मुद्गलपुराणं खण्डः ८ धूम्रवर्णचरितम्

मुद्गलपुराणं खण्डः ८ धूम्रवर्णचरितम्

॥ मुद्गलपुराणं खण्डः ८॥ ॥ अथ श्रीमुद्गलपुराणे अष्टमः खण्डः प्रारभ्यते ॥ (Page खं. ८ अ. १ पान १)

८.१ अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विघ्नराजचरित्रं तु श्रुतं सर्वप्रदं परम् । ममनाशकरं पूर्णं त्वत्तोऽस्माभिर्महामते ॥ १॥ धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितम् । व्यासाधिकोऽथवा किं नु शिष्यस्तस्य महात्मनः ॥ २॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते तत् कथामृतम् । माहात्म्यं धूम्रवर्णस्याधुना वद सुखप्रदम् ॥ ३॥ सूत उवाच । श‍ृणु शौनक माहात्म्यं धूम्रवर्णस्य सर्वदम् । यथा व्यासाच्छ्रुतं पूर्णं तथा ते कथयाम्यहम् ॥ ४॥ श्रुत्वा विघ्नेशमाहात्म्यं दक्षो हृष्टमना अभूत् । प्रणम्य मुद्गलं सोऽपि पप्रच्छ विनयान्वितः ॥ ५॥ दक्ष उवाच । विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदम् । न तृप्तोऽहं महायोगिन्नमृतादधिकं यतः ॥ ६॥ अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तरात् । कीदृशांऽशमयश्चायं गणेशो धूम्रवर्णकः ॥ ७॥ कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते । कति तस्यावताराश्च किं कर्मा कीदृशं महः ॥ ८॥ केन संसाधितो देवो देहधारी बभूव ह । कं दैत्यं वशमानीय धर्ममास्थापयत् प्रभुः ॥ ९॥ इत्यादि सर्वमाहात्म्यं वद योगीन्द्र सत्तम । ब्रह्माण्डे त्वत्समं नास्ति ब्रह्मदायकपात्रकम् ॥ १०॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलः शौनकोऽब्रवीत् । दक्षं हृष्टमनाः साक्षात् ज्ञात्वा भक्तियुतं परम् ॥ ११॥ मुद्गल उवाच । दक्ष त्वं योगिवन्द्योऽसि निश्चितं सर्वभावतः । नान्यथा गणनाथस्य कथायां जायते रसः ॥ १२॥ धूम्रवर्णावतारस्य चरितं सर्वसिद्धिदम् । कथयिष्यामि भक्त्या ते समासेन प्रजापते ॥ १३॥ विस्तरेण शिवाद्याश्च वेदाद्या न बभूविरे । समर्थास्तत्र कोऽहं तु स्वल्पज्ञानप्रधारकः ॥ १४॥ अत्र ते कथयिष्यामि चेतिहासं पुरा भवम् । शेषस्य शङ्करस्यैव संवादेन समन्वितम् ॥ १५॥ प्रणम्य शेषनागश्च एकदा शङ्करं पुरा । पप्रच्छ सिद्धिदं पूर्णं सर्वज्ञं करुणानिधिम् ॥ १६॥ त्वत्तः परतरं नास्ति वेदश्रुतिप्रमाणतः । त्वं ध्यानसंयुतः स्वामिन् भजसे कं शिवं परम् ॥ १७॥ अतः संशययुक्तोऽहं पृच्छामि सर्वभावतः । किं मोहार्थं महेशान करोषि चेष्टितं नवम् ॥ १८॥ मुद्गल उवाच । एवं पृष्टः शिवः साक्षात्तमुवाच सुहर्षितः । भक्तं योगप्रियं दृष्ट्वा साधु चेष्टासमन्वितम् ॥ १९॥ शिव उवाच । एवं पृष्टोऽहमेकान्ते सनकाद्यैर्महाप्रियैः । तत्तेऽहं श‍ृणु वक्ष्यामि ज्ञानं गाणेशबोधकम् ॥ २०॥ एकदा सनकाद्याश्च दृष्ट्वा मां नियमे रतम् । पप्रच्छुस्त्वं यथा शेष तथा संशयसंयुताः ॥ २१॥ सनकाद्या ऊचुः । महेश्वरो भवान् साक्षात्तवेशो नैव विद्यते । कं ध्यायसि महादेव मिथ्या मोहप्रदायक ॥ २२॥ तेषां तद्वचनं श्रुत्वा हर्षितोऽहं च काश्यप । ऊचे योगं गणेशाख्यं पूर्णशान्तिप्रदायकम् ॥ २३॥ ईशत्वमनीशत्वं च मायायुक्तं न संशयः । ब्रह्मणि ब्रह्मभूतस्य कथं तद्वर्तते द्विजाः ॥ २४॥ (Page खं. ८ अ. १ पान २) येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् । जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥ २५॥ अहङ्कारयुताः सर्वे न जानन्ति गजाननम् । तं जित्वाऽहं मुनीन्द्राश्च सेवे तस्य पदद्वयम् ॥ २६॥ शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् । विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥ २७॥ सनकाद्या ऊचुः । अभिमानं महादेव जेतुं नैव प्रशक्यते । वेदादिभिः च देवेशैरस्माभिश्चान्ययोगिभिः ॥ २८॥ नरोऽहं देवरूपोऽहं आत्माहं स्वस्वरूपकः । ब्रह्माहं च महेशान अहं तेषु प्रतिष्ठितः ॥ २९॥ अहं केनैव योगेन सदाशिव जितस्त्वया । वद तस्य चरित्रं नो विस्तरेण सुशान्तिदम् ॥ ३०॥ श्रीशिव उवाच । अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह । महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥ ३१॥ अहं नास्ति तथा ब्रह्म नेति ब्रह्माहमञ्जसा । बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥ ३२॥ ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् । न बुद्धं वचनं नाथ त्वदीयं दुर्गमं परम् ॥ ३३॥ अतः सुलभयोगेन वद योगं महेश्वर । दयया शिष्यमुख्यांश्च तारणाय सुशान्तिदम् ॥ ३४॥ श्रीशिव उवाच । अत्र वः कथयिष्यामि चेतिहासं पुरातनम् । अहम्भावविनाशार्थमहङ्कारस्य सौख्यदम् ॥ ३५॥ एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् । ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥ ३६॥ स प्राप्य राज्यमुग्रं तत् कर्मणां ज्योतिषां पतिः । अभिमानयुतोऽत्यन्तं बभूवे देवदेवपः ॥ ३७॥ कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः । पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥ ३८॥ कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च । कर्माधीनं जगत् सर्वं सेश्वरं नात्र संशयः ॥ ३९॥ सोऽहं कर्ममयो देवः कर्मणां चालकः परः । मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥ ४०॥ अहङ्कारेण संयुक्तश्छिक्कां चक्रे कदा प्रभुः । तस्य च्छिक्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥ ४१॥ स पपात महीपृष्ठे न ज्ञातस्तेन भानुना । महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥ ४२॥ तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः । पप्रच्छ हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥ ४३॥ शुक्र उवाच । कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद । माता पिता च ते त्राता कः किं मत्त इहेच्छसि ॥ ४४॥ पुरुष उवाच । सूर्यपुत्रो द्विजश्रेष्ठ तस्य च्छिक्कासमुद्भवः । अनाथोऽहं महाभाग पतितो धरणीतले ॥ ४५॥ त्वं दयायुक्तभावेन मां पृच्छसि न संशयः । त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम ॥ ४६॥ श्रीशिव उवाच । तस्य तद्वचनं श्रुत्वा शुक्रो योगविदांवरः । ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥ ४७॥ शुक्र उवाच । अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः । अहन्नामा भवस्वाद्य तपः कुरु महामते ॥ ४८॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । (Page खं. ८ अ. २ पान ३) मन्त्रं विधिसमायुक्तं ततः सोंऽतर्हितोऽभवत् ॥ ४९॥ अहं तत्र तपस्तेपे ध्यात्वा गणपतिं हृदि । निराहारपरो भूत्वा जपमन्त्रपरायणः ॥ ५०॥ शीतोष्णवातवर्षादिसहने दृढनिश्चयः । जित्वा खानि प्रयत्नेन तोषयामास विघ्नपम् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ ८.१

८.२ अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । एवं वर्षसहस्रेण तं दिव्येन गजाननः । ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥ १॥ आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः । चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिबुद्धियुक् ॥ २॥ एकदन्तः शूर्पकर्णो देवैर्मुनिसमन्वितैः । संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥ ३॥ तं दृष्ट्वाऽहं समुत्थाय प्रणनाम कृताञ्जलिः । पूजयामास विघ्नेशं सिद्धिबुद्धिसमन्वितम् ॥ ४॥ ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् । प्रणनाम प्रतुष्टाव गणेशं प्रकृताञ्जलिः ॥ ५॥ अहमुवाच । नमस्ते गणनाथाय हेरम्बाय परात्मने । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ ६॥ ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे । साङ्ख्याय ते परत उत्थानस्थेषु नमो नमः ॥ ७॥ ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः । देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः ॥ ८॥ स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते । संहर्तृषु शिवायैवैकदन्ताय नमो नमः ॥ ९॥ प्रकाशकेषु सूर्याय मोहकेषु च शक्तये । देवेषु देवराजाय विनायकाय ते नमः ॥ १०॥ अग्नये ते दाहकेषु यमाय नीतिधारिणाम् । रक्षःसु नैरृतायैव शूर्पकर्णाय ते नमः ॥ ११॥ वायवे बलयुक्तेषु निधिषु धनपाय ते । रुद्रेषु कालरूपाय नमो लम्बोदराय वै ॥ १२॥ प्रजापतिषु दक्षाय नागेशे शेषरूपिणे । अनन्तविभवायैव किं ते स्तौमि नमो नमः ॥ १३॥ यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः । तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥ १४॥ धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता । माता कुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ १५॥ एवमुक्त्वा गणेशानं प्रणनाम महासुरः । हर्षेण महता युक्तस्तमुवाच गजाननः ॥ १६॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते श‍ृण्वते चैव मयि भावप्रदायकम् ॥ १७॥ (Page खं. ८ अ. २ पान ४) पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः । अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥ १८॥ वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् । तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥ १९॥ अहमुवाच । प्रसन्नोऽसि यदा नाथ भक्तिं देहि त्वदीयिकाम् । यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥ २०॥ मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् । राज्यं ब्रह्माण्डगोलस्य देहि मे भोगसंयुतम् ॥ २१॥ आरोग्यं विजयं ढुण्ढे सङ्ग्रामे ह्यतुलं तथा । अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि भोः ॥ २२॥ तथेति तमहं देवो जगाद गणनायकः । अन्तर्धाय स्वमात्मानं निजलोकं जगाम ह ॥ २३॥ ततोऽतिहर्षसंयुक्तोऽहं जगाम कविं पुनः । तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् ॥ २४॥ श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् । असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥ २५॥ तस्याज्ञया त्वरावन्तो मुनिं सर्वे समागताः । असुरांस्तान् महातेजा हितं काव्यो जगाद वै ॥ २६॥ अहमासुरवृत्तान्तं श्रुत्वा ते शुक्रवक्त्रतः । हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥ २७॥ असुरा ऊचुः । आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो । करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥ २८॥ तेषां वचनमाकर्ण्य काव्यः सर्वार्थकोविदः । ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥ २९॥ तैरहं सिञ्चयामासासुराणां राज्यकर्मणि । यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥ ३०॥ प्रधानास्तस्य पञ्चाऽसन् सुदृढास्तेजसा युताः । शङ्खो वेदघ्नकः कालः पैशुनोऽधर्मधारकः ॥ ३१॥ नगरं निर्ममे सोऽपि विषयप्रियनामकम् । अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥ ३२॥ समायाता निवासार्थं जना वर्णाश्रमान्विताः । असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥ ३३॥ प्रमादासुरपुत्रीं वै ममतां रूपशालिनीम् । तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥ ३४॥ ममतासंयुतो रेमे दैत्येन्द्रोहं प्रहर्षितः । मोहितो मायया तस्या ममताया वशे स्थितः ॥ ३५॥ तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः । गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥ ३६॥ एवं बहौ गते काले तमुवाच प्रमादकः । किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥ ३७॥ वरदानबलेन त्वं निर्भयोऽसि न संशयः । वराणां सफलं सर्वं कुरु भोगपरं महः ॥ ३८॥ तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् । समानाय्य कविं तत्र पूजयामास दैत्यपैः ॥ ३९॥ तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् । तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः ॥ ४०॥ दिग्जयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः । सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ८.२ (Page खं. ८ अ. ३ पान ५)

८.३ अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । रथारूढः स्वयं तत्राहं निर्जगाम दैत्यपैः । पुत्रौ तथा प्रधानाश्च सन्नद्धा असुरा ययुः ॥ १॥ नाना वर्णा महाक्रूराः कालस्य भयदायकाः । नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥ २॥ चतुरङ्गचमूमध्ये शुशुभे दैत्यनायकः । अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥ ३॥ शङ्खादयो महावीरा नृपान् जग्मुः सुदारुणाः । जित्वा राजकुलं सर्वं समाजग्मुर्महासुरम् ॥ ४॥ नृपास्तैः किं द्विजा युद्धं करिष्यन्ति महाबलैः । मृताः केचित् क्षताः केचित् केचित्तान् शरणं ययुः ॥ ५॥ करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् । स्थापयामासुरव्यग्रान् दैत्येन्द्रा हर्षसंयुताः ॥ ६॥ सप्तद्वीपवतीं जित्वा पृथ्वीं पातालमाययुः । दैत्येन्द्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥ ७॥ शेषो नागयुतस्तेषां शरणं समुपागतः । ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥ ८॥ वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ । नागेन्द्रैः संवृतः शेषो दुःखयुक्तेन चेतसा ॥ ९॥ तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् । समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥ १०॥ ततो दैत्येन्द्रसंयुक्तः काव्येनाऽहम्प्रतापवान् । स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥ ११॥ दूतं सम्प्रेषयामासाहमिन्द्रस्यैव सन्निधौ । स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥ १२॥ ततः क्रोधसमायुक्त इन्द्रो देवेन्द्रमुख्यकैः । विचार्याङ्गिरसं सर्वैर्जगाम प्रणनाम तम् ॥ १३॥ तेनापि सत्कृतः सोऽपि जगाद वचनं परम् । सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥ १४॥ इन्द्र उवाच । अहं वरसमायुक्तः समायातो महाबलः । दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥ १५॥ अतः सुरैः समायुक्तो भवन्तं सर्ववेदिनम् । समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥ १६॥ गुरुरुवाच । गणेशवरदानेन मत्तोऽसौ नात्र संशयः । जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥ १७॥ अतो वयं विधातारं व्रजामहे त्वरान्विताः । स श्रेष्ठः सर्वभावेन करिष्यति हितं च नः ॥ १८॥ ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः । प्रणम्य तं जगुः सर्वे वृत्तान्तं दैत्यसम्भवम् ॥ १९॥ श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शङ्करं ययौ । तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥ २०॥ जगाम सोऽपि निःश्वस्य तैः सार्धं विष्णुमादरात् । प्रणम्य कथयामास वृत्तान्तं दुःखदायकम् ॥ २१॥ श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य महेश्वरम् । सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥ २२॥ श्रीविष्णुरुवाच । हनिष्यामि महादैत्यमहं चासुरसंयुतम् । मायायुक्तत्वमेवं यन् मम तन्न प्रबाधते ॥ २३॥ एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् । देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम् ॥ २४॥ अहङ्कारासुरस्तत्र ज्ञात्वा वृत्तान्तमादरात् । प्रविवेशामरावत्यां दैत्येन्द्रैर्हर्षसंयुतः ॥ २५॥ इन्द्रासनसमारूढः सेव्यमानोऽप्सरोगणैः । (Page खं. ८ अ. ३ पान ६) गन्धर्वैर्गीयमानः स शुशुभे परमश्रिया ॥ २६॥ ततो देवपदेषु संस्थापयामास चासुरान् । स्वर्गभोगं चकारैवं दैत्येन्द्रैः श्वशुरेण च ॥ २७॥ ततः स दैत्यसङ्घैस्तैः सन्नद्धः प्रययौ द्विजाः । ब्रह्मलोकं महोग्रस्तं विधिहीनं ददर्श ह ॥ २८॥ विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः । ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥ २९॥ ततः स दैत्यपैः सर्वं ज्ञात्वा वृत्तान्तमञ्जसा । कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥ ३०॥ तत्र विलाससंयुक्तो बुभुजे विविधान् परान् । विकुण्ठ विजयार्थं स प्रययौ दैत्यपैर्वृतः ॥ ३१॥ दूतं सम्प्रेषयामास कालं सर्वभयङ्करम् । स गत्वा केशवं नत्वा जगौ वै वाक्यमुल्बणम् ॥ ३२॥ काल उवाच । अहं त्वसुरसंयुक्त आययौ स महाबलः । तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥ ३३॥ त्यक्त्वा विकुण्ठं देवेशैर्गच्छ त्वं यत्र ते रुचिः । नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥ ३४॥ कालस्य वचनं श्रुत्वा केशवः क्रोधसंयुतः । जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥ ३५॥ श्रीविष्णुरुवाच । किं मां पापस्वरूपस्त्वं वदसि मन्दविक्रम । हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥ ३६॥ गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम । स्वपदं त्यज्य दैत्येशाधीनोऽहं किं भवामि तु ॥ ३७॥ ततोऽहङ्कारकं गत्वा कालासुरः प्रतापवान् । वृत्तान्तं कथयामास दैत्येन्द्रैः संयुतं परम् ॥ ३८॥ श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे । अहङ्कारासुरेणैव युक्ता युद्धोद्यता बभुः ॥ ३९॥ तान्निवार्य महाबाहुरहं क्रोधसमन्वितः । जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावहम् ॥ ४०॥ अहमुवाच । किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः । अमोघास्त्र वरैर्युक्तः करिष्याम्यधुना सुखम् ॥ ४१॥ एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः । मुमोचाग्निमयं चास्त्रं सम्मन्त्र्य क्रोधसंयुतः ॥ ४२॥ सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् । विकुण्ठं दाहयामास देवान् सर्वान् समन्ततः ॥ ४३॥ ततः क्षोभयुता देवास्तत्त्यजुर्वरुणास्त्रकम् । तेनैव तन्न शान्तं तु बभूवे तेजसान्वितम् ॥ ४४॥ ततः खेदयुताः सर्वे पपलुर्भयसंयुताः । पीडिता अग्निनाऽत्यन्तं त्यक्त्वा वैकुण्ठमेव च ॥ ४५॥ वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि । चन्द्रेण संयुतः सोऽपि जलं सृष्ट्वा व्यवस्थितः ॥ ४६॥ जलेन न च शान्तोऽभूदग्निः परमदारुणः । दाहयुक्तः पपालाऽसौ वरुणश्चन्द्रसंयुतः ॥ ४७॥ ततः शक्तिः समायाता महास्त्रं वरुणात्मकम् । मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥ ४८॥ घृतेन संयुतस्तत्र यथाग्निर्जलसंयुतः । जज्वाल मायया तस्याऽहङ्कारस्य विशेषतः ॥ ४९॥ ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् । क्रुद्धो भानुः स्वयं तत्राऽजगाम क्रोधसंयुतः ॥ ५०॥ सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे । पूर्ववद्दाहसंयुक्तः पपाल च दिवाकरः ॥ ५१॥ (Page खं. ८ अ. ३ पान ७) ततः शिवः स्वयं तद्वद्ययौ क्रोधसमन्वितः । हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥ ५२॥ ततोऽतिखेदसंयुक्तो विष्णुः स्वयमुपागतः । तत्याज वारुणं शस्त्रं स्वसत्तासंयुतं परम् ॥ ५३॥ तथापि न स शान्तोऽभूदग्निः परमदारुणः । जज्वालातीव सर्वत्र दाहयामास देवपान् ॥ ५४॥ ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः । विष्णुना संयुताः सर्वे देवेशाः पपलुर्भयात् ॥ ५५॥ गत्वा गिरिगुहासंस्था बभूवुर्भयसङ्कुलाः । कन्दादिभक्षयन्तस्ते दिवसानतिचक्रमुः ॥ ५६॥ ज्ञात्वा वृत्तान्तमेवाहं समाहृत्य स्वशस्त्रकम् । आग्नेयमगमद्दैत्यैर्विकुण्ठं हर्षसंयुतः ॥ ५७॥ तत्र स्थित्वाभिमानी स परां मेने कृतार्थताम् । न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥ ५८॥ ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः । श्रेष्ठं विकुण्ठनाथं च स चक्रे पुत्रमुत्तमम् ॥ ५९॥ पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् । प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥ ६०॥ शङ्खमिन्द्रपदस्यैव नाथं चक्रे महासुरः । कालं यमस्य लोकस्य कमलं वरुणस्य च ॥ ६१॥ कुबेरस्य पदे स्थाप्याऽधर्मधारकमादरात् । ततः स्वनगरं सर्वैः समाययौ महाबलः ॥ ६२॥ तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् । अहं मेने न किञ्चिद्वै समं भाग्येन तेजसा ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः ॥ ८.३

८.४ देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । दैत्योऽहङ्कारकोऽत्यन्तं परस्त्रीलालसस्ततः । बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥ १॥ देवकन्या नराणां च स्त्रियः कन्या विशेषतः । समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥ २॥ मद्यमांसपरोऽत्यन्तं बभूव द्विजसत्तमाः । गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥ ३॥ एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः । दैत्येन्द्रैः प्रेरितः सर्वैः कृत्वा करपुटं वचः ॥ ४॥ अधर्मधारक उवाच । जितं त्वया महाभाग ब्रह्माण्डं लोकसङ्कुलम् । जगदीशस्त्वमेवैको नान्यः कश्चन विद्यते ॥ ५॥ देवा विष्णुमुखाः सर्वे भवन्ति वनसंस्थिताः । प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥ ६॥ शस्त्रादिभिश्च देवेन्द्रा मरिष्यन्ति कदापि न । अमरा वेदवादेषु कथिता पश्य मानद ॥ ७॥ कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप । मरिष्यन्ति न सन्देहः कर्मणः खण्डनं कुरु ॥ ८॥ (Page खं. ८ अ. ४ पान ८) जित्वा त्रिलोकराज्यं च कर्तारो बहवोऽभवन् । असुराः कालयोगेन देवेन्द्रैर्निहताः पुरा ॥ ९॥ अतश्छिद्रं समालोक्य त्वां हनिष्यन्ति देवपाः । अहं तेषां विनाशार्थं यतस्वासुरनायकैः ॥ १०॥ अधर्मधारकस्यैव वचः श्रुत्वा महासुराः । साधु साधु ब्रुवन्ति स्म शङ्खाद्यास्तत्र संसदि ॥ ११॥ ततोऽहङ्कारको हृष्टो जगाद वचनं हितम् । साधु प्रोक्तं त्वया दैत्य कुरु सर्वैः समन्वितः ॥ १२॥ हृष्टो दैत्यसमूहैः स युक्तो जगाम हर्षितः । अधर्मधारको भूम्यां चकार कर्मखण्डनम् ॥ १३॥ कर्मखण्डनभावेन हाहाकाररवाकुलाः । जना वर्णाश्रमैर्हीनाः कृतास्तेन दुरात्मना ॥ १४॥ देवतायतनादीनि खण्डयामास सर्वतः । क्षेत्राणि च गणेशस्य मूर्तीः सर्वास्तथा द्विजाः ॥ १५॥ सर्वत्राऽहम्प्रतिमाश्च स्थापिता भूमिमण्डले । पूजका राक्षसास्तत्र कृतास्तेन सुपापिना ॥ १६॥ गृहे गृहेऽभिमानस्य प्रतिमा मानवैः किल । पूज्याः कृता द्विजास्तेनाऽऽसुरं कर्म प्रवर्तितम् ॥ १७॥ कृत्वाऽधर्मधरः कार्यं प्रययौ तं सुहर्षितः । तेनातिपूजितः सोऽपि परां मेने कृतार्थताम् ॥ १८॥ एवं कर्मणि नष्टे तु वर्णसङ्कररूपिणः । जना जातास्ततो देवा दुःखयुक्ता बभूविरे ॥ १९॥ मुनिभिः सहिताः सर्वे देवाश्चोपोषणान्विताः । विचारं चक्रुरे तस्य नाशार्थं दैत्यपस्य ते ॥ २०॥ ततो ब्रह्मा महेशाद्यानुवाच खेदसंयुतः । मायायुक्ता वयं सर्वे जितास्तेन दुरात्मना ॥ २१॥ माया नानाविधा विप्र वेदेष्वत्र न संशयः । तया हीनो गणेशानो नान्यः कश्चन विद्यते ॥ २२॥ पञ्चचित्तमयी बुद्धिः पञ्चभ्रान्तिकरी तथा । सिद्धिस्तयोः पतिः सोऽपि मायिको गणनायकः ॥ २३॥ सिद्धिर्बुद्धिः परा माया न तयोर्विद्यते परा । अतो विघ्नेश्वरो दैत्यं हनिष्यति न संशयः ॥ २४॥ गणेशवरदानेन मत्तोऽसौ दैत्यनायकः । विस्मृतो गणनाथं तं मन्त्रं त्यक्त्वा स्थितोऽभवत् ॥ २५॥ गणेशक्षेत्रकाण्येव खण्डयामास दुर्मतिः । गणेशपूजनं सर्वं कर्मस्वादौ विशेषतः ॥ २६॥ अतो विघ्नसमायुक्तं जातं तं देवसत्तमाः । अस्माभिः पूजितो ढुण्ढिर्हनिष्यति महासुरम् ॥ २७॥ अधुनैकाक्षरं मन्त्रं जप्त्वा ध्यात्वा गजाननम् । पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः ॥ २८॥ श्रीशिव उवाच । ब्रह्मणो वचनं श्रुत्वा देवा मुनिसमन्विताः । साधु साधु ब्रुवन्ति स्म तथा चक्रुः सहेश्वराः ॥ २९॥ निराहारसमायुक्ता एकाक्षरविधानतः । तोषयामासुरत्यन्तं भक्तियुक्ता गणेश्वरम् ॥ ३०॥ एवं वर्षशते पूर्णे प्रसन्नो गणनायकः । ययौ तान् देवमुख्यांश्च वरदो मुनिसत्तमान् ॥ ३१॥ मूषकोपरि संस्थं ते ददृशुर्द्विरदाननम् । प्रणेमुर्हर्षसंयुक्ताः पूजयामासुरादरात् ॥ ३२॥ पुनः प्रणम्य विघ्नेशं देवा मुनिसमन्विताः । तुष्टुवुर्गणनाथं ते धूम्रवर्णं प्रहर्षिताः ॥ ३३॥ देवर्षय ऊचुः । धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे । गणेशाय परेशाय परात्पराय ते नमः ॥ ३४॥ (Page खं. ८ अ. ४ पान ९) लम्बोदराय विघ्नानां पतये ते नमो नमः ॥ ३४॥ विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ ३५॥ अनादये विशेषेण ज्येष्ठाय सर्वपूजित । मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ ३६॥ नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने । ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ ३७॥ महोरूपाय देवाय देवदेवेशरूपिणे । देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ ३८॥ आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः । सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ ३९॥ शूर्पकर्णाय शूराय वीराय परमात्मने । चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ ४०॥ कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे । स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ ४१॥ यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः । गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ ४२॥ वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि । धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ ४३॥ धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् । अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ ४४॥ एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः । उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ ४५॥ धूम्रवर्ण उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागाः पठेत श‍ृण्वते परम् ॥ ४६॥ पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा । यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ ४७॥ वरान् वृणुत देवेशा मुनयो मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ ४८॥ गणेशवचनं श्रुत्वा देवर्षयः प्रणम्य तम् । जगुः प्ररुष्टभावेन देवदेवेशमादरात् ॥ ४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदाहङ्कारकं दैत्यं जहि सर्वज्ञ ते नमः ॥ ५०॥ सर्वेभ्यो दुःखदाता स कर्मखण्डनकारकः । स मृतश्चेद्गणाधीश भविष्यति तदा सुखम् ॥ ५१॥ मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः । मरिष्यति न सन्देहस्तस्मात्तं जहि मानद ॥ ५२॥ अस्मै त्वयाऽभयं दत्तं तेन सर्वे पराजिताः । वयं ते शरणं प्राप्ता रक्ष रक्ष महाप्रभो ॥ ५३॥ तव पादे दृढां भक्तिं देहि नोऽव्यभिचारिणीम् । तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् ॥ ५४॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः । तथेति तानथोक्त्वाऽसावन्तर्धानं चकार ह ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः ॥ ८.४ (Page खं. ८ अ. ५ पान १०)

८.५ अहङ्कारपराजयो नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । ततो देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः । हर्षयुक्ता विशेषेण मेनिरे चासुरं हतम् ॥ १॥ कालभावं प्रतीक्षन्तः स्थितास्तत्त्रैव विघ्नपम् । अभजंस्ते मुदा युक्ता गाणपत्यप्रियात्मकाः ॥ २॥ धूम्रवर्णः स्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः । जगाम दैत्यनाथस्य भयदः सर्वभावतः ॥ ३॥ स शोकसंयुतः प्राप्तः समुत्थाय महासुरान् । समानाय्य स्वयं स्वप्नं कथयामास विस्तरात् ॥ ४॥ अहमुवाच । शङ्खमुख्याः श‍ृणुत यत् स्वप्ने दृष्टं भयङ्करम् । धूम्रवर्णो गणेशानः क्रोधयुक्तो बभूव ह ॥ ५॥ तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे । दाहयामास शस्त्राण्यस्त्राणि कुण्ठानि चाऽभवन् ॥ ६॥ पराक्रमविहीनोऽहं कृतस्तेन महात्मना । देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह ॥ ७॥ अतः स्वल्पेन कालेन भविष्यत्यशुभं ध्रुवम् । तदर्थं यत्नसंयुक्ता भवध्वं दैत्यनायकाः ॥ ८॥ अभिमानवचः श्रुत्वा तं पुनर्दैत्यनायकाः । जगुः खेदसमायुक्ता वचनं हितकारकम् ॥ ९॥ दैत्येन्द्रा ऊचुः । मा कुरुष्व वृथा चिन्तामशुभं ते कथं भवेत् । वरदानप्रभावेण निर्भयोऽस्यसुरेश्वर ॥ १०॥ स्वप्नः सदा जनानां तु भवत्यत्र न संशयः । जागृतौ नश्वरः सोऽपि तत्र किं दुःखदं भवेत् ॥ ११॥ स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव वा । जागर्ति चेत् स्वयं जन्तुर्न किञ्चित् पश्यतीत्यहो ॥ १२॥ एवं हास्यादिकं कृत्वा समाश्वास्यासुरोत्तमम् । असुराः स्वगृहं गत्वा शौचादिकं प्रचक्रिरे ॥ १३॥ अथ श‍ृणुत विप्रेन्द्राश्चरितं विघ्नपस्य च । अकस्मात् धूम्रवर्णः स ययौ तत्र महाबलः ॥ १४॥ पञ्चयोजनदूरे स नगराद्दैत्यपस्य च । संस्थितस्तत्र विप्रेन्द्रो नारदः सहसाऽऽगतः ॥ १५॥ दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः । गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः ॥ १६॥ तमुवाच गणाधीशो गच्छ त्वं दैत्यमन्दिरम् । अहङ्कारं वदस्वर्षे वाक्यं सामकरं महत् ॥ १७॥ देवाः स्वस्थानगाः सन्तु जनाः स्वाचारसंयुताः । नागाः स्वराज्यकर्तारो भवन्तु मत्प्रसादतः ॥ १८॥ राज्यं कुरु महादैत्यैर्नगरस्थो महासुर । नोचेद्युद्धेन जेष्यामि करिष्यामि जगद्धितम् ॥ १९॥ तथेति गणनाथं स जगाद नारदो मुनिः । अहङ्कारासुरं गत्वा कथयामास तद्वचः ॥ २०॥ स श्रुत्वा क्रोधसंयुक्तो बभूवे तं जगाद ह । गच्छ विघ्नेश्वरं विप्र वद मे वचनं महत् ॥ २१॥ सदेवं धूम्रवर्णं च हनिष्यामि न संशयः । तदाज्ञावशगो नाहं भविष्यामि कदाचन ॥ २२॥ एवमूचे ततो विप्रं नारदं दैत्यनायकः । नारदो गणनाथं च ययौ जगाद तद्वचः ॥ २३॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो गजाननः । अहं हन्तुं मनश्चक्रे शस्त्रं दधार विघ्नपः ॥ २४॥ (Page खं. ८ अ. ५ पान ११) अथ नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् । जगाद सकलं तेभ्यो वृत्तान्तं हर्षसंयुतः ॥ २५॥ देवास्तं नम्य सर्वे ते धूम्रवर्णं समाययुः । मुनिभिः शस्त्रसंयुक्ताः स्तुत्वा तं ते जगुर्वचः ॥ २६॥ आज्ञां कुरु महाभाग धूम्रवर्ण नमोऽस्तु ते । दैत्यैर्योद्धुं च देवेशांस्त्वद्दासांस्ते वशे स्थितान् ॥ २७॥ तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान् । उवाच तान् स्वभक्तांश्च भक्तेशो भक्तवत्सलः ॥ २८॥ धूम्रवर्ण उवाच । तिष्ठध्वं देवदेवेशाः पश्यध्वं कौतुकं महत् । हनिष्यामि महादैत्यं मच्छानसपराङ्मुखम् ॥ २९॥ एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणम् । स्वशस्त्रं तत् समागत्यानन्तरूपं बभूव ह ॥ ३०॥ यत्र तत्रासुरान् धृत्वा क्षणात् कण्ठे पपात तत् । मृता दैत्याः पुरप्रान्तसंस्थाः पाशबलार्दिताः ॥ ३१॥ हाहाकारश्च सर्वत्र बभूव नगरे तदा । दैत्या गत्वा महादैत्यं कथयामासुरुल्बणम् ॥ ३२॥ किं स्थितोऽसि महाराज मृता दैत्याः समन्ततः । पाशैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद ॥ ३३॥ तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः । जगाद सचिवादींश्च वचनं भयसङ्कुलः ॥ ३४॥ अहमुवाच । अहो कालमुखा दैत्याः स्वप्नं सत्यं बभूव ह । किं भविष्यति दैत्येशा विपरीतं तु दृश्यते ॥ ३५॥ इति तस्य वचः श्रुत्वा पुत्रौ तातं महात्मनः । ऊचतुस्तं भयोद्विग्नं गर्वश्रेष्ठौ महासुरौ ॥ ३६॥ गर्वश्रेष्ठावूचतुः । किं शोचसि महाभाग भयं ते न भविष्यति । मायायुक्तो धूम्रवर्णः किं करिष्यति तेऽप्रियम् ॥ ३७॥ देहधारी समायातो देवपक्षपरायणः । हनिष्यावो न सन्देहः सदेवं पश्य पौरुषम् ॥ ३८॥ एवमुक्त्वा महादैत्यं गर्वो गर्वसमन्वितः । श्रेष्ठः प्रणम्य दैत्येन्द्रं ततो युद्धाय जग्मतुः ॥ ३९॥ प्रधानाद्यैः समायुक्तौ शस्त्रवृष्टिं प्रचक्रतुः । पाशस्य तेजसा तत्र दग्धास्ते तु समन्ततः ॥ ४०॥ ततो भययुताः सर्वे प्रधानाश्च बभूविरे । पाशतेजःप्रदग्धास्ते प्रपेलुः सर्वतोदिशम् ॥ ४१॥ ततोऽतिक्रोधसंयुक्तौ स्वङ्गं गृह्य महासुरौ । पाशान् विच्छेत्तुमायातौ महाबलपराक्रमौ ॥ ४२॥ तेजसा दग्धदेहौ तौ तथाऽपि खड्गधारया । पाशं गृह्य चकर्तुं तौ समुद्युक्तौ बभूवतुः ॥ ४३॥ ततः पाशेन सम्बद्धौ रुद्धश्वासौ महासुरौ । गतप्राणौ च सङ्ग्रामे बभूवतुर्महर्षयः ॥ ४४॥ ततो हाहारवं कृत्वा दैत्याः सर्वे भयातुराः । प्रपेलुर्दशदिग्देशे गतमानाः सुविह्वलाः ॥ ४५॥ ततः केचित् समागम्याहङ्कारं ते वचः परम् । जगुः क्रूरं मृतौ पुत्रौ तव दैत्यपते मृधे ॥ ४६॥ तेषां वचनमाकर्ण्य मूर्च्छितः सहसाऽसुरः । सावधानः कृतः सर्वैः शुशोच भयसङ्कुलः ॥ ४७॥ धृत्वा धैर्यं ततः सोऽपि युद्धार्थं सङ्गतोऽभवत् । (Page खं. ८ अ. ६ पान १२) मुमोचास्त्राणि सर्वाणि छेत्तुं पाशं महोज्ज्वलम् ॥ ४८॥ पाशस्य तेजसा तानि दग्धानि च समन्ततः । ततोऽतिभयसंयुक्तो विचारमकरोद् हृदि ॥ ४९॥ अमोघास्त्रमयं मे तु वरं निष्फलतायुतम् । चकार पाशश्चात्यन्तं चित्रं किं वा भविष्यति ॥ ५०॥ पलायनपरः सर्वैः स्वगृहं दैत्यनायकः । आगत्य स्वगुरुं तत्र समानाय्याब्रवीद्वचः ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारपराजयो नाम पञ्चमोऽध्यायः ॥ ८.५

८.६ अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्याय

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । शुक्रं प्रणम्य नीतिज्ञं भयसङ्कुलितोऽसुरः । अहङ्कारो जगादेदं वचनं स्वहितार्थकम् ॥ १॥ अहङ्कार उचाच । स्वामिन् मे वरदानं यन्निष्फलं प्रबभूव तत् । अमोघास्त्रमयं किं त्वं वद संशयकं नुद ॥ २॥ धूम्रवर्णः समायातो देवपक्षप्रवर्धनः । मायामयः कथं सोऽपि निष्फलं मां चकार ह ॥ ३॥ शुक्र उवाच । अहं त्वं मूर्खभावेन मन्यसे धूम्रवर्णकम् । मायामयं विशेषेण न जानासि गजाननम् ॥ ४॥ मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते । योगाकारं गणेशानं वदन्ते वेदवादिनः ॥ ५॥ हनिष्यति समाक्रुद्धस्त्वामयं धूम्रवर्णकः । अतस्तं त्वं गणेशानं शरणं याहि दैत्यप ॥ ६॥ धूम्रेणावृतमेवं यद् दृश्यते न जनैर्यथा । तथा वस्तु गणेशानं न जानन्ति शिवादयः ॥ ७॥ वर्णा वेदस्वरूपाश्च धूम्रा जाता इवाऽऽबभुः । अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः ॥ ८॥ सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसु परम् । तस्य किं वरदानस्योल्लङ्घनं दुर्घटं भवेत् ॥ ९॥ स्वेच्छया वरदानं वै सफलं निष्फलं भवेत् । तदेव धूम्रवर्णोऽयं सहजो नेति वाचकः ॥ १०॥ अविनाशिपदं यच्च गजाख्यं ब्रह्म कथ्यते । तदेव मस्तकं तस्य गणेशस्य महात्मनः ॥ ११॥ नाशरूपं जगत् सर्वं देहस्तस्य न संशयः । धूम्रवर्णस्तयोर्योगे देहधारी बभूव ह ॥ १२॥ पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता । चित्तभ्रान्तिकरी सिद्धिर्वामाङ्गे राजते सदा ॥ १३॥ तयोः स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः । तं गच्छ शरणं तात तदा सौख्यमवाप्स्यसि ॥ १४॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । योगिनां गणनाथस्य तेन स्वानन्दपालकः ॥ १५॥ न ते यशो महाराज भविष्यति कदाचन । सुरासुरमयो ढुण्ढिः शरणं तस्य गच्छतु ॥ १६॥ सुराः स्वर्गेषु तेनैव स्थापिता मानवा भुवि । (Page खं. ८ अ. ६ पान १३) असुरा विवरेष्वेव त्रिविधं धर्मसंयुतम् ॥ १७॥ स्वस्वधर्मं परित्यज्य लोभयुक्ताः सुराऽसुराः । भवन्ति चेत्तदाऽयं तु तेषां शास्ता भवत्यहो ॥ १८॥ देवैर्दैत्या जिताः सर्वे पातालं गत्य मानद । तदा त्वां स विनिर्माय देवविघ्नपरोऽभवत् ॥ १९॥ त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः । देवनाशार्थमत्यन्तमुद्युक्तोऽसि खलोत्तम ॥ २०॥ अतस्त्वां हन्तुमेवं स समायातो गजाननः । स्वधर्मस्थस्य ते नाशं न करिष्यति विघ्नपः ॥ २१॥ त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुतम् । तदाऽयं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेत् ॥ २२॥ अतस्तस्य गणेशस्य शरणं गच्छ दैत्यप । ब्रह्माकारं च सर्वत्र सुरासुरप्रवर्तकम् ॥ २३॥ श्रीशिव उवाच । काव्यस्य वचनं श्रुत्वा हर्षयुक्तोऽहमादरात् । प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये ॥ २४॥ अहमुवाच । शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया । सुरासुरमयस्यैव तथाऽपि नुद संशयम् ॥ २५॥ सिद्धिबुद्धि समा माया विद्यते नैव निश्चितम् । प्रकृत्या संयुतो नित्यं गणेशानः प्रखेलति ॥ २६॥ सर्वपूज्यश्च सर्वादौ सम्मतो ब्रह्मनायकः । श्रीशब्देन समायुक्तः कथं श्रीर्मुख्यतां गता ॥ २७॥ सिद्धिं बुद्धिं परित्यज्य श्रियं चौङ्कारकं तथा । विकल्पेन समागृह्य तिष्ठते गणनायकः ॥ २८॥ अन्ये सर्वे तथा विप्र प्रकृत्या श्रीस्वरूपया । युक्ता भवन्ति शास्त्रेषु किमिदं कौतुकं वद ॥ २९॥ अतः श्रीर्यत् समा देवी विद्यते नैव निश्चितम् । भाति सर्वत्र वेदेषु तथौङ्कारात्मिका परा ॥ ३०॥ शुक्र उवाच । गकारः सिद्धिरूपश्च णकारो बुद्धिवाचकः । तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते ॥ ३१॥ यथा मायायुतं ब्रह्म मायाया भिन्नकं न च । माया सैव सदा ब्रह्म ब्रह्म माया न संशयः ॥ ३२॥ तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक । एकरूपो न सन्देहो योगस्तेनायमुच्यते ॥ ३३॥ सिद्धिर्बुद्धिर्गणेशानो ज्ञानिनां त्रिविधं परम् । भाति योगमयं चापि विचारय विचक्षण ॥ ३४॥ अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते । भिन्नं गणपतेस्तस्मात् त्रिविधं नास्ति निश्चितम् ॥ ३५॥ गणेशपूजनेनैव त्रिविधं पूजितं भवेत् । प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते ॥ ३६॥ वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं च पुम्मयम् । सिद्धिं बुद्धिं विजानीहि तयोर्योगे गणेश्वरः ॥ ३७॥ सर्वेषां वामभागे च प्रकृतिः संस्थिताऽभवत् । गणेशस्योभयाङ्गे तु प्रकृतिः परिकीर्तिता ॥ ३८॥ एकरूपधरा माया सिद्धिबुद्धिमयी परा । भिन्नभोगार्थमानन्दात् सृष्टिं कर्तुं मनोदधे ॥ ३९॥ सिद्धेरङ्गात् समुत्पन्ना श्रीः सर्वशोभया युता । बुद्धेरङ्गात्तथौङ्कारप्रकृतिः प्रबभूव ह ॥ ४०॥ ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये । यस्मै कस्मै नमो नित्यं मन्त्रं जप्त्वा स्वमूलकम् ॥ ४१॥ (Page खं. ८ अ. ६ पान १४) ततस्तयोर्हृदिस्थं यद्ब्रह्म मायाप्रचालकम् । प्रसन्नं जातमत्यन्तं स्वरूपं स्वमदर्शयत् ॥ ४२॥ तत एकाक्षरं मन्त्रं गणेशस्य महात्मनः । दृष्ट्वा ताभ्यां हृदिस्थं स्वं तेजोरूपं सुखप्रदम् ॥ ४३॥ ततस्तनैव मन्त्रेण तोषयामासतुः परम् । गणेशं ते महाभागे ह्यादिमाये तपोन्विते ॥ ४४॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । वरान् दातुं समायातः सिद्धिबुद्धिसमन्वितः ॥ ४५॥ नरकुञ्जररूपं तत् दृष्ट्वा विस्मितमानसे । माये बभूवतुस्तत्र विचारं चक्रतुर्हृदि ॥ ४६॥ गणेशकृपया सद्यो ज्ञातं जातं महाद्भुतम् । तपसोग्रप्रभावेण ज्ञातं ताभ्यां रहस्यकम् ॥ ४७॥ सिद्धिबुद्धियुतं तं ते वीक्ष्य चोत्थाय सत्वरम् । प्रणेमतुर्गणेशानं पूज्य स्तोत्रं प्रचक्रतुः ॥ ४८॥ श्र्योङ्कारावूचतुः । नमस्ते गणनाथाय सर्वसिद्धिप्रदायक । सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ ४९॥ स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे । अनाथाय सनाथानां नमो नाथाय ते नमः ॥ ५०॥ परेशाय परेषां च पालकाय परात्मने । आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ ५१॥ लम्बोदराय देवाय देवदेवेशरूपिणे । देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥ ५२॥ ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुण्ढये । अनामनाय नित्याय सर्वेशाय नमो नमः ॥ ५३॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥ ५४॥ योगशान्तिमयायैव चिन्तामणिस्वरूपिणे । अनन्तायादिरूपाय चान्तःस्थाय नमो नमः ॥ ५५॥ किं स्तुवस्त्वां गणाधीश योगशान्तिधरं परम् । यत्र वेदादयः शान्तिं प्राप्ता योगपरायणाः ॥ ५६॥ मनोवाणीमयो नैव मनोवाणीविवर्जितः । नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥ ५७॥ एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर । श्र्यौङ्कारौ तौ समुत्थाप्य जगाद गणनायकः ॥ ५८॥ श्रीगणेश उवाच । वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥ ५९॥ स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् । पठते श‍ृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥ ६०॥ ब्रह्मभूयकरं पूर्णं श्र्योङ्कारयशसान्वितम् । मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥ ६१॥ गणेशवचनं श्रुत्वोचतुःश्र्योङ्कारकौ परम् । गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥ ६२॥ श्र्यौङ्कारावूचतुः । त्वयि भक्तिं स्थिरं देहि योगशान्तिप्रदायिकाम् । सङ्कल्पसिद्धिसामर्थ्यं दास्यं ते पादपद्मयोः ॥ ६३॥ यथा सिद्धिश्च बुद्धिश्च त्वया सम्मानिते प्रभो । तथाऽऽवां ते प्रिये नाथ कुरुष्व गणनायक ॥ ६४॥ अस्मदीयं वशे सर्वं जगद्ब्रह्म कुरु प्रभो । आवाभ्यां मोहितं सर्वं भवतु त्वत्प्रसादतः ॥ ६५॥ त्वदीयभजनेनैव मोहो ह्यस्मत्कृतः परः । नाशं यातु सदा देव नान्यथा योगकारिभिः ॥ ६६॥ शिवविष्णुमुखा देवा मोहयुक्ता भवन्तु च । अस्मदर्थं सदा भ्रान्ता यत्नयुक्ता भवन्तु वै ॥ ६७॥ (Page खं. ८ अ. ६ पान १५) श्रीगणेश उवाच । भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः । दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥ ६८॥ मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् । ब्रह्म नानाविधं देव्यौ तत्राऽहं बिम्बितोऽभवम् ॥ ६९॥ बिम्बं मे मोहयुक्तं तन्नानाभावपरायणम् । मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥ ७०॥ मम बिम्बस्य भार्ये तु संशयो न भविष्यथः । तेन युक्ते महामाये बन्धमोक्षौ करिष्यथः ॥ ७१॥ सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः । न तत्र योग्यता देव्यौ भवत्योर्मोहनात्मनोः ॥ ७२॥ एवमुक्त्वा गणाधीशोंऽतर्धानं वै चकार ह । माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥ ७३॥ ततो गणेशबिम्बं यत् पतितं तत्तयोर्हृदि । तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥ ७४॥ बाह्यसौख्यकरी माया चतुर्णां जगतां किल । ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥ ७५॥ चतुर्णां जगतां तद्वद्ब्रह्मणां ज्ञानरूपिणी । ओङ्कारात्मकरूपा सा माया सर्वत्र संस्थिता ॥ ७६॥ ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः । मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥ ७७॥ अतः सर्वेषु जीवेषु मोहितेषु महासुर । मोहहीनात्मभावेषु श्र्यौङ्कारौ त्वादिसम्मतौ ॥ ७८॥ आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते । कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥ ७९॥ कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः । तत्रोङ्कारसमायुक्तो मायाभ्यां खेलनात् परः ॥ ८०॥ वामाङ्गे श्रीर्धृता तेन दक्षिणाङ्गे महासुर । ओङ्कारो गणनाथस्य बिम्बेन ब्रह्मरूपिणा ॥ ८१॥ बिम्बं सर्वत्र भावेषु तदाकारं बभूव ह । अतः शिवादयः सर्वे जाताः श्र्योङ्कारसंयुताः ॥ ८२॥ जीवा श्र्योङ्कारसंयुक्ताः पठ्यन्ते वेदवादिभिः । आदिमाये समाख्याते बिम्बाधारे विचारय ॥ ८३॥ अतः श्र्योङ्कारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज । सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥ ८४॥ इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् । गच्छतं शरणं दैत्य शान्तिदं भुक्तिमुक्तिदम् ॥ ८५॥ भिन्नभावकरे माये श्र्योङ्कारौ परिकीर्तितौ । ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिर्विचक्षण ॥ ८६॥ एतत्ते कथितं सर्वं रहस्यं सर्वसम्मतम् । वेदगुह्यमहङ्कार गच्छ तं सर्वसिद्धये ॥ ८७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ॥ ८.६ (Page खं. ८ अ. ७ पान १६)

८.७ अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । शुक्रस्य वचनं श्रुत्वाऽहङ्कारस्तं प्रणम्य च । जगाद ज्ञानसंयुक्तः कृताञ्जलिः प्रतापवान् ॥ १॥ अहमुवाच । त्वयाऽहं बोधितो नाथाऽतो गच्छामि गजाननम् । सुरासुरमयं ब्रह्म सर्वशान्तिप्रदायकम् ॥ २॥ एवमुक्त्वा स शुक्रेण संयुतः परमार्थवित् । श्र्योङ्काराभ्यां मनः कृष्य योगेशं शरणं ययौ ॥ ३॥ पुरप्रान्ते महापाशं दृष्ट्वा नम्य कृताञ्जलिः । तुष्टाव शस्त्रराजं स गणेशाहङ्कृतेर्धरः ॥ ४॥ अहमुवाच । पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे । मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ ५॥ मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे । गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ ६॥ तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः । त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ७॥ ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् । नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ ८॥ नमस्ते तेजसां नाथ दुष्टनाशकराय ते । पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ ९॥ एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः । अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ १०॥ इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति । मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ ११॥ गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः । धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ १२॥ पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः । पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ १३॥ अहमुवाच । धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने । अव्यक्तायादिबीजाय परेशाय नमो नमः ॥ १४॥ लम्बोदराय देवाय दैत्यनाथाय ते नमः । हेरम्बाय महेशानां पालकाय नमो नमः ॥ १५॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे । ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥ चराय चररूपाय जङ्गमस्थाय ते नमः । स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७॥ स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः । योगाय योगनाथाय योगिने योगदायिने ॥ १८॥ योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः । शान्ताय शान्तचित्तैस्तु प्राप्याय शान्तमूर्तये ॥ १९॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद । सिद्धिनाथाय बुद्धीश तयोर्योगाय ते नमः ॥ २०॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१॥ किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरूपिणम् । अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥ २२॥ स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः । योगशान्तिधरास्ते कथयितुं ध्रुवमक्षमाः ॥ २३॥ अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः । पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥ २४॥ धन्योऽहं सकुलो नाथ त्वदङ्घ्रियुगदर्शनात् । एवमुक्त्वा ननर्ताऽसौ भक्तियुक्तो महासुरः ॥ २५॥ निमग्नं तं भक्तिरसे दृष्ट्वा देवो गजाननः । (Page खं. ८ अ. ७ पान १७) जगाद तं महाभागं प्रेमयुक्तं प्रसस्वजे ॥ २६॥ धूम्रवर्ण उवाच । वरान् वृणु महाभाग दास्यामि स्तोत्रतोषितः । अहङ्कार न सन्देहो न भयं ते भविष्यति ॥ २७॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८॥ श‍ृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् । न भविष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९॥ यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः । मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३०॥ एवं गणेशवाक्यं स श्रुत्वा तं ह्यब्रवीदहम् । प्रणिपत्य महात्मानं धूम्रवर्णं महासुरः ॥ ३१॥ अहमुवाच । यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन । तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ ३२॥ गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् । गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ ३३॥ स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् । तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ ३४॥ नान्यं याचे कदा नाथ श्र्योङ्कारामोहमोहितम् । सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥ ३५॥ बोधितो गुरुणाऽत्यन्तं तस्य वाक्यपरायणः । योगशान्तिमयं रूपं भजिष्यामि महोदर ॥ ३६॥ धूम्रवर्ण उवाच । मयि भक्तिर्दृढा तेऽस्तु मयि दास्यपरायणः । गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥ ३७॥ यत्रादौ मे महादैत्य पूजनं नैव विद्यते । तत्र कर्मसु ते स्थानं भुङ्क्ष्व कर्मफलं महत् ॥ ३८॥ कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव । आसुरेण स्वभावेन भ्रंशयस्व निरन्तरम् ॥ ३९॥ स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा । मदहङ्कृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥ ४०॥ यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु । तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः ॥ ४१॥ गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः । भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया ॥ ४२॥ श्रीशिव उवाच । एवमुक्त्वा गणाधीशस्तमहं विरराम है । प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा ॥ ४३॥ तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः । त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥ ४४॥ स एव सुखसंयुक्तोऽभजत्तं गणनायकम् । अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥ ४५॥ यथा जगाद विघ्नेशस्तथा चकार भावतः । अहङ्कारासुरश्चैव शान्तरूपो बभूव ह ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ८.७ (Page खं. ८ अ. ८ पान १८)

८.८ धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् । अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः ॥ १॥ ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटाः ॥ २॥ देवर्षय ऊचुः । अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे । सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३॥ सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो मोहहन्त्रे निजानाम् । महानन्दत्रैविध्यभावैः परेश नमो धूम्रवर्णाय सर्वेश्वराय ॥ ४॥ नमः सिद्धिबुद्धिप्रदात्रे गणेश पुरे वासकारिन् स्वसंवेद्यनाम्नि । अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ५॥ सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन् । महाऽऽखुध्वजायाऽथ हेरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ६॥ गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन् । मदासक्तयोगीन्द्र भृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ७॥ चतुर्बाहवे चैकदन्ताय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय । अलङ्कारकैर्देवदेवेश पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥ ८॥ त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नन्दनाद्वै । तदाकाररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय ॥ ९॥ त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् । अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥ १०॥ ततस्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् । तदाकाररूपेण तत्स्थाय ब्रह्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ ११॥ असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजम् । त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १२॥ स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय । तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १३॥ ततस्तेन ते सत्तया सृष्टमाद्यं सदैकस्वरूपं परं सोहमेवम् । तथा त्वं च तत्रैव संस्थः परात्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ १४॥ त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्बिन्दुरूपम् । सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १५॥ ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् । चतुर्धा शरीरं विनिर्माय खेलिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १६॥ नमो विश्वरूपाय सर्वाकराय ह्यनन्ताननाद्यैः सुचिह्नाय तुभ्यम् । चरैः स्थावरैर्भोगभोगिन्नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ १७॥ चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय । प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १८॥ (Page खं. ८ अ. ८ पान १९) नमो देवयक्षाय साध्याय तुभ्यं नरायाऽथ देवेन्द्र देवात्मकाय । दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १९॥ नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते । अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २०॥ तथापि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन् । स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २१॥ अतो वेदवादा विशेषेण धूम्रा भवन्ति ह्यहो वर्णितुं ते स्वरूपम् । बुधैः कथ्यसे धूम्रवर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २२॥ सुशान्तिं गता वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे । वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २३॥ श्रीशिव उवाच । एवं स्तुत्वा गणेशानं प्रणेमुरमरर्षयः । तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥ २४॥ धूम्रवर्ण उवाच । वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषितः । देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥ २५॥ स्तोत्रं भवत् कृतं मे तु भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं विप्रा भविष्यति न संशयः ॥ २६॥ पुत्रपौत्रकलत्रादि सौख्यदं धनधान्यदम् । आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥ २७॥ पठते श‍ृण्वते देवा नानाभावप्रपूरकम् । धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥ २८॥ मारणोच्चाटनादीनि ह्येकविंशतिपाठतः । एकविंशतिभिर्नित्यं दिवसैः प्रभवन्ति हि ॥ २९॥ परकृत्यादिकं सर्वं नाशमेति न संशयः । अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥ ३०॥ यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा । स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥ ३१॥ श्रीशिव उवाच । देवर्षयो धूम्रवर्णवचः श्रुत्वा प्रणम्य तम् । प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः ॥ ३२॥ देवर्षय ऊचुः । धूम्रवर्ण त्वया नाथ कृतः शान्तिधरः सदा । अहं तेन वयं सर्वे वरयुक्ताः कृताः किल ॥ ३३॥ अहङ्कारे प्रशान्ते तु स्वाधिकारे वसामहे । वर्णाश्रमयुता लोका भविष्यन्ति द्विजादयः ॥ ३४॥ वृणुमः किं गणाधीश देहि भक्तिं त्वदीयिकाम् । अहङ्कारभयघ्नीं वै तया तुष्टा वयं प्रभो ॥ ३५॥ तथेति तानुवाचासौ धूम्रवर्णो गणेश्वराः । अन्तर्दधे भवन् देवा मुनयस्तं नतास्ततः ॥ ३६॥ स्थापयामासुरानन्दात् धूम्रवर्णं दिगन्तगे । क्षेत्रे तत्र गणेशानं पूजयामासुरादरात् ॥ ३७॥ स्वे स्वे पदे च ते जग्मुस्ततो हर्षसमन्विताः । सुखिनः स्वस्वकार्येषु वर्तते गणपे रताः ॥ ३८॥ एतद्वः कथितं चित्रं चरित्रं सर्वसिद्धिदम् । अहङ्कारभयघ्नं च पठतां श‍ृण्वतां भवेत् ॥ ३९॥ एवं नानावतारान् स धूम्रवर्णः प्रतापवान् । धृत्वा चकार विश्वं तु निर्विघ्नं भक्तिभावितः ॥ ४०॥ (Page खं. ८ अ. ९ पान २०) धूम्रवर्णावताराश्चानन्तास्तेषां चरित्रकम् । कथितुं नैव शक्यं तत् कदा भवति केनचित् ॥ ४१॥ अतः सङ्क्षेपतः प्रोक्तं मुख्यावतारचेष्टितम् । सनकाद्या गणेशानं भजध्वं भावसंयुताः ॥ ४२॥ तेनाहङ्कारनिर्मुक्ता भविष्यथ न संशयः । योगीन्द्र योगिवन्द्याश्च शान्तिदाः शान्तचेतसे ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः ॥ ८.८

८.९ धूम्रमहिमावर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् । माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ १॥ श्रीशिव उवाच । ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् । विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ २॥ सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् । माहात्म्यं क्षेत्रमुख्यस्य श‍ृणुध्वं त्वेकचेतसः ॥ ३॥ देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः । शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥ ४॥ त्रिनेत्र एकदन्तश्च परश्वादिसमन्वितः । अहङ्कारो गणेशानं भजते तत्र नित्यशः ॥ ५॥ वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्करी । पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥ ६॥ दशयोजनविस्तारः क्षेत्रस्य गणपस्य च । चतुरस्त्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ७॥ पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः । शुकाद्यास्तं भजन्ते ते स्तुवन्ति स्म महर्षयः ॥ ८॥ पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः । आत्तशस्त्रा महाभागाः सेवन्ते धूम्रवर्णकम् ॥ ९॥ वामाङ्गे तीर्थमुख्यानि प्रयागादीनि मानदाः । क्षेत्राणि काशीमुख्यानि भजन्ते धूम्रवर्णकम् ॥ १०॥ दक्षिणाङ्गेऽमरेशानाः शम्भुविष्णुमुखाः सदा । सगणाः सपरीवारा भजन्ते गणनायकम् ॥ ११॥ शेषाद्या नागराजाश्च पर्वता हैममुख्यकाः । गन्धर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥ १२॥ आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः । वसन्ति तत्र क्षेत्रे ते भजन्ते द्विरदाननम् ॥ १३॥ यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् । सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥ १४॥ तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते । अपारत्वात्ततः सङ्क्षेपतः प्रोक्तं मया परम् ॥ १५॥ तत्र तीर्थं महासिद्धिदायकं वर्तते परम् । धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥ १६॥ तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः । अन्ते मोक्षं न सन्देहो यत्र कुत्र मृतोऽपि चेत् ॥ १७॥ (Page खं. ८ अ. ९ पान २१) तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः । नित्यं स्नानं प्रकुर्वन्ति प्रहृष्टेनान्तरात्मना ॥ १८॥ अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते । जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥ १९॥ शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः । स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥ २०॥ तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् । ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥ २१॥ यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकम् । लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥ २२॥ भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः । देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥ २३॥ वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः । भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वन्ति मानवाः ॥ २४॥ परस्परं प्रहृष्टास्ते बोधयन्ति गजाननम् । सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः ॥ २५॥ गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः । तत्र गच्छन्ति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥ २६॥ कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा । स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥ २७॥ अन्ते स्वानन्दगाः सर्वे भवन्ते नात्र संशयः । शैवाद्याः क्रममार्गेण स्वानन्दस्था भवन्ति तु ॥ २८॥ क्षेत्रे मरणतो विप्राः स्वानन्दो लभ्यते जनैः । यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥ २९॥ धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया । कथितुं विस्तरेणैवार्हति को नैव वर्णितुम् ॥ ३०॥ गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु । यावन्ति ब्रह्मगोलेऽस्मिंस्तावन्ति मुनिसत्तमाः ॥ ३१॥ धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च । चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥ ३२॥ पञ्चमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः । क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥ ३३॥ इदं क्षेत्रस्य माहात्म्यं श‍ृणुयाद्यो नरोत्तमः । श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूर्मवर्णचरिते धूम्रमहिमावर्णनं नाम नवमोऽध्यायः ॥ ८.९ (Page खं. ८ अ. १० पान २२)

८.१० शिवात्मकावतारचरितं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । धूम्रवर्णावतारस्य भेदा नानाविधाः स्मृताः । वद तेषु विभो मुख्यांश्चरित्रसंयुतान् परान् ॥ १॥ धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् । अहङ्कारहरं पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो ॥ २॥ श्रीशिव उवाच । धूम्रवर्णावतारस्य भेदानां चरितं परम् । कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः ॥ ३॥ मुख्येषु मुख्यभूतानां चरित्रं लेशतः परम् । कथयामि श‍ृणुध्वं यत् मनसा निश्चलेन तत् ॥ ४॥ सहजं यत्पदं प्रोक्तं नेतिरूपं मुनीश्वराः । तेन सृष्टं समाख्यं हि ब्रह्म त्वानन्दवाचकम् ॥ ५॥ तेन सत्यानृते सृष्टे ताभ्यामुत्थानसंयुते । विप्रेशा ब्रह्मणी सृष्टे ते स्वतः परतोऽभिधे ॥ ६॥ तेन देहिमयं देहप्रचुरं ब्रह्म वै ततः । बिन्दु तेनैव संसृष्टं चतुर्देहमयं परम् ॥ ७॥ स्थूलं सूक्ष्मं समं नादं तैः सृष्टं विश्वरूपकम् । नानाभेदमयं तस्माद्व्यष्टिरूपं मुनीश्वराः ॥ ८॥ एतानि ब्रह्मरूपाणि ह्युत्पन्नानि महर्षयः । ज्ञानहीनान्यक्षमाणि सर्वतः कार्यजातिषु ॥ ९॥ ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः । बीजरूपाणि सर्वेषां मन्त्रं जप्त्वा निरन्तरम् ॥ १०॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं तेभ्यो मन्त्रमयं परम् ॥ ११॥ ततस्तत्कृपया तानि ददृशुः स्वहृदि स्थितम् । मन्त्रमेकाक्षरं तेजोयुक्तं ज्ञानकरं परम् ॥ १२॥ दृष्ट्वा मन्त्रं प्रहृष्टानि ब्रह्माणि नेमुरादरात् । मन्त्रं सङ्गृह्य तं पूर्वं ध्यात्वा हृदि गजाननम् ॥ १३॥ मन्त्राकारं गणेशानं ध्यात्वा तेपुः पराणि तु । तोषयामासुरत्यन्तं श्रमयुक्तानि विघ्नपम् ॥ १४॥ दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ १५॥ नरकुञ्जररूपं तु दृष्ट्वा हृदि विसिस्मिरे । ब्रह्माणि तानि वै ढुण्ढिर्ददौ ज्ञानं सुनिर्मलम् ॥ १६॥ तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः । सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् ॥ १७॥ ततोऽतिहर्षयुक्तानि जातानि मुनिसत्तमाः । नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् ॥ १८॥ ततो गणपतिः प्रीतो ययौ तानि सुभक्तितः । शिवरूपधरो भूत्वा पञ्चवक्त्रस्त्रिलोचनः ॥ १९॥ मुण्डमालाधरः शम्भुर्व्याघ्रेभचर्मधारकः । विभूतिलेपः सर्वाङ्गे शेषनागविभूषणः ॥ २०॥ वृषध्वजो वृषारूढश्चन्द्रचूडस्त्रिशूलधृक् । अर्धाङ्गे गिरिजायुक्तो योगीन्द्रो योगिवन्दितः ॥ २१॥ समागतं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः । विस्मितानि विशेषेण विचारं चक्रुरादरात् ॥ २२॥ गणेशकृपया सद्यो ज्ञातं तैः सकलं महः । शिवस्य हृदि बोधेन परस्परमथाऽब्रुवन् ॥ २३॥ स्वमहिम्नि स्थितं ब्रह्म सहजं गणपाकृति । वर्णा धूम्रायितास्तत्र तेन धूम्राक्षरः स्मृतः ॥ २४॥ तस्य बिम्बं विमोहेन पतितं मायया युतम् । जगत्सु ब्रह्मसु प्राज्ञं तदेवायं वृषध्वजः ॥ २५॥ बिम्बबिम्बिप्रभावेण धूम्रवर्णोऽयमुच्यते । न भेदः शास्त्रवादेषु वरदः प्रभविष्यति ॥ २६॥ (Page खं. ८ अ. १० पान २३) ततस्तानि समुत्थाय ब्रह्माणि गणपं पुनः । प्रणम्य हृदि संस्थं तं शिवं नेमुर्विशेषतः ॥ २७॥ सम्पूज्य विधिना शम्भुं प्रहृष्टानि प्रणम्य च । तुष्टुवुर्ब्रह्मरूपाण्यानन्दमुख्यानि मानदाः ॥ २८॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ ३२॥ स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च । अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ ३३॥ परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः । गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ ३४॥ मुण्डमालाधरायैव नमस्ते सर्पभूषण । नानाभेदप्रकारेण खेलकाय नमो नमः ॥ ३५॥ वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके । तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ ३६॥ समरूपा महामाया देहस्ते नात्र संशयः । तस्य आत्मस्वरूपस्त्वमर्धनारीधृषे नमः ॥ ३७॥ एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् । सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ ३८॥ धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा । कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ ३९॥ शिव उवाच । एवमुक्त्वा महेशानं ब्रह्माणि नेमुरादरात् । तान्युवाच प्रहर्षेण शङ्करः करुणानिधिः ॥ ४०॥ आदिशम्भुरुवाच । ब्रह्माणि यान् वरान् ब्रूत दास्यामि तपसा परम् । तुष्टः स्तोत्रेण भक्त्या मे संशयो न हृदीप्सितान् ॥ ४१॥ ब्रह्माण्यूचुः । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर ॥ ४२॥ स्वस्वकार्यं तु कृत्वा वै बन्धदं बन्धहारक । कुरुष्व बन्धहीनानि सततं योगधारकः ॥ ४३॥ श्रीशिव उवाच । यद्यत् सम्प्रार्थितं मत्तो भविष्यति सुखप्रदम् । भवतां सत्यसङ्कल्पा दुर्लभं किं न सम्भवेत् ॥ ४४॥ अतुलं बन्धहीनार्थं योगं श‍ृणुत सौख्यदम् । तं साध्य बन्धहीनानि भविष्यथ न संशयः ॥ ४५॥ सर्वेषां नेतिकर्तारं मां जानीत चतुर्थकम् । चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः ॥ ४६॥ तस्मात् स्वाधीनरूपं च पराधीनं त्रिधा मतम् । समुत्पन्नं कलांशेन तं जानीत गजाननम् ॥ ४७॥ स्वस्वरूपमयो ढुण्ढिर्मायायुक्तः प्रकीर्तितः । चतुर्णां चालकत्वात्तु संयोगाभेदतः प्रभुः ॥ ४८॥ अयोगः पञ्चभिर्हीनः सदा निवृत्तिवाचकः । न तत्र ब्रह्मणां योगो जगतां तस्य तेषु च ॥ ४९॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । पूर्णशान्तिप्रदः साक्षाद्ब्रह्मभूतो गजाननः ॥ ५०॥ गकारः स्वस्वरूपाख्यो णकारो योग उच्यते । स्वामी तयोर्गणेशानो नरकुञ्जररूपधृक् ॥ ५१॥ तं भजध्वं विशेषेण तदा शान्तिमवाप्स्यथ । सततं बन्धहीनानि भविष्यथ न चान्यथा ॥ ५२॥ यथा धूम्रायितो देशो दृश्यते नैव मानवैः । (Page खं. ८ अ. ११ पान २४) दृश्यमानस्तथाऽप्येवं धूम्ररोधनभावतः ॥ ५३॥ तथा चित्तमयी माया पञ्चधा विविधे रता । तया युक्ता न पश्यन्ति तं देवं वेदसाधनैः ॥ ५४॥ वेदा वर्णमयाः प्रोक्ता धूम्रा जाताश्च मायया । गणेशानं स्वशिष्येभ्यो धूम्रवर्णमतो जगुः ॥ ५५॥ पूर्णशान्तिप्रदं योगं धूम्रवर्णात्मकं परम् । जानीत योगयुक्त्या वै भजध्वं तं गजाननम् ॥ ५६॥ कृत्वा स्वस्वस्वभावस्थं कार्यं नानाविधं सदा । समर्प्य धूम्रवर्णाय बन्धहीनानि सर्वदा ॥ ५७॥ एवमुक्त्वा महादेवस्तत्रैवान्तरधात्ततः । ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् ॥ ५८॥ यथोपदिष्टयोगेन गणेशं नित्यमादरात् । भजन्ते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः ॥ ५९॥ अयं शिवात्मकः प्रोक्तोऽवतारः परमाद्भुतः । धूम्रवर्णकलांशश्च सर्वसिद्धिप्रदायकः ॥ ६०॥ चरित्रं श‍ृणुयाद्यश्चेदिदं पठेद्यदा नरः । भुक्त्वा भोगान् स्वयं चान्ते गच्छेत् स्वानन्दकं पुरम् ॥ ६१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते शिवात्मकावतारचरितं नाम दशमोऽध्यायः ॥ ८.१०

८.११ पार्वतीगणेशचरितं नामैकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । एकदा संस्थितं विप्राः कैलासे गिरिजायुतम् । गणेशं भजमानं मां दृष्ट्वा नन्दी समब्रवीत् ॥ १॥ नन्द्युवाच । शिव त्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः । सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः ॥ २॥ योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः । त्वत्तः परतरं नास्ति भजसे कं गजाननम् ॥ ३॥ वेदे शिवसुतः प्रोक्तो गणेशो नात्र संशयः । तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ॥ ४॥ ईशस्ते नाम विख्यातं सर्वेशत्वात् सदाशिवः । तवेशो नैव वेदेषु त्वमेकः सर्वभावनः ॥ ५॥ किं मोहार्थं जनानां च पार्वत्या सह शङ्कर । भजसे गणनाथं त्वं शैवगुप्तत्वकारणात् ॥ ६॥ मा कुरुष्व वृथा स्वामिन् गणेशभजनं कदा । शैवानां मोहदं देव व्यभिचारपदप्रदम् ॥ ७॥ मुद्गल उवाच । नन्दिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः । हर्षेणोत्फुल्लनेत्रश्च महापाशुपतं परम् ॥ ८॥ श्रीशिव उवाच । न जानासि गणेशानं नन्दिस्त्वं मत्परायणः । तस्याऽहं गणरूपश्च पश्य वेदे विचक्षण ॥ ९॥ गणाः समूहरूपाश्चानन्तास्तस्य महात्मनः । ईशानां वै समूहेऽहं गणो गणपतेः स्मृतः ॥ १०॥ एक एव गणेशानः सर्वे तस्य गणाः स्मृताः । ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद ॥ ११॥ विद्या नानात्मिका प्रोक्ता तस्या नानाविधाः स्मृताः । (Page खं. ८ अ. ११ पान २५) समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः ॥ १२॥ विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः । योगविद्यां मयाऽऽश्रित्य गणेशः प्रकटीकृतः ॥ १३॥ समाधिजं परं ब्रह्म तदेव पुत्र उच्यते । अतः समाधिजो यो मे गणेशः पुत्रतां ययौ ॥ १४॥ विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखाऽमराः । न ते विद्याधिपाः प्रोक्ता मच्छिष्या नात्र संशयः ॥ १५॥ तैश्च योगबलेनैव गणेशः प्रकटीकृतः । समाधिजः सुतस्तेषां बभूवे योगिनां तथा ॥ १६॥ आदौ मया कृतं ब्रह्म साक्षात्कारि गुरुं विना । विद्याबलेन तस्मात्तु मुख्योऽहं विश्वपो गुरुः ॥ १७॥ अतः शिवसुतः प्रोक्तो वेदेषु गणनायकः । विष्ण्वादयो न मुख्याश्च गणेशपितरः स्मृताः ॥ १८॥ अतोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवन्दितम् । भजामि स्वामिनं दासो नैव मोहार्थमादरात् ॥ १९॥ शिवस्य वचनं श्रुत्वा विस्मितो नन्दिकेश्वरः । उवाच तं महादेवं सर्वज्ञं सर्ववन्दितम् ॥ २०॥ नन्दिकेश उवाच । कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः । विभो तस्य वद ज्ञानं मन्त्रं विधियुतं परम् ॥ २१॥ श्रीशिव उवाच । चित्तं पञ्चविधं प्रोक्तं सा बुद्धिः परमा मता । नानाभ्रान्तिकरी सिद्धिर्भेदैश्वर्यमयी हृदि ॥ २२॥ तयोर्बिम्बं गणेशस्य पतितं मायया युतम् । बिम्बभावं परित्यज्य गणेशो जायते नरः ॥ २३॥ सरसं चित्तमुत्सृज्य योगिवन्द्यो भविष्यसि । एकाक्षरविधानेन भज तं योगसाधनैः ॥ २४॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । सविधिं सोऽपि तं नत्वा तपोर्थी च ययौ वनम् ॥ २५॥ निराहारेण तपसाऽऽराधितो द्विरदाननः । नन्दिना ध्यानयुक्तेन समाधिना विशेषतः ॥ २६॥ गते वर्षशते पूर्णे योगीन्द्रः स बभूव च । वरदाता गणेशानस्तदाश्रमपदं ययौ ॥ २७॥ आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ पूजयामास भक्तितः ॥ २८॥ पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे । पार्वतीं वाममागे वै दधतं वीक्ष्य विस्मितः ॥ २९॥ गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् । तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादरात् ॥ ३०॥ ततः स नन्दिकेशानो विचारमकरोत् हृदि । बाह्यरूपधरश्चायं महादेवो न संशयः ॥ ३१॥ गिरिजायाः पतिः प्रोक्तः पञ्चवक्त्रादिचिह्नितः । त्रिनेत्रो नरदेहाख्यो भिन्नभावप्रदर्शकः ॥ ३२॥ आनन्दात्मकरूपा सा पार्वती विष्णुरूपिणी । शिवदेवमयी प्रोक्ता तस्यामात्मा शिवः स्मृतः ॥ ३३॥ गजाकारः स्वयं शम्भुरैक्यभोगपरायणः । अर्धाङ्गप्रकृतिस्थत्वाद्बभौ नारीनरः शिवः ॥ ३४॥ नरकुञ्जरयोर्योगे गणेशाकारतां गतः । शिवो ब्रह्ममयः साक्षाद्गिरिजया समन्वितः ॥ ३५॥ योगमायामयी रम्या गणेशाङ्कव्यवस्थिता । पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयम् ॥ ३६॥ स एव वरदानार्थं समाययौ न संशयः । शिवचित्तस्थितश्चायमियं शिवस्य मानसी ॥ ३७॥ (Page खं. ८ अ. ११ पान २६) ततः प्रणम्य हर्षेण प्रणनाम गजाननम् । पुनः पुनः सरोमाञ्चस्तं तुष्टाव कृताञ्जलिः ॥ ३८॥ नन्दिकेश उवाच । नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय । नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥ ३९॥ हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे । स्वानन्दपाय चौरेश वाहनाय नमो नमः ॥ ४०॥ पार्वतीपतये तुभ्यं शिवचित्तगताय वै । लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥ ४१॥ संज्ञापते नमस्तुभ्यं भानोर्हृदि स्थिताय च । आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥ ४२॥ सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक । गायत्रीपतये तुभ्यमोङ्कारचित्तवासिने ॥ ४३॥ शचीपते नमस्तुभ्यमिन्द्रचित्तगमूर्तये । स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥ ४४॥ नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे । सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥ ४५॥ निर्गुणाय नमस्तुभ्यं कुञ्जराकारमूर्तये । सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥ ४६॥ नरकुञ्जररूपाय योगाकाराय ते नमः । योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥ ४७॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥ ४८॥ एवं स्तुत्वा गणेशानं ननर्त प्रेमसंयुतः । नन्दीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥ ४९॥ श्रीगणेश उवाच । वरान् वृणु महाभाग नन्दिंस्ते मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥ ५०॥ त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति । भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥ ५१॥ सर्वसिद्धिकरं भावि पठतां श‍ृण्वतां सदा । यं यमिच्छन्ति तं तं ते लभन्तेऽनेन निश्चितम् ॥ ५२॥ नन्दिकेश उवाच । यदि त्वं वरदो मेऽसि भक्तिं देहि त्वदीयिकाम् । गाणपत्यं कुरु स्वामिन् मां विघ्नेशपरायणम् ॥ ५३॥ क्षेत्रं भवतु ते नाथ यत्र तप्तं तपो मया । तथेति तं गणाधीशो जगादान्तरधीयत ॥ ५४॥ ततः संस्थापयामास गणेशं ब्राह्मणैः सह । नन्दिकेशो महाभक्त्या पूजनं प्रचकार ह ॥ ५५॥ पार्वतीगणपं नाम चक्रे तस्य महर्षयः । सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ॥ ५६॥ ततो नन्दीश्वरो नत्वा समागत्य जगाद ह । वृत्तान्तं सोऽपि तं श्रुत्वा तं शंसन् हर्षितोऽभवत् ॥ ५७॥ नन्दीविघ्नेश्वरं नित्यमभजद्भक्तिसंयुतः । महायोगीन्द्रमुख्योऽसौ बभूव शिवसन्निभः ॥ ५८॥ इदमाम्बिकविघ्नेशचरितं कथितं मया । धूम्रवर्णात्मकश्चाऽयं गणेशः सर्वसिद्धिदः ॥ ५९॥ यः पठेच्छृणुयाद्वाऽपि चरितं गणपस्य च । इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॥ ८.११ (Page खं. ८ अ. १२ पान २७)

८.१२ गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । त्रिपुरो नाम दैत्योऽभून्महाबलपराक्रमः । ब्रह्मणो वरदानेन जिग्ये सर्वं चराचरम् ॥ १॥ कर्मलोपं चकाराऽसौ महाबलपराक्रमः । वर्णसङ्करजं कर्म कारयामास मानवैः ॥ २॥ तदोपोषणसंयुक्ता देवा मां शरणं ययुः । अहं क्रोधसमायुक्तो योद्धुं तेन गतोऽभवम् ॥ ३॥ मम तस्य महद्युद्धं बभूवे दारुणं परम् । देवानां दानवानां च तुमुलं रोमहर्षणम् ॥ ४॥ संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगतः । तानि निष्फलरूपाणि बभूवुश्च महर्षयः ॥ ५॥ अतो विस्मितचित्तोऽहमभवं खेदसंयुतः । सहसा दैत्यराजेनाग्निशस्त्रेण जितोऽभवम् ॥ ६॥ ततः कैलासमुत्सृज्य गतोऽहं गहनं वनम् । निःश्वस्य चिन्तया युक्तोऽभवं चैव हतोद्यमः ॥ ७॥ विचारं मानसे विप्रा अकरवं हितावहम् । मम हस्तेन दैत्योऽयं मरिष्यति न संशयः ॥ ८॥ तत् कथं मोघरूपं मे कृतं हैवेन केन च । ईशोऽहमनीशो जातः पश्चात् सूर्योदयो यथा ॥ ९॥ तत्रैव सहसा देवमुनिर्नारद आययौ । मां प्रणम्य स्थितो भक्त्या पूजितः स मया तथा ॥ १०॥ ततो मयाऽतिखेदेन पृष्टोऽसौ नारदो मुनिः । त्रिपुरस्य वधार्थाय मां जगाद स बुद्धिमान् ॥ ११॥ नारद उवाच । शिव त्वं मोहसंयुक्तोऽहङ्कारेण धृतोऽसि वै । विघ्नराजमनर्च्याऽसौ सत्ताहीनोऽसि भो प्रभो ॥ १२॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । ईशत्वं तेऽधुना नष्टं ढुण्ढेरनर्चनात् प्रभो ॥ १३॥ सत्तां स्वकीयदेहस्थां धृत्वा मोहपरायणाः । गणेशं ये न जानन्ति सत्ताहीना भवन्ति ते ॥ १४॥ यस्य कटाक्षपातेन कृपया तृणमेककम् । सृजते पाति हन्त्येव ब्रह्माण्डं लोकसङ्कुलम् ॥ १५॥ तस्य कृपाविहीनस्त्वमशक्तोऽसि सदाशिव । संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि ॥ १६॥ अतस्तं शरणं गच्छ तेन सत्तासमन्वितः । हनिष्यसि महादैत्यं त्रिपुरं त्रिविधे रतम् ॥ १७॥ मुद्गल उवाच । एवमुक्त्वा महेशानं तं प्रणम्य महामुनिः । नारदो गणपं गायन् ययौ स्वेच्छापरायणः ॥ १८॥ ततः शिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकम् । दण्डकारण्यदेशे स वनगस्तप आचरत् ॥ १९॥ शतवर्षे गते ते स आययौ गणनायकः । मूषकोपरि संस्थो यो दशायुधधरः प्रभुः ॥ २०॥ तं दृष्ट्वा सहसोत्थाय शङ्करः प्रणनाम ह । पूज्य तुष्टाव हर्षेण गणेशं भक्तिसंयुतः ॥ २१॥ श्रीशिव उवाच । गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये । शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२॥ गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने । संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३॥ अनन्तविभवायैवानन्तमायाप्रचालक । अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ २४॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे । सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥ २५॥ स्वानन्दपतये तुभ्यं मूषकध्वजधारिणे । (Page खं. ८ अ. १२ पान २८) सिद्धिबुद्धिपते नाथेक्षुसागरपते नमः ॥ २६॥ मनोवाणीविहीनाय मनोवाणीमयाय ते । योगेशाय महाविष्णुसुताय ते नमो नमः ॥ २७॥ शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः । दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥ २८॥ यत्र वेदादयो नाथ योगिनः शान्तिमाययुः । तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥ २९॥ नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे । मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥ ३०॥ हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् । धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥ ३१॥ भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक । कृतकृत्यो भविष्यामि शान्तियोगपरायणः ॥ ३२॥ त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् । महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥ ३३॥ शिवस्य वचनं श्रुत्वा गुणेशस्तमथाब्रवीत् । भक्तं देववरिष्ठं तु तपसा तोषितो भृशम् ॥ ३४॥ श्रीगणेश उवाच । त्वयोक्तं सफलं सर्वं भविष्यति सदाशिव । अन्यत् त्रिपुरनाशार्थं वदामि श‍ृणु साम्प्रतम् ॥ ३५॥ त्रिविधा परमा माया देहभोगपरायणा । आसुरी त्रिपुराख्या सा नानाविषयलम्पटा ॥ ३६॥ तस्या जयार्थमत्यन्तं तुरीयं गणपाकृति । त्वयाऽऽश्रितं मदीयं च रूपं पुरुषवाचकम् ॥ ३७॥ पौरुषं बीजरूपं में गृहाण त्वं सदाशिव । मायां त्रिगुणरूपां तु मयि क्षिप विचक्षण ॥ ३८॥ एवमुक्त्वा गुणेशस्तं ददौ मन्त्रं तु पौरुषम् । मायां गृह्य तदीयां स निर्मोहमकरोच्छिवम् ॥ ३९॥ तत्र सोंऽतर्हितः सद्यो गुणेशो ब्रह्मनायकः । शिवो मन्त्रप्रभावेण जघान त्रिपुरासुरम् ॥ ४०॥ सदा पौरुषभावेन संयुक्तः स बभूव ह । मायां जित्वा विशेषेण स्वाधीनां तां चकार ह ॥ ४१॥ श‍ृणुयाद्यो गणेशस्य स्तोत्रं शिवकृतं पठेत् । निर्मोहः सर्वभावेषु भवेद्देवपरायणः ॥ ४२॥ पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः । भुक्त्वा भोगाननेकांश्चान्ते स्वानन्दमवाप्नुयात् ॥ ४३॥ इदं गुणेशमाहात्म्यं कथितं लेशतो मया । पठनाच्छ्रवणान् नृभ्यः सर्वसिद्धिप्रदायकम् ॥ ४४॥ धूम्रवर्णात्मकश्चायमवतारः प्रकीर्तितः । पौरुषार्थप्रदः पूर्णो गणेशो भुक्तिमुक्तिदः ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ८.१२ (Page खं. ८ अ. १३ पान २९)

८.१३ बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । बलेः पुत्रोऽभवद्बाणो दैत्यः परमधार्मिकः । शिवभक्तः सदा साधुगुणयुक्तः प्रतापवान् ॥ १॥ बाल्यात् प्रारभ्य शम्भुं सोऽभजद्भावपरायणः । नान्यं देवं प्रजानाति स्वधर्मपालको बभौ ॥ २॥ शुक्रः पञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने । सविधिं शङ्करस्यैवादिदेश तपसे मतिम् ॥ ३॥ सोऽतपत्तप उग्रं मां ध्यात्वा मद्भक्तिभावितः । प्रगतेषु च वर्षेषु सहस्रे तोषितोऽभवम् ॥ ४॥ मुद्गल उवाच । जगाम वरदो बाणं शङ्करः करुणानिधिः । स तं तुष्टाव रौद्रैश्च स्तोत्रैः पूज्य यथाविधि ॥ ५॥ प्रसन्नो भगवान् प्राह वरान् वृणु महामते । दास्यामि तपसा तुष्टो भक्त्या चैवासुराधिप ॥ ६॥ बाणासुर उवाच । वरदोऽसि महादेव भक्ति देहि त्वयि स्थिराम् । शैवं मां कुरु देवेश नान्यदेवपरायणम् ॥ ७॥ बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतम् । न मत्समः प्रसङ्ग्रामे सम्भवेत् सचराचरे ॥ ८॥ तथेति तं महादेवो जगाद भक्तमुत्तमम् । ययौ स्वनगरं शुम्भुः पार्वत्या गणसंयुतः ॥ ९॥ ततो बाणासुरो दैत्यो जिग्ये वै विष्णुमुख्यकान् । सुरान् राज्यं चकाराऽसौ धर्मनिष्ठः स्वभावतः ॥ १०॥ स्वर्गेषु देवपान् स्थाप्य पातालेषु महासुरान् । नागान् नरान् पृथिव्यां स राज्यं चकार धर्मतः ॥ ११॥ वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यपः । नित्यं कैलासगो भूत्वा पूजयच्छङ्करं प्रभुम् ॥ १२॥ तस्य धर्मप्रभावेण भक्त्या तुष्टः सदाशिवः । वासार्थमाययौ शम्भुर्नगरे तस्य पार्षदैः ॥ १३॥ ततः स शाम्भवे दैत्यो विचारमकरोत् हृदि । पञ्चायतनरूपेण शङ्करः प्रबभूव ह ॥ १४॥ एकनिष्ठतया शम्भुं भजिष्यामि विशेषतः । नान्यं जानामि देवेशं शङ्करादपरं कदा ॥ १५॥ पूजिते शङ्करे सर्वं पूजितं सचराचरम् । मया वेदविवादेषु तथा सङ्कथितं बुधैः ॥ १६॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । अतोऽहमेकनिष्ठातो भजिष्यामि सदाशिवम् ॥ १७॥ तत्राऽऽदौ गणराजश्च पूजनीयः प्रयत्नतः । कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ॥ १८॥ ब्राह्मणैर्गाणपत्यैर्यैस्तैः कृतं त्विदमादरात् । द्वितीये पूजिते देवे एकनिष्ठा कथं भवेत् ॥ १९॥ एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परम् । एकनिष्ठतया शम्भुं पूजयन्नित्यमादरात् ॥ २०॥ एवं वर्षे गते पूर्णे शङ्करं पूज्य भक्तितः । शोणिते नगरे संस्थं स ननर्त पुरोऽसुरः ॥ २१॥ ततः प्रसन्नतां यातः शिवः कल्याणदायकः । जगाद तं वरं ब्रूहि महापाशुपताऽसुर ॥ २२॥ शिवस्य वचनं श्रुत्वा हर्षितो बलिनन्दनः । जगाद तं महादेवं प्रणिपत्यातिभक्तितः ॥ २३॥ बाणासुर उवाच । योद्धारं देहि देवेश सदृशं बलसंयुतम् । सहस्रभुजवीर्यस्य सहनेऽतिपराक्रमम् ॥ २४॥ तच्छ्रुत्वा कुपितः शम्भुर्ददौ शापं महात्मने । राज्यं भ्रष्टं भुजानां ते छेदश्चैव भविष्यति ॥ २५॥ वासुदेवेन सङ्ग्रामं करिष्यस्यसुराधम । (Page खं. ८ अ. १३ पान ३०) मत्तो वृणोषि किं दुष्ट भविष्यसि पराजितः ॥ २६॥ तच्छ्रुत्वा शोकसंयुक्तो बाणस्तं प्रणनाम ह । पुनः स्वगृहमागत्य काव्यं पूज्य जगाद सः ॥ २७॥ शिवस्तं त्यज्य कैलासं ययौ क्रोधसमन्वितः । उन्मत्तं धारयामास मानसे चासुरेश्वरम् ॥ २८॥ काव्यस्तं सान्त्वयामास श्रुत्वा वृत्तान्तमञ्जसा । बोधयामास दैत्येशं योगीशो द्विजसत्तमाः ॥ २९॥ शुक्र उवाच । गणेशं त्यज्य दैत्येन्द्र शङ्करं भजसे परम् । वेदे विरुद्धं तत् कर्म करोषि त्वं न संशयः ॥ ३०॥ ज्येष्ठराज इति प्रोक्तं वेदैः पश्य महामते । सर्वपूज्यादिपूज्यत्वं प्रकाशकारकं शुभम् ॥ ३१॥ यथा सन्ध्यादिकं कर्मावश्यं तद्वद् गजाननः । एकनिष्ठापरैः पूज्यः सर्वादौ ज्येष्ठभावतः ॥ ३२॥ त्यक्त्वा गणेश्वरं शम्भुं भजसे नित्यमादरात् । कुपितो गणनाथस्तु बुद्धिभेदं चकार ह ॥ ३३॥ सिद्धिबुद्धिपतिः साक्षाद्गणेशो ब्रह्मनायकः । तं त्यक्त्वा शाम्भवीं सिद्धिं लभसे कथमप्यहो ॥ ३४॥ शिवस्य हृदये सोऽपि तव तिष्ठति साम्प्रतम् । यदिच्छया शिवाद्याश्च वर्तन्ते त्वमपि ध्रुवम् ॥ ३५॥ अतस्त्वं शिवहीनश्च कृतस्तेन महात्मना । संशप्तः शङ्करेणैव शैवः परमभाविकः ॥ ३६॥ गच्छ तं शरणं देवं गणेशं ब्रह्मनायकम् । तदा विघ्नविहीनस्त्वं भविष्यसि न संशयः ॥ ३७॥ गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः । बाह्यान्तरैकभावेन समूहो जायते ह्यतः ॥ ३८॥ तथाऽयं गणराजस्य गण एकः शिवः स्मृतः । समूहाख्यश्च तपसां विचारय महामते ॥ ३९॥ अथवा शिवसंज्ञोऽयं सहजानां परा गतिः । गणरूपश्चेश्वराणां समूहे सहजः शिवः ॥ ४०॥ एवं विष्ण्वादयः सर्वे गणास्तस्य प्रकीर्तिताः । पश्य वेदोपनिषदि कथितं तत्त्वथर्वणि ॥ ४१॥ एवमुक्त्वा महादैत्यं काव्यः स्वगृहमाययौ । बाणः खेदसमायुक्तो विचारमकरोत् हृदि ॥ ४२॥ ततस्तेन गणेशस्य महो ज्ञातं महाद्भुतम् । चतुर्थीं प्राप्य दैत्येशस्तं पुपूज गजाननम् ॥ ४३॥ ध्याननिष्ठो गणेशस्य जजाप मन्त्रमुत्तमम् । गणानां त्वेति बाणः स क्षमापनं चकार ह ॥ ४४॥ अथर्वोपनिषद्भिस्तं तुष्टाव स कृताञ्जलिः । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ ४५॥ उपवासकरं बाणमाययौ द्विरदाननः । वरदो ह्येकवर्षेण मूषकोपरि संस्थितः ॥ ४६॥ आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्यादौ पुपूज भक्तिलोलुपः ॥ ४७॥ पुनः प्रणम्य विघ्नेशं तुष्टाव स कृताञ्जलिः । बाणः परमधर्मात्मा भक्तिनम्रात्मकन्धरम् ॥ ४८॥ बाणासुर उवाच । विघ्नेशाय परेशाय भक्तविघ्नविदारिणे । अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ ४९॥ विनायकाय देवेश दैत्येशनायकाय ते । निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ ५०॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः । सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ ५१॥ लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने । (Page खं. ८ अ. १३ पान ३१) आदिमध्यान्तहीनाय हेरम्बाय नमो नमः ॥ ५२॥ शूर्पकर्णाय शूराय मोहान्धकविदारिणे । ब्रह्मेशाय सुशान्ताय शान्तिदात्रे नमो नमः ॥ ५३॥ एकदन्ताय देवाय स्वानन्दे वासकारिणे । अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥ ५४॥ मायामायिकरूपाय मायामायिकवर्जित । अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ ५५॥ सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण । योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः ॥ ५६॥ त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे । सिद्ध्या सम्मोहितं नाथ सिद्धिदात्रे नमो नमः ॥ ५७॥ शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् । अहङ्कारेण युक्ताश्चेद्भ्रष्टाः स्वस्वाधिकारतः ॥ ५८॥ मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया । मां शप्त्वा त्यज्य सः शम्भुर्गतः क्रोधपरायणः ॥ ५९॥ अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् । अपराधान् महोग्रान् मे क्षान्त्वा पाहि निरन्तरम् ॥ ६०॥ एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च । बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥ ६१॥ तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् । स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् ॥ ६२॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् । भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥ ६३॥ अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै । भुक्तिं मुक्तिं सदा सौख्यं श‍ृण्वते मनसीप्सितम् ॥ ६४॥ त्वया त्यक्तोऽहमत्यन्तक्रोधयुक्तश्च नित्यदा । शिवहीनं प्रकृत्वांऽते नारकं त्वां करोमि वै ॥ ६५॥ किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् । शरणागतमेवं मे मत्पादप्रवणं परम् ॥ ६६॥ शिवशापो न मिथ्या ते भविष्यति कदाचन । तथापि श‍ृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥ ६७॥ वासुदेवं समायुध्य भुजच्छेदो भविष्यति । भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥ ६८॥ एवमुक्त्वा महादैत्यं गणेशो विरराम ह । तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥ ६९॥ बाण उवाच । तव विस्मरणं नाथ न भवेन् मे तथा कुरु । त्वया युक्तं शिवं नित्यं भजिष्यामि सुभक्तितः ॥ ७०॥ गाणेशं ज्ञानमाद्यं मे देहि विघ्नेश शाश्वतम् । नान्यदिच्छामि सर्वेश त्वत्पादप्रवणोऽधुना ॥ ७१॥ श्रीगणेश उवाच । गाणेशज्ञानसंयुक्तो भविष्यसि महासुर । अनेन जडदेहेन गणः शैवो भविष्यसि ॥ ७२॥ महाकालेति नाम्ना त्वं विख्यातः सर्वमण्डले । नष्टे शिवपदे दैत्य स्वानन्दे आगमिष्यसि ॥ ७३॥ एवमुक्त्वा गणाधीशोंऽतर्दधे मुनिसत्तमाः । बाणो हर्षसमायुक्तो गणेशमभजत्ततः ॥ ७४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॥ ८.१३ (Page खं. ८ अ. १४ पान ३२)

८.१४ बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । कृपया वरदानेन गणेशभजनेन च । बुद्धिभेदः शिवस्यापि बभूव सर्वसंयुतः ॥ १॥ ततो गिरिसुतायुक्तः शङ्करः स्कन्दमुख्यकैः । गणैः समाययौ सद्यो बाणस्य नगरं पुनः ॥ २॥ तमागतं समाज्ञाय बाणो हर्षसमन्वितः । ध्यात्वा गजाननं देवं ययौ शङ्करसन्निधिम् ॥ ३॥ प्रणनाम स साष्टाङ्गं शिवं गणसमन्वितम् । रुरोद पूजयित्वा तं क्षमस्वेति जगाद सः ॥ ४॥ ततस्तं शङ्करो भक्तं समुत्थाप्य प्रसस्वजे । जगाद मधुरं वाक्यं हर्षयन् दानवाधिपम् ॥ ५॥ श्रीशिव उवाच । मा कुरुष्व वृथा चिन्तां सन्तुष्टोऽहं समागतः । वरान् वृणु महाभाग दास्यामि बलिनन्दन ॥ ६॥ बाणासुर उवाच । तव भक्तिं स्थिरां देहि वियोगस्ते न मे क्वचित् । भवेत्तथा महादेव कुरुष्व शिव सर्वदा ॥ ७॥ तथेत्युवाच शम्भुस्तं तस्थौ तन्नगरे सदा । ततस्तस्मात् सुता जज्ञे सर्वलक्षणसंयुता ॥ ८॥ उषानाम्नीं महाभागामुपयेमेऽनिरुद्धकः । तां स्वप्ने सा शुशोचैव तदर्थं कामपीडिता ॥ ९॥ चित्रलेखा तमानीय ददौ तस्यै पतिं स्वकम् । मायया यादवान् सम्मोह्य मुमोद ततः परम् ॥ १०॥ एकस्तम्भस्थितां तां स उपयेमेऽनिरुद्धकः । तया सम्मोहितोऽत्यन्तं रेमे हर्षसमन्वितः ॥ ११॥ यादवाः संहृतं रात्रौ दृष्ट्वा कामसुतं दृढम् । शुशुचुः परमोद्विग्ना न लेभुस्तद्गतिं च ते ॥ १२॥ प्रद्युम्नेन गणाधीशः प्रार्थितस्तपसा परः । तस्य प्रसादयोगेन नारदस्तत्र चाययौ ॥ १३॥ तेन सङ्कथितं सर्वं चेष्टितं कामपुत्रजम् । श्रुत्वा संहर्षिताः सर्वे यादवाः प्रबभूविरे ॥ १४॥ तत ईश्वरसंयुक्तं बाणं जेतुं मनो दधे । कृष्णो रामेण संयुक्तो यादवैः परमद्युतिः ॥ १५॥ शङ्करस्य भयेनैव भीतं तं प्रत्युवाच ह । उद्धवः कुरु कृष्ण त्वं गणेशाराधनं परम् ॥ १६॥ तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः । शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति ॥ १७॥ तत एकाक्षरस्यैव पुरश्चरणमाकरोत् । कृष्णो गणपतिं ध्यात्वा यथाशास्त्रं विधानतः ॥ १८॥ यादवैः प्रययौ तत्र यत्र बाणः स्थितोऽभवत् । शङ्खं दध्मौ ततः सोऽपि स शिवो योद्धुमाययौ ॥ १९॥ ततः शिवो ददौ तस्मै कवचं गणपस्य च । सामवेदभवं शुद्धं बाणाय खेदसंयुतः ॥ २०॥ शिवशप्तासुरेणात्र हस्तच्छेदस्य कारणात् । कृष्णः संयुयुधे तेन दैत्येन्द्रेण महाबलः ॥ २१॥ खिन्नं बाणं समालोक्य शङ्करो योद्धुमाययौ । कृष्णेन तं समालोक्य कृष्णः सस्मार विघ्नपम् ॥ २२॥ महायुद्धं तयोरासीत् त्रिलोकीनाशसन्निभम् । शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ॥ २३॥ ततो जृम्भास्त्रवेगेन मोहयित्वा सदाशिवम् । कृष्णश्चक्रं मुमोचैव बाणस्य भुजसञ्छिदे ॥ २४॥ चक्रेण क्षुरधारेण भुजाश्छिन्नाः समन्ततः । अवशिष्टौ भुजौ द्वौ च चक्रं सङ्कुठितं ततः ॥ २५॥ ततः खेदसमायुक्तः कृष्णः सस्मार विघ्नपम् । स्वयमाकाशवाणीं स शुश्राव गणपेरिताम् ॥ २६॥ (Page खं. ८ अ. १४ पान ३३) गणेशकवचेनैव रक्षितं शङ्करेण च । बाणं हन्तुं रणे कृष्ण न क्षमस्त्वं भविष्यसि ॥ २७॥ शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः । जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ ॥ २८॥ ततो हर्षेण संयुक्तः कृष्णश्चक्रं निवर्त्य च । संस्थितः संयुगे सद्यो जृम्भास्त्रैर्वर्जितोऽभवम् ॥ २९॥ ततो मयाऽतिबोधेन ज्ञातं विघ्नेशचेष्टितम् । कृष्णो ननाम मां तत्र स्वस्वजेऽहं जनार्दनम् ॥ ३०॥ यथाविधि विवाहं स चकार दैत्यनायकः । अनिरुद्धाय पुत्रीं स्वां ददौ प्रेमपरिप्लुतः ॥ ३१॥ ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः । बाणो राज्यं परित्यज्य महाकालो बभूव ह ॥ ३२॥ कैलासे प्रातरुत्थाय पुपूज द्विरदाननम् । शमीमन्दारदूर्वादिरक्तपुष्पैर्विशेषतः ॥ ३३॥ सम्पूज्यादौ गणपतिं पश्चाच्छम्भुं महागणः । सदा ध्यानपरो भूत्वा तोषयामास तौ परौ ॥ ३४॥ शौनक उवाच । सूत विघ्नेश्वरस्यैव प्रियोऽत्यन्तं बभूव ह । रक्तवर्णः कथं तेन तुष्टो भवति सर्वपः ॥ ३५॥ रक्तवर्णः स्वयं साक्षाद्गणेशो ब्रह्मणां पतिः । रक्तवस्त्रधरो रक्तचन्दनेन विराजितः ॥ ३६॥ रक्तपुष्पधरः पूर्णः सिन्धुराङ्गविलेपनः । रक्तसागरखेली स वद कारणमुत्तमम् ॥ ३७॥ सर्ववर्णमयश्चायं कथमेकं समाश्रितः । तन्नः संशयदं साधो नुद सर्वज्ञसत्तम ॥ ३८॥ सूत उवाच । वर्णाः पञ्च समुद्भूताः सृष्ट्यादौ श्वेतशामलौ । रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा ॥ ३९॥ परस्परविभेदेन तथा सम्मीलनेन च । अनन्ता वर्णकाः प्रोक्ता जानीहि द्विजसत्तम ॥ ४०॥ तैस्तपो गणनाथस्य कृतं घोरं तु पञ्चभिः । वर्षकेषु शते तान् स आययौ गणनायकः ॥ ४१॥ तं दृष्ट्वा प्रणताः सर्वे वर्णाः सन्तुष्टुवुः परम् । वरान् वव्रुः तथा विप्र स्वस्वशोभासमन्वितान् ॥ ४२॥ अन्ये गणेश्वरं ते तु जगुस्तं ब्रह्मनायकम् । अस्मदीयस्वरूपस्थो भव स्वामिन्नमोऽस्तु ते ॥ ४३॥ वयं तेन गणाध्यक्ष कृतकृत्या भवामहे । मायाबन्धनहीनास्त्वां भजामहे निरन्तरम् ॥ ४४॥ तथेति तानुवाचैव गणेशोंऽतर्दधे ततः । वर्णा हर्षयुताः सर्वे स्वस्वकार्यरताः पुरा ॥ ४५॥ वर्णैः संशोभितं सर्वं नानाभेदैः समन्ततः । चराचरं विशेषेण वर्णयुक्तं बभूव ह ॥ ४६॥ काश्यपो गणनाथस्तु नीलवर्णाकृतिं धरः । मयूरेशस्तथा श्वेतवर्णयुक्तो बभूव ह ॥ ४७॥ वरेण्यस्य सुतो रक्तवर्णयुक्तो गजाननः । धूम्रवर्णस्तथा श्यामवर्णरूपधरो बभौ ॥ ४८॥ हरिद्रागणपः पीतवर्णाकृतिपरोऽभवत् । नानावताररूपैः स नानावर्णधरोऽभवत् ॥ ४९॥ एवं वरप्रदानेन वर्णाः सर्वे महामुने । गणेशाराधने सक्ताः स्वस्वकार्यपरायणाः ॥ ५०॥ ततो रक्तेन वर्णेन पुनस्तप्तं तपो महत् । निराहारेण विप्रेश ध्यात्वा हृदि गजाननम् ॥ ५१॥ सहस्रवर्षे च गते गणपस्तं समाययौ । वरान् दातुं महाभागं स ननाम गणाधिपम् ॥ ५२॥ (Page खं. ८ अ. १५ पान ३४) पूजयित्वा प्रतुष्टाव रक्तवर्णः प्रहर्षितः । स्तोत्रैर्नानाविधैस्तं तु गाणेशैर्गणपप्रियैः ॥ ५३॥ ततः प्रसन्नभावेन विघ्नेशस्तमुवाच ह । वरान् वृणु महाभाग रक्तवर्ण हृदीप्सितान् ॥ ५४॥ रक्तवर्ण उवाच । रक्तवर्णस्वरूपस्थो भव त्वं गणनायक । सदा रक्तप्रियो नाथ नानावर्णेषु मानद ॥ ५५॥ तेनाऽहं सर्ववर्णेषु श्रेष्ठो भावी न संशयः । सततं कृतकृत्यश्च तव सन्निधिसंस्थितः ॥ ५६॥ तथेति तमथोक्त्वाऽसौ गणेशोंऽतर्दधे स्वयम् । तदादि वेदशास्त्रेषु रक्तवस्तुप्रियोऽभवत् ॥ ५७॥ इदं बाणचरित्रं यः श‍ृणुयाद्वर्णसम्भवम् । पठेत्तस्य गणाधीशो वरदश्च भविष्यति ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः ॥ ८.१४

८.१५ बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । श्रुत्वा त्वद्वदनाम्भोजात् कथाममृतरूपिणीम् । जन्ममृत्युहरां पूर्णां सर्वसौख्यकरीं शिव ॥ १॥ गाणेशानीं न तृप्ता वै वयं वद महामते । पुनर्गणपतेः सौम्यां कथामवतारजां पराम् ॥ २॥ श्रीशिव उवाच । कलिप्रवृत्तिकामार्थं ब्रह्मा विष्णुं ययौ पुरा । तुष्टाव तं रमानाथं जगाद स्वप्रयोजनम् ॥ ३॥ ब्रह्मोवाच । कलिं पापस्वरूपं च सृजामि स्म जनार्दन । न तं जनाः प्रहर्षेण मानयिष्यन्ति सर्वदा ॥ ४॥ द्वापरान्ते कलिः प्रोक्तस्तस्य कालोऽधुनाऽऽगतः । तं प्रवर्तय देवेश त्वं स्मृतः सर्वपालकः ॥ ५॥ ब्रह्मणो वचनं श्रुत्वा केशवस्तमुवाच ह । पापरूपं महाघोरं नाभिनन्दाम्यहं कलिम् ॥ ६॥ धर्मपालनभावार्थमवतारं करोम्यहम् । धर्मनाशकरं पापं कलिं नैवाभिनन्दये ॥ ७॥ ततस्तं केशवं देवं जगाद चतुराननः । बुद्धावतारभृत्त्वं वै कथितोऽसि जनार्दन ॥ ८॥ अवतारचरित्रं ते कलिप्रवर्तकं प्रभो । पश्य पौराणिकीं गाथां स्वधर्मस्थां त्वदाश्रिताम् ॥ ९॥ ब्रह्मणो वचनं श्रुत्वा निःश्वस्य तमथोऽब्रवीत् । विष्णुस्तथेति दुःखेन ब्रह्मा स्वभवनं ययौ ॥ १०॥ ततः स भगवांस्तत्र तताप तप उत्तमम् । षडक्षरेण मन्त्रेण ध्यात्वा हृदि गजाननम् ॥ ११॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् । तमाययौ महाभक्तं भक्तेशो भक्तवत्सलः ॥ १२॥ तमागतं समालोक्य तुष्टावाऽऽपूज्य विघ्नपम् । हेरम्बोपनिषत्तत्त्वैर्भक्त्या नम्रात्मकन्धरः ॥ १३॥ ततो गजाननस्तुष्टस्तं जगाद कृपान्वितः । वरान् वृणु महाभाग यांस्ते चित्ते स्थिरान् परान् ॥ १४॥ (Page खं. ८ अ. १५ पान ३५) गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीत् । कृताञ्जलिः प्रणम्यैव गणेशं सर्वसिद्धिदम् ॥ १५॥ श्रीविष्णुरुवाच । भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीम् । बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे ॥ १६॥ धर्मसंस्थापनं नित्यं करोमि गणनायक । धर्मलोपार्थमेवाहं त्वया बुद्धः प्रकीर्तितः ॥ १७॥ एतदेव विरुद्धं मे प्राप्तं ढुण्ढे दयानिधे । तदर्थं शरणं नाथ यातोऽहं ते पदस्य च ॥ १८॥ अतो मां रक्ष विघ्नेश विरुद्धाचरणात् प्रभो । विनायकस्त्वमेको वै कुरु मां धर्मपालकम् ॥ १९॥ श्रीगणेश उवाच । मा भयं कुरु विष्णो त्वं धर्मयुक्तो भविष्यसि । कलिप्रवर्तने दोषो न ते क्वापि महात्मनः ॥ २०॥ मया चतुर्युगाः खेलाद्रचिताः क्रमकारणात् । वरदानेन मे सर्वे स्वस्वकालयुता बभुः ॥ २१॥ कलिस्तेषु महापापी मया संस्थापितोऽभवत् । मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादरात् ॥ २२॥ अहङ्कारं विभो त्यक्त्वा कर्ताहमिति चित्तगम् । समर्प्य मयि कर्माणि कुरु कर्म यथातथम् ॥ २३॥ चित्ते चिन्तामणिं पश्य तदिच्छावशगं जगत् । ब्रह्म नानाविधं तद्वत्तत्र कस्त्वं विचारय ॥ २४॥ वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता । तस्या आज्ञां प्रपाल्यैव वर्तितव्यं तु जन्तुभिः ॥ २५॥ प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परम् । सर्वेषां नात्र सन्देहो जीवानामीशभाविनाम् ॥ २६॥ कलिखेलकरः सोऽपि गणेशो धूम्रवर्णकः । चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थतः ॥ २७॥ एवं धार्य महाविष्णो मदाज्ञावशगो भव । कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि ॥ २८॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । विष्णुर्हर्षसमायुक्तो बुद्धोऽभूच्च महर्षयः ॥ २९॥ कृतं तेन महच्छास्त्रं बौद्धं मोहप्रदायकम् । कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् ॥ ३०॥ सनकाद्या ऊचुः । कीदृशं बौद्धशास्त्रं तद्वद सर्वज्ञ ते नमः । ज्ञात्वा मोहविहीनास्तज्जना भवन्ति नित्यदा ॥ ३१॥ श्रीशिव उवाच । श‍ृणुध्वं मुनयः सर्वे बौद्धं नरकदायकम् । वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदम् ॥ ३२॥ स्वयं बुद्धिपतिः साक्षाद् हृदि तिष्ठति देहिनाम् । ब्रह्मणामीश्वराणां च पञ्चचित्तप्रचालकः ॥ ३३॥ स विनायक इत्युक्तः सर्वेषां नायको मतः । नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः ॥ ३४॥ तदिच्छया स्वयं ब्रह्म नानारूपधरं बभौ । नानाक्रीडासमायुक्तं नानामायाबलाश्रितम् ॥ ३५॥ तत्र पापादिकं नास्ति न पुष्पादिकमञ्जसा । ज्ञानाज्ञानसमानैश्च तुर्यं वै नात्र संशयः ॥ ३६॥ न स्वर्गप्राप्तिदं कर्म ब्रह्मणो नारकं कथम् । भ्रान्तिदं सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेत् ॥ ३७॥ हृदि बुद्धिप्रदातारं सर्वेषां खेलकारकम् । तं ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः ॥ ३८॥ चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः । न वर्णाश्रमधर्मैः स शरीरं पीडयेत् कदा ॥ ३९॥ (Page खं. ८ अ. १५ पान ३६) देहो भोगार्थमानन्दाद्रचितस्तेन ब्रह्मणा । नानायत्नैः शरीरं तत् पोषणीयं निरन्तरम् ॥ ४०॥ शरीरे कष्टमापन्ने बुद्धिः खेदयुता भवेत् । तत्स्थबुद्धिपतिः साक्षाद् दुःखितश्च तथा भवेत् ॥ ४१॥ अहं ब्रह्मेति सन्धार्य सदा स्वेच्छापरो भवेत् । पापपुण्यविहीनः स देहपोषणकारकः ॥ ४२॥ नानापदार्थभावेषु मनस्तस्य प्रवर्तते । भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमम् ॥ ४३॥ जीवहिंसामयं कर्म कर्तव्यं न कदाचन । तृणाङ्कुरादिकं तद्वन्नच्छेत्तव्यं विचारतः ॥ ४४॥ देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः । न स्वाहा न स्वधाद्यं यदहं ब्रह्मेति बोधतः ॥ ४५॥ ब्राह्मणेभ्यो न दातव्यं दानभोज्यादिकं कदा । सर्वे समानरूपाश्च कथं तत्र द्विजादिकम् ॥ ४६॥ यत्र चित्तस्य सम्प्रीतिर्जायते मुनिसत्तमाः । तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः ॥ ४७॥ एवं नानामतैर्युक्तं शास्त्रं बौद्धं महर्षयः । ज्ञातव्यं कलिदोषैश्च युक्तं नरकदं भवेत् ॥ ४८॥ वर्णाश्रमस्थकं धर्मं त्यक्त्वा स्वेच्छापरो भवेत् । अहिंसा परमो भावी ह्येतद्बौद्धरहस्यकम् ॥ ४९॥ सर्वान् सम्मोह्य विश्वात्मा बुद्धः कलिप्रवर्तकः । संस्थितः कैकटे देशे गुप्तरूपेण मानदाः ॥ ५०॥ गणेशध्यानसंयुक्तः समर्प्य ढुण्ढये कृतम् । कर्मयोगयुतः सोऽपि तदाऽऽज्ञापालकोऽभवत् ॥ ५१॥ तथापि पूजया हीनो बभूवे बुद्धरूपधृक् । विष्णुर्वेदविरुद्धस्थमार्गसंसर्जनात् किल ॥ ५२॥ कलिप्रान्ते दुराचारा बौद्धमाया विमोहिताः । वर्णाश्रमपरिभ्रष्टा भविष्यन्ति गृहे गृहे ॥ ५३॥ लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः । अधर्मेण जितः सोऽपि सदोपोषणसंयुतः ॥ ५४॥ ततो बुद्धः स्वयं ढुण्ढिं परं ध्यात्वा तपोन्वितः । प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ॥ ५५॥ ततो गणेश्वरः साक्षात् प्रसन्नोऽवतरिष्यति । धूम्रवर्ण इति ख्यातो धर्मं संस्थापयिष्यति ॥ ५६॥ हृष्टो बुद्धश्च तं नत्वा पूज्य स्तुत्वा विशेषतः । अन्तर्धानं स्वयं कृत्वा स्वमहिम्नि स्थितो भवेत् ॥ ५७॥ इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावतः । पठनाच्छ्रवणात् सद्यो मोहघ्नं कामदं भवेत् ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः ॥ ८.१५ (Page खं. ८ अ. १६ पान ३७)

८.१६ धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिव उवाच । वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः । प्रार्थयिष्यन्ति विघ्नेशमुपोषणपरायणाः ॥ १॥ नानातपोन्वितान् वीक्ष्य प्रादुर्भावं गजाननः । करिष्यत्यमरान् विप्राः पुरः परमभक्तितः ॥ २॥ समागतं गणेशानं धूम्रवर्णधरं प्रभुम् । द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणम् ॥ ३॥ नानापुष्पमयीं मालां दधानं गन्धचर्चितम् । दृष्ट्वा सुराः प्रणेमुस्तं नत्वा पूज्य प्रतुष्टुवुः ॥ ४॥ नमस्ते धूम्रवर्णाय नानाखेलकराय च । अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ ५॥ अनाथानां प्रणाथाय नाथनाथाय ते नमः । सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ ६॥ सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे । योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ ७॥ नरकुञ्जररूपाय धूम्रवर्णधराय च । द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ ८॥ खड्गचर्मधरायैव नाना चन्दनचर्चित । नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥ ९॥ पूर्णाय पूर्णरूपाय गणेशाय परात्मने । धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥ १०॥ धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया । नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्वदग्रतः ॥ ११॥ बुद्धमायासहायेन कलिना निर्जिता वयम् । विष्णुशम्भुमुखा देवास्तान् पालय महोदर ॥ १२॥ सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः । क्षुद्रदेवाः स्वग्रामस्थाः कलिना पपलुश्च ते ॥ १३॥ ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः । तीर्थानि कलिना नाथ जितानि पपलुस्तथा ॥ १४॥ ततो दशसहस्रेण जिता विष्णुशिवादयः । कलिना पृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः ॥ १५॥ कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् । विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥ १६॥ त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् । देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥ १७॥ न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः । छेत्तुं समुद्यतः क्वापि त्वां चिन्तयति सर्वदा ॥ १८॥ तव चिन्तनभावेन वयं सर्वे पराजिताः । कलिना देवदेवेश उपोषणयुताः कृताः ॥ १९॥ अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप । तं हनिष्यति वेगेन कलिः परमदारुणः ॥ २०॥ नष्टे धर्मे गणाधीश अधर्मः केवलो महान् । भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥ २१॥ अतो लेशमयं धर्मं रक्षस्व गणनायक । नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥ २२॥ रक्ष रक्ष दयासिन्धो धूम्रवर्ण गजानन । मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥ २३॥ एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः । रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः ॥ २४॥ धूम्रवर्ण उवाच । मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् । सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥ २५॥ भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् । पठते श‍ृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥ २६॥ धनधान्यप्रदं चैवारोग्यसम्पत्प्रवर्धनम् । पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥ २७॥ एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् । निर्ममे विविधां सेनां नानाशस्त्रसमन्विताम् ॥ २८॥ (Page खं. ८ अ. १६ पान ३८) नानावाहनगां पूर्णतेजोयुक्तां महर्षयः । तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥ २९॥ म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् । स्वयं सन्त्रासयामास कलिं धर्मवधे रतम् ॥ ३०॥ तस्याङ्गवायुना स्पृष्टा जना धर्मपरायणाः । भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥ ३१॥ कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः । गणेशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥ ३२॥ ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः । देहधारी समागत्य धूम्रवर्णं ननाम सः ॥ ३३॥ तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् । ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥ ३४॥ कलिरुवाच । धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक । नानारूपधरायैव विघ्नेशाय नमो नमः ॥ ३५॥ अनन्तपादहस्तायानन्तबाहुधराय ते । अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ ३६॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ ३७॥ आदिमध्यान्तहीनायादिमध्यान्तभयाय ते । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ३८॥ मायाहीनाय मायाया आधाराय परात्मने । मायिभ्यो मायया मोहदायिने ते नमो नमः ॥ ३९॥ कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ४०॥ सहजाय नमस्तुभ्यं स्वानन्दाय समाधये । योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥ ४१॥ कस्त्वां स्तोतुं समर्थः स्याद्यत्र शान्तिं गताः प्रभो । वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥ ४२॥ रक्ष मां गणनाथ त्वं दासं शरणमागतम् । अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥ ४३॥ एवमुक्त्वा कलिस्तस्य पादं गृह्य पपात ह । तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥ ४४॥ धूम्रवर्ण उवाच । मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन । शरणं मां प्रपन्नं च श‍ृणु मे वच नोहतम् ॥ ४५॥ स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् । पठते श‍ृण्वते नित्यं सर्वकामफलप्रदम् ॥ ४६॥ अन्ते स्वानन्ददं पूर्णं भविष्यति कले परम् । दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥ ४७॥ तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः । कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥ ४८॥ तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् । धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥ ४९॥ पुनस्तान् स्थाप्य सर्वेशः कृतं तैः सम्प्रवर्तयत् । स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः ॥ ५०॥ धूम्रवर्णावतारस्य चरितं कथितं मया । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॥ ८.१६ (Page खं. ८ अ. १७ पान ३९)

८.१७ युगवरप्रदानं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सूत महाभाग कथां पापापहारिणीम् । वदसे योगदां पूर्णां श्रुत्वा तृष्टा वयं द्विज ॥ १॥ पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः । महासंशयसंयुक्ता वयं जाता विशेषतः ॥ २॥ कृते स्त्रीणां च स्वातन्त्र्यं त्रेतायां ब्रह्मणा कृतम् । द्वापरे संस्कृतं श्वेतकेतुनैकपतिश्रितम् ॥ ३॥ गौतमेन कथं शप्ता कृतेऽहल्या महासती । इत्यादिबहवोऽस्माभिर्मार्गा दृष्टाः कृते युगे ॥ ४॥ अन्यत् कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते । एकवर्णाऽऽश्रमस्थास्ते भवन् सङ्कीर्तिता जनाः ॥ ५॥ त्रेतायां क्षात्रधर्मं तु चकार प्रपितामहः । ततोऽभवन्नरा वर्णाश्रमस्थास्ते प्रकीर्तितम् ॥ ६॥ सौरचान्द्रभवौ विप्र द्वापरान्ते स्थितौ नृपौ । पुनः कृतयुगे प्राप्ते राज्यं तौ च करिष्यतः ॥ ७॥ वर्णाश्रमविभागेन वर्तयिष्यन्ति मानवाः । किमिदं कौतुकं तत्र विरुद्धवाचकं परम् ॥ ८॥ युगधर्मेण नष्टास्ताः कलौ पापमये क्रियाः । वर्णाश्रमविभागस्थास्तत्र सिद्धिः कुतोऽभवत् ॥ ९॥ कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयात् । नरः सर्वत्र सम्प्रोक्तं कथं तच्च भविष्यति ॥ १०॥ अतो युगभवं सर्वं कथयस्व विशेषतः । यथातथ्यं महाभाग सुलभं सुगमार्थकम् ॥ ११॥ सूत उवाच । युगा नानाविधाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः । तदर्थज्ञो न मुह्येत मतभेदप्रमाणतः ॥ १२॥ तुरीयदेहगं केचित् कृतं वदन्ति निश्चितम् । त्रेता सुषुप्तिगा स्वाप्नं द्वापारं जागृतं कलिम् ॥ १३॥ तत्रात्मा गुणपः प्रोक्तो सर्वत्रैको महर्षयः । माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता ॥ १४॥ तस्यां नानाविधायां न व्यभिचारो भविष्यति । यत्र तत्र स्थितं स्वस्य पतिं पश्यति सा शुभा ॥ १५॥ सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागतः । तयोर्गुणेशजं रूपं तदाकारं विभाति च ॥ १६॥ भिन्नभावात् समुत्पन्ने जागृत्स्वप्ने न संशयः । तयोः पतिकलत्रादि व्यभिचारयुतं भवेत् ॥ १७॥ तत्र संस्थापिता तेन मर्यादा श्वेतकेतुना । श्वेतं स्वप्नं ध्वजो यस्य श्वेतकेतुः स वै स्मृतः ॥ १८॥ अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः । नेमे युगा महाविप्राः कथिता मुनिभिः पुरा ॥ १९॥ ध्यानं कृतयुगं केचित् यज्ञं त्रेतां वदन्ति च । आचारं द्वापरं देहविषयं कलिमेव च ॥ २०॥ तत्र ध्याने महाभागा एकवर्णाश्रमो भवेत् । ज्ञानं तदेव ज्ञातव्यमेकरूपधरं सदा ॥ २१॥ यज्ञः कर्ममयः प्रोक्तस्तत्र वर्णाश्रमो भवेत् । अतो वर्णाश्रमाचारस्त्रेतायां परिकीर्तितः ॥ २२॥ एवं नाना विचारेण मुनिभिः कथितं पुरा । न तत्र संशयः कार्यो जनैस्तदर्थयुक्तिभिः ॥ २३॥ अधुना युगमाहात्म्यं कथयामि समासतः । कलौ सिद्धिकरं चैव कर्म येन प्रजायते ॥ २४॥ आदौ ब्रह्माऽसृजत् कालं धर्माधर्मव्यवस्थया । स चतुर्धाऽभवत्तत्र युगरूपः पुरातनः ॥ २५॥ कृतं त्रेता द्वापरश्च कलिश्चेति महर्षयः । तेभ्यः सिद्धिप्रदानार्थं ददौ मन्त्रान् प्रजापतिः ॥ २६॥ (Page खं. ८ अ. १७ पान ४०) तं प्रणम्य ययुः सर्वे तपसे वनमुत्तमम् । गणेशं चेतसि ध्यात्वा जेपुर्मन्त्रं युगानि च ॥ २७॥ निराहारप्रभावेण परितुष्टो गजाननः । भक्त्या तेषां ययौ वर्षसहस्रे वरदः पुरः ॥ २८॥ तमागतं समालोक्य प्रणेमुस्ते गणाधिपम् । पूज्य ते तुष्टुवुः सर्वे हर्षगद्गदभाषणाः ॥ २९॥ युगपुरुषा ऊचुः । गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च । नानारूपभृते तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥ भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च । परेशाय पराणां ते पराय च नमो नमः ॥ ३१॥ स्वानन्दवासिने तुभ्यं नानामायाप्रचारिणे । सदा स्वानदम्भोगस्थ पालकाय नमो नमः ॥ ३२॥ अमेयशक्तये तुभ्यं नानामायाप्रहारिणे । मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥ ३३॥ लम्बोदराय लोकानामुदरस्थाय ते नमः । एकदन्ताय शूर्पाकारकर्णाय नमो नमः ॥ ३४॥ त्रिनेत्राय गजाकारवक्त्राय परमात्मने । चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥ ३५॥ देवाय देवरूपाय देवदेवाय ते नमः । देवदेवेशकायैव विघ्नेशाय नमो नमः ॥ ३६॥ सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः । सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥ ३७॥ ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च । ब्रह्मभ्यो ब्रह्मदात्रे ते शान्तिस्थाय नमो नमाः ॥ ३८॥ किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः । योगरूपा भवन्ति स्म ततस्ते नमनं शुभम् ॥ ३९॥ एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज । स तानुवाच प्रीतात्मा भक्तवात्सल्ययन्त्रितः ॥ ४०॥ श्रीगणेश उवाच । स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति । पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥ ४१॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः । भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥ ४२॥ वरान् ब्रूत महाभागा ददामि मनसेप्सितान् । तपसा स्तोत्रमुख्येन तुष्टो भक्त्या विशेषतः ॥ ४३॥ युगा ऊचुः । यथा संरचिता देव गजानन वयं त्वया । सामर्थ्यमतुलं देहि तथा ते भक्तिमुत्तमाम् ॥ ४४॥ कृत उवाच । सदा सत्त्वयुतं मां त्वं कुरु कर्मपरायणम् । स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतम् ॥ ४५॥ त्रेतोवाच । भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजोयुताम् । तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु ते ॥ ४६॥ द्वापर उवाच । भुक्तिसौख्ययुतं मां त्वं कुरु धर्मपरायणम् । भोगबुद्धिपरार्थं च रजस्तमोयुतं प्रभो ॥ ४७॥ कलिरुवाच । तामसं देहभोगार्थमुद्यतं सततं प्रभो । विकर्मरुचिसंयुक्तं मां कुरुष्व गजानन ॥ ४८॥ पुनस्ते तं वदन्ति स्म युगा हर्षसमन्विताः । एकैकाश्रितभावेन भो कुरुष्व निरन्तरम् ॥ ४९॥ तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाच ह । मेघगम्भीरया वाचा सर्वेभ्यः सुखदायकः ॥ ५०॥ श्रीगणेश उवाच । लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति । शतांशेन च सा त्रेता द्वापरस्त्वयुतांशतः ॥ ५१॥ यदा त्रेतायुगं प्राप्तं शतांशेन तदा कृतम् । (Page खं. ८ अ. १८ पान ४१) सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति ॥ ५२॥ अयुतांशेन पापिष्ठः कलिस्तेन समन्वितः । चरिष्यति न सन्देहः परस्परप्रवेशनात् ॥ ५३॥ द्वापरे समनुप्राप्ते शतांशेन भविष्यति । कलिः सहस्रभागात्त्रेतायुतांशं कृतं भवेत् ॥ ५४॥ कलौ शतांशरूपेण द्वापरः प्रभविष्यति । सहस्रभागात्त्रेता च लक्षांशेन कृतं भवेत् ॥ ५५॥ धर्माऽधर्माविचारेण मोहदः स कलिः स्मृतः । धर्मज्ञो मोहकर्माऽसौ द्वापरः परिकीर्तितः ॥ ५६॥ यशाः प्रिया स्वधर्मस्थास्त्रेता सर्वत्र सम्मता । मुक्तिप्रियं कृतयुगं स्वधर्मस्थं प्रकीर्तितम् ॥ ५७॥ एवं क्रमेण सर्वत्र भविष्यथ युगाः प्रियाः । मां ज्ञात्वा बन्धहीनाश्च वाञ्छितार्थप्रदायकाः ॥ ५८॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः । युगा हर्षसमायुक्ताः स्वस्वकर्मपराः बभुः ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते युगवरप्रदानं नाम सप्तदशोऽध्यायः ॥ ८.१७

८.१८ युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । कृते कलिमुखाश्चैव युगाः सन्ति महर्षयः । कृताज्ञापालकाः सर्वे कृतमानभयार्दिताः ॥ १॥ तत्रायुः कृततुल्यं वै सर्वेषां जन्मिनां सदा । पापाचारादियुक्तानां सर्वं कृतसमं भवेत् ॥ २॥ शापादिकं नराणां तु सफलं कृतभावतः । भवते पापिनामेव यथा सुकृतिनां वचः ॥ ३॥ तत्र भेदं प्रवक्ष्यामि नरोऽपराधसंयुतः । न भवेच्छापभीतः सन् कृते युगप्रमाणतः ॥ ४॥ तद्वत् त्रेतायुगे विप्र युगास्त्रयः कृतादयः । वर्तन्ते भयसंयुक्तास्त्रेतायां नात्र संशयः ॥ ५॥ पापिनां सुकृतिनां चायुरादि तत् समं भवेत् । त्रेतायुगप्रमाणेन ज्ञातव्यं द्विजसत्तम ॥ ६॥ द्वापारे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः । तेन सर्वं तदाकारं फलं भवति कर्मजम् ॥ ७॥ आयुरादि नराणां च द्वापरेण समं भवेत् । नानाभावास्तदाकारा मया वक्तुं न शक्यते ॥ ८॥ कलौ युगास्त्रयस्ते तु तदाज्ञावशवर्तिनः । वर्तन्ते तेन कर्मादिफलं कलिसमं भवेत् ॥ ९॥ आयुरादि महर्षे तु कलितुल्यं न संशयः । सुकृतिनां महापापिनां युगस्य प्रमाणतः ॥ १०॥ अतो लेशमयी सिद्धिः कलौ सत्कर्मकारिणाम् । भविष्यति तथा सर्वमासुरेण हतं भवेत् ॥ ११॥ योगः शान्तिप्रदः प्रोक्तः स एव मुनिसत्तम । चतुर्षु युगधर्मेषु समरूपो भविष्यति ॥ १२॥ कृते कर्म कृतं चैकफलदं शास्त्रसम्मते । त्रेतायां तद्दशाधिक्यं द्वापारे तु शताधिकम् ॥ १३॥ (Page खं. ८ अ. १८ पान ४२) सहस्रगुणसंयुक्तं भवते सर्वमञ्जसा । कलौ युगेन सन्देहो गणेशवरदानतः ॥ १४॥ कलौ तावन्मयं प्रोक्तं विकर्मकृतमञ्जसा । फलदं द्वापरे तच्च दशाधिक्यं भवेत् परम् ॥ १५॥ त्रेतायां तच्छताधिक्यं कृते साहस्रकं भवेत् । युगमानस्य माहात्म्यान्निश्चितं मुनिभिः पुरा ॥ १६॥ एवं नानाप्रमाणानि युगेषु कथितानि च । कथितं तत् पुरा विप्राः पुराणेषु समासतः ॥ १७॥ अथ सिद्धिं प्रवक्ष्यामि कलौ सर्वार्थदायिनीम् । यथाऽऽचारयुतं कर्म फलदं तत् क्षणाद्भवेत् ॥ १८॥ आसुरेण स्वभावेन कलिना सर्वमावृतम् । फलं कर्मभवं विप्र तस्मात् न फलदं भवेत् ॥ १९॥ कर्मसिद्धिं कलौ तत्र यदीच्छति जनो हृदि । सर्वादावयुतं कुर्यात् गायत्रीसम्भवं जपम् ॥ २०॥ हविष्यान्नं तु भुक्त्वा स एकभुक्तपरायणः । ब्रह्मचर्ययुतो जन्तुः सत्यभाषी जितेन्द्रियः ॥ २१॥ शौचाचारसमायुक्तो द्वेषादि स परित्यजेत् । मनसाऽपि स्त्रियं नैव भोगार्थं संस्मरेत् कदा ॥ २२॥ यदा देहं समागृह्य नरः कर्मपरायणः । मनसा विषयं चेच्छेत्तदा सिद्धिः कथं भवेत् ॥ २३॥ एवमादि स्वधर्मस्थां क्रियां कृत्वा महायशाः । गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेत् ॥ २४॥ ततः कृच्छ्रं समा कुर्यात्ततः कर्म समाचरेत् । स सर्वकलिदोषेण मुक्तः सिद्धिमवाप्नुयात् ॥ २५॥ यथोक्तविधिना कर्म कृतं येन महात्मना । चतुर्गणं कलौ विप्राः सिद्धिदं तत् क्षणाद्भवेत् ॥ २६॥ आसुरेण स्वभावेन कृतं कर्म द्विजादिभिः । कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे ॥ २७॥ केवलासुरभावेन सत्कर्म मानवेन च । सहस्रगुणितं हर्षात् कृतमासुरगं भवेत् ॥ २८॥ सुरासुरस्वभावेन कृतं कर्म शुभाशुभम् । सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् ॥ २९॥ एवं सर्वं समाख्यातं युगधर्मरहस्यकम् । सङ्क्षेपेण कलौ तद्वत् सिद्धिदं मुनिसत्तम ॥ ३०॥ श‍ृणुयादिदमाख्यानं युगानां मानवः परम् । पठेद्वा पाठयेत् सोऽपि दोषहीनो भवेत्ततः ॥ ३१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः ॥ ८.१८ (Page खं. ८ अ. १९ पान ४३)

८.१९ समासवत्सरचरितं नामैकोनविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । मासानां चरितं ब्रूहि सूत सर्वार्थकोविद । मलमासे गणेशस्य पूजनं कीदृशं भवेत् ॥ १॥ सूत उवाच । ब्रह्मणोंऽगसमुत्पन्नः संवत्सरः प्रतापवान् । मासा द्वादश तस्यांऽगात् समुत्पन्नाः पुरा मुने ॥ २॥ छायाया मलमासश्च समुत्पन्नः शुभप्रदः । सह तैर्गणपं ध्यात्वा तपस्तेपे स वत्सरः ॥ ३॥ षडक्षरं महामन्त्रं जजाप ब्रह्मणोदितम् । गणेशस्य सदा ध्यानं चकार हर्षसंयुतः ॥ ४॥ एवं वर्षसहस्रेण प्रसन्नो वरदोऽभवत् । तमाययौ गणाधीशो भक्तं भक्तजनप्रियः ॥ ५॥ उवाच तं समाधिस्थं संवत्सरं गजाननः । समास त्वं वरान् ब्रूहि परान् मत्तो हृदीप्सितान् ॥ ६॥ गणेशवचनं श्रुत्वा संवत्सरो बुबोध तम् । समुत्थाय गणेशानं ननाम भक्तिसंयुतः ॥ ७॥ समासः पूजयामास यथाविध्युपचारतः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ ८॥ समाससंवत्सर उवाच । नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये । हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ ९॥ शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने । लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ १०॥ अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः । कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ ११॥ आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित । गणेशाय गणानां ते चालकाय नमो नमः ॥ १२॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥ १३॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥ १४॥ अनन्तविभवायैवानन्तमायाप्रचारिणे । मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥ १५॥ शान्तियोगमयायैव शान्तियोगधराय ते । शान्तियोगप्रदात्रे च योगेशाय नमो नमः ॥ १६॥ किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे । योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः ॥ १७॥ अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो । वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥ १८॥ भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् । कालमानकरं ढुण्ढे वीर्यं देहि स्वभावजम् ॥ १९॥ कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् । साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥ २०॥ एवमुक्त्वा प्रणेमुस्तं मासाः संवत्सरान्विताः । तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥ २१॥ श्रीगणेश उवाच । यद्यत् सम्प्रार्थितं मासाः संवत्सर तथास्तु वै । सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥ २२॥ सूर्येण संयुताः सर्वे द्वादशदेहधारिणा । फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥ २३॥ ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः । अन्ते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥ २४॥ याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् । भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥ २५॥ आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि । देवताऽहं त्वदीये तु कर्मणां फलदायकः ॥ २६॥ (Page खं. ८ अ. २० पान ४४) सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २७॥ त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २८॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठतां श‍ृण्वतां नॄणां भावपूरं न संशयः ॥ २९॥ कालदोषभवं पापं कालस्योल्लङ्घनादिकम् । हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥ ३०॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः । संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥ ३१॥ मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे । कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥ ३२॥ एतत् संवत्सरस्यैव समासस्य चरित्रकम् । यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते समासवत्सरचरितं नामैकोनविंशोऽध्यायः ॥ ८.१९

८.२० मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । ततो बहौ गते काले मासाः षट् तपसि स्थिताः । निराहारपराः सर्वे गणेशं समतोषयन् ॥ १॥ कार्तिको मार्गशीर्षश्च माघो वैशाखश्रावणौ । अधिमासस्तथा विप्र गणेशध्यानतत्परः ॥ २॥ दशवर्षेषु विघ्नेशस्तान् ययौ वरदायकः । स्तुतः सम्पूजितस्तैस्तु वरान् ब्रूत स चाब्रवीत् ॥ ३॥ गणेशवचनं श्रुत्वा मासास्तं प्रणिपत्य च । ऊचुः प्रहृष्टचित्तास्ते भक्त्या नम्रात्मकन्धराः ॥ ४॥ मासा ऊचुः । यदि विघ्नेश सर्वेश वरदोऽसि तदा प्रभो । अस्मासु यत्कृतं कर्म बहुलं कुरु सर्वदा ॥ ५॥ तेनास्मत्कालसम्प्राप्तौ नरा यत्नपरायणाः । भविष्यन्ति विशेषेण सदा सत्कर्मकारिणः ॥ ६॥ तद्भक्तिनिलयान्नित्यं कुरु नो गणनायक । त्वद्दासप्रवणांस्तद्वत् कर्मदोषविवर्जितान् ॥ ७॥ श्रीगणेश उवाच । अन्येषु सर्वमासेषु कृतं कर्म तदात्मकम् । फलदं सम्मतं शास्त्रे मदीयवरदानतः ॥ ८॥ तेभ्यो दशाधिकं कर्म फलदं प्रभविष्यति । मार्गशीर्षे कृतं मासाः शुभदं मानवैः किल ॥ ९॥ तस्माद्वैशाखमासे तद्भविष्यति दशाधिकम् । तस्मात् कार्तिकिके मासे दशाधिकफलप्रदम् ॥ १०॥ तस्माद्दशाधिकं माघे कर्म यन्मानवैः कृतम् । तस्माद्दशाधिकं भावि श्रावणे फलदं भवेत् ॥ ११॥ तस्माद्दशाधिकं प्रोक्तं ढौण्ढे मासे फलप्रदम् । एवं क्रमेण श्रेष्ठा वै भविष्यथ यथा तपः ॥ १२॥ अधिमासस्य देवोऽहं ढुण्ढिराजो न संशयः । ढौण्ढमासः समाख्यातो मया नाम्नाऽधुना महान् ॥ १३॥ (Page खं. ८ अ. २१ पान ४५) अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः । नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥ १४॥ उपासते श्रावणे मां नानायत्नपरायणाः । उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥ १५॥ समारभ्य प्रतिपदं चतुर्थ्यन्तं मदर्चनम् । चतुर्थ्यां जागरं कुर्यात् पञ्चम्यां पारणं तथा ॥ १६॥ यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् । स सर्वसुखमाभोज्यान्ते स्वानन्दमवाप्नुयात् ॥ १७॥ मुख्यं पञ्चसु वै स्नानं मासेषु सर्वभावतः । प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥ १८॥ एवं मासा भवन्तोऽपि भविष्यन्ति जनैः सदा । सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥ १९॥ मयि भक्तियुता नित्यं सर्वदेवपरायणाः । भविष्यथ मदीयेन वरेणैव विशेषतः ॥ २०॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो भक्तवत्सलः । मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥ २१॥ श‍ृणोति मासचारित्रमेवं पठति यो नरः । स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥ २२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥ ८.२०

८.२१ धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् । तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥ १॥ के के सिद्धिं गतास्तेषु गणेशभजनेन वै । तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥ २॥ सूत उवाच । अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा । तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥ ३॥ स्वशाखोक्तेन मार्गेण सन्ध्यादिकं समाचरेत् । वैदिकैस्तान्त्रिकैर्मन्त्रैः पूजयेद्गणनायकम् ॥ ४॥ पुराणसम्भवैर्वाऽपि यथोपचारसंयुतः । एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥ ५॥ हविष्यान्नं फलहारो निराहारोऽथवा पुनः । ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥ ६॥ पृथव्यां शयनकारी स सत्यावाङ् मौनधारकः । यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥ ७॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने । स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥ ८॥ स्त्रीणां व्रतमिदं पुण्यं साधवानां सुखप्रदम् । विधवानां विशेषेण परं मासात्मकं भवेत् ॥ ९॥ तेषु पञ्चकमानन्दाच्चरेन् मुख्यं सदा जनः । गणेशपूजनं विप्र भोजनं दीपदानकम् ॥ १०॥ शमीमन्दारसेवां च प्रदक्षिणपरायणाम् । (Page खं. ८ अ. २१ पान ४६) गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥ ११॥ एवमादि गणेशस्य प्रियं नानाविधं चरेत् । सदा तन्निष्ठभावेन तिष्ठेन् मासव्रती मुने ॥ १२॥ अन्यान् शम्भुमुखान् देवान् पूजयेन् मानवो मुने । स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत् ॥ १३॥ आवश्यकेन भावेन मासाः सेव्या इमे नरैः । धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥ १४॥ यं यमिच्छति तं तं वै लभते नात्र संशयः । मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥ १५॥ अत्रेतिहासमुख्यं ते कथयामि समासतः । मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥ १६॥ शङ्खासुरो महादैत्यो ब्रह्माण्डाधिपतिः पुरा । बभूव स जहारैव वेदान् स्मृतिसमन्वितान् ॥ १७॥ ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः । वर्णसङ्करजं कर्म बभूवे सर्वमण्डले ॥ १८॥ ततो मुनिगणैर्युक्ता देवा विधिमुखा ययुः । विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥ १९॥ ततो विष्णुः स्वयं शम्भुं जगाम तान् विसृज्य सः । तं जगाद महाभागं विनयेन समन्वितः ॥ २०॥ विष्णुरुवाच । शङ्खं वेदहरं शम्भो दुर्जयं देवतादिभिः । जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥ २१॥ श्रीशिव उवाच । समीपे कार्तिको मासो जनार्दन समागतः । तत्र मासव्रतेन त्वं तोषयस्व गजाननम् ॥ २२॥ तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् । शङ्खासुरं न सन्देहो नान्यथा पुरुषोत्तम ॥ २३॥ श्रुत्वा तं शङ्करं नत्वा विष्णुः परपुरञ्जयः । गतो बदरिकारण्यं व्रतार्थं भक्तिसंयुतः ॥ २४॥ तत्रैकाक्षरमन्त्रस्य पुरश्चरणमुत्तमम् । चकार गणनाथं स तोषयामास यत्नतः ॥ २५॥ कार्तिके पञ्चकं सेव्यं गाणेशं सर्वसिद्धिदम् । मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥ २६॥ ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि । केनोपायेन दैत्येशं विजेष्यामि सुदारुणम् ॥ २७॥ तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि । मात्स्येनैव स्वरूपेण विजयो मे भविष्यति ॥ २८॥ एतस्मिन्नन्तरे तत्र बभूवाऽऽकाशजां पराम् । वाणीं शुश्राव देवेशः केशवः परवीरहा ॥ २९॥ मात्स्यरूपेण शङ्खं तं जहि सर्वभयङ्करम् । मां स्मृत्वा नात्र सन्देहो विजयस्ते भविष्यति ॥ ३०॥ ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः । घोरं युद्धं स कृत्वा तं जघान शङ्खमुल्बणम् ॥ ३१॥ साङ्गान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः । स्तुतः सम्पूजितो देवैर्मुनिभिः स्वस्थलं ययौ ॥ ३२॥ एवं कार्तिकमासे तु स्नानादिव्रततेजसा । हतः शङ्खासुरस्तेन विष्णुना मत्स्यरूपिणा ॥ ३३॥ अन्यच्च श‍ृणु विपेन्द्र कथां पापप्रणाशिनीम् । कार्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥ ३४॥ पौलस्त्यो ब्राह्मणः कश्चित् सोमदत्त इति श्रुतः । स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥ ३५॥ जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् । (Page खं. ८ अ. २१ पान ४७) पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥ ३६॥ सोमदत्त उवाच । केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् । क्षणभङ्गुरदेहत्वात्तदुपायं वद प्रभो ॥ ३७॥ गौतम उवाच । समीपे कार्तिको मासः समायातो महामुने । व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥ ३८॥ एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् । स्थानं स्वस्याश्रमे सोऽपि तत्रारम्भं चकार ह ॥ ३९॥ एकनिष्ठः स्वभावेन परं गाणेशपञ्चकम् । सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥ ४०॥ उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् । जजाप मन्त्रराजं स षडक्षरं शुभप्रदम् ॥ ४१॥ तत्र चित्रं समभवत् समाप्तिसम्भवे दिने । तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥ ४२॥ पूजायां संस्थितो विप्रः सोमदत्तो महायशाः । कार्तिक्यां पूर्णिमायां स एकासनविधौ रतः ॥ ४३॥ तत्र दूर्वाशमीमन्दारपुष्पाणि स्थितानि तु । अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥ ४४॥ सोमदत्तः स्वयं तत्र मौनवानासने स्थितः । नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥ ४५॥ ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् । लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥ ४६॥ अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः । दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥ ४७॥ ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः । शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥ ४८॥ स्वकण्ठे शस्त्रघातं स चकार गणनायकः । तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥ ४९॥ शमीमन्दारदूर्वादीन् गृह्य तस्मै ददौ पुनः । उवाच पूजय त्वं तु गणेशं हठतत्पर ॥ ५०॥ दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः । नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥ ५१॥ सोमदत्त उवाच । त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा । समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥ ५२॥ न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् । निश्चयं मे दृढं दृष्ट्वा परीक्षार्थं समागतः ॥ ५३॥ दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् । सत्यं वद महाभाग तेन तृप्तो भवामि च ॥ ५४॥ ततो व्रतप्रभावेण भक्त्या नियमयुक्तया । सन्तुष्टो गणराजः स दर्शयामास स्वं वपुः ॥ ५५॥ चतुर्भुजं त्रिनेत्रं च शुण्डादण्डविराजितम् । सिद्धिबुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥ ५६॥ नानाभूषणशोभाढ्यं शेषनाभिधरं परम् । चिन्तामणिं मणिं हृत्स्थं लम्बोदरैकदन्तकम् ॥ ५७॥ मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् । ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥ ५८॥ सरोमाञ्चो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् । न विवेद विधिं किञ्चिद्देहातीत इवाबभौ ॥ ५९॥ ततो हर्षं समागृह्य पूजयामास तं प्रभुम् । पुनः प्रणम्य हरम्बं तुष्टाव स कृताञ्जलिः ॥ ६०॥ सोमदत्त उवाच । गणेशाय परेशाय सदा शान्तिप्रदायिने । योगिनां योगरूपाय हृदिस्थाय नमो नमः ॥ ६१॥ (Page खं. ८ अ. २१ पान ४८) विघ्नेशाय महाविघ्नविघ्नदाय परात्मने । विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥ ६२॥ अनादये महाकाल कालाय कालरूपिणे । अन्ते विहारयुक्तायादिनाथाय नमो नमः ॥ ६३॥ विनायकाय देवाय सर्वेषां नायकाय च । नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥ ६४॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥ ६५॥ आदिमध्यान्तहीनाय तदाकारस्वरूपिणे । स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ॥ ६६॥ सिद्धिदात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे । सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥ ६७॥ बुद्धिपते सुबुद्धीनां दात्रे साधुजनप्रिय । दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥ ६८॥ सम्प्रज्ञातस्वरूपायासम्प्रज्ञातं महाशिरः । तयोर्योगे नराकार गजाकाराय ते नमः ॥ ६९॥ किं स्तौमि गणनाथ त्वां सदा योगस्वरूपिणे । अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥ ७०॥ धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् । कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥ ७१॥ धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् । तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥ ७२॥ भक्तिं त्वदीयपादेषु देहि मे द्विरदानन । नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥ ७३॥ तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ७४॥ गाणपत्यप्रियोऽत्यन्तं भविष्यसि महामुने । भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥ ७५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विप्र पठतां श‍ृण्वतां सदा ॥ ७६॥ एवमुक्त्वांऽतर्दधेऽसौ विघ्नेशः करुणानिधिः । सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥ ७७॥ तदादि स मुनिः ख्यातो बभूव गणपप्रियः । योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥ ७८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥ ८.२१ (Page खं. ८ अ. २२ पान ४९)

८.२२ कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥ १॥ प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः । नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥ २॥ तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् । जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥ ३॥ अन्यः कैवर्तकस्तत्र तथा मन्दारकं मुने । पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥ ४॥ वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् । स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥ ५॥ शूद्रः श्यामलसंज्ञस्तु दीपदानं चकार ह । गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥ ६॥ अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः । ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥ ७॥ कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह । गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥ ८॥ शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् । तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥ ९॥ एवं नाना जनास्तत्र गणेशप्रीतये मुने । स्नात्वा किञ्चित् स्वभावेनाभजंस्तं गणनायकम् ॥ १०॥ रोगवन्ध्यादिदोषैस्ते मुक्ता जाता विशेषतः । समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥ ११॥ अन्ते स्वानन्दगाः सर्वे गणेशं नम्य तत्क्षणात् । ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥ १२॥ अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः । गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥ १३॥ नियमेन समा भक्तिर्न भूता न भविष्यति । किञ्चिन्नियमसंयुक्तो गणेशं वशमानयेत् ॥ १४॥ नियमेन कृतं किञ्चिद्गणेशप्रीतये नरैः । भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥ १५॥ कार्तिके स्नानमत्यन्तं मुख्यं विघ्नेशसेवनम् । यथाशक्ति कृतं सर्वसिद्धिदं प्रभविष्यति ॥ १६॥ करोति यः कार्तिके चेत् पञ्चकं गणपप्रियम् । स गणेशप्रियोऽत्यन्तं भवत्यत्र न संशयः ॥ १७॥ दानं होमादिकं किञ्चित् कार्तिकेऽनन्तपुण्यदम् । भवेत्तु गणनाथाय चार्पितं कर्मजं फलम् ॥ १८॥ बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् । गणेशाय कृतं नित्यं तदक्षय्यप्रदं भवेत् ॥ १९॥ इदं कार्तिकमासस्य माहात्म्यं कथितं मया । गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥ २०॥ यः श‍ृणोति नरो भक्त्या पठते भावसंयुतः । सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥ २१॥ अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः । तेषां लोकसुखं सर्वमन्ते भुञ्जन्ति निश्चितम् ॥ २२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥ ८.२२ (Page खं. ८ अ. २३ पान ५०)

८.२३ मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सङ्क्षेपेण महाभाग मार्गशीर्षभवं परम् । माहात्म्यं वद सूत त्वं गणेशभक्तिदायकम् ॥ १॥ सूत उवाच । अन्धकासुरनामा वै दैत्यः परमदारुणः । जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमम् ॥ २॥ देवा वनस्थिताः सर्वे भययुक्ताः विशेषतः । वधार्थं तस्य चोद्युक्ता लेभिरे न किमप्यहो ॥ ३॥ ततः शम्भुः परां चिन्तामापेदे मुनिभिः सह । जगाम सहसा तत्र नारदः करुणानिधिः ॥ ४॥ तं दृष्ट्वा हर्षसंयुक्ता देवाः शङ्करमुख्यकाः । पप्रच्छुस्ते महाभागं दुःखशोकयुताः परम् ॥ ५॥ श्रीशिव उवाच । अन्धकेन जिताः सर्वे वयं योगीन्द्रसत्तम । गृहीतुं पार्वतीं पत्नीं भावार्थमुद्यतोऽभवत् ॥ ६॥ कर्मनाशप्रभावेणोपोषणेन समन्वितान् । देवांस्तान् रक्ष विप्रेश द्विजान् कर्मपरायणान् ॥ ७॥ अन्धकस्य वधोपायं वद त्वं सर्ववित्तम । करिष्यामो वयं तं तु भक्तियुक्ता महामते ॥ ८॥ नारद उवाच । समीपे मार्गशीर्षस्तु सम्प्राप्तः सर्वसिद्धिदः । व्रतं मासात्मकं कार्यं गणेशप्रीतये त्वया ॥ ९॥ ततो व्रतप्रभावेण जेष्यसे दैत्यपुङ्गवम् । अन्धकं नाम सन्देहो विघ्नेशस्य प्रसादतः ॥ १०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । वीणागानरतो विप्र नम्य तं स्वेच्छया ययौ ॥ ११॥ ततो देवगणैर्युक्तो मुनिभिः शङ्करः स्वयम् । मार्गशीर्षभवं मुख्यं व्रतं चकार वैघ्नपम् ॥ १२॥ गणेशपञ्चकं नित्यं सेवयामास यत्नतः । उषः स्नात्वा विशेषेण गणेशमभजत् प्रभुम् ॥ १३॥ उपोषणसमायुक्तः शङ्करोऽहर्निशं परम् । तमेव चिन्तयन् भक्त्या ध्यानसंस्थो बभूव ह ॥ १४॥ एवं मासव्रतं पूर्णं शिवः कृत्वा द्विजोत्तमान् । पूज्य भोज्य स्वयं देवश्चकार पारणं मुने ॥ १५॥ ततो व्रतप्रभावेण सन्तुष्टो गणनायकः । आययौ शङ्करं तत्र वरदानार्थमादरात् ॥ १६॥ सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितम् । विघ्नेशं हर्षसंयुक्तः शङ्करः प्रणनाम तम् ॥ १७॥ शिवः पूज्य गणाधीशं देवैर्मुनिभिरादरात् । तुष्टाव हृष्टरोमाऽसौ प्रबद्धकरसम्पुटः ॥ १८॥ श्रीशिव उवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये । परेशाय च हेरम्बाय पाशिने नमो नमः ॥ १९॥ मूषकवाहनायैव नमः परशुपाणये । दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ २०॥ शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते । सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ २१॥ हेरम्बाय महाविघ्नवारणाय गजानन । आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥ २२॥ स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये । सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥ २३॥ अनन्तोदरभावाय ब्रह्मणां पतये नमः । ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥ २४॥ अनन्तविभवायैव भक्तपालनधर्मिणे । अभक्तानां विनाशाय खेलकाय नमो नमः ॥ २५॥ योगाय योगनाथाय योगिने योगदायिने । सदा शान्तिस्वरूपाय शान्तिशाताय ते नमः ॥ २६॥ (Page खं. ८ अ. २३ पान ५१) किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम् । योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च ॥ २७॥ धन्योऽहं देवपैर्देवैर्मुनिभिर्गणनायक । दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥ २८॥ सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम् । आज्ञानान्धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥ २९॥ एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः । तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥ ३०॥ श्रीगणेश उवाच । वज्रपञ्जरकं मे त्वं गृह्य दैत्येन्द्रसत्तमम् । जहि ज्ञानमयं शम्भो विजयी सर्वदा भव ॥ ३१॥ भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम् । यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥ ३२॥ त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः । श‍ृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥ ३३॥ भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत् । भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥ ३४॥ सूत उवाच । एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः । शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥ ३५॥ श्रीशिव उवाच । वज्रपञ्जरकं नाथ ब्रूहि मे गणपप्रियम् । ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥ ३६॥ श्रीगणेश उवाच । आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम् । वज्रपञ्जरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥ ३७॥ त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् । नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ ३८॥ एवं ध्यात्वा गणेशानं मानसैरुपचारकैः । पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥ ३९॥ बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥ ४०॥ देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ४१॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४२॥ साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः । असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ४३॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः । रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ४४॥ आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः । विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ४५॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक् । मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ४६॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् । रक्षतु योगभावेन संस्थितो भवनायकः ॥ ४७॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः । निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ ४८॥ योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् । गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ४९॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः । वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ ५०॥ रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् । विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ ५१॥ उर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । (Page खं. ८ अ. २४ पान ५२) सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ ५२॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । परशुपाशसंयुक्तो वरदाभयधारकः ॥ ५३॥ इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥ ५४॥ य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ ५५॥ यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥ ५६॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ ५७॥ यः श‍ृणोति गणेशस्य पञ्जरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ ५८॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ ५९॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ ६०॥ यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ ६१॥ लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् । स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ ६२॥ एवमुक्त्वा गणेशानोंऽतर्दधे मुनिसत्तम । शिवो देवादिभिर्युक्तो हर्षितः सम्बभूव ह ॥ ६३॥ लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः । सिद्धपञ्जरको भूत्वा ययावन्धकदैत्यपम् ॥ ६४॥ गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् । त्रिशूलेनान्धकं सोऽपि विव्याध गर्वसंयुतम् ॥ ६५॥ एवमन्धकदैत्येशं जित्वा शम्भुः प्रतापवान् । देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥ ६६॥ विश्वं स्वधर्मसंयुक्तं चकार शङ्करः स्वयम् । मार्गशीर्षव्रतेनैव पञ्जरेण समन्वितः ॥ ६७॥ इदमन्धकनाशाख्यं चरितं यः श‍ृणोति वा । पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३

८.२४ मार्गशीर्षमासमाहात्म्ये साधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः । गणेशभजने प्रीतिसंयुक्तोऽभून्निरन्तरम् ॥ १॥ जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः । भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥ २॥ साधुरुवाच । गणेशप्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् । येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥ ३॥ भरद्वाज उवाच । मार्गशीर्षव्रतं पुत्र कुरु शीघ्रं समागतम् । (Page खं. ८ अ. २४ पान ५३) तेन त्वं गणनाथस्य प्रियोऽत्यन्तं भविष्यसि ॥ ४॥ एवमुक्त्वा भरद्वाजो कथयामास भावतः । विधियुक्तं व्रतं पूर्णं गणेशपञ्चकैर्युतम् ॥ ५॥ साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् । उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥ ६॥ समाप्तिसम्भवे तत्र दिवसे गणनायकः । द्विजरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥ ७॥ उवाच तं महाभागं पूजान्ते मुनिमुख्यकम् । भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥ ८॥ तथेति तं प्रणम्यादौ पुपूज भक्तिसंयुतः । भोजयामास भक्त्या स नानारसयुतान्नकैः ॥ ९॥ स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् । देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥ १०॥ श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि । शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥ ११॥ तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो । स्वयं मां छलितुं यातो गणेशो द्विजरूपधृक् ॥ १२॥ पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् । गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥ १३॥ अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः । एवं विचार्य साधुः स दूर्वां चिक्षेप चान्धसि ॥ १४॥ गणेशं हृदि सञ्चिन्त्य पायसं गृह्य सत्वरः । दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥ १५॥ तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः । ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥ १६॥ तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया । वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥ १७॥ साधुरुवाच । यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय । गणेशस्त्वं न सन्देहो मम भाग्यात् समागतः ॥ १८॥ तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् । तं दृष्ट्वा हर्षितोऽत्यन्तं साधुः साधुगुणान्वितः ॥ १९॥ प्रणम्य पूजयामास तुष्टाव स कृताञ्जलिः । गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥ २०॥ साधुरुवाच । हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकाराय नमो नमः ॥ २१॥ लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये । अनादये परेशाय गणेशाय नमो नमः ॥ २२॥ स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ २३॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ २४॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ २५॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ २६॥ शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे । चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ २७॥ अग्नये नैरृतायैव कुबेराय धराधर । (Page खं. ८ अ. २४ पान ५४) नराय पशुरूपाय नमो नागासुराय ते ॥ २८॥ चराचरमयायैव चराचरविवर्जित । समाय सहजायैव स्वसंवेद्याय ते नमः ॥ २९॥ योगाय शान्तिनाथाय शान्तिदाय नमो नमः । किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ ३०॥ धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् । वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ ३१॥ एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च । तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ ३२॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ३३॥ त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् । भविष्यति महाभाग पठतां श‍ृण्वतां सदा ॥ ३४॥ सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् । नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ ३५॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ ३६॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ ३७॥ अन्यच्च श‍ृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् । मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ ३८॥ एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः । स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ ३९॥ समागते मार्गशीर्षे स्नानं कृत्वा महामतिः । गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ ४०॥ ततः परं नृपस्यैव चकार सेवनं सदा । पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ ४१॥ तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह । मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ ४२॥ तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् । एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ ४३॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः । किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ ४४॥ इदं यः श‍ृणुयान्नित्यं मार्गशीर्षे नरोत्तमः । पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ ४५॥ मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया । कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ८.२४ (Page खं. ८ अ. २५ पान ५५)

८.२५ माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् । न तृप्यामि कथां श‍ृण्वन् गाणेशीं सर्वसिद्धिदाम् ॥ १॥ सूत उवाच । प्रह्लादस्य महातेजाः पुत्रोऽभूद्दैत्यपालकः । विरोचनः समाख्यातः तेजस्विनां शिरोमणिः ॥ २॥ स शुक्रमुपसङ्गम्य प्रणम्य मुनिसत्तमम् । जगाद दुःखसंयुक्तो निःश्वस्यासुरनायकः ॥ ३॥ विरोचन उवाच । दैत्या देवार्दिताः स्वामिंस्तिष्ठन्ति भयसङ्कुलाः । पातालेषु ततो मह्यं शाधि तेषां हिताय भोः ॥ ४॥ शुक्र उवाच । आकृष्णेनेति मन्त्रेण सूर्यमाराधय प्रभुम् । तेन त्वं दानवानां तु पालकः प्रभविष्यसि ॥ ५॥ तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् । कामं वनं समाश्रित्य तताप परमं तपः ॥ ६॥ ध्यात्वा रविं विशेषेणार्घ्यदानं तु चकार ह । उपस्थानपरो भूत्वा सूर्यमाराधयत् सदा ॥ ७॥ दिव्यवर्षसहस्रेण प्रसन्नः सविता ययौ । वरं दातुं महातेजा विरोचनाश्रमं मुने ॥ ८॥ तमागतं समालोक्य ननाम ह विरोचनः । पूज्य तुष्टाव देवेशमथर्वशिरसा प्रभुम् ॥ ९॥ तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः । वरं ब्रूहि महादैत्य मनसीप्सितमुत्तमम् ॥ १०॥ विरोचन उवाच । सर्वेभ्यो मरणं नाथ न भवेत् मे दिवाकर । चराचरमयेभ्यश्च राज्यं देहि त्रिलोकजम् ॥ ११॥ विस्मितः सविता तस्मै ददौ स्वमुकुटं परम् । जगाद भावगम्भीरो वचनं जगदीश्वरः ॥ १२॥ भानुरुवाच । मस्तके धारयस्वैनं तेन मृत्युविवर्जितः । भविष्यसि यदाऽन्यस्य हस्तः शिरसि नो पतेत् ॥ १३॥ परहस्तः स्पृशेद्दैत्य मस्तके चेन् मरिष्यसि । यदा मुकुटहीने ते सावधानस्ततो भव ॥ १४॥ राज्यं त्रैलोक्यसम्भूतं दत्तं तुभ्यं मयाऽधुना । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ १५॥ एवमुक्त्वांऽतर्दधेऽसौ भानुः सवार्थकोविदः । विरोचनः प्रसन्नात्मा स्वगृहं प्रययौ ततः ॥ १६॥ ततः शुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि । दैत्यैः समावृतः सोऽपि जिग्ये भूमिं महाबलः ॥ १७॥ ततः शेषं विनिर्जित्य ययौ स ह्यमरावतीम् । देवेन्द्रं वशमानाय्य विकुण्ठमगमत्ततः ॥ १८॥ विष्णोर्विरोचनस्यैव युद्धं बभूव दारुणम् । जित्वा विष्णुं महादैत्यो हर्षितः सम्बभूव ह ॥ १९॥ विष्णुना संयुता देवाः पपलुर्वनमाश्रिताः । दैत्याः स्वर्गभुजः सर्वे कृतास्तेन महात्मना ॥ २०॥ ततः स दैत्यपान् स्थाप्य विकुण्ठादिपदेषु च । आययौ नगरं स्वीयं दैत्यवृन्दसमन्वितः ॥ २१॥ ततः स दैत्यपैर्युक्तो भोगान्नानाविधान् परान् । बुभुजे पापसन्निष्ठः स्त्रीमांसादिषु लोलुपः ॥ २२॥ ततो बहौ गते काले दैत्येशैः प्रेरितः खलः । कर्म वर्णाश्रमस्थं स खण्डयामास भूतले ॥ २३॥ आसुरं कर्म सर्वत्र कारयामास मानवैः । ततो हाहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः ॥ २४॥ एवं बहौ गते काले देवाश्चोपोषणान्विताः । मुनिभिः केशवं सर्वे तुष्टुवुस्तद्वधाय तम् ॥ २५॥ (Page खं. ८ अ. २५ पान ५६) सोऽपि निःश्वस्य देवेशो विचारमकरोत् हृदि । नावाप दैत्यनाशार्थं स्वयं खिन्नो बभूव ह ॥ २६॥ ततो विघ्नेश्वरं विष्णुः सस्मार दुःखमुक्तये । गणेशकृपया तत्राऽऽजगाम देवलो मुनिः ॥ २७॥ तं प्रणम्यामराः सर्वे पप्रच्छुः कार्यसिद्धये । विरोचनवधाथार्य तानुवाच स हर्षितः ॥ २८॥ समीपे ह्यधुना प्राप्तो मासो माघः सुपुण्यदः । तत्र स्नानसमायुक्ताः सेवध्वं गणनायकम् ॥ २९॥ एवमुक्त्वा महायोगी देवलोऽकथयत् परम् । विधिं माघभवं सर्वं गाणेशपञ्चकात्मकम् ॥ ३०॥ उपदिश्य व्रतं योगी ययौ स्वेच्छापरायणः । देवलः केशवाद्यांश्च गणेशभजने रताः ॥ ३१॥ माघमासव्रतं चक्रुर्गाणेशं सर्वसिद्धिदम् । यथाशास्त्रं विधानेन विघ्नेशमभजत् परम् ॥ ३२॥ सम्पूर्णे तद्व्रते तत्र खवाणी तानुवाच ह । विष्णो स्त्रीवेषगो भूत्वा जहि दैत्यं महाबलम् ॥ ३३॥ गणेशं मनसि स्मृत्वा गच्छ तं दैत्यनायकम् । तवाधीनो महादैत्यो भविष्यति विरोचनः ॥ ३४॥ श्रुत्वाऽतिहर्षिता देवास्तुष्टुवुर्गणनायकम् । ततो विष्णुं महाभागाः प्रेरयामासुरादरात् ॥ ३५॥ गच्छ गच्छ महाविष्णो जहि दैत्यं महाबलम् । चराचरं सदा हर्षयुक्तं कुरु जनार्दन ॥ ३६॥ तथेति तानुवाचाथ विष्णुर्ध्यात्वा गजाननम् । स्त्रीरूपः प्रययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३७॥ पुष्पवृक्षयुतायां स वाटिकायां स्थितोऽभवत् । तत्र नारायणं दैत्या ददृशुः स्त्रीस्वरूपिणम् ॥ ३८॥ मोहितास्तां समागम्य पप्रच्छुर्विनयान्विताः । काऽसि कस्याऽसि रम्भोरु किमर्थं त्वागता वद ॥ ३९॥ आज्ञां कुरु महाभागे वयं दासा न संशयः । तव पादस्य वामाक्षि पश्य सर्वान् शुचिस्मिते ॥ ४०॥ एवं तेषां वचः श्रुत्वा तान् जगाद सुरूपिणी । हावभावसमायुक्ता मोहिनी मोहकारिणी ॥ ४१॥ मोहिन्युवाच । अहं स्वेच्छामयी रम्या नावृता स्वेच्छया गता । मोहिनी सर्वविख्याता चरामि ह्यकुतोभया ॥ ४२॥ विश्वस्य नायकः कोऽपि भविष्यति महाबलः । वरिष्यामि पतिं दैत्या नान्यं गच्छत मा चिरम् ॥ ४३॥ तस्यास्तद्वचनं श्रुत्वा क्षुभिता दैत्यदानवाः । तेषु केचिद्ययुस्तत्र विरोचनं सदान्वितम् ॥ ४४॥ तं प्रणम्य महात्मानं जगुर्वृत्तान्तमादरात् । श्रुत्वा सोऽपि महामोहयुक्तो बभूव तत्क्षणात् ॥ ४५॥ गणेशमायया भ्रान्तः प्रययौ तामनिन्दिताम् । विरोचनो महादैत्यः संवृतस्तां ददर्श ह ॥ ४६॥ समागतं महादैत्यं दृष्ट्वा विष्णुः प्रहर्षितः । सस्मार गणपं चित्ते ध्यात्वा तत्रैव संस्थितः ॥ ४७॥ ततो गणेश्वरः साक्षात्तयोर्हृदि व्यवस्थितः । बुद्धिभेदं चकारासौ तादृशौ तौ बभूवतुः ॥ ४८॥ अथो विरोचनो देवीं दृष्ट्वा मोहयुतोऽभवत् । समीपे प्रययौ तस्या एकाकी हर्षसंयुतः ॥ ४९॥ तामुवाच महादैत्यो विनयेन समन्वितः । कृत्वा करपुटं विप्र महामायाप्रमोहितः ॥ ५०॥ विरोचन उवाच । (Page खं. ८ अ. २६ पान ५७) ब्रह्मविष्णुमहेशेन्द्राद्या जिताः सचराचराः । मया ब्रह्माण्डनाथेन तव दासेन भामिनि ॥ ५१॥ तवाज्ञावशगोऽहं तु भविष्यामि निरन्तरम् । पत्नी भव मदीया त्वं गृहमागच्छ मे प्रिये ॥ ५२॥ एवं तस्य वचः श्रुत्वा तमुवाच सुमोहिनी । यदा वचोऽन्यथा मे त्वं करिष्यसि त्यजाम्यहम् ॥ ५३॥ तथेति तां समागृह्य ययौ स्वगृहमुत्तमम् । तन्निष्ठस्तत्परः सोऽपि बभूव समीपस्थितः ॥ ५४॥ नानाचातुर्यभावेन मोहयामास तं हरिः । मोहिनीरूपसंस्थश्च खलं यभितुमुद्यतम् ॥ ५५॥ तमुवाच महाभागा मोहिनी सर्वमोहिनी । अभ्यङ्गं कुरु नाथ त्वं मद्धस्तेन महामते ॥ ५६॥ पश्चात् स्नानं च कृत्वा तु भोजनं कुरु सुव्रत । ततो मां स्पृश दैत्येन्द्र तवाधीनां निरन्तरम् ॥ ५७॥ गणेशमायया भ्रान्तस्तामुवाच तथेति सः । सुवासितेन तैलेनाभ्यङ्गं कर्तुं समुद्यतः ॥ ५८॥ प्रगृह्य मोहिनी तैलमुत्तार्य मुकुटं परम् । मस्तकात्तस्य हस्ताभ्यां मूर्ध्नि हृष्टा व्यमर्दयत् ॥ ५९॥ हस्तयोः स्पर्शमात्रेण शतचूर्णोऽभवत्तदा । मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिताऽभवत् ॥ ६०॥ जय लम्बोदरेत्युक्त्वांऽतर्दधे सा तु मोहिनी । दैत्या मृतं समालोक्य विविशुस्ते रसातलम् ॥ ६१॥ देवर्षिभिस्ततो विष्णुः स्वलोकमगमच्च तैः । स्वस्वधर्मयुतान् लोकान् कारयामास माधवः ॥ ६२॥ एवं माघव्रतेनैव गाणेशेन जनार्दनः । जघान दैत्यनाथं तं त्रैलोक्यजयकारिणम् ॥ ६३॥ इदं यः श‍ृणुयात् जन्तुः पठेद्वा गणपं स्मरन् । स सर्वसुखसंयुक्तो भविष्यति निरन्तरम् ॥ ६४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः ॥ ८.२५

८.२६ माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । मौद्गलो ब्राह्मणः कश्चिन्नाम्ना विश्वसहोऽभवत् । गाणपत्यप्रियोऽत्यन्तं सदा सत्सङ्गलालसः ॥ १॥ स कदाचिन् महाभागो माघव्रतपरोऽभवत् । गाणेशपञ्चकं नित्यमसेवद्भक्तिसंयुतः ॥ २॥ प्रातः काले समुत्थाय स्नानार्थं चागतं द्विजम् । तत्रैका राक्षसी घोरा तं दृष्ट्वा भक्षितुं ययौ ॥ ३॥ विकरालमुखीं तां स दृष्ट्वा भयसमन्वितः । गणेशेति समुच्चार्य जलं चिक्षेप दूर्वया ॥ ४॥ दूर्वायुक्तं जलं तस्या देहे लग्नं महामुने । तेन शुद्धा विश्वसहं ननामैव जगाद ह ॥ ५॥ राक्षस्युवाच । अहं त्वां शरणं प्राप्ता तारयस्व भवार्णवात् । तव दर्शनमात्रेण जाताऽहं शुद्धमानसा ॥ ६॥ (Page खं. ८ अ. २६ पान ५८) तस्यास्तद्वचनं श्रुत्वा रुदतीं दुःखसंयुताम् । उवाच दयया युक्तो विश्वसहः प्रतापवान् ॥ ७॥ विश्वसह उवाच । काऽसि त्वं वद पापिष्ठे कर्म किं पापरूपकम् । कृतं त्वया महाघोरे किं रोदिषि सुदुःखिता ॥ ८॥ राक्षस्युवाच । पूर्वजन्मनि विप्रेश ब्राह्मण्यहं सुरूपिणी । पातिव्रत्यं परित्यज्य देहभोगयुताऽभवम् ॥ ९॥ यथेष्टं विषये सक्ताऽऽचरं पापपरायणा । मृता यामैर्हृता तत्र यातनायां स्थिताऽभवम् ॥ १०॥ भुक्त्वा दुःखमपारं तु कृता राक्षस्यहं पुनः । सदा क्षुधा समाविष्टा अभ्रमं यत्र तत्र ह ॥ ११॥ नीचोच्चमांसमत्यन्तमभक्षं नित्यमेव च । तथापि मां पिपीडासौ जठराग्निः समुत्थितः ॥ १२॥ अपारं भक्षयाम्येव तथापि क्षुधया युता । विप्रजन्मन आरभ्य न तृप्ताहं कदाऽभवम् ॥ १३॥ अधुना त्वां समालोक्य भक्षितुं सहसाऽऽगता । जलस्पर्शेन ते तात जातिस्मरा भवाम्यहम् ॥ १४॥ तारयस्व महाभाग त्वं समर्थो न संशयः । नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः ॥ १५॥ तस्यास्तद्वचनं श्रुत्वा विश्वसहो महामतिः । विचार्य दयया युक्तः तां जगाद प्रहर्षितः ॥ १६॥ विश्वसह उवाच । गणेशनाममाहात्म्यं कथयितुं न शक्यते । मया श्रुतं पुराणेषु सत्यमेव तदञ्जसा ॥ १७॥ दूर्वायुक्तजलेन त्वं कृता जातिस्मराऽधुना । अधुना तारणार्थं ते ददामि पुण्यमुत्तमम् ॥ १८॥ माघस्नानभवं पुण्यमेकाहेन समुद्भवम् । ददामि त्वां महाभागे गच्छ त्वं नगरं निजम् ॥ १९॥ एवमुक्त्वा ददौ तस्यै पुण्यं हस्तजलेन सः । एकस्नानभवं पूर्णं माघमासे स मौद्गलः ॥ २०॥ ततो गणेश्वरस्यैव दूतास्तत्र समाययुः । तां विमाने विनिक्षिप्य ययुः स्वानन्दकं पुरम् ॥ २१॥ तत् दृष्ट्वा परमाश्चर्यं विश्वसहो महामुनिः । स्नानं कृत्वा ययौ स्नानमभजद्गणनायकम् ॥ २२॥ समाप्ते तद्व्रते तत्राऽऽययौ विनायकः प्रभुः । वरं दातुं द्विजायैव मौद्गलाय विशेषतः ॥ २३॥ समागतं गणाध्यक्षं दृष्ट्वोत्थाय नमाम तम् । सम्भ्रमेण समायुक्तो ननर्त प्रेमविह्वलः ॥ २४॥ तं तादृशं समालोक्य जगाद द्विरदाननः । वरान् वृणु महाभाग दास्यामि मनसीप्सितान् ॥ २५॥ गणेशवचनं श्रुत्वा प्रतिबुद्धो महामुनिः । जगाद तं प्रपूज्यैव हर्षं संयम्य शौनक ॥ २६॥ विश्वसह उवाच । धन्यं मे जन्मकर्मादि जनकौ श्रुतमेव च । धन्यं माघव्रतं मुख्यं येन दृष्टो गजाननः ॥ २७॥ त्वां वेदाः सोपनिषदो न जानन्ति गणेश्वर । योगिनः शङ्कराद्याः स कथं त्वं स्वयमागतः ॥ २८॥ कृतकृत्योऽहमत्यन्तं त्वदङ्घ्रियुगदर्शनात् । किं वृणोमि गणेशान भक्तिं देहि दृढां त्वयि ॥ २९॥ विघ्नेशाय नमस्तुभ्यं परात्परतमाय च । हेरम्बाय गणेशाय गणानां पतये नमः ॥ ३०॥ मायाकारशरीराय मायिकशिरसे नमः । तयोर्योगे सुदेहाय गजानन नमोऽस्तु ते ॥ ३१॥ (Page खं. ८ अ. २६ पान ५९) राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे । सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥ ३२॥ तामसाय जनानां तु संहर्त्रे कालरूपिणे । कर्मणे त्रिस्वरूपाय नमोऽहङ्कृतिधारिणे ॥ ३३॥ चालकाय महामोहदायिने शक्तिरूपिणे । गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥ ३४॥ बिन्दुमात्रशरीराय सोऽहङ्काराय देहिने । बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥ ३५॥ विदेहाय परेशाय स्वानन्दाय नमोऽस्तु ते । अयोगाय सुशान्ताय योगेशाय नमो नमः ॥ ३६॥ किं स्तौमि त्वां गणाध्यक्ष योगशान्तिस्वरूपिणम् । तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥ ३७॥ एवमुक्त्वा विश्वसहो ननामैव गजाननम् । तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥ ३८॥ श्रीगणेश उवाच । त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् । पठतां श‍ृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥ ३९॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥ ४०॥ मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा । यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥ ४१॥ एवमुक्त्वा गणाधीशोंऽतर्दधे तस्य पश्यतः । विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥ ४२॥ गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः । सदा माघव्रते संस्थो गाणेशपञ्चके रतः ॥ ४३॥ अन्यच्छृणु महच्चित्रं चरित्रं माससम्भवम् । सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥ ४४॥ चाण्डालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् । माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥ ४५॥ स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् । रात्रौ गीतं गणेशस्य गायति स्म निरन्तरम् ॥ ४६॥ एवं गीतं माघमासे गणेशं देवमन्दिरे । गत्वा गायन् पुनः सोऽपि कुटुम्बभरणे रतः ॥ ४७॥ एकदा कार्यसंस्थः स माघमासे बभूव ह । याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥ ४८॥ प्रणम्य विघ्नहर्तारं गीतं गीत्वा स्वमन्दिरम् । जगाम मार्गमध्यस्थं पिशाचाः पञ्च तं ययुः ॥ ४९॥ दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् । गणेशस्मृतिमात्रेण पिशाचाः स्तम्भिता बभुः ॥ ५०॥ ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् । अवलोकनपुण्येन शुद्धान्तरा बभूविरे ॥ ५१॥ जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः । तारयस्व महाभाग संसारान्नः पिशाचकान् ॥ ५२॥ तव दर्शनमात्रेण शुद्धा जाता वयं किल । तव गानफलं देहि तेन मुक्ता भवामहे ॥ ५३॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्तो जगाद तान् । नीलः परमभावज्ञः पिशाचान् पापनिश्चयान् ॥ ५४॥ नील उवाच । गणेशगीतसम्भूतं फलं वो न ददाम्यहम् । एकगीतफलेनैवोद्धरिष्यति चराचरम् ॥ ५५॥ अत एकस्य पादस्य फलं दास्यामि शाश्वतम् । तेन मुक्ता भवन्तोऽपि भविष्यन्ति न संशयः ॥ ५६॥ एवमुक्त्वा ददौ तेभ्य एकगीतस्य पादजम् । (Page खं. ८ अ. २७ पान ६०) फलं तेनाऽभवन् सर्वे दिव्यदेहधरा मुने ॥ ५७॥ विमानेषु समारुह्य गताः स्वानन्दके पुरे । चाण्डालो विस्मितो नीलः स्वगृहं प्रययौ ततः ॥ ५८॥ ततोऽधिकां गणेशस्य भक्तिं चक्रे महामुने । अन्ते गणेश्वरं सोऽपि ययौ कोटिकुलैः सह ॥ ५९॥ एवमेकात्मकेनैव नियमेन विशेषतः । माघमासे गणेशानं प्रापुश्चानन्तजन्तवः ॥ ६०॥ माघमासभवं चित्रं व्रतजं कथितं मया । माहात्म्यं श्रवणान्नृभ्यः पठनाद्भुक्तिमुक्तिदम् ॥ ६१॥ धनधान्यप्रदं पुत्रपौत्रसौभाग्यवर्धनम् । नानारोगहरं सद्यः किं भूयः श्रोतुमिच्छसि ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः ॥ ८.२६

८.२७ वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो । मलमासस्य चित्रं त्वं सूत सर्वार्थकोविद ॥ १॥ सूत उवाच । वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा । कर्मखण्डनमार्गेण देवान् हन्तुं समुद्यतः ॥ २॥ ततो देवगणाः सर्वे भयभीता बभूविरे । शरणं स्वगुरुं जग्मुरुपोषणपरायणाः ॥ ३॥ तानुवाच महातेजा बृहस्पतिरुदारधीः । सेन्द्रान् वैशाखजं देवाः कुरुध्वं व्रतमुत्तमम् ॥ ४॥ तेन व्रतप्रभावेण समर्थः सुरनायकः । दधीच्यस्थिजवज्रेण हनिष्यति महासुरम् ॥ ५॥ सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् । गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः ॥ ६॥ गाणेशपञ्चकं नित्यं सिषेविरे सुरर्षयः । गणेशस्मरणं ध्यानं चक्रुः परमभाविकाः ॥ ७॥ वैशाखी पूर्णिमायां ते स्वप्ने सर्वसुखावहम् । ददृशुर्गणराजं वै मूर्तिस्थं पूजने रताः ॥ ८॥ मूर्तिस्तान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा । इन्द्रदेहं समाश्रित्य हनिष्यामि महासुरम् ॥ ९॥ अमरा मुनयः सर्वे प्रबुद्धा विस्मिता जगुः । परस्परं विचार्यैवं सर्वैकस्वप्नभावतः ॥ १०॥ ततः क्रोधसमायुक्तो बभूव देवनायकः । देवान् गृह्य ययौ तत्र दधीचिं मुनिभिः पुरा ॥ ११॥ तं प्रार्थ्य वज्रमादाय तदस्थिजं महाबलः । देवैः समावृतो युद्धं वज्रेणैव चकार सः ॥ १२॥ वृत्रेन्द्रयोर्महद्युद्धं देवानां दैत्यपैः सह । बभूव दारुणं विप्र मया वक्तुं न शक्यते ॥ १३॥ इन्द्रो गणपतिं स्मृत्वा तं वज्रेण महासुरम् । जघान तं मृतं दृष्ट्वा दैत्याः पातालमाविशन् ॥ १४॥ देवा हर्षसमायुक्ता ब्रह्मणा गणपं पुनः । (Page खं. ८ अ. २७ पान ६१) बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुवुः ॥ १५॥ देवर्षय ऊचुः । नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने । अनन्तमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥ १६॥ नमस्तुभ्यं महाविघ्ननाशनाय महात्मने । विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥ १७॥ हेरम्बाय महादीनपालकाय च ढुण्ढये । लम्बोदराय देवाय देवदेवेश ते नमः ॥ १८॥ अनाथानां प्रणाथाय नाथहीनाय ते नमः । नाथानां नाथरूपाय वक्रतुण्डाय वै नमः ॥ १९॥ परात्परतमायैव योगशान्तिप्रदाय ते । योगानां पतये तुभ्यं नमो योगाय ते नमः ॥ २०॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥ २१॥ अनन्तमायया देव चारिणे ते नमो नमः । मायाहीनाय मायायै मायिनां मोहकारिणे ॥ २२॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । सिद्धिबुद्धिपते तुभ्यं स्वानन्दस्थाय ते नमः ॥ २३॥ किं स्तुमस्त्वां गणाध्यक्ष शान्तिरूपं परात्परम् । वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥ २४॥ एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने । स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥ २५॥ वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः । सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥ २६॥ एवं वैशाखमासस्य व्रतेन देवनायकः । हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥ २७॥ अन्यच्च श‍ृणु माहात्म्यं वैशाखव्रतसम्भवम् । सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥ २८॥ गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह । स गणेशपरो नित्यमभजद्गणनायकम् ॥ २९॥ स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः । अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥ ३०॥ तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविदम् । तं प्रणम्य महाभागं शिवदत्तः पुपूज ह ॥ ३१॥ नित्यं सेवापरं दृष्ट्वा सुतं विनयसंयुतम् । मुक्तिमिच्छन्तमत्यन्तं गर्गः संहर्षितोऽभवत् ॥ ३२॥ उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद । तत्करिष्यामि ते शीलसन्तुष्टोऽहं न संशयः ॥ ३३॥ तस्य तद्वचनं श्रुत्वा शिवदत्तः कृताञ्जलिः । तं प्रणम्य महात्मानं जगाद सुखदं वचः ॥ ३४॥ शिवदत्त उवाच । गुह्यं वेदरहस्यं मे वद योगीन्द्रसत्तम । येनाहं कृतकृत्यश्च भविष्यामि सुसेवनात् ॥ ३५॥ गर्ग उवाच । लक्षचतुरशीतिषु योनिषु मानवात्मिका । योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेत् ॥ ३६॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य सर्वदा । पात्रता तस्य सम्भूता तस्माच्छ्रेष्ठं न विद्यते ॥ ३७॥ तेषु ब्राह्मणवर्णस्थः श्रेष्ठः शास्त्रेषु सम्मतः । सर्वकर्माधिकारित्वात्तेषु शास्त्रज्ञ एव च ॥ ३८॥ तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुतः । तेषु ज्ञानी महाश्रेष्ठः सर्वत्रात्मप्रदर्शनात् ॥ ३९॥ तेषु योगी विशेषेणाधिकस्तेषु महामते । गाणपत्योऽधिको योगी परस्तस्मान्न विद्यते ॥ ४०॥ यत्र तत्राऽपि वर्णस्थो गाणपत्योऽधिको मतः । (Page खं. ८ अ. २८ पान ६२) योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् ॥ ४१॥ इदं वेदान्तसम्भूतं सारं ते सम्प्रकाशितम् । तस्माद्भज गणेशानं कृतकृत्यो भविष्यसि ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः ॥ ८.२७

८.२८ शुकगीताकथनं नामाष्टाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । वद तात महायोगिन् सर्वसंशयनाशकृत् । योगिनः प्रवदन्तीह नानामतयुतं वचः ॥ १॥ केचिच्छिवं तथा विष्णुं रविं शक्तिं गणेश्वरम् । कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदन्ति च ॥ २॥ योगं साङ्ख्यमथाऽनन्दमव्यक्तं बोधसंज्ञितम् । अन्नं प्राणं मनो योगिन्नित्यादिबहवो मताः ॥ ३॥ श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावतः । सर्वमान्यं वद स्वामिंस्त्वमस्माकं परा गतिः ॥ ४॥ गर्ग उवाच । अत्र ते वर्णयिष्यामि चेतिहासं पुरा भवम् । श‍ृणुष्वैकमना वत्स सर्वमान्यं वचो महत् ॥ ५॥ एकदा नैमिषारण्ये यज्ञं चकार हर्षतः । वसिष्ठस्तत्र विप्रेन्द्रा देवेन्द्राश्च समायुयः ॥ ६॥ नानावर्णाश्रमप्रज्ञाः श्रेष्ठाः त्रैलोक्यवासिनः । आययुर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे ॥ ७॥ योगिनः शुकमुख्याश्च नागाः शेषादयोऽपरे । सर्वे सम्मिलितास्तत्र कथां चक्रुः परस्परम् ॥ ८॥ तत्र वेदान्तवादेषु कुशला अवदन् मिथः । नानामतसमायुक्ताः श्रेष्ठं स्वस्वमते स्थिरम् ॥ ९॥ नानावादपराः सर्वे निश्चयं नैव लेभिरे । ततः शुकं नमस्कृत्योचुः सर्वे शान्तिधारकम् ॥ १०॥ सर्वश्रेष्ठा ऊचुः । भगवन् सर्वसारज्ञ योगीन्द्रेषु महामते । श्रेष्ठस्त्वं शास्त्रवादेषु वद सारं हिताय नः ॥ ११॥ योगीन्द्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् । त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः ॥ १२॥ तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् । जगाद सर्वसारज्ञः सभायां सर्वसन्निधौ ॥ १३॥ श्रीशुक उवाच । अन्नकोशमयं ब्रह्मान्नसंज्ञं राजसम्मतम् । जागृत् स्थूलस्वरूपस्थं ज्ञातव्यं वेदवादतः ॥ १४॥ प्राणो ब्रह्म तथा प्राणकोशानां तत् प्रकाशकम् । मनः कोशमयं ब्रह्म मनोमयं प्रकीर्तितम् ॥ १५॥ विज्ञानकोशगं ब्रह्म विज्ञानपदवाचकम् । त्रिकोशस्थं क्रमात् सूक्ष्मं स्वाप्नमन्तरगं मतम् ॥ १६॥ आनन्दकोशसंस्थं यद्ब्रह्मानन्दमयं बुधैः । सौषुप्तमुभयत्रस्थं समं वेदविचारतः ॥ १७॥ (Page खं. ८ अ. २८ पान ६३) चैतन्यं चेतनासंस्थं ब्रह्मात्मप्रत्ययात्मकम् । तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकम् ॥ १८॥ बिन्दुमयं समाख्यातं ब्रह्मदेहात्मधारकम् । चतुर्णां देहभूतानां संयोगे त्वम्पदाश्रितम् ॥ १९॥ उत्पत्तिस्थितिनाद्युक्तं ब्रह्म चतुर्विधं मतम् । प्रचुराख्यं चतुर्देहैः तस्मात् त्वम्पदसंज्ञितम् ॥ २०॥ चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः । उत्पत्तिस्थितिनाशेभ्यो हीनः सोऽहम्पदाश्रयः ॥ २१॥ बिन्दुमोहयुतो नित्यं भ्रान्त्या नानाऽवभासते । एक एव स्वयं वेदे कथितस्तत्पदाश्रयः ॥ २२॥ देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते । देहाभिमानहीनश्चेत् परमात्मा स एव तु ॥ २३॥ देहदेहिसमायोगे योगोऽसि पदसंज्ञकः । मनोवाणीविहीनत्वात् बोधरूपोऽयमुच्यते ॥ २४॥ न बाह्यो नान्तरस्थो यन्न समो नास्मितात्मकः । न चतुर्णां हि संयोगे बिन्दुमात्रात्मकः स्मृतः ॥ २५॥ न सोऽहङ्काररूपस्थः सदा भेदविवर्जितः । अतः किं कथनीयं स्यात्तत्रैवं बोधरूपिणि ॥ २६॥ बोधेन ज्ञायते सर्वं बोधस्य बोधकं च न । अतो बोधमयं ब्रह्मासिपदाख्यं प्रकीर्तितम् ॥ २७॥ प्रकृतिसङ्गतो बोधो बोधः पुरुषधारकः । प्रकृतिपुम्भवं सौख्यं बोधो जानाति सर्वदा ॥ २८॥ प्रकृतिपुम्भवं सौख्यं ज्ञात्वा सृष्ट्वा स्वयं प्रभुः । द्वैधं तत्र विशेषेण खेलत्यसिपदात्मकम् ॥ २९॥ तेनायं स्वत उत्थानवाचकः परिकीर्तितः । बोधादुत्थानभावश्च जायते सुविचक्षणाः ॥ ३०॥ ततः परं विबोधाख्यं ब्रह्म खेलविवर्जितम् । बोधनाशेन योगेन लभ्यते योगिभिर्मुदा ॥ ३१॥ बोधनाशे प्रसङ्ख्यातुं कः समर्थो भवेन्नरः । अतः साङ्ख्यपरं ब्रह्म सङ्ख्यानाशात् प्रकथ्यते ॥ ३२॥ देहदेहिमये नित्यं ब्रह्मणि द्वैतमास्थितम् । स्वस्वभावविहीनेन तस्मात् परं विबोधकम् ॥ ३३॥ विषयादिषु बोधेनोत्थानं सञ्जायते नृणाम् । बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मतम् ॥ ३४॥ ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते । उत्थानवर्जितं साङ्ख्यं योगिभिर्ब्रह्म वर्ण्यते ॥ ३५॥ यदोत्थानयुतं ब्रह्म वर्तते सर्ववित्तमाः । तदोत्थानविहीनत्वं मते भवति योगिनाम् ॥ ३६॥ अतः परत उत्थानसंयुतं साङ्ख्यसंज्ञितम् । ब्रह्मोत्थानविहीनत्वादुत्थानं जायतेऽन्यतः ॥ ३७॥ तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकम् । सर्वेषां ब्रह्मणां विप्राः संयोगस्तत्र तन्मयः ॥ ३८॥ स्वस्वरूपात् परं ब्रह्म संयोगाख्यं न वर्तते । तदेवोत्थानहीनं न नैवोत्थानविवर्जितम् ॥ ३९॥ तदेव पञ्चधा जातं ब्रह्म स्वानन्दवाचकम् । असत् सत् समानेतिस्वानन्दभेदैः प्रकथ्यते ॥ ४०॥ अन्नं ब्रह्मेति यत् प्रोक्तं तत्रान्नमयमुच्यते । नाम तस्य न सन्देहोन्नोपाधित्वाद्विचक्षणाः ॥ ४१॥ तस्यानुभवरूपं यद्योगिनां हृदि जायते । तदेव रूपकं तस्य नामरूपात्मकं ततः ॥ ४२॥ समाधिना महायोगी तत्त्यक्त्वा प्राणब्रह्मणि । (Page खं. ८ अ. २८ पान ६४) गच्छति चेत्तदान्नस्य लयस्तत्र भवत् स्वयम् ॥ ४३॥ तद्वत् क्रमेण योगीन्द्राः स्वानन्दस्था भवन्ति हि । त्यक्त्वा ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना ॥ ४४॥ तदा तेषां लयस्तत्र जायते ब्रह्मणां किल । अत उत्पत्तिनाशाभ्यां तानि युक्तानि योगिनः ॥ ४५॥ उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते । अतो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहतः ॥ ४६॥ बोधसाङ्ख्यात्मके यस्माज्जायते स्वस्वरूपतः । तत्रान्ते योगभावेन गच्छतो लयमञ्जसा ॥ ४७॥ अतोऽसद्रूपस्वानन्दो नानाब्रह्मसु संस्थितः । सा शक्तिर्वेदवादेषु शाक्तं ब्रह्म तदुच्यते ॥ ४८॥ असति जीवनं यच्च सदा खण्डमयं परम् । सद्रूपं स्वस्वरूपं तदात्मा भानुः प्रकथ्यते ॥ ४९॥ तयोः स्रष्टा समः साक्षात् स्वानन्दः परिकीर्तितः । विष्णुः स तत् प्रवेशात्तु ब्रह्म वेदे प्रकथ्यते ॥ ५०॥ त्रयाणां नेति कर्ता स्वस्वाधीनोऽव्यक्तकः शिवः । चतुर्णां मन्त्रसंयोगे स्वानन्दः पूर्ण उच्यते ॥ ५१॥ चतुर्विधं प्रसृष्टं तु स्थापितं संहृतं पुरा । स्वानन्देन सदा ब्रह्म तस्मात्तन् मायया युतम् ॥ ५२॥ ब्रह्मणां जगतां तस्माद्भावस्तेन प्रकथ्यते । भवप्रत्ययसज्ञं तद्ब्रह्म यत् स्वस्वरूपकम् ॥ ५३॥ समाधिसंज्ञितं ब्रह्मान्वयात् सर्वत्र कीर्तितम् । भवप्रत्यययोगस्थं स्वस्वरूपं महौजसः ॥ ५४॥ ततः परमयोगाख्यं ब्रह्म मायाविवर्जितम् । मायया वर्णनं सर्वं जायते तद्विवर्जितम् ॥ ५५॥ मायया जगतामत्र ब्रह्मणां खेल उच्यते । तेषां संयोगभावश्चायोगे किं तैः प्रकथ्यते ॥ ५६॥ यद्युत्थानयुतं ब्रह्म तदा बोधमयं भवेत् । उत्थानवर्जितं चैतद्भवेत् साङ्ख्यविबोधगम् ॥ ५७॥ समाधिसंज्ञं यदि तत्तदा स्वानन्द उच्यते । स्वस्य प्रवेशनाशाद् वै किमयोगे वदत्ययम् ॥ ५८॥ ब्रह्म ब्रह्मणि संस्थं तन्नागतं न गतं भवेत् । व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि योगिनाम् ॥ ५९॥ सदा निवृत्तिसंज्ञं तद्ब्रह्म मायाविवर्जितम् । स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते ततः ॥ ६०॥ मायानाशार्थमत्यन्तमुपायो ह्ययमेकलः । उपायप्रत्ययाख्यं तद्ब्रह्मायोगात्मकं परम् ॥ ६१॥ अयोगात् परमं ब्रह्म योगाख्यं शान्तिदायकम् । संयोगायोगयोर्योगे लभ्यते योगिनायकैः ॥ ६२॥ तदेव गणराजश्च ब्रह्मणस्पतिवाचकः । ब्रह्मणां ब्रह्मरूपः स शान्त्या योगेन लभ्यते ॥ ६३॥ संयोगे गणराजस्तु गकाराक्षरगो मतः । अयोगे स णकाराख्यस्तयोः पतिः प्रकथ्यते ॥ ६४॥ इदं वेदान्तसारं यत् कथितं योगमार्गतः । तं भजध्वं महाभागा यदि शान्तिं समिच्छथ ॥ ६५॥ गर्ग उवाच । एवमुक्त्वा शुको योगी तूष्णीं भावेन संस्थितः । सर्वे विस्मितचित्तास्तं साधु साध्विति चाब्रुवन् ॥ ६६॥ निःसंशयाः कृतास्तेन त्यक्त्वा स्वस्वमतं ततः । गणेशभजने सक्ता वयं पुत्र महामते ॥ ६७॥ क्रमेण शान्तिमापन्ना गाणपा अभवंश्च ते । गता गणेश्वरं योगशान्तिदं त्वां वदाम्यहम् ॥ ६८॥ (Page खं. ८ अ. २९ पान ६५) शुकगीता मया तुभ्यं कथिता ब्रह्मदायिनी । श‍ृणुयाद्यः पठेत् सोऽपि ब्रह्मभूतो भविष्यति ॥ ६९॥ नानेन सदृशं ज्ञानं योगदं कुत्र वर्तते । श्रवणात् सर्वसिद्धिदं भविष्यति क्रमादिदम् ॥ ७०॥ यं यमिच्छति तं तं स लभते मानवो ध्रुवम् । अन्ते स्वानन्दवासी स ब्रह्मभूतो भविष्यति ॥ ७१॥ शुकगीतासमं किञ्चित् विद्यते नैव निश्चितम् । वेदोपनिषदाद्येषु सारभूता हि कथ्यते ॥ ७२॥ न श्राव्या दुर्जनायेयं वेदगुह्यमयी परा । योगिभिः शुद्धचित्तेभ्यः सुत श्राव्या प्रयत्नतः ॥ ७३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते शुकगीताकथनं नामाष्टाविंशोऽध्यायः ॥ ८.२८

८.२९ वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । श्रुत्वा त्वद्वदनाम्भोजाच्छुकगीतां सुतोषितः । जातोऽधुना गणेशस्य प्राप्त्यर्थं वद मां पितः ॥ १॥ गर्ग उवाच । समीपे व्रतमुख्यं यत् समागतं सुसिद्धिदम् । वैशाखमासजं कृत्वा गाणपत्यो भविष्यसि ॥ २॥ एवमुक्त्वा महायोगी गर्गस्तस्मै ददौ परम् । गाणेशपञ्चकेनैकाक्षरं विधिसमन्वितम् ॥ ३॥ ततस्तेनाभ्यनुज्ञातो गर्गः स्वेच्छाचरो ययौ । शिवदत्तो व्रतं चक्रे गणेशप्रीतये परम् ॥ ४॥ वैशाखे ध्यानसंयुक्तस्तोषयामास शौनक । गाणेशपञ्चकेनैव गणेशं सर्वसिद्धिदम् ॥ ५॥ चतुर्थ्यां गणराजस्तु शुक्लायां प्रययौ मुनिम् । ब्राह्मणस्य स्वरूपेण भिक्षार्थं क्षुधितो भृशम् ॥ ६॥ तमागतं समालोक्य प्रणनाम कृताञ्जलिः । जगाद तं द्विजं विप्रः शिवदत्तो महायशाः ॥ ७॥ शिवदत्त उवाच । आस्यतां किं वद मुने कारणार्थं समागतः । शक्यं चेत्तत् करिष्यामि प्रीतये विघ्नपस्य च ॥ ८॥ द्विज उवाच । पाराशर्यं महाभाग मां जानीहि न संशयः । क्षुधितं वै समायातं त्वद्गेहे भोजनाय तु ॥ ९॥ तस्य तत् वचनं श्रुत्वा हर्षयुक्त उवाच तम् । तात शुक्लचतुर्थीजं व्रतं वदसि किं मुने ॥ १०॥ उपोषणसमायुक्ता देवर्षयो गजाननम् । सेवन्ते त्वं महाभाग विस्मृतोऽसि वदस्व माम् ॥ ११॥ तस्य तद्वचनं श्रुत्वा पाराशर्यस्तमब्रवीत् । न जानामि व्रताद्यं तु सदा भक्षणलालसः ॥ १२॥ श्रुत्वा प्रणम्य गार्ग्यः स नैवेद्यं गणपस्य च । ददौ तस्मै स भुक्त्वा तं तृप्त्वा जगाद हर्षितः ॥ १३॥ पाराशर्य उवाच । तव भावेन सन्तुष्टो जातोऽहं द्विजसत्तम । (Page खं. ८ अ. २९ पान ६६) वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन् मुने ॥ १४॥ गार्ग्य उवाच । किं वृणोमि महाविप्र सर्वं मायामयं जगत् । गणेशतत्परश्चाहं गच्छ त्वं निजमन्दिरम् ॥ १५॥ एवं तस्य वचः श्रुत्वा पुनस्तं स द्विजोऽब्रवीत् । नयामि स्वगृहं विप्र वरदोऽहं समागतः ॥ १६॥ ततस्तं हठसंयुक्तं दृष्ट्वा गार्ग्य उवाच ह । गणेशं दशर्य स्वामिन्नान्यं याचे वरं परम् ॥ १७॥ एवमुक्तो द्विजस्तं सञ्जगाद मोहदं वचः । त्यक्त्वा नानाविधैश्वर्यं किं वृणोषि गजाननम् ॥ १८॥ अहं योगीन्द्रमुख्यश्च दास्यामि सकलं सुखम् । एवमुक्त्वा स गार्ग्याय दर्शयामास चैन्द्रकम् ॥ १९॥ नानादेवयुतो विप्रमिन्द्रस्तं प्रणनाम ह । दासोऽहं ते महाभाग भुङ्क्ष्व त्वं सुखमैन्द्रजम् ॥ २०॥ एवमुक्त्वा चकाराऽसौ मायया वैभवं परम् । गार्ग्यस्तं नश्वरं मत्वा न दध्ने गणपे रतः ॥ २१॥ ततोंऽतर्धानमकरोदिन्द्रः स्वनगरं ययौ । सत्यलोकसमायुक्तस्तत्र ब्रह्मा समाययौ ॥ २२॥ जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्वितः । राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् ॥ २३॥ अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रतः । न मुमोह जगादैव भोगं नेच्छामि भो विधे ॥ २४॥ ततोंऽतर्धानमकरोद्ब्रह्मा लोकपितामहः । आययौ केशवस्तत्र विकुण्ठेन समन्वितः ॥ २५॥ विकुण्ठविभवं दृष्ट्वा गार्ग्यो गणपतिं भजन् । प्रार्थयन्तं महाविष्णुं त्यक्त्वा योगपरोऽभवत् ॥ २६॥ ततः सोऽपि ययौ स्थानमाययौ तत्र शङ्करः । कैलासेन समायुक्तो नानाविभवमोहदः ॥ २७॥ शिवेन प्रार्थितो गार्ग्यः कैलासे राज्यकारणात् । न चकार स वै तत्र मतिं गणपतौ रतः ॥ २८॥ शिवोंऽतर्धानमकरोत्ततस्तं पुनरब्रवीत् । पाराशर्यो महायोगी गार्ग्यं निन्दापरायणः ॥ २९॥ पाराशर्य उवाच । मूर्खोऽसि हतभाग्योऽसि गणेशं किं करिष्यसि । ब्रह्माकारमतो भुङ्क्ष्व भोगान्नानाविधान् परान् ॥ ३०॥ सत्यसङ्कल्पजान् भोगान् भुक्त्वा चान्ते गणेश्वरम् । भजिष्यसि न सन्देहो ब्रह्माण्डाधिपतिर्भव ॥ ३१॥ गार्ग्य उवाच । असत्यं दीनजं सौख्यं पराधीनात्मकं मुने । सत्यसङ्कल्पजं सौख्यं सत्यमनुपमं परम् ॥ ३२॥ सत्यासत्यादिभेदाश्च मायायुक्ता न संशयः । क्षणभङ्गुरदेहस्थो नेच्छामि योगिसत्तम ॥ ३३॥ अथ वेश्वरभावेनामृतरूपं करोषि माम् । तथापि योगनिपुणः सुखं नेच्छामि चैश्वरम् ॥ ३४॥ त्वं किमर्थमिहायातश्छलयितुं महाखल । गच्छ स्व भवनं विप्र गणेशे भक्तिखण्डक ॥ ३५॥ एवं तिरस्कृतस्तेन पाराशर्यो महामुनिः । प्रहस्य गणपाकारो बभूवे तत्क्षणान् मुने ॥ ३६॥ जगाद तं महाभागं शिवदत्तं गजाननः । पश्य मां गणनाथं त्वं पराशरसुतं मुने ॥ ३७॥ स दृष्ट्वा गणराजं तं प्रणनाम कृताञ्जलिः । साश्रुनेत्रोऽभवत् सद्यो ननर्त प्रेमविह्वलः ॥ ३८॥ देहभावं समासाद्य तं पुपूज गजाननम् । (Page खं. ८ अ. २९ पान ६७) मुदा युतः प्रतुष्टाव शिवदत्तः कृताञ्जलिः ॥ ३९॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ ४०॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ ४१॥ अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥ ४२॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ ४३॥ आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे । आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ ४४॥ स्वानन्दपतये तुभ्यं मूषकवाहनाय च । सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ ४५॥ योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे । गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ ४६॥ परेशाय महादीनपालकाय नमो नमः । सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ ४७॥ किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि । अतो नमो नमो नाथ तुष्टो भव महोदर ॥ ४८॥ रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः । गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ ४९॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः । वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ ५०॥ एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः । तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ ५१॥ श्रीगणेश उवाच । वरान् वृणु महाभाग ये ते चित्ते ददामि तान् । प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ ५२॥ शिवदत्त उवाच । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् । नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ ५३॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ ५४॥ त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् । श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ ५५॥ यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति । स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ ५६॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ ५७॥ सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः । अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ ५८॥ एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् । कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ ५९॥ वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् । यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः ॥ ८.२९ (Page खं. ८ अ. २० पान ६८)

८.३० वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । विश्वावसुश्च नाम्ना को द्राविडे वैश्ययोनिजः । श्रुत्वा वैशाखमाहात्म्यं गाणेशं मुदितोऽभवत् ॥ १॥ स कुटुम्बपरो नित्यं व्यवसायं चकार ह । स्नात्वा वैशाखमासे तु दीपदानपरोऽभवत् ॥ २॥ पूर्णिमायां निशायां स स्वगृहं गन्तुमुद्यतः । व्यवसायं परित्यज्य मार्गसंस्थो बभूव ह ॥ ३॥ तत्र तं भक्षितुं कोऽपि राक्षसः क्रूररूपधृक् । आययौ नगरस्यैव वीथ्यां विश्वावसुं मुने ॥ ४॥ तमागतं समालोक्य विश्वावसुः सुविह्वलः । सस्मार गणपं चित्ते पपात भूतले भयात् ॥ ५॥ तमालोक्य धरासंस्थं राक्षसः सहसा मुने । जातिस्मरो बभूवाऽपि रुरोद तं प्रमार्जयन् ॥ ६॥ ततो विश्वावसुं वैश्यं सावधानं क्षणार्धतः । तं प्रणम्य महाभागं राक्षसस्तु वचोऽब्रवीत् ॥ ७॥ धूम्र उवाच । धूम्रनामानमेवं मां विद्धि वैश्यकुलोद्भव । तव दर्शनमात्रेण स्मरन् जातिं न संशयः ॥ ८॥ पूर्वजन्मनि विप्रोऽहं सुरुचिर्नामतोऽभवम् । विश्वामित्रकुले संस्थः पापकर्मपरायणः ॥ ९॥ मया शूद्राय दीक्षा वै दत्ता पौराणिकी परा । मात्स्यी स नित्यमेवेदं पुराणमपठन् मुदा ॥ १०॥ ब्राह्मणैर्निन्दितं तत्र स्वधर्मदूषकं परम् । मृतं मां यमदूता वै गृह्य जग्मुः स्वमालयम् ॥ ११॥ चित्रगुप्त उवाचाऽथ यमं नीतिविशारदम् । स्वधर्मनिरतश्चायं सदाचारयुतोऽभवत् ॥ १२॥ मात्स्यं स विप्रः शूद्रायाऽशिक्षापयत् सुमन्दधीः । ब्रह्मणैर्वारितः पापी पापकर्मपरोऽभवत् ॥ १३॥ तच्छ्रुत्वा धर्मराजस्तमुवाच क्रोधसंयुतः । मां वीक्ष्य ताड्यतां दूतस्तथेति स चकार ह ॥ १४॥ भुक्तभोगोऽहमत्यन्तं राक्षसो वैश्यसत्तम । जातोऽत्र क्षुधयाऽऽविष्टो भ्रमामि तु दिवानिशम् ॥ १५॥ त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहाऽभवम् । अधुना तारयस्व त्वं मां संसारान् महामते ॥ १६॥ नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः । एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् ॥ १७॥ ततो दयायुतो वैश्यस्तमुवाच सुविस्मितः । किं करोमि वद प्राज्ञ धूम्र ते तारणाय माम् ॥ १८॥ धूम्र उवाच । वैशाखे दीपदानं त्वं करोषि ढुण्ढिसन्निधौ । तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहम् ॥ १९॥ विश्वावसुरुवाच । दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः । अपारं तद्भवं पुण्यं न दास्यामि कदाचन ॥ २०॥ तथापि श‍ृणु मे वाक्यमेकवर्तिजदीपतः । यज्जातं तद्गृहाण त्वं तेन मुक्तो भविष्यसि ॥ २१॥ एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवम् । एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ॥ २२॥ ततस्तत्र समायाता विमानवरसंस्थिताः । गाणेशा राक्षसं धूम्रं गृह्य स्वानन्दमाययुः ॥ २३॥ एवं व्रतस्य माहात्म्यं वैशाखे सम्भवस्य च । गाणेशानां महाभाग तत्र किं वर्णयाम्यहम् ॥ २४॥ अन्यच्च श‍ृणु विप्रर्षे वैशाखमासगं महत् । चरित्रं सर्वपापघ्नं श्रवणात् पठनान्नृणाम् ॥ २५॥ (Page खं. ८ अ. ३१ पान ६९) कश्चिच्छूद्रो महापापी गणेशालयमाययौ । चौर्यार्थं तत्र रात्रौ स वस्त्रग्रहणलालसः ॥ २६॥ समीपे गणराजस्य ययौ वैशाखमासके । दीपं तेजोविहीनं स ददर्श ढुण्ढिसन्निधौ ॥ २७॥ स वर्तिं चालयामास कृत्वा दीपं सुतेजसम् । वस्त्रग्रहणसंसक्तो बभूवे जातिदूषकः ॥ २८॥ ततोऽकस्मान्नरं तत्र राज्ञः कं च समागतम् । देवालस्य रक्षणार्थं तं दृष्ट्वा स पपाल ह ॥ २९॥ ततो हाहाकृतं तेन सद्यो लोकैः समागतैः । तैर्हतो योजने दूरं मृतो यामैर्हतोऽभवत् ॥ ३०॥ भुक्त्वा नानाविधां याम्यां यातनां यमसन्निधौ । समानीतं यमः प्राह तं शूद्रं क्रोधसंयुतः ॥ ३१॥ वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता । तेन प्रकाशकस्तत्र बभूव सुखदायकः ॥ ३२॥ तस्य पुण्यं त्वया प्राप्तं तद्भोक्ष्यसि पुराऽथ वा । पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् ॥ ३३॥ शूद्रो यमं जगदाथाऽऽदौ पुण्यं देहि मे प्रभो । भोक्तुं पश्चान् महत् पापं तथेति स चकार ह ॥ ३४॥ ततः स वैश्यजो जातो नाम्ना धर्मप्रियो महान् । नानाभोगयुतो नित्यं यौवनस्थो बभूव ह ॥ ३५॥ गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने । दीपदानं विशेषेण चकार हर्षसंयुतः ॥ ३६॥ अन्ते पापविहीनः स जगाम गणनायकम् । ब्रह्मभूतो बभूवापि पूर्वसंस्कारभावतः ॥ ३७॥ एवं किञ्चिच्च संस्कारादुद्धरन्ति जनादयः । वैशाखजान्न सन्देहः कति तत्र ब्रुवे मुने ॥ ३८॥ इदं वैशाखमासस्य चरित्रं भुक्तिमुक्तिदम् । कथितं ते समासेन नानाभोगकरं परम् ॥ ३९॥ यः पठेच्छृणुयाद्वाऽपि स सर्वार्थयुतो भवेत् । अन्ते गणपतौ लीनो भवेद्भावपरायणः ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ॥ ८.३०

८.३१ जालन्धरवधो नामैकत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । अधुना श‍ृणु माहात्म्यं श्रावणस्य सुखप्रदम् । गणनाथप्रियं विप्र समासेन वदाम्यहम् ॥ १॥ रामो दाशरथिः शूरः साक्षाद्विष्णुः प्रतापवान् । सभासनगतस्तत्रागतान् विप्रान्ननाम ह ॥ २॥ पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितम् । तद्वधार्थं वयं राम यातास्तं जहि राघव ॥ ३॥ तथेति तानुवाचाऽसौ द्विजान् पप्रच्छ राघवः । दुर्जयस्य जयः केन भविष्यति च मे द्विजाः ॥ ४॥ ततस्तं ब्राह्मणाः प्राहुर्गणेशस्याभिषेचनम् । सूक्तैर्गाणेशकैस्तेन विजयी त्वं भविष्यसि ॥ ५॥ (Page खं. ८ अ. ३१ पान ७०) मासेषु श्रावणो मुख्यः समागतोऽधुना प्रभो । विघ्नेशप्रीतिदोऽत्यन्तममायुक्तो व्रतं कुरु ॥ ६॥ एवमुक्त्वा विधिं तस्मै कथयामासुरादरात् । गणेशमभजत्तत्र शत्रुघ्नः परवीरहा ॥ ७॥ उपोषणसमायुक्तः स्वयं दुग्धमभक्षयत् । अभिषेकपरो भूत्वा तोषयामास विघ्नपम् ॥ ८॥ मासमात्रं व्रतं कृत्वा गणेशं नम्य राघवः । शत्रुघ्नो ब्राह्मणैः सार्धं ययौ लवणराक्षसम् ॥ ९॥ त्रिशूलेन विहीनं संरुध्य तं लक्ष्मणानुजः । स्मृत्वा गणेश्वरं दुष्टं जघान शरघाततः ॥ १०॥ महोऽग्रं पतितं युद्धं तयोः सर्वभयङ्करम् । ततः खड्गेन शत्रुघ्नस्तस्य चिच्छेद मस्तकम् ॥ ११॥ ततो देवगणाः सर्वे पुष्पवृष्टिं प्रचक्रिरे । शत्रुघ्नोपरि शत्रुघ्नो जय हेरम्ब चाब्रवीत् ॥ १२॥ ब्राह्मणैः पूजितः सोऽपि प्रणम्य द्विजपुङ्गवान् । आवासं मथुरां तत्र सुदेशां तां चकार ह ॥ १३॥ गते कियति काले संस्थाप्य पुत्रं महामतिः । माथुरे रामचन्द्रं तु ययौ भक्तिपरायणः ॥ १४॥ एवं श्रावणमासे वै गणेशस्य महात्मनः । अनुष्ठानफलं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १५॥ अन्यत्त्वं श‍ृणु माहात्म्यं श्रावणव्रतजं महत् । जालन्धरवधार्थाय यच्छिवेन कृतं पुरा ॥ १६॥ जालन्धरेण दैत्येन जितं सर्वं चराचरम् । त्रैलोक्याधिपतिः सोऽपि बभूव वरदानतः ॥ १७॥ आसुरं कर्म सर्वत्र कारयामास दैत्यपैः । न स्वाहा न स्वधा कुत्र बभूवे भूमिमण्डले ॥ १८॥ एवं बहौ गते काले गृहीतुं पार्वतीं ययौ । जालन्धरस्ततो युद्धं बभूवे देवदैत्ययोः ॥ १९॥ देवैः पराजिता दैत्याः पपलुस्ते दिशो दश । ततो जालन्धरः क्रुद्धो युयुधे शस्त्रधारकः ॥ २०॥ जितः शम्भुः सुरेशानैः पपाल भयसङ्कुलः । अन्तर्दधे महाशक्तिः स ततो विस्मितोऽभवत् ॥ २१॥ स्वगृहं दैत्यराजः स समागत्यातिविह्वलः । कामबाणाभिभूतः सन् सस्मार जगदम्बिकाम् ॥ २२॥ न लेभे कुत्रचिच्छर्म नानाशीतलजातिषु । जज्वाल कामजेनैव वह्निना भृशदुःखितः ॥ २३॥ अथ देवगणाः सर्वे पर्वतद्रोणिमाश्रिताः । विचारं तस्य नाशार्थं चक्रुर्जालन्धरस्य ते ॥ २४॥ ततो बृहस्पतिः प्राह शङ्करादीन् सुरेन्द्रकान् । श्रावणे गणनाथस्यानुष्ठानं कुरुत प्रियाः ॥ २५॥ तथेति गुरुणा युक्ता देवाः शम्भ्वादयोऽपरे । मुनयो गणनाथं वै दूर्वाभिरन्वतोषयन् ॥ २६॥ दिवा रात्रौ गणाधीशमभजन्नैकचेतसः । समाप्ते श्रावणे मासे भाद्रिं यात्रां प्रचक्रिरे ॥ २७॥ पञ्चम्यां पारणं कृत्वा प्रणिपत्य गजाननम् । प्रेरिता आकाशगिरा तं महादैत्यमाययुः ॥ २८॥ युद्धं कृत्वा महाघोरं जलन्धरेण शङ्करः । स्मृत्वा गजाननं चित्ते त्रिशूलेन जघान तम् ॥ २९॥ स स्मृतः शिवदेहे तु लयं ययौ महासुरः । देवा मुनियुताः शम्भुं तुष्टुवुः पूज्य भक्तितः ॥ ३०॥ जालन्धरं महादैत्यमेवं जित्वा सदाशिवः । स्थापयामास देवादीन् स्वस्थानेषु यथा पुरा ॥ ३१॥ वर्णाश्रमयुतांल्लोकान् चकार शङ्करः प्रभुः । (Page खं. ८ अ. ३२ पान ७१) नित्यवच्छ्रावणे मासेऽनुष्ठानसंयुतोऽभवत् ॥ ३२॥ एकनिष्ठतया शम्भुः सिषेवे गणनायकम् । नित्यं ध्यानपरो भूत्वा तमेवाचिन्तयत् प्रभुम् ॥ ३३॥ एवं श्रावणमासस्य व्रतं ते कथितं मया । येन व्रतप्रभावेण शम्भुर्जिग्ये जलन्धरम् ॥ ३४॥ इदं यः श‍ृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालन्धरवधो नामैकत्रिंशोऽध्यायः ॥ ८.३१

८.३२ श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । अवन्तीनगरीमध्ये बभूव ब्राह्मणोत्तमः । गालवः सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥ १॥ शापानुग्रहयोः शक्तस्तपस्तेजोयुतो मुनिः । चचार पृथिवीं सर्वां मुने यात्रापरः कदा ॥ २॥ स्वगुरुं स समागम्य विश्वामित्रं महामुनिम् । यात्रां समाप्य तत्रैव संस्थितोऽभूत् सुशीलगः ॥ ३॥ गणेशभजने सक्तं विश्वामित्रं तपोनिधिम् । एकनिष्ठतया दृष्ट्वा तमुवाच कृताञ्जलिः ॥ ४॥ गालव उवाच । पञ्चभूतात्मको देहो नश्वरः सर्वसम्मतम् । देहसंस्थं गणेशानं तं कथं भजसे प्रभो ॥ ५॥ योगीन्द्राणां गुरुः साक्षात्त्वं ब्रह्मपदधारकः । ब्रह्मभूतस्वभावं किं त्यक्त्वा भजसि विघ्नपम् ॥ ६॥ अयं ब्रह्मपतिः साक्षाद्वेदेषु कथितोऽभवत् । कथं देहधरः सोऽपि बभूव च गजाननः ॥ ७॥ रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकम् । तदर्थं कथितं स्वामिन् वेदैः किं योगिनां मतम् ॥ ८॥ गणेशपूजनेनैव शुद्धचित्तो नरो भवेत् । स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः ॥ ९॥ सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा । त्यक्त्वा गजाननं तात जडोन्मत्तादिवच्चरेत् ॥ १०॥ त्वं शान्तियोगयुक्तः सन्नधुनाऽपि गजाननम् । भजसे किं महायोगिन् लोकानां सङ्ग्रहाय वा ॥ ११॥ सूत उवाच । एवं वदन्तमत्यन्तं मुनिर्निर्भर्त्स्य गालवम् । विश्वामित्रः स्वशिष्यं तमुवाच ज्ञानदायकः ॥ १२॥ विश्वामित्र उवाच । मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकम् । सर्ववत्तं विशेषेण त्वं मा जानीहि गालव ॥ १३॥ पञ्चचित्तमयी बुद्धिः स्वेच्छया देहधारिणी । नानाभ्रान्तिकरी सिद्धिर्बभूवे सर्वदा तथा ॥ १४॥ तयोः स्वामी गणेशानो देहधारी बभूव ह । स्वेच्छया क्रीडनार्थाय मायाभ्यां मायिको यथा ॥ १५॥ देहो जगन्मयो यस्य गजाकारं शिरः प्रभोः । ब्रह्ममयं तयोर्योगे देहधारी गजाननः ॥ १६॥ (Page खं. ८ अ. ३२ पान ७२) योगिनां हृदये ढुण्ढिर्वर्तते कथितो मया । अज्ञानिनां निराकारः पञ्चभूतात्मकस्तथा ॥ १७॥ सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते । नोत्पत्तिनाशभावश्च सर्ववन्मूर्खसत्तम ॥ १८॥ अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः । अन्तर्धाय स्वमात्मानं तिष्ठति योगनायकः ॥ १९॥ विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने । ब्रह्मणस्पतिसंज्ञे च योगे तन्मयभावतः ॥ २०॥ नरकुञ्जररूपं तदभेदेन समास्थितम् । तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥ २१॥ योगी योगबलेनैव भवति ब्रह्मरूपगः । तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥ २२॥ ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके । वर्तते सर्वदा तस्मात्तं भजन्ते तु योगिनः ॥ २३॥ एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् । गालवं तूष्णीम्भावेनाभजत्तं गणनायकम् ॥ २४॥ तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च । निन्दयस्वात्मनात्मानं संशयस्यापनुत्तये ॥ २५॥ गालव उवाच । अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तम । शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥ २६॥ गणेशो योगशान्तिस्थो सदा योगीन्द्रसत्तम । कथं देव इति ख्यातः कथितो वेदवादिभिः ॥ २७॥ देवाः सत्त्वयुता नाथ नरा राजसतां गताः । तामसा असुराः प्रोक्तास्त्रिलोके वासकारिणः ॥ २८॥ एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः । येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥ २९॥ विश्वामित्र उवाच । देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः । इन्द्रादयो न सन्देहस्तेष्विन्द्रः परमा गतिः ॥ ३०॥ ब्रह्मणो दिवसान्ते ते लयं गच्छन्ति नित्यदा । अन्ये कर्मकरा देवा भवन्ति मानवाः पुनः ॥ ३१॥ कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः । कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥ ३२॥ परमेष्ठी समाख्यातः परा सेष्ठिस्तदात्मिका । इष्ट्यास्तस्मान् परं किञ्चिल्लभ्यते नैव मानवैः ॥ ३३॥ शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः । अभवन् सत्यसङ्कल्पाः सगुणा निर्गुणा मुदा ॥ ३४॥ गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते । एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥ ३५॥ दिवु क्रीडात्मको धातुः पठ्यते मुनिभिर्मुदा । सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥ ३६॥ स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः । देवा इन्द्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥ ३७॥ सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा । ब्रह्मा तेन मुनीन्द्रैः स देव इत्यभिधीयते ॥ ३८॥ अनन्तकोटिब्रह्माण्डानि रचित्वा स्वमायया । शिवादयश्च चत्वारस्तेषु क्रीडन्ति देवकाः ॥ ३९॥ सत्यसङ्कल्पकत्वाद्वै ईश्वरास्ते प्रकीर्तिताः । देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥ ४०॥ असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् । विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥ ४१॥ जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाद्गणजातिषु । देवो गणेश्वरः प्रोक्तः पश्य वेदेषु वर्णितम् ॥ ४२॥ (Page खं. ८ अ. ३२ पान ७३) अतो देवसमानास्ते न भवन्ति कदाचन । ब्रह्मादयो महाभागा देवशब्दप्रधारकाः ॥ ४३॥ सूत उवाच । विश्वामित्रवचः श्रुत्वा गालवोऽत्यन्तविस्मितः । जगाद तं महाभागं संशयेन समन्वितः ॥ ४४॥ गालव उवाच । देवा हविर्भुजः सर्वे तद्वदिमे महामते । हविर्भुजो महेशाद्या अभवन् भागमिश्रिताः ॥ ४५॥ दैत्याद्यैः कर्मनाशेन पीडिता अमरा यदि । तदा शम्भ्वादयस्तद्वदुपोषणयुताः कृताः ॥ ४६॥ तेन देवसमानास्ते दृश्यन्ते नाऽत्र संशयः । वद संशयनाशार्थं शिष्यं योगीन्द्रसत्तम ॥ ४७॥ विश्वामित्र उवाच । अज्ञानासुरभावार्थैर्देवा ब्रह्मादयः किल । उपोषणयुताः सर्वे कृता दैत्यैर्भवन्त्यतः ॥ ४८॥ अथाऽन्यच्छृणु तत्त्वं त्वं सर्वसंशयनाशनम् । खण्डैश्वर्ययुता इन्द्रादयो देवाः प्रकीर्तिताः ॥ ४९॥ मन्वन्तरे गते देवा इन्द्राद्या भागवर्जिताः । देहत्यागं प्रकुर्वन्ति तपसा ध्यानशालिना ॥ ५०॥ अन्ये देवा भवन्ति स्मान्यस्मिन् मन्वन्तरे मुदा । इन्द्राद्यास्तेन ते प्रोक्ताः खण्डैश्वर्यात्मका मुने ॥ ५१॥ स्वस्वमन्वन्तरेष्वेव ते भवन्ति हविर्भुजः । नष्टे मन्वन्तरे देवा हविर्भागविवर्जिताः ॥ ५२॥ तथा ब्रह्मा स्वयं साक्षाद्धविर्भागधरो न च । द्विपरार्धमयं कालं भुनक्ति स हविः प्रभुः ॥ ५३॥ अत ऐश्वर्यसंयुक्तः कल्पमात्रं न संशयः । कथमिन्द्रादिकैरस्य समता भवतीत्यहो ॥ ५४॥ बुधैः स परमेष्ठीति कथितश्चेष्टिभक्षणाम् । अखण्डैश्वर्यसंयुक्तेष्टिश्च सर्वत्र सम्मता ॥ ५५॥ शिवादयः समाख्याता हविर्भुजस्ततोऽधिकः । अत ऐश्वर्यसंयुक्ता अखण्डं हि हविर्भुजः ॥ ५६॥ गालव उवाच । हविर्भुजः समाख्याता देवाः शास्त्रेषु मानद । यज्ञभागविहीनत्वात् कथं देवो गजाननः ॥ ५७॥ विश्वामित्र उवाच । यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते । पूज्यस्तथा हविर्भोक्ता सर्वसिद्धिप्रदायकः ॥ ५८॥ एकभागाश्रिता भावाद्गणेश इति कथ्यते । समूहानां समायोगस्तत्र किं संशयो मुने ॥ ५९॥ वेदेषु गणराजस्य यज्ञो भिन्नो निरूपितः । ब्राह्मणस्पत्यसंज्ञस्तु हविर्भुक् तत्र विघ्नपः ॥ ६०॥ एकभागाश्रिता देवा विष्णुशङ्करमुख्यकाः । अतः स्वस्वपदेष्वेव पूजनीयाः प्रयत्नतः ॥ ६१॥ सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तितः । सर्वपूज्यो महाविघ्नसमूहानां प्रपालनात् ॥ ६२॥ गालव उवाच । पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः । गणेशः सर्वपूज्यादिपूज्यः कथं बभूव ह ॥ ६३॥ विश्वामित्र उवाच । सगुणा निर्गुणाः प्रोक्ता ईश्वराः शम्भुमुख्यकाः । सत्यसङ्कल्पभावेन योगरूपा न तेऽभवन् ॥ ६४॥ एकगुणाश्रिताः सर्वे सगुणाः परिकीर्तिताः । महालये लयं ते वै गच्छन्ति गुणधारणात् ॥ ६५॥ सगुणा नाशवन्तस्ते निर्गुणा नाशवर्जिताः । योगरूपास्तयोर्योगे शिवाद्याः सम्मता बुधैः ॥ ६६॥ नरकुञ्जरयोगत्वात् गणेशो योगवाचकः । (Page खं. ८ अ. ३३ पान ७४) सगुणो निर्गुणः सोऽपि तादृशस्तन्मयोऽभवत् ॥ ६७॥ योगरूपः सदा देवो सगुणो निर्गुणोऽपि वा । स्वेच्छया द्विविधं सृष्ट्वा खेलते भाववर्जितः ॥ ६८॥ स्वानन्दनगरे संस्थो देहधारी गजाननः । स्वानन्दस्य लयो नास्ति वेदादिषु विचारय ॥ ६९॥ अतोऽयं नाशहीनोऽपि देहभृच्छोभते स्वयम् । सगुणे योगनाथश्चान्तर्धाय निर्गुणे रतः ॥ ७०॥ अन्तर्धाय गणेशानो निर्गुणं योगशान्तिदः । योगरूपे रतः सद्यः स्वेच्छया नात्र संशयः ॥ ७१॥ अतोऽयं ज्येष्ठराजश्च कथितो वेदवादिभिः । ज्येष्ठानां ज्येष्ठभावाद्वै गतः सर्वादिपूज्यताम् ॥ ७२॥ पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिप्रदा मता । तयोः स्वामी गणेशानः सेव्यते मे हृदि स्थितः ॥ ७३॥ एवमुक्त्वा महायोगी विरराम महामुने । गालवः संशयं त्यक्त्वा प्रणनाम कृताञ्जलिः ॥ ७४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः ॥ ८.३२

८.३३ श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । गणेशप्राप्तिकामार्थं गालवो मुनिसत्तमम् । पुनः पप्रच्छ सद्बुद्धिर्विनयेन द्विजोत्तमः ॥ १॥ गालव उवाच । द्रष्टुमिच्छामि विघ्नेशं तदुपायं वद प्रभो । तवाज्ञावशगो भूत्वाऽऽचरिष्यामि तदेव च ॥ २॥ विश्वामित्र उवाच । प्राप्तं श्रावणमासं त्वं विद्धि गालव सौख्यदम् । तत्रानुष्ठानभावेन गणेशं पश्य सिद्धिज ॥ ३॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं मुनिः । तं प्रणम्य महाविप्रं गालवस्तादृशे रतः ॥ ४॥ श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः । जजाप मन्त्रराजं स विधियुक्तं विधानवित् ॥ ५॥ पयो भुक्त्वा गणेशानं तोषयामास गालवः । सदा ध्यानपरो भूत्वा चिन्तयत्तं महामतिः ॥ ६॥ अमायां गणराजस्तु ययौ भक्तिनियन्त्रितः । सिद्धिबुद्धियुतो विप्रं सिंहगः सर्वभाववित् ॥ ७॥ तमागतं समालोक्य गालवः प्रेमसंयुतः । समुत्थाय प्रणम्यादौ पुपूज विघ्ननायकम् ॥ ८॥ पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः । साश्रुनेत्रो गणाध्यक्षं सर्वसिद्धिप्रदायकम् ॥ ९॥ गालव उवाच । अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने । योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥ १०॥ अचिन्त्यरूपधाराय विघ्नेशाय नमो नमः । सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥ ११॥ स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे । अनन्तविभवायैव हेरम्बाय नमो नमः ॥ १२॥ लम्बोदराय देवाय देवदेवेशरूपिणे । (Page खं. ८ अ. ३३ पान ७५) असुराणां निहन्त्रे च असुराय नमो नमः ॥ १३॥ सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे । ब्रह्माकारशरीरायैकदन्ताय नमो नमः ॥ १४॥ सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने । सदा शान्तिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥ १५॥ पाशाङ्कुशधरायैकदन्ताभयप्रधारिणे । नाभिशेषाय सर्वादौ पूज्याय ते नमो नमः ॥ १६॥ किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे । अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥ १७॥ सूत उवाच । एवं स्तुत्वा गणेशानं ननर्त प्रेमविह्वलः । धन्योऽहं कृतकृत्योऽहमुच्चरंश्च पुनः पुनः ॥ १८॥ तमुवाच गणाधीशो वरान् वरय गालव । दास्यामि श्रावणस्यैव व्रतेन तुष्टिमागतः ॥ १९॥ त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् । पठतां श‍ृण्वतां विप्र मद्भक्तिवृद्धिकारकम् ॥ २०॥ धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् । आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा प्रवर्धनम् ॥ २१॥ एवमुक्त्वा गणेशानो विरराम महामते । गालवस्तं प्रणम्यादौ जगाद करसम्पुटः ॥ २२॥ गालव उवाच । भक्तिं देहि त्वदीयां मे गाणपत्यं कुरु प्रभो । योगं शान्तिप्रदं पूर्णं नान्यं याचे गजानन ॥ २३॥ तथेति तमथोक्त्वाऽसौ गणेशोंऽतरधीयत । गालवः खेदसंयुक्तो वियोगाद्गणपस्य तु ॥ २४॥ ततो जगाम विप्रेन्द्रं विश्वामित्रं ननाम सः । वृत्तान्तं कथयामास सोऽपि संहर्षितोऽवदत् ॥ २५॥ विश्वामित्र उवाच । धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने । सच्छिष्येण त्वया पुत्र तारितोऽहं न संशयः ॥ २६॥ एवं प्रशंसितो विप्रो विश्वामित्रेण गालवः । तं प्रणम्य ययौ सोऽपि स्वेच्छाचारी यथा तथा ॥ २७॥ सदा गणपतिं भक्त्याऽभजदनन्यचेतसा । गालवो योगिवन्द्यश्च बभूव परमार्थवित् ॥ २८॥ गाणेशानि जगामासौ क्षेत्राणि गणपे रतः । अन्ते मयूरक्षेत्रे तु वासं चकार हर्षितः ॥ २९॥ तत्रैव गणनाथं सोऽभजद्भावसमन्वितः । क्षेत्रसंन्यासविप्रैश्च पूजितोऽकथयत् कथाः ॥ ३०॥ इदं गालवमाहात्म्यं कथितं पापनाशनम् । पठनाच्छ्रवणात् सर्वसिद्धिदं जन्तवे भवेत् ॥ ३१॥ अन्यच्छृणु चरित्रं यत् सर्वसौख्यकरं मुने । महाराष्ट्रेंऽत्यजः कश्चिच्छुश्राव श्रावणस्य च ॥ ३२॥ माहात्म्यं गणनाथस्य भक्त्याश्रितं द्विजात् पुरा । तत्र चित्तं समानीय गणराजपरोऽभवत् ॥ ३३॥ आगते श्रावणे मासे स्नात्वा देवालये स्थितम् । ननाम नियमेनैव नित्यं भक्तिसमन्वितः ॥ ३४॥ ततः स्वव्यवासायेषु कुटुम्बपोषणे रतः । चकार विविधान् कामांल्लोकानां द्रव्यकारणात् ॥ ३५॥ समाप्ते श्रावणे मासे मृतं तं दैवयोगतः । प्रगृह्य गाणपा जग्मुः स्वालयं हर्षसंयुताः ॥ ३६॥ मार्गे सङ्गच्छतस्तस्याङ्गाद्वायुः सहसाऽऽययौ । पञ्चचौरशरीराङ्गे पस्पर्श दैवयोगतः ॥ ३७॥ चौराणां बुद्धिभेदोऽथ बभूवे तेन ते पुनः । ऊचुः परस्परं चौराः पापकर्मपरायणाः ॥ ३८॥ (Page खं. ८ अ. २२ पान ७६) चौरा ऊचुः । नित्यं पापसमाचारा वयं चौर्यपरायणाः । लोकेभ्यो दुःखदाः पूर्णा का गतिर्वो भविष्यति ॥ ३९॥ पापिनां नरकेष्वेव गतिर्दुःखतरा भवेत् । यमस्य यातना तत्र दुःसहा नात्र संशयः ॥ ४०॥ नरके वासिनो नित्यं भविष्यामो वयं यतः । अतः परं न कर्तव्यं चौर्यं चौराः कदाचन ॥ ४१॥ एवं निश्चत्य मार्गे ते वनस्थे संस्थिता मुधा । तत्राऽकस्मात् समायाता ब्राह्मणा दश तापसाः ॥ ४२॥ तान् दृष्ट्वा गोभिरानन्दसंयुक्तान् पापनिश्चयाः । चौराः खड्गधरा याता हन्तुं तांस्ते द्विजा जगुः ॥ ४३॥ द्विजा ऊचुः । किमर्थं शस्त्रसंयुक्ताश्चौरा यूयं समागताः । गावो ग्राह्याः सुखेनैव वयं गच्छामहे पुनः ॥ ४४॥ मा हिंसां कुरुत प्राज्ञा ब्राह्मणवधसंश्रिताम् । ब्रह्महत्याभवं पापं वज्रलेपसमं भवेत् ॥ ४५॥ तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः । ऊचुर्नियम्य स्वात्मानं पापत्रासभयातुराः ॥ ४६॥ चौरा ऊचुः । ब्रह्महत्याभवं पापं तत् कीदृक् यातनाप्रदम् । कनोपायेन पापानि लयं गच्छन्ति भो द्विजाः ॥ ४७॥ वयं पापसमाचारा जन्मादारभ्य नित्यदा । नानाविधानि पापानि कुर्महे चाधुनावधिम् ॥ ४८॥ चराम किं वयं चौरास्तदर्थं पापनाशकम् । उपायं तद्वदध्वं नो दयया ब्राह्मणोत्तमाः ॥ ४९॥ चौराणां वचनं श्रुत्वा ब्राह्मणास्तानथाब्रुवन् । विस्मिता भयसंयुक्ता लोकोद्धारपरायणाः ॥ ५०॥ ब्राह्मणा ऊचुः । अनुतापेन पापानि नश्यन्ति चौरनायकाः । अतः परं च पापानि मा चरध्वं तदा किल ॥ ५१॥ श्रावणे गणनाथं ते सेवध्वं ब्रह्मनायकम् । तेन पापविहीनाश्च गमिष्यथ परां गतिम् ॥ ५२॥ एवमुक्त्वा महाभागास्ताननुज्ञाप्य ते ययुः । ब्राह्मणाः स्वाश्रमं गोभिर्युक्ता हर्षसमन्विताः ॥ ५३॥ समीपे श्रावणं मासं समागतं विलोक्य ते । चौराः स्वगृहमागत्य गणेशमभजन् परम् ॥ ५४॥ स्नात्वा प्रातर्गणेशानं प्रणम्य भावसंयुताः । प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन् मुने ॥ ५५॥ ते च एकभुजः सर्वे ब्रह्मचर्यपरायणाः । मासमात्रं व्रतं चक्रुः साधवस्ते बभूविरे ॥ ५६॥ इह भुक्त्वाऽखिलान् भागानन्ते स्वानन्दमाययुः । एवं नाना जना विप्र श्रावणे लेभिरे गतिम् ॥ ५७॥ तेषां चरित्रकं पूर्णं कथने नैव शक्यते । किञ्चिन्नियमयुक्तानां का कथा व्रतकारिणाम् ॥ ५८॥ एवं श्रावणमाहात्यं गाणपत्यपदप्रदम् । कथितं मुनिशार्दूल समासेन सुखप्रदम् ॥ ५९॥ श‍ृणुयाच्छ्रावयेद्वाऽपि पठेद्यो स लभेत् पदम् । गाणेशं विविधान् भोगान् भुक्त्वांऽते मुनिसत्तम ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ८.३३ (Page खं. ८ अ. ३४ पान ७७)

८.३४ मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । मलमासभवं चित्रं चरित्रं कथयाम्यहम् । सङ्क्षेपेण मुनिश्रेष्ठ श‍ृणु सर्वार्थदायकम् ॥ १॥ कलिकल्मषरूपेण मलेन पीडिताः सुराः । शरणं केशवस्यैव ययुर्विप्रेन्द्रमुख्यकैः ॥ २॥ स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं धर्मप्रपालकम् । घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥ ३॥ देवर्षय ऊचुः । लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः । तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥ ४॥ कलिना पापरूपेण जनार्दन जिता वयम् । पृथिवीं त्वमपि त्यक्त्वा किं स्थितोऽसि महाप्रभो ॥ ५॥ तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः । मेघगम्भीरया वाचा सर्वेषां पालकः प्रभुः ॥ ६॥ हरिरुवाच । मा भयं देवविप्राद्याः कुरुताहं न संशयः । करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥ ७॥ एवमुक्त्वा महाविष्णुर्देवर्षीन् विससर्ज ह । विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥ ८॥ कलिमलप्रणाशार्थं समर्थं चिन्त्य माधवः । आययौ मयूरक्षेत्रे तपोर्थं गणपे रतः ॥ ९॥ मलमासं समासाद्य नानामलनिकृन्तनम् । गाणेशपञ्चकं पूज्यं व्रतं चकार मासजम् ॥ १०॥ घृतभुक् गणनाथं सोऽसेवयद्यत्नसंयुतः । उषःस्नात्वा यथान्यायं चकार ढुण्ढिचिन्तनम् ॥ ११॥ ढौण्ढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः । पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥ १२॥ स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् । अश्ववाहं द्विहस्ताभ्यां खड्गचर्मधरं हरिः ॥ १३॥ स उवाच महाविष्णुं स्वभक्तं भक्तपालकः । मेघगम्भीरनादेन हर्षयन् हर्षवर्धनः ॥ १४॥ श्रीगणेश उवाच । नानामलप्रणाशार्थं मलमासव्रतं चरेत् । तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥ १५॥ मलमासस्य देवोऽहं ढुण्ढयित्वा विशेषतः । हरामि मलसम्भूतं दुःखं पापमयं परम् ॥ १६॥ अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः । कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥ १७॥ एवमुक्त्वा गणेशानस्ततोंऽर्धानमाकरोत् । प्रबुद्धः केशवोऽत्यन्तं स्मृत्वा हर्षयुतोऽभवत् ॥ १८॥ प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् । अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥ १९॥ कल्किर्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि । स्वाङ्गान्नानाविधां सेना कल्प्य दुष्टवधे रतः ॥ २०॥ नाना जनहृदिस्थः स कलिः प्रयत्नसंयुतः । तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥ २१॥ ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः । हत्वा दुष्टान् महाघोरानानाय्य ब्राह्मणोत्तमान् ॥ २२॥ एवं कृत्वांऽतर्दधेऽसौ स्तुतो देवर्षिभिर्हरिः । विकुण्ठमगमत् सद्यो हर्षनिर्भरमानसः ॥ २३॥ शौनक उवाच । धूम्रवर्णावताराख्यो गणेशः कलिना पुरा । युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥ २४॥ कल्किर्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना । वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥ २५॥ सूत उवाच । महाघोरस्वरूपोऽयं कलिः सृष्टः स्वयम्भुवा । पापसेनासमायुक्तो जिग्ये धर्मं क्षणे क्षणे ॥ २६॥ तन्नाशार्थं विशेषेण देवा मुनिगणास्तस्था । नानावताररूपैस्तं जयन्ति स्म प्रयत्नतः ॥ २७॥ गणराजस्य तदपि वरेण मूलवर्जितः । कलिर्न जायते विप्र पुनर्वृद्धिं प्रयाति सः ॥ २८॥ दशवर्षवयोयुक्ता नारी गर्भवती भवेत् । गृहे गृहे तथा त्रिंशत् परमायुर्भवेन्नृणाम् ॥ २९॥ वर्णसङ्कररूपाश्च जनाः सर्वे धरातले । सार्धैकभागो विश्वस्थो भवेद्धर्मों महामुने ॥ ३०॥ तदा विष्णुः सुराद्यैः सम्प्रार्थितः कल्किरूपधृक् । जित्वा कलिं पुनः सोऽपि धर्मं संस्थापयेत् परम् ॥ ३१॥ यदा पञ्च वयो वर्षा नारी गर्भवती भवेत् । षोडशाब्दपरं चायुर्मानवानां गृहे गृहे ॥ ३२॥ महाघोरं कलिं वीक्ष्य कस्मिन् कल्पे शिवादयः । तं जेतुं न समर्थाश्च बभूवुर्विष्णुमुख्यकाः ॥ ३३॥ विश्वाधर्मात्र रूपेण धर्मस्तिष्ठेद्धरातले । हाहाकाररवैर्युक्ता जनास्तत्र सुदुःखिनः ॥ ३४॥ तदा विघ्नेश्वरं सर्वे गच्छन्ति स्म शरण्यकम् । धूम्रवर्णो गणाध्यक्षो कलिं जिग्ये सुदुर्जयम् ॥ ३५॥ पुनर्धर्मं समास्थाप्य कृतं तथा महामुने । एवं कलिबलं दृष्ट्वाऽवतारं कुरुते स्म च ॥ ३६॥ एवं मलभवे मासे व्रतं कृत्वा जनार्दनः । जिग्ये कलिमलं पूर्णं महापापौघरूपिणम् ॥ ३७॥ अन्यच्छृणु महाविप्र माहात्म्यं मलसम्भवम् । धौम्यः सौम्यतपोयुक्तो बभूव परमद्युतिः ॥ ३८॥ स ययौ योगप्राप्त्यर्थं दधीचिं योगपारगम् । तं प्रणम्य विनीतात्मा संस्थितस्तेन पूजितः ॥ ३९॥ उवाच तं महाभागं दधीचिं मुनिवन्दितम् । कृताञ्जलिर्नतो भूत्वा धौम्यश्च तपतां वरम् ॥ ४०॥ धौम्य उवाच । तपसा स्वर्गभोगश्च लभ्यते सर्वजन्तुभिः । ब्रह्मभूयप्रदं विप्र तपो नैव प्रकीर्तितम् ॥ ४१॥ अतो मां शाधि तं योगिन् योगं शान्तिपदप्रदम् । संसाध्य कृतकृत्योऽहं भविष्यामि विशेषतः ॥ ४२॥ ब्रह्मणि तन्मया विप्र कथ्यन्ते ब्राह्मणा बुधैः । अतो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो ॥ ४३॥ धौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने । दधीचिस्तं महाभागं जगाद हर्षसंयुतः ॥ ४४॥ दधीचिरुवाच । ब्रह्म नाना विधं प्रोक्तं वेदादिषु विशेषतः । गाणेशं तेषु मुख्यं च ब्रह्मणां ब्रह्मदायकम् ॥ ४५॥ अहं पुरा तपोनिष्ठः क्षुपं राजशिरोमणिम् । स्पर्धयित्वा महाभागाऽभवं शैवो निरन्तरम् ॥ ४६॥ क्षुपार्थमागतं विष्णुं जित्वा योगपरायणः । ब्रह्मणि सहजे विप्र संस्थितोऽहं सुसौख्यदे ॥ ४७॥ तत्र स्वाधीनभावं च दृष्ट्वा श्रान्तोऽभवं पुरा । स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ॥ ४८॥ ततोऽहं शान्तिप्राप्त्यर्थं शङ्करं चागमं प्रभुम् । तं प्रणम्य महादेवमस्तवं विविधैः स्तवैः ॥ ४९॥ ततो मामब्रवीच्छम्भुः स्मयमान इदं वचः । किमर्थमागतो विप्र दधीचे वद साम्प्रतम् ॥ ५०॥ शिवस्य वचनं श्रुत्वा हर्षयुक्तो महादरात् । पुनः प्रणम्य विश्वेशं कृताञ्जलिपुटोऽवदम् ॥ ५१॥ (Page खं. ८ अ. ३४ पान ७९) दधीचिरुवाच । नमस्ते शङ्करायैव शिवाय सुखवादिने । ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥ ५२॥ स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् । घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥ ५३॥ स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो । स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥ ५४॥ स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते । कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥ ५५॥ अहं शैवः सदा नाथं त्वां जानामि परात्परम् । अतस्त्वां शरणं यातः शान्तियोगं वदस्व माम् ॥ ५६॥ श्रीशिव उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् । कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥ ५७॥ स्वाधीनं त्रिविधं तात वर्तते न कदाचन । तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥ ५८॥ चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ ५९॥ पञ्चभिर्वर्जितो योगो ह्ययोग इति कथ्यते । न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥ ६०॥ तयोर्योगे महायोगिन् शान्तियोगः प्रकीर्तितः । पञ्चचित्तभवं भावं त्यक्त्वा शान्तिमवाप्स्यसि ॥ ६१॥ अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते । सदा संयोगता कुत्राऽयोगता भ्रान्तिदा भवेत् ॥ ६२॥ पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिकरी मता । माये त्यक्त्वा स्वयं चिन्तामणिः साक्षाद्भविष्यसि ॥ ६३॥ एवमुक्त्वा स्वयं मह्यं ददौ शम्भुर्महामनुम् । एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥ ६४॥ शैवोऽहं सततं नाथ किं मां वदसि मानद । गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥ ६५॥ शिव उवाच । गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना । सहजानां समायोगे गणोऽहं गणपस्य वै ॥ ६६॥ गणेशाकारभावेन गणाः सर्वे विचारय । तत्र किं व्यभिचारस्ते भवते वद साम्प्रतम् ॥ ६७॥ एवमुक्त्वा स्वयं शम्भुर्विरराम महामते । अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥ ६८॥ शम्भुना कथितं योगं साधयित्वा परात् परम् । योगशान्तियुतोऽहं तु जातः शम्भुप्रसादतः ॥ ६९॥ सदा शान्तिसमायुक्तो भजामि द्विरदाननम् । गुरुरूपधरं शम्भुं गाणपत्योऽहमादरात् ॥ ७०॥ एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् । त्वमपि गणराजं तं भजस्व भावसंयुतः ॥ ७१॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । मन्त्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥ ७२॥ पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् । दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥ ७३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥ ८.३४ (Page खं. ८ अ. ३५ पान ८०)

८.३५ मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । धौम्यो जजाप मन्त्रं तं ध्यात्वा हृदि गजाननम् । क्रमेण योगभूमिस्थः शमदमपरोऽभवत् ॥ १॥ ततः समागतं वीक्ष्य मलमासं विशेषतः । अज्ञानमलनाशार्थं चकार तद्भवं व्रतम् ॥ २॥ उषः स्नात्वा विधानेन गाणेशे पञ्चके रतः । सदा गणपतिं धौम्यः सस्मार शुद्धचेतसा ॥ ३॥ आगतं गणराजं तं ततो भक्तो मुनीश्वर । अमायां स समालोक्य हर्षितोऽभून् महामुनिः ॥ ४॥ उत्थाय तं प्रणम्याऽऽदौ पुपूज भक्तिसंयुतः । पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसम्पुटः ॥ ५॥ धौम्य उवाच । नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् । भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ ६॥ धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् । किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ ७॥ तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् । स्तोत्रं ते प्रीतिदं पूर्णं श‍ृणु सर्वज्ञसत्तम ॥ ८॥ गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने । शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः ॥ ९॥ अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥ १०॥ नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः । आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥ ११॥ अव्यक्तेषु महेशाय संयोगेषु निजात्मने । निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥ १२॥ योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः । आदिमध्यान्तभेदैस्तु खेलकाय नमो नमः ॥ १३॥ नानामायाप्रचालाय सिद्धिबुद्धिपते नमः । स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर ॥ १४॥ किं स्तौमि त्वां गणाधीश वेदा योगिन एव च । न समर्था अतो नाथ प्रणमामि गजाननम् ॥ १५॥ एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले । दण्डवद्गणनाथस्य पादौ गृह्य महामुनिः ॥ १६॥ तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणां पतिः । वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषितः ॥ १७॥ स्तोत्रं त्वया कृतं मे यत् पठते श‍ृण्वते सदा । सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥ १८॥ योगशान्तिप्रदं पूर्णं मयि भक्तिविवर्धनम् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषितः ॥ १९॥ सूत उवाच । गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुतः । तं जगाद गणाधीशं भक्तेशं भक्तवत्सलम् ॥ २०॥ धौम्य उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि मे योगशान्तिं तु यत्र त्वं मोदसे सदा ॥ २१॥ तथेति गणनाथस्तमुक्त्वा चान्तर्हितोऽभवत् । धौम्यः खिन्न इवात्यन्तं तत्रैव संस्थितोऽभवत् ॥ २२॥ तत्र संस्थापयामास ब्राह्मणैर्मन्त्रकोविदैः । गणेशं तं सदा ध्यात्वा पूज्य भक्तिं चकार ह ॥ २३॥ शौनक उवाच । अकर्मकारिणः प्रोक्ता सात्त्विकाः शास्त्रसम्मतम् । कर्मकर्तार एवं तु राजसाः परिकीर्तिताः ॥ २४॥ विकर्मकारिणः सर्वे तामसाः सूत निश्चितम् । त्रिधा भेदयुताः सर्वे भवन्ति भुवि मानवाः ॥ २५॥ (Page खं. ८ अ. ३५ पान ८१) ब्रह्मार्पणतया मुक्तिं गच्छन्ति द्विज सात्त्विकाः । सकामाद्राजसा जन्ममृत्युयुक्ता भ्रमन्ति ते ॥ २६॥ तामसा नरकेष्वेव शिश्नोदरपराः किल । गच्छन्ति त्रिगुणे भावे संस्था जनास्त्रिधा गतिम् ॥ २७॥ तत्र तामसभावाख्यः शङ्करः परिकीर्तितः । तं भजन्ति महाभागाश्चतुर्वर्गफलार्थिनः ॥ २८॥ तामसस्य तु ये भक्ता नारकाः सम्मताः पुरा । शिवभक्ताः कथं सर्वे भवन्ति ब्रह्मभूतकाः ॥ २९॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषामुपकारकम् । कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमात् ॥ ३०॥ तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसम्मतम् । अज्ञानात् द्विविधं सर्वं समुत्पन्नं विचारय ॥ ३१॥ सात्त्विकमान्तरं स्वाप्नं जागृद्बाह्यं तु राजसम् । तयोर्मूलस्वरूपत्वात्तामसः शङ्करः स्मृतः ॥ ३२॥ तत्राधिकारकं वक्ष्ये त्रिगुणरूपधारिणाम् । क्षणे क्षणे रजः संस्था ह्यवस्था विविधात्मिकाः ॥ ३३॥ सृजति सात्त्विकस्तद्वदवस्थाः पालको मतः । तामसस्ताः समाहृत्य लीनाः करोति सर्वदा ॥ ३४॥ अतः सर्वमिदं विप्र त्रिभिर्व्याप्तं समन्ततः । गर्भाधानादिप्रारभ्य मरणान्तं सुशोभते ॥ ३५॥ कर्माकर्मविकर्माणि त्रिगुणैः संयुतानि च । कर्मयोगस्य विप्रेश गुणा इमे प्रकीर्तिताः ॥ ३६॥ न तत्र शम्भुमुख्यास्ते सुरा ग्राह्या बुधैः कदा । अतः शङ्करभक्ताश्च लभन्ते सर्वमञ्जसा ॥ ३७॥ अधुना श‍ृणु माहात्म्यं मलमासभवं परम् । वैश्यः कश्चिच्छमो नाम बभूवे मालवे मुने ॥ ३८॥ स श्रुत्वा मलमासस्य माहात्म्यं मलनाशनम् । गणेशभक्तिसंयुक्तश्चकार व्रतमुत्तमम् ॥ ३९॥ मलमासं समासाद्य स्नात्वा प्रातर्गणाधिपम् । सस्मार स्मरणेनैव ततः कार्यपरोऽभवत् ॥ ४०॥ एकदा मार्गसंस्थं च वैश्यं निद्रायुतं निशि । तत्र तं भक्षितुं प्रेता दश याता महाबलाः ॥ ४१॥ तस्मिन् काले शमो दैवादभूज्जागृन् महामुने । ददर्श तान् महाप्रेतान् सस्मार गणनायकम् ॥ ४२॥ जगाद स्वान्तरे सोऽपि गणेश करुणानिधे । रक्ष मां प्रेतषेभ्यस्त्वं त्वत्पादे भक्तिसंयुतम् ॥ ४३॥ मलमासस्य देवेश दिवसाः सप्त एव च । उर्वरिता व्रतं मेऽत्र भग्नं नोचेद्भविष्यति ॥ ४४॥ समाप्ते मलमासे मां मारयस्व गजानन । नाधुना व्रतसंस्थं तु रक्ष रक्ष दयानिधे ॥ ४५॥ मलमासव्रते संस्थं दृष्ट्वा प्रेता भयातुराः । जातिस्मरा बभूवुस्ते रुरुदुस्तं प्रणम्य वै ॥ ४६॥ ततः स विस्मितो भूत्वा तान् पप्रच्छ महाबलान् । किमर्थं दुःखसंयुक्ता भवन्तो मां ब्रुवन्तु च ॥ ४७॥ प्रेता ऊचुः । पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसम्भवाः । अनाचाररताः सर्वे मृता यमगृहे गताः ॥ ४८॥ तत्र नानाविधां पूर्णां यातनां दुःखदां पराम् । भुक्त्वा प्रेताः कृतास्तेन यमेन साधुसत्तम ॥ ४९॥ अत्र शीतोष्णकाद्येषु नाना द्वन्द्वेषु सर्वदा । पतिता दुःखसंयुक्ता भ्रमामो यत्र तत्र ह ॥ ५०॥ (Page खं. ८ अ. ३६ पान ८२) अधुना दैवयोगेन भक्षितुं त्वां समागताः । त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे ॥ ५१॥ मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे । गणेशस्मृतिसंयुक्तः स्नानं करोषि नित्यदा ॥ ५२॥ एकस्नानभवं पुण्यं देहि वैश्य वयं तदा । अस्मभ्यं तेन निःपापा गमिष्यामोऽपुनर्भवम् ॥ ५३॥ प्रेतानां वचनं श्रुत्वा हर्षयुक्तः शमोऽब्रवीत् । प्रेतान् दुःखयुतान् वीक्ष्य दयायुक्तः स्वभावतः ॥ ५४॥ शम उवाच । किं मया क्रियते प्रेता मलमासभवं व्रतम् । स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुतम् ॥ ५५॥ गणेशस्मरणस्यैव महिमा केन गण्यते । पुराणेषु श्रुतं तस्मात् वचः श‍ृणुत मे हितम् ॥ ५६॥ एकनामस्मृतेः पुण्यं ददामि स्नानसम्भवम् । तेन बन्धनहीनाश्च भविष्यथ न संशयः ॥ ५७॥ एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलम् । मलमासे गणेशस्य स्मृतियुक्तं महामुने ॥ ५८॥ ततस्तत्र समायाता गाणेशा यानसंयुताः । प्रेतान् गृह्य ययुः सर्वे स्वानन्दं गणपे रताः ॥ ५९॥ तत्र लम्बोदरं दृष्ट्वा ब्रह्मभूता बभूविरे । प्रेताः पश्य महाश्चर्यं शौनक मलमासगम् ॥ ६०॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । ढौण्ढे मासे कति ब्रूयां सङ्ख्यातुं न क्षमो ह्यहम् ॥ ६१॥ सङ्क्षेपेण मया तुभ्यं कथितं चरितं शुभम् । मलमासभवं चित्रं श्रवणात् सर्वदायकम् ॥ ६२॥ यः पठेच्छ्रावयेद्वाऽपि श‍ृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगान् स्वजनैः परिवारितः ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ८.३५

८.३६ संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसङ्गात् सर्वमासानां कथयामि चरित्रकम् । गणेशभक्तिदं चित्रं श‍ृणुध्वं मुनयः परम् ॥ १॥ प्रातः स्नानं विधायैव गाणेशे पञ्चके रतः । नित्यं द्वादशमासेषु स सर्वार्थमवाप्नुयात् ॥ २॥ असाध्यं साधयेन् मर्त्यः परं यद्यपि दुर्लभम् । लभेत् द्वादशमासेषु गणेशे पञ्चके रतः ॥ ३॥ अत्र ते कथयिष्यामीतिहासं पूर्वसम्भवम् । श्रवणात् पठनात् नॄणां पावनं सर्वसिद्धिदम् ॥ ४॥ नलो नाम महाराजो निषधेषु बभूव ह । धर्मशीलो वदान्यश्च स्वधर्मनिरतः सदा ॥ ५॥ दमयन्त्या युतः सोऽपि विचारमकरोत् हृदि । त्रिलोकगमने शक्तो भविष्यामि कथं नरः ॥ ६॥ नरदेहधरो यस्तु स्वेच्छागतियुतो भवेत् । (Page खं. ८ अ. ३६ पान ८३) तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥ ७॥ एवं विचार्य विप्रेशं गौतमं स ययौ नृपः । प्रणम्य तं महाभागं पप्रच्छ स्वहितावहम् ॥ ८॥ नल उवाच । नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् । तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥ ९॥ गौतम उवाच । श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप । प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यात्मकं चरेत् ॥ १०॥ ततो गाणेशकं राजन् पञ्चकं भक्तिसंयुतः । नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥ ११॥ आषाढीं स समासाद्यामावास्यां गणपे रतः । मण्डपे गणनाथं च पूजयेद्धेमनिर्मितम् ॥ १२॥ द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान् । होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥ १३॥ वायनं ब्राह्मणायैव प्रदद्यात् स बलिं चरेत् । ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥ १४॥ प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् । सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥ १५॥ एकविंशतिसङ्ख्याकानथवा सङ्ख्ययातिगान् । दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥ १६॥ योषिद्भ्यः कञ्चुकादींश्च नानालङ्कारकांस्तथा । प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥ १७॥ सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम् । अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥ १८॥ एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि । त्रिलोकस्तथा सर्वं लभसे मनसीप्सितम् ॥ १९॥ एवमुक्त्वा महायोगी गौतमो विरराम ह । नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥ २०॥ चकार सर्वधर्मज्ञो नलो गणपतौ रतः । यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥ २१॥ ततः स योगिवन्द्यश्च बभूव ज्ञानसंयुतः । त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥ २२॥ एवं नाना जना विप्र व्रतं संवत्सरात्मकम् । चक्रुस्ते योगिवन्द्याश्च बभूवुर्ज्ञानसंयुताः ॥ २३॥ मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमुत्तमाम् । अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ २४॥ तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते । अनन्तत्वात् महाभाग सङ्क्षेपेण निरूपितम् ॥ २५॥ गाणेशपञ्चकस्यैव सेवने न समर्थकाः । किञ्चिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥ २६॥ तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः । अन्ते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥ २७॥ शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वन्ध्यो बभूव ह । पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरोऽभवत् ॥ २८॥ न लेभे सन्ततिं सोऽपि ततोऽतिदुःखसंयुतः । प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥ २९॥ तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् । उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥ ३०॥ श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम् । प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥ ३१॥ गाणेशपञ्चकं पूर्णं सेवितुं न बभूव ह । समर्थः स ततो विप्र चकार स्वल्पभावतः ॥ ३२॥ स्नात्वा गणपतेः पूजां चकार पार्थिवीं पराम् । नाममन्त्रैः स्वयं नित्यं ब्रह्मचर्ययुतोऽभवत् ॥ ३३॥ एकभुङ् नियमे संस्थश्चकार व्रतमुत्तमम् । समाप्य तद्व्रतं पूर्णं गणेशमभजन्मुदा ॥ ३४॥ द्विजातीनां स शुश्रूषां चकार धर्मसंयुतः । मिलितेन तदन्नेन कुटुम्बं समपोषयत् ॥ ३५॥ ततः स्वल्पेन कालेन पुत्रं लेभे महामुने । ज्ञानयुक्तं सरूपं तं दृष्ट्वाऽतिहर्षितोऽभवत् ॥ ३६॥ क्रमेण पञ्च पुत्राश्च पुत्र्यस्तिस्रो बभूविरे । शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् ॥ ३७॥ अन्ते स्वानन्दलोकं स जगाम भार्यया युतः । इह भुक्त्वाऽखिलान् भोगान् ब्रह्मभूतो बभूव ह ॥ ३८॥ एवं नाना जना विप्र किञ्चित् कृत्वा व्रतात्मकम् । नियमं सिद्धिसंयुक्ता बभूवुः कति ते ब्रुवे ॥ ३९॥ उद्यापनं मया प्रोक्तं तदेव सर्वसम्मतम् । सर्वमासेषु कर्तव्यं मासात्मकव्रतेऽपि च ॥ ४०॥ चातुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतम् । मलमासव्रते तद्वदिदं कर्तव्यमादरात् ॥ ४१॥ सांवत्सरं व्रतं मुख्यं कथितं ते समासतः । पठनाच्छ्रवणाच्चेदं सर्वदं प्रभविष्यति ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ८.३६

८.३७ चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चातुर्मास्य व्रतं ब्रूहि गाणेशं सर्वदायकम् । न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्द्धिनीम् ॥ १॥ सूत उवाच । अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं महाभाग श्रवणात् सर्वदायकम् ॥ २॥ बृहदश्व इति ख्यातो ब्राह्मणः परमार्थवित् । तपोयुक्तो महातेजाः शापानुग्रहणे क्षमः ॥ ३॥ नानातपःप्रभावेणांऽतर्ज्ञानं सम्बभूव ह । हृदि तस्य ततः सोऽपि शमदमपरोऽभवत् ॥ ४॥ सोऽहम्ब्रह्मणि संस्थोऽभूत् अन्ते शून्यमये मुनिः । शान्तियुक्तः स्वभावेन संस्थितो ब्रह्मवित्समः ॥ ५॥ तस्याऽऽश्रमे महायोगी विभाण्डः सहसाऽऽगतः । तं प्रणम्य महाभागं पुपूज भक्तिसंयुतः ॥ ६॥ विश्रान्तं मुनिमुख्यं स जगाद हर्षसंयुतः । विभाण्डं विनयेनैव युक्तो वचनमुत्तमम् ॥ ७॥ बृहदश्व उवाच । निरालम्बमयं ब्रह्म सदैकरूपधारकम् । ध्यातृध्यानविहीनं यत् तत्त्वमेव न संशयः ॥ ८॥ महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ ९॥ एवं तस्य वचः श्रुत्वा विभाण्डस्तमुवाच ह । योगयुक्तं सुनैपुण्यं ज्ञात्वा शान्तिप्रदायकः ॥ १०॥ (Page खं. ८ अ. ३७ पान ८५) विभाण्ड उवाच । अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते । निरालम्बभवं सौख्यं मुने कुत्र प्रवर्तते ॥ ११॥ तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत् । सुशान्तिदं विस्मितः किं तदर्थं लालसी सदा ॥ १२॥ बृहदश्व उवाच । पूर्णशान्तिप्रदं नाथ वद मां करुणानिधे । सोहङ्कारात्परं भावं न जानामि कदाचन ॥ १३॥ विभाण्ड उवाच । अहं पुरा तपोनिष्ठोऽभवं तत्र समाययुः । इन्द्रेण प्रेषिता नार्यस्तपोभङ्गार्थमादरात् ॥ १४॥ नृत्यगानादि चिह्नैर्मां मोहनाय समुद्यताः । अप्सरसस्ततो धैर्यमहं धृत्वा स्थितोऽभवम् ॥ १५॥ ततोऽति हठसंयुक्ताः स्त्रियः कामसमन्विताः । हावभावकटाक्षाद्यैश्चिह्नैर्मां समपीडयन् ॥ १६॥ ततो मे विह्वलत्वाद्वै वीर्यं पपात भूतले । तृणयुक्ते सुसङ्खिन्नोऽगमं त्यक्त्वा स्वमाश्रमम् ॥ १७॥ ततस्त्वप्सरसः सर्वा जग्मुः स्वर्गं महामुने । अहं जाजलिकं विप्रमगमं तं नतोऽभवम् ॥ १८॥ तेन सम्मानितो नित्यमवसं तपसा युतः । अवदं गणनाथस्य पूजने सक्तमादरात् ॥ १९॥ एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः । त्यक्त्वा देवेन्द्रकान् सर्वान् गणेशं भजसे कथम् ॥ २०॥ एवं पृष्टो मया योगी जाजलिः परमार्थवित् । मामुवाच दयायुक्तस्तत्तेऽहं कथयामि तु ॥ २१॥ जाजलिरुवाच । गणेशान्न परं ब्रह्म वेदे पश्य महामते । ब्रह्मणस्पति संज्ञं तं वदन्ति वेदवादिनः ॥ २२॥ अहं पुरा तपोनिष्ठोऽभवं नित्यं महामुने । अत्यन्ततपसा मेऽभूद् व्याप्तं सर्वं चराचरम् ॥ २३॥ ततोऽकस्मात् समायातमाश्रमे मे महामुनिः । लोमशं तं प्रणम्याहमपूजं भक्तिसंयुतः ॥ २४॥ ततो मामब्रवीत् विप्रो लोमशः सर्वविन् मुनिः । दयायुक्तः स्वभावेन महायोगीन्द्रवन्दितः ॥ २५॥ लोमश उवाच । किं तपोनिष्ठभावेन साध्यं कर्तुमभीप्ससि । योगं साधय तत्त्वज्ञ स्वयं ब्रह्म भविष्यसि ॥ २६॥ तपसा सर्वभोगश्च लभ्यते मानवैः सदा । पुनः पतनभावात्तन्नमत्तं द्वन्द्वसंयुतः ॥ २७॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य पुनर्मुनिम् । अपृच्छं योगदं मार्गं विनयेन समन्वितः ॥ २८॥ केन मार्गेण योगज्ञ लभे योगं महामुने । तं वदस्व करिष्यामि त्वच्छिष्योऽहं विधानतः ॥ २९॥ लोमश उवाच । पुराऽहं कर्मयोगेन मूकस्तपःसमन्वितः । प्रणम्य भक्त्या ब्रह्माणमपृच्छं सर्वदं वद ॥ ३०॥ ततस्तेन समाख्यातं सर्वसारं सुशान्तिदम् । गाणेशं सर्वमान्यं तत् पुराणं संश्रुतं मया ॥ ३१॥ श्रवणस्य च माहात्म्याद्वाणीयुक्तोऽभवं पुरा । ततो हर्षसमायुक्तो मुने विधिं नतो विभुम् ॥ ३२॥ ततः स्वमाश्रमं गत्वा गणेशकथितं परम् । गीताज्ञानं समाराध्य योगिवन्द्योऽभवं मुदा ॥ ३३॥ ततो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानतः । पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नपम् ॥ ३४॥ (Page खं. ८ अ. ३७ पान ८३) एकाक्षरजपासक्तं मां ज्ञात्वा गणनायकः । शतवर्षैः प्रसन्नोऽभूदाययौ वरदः प्रभुः ॥ ३५॥ तमागतं समालोक्योत्थाय नत्वा गजाननम् । पूज्य नानाविधैः स्तोत्रैः स्तुतोऽसौ मामुवाच ह ॥ ३६॥ श्रीगणेश उवाच । वरं वृणु महाभागेप्सितं मनसि लोमश । दास्यामि तपसा तुष्टो भक्त्या ते मुनिसत्तम ॥ ३७॥ लोमश उवाच । गाणपत्यं कुरुष्व त्वं मां ते भक्तिसमन्वितम् । नान्यं याचे वरं नाथ मिथ्या मायाभ्रमात्मकम् ॥ ३८॥ आयुष्यं विपुलं देहि तेन युक्तो निरन्तरम् । भजिष्यामि गणेशान चरणं ते तदर्थतः ॥ ३९॥ ततो मामब्रवीद्देवो गणेशो भक्तवत्सलः । गाणपत्यप्रियोऽत्यन्तं भविष्यसि स्वयं मुदा ॥ ४०॥ कल्पे कल्पे च ते रोम लयं गच्छति नित्यदा । एवं क्रमेण सर्वाणि यान्ति लोमानि नाशकम् ॥ ४१॥ तदा देहं परित्यज्य मल्लोके आगमिष्यसि । तत्र मां भक्तिभावेन भजिष्यसि न संशयः ॥ ४२॥ यद्यदिच्छसि योगीश तत्तत्ते सफलं सदा । भविष्यति स्मृतः कार्ये प्रकटोऽहं भवामि ते ॥ ४३॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । खिन्नोऽहं तं समास्थाप्य नित्यपूजापरायणः ॥ ४४॥ ततो बहौ गते काले मुने मन्वन्तरात्मके । मघवाऽन्यः समुत्पन्नस्त्रिलोकीराज्यकारकः ॥ ४५॥ विश्वकर्माणमाहूय जगाद मघवा वचः । गृहं मे कुरु शोभाढ्यं नानाऽऽश्चर्ययुतं परम् ॥ ४६॥ वाटिकादिकमेवं मे भोगार्थं रचयस्व च । तथेति विश्वकर्माऽसौ चकार दुःखसंयुतः ॥ ४७॥ तथापि मघवा शान्तो न बभूव महामुने । तेनाश्चर्ययुतोनित्यमिदं कुरु महामते ॥ ४८॥ विश्वकर्मा ततः खिन्नः सस्मार गणनायकम् । इन्द्रं त्यक्त्वाऽन्यदेवानां गृहार्थं व्याकुलोऽभवत् ॥ ४९॥ कदाऽयं गृहकार्यं तु गजाननः समाप्य माम् । मोचयिष्यति देवेशोऽन्यदेवकार्यसिद्धये ॥ ५०॥ ततोऽहं दैवयोगेनागमं देवेन्द्रसत्तमम् । मघवा पूज्य मां वाक्यं जगाद हर्षसंयुतः ॥ ५१॥ इन्द्र उवाच । धन्यं मे जन्मकर्मादि त्वत्पादयुगदर्शनात् । किं पत्रं मस्तके विप्र पलाशस्य धृतं वद ॥ ५२॥ लोमश उवाच । देहो नश्वररूपोऽयं पतिष्यति न संशयः । तदर्थं गृहसम्भूतं श्रमं कः प्रसमाचरेत् ॥ ५३॥ वृष्टिसंवारणार्थायोष्णभावार्थनिवारणात् । पत्रं गृहस्वरूपं तु पुरन्दर धृतं मया ॥ ५४॥ एवं मद्गिरमाकर्ण्य मामुवाच पुरन्दरः । कल्पे लोम्नः प्रणाशस्ते भवेत्ते नैव लोमशः ॥ ५५॥ आज्ञां कुरु महाभाग त्वदर्थं गृहमुत्तमम् । कारयिष्यामि विप्रेश तत्र नित्यं सुखी भव ॥ ५६॥ वयं चतुर्दश प्राज्ञाऽभवन् त्वल्लोमनाशके । तदपि त्वं किमर्थं तं देहं वदसि नश्वरम् ॥ ५७॥ श्रुत्वाऽहं मघवन्तं तमवदं हर्षसंयुतः । इन्द्र किं मां त्वं वदसि भ्रान्तिदं योगनाशनम् ॥ ५८॥ नष्टं देहं समालोक्य कः श्राम्येत्तत्र पण्डितः । योगामृतेन सन्तुष्टोऽहं भ्रमामि यदृच्छया ॥ ५९॥ पिपीलिका भवच्चेन्द्रो नरः सुद्युम्नसंज्ञितः । (Page खं. ८ अ. ३७ पान ८७) पूर्वसंस्कारयोगेनाश्वमेधशतकारकाः ॥ ६०॥ स त्वं यज्ञफलं भोक्तुं जातोऽसि मघवाऽधना । पतिष्यसि पुनर्देव तत्र का ते गतिर्भवेत् ॥ ६१॥ एवमुक्त्वा महायोगी लोमशः स्वप्रभावतः । ददौ जातिस्मरत्वं तु मघवते महायशाः ॥ ६२॥ मघवा सर्वमालोक्य त्रासयुक्तो बभूव ह । प्रणम्य लोमशं सोऽपि पप्रच्छ हितकारकम् ॥ ६३॥ इन्द्र उवाच । जन्ममृत्युहरं तात वद योगं परात् परम् । येन कामादिकं सर्वं नाशं गच्छति तत्क्षणात् ॥ ६४॥ लोमश उवाच । गणेशं भज भावेन ततो योगमवाप्स्यसि । ब्रह्मणां ब्रह्मरूपोऽयं सदा शान्तिपरायणः ॥ ६५॥ इन्द्र उवाच । नामरूपधरं देवं वदसे किं गणेश्वरम् । योगाकारं महाभाग वद तस्य महो महत् ॥ ६६॥ लोमश उवाच । योगरूपो गणेशोऽयं योगप्राप्त्यर्थमादरात् । नामरूपधरो जातो भक्तानां क्रीडनोत्सुकः ॥ ६७॥ सम्प्रज्ञातमयो देहो मस्तकं गजवाचकम् । असम्प्रज्ञातरूपं तत्तयोर्योगे गजाननः ॥ ६८॥ सिद्धिर्भ्रान्तिकरी माया बुद्धिर्भ्रान्तिधरा मता । ताभ्यां क्रीडति ब्रह्मेशो जगत्सु ब्रह्मसु प्रभो ॥ ६९॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । तेन स्वानन्दवासी स कथितः शास्त्रवादिभिः ॥ ७०॥ गणाः समूहरूपाश्च बाह्यान्तरादियोगतः । ब्रह्माकारो गणेशानस्तेषां स्वामी प्रकीर्तितः ॥ ७१॥ एवमुक्त्वा महायोगी लोमशो मन्त्रमादिशत् । षडक्षरं गणेशस्येन्द्रार्थं विधिसमन्वितम् ॥ ७२॥ इन्द्रः प्रणम्य विप्रेशमुवाच विनयान्वितः । वद शीघ्रं गणेशस्य दर्शनं मे कथं भवेत् ॥ ७३॥ लोमश उवाच । दक्षिणायनरूपा सा रात्रिर्देवी दिवौकसाम् । रात्रौ कर्माधिकारो न नराणां भूनिवासिनाम् ॥ ७४॥ तज्ज्ञात्वा दुःखसंयुक्ता रात्रिर्ब्रह्माणमावदत् । सत्कर्मसंयुतां नाथ मां कुरुष्व पितामह ॥ ७५॥ ततो ब्रह्मा ददौ तस्यै मन्त्रं षोडशवर्णकम् । गणेशस्य ययौ सा तं प्रणम्य वनमुत्तमम् ॥ ७६॥ ध्यात्वा हृदि गणाधीशं तताप तप उत्तमम् । आषाढ्यां पूर्णिमायां सा समारेभे ततः परम् ॥ ७७॥ कार्तिक्यां पूर्णिमायां तां प्रसन्नोऽभूद्गजाननः । आययौ वरदानार्थं रात्रिं भक्तिनियन्त्रितः ॥ ७८॥ समागतं गणाध्यक्षं सा विलोक्य ननाम तम् । तुष्टाव विविधैः स्तोत्रैर्भक्तिनम्रात्मकन्धरा ॥ ७९॥ ततः प्रसन्नतां यातो गणेशस्तामुवाच ह । वरान् वरय रात्रे त्वं दास्यामि हृदि ते स्थितान् ॥ ८०॥ रात्रिरुवाच । भक्तिं ते चरणे नाथ देहि मेऽनन्यधर्मिणीम् । सत्कर्मसंयुतां मां त्वं कुरुष्व रात्र्यपि प्रभो ॥ ८१॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । भक्तिर्मदीयपादे ते भविष्यति महामते ॥ ८२॥ आषाढी पूर्णिमाद्यं च कार्तिकी पूर्णिमान्तगम् । चातुर्मास्यं सिद्धिदं च भविष्यति सुधर्मिणाम् ॥ ८३॥ गाणेशपञ्चकं सेव्यं चातुर्मास्ये त्वदीयिके । सर्वसिद्धिसमायुक्ता भविष्यसि न संशयः ॥ ८४॥ (Page खं. ८ अ. ३७ पान ८८) षण्मासेषु महाभागे भव सत्कर्मसंयुता । नाना देवप्रियाऽत्यन्तं सत्कर्मणः प्रतापतः ॥ ८५॥ विवाहादिकमेवं ते समयेन भविष्यति । अन्यन्नानाविधं कर्म देवतोषं तथाऽस्तु च ॥ ८६॥ चातुर्मास्यव्रतेनैव मां नराः पर्युपासते । सांवत्सरभवं पुण्यं लभन्ते पूर्णभावतः ॥ ८७॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो भक्तवत्सलः । रात्रिस्तं प्रणिपत्यैव हर्षयुक्ताऽभवत् सदा ॥ ८८॥ अतस्त्वं देवराजेन्द्र चातुर्मास्यव्रतं कुरु । योगयुक्तो महाभागो भविष्यसि न संशयः ॥ ८९॥ एवमुक्त्वा महेन्द्रं तं पूजितस्तेन चागमम् । स्वस्याश्रमं गणेशानमभजं मुनिसत्तम ॥ ९०॥ इन्द्रस्ततः समाहूय विश्वकर्माणमादरात् । जगाद तं महाभागं गच्छ त्वं स्वगृहं सुर ॥ ९१॥ विश्वकर्मा ययौ स्थानं स्वकीयं हर्षसंयुतः । अभजद्गणनाथं स विस्मितः सन् महामतिः ॥ ९२॥ इन्द्रो राज्यं विनिक्षिप्य देवेषु वनगोऽभवत् । ध्यात्वा हृदि गणेशानमजपन् मन्त्रमुत्तमम् ॥ ९३॥ चातुर्मास्यव्रतं चक्रे गाणेशे पञ्चके रतः । तेन व्रतप्रभावेण योगयुक्तो बभूव ह ॥ ९४॥ चित्तमोहं परित्यज्य स चिन्तामणितन्मयः । भूत्वा स्वगृहमागत्य चकार राज्यमुत्तमम् ॥ ९५॥ निःस्पृहः सर्वभोगेषु सदा विघ्नेशतत्परः । बभूव राज्यसंस्थोऽपि महेन्द्रः परमार्थवित् ॥ ९६॥ नित्यव्रतं चकारासौ महेन्द्रो भक्तिसंयुतः । चातुर्मास्यभवं विप्र सर्वसिद्धिप्रदायकम् ॥ ९७॥ भुक्त्वा मन्वन्तरस्थं स्वराज्यं निहतकण्टकम् । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ९८॥ जाजलिरुवाच । देवाः कर्मफलं भुक्त्वा पतन्ति भूमिमण्डले । स्वर्गेषु यत् कृतं कर्म फलहीनं मतं बुधैः ॥ ९९॥ इन्द्रः कथं महाभाग चातुर्मास्यव्रतोद्भवम् । फलं प्राप्य गणेशानं ययावन्ते वद प्रभो ॥ १००॥ लोमश उवाच । त्वयोक्तं जाजले वाक्यं तदेव सर्वसम्मतम् । स्वर्गभूमौ कृतं कर्म निष्फलं जायते सदा ॥ १०१॥ पृथिव्यां भारते खण्डे समागत्य महामुने । देवाः कुर्वन्ति कर्माणि तानि सत्फलकानि तु ॥ १०२॥ कर्मभूमौ कृतं कर्म देवैर्वा दानवैर्नरैः । जन्तुभिर्विविधैः सर्वैः सफलं सम्भवेत् सदा ॥ १०३॥ अतो व्रतं मुख्यतमं कुरु विघ्नेशतत्परः । चातुर्मास्यभवं चित्रं गाणेशपञ्चके रतः ॥ १०४॥ गणेशकृपया सर्वं ज्ञास्यसि नात्र संशयः । अन्ते तल्लीनतां विप्र गमिष्यसि विशेषतः ॥ १०५॥ जाजलिस्तं प्रणम्याऽऽददौ लोमशं गुरुमुख्यकम् । जगाम स्वाश्रमं त्यक्त्वा बल्लालेशं महामतिः ॥ १०६॥ तत्र गत्वा व्रतं मुख्यं चकार भक्तिसंयुतः । चातुर्मास्ये यथाशास्त्रयुक्तं पयः प्रभक्षयन् ॥ १०७॥ समाप्ते तद्व्रते सद्यः प्रसन्नो गणनायकः । आययौ जाजलिं विप्रं वरदो भक्तवत्सलः ॥ १०८॥ तमागतं समालोक्य जाजलिः प्रणनाम ह । पूज्य नम्य प्रतुष्टाव कृत्वा करपुटं प्रभुम् ॥ १०९॥ जाजलिरुवाच । नमस्ते ब्रह्मनाथाय बल्लालेशस्वरूपिणे । (Page खं. ८ अ. ३७ पान ८९) बल्लालवरदात्रे ते गणेशाय नमो नमः ॥ ११०॥ विघ्नेशाय महाविघ्ननाशनाय परात्मने । भक्तानां भक्तनाथायाभक्तानां विघ्नकारिणे ॥ १११॥ परात्परतरायैव सगुणाय चतुर्भुज । निर्गुणाय तयोर्योगे हेरम्बाय नमो नमः ॥ ११२॥ वक्रतुण्डाय देवायैकदन्ताय महोदर । लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥ ११३॥ स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने । नानामायाप्रचालाय मायिकाय नमो नमः ॥ ११४॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते । अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥ ११५॥ देवाय दानवायैव देवदानवमर्दिने । सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥ ११६॥ योगानां योगनाथाय शान्तीनां शान्तिरूपिणे । ब्रह्मणां पतये तुभ्यं चिन्तामणे नमो नमः ॥ ११७॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे । धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥ ११८॥ एवमुक्त्वा गणेशानं ननाम भक्तिभावतः । तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥ ११९॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतां श‍ृण्वतां विप्र मयि भक्तिविवर्धनम् ॥ १२०॥ वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् । तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥ १२१॥ जाजलिरुवाच । तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदाम् । योगशान्तिकरीं नाथ नान्यं याचे गजानन ॥ १२२॥ ओमित्युक्त्वा गणाधीशोंऽतर्दधे मुनिसत्तम । जाजलिस्तं प्रणम्यैव हर्षयुक्तो बभूव ह ॥ १२३॥ एवं व्रतस्य माहात्म्यं विभाण्ड कथितं मया । येनाहं योगिनां वन्द्योऽभवं योगपरायणः ॥ १२४॥ तदादि वार्षिकं विप्र चातुर्मास्यभवं व्रतम् । करोमि गणपप्रीत्यै बल्लालेशं समाश्रितः ॥ १२५॥ त्वमप्येतादृशं विप्र व्रतं कुरु महाद्भुतम् । चातुर्मास्ये महायोगिवन्द्यः सद्यो भविष्यसि ॥ १२६॥ एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः । सविधिं गणराजस्य विभाण्डाय महात्मने ॥ १२७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ८.३७ (Page खं. ८ अ. ३८ पान ९०)

८.३८ कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ विभाण्ड उवाच । बल्लालेशचरित्रं मे ब्रूहि योगीन्द्रसत्तम । बल्लालेशः कथं नाम्ना गणेशोऽभूच्छुभप्रदः ॥ १॥ केनासौ स्थापितो देवः पल्लीसामीप्यगोऽभवत् । चरित्रं वद योगीश सर्वसिद्धिकरं परम् ॥ २॥ जाजलिरुवाच । सिन्धुदेशे समाख्याता पल्ली नाम्नी पुरी पुरा । तत्र कल्याणनाम्नैको वैश्यो धर्मयुतोऽभवत् ॥ ३॥ इन्दुमती महाभागा पत्नी तस्य सुरूपिणी । तस्यां पुत्रौऽभवत्तस्माद्बल्लालो भक्तिसंयुतः ॥ ४॥ पुत्रस्यैकादशे नाम दिवसे स चकार ह । बल्लालो ब्राह्मणैरुक्तो भक्तिबलसमन्वितः ॥ ५॥ बल्लालो गणनाथस्य ध्यानयुक्तः सदाऽभवत् । क्षुधां तृषां न जानाति भक्तिभावात् स्म नित्यदा ॥ ६॥ माता पुत्राय स्तन्यं तु ददौ हर्षसमन्विता । कृत्वा स्मरणमत्यन्तमतिविस्मितमानसा ॥ ७॥ न रुरोद कदा बालस्तन्यार्थं मुनिसत्तम । ततश्चचाल पद्भ्यां स जानुना वैश्यनन्दनः ॥ ८॥ पृथिव्यां गणपं धूलिमयं कृत्वा महामतिः । धूल्योपचारकैस्तं स पूजयामास भक्तितः ॥ ९॥ ततः पद्भ्यां गतिं चक्रे बल्लालो गणपे रतः । अवदत् स्खलितां वाचं जय विघ्नेश आदरात् ॥ १०॥ ततः किञ्चिद्गते काले स वयस्यैः समन्वितः । पुपूज गणनाथं तं यत्र तत्र महीतले ॥ ११॥ बालान् संशिक्षयामास मा खेलं कुरुत प्रियाः । नाशभूतं महाभागाः खेलं गाणेशचिह्नितम् ॥ १२॥ भजध्वं गणपं नित्यं तेन सर्वं हितं भवेत् । ततस्ते तादृशं चक्रुर्गाणपत्यपरायणाः ॥ १३॥ ततः काले गते किञ्चित्तत्र लोकभवं परम् । विघ्नं भक्तिविघाताख्यं ज्ञात्वा सोऽपि सुदुःखितः ॥ १४॥ विचार्य हृदि बालैः स मुदा ग्रामसमीपगम् । पर्वतं वैश्यपुत्रोऽपि जगाम भक्तिकारणात् ॥ १५॥ तत्र सुन्दररूपं स पाषाणं स्थाप्य बालकैः । पुपूज वनजैः पत्रैः फलैः पुष्पैर्गजाननम् ॥ १६॥ त्रिकालपूजनं कृत्वा रात्रौ स्वगृहमाययौ । भुक्त्वा सुष्वाप बल्लालो गाणपत्याग्रणीर्महान् ॥ १७॥ पुनः प्रातः समुत्थाय बालकैः स जगाम ह । गणेशं भक्तिसंयुक्तस्तैः पुपूज महामुने ॥ १८॥ ततो लोकाः पुरे संस्था बालान् सन्ताड्य तान् जगुः । अभुक्त्वा नित्यमानन्दात् कुत्र गच्छथ बालकाः ॥ १९॥ निशायामेकभुक्तेन कथं तिष्ठथ नित्यदा । बल्लालसङ्गसंयुक्ता मा गच्छथ कदाचन ॥ २०॥ एवं क्रोधसमायुक्ता जना नगरवासिनः । अशिक्षयन् स्वपुत्रादींस्ते तथापि वनं ययुः ॥ २१॥ बल्लालसहिताः सर्वे गणेशभजने रताः । नानाछन्दयुतास्तं ते गणेशमभजन् परम् ॥ २२॥ ततोऽतिक्रोधसंयुक्ताः कल्याणं प्रययुः किल । जनाः श्रेष्ठं महावैश्यं जगुस्तं भयवर्जिताः ॥ २३॥ नागरा ऊचुः । बल्लालो बालकान् गृह्य याति नित्यं वनान्तरम् । उपोषणसमायुक्तान् रात्रावागच्छति प्रभो ॥ २४॥ कृशा नो बालकाः सर्वे कृतास्तेन दुरात्मना । अद्य श्वो वा मरिष्यन्ति स्वसुतं शिक्षयाऽधुना ॥ २५॥ (Page खं. ८ अ. ३८ पान ९९) नानाप्रयत्नवन्तोऽपि वयं सर्वे महामते । ताडयामः सुतान् गृह्य तथापि त्वत्सुते रताः ॥ २६॥ तेषां तद्वचनं श्रुत्वा कल्याणः क्रोधसंयुतः । विसृज्य तान् ययौ शीघ्रं वने हन्तुं सुतं शुभम् ॥ २७॥ महान्तं दण्डमादाय क्रोधयुक्तः स्वभावतः । जगाम बालसामीप्ये ददर्श बालकान् मुने ॥ २८॥ तृणकाष्ठादिभिश्चित्रं धातुभी रञ्जितं परम् । कृत्वा देवालयं देवं स्थाप्य पूजापरायणान् ॥ २९॥ कांश्चित् प्रदक्षिणपरान् नामकीर्तनसंयुतान् । ध्याननिष्ठान् तपोनिष्ठान् पुराणवाचकान् परान् ॥ ३०॥ नानाछन्दकरान् वैश्यो गाणेशान् परमार्थकान् । बल्लालं ध्यानसंस्थं तु गणेशस्य पुरः सुतम् ॥ ३१॥ ततो दण्डेन देवस्य देवालयं बभञ्ज ह । दृष्ट्वा बाला भयोद्विग्नाः पपलुः सर्वतो दिशम् ॥ ३२॥ एक एव स बल्लालो न चचाल दृढाऽऽसनात् । नियमस्थो महाभक्तस्तं जग्राह पिता सुतम् ॥ ३३॥ दण्डेन ताडयामास बल्लालं यमसन्निभः । तस्य देहात् प्रसुस्राव रुधिरं सर्वतो द्विज ॥ ३४॥ तथापि स गणेशानं न मुमोच हृदि स्थितम् । सस्मार देहसन्त्यागे तत्परो वैश्यजः प्रभुम् ॥ ३५॥ ततो देवं प्रगृह्यैव चिक्षेप गणनायकम् । दूरे पर्वतभागे स वल्लीपाशानथानयत् ॥ ३६॥ तैः सुतं हस्तपादेषु बबन्ध दृढमेव सः । ततस्तं क्रोधसंयुक्तो जगाद वैश्यजोऽधमः ॥ ३७॥ कल्याण उवाच । मामनादृत्य नित्यं त्वं देवपूजापरोऽसि वै । तस्येदं त्वं फलं मुख्यं भुङ्क्ष्व पुत्र महाद्भुतम् ॥ ३८॥ लोका मां लज्जया हीना वदन्ति त्वद्विचेष्टितम् । अयशस्कारिणं पुत्रं मारयस्व महामते ॥ ३९॥ त्वया पुत्रेण सर्वत्र निन्दितोऽहं कृतोऽधुना । वन्ध्यः पुरा मुदा युक्तः सुयशा नगरेषु तु ॥ ४०॥ अतो देहं परित्यज्य गच्छ विघ्नेश्वरं सुत । स तं सर्वं शुभं देवः करिष्यति न संशयः ॥ ४१॥ एवमुक्त्वा महापापी जगाम नगरं पुनः । गृहे समागतस्तत्र विघ्नयुक्तो बभूव ह ॥ ४२॥ गलत्कुष्ठयुतश्चान्धो बधिरः कुब्ज एव च । मूककीटसमायुक्तो बभूव सहसा मुने ॥ ४३॥ ततोऽतिखेदसंयुक्तो बभूव वैश्यदूषकः । पत्नी तं तादृशं दृष्ट्वा शुशोच दुःखसंयुता ॥ ४४॥ पप्रच्छ तं पतिं सा तु न स शुश्राव तां गिरम् । मूकत्वान्न स्वयं किञ्चिज्जगाद दुःखसंयुतः ॥ ४५॥ ततो जना जगुस्तां ते नागरा भयसंयुताः । वृत्तान्तं वनसम्भूतं बल्लालताडनात्मकम् ॥ ४६॥ ततोऽतिदुःखसंयुक्ता सा जगाम वनं जनैः । सुतं द्रष्टुं सती विप्र रुदतीन्दुमती परम् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ८.३८ (Page खं. ८ अ. ३९ पान ९२)

८.३९ बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ विभाण्डक उवाच । बल्लालस्य गतिं नाथ वद लेभे स कां पराम् । गाणपत्यो महाभागो दःखितो मुनिसत्तम ॥ १॥ जाजलिरुवाच । बल्लालो गणनाथं स सस्मार वनसंस्थितः । रक्तस्रावयुतश्चैको बद्धः पित्रा दुरात्मना ॥ २॥ विघ्नारिर्नाम देवेश कथं तेऽभूद्गजानन । भक्तविघ्नकरो मे किं विपरीतोऽसि निश्चितम् ॥ ३॥ मद्भक्तिखण्डनार्थं मां यदा छलयसे परम् । मया पुरा पदे नाथ देहोऽयं ते समर्पितः ॥ ४॥ पततु मे शरीरं तु न मुञ्चामि कदाचन । त्वां गणेश दयासिन्धो भक्तोऽहं भावसंयुतः ॥ ५॥ यदि मे सुदृढा भक्तिस्तव पादे निरन्तरम् । तदा कुष्ठयुतश्चान्धः पिता भवतु कुब्जकः ॥ ६॥ मूको बधिरतायुक्तो भवतु त्वत्प्रसादतः । अहं बन्धनहीनश्च विघ्नेश ते नमो नमः ॥ ७॥ गजाननैकभक्तस्य बल्लालस्य मुखान्मुने । वचनं निःसृतं यावत् स तावत् तादृशोऽभवत् ॥ ८॥ ततो गणेश्वरः प्रीतो ब्राह्मणस्य स्वरूपधृक् । तमाययौ महाभक्तं भक्तवचनयन्त्रितः ॥ ९॥ बद्धं बल्लालभक्तं स ददर्श ब्राह्मणोत्तमः । तत्क्षणाच्छिथिलान्येव बन्धनानि बभूविरे ॥ १०॥ अङ्गानि क्षतहीनानि बभूवुर्मुनिसत्तम । ततः स हर्षितो मेने गणेशं द्विजरूपिणम् ॥ ११॥ उत्थाय तं स बल्लालः प्रणनाम पुपूज ह । पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ १२॥ बल्लाल उवाच । गणेशाय धाम्ने परेशाय तुभ्यं सदाऽऽनन्दरूपाय सर्वातिगाय । अपारस्वरूपाय देवाधिदेव नमस्ते प्रभो भक्तसंरक्षकाय ॥ १३॥ हेरम्बाय नमस्तुभ्यं विघ्नेशाय परात्मने । ब्रह्मेशाय महायोगदात्रे शान्तिमयाय ते ॥ १४॥ स्वानन्दवासिने तुभ्यं स्वानन्दे खेलकाय ते । योगेशाय महोदाररूपधारिन्नमो नमः ॥ १५॥ सदा सन्मयकायायाव्यक्तशीर्ष्णे नमो नमः । योगरूपेण सर्वत्र संस्थिताय नमो नमः ॥ १६॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते तुभ्यं नमस्ते गजवक्रिणे ॥ १७॥ लम्बोदराय देवाय चतुर्बाहुधराय ते । मूषकध्वजिने तुभ्यं पाशाङ्कुशप्रधारिणे ॥ १८॥ द्विजरूपधरायैव भक्तवत्सलभावतः । रक्षितुं भक्तवाक्यं तु समागताय ते नमः ॥ १९॥ त्वं माता त्वं पिता नाथस्त्वं सुहृत् कुलदैवतम् । द्रव्यं विद्यादिकं मे त्वं सर्वं ते वै नमो नमः ॥ २०॥ देहेन वाचा मनसा कृतान् मे सांसर्गिकान् जागृतिस्वप्नजातान् । संसुप्तितो यान् सकलापराधान् क्षमस्व हेरम्ब दयानिधे त्वम् ॥ २१॥ एवमुक्त्वा ननर्ताऽसौ बल्लालो भक्तियन्त्रितः । साश्रुनेत्रः सरोमाञ्चो ब्राह्मणाग्रे महामुने ॥ २२॥ तमुवाच गणाधीशस्त्यक्त्वा ब्राह्मणरूपकम् । गजाननस्वरूपेण संयुक्तो भक्तमुत्तमम् ॥ २३॥ श्रीगणेश उवाच । वरान् ब्रूहि महायोगिन् यांस्ते चित्तगतान् परान् । दास्यामि भक्तितुष्टोऽहं नियमेन महामते ॥ २४॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । (Page खं. ८ अ. ३९ पान ९३) भविष्यति नरायैव पठते श‍ृण्वते सदा ॥ २५॥ यं यमिच्छति तं तं तु दास्याम्यनेन संस्तुतः । अन्ते सायुज्यदं मे वै भावि स्तोत्रं विशेषतः ॥ २६॥ बल्लाल उवाच । तव भक्तिं स्थिरां देहि सङ्गं मे भावितात्मनाम् । त्वयि विमुखभावानामनादरं गजानन ॥ २७॥ नान्यं किञ्चिद् वरं याचे दासोऽहं ते विनायक । त्वदेकविलयं नित्यं मां कुरुष्व विशेषतः ॥ २८॥ तथेति तमथोवाच गणेशो भक्तवत्सलः । त्वन्नामपूर्वकं नाम भविष्यत्यत्र मे परम् ॥ २९॥ अत्रैवाहं सदा सर्वान् बल्लालेशो गणेश्वरः । स्थास्यामि भक्तिसंयुक्ता पालयिष्यामि योगिनः ॥ ३०॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । तत्र देवालयं चित्रं बभूव तत्क्षणान् मुने ॥ ३१॥ बल्लालेशयुतं रम्यं दृष्ट्वा बल्लालवैश्यकः । विस्मितस्तं प्रणम्याऽऽदौ पूजार्थं सन्दधे मनः ॥ ३२॥ तत्र पूजोपचाराश्च पतिता वै समन्ततः । बल्लालस्य ततस्तं तैः पूजयामास वैश्यजः ॥ ३३॥ नियमं नित्यजं पूर्णं कृत्वा ध्यानपरोऽभवत् । तत उत्थाय हर्षेण ननाम गणनायकम् ॥ ३४॥ दिव्यज्ञानयुतः सद्यो बभूव परमाद्भुतः । स्वपरभ्रान्तिहीनः स बल्लालो गणपप्रियः ॥ ३५॥ ततो माता समायाता लोकैस्तं सा ददर्श ह । विस्मिता निर्व्रणं दृष्ट्वा मुक्तं देवालये स्थितम् ॥ ३६॥ वृत्तान्तं तन्मुखाच्छ्रुत्वा स तां पुनरुवाच ह । गणेशद्वेषिणं तातं न पश्यामि कदाचन ॥ ३७॥ नाना जन्मसु मे माता पिता नानाविधोऽभवत् । तेषु केषां धराम्येवाभिमानं तारणात्मकम् ॥ ३८॥ गच्छ त्वं स्वगृहं नाहं पुत्रो दुष्टस्य निश्चितम् । येन देवालयं भग्नं स देवं भक्तिखण्डने ॥ ३९॥ श्रुत्वा सा शोकसंयुक्ता स्वस्थानं तत आययौ । बल्लालस्तत्र विघ्नेशमभजत् हर्षसंयुतः ॥ ४०॥ तत्राकस्मात् समायातं ज्योतीरूपं विमानकम् । तेन बल्लालवैश्यस्तु जगाम गणनायकम् ॥ ४१॥ विभाण्ड उवाच । कर्मणा यन्त्रिता लोकाः शुभाशुभपरायणाः । शुभाशुभे प्रकुर्वन्ति कर्मणा प्रेरिता पुनः ॥ ४२॥ तत्र योगी स बल्लालः स्वपरभ्रमवर्जितः । कथं कल्याणवैश्यं तं द्वेषिणं प्रददर्श ह ॥ ४३॥ जाजलिरुवाच । योगिषु गणनाथस्य भक्ताः श्रेष्ठा मता बुधैः । तेषु बल्लालवैश्योऽयं भक्तराजोऽभवत्परः ॥ ४४॥ गणेशभजने सक्ताः पूज्या मान्या निरन्तरम् । भक्तैस्तद्विपरीतास्ते त्याज्या वैरिसमानकाः ॥ ४५॥ अतो बल्लालवैश्यस्तु पितरं पूज्यमञ्जसा । गणेशार्थं गणेशस्य निन्दकं समभर्त्सयत् ॥ ४६॥ विभाण्डक उवाच । कुले यस्य महायोगिन् गाणपत्यो भवेत् कदा । तस्य वंशभुवः कोटिकुलस्योद्धारकारकः ॥ ४७॥ अयं कल्याणवैश्यस्य पुत्रः स्वानन्दगोऽभवत् । तदपि तस्य जनको माता भूमौ स्थितौ कथम् ॥ ४८॥ अन्ते तयोर्गतिश्चात्र कीदृशी सम्बभूव ह । कथां श्रुत्वा महाचित्रामाश्चर्यं मे हृदि स्थितम् ॥ ४९॥ जाजलिरुवाच । गाणपत्यः कुले जातः कुलोद्धारार्थमादरात् । (Page खं. ८ अ. ३९ पान ९४) यत्नं करोति चेद्विप्र तदा तस्य गतिर्भवेत् ॥ ५०॥ अथवा गणनाथं स तदा गच्छेन् महामुने । उद्धारं कुलजानां वै भवेत् सद्यो न संशयः ॥ ५१॥ बल्लालशापरक्षार्थं गणेशस्तस्य भावगः । अन्यजन्मनि चोद्धारं चकार स तयोः पुनः ॥ ५२॥ इदं बल्लालमाहात्म्यं कथितं ते समासतः । सर्वसिद्धिप्रदं पूर्णं श‍ृण्वते पठते भवेत् ॥ ५३॥ न बले सदृशो येषां बल्लालास्ते प्रकीर्तिताः । तेषां स्वामी गणाधीशो बल्लालेश इति स्मृतः ॥ ५४॥ त्वमपि व्रतमुख्यं तत् कुरुष्व भक्तिसंयुतः । चातुर्मास्यभवं चित्रं बल्लालेशपरायणः ॥ ५५॥ तेन योगयुतः पूर्णः प्रसादेन भविष्यसि । बल्लालेशस्य विप्रेश नात्र कार्या विचारणा ॥ ५६॥ बल्लालेश्वरमाहात्म्यं यः श‍ृणोति नरोत्तमः । पठति स महाभोगान् भुक्त्वा ब्रह्ममयो भवेत् ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ८.३९

८.४० चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । जाजलिस्तं विभाण्डं स ततो ददौ महामनुम् । पञ्चाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ १॥ मन्त्रं प्राप्य महाभागो जाजलेराश्रमे स्थितः । बल्लालेशं समभ्यर्च्य व्रतं चकार भक्तितः ॥ २॥ गाणेशपञ्चकं कृत्वा ध्याननिष्ठो बभूव ह । कार्तिक्यां पूर्णिमायां तु ययौ बल्लालनायकः ॥ ३॥ तं दृष्ट्वा सहसोत्थाय विभाण्डः प्रणतोऽभवत् । पूज्य तुष्टाव विघ्नेशं नानास्तोत्रैः सुहर्षितः ॥ ४॥ ततः प्रसन्नतां यातो बल्लालेशो महामुने । योगशान्तियुतं विप्रं कृत्वांऽतर्धानगोऽभवत् ॥ ५॥ तदादिगाणपत्यश्च विभाण्डः प्रबभूव ह । बल्लालेशपरो भूत्वा चचार मनसेरितः ॥ ६॥ विभाण्डक उवाच । कृत्वैवं योगशान्तिस्थोऽभवं सर्वैः सुवन्दितः । बृहदश्व कुरुष्व त्वं व्रतं गाणेश्वरं परम् ॥ ७॥ एवमुक्त्वा ददौ तस्मै मुनिर्मन्त्रं दशाक्षरम् । गणेशस्य महायोगी विधियुक्तं महामुने ॥ ८॥ तं प्रणम्य ययौ स्थानं स्वकीयं बृहदश्वकः । चातुर्मास्यव्रतं चक्रे गाणेशपञ्चके रतः ॥ ९॥ बृहदश्वाय विघ्नेशो ददौ योगं सुशान्तिदम् । गणेश्वरं सोऽपि नित्यमभजद्भक्तिसंयुतः ॥ १०॥ अन्यां च श‍ृणु विप्रेश चातुर्मास्यभवां कथाम् । विभाण्डस्य च वीर्यं यत् पतितं भूमिमण्डले ॥ ११॥ तद्गृह्य च वने संस्था हरिणी तृणसंयुतम् । (Page खं. ८ अ. ४० पान ९५) अमोघं तत्क्षणात् साऽभूद्गर्भयुक्ता महामुने ॥ १२॥ तस्यां पुत्रोऽभवत् साक्षाद्ब्रह्मतेजोयुतः परः । ललाटे श‍ृङ्गधारी स ऋष्यश‍ृङ्गस्ततः स्मृतः ॥ १३॥ नारदेनाभ्यनुज्ञातो विभाण्डस्तं समानयत् । स्वाश्रमे सर्वसंस्कारान् कारयामास विप्रपैः ॥ १४॥ कदा तमृष्यश‍ृङ्गं स लोमपादो नृपोत्तमः । अप्सरोभिः समाहृत्य स्वपुरे त्वानयन्मुनिम् ॥ १५॥ अनावृष्टिभवं दुःखं जनानां वीक्ष्य भूमिपः । स्वात्मजां प्रददौ तस्मै शान्तां गुणयुतां पराम् ॥ १६॥ सद्यो वृष्टिः समुत्पन्ना जनानां दुःखनाशिनी । शान्तया विप्रपो रेमे हर्षनिर्भरमानसः ॥ १७॥ कदा स्वपितरं विप्रो भार्यया प्रजगाम ह । नत्वा विभाण्डं तत्रैव संस्थितः सेवनोत्सुकः ॥ १८॥ विनयेन समायुक्तं पुत्रं दृष्ट्वा तपोयुतम् । जगाद तं महायोगी विभाण्डः प्रेमसंयुतः ॥ १९॥ विभाण्ड उवाच । ब्रह्मणि ब्रह्मभूतो यो ब्राह्मणः परिकीर्तितः । अतस्त्वं पुत्र भावेन भव ब्राह्मण उत्तमः ॥ २०॥ एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः शुभम् । सविधिं तं नमस्कृत्य पुत्रत्वं साधयत् परम् ॥ २१॥ शान्तया भार्यया सार्धं चातुर्मास्यव्रते रतः । गाणेशपञ्चकं सेव्य ध्याननिष्ठो बभूव ह ॥ २२॥ नित्यं योगपरो भूत्वा प्रार्थयद्गणनायकम् । कुरु योगीन्द्रवन्द्यं मां सभार्यं गणनायक ॥ २३॥ व्रतमात्रेण सन्तुष्टो ध्यानेन तपसा प्रभुः । ददौ योगं गणाधीश ऋष्यश‍ृङ्गाय धीमते ॥ २४॥ ततः स भार्यया सार्धं गाणपत्यो बभूव ह । शान्तियुक्तः स्वभावेनाऽभजद्विघ्नेश्वरं मुदा ॥ २५॥ एतस्मिन्नन्तरे तत्र लोमपादो नृपोत्तमः । आययौ प्रार्थयामास विभाण्डं प्रीतिसंयुतः ॥ २६॥ ऋष्यश‍ृङ्गं सुतायुक्तं प्रार्थयित्वा समानयत् । स्वपुरे तं समास्थाप्य तदाज्ञावशगोऽभवत् ॥ २७॥ नित्यं सोऽपि गणाधीशमभजन्नृपनायकः । उपदिष्टः स्वजामात्रा चातुर्मास्यपरायणः ॥ २८॥ अन्ते जगाम विघ्नेशं राजा धर्मभृतां वरः । एवं नाना जना विप्र व्रतेन सिद्धिमाययुः ॥ २९॥ तत्र तेऽहं कति ब्रूयां वक्तुं शक्तो न सर्वदा । चातुर्मास्यसमं मुख्यं व्रतं नैव विनिश्चितम् ॥ ३०॥ एकः कैवर्तकः कोऽपि नाम्ना नादकरः स्मृतः । स कदाचित् द्विजान् दृष्ट्वा प्रणतोऽभून् महामुने ॥ ३१॥ चातुर्मास्यव्रते संस्थान् दृष्ट्वा पप्रच्छ भक्तितः । कीदृशं व्रतमुख्यं मे ब्रूत विप्रेन्द्रमुख्यकाः ॥ ३२॥ ततस्ते विनतं दृष्ट्वा कथयामासुरादरात् । व्रतं गाणेश्वरं मुख्यं सविधि मुनिसत्तम ॥ ३३॥ श्रुत्वाऽऽनम्य स तान् विप्रान् ययौ स्वगृहमादरात् । चातुर्मास्यव्रते स्नात्वा चक्रे गणेशदर्शनम् ॥ ३४॥ भजनं घटिकामात्रं ततः स कार्यकारकः । बभूव निन्दयन् देहं गणेशे भक्तिवर्जितम् ॥ ३५॥ ततः कदाचिन् मार्गस्थं कार्यार्थं वनगोचरम् । तत्र तं भक्षितुं याता वनस्था दश राक्षसाः ॥ ३६॥ (Page खं. ८ अ. ४० पान ९६) स गणेशं भयोद्विग्नः सस्मार हृदि सर्वपम् । राक्षसास्तस्य सान्निध्यमाजग्मुर्भक्षणार्थिनः ॥ ३७॥ दृष्ट्वा स जलमादाय गणेशाय नमो इति । मन्त्रमुच्चार्य तान् दुष्टान् सिषेच भयसङ्कुलः ॥ ३८॥ गणेशनाममन्त्रेण मन्त्रितेन जलेन ते । स्पृष्टा जातिस्मरा जाता रुरुदुस्तं प्रणम्य तु ॥ ३९॥ ऊचुः प्राञ्जलयो भूत्वा नादकरं महामुने । राक्षसा दुःखसंयुक्तास्तं प्रणम्य दयायुतम् ॥ ४०॥ राक्षसा ऊचुः । वयं ब्राह्मणजातिस्था पूर्वजन्मनि शूद्रज । तत्राचारविहीनाश्चाभवाम स्म निरन्तरम् ॥ ४१॥ यथेच्छं विषये सक्ता मृता यमगृहे गताः । यमेन विविधेष्वेव निक्षिप्ता नरकेषु च ॥ ४२॥ भुक्त्वा पापभवं दुःखं राक्षसा मानदायक । जाताः क्षुधासमाविष्टा श्रमामो यत्र तत्र तु ॥ ४३॥ दैवयोगेन ते साधो दर्शनं भाग्यगौरवात् । प्राप्तं ते जलपातेन वयं जातिस्मराः कृताः ॥ ४४॥ अधुना तारयास्मांस्त्वं शरणं त्वां समागतान् । देहि पुण्यं महाभाग गणेशकीर्तने भवम् ॥ ४५॥ एवं तेषां नादकरो वचः श्रुत्वा दयायुतः । ज्ञात्वा माहात्म्यमुख्यं तानुवाच नामसम्भवम् ॥ ४६॥ नादकर उवाच । गणेशकीर्तनस्यैव पुण्यं वक्तुं न शक्यते । कथितं गुरुभिः पूर्वं ब्राह्मणैस्तत्त्वकोविदैः ॥ ४७॥ अतो राक्षसजातिस्था वचः श‍ृणुत मे हितम् । चातुर्मास्ये मया नित्यं कीर्तनं क्रियते परम् ॥ ४८॥ एकनाम्नो भवं पुण्यं दास्यामि दयया युतः । चातुर्मास्ये कृतस्यापि कीर्तनस्य न संशयः ॥ ४९॥ तेन बन्धनहीनाश्च भविष्यथ विचक्षणाः । एवमुक्त्वा ददौ तेभ्यः पुण्यं नामैकसम्भवम् ॥ ५०॥ दत्ते पुण्ये समायातास्तत्र गाणेशदूतकाः । तान् गृह्य निजलोकं तेऽभवन् गता महामुने ॥ ५१॥ गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूता बभूविरे । एवं व्रतस्य माहात्म्यं कथने नैव शक्यते ॥ ५२॥ चातुर्मास्यभवं चित्रं चरितं कथितं मया । सङ्क्षेपेण महाविप्र भुक्तिमुक्तिफलप्रदम् ॥ ५३॥ श‍ृणुयाच्छ्रावयेद्यस्तु पठेद्भावसमन्वितः । सोऽपि व्रतफलं लब्ध्वा मनसेप्सितमाप्नुयात् ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः ॥ ८.४० (Page खं. ८ अ. ४१ पान ९७)

८.४१ कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । गणेशनाममाहात्म्यं वद मे करुणानिधे । एकनामभवेनैव पुण्येन दश चोद्धृताः ॥ १॥ सूत उवाच । गणेशनाममाहात्म्यं कथितुं कोऽर्हति प्रभो । अपारं वेदवादेषु कथितं वेदवादिभिः ॥ २॥ अत्रेतिहासकं वक्ष्ये सर्वसिद्धिप्रदं परम् । श्रवणात् पठनाच्चापि नरेभ्यो नात्र संशयः ॥ ३॥ जरत्कारुरिति ख्यातो ब्राह्मणो ब्रह्मवित्तमः । अपारतपसा युक्तः शापानुग्रहकारकः ॥ ४॥ तमाययौ महाभागः पुत्रस्तस्य महात्मनः । आस्तिकः पुण्यशीलश्च प्रणनाम कृताञ्जलिः ॥ ५॥ सेवायामुत्सुकस्तत्रोवास हर्षसमन्वितः । योगीन्द्रं पितरं सोऽपि कदा जगाद विप्रप ॥ ६॥ आस्तिक उवाच । जनमेजययज्ञेऽहं रक्षित्वा पन्नगोत्तमान् । समायातो महाभाग वन्दनार्थं पदस्य ते ॥ ७॥ तत्र सर्पगणानग्नौ मृतांश्च भृशपीडितान् । तान् दृष्ट्वा त्राससंयुक्तोऽभवं परमपावन ॥ ८॥ संसारं दुःखदं वीक्ष्य तं नेच्छामि महामुने । अतः सुशान्तिदं मार्गं वद योगप्रदायकम् ॥ ९॥ एवं पुत्रवचः श्रुत्वा हर्षयुक्तो महामुनिः । जरत्कारुर्जगादेदं वचनं योगभावितम् ॥ १०॥ जरत्कारुरुवाच । ब्रह्मज्ञानं विना पुत्र शान्तिर्नैव प्रलभ्यते । नानाब्रह्मसु संस्थैश्चान्नप्राणादिषु मानद ॥ ११॥ शान्तिभ्यः शान्तिदं पूर्णं ब्रह्म वेदप्रकाशकम् । ब्रह्मणस्पतिसंज्ञं तं भजस्व विधिसंयुतः ॥ १२॥ श्रुत्वा विप्रस्तमास्तीको जगाद तपसा युतः । कथं गणेश्वरं तात श्रेष्ठं वेदा ब्रुवन्ति वै ॥ १३॥ नामरूपधरो भूत्वा ब्रह्मणस्पतिवाचकः । कथं बभूव देवेशो वद तस्य स्वरूपकम् ॥ १४॥ जरत्कारुरुवाच । समूहे गणधातुश्च समूहा ब्रह्मरूपिणः । बाह्यान्तरैकभावाख्यास्तेषां स्वामी गणेश्वरः ॥ १५॥ सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः । गजरूपं तयोर्योगे देहधारी गजाननः ॥ १६॥ अज्ञानसंयुतान्यादौ भूतानि विविधानि तु । तेभ्यो ज्ञानप्रदानार्थं देहधारी बभूव ह ॥ १७॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । योगिनां तेन विघ्नेशो निजलोकनिवासकृत् ॥ १८॥ सिद्धिरैश्वर्यरूपा सा भ्रान्तिदा सततं मता । बुद्धिर्भ्रान्तिधरा प्रोक्ता पञ्चचित्तस्वरूपिणी ॥ १९॥ तयोः स्वामी गणाधीशः खेलते चित्तसिद्धिगः । मायाभ्यां योगरूपोऽयं तदाकारः परात्परः ॥ २०॥ अत्र ते कथयिष्यामि पुरातनं महाद्भुतम् । इतिहासं गणेशस्य नाममाहात्म्यसंयुतम् ॥ २१॥ त्वां मातुर्जठरे संस्थं प्रत्यज्याहं तु निर्गतः । योगार्थं योगनिपुणं कौण्डिण्यं सङ्गतोऽभवम् ॥ २२॥ स्थावरे नगरे सोऽपि गाणपत्याग्रणीर्महान् । चिन्तामणिं गणेशानमभजद् दूर्वया सदा ॥ २३॥ मां दृष्ट्वा हर्षसंयुक्तो जगाद स्वागतं मुने । जरत्कारो निषीद त्वं तापसोग्र महामते ॥ २४॥ एवमाभाष्य मां विप्रः कृत्वाऽऽतिथ्यं यथाविधि । पप्रच्छ किं महाविप्र वदेच्छसि शुभप्रदम् ॥ २५॥ कौण्डिण्यस्य वचः श्रुत्वा हर्षितोऽहं तमब्रुवम् । तात भ्रमणसंयुक्तो भ्रमामि पृथिवीतले ॥ २६॥ नानातपोयुतो नाथ न शान्तिमलभं कदा । तवाश्रममतो यातो वद शान्तिं सुशान्तिद ॥ २७॥ कौडिण्य उवाच । गणेशं भज भावेन तदा शान्तिमवाप्स्यसि । नान्यथा त्वं जरत्कारो श्रमयुक्तो भविष्यसि ॥ २८॥ एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् । नामरूपधरं देवं कथं वदसि शान्तिदम् ॥ २९॥ ततो मामब्रवीत् सोऽपि दयायुक्तः स्वभावतः । श‍ृणु पुरा भवं चित्रमितिहासं वदाम्यहम् ॥ ३०॥ अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः । नाविन्दं तं ततो देवं ब्रह्माणं सङ्गतोऽभवम् ॥ ३१॥ तं प्रणम्य महाभागं योगशान्तिप्रदायकम् । अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः ॥ ३२॥ ब्रह्मोवाच । गणेशं भज भावेन ततः शान्तिमवाप्स्यसि । गच्छ स्थावरसंज्ञे त्वं पुरे चिन्तामणिं भज ॥ ३३॥ चञ्चलं चित्तमाख्यातं स्थिरं यत्र बभूव ह । तेन स्थावरसंज्ञं तत् क्षेत्रं नाम्ना मया कृतम् ॥ ३४॥ पञ्चचित्तप्रकाशो मे तत्र चिन्तामणिः प्रभुः । स्थापितोऽभून् मया पूर्वं साक्षाच्छान्तिप्रदायकः ॥ ३५॥ सृष्ट्यादौ तपसा तत्र मया संराधितोऽभवत् । तस्य वरप्रभावेण योगिवन्द्योऽभवं मुदा ॥ ३६॥ एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् । नामरूपधरो नाथ शान्तिदः कथमञ्जसा ॥ ३७॥ ततो मामब्रवीद्ब्रह्मा हर्षयुक्तेन चेतसा । गणानां पतिभावेन स्थितोऽयं नामधारकः ॥ ३८॥ देहो जगन्मयस्तस्य गजाख्यं ब्रह्म मस्तकम् । तयोर्योगे स्वरूपस्थो बभूव भक्तकारणात् ॥ ३९॥ स्वानन्दो नगरं यस्य सिद्धिर्बुद्धिः प्रिये मते । लक्षलाभौ सुतौ प्रोक्तौ मूषको वाहनं तथा ॥ ४०॥ एवं नानाविधानीह ब्रह्माकाराणि तस्य वै । सुहृदश्च ततः प्रोक्तो वेदेषु ब्रह्मणस्पतिः ॥ ४१॥ मायामोहयुतान्यादौ विश्वानि मुनिसत्तम । ब्रह्माणि योगदानार्थं तेभ्यो देहधरोऽभवत् ॥ ४२॥ स्वेच्छया देहधारी स स्वेच्छया मायया युतः । स्वेच्छया योगरूपोऽयं विनायकस्ततः स्मृतः ॥ ४३॥ नास्थिचर्मादिसंयुक्तो देहस्तस्य महात्मनः । तद्वर्जितो वै विप्रेश योगदेहधरोऽभवत् ॥ ४४॥ अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । भृशुण्डिनोऽमरर्षीणां संवादसम्भवं महान् ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः ॥ ८.४१ (Page खं. ८ अ. ४२ पान ९९)

८.४२ गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कौण्डिण्य उवाच । अहो गणेशमाहात्म्यमद्भुतं संश्रुतं मया । भृशुण्डिनो वद त्वत्तो देवर्षीणां वचो मिथः ॥ १॥ ब्रह्मोवाच । एकदा मुनयः सर्वे ते विचार्य परस्परम् । समाययुर्विधातारं संशयस्यापनुत्तये ॥ २॥ प्रणम्य लोकधातारं जगुः सर्वे सुहर्षिताः । मुनयः कश्यपाद्या मां देवेन्द्रैर्मुनिमुख्यकैः ॥ ३॥ देवर्षय ऊचुः । सर्वपूज्यो गणेशोऽयं सर्वादिपूज्य एव सः । नामरूपधरो नित्यो ब्रह्मणस्पतिवाचकः ॥ ४॥ वेदेषु कथितं ब्रह्मन् ब्रह्म ब्रह्मैव केवलम् । तत्र सागुण्यनैर्गुण्यं विद्यते न कदाचन ॥ ५॥ देहधारी गणेशानो वेदेषु ब्रह्मणस्पतिः । अतः संशयसंयुक्ताः प्रष्टुं त्वां समुपागताः ॥ ६॥ त्वं साक्षाद्योगिवन्द्यश्च सर्वेषां प्रपितामहः । छिन्धि संशयकं नाथानुभवेन तदात्मना ॥ ७॥ ब्रह्मोवाच । तेषां वचनमाकर्ण्य ब्रह्मा चिन्तातुरोऽभवम् । न किञ्चिदवदं तत्र मोहयुक्तोऽहमञ्जसा ॥ ८॥ सर्वैस्तैः संयुतो वेधा अगमं केशवं पुरा । तं प्रणम्य महाभागा ह्यपृच्छत् संशयं परम् ॥ ९॥ विष्णुः खेदसमायुक्तो लेभे नैव तदुत्तरम् । तैः सार्धं शङ्करं सोऽपि जगाम ज्ञानसिद्धये ॥ १०॥ प्रणम्य गिरिजानाथं जगाद संशयं परम् । तच्छ्रुत्वा शङ्करस्तत्र निश्चयं कर्तुमक्षमः ॥ ११॥ शिवस्तान् प्रत्युवाचेदं वचनं सुखदायकम् । भृशुण्डिनं च स्वगुरुं चित्ते स्मृत्वा गणेश्वरम् ॥ १२॥ श्रीशिव उवाच । आदिमध्यावसानेषु भृशुण्डी मुनिपुङ्गवः । तिष्ठति सर्वभावज्ञो गुरुर्नो हितकारकः ॥ १३॥ गणेशनाममाहात्म्यं सम्पूर्णं कथयिष्यति । जानाति नात्र सन्देहो नाम्ना सिद्धेश्वरोऽभवत् ॥ १४॥ ततस्तेन समायुक्ता जग्मुर्देवर्षयो मुने । भृशुण्डिनं महाभागममलाश्रमसंस्थितम् ॥ १५॥ तं प्रणम्य महात्मानं स्थिताः सर्वे सुरर्षयः । स तान् पूज्य जगादेदं वचनं हितकारकम् ॥ १६॥ भृशुण्ड्युवाच । धन्यं मे जन्मकर्मादि येन वो दर्शनं महत् । प्राप्तं वदत वाक्यं मां किमर्थमागताः पराः ॥ १७॥ साक्षाद्गणपतेः सर्वे विभूतिपदधारकाः । यूयं गणेश सामान्याः पावनार्थं समागताः ॥ १८॥ भृशुण्डिवचनं श्रुत्वा जगाद शङ्करो वचः । प्रणम्य तं महाभागं योगीन्द्राणां गुरोर्गुरुम् ॥ १९॥ श्रीशङ्कर उवाच । गणेशस्य महत्तत्त्वं परिपूर्णं महामते । त्वं जानासि न सन्देहः साक्षाच्छुण्डाधरो भवान् ॥ २०॥ अतः संशयसंयुक्ता वयं सर्वे समागताः । तं तेऽहं श‍ृणु वक्ष्यामि भ्रान्तिदायकमुत्तमम् ॥ २१॥ नामरूपधरो नित्यः कथं विघ्नेश्वरोऽभवत् । ब्रह्मणस्पतिसंज्ञस्तु वेदवादेषु योगिप ॥ २२॥ तेषां वचनमाकर्ण्य तान् जगाद महामुनिः । भृशुण्डी सर्वसारज्ञो गाणपत्याग्रणीर्महान् ॥ २३॥ भृशुण्ड्युवाच । गः शक्तिः सूर्य अः प्रोक्तो णो विष्णुरः शिवः स्मृतः । तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २४॥ गणाः समूहवाच्याश्च बाह्यान्तरैकभावतः । तेषां स्वामी गणेशानस्तेनायं ब्रह्मणस्पतिः ॥ २५॥ (Page खं. ८ अ. ४२ पान १००) गो बोध अविबोधस्थो णः स्वानन्दो निवृत्तिकृत् । तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २६॥ विश्वानि ग प्रसूतानि ब्रह्माणि ण गतानि तु । तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २७॥ एवं नानार्थसंयुक्तं नाम तस्य महात्मनः । तेष्वर्थान् देवविप्राद्याः कति ब्रूयां न शक्यते ॥ २८॥ चित्तरूपा महामाया पञ्चधा परिकीर्तिता । सा बुद्धिर्भ्रान्तिदा तत्र सिद्धिर्माया परा स्मृता ॥ २९॥ ताभ्यां नानाविधान्यादौ चकार खेलनार्थतः । विश्वानि मोहयुक्तानि ब्रह्माणि ब्रह्मणस्पतिः ॥ ३०॥ तेषां मोहविनाशार्थं योगदानार्थमादरात् । नामरूपधरो जातो गणेशो गणवल्लभः ॥ ३१॥ अर्थसत्तासमायुक्तं नाम तस्य सुरर्षयः । कथं नाशविनाशादि भेदास्तत्र भवन्त्यतः ॥ ३२॥ अथ रूपं प्रवक्ष्यामि गणेशस्य सुखप्रदम् । येन संशयहीनास्तं भजिष्यथ निरन्तरम् ॥ ३३॥ समष्टिव्यष्टिरूपाख्ये कुम्भस्थले महात्मनः । त्रयी त्रिनेत्ररूपा तु शुण्डा तुरीयवाचका ॥ ३४॥ धर्माधर्मौ गणेशस्याधरौ बिन्दुर्गलाकृतिः । देही दन्तः सदैकस्तु बोधो जठरवाचकः ॥ ३५॥ साङ्ख्यं कर्णात्मकं तस्य हस्ताश्च त्वर्थवाचकाः । मायामायिकरूपौ वै पादौ गणपतेः स्मृतौ ॥ ३६॥ एषां संयोगरूपाख्यो देहस्तस्य सुरर्षयः । स्वसंवेद्यात्मकः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ३७॥ अभिमानेन शून्यत्वादेषामयोगवाचकः । देहो देहधरस्याऽपि गणेशस्य विचक्षणाः ॥ ३८॥ संयोगायोगयोर्योगे देहधारी गजाननः । बभूव योगदानार्थं जगद्भ्यो ब्रह्मभ्यः पर ॥ ३९॥ विश्वं कण्ठादधस्तस्य शिरो ब्रह्म गजात्मकम् । तयोर्योगे गणेशानो देहधारी बभूव च ॥ ४०॥ एवं नानार्थभावेन ध्यायन्ते योगिनोऽमलाः । देहं गणपतेः प्राज्ञा मायामोहविवर्जिताः ॥ ४१॥ शब्दार्थसत्तया युक्तं वपुस्तस्य विराजति । नाशानाशादिभावैश्च वर्जितं तन्मयं तथा ॥ ४२॥ एतत् सर्वं समाख्यातं नामरूपरहस्यकम् । गणेशस्य महाभागा यथा मुद्गलभाषितम् ॥ ४३॥ गणेशेति सकृज्जप्त्वा ब्रह्मभूतो भवेन्नरः । द्विवारं चेद्गणेशानः तस्यर्णी नाऽत्र संशयः ॥ ४४॥ गणेशेति सकृज्जप्त्वा यस्तिष्ठति नरोत्तमः । जगद्ब्रह्मयुतस्तेन संस्मृतो गणनायकः ॥ ४५॥ अतो गणेशनाम्नश्च स्मरणं न करोति यः । स दुरात्मा परित्याज्यश्चाण्डालानां शिरोमणिः ॥ ४६॥ गणेशनमनं कृत्वा नरस्तिष्ठति यो भुवि । तेन नानाविधं विश्वं ब्रह्म सन्नमितं भवेत् ॥ ४७॥ गणेशरूपं सन्ध्याने धृतं येन महात्मना । जगद्ब्रह्मयुतो योगो ध्यातस्तेन न संशयः ॥ ४८॥ गणेशमूर्तिरूपं तु दृष्टं येन सुरर्षयः । नानाब्रह्म तथा विश्वं दृष्टं सोऽपि गजाननः ॥ ४९॥ अनन्तानि महाभागा विश्वानि ब्रह्मकाणि तु । तेषां तु पूजनं केन भवेदानन्त्यभावतः ॥ ५०॥ ततः सुलभभावार्थं तेषां योगमयः प्रभुः । नामरूपधरो ढुण्ढिर्बभूव भक्तिलालसः ॥ ५१॥ (Page खं. ८ अ. ४३ पान १०१) तस्य पूजादिभावेन पूजितं सर्वमञ्जसा । जगद्ब्रह्म न सन्देहो विविधं शान्तिरूपकम् ॥ ५२॥ इदं सर्वं समाख्यातं रहस्यं गणपस्य च । नामरूपात्मकं पूर्णं सङ्क्षेपेण सुरर्षयः ॥ ५३॥ भजध्वं तं विशेषेण सर्वसंशयवर्जिताः । तेनैव कृतकृत्याश्च भविष्यथ सुरर्षयः ॥ ५४॥ एवमुक्त्वा महायोगी विरराम महामुने । भृशुण्डी सर्वसारज्ञो गजानन इवापरः ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः ॥ ८.४२

८.४३ चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । एतादृशं गणेशस्य माहात्म्यं मुनिसत्तम । दर्शनस्मरणाद्यं तु सर्वसिद्धिप्रदायकम् ॥ १॥ जना गणेश्वरस्यैवं दर्शनं नामकीर्तनम् । सकृत् कुर्वन्ति विप्रेशाऽथ वाऽधिकं न संशयः ॥ २॥ ते सर्वे सुखसंयुक्ता भुक्त्वा भोगान् मनोगतान् । ब्रह्मभूता न जायन्ते वद तत्रापि कारणम् ॥ ३॥ भृशुण्ड्युवाच । अविश्वासेन तेषां तु फलमर्धं गतं भवेत् । अभक्त्या पादसम्भूतं दम्भेन त्रिपदं तथा ॥ ४॥ अतः सम्पूर्णभावेन फलहीना जनाः किल । न प्राप्नुवन्ति पुण्यं ते सर्वशास्त्रप्रकीर्तितम् ॥ ५॥ अन्यच्च शुणुत प्राज्ञाः पुण्यं पापं समं मतम् । बलेन तेजसा भावैः शास्त्रेष्वत्र न संशयः ॥ ६॥ यथा गणेशनाम्नश्च कीर्तने पुण्यमुत्तमम् । तथा निन्दादिजं पापमतुलं जायते किल ॥ ७॥ यथा जना भजन्ते तं बाह्यभावपरायणाः । तथा ते तस्य निन्दां वै कुर्वते पश्यत प्रियाः ॥ ८॥ अन्यच्च कथयिष्यामि संशयस्यापनुत्तये । उल्लङ्घनादिजं पापं मानाच्छतगुणं भवेत् ॥ ९॥ ज्ञात्वा गणेश्वरं सर्वे कुर्वन्त्युल्लङ्घनं सदा । तेन भोगविहीनास्ते गच्छन्ति नरके किल ॥ १०॥ नानाविघ्नसमायुक्ता जन्मजन्मसु ते जनाः । भवन्ति नाऽत्र सन्देहो गणेशोल्लङ्घनेन च ॥ ११॥ गणेशमानजं पुण्यं स्वल्पं किं सुखदं भवेत् । उल्लङ्घनबलेनैव हतं मन्दमिव प्रियाः ॥ १२॥ यथा विस्मृतिभावेन विस्मृतो गणनायकः । विधेर्यज्ञे भवन् सर्वे जलरूपाः सुरास्तथा ॥ १३॥ महातपोयुताभिश्च स्त्रीभिर्देवाः पुनः कृताः । स्वल्पोल्लङ्घनजं पापं पश्यध्वं तु सुरर्षयः ॥ १४॥ अतो दुःखयुता लोका गणेशस्मरणादिभिः । गच्छन्ति नरके युक्ताः गणेशोल्लङ्घनादिभिः ॥ १५॥ अन्यच्च कथयिष्यामि कर्म शास्त्रे प्रकीर्तितम् । प्रत्यवायाकुलं सर्वं सर्वत्र विविधं पुरा ॥ १६॥ प्रत्यवायमनादृत्य कर्म कुर्वन्ति मानवाः । ते सर्वे सकलं पुण्यं प्राप्नुवन्ति न निश्चितम् ॥ १७॥ इत्यादि बहवो भेदाः कृताः विघ्नेश्वरेण च । अखण्डक्रीडनार्थं कथयितुं नैव शक्यते ॥ १८॥ अपारमहिमायुक्तं माहात्म्यं गणपस्य च । तस्य खण्डनभावार्थं निन्दादिकं चकार सः ॥ १९॥ अतो गणपतिं देवा भजध्वं यत्नसंयुताः । मुनयस्तेन सम्पूर्णं गणपं परमाप्स्यथ ॥ २०॥ सुरर्षय ऊचुः । गणेशो योगरूपोऽयं कथं पुम्भावमाश्रितः । एकदेशमयं योगिन् वद तस्य चरित्रकम् ॥ २१॥ भृशुण्ड्युवाच । यथा ब्रह्म महाभागा नपुंसकप्रवाचकम् । स्त्रीपुम्भावविहीनं तदेकमार्गपरं मतम् ॥ २२॥ स्त्रीपुन्नपुंसकं सर्वं त्रिविधं त्रयवाचकम् । आत्मा तुरीयसंज्ञश्च पुंवाचकस्त्रिवर्जितः ॥ २३॥ जनानां कथने वेदास्तं वदन्ति गजाननम् । एकमार्गाश्रितं सर्वं कथने नाभवन् क्षमाः ॥ २४॥ अतोऽयं गणनाथस्तैः पुम्भावात्मक उच्यते । यथा योगादिकाः शब्दास्तथा देवादयो मताः ॥ २५॥ वामाङ्गं प्राकृतं रूपं सिद्धिस्तस्य महात्मनः । दक्षिणाङ्गं महाभागा बुद्धिः पुरुषवाचिका ॥ २६॥ तयोर्योगे गणेशानो योगाकारो न संशयः । पुम्भावादियुतोऽयं न तेभ्यः संवर्जितो न च ॥ २७॥ देवर्षय ऊचुः । चतुर्थी गणनाथस्य प्रियाऽत्यन्तं तिथिः परा । कथं रिक्ता तु सा प्रोक्ता विवाहादौ विवर्जिता ॥ २८॥ साक्षान् मङ्गलमूर्तेश्च तिथिर्मङ्गलदायिका । सर्वदा रिक्तभावेन कथं युक्ता बभूव सा ॥ २९॥ भृशुण्ड्युवाच । पक्षयोरुभयोः संस्था चतुर्थी गणपप्रिया । व्रतानामादिभूता वै गणेशप्राप्तिकारिका ॥ ३०॥ व्रतं चतुःप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । नित्यवन् मानवैः सर्वैः कर्तव्यं चादिरूपकम् ॥ ३१॥ तदा चतुः पदार्थास्तैर्लभ्यन्ते नाऽत्र संशयः । नो चेत् कर्म कृतं सर्वं निष्फलं जायते नरैः ॥ ३२॥ अतः सा सम्मता सद्भिः सर्वकार्येषु देवपाः । व्रतभङ्गो न कर्तव्यो नानाकार्यपरैरपि ॥ ३३॥ विवाहादिषु कार्येषु भोजनं क्रियते जनैः । नानाविषयसङ्गश्च व्रतं तत्र कुतो भवेत् ॥ ३४॥ अतः संशयहीनास्तां भजन्ते व्रतमार्गतः । मङ्गलायतनां पूर्णां चतुर्थीं सर्वसिद्धिदाम् ॥ ३५॥ जन्ममृत्युयुतैलोकैः पूरितं सकलं जगत् ॥ ३६॥ चतुर्थी व्रतकर्तारो जन्ममृत्युविवर्जिताः । त्यक्त्वा कर्मफलं कर्म गच्छन्ति निजलोककम् ॥ ३७॥ सर्वसङ्कटहीनास्ते भुक्त्वा भोगान् मनेप्सितान् । ब्रह्मभूता भवन्त्येव चतुर्थीव्रतकारकाः ॥ ३८॥ व्रतमात्रेण रिक्तं स कुरुते विश्वमञ्जसा । तेन रिक्ता समाख्याता चतुर्थी नाऽत्र संशयः ॥ ३९॥ विश्वं त्यक्त्वा गणेशानं गच्छन्ति व्रतकारिणः । तेन रिक्तं जगत् सर्वं भवते मुनयोऽमराः ॥ ४०॥ नान्यतिथिसमा देवी मता रिक्ता चतुर्थिका । ब्रह्मभूयप्रदातृत्वात् सर्वेभ्यः सुखदायिका ॥ ४१॥ एतत् सर्वं समाख्यातं गणेशस्य महात्मनः । रहस्यं व्रतमुख्यस्य किं भूयः श्रोतुमिच्छथ ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ८.४३ (Page खं. ८ अ. ४४ पान १०३)

८.४४ जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । ब्रह्म नानाविधं प्रोक्तं क्रमार्थं प्राप्तिहेतवे । गणेशस्य न सन्देहः पात्रभेदप्रभावतः ॥ १॥ अग्नीन्द्रकादयः सर्वे ब्रह्मशब्दप्रयाचकाः । पुराणेषु महाभाग तेभ्यो ब्रह्मादयोऽभवन् ॥ २॥ पितामहः समाख्यातो ब्रह्मा तेभ्यो मुने कथम् । बभूव शम्भुमुख्याश्चाभवन् वेद महामते ॥ ३॥ इति तेषां वचः श्रुत्वा हर्षितो मुनिसत्तमः । भृशुण्डी प्रत्युवाचेदं वाक्यं संशयनाशनम् ॥ ४॥ भृशुण्ड्युवाच । तत्त्वरूपा समाख्याता ब्रह्माकारा न संशयः । ब्रह्मादयः समुत्पन्ना देवास्तेभ्यः सुरर्षयः ॥ ५॥ अश्विनौ नासिकायाश्च देवौ सर्वत्र संस्थितौ । ब्रह्माकारेण ताभ्यां तु पृथ्वीतत्त्वं विनिःसृतम् ॥ ६॥ प्रकृतिर्भूमिराख्याता गन्धः पुरुष उच्यते । तयोर्योगेऽश्विनौ देवौ ब्रह्माकारौ मतौ बुधैः ॥ ७॥ पृथ्वीतत्त्वमयो देहस्त्रिगुणात्मशरीरिणाम् । ब्रह्मादीनां च ताभ्यां स निःसृतो नाऽत्र संशयः ॥ ८॥ विराड्रूपं पृथिव्यास्तु ताभ्यां जातं न संशयः । प्रणवो पृथिवीदेहस्तथा जातः सुरर्षयः ॥ ९॥ अनेन विधिना ब्रह्मा कथ्यते शास्त्रवेदिभिः । तस्माद्विश्वं समुद्भूतं तत्र चित्रं न विद्यते ॥ १०॥ नरोऽश्विनौ समाराध्य जित्वा पृथ्वीभवं भ्रमम् । पुनः स जलतत्त्वार्थं वरुणं भजते परम् ॥ ११॥ तदाऽश्विनौ प्रनष्टौ च दृष्टौ तेन महात्मना । मुख्यं वारुणकं ब्रह्म तस्माज्जातमिदं जगत् ॥ १२॥ एवं परम्परा मार्गा ब्रह्मरूपा मताः परे । इन्द्राद्यास्तत्त्वरूपस्थास्तत्वैः सम्भावयन्ति ते ॥ १३॥ शिवादिदेहरूपेषु संस्थितास्तत्त्वधारकाः । देवा इन्द्रमुखास्तेन तदाधाराः शिवादयः ॥ १४॥ गौणमार्गेण देवेशाः शम्भ्वादयो बभूविरे । इन्द्रादिभ्यो न सन्देहो न मुख्यं तत्प्रकीर्तितम् ॥ १५॥ मुख्यभावेन देवेन्द्रा इन्द्रादयः समुद्भवाः । शिवादिभ्यश्च सम्पूर्णकलाभिर्नात्र संशयः ॥ १६॥ एवमुक्त्वा महायोगी भृशुण्डी विरराम ह । देवर्षयः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ १७॥ देवर्षय ऊचुः । सर्वसंशयहीनाश्च कृता वयं महामुने । त्वया न चित्रमेवेदं गणेशाकाररूपिणा ॥ १८॥ देवर्षयस्ततः स्वस्वस्थलं जग्मुः सुहर्षिताः । संशयेन विहीनास्तेऽभजन्नित्यं गणेश्वरम् ॥ १९॥ ब्रह्मोवाच । एतत्ते कथितं वत्स रहस्यं शान्तिदायकम् । तस्मात्त्वं गणनाथं तं भज शान्तिमवाप्स्यसि ॥ २०॥ एवमुक्त्वा ददौ तस्मै ब्रह्मा मन्त्रं षडक्षरम् । विधियुक्तं गणेशस्य सर्वसिद्धिप्रदायकम् ॥ २१॥ कौण्डिण्य उवाच । ततो ब्रह्माणमानम्यागमं चिन्तामणिं मुदा । तपोयोगेन विघ्नेशं मन्त्रेणाराधयन् परम् ॥ २२॥ गते वर्षशते देवः प्रसन्नो वरदोऽभवत् । आययौ मां वरं दातुं सिद्धिबुद्धिसमन्वितः ॥ २३॥ तं दृष्ट्वा सहसोत्थायाऽऽपूज्याऽऽनम्य गजाननम् । स्तौमि हर्षेण संयुक्तः कौथुमेन महामुने ॥ २४॥ ततो मे वाञ्छितं दत्वा योगं योगपति स्वयम् । जगाम स्वस्थलं विप्राहं खिन्न इव संस्थितः ॥ २५॥ (Page खं. ८ अ. ४४ पान १०४) तदादि गाणपत्योऽहं जातः सम्पूर्णभावतः । अभजं तं विशेषेण पत्न्या चिन्तामणिं सदा ॥ २६॥ प्रियां गणेशस्यात्यन्तं दूर्वां ज्ञात्वा महामुने । दूर्वाभिरयुतेनाऽपूजयं तं नित्यमादरात् ॥ २७॥ मदीयसहगत्वेन किञ्चिच्छुद्धाऽब्रवीद्वचः । आश्रया मां किमर्थं त्वं तृणानुष्ठानतत्परः ॥ २८॥ भार्याया वचनं श्रुत्वा संशयेन समन्वितम् । तस्यै गणेश्वरे भक्तिदानार्थं त्वब्रवं वचः ॥ २९॥ दूर्वार्पणेन विघ्नेशः सन्तुष्टो जायते परे । न तथा द्रव्यकाद्यैश्च वस्त्रैर्नैवेद्यमुख्यकैः ॥ ३०॥ विना दूर्वां निराहारो तिष्ठति गणनायकः । निष्फला जायते पूजा कृता नानाविधा किल ॥ ३१॥ एकदूर्वाङ्कुरं भक्त्या फलं केन न गण्यते । समर्पयेद्गणेशाय तस्मात्तं दूर्वयाऽर्चयेत् ॥ ३२॥ ततस्तस्या हृदि संस्थः संशयो न जगाम ह । एकदूर्वाङ्कुरं गृह्याऽऽददां तस्यै हिताय च ॥ ३३॥ अवदं गच्छ देवेशं देवेन्द्रं दूर्वया समम् । सुवर्णं देहि विघ्नेश पूजायां स्थितया प्रभो ॥ ३४॥ प्रियेन न्यूनमधिकं त्वया ग्राह्यं कदाचन । तथेति नम्य मां सा वै जगाम देवनायकम् ॥ ३५॥ तेन सम्पूजिता देवी जगाद मे वचो हितम् । स इन्द्रो हर्षसंयुक्तस्तथा चकार विप्रप ॥ ३६॥ त्रैलोक्यं घटमध्ये स समारोप्य क्रमेण च । तथापि दूर्वया तुल्यं न बभूव महामुने ॥ ३७॥ दृष्ट्वाऽतिखेदसंयुक्तः सस्मार पञ्च देवपान् । तेऽपि स्वपुरसंयुक्ता जग्मुः कार्यप्रसिद्धये ॥ ३८॥ सर्वे सग्रामसस्त्रीकाः शिवविष्णुमुखाऽमराः । घटे स्थितास्तथा तेऽपि दूर्वया नाभवन् समाः ॥ ३९॥ ततस्तैर्मायया सर्वं ब्रह्माण्डं लोकसङ्कुलम् । घटे क्षिप्तं तथा तन्न दूर्वया च समं कदा ॥ ४०॥ दृष्ट्वा ते भयसंयुक्ता मम शापाच्च विप्रप । आययुश्चाश्रयायुक्ता आश्रमे मे सुदुःखिनः ॥ ४१॥ प्रणम्य मां विधिस्तत्र सर्वैर्जगाद शोकतः । दासास्ते मुनिशार्दूल दूर्वापुण्येन वै कृताः ॥ ४२॥ एकदूर्वासमं नैव ब्रह्माण्डं भवति प्रभो । गणेशपूजने क्षिप्ता त्वया कौण्डिण्यसत्तम ॥ ४३॥ एकदूर्वाङ्कुराज्जातं फलं चिन्तामणिः स्वयम् । दास्यति ते महाभाग न वयं तत्समा यतः ॥ ४४॥ आज्ञापय करिष्यामो दासास्ते कार्यमुत्तमम् । नित्यं कार्यकरान् स्वामिन् पालयस्व सुरेश्वरान् ॥ ४५॥ तेषां वचनमाकर्ण्य तान् पूज्य प्राब्रवं वचः । विधे सर्वैः समायुक्तो गच्छ त्वं स्वपदं प्रभो ॥ ४६॥ नाहं दूर्वाफले सक्तो भार्याबोधार्थमञ्जसा । कृतं मया महादेवा दासोऽहं क्षम्यतामिति ॥ ४७॥ ततस्ते सर्वदेवेशा ययुः स्वस्वपदं मुदा । भार्या मे श्रद्धया युक्ता गाणपत्याऽभवत् सदा ॥ ४८॥ स्त्रिया नित्यं महाभाग भजामि गणनायकम् । चित्तस्थिरकृते क्षेत्रे स्थितं चिन्तामणिं मुदा ॥ ४९॥ अतस्त्वमपि विप्रेश शान्तिमिच्छसि चेत्तदा । (Page खं. ८ अ. ४५ पान १०५) भज विघ्नेश्वरं तेन योगिवन्द्यो भविष्यसि ॥ ५०॥ एवमुक्त्वा ददौ मह्यं मन्त्रं गणपतेः परम् । षडक्षरं विधानेन पुत्र सर्वार्थदायकम् ॥ ५१॥ तं प्रणम्य महाभागमपृच्छं विनयान्वितः । योगप्राप्त्यर्थमत्यन्तं वचनं संशयात्मकम् ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ८.४४

८.४५ जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ जरत्कारुरुवाच । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः । अन्नप्राणादिभेदैश्च संयुक्तं क्रमसिद्धये ॥ १॥ मनोमयं ब्रह्म तेषु मनः कोशप्रकाशकम् । न मुख्यं तन् महाभाग सूक्ष्मं स्वप्नविकारजम् ॥ २॥ मनोबुद्धिरहङ्कारश्चित्तं चतुर्विधं परम् । अन्तःकरणमित्युक्तं शास्त्रेषु मुनिसत्तमैः ॥ ३॥ चित्तमत्र समाख्यातं तत्र चिन्तामणिः स्थितः । चित्तप्रकाशकत्वाद्वै मनो ब्रह्म कलात्मकः ॥ ४॥ प्राणो मनश्च विज्ञानं त्रिविधं स्वप्नमुच्यते । तेष्वेकदेशतः सोऽपि ब्रह्माकारो गजाननः ॥ ५॥ कथं शान्तिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिम् । वेदेषु कथितं विप्र कथं तन्नैव बुध्यते ॥ ६॥ कौण्डिण्य उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषां हितकारकम् । कथयामि महाप्रीत्या प्रणम्य गणनायकम् ॥ ७॥ साङ्ख्ययोगादिभेदस्थैर्मार्गा नानाविधाः स्मृताः । पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः ॥ ८॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । तत्र चित्तं समाख्यातमन्तःकरणगं परम् ॥ ९॥ एकभागाश्रितं चित्तं मनो ब्रह्मणि संस्थितम् । पदार्थशोधनाख्ये तद्विधौ जानीहि मानद ॥ १०॥ कुत्र वेदविवादेषु मनसः परमा मता । बुद्धिस्तस्याः परं ब्रह्म शान्तिदं सर्वसम्मतम् ॥ ११॥ अन्तःकरणगा बुद्धिरेकदेशप्रभावतः । न मुख्या सा समाख्याता तद्वच्चित्तं मतं बुधैः ॥ १२॥ अत्रान्यं बोधदं मार्गं वदामि वेदगं परम् । समाहितमना विप्र श‍ृणु संशयनाशनम् ॥ १३॥ देहः क्रियात्मकः प्रोक्तो मनो बोधात्मकं मतम् । तयोर्योगे स्वयं बुद्धिर्मोहदा द्वन्द्वधारिका ॥ १४॥ गणेशोपासनेनैव द्वन्द्वदुःखहरा भवेत् । ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमतां परा ॥ १५॥ ततः परं स्वयं लीना जायते गणपे परे । तदा शान्तियुतो जन्तुर्ब्रह्मभूतो भवेत् स्वयम् ॥ १६॥ अहं गणेशरूपश्चेत्तदा मे देहजो भ्रमः । कुत्र मनोमयो मोहो विवेकदायकः परः ॥ १७॥ तयोर्योगे योगमयः कुत्र मे सम्भवेद्भ्रमः । द्वन्द्वभावयुतः सोऽपि द्वन्द्वसंवर्जितः स्मृतः ॥ १८॥ (Page खं. ८ अ. ४५ पान १०६) एवं ज्ञात्वा महायोगी शान्तिं संलभते पराम् । गणेशे गणनाथोऽयं भवते मुनिसत्तम ॥ १९॥ अनेन विधिना विद्धि चित्तं बुद्धिमयं परम् । तत्र चिन्तामणिं ज्ञात्वा ब्रह्मभूतो नरो भवेत् ॥ २०॥ अन्यच्च श‍ृणु विप्रेश मनो विवेकधारकम् । विवेकादभिमानश्चोत्पद्यते विविधेषु वै ॥ २१॥ अतो बुधैरहङ्कारो मनोमय उदाहृतः । कथितं वेदवादेषु मता बुद्धिर्मनः परा ॥ २२॥ बुद्धिर्ज्ञानात्मिका प्रोक्ता सैव द्वेधाऽभवन् मुदा । जडा देहे क्रियामूला चैतन्यदा मनोमयी ॥ २३॥ वृद्विक्षयादिकं ज्ञानं सदा देहे प्रतिष्ठितम् । तदेव बुद्धिजं विद्धि जरत्कारो सुयोगतः ॥ २४॥ देहात्मनि विवेकाख्यं ज्ञानं मनसि संस्थितम् । बुद्धिजं क्षयवृद्ध्यादिहीनं चैतन्यधारकम् ॥ २५॥ तयोर्योगे स्वयं बुद्धिर्ज्ञानरूपा ययोः परा । ब्रह्माहमिति शब्दाख्या मनोवाणीविवर्जिता ॥ २६॥ बुद्धिरूपं महच्चित्तं जानीहि तत्स्वरूपकम् । कथयाम्यधुना प्रीत्या सर्वसंशयनाशनम् ॥ २७॥ चित्तं प्रकाशकं प्रोक्तं प्रकाशो बुद्धिगो मतः । अतः चिन्तामणिः प्रोक्तो बुद्धीशो गणनायकः ॥ २८॥ चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामुने । विक्षिप्तं मुनिभिर्मुख्यैरेकाग्रं च निरोधकम् ॥ २९॥ देहदेहिमयं चित्तमेकाग्रं शास्त्रसम्मतम् । मनः स्वप्नमयं ब्रह्म देहरूपं विचारय ॥ ३०॥ अतो मनोमयं चित्तं मा जानीहि महत्परम् । प्रकाशकारकं चित्तं सर्वशास्त्रेषु सम्मतम् ॥ ३१॥ संयोगाऽयोगगं चित्तं निरोधवाचकं मतम् । नानाब्रह्माणि चैकाग्रनिरोधमयगानि तु ॥ ३२॥ देहदेहिप्रकाशत्वादेकाग्रं चित्तमुच्यते । संयोगायोगकाशत्वान्निरोधं चित्तमञ्जसा ॥ ३३॥ इति सर्वं समाख्यातं भज त्वं गणनायकम् । तेन योगीन्द्रवन्द्यो वै भविष्यसि सुशान्तिगः ॥ ३४॥ जरत्कारुरुवाच । एवमुक्त्वा महायोगी कौण्डिण्यो विरराम ह । जरत्कारुः प्रणम्यैवागमं तं हर्षसंयुतः ॥ ३५॥ साधयित्वा महायोगं गाणपत्योऽभवं सुत । गणनाथं त्वमपि तं भज शान्त्यर्थमादरात् ॥ ३६॥ सूत उवाच । एवमुक्त्वा महायोगी जरत्कारुर्महामुने । विरराम पुनस्तं चास्तीक ऊचे विशेषवित् ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ८.४५ (Page खं. ८ अ. ४६ पान १०७)

८.४६ ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ आस्तीक उवाच । बाल्यात्प्रभृति शैवोऽहं पितस्तं त्यज्य विघ्नपम् । कथं भजामि विप्रेश अतः शैवं वदस्व माम् ॥ १॥ जरत्कारुरुवाच । त्यक्त्वा गणेशं शान्तिस्थो न कोऽपि सुत सम्भवेत् । गणेशानं शम्भुमुखा ध्यात्वा शान्तियुता बभुः ॥ २॥ शिवविष्ण्वादि भावेषु ब्रह्मशब्दः प्रकीर्तितः । एकांशेन गणेशस्य वेदेषु वेदवादिभिः ॥ ३॥ तेषु योगं समाराध्य शान्तिं प्राप्ताः सुयोगिनः । सा शान्तिः स्वल्पभावाख्या न मुख्या योगिनां मते ॥ ४॥ शान्तिभ्यः शान्तिदः प्रोक्तो गणेशो ब्रह्मणस्पतिः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ५॥ गणेशो मायया युक्तः पञ्चधा परिकीर्तितः । पञ्चभेदविहीनः स निर्मायिक उदाहृतः ॥ ६॥ मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् । तयोर्योगे गणेशानः शान्तिरूपो न संशयः ॥ ७॥ अतो गणेशरूपाद्वै शिवो भिन्नः प्रकीर्तितः । त्यजाज्ञानभवं दुःखमभेदं गणपं भज ॥ ८॥ अत्र ते कथयिष्यामि संवादं शङ्करस्य च । उपमन्योर्महाभाग सर्वशान्तिप्रदायकम् ॥ ९॥ महापाशुपतो विप्र उपमन्युर्महायशाः । सहजं शङ्करं ब्रह्म ज्ञात्वा खेदयुतोऽभवत् ॥ १०॥ जगाम शङ्करं विप्रस्तं प्रणम्य पुपूज ह । स्तुत्वा नम्य जगादाथ कृताञ्जलिर्महामुनिः ॥ ११॥ उपमन्युरुवाच । सहजं शाङ्करं ब्रह्म स्वाधीनं दोषसंयुतम् । स्वाधीनं च पराधीनं नैव ब्रह्मणि विद्यते ॥ १२॥ ब्रह्मभूयकरं योगं वद शैव सदाशिव । येनाहं शिवतां प्राप्य शान्तिस्थस्तं भजे सदा ॥ १३॥ इति तस्य वचः श्रुत्वा हर्षयुक्तः सदाशिवः । उवाच तं महाभागं योगं गाणेशसंज्ञकम् ॥ १४॥ शिव उवाच । एकदा काशीसंस्थं मामुवाच मुनिसत्तमः । जैगीषव्यो यथा त्वं वै तथा पाशुपताग्रणीः ॥ १५॥ जैगीषव्य उवाच । शिवः सहजसंज्ञस्थो ब्रह्मणि सहजं कथम् । अतः शैवं परं योगं वद मे शान्तिदायकम् ॥ १६॥ विश्वनाथ उवाच । गणेशं भज भावेन तदा शान्तिमवाप्स्यसि । ढुण्ढयित्वा मया योगात् हृतो ढुण्ढिः हृदि स्थितः ॥ १७॥ मम श्रुत्वा वचो रम्यं दुःखितो मामुवाच ह । जैगीषव्यो वचो विप्र तदहं कथयामि ते ॥ १८॥ जैगीषव्य उवाच । त्यक्त्वा विश्वेश्वरं देवं भजाम्यन्यं न विश्वप । अशान्तिशान्तिदो वाऽपि शिवो मे परमा गतिः ॥ १९॥ विश्वनाथ उवाच । असच्छक्तिश्च सद्भानुः समो हरिरहं शिवः । अव्यक्तश्च चतुर्णां वै योगे स्वानन्द उच्यते ॥ २०॥ स एव गणनाथोऽयं मायया पञ्चधा बभौ । मायाहीनो ह्ययोगाख्यः पञ्चभिर्वर्जितो मतः ॥ २१॥ तयोर्योगे गणाधीशः शान्तिदः पूर्णवाचकः । अतोऽयं ब्रह्मणां नाथो वयं ब्रह्मप्रवाचकाः ॥ २२॥ खेलनाद्गणनाथोऽयमस्मद्रूपधरोऽभवत् । कलया तत्र किं भिन्नं मन्यसे मुनिसत्तम ॥ २३॥ भेदबुद्धिं परित्यज्य भज विघ्नेशमादरात् । न भिन्नः शङ्करस्तस्मात्तद्रूपं तं विभावय ॥ २४॥ (Page खं. ८ अ. ४६ पान १०८) एवमुक्त्वाऽददात्तस्मै मन्त्रमेकाक्षरं ततः । सविधिं गणनाथस्य ततो ध्यानप्रसिद्धये ॥ २५॥ साधयित्वा यथान्यायं योगं गाणेशसंज्ञितम् । ततो यज्ञं समारेभे ब्राह्मणस्पत्यसंज्ञकम् ॥ २६॥ कृत्वा यज्ञं मुदायुक्तो द्विजान्नत्वा विसृज्य सः । संस्थितस्तत्र विघ्नेशः प्रययौ वरदायकः ॥ २७॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज ह । पुनः प्रणम्य तुष्टाव यजुःस्तोत्रेण विघ्नपम् ॥ २८॥ योगशान्तिं प्रदत्वाऽसौ जैगीषव्याय धीमते । आचार्यतां तु योगस्य स्वयमन्तर्दधे विभुः ॥ २९॥ ततो गुरुं शिवं सोऽपि ढुण्ढिराजं तु दैवतम् । गाणपत्यस्वभावेनाभजत्काशीस्थितो मुनिः ॥ ३०॥ अतस्त्वं गणनाथं तं भज शान्तिप्रसिद्धये । शान्तिभ्यः शान्तिदः प्रोक्तः सर्वेषां योगधारकः ॥ ३१॥ जरत्कारुरुवाच । एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे ॥ ३२॥ तं प्रणम्य ययौ सोऽपि मन्त्रध्यानपरोऽभवत् । इष्टिं कृत्वा गणेशस्य शान्तिरूपो बभूव ह ॥ ३३॥ गणराजस्तुतमपि ययौ भक्तं महामुनिम् । दत्वा शान्तिं स्तुतस्तेनांऽतर्दधे ब्रह्मनायकः ॥ ३४॥ अतस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुत । व्यभिचारो न ते भावी शान्तियुक्तो भविष्यसि ॥ ३५॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै स्वमन्त्रं तु षडक्षरम् । विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः ॥ ३६॥ आस्तीकः साधयामास ध्यात्वा हृदि गजाननम् । इष्टिं कृत्वा गणेशस्य शान्तियुक्तो बभूव ह ॥ ३७॥ गाणपत्यप्रियोऽत्यन्तं मातरं स जगाम ह । उपदिश्य गणेशानं शान्तियुक्तां चकार ताम् ॥ ३८॥ अतो गणपतिं नित्यमभजत् प्रीतिसंयुतः । अन्ते गाणेश्वरे धाम्नि ब्रह्मैव स बभूव ह ॥ ३९॥ एतत्ते कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् । माहात्म्यं गाणपत्यानां प्रियं सङ्क्षेपतो मया ॥ ४०॥ यः श‍ृणोति नरो भक्त्या पठते तस्य सिद्धिदम् । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४१॥ ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ८.४६ (Page खं. ८ अ. ४७ पान १०९)

८.४७ त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं दशहरा देवी दशमी चाश्विनेऽभवत् । कथं तत्र शमीपूजां कुर्वन्ति देवतादयः ॥ १॥ सूत उवाच । शङ्खं हत्वा महावीरं विष्णुः परपुरञ्जयः । ददौ वेदान् विधात्रे स साङ्गोपाङ्गसमन्वितान् ॥ २॥ तान् दृष्ट्वा हर्षितो ब्रह्मा सस्मार गणनायकम् । ततो गणेश्वरं वेदा ययुः सृष्टाश्च तेन ये ॥ ३॥ पुरा कपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः । हृतेषु वेदशास्त्रेषु शङ्खेन पापरूपिणा ॥ ४॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव विघ्नपम् । प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने ॥ ५॥ ततस्तं प्रत्युवाचैवाकाशवाणी महाद्भुता । सर्वैर्विधे शमीं पूज्य विघ्नहीनो भविष्यसि ॥ ६॥ या शमी स गणेशानो न भेदस्तत्र वर्तते । अद्यैव तां महाभाग पूजयस्व विधानतः ॥ ७॥ ततो वेदान् समास्पृश्य प्रशस्तान् कुरु मानद । एवमुक्त्वा खवाणीस्थो विरराम गजाननः ॥ ८॥ श्रुत्वाऽतिहर्षितो ब्रह्मा वेदैर्देवैः सहेश्वरैः । मुनिभिस्तां प्रपूज्यैव वेदान् शस्तान्न् चकार ह ॥ ९॥ यस्मिन् काले महाविप्र पूजिता विधिना शमी । आश्विनी दशमी तत्र सायाह्ने सा बभूव ह ॥ १०॥ ततो दशहरा जाता सा शमीसंयुता तिथिः । तदर्थं श‍ृणु भावेन सर्वकार्येषु सिद्धिदाम् ॥ ११॥ दश दिक्षु स्थितान्येव भूतानि भयदानि च । कार्यध्वंसं प्रकुर्वन्ति क्रूराणि प्रबलानि च ॥ १२॥ दशमी हन्ति सा तानि शमी पूजाबलेन वै । अतो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये ॥ १३॥ शमीपूजाविधिं कृत्वा सायाह्ने तानलोकयत् । साङ्गोपाङ्गयुतान् वेदांस्ततः सर्वानुपादिशत् ॥ १४॥ नानाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनम् । शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजन्तुभिः ॥ १५॥ तेन विघ्नविहीनास्ते दशदिक्षु भ्रमन्ति चेत् । सर्वसिद्धियुताः सर्वे भवन्ति नात्र संशयः ॥ १६॥ दशदिक्षु स्थितान् हन्ति विघ्नान् दशहरा मता । अद्य प्रभृति देवेशा मुनयो वार्षिकी भवा ॥ १७॥ पूजयिष्यन्ति देवेशा शमीं कार्यप्रवर्धिनीम् । वार्षिकं दुःखमुत्सृज्य स्थास्यन्ति सुखभोगिनः ॥ १८॥ पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् । पठिष्यन्ति पुराणादींस्तेषां ज्ञानं भविष्यति ॥ १९॥ न यो दशहरायां तु शमीं पूजयते कदा । स नाना विघ्नसंयुक्तो नरकेंऽते प्रगच्छति ॥ २०॥ एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुतः । स्वलोकं शङ्कराद्याश्च जग्मुर्विप्राः सुरा मुने ॥ २१॥ तदादि चाश्विनी शुक्ला दशहरा बभूव ह । दशमी शमीसंयुक्ता सर्वार्थे सिद्धिदायिनी ॥ २२॥ अतोऽवश्यं स्वभावेन पूजयन्ति शमीं नराः । देवा नागास्तथा वेदान् पठन्ते पाठयन्त्यपि ॥ २३॥ इदं सर्वं समाख्यातं चरितं शमीसम्भवम् । यः श‍ृणोति नरः सोऽपि लभते पठतीप्सितम् ॥ २४॥ शौनक उवाच । किमाधारमिदं सर्वं वर्तते सूत तद्वद । कर्माधीनं वदन्त्येव केचिदत्र मुनीश्वराः ॥ २५॥ ईश्वराधीनमेतद्वै केचिच्चेदं यदृच्छया । त्रिविधं तेषु किं सत्यं ज्ञायते न मुनीश्वरैः ॥ २६॥ सूत उवाच । त्रिविधं प्रवदन्त्येव मुनयो ब्रह्मवेदिनः । तत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्तम ॥ २७॥ गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने । तत्र माया समाख्याता सिद्धिरैश्वर्यदायिनी ॥ २८॥ ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते । मायाभोगार्थमत्यन्तमतः श्रमयुतोऽभवत् ॥ २९॥ मायामायिकयोगात् स गणेशो ब्रह्मनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ ३०॥ न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते । अतो यदृच्छया सर्वं वर्तते योगिनां हृदि ॥ ३१॥ अन्यच्च श‍ृणु विप्रेश माया नानाभ्रमात्मिका । सा जडा सर्वभावेन कर्तुं नैव क्षमाऽभवत् ॥ ३२॥ तया सम्मोहितोऽत्यन्तं मायिकस्तां चचाल ह । तदा सत्तायुता माया खेलते विविधे रता ॥ ३३॥ मायिकेन धृता देवी चचाल विविधात्मिका । मायिकेच्छावशेनैव संस्थिता नाऽत्र संशयः ॥ ३४॥ यदा त्यक्ता महामाया मायिकेन महामुने । तदा शक्ता न किञ्चित् सा कर्तुं जडप्रभावतः ॥ ३५॥ ईश्वराधीनभावेन वर्तते सर्वमञ्जसा । वदन्ति मुनयः केचित् ध्यानमार्गपरायणाः ॥ ३६॥ अन्यच्च कथयिष्यामि माया कर्मस्वरूपिणी । नानाभावयुता नित्यं खेलति त्रिविधा परा ॥ ३७॥ कर्माकर्मविकर्माण्यचालयत् सर्वरूपिणी । स्वर्गमुक्तिमहावीचिदायिनी त्रिविधे रता ॥ ३८॥ यादृशं कुरुते कर्म फलं भोक्ष्यति तादृशम् । कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल ॥ ३९॥ शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः । कल्पकोटिशतैर्वाऽपि कृतं कर्म न तं त्यजेत् ॥ ४०॥ एवं वदन्ति विप्रेश ब्राह्मणा देहवादिनः । धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् ॥ ४१॥ अथैकभावनां वक्ष्ये त्रयाणां श‍ृणु शौनक । गणेशमायया भ्रान्ता न जानन्ति कुयोगिनः ॥ ४२॥ मायामायिकरूपेण संस्थितो गणनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ ४३॥ तस्येच्छया महाविप्र ईश्वरश्चैव तिष्ठति । मोहितो गणनाथेन जानाति न गजाननम् ॥ ४४॥ अहं श्रेष्ठः परं ब्रह्म मदाधारमिदं जगत् । मदिच्छया प्रवर्तन्ते जन्तवो नाऽत्र संशयः ॥ ४५॥ यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् । करोतीश्वर आनन्दादतो भेदो न दृश्यते ॥ ४६॥ कर्मरूपा महामाया गणेशेच्छासमन्विता । चलते तं न ज्ञानाति मोहिता भ्रान्तिसंयुता ॥ ४७॥ अहं श्रेष्ठा न सन्देहो मदाधारमिदं जगत् । सकलं कर्मभावेन धारयामि चराचरम् ॥ ४८॥ यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् । कर्म कुर्वन्ति विप्रेश चराचरात्मजीविनः ॥ ४९॥ अतस्त्रिविधकं विप्र एकलक्षाश्रितं मतम् । एवं बाधविहीनं तत्त्रिधा संवर्तते सदा ॥ ५०॥ मायावादिन एवं तत् कर्माधीनं वदन्ति हि । अद्वैतवादिनः सर्वे ईश्वराधीनगं तथा ॥ ५१॥ योगिनः प्रवदन्त्येतद्यदृच्छाधीनगं जगत् । एवं सत्यं प्रमाणेन त्रिविधं मुनिसत्तम ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥ ८.४७ (Page खं. ८ अ. ४८ पान १११)

८.४८ मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसङ्गाच्छृणु मासानां चरितं गणपे रतम् । द्वादशानां सुसङ्क्षेपात् सर्वसिद्धिप्रदायकम् ॥ १॥ श्रावणे पञ्चकं सेव्य गाणेशं वरुणः स्वयम् । दिगीशत्वं समालेभे ज्ञानं गाणेशसम्भवम् ॥ २॥ स्वयं भाद्रपदे वायुस्तथा सेव्य मयूरपम् । योगं लेभे दिगीशत्वं गाणपत्योऽभवत् प्रभुः ॥ ३॥ आश्विने देवगन्धर्वाः सेव्य विघ्नेश्वरं पुरा । स्वस्यैश्वर्यसमायुक्ता बभूवुस्ते महामुने ॥ ४॥ कार्तिके वक्रतुण्डं तु सेव्य विद्याधरास्तथा । स्वस्वव्यापारसंयुक्ता बभूवुर्ज्ञानधारकाः ॥ ५॥ विकटं मार्गशीर्षे चादित्याः संसेव्य सर्वपाः । जातास्तेजस्विनः सर्वे ज्ञानयुक्ता महामुने ॥ ६॥ पौषे लम्बोदरं सेव्य वसवः स्वपदाश्रिताः । बभूवुर्ज्ञानसंयुक्ता नानाभावपरायणाः ॥ ७॥ माघे रुद्रा गणेशानं सेव्य सर्वत्रगा बभुः । गाणपत्या महाभागाश्चरन्ति ह्यकुतोभयाः ॥ ८॥ फाल्गुने निरृतिः सेव्य गणेशं दिक्पतेः पदम् । लेभेऽभिचारभावाख्यं कर्मभोगं महामतिः ॥ ९॥ चैत्र अप्सरसः सर्वाः सेव्य तं धूम्रवर्णकम् । नानालावण्यजं लेभुर्गानादि भगमेव च ॥ १०॥ हेरम्बं सैव्य वैशाखेऽभवन् यक्षजनास्तथा । स्वस्वव्यापारकुशला नानाभोगपरायणाः ॥ ११॥ ज्येष्ठे विनायकं नागाः सेव्य सामर्थ्यसंयुताः । बभूवुः कार्यकर्तारो नानाभोगपरायणाः ॥ १२॥ पक्षिणः पञ्चकं नित्यं सेव्याऽऽषाढे गजाननम् । अभवन् भोगसंयुक्ताः स्वकार्यकुशलाः किल ॥ १३॥ ढुण्ढिराजं तथा ढौण्ढे धातुभिः सेव्य पर्वताः । बभूवू रत्नजातीनां धारका भोगकारिणः ॥ १४॥ वार्षिकं स्वस्वमासं ते समाश्रित्य गजाननम् । अभवन् स्नानकर्तारो गाणेशे पञ्चके रताः ॥ १५॥ एवं नानाजनाः सिद्धिं लेभिरे मासजेन च । व्रतेन कति ते ब्रूयां नालं वर्षायुतैरपि ॥ १६॥ इदं मासभवं सर्वं माहात्म्यं कथितं मया । पठनाच्छ्रवणात् सद्यो भवते सर्वसिद्धिदम् ॥ १७॥ यं यमिच्छति तं तं स लभते नाऽत्र संशयः । अन्ते गाणेश्वरे धाम्नि लीनः सञ्जायते मुने ॥ १८॥ इदं सर्वं समाख्यातं यद्यत् पृष्टं त्वया मुने । श्रोतुमिच्छसि किं भूयो वद तत् कथयाम्यहम् ॥ १९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ८.४८ (Page खं. ८ अ. ४९ पान ११२)

८.४९ गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । प्रकृतं वद सूत त्वं संवादं शङ्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥ १॥ नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥ २॥ सूत उवाच । धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥ ३॥ सनकाद्या ऊचुः । नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥ ४॥ अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥ ५॥ श्रीशिव उवाच । गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः शीघ्रं वै शान्तिदं परम् ॥ ६॥ पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥ ७॥ गङ्गोवाच । वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा । इच्छामि तमहं ज्ञातुं त्वत्तः किं परमं मतम् ॥ ८॥ श्रीशिव उवाच । गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥ ९॥ तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥ १०॥ पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥ ११॥ तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये । तथा गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥ १२॥ तत्तेऽहं श‍ृणु वक्ष्यामि गणेशहृदयं परम् । येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥ १३॥ ॐ अस्य गणेशहृदयस्तोत्रमन्त्रस्य।शम्भुऋषिः । नाना छन्दांसि।गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् । श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थें जपे विनियोगः । ॐ गमित्येकाक्षरात्मकबीजैः करन्यासाः षडङ्गन्यासाश्च । अथ ध्यानम् । सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं पाशं चैवाङ्कुशं वै रदनमभयकं पाणिभिः सन्दधानम् । सिद्ध्या बुद्ध्या प्रशिष्टं गजवदनमहं चिन्तये ह्येकदन्तं नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ १४॥ एवं ध्यात्वा मानसोपचारैः पूजयेत् । किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् । ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकम् । ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १५॥ हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥ १६॥ सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम् । माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ १७॥ एकविंशति नामानि गणेशस्य महात्मनः । अर्थेन संयुतान्येव हृदयं परिकीर्तितम् ॥ १८॥ गङ्गोवाच । एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहृदयं येन जानामि करुणानिधे ॥ १९॥ श्रीशिव उवाच । ग काररूपं विविधं चराचरं ण कारगं ब्रह्म तथा परात्परम् । तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥ २०॥ (Page खं. ८ अ. ४९ पान ११३) मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः । योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥ २१॥ चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् । भोगैर्विहीनं त्वथ भोगकारं चिन्तामणिं तं प्रणमामि नित्यम् ॥ २२॥ विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् । निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥ २३॥ वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर देवमानवाः । नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ २४॥ मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन । तस्मान् मयूरेशमयो वदन्ति नमामि मायापतिमासमन्तात् ॥ २५॥ यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि । अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ २६॥ जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् । तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥ २७॥ दीनार्थवाच्यस्त्वथ हेर्जगद्गो ब्रह्मार्थवाच्यो निगमेषु रम्बः । तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥ २८॥ विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् । तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥ २९॥ माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न । श्रेष्ठं वदन्ते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ ३०॥ नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् । पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥ ३१॥ मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् । अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥ ३२॥ वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च । अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥ ३३॥ मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च । तस्मात् परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥ ३४॥ चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे । तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥ ३५॥ विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः । ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥ ३६॥ असत्यसत् साम्यतुरीयनैज्यगनिवृत्तिरूपाणि विरच्य खेलकः । सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ ३७॥ अमङ्गलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् । ततः परं मङ्गलरूपधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ ३८॥ सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् । पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ ३९॥ भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविघ्नहा च । भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥ ४०॥ नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् । त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ ४१॥ गङ्गोवाच । नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मप्रदं परम् । न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥ ४२॥ शङ्कर उवाच । मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः । भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥ ४३॥ हृदयं मन्त्रराजस्य कथयामि समासतः । मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥ ४४॥ गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः । बिन्दुः शिवस्तथा भानुरनुनासिकसंज्ञितः ॥ ४५॥ तेषां सन्धिर्महाशक्तिरेभिर्मन्त्रः स उच्यते । देवता गणनाथस्तु तेषां संयोगकारकः ॥ ४६॥ तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा । अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥ ४७॥ तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे । अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुकौ ॥ ४८॥ शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहिस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥ ४९॥ ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् । एतादृशं विजानीहि मन्त्रराजं गजाननम् ॥ ५०॥ आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥ ५१॥ तद्दशांशेन होमं वै कुर्यादागममार्गतः । तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥ ५२॥ तद्दशांशमितं देवि मार्जनं तद्दशांशतः । विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्यते ॥ ५३॥ यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् । अतस्त्वं मन्त्रराजस्य पञ्चकं तत् समाचर ॥ ५४॥ एवमुक्त्वाऽददात्तस्यै मन्त्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥ ५५॥ मयूरेशं समासाद्य चकार तपमुत्तमम् । गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥ ५६॥ पुरश्चरणमेकं सा चकार सरितां वरा । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ ५७॥ तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह । तेनैकविंशतिनाम्नामर्थज्ञा तत्क्षणादभूत् ॥ ५८॥ ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥ ५९॥ सनकाद्या ऊचुः । ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥ ६०॥ शिव उवाच । ब्रह्मभूतो नरो योगी गणेशमभजत् सदा । नवधा भक्तिभावेन तत्परश्च महर्षयः ॥ ६१॥ पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् । स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥ ६२॥ सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः । ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति समर्पितं किल ॥ ६३॥ (Page खं. ८ अ. ४९ पान ११५) योगाकारेण विघ्नेश एकानेकादिसंश्रितः । भुङ्क्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥ ६४॥ नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः । स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥ ६५॥ अनेन विधिना विप्रा भजन्ते गणनायकम् । योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥ ६६॥ एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया । हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥ ६७॥ यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥ ६८॥ तथा गणपतेरेतत् हृदयं परिकीर्तितम् । अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥ ६९॥ अनेन गणनाथं तु यस्तोष्यति नरोत्तमः । स भुक्त्वा सकलान् भोगानन्ते योगमयो भवेत् ॥ ७०॥ एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् । प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥ ७१॥ एकाक्षरस्य मन्त्रस्य पञ्चकं सेव्य योगिनः । गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥ ७२॥ ततो नित्यं गणेशस्य हृदयं ते महर्षयः । जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥ ७३॥ अतस्त्वमपि भावेन गणेशहृदयं परम् । सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥ ७४॥ मुद्गल उवाच । एवमुक्त्वा महानागं शेषाय प्रददौ शिवः । मन्त्रमेकाक्षरं साङ्गं स ययौ तं प्रणम्य च ॥ ७५॥ साधयित्वा यथान्यायं हृदयज्ञो बभूव ह । नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥ ७६॥ गणेशहृदयं पुण्यं श‍ृणुयाच्छ्रावयेन्नरः । ईप्सितं प्राप्नुयादन्ते ब्रह्मभूतो भवेदिदम् ॥ ७७॥ नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः । स गणेशो न सन्देहो दर्शनात् सिद्धिदो भवेत् ॥ ७८॥ पुत्रपौत्रकलत्रादि लभते पाठतो नरः । धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥ ७९॥ एकविंशतिवारं यो दिवसानेकविंशतिम् । पठेद्गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥ ८०॥ असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् । राजबन्धात्त्रिकालेषु मोचयेत् पाठतो विधे ॥ ८१॥ मारणोच्चाटनादीनि वश्यमोहादिकानि तु । अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥ ८२॥ सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥ ८३॥ विद्यामायुर्यशः प्रज्ञामङ्गहीनोंऽगमाप्नुयात् । यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥ ८४॥ नानेन सदृशं किञ्चित् शीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥ ८५॥ गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य हृदयं वै कदाचन ॥ ८६॥ गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ ८७॥ महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥ ८८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ८.४९ (Page खं. ८ अ. ५० पान ११६)

८.५० फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगिध्येयं गणेशस्य रूपं सर्वत्र सम्मतम् । ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥ १॥ कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् । वद तत् कारणं विप्र संशयस्यापनुत्तये ॥ २॥ मुद्गल उवाच । अयोगिनो गणेशानं पञ्चभूतमयं प्रभुम् । जानन्ति सर्वतुल्यं तं देहधारिणमञ्जसा ॥ ३॥ न तेषां हृदये दक्ष रूपं योगमयं परम् । शोभते गणराजस्य योगाकारमपि स्फुटम् ॥ ४॥ योगिनस्तं विशेषेण जानन्ति योगरूपिणम् । तत्र भेदं प्रवक्ष्यामि श‍ृणुष्वैकाग्रमानसः ॥ ५॥ समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् । कुम्भस्थले गणेशस्य पश्यन्ति तन्मये च ते ॥ ६॥ त्रिविधं विविधं दक्ष त्रिनेत्रे सङ्गतं महः । पश्यन्ति योगिनस्तस्य गणेशस्य महात्मनः ॥ ७॥ महाकारणरूपा तु शुण्डा तस्य प्रकीर्तिता । बिन्दुः कण्ठस्तथा दन्तः सोऽहं मात्रात्मकः स्मृतः ॥ ८॥ बोधरूपं गणेशस्य जठरं साङ्ख्यवाचकौ । कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥ ९॥ मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् । द्वौ पादौ गणराजस्य पश्यन्ति योगिनः किल ॥ १०॥ संहाराख्यं च यद्ब्रह्म परशुस्तस्य शोभनः । नियन्त्राख्यं तथा दक्ष अङ्कुशश्च महात्मनः ॥ ११॥ कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् । बन्धमोक्षात्मकं हन्त दुष्टनाशकरं मुदा ॥ १२॥ अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् । वरं सकामकानां तु कामदं तं वदन्ति ते ॥ १३॥ चिन्तामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् । अक्षीणतेजसं चन्द्रममृतं ब्रह्म निश्चितम् ॥ १४॥ स्वानन्दाख्यं परं ब्रह्म तदेव नगरं प्रभोः । इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥ १५॥ पञ्चचित्तमयी बुद्धिस्तत्रैश्वर्यभ्रमात्मिका । सिद्धिर्माये वदन्त्येव योगिनो योगभावतः ॥ १६॥ मूषकं व्यापकाख्यं च परं पश्यन्ति वाहनम् । धर्माधर्मौ गणेशस्योरःपृष्ठे पार्श्वगे किल ॥ १७॥ शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः । कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥ १८॥ लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ । यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥ १९॥ इत्यादि विविधं तस्य ब्रह्माकारं न संशयः । सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥ २०॥ योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् । ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥ २१॥ सगुणं कण्ठपर्यन्तं निर्गुणं गजवाचकम् । मस्तकं च तयोर्योगे योगं जानन्ति विघ्नपम् ॥ २२॥ योगिध्येयमतो वेदादिषु सङ्कथितं विधे । रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥ २३॥ दक्ष उवाच । मूषको वाहनं तस्य कथं बभूव विप्रप । तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥ २४॥ मुद्गल उवाच । मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् । भुङ्क्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम् ॥ २५॥ (Page खं. ८ अ. ५० पान ११७) मुषस्तेये समाख्यातो धातुः स एव मूषकः । व्यापकश्चौरवत् सर्वान् भुङ्क्ते मोह्य हृदि स्थितः ॥ २६॥ तपसाऽऽराधितस्तेन व्यापकेन गजाननः । प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थतः ॥ २७॥ एतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकम् । नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकम् ॥ २८॥ य इदं श्रावयेद्दक्ष श‍ृणुयाद्वा पठेन्नरः । स सर्वसुखसंयुक्तोंऽते ब्रह्मणि गतो भवेत् ॥ २९॥ नानेन सदृशं किञ्चित् सर्वसिद्धिकरं परम् । यत्र साक्षाद्गणेशानः कीर्त्यते धूम्रवर्णकः ॥ ३०॥ यं यमिच्छति तं तं स लभेदनेन निश्चितम् । श्रवणेन न सन्देहो मानवः शुभमश्नुते ॥ ३१॥ लेखयित्वा गृहे यस्तु पूजयेत् पुस्तकं नरः । न तत्र राक्षसादिभ्यो भयं भवति कर्हिचित् ॥ ३२॥ भोगान् भुक्त्वा स विविधान् पुत्रपौत्रसुहृद् वृतः । अन्ते स्वानन्दगो भूत्वा गणेशे तन्मयो भवेत् ॥ ३३॥ धमार्थकाममोक्षाणां दायकः श्रवणेन च । पठनेन न सन्देहः खण्डोऽयं धूम्रवर्णकः ॥ ३४॥ तीर्थानि विविधान्येव तपः कुर्यान्नरोत्तमः । विविधं तत् फलं सद्य अस्य श्रवणतो लभेत् ॥ ३५॥ इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् । विविधं स लभेत् पुण्यमस्य श्रवणतो नरः ॥ ३६॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् । किञ्चिन्नानाविधेष्वेव साधनेषु प्रजापते ॥ ३७॥ यत्र योगपतिः साक्षाद्वर्ण्यते धूम्रवर्णकः । तेन किं तुल्यतां यान्ति विचारय महामते ॥ ३८॥ सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकम् । धूम्रवर्णस्य सङ्क्षेपाद्यथामति प्रमाणतः ॥ ३९॥ विस्तरेण शिवाद्याश्च वेदा योगिन एव च । न समर्था भवन्तीह तत्र कोऽहं प्रजापते ॥ ४०॥ अधुना त्वं गणेशानं भज यत्नपरायणः । अथवा श्रोतुमिच्छा ते वदतां कथयाम्यहम् ॥ ४१॥ सूत उवाच । एवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे । दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ ४२॥ धूम्रवर्णचरित्रं तु कथितं ते महामुने । यथा दक्षाय तेनैव कथितं तादृशं परम् ॥ ४३॥ सर्वसिद्धिकरं चित्रं नानाख्यानसमन्वितम् । श्रुतं त्वया महाभाग किं भूयः श्रोतुमिच्छसि ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ८.५० ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे अष्टमः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 8 Dhumravarnacharitam
% File name             : mudgalapurANam8.itx
% itxtitle              : mudgalapurANaM khaNDaH 8 dhUmravarNacharitam
% engtitle              : Mudgala Purana Khanda 8 Dhumravarnacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org