऽहं महेशं हन्तुमुद्यता ॥ ३९॥ त्यक्त्वा तं दुःखिताऽत्यन्तं देहत्यागे समुद्यता । बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥ ४०॥ पलन्तं भयसंयुक्तं देवी हन्तुं समुद्यता । ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥ ४१॥ एतस्मिन्नन्तरे तत्र दैत्यः कर्दमसंज्ञितः । शैवो द्विजस्वरूपेण बालं जगाद चागतः ॥ ४२॥ किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः । यत्र माता न जानाति तत्र तस्मात् स्थिरो भव ॥ ४३॥ (Page खं. ६ अ. ३८ पान १०९) तथेति बालभावेन गुणेशेन कृतं वचः । बालं ?जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥ ४४॥ अहो सिन्धोर्महाशत्रुर्मया सम्भक्षितोऽभवत् । सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥ ४५॥ एतस्मिन्नन्तरे तत्र जगदम्बा तमाययौ । शैवं द्विजं प्रदृश्यैव प्रणनाम जगाद च ॥ ४६॥ पार्वत्युवाच । स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ । त्वदीये नात्र सन्देहः पादं पश्यामि नो पुरः ॥ ४७॥ पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् । परश्वादिकचिह्नेन वद सत्यं महामते ॥ ४८॥ द्विज उवाच । न दृष्टः शैलजे पुत्रो मया तव न संशयः । शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥ ४९॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । ततस्तस्य मुखाम्भोजान्निःसृतो गणनायकः ॥ ५०॥ निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः । स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥ ५१॥ ततः सा हर्षिताऽत्यन्तं क्रोधहीना बभूव ह । पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगाऽभवत् ॥ ५२॥ पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः । पुनः पुनः स जृम्भां च चकार विकटाननः ॥ ५३॥ तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता । किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥ ५४॥ ततः सा तन्मुखे विश्वं ददर्श भयसङ्कुला । अनन्ताण्डसमायुक्तं पपात धरणीतले ॥ ५५॥ स्वगुरुं शङ्करं सा तु सस्मार स्वेष्टदेवकम् । गणेशं तेन मोहेन हीना बभूव पार्वती ॥ ५६॥ विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् । तं त्यक्त्वा लिङ्गसेवायां निरता मूर्खवत् किल ॥ ५७॥ पतिभावेन देवेशं शङ्करं देहधारिणम् । भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥ ५८॥ स्तनपानं गणेशाय न दत्तं मूढभावतः । अनन्ता वै मया यत्र संस्थिताः शङ्करादयः ॥ ५९॥ तेन तुष्टेन सर्वे ते सन्तुष्टाः सम्भवन्ति च । गणेशो ब्रह्मणां नाथः सोऽपि सन्तुष्ट एव वै ॥ ६०॥ अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ । गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥ ६१॥ अतः परं गणेशानं पुत्रभावेन चागतम् । सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥ ६२॥ अयं पतिरयं तातो माता पुत्रः सुहृत्तथा । देवो ब्रह्म न सन्देहो गुणेशो मे सुशान्तिदः ॥ ६३॥ एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् । तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकन्धरा ॥ ६४॥ स्तुवन्तीं तां समालोक्य गणेशो मोहमादधे । ततः सम्मोहिता देवी विस्मृतिं परमां ययौ ॥ ६५॥ पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् । गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥ ६६॥ शक्तय ऊचुः । बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः । पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥ ६७॥ किमर्थमखिलं विश्वं नानाब्रह्माण्डसंयुतम् । शिवरूपं किमर्थं स दर्शयामास शक्तये ॥ ६८॥ दर्शयित्वा किमर्थं स लोपयामास तद्भवम् । ज्ञानं कुतूहलं चेदं वद संशयनाशनात् ॥ ६९॥ (Page खं. ६ अ. ३९ पान ११०) आदिशक्तिरुवाच । पुत्रभावमयी भक्तिग्रहणे लालसः सदा । वरदानप्रभावेण तपः फलप्रदोऽभवत् ॥ ७०॥ कार्यं कृत्वा सुरर्षीणामन्तर्धानं करिष्यति । तदा ज्ञानस्य देव्यास्तु स्मरणं सम्भविष्यति ॥ ७॥ गणेशः पुत्रभावेनागतो मे नात्र संशयः । अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥ ७२॥ पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयत् । ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥ ७३॥ तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् । तदर्थं गणराजोऽपि कौतुकं तत्र चाकरोत् ॥ ७४॥ एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः । शिवयोः सेवनं चक्रे पुत्रभावप्रभावतः ॥ ७५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ६.३८

६.३९ कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः । चिक्रीड बालमध्यस्थो बालवन्नात्र संशयः ॥ १॥ तेषां मुनिसुतानां स तिरस्कारादिकं कदा । असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥ २॥ तेपुः ये सख्यभक्त्यर्थं तपस्ते सततं नराः । सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥ ३॥ कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः । यज्ञः सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥ ४॥ सुतो विनतया सोऽपि बोधितः प्रणनाम तम् । गणेशं याचते स्तुत्वा मयूरः स्म वरं परम् ॥ ५॥ आदौ मयूरनाम्ना संयुतं नाम त्वदीयकम् । भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥ ६॥ तथेत्यभून् मयूरेशो नाम्ना सर्वत्र शक्तयः । सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥ ७॥ कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः । जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥ ८॥ पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् । ब्राह्मण्यः पतिभावेन गणेशो भवतु प्रभुः ॥ ९॥ गणेशमन्त्रसंयुक्ता नानाऽनुष्ठानतत्पराः । ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥ १०॥ शेषवासुकिमुख्यैस्ता लालिताः परमादरात् । पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥ ११॥ गणेशं भावसंयुक्ता वृणीमहि पतिं वरम् । नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥ १२॥ तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः । ब्रह्मेशो गणनाथस्तु स्वानन्दस्थो बभूव ह ॥ १३॥ (Page खं. ६ अ. ३९ पान १११) स कथं भवतां पुत्र्यो भविष्यति पतिः परः । अभिमानं परित्यज्य समानं वृणुत प्रभुम् ॥ १४॥ तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः । जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥ १५॥ पूर्वसंस्कारयोगेन मयूरेशं जलस्थितम् । ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥ १६॥ नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् । अत्रागतं प्रगृह्यैव वृणीत वरमुत्तमम् ॥ १७॥ स्वगृहे गणनाथं ताः समानाय्य सुविह्वलाः । पुपूजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः ॥ १८॥ ततः सोऽपि हृदा चक्रे ददौ योगं सुशान्तिदम् । ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥ १९॥ अकृत्रिमं सुखं ताभ्यो ददौ भक्तिप्रभावतः । दिवानक्तं बुभुजिरे ह्यत्यन्तं पौरुषं सुखम् ॥ २०॥ एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् । मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥ २१॥ एवं नानाविधान्येव चरित्राणि चकार ह । स सर्वं गौतमस्यान्नं बुभुजे नादरेण च ॥ २२॥ भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः । न करोति महादेव्यो दासदास्यपरायणः ॥ २३॥ भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम् । अभक्तैः सादरतया स कृतं मन्यते विषम् ॥ २४॥ तिरस्कारादिकं देव्यस्ताडनादिकमुत्तमम् । सौख्यदं गणनाथस्य बभूवे भक्तिमोहतः ॥ २५॥ पार्वतीशिवमुख्यैश्चादितिकश्यपमुख्यकैः । तिरस्कृतस्ताडितः सोऽमृतं मेने गजाननः ॥ २६॥ भक्तस्य वचनार्थं स दैत्यमस्तकधारकः । स्वाङ्गच्छेदकरश्चैव मलजोऽपि बभूव ह ॥ २७॥ इत्यादि विविधं चैव नीचवद्गणनायकः । चकार कर्म भक्त्या सम्मोहितो मोहनाशनः ॥ २८॥ ततो गौतममुख्याश्च गणेशमायया युताः । आययुः शङ्करं देवं जगुस्तं मोहिता भृशम् ॥ २९॥ गौतमाद्या ऊचुः । मयूरेशयुतः शम्भो गच्छ त्वं यत्र ते रुचिः । वयं पीडायुता नित्यं भवामो दैत्यसङ्गमात् ॥ ३०॥ नित्यं दैत्येन्द्रमुख्यास्तं मयूरेशं समाययुः । प्रहता मायया युक्ता मयूरेशेन तत्क्षणात् ॥ ३१॥ मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो । दश द्वादश पञ्चत्रिशतविंशतियोजनम् ॥ ३२॥ तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम् । भञ्जते नित्यमेवातोऽस्माकं किं करवामहै ॥ ३३॥ अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च ते रुचिः । अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥ ३४॥ तेषां वचनमाकर्ण्य शिवश्चिन्तातुरोऽवदत् । मुनीन् सर्वान् महादेव्यो देवानां पालकः प्रभुः ॥ ३५॥ श्रीशिव उवाच । भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् । मदीयसङ्गदोषेण पीडिता मुनयः परम् ॥ ३६॥ स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः । गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥ ३७॥ मयूरेशस्य विप्रेशा नित्यं दुःखादिकं परम् । दैत्येन्द्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥ ३८॥ निर्विघ्नार्थं गणेशस्य स्थानं ब्रूत महर्षयः । (Page खं. ६ अ. ३९ पान ११२) तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः ॥ ३९॥ गौतमाद्या ऊचुः । क्षेत्रं दक्षिणभागे तु वैघ्नेशं सर्वसिद्धिदम् । भूस्वानन्दं वदन्ते तद्ब्रह्मसायुज्यदायकम् ॥ ४०॥ मूर्तिर्गणपतेस्तत्र सिन्धुदूतैः प्रखण्डिता । सिन्धोश्च प्रतिमा दुष्टैः स्थापिता हर्षसंयुतैः ॥ ४१॥ जनैस्त्यक्तं महादेव दैत्यसन्त्रासतापितैः । तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥ ४२॥ तथेति शङ्करः सर्वैर्गणैर्विघ्नेशसंयुतः । निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥ ४३॥ एतस्मिन्नन्तरे तत्र सिन्धुना प्रेषितो महान् । कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥ ४४॥ ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुतम् । महामायं च तं दृष्ट्वा प्रपेलुर्मुनयस्ततः ॥ ४५॥ अहो शिवं परित्यज्य न स्थातुं शक्यते कदा । मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥ ४६॥ एवं विचार्य ते सर्वे पुनः शङ्करमाययुः । जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥ ४७॥ मयूरेशेन संयुक्तो तिष्ठ नित्यं महेश्वर । नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥ ४८॥ तेषां वचनमाकर्ण्य भयभीतः सदाशिवः । जगाद तान् वचो रम्यं द्विजपालनकारकः ॥ ४९॥ श्रीशिव उवाच । कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः । समायातश्च तं जेतुं न क्षमोऽहं कदाचन ॥ ५०॥ अधुना मां समागृह्य कारागारे महाबलः । क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥ ५१॥ शिवस्य वचनं श्रुत्वा मयूरेशस्तमब्रवीत् । मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥ ५२॥ त्वं साक्षाद्गणनाथस्य कलांऽशो भक्तनायकः । ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥ ५३॥ मरीचिना गणेशस्य कवचं मे महेश्वर । रक्षणार्थं प्रदत्तं तु न भयं मे भविष्यति ॥ ५४॥ एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः । मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥ ५५॥ कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् । चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥ ५६॥ मस्तकं मयूरक्षेत्रे तदाकारं बभूव ह । उदरं राजसदने प्रवाले जघनं तथा ॥ ५७॥ त्रिषु स्थानेषु दैत्येन्द्रः पपात त्रिविधोऽभवन् । गणेश्वरश्चैव तेषु संस्थितोऽभूत् प्रतापवान् ॥ ५८॥ शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ । क्षेत्रे मयूरसंज्ञे तु तत्रसंस्था बभूविरे ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ६.३९ (Page खं. ६ अ. ४० पान ११३)

६.४० विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः । सिन्धुं क्रोधसमायुक्तश्चूर्णयामास तत्क्षणात् ॥ १॥ ततोतिभयसंयुक्ता मुनयः शङ्करादयः । किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥ २॥ तत्रापि मायया युक्ता दैत्येन्द्राश्च समाययुः । हन्तुं शिवसुतं नित्यं तान् जघान मयूरपः ॥ ३॥ ततो विघ्नविनाशार्थमिन्द्रयज्ञं समारभत् । शङ्करस्तं मयूरेशो बभञ्ज क्रोधसंयुतः ॥ ४॥ तत इन्द्रः सुरेशानैर्मयूरेशमयोधयत् । तं जित्वा गणराजस्तु स्वपुरस्थो बभूव ह ॥ ५॥ शक्तय ऊचुः । कारागारे स्थिता देवाः सिन्धोस्ते योद्धुमाययुः । कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥ ६॥ आदिशक्तिरुवाच । मेरुसंस्था महेशाना दैत्यैः सम्प्रधृताः पुरा । निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥ ७॥ तान् ग्रहीतुं न शक्ताश्च भवन्ते केऽपि शक्तयः । तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥ ८॥ देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः । तथा कर्ममया शास्त्रे देहरूपा न संशयः ॥ ९॥ दीव्यन्ति सर्वभावेषु तेन देवाः प्रकीर्तिताः । देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः ॥ १०॥ शताश्वमेधयज्ञानां कर्तेन्द्रो भवति प्रियाः । तिष्ठन्ति कर्मजा देवास्तादृशाः काञ्चनाचले ॥ ११॥ मन्दारादिषु सर्वत्र नगराणि दिवौकसाम् । तान् जयन्ति समर्थाश्चासुरादयो न संशयः ॥ १२॥ ब्रह्मणो दिवसान्ते ते मन्वन्तरपरायणाः । लयं गच्छन्ति यज्ञानां फलं भुक्त्वा न संशयः ॥ १३॥ पुनर्जन्मधराः सर्वे भवन्ति नरजातिषु । कुर्वते यादृशं कर्म लभन्ते तादृशं फलम् ॥ १४॥ अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः । कुर्वते स्वाधिकारांश्च सदा कर्मपरायणाः ॥ १५॥ जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् । अधिकाराः समाख्याता यमस्य यातनादयः ॥ १६॥ दैत्या धर्षयितुं शक्तास्तान् भवन्ति न कर्मणा । सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदन्ति च ॥ १७॥ योगबलेन योगीशास्तान् देवांश्चालयन्ति च । नान्यबलेन देवेशाश्चलन्ति स्वाधिकारिणः ॥ १८॥ ब्रह्मणो दिवसान्ते ते न मृत्युं देवसत्तमाः । लभन्ते वै निराधाराः कर्मरूपप्रधारकाः ॥ १९॥ महालये लयं देवा गच्छन्त्यत्र न संशयः । सलोकपरिवारास्ते पुनर्देहधरा मताः ॥ २०॥ मृत्युलोके नराः सर्वे भवन्ते कर्मयन्त्रिताः । यादृशं कुर्वते कर्म लभन्ते तादृशं फलम् ॥ २१॥ तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः । ते तत्त्वैर्विश्वमानन्दाद्भावयन्ति चराचरम् ॥ २२॥ उत्पत्तिस्थिसंहारकर्तारः सर्वरूपकाः । ब्रह्माकारस्वभावेन तिष्ठन्ति जगदीश्वराः ॥ २३॥ महाप्रलयवेलायां स्वविहारं समाप्य ते । योगनिद्रां प्रकुर्वन्ति योगाकारा विशेषतः ॥ २४॥ पुनः क्रीडन्ति सृष्ट्वा च ब्रह्माण्डं देवनायकाः । न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥ २५॥ योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः । (Page खं. ६ अ. ४० पान ११४) वायुसाधनजश्चैकः प्राणायामेन लभ्यते ॥ २६॥ तेन योगेन तत्त्वस्था देवास्तद्वशवर्तिनः । न भवन्ति कदा देव्यो ज्ञातव्यं शास्त्रमार्गतः ॥ २७॥ सम्प्रज्ञाताऽसम्प्रज्ञातमयो योगः प्रकीर्तितः । द्वितीयो ब्रह्मभूताख्यो योगिभिः साध्यते सदा ॥ २८॥ तेन योगबलेनैव तान् जयन्ति सुरान्नराः । साध्याः सर्वे भवन्त्येव देवास्तद्वशवर्तिनः ॥ २९॥ यं यमिच्छति योगीन्द्रस्तं तं कुर्वन्ति देवपाः । प्रारब्धं चालयन्त्येव योगिवश्यपरायणाः ॥ ३०॥ यदा तेषां विहारेषु संसक्ता योगिनोऽभवन् । योगभ्रष्टा भवन्त्येव जन्ममृत्युपरायणाः ॥ ३१॥ योगिनां योगभावेन भयं गच्छन्ति देवताः । तत्त्वरूपा न सन्देहो ज्ञातव्यं वेदवादतः ॥ ३२॥ कर्मैकं त्रिविधस्थानामेकैकाश्रितरूपिणाम् । सेवनाद्भञ्जनात्तस्य द्वन्द्वयुक्ता भवन्ति ते ॥ ३३॥ अधुना प्रकृतं देव्यः श‍ृणुध्वं त्वेकचेतसः । अवतारचरित्रं तु विकटस्य महात्मनः ॥ ३४॥ प्रद्रष्टुं स कदाचित्तं विधिः क्षेत्रे मयूरके । समाययौ स तं दृष्ट्वा मोहयुक्तो बभूव ह ॥ ३५॥ विचारमकरोच्चित्ते शिवपुत्रोऽयमुच्यते । अस्मै न नमनं कार्यं मया ज्येष्ठेन शक्तयः ॥ ३६॥ अयं गणेश्वरः साक्षात् कथितो नात्र संशयः । परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् ॥ ३७॥ एवं विचार्य ब्रह्माण्डं शिवशक्तिसमन्वितम् । अन्तर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः ॥ ३८॥ मयूरेशस्ततस्तच्च ज्ञात्वा चराचरं जगत् । निर्ममे ब्रह्मदेवस्तं जगाम शरणं पुनः ॥ ३९॥ ततः श्वासेन विघ्नेशो ब्रह्माणं स्वोदरे नयत् । तत्रानन्ताण्डकं दृष्ट्वा बभ्राम यत्र तत्र सः ॥ ४०॥ गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना । बहिर्निःष्कासयामास मयूरेशो महायशाः ॥ ४१॥ बहिरागत्य वेधाः स क्षणमेकं ददर्श ह । ततोऽतिविस्मितो भूत्वा पुनस्तं प्रणतोऽभवत् ॥ ४२॥ स्तुत्वा तं स जगामैव स्वस्थलं हर्षसंयुतः । मयूरक्षेत्रे तदादि स्थिता ब्रह्मकमण्डलुः ॥ ४३॥ एवं विधेर्मदं हत्वा चिक्रीड द्विजबालकैः । मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः ॥ ४४॥ ततः कदाचिद्भाद्री सा चतुर्थी शुक्लपक्षगा । समागता च तस्यां ते मृण्मयीं चक्रुरादृताः ॥ ४५॥ स्वे स्वे गृहे तु सर्वे ते मुनयः शङ्करादयः । गणा गणेश्वरं कृत्वा पूजयामासुरादरात् ॥ ४६॥ मयूरेशः स्वयं चक्रे मूर्तिं शुण्डादिचिह्निताम् । सम्पूज्यानम्य तुष्टाव कृत्वा करपुटं पुरः ॥ ४७॥ मयूरेश उवाच । नमस्ते गणनाथाय सर्वविघ्नविदारिणे । भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८॥ ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने । अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९॥ वक्रतुण्डाय वक्राणां नाशकार परात्मने । लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५०॥ चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे । हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१॥ योगेशाय सदा शान्तिदात्रे शान्तिमयाय च । (Page खं. ६ अ. ४० पान ११५) शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥ ५२॥ ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते । ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥ ५३॥ अनादये च सर्वेषामादिरूपाय विघ्नप । विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥ ५४॥ स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये । सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥ ५५॥ महोदराय भीमाय पापिनां दण्डधारिणे । स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥ ५६॥ मयूरवाहनायैव मयूरेश्वर ते नमः । आखुवाहाय सर्वेश परात्पराय वै नमः ॥ ५७॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥ ५८॥ रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् । यया माया न बाध्यते बुद्धीश ते नमो नमः ॥ ५९॥ एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् । पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥ ६०॥ एवं शिवादयः सर्वे पुपूजुर्गणनायकम् । मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥ ६१॥ एतस्मिन्नन्तरे तत्र विश्वदेवो महायशाः । समाययौ च तीर्थानि भ्रममाणो यदृच्छया ॥ ६२॥ एकनिष्ठतया सोऽपि नारायणपरायणः । पुपूज नित्यमानन्दाच्छेषशायिनमादरात् ॥ ६३॥ अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः । गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥ ६४॥ पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुतः । अत्यन्तभक्तियोगेन गाणेशे योग्यतां गतः ॥ ६५॥ मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः । ज्ञानं सञ्छादयामास विश्वदेवस्य संस्मृतिम् ॥ ६६॥ विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः । अकारयत्तद्योगेशो विस्मृतं योगमायया ॥ ६७॥ आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् । अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥ ६८॥ अपोशनं स कृत्वा च सस्मार शेषशायिनम् । महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥ ६९॥ ततस्तं गणराजस्तु खेदयुक्तं विशेषतः । दृष्ट्वा नारायणो भूत्वा सान्त्वयामास भावतः ॥ ७०॥ चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः । मृन्मयैरुपचारैस्तां दर्शयामास भक्तितः ॥ ७१॥ गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शान्तिदम् । गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥ ७२॥ विश्वदेवो ययौ स्थानं स्वकीयं शान्तिसंयुतः । एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥ ७३॥ एवं विस्मृतभावेन ज्ञानसञ्छादनेन च । विष्णोः पराक्रमं हत्वा चिक्रीड द्विजबालकैः ॥ ७४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥ ६.४० (Page खं. ६ अ. ४१ पान ११६)

६.४१ मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् । शिवं दृष्ट्वा मयूरेशो मायामाविश्चकार ह ॥ १॥ समागत्य महेशानं तस्य भालस्थितं प्रभुः । चन्द्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥ २॥ मायया मोहिताः सर्वे शिवमुख्या विशेषतः । न जानन्ति स्म देवेशं चन्द्रतास्कर्यकारिणम् ॥ ३॥ ततः शिवः स्वभाले तं न ददर्श निशाकरम् । क्रोधयुक्तो गणान् प्राह कथं चन्द्रो गतो गणाः ॥ ४॥ ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् । चन्द्रं गृह्य मयूरेशः खेलत्यस्माभिरादरात् ॥ ५॥ ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् । बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य सन्निधौ ॥ ६॥ ततो गणा ययुस्तं ते तेन निःश्वासवायुना । निक्षिप्ताः शङ्करस्याग्रे शुष्कपत्रसमप्रभाः ॥ ७॥ एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् । भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥ ८॥ ततो मायां समाश्रित्य शिवभाले निशाकरम् । मयूरेशः समागत्याऽऽस्थाप्य भ्रान्तांश्चकार ह ॥ ९॥ स्वभालस्थं महेशानो दृष्ट्वा चन्द्रं गणास्तथा । मेनिरे तं सदा तत्र संस्थितं तं गतागतम् ॥ १०॥ एवं शिवं पराधीनं कारयामास विघ्नपः । ततः कदाचिद्दैत्येन्द्रं वनं हन्तुं जगाम ह ॥ ११॥ व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः । न तं जानन्ति विप्राणां सुताः शार्दूलरूपिणम् ॥ १२॥ यत्र तत्र भ्रमन्ति स्म बालास्तद्दर्शनोत्सुकाः । ते सर्वे सुष्वपुः श्रान्ता निद्रां लेभुः श्रमान्विताः ॥ १३॥ पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः । तान् गृह्य निगडैर्बद्ध्वा चिक्षपे स्वपुरे यमः ॥ १४॥ हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ । न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥ १५॥ गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः । एवं नानाविधां क्रीडां चकार मयूरध्वजः ॥ १६॥ दशपञ्च वयोवर्षाण्यतिक्रम्य गणेश्वरः । शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥ १७॥ अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् । उवाच शङ्करं सोऽपि हर्षयुक्तेन चेतसा ॥ १८॥ नारद उवाच । तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा । वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥ १९॥ तदर्थं सदृशं ब्रह्मा नावाप वरमुत्तमम् । मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥ २०॥ तथेति तमुवाचाथ शङ्करस्तेन संयुतः । मयूरेशं समागृह्य निर्ययौ स गणः स्वयम् ॥ २१॥ मार्गमध्ये मयूरेशो ददर्श नगरं परम् । सिन्धोर्देवविमोक्षार्थं विचारमकरोत् परम् ॥ २२॥ ततो युद्धं महाघोरं चकार सिन्धुना स्वयम् । मयूरेशो गणैः सार्धं सोऽपि तेन महासुरः ॥ २३॥ ततः परशुना भित्वा नाभिं त्वमृतसंयुताम् । मारयामास सिन्धुं च नानादैत्येन्द्रनायकैः ॥ २४॥ विष्णुभक्तः पिता तस्य चक्रपाणिर्महायशाः । (Page खं. ६ अ. ४१ पान ११७) मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥ २५॥ त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः । बभूव तं स्वपुर्यां तु समानाय्य पुपूज ह ॥ २६॥ कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् । देवान् देवेन्द्रयुक्तांश्चापूजयद्भक्तिसंयुतः ॥ २७॥ तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके । सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥ २८॥ ते दृष्ट्वा कामसन्तप्ता देवेन्द्राश्च बभूविरे । देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥ २९॥ अस्मभ्यो देहि देवेश कन्ये परमसुन्दरे । न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥ ३०॥ ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः । आभ्यां तस्मान् मयूरेशाय दास्यामि मदात्मजे ॥ ३१॥ ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् । जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥ ३२॥ सिद्धिबुद्धी सुरेन्द्रेषु वृणुतं वरमीप्सितम् । ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥ ३३॥ ततो मात्रां समागृह्य चिन्तामणिं प्रदृश्य ते । सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥ ३४॥ मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः । तस्मै समर्पयामास सिद्धिं बुद्धिं विधानतः ॥ ३५॥ ततः सर्वे प्रणेमुस्तं देवेन्द्रादय आदरात् । सिन्धोर्वधात् प्रहर्षेण युक्ताः सम्पूज्य तुष्टुवुः ॥ ३६॥ देवर्षय ऊचुः । नमस्ते शिखिवाहाय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ ३७॥ अनाथानां प्रणाथाय गताहङ्कारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ ३८॥ सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३९॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ ४०॥ शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ ४१॥ नानावताररूपैस्तु विश्वसंस्थाकराय ते । काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ ४२॥ सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते । देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ ४३॥ योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे । अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ ४४॥ अनन्तविभवायैव चित्तवृत्तिप्रचालक । सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ ४५॥ सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः । गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ ४६॥ किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो । योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ ४७॥ तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक । त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ ४८॥ एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् । वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ ४९॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ ५०॥ (Page खं. ६ अ. ४१ पान ११८) यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् । भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ ५१॥ मयूरेशवचः श्रुत्वा देवाः सर्षिगणाश्च तम् । प्रत्यूचुस्ते प्रणम्येदं वचनं हर्षसंयुताः ॥ ५२॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरान् दास्यसि विघ्नप । त्वदीयामचलां भक्तिं देहि नाथ नमोस्तु ते ॥ ५३॥ हतः सिन्धुर्महावीर्यस्तेन सर्वे कृतार्थकाः । अधुना स्वाधिकारेषु गमिष्यामस्त्वदाज्ञया ॥ ५४॥ तथेति तानुवाचाथ मयूरेशः प्रतापवान् । दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगाम ह ॥ ५५॥ चक्रपाणिर्गणेशस्य पञ्चायतनमार्गतः । अभजत्तं मयूरेशमन्ते स्वानन्दगोऽभवत् ॥ ५६॥ मयूरेशः समायातो मयूरे सर्वसंयुतः । सर्वान् संस्थाप्य देवेशान् जगाद मुनिसत्तमान् ॥ ५७॥ यदर्थमागता देवास्तत् सर्वं सुकृतं मया । अधुना निजलोकेऽहं गमिष्यामि मुनीश्वराः ॥ ५८॥ एवमुक्त्वान्तर्दधेऽसौ मयूरेशः स्वलीलया । देवर्षयश्च खेदेन युक्तास्तत्रैव संस्थिताः ॥ ५९॥ पार्वतीशङ्करौ तत्र मूर्च्छितौ स बभूवतुः । तयोर्हृदि मयूरेशः प्रकटोऽभूद् जगाद तौ ॥ ६०॥ भवतोर्हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः । न वियोगः कदा मे वां पितरौ नात्र संशयः ॥ ६१॥ बहिर्मूर्तिं समास्थाप्यापूज्य तत्रैव भक्तितः । सेवेथां मां विशेषेण तेन तुष्टौ भविष्यथः ॥ ६२॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः । ब्रह्मा मूर्तिं द्विजैस्तस्य स्थापयामास हर्षतः ॥ ६३॥ ततो हर्षयुताः सर्वे स्वांशेन स्वस्थलेषु ते । संस्थिताः कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः ॥ ६४॥ पूर्णभावेन तत्रैव मयूरेशं सिषेविरे । क्षेत्रवासपराः सर्वे भक्तियुक्ताश्च शक्तयः ॥ ६५॥ विकटस्यावतारोऽयं मयूरेश्वरसंज्ञितः । भक्तानां कथितः सर्वसिद्धिदः प्रीतिवर्धनः ॥ ६६॥ यः पठेत् श‍ृणुयाच्चेद्वा स लभेदीप्सितं फलम् । अन्ते स्वानन्दगो भूत्वा मोदते ब्रह्मतत्परः ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ६.४१ (Page खं. ६ अ. ४२ पान ११९)

६.४२ सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । विकटेन महादेव्यो रचितं मायया परम् । नानाभेदयुतं ब्रह्माऽसद्रूपं विविधे रतम् ॥ १॥ तेन नानाविधं ब्रह्म जगन्नानाविधं तथा । सृष्टं तानि विशेषेण जीवहीनानि मेनिरे ॥ २॥ ततस्तैर्विकटस्यैव तपस्तप्तं सुदारुणम् । एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ॥ ३॥ तुष्टस्तानि ययौ देवो वरदानार्थमादरात् । रथस्थः सूर्यरूपेण सर्वात्मा सर्वभावनः ॥ ४॥ तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादरात् । तद्दर्शनजबोधेन ज्ञानयुक्तानि शक्तयः ॥ ५॥ आत्माकारोऽयमेकश्च विकटः सूर्यरूपधृक् । न कुत्रचित् प्रदृश्येत भेदो विकटसूर्ययोः ॥ ६॥ तान्याऽऽपूज्य प्रणेमुस्तं पुनस्तोतुं प्रचक्रमुः । स्तोत्रं नानाविधान्येव ब्रह्माणि विश्वपालकैः ॥ ७॥ नानाब्रह्माण्यूचुः । विकटाय परेशाय सर्वजीवनधारिणे । आत्माकाराय सूर्याय भानवे ते नमो नमः ॥ ८॥ सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने । हेरम्बाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥ ९॥ संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे । छायानाथाय देवेश देवदेवेश ते नमः ॥ १०॥ अनामयाय नित्याय सहस्रकरधारिणे । अनन्तभेदहीनायाऽद्वितीयाय नमो नमः ॥ ११॥ सर्वादये सदा सर्वाधाराय विश्वमूर्तये । कर्माधाराय सर्वेषां पालकाय नमो नमः ॥ १२॥ आदित्याय परेशाय परात्परतराय ते । दिनस्य पतये नाथ दिनपालाय वै नमः ॥ १३॥ अर्यम्णे काश्यपायैव तेजसां पतये नमः । अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥ १४॥ किं स्तुमस्त्वां रवे यत्र वेदाः सङ्कुण्ठिता बभुः । योगिनं सततं सर्व आत्माकारं परात्परम् ॥ १५॥ एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः । वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥ १६॥ एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः । तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥ १७॥ सूर्य उवाच । वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियन्त्रितः । भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥ १८॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥ १९॥ सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि तु । जगुस्तं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ॥ २०॥ ब्रह्माण्यूचुः । तुष्टश्चेद्ब्रह्मब्रह्मेश जीवयुक्तानि नित्यदा । कुरुष्व सर्वभावेन स्वस्य सौख्यपराणि तु ॥ २१॥ भक्तिं देहि सदा नाथ तव पादाम्बुजे पराम् । मायामोहविनाशार्थं योगं देहि परात्परम् ॥ २२॥ तथेति सविता तेभ्य उक्त्वा ज्ञानं जगाद ह । मायामोहविनाशार्थं गाणेशं योगशान्तिदम् ॥ २३॥ सूर्य उवाच । असत् सत् समनेतीनां संयोगे योग उच्यते । स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः ॥ २४॥ स्वस्वरूपेण हीनोऽयमयोगो योग उच्यते । णकाराक्षरगः सोऽपि वेदेषु कथितोऽभवत् ॥ २५॥ तयोर्योगे गणेशानः शान्तीनां शान्तिदायकः । (Page खं. ६ अ. ४३ पान १२०) चित्ते चिन्तामणिं दृष्ट्वा भविष्यथ सुयोगिनः ॥ २६॥ संयोगायोगरूपं यन्मायामयं विशेषतः । तस्या विकटभावेन भजध्वं विकटं सदा ॥ २७॥ स्वस्वब्रह्मणि संस्थं तु कर्म कृत्वा स्वभावजम् । गणेशार्पणभावेन भवद्भिः स्थीयतां सदा ॥ २८॥ एवमुक्त्वा स्वयं भानुर्ब्रह्माणि सर्वनायकः । अन्तर्दधे महादेव्यः स्वानन्दस्थो बभूव ह ॥ २९॥ ततो सन्मुख्यब्रह्माणि स्वस्वविश्वयुतानि च । जीवयुक्तानि जातानि खेलां चक्रुः परस्परम् ॥ ३०॥ यथा सूर्येण सन्दिष्टो योगो विकटसंज्ञितः । साधयित्वा तथा तानि सुशान्तानि बभूविरे ॥ ३१॥ हृदि चिन्तामणिं ज्ञात्वा बहिः कर्माणि कृत्स्नशः । समर्प्य विकटं देव्यो भजन् ब्रह्माणि रेमिरे ॥ ३२॥ एवं विकटमाहात्म्यं सूर्यावतारसंज्ञितम् । कथितं विस्तरेणैव समासेनापि निश्चितम् ॥ ३३॥ अयं सूर्यात्मकश्चैव विकटस्य महात्मनः । अवतारः समाख्यातः सर्वसिद्धिप्रदायकः ॥ ३४॥ श‍ृणुयाद्यः पठेद्वापि स सिद्धिं परमां लभेत् । ईप्सितं सर्वमेवं तु परत्रेह लभेत् सुखम् ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ६.४२

६.४३ भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कश्यपस्य च भार्याऽऽसीद्विनता रूपशालिनी । तस्यामण्डे समुत्पन्ने द्वेऽतीव तेजसा युते ॥ १॥ ताभ्यां ज्येष्ठोऽरुणो जज्ञे गरुडोऽनुज एव च । अरुणः सूर्यमाराध्य वरं प्राप हितावहम् ॥ २॥ सारथिः स रवेरासीन्नित्यं तद्भक्तिसंयुतः । सेवयाऽनन्यभावेन सूर्य आत्मानमच्युतम् ॥ ३॥ गणेशं नित्यमानन्दात् सूर्यो भेजे विशेषतः । प्रणम्य सोऽपि पप्रच्छारुणस्तं खेदसंयुतः ॥ ४॥ अरुण उवाच । स्वामिंस्त्वं सर्वभावानामात्माऽमृतमयः सदा । एक एवाद्वितीयोऽसि भजसे कं गजाननम् ॥ ५॥ कोऽसौ गणेश्वरः पूर्णो मिथ्यात्मा कश्यपात्मज । मोहं करोषि देवेश स्वरूपच्छादनाय ते ॥ ६॥ योगिनो देवमुख्याश्च त्वां ज्ञात्वा शान्तिमादधुः । त्वत्तः परतरं नास्ति किमर्थं भजसे परम् ॥ ७॥ सूर्य उवाच । त्वयाऽनूरो सत्यमुक्तं वेत्सि मां त्वं विशेषतः । न त्वत्समो मदीये तु योगे कोऽपि विशेषतः ॥ ८॥ पूर्णभावमविज्ञाय शान्तिं धृत्वा त्वमञ्जसा । संस्थितः किमहं ब्रूयामज्ञानं त्वां महायशः ॥ ९॥ गणेशादहमुत्पन्नस्तस्यान्ये शङ्करादयः । ज्येष्ठराजश्च तेनायं तस्य ज्येष्ठो न विद्यते ॥ १०॥ (Page खं. ६ अ. ४३ पान १२१) असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः । तयोः समानभावे त्वाऽऽनन्दो विष्णुः प्रकीर्तितः ॥ ११॥ आनन्दाच्च परो व्यक्तः शङ्करस्तुर्यसंज्ञितः । तेषां योगे गणेशानः स्वानन्दाख्यः प्रकीर्तितः ॥ १२॥ सर्वसंयोगकर्तृत्वात् मायायुक्तो गणेश्वरः । स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥ १३॥ तस्मात्परो ह्ययोगश्च स्वसंवेद्यविवर्जितः । तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥ १४॥ ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल । अस्माकं गणराजस्तु स्वामी तस्माद्भजामहे ॥ १५॥ एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह । जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां पतिम् ॥ १६॥ अरुण उवाच । गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् । भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥ १७॥ सूर्य उवाच । एकाक्षरविधानेन तं भजस्व तु काश्यप । हृदि चिन्तामणिं दृष्ट्वा योगिवन्द्यो भविष्यसि ॥ १८॥ एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः प्रभुः । स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥ १९॥ तताप तप उग्रं स गणेशध्यानतत्परः । योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥ २०॥ ततो योगीन्द्रवन्द्यः स बभूवे योगसेवया । चित्तं पञ्चविधं त्यक्त्वा रसयुक्तं जपे रतः ॥ २१॥ एवं वर्षशतेष्वेनं गतेषु द्विरदाननः । आययौ वरदानार्थं भक्तिसम्भावितः प्रभुः ॥ २२॥ ततः सोऽपि गणेशानं न बुबोध महायशाः । हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥ २३॥ संज्ञायुक्तं गणेशानं रथस्थं स ददर्श ह । पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥ २४॥ हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः । अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥ २५॥ ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् । पुपूज विधिसंयुक्तस्तुष्टावानम्य हर्षतः ॥ २६॥ यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् । रविं संज्ञायुतं दृष्ट्वा विस्मयं परमं ययौ ॥ २७॥ गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना । गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥ २८॥ नानाभेदमयी माया तत्रात्मा भेदवर्जितः । अतो विकटसंज्ञोऽयमात्माकारो गजाननः ॥ २९॥ विकटरूपिणं सूर्यं भजिष्यामि निरन्तरम् । कलांशं गणेराजस्य तेन तुष्टोऽयमञ्जसा ॥ ३०॥ एतदर्धं गणेशेन रूपं सूर्यात्मकं परम् । स्वकीयाभेदभावाख्यं दर्शितं मेऽत्र साम्प्रतम् ॥ ३१॥ ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह । नियम्यात्मानमानन्दयुक्तस्तोत्रं प्रचक्रमे ॥ ३२॥ अरुण उवाच । नमस्ते गणनाथाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥ ३३॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ ३४॥ स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३५॥ (Page खं. ६ अ. ४३ पान १२२) सिद्धिबुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ३६॥ अनन्तविभवायैव नामरूपप्रधारिणे । मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ३७॥ ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने । गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ३८॥ विवस्वते भानवे ते रवये ज्योतिषां पते । लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ३९॥ यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा । भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ४०॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ४१॥ एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे । वामाङ्गे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ ४२॥ तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः । तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ४३॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ ४४॥ श‍ृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् । भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ ४५॥ गणेशवचनं श्रुत्वाऽनूरुस्तं प्रणिपत्य च । जगाद साश्रुनेत्रः सन् सरोमाञ्चो गजाननम् ॥ ४६॥ अनूरुरुवाच । भक्तिं देहि गणाधीश तव पादाम्बुजाश्रिताम् । गाणपत्यप्रियत्वं मे सदा सङ्गं महात्मनाम् ॥ ४७॥ तथेति तमथोक्त्वाऽसौ विकटोंऽतर्दधे स्वयम् । अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ ४८॥ ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः । भानुविनायक इति नाम चक्रे सुहर्षितः ॥ ४९॥ पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् । अरुणस्तं प्रणम्यैव वृत्तान्तं कथयत् परम् ॥ ५०॥ तेनैवं स्थापितं तत्रारुणो गणपतिं परम् । अभजद्रथसंस्थश्च योगशान्तिपरोऽभवत् ॥ ५१॥ एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् । तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥ ५२॥ श‍ृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल । स ईप्सितफलं प्राप्यान्ते स्वानन्दमवाप्नुयात् ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ६.४३ (Page खं. ६ अ. ४४ पान १२३)

६.४४ विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः । तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥ १॥ मायायां बिम्बितं ब्रह्म विकटस्य महात्मनः । आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥ २॥ संज्ञा जाता ततस्तस्य विकटस्य परात्मनः । सा संज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥ ३॥ तस्यां बिम्बमयाद्वीर्यान्नाना जीवा बभूविरे । तेषां सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥ ४॥ संज्ञया संयुतः सूर्यो ज्ञानहीनो बभूव ह । तपस्तताप घोरं स गणेशस्य महात्मनः ॥ ५॥ दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः । प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥ ६॥ उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितम् । दास्यामि तपसा तुष्टो भवेद्यदपि दुर्लभम् ॥ ७॥ ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः । संज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥ ८॥ पुनः पुनर्ननामाथ तं सम्पूज्य महायशाः । कृत्वा करपुटं संज्ञायुतः स्तोतुं प्रचक्रमे ॥ ९॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥ तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः । गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥ एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः ॥ १३॥ परेशाय महाविघ्ननाशनाय महात्मने । दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥ १४॥ अनाथाय सनाथानां नाथाय सर्वदायिने । अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ १५॥ अनन्तविभवायैवानन्तमायाप्रधारिणे । ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥ १६॥ मूषकवाहनायैव सर्वान्तरप्रचारिणे । मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥ १७॥ किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक । अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ १८॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् । रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगाद ह ॥ १९॥ श्रीगणेश उवाच । मदीयस्तवनं चेदं सर्वदं सम्भविष्यति । त्वया कृतं पठेद्यश्च श‍ृणुयात्तस्य सर्वदा ॥ २०॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । सन्तुष्टोंऽते ब्रह्ममयं करिष्यामि महामते ॥ २१॥ दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः । सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥ २२॥ भानुरुवाच । प्रसन्नोऽसि यदा ढुण्ढे देहि भक्तिं त्वदीयिकाम् । ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥ २३॥ परं सामर्थ्यमतुलं देहि सर्वात्मधारकम् । मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥ २४॥ त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः । तत्र त्वां पुत्रभावेन भजिष्यामि निरन्तरम् ॥ २५॥ हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् । तेनाहं कृतकृत्यश्च भविष्यामि गजानन ॥ २६॥ (Page खं. ६ अ. ४४ पान १२४) ओमित्युक्त्वा गणाधीशस्ततोंऽतर्धानगोऽभवत् । सूर्यस्तं चिन्त्य स्वस्थानं जगाम प्रियया सह ॥ २७॥ सूर्यः सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् । असद्ब्रह्म ततः सर्वं नानारूपमकल्पयत् ॥ २८॥ गणेशवरदानेन मोहहीनो बभूव ह । अभजत्तं सदा भानुर्भक्त्या योगीन्द्रवन्दितः ॥ २९॥ एकदा प्रियया युक्तः सस्मार गणनायकम् । तामिस्रासुरगर्वेण पीडितो बलवत्तरम् ॥ ३०॥ स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् । बालं शुण्डाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥ ३१॥ सूर्य उवाच । कोऽसि त्वं वद मां बाल गणेशाकृतिधारक । किमर्थमिह चायातः किं गणेशो भवान् परः ॥ ३२॥ सूर्यस्य वचनं श्रुत्वा तं जगाद गजाननः । स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥ ३३॥ पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः । पालयस्व पितर्मां त्वं संज्ञया सह मानद ॥ ३४॥ तस्य तद्वचनं श्रुत्वा संज्ञया सह चार्यमा । प्रणम्यापूज्य तुष्टाव अथर्वशिरसा प्रभुम् ॥ ३५॥ एतस्मिन्नन्तरे तत्राऽऽजगाम सुरसत्तमः । तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥ ३६॥ उत्थाय गणनाथस्तं जघान मुष्टिघाततः । पातयामास भूम्यां स निर्जीवं दैत्यपुङ्गवम् ॥ ३७॥ मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः । तं प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥ ३८॥ मोहितः संज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् । लालयामास हर्षेण पुत्रभावपरायणः ॥ ३९॥ गणेशमायया तत्र संज्ञा स्तन्यमपाययत् । वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥ ४०॥ ततः सोंऽतर्हित पुत्रो भानुः सम्मूर्च्छितोऽभवत् । संज्ञया च तयोर्ढुण्ढिर्हृदि संस्थो बभूव ह ॥ ४१॥ मा शोकं कुरुतं तातौ न वियोगश्च मे क्वचित् । मूर्तिं कृत्वा सदा तत्र पूजयेथां निरन्तरम् ॥ ४२॥ ततस्तौ सावधानौ तु तथा चक्रतुरादरात् । भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ ॥ ४३॥ शक्तय ऊचुः । कोऽसौ तामिस्रसंज्ञश्चासुरस्तस्य चरित्रकम् । वद शक्ते यदर्थं तु वरदः सम्बभूव ह ॥ ४४॥ आदिशक्तिरुवाच । सूर्योऽहङ्कारसंयुक्तो बभूवे जीवनात्मकः । सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न च ॥ ४५॥ एवं बहौ गते काले विस्मृतो गणनायकम् । छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥ ४६॥ तं दृष्ट्वा हर्षितो भानुः पुत्रं मेने हितावहम् । अन्धकारकरं पूर्णं वरदस्तमुवाच ह ॥ ४७॥ भानुरुवाच । त्रिगुणान्नभयं पुत्र भविष्यति कदाचन । त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥ ४८॥ यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल । भविष्यति च तामिस्र नाम भव सुभाग्यवान् ॥ ४९॥ तं प्रणम्य महादैत्यः पातालमगमन्मुदा । शुक्रेण प्रेरितैर्दैत्यैः कृतो राजा सुरद्विषाम् ॥ ५०॥ सह तैर्मदसंयुक्तो जिग्ये ब्रह्माण्डमण्डलम् । राज्यं चकार दैत्येशैर्महाबलयुतो बभौ ॥ ५१॥ रविं तेजस्विनं दृष्ट्वा वैरभावेन संयुतः । (Page खं. ६ अ. ४५ पान १२५) अन्धकारेण नित्यं सञ्छादयामास शक्तयः ॥ ५२॥ निरर्थकं चकारासौ सूर्यं तेजस्विनां वरम् । नानायत्नपरः सूर्यस्तं जेतुं न शशाक ह ॥ ५३॥ ततोऽहङ्कारहीनः स सस्मार गणनायकम् । गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥ ५४॥ एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् । वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥ ५५॥ श‍ृणुयादिदमाख्यानं पठेद्वा तस्य सर्वदम् । भविष्यति सदा चान्ते ब्रह्मभूयप्रदायकम् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ६.४४

६.४५ विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एवं नानावताराश्च धृतास्तेन महात्मना । विकटेन महादेव्यः सङ्ख्यातुं नैव शक्यते ॥ १॥ भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् । कुरुते स्वावतारान् स विकटः परमेश्वरः ॥ २॥ मयूरक्षेत्रमधुना गच्छध्वं तत्र चाप्यहम् । संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥ ३॥ तत्र विघ्नेश्वरं भक्त्या सेवध्वं शक्तयः पराः । तेन योगीन्द्रवन्द्याश्च भविष्यथ न संशयः ॥ ४॥ विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः । गाणेशमार्गमाश्रित्य भजध्वं विकटं परम् ॥ ५॥ वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् । तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥ ६॥ गणेशमूर्तेश्च हृदि चिन्तनं कुरुत प्रियाः । मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥ ७॥ विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा । गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥ ८॥ मुद्गल उवाच । एवमुक्त्वा ददौ ताभ्यो मन्त्रमेकाक्षरं परम् । सविधिं गणराजस्य ततो मौनं समादधे ॥ ९॥ प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः । महाकालीमुखा दक्ष ययुः क्षेत्रं मयूरकम् ॥ १०॥ मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः । प्रणम्यापूज्य तां ढुण्ढिं ततस्तेपुस्तपो महत् ॥ ११॥ शतवर्षे गते तासां पुरतो मयूरेश्वरः । समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥ १२॥ पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः । पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः ॥ १३॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे । विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥ १४॥ लम्बोदराय देवाय मूषकध्वजिने नमः । अनाथानां सनाथाय नमो नाथाय ते नमः ॥ १५॥ परेशाय महेशेभ्यः सिद्धिदाय गजानन । अनन्ताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥ १६॥ ब्रह्मणां पतये तुभ्यं सदा शान्तिमयाय च । (Page खं. ६ अ. ४५ पान १२६) शान्तीनां शान्तिरूपाय परात्मने नमो नमः ॥ १७॥ हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः पददात्रे च कवीशाय नमो नमः ॥ १८॥ सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने । सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः ॥ १९॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशान्तिस्थभावाय शान्तिदाय नमो नमः ॥ २०॥ शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥ २१॥ किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे । वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥ २२॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियन्त्रितः ॥ २३॥ इदं स्तोत्रं पठेद्यस्तु श‍ृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ २४॥ एवं दक्ष महच्चित्रं चरितं कथितं मया । विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥ २५॥ नानेन सदृशं किञ्चित् सर्वदं कुत्र वर्तते । साक्षाद्ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् ॥ २६॥ इदं विकटमाहात्म्यं श‍ृणुयाद्यो नरोत्तमः । श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात् ॥ २७॥ एकमावर्तनं नित्यं यः कुर्यात् स मतो परः । साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥ २८॥ यावन्ति साधनान्येव साधयेत् परमादृतः । शतवारं लभेत् पुण्यं खण्डस्यास्य श्रवाच्च तत् ॥ २९॥ इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः । तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥ ३०॥ पुराणोपपुराणानि सेतिहासानि नित्यशः । श‍ृणुयाच्च ततः पुण्यमनेन स्याच्छताधिकम् ॥ ३१॥ बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः । वर्णितो विकटस्तेन समं किं सम्भवेद्वद ॥ ३२॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हर्षयुतोऽत्यन्तं प्रणनाम च मुद्गलम् ॥ ३३॥ मया सम्पूर्णभावेन कथितं ते द्विजोत्तम । कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥ ३४॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । नानेन सदृशं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ६.४५ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे षष्ठः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 6 Vikatacharitam
% File name             : mudgalapurANam6.itx
% itxtitle              : mudgalapurANaM khaNDaH 6 vikaTacharitam
% engtitle              : Mudgala Purana Khanda 6 Vikatacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org