मुद्गलपुराणं खण्डः ७ विघ्नराजचरितम्

मुद्गलपुराणं खण्डः ७ विघ्नराजचरितम्

॥ मुद्गलपुराणं खण्डः ७॥ ॥ अथ श्रीमुद्गलपुराणे सप्तमः खण्डः प्रारभ्यते ॥ (Page खं. ७ अ. १ पान १)

७.१ दितिशोकवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विकटस्य चरित्रं वै श्रुत्वा सूत महामते । हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥ १॥ यत्किञ्चिद्गणराजस्य चेष्टितं व्यासशिष्यक । तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥ २॥ धन्यं भाग्यं मुनीन्द्राणां मदीयं येन ते द्विज । दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥ ३॥ योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः । पीत्वा न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥ ४॥ अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् । ममासुरविनाशाख्यं ब्रह्मप्राप्तिकरं परम् ॥ ५॥ सूत उवाच । मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः । विकटस्य पुनस्तं च जगादैव स हर्षितः ॥ ६॥ दक्ष उवाच । धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः । वदसे योगदां पूर्णां कथां योगीन्द्रवन्दित ॥ ७॥ आङ्गिरसकुले साक्षाद्योगरूपधरः प्रभो । त्वं जातोऽसि न सन्देहः कुलतारक एव च ॥ ८॥ अधुना वद माहात्म्यं विघ्नराजस्य सर्वदम् । श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥ ९॥ कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः । किं कर्मा कुत्र वासः सन्तिष्ठते विघ्ननायकः ॥ १०॥ कस्य दैत्यस्य हन्ताऽसौ चरित्रं वद सर्वपम् । विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥ ११॥ मुद्गल उवाच । दक्ष त्वं योगिवन्द्यश्च भविष्यसि न संशयः । कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥ १२॥ समासेन प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् । चरित्रं श‍ृणु भावेन सर्वसिद्धिप्रदायकम् ॥ १३॥ अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं कश्यपस्य दित्याः संवादसंयुतम् ॥ १४॥ महासुरौऽदितेः पुत्रौ हिरण्यकशिपुर्महान् । हिरण्याक्षो हतो पूर्वं विष्णुना मायया परौ ॥ १५॥ ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ । सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥ १६॥ एवं बहौ गते काले काश्यपस्तोषमाययौ । तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥ १७॥ दितिरुवाच । मम पुत्रौ हतौ तेन विष्णुना मघवार्थतः । अत इन्द्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥ १८॥ तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह । अहो साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥ १९॥ अधुना किं करिष्यामि धर्मपालकमुत्तमम् । साधुं गुणयुतं पुत्रमिन्द्रं रक्षामि वै कथम् ॥ २०॥ अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः । व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥ २१॥ तदा ते भविता पुत्रो हन्तेन्द्रस्य न संशयः । छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥ २२॥ एवमुक्त्वा गणेशं स ध्यात्वा रेमे तया सह । तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥ २३॥ प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता । व्रतं चकार यत्नेन नियमस्था प्रजापते ॥ २४॥ तत इन्द्रेण वृत्तान्तो ज्ञातो नारदवाक्यतः । गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥ २५॥ (Page खं. ७ अ. १ पान २) ततस्तस्य हृदिस्थो वै विघ्नराजो मतिं ददौ । इन्द्रस्तामाययौ देवीं मातरं सेवनोत्सुकः ॥ २६॥ दितिं सिषेवे नित्यं स व्रतयुक्तां प्रणम्य ह । छिद्रदर्शी प्रजानाथ भक्तियुक्तः प्रतापवान् ॥ २७॥ नवमासा गतास्तत्र तथापि छिद्रकं परम् । किञ्चिन्न ददृशे सोऽपि विह्वलोऽभूत् सुरेश्वरः ॥ २८॥ विघ्नराजं हृदि ध्यात्वा चिन्तायुक्तः सुराधिपः । तां सिषेवे युतो भक्त्या सदा तन्मयचेतसा ॥ २९॥ दशभिर्दिवसैर्न्यूनं वर्षं तत्र गतं किल । ततोऽतितापसंयुक्तः किं भविष्यति विह्वलः ॥ ३०॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वयं सा मोहिता देवी भ्रान्ता जाता सहर्षतः ॥ ३१॥ विचारमकरोच्चित्ते व्रते संवत्सरो गतः । किञ्चिन्न्यूना च मे वाञ्छा सिद्धा जाता न संशयः ॥ ३२॥ हित्वा त्रिलोकगं राज्यं सुत ऐन्द्रं करिष्यति । ममोदरात् समुत्पन्नः कृतकृत्याऽस्मि साम्प्रतम् ॥ ३३॥ ततोऽतिनिद्रया देवी पीडिता मस्तकं मुदा । जानुमध्ये समाकृत्य सुष्वाप मोहसंयुता ॥ ३४॥ दिवसे निद्रया तस्या व्रतं भग्नं बभूव ह । जानुमध्ये शिरस्तेन द्वे छिद्रे सम्बभूवतुः ॥ ३५॥ इन्द्रस्तां तादृशीं दृष्ट्वा हर्षितोऽभूद्गजाननम् । स्मृत्वा वज्रं समागृह्योदरं विवेश मायया ॥ ३६॥ तत्र तेजोयुतं गर्भं ददर्श देवनायकः । चकार तस्य वज्रेण सप्त खण्डानि वैरतः ॥ ३७॥ तपसोग्रेण दित्याः स न ममार तथाप्यहो । रुरोद सप्तदेहस्थो गर्भस्तेजस्विनां वरः ॥ ३८॥ दृष्ट्वा विस्मितचित्तः स स्मृत्वा विघ्नेश्वरं पुनः । एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया ॥ ३९॥ तथापि न ममाराऽसौ गर्भः परमपावनः । तावद्देहधरो भूत्वा रुरोद भयविह्वलः ॥ ४०॥ जगाद मघवन्तं स गर्भो हंसि सुरेश्वर । किमर्थं भ्रातरस्ते वै वयं सर्वे न संशयः ॥ ४१॥ तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् । वैरभावं परित्यज्य भविष्यथ दिवौकसः ॥ ४२॥ तथेति तैः कृतं तत्र बहिरिन्द्रः समाययौ । ततो दितिः प्रजानाथ जजागार शुशोच ह ॥ ४३॥ एतस्मिन्नन्तरे तत्र पुत्रान् सा सुषुवे परान् । एकोनपञ्चाशत्कांस्तु वीक्ष्य चेन्द्रमुवाच सा ॥ ४४॥ दितिरुवाच । इन्द्र किं बहवः पुत्रा एकः सङ्कल्पितोऽभवत् । वद सत्यं महाभाग चेज्जानासि सुरेश्वर ॥ ४५॥ इन्द्र उवाच । मया ज्ञातं त्वदीयं यच्चेष्टितं मेऽत्र नाशकम् । मातस्तदर्थमायातः सेवार्थं ते न संशयः ॥ ४६॥ छिद्रं दृष्टं व्रते मातस्तत एतत् कृतं मया । वज्रेण जठरे गत्वा गर्भं छित्वा बहिर्गतः ॥ ४७॥ तपोबलेनैव नव न मृतास्ते सुता इमे । स्वयं प्राणधरा जाता वायवश्च भवन्तु हि ॥ ४८॥ तान् गृह्य मघवा स्वर्गं जगाम न शशाप सा । सत्यभाषणसंयुक्तमिन्द्रं तुष्टा बभूव ह ॥ ४९॥ कदा दैत्यान् समालोक्य दीनान् शोकपरायणा । (Page खं. ७ अ. २ पान ३) पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥ ५०॥ जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः । विनयेन समायुक्ता स्वार्थमोहयुता परा ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥ ७.१

७.२ शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दितिरुवाच । स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः । पुत्रो जातो महेन्द्रस्य मित्रं नानास्वरूपधृक् ॥ १॥ दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् । निष्फलो मे समारम्भो भवति स्म निरन्तरम् ॥ २॥ मूर्धनि त्वयि मे नाथ समर्थे दुःखमीदृशम् । मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥ ३॥ पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः । स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥ ४॥ मुद्गल उवाच । तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः । जगाद स्मयमानः स योगीन्द्रः परमार्थवित् ॥ ५॥ कश्यप उवाच । मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी । संसारो दुःखमोहादियुक्तः शास्त्रे निगद्यते ॥ ६॥ दैत्याः पापसमाचारा देवाः पुण्यतमा मताः । पापिनां न सुखं देवि शाश्वतं वेदवादतः ॥ ७॥ कथितं वेदवादेषु वचनं सत्यमेव तत् । भविष्यति न सन्देहो ममतां तत्र मा कुरु ॥ ८॥ पुत्रा जाताः प्रिये ते ये तेषां पुत्रादयः स्मृताः । एवं परम्परा जाता भविष्यति निरन्तरम् ॥ ९॥ न वंशच्छेदिता ते तु भविष्यति कदाचन । दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥ १०॥ कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् । शोकसन्तप्तगात्रा सा पतिं तेजस्विनां वरम् ॥ ११॥ दितिरुवाच । सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः । अकर्ते कर्तुमीशश्चान्यथा कर्तुमपि प्रभो ॥ १२॥ ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम । संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥ १३॥ अहं मोहसमायुक्ता सदा तापत्रयान्विता । दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥ १४॥ येन शान्तिं समालभ्य स्थास्यामि दाहवर्जिता । तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥ १५॥ तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः । शान्तिमार्गार्थमेवं तां जगाद हर्षसंयुतः ॥ १६॥ कश्यप उवाच । अत्र तेऽहं वदिष्यामीतिहासं च पुरातनम् । तं ज्ञात्वा शान्तियुक्ता त्वं भजिष्यसि गजाननम् ॥ १७॥ (Page खं. ७ अ. २ पान ४) हिमाचलसुता जाता पार्वती भगिनी च ते । तपसाऽऽराधिता तेन महामाया परात्परा ॥ १८॥ हिमाचलं समाश्रित्य शिवो ध्यानपरायणः । तताप तप उग्रं स गणेशं चिन्त्य सर्वदा ॥ १९॥ अत्रागत्य महेशानं पार्वती सेवनोत्सुका । पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥ २०॥ महादेवो विदित्वा तां मनसि क्रोधमादधे । मामुल्लङ्घ्य गता दक्षाध्वरे चेयं विशेषतः ॥ २१॥ स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् । अतः पत्नीविहीनः सन् भजेऽहं विघ्नपं सदा ॥ २२॥ एवं मनसि सन्धार्य न तां मेने महेश्वरः । समागतां तया सोऽपि भाषणं न चकार ह ॥ २३॥ ततोऽतिखेदसंयुक्ता पार्वती तं महेश्वरम् । सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥ २४॥ हावभावसमायुक्तां नित्यं सेवापरायणाम् । जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥ २५॥ गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता । देहत्यागे समारब्धा सस्मार द्विरदाननम् ॥ २६॥ तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि । विचारमकरोच्चित्ते शिवा दुःखसमन्विता ॥ २७॥ मां त्यक्त्वा शङ्करो देवो गतो मानसमन्वितः । न वृणोति कदाचित् स निश्चितं शङ्करेण तत् ॥ २८॥ वेदे सङ्कथितं वाक्यं तपसा दुर्लभं कदा । किञ्चिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥ २९॥ एवं निश्चित्य सा देवी तताप तप उत्तमम् । ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥ ३०॥ पञ्चाक्षरविधानेन तोषयामास शङ्करम् । लिङ्गपूजापरा देवी नानातपःपरायणा ॥ ३१॥ एवं बहौ गते काले न तुतोष सदाशिवः । क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥ ३२॥ ततो विघ्नेश्वरं देवी मन्त्रेणैकाक्षरेण च । तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥ ३३॥ त्यक्त्वा सदाशिवं देवी गणेशभजने रता । ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥ ३४॥ श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् । कृत्वा गणेश्वरं नित्यं पूजयामास भक्तितः ॥ ३५॥ वायुमात्राशना देवी तां मूर्तिं भावसंयुता । पूज्य ध्यानपरा भूत्वा जजाप मन्त्रमुत्तमम् ॥ ३६॥ पुरश्चरणमार्गेण मन्त्रं जजाप नित्यदा । ततस्तां शङ्करो देवो मनसा सङ्गतोऽभवत् ॥ ३७॥ शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता । अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥ ३८॥ देहभृदपराधैश्च संयुक्तो जायते कदा । अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥ ३९॥ एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः । दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितोऽभवत् ॥ ४०॥ ब्रह्मचारिस्वरूपेण निन्दयामास शङ्करम् । सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥ ४१॥ ततोऽतितोषसंयुक्तः शङ्करो रूपमादधे । स्वकीयं तद्विलोक्यैव ननाम जगदम्बिका ॥ ४२॥ तुष्टाव तं महादेवं ततः स वरदोऽभवत् । (Page खं. ७ अ. ३ पान ५) जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥ ४३॥ शिव उवाच । वरं वृणु महाभागे तपसा विजितस्त्वया । दास्यामि नात्र सन्देहस्त्वदधीनोऽहमादरात् ॥ ४४॥ त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमञ्जसा । भार्या मे भव कल्याणि पतिस्तेऽहं पुरातनः ॥ ४५॥ पार्वत्युवाच । यदि प्रसन्नभावेन वरं दास्यसि शङ्कर । तदा मे पितरं गत्वा भार्यार्थं याचयस्व माम् ॥ ४६॥ पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् । तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥ ४७॥ शिव उवाच । त्वयोक्तं सफलं सर्वं भविष्यति न संशयः । पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥ ४८॥ अहो तपो ह्यहो धैर्यमतस्ते देहजो मलः । सर्वपूज्यो महादेवि भविष्यति न संशयः ॥ ४९॥ कश्यप उवाच । तस्मिन् दिने तृतीया तु भाद्री शुक्ला बभूव ह । शिवेन संयुता देवी गणेशानं पुपूज ह ॥ ५०॥ ततश्चतुर्थिकायां सा होमं चकार हर्षिता । पञ्चम्यां ब्राह्मणैः सार्धं पारणं जगदम्बिका ॥ ५१॥ महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता । जले चिक्षेप विघ्नेशं प्रार्थयामास यत्नतः ॥ ५२॥ ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः । गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥ ७.२

७.३ ममासुरवरप्रदानं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । गणेशव्रतपुण्येन मोहितः शङ्करः सदा । तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥ १॥ हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः । नानाकलां प्रदर्श्यैव मोहयामास तं क्षणात् ॥ २॥ हिमाचलो जगादैव वरं वृणु यमिच्छसि । दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥ ३॥ द्विज उवाच । उमां देहि नगाधीश नान्यं याचे वरं परम् । ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥ ४॥ तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी । उमा तं देहि मां तात शिवोऽयं नात्र संशयः ॥ ५॥ ततः स हर्षितोऽत्यन्तं ददौ तस्मै सुतां प्रिये । शिवः स्वस्थानमागम्य देवैः सम्मानितोऽभवत् ॥ ६॥ लग्नं शुभं समालोक्य पूजयित्वा गजाननम् । देवादिभिः समायुक्तः पर्वतेशं ययौ शिवः ॥ ७॥ हिमाचलः प्रसन्नात्मा विवाहमकरोत्ततः । शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥ ८॥ शिवां गृह्य महेशानः कैलासमगमत् स्वयम् । तया रेमे महायोगी ततः स्कन्दो बभूव ह ॥ ९॥ (Page खं. ७ अ. ३ पान ६) गणेशानं समाराध्य तारकं दैत्यनायकम् । जघान सुखसंयुक्तं चकार सचराचरम् ॥ १०॥ शिवः शक्त्या समायुक्तो मोहितो मायया भृशम् । तदधीनस्वभावेनाऽतिष्ठन्नित्यं महासती ॥ ११॥ कदाचित् पार्वती देवी सखीभिः संवृता स्थिता । मनसा धारयामास धन्याऽहं सर्वभावतः ॥ १२॥ शिवं त्यक्त्वा दक्षगृहे गताऽहं मानसंयुता । देहं त्यक्त्वा पुनर्जाता हिमाचलगृहे सुता ॥ १३॥ देवेशो मां ततस्त्यक्त्वा शङ्करः पर्वतान्तरे । गतः स्वयं स याचित्वाऽवृणोन् मां पितरं प्रभुः ॥ १४॥ किं त्यक्त्वा मां गतः शम्भुः किं पुनर्याचिता ह्युत । अधुना मदधीनः स वर्तते नात्र संशयः ॥ १५॥ मदीया ममता सर्वा पूर्णा जाता विशेषतः । मानिनीनां रहस्यं तु मया संरक्षितं भवेत् ॥ १६॥ एवं मनसि हर्षेण धन्यात्मानं नगात्मजा । मेने नित्यं ततः सर्वाः सख्यस्तां वचनं जगुः ॥ १७॥ सख्य ऊचुः । धन्या त्वं मानिनीमध्ये मानो जित्वा तु शङ्करम् । तपसा रक्षितो देवि त्वदधीनः शिवोऽभवत् ॥ १८॥ तच्छ्रुत्वा जगदम्बा साऽतीव मानयुताऽभवत् । हास्यं चकार तत्रैव चित्रं देवि बभूव ह ॥ १९॥ तस्या हास्यात् समुत्पन्नः पुरुषः कामसन्निभः । ममनामा महाभागो महान् पर्वतसन्निभः ॥ २०॥ सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाच ह । कस्त्वं कस्मादिहायातः कस्य किं च चिकीर्षसि ॥ २१॥ पुरुष उवाच । तव हास्यात् समुत्पन्नं पुत्रं मां विद्धि मानदे । आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावतः ॥ २२॥ पार्वत्युवाच । मया मानः कृतः पूर्णः तस्मात् त्वं निर्गतः स्वयम् । ममनामा भवस्वाद्य पुत्र मानपरायणः ॥ २३॥ गणेशं भज भक्त्या त्वं स ते सर्वं प्रदास्यति । तेन सर्वत्र विश्वस्मिन् विख्यातः प्रभविष्यसि ॥ २४॥ ततस्तस्मै महादेवी ददौ मन्त्रं षडक्षरम् । गणेशस्य प्रहर्षेण विधियुक्तं सुताय सा ॥ २५॥ स तां प्रणम्य देवेशीं तपसे वनमाययौ । तत्राऽऽजगाम दैत्येशः शम्बरः कालचोदितः ॥ २६॥ पप्रच्छ पार्वतीपुत्रस्तं दृष्ट्वा को भवानिति । किमर्थमिह संयातो वद मे कारणं महत् ॥ २७॥ शम्बर उवाच । विद्यां दातुं महाभाग समायातोऽहमादरात् । समर्थस्त्वं तया नित्यं भविष्यसि न संशयः ॥ २८॥ एवमुक्त्वा महादैत्यो विद्यां नानाविधां ददौ । आसुरीं तां ममो नाम साधयामास यत्नतः ॥ २९॥ साधयित्वा स्वयं विद्यां कामरूपो बभूव ह । नानासामर्थ्यसंयुक्तस्ततो वै हर्षितोऽभवत् ॥ ३०॥ शम्बरं प्रणिपत्यैव जगाद वचनं हितम् । भक्तियुक्तस्वभावेन कृताञ्जलिरुदारधीः ॥ ३१॥ ममासुर उवाच । त्वया कृतं महाभाग महत् कार्यं मदीयकम् । अधुना शिष्यभूतं ते शाधि मां किं करोम्यहम् ॥ ३२॥ शम्बर उवाच । गणेशं शक्तिदत्तेन मन्त्रेणाराध्य मानद । ब्रह्माण्डराज्यमुग्रं तं याचयस्व महाप्रभुम् ॥ ३३॥ (Page खं. ७ अ. ३ पान ७) तत्त्वैश्च तत्त्वसम्भूतैर्न मे मृत्युर्भवेत् प्रभो । याचस्व सर्वभावेन नान्यं कञ्चिद्वरं परम् ॥ ३४॥ वरान् लब्ध्वा महाभाग मद्गेहे सङ्गतो भव । पश्चात् किञ्चित् कुरुष्व त्वमिति याचेऽहमादरात् ॥ ३५॥ तथेति शम्बरं सोऽपि ममनामा जगाद ह । शम्बरः स्वगृहं गत्वा हर्षयुक्तो बभूव ह ॥ ३६॥ ममस्तत्र समासीनस्तपस्तेपे सुदारुणम् । वायुमात्राशनो देवि ध्यात्वा हृदि गजाननम् ॥ ३७॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । प्राणशेषं ममं तत्र ययौ दातुं वरान् स्वयम् ॥ ३८॥ आगतं गणनाथं स न बुबोध महासुरः । ध्यानसंस्थं गणाधीशस्तमुवाच दयायुतः ॥ ३९॥ श्रीगणेश उवाच । वरान् ब्रूहि महाभाग मम ते हृदि संस्थितान् । दास्यामि तपसा तुष्टो मन्त्रसेवनतः परम् ॥ ४०॥ गणेशवचनं श्रुत्वा मम उन्मील्य लोचने । पश्यन् विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूव ह ॥ ४१॥ उत्थाय तं नमस्कृत्य पूजयामास भक्तितः । पुनः प्रणम्य तं स्तोतुं स्तोत्रं सोऽपि समारभत् ॥ ४२॥ ममासुर उवाच । नमस्ते गणनाथाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ ४३॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ ४४॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥ ४५॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥ ४६॥ अमेयशक्तये चैव शक्तिरूपधराय ते । शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥ ४७॥ परेशाय परेभ्यस्तु परपदप्रदायिने । पराय पररूपाय परात्पर नमोऽस्तु ते ॥ ४८॥ ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने । ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥ ४९॥ विघ्नेश्वरानन्तविहारकारिन् स्वानन्ददात्रे सकलानुगोप्त्रे । सिद्धेश्च बुद्धेः पतये परात्मन् हेरम्ब सर्वत्र नमो नमस्ते ॥ ५०॥ किं स्तौमि योगप्रदमेकदन्तं योगस्वरूपं परमार्थभूतम् । स्तोतुं न शक्ताः प्रभवन्ति वेदाः शम्भ्वादयो योगिन एव ढुण्ढिम् ॥ ५१॥ धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् । अगम्यं योगिनां साक्षात् कृतकृत्योऽहमञ्जसा ॥ ५२॥ वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा । न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादतः ॥ ५३॥ यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो । आरोग्यादि समायुक्तं मां कुरुष्व गजानन ॥ ५४॥ राज्यं ब्रह्माण्डगोलस्य देहि मे वाञ्छितप्रद । सङ्ग्रामे न समं तत्र किञ्चिद्भवतु विघ्नप ॥ ५५॥ सदा विजयसंयुक्तमजेयं शङ्करादिभिः । मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥ ५६॥ श्रीगणेश उवाच । दुर्घटं कथितं सर्वं त्वया दैत्येन्द्रनायक । तुष्टस्तथापि दास्यामि त्वयोक्तं ते भविष्यति ॥ ५७॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदं तथा ॥ ५८॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छम्बरगेहगः ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥ ७.३

७.४ शिवममासुरसमागमो नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । शम्बरं प्रणिपत्यादौ कथयामास विस्तरात् । वृत्तान्तं ममनामाऽसौ हर्षितं तं चकार ह ॥ १॥ मोहिनीं प्रददौ तस्मै स्वपुत्रीं शम्बरासुरः । तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥ २॥ ततः स्वल्पे गते काले शम्बरः शुक्रमाययौ । तं प्रणम्य महाभागं वृत्तान्तं प्रजगाद ह ॥ ३॥ ततः शुक्रेण दैत्येन्द्राः प्रेरिताः सर्व आययुः । स्वयं शम्बरसंयुक्तो जगाम ह ममासुरम् ॥ ४॥ शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् । तं प्रणम्य महाभागं कृताञ्जलिः पुरः स्थितः ॥ ५॥ पूजयामास तं विप्रं हर्षयुक्तेन चेतसा । प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥ ६॥ ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः । तान् सर्वान् मानयामास यथाविधि ममासुरः ॥ ७॥ ततः सर्वमतं गृह्य काव्यो नीतिविशारदः । ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥ ८॥ प्रधानाः पञ्च तस्यापि बभूवुर्बलसंयुताः । प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥ ९॥ दैत्या दानवभूपाश्च राक्षसादय आदरात् । हर्षयुक्ता बभूवुस्ते ततः स्वस्वगृहे गताः ॥ १०॥ चिन्तानाशं ममो भूम्यां निर्ममे नगरं परम् । सर्वशोभासमायुक्तं परिखावलयाङ्कितम् ॥ ११॥ तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः । वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥ १२॥ दैत्याद्यास्तत्र संरेजुर्विशेषेण निवासकाः । राजा ममासुरस्तान् वै पालयामास हर्षितः ॥ १३॥ पुत्रौ द्वौ समशीलौ तु मोहिन्यां सम्बभूवतुः । ममासुरान् महातेजो युक्तौ दैत्यविवर्धिनौ ॥ १४॥ धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः । ताभ्यां ममासुरोऽत्यन्तं रेजे तेजोयुतो महान् ॥ १५॥ एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् । उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥ १६॥ ममासुर उवाच । तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः । प्रजेष्यामि विशेषेण ब्रह्माण्डं लोकसङ्कुलम् ॥ १७॥ आज्ञापय महायोगिन् त्वदाज्ञावशवर्तिनम् । (Page खं. ७ अ. ४ पान ९) दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेत् ॥ १८॥ कश्यप उवाच । ममासुरस्य वाक्यं स श्रुत्वा वेदविदां वरः । शुक्रस्तं भक्तिसंयुक्तं दृष्ट्वोवाच सुरूपिणम् ॥ १९॥ शुक्र उवाच । गणेशवरदानेन समर्थोऽसि महासुर । गणेशभक्तिसंयुक्तो जय त्वं विश्वमञ्जसा ॥ २०॥ कदाचिदपि दैत्येश द्वेषं विघ्नेश्वरस्य च । मा कुरुष्व तदा राज्यं करिष्यसि विशेषतः ॥ २१॥ तथेति दैत्यमुख्यस्तं जगाद हर्षसंयुतः । ततोऽसुरान् समाहूय वृत्तमाकथयत्परम् ॥ २२॥ ते सर्वे हर्षसंयुक्ताः साधु साध्वब्रुवन् वचः । द्विजैर्मुहूर्तमालोक्य निर्ययौ च ममासुरः ॥ २३॥ अपारसेनया युक्तश्चतुरङ्गप्रभूतया । नानावाहनगा दैत्या दैत्येन्द्रा रेजुरञ्जसा ॥ २४॥ सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरम् । महाबला महावीर्याः पर्वतोन्मूलने क्षमाः ॥ २५॥ प्रधानैर्युद्धमार्गज्ञैः पुत्राभ्यां संयुतः स्वयम् । ममासुरो रथे संस्थः शुशुभे तेजसा युतः ॥ २६॥ पृथ्वीं जेतुं महावीरा जग्मुर्द्वीपसमन्विताम् । जित्वा क्षत्रगणान् सर्वान् स्ववशे तांस्तु चक्रिरे ॥ २७॥ ततः पातालगाः सर्वे शेषं जित्वा महाबलम् । ययुः स्वर्गेषु दैत्येन्द्रा इन्द्रं क्रोधसमन्विताः ॥ २८॥ इन्द्रः सुरगणैः सार्धं योद्धुं समुद्यतोऽभवत् । ऐरावतसमारूढो ययौ सङ्ग्राममण्डलम् ॥ २९॥ दैत्येन्द्रा शस्त्रसङ्घातैर्मर्दयित्वा सुरेन्द्रकान् । ममासुरं ययुः सर्वे धृत्वेन्द्रं ते प्रहर्षिताः ॥ ३०॥ इन्द्रासनसमारूढो ममासुरः प्रतापवान् । शुशुभे दानवेन्द्रैः स सेव्यमानः सदारुणैः ॥ ३१॥ सत्यलोकागतं वीक्ष्य दूतं सम्प्रेष्य दारुणम् । योद्धुं समुद्यतं ज्ञात्वा वेधाः पपाल तद्भयात् ॥ ३२॥ विष्णुं गत्वा विधाताऽसौ रक्ष रक्षेति चाब्रवीत् । विष्णुस्तं गृह्य शम्भुं वै शरणं प्रजगाम ह ॥ ३३॥ ज्ञात्वा वृत्तान्तमेवं स ममासुरः प्रतापवान् । कैलासमाययौ दैत्यैर्योद्धुं महेश्वरेण ह ॥ ३४॥ शिवलोके समायातो भानुः शक्तिस्तथा भयात् । विचार्य देवपाः सर्वे दैत्येद्रं जग्मुरावृताः ॥ ३५॥ मरणे निश्चयं कृत्वा शम्भुमुख्याः सुरेश्वराः । ममासुरं तं सन्नद्धाः प्रययुस्ते सुलोचने ॥ ३६॥ ममासुरस्य सैन्यं तु सन्नद्धं क्रोधसंयुतम् । देवेन्द्रान योद्धुमायातं नानावीरप्रपालितम् ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिवममासुरसमागमो नाम चतुर्थोऽध्यायः ॥ ७.४

७.५ ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः । दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १॥ देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुङ्गवान् । अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥ २॥ रजस्तिमिरभावेन स्वपरज्ञानवर्जिताः । पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥ ३॥ दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् । ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥ ४॥ ततो रजोऽभवच्छान्तं प्रकाशसंयुताः पुनः । दैत्या देवा विवेकेन युयुधुर्जातसम्भ्रमाः ॥ ५॥ ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् । पपाल दैत्यसङ्घैस्तद्धतं हर्षसमन्वितैः ॥ ६॥ ततो भैरवमुख्याश्च विष्वक्सेनादयो ययुः । आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥ ७॥ तैः समन्तान् महास्त्रैस्तद्बलं सम्मर्दितं परम् । दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥ ८॥ ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते । जग्मुः प्रहरणैर्वीक्ष्य शस्त्रैर्जघ्नुः सुरेन्द्रकान् ॥ ९॥ दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसम्भ्रमाः । युद्धं तत्राऽभवद्घोरं दिनैकं जयमिच्छताम् ॥ १०॥ ततो दैत्येन्द्रमुख्यास्ते पतिता मूर्च्छया युताः । पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥ ११॥ ज्ञात्वा ममासुरस्यैव पुत्रौ द्वौ समुपस्थितौ । प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥ १२॥ ततः काव्येन दैत्येन्द्रा जीविताः पुनरुत्थिताः । युयुधुस्ते महावीरा देवैः परमदारुणाः ॥ १३॥ दैत्यैर्धर्मश्च सङ्क्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ । बभूवतुश्च देवेन्द्रान् मूर्च्छितांश्चक्रतुर्मृधे ॥ १४॥ न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् । असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥ १५॥ ततः शिवः स्वयं क्रुद्धो वृषारूढः समाययौ । अनु तं जगदम्बा सा भानुर्विष्णुर्ययौ पुरः ॥ १६॥ तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् । न वक्तुं शक्यते देवि ब्रह्माण्डभयकारकम् ॥ १७॥ अधर्मो विष्णुना सार्धं धर्मः शङ्करमाययौ । कालजिद्भानुना सार्धं प्रेतः शक्त्या महाबलः ॥ १८॥ कपालः कालरुद्रेण काल्या धर्मघ्न एव च । नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १९॥ दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् । ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥ २०॥ कपालः कालरुद्रेण त्रिशूलेन प्रमूर्च्छितः । प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥ २१॥ त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् । चक्रेण विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥ २२॥ चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् । हतं सर्वत्र देवेशैर्हाहाकाररवाकुलम् ॥ २३॥ शोणितौघा महानद्यस्तत्र जाता भयानकाः । छिन्नभिन्नाश्च दैत्याद्याः पपलुः सर्वतोदिशम् ॥ २४॥ तत्राऽपि शस्त्रवेगेन मृताः केऽपि सुलोचने । ततो ममासुरः क्रुद्धः सङ्ग्रामाय ययौ स्वयम् ॥ २५॥ पुरः स्थितं शिवं वीक्ष्य जगाद क्रोधसंयुतः । (Page खं. ७ अ. ५ पान ११) सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥ २६॥ ममासुर उवाच । तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् । दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥ २७॥ एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् । निष्काश्य सुदृढं बाणं मुमोच दैत्यनायकः ॥ २८॥ तावत् त्रिशूलकं शम्भुश्चिक्षेप नाशकारकम् । ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥ २९॥ बाणेन स हतः शम्भुः पपात धरणीतले । मूर्च्छया पीडितोऽत्यन्तं सहसा दैत्यपालिनि ॥ ३०॥ ततो ममासुरः क्रुद्धो बाणेनैकेन वक्षसि । विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥ ३१॥ शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् । ते सर्वे निष्फला बाणाः पेतुः परमदारुणाः ॥ ३२॥ ततो ममासुरः सूर्यं शक्तिं विव्याध वक्षसि । एकैकेन स बाणेन पतितौ धरणीतले ॥ ३३॥ बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः । तया देवेन्द्रमुख्याश्च देवाः सम्मर्दिता मृधे ॥ ३४॥ ततो देवान् मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् । पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥ ३५॥ देवान् शम्भुमुखान् गृह्य ययौ स्वस्थानमुत्तमम् । काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥ ३६॥ ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् । अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥ ३७॥ प्रेतं शक्तिपुरस्यापि कपालं स चकार ह । सौरलोकाधिपं वीरं धर्मघ्नं ब्रह्मणस्तथा ॥ ३८॥ कालजितं महेन्द्रस्य यमस्य कालकं परम् । लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥ ३९॥ ततः स्वपुरमागम्य कारागारे समाक्षिपत् । देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥ ४०॥ ब्रह्माण्डाधिपतिर्दुष्टो बभूव स ममासुरः । कृतकृत्यमिवात्मानं मेने दैत्येन्द्रसंयुतः ॥ ४१॥ स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः । अविनाशं स्वमात्मानं मेने देहधरोऽपि सन् ॥ ४२॥ ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् । देवाङ्गना नराणां तु कन्या नागोद्भवा बलात् ॥ ४३॥ समानाय्यासुरेन्द्रैः स बुभुजे पापनिश्चयः । ततो बहुगते काले दैत्येन्द्रान् प्रेष्य दारुणान् ॥ ४४॥ खलः खण्डनकं चक्रे वर्णाश्रमसुकर्मणाम् । आसुरं कर्म सर्वत्र स्थापयामास दण्डतः ॥ ४५॥ न स्वाहा न स्वधा कुत्र भवति स्म कदाचन । न वषट्कारभावश्च वर्णसङ्करभावतः ॥ ४६॥ ऋषयस्ताडिताः केचित् केचिद्बन्धनसंयुताः । देवस्थानानि सर्वाणि खण्डितानि च दानवैः ॥ ४७॥ तीर्थानि पुण्यवृक्षास्ते बभञ्जुः पापकारकाः । ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥ ४८॥ प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमन्दिरे । इत्यादिकर्मनाशश्च बभूव जगतीतले ॥ ४९॥ हाहाकारयुताः सर्वे भ्रष्टा जाताः सुलोचने । वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥ ५०॥ राज्यं चकार दैत्येशो ममासुरः सुहर्षितः । वृष्ट्यादिकमभूत्तत्र काले सर्वं भयाकुलम् ॥ ५१॥ (Page खं. ७ अ. ६ पान १२) एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः । कारागारे स्थिताः सर्वे बभूवुः शोकपीडिताः ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः ॥ ७.५

७.६ विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततः शम्भुमुखा देवा विचारं दुःखसंयुताः । ममासुरस्य नाशार्थं चक्रुः सर्वे भयातुराः ॥ १॥ तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् । देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥ २॥ विष्णुरुवाच । कारागारे वयं क्षिप्तास्तत्र कर्मप्रखण्डनात् । उपोषणसमायुक्ताः कृता ममासुरेण च ॥ ३॥ अतिपापं ममस्यैव राज्ये वृत्तं महेश्वराः । तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥ ४॥ सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः । विघ्नराजश्च तेनाऽसौ नामाऽभूद्धर्मपालकः ॥ ५॥ आपद्धर्मविधानेन तदुपासनकं परम् । करिष्यामो विशेषेण स एनं घातयिष्यति ॥ ६॥ तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः । तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥ ७॥ अतिविषयसंयुक्तो दैत्येन्द्रैर्मोहितो भृशम् । ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥ ८॥ अन्यच्च श‍ृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च । मूर्तयः खण्डिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥ ९॥ आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् । तत्कर्मसु ममेनैव खण्डितं भूमिमण्डले ॥ १०॥ अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् । तं विशेषेण भजत देवा भावसमन्विताः ॥ ११॥ विष्णोर्वचनमाकर्ण्य देवाः शम्भुपुरोगमाः । साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥ १२॥ ततो देवा गणेशानं चिन्त्य सङ्कटमुक्तये । मन्त्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥ १३॥ ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् । उपचारैरनेकैस्ते जेपुर्मन्त्रं हृदा परम् ॥ १४॥ एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् । सङ्गोप्य भयसंयुक्ता निराहारपरायणाः ॥ १५॥ एवं वर्षशते पूर्णे तान् ययौ गणनायकः । भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥ १६॥ तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय सत्वरम् । प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥ १७॥ पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः । साश्रुनेत्राः प्रिये देवा भक्तिनम्रात्मकन्धराः ॥ १८॥ (Page खं. ७ अ. ६ पान १३) देवेन्द्रा ऊचुः । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥ १९॥ गणेशाय परेशाय हेरम्बाय नमो नमः । चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥ २०॥ अमेयायाप्रतार्क्याय सदा स्वानन्दवासिने । ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥ २१॥ साङ्ख्याय बोधरूपाय पुरुषाय परात्मने । गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥ २२॥ स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे । मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥ २३॥ नानामायाप्रचालाय मायिभ्यो मायया प्रभो । मोहदाय विशेषेण मायिकाय नमो नमः ॥ २४॥ नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः । तत्रानन्दयुतायैव समभावाय ते नमः ॥ २५॥ सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् । भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥ २६॥ भेदयुक्तं गणाधीश भेदहीनं त्वया परम् । सृष्टं द्वन्द्वमयं नाथ तयोर्नाथाय ते नमः ॥ २७॥ आनन्दं परमं ब्रह्म विघ्नानां हारकं मतम् । दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥ २८॥ तं विघ्नराजराजं तु पश्यामश्चर्मचक्षुषा । धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥ २९॥ एवमुक्त्वा प्रणेमुस्ते देवाः शम्भुपुरोगमाः । स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्त्रितः ॥ ३०॥ श्रीविघ्नराज उवाच । वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् । दास्यामि स्तोत्रसन्तुष्टस्तपसा ध्यानशालिना ॥ ३१॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठते श‍ृण्वते देवा वाञ्छितार्थप्रदायकम् ॥ ३२॥ गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः । प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा ॥ ३३॥ देवा ऊचुः । तव पादेऽचलां भक्तिं देहि विघ्नेश नः पराम् । यया विघ्नविहीनाश्च शान्तिं प्राप्ताः सुयोगिनः ॥ ३४॥ ममासुरं नाथ जहि सर्वपीडाप्रदायकम् । धर्मध्वंसकरं पूर्णं वर्णसङ्करकारिणम् ॥ ३५॥ कारागारे वयं क्षिप्ता वरदानप्रभावतः । अधुनोपोषणैर्युक्ताः कृतास्तेनासुरेण च ॥ ३६॥ एवं तेषां वचः श्रुत्वा विघ्नराजः प्रतापवान् । तथेति तानुवाचेदं करिष्यामि वचो हितम् ॥ ३७॥ एतस्मिन्नन्तरे देवि तत्र चित्रं बभूव ह । दैत्याः संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसाम् ॥ ३८॥ ते दृष्ट्वा चेष्टितं तेषां गणेशाऽऽगमनात्मकम् । गत्वा तं सर्ववृत्तान्तं कथयामासुरादरात् ॥ ३९॥ रक्षका ऊचुः । देवैः संराधितस्तत्राऽऽययौ विघ्नपतिः प्रभो । तं प्रणम्य महेशाद्यास्तुष्टुवुस्तद्वधाय च ॥ ४०॥ तथेति गणनाथेन कृतं सर्वं न संशयः । अधुना दैत्यनाथ त्वं यत् करिष्यसि तत् कुरु ॥ ४१॥ तेषां वचनमाकर्ण्य क्रोधयुक्तो ममासुरः । सर्वानानाय्य वृत्तान्तं कथयामास विस्तरात् ॥ ४२॥ श्रुत्वा ते भयसंयुक्ता बभूवुर्जातसम्भ्रमाः । जगुस्तं प्रणिपत्यैव वचनं स्वहितावहम् ॥ ४३॥ दैत्येन्द्रा ऊचुः । कारागारे स्थिता देवास्तैः कथं गणनायकः । (Page खं. ७ अ. ७ पान १४) आराधितो विशेषेण वरदश्च बभूव ह ॥ ४४॥ दैत्यैर्दृष्टस्तत्त्वमयो गणाधीशो न संशयः । तत्त्वहीनो न दैत्येन्द्र दृश्यते केनचित् कदा ॥ ४५॥ अतः सदेवकं तं तु हनिष्यामो न संशयः । किं करिष्यति विघ्नेशस्त्वां ध्रुवं मृत्युवर्जितम् ॥ ४६॥ एवमुक्त्वा महादैत्याश्चक्रुर्नादं भयङ्करम् । देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे ॥ ४७॥ एतस्मिन्नन्तरे तत्र पुनश्चित्रं बभूव ह । नारदो विघ्नराजं तं ययौ हर्षसमन्वितः ॥ ४८॥ प्रणम्यास्तुत्य विघ्नेशं गानं चकार हर्षतः । जगाद तं महायोगी प्रभो जहि ममासुरम् ॥ ४९॥ मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपस्य वै । समीपे प्रेषयामास स ययौ दैत्यनायकम् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः ॥ ७.६

७.७ ममासुरगर्वहरणं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतं ममो दैत्यो नारदं पूज्य दैत्यपैः । प्रष्टुं समुद्यतो यावत्तावत्तं नारदोऽब्रवीत् ॥ १॥ नारद उवाच । आपद्धर्मविवेकेन देवैः संराधितोऽधुना । गणेशो वरदो भाति देवेभ्यः सिद्धिदायकः ॥ २॥ त्वद्वधार्थं महाराज प्रार्थितो देवनायकैः । तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः ॥ ३॥ सामार्थं प्रेषयामास मां मम तेऽत्र सन्निधौ । श‍ृणु वाक्यं मदीयं त्वं हितं तेन भविष्यति ॥ ४॥ विघ्नाः सत्तात्मकाः प्रोक्ताः सत्ताऽत्र त्रिविधा मता । सत्यसङ्कल्परूपा च पराधीनात्मिका प्रभो ॥ ५॥ सत्यसङ्कल्पसत्ताया धारका ब्रह्मवाचकाः । परमेश्वरसंज्ञास्ते स्वाधीनाः प्रभवन्ति ये ॥ ६॥ अन्ये नरादयः प्रोक्ताः सत्तावन्तो न संशयः । तेषु दैवं समाख्यातं दैवाधीनास्ततः स्मृताः ॥ ७॥ त्वं वरेण समर्थोऽसि स्वसत्तासंयुतो न च । वरसत्तात्मको दैत्य पराधीनो न संशयः ॥ ८॥ पराधीना नरा विघ्नैः पीडिताः सर्वदा मताः । वृथा गर्वयुता अन्ते सत्ताहीना भवन्त्युत ॥ ९॥ अहं ब्रह्मेति मोहेन मोहिता जगदीश्वराः । मदाधारमिदं सर्वं विश्वं चलति तेऽब्रुवन् ॥ १०॥ अस्मभ्यो न परं किञ्चित् सत्ताहीनास्तदाऽभवन् । सत्यसङ्कल्पजां तेषां सिद्धिं गृह्णाति विघ्नपः ॥ ११॥ अतो विघ्नयुतं सर्वं जानीहि द्विविधं मतम् । सत्यासत्यमयं दैत्य द्वन्द्वमायाविमोहितम् ॥ १२॥ आनन्दं परमं ब्रह्म द्वन्द्वहीनं समात्मकम् । द्वन्द्वेषु द्वन्द्वभावाख्यं परं तन्मोहवर्जितम् ॥ १३॥ तदेव विघ्नराजाख्यं ब्रह्म वेदैः प्रकाशितम् । देवैराराधितं पूर्णं देहधारि बभूव ह ॥ १४॥ (Page खं. ७ अ. ७ पान १५) अधुना तत् समायातं देवागारेषु दैत्यप । तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः ॥ १५॥ स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप । स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥ १६॥ स्वर्गभोगकरा देवा नरा भूमिसमाश्रिताः । दैत्याः पातालगा भूत्वा तिष्ठन्तु सुखसंयुताः ॥ १७॥ वर्णाश्रमयुता लोकास्तिष्ठन्तु नित्यमादरात् । एवं कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥ १८॥ एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी । मा गर्वं कुरु दैत्येन्द्र नारदाज्ञावशो भव ॥ १९॥ नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् । अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥ २०॥ ममासुरश्च तां श्रुत्वा खेदयुक्तो बभूव ह । शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥ २१॥ शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः । प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥ २२॥ ममासुर उवाच । त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् । देवानां हितमत्यन्तं नाऽहं यामि गजाननम् ॥ २३॥ आदौ मया विशेषेण सेवितोऽयं महामुने । मां त्यक्त्वा देवनाथः सोऽभवत्तेन नयामि तम् ॥ २४॥ मरणं मे यदा प्राप्तं भविष्यति यशस्करम् । शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥ २५॥ तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् । मा चिन्तां कुरु दैत्येन्द्र नायं देवसहायवान् ॥ २६॥ देवा मदयुता जाता दैत्यान् जघ्नुः प्रमोहिताः । दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥ २७॥ तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् । देवान् मदविहीनांश्च चकार विघ्ननायकः ॥ २८॥ अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् । कर्मनाशनतः सर्वान् देवान् हन्तुं समुद्यतः ॥ २९॥ कर्मनाशप्रभावेण देवा नष्टा भवन्ति च । निर्देवं विश्वमत्यन्तं तदा भवति सर्वदा ॥ ३०॥ अतस्त्वां हन्तुमुद्युक्तो विघ्नराजो महासुर । स्वस्वधर्मयुतांश्चेत्तान्न हन्ति ब्रह्मनायकः ॥ ३१॥ सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् । सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद ॥ ३२॥ विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद । कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥ ३३॥ आनन्दं ब्रह्म वेदेषु कथितं सदसन्मयम् । न तत्त्वसंयुतं दैत्य तत्त्वहीनं न विद्यते ॥ ३४॥ सर्वत्र योगभावेन संस्थितं द्वन्द्वधारकम् । स एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥ ३५॥ तेनैव त्रिविधं सर्वं रचितं योगमायया । स्वस्वधर्मयुतं विश्वं कृतं क्रीडार्थमञ्जसा ॥ ३६॥ यदा गर्वयुता दैत्य जन्तवश्चेश्वरादयः । त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥ ३७॥ सर्वैरवध्यतां प्राप्य कुर्वन्ति मनसीप्सितम् । तदाऽयं देहधारी सम्भवते मदनाशकः ॥ ३८॥ असन्मयो गणेशस्य देहः सन्मयमस्तकम् । तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥ ३९॥ नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः । ममासुरः खवाणीं तां विचारमकरोत् हृदि ॥ ४०॥ (Page खं. ७ अ. ७ पान १६) गणेशो ब्रह्मरूपोऽयं स्वानन्दे वासकारकः । गच्छामि शरणं तं स्वहितं तेन भविष्यति ॥ ४१॥ विघ्नराजमनादृत्य सिद्धिबुद्धिपतिं प्रभुम् । को विघ्नहीनतां प्राप्य तिष्ठेद्वै सर्वमण्डले ॥ ४२॥ स्वयं दैत्यानुवाचाथ वचनं हितकारकम् । ममासुरः प्रसन्नात्मा गणेशो ममतां दधौ ॥ ४३॥ ममासुर उवाच । दैत्येन्द्राः कालमुख्या मे वचनं श‍ृणुत प्रियाः । काव्येन नारदेनोक्तं खवाण्या तत् करोम्यहम् ॥ ४४॥ तस्य तद्वचनं श्रुत्वा धर्माधर्मौ समूचतुः । न देवपक्षिणं योग्यं शरणं जगदीश्वरम् ॥ ४५॥ मरणं रणमध्ये तु स्वर्गदं कीर्तिदं भवेत् । तस्माद्युध्यामहे तात विघ्नेशेन विशेषतः ॥ ४६॥ देहधारी गणेशानः किं करिष्यति मां वद । तात ते मायया देवा दर्शयन्ति प्रमोहकम् ॥ ४७॥ नारदो गणराजस्य भक्तस्तस्य वचः कथम् । दैत्येन्द्रैः सह मान्यं त्वं करिष्यसि महामते ॥ ४८॥ नारदभावरक्षार्थं काव्यो वदति वै तथा । देवैः संरचिता वाणी खस्था तस्या वचो वृथा ॥ ४९॥ मा कुरुष्व भयं तात तत्त्वयुक्तं गजाननम् । हनिष्यामः प्रतापेन तव दैत्यप्रपालक ॥ ५०॥ एवमुक्त्वा महावीरौ रथारूढौ बभूवतुः । देवान् हन्तुं प्रगर्वेण जग्मतुः क्रोधसंयुतौ ॥ ५१॥ मामेति वचनं दैत्यनाथस्य त्यज्य दुर्मदौ । धर्माधर्मौ गणेशानं जग्मतुर्हननाय च ॥ ५२॥ ततो गणेश्वरं विप्रो नारदः प्रजगाम ह । कथयामास वृत्तान्तं सोऽपि क्रोधयुतोऽभवत् ॥ ५३॥ देवान् भययुतान् वीक्ष्य जगाद गणनायकः । मा भयं कुरुत प्राज्ञा हनिष्यामि ममासुरान् ॥ ५४॥ अमोघास्त्रबलैर्युक्तो ममासुरः प्रतापवान् । समागतः सोऽपि चेत्तं हनिष्यामि न संशयः ॥ ५५॥ एवमुक्त्वा गणाधीशः कमलं निजहस्तगम् । मुमोच क्रोधसंयुक्तो महास्त्रं ब्रह्मरूपकम् ॥ ५६॥ क्षणेन कमलं तत्र दैत्यसैन्ये पपात ह । तस्माज्जातः सुवासश्च प्रससार महीतले ॥ ५७॥ गणेशानं द्विषन्तस्तान् जघान वास आगतः । द्वेषहीनान् समुत्सृज्य तदद्भुतमिवाऽभवत् ॥ ५८॥ वासं गृह्य महादैत्यौ धर्माधर्मौ मृतौ मृधे । प्रधानाः पञ्च तद्वत्ते मृतास्तत्र बभूविरे ॥ ५९॥ ततो हाहारवं कृत्वा दैत्याः पातालमाविशन् । कमलं क्रोधसंयुक्तं जगाम ह ममासुरम् ॥ ६०॥ सुवासकं तस्य गृह्य मूर्च्छितोऽभून् ममासुरः । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ६१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॥ ७.७ (Page खं. ७ अ. ८ पान १७)

७.८ ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततो ममासुरस्तत्र सावधानो बभूव ह । समीपे कमलं संस्थं दृष्ट्वा भययुतोऽभवत् ॥ १॥ त्यक्त्वा गर्वं महादैत्यः कमलं प्रणनाम ह । कृत्वा करपुटं भीतोऽभवत् स्तोतुं समुद्यतः ॥ २॥ ममासुर उवाच । कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक । वासनानां परेशाय सुवासधारिणे नमः ॥ ३॥ विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते । संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥ ४॥ योगवासनया युक्ता ब्रह्मभूता भवन्ति ते । वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥ ५॥ तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः । विश्वं कमलसम्भूतं पद्माकारं वदन्ति तत् ॥ ६॥ अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्त्रोत्तमोत्तम । नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥ ७॥ दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे । कमलं गणराजस्य हस्तगं प्रबभूव ह ॥ ८॥ ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥ १०॥ ममासुर उवाच । विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥ गणेशाय गणानां तु चालकाय परात्मने । आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥ हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये । लम्बोदराय वै तुभ्यं भक्तपाल नमो नमः ॥ १३॥ स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे । शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक । विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥ आदिपूज्याय चान्ते ते अवशिष्टाय ते नमः । सिद्धिबुद्धिपते तुभ्यं चतुर्भुज नमो नमः ॥ १६॥ शेषस्योपरिसंस्थाय नागेशध्वजधारिणे । गजाननाय देवेश नमो दैत्येशरूपिणे ॥ १७॥ भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥ समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्म कर्मादि येन दृष्टो गजाननः ॥ २१॥ किं स्तौमि त्वां गणेशान यत्र वेदादयः प्रभो । शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥ एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् । रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ २३॥ तमुवाच महाभक्त्या युतं विघ्नप्रनायकः । वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ २४॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥ निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति । (Page खं. ७ अ. ९ पान १८) मम भक्तिप्रदं चैतन् मम भावहरं सदा ॥ २६॥ विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः । जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ २७॥ ममासुर उवाच । यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ २८॥ गाणपत्यसहावासं देहि नाथ निरन्तरम् । स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ २९॥ दासोऽहं ते गणाधीश नान्यं याचे वरं परम् । तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ ३०॥ विघ्नेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति ममासुर । गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ ३१॥ स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः । स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ ३२॥ यत्रादौ पूजनं मे न स्मरणं वा ममासुर । मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ ३३॥ मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः । मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ ३४॥ एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् । ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ ३५॥ प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह । शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ ३६॥ दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः । पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ ३७॥ एवं ममासुरं शान्तं चकार विघ्ननायकः । स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ ३८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः ॥ ७.८

७.९ क्षेत्रवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ १॥ पूज्य तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बद्धाञ्जलय आदरात् ॥ २॥ देवर्षय ऊचुः । साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् । आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ ३॥ सर्वात्मकं बिम्बमथो विधाय तेनैव द्वन्द्वं रचितं गणेश । सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ ४॥ भेदैर्विहीनं परमप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ ५॥ ढुण्ढे त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च । (Page खं. ७ अ. ९ पान १९) उत्थानरूपं त्वमपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ ६॥ त्वन्मायया मोहयुते परेशे अन्योन्यमादौ मिलिते प्रकाशिन् । तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ ७॥ त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ ८॥ ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ ९॥ एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिन् । तद्भावशून्योऽसि गजानन त्वं तं विघ्नराजं सततं भजामः ॥ १०॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज भासि । साङ्ख्यस्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ ११॥ दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर साङ्ख्यसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ १२॥ स्वानन्दवासी गणनायकस्त्वमानन्दरूपोऽसि वदन्ति वेदाः । द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ १३॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानन्दघनप्रकाशस्तं विघ्नराजं सततं भजामः ॥ १४॥ स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बमाद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव तं विघ्नराजं सततं भजामः ॥ १५॥ सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्रमुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः ॥ १६॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ १७॥ देहस्त्वसद्ब्रह्ममयश्च तेऽयं सद्रूपतुण्डं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ १८॥ कर्याननं त्वां प्रवदन्ति तेन सन्तः सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ १९॥ ब्रह्माऽहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ २०॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव । स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ २१॥ अङ्घ्रिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति । विघ्नेशनामाऽसि ततस्त्वमेव तं विघ्नराजं सततं भजामः ॥ २२॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ २३॥ कश्यप उवाच । एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः । तुष्टस्तानब्रवीद्देवो विघ्नेशो ब्रह्मणां पतिः ॥ २४॥ विघ्नेश उवाच । देवर्षयो वरान् ब्रूत महाभागा हृदीप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भक्त्या स्वाधीनतां गतः ॥ २५॥ भवत्कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् । (Page खं. ७ अ. ९ पान २०) यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ २६॥ विद्यामायुर्धनं धान्यं यशो धर्मं तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥ २७॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥ २८॥ मारणोच्चाटनाद्यं चानेन सिद्धं भविष्यति । परकृत्यप्रशमनं भवेच्च मरणादिकम् ॥ २९॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥ ३०॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा श‍ृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥ ३१॥ मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥ ३२॥ एवं गणपतेर्वाक्यं श्रुत्वा तममरर्षयः । प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुताः ॥ ३३॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो विघ्नेशस्ते पदाम्बुजे । भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ॥ ३४॥ ममासुरस्त्वया नाथ शान्तियुक्तः कृतो महान् । तेन स्वस्थानगाः सर्वे भविष्यन्ति दिवौकसः ॥ ३५॥ मुनयः कर्मकर्तारो जनाः स्वधर्मसंयुताः । भविष्यन्ति गणाध्यक्ष वृणीमहि किमप्यहो ॥ ३६॥ कृतं त्वया वराणां यत् कार्यं विघ्नविदारण । तथेति तानथोक्त्वाऽसौ देवेशोंऽतर्दधे प्रिये ॥ ३७॥ देवा मुनिगणैः सार्धं तं प्रणम्य विशेषतः । खेदयुक्ता गणाध्यक्षं स्थापयामासुरादरात् ॥ ३८॥ हिमाचलस्य मध्ये तत् स्थानं विघ्नपतेः परम् । सम्पूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकम् ॥ ३९॥ भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने स्थापितः परः । विघ्नेशो मुनिभिः सार्धं देवैः सर्वसुखावहः ॥ ४०॥ मध्ये विघ्नपतिः साक्षाद्वामे सिद्धिः स्थिता स्वयम् । बुद्धिश्च दक्षिणाङ्गे तु नागेशः पुरतः स्थितः ॥ ४१॥ क्षेत्राणि पृष्ठभागे च प्रयागादीनि मानदे । संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदा ॥ ४२॥ वामे शुम्भुमुखा देवा दक्षिणाङ्गे मुनीश्वराः । पुरतो गणराजस्य सेवन्ते तं सुलोचने ॥ ४३॥ असुरा नागमुख्याश्च गन्धर्वाप्सरसस्तथा । नानासिद्धगणास्तत्र वसन्ति सेवनोत्सुकाः ॥ ४४॥ गङ्गाद्याः सरितस्तत्र भक्तियुक्ता वसन्ति च । अन्ये नाना जना देवि वसन्ति भक्तिकारकाः ॥ ४५॥ दशयोजनविस्तारं क्षेत्रस्य मुख्यभावतः । चतुरस्रं महाक्षेत्रं ज्ञातव्यं स्वसुखप्रदम् ॥ ४६॥ तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् । जन्तवे स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेत् ॥ ४७॥ अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनाम् । स्थितानि स्नानमात्रेण स्वस्वसायुज्यदानि तु ॥ ४८॥ अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृता यदि । ते सर्वे शुक्लगत्या च ब्रह्मभूता भवन्ति वै ॥ ४९॥ यात्रां तत्र प्रकुर्वन्ति भक्ता भाद्रपदे प्रिये । शुक्लपक्षे चतुर्थ्यां वै महोत्सवपरायणाः ॥ ५०॥ क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुताः । परस्परं विशेषेण बोधयन्ति गजाननम् ॥ ५१॥ (Page खं. ७ अ. १० पान २१) विघ्नराजचरित्राणि कथयन्ति परस्परम् । साश्रुनेत्रा भवन्त्येते भक्त्या विघ्नेश्वरस्य च ॥ ५२॥ यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वन्ति मानवाः । इह भुक्त्वाऽखिलान् भोगानन्ते मुक्तिमवाप्नुयुः ॥ ५३॥ ये तत्र विघ्नराजं तु नमन्ति मनसीप्सितम् । लब्ध्वा सुखयुताः सर्वे भवन्ते नात्र संशयः ॥ ५४॥ यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च । ब्रह्मभूता न सन्देहो दर्शनात् पावना नृणाम् ॥ ५५॥ मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् । पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥ ५६॥ एवं खण्डेषु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् । विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥ ५७॥ ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् । तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥ ५८॥ सङ्क्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् । विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥ ५९॥ एवं विघ्नेश्वरो देवो नानाऽवतारकारकः । भक्तानां रक्षणार्थायाभक्तानां हरणाय च ॥ ६०॥ अवतारा असङ्ख्याता विघ्नेशस्य महात्मनः । तेषां चरित्रकं वक्तुं न समर्थोऽहमञ्जसा ॥ ६१॥ इदं ममासुरस्यैव शमनं कथितं मया । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ ६२॥ श‍ृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् । न भवेदीप्सितं सर्वं लभेद्ब्रह्म सनातनम् ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तियुक्तविघ्नेशचरित- क्षेत्रवर्णनं नाम नवमोऽध्यायः ॥ ७.९

७.१० विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दितिरुवाच । श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥ १॥ अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः । मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥ २॥ अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः । मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥ ३॥ मुद्गल उवाच । एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः । समालिङ्ग्य प्रियां दक्ष जगाद वचनं हितम् ॥ ४॥ धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः । जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥ ५॥ विघ्नेशेन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् । सद्रूपं तत्र बिम्बेन मायाभ्यां संस्थितः प्रभुः ॥ ६॥ ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् । स्वतः परत उत्थानं ततः सोऽहं च बिन्दुकम् ॥ ७॥ ततश्चतुर्विधं देवि विश्वं सृष्टं विशेषतः । (Page खं. ७ अ. १० पान २२) स्थूलसूक्ष्मसमात्माख्यमेकानेकादिसंयुतम् ॥ ८॥ एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा । आनन्देन विहीनत्वाद्बभौ व्यापारवर्जितम् ॥ ९॥ स्वस्वक्रियां प्रचक्रुर्वै न तत्र मोहयुक्तता । हीनता न तथा तानि खेदयुक्तानि सम्बभुः ॥ १०॥ तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै । ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥ ११॥ दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः । हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥ १२॥ नरकुञ्जरयुक्तं यद्दर्शयामास रूपकम् । दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुरन्तरे ॥ १३॥ विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः । बोधो बभूव तेनैव तुष्टानि स्म भजन्ति तम् ॥ १४॥ ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् । आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥ १५॥ ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे । विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥ १६॥ बिम्बात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् । स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥ १७॥ ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः । नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥ १८॥ ब्रह्माण्यूचुः । विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः । चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥ १९॥ चक्रपाणे रमेशाय परात्परतराय च । हेरम्बाय विकुण्ठस्य नाथाय ते नमो नमः ॥ २०॥ स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये । अपाराय महेशानसुताय तु नमो नमः ॥ २१॥ काश्यपाय च शेषस्य पुत्राय भक्तवत्सल । दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥ २२॥ गदाधराय देवाय वासुदेवाय देवप । धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥ २३॥ सदसन्मयरूपाय चानन्दपदधारिणे । समाय सर्वभावेषु शाश्वताय नमो नमः ॥ २४॥ नमो वागतिरूपाय देहदेहिप्रचारिणे । बोधाय च विदेहाय विष्णवे ते नमो नमः ॥ २५॥ किं स्तुमस्त्वां परेशान यत्र वेदा विकुण्ठिताः । योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥ २६॥ ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् । तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुतः ॥ २७॥ विष्णुरुवाच । भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् । मुक्तिदं श‍ृण्वते ब्रह्मदायकं पठते सदा ॥ २८॥ ब्रह्माणि यद्यदिच्छेत तत्तद् वृणुत सत्वरम् । दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥ २९॥ ब्रह्माण्यूचुः । देह्यानन्दमयं नाथ सौख्यं स्वाभाविकं परम् । सामर्थ्यं स्वस्वकार्येषु सत्यसङ्कल्पसम्भवम् ॥ ३०॥ तव पादयुगे नाथ भक्तिं देहि विशेषतः । योगशान्तिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥ ३१॥ विष्णुरुवाच । भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति । सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥ ३२॥ योगशान्तिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् । ब्रह्माणि भक्तियुक्तानि श‍ृणुध्वं योगसेवनात् ॥ ३३॥ (Page खं. ७ अ. ११ पान २३) पञ्चचित्तमयीं बुद्धिं तत्र भ्रान्तिकरीं पराम् । सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥ ३४॥ सम्प्रज्ञातमयो देहो सम्प्रज्ञातात्मकं शिरः । गजरूपं तयोर्योगे देहधारी बभूव ह ॥ ३५॥ संयोगाख्यो गकारश्च णकारो योगगः स्मृतः । तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥ ३६॥ स्वसंवेद्येन योगेन दर्शनं जायते परम् । गणेशस्य च तेनाऽयं स्मृतः स्वानन्दवासकः ॥ ३७॥ असच्छक्तिश्च सद्भानुः समोहं नेति शङ्करः । चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः ॥ ३८॥ स्वानन्दो मायया युक्तः संयोगात् ब्रह्मणां मतः । अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥ ३९॥ संयोगाऽयोगयोर्योगे गणेशः शान्तिरूपधृक् । तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥ ४०॥ तेन च ब्रह्मभूतानि भविष्यथ न संशयः । ब्रह्माणि कथितं योगं प्रयुङ्ध्वं भक्तिकारणात् ॥ ४१॥ यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् । भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥ ४२॥ एवमुक्त्वा महाविष्णुस्तत्रैवान्तरधीयत । ब्रह्माणि तं नमस्कृत्य साधयामासुरञ्जसा ॥ ४३॥ क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे । तानि ब्रह्माणि योगेन गाणेशे दक्षनन्दिनि ॥ ४४॥ तत आनन्दयुक्तानि चक्रुः सर्वं चराचरम् । तत्रानन्देन सर्वाणि क्रीडां चक्रुः परस्परम् ॥ ४५॥ एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् । विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥ ४६॥ श‍ृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा । भुक्तिमुक्तिप्रदं पूर्णं सर्वानन्दकरं भवेत् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥ ७.१०

७.११ लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा सुखमासीनं नारायणमनामयम् । प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥ १॥ विष्वक्सेन उवाच । वद केशव योगं मे शान्तिदं ते पदप्रदम् । संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥ २॥ श्रीनारायण उवाच । नामरूपात्मकं सर्वमसत्यं वेदवादतः । जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥ ३॥ सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् । अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥ ४॥ तयोर्योगे समं ब्रह्म सदानन्दमयं परम् । विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥ ५॥ तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ६॥ (Page खं. ७ अ. ११ पान २४) विष्वक्सेन उवाच । कथं विघ्नेश्वरः स्वामिन् विष्णुरूपः प्रकीर्तितः । वद मां सर्वशास्त्रज्ञ संशयस्थापनुत्तये ॥ ७॥ श्रीविष्णुरुवाच । मायासुखं विजानीहि विघ्नयुक्तं विशेषतः । आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं बुधैः पुरा ॥ ८॥ तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः । सदानन्दमयः सोऽपि योगिभिः सेवितोऽभवत् ॥ ९॥ गणः समूहरूपश्च समूहा ब्रह्मवाचकाः । बाह्यान्तरादियोगेन ज्ञायन्ते योगिभिर्ध्रुवम् ॥ १०॥ गणेशानस्य बिम्बं यत् पतितं मायया युतम् । तदेव शिवविष्ण्वादि वाचकं प्रबभूव ह ॥ ११॥ अतो गणेशरूपा वै वयं सर्वे कलांशतः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ १२॥ कश्यप उवाच । विष्णोर्वचनमाकर्ण्य विष्वक्सेनः प्रणम्य तम् । जगाद भक्तिसंयुक्तो वचनं दक्ष पुत्रिके ॥ १३॥ विष्वक्सेन उवाच । नाऽहं भजामि विघ्नेशं तव भक्तिपरायणः । त्वत्तः परतरं नास्ति वदसे किं जनार्दन ॥ १४॥ एवमुक्त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये । वनं योगस्य सिद्ध्यर्थं तताप तप आदरात् ॥ १५॥ आनन्दं सर्वभावेषु विष्णुं धृत्वा स्वयं हृदि । जजाप मन्त्रराजं स इदं विष्णुस्तु ऋग्भवम् ॥ १६॥ निराहारपरो भूत्वा विष्वक्सेनः प्रतापवान् । तपश्चकार तद्भक्त्या वैष्णवानां शिरोमणिः ॥ १७॥ ततो वर्षशते पूर्णे प्रसन्नो गणनायकः । ददौ योगं समाख्यं तु तस्मै भावधरः प्रभुः ॥ १८॥ स्वयं संयोगरूपं तं दृष्ट्वा संहर्षितोऽभवत् । ततो हृदि गणेशानं ददर्श लक्ष्मीसंयुतम् ॥ १९॥ दृष्ट्वा खेदसमायुक्तो विष्णुं चिन्त्य महायशाः । मन्त्रं जजाप तत्रैव गणेशमवलोकयन् ॥ २०॥ क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेतसि । क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूव ह ॥ २१॥ तपसोऽतिप्रभावेण शुद्धचित्तो बभूव ह । त्यक्त्वाभिमानजं मोहं विचारमकरोत् हृदि ॥ २२॥ मायामयं शरीरं तु मायाहीनं च मस्तकम् । गजाकारं तयोर्योगे देहधारी गणेश्वरः ॥ २३॥ अस्य बिम्बं सदा मोहयुतं देवि विनिश्चितम् । विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः ॥ २४॥ स्वमहिम्नि स्थितो देवः सिद्धिबुद्धिसमन्वितः । मायाखेलकरः सोऽपि लक्ष्मीपतिरुदाहृतः ॥ २५॥ विष्णुना बोधितोऽहं तु पूर्वकालेऽभिमानतः । अबुध्यं नैव तद्रूपं वृथा पण्डितको यथा ॥ २६॥ अहो योगसमं किञ्चिन्न दृष्टं नैव संश्रुतम् । यस्य सेवनमात्रेणाभिमानो नाशमेष्यति ॥ २७॥ एवं विचार्य देवेशं गणेशं ध्यानसंयुतः । ध्यात्वा पुपूज भावेन मानस्या पूजया स तु ॥ २८॥ ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः । वरान् दातुं समायातो विष्वक्सेनाश्रमे प्रिये ॥ २९॥ ध्यानस्थो न बुबोधैव समागतं गजाननम् । विष्वक्सेनस्ततश्चित्रं चकार विघ्ननायकः ॥ ३०॥ हृदिस्थं गणनाथं स लोपयामास तत्क्षणात् । (Page खं. ७ अ. ११ पान २५) ततोऽतिविह्वलः सोऽपि तं ददर्श बहिः स्थितम् ॥ ३१॥ लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ विष्वक्सेनः पुपूज ह ॥ ३२॥ पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः । तुष्टाव भक्तिसंयुक्तः कृताञ्जलिर्गजाननम् ॥ ३३॥ विष्वक्सेन उवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥ ३४॥ लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च । स्वानन्दवासिने देव विकुण्ठस्थाय ते नमः ॥ ३५॥ केशवाय परेशाय चक्रपाणे गदाधर । हेरम्बाय नमस्तुभ्यं परशोर्धारकाय च ॥ ३६॥ दशरथसुतायैव वासुदेवाय ते नमः । शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥ ३७॥ योगाकाराय नाथाय योगानां शान्तिदायिने । कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥ ३८॥ शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः । सर्पयज्ञोपवीताय लम्बोदराय शाश्वते ॥ ३९॥ नानाखेलकरायैव नानामायाप्रचालक । खेलहीनाय देवानां सहायाय नमो नमः ॥ ४०॥ असुराणां विनाशायासुरभ्यो वरदायिने । ढुण्ढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥ ४१॥ गणेशाय गणानां तु चालकाय परात्पर । नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥ ४२॥ मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा । स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥ ४३॥ अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते । यो विष्णुः स हि विघ्नशो नान्तरं विद्यते कदा ॥ ४४॥ एवं स्तुत्वा गणेशानं प्रणनाम महामतिः । जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥ ४५॥ श्रीविघ्नेश उवाच । वरान् वरय मत्तस्त्वं विष्वक्सेन महामते । तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥ ४६॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठते श‍ृण्वते चैव सर्वसिद्धिप्रदायकम् ॥ ४७॥ कश्यप उवाच । गणेशवचनं श्रुत्वा विष्वक्सेनस्तमब्रवीत् । कृत्वा करपुटं भक्त्या नम्रकन्धर आदरात् ॥ ४८॥ विष्वक्सेन उवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्तिं ते पादपद्मे मे शान्तियोगं प्रयच्छ च ॥ ४९॥ जगाद गणराजस्तु श्रुत्वा तं हर्षयन्निव । मदीया भक्तिरुग्रा ते भविष्यति न संशयः ॥ ५०॥ विष्णुसङ्गतियोगेन शान्तियोगमवाप्स्यसि । यद्यदिच्छसि तत्तत्ते सफलं चाऽस्तु सर्वदा ॥ ५१॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो भक्तियन्त्रितः । विष्वक्सेनो जगामैव विकुण्ठं विष्णुमानमत् ॥ ५२॥ वृत्तान्तं कथयामास श्रुत्वा संहर्षितोऽभवत् । केशवस्तूत्तमं तस्मै महायोगं जगाद च ॥ ५३॥ साधयित्वा यथान्यायं योगिवन्द्यो बभूव ह । विष्वक्सेनो गणेशानमभजद्भक्तिसंयुतः ॥ ५४॥ गुरुरूपं महाविष्णुं देवरूपं गणेश्वरम् । (Page खं. ७ अ. १२ पान २६) धृत्वा हृदि महातेजा योगध्यानपरोऽभवत् ॥ ५५॥ इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकम् । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विरघ्नराजचरिते लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः ॥ ७.११

७.१२ शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । मधुकैटभनाशार्थं विष्णुना तपसा पुरा । आराधितो गणेशानस्तद्भक्त्या योगसेवया ॥ १॥ ततः प्रसन्नतां यातो विघ्नेशः प्रददौ वरान् । तैर्युक्तः स जघानैव दैत्यौ परमदारुणौ ॥ २॥ गणेशवरदानेन यशोयुक्तो जनार्दनः । तं जेतुं कः क्षमो देवि प्रभविष्यति ते सुतः ॥ ३॥ अतस्त्यक्त्वा स्वपुत्रेषु ममतां भज भावतः । विघ्नेशं योगिनां तेन वन्द्या त्वं प्रभविष्यसि ॥ ४॥ यादृशं गणराजेन रचितं त्रिविधं पुरा । तादृशं वर्तते सर्वं सदेवासुरमानुषम् ॥ ५॥ कश्यपस्य वचः श्रुत्वा हर्षयुक्ता दितिः पुनः । जगाद तं सुखार्थाय योगिवन्द्यं प्रजापते ॥ ६॥ दितिरुवाच । विघ्नराजावतारस्य चरितं पुनरादरात् । वद मे मुनिमुख्य त्वं ज्ञानं तस्य तथा परम् ॥ ७॥ कश्यप उवाच । धर्मघ्नस्य च पुत्रोऽभूद्यज्ञध्रुङ्नामकोऽसुरः । स शैवीं साधयामासोपासनां पापनिश्चयः ॥ ८॥ पञ्चाक्षरविधानेन तोषयामास शङ्करम् । दिव्यैर्वर्षसहस्रैस्तं वरदः शङ्करो ययौ ॥ ९॥ स्तुतः सम्पूजितस्तेन प्रसन्नस्तमुवाच ह । वरान् वरय दास्यामि तपसा तोषितोऽसुर ॥ १०॥ स वव्रे त्रिगुणेभ्यो मे मरणं न भवेत् कदा । राज्यमारोग्यसंयुक्तं ब्रह्माण्डस्य च देहि भोः ॥ ११॥ यद्यदिच्छामि देवेश तत्तन् मे सफलं भवेत् । तथेति तं जगादैव शङ्करोंऽतर्हितोऽभवत् ॥ १२॥ ततः स्वगृहमागत्य दैत्यराजो बभूव ह । यज्ञध्रुक् सैन्यमादाय जिग्ये ब्रह्माण्डमोजसा ॥ १३॥ देवाः शम्भुमुखाः सर्वे प्रपेलुश्च दिशो दश । तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञहा ॥ १४॥ ततो यज्ञविनाशार्थं यतते स्म विशेषतः । यज्ञहा क्रोधसंयुक्तो मुनीन् सर्वानताडयत् ॥ १५॥ त्यक्त्वा मुनिगणा यज्ञान् प्रपेलुर्भयसंयुताः । वर्णसङ्करभावं च चकार सचराचरम् ॥ १६॥ ततो विष्णुविनाशार्थं यतते स्म महाखलः । देवानां मूलनाशार्थं दैत्यः परमदारुणैः ॥ १७॥ यज्ञो विष्णुः समाख्यातो वेदेषु वेदवादिभिः । यज्ञनाशे स्वयं नष्टो भविष्यति जनार्दनः ॥ १८॥ (Page खं. ७ अ. १२ पान २७) एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभञ्ज ह । यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥ १९॥ ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः । अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥ २०॥ रक्ष मां गणनाथ त्वं दैत्यात् परमदारुणात् । मरिष्यामि न सन्देहो यज्ञनाशप्रभावतः ॥ २१॥ देवैः सार्धं महाविष्णुस्तताप तप उत्तमम् । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ २२॥ गते वर्षशते पूर्णे तं ययौ गणनायकः । स्तुतः सम्पूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥ २३॥ तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः । तान् जगाद ययौ हन्तुं यज्ञघ्नं देवपैर्वृतः ॥ २४॥ कृत्वा युद्धं महाघोरं जघानाङ्कुशघाततः । यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥ २५॥ ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा । तुष्टाव सुस्थिरो भूत्वा पूज्य नत्वा कृताञ्जलिः ॥ २६॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशान्ताय देवदेवेश ते नमः ॥ २७॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ २८॥ विनायकाय सर्वेषां नायकाय परात्पर । ढुण्ढिराजाय वेदादिढुण्ढिताय नमो नमः ॥ २९॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने । आनन्दायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥ ३०॥ गणानां पतये तुभ्यं नानागणसुरूपिणे । सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ॥ ३१॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च । इन्द्रादिदेवरूपाय कलया ते नमो नमः ॥ ३२॥ मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥ ३३॥ नागाय सुररूपाय राक्षसाय विहारिणे । चराचरमयायैव शूर्पकर्णाय ते नमः ॥ ३४॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशाङ्कुशधरायैव हेरम्बाय नमो नमः ॥ ३५॥ नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय । अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाथ धाम्ने ॥ ३६॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः । विसिस्मिरे सुशान्तिस्थाः शान्तिरूपाय ते नमः ॥ ३७॥ यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातर्नमो नमः ॥ ३८॥ भक्तिं देहि गणाधीश तव पादाम्बुजेऽमलाम् । तया वयं च योगेश बन्धहीना भवामहे ॥ ३९॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति जगादैवांऽतर्दधे शूर्पकर्णकः ॥ ४०॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥ ४१॥ स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥ ४२॥ अवतारा असङ्ख्याता विघ्नराजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥ ४३॥ सङ्क्षेपेण मया तस्याऽवताराः कथिताः पराः । (Page खं. ७ अ. १३ पान २८) भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि ॥ ४४॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च । नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥ ४५॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥ ४६॥ शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥ ४७॥ ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ॥ ४८॥ शूर्पकर्णावतारस्य कथितं चरितं मया । यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥ ४९॥ य इदं श‍ृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः । स मानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१२

७.१३ दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा माघमासे तु मकरस्थे दिवाकरे । तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥ १॥ सर्वे संहृष्टभावस्था माघस्नानपरायणाः । ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥ २॥ ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये । त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥ ३॥ भ्रमंस्तत्राऽऽजगामैव दत्तो योगीन्द्रसत्तमः । अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥ ४॥ गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम् । ओङ्कारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥ ५॥ तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः । योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥ ६॥ तं प्रणम्य स्थिताः सर्वे योगीन्द्रं ब्रह्म तत्परम् । गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥ ७॥ शिवादय ऊचुः । भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण । साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥ ८॥ अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः । देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥ ९॥ तव दर्शनमात्रेण कृतकृत्या वयं प्रभो । जाताः कुलयुताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥ १०॥ एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः । जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥ ११॥ दत्तात्रेय उवाच । ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोऽमलाः । शेषाद्या नागराजाश्च श‍ृणुध्वं मे वचो हितम् ॥ १२॥ ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः । समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥ १३॥ तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः । हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये ॥ १४॥ (Page खं. ७ अ. १३ पान २९) शिवाद्या ऊचुः । ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् । नामरूपधरं देवमोङ्काराकृतिधारकम् ॥ १५॥ अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् । मूलभूतो न सन्देहो योगिनां कथमञ्जसा ॥ १६॥ तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः । दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥ १७॥ दत्त उवाच । गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः । ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥ १८॥ अन्नं ब्रह्मेति देवेशा मुनयः श‍ृणुत प्रियाः । तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥ १९॥ प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी । माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥ २०॥ विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी । आनन्दं ब्रह्म यत् प्रोक्तं युतमानन्दमायया ॥ २१॥ चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी । बिन्दुब्रह्मेति तत्रैव माया बिन्दुमयी बभौ ॥ २२॥ सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी । बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥ २३॥ विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी । तया तत्र महादेवा भ्रमन्ति ब्रह्ममानिनः ॥ २४॥ कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी । ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥ २५॥ समं ब्रह्मेति तत्रैव माया समस्वरूपिणी । सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥ २६॥ असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् । सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥ २७॥ सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः । उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥ २८॥ अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया । स्वसंवेद्यं परं ब्रह्म युतं स्वानन्दमायया ॥ २९॥ आत्माद्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः । महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥ ३०॥ शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः । तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥ ३१॥ पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु । तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥ ३२॥ एवं नानाविधान्येव ब्रह्माणि कथितानि च । वेदादिषु समस्तानि मायामोहयुतानि तु ॥ ३३॥ तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः । ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥ ३४॥ स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् । ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥ ३५॥ उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते । साङ्ख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥ ३६॥ भूमिसाधनभावेन भवेत् ब्रह्मणि तन्मयः । देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥ ३७॥ तयोर्योगे गणेशानो देहधारी बभूव ह । साङ्ख्ये योगमयः साक्षात् पूर्णशान्तिप्रदायकः ॥ ३८॥ संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः । तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥ ३९॥ (Page खं. ७ अ. १३ पान ३०) पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूव ह । पञ्चभ्रान्तिकरी सिद्धिर्वामाङ्गं तस्य सर्वदा ॥ ४०॥ तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति । चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः ॥ ४१॥ समोहं चित्तमुत्सृज्य योगीन्द्रो जायते नरः । तं भजामि विशेषेण चित्तचालनकारकम् ॥ ४२॥ कृतानि सिद्धिबुद्धिभ्यां ब्रह्माणि सकलानि वै । तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥ ४३॥ अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः । सुलभत्वाय देवेशा परो जानीत संस्थितः ॥ ४४॥ तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह । संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः ॥ ४५॥ वसिष्ठ उवाच । ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतम् । ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥ ४६॥ पतिरूपा महामाया गणेशे संस्थिताऽभवत् । यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥ ४७॥ वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः । जगाद तं विशेषज्ञं योगीन्द्रः परमार्थवित् ॥ ४८॥ अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु । गणेशेन महायोगिंस्तेनायं पतिरुच्यते ॥ ४९॥ ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः । स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥ ५०॥ अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च । ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनात् ॥ ५१॥ ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने । पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥ ५२॥ अतो मायाविकारेण हीनोऽयं गणनायकः । ब्रह्मैवोपास्यभावात्तु पतित्वं कथनात्मकम् ॥ ५३॥ इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् । योगीन्द्रं भावबोधार्थमवधूतमकल्मषम् ॥ ५४॥ नारद उवाच । गणेशे त्वं महायोगिंस्तदाकारो न संशयः । अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥ ५५॥ न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् । इमं मे संशयं छिन्धि सर्वज्ञोऽसि महामते ॥ ५६॥ दत्त उवाच । देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा । शुभाशुभं विशेषेण नामरूपविकारतः ॥ ५७॥ ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः । सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥ ५८॥ ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता । नान्यत्र शम्भुविष्ण्वादि भावेषु पश्य मानद ॥ ५९॥ अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् । दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥ ६०॥ अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः । तं भजामि विशेषेण देहचेष्टापरायणः ॥ ६१॥ देहः क्रियात्मकः प्रोक्तश्चित्तं चिन्तनकारकम् । स्वभावेन यथाऽन्यद्वै करोति चिन्तनादिकम् ॥ ६२॥ तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् । तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥ ६३॥ ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकम् । देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं सदा ॥ ६४॥ (Page खं. ७ अ. १४ पान ३१) अनेन योगमार्गेण भजामि गणनायकम् । न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥ ६५॥ यथा करोमि नित्यं तु भक्षणादिकमादरात् । तथा गणेश्वरं तात भजामि भक्तिसंयुतः ॥ ६६॥ नाऽहं भोक्ता स्वदेहस्थस्तथा मां विद्धि देहगम् । न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥ ६७॥ ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् । तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥ ६८॥ न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते । श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥ ६९॥ अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः । दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥ ७०॥ गणेशं मूर्तिगं दृष्ट्वा योगेशं शान्तिदायकम् । कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥ ७१॥ इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः । नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥ ७२॥ जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः । कृतास्त्वया महाभाग एकमार्गपरायणाः ॥ ७३॥ नानामतविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु । त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥ ७४॥ भ्रान्तिनाशार्थमत्यन्तं भवान् विघ्नेश्वरेण च । निर्मितो योगमार्गज्ञः सर्वशान्तिप्रदायकः ॥ ७५॥ एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः । शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥ ७६॥ सर्वसारां समाख्यातां गीतां दत्तमुखाच्च्युताम् । पठनाच्छ्रवणान्नृभ्यः शान्तिदां सर्वसिद्धिदाम् ॥ ७७॥ कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा । जगाद भावगम्भीरा दितिर्विघ्नेश्वरे रता ॥ ७८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३

७.१४ दितिवरप्रदानं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दितिरुवाच । गणेशस्य महाभाग वदोपासनकं प्रभो । तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरन्तरम् ॥ १॥ मुद्गल उवाच । एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् । दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ २॥ सा तं प्रणम्य योगीन्द्रं कश्यपं प्रययौ ततः । वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥ ३॥ निराहारेण संयुक्ता गणेशध्यानतत्परा । नासाग्रन्यस्तदृष्टिः सा मन्त्रजापं चकार च ॥ ४॥ त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता । तपः प्रभावयोगेन भ्रान्तिहीनाऽभवद्विधे ॥ ५॥ (Page खं. ७ अ. १४ पान ३२) पुत्रपौत्रादिके भावे रसहीना बभूव ह । योगेप्सुः पूर्णभावेनाऽभजत्तं द्विरदाननम् ॥ ६॥ एवं वर्षसहस्रेण योगभूतिपरायणा । शान्तियोगं समासाद्य योगिवन्द्या बभूव सा ॥ ७॥ तथा सा दत्तमार्गं तं दितिः सस्मार चेतसि । भक्त्या विघ्नेश्वरं देवी न मुमोच कदाचन ॥ ८॥ ततः प्रसन्नभावेन तां ययौ गणनायकः । जगादाऽसौ वरान् ब्रूहि ध्यानस्थां मनसेप्सितान् ॥ ९॥ गणेशवचनं श्रुत्वा दितिर्हर्षसमन्विता । उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ॥ १०॥ पुनः प्रणम्य विघ्नेशं सा तुष्टाव कृताञ्जलिः । गणेशं दक्ष ते पुत्री दितिः साश्रुमुखाम्बुजा ॥ ११॥ दितिरुवाच । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥ १२॥ काश्यपाय परेशाय विनायकाय ढुण्ढये । लम्बोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥ १३॥ दीनानां पतये तुभ्यं दीनदीनाय ते नमः । दीनपालकनाथाय हेरम्बाय नमो नमः ॥ १४॥ परेशाय गणेशाय परात्परतमाय ते । परात्पराणां कर्त्रे ते महोदराय वै नमः ॥ १५॥ अनादये च सर्वेषामादिमूर्तिधराय च । आदिपूज्याय सर्वेषामन्तःस्थाय नमो नमः ॥ १६॥ शिवपुत्राय विष्णोश्च पुत्राय परमात्मने । वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥ १७॥ सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये । ज्येष्ठराजतमायैव मात्रे पित्रे नमो नमः ॥ १८॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणां ब्रह्मरूपायैकदन्ताय नमो नमः ॥ १९॥ गजाननाय देवायासुराय समभाविने । योगाकाराय योगिभ्यो योगदाय नमो नमः ॥ २०॥ किं स्तौमि त्वां गणाधीश शान्तीनां शान्तिरूपिणम् । वेदादयः शिवाद्याश्च यत्र शान्तिं प्रलेभिरे ॥ २१॥ अतस्त्वां प्रणमाम्येव सर्वेऽशं तेन विघ्नप । सन्तुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥ २२॥ यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् । भव स्वामिन् दयासिन्धो तेनाऽहं तारिता त्वया ॥ २३॥ आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन । साऽहं कया महाभक्त्या भजिष्यामि निरन्तरम् ॥ २४॥ त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः । तव मातुः कथं मायामयो बन्धः कदाचन ॥ २५॥ भक्तिं त्वच्चरणे ढुण्ढे देहि नित्यं विशेषतः । आसुरीं बन्धहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥ २६॥ एवमुक्त्वा गणाधीशं ननाम दक्षनन्दिनी । दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥ २७॥ विघ्नेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेत् । पठते श‍ृण्वते देवि सर्वसिद्धिप्रदायकम् ॥ २८॥ तव पुत्रो भविष्यामि आसुरीभावनाशकः । त्वं भजिष्यसि मां नित्यं भक्त्या भावपरायणा ॥ २९॥ एवमुक्त्वांऽतर्दधेऽसौ विघ्नेशो ब्रह्मनायकः । दितिः स्वगृहमागत्य प्रणनाम पतिं स्वकम् ॥ ३०॥ (Page खं. ७ अ. १५ पान ३३) वृत्तान्तं कथयामास कश्यपो हर्षितोऽभवत् । श्रुत्वा तां स समालिङ्ग्य जगाद साश्रुलोचनः ॥ ३१॥ कश्यप उवाच । धन्याऽसि कृतकृत्याऽसि सफलस्ते भवो मतः । यया दृष्टो गणाध्यक्षः सर्वेभ्यः शान्तिदायकः ॥ ३२॥ अहो ते ससुतो देवि असुर्याः प्रभविष्यति । महद्भाग्यं गणाधीशो योगिवन्द्या त्वमञ्जसा ॥ ३३॥ तारितोऽहं त्वया नूनं सुस्त्रिया गणपे रतः । धन्यं मे जन्मकर्मादि आसुरी स्वहिते रता ॥ ३४॥ एवमुक्त्वा दितिं विप्रः कश्यपो विरराम ह । दितिः प्रणम्य तं विप्रं सेवायां संस्थिताऽभवत् ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दितिवरप्रदानं नाम चतुर्दशोऽध्यायः ॥ ७.१४

७.१५ चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः सा गणनाथं तं सस्मार हृदि सर्वदा । तन्मयं विश्वमेवेदमालोकयदशेषतः ॥ १॥ एकदा माघमासे तु शुक्लपक्षे गजाननम् । पुपूज मध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् ॥ २॥ मूर्तिमध्याद्गणाधीशः प्रकटोभूच्चतुर्भुजः । अनन्तसूर्यसङ्काशतेजोयुक्तः प्रजापते ॥ ३॥ तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपम् । स्वगुरुं तं तथा देवं गणेशं भक्तिसंयुता ॥ ४॥ गुरोः स्मरणमात्रेण गणेशः सौम्यरूपधृक् । बालरूपो दितिं देवीं जगाद मेघनिःस्वनः ॥ ५॥ श्रीगणेश उवाच । पुत्रोऽहं ते महाभागे वरदानप्रभावतः । मा भयं कुरु कल्याणि पश्य मां सौम्यरूपिणम् ॥ ६॥ ततः सोन्मील्य चक्षुस्तं पश्यति स्म भयातुरा । बालं चतुर्भुजं देवं शुण्डादण्डधरं परम् ॥ ७॥ परश्वादिमहास्त्रैश्च संयुतं चन्द्रशेखरम् । लम्बोदरं चैकदन्तं शेषनाभिसमायुतम् ॥ ८॥ शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् । अमूल्यवस्त्रसंयुक्तं गले चिन्तामणिं धरम् ॥ ९॥ दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता । तुष्टावाऽऽपूज्य विघ्नेशमथर्वशिरसा विभुम् ॥ १०॥ ततस्तं कश्यपो नत्वा प्रार्थयामास शान्तिदम् । बालरूपो भव स्वामिन् येन ते लालनं भवेत् ॥ ११॥ धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते । मम त्वं येन पुत्रोऽभूद्ब्रह्मणां गणनायकः ॥ १२॥ यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः । कथं स मम पुत्रत्वं प्राप्तोऽसीति विडम्बनम् ॥ १३॥ एवं सम्प्रार्थितस्तेन दित्या सोऽपि तथाऽभवत् । चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयम् ॥ १४॥ (Page खं. ७ अ. १५ पान ३४) तं प्रणम्य गणाधीशं कश्यपो हर्षसंयुतः । दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥ १५॥ ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता तयोर्हृदि । पुत्रभावप्रकाशार्थं तथा तौ सम्बभूवतुः ॥ १६॥ स्नापयित्वा दितिर्बालं स्तनपानमकारयत् । जातकर्म चकारैव कश्यपो हर्षसंयुतः ॥ १७॥ द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः । पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥ १८॥ स्वर्गेषु देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले । असुरान् नागकूर्मादीन् स्थापयिष्यति बालकः ॥ १९॥ तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः । चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥ २०॥ मुद्गल उवाच । ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः परे । प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥ २१॥ सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् । देवानां च स्वयं विष्णुः क्रोधयुक्तो बभूव ह ॥ २२॥ इन्द्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः । आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥ २३॥ चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे । केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥ २४॥ शरणं केशवं चैव केचिज्जग्मुः प्रजापते । तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥ २५॥ असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः । दैत्येन्द्रा भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥ २६॥ छिन्नभिन्नकृताङ्गांस्तान् दितिर्दृष्ट्वा शुशोच ह । ततः क्रोधयुतः सोऽपि बभूवे गणनायकः ॥ २७॥ तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः । परशोस्तेजसा सर्वं व्याप्तं पातालमण्डलम् ॥ २८॥ व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे । देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥ २९॥ ततस्तत्र ययौ ब्रह्मा बोधयामास केशवम् । पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥ ३०॥ परशोस्तेजसा तत्र सन्दग्धा इव देवपाः । न शान्तिं प्रलभन्ते स्म हाहाकाररवाकुलाः ॥ ३१॥ ततः शम्भू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् । परशुं भयसंयुक्ता देवैर्मुनिगणैः सह ॥ ३२॥ शान्तियुक्तं महास्त्रं तद्बभूवे च प्रजापते । ततो देवेन्द्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥ ३३॥ तं प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः । नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसम्पुटाः ॥ ३४॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥ ३५॥ परेशाय परेषां च पतये परमात्मने । विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ ३६॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ ३७॥ क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥ ३८॥ गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप । ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥ ३९॥ न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः । चतुर्षु ते पञ्चमाय हेरम्बाय नमो नमः ॥ ४०॥ (Page खं. ७ अ. १५ पान ३५) स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । एकदन्ताय देवायासुराय ते नमो नमः ॥ ४१॥ अनाथानामनाथाय सनाथानां सनाथक । ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥ ४२॥ ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे । देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥ ४३॥ किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् । अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥ ४४॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥ ४५॥ चतुर्भुज उवाच । वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥ ४६॥ स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् । पठतां श‍ृण्वतां चैव भयनाशकरं परम् ॥ ४७॥ विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः । धनधान्यादिकं चान्ते मल्लोकं पठनात् परम् ॥ ४८॥ एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः । भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ ४९॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज । तदा ते पादपद्मे वै भक्तिरस्तु निरन्तरम् ॥ ५०॥ आज्ञां कुरु महाभाग तथा वर्तामहे वयम् । दितिजदैत्यसन्त्रासतापिताः सततं वयम् ॥ ५१॥ चतुर्भुज उवाच । अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् । मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥ ५२॥ स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा । पाताले दानवादीनां स्वधर्मस्था भवन्तु ते ॥ ५३॥ यदि भूत्वा विपथगा इमे गर्वेण मोहिताः । सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥ ५४॥ तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः । तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥ ५५॥ चतुर्भुजश्च दैत्येन्द्रान् सर्वानाज्ञापयत् प्रभुः । ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥ ५६॥ ततश्चतुर्भुजो देवोंऽतर्दधे च प्रजापते । कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥ ५७॥ पितरौ वाक्यमूचे सा वाणी चाऽकाशसम्भवा । स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥ ५८॥ तथा चकार दित्या स कश्यपो ब्राह्मणैः सह । स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥ ५९॥ हृदि चिन्तामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् । संस्थितौ भक्तिसंयुक्तौ दितिकश्यपकौ किल ॥ ६०॥ आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता । गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥ ६१॥ एतच्चतुर्भुजस्यैव चरितं कथितं मया । विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥ ६२॥ य इदं श‍ृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु । भुक्तिं मुक्तिं लभेद्ब्रह्म भक्तिं विघ्नेश्वरे पराम् ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१५ (Page खं. ७ अ. १६ पान ३६)

७.१६ चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दैत्येन्द्रा बलसंयुताः । देवान् जेतुं प्रसन्नद्धा बभूवुः क्रोधसंयुताः ॥ १॥ प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम् । आययुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥ २॥ तानुवाच स्वयं देवी दितिः क्रोधसमन्विता । मा गच्छत महादुष्टाः धर्मं सन्त्यज दैत्यपाः ॥ ३॥ चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु । पातालविवरेष्वत्र यूयं राज्यसमन्विताः ॥ ४॥ प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः । ययुर्देवजयार्थं ते ह्यधर्मेण प्रणोदिताः ॥ ५॥ दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम् । पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥ ६॥ एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता । अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥ ७॥ दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम् । योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥ ८॥ विनताद्यास्तथा दक्ष कश्यपेनोपदेशिताः । शान्तियुक्ता गणेशानमभजन् प्रेमसंयुताः ॥ ९॥ दक्ष उवाच । दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने । कथं गणेश्वरं भक्त्या भजन्ति वद मानवाः ॥ १०॥ मुद्गल उवाच । सकामिकं करोति चेन्नरः कर्म यथाविधि । आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥ ११॥ निष्कामिकं करोति चेन्नरः दैवं प्रकीर्तितम् । विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥ १२॥ स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं परम् । देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥ १३॥ तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम् । भक्तिभावार्थमानन्दात् सस्त्रीको मुनिराकरोत् ॥ १४॥ एतत्ते कथितं सर्वं विघ्नराजचरित्रकम् । सर्वसिद्धिप्रदं पूर्णं शान्तिदं भक्तिकारणम् ॥ १५॥ एवं नानाऽवताराश्च विघ्नराजस्य मानद । तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥ १६॥ अयं विघ्नेश्वरो देवः समस्वानन्दगो भवेत् । सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥ १७॥ पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः । तस्यार्थं श‍ृणु भावेन ब्रह्मबुद्धिप्रकाशकम् ॥ १८॥ सम्प्रज्ञातमयं ब्रह्माऽसम्प्रज्ञातगतं तथा । भ्रमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥ १९॥ भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम् । ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥ २०॥ विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते । विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणां च निरन्तरम् ॥ २१॥ स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते । एवं ज्ञात्वा नरो ब्रह्मभूतो भवति विघ्नपम् ॥ २२॥ इदं वैघ्नेश्वरं चित्रं चरितं संश‍ृणोति यः । पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ २३॥ प्रसन्ने विघ्नराजेन्द्रे किं किं वै दुर्लभं भवेत् । सर्वसिद्धियुतः सोंऽते नरो ब्रह्मैव जायते ॥ २४॥ नानेन सदृशं किञ्चित् पावनं कुत्र वर्तते । भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥ २५॥ पञ्चाग्निसाधनादीनि तपांसि विविधानि यः । (Page खं. ७ अ. १६ पान ३७) कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥ २६॥ तीर्थानि विविधान्येव साधयित्वा फलं लभेत् । तेभ्योऽधिकं लभेत् पुण्यं खण्डस्यास्य श्रवान्नरः ॥ २७॥ यज्ञानां साङ्गजातानां फलं तस्मात् प्रजापते । अधिकं श्रवणादस्य लभेत् खण्डस्य मानवः ॥ २८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥ २९॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः । आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥ ३०॥ वन्ध्यादिदोषभावेन पीडितो यदि मानवः । अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥ ३१॥ यस्य गेहे स्थितश्चायं खण्डो विघ्नेशभक्तिदः । कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥ ३२॥ नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा । ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥ ३३॥ धर्मार्थकाममोक्षाणां दायकोऽयं प्रकीर्तितः । ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥ ३४॥ बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् । संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥ ३५॥ इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् । भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥ ३६॥ न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् । साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥ ३७॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ ३८॥ मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् । यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥ ३९॥ भवतां सङ्गयोगेन पावितोऽहं न संशयः । श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥ ४०॥ विघ्नराजसमं नैव यथा विप्र तथा परम् । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ ७.१६ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे सप्तमः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 7 Vighnarajacharitam
% File name             : mudgalapurANam7.itx
% itxtitle              : mudgalapurANaM khaNDaH 7 vighnarAjacharitam
% engtitle              : Mudgala Purana Khanda 7 Vighnarajacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org