मुद्गलपुराणं खण्डः ८ धूम्रवर्णचरितम्
॥ मुद्गलपुराणं खण्डः ८॥
॥ अथ श्रीमुद्गलपुराणे अष्टमः खण्डः प्रारभ्यते ॥
(Page खं. ८ अ. १ पान १)
८.१ अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
विघ्नराजचरित्रं तु श्रुतं सर्वप्रदं परम् ।
ममनाशकरं पूर्णं त्वत्तोऽस्माभिर्महामते ॥ १॥
धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितम् ।
व्यासाधिकोऽथवा किं नु शिष्यस्तस्य महात्मनः ॥ २॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते तत् कथामृतम् ।
माहात्म्यं धूम्रवर्णस्याधुना वद सुखप्रदम् ॥ ३॥
सूत उवाच ।
शृणु शौनक माहात्म्यं धूम्रवर्णस्य सर्वदम् ।
यथा व्यासाच्छ्रुतं पूर्णं तथा ते कथयाम्यहम् ॥ ४॥
श्रुत्वा विघ्नेशमाहात्म्यं दक्षो हृष्टमना अभूत् ।
प्रणम्य मुद्गलं सोऽपि पप्रच्छ विनयान्वितः ॥ ५॥
दक्ष उवाच ।
विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदम् ।
न तृप्तोऽहं महायोगिन्नमृतादधिकं यतः ॥ ६॥
अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तरात् ।
कीदृशांऽशमयश्चायं गणेशो धूम्रवर्णकः ॥ ७॥
कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते ।
कति तस्यावताराश्च किं कर्मा कीदृशं महः ॥ ८॥
केन संसाधितो देवो देहधारी बभूव ह ।
कं दैत्यं वशमानीय धर्ममास्थापयत् प्रभुः ॥ ९॥
इत्यादि सर्वमाहात्म्यं वद योगीन्द्र सत्तम ।
ब्रह्माण्डे त्वत्समं नास्ति ब्रह्मदायकपात्रकम् ॥ १०॥
सूत उवाच ।
एवं पृष्टो महायोगी मुद्गलः शौनकोऽब्रवीत् ।
दक्षं हृष्टमनाः साक्षात् ज्ञात्वा भक्तियुतं परम् ॥ ११॥
मुद्गल उवाच ।
दक्ष त्वं योगिवन्द्योऽसि निश्चितं सर्वभावतः ।
नान्यथा गणनाथस्य कथायां जायते रसः ॥ १२॥
धूम्रवर्णावतारस्य चरितं सर्वसिद्धिदम् ।
कथयिष्यामि भक्त्या ते समासेन प्रजापते ॥ १३॥
विस्तरेण शिवाद्याश्च वेदाद्या न बभूविरे ।
समर्थास्तत्र कोऽहं तु स्वल्पज्ञानप्रधारकः ॥ १४॥
अत्र ते कथयिष्यामि चेतिहासं पुरा भवम् ।
शेषस्य शङ्करस्यैव संवादेन समन्वितम् ॥ १५॥
प्रणम्य शेषनागश्च एकदा शङ्करं पुरा ।
पप्रच्छ सिद्धिदं पूर्णं सर्वज्ञं करुणानिधिम् ॥ १६॥
त्वत्तः परतरं नास्ति वेदश्रुतिप्रमाणतः ।
त्वं ध्यानसंयुतः स्वामिन् भजसे कं शिवं परम् ॥ १७॥
अतः संशययुक्तोऽहं पृच्छामि सर्वभावतः ।
किं मोहार्थं महेशान करोषि चेष्टितं नवम् ॥ १८॥
मुद्गल उवाच ।
एवं पृष्टः शिवः साक्षात्तमुवाच सुहर्षितः ।
भक्तं योगप्रियं दृष्ट्वा साधु चेष्टासमन्वितम् ॥ १९॥
शिव उवाच ।
एवं पृष्टोऽहमेकान्ते सनकाद्यैर्महाप्रियैः ।
तत्तेऽहं शृणु वक्ष्यामि ज्ञानं गाणेशबोधकम् ॥ २०॥
एकदा सनकाद्याश्च दृष्ट्वा मां नियमे रतम् ।
पप्रच्छुस्त्वं यथा शेष तथा संशयसंयुताः ॥ २१॥
सनकाद्या ऊचुः ।
महेश्वरो भवान् साक्षात्तवेशो नैव विद्यते ।
कं ध्यायसि महादेव मिथ्या मोहप्रदायक ॥ २२॥
तेषां तद्वचनं श्रुत्वा हर्षितोऽहं च काश्यप ।
ऊचे योगं गणेशाख्यं पूर्णशान्तिप्रदायकम् ॥ २३॥
ईशत्वमनीशत्वं च मायायुक्तं न संशयः ।
ब्रह्मणि ब्रह्मभूतस्य कथं तद्वर्तते द्विजाः ॥ २४॥
(Page खं. ८ अ. १ पान २)
येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् ।
जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥ २५॥
अहङ्कारयुताः सर्वे न जानन्ति गजाननम् ।
तं जित्वाऽहं मुनीन्द्राश्च सेवे तस्य पदद्वयम् ॥ २६॥
शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् ।
विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥ २७॥
सनकाद्या ऊचुः ।
अभिमानं महादेव जेतुं नैव प्रशक्यते ।
वेदादिभिः च देवेशैरस्माभिश्चान्ययोगिभिः ॥ २८॥
नरोऽहं देवरूपोऽहं आत्माहं स्वस्वरूपकः ।
ब्रह्माहं च महेशान अहं तेषु प्रतिष्ठितः ॥ २९॥
अहं केनैव योगेन सदाशिव जितस्त्वया ।
वद तस्य चरित्रं नो विस्तरेण सुशान्तिदम् ॥ ३०॥
श्रीशिव उवाच ।
अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह ।
महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥ ३१॥
अहं नास्ति तथा ब्रह्म नेति ब्रह्माहमञ्जसा ।
बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥ ३२॥
ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् ।
न बुद्धं वचनं नाथ त्वदीयं दुर्गमं परम् ॥ ३३॥
अतः सुलभयोगेन वद योगं महेश्वर ।
दयया शिष्यमुख्यांश्च तारणाय सुशान्तिदम् ॥ ३४॥
श्रीशिव उवाच ।
अत्र वः कथयिष्यामि चेतिहासं पुरातनम् ।
अहम्भावविनाशार्थमहङ्कारस्य सौख्यदम् ॥ ३५॥
एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् ।
ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥ ३६॥
स प्राप्य राज्यमुग्रं तत् कर्मणां ज्योतिषां पतिः ।
अभिमानयुतोऽत्यन्तं बभूवे देवदेवपः ॥ ३७॥
कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः ।
पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥ ३८॥
कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च ।
कर्माधीनं जगत् सर्वं सेश्वरं नात्र संशयः ॥ ३९॥
सोऽहं कर्ममयो देवः कर्मणां चालकः परः ।
मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥ ४०॥
अहङ्कारेण संयुक्तश्छिक्कां चक्रे कदा प्रभुः ।
तस्य च्छिक्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥ ४१॥
स पपात महीपृष्ठे न ज्ञातस्तेन भानुना ।
महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥ ४२॥
तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः ।
पप्रच्छ हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥ ४३॥
शुक्र उवाच ।
कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद ।
माता पिता च ते त्राता कः किं मत्त इहेच्छसि ॥ ४४॥
पुरुष उवाच ।
सूर्यपुत्रो द्विजश्रेष्ठ तस्य च्छिक्कासमुद्भवः ।
अनाथोऽहं महाभाग पतितो धरणीतले ॥ ४५॥
त्वं दयायुक्तभावेन मां पृच्छसि न संशयः ।
त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम ॥ ४६॥
श्रीशिव उवाच ।
तस्य तद्वचनं श्रुत्वा शुक्रो योगविदांवरः ।
ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥ ४७॥
शुक्र उवाच ।
अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः ।
अहन्नामा भवस्वाद्य तपः कुरु महामते ॥ ४८॥
एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् ।
(Page खं. ८ अ. २ पान ३)
मन्त्रं विधिसमायुक्तं ततः सोंऽतर्हितोऽभवत् ॥ ४९॥
अहं तत्र तपस्तेपे ध्यात्वा गणपतिं हृदि ।
निराहारपरो भूत्वा जपमन्त्रपरायणः ॥ ५०॥
शीतोष्णवातवर्षादिसहने दृढनिश्चयः ।
जित्वा खानि प्रयत्नेन तोषयामास विघ्नपम् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ ८.१
८.२ अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
एवं वर्षसहस्रेण तं दिव्येन गजाननः ।
ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥ १॥
आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः ।
चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिबुद्धियुक् ॥ २॥
एकदन्तः शूर्पकर्णो देवैर्मुनिसमन्वितैः ।
संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥ ३॥
तं दृष्ट्वाऽहं समुत्थाय प्रणनाम कृताञ्जलिः ।
पूजयामास विघ्नेशं सिद्धिबुद्धिसमन्वितम् ॥ ४॥
ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् ।
प्रणनाम प्रतुष्टाव गणेशं प्रकृताञ्जलिः ॥ ५॥
अहमुवाच ।
नमस्ते गणनाथाय हेरम्बाय परात्मने ।
सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ ६॥
ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे ।
साङ्ख्याय ते परत उत्थानस्थेषु नमो नमः ॥ ७॥
ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः ।
देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः ॥ ८॥
स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते ।
संहर्तृषु शिवायैवैकदन्ताय नमो नमः ॥ ९॥
प्रकाशकेषु सूर्याय मोहकेषु च शक्तये ।
देवेषु देवराजाय विनायकाय ते नमः ॥ १०॥
अग्नये ते दाहकेषु यमाय नीतिधारिणाम् ।
रक्षःसु नैरृतायैव शूर्पकर्णाय ते नमः ॥ ११॥
वायवे बलयुक्तेषु निधिषु धनपाय ते ।
रुद्रेषु कालरूपाय नमो लम्बोदराय वै ॥ १२॥
प्रजापतिषु दक्षाय नागेशे शेषरूपिणे ।
अनन्तविभवायैव किं ते स्तौमि नमो नमः ॥ १३॥
यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः ।
तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥ १४॥
धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता ।
माता कुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ १५॥
एवमुक्त्वा गणेशानं प्रणनाम महासुरः ।
हर्षेण महता युक्तस्तमुवाच गजाननः ॥ १६॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव मयि भावप्रदायकम् ॥ १७॥
(Page खं. ८ अ. २ पान ४)
पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः ।
अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥ १८॥
वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् ।
तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥ १९॥
अहमुवाच ।
प्रसन्नोऽसि यदा नाथ भक्तिं देहि त्वदीयिकाम् ।
यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥ २०॥
मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् ।
राज्यं ब्रह्माण्डगोलस्य देहि मे भोगसंयुतम् ॥ २१॥
आरोग्यं विजयं ढुण्ढे सङ्ग्रामे ह्यतुलं तथा ।
अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि भोः ॥ २२॥
तथेति तमहं देवो जगाद गणनायकः ।
अन्तर्धाय स्वमात्मानं निजलोकं जगाम ह ॥ २३॥
ततोऽतिहर्षसंयुक्तोऽहं जगाम कविं पुनः ।
तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् ॥ २४॥
श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् ।
असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥ २५॥
तस्याज्ञया त्वरावन्तो मुनिं सर्वे समागताः ।
असुरांस्तान् महातेजा हितं काव्यो जगाद वै ॥ २६॥
अहमासुरवृत्तान्तं श्रुत्वा ते शुक्रवक्त्रतः ।
हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥ २७॥
असुरा ऊचुः ।
आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो ।
करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥ २८॥
तेषां वचनमाकर्ण्य काव्यः सर्वार्थकोविदः ।
ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥ २९॥
तैरहं सिञ्चयामासासुराणां राज्यकर्मणि ।
यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥ ३०॥
प्रधानास्तस्य पञ्चाऽसन् सुदृढास्तेजसा युताः ।
शङ्खो वेदघ्नकः कालः पैशुनोऽधर्मधारकः ॥ ३१॥
नगरं निर्ममे सोऽपि विषयप्रियनामकम् ।
अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥ ३२॥
समायाता निवासार्थं जना वर्णाश्रमान्विताः ।
असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥ ३३॥
प्रमादासुरपुत्रीं वै ममतां रूपशालिनीम् ।
तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥ ३४॥
ममतासंयुतो रेमे दैत्येन्द्रोहं प्रहर्षितः ।
मोहितो मायया तस्या ममताया वशे स्थितः ॥ ३५॥
तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः ।
गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥ ३६॥
एवं बहौ गते काले तमुवाच प्रमादकः ।
किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥ ३७॥
वरदानबलेन त्वं निर्भयोऽसि न संशयः ।
वराणां सफलं सर्वं कुरु भोगपरं महः ॥ ३८॥
तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् ।
समानाय्य कविं तत्र पूजयामास दैत्यपैः ॥ ३९॥
तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् ।
तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः ॥ ४०॥
दिग्जयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः ।
सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ८.२
(Page खं. ८ अ. ३ पान ५)
८.३ अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
रथारूढः स्वयं तत्राहं निर्जगाम दैत्यपैः ।
पुत्रौ तथा प्रधानाश्च सन्नद्धा असुरा ययुः ॥ १॥
नाना वर्णा महाक्रूराः कालस्य भयदायकाः ।
नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥ २॥
चतुरङ्गचमूमध्ये शुशुभे दैत्यनायकः ।
अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥ ३॥
शङ्खादयो महावीरा नृपान् जग्मुः सुदारुणाः ।
जित्वा राजकुलं सर्वं समाजग्मुर्महासुरम् ॥ ४॥
नृपास्तैः किं द्विजा युद्धं करिष्यन्ति महाबलैः ।
मृताः केचित् क्षताः केचित् केचित्तान् शरणं ययुः ॥ ५॥
करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् ।
स्थापयामासुरव्यग्रान् दैत्येन्द्रा हर्षसंयुताः ॥ ६॥
सप्तद्वीपवतीं जित्वा पृथ्वीं पातालमाययुः ।
दैत्येन्द्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥ ७॥
शेषो नागयुतस्तेषां शरणं समुपागतः ।
ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥ ८॥
वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ ।
नागेन्द्रैः संवृतः शेषो दुःखयुक्तेन चेतसा ॥ ९॥
तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् ।
समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥ १०॥
ततो दैत्येन्द्रसंयुक्तः काव्येनाऽहम्प्रतापवान् ।
स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥ ११॥
दूतं सम्प्रेषयामासाहमिन्द्रस्यैव सन्निधौ ।
स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥ १२॥
ततः क्रोधसमायुक्त इन्द्रो देवेन्द्रमुख्यकैः ।
विचार्याङ्गिरसं सर्वैर्जगाम प्रणनाम तम् ॥ १३॥
तेनापि सत्कृतः सोऽपि जगाद वचनं परम् ।
सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥ १४॥
इन्द्र उवाच ।
अहं वरसमायुक्तः समायातो महाबलः ।
दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥ १५॥
अतः सुरैः समायुक्तो भवन्तं सर्ववेदिनम् ।
समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥ १६॥
गुरुरुवाच ।
गणेशवरदानेन मत्तोऽसौ नात्र संशयः ।
जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥ १७॥
अतो वयं विधातारं व्रजामहे त्वरान्विताः ।
स श्रेष्ठः सर्वभावेन करिष्यति हितं च नः ॥ १८॥
ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः ।
प्रणम्य तं जगुः सर्वे वृत्तान्तं दैत्यसम्भवम् ॥ १९॥
श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शङ्करं ययौ ।
तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥ २०॥
जगाम सोऽपि निःश्वस्य तैः सार्धं विष्णुमादरात् ।
प्रणम्य कथयामास वृत्तान्तं दुःखदायकम् ॥ २१॥
श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य महेश्वरम् ।
सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥ २२॥
श्रीविष्णुरुवाच ।
हनिष्यामि महादैत्यमहं चासुरसंयुतम् ।
मायायुक्तत्वमेवं यन् मम तन्न प्रबाधते ॥ २३॥
एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् ।
देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम् ॥ २४॥
अहङ्कारासुरस्तत्र ज्ञात्वा वृत्तान्तमादरात् ।
प्रविवेशामरावत्यां दैत्येन्द्रैर्हर्षसंयुतः ॥ २५॥
इन्द्रासनसमारूढः सेव्यमानोऽप्सरोगणैः ।
(Page खं. ८ अ. ३ पान ६)
गन्धर्वैर्गीयमानः स शुशुभे परमश्रिया ॥ २६॥
ततो देवपदेषु संस्थापयामास चासुरान् ।
स्वर्गभोगं चकारैवं दैत्येन्द्रैः श्वशुरेण च ॥ २७॥
ततः स दैत्यसङ्घैस्तैः सन्नद्धः प्रययौ द्विजाः ।
ब्रह्मलोकं महोग्रस्तं विधिहीनं ददर्श ह ॥ २८॥
विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः ।
ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥ २९॥
ततः स दैत्यपैः सर्वं ज्ञात्वा वृत्तान्तमञ्जसा ।
कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥ ३०॥
तत्र विलाससंयुक्तो बुभुजे विविधान् परान् ।
विकुण्ठ विजयार्थं स प्रययौ दैत्यपैर्वृतः ॥ ३१॥
दूतं सम्प्रेषयामास कालं सर्वभयङ्करम् ।
स गत्वा केशवं नत्वा जगौ वै वाक्यमुल्बणम् ॥ ३२॥
काल उवाच ।
अहं त्वसुरसंयुक्त आययौ स महाबलः ।
तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥ ३३॥
त्यक्त्वा विकुण्ठं देवेशैर्गच्छ त्वं यत्र ते रुचिः ।
नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥ ३४॥
कालस्य वचनं श्रुत्वा केशवः क्रोधसंयुतः ।
जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥ ३५॥
श्रीविष्णुरुवाच ।
किं मां पापस्वरूपस्त्वं वदसि मन्दविक्रम ।
हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥ ३६॥
गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम ।
स्वपदं त्यज्य दैत्येशाधीनोऽहं किं भवामि तु ॥ ३७॥
ततोऽहङ्कारकं गत्वा कालासुरः प्रतापवान् ।
वृत्तान्तं कथयामास दैत्येन्द्रैः संयुतं परम् ॥ ३८॥
श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे ।
अहङ्कारासुरेणैव युक्ता युद्धोद्यता बभुः ॥ ३९॥
तान्निवार्य महाबाहुरहं क्रोधसमन्वितः ।
जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावहम् ॥ ४०॥
अहमुवाच ।
किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः ।
अमोघास्त्र वरैर्युक्तः करिष्याम्यधुना सुखम् ॥ ४१॥
एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः ।
मुमोचाग्निमयं चास्त्रं सम्मन्त्र्य क्रोधसंयुतः ॥ ४२॥
सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् ।
विकुण्ठं दाहयामास देवान् सर्वान् समन्ततः ॥ ४३॥
ततः क्षोभयुता देवास्तत्त्यजुर्वरुणास्त्रकम् ।
तेनैव तन्न शान्तं तु बभूवे तेजसान्वितम् ॥ ४४॥
ततः खेदयुताः सर्वे पपलुर्भयसंयुताः ।
पीडिता अग्निनाऽत्यन्तं त्यक्त्वा वैकुण्ठमेव च ॥ ४५॥
वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि ।
चन्द्रेण संयुतः सोऽपि जलं सृष्ट्वा व्यवस्थितः ॥ ४६॥
जलेन न च शान्तोऽभूदग्निः परमदारुणः ।
दाहयुक्तः पपालाऽसौ वरुणश्चन्द्रसंयुतः ॥ ४७॥
ततः शक्तिः समायाता महास्त्रं वरुणात्मकम् ।
मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥ ४८॥
घृतेन संयुतस्तत्र यथाग्निर्जलसंयुतः ।
जज्वाल मायया तस्याऽहङ्कारस्य विशेषतः ॥ ४९॥
ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् ।
क्रुद्धो भानुः स्वयं तत्राऽजगाम क्रोधसंयुतः ॥ ५०॥
सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे ।
पूर्ववद्दाहसंयुक्तः पपाल च दिवाकरः ॥ ५१॥
(Page खं. ८ अ. ३ पान ७)
ततः शिवः स्वयं तद्वद्ययौ क्रोधसमन्वितः ।
हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥ ५२॥
ततोऽतिखेदसंयुक्तो विष्णुः स्वयमुपागतः ।
तत्याज वारुणं शस्त्रं स्वसत्तासंयुतं परम् ॥ ५३॥
तथापि न स शान्तोऽभूदग्निः परमदारुणः ।
जज्वालातीव सर्वत्र दाहयामास देवपान् ॥ ५४॥
ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः ।
विष्णुना संयुताः सर्वे देवेशाः पपलुर्भयात् ॥ ५५॥
गत्वा गिरिगुहासंस्था बभूवुर्भयसङ्कुलाः ।
कन्दादिभक्षयन्तस्ते दिवसानतिचक्रमुः ॥ ५६॥
ज्ञात्वा वृत्तान्तमेवाहं समाहृत्य स्वशस्त्रकम् ।
आग्नेयमगमद्दैत्यैर्विकुण्ठं हर्षसंयुतः ॥ ५७॥
तत्र स्थित्वाभिमानी स परां मेने कृतार्थताम् ।
न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥ ५८॥
ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः ।
श्रेष्ठं विकुण्ठनाथं च स चक्रे पुत्रमुत्तमम् ॥ ५९॥
पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् ।
प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥ ६०॥
शङ्खमिन्द्रपदस्यैव नाथं चक्रे महासुरः ।
कालं यमस्य लोकस्य कमलं वरुणस्य च ॥ ६१॥
कुबेरस्य पदे स्थाप्याऽधर्मधारकमादरात् ।
ततः स्वनगरं सर्वैः समाययौ महाबलः ॥ ६२॥
तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् ।
अहं मेने न किञ्चिद्वै समं भाग्येन तेजसा ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः ॥ ८.३
८.४ देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
दैत्योऽहङ्कारकोऽत्यन्तं परस्त्रीलालसस्ततः ।
बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥ १॥
देवकन्या नराणां च स्त्रियः कन्या विशेषतः ।
समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥ २॥
मद्यमांसपरोऽत्यन्तं बभूव द्विजसत्तमाः ।
गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥ ३॥
एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः ।
दैत्येन्द्रैः प्रेरितः सर्वैः कृत्वा करपुटं वचः ॥ ४॥
अधर्मधारक उवाच ।
जितं त्वया महाभाग ब्रह्माण्डं लोकसङ्कुलम् ।
जगदीशस्त्वमेवैको नान्यः कश्चन विद्यते ॥ ५॥
देवा विष्णुमुखाः सर्वे भवन्ति वनसंस्थिताः ।
प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥ ६॥
शस्त्रादिभिश्च देवेन्द्रा मरिष्यन्ति कदापि न ।
अमरा वेदवादेषु कथिता पश्य मानद ॥ ७॥
कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप ।
मरिष्यन्ति न सन्देहः कर्मणः खण्डनं कुरु ॥ ८॥
(Page खं. ८ अ. ४ पान ८)
जित्वा त्रिलोकराज्यं च कर्तारो बहवोऽभवन् ।
असुराः कालयोगेन देवेन्द्रैर्निहताः पुरा ॥ ९॥
अतश्छिद्रं समालोक्य त्वां हनिष्यन्ति देवपाः ।
अहं तेषां विनाशार्थं यतस्वासुरनायकैः ॥ १०॥
अधर्मधारकस्यैव वचः श्रुत्वा महासुराः ।
साधु साधु ब्रुवन्ति स्म शङ्खाद्यास्तत्र संसदि ॥ ११॥
ततोऽहङ्कारको हृष्टो जगाद वचनं हितम् ।
साधु प्रोक्तं त्वया दैत्य कुरु सर्वैः समन्वितः ॥ १२॥
हृष्टो दैत्यसमूहैः स युक्तो जगाम हर्षितः ।
अधर्मधारको भूम्यां चकार कर्मखण्डनम् ॥ १३॥
कर्मखण्डनभावेन हाहाकाररवाकुलाः ।
जना वर्णाश्रमैर्हीनाः कृतास्तेन दुरात्मना ॥ १४॥
देवतायतनादीनि खण्डयामास सर्वतः ।
क्षेत्राणि च गणेशस्य मूर्तीः सर्वास्तथा द्विजाः ॥ १५॥
सर्वत्राऽहम्प्रतिमाश्च स्थापिता भूमिमण्डले ।
पूजका राक्षसास्तत्र कृतास्तेन सुपापिना ॥ १६॥
गृहे गृहेऽभिमानस्य प्रतिमा मानवैः किल ।
पूज्याः कृता द्विजास्तेनाऽऽसुरं कर्म प्रवर्तितम् ॥ १७॥
कृत्वाऽधर्मधरः कार्यं प्रययौ तं सुहर्षितः ।
तेनातिपूजितः सोऽपि परां मेने कृतार्थताम् ॥ १८॥
एवं कर्मणि नष्टे तु वर्णसङ्कररूपिणः ।
जना जातास्ततो देवा दुःखयुक्ता बभूविरे ॥ १९॥
मुनिभिः सहिताः सर्वे देवाश्चोपोषणान्विताः ।
विचारं चक्रुरे तस्य नाशार्थं दैत्यपस्य ते ॥ २०॥
ततो ब्रह्मा महेशाद्यानुवाच खेदसंयुतः ।
मायायुक्ता वयं सर्वे जितास्तेन दुरात्मना ॥ २१॥
माया नानाविधा विप्र वेदेष्वत्र न संशयः ।
तया हीनो गणेशानो नान्यः कश्चन विद्यते ॥ २२॥
पञ्चचित्तमयी बुद्धिः पञ्चभ्रान्तिकरी तथा ।
सिद्धिस्तयोः पतिः सोऽपि मायिको गणनायकः ॥ २३॥
सिद्धिर्बुद्धिः परा माया न तयोर्विद्यते परा ।
अतो विघ्नेश्वरो दैत्यं हनिष्यति न संशयः ॥ २४॥
गणेशवरदानेन मत्तोऽसौ दैत्यनायकः ।
विस्मृतो गणनाथं तं मन्त्रं त्यक्त्वा स्थितोऽभवत् ॥ २५॥
गणेशक्षेत्रकाण्येव खण्डयामास दुर्मतिः ।
गणेशपूजनं सर्वं कर्मस्वादौ विशेषतः ॥ २६॥
अतो विघ्नसमायुक्तं जातं तं देवसत्तमाः ।
अस्माभिः पूजितो ढुण्ढिर्हनिष्यति महासुरम् ॥ २७॥
अधुनैकाक्षरं मन्त्रं जप्त्वा ध्यात्वा गजाननम् ।
पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः ॥ २८॥
श्रीशिव उवाच ।
ब्रह्मणो वचनं श्रुत्वा देवा मुनिसमन्विताः ।
साधु साधु ब्रुवन्ति स्म तथा चक्रुः सहेश्वराः ॥ २९॥
निराहारसमायुक्ता एकाक्षरविधानतः ।
तोषयामासुरत्यन्तं भक्तियुक्ता गणेश्वरम् ॥ ३०॥
एवं वर्षशते पूर्णे प्रसन्नो गणनायकः ।
ययौ तान् देवमुख्यांश्च वरदो मुनिसत्तमान् ॥ ३१॥
मूषकोपरि संस्थं ते ददृशुर्द्विरदाननम् ।
प्रणेमुर्हर्षसंयुक्ताः पूजयामासुरादरात् ॥ ३२॥
पुनः प्रणम्य विघ्नेशं देवा मुनिसमन्विताः ।
तुष्टुवुर्गणनाथं ते धूम्रवर्णं प्रहर्षिताः ॥ ३३॥
देवर्षय ऊचुः ।
धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे ।
गणेशाय परेशाय परात्पराय ते नमः ॥ ३४॥
(Page खं. ८ अ. ४ पान ९)
लम्बोदराय विघ्नानां पतये ते नमो नमः ॥ ३४॥
विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ ३५॥
अनादये विशेषेण ज्येष्ठाय सर्वपूजित ।
मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ ३६॥
नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने ।
ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ ३७॥
महोरूपाय देवाय देवदेवेशरूपिणे ।
देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ ३८॥
आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ ३९॥
शूर्पकर्णाय शूराय वीराय परमात्मने ।
चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ ४०॥
कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे ।
स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ ४१॥
यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः ।
गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ ४२॥
वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि ।
धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ ४३॥
धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् ।
अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ ४४॥
एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः ।
उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ ४५॥
धूम्रवर्ण उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागाः पठेत शृण्वते परम् ॥ ४६॥
पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा ।
यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ ४७॥
वरान् वृणुत देवेशा मुनयो मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ ४८॥
गणेशवचनं श्रुत्वा देवर्षयः प्रणम्य तम् ।
जगुः प्ररुष्टभावेन देवदेवेशमादरात् ॥ ४९॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदाहङ्कारकं दैत्यं जहि सर्वज्ञ ते नमः ॥ ५०॥
सर्वेभ्यो दुःखदाता स कर्मखण्डनकारकः ।
स मृतश्चेद्गणाधीश भविष्यति तदा सुखम् ॥ ५१॥
मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः ।
मरिष्यति न सन्देहस्तस्मात्तं जहि मानद ॥ ५२॥
अस्मै त्वयाऽभयं दत्तं तेन सर्वे पराजिताः ।
वयं ते शरणं प्राप्ता रक्ष रक्ष महाप्रभो ॥ ५३॥
तव पादे दृढां भक्तिं देहि नोऽव्यभिचारिणीम् ।
तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् ॥ ५४॥
एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
तथेति तानथोक्त्वाऽसावन्तर्धानं चकार ह ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः ॥ ८.४
(Page खं. ८ अ. ५ पान १०)
८.५ अहङ्कारपराजयो नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
ततो देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः ।
हर्षयुक्ता विशेषेण मेनिरे चासुरं हतम् ॥ १॥
कालभावं प्रतीक्षन्तः स्थितास्तत्त्रैव विघ्नपम् ।
अभजंस्ते मुदा युक्ता गाणपत्यप्रियात्मकाः ॥ २॥
धूम्रवर्णः स्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः ।
जगाम दैत्यनाथस्य भयदः सर्वभावतः ॥ ३॥
स शोकसंयुतः प्राप्तः समुत्थाय महासुरान् ।
समानाय्य स्वयं स्वप्नं कथयामास विस्तरात् ॥ ४॥
अहमुवाच ।
शङ्खमुख्याः शृणुत यत् स्वप्ने दृष्टं भयङ्करम् ।
धूम्रवर्णो गणेशानः क्रोधयुक्तो बभूव ह ॥ ५॥
तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे ।
दाहयामास शस्त्राण्यस्त्राणि कुण्ठानि चाऽभवन् ॥ ६॥
पराक्रमविहीनोऽहं कृतस्तेन महात्मना ।
देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह ॥ ७॥
अतः स्वल्पेन कालेन भविष्यत्यशुभं ध्रुवम् ।
तदर्थं यत्नसंयुक्ता भवध्वं दैत्यनायकाः ॥ ८॥
अभिमानवचः श्रुत्वा तं पुनर्दैत्यनायकाः ।
जगुः खेदसमायुक्ता वचनं हितकारकम् ॥ ९॥
दैत्येन्द्रा ऊचुः ।
मा कुरुष्व वृथा चिन्तामशुभं ते कथं भवेत् ।
वरदानप्रभावेण निर्भयोऽस्यसुरेश्वर ॥ १०॥
स्वप्नः सदा जनानां तु भवत्यत्र न संशयः ।
जागृतौ नश्वरः सोऽपि तत्र किं दुःखदं भवेत् ॥ ११॥
स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव वा ।
जागर्ति चेत् स्वयं जन्तुर्न किञ्चित् पश्यतीत्यहो ॥ १२॥
एवं हास्यादिकं कृत्वा समाश्वास्यासुरोत्तमम् ।
असुराः स्वगृहं गत्वा शौचादिकं प्रचक्रिरे ॥ १३॥
अथ शृणुत विप्रेन्द्राश्चरितं विघ्नपस्य च ।
अकस्मात् धूम्रवर्णः स ययौ तत्र महाबलः ॥ १४॥
पञ्चयोजनदूरे स नगराद्दैत्यपस्य च ।
संस्थितस्तत्र विप्रेन्द्रो नारदः सहसाऽऽगतः ॥ १५॥
दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः ।
गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः ॥ १६॥
तमुवाच गणाधीशो गच्छ त्वं दैत्यमन्दिरम् ।
अहङ्कारं वदस्वर्षे वाक्यं सामकरं महत् ॥ १७॥
देवाः स्वस्थानगाः सन्तु जनाः स्वाचारसंयुताः ।
नागाः स्वराज्यकर्तारो भवन्तु मत्प्रसादतः ॥ १८॥
राज्यं कुरु महादैत्यैर्नगरस्थो महासुर ।
नोचेद्युद्धेन जेष्यामि करिष्यामि जगद्धितम् ॥ १९॥
तथेति गणनाथं स जगाद नारदो मुनिः ।
अहङ्कारासुरं गत्वा कथयामास तद्वचः ॥ २०॥
स श्रुत्वा क्रोधसंयुक्तो बभूवे तं जगाद ह ।
गच्छ विघ्नेश्वरं विप्र वद मे वचनं महत् ॥ २१॥
सदेवं धूम्रवर्णं च हनिष्यामि न संशयः ।
तदाज्ञावशगो नाहं भविष्यामि कदाचन ॥ २२॥
एवमूचे ततो विप्रं नारदं दैत्यनायकः ।
नारदो गणनाथं च ययौ जगाद तद्वचः ॥ २३॥
नारदस्य वचः श्रुत्वा क्रोधयुक्तो गजाननः ।
अहं हन्तुं मनश्चक्रे शस्त्रं दधार विघ्नपः ॥ २४॥
(Page खं. ८ अ. ५ पान ११)
अथ नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् ।
जगाद सकलं तेभ्यो वृत्तान्तं हर्षसंयुतः ॥ २५॥
देवास्तं नम्य सर्वे ते धूम्रवर्णं समाययुः ।
मुनिभिः शस्त्रसंयुक्ताः स्तुत्वा तं ते जगुर्वचः ॥ २६॥
आज्ञां कुरु महाभाग धूम्रवर्ण नमोऽस्तु ते ।
दैत्यैर्योद्धुं च देवेशांस्त्वद्दासांस्ते वशे स्थितान् ॥ २७॥
तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान् ।
उवाच तान् स्वभक्तांश्च भक्तेशो भक्तवत्सलः ॥ २८॥
धूम्रवर्ण उवाच ।
तिष्ठध्वं देवदेवेशाः पश्यध्वं कौतुकं महत् ।
हनिष्यामि महादैत्यं मच्छानसपराङ्मुखम् ॥ २९॥
एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणम् ।
स्वशस्त्रं तत् समागत्यानन्तरूपं बभूव ह ॥ ३०॥
यत्र तत्रासुरान् धृत्वा क्षणात् कण्ठे पपात तत् ।
मृता दैत्याः पुरप्रान्तसंस्थाः पाशबलार्दिताः ॥ ३१॥
हाहाकारश्च सर्वत्र बभूव नगरे तदा ।
दैत्या गत्वा महादैत्यं कथयामासुरुल्बणम् ॥ ३२॥
किं स्थितोऽसि महाराज मृता दैत्याः समन्ततः ।
पाशैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद ॥ ३३॥
तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः ।
जगाद सचिवादींश्च वचनं भयसङ्कुलः ॥ ३४॥
अहमुवाच ।
अहो कालमुखा दैत्याः स्वप्नं सत्यं बभूव ह ।
किं भविष्यति दैत्येशा विपरीतं तु दृश्यते ॥ ३५॥
इति तस्य वचः श्रुत्वा पुत्रौ तातं महात्मनः ।
ऊचतुस्तं भयोद्विग्नं गर्वश्रेष्ठौ महासुरौ ॥ ३६॥
गर्वश्रेष्ठावूचतुः ।
किं शोचसि महाभाग भयं ते न भविष्यति ।
मायायुक्तो धूम्रवर्णः किं करिष्यति तेऽप्रियम् ॥ ३७॥
देहधारी समायातो देवपक्षपरायणः ।
हनिष्यावो न सन्देहः सदेवं पश्य पौरुषम् ॥ ३८॥
एवमुक्त्वा महादैत्यं गर्वो गर्वसमन्वितः ।
श्रेष्ठः प्रणम्य दैत्येन्द्रं ततो युद्धाय जग्मतुः ॥ ३९॥
प्रधानाद्यैः समायुक्तौ शस्त्रवृष्टिं प्रचक्रतुः ।
पाशस्य तेजसा तत्र दग्धास्ते तु समन्ततः ॥ ४०॥
ततो भययुताः सर्वे प्रधानाश्च बभूविरे ।
पाशतेजःप्रदग्धास्ते प्रपेलुः सर्वतोदिशम् ॥ ४१॥
ततोऽतिक्रोधसंयुक्तौ स्वङ्गं गृह्य महासुरौ ।
पाशान् विच्छेत्तुमायातौ महाबलपराक्रमौ ॥ ४२॥
तेजसा दग्धदेहौ तौ तथाऽपि खड्गधारया ।
पाशं गृह्य चकर्तुं तौ समुद्युक्तौ बभूवतुः ॥ ४३॥
ततः पाशेन सम्बद्धौ रुद्धश्वासौ महासुरौ ।
गतप्राणौ च सङ्ग्रामे बभूवतुर्महर्षयः ॥ ४४॥
ततो हाहारवं कृत्वा दैत्याः सर्वे भयातुराः ।
प्रपेलुर्दशदिग्देशे गतमानाः सुविह्वलाः ॥ ४५॥
ततः केचित् समागम्याहङ्कारं ते वचः परम् ।
जगुः क्रूरं मृतौ पुत्रौ तव दैत्यपते मृधे ॥ ४६॥
तेषां वचनमाकर्ण्य मूर्च्छितः सहसाऽसुरः ।
सावधानः कृतः सर्वैः शुशोच भयसङ्कुलः ॥ ४७॥
धृत्वा धैर्यं ततः सोऽपि युद्धार्थं सङ्गतोऽभवत् ।
(Page खं. ८ अ. ६ पान १२)
मुमोचास्त्राणि सर्वाणि छेत्तुं पाशं महोज्ज्वलम् ॥ ४८॥
पाशस्य तेजसा तानि दग्धानि च समन्ततः ।
ततोऽतिभयसंयुक्तो विचारमकरोद् हृदि ॥ ४९॥
अमोघास्त्रमयं मे तु वरं निष्फलतायुतम् ।
चकार पाशश्चात्यन्तं चित्रं किं वा भविष्यति ॥ ५०॥
पलायनपरः सर्वैः स्वगृहं दैत्यनायकः ।
आगत्य स्वगुरुं तत्र समानाय्याब्रवीद्वचः ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारपराजयो नाम पञ्चमोऽध्यायः ॥ ८.५
८.६ अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्याय
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
शुक्रं प्रणम्य नीतिज्ञं भयसङ्कुलितोऽसुरः ।
अहङ्कारो जगादेदं वचनं स्वहितार्थकम् ॥ १॥
अहङ्कार उचाच ।
स्वामिन् मे वरदानं यन्निष्फलं प्रबभूव तत् ।
अमोघास्त्रमयं किं त्वं वद संशयकं नुद ॥ २॥
धूम्रवर्णः समायातो देवपक्षप्रवर्धनः ।
मायामयः कथं सोऽपि निष्फलं मां चकार ह ॥ ३॥
शुक्र उवाच ।
अहं त्वं मूर्खभावेन मन्यसे धूम्रवर्णकम् ।
मायामयं विशेषेण न जानासि गजाननम् ॥ ४॥
मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते ।
योगाकारं गणेशानं वदन्ते वेदवादिनः ॥ ५॥
हनिष्यति समाक्रुद्धस्त्वामयं धूम्रवर्णकः ।
अतस्तं त्वं गणेशानं शरणं याहि दैत्यप ॥ ६॥
धूम्रेणावृतमेवं यद् दृश्यते न जनैर्यथा ।
तथा वस्तु गणेशानं न जानन्ति शिवादयः ॥ ७॥
वर्णा वेदस्वरूपाश्च धूम्रा जाता इवाऽऽबभुः ।
अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः ॥ ८॥
सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसु परम् ।
तस्य किं वरदानस्योल्लङ्घनं दुर्घटं भवेत् ॥ ९॥
स्वेच्छया वरदानं वै सफलं निष्फलं भवेत् ।
तदेव धूम्रवर्णोऽयं सहजो नेति वाचकः ॥ १०॥
अविनाशिपदं यच्च गजाख्यं ब्रह्म कथ्यते ।
तदेव मस्तकं तस्य गणेशस्य महात्मनः ॥ ११॥
नाशरूपं जगत् सर्वं देहस्तस्य न संशयः ।
धूम्रवर्णस्तयोर्योगे देहधारी बभूव ह ॥ १२॥
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता ।
चित्तभ्रान्तिकरी सिद्धिर्वामाङ्गे राजते सदा ॥ १३॥
तयोः स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः ।
तं गच्छ शरणं तात तदा सौख्यमवाप्स्यसि ॥ १४॥
स्वसंवेद्येन योगेन दर्शनं तस्य जायते ।
योगिनां गणनाथस्य तेन स्वानन्दपालकः ॥ १५॥
न ते यशो महाराज भविष्यति कदाचन ।
सुरासुरमयो ढुण्ढिः शरणं तस्य गच्छतु ॥ १६॥
सुराः स्वर्गेषु तेनैव स्थापिता मानवा भुवि ।
(Page खं. ८ अ. ६ पान १३)
असुरा विवरेष्वेव त्रिविधं धर्मसंयुतम् ॥ १७॥
स्वस्वधर्मं परित्यज्य लोभयुक्ताः सुराऽसुराः ।
भवन्ति चेत्तदाऽयं तु तेषां शास्ता भवत्यहो ॥ १८॥
देवैर्दैत्या जिताः सर्वे पातालं गत्य मानद ।
तदा त्वां स विनिर्माय देवविघ्नपरोऽभवत् ॥ १९॥
त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः ।
देवनाशार्थमत्यन्तमुद्युक्तोऽसि खलोत्तम ॥ २०॥
अतस्त्वां हन्तुमेवं स समायातो गजाननः ।
स्वधर्मस्थस्य ते नाशं न करिष्यति विघ्नपः ॥ २१॥
त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुतम् ।
तदाऽयं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेत् ॥ २२॥
अतस्तस्य गणेशस्य शरणं गच्छ दैत्यप ।
ब्रह्माकारं च सर्वत्र सुरासुरप्रवर्तकम् ॥ २३॥
श्रीशिव उवाच ।
काव्यस्य वचनं श्रुत्वा हर्षयुक्तोऽहमादरात् ।
प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये ॥ २४॥
अहमुवाच ।
शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया ।
सुरासुरमयस्यैव तथाऽपि नुद संशयम् ॥ २५॥
सिद्धिबुद्धि समा माया विद्यते नैव निश्चितम् ।
प्रकृत्या संयुतो नित्यं गणेशानः प्रखेलति ॥ २६॥
सर्वपूज्यश्च सर्वादौ सम्मतो ब्रह्मनायकः ।
श्रीशब्देन समायुक्तः कथं श्रीर्मुख्यतां गता ॥ २७॥
सिद्धिं बुद्धिं परित्यज्य श्रियं चौङ्कारकं तथा ।
विकल्पेन समागृह्य तिष्ठते गणनायकः ॥ २८॥
अन्ये सर्वे तथा विप्र प्रकृत्या श्रीस्वरूपया ।
युक्ता भवन्ति शास्त्रेषु किमिदं कौतुकं वद ॥ २९॥
अतः श्रीर्यत् समा देवी विद्यते नैव निश्चितम् ।
भाति सर्वत्र वेदेषु तथौङ्कारात्मिका परा ॥ ३०॥
शुक्र उवाच ।
गकारः सिद्धिरूपश्च णकारो बुद्धिवाचकः ।
तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते ॥ ३१॥
यथा मायायुतं ब्रह्म मायाया भिन्नकं न च ।
माया सैव सदा ब्रह्म ब्रह्म माया न संशयः ॥ ३२॥
तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक ।
एकरूपो न सन्देहो योगस्तेनायमुच्यते ॥ ३३॥
सिद्धिर्बुद्धिर्गणेशानो ज्ञानिनां त्रिविधं परम् ।
भाति योगमयं चापि विचारय विचक्षण ॥ ३४॥
अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते ।
भिन्नं गणपतेस्तस्मात् त्रिविधं नास्ति निश्चितम् ॥ ३५॥
गणेशपूजनेनैव त्रिविधं पूजितं भवेत् ।
प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते ॥ ३६॥
वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं च पुम्मयम् ।
सिद्धिं बुद्धिं विजानीहि तयोर्योगे गणेश्वरः ॥ ३७॥
सर्वेषां वामभागे च प्रकृतिः संस्थिताऽभवत् ।
गणेशस्योभयाङ्गे तु प्रकृतिः परिकीर्तिता ॥ ३८॥
एकरूपधरा माया सिद्धिबुद्धिमयी परा ।
भिन्नभोगार्थमानन्दात् सृष्टिं कर्तुं मनोदधे ॥ ३९॥
सिद्धेरङ्गात् समुत्पन्ना श्रीः सर्वशोभया युता ।
बुद्धेरङ्गात्तथौङ्कारप्रकृतिः प्रबभूव ह ॥ ४०॥
ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये ।
यस्मै कस्मै नमो नित्यं मन्त्रं जप्त्वा स्वमूलकम् ॥ ४१॥
(Page खं. ८ अ. ६ पान १४)
ततस्तयोर्हृदिस्थं यद्ब्रह्म मायाप्रचालकम् ।
प्रसन्नं जातमत्यन्तं स्वरूपं स्वमदर्शयत् ॥ ४२॥
तत एकाक्षरं मन्त्रं गणेशस्य महात्मनः ।
दृष्ट्वा ताभ्यां हृदिस्थं स्वं तेजोरूपं सुखप्रदम् ॥ ४३॥
ततस्तनैव मन्त्रेण तोषयामासतुः परम् ।
गणेशं ते महाभागे ह्यादिमाये तपोन्विते ॥ ४४॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
वरान् दातुं समायातः सिद्धिबुद्धिसमन्वितः ॥ ४५॥
नरकुञ्जररूपं तत् दृष्ट्वा विस्मितमानसे ।
माये बभूवतुस्तत्र विचारं चक्रतुर्हृदि ॥ ४६॥
गणेशकृपया सद्यो ज्ञातं जातं महाद्भुतम् ।
तपसोग्रप्रभावेण ज्ञातं ताभ्यां रहस्यकम् ॥ ४७॥
सिद्धिबुद्धियुतं तं ते वीक्ष्य चोत्थाय सत्वरम् ।
प्रणेमतुर्गणेशानं पूज्य स्तोत्रं प्रचक्रतुः ॥ ४८॥
श्र्योङ्कारावूचतुः ।
नमस्ते गणनाथाय सर्वसिद्धिप्रदायक ।
सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ ४९॥
स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे ।
अनाथाय सनाथानां नमो नाथाय ते नमः ॥ ५०॥
परेशाय परेषां च पालकाय परात्मने ।
आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ ५१॥
लम्बोदराय देवाय देवदेवेशरूपिणे ।
देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥ ५२॥
ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुण्ढये ।
अनामनाय नित्याय सर्वेशाय नमो नमः ॥ ५३॥
ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥ ५४॥
योगशान्तिमयायैव चिन्तामणिस्वरूपिणे ।
अनन्तायादिरूपाय चान्तःस्थाय नमो नमः ॥ ५५॥
किं स्तुवस्त्वां गणाधीश योगशान्तिधरं परम् ।
यत्र वेदादयः शान्तिं प्राप्ता योगपरायणाः ॥ ५६॥
मनोवाणीमयो नैव मनोवाणीविवर्जितः ।
नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥ ५७॥
एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर ।
श्र्यौङ्कारौ तौ समुत्थाप्य जगाद गणनायकः ॥ ५८॥
श्रीगणेश उवाच ।
वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥ ५९॥
स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् ।
पठते शृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥ ६०॥
ब्रह्मभूयकरं पूर्णं श्र्योङ्कारयशसान्वितम् ।
मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥ ६१॥
गणेशवचनं श्रुत्वोचतुःश्र्योङ्कारकौ परम् ।
गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥ ६२॥
श्र्यौङ्कारावूचतुः ।
त्वयि भक्तिं स्थिरं देहि योगशान्तिप्रदायिकाम् ।
सङ्कल्पसिद्धिसामर्थ्यं दास्यं ते पादपद्मयोः ॥ ६३॥
यथा सिद्धिश्च बुद्धिश्च त्वया सम्मानिते प्रभो ।
तथाऽऽवां ते प्रिये नाथ कुरुष्व गणनायक ॥ ६४॥
अस्मदीयं वशे सर्वं जगद्ब्रह्म कुरु प्रभो ।
आवाभ्यां मोहितं सर्वं भवतु त्वत्प्रसादतः ॥ ६५॥
त्वदीयभजनेनैव मोहो ह्यस्मत्कृतः परः ।
नाशं यातु सदा देव नान्यथा योगकारिभिः ॥ ६६॥
शिवविष्णुमुखा देवा मोहयुक्ता भवन्तु च ।
अस्मदर्थं सदा भ्रान्ता यत्नयुक्ता भवन्तु वै ॥ ६७॥
(Page खं. ८ अ. ६ पान १५)
श्रीगणेश उवाच ।
भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः ।
दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥ ६८॥
मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् ।
ब्रह्म नानाविधं देव्यौ तत्राऽहं बिम्बितोऽभवम् ॥ ६९॥
बिम्बं मे मोहयुक्तं तन्नानाभावपरायणम् ।
मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥ ७०॥
मम बिम्बस्य भार्ये तु संशयो न भविष्यथः ।
तेन युक्ते महामाये बन्धमोक्षौ करिष्यथः ॥ ७१॥
सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः ।
न तत्र योग्यता देव्यौ भवत्योर्मोहनात्मनोः ॥ ७२॥
एवमुक्त्वा गणाधीशोंऽतर्धानं वै चकार ह ।
माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥ ७३॥
ततो गणेशबिम्बं यत् पतितं तत्तयोर्हृदि ।
तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥ ७४॥
बाह्यसौख्यकरी माया चतुर्णां जगतां किल ।
ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥ ७५॥
चतुर्णां जगतां तद्वद्ब्रह्मणां ज्ञानरूपिणी ।
ओङ्कारात्मकरूपा सा माया सर्वत्र संस्थिता ॥ ७६॥
ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः ।
मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥ ७७॥
अतः सर्वेषु जीवेषु मोहितेषु महासुर ।
मोहहीनात्मभावेषु श्र्यौङ्कारौ त्वादिसम्मतौ ॥ ७८॥
आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते ।
कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥ ७९॥
कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः ।
तत्रोङ्कारसमायुक्तो मायाभ्यां खेलनात् परः ॥ ८०॥
वामाङ्गे श्रीर्धृता तेन दक्षिणाङ्गे महासुर ।
ओङ्कारो गणनाथस्य बिम्बेन ब्रह्मरूपिणा ॥ ८१॥
बिम्बं सर्वत्र भावेषु तदाकारं बभूव ह ।
अतः शिवादयः सर्वे जाताः श्र्योङ्कारसंयुताः ॥ ८२॥
जीवा श्र्योङ्कारसंयुक्ताः पठ्यन्ते वेदवादिभिः ।
आदिमाये समाख्याते बिम्बाधारे विचारय ॥ ८३॥
अतः श्र्योङ्कारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज ।
सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥ ८४॥
इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् ।
गच्छतं शरणं दैत्य शान्तिदं भुक्तिमुक्तिदम् ॥ ८५॥
भिन्नभावकरे माये श्र्योङ्कारौ परिकीर्तितौ ।
ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिर्विचक्षण ॥ ८६॥
एतत्ते कथितं सर्वं रहस्यं सर्वसम्मतम् ।
वेदगुह्यमहङ्कार गच्छ तं सर्वसिद्धये ॥ ८७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ॥ ८.६
(Page खं. ८ अ. ७ पान १६)
८.७ अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
शुक्रस्य वचनं श्रुत्वाऽहङ्कारस्तं प्रणम्य च ।
जगाद ज्ञानसंयुक्तः कृताञ्जलिः प्रतापवान् ॥ १॥
अहमुवाच ।
त्वयाऽहं बोधितो नाथाऽतो गच्छामि गजाननम् ।
सुरासुरमयं ब्रह्म सर्वशान्तिप्रदायकम् ॥ २॥
एवमुक्त्वा स शुक्रेण संयुतः परमार्थवित् ।
श्र्योङ्काराभ्यां मनः कृष्य योगेशं शरणं ययौ ॥ ३॥
पुरप्रान्ते महापाशं दृष्ट्वा नम्य कृताञ्जलिः ।
तुष्टाव शस्त्रराजं स गणेशाहङ्कृतेर्धरः ॥ ४॥
अहमुवाच ।
पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे ।
मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ ५॥
मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे ।
गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ ६॥
तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः ।
त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ७॥
ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् ।
नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ ८॥
नमस्ते तेजसां नाथ दुष्टनाशकराय ते ।
पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ ९॥
एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः ।
अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ १०॥
इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति ।
मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ ११॥
गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः ।
धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ १२॥
पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः ।
पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ १३॥
अहमुवाच ।
धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने ।
अव्यक्तायादिबीजाय परेशाय नमो नमः ॥ १४॥
लम्बोदराय देवाय दैत्यनाथाय ते नमः ।
हेरम्बाय महेशानां पालकाय नमो नमः ॥ १५॥
कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे ।
ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥
चराय चररूपाय जङ्गमस्थाय ते नमः ।
स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७॥
स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः ।
योगाय योगनाथाय योगिने योगदायिने ॥ १८॥
योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः ।
शान्ताय शान्तचित्तैस्तु प्राप्याय शान्तमूर्तये ॥ १९॥
ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद ।
सिद्धिनाथाय बुद्धीश तयोर्योगाय ते नमः ॥ २०॥
मूषकोपरि संस्थाय मूषकध्वजधारिणे ।
चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१॥
किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरूपिणम् ।
अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥ २२॥
स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः ।
योगशान्तिधरास्ते कथयितुं ध्रुवमक्षमाः ॥ २३॥
अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः ।
पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥ २४॥
धन्योऽहं सकुलो नाथ त्वदङ्घ्रियुगदर्शनात् ।
एवमुक्त्वा ननर्ताऽसौ भक्तियुक्तो महासुरः ॥ २५॥
निमग्नं तं भक्तिरसे दृष्ट्वा देवो गजाननः ।
(Page खं. ८ अ. ७ पान १७)
जगाद तं महाभागं प्रेमयुक्तं प्रसस्वजे ॥ २६॥
धूम्रवर्ण उवाच ।
वरान् वृणु महाभाग दास्यामि स्तोत्रतोषितः ।
अहङ्कार न सन्देहो न भयं ते भविष्यति ॥ २७॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८॥
शृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् ।
न भविष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९॥
यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः ।
मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३०॥
एवं गणेशवाक्यं स श्रुत्वा तं ह्यब्रवीदहम् ।
प्रणिपत्य महात्मानं धूम्रवर्णं महासुरः ॥ ३१॥
अहमुवाच ।
यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन ।
तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ ३२॥
गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् ।
गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ ३३॥
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ।
तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ ३४॥
नान्यं याचे कदा नाथ श्र्योङ्कारामोहमोहितम् ।
सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥ ३५॥
बोधितो गुरुणाऽत्यन्तं तस्य वाक्यपरायणः ।
योगशान्तिमयं रूपं भजिष्यामि महोदर ॥ ३६॥
धूम्रवर्ण उवाच ।
मयि भक्तिर्दृढा तेऽस्तु मयि दास्यपरायणः ।
गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥ ३७॥
यत्रादौ मे महादैत्य पूजनं नैव विद्यते ।
तत्र कर्मसु ते स्थानं भुङ्क्ष्व कर्मफलं महत् ॥ ३८॥
कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव ।
आसुरेण स्वभावेन भ्रंशयस्व निरन्तरम् ॥ ३९॥
स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा ।
मदहङ्कृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥ ४०॥
यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु ।
तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः ॥ ४१॥
गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः ।
भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया ॥ ४२॥
श्रीशिव उवाच ।
एवमुक्त्वा गणाधीशस्तमहं विरराम है ।
प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा ॥ ४३॥
तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः ।
त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥ ४४॥
स एव सुखसंयुक्तोऽभजत्तं गणनायकम् ।
अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥ ४५॥
यथा जगाद विघ्नेशस्तथा चकार भावतः ।
अहङ्कारासुरश्चैव शान्तरूपो बभूव ह ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ८.७
(Page खं. ८ अ. ८ पान १८)
८.८ धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् ।
अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः ॥ १॥
ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः ।
पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटाः ॥ २॥
देवर्षय ऊचुः ।
अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे ।
सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३॥
सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो मोहहन्त्रे निजानाम् ।
महानन्दत्रैविध्यभावैः परेश नमो धूम्रवर्णाय सर्वेश्वराय ॥ ४॥
नमः सिद्धिबुद्धिप्रदात्रे गणेश पुरे वासकारिन् स्वसंवेद्यनाम्नि ।
अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ५॥
सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन् ।
महाऽऽखुध्वजायाऽथ हेरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ६॥
गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन् ।
मदासक्तयोगीन्द्र भृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ७॥
चतुर्बाहवे चैकदन्ताय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय ।
अलङ्कारकैर्देवदेवेश पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥ ८॥
त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नन्दनाद्वै ।
तदाकाररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय ॥ ९॥
त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् ।
अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥ १०॥
ततस्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् ।
तदाकाररूपेण तत्स्थाय ब्रह्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ ११॥
असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजम् ।
त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १२॥
स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय ।
तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १३॥
ततस्तेन ते सत्तया सृष्टमाद्यं सदैकस्वरूपं परं सोहमेवम् ।
तथा त्वं च तत्रैव संस्थः परात्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ १४॥
त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्बिन्दुरूपम् ।
सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १५॥
ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् ।
चतुर्धा शरीरं विनिर्माय खेलिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १६॥
नमो विश्वरूपाय सर्वाकराय ह्यनन्ताननाद्यैः सुचिह्नाय तुभ्यम् ।
चरैः स्थावरैर्भोगभोगिन्नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ १७॥
चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय ।
प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १८॥
(Page खं. ८ अ. ८ पान १९)
नमो देवयक्षाय साध्याय तुभ्यं नरायाऽथ देवेन्द्र देवात्मकाय ।
दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १९॥
नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते ।
अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २०॥
तथापि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन् ।
स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २१॥
अतो वेदवादा विशेषेण धूम्रा भवन्ति ह्यहो वर्णितुं ते स्वरूपम् ।
बुधैः कथ्यसे धूम्रवर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २२॥
सुशान्तिं गता वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे ।
वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २३॥
श्रीशिव उवाच ।
एवं स्तुत्वा गणेशानं प्रणेमुरमरर्षयः ।
तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥ २४॥
धूम्रवर्ण उवाच ।
वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषितः ।
देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥ २५॥
स्तोत्रं भवत् कृतं मे तु भविष्यति सुसिद्धिदम् ।
ब्रह्मभूयकरं विप्रा भविष्यति न संशयः ॥ २६॥
पुत्रपौत्रकलत्रादि सौख्यदं धनधान्यदम् ।
आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥ २७॥
पठते शृण्वते देवा नानाभावप्रपूरकम् ।
धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥ २८॥
मारणोच्चाटनादीनि ह्येकविंशतिपाठतः ।
एकविंशतिभिर्नित्यं दिवसैः प्रभवन्ति हि ॥ २९॥
परकृत्यादिकं सर्वं नाशमेति न संशयः ।
अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥ ३०॥
यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा ।
स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥ ३१॥
श्रीशिव उवाच ।
देवर्षयो धूम्रवर्णवचः श्रुत्वा प्रणम्य तम् ।
प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः ॥ ३२॥
देवर्षय ऊचुः ।
धूम्रवर्ण त्वया नाथ कृतः शान्तिधरः सदा ।
अहं तेन वयं सर्वे वरयुक्ताः कृताः किल ॥ ३३॥
अहङ्कारे प्रशान्ते तु स्वाधिकारे वसामहे ।
वर्णाश्रमयुता लोका भविष्यन्ति द्विजादयः ॥ ३४॥
वृणुमः किं गणाधीश देहि भक्तिं त्वदीयिकाम् ।
अहङ्कारभयघ्नीं वै तया तुष्टा वयं प्रभो ॥ ३५॥
तथेति तानुवाचासौ धूम्रवर्णो गणेश्वराः ।
अन्तर्दधे भवन् देवा मुनयस्तं नतास्ततः ॥ ३६॥
स्थापयामासुरानन्दात् धूम्रवर्णं दिगन्तगे ।
क्षेत्रे तत्र गणेशानं पूजयामासुरादरात् ॥ ३७॥
स्वे स्वे पदे च ते जग्मुस्ततो हर्षसमन्विताः ।
सुखिनः स्वस्वकार्येषु वर्तते गणपे रताः ॥ ३८॥
एतद्वः कथितं चित्रं चरित्रं सर्वसिद्धिदम् ।
अहङ्कारभयघ्नं च पठतां शृण्वतां भवेत् ॥ ३९॥
एवं नानावतारान् स धूम्रवर्णः प्रतापवान् ।
धृत्वा चकार विश्वं तु निर्विघ्नं भक्तिभावितः ॥ ४०॥
(Page खं. ८ अ. ९ पान २०)
धूम्रवर्णावताराश्चानन्तास्तेषां चरित्रकम् ।
कथितुं नैव शक्यं तत् कदा भवति केनचित् ॥ ४१॥
अतः सङ्क्षेपतः प्रोक्तं मुख्यावतारचेष्टितम् ।
सनकाद्या गणेशानं भजध्वं भावसंयुताः ॥ ४२॥
तेनाहङ्कारनिर्मुक्ता भविष्यथ न संशयः ।
योगीन्द्र योगिवन्द्याश्च शान्तिदाः शान्तचेतसे ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः ॥ ८.८
८.९ धूम्रमहिमावर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सनकाद्या ऊचुः ।
कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् ।
माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ १॥
श्रीशिव उवाच ।
ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् ।
विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ २॥
सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् ।
माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेतसः ॥ ३॥
देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः ।
शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥ ४॥
त्रिनेत्र एकदन्तश्च परश्वादिसमन्वितः ।
अहङ्कारो गणेशानं भजते तत्र नित्यशः ॥ ५॥
वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्करी ।
पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥ ६॥
दशयोजनविस्तारः क्षेत्रस्य गणपस्य च ।
चतुरस्त्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ७॥
पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः ।
शुकाद्यास्तं भजन्ते ते स्तुवन्ति स्म महर्षयः ॥ ८॥
पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः ।
आत्तशस्त्रा महाभागाः सेवन्ते धूम्रवर्णकम् ॥ ९॥
वामाङ्गे तीर्थमुख्यानि प्रयागादीनि मानदाः ।
क्षेत्राणि काशीमुख्यानि भजन्ते धूम्रवर्णकम् ॥ १०॥
दक्षिणाङ्गेऽमरेशानाः शम्भुविष्णुमुखाः सदा ।
सगणाः सपरीवारा भजन्ते गणनायकम् ॥ ११॥
शेषाद्या नागराजाश्च पर्वता हैममुख्यकाः ।
गन्धर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥ १२॥
आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः ।
वसन्ति तत्र क्षेत्रे ते भजन्ते द्विरदाननम् ॥ १३॥
यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् ।
सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥ १४॥
तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते ।
अपारत्वात्ततः सङ्क्षेपतः प्रोक्तं मया परम् ॥ १५॥
तत्र तीर्थं महासिद्धिदायकं वर्तते परम् ।
धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥ १६॥
तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः ।
अन्ते मोक्षं न सन्देहो यत्र कुत्र मृतोऽपि चेत् ॥ १७॥
(Page खं. ८ अ. ९ पान २१)
तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः ।
नित्यं स्नानं प्रकुर्वन्ति प्रहृष्टेनान्तरात्मना ॥ १८॥
अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते ।
जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥ १९॥
शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः ।
स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥ २०॥
तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् ।
ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥ २१॥
यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकम् ।
लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥ २२॥
भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः ।
देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥ २३॥
वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः ।
भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वन्ति मानवाः ॥ २४॥
परस्परं प्रहृष्टास्ते बोधयन्ति गजाननम् ।
सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः ॥ २५॥
गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः ।
तत्र गच्छन्ति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥ २६॥
कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा ।
स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥ २७॥
अन्ते स्वानन्दगाः सर्वे भवन्ते नात्र संशयः ।
शैवाद्याः क्रममार्गेण स्वानन्दस्था भवन्ति तु ॥ २८॥
क्षेत्रे मरणतो विप्राः स्वानन्दो लभ्यते जनैः ।
यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥ २९॥
धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया ।
कथितुं विस्तरेणैवार्हति को नैव वर्णितुम् ॥ ३०॥
गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु ।
यावन्ति ब्रह्मगोलेऽस्मिंस्तावन्ति मुनिसत्तमाः ॥ ३१॥
धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च ।
चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥ ३२॥
पञ्चमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः ।
क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥ ३३॥
इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः ।
श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ३४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूर्मवर्णचरिते धूम्रमहिमावर्णनं नाम नवमोऽध्यायः ॥ ८.९
(Page खं. ८ अ. १० पान २२)
८.१० शिवात्मकावतारचरितं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सनकाद्या ऊचुः ।
धूम्रवर्णावतारस्य भेदा नानाविधाः स्मृताः ।
वद तेषु विभो मुख्यांश्चरित्रसंयुतान् परान् ॥ १॥
धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् ।
अहङ्कारहरं पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो ॥ २॥
श्रीशिव उवाच ।
धूम्रवर्णावतारस्य भेदानां चरितं परम् ।
कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः ॥ ३॥
मुख्येषु मुख्यभूतानां चरित्रं लेशतः परम् ।
कथयामि शृणुध्वं यत् मनसा निश्चलेन तत् ॥ ४॥
सहजं यत्पदं प्रोक्तं नेतिरूपं मुनीश्वराः ।
तेन सृष्टं समाख्यं हि ब्रह्म त्वानन्दवाचकम् ॥ ५॥
तेन सत्यानृते सृष्टे ताभ्यामुत्थानसंयुते ।
विप्रेशा ब्रह्मणी सृष्टे ते स्वतः परतोऽभिधे ॥ ६॥
तेन देहिमयं देहप्रचुरं ब्रह्म वै ततः ।
बिन्दु तेनैव संसृष्टं चतुर्देहमयं परम् ॥ ७॥
स्थूलं सूक्ष्मं समं नादं तैः सृष्टं विश्वरूपकम् ।
नानाभेदमयं तस्माद्व्यष्टिरूपं मुनीश्वराः ॥ ८॥
एतानि ब्रह्मरूपाणि ह्युत्पन्नानि महर्षयः ।
ज्ञानहीनान्यक्षमाणि सर्वतः कार्यजातिषु ॥ ९॥
ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः ।
बीजरूपाणि सर्वेषां मन्त्रं जप्त्वा निरन्तरम् ॥ १०॥
ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ।
दर्शयामास रूपं स्वं तेभ्यो मन्त्रमयं परम् ॥ ११॥
ततस्तत्कृपया तानि ददृशुः स्वहृदि स्थितम् ।
मन्त्रमेकाक्षरं तेजोयुक्तं ज्ञानकरं परम् ॥ १२॥
दृष्ट्वा मन्त्रं प्रहृष्टानि ब्रह्माणि नेमुरादरात् ।
मन्त्रं सङ्गृह्य तं पूर्वं ध्यात्वा हृदि गजाननम् ॥ १३॥
मन्त्राकारं गणेशानं ध्यात्वा तेपुः पराणि तु ।
तोषयामासुरत्यन्तं श्रमयुक्तानि विघ्नपम् ॥ १४॥
दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ।
दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ १५॥
नरकुञ्जररूपं तु दृष्ट्वा हृदि विसिस्मिरे ।
ब्रह्माणि तानि वै ढुण्ढिर्ददौ ज्ञानं सुनिर्मलम् ॥ १६॥
तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः ।
सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् ॥ १७॥
ततोऽतिहर्षयुक्तानि जातानि मुनिसत्तमाः ।
नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् ॥ १८॥
ततो गणपतिः प्रीतो ययौ तानि सुभक्तितः ।
शिवरूपधरो भूत्वा पञ्चवक्त्रस्त्रिलोचनः ॥ १९॥
मुण्डमालाधरः शम्भुर्व्याघ्रेभचर्मधारकः ।
विभूतिलेपः सर्वाङ्गे शेषनागविभूषणः ॥ २०॥
वृषध्वजो वृषारूढश्चन्द्रचूडस्त्रिशूलधृक् ।
अर्धाङ्गे गिरिजायुक्तो योगीन्द्रो योगिवन्दितः ॥ २१॥
समागतं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः ।
विस्मितानि विशेषेण विचारं चक्रुरादरात् ॥ २२॥
गणेशकृपया सद्यो ज्ञातं तैः सकलं महः ।
शिवस्य हृदि बोधेन परस्परमथाऽब्रुवन् ॥ २३॥
स्वमहिम्नि स्थितं ब्रह्म सहजं गणपाकृति ।
वर्णा धूम्रायितास्तत्र तेन धूम्राक्षरः स्मृतः ॥ २४॥
तस्य बिम्बं विमोहेन पतितं मायया युतम् ।
जगत्सु ब्रह्मसु प्राज्ञं तदेवायं वृषध्वजः ॥ २५॥
बिम्बबिम्बिप्रभावेण धूम्रवर्णोऽयमुच्यते ।
न भेदः शास्त्रवादेषु वरदः प्रभविष्यति ॥ २६॥
(Page खं. ८ अ. १० पान २३)
ततस्तानि समुत्थाय ब्रह्माणि गणपं पुनः ।
प्रणम्य हृदि संस्थं तं शिवं नेमुर्विशेषतः ॥ २७॥
सम्पूज्य विधिना शम्भुं प्रहृष्टानि प्रणम्य च ।
तुष्टुवुर्ब्रह्मरूपाण्यानन्दमुख्यानि मानदाः ॥ २८॥
ब्रह्माण्यूचुः ।
नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे ।
बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥
अमेयशक्तये तुभ्यं पार्वतीपतये नमः ।
वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥
मायाश्रयाय मायायाश्चालकाय परात्मने ।
महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥
जटाजूटधरायैव निर्मोहाय सदाशिव ।
परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ ३२॥
स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च ।
अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ ३३॥
परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः ।
गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ ३४॥
मुण्डमालाधरायैव नमस्ते सर्पभूषण ।
नानाभेदप्रकारेण खेलकाय नमो नमः ॥ ३५॥
वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके ।
तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ ३६॥
समरूपा महामाया देहस्ते नात्र संशयः ।
तस्य आत्मस्वरूपस्त्वमर्धनारीधृषे नमः ॥ ३७॥
एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् ।
सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ ३८॥
धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा ।
कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ ३९॥
शिव उवाच ।
एवमुक्त्वा महेशानं ब्रह्माणि नेमुरादरात् ।
तान्युवाच प्रहर्षेण शङ्करः करुणानिधिः ॥ ४०॥
आदिशम्भुरुवाच ।
ब्रह्माणि यान् वरान् ब्रूत दास्यामि तपसा परम् ।
तुष्टः स्तोत्रेण भक्त्या मे संशयो न हृदीप्सितान् ॥ ४१॥
ब्रह्माण्यूचुः ।
वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर ॥ ४२॥
स्वस्वकार्यं तु कृत्वा वै बन्धदं बन्धहारक ।
कुरुष्व बन्धहीनानि सततं योगधारकः ॥ ४३॥
श्रीशिव उवाच ।
यद्यत् सम्प्रार्थितं मत्तो भविष्यति सुखप्रदम् ।
भवतां सत्यसङ्कल्पा दुर्लभं किं न सम्भवेत् ॥ ४४॥
अतुलं बन्धहीनार्थं योगं शृणुत सौख्यदम् ।
तं साध्य बन्धहीनानि भविष्यथ न संशयः ॥ ४५॥
सर्वेषां नेतिकर्तारं मां जानीत चतुर्थकम् ।
चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः ॥ ४६॥
तस्मात् स्वाधीनरूपं च पराधीनं त्रिधा मतम् ।
समुत्पन्नं कलांशेन तं जानीत गजाननम् ॥ ४७॥
स्वस्वरूपमयो ढुण्ढिर्मायायुक्तः प्रकीर्तितः ।
चतुर्णां चालकत्वात्तु संयोगाभेदतः प्रभुः ॥ ४८॥
अयोगः पञ्चभिर्हीनः सदा निवृत्तिवाचकः ।
न तत्र ब्रह्मणां योगो जगतां तस्य तेषु च ॥ ४९॥
संयोगायोगयोर्योगे गणेशो योगवाचकः ।
पूर्णशान्तिप्रदः साक्षाद्ब्रह्मभूतो गजाननः ॥ ५०॥
गकारः स्वस्वरूपाख्यो णकारो योग उच्यते ।
स्वामी तयोर्गणेशानो नरकुञ्जररूपधृक् ॥ ५१॥
तं भजध्वं विशेषेण तदा शान्तिमवाप्स्यथ ।
सततं बन्धहीनानि भविष्यथ न चान्यथा ॥ ५२॥
यथा धूम्रायितो देशो दृश्यते नैव मानवैः ।
(Page खं. ८ अ. ११ पान २४)
दृश्यमानस्तथाऽप्येवं धूम्ररोधनभावतः ॥ ५३॥
तथा चित्तमयी माया पञ्चधा विविधे रता ।
तया युक्ता न पश्यन्ति तं देवं वेदसाधनैः ॥ ५४॥
वेदा वर्णमयाः प्रोक्ता धूम्रा जाताश्च मायया ।
गणेशानं स्वशिष्येभ्यो धूम्रवर्णमतो जगुः ॥ ५५॥
पूर्णशान्तिप्रदं योगं धूम्रवर्णात्मकं परम् ।
जानीत योगयुक्त्या वै भजध्वं तं गजाननम् ॥ ५६॥
कृत्वा स्वस्वस्वभावस्थं कार्यं नानाविधं सदा ।
समर्प्य धूम्रवर्णाय बन्धहीनानि सर्वदा ॥ ५७॥
एवमुक्त्वा महादेवस्तत्रैवान्तरधात्ततः ।
ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् ॥ ५८॥
यथोपदिष्टयोगेन गणेशं नित्यमादरात् ।
भजन्ते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः ॥ ५९॥
अयं शिवात्मकः प्रोक्तोऽवतारः परमाद्भुतः ।
धूम्रवर्णकलांशश्च सर्वसिद्धिप्रदायकः ॥ ६०॥
चरित्रं शृणुयाद्यश्चेदिदं पठेद्यदा नरः ।
भुक्त्वा भोगान् स्वयं चान्ते गच्छेत् स्वानन्दकं पुरम् ॥ ६१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते शिवात्मकावतारचरितं नाम दशमोऽध्यायः ॥ ८.१०
८.११ पार्वतीगणेशचरितं नामैकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
एकदा संस्थितं विप्राः कैलासे गिरिजायुतम् ।
गणेशं भजमानं मां दृष्ट्वा नन्दी समब्रवीत् ॥ १॥
नन्द्युवाच ।
शिव त्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः ।
सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः ॥ २॥
योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः ।
त्वत्तः परतरं नास्ति भजसे कं गजाननम् ॥ ३॥
वेदे शिवसुतः प्रोक्तो गणेशो नात्र संशयः ।
तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ॥ ४॥
ईशस्ते नाम विख्यातं सर्वेशत्वात् सदाशिवः ।
तवेशो नैव वेदेषु त्वमेकः सर्वभावनः ॥ ५॥
किं मोहार्थं जनानां च पार्वत्या सह शङ्कर ।
भजसे गणनाथं त्वं शैवगुप्तत्वकारणात् ॥ ६॥
मा कुरुष्व वृथा स्वामिन् गणेशभजनं कदा ।
शैवानां मोहदं देव व्यभिचारपदप्रदम् ॥ ७॥
मुद्गल उवाच ।
नन्दिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः ।
हर्षेणोत्फुल्लनेत्रश्च महापाशुपतं परम् ॥ ८॥
श्रीशिव उवाच ।
न जानासि गणेशानं नन्दिस्त्वं मत्परायणः ।
तस्याऽहं गणरूपश्च पश्य वेदे विचक्षण ॥ ९॥
गणाः समूहरूपाश्चानन्तास्तस्य महात्मनः ।
ईशानां वै समूहेऽहं गणो गणपतेः स्मृतः ॥ १०॥
एक एव गणेशानः सर्वे तस्य गणाः स्मृताः ।
ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद ॥ ११॥
विद्या नानात्मिका प्रोक्ता तस्या नानाविधाः स्मृताः ।
(Page खं. ८ अ. ११ पान २५)
समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः ॥ १२॥
विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः ।
योगविद्यां मयाऽऽश्रित्य गणेशः प्रकटीकृतः ॥ १३॥
समाधिजं परं ब्रह्म तदेव पुत्र उच्यते ।
अतः समाधिजो यो मे गणेशः पुत्रतां ययौ ॥ १४॥
विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखाऽमराः ।
न ते विद्याधिपाः प्रोक्ता मच्छिष्या नात्र संशयः ॥ १५॥
तैश्च योगबलेनैव गणेशः प्रकटीकृतः ।
समाधिजः सुतस्तेषां बभूवे योगिनां तथा ॥ १६॥
आदौ मया कृतं ब्रह्म साक्षात्कारि गुरुं विना ।
विद्याबलेन तस्मात्तु मुख्योऽहं विश्वपो गुरुः ॥ १७॥
अतः शिवसुतः प्रोक्तो वेदेषु गणनायकः ।
विष्ण्वादयो न मुख्याश्च गणेशपितरः स्मृताः ॥ १८॥
अतोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवन्दितम् ।
भजामि स्वामिनं दासो नैव मोहार्थमादरात् ॥ १९॥
शिवस्य वचनं श्रुत्वा विस्मितो नन्दिकेश्वरः ।
उवाच तं महादेवं सर्वज्ञं सर्ववन्दितम् ॥ २०॥
नन्दिकेश उवाच ।
कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः ।
विभो तस्य वद ज्ञानं मन्त्रं विधियुतं परम् ॥ २१॥
श्रीशिव उवाच ।
चित्तं पञ्चविधं प्रोक्तं सा बुद्धिः परमा मता ।
नानाभ्रान्तिकरी सिद्धिर्भेदैश्वर्यमयी हृदि ॥ २२॥
तयोर्बिम्बं गणेशस्य पतितं मायया युतम् ।
बिम्बभावं परित्यज्य गणेशो जायते नरः ॥ २३॥
सरसं चित्तमुत्सृज्य योगिवन्द्यो भविष्यसि ।
एकाक्षरविधानेन भज तं योगसाधनैः ॥ २४॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
सविधिं सोऽपि तं नत्वा तपोर्थी च ययौ वनम् ॥ २५॥
निराहारेण तपसाऽऽराधितो द्विरदाननः ।
नन्दिना ध्यानयुक्तेन समाधिना विशेषतः ॥ २६॥
गते वर्षशते पूर्णे योगीन्द्रः स बभूव च ।
वरदाता गणेशानस्तदाश्रमपदं ययौ ॥ २७॥
आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः ।
उत्थाय तं प्रणम्याऽऽदौ पूजयामास भक्तितः ॥ २८॥
पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे ।
पार्वतीं वाममागे वै दधतं वीक्ष्य विस्मितः ॥ २९॥
गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् ।
तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादरात् ॥ ३०॥
ततः स नन्दिकेशानो विचारमकरोत् हृदि ।
बाह्यरूपधरश्चायं महादेवो न संशयः ॥ ३१॥
गिरिजायाः पतिः प्रोक्तः पञ्चवक्त्रादिचिह्नितः ।
त्रिनेत्रो नरदेहाख्यो भिन्नभावप्रदर्शकः ॥ ३२॥
आनन्दात्मकरूपा सा पार्वती विष्णुरूपिणी ।
शिवदेवमयी प्रोक्ता तस्यामात्मा शिवः स्मृतः ॥ ३३॥
गजाकारः स्वयं शम्भुरैक्यभोगपरायणः ।
अर्धाङ्गप्रकृतिस्थत्वाद्बभौ नारीनरः शिवः ॥ ३४॥
नरकुञ्जरयोर्योगे गणेशाकारतां गतः ।
शिवो ब्रह्ममयः साक्षाद्गिरिजया समन्वितः ॥ ३५॥
योगमायामयी रम्या गणेशाङ्कव्यवस्थिता ।
पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयम् ॥ ३६॥
स एव वरदानार्थं समाययौ न संशयः ।
शिवचित्तस्थितश्चायमियं शिवस्य मानसी ॥ ३७॥
(Page खं. ८ अ. ११ पान २६)
ततः प्रणम्य हर्षेण प्रणनाम गजाननम् ।
पुनः पुनः सरोमाञ्चस्तं तुष्टाव कृताञ्जलिः ॥ ३८॥
नन्दिकेश उवाच ।
नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय ।
नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥ ३९॥
हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे ।
स्वानन्दपाय चौरेश वाहनाय नमो नमः ॥ ४०॥
पार्वतीपतये तुभ्यं शिवचित्तगताय वै ।
लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥ ४१॥
संज्ञापते नमस्तुभ्यं भानोर्हृदि स्थिताय च ।
आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥ ४२॥
सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक ।
गायत्रीपतये तुभ्यमोङ्कारचित्तवासिने ॥ ४३॥
शचीपते नमस्तुभ्यमिन्द्रचित्तगमूर्तये ।
स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥ ४४॥
नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे ।
सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥ ४५॥
निर्गुणाय नमस्तुभ्यं कुञ्जराकारमूर्तये ।
सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥ ४६॥
नरकुञ्जररूपाय योगाकाराय ते नमः ।
योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥ ४७॥
धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥ ४८॥
एवं स्तुत्वा गणेशानं ननर्त प्रेमसंयुतः ।
नन्दीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥ ४९॥
श्रीगणेश उवाच ।
वरान् वृणु महाभाग नन्दिंस्ते मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥ ५०॥
त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति ।
भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥ ५१॥
सर्वसिद्धिकरं भावि पठतां शृण्वतां सदा ।
यं यमिच्छन्ति तं तं ते लभन्तेऽनेन निश्चितम् ॥ ५२॥
नन्दिकेश उवाच ।
यदि त्वं वरदो मेऽसि भक्तिं देहि त्वदीयिकाम् ।
गाणपत्यं कुरु स्वामिन् मां विघ्नेशपरायणम् ॥ ५३॥
क्षेत्रं भवतु ते नाथ यत्र तप्तं तपो मया ।
तथेति तं गणाधीशो जगादान्तरधीयत ॥ ५४॥
ततः संस्थापयामास गणेशं ब्राह्मणैः सह ।
नन्दिकेशो महाभक्त्या पूजनं प्रचकार ह ॥ ५५॥
पार्वतीगणपं नाम चक्रे तस्य महर्षयः ।
सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ॥ ५६॥
ततो नन्दीश्वरो नत्वा समागत्य जगाद ह ।
वृत्तान्तं सोऽपि तं श्रुत्वा तं शंसन् हर्षितोऽभवत् ॥ ५७॥
नन्दीविघ्नेश्वरं नित्यमभजद्भक्तिसंयुतः ।
महायोगीन्द्रमुख्योऽसौ बभूव शिवसन्निभः ॥ ५८॥
इदमाम्बिकविघ्नेशचरितं कथितं मया ।
धूम्रवर्णात्मकश्चाऽयं गणेशः सर्वसिद्धिदः ॥ ५९॥
यः पठेच्छृणुयाद्वाऽपि चरितं गणपस्य च ।
इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॥ ८.११
(Page खं. ८ अ. १२ पान २७)
८.१२ गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
त्रिपुरो नाम दैत्योऽभून्महाबलपराक्रमः ।
ब्रह्मणो वरदानेन जिग्ये सर्वं चराचरम् ॥ १॥
कर्मलोपं चकाराऽसौ महाबलपराक्रमः ।
वर्णसङ्करजं कर्म कारयामास मानवैः ॥ २॥
तदोपोषणसंयुक्ता देवा मां शरणं ययुः ।
अहं क्रोधसमायुक्तो योद्धुं तेन गतोऽभवम् ॥ ३॥
मम तस्य महद्युद्धं बभूवे दारुणं परम् ।
देवानां दानवानां च तुमुलं रोमहर्षणम् ॥ ४॥
संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगतः ।
तानि निष्फलरूपाणि बभूवुश्च महर्षयः ॥ ५॥
अतो विस्मितचित्तोऽहमभवं खेदसंयुतः ।
सहसा दैत्यराजेनाग्निशस्त्रेण जितोऽभवम् ॥ ६॥
ततः कैलासमुत्सृज्य गतोऽहं गहनं वनम् ।
निःश्वस्य चिन्तया युक्तोऽभवं चैव हतोद्यमः ॥ ७॥
विचारं मानसे विप्रा अकरवं हितावहम् ।
मम हस्तेन दैत्योऽयं मरिष्यति न संशयः ॥ ८॥
तत् कथं मोघरूपं मे कृतं हैवेन केन च ।
ईशोऽहमनीशो जातः पश्चात् सूर्योदयो यथा ॥ ९॥
तत्रैव सहसा देवमुनिर्नारद आययौ ।
मां प्रणम्य स्थितो भक्त्या पूजितः स मया तथा ॥ १०॥
ततो मयाऽतिखेदेन पृष्टोऽसौ नारदो मुनिः ।
त्रिपुरस्य वधार्थाय मां जगाद स बुद्धिमान् ॥ ११॥
नारद उवाच ।
शिव त्वं मोहसंयुक्तोऽहङ्कारेण धृतोऽसि वै ।
विघ्नराजमनर्च्याऽसौ सत्ताहीनोऽसि भो प्रभो ॥ १२॥
विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः ।
ईशत्वं तेऽधुना नष्टं ढुण्ढेरनर्चनात् प्रभो ॥ १३॥
सत्तां स्वकीयदेहस्थां धृत्वा मोहपरायणाः ।
गणेशं ये न जानन्ति सत्ताहीना भवन्ति ते ॥ १४॥
यस्य कटाक्षपातेन कृपया तृणमेककम् ।
सृजते पाति हन्त्येव ब्रह्माण्डं लोकसङ्कुलम् ॥ १५॥
तस्य कृपाविहीनस्त्वमशक्तोऽसि सदाशिव ।
संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि ॥ १६॥
अतस्तं शरणं गच्छ तेन सत्तासमन्वितः ।
हनिष्यसि महादैत्यं त्रिपुरं त्रिविधे रतम् ॥ १७॥
मुद्गल उवाच ।
एवमुक्त्वा महेशानं तं प्रणम्य महामुनिः ।
नारदो गणपं गायन् ययौ स्वेच्छापरायणः ॥ १८॥
ततः शिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकम् ।
दण्डकारण्यदेशे स वनगस्तप आचरत् ॥ १९॥
शतवर्षे गते ते स आययौ गणनायकः ।
मूषकोपरि संस्थो यो दशायुधधरः प्रभुः ॥ २०॥
तं दृष्ट्वा सहसोत्थाय शङ्करः प्रणनाम ह ।
पूज्य तुष्टाव हर्षेण गणेशं भक्तिसंयुतः ॥ २१॥
श्रीशिव उवाच ।
गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये ।
शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२॥
गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने ।
संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३॥
अनन्तविभवायैवानन्तमायाप्रचालक ।
अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ २४॥
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे ।
सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥ २५॥
स्वानन्दपतये तुभ्यं मूषकध्वजधारिणे ।
(Page खं. ८ अ. १२ पान २८)
सिद्धिबुद्धिपते नाथेक्षुसागरपते नमः ॥ २६॥
मनोवाणीविहीनाय मनोवाणीमयाय ते ।
योगेशाय महाविष्णुसुताय ते नमो नमः ॥ २७॥
शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः ।
दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥ २८॥
यत्र वेदादयो नाथ योगिनः शान्तिमाययुः ।
तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥ २९॥
नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे ।
मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥ ३०॥
हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् ।
धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥ ३१॥
भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक ।
कृतकृत्यो भविष्यामि शान्तियोगपरायणः ॥ ३२॥
त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् ।
महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥ ३३॥
शिवस्य वचनं श्रुत्वा गुणेशस्तमथाब्रवीत् ।
भक्तं देववरिष्ठं तु तपसा तोषितो भृशम् ॥ ३४॥
श्रीगणेश उवाच ।
त्वयोक्तं सफलं सर्वं भविष्यति सदाशिव ।
अन्यत् त्रिपुरनाशार्थं वदामि शृणु साम्प्रतम् ॥ ३५॥
त्रिविधा परमा माया देहभोगपरायणा ।
आसुरी त्रिपुराख्या सा नानाविषयलम्पटा ॥ ३६॥
तस्या जयार्थमत्यन्तं तुरीयं गणपाकृति ।
त्वयाऽऽश्रितं मदीयं च रूपं पुरुषवाचकम् ॥ ३७॥
पौरुषं बीजरूपं में गृहाण त्वं सदाशिव ।
मायां त्रिगुणरूपां तु मयि क्षिप विचक्षण ॥ ३८॥
एवमुक्त्वा गुणेशस्तं ददौ मन्त्रं तु पौरुषम् ।
मायां गृह्य तदीयां स निर्मोहमकरोच्छिवम् ॥ ३९॥
तत्र सोंऽतर्हितः सद्यो गुणेशो ब्रह्मनायकः ।
शिवो मन्त्रप्रभावेण जघान त्रिपुरासुरम् ॥ ४०॥
सदा पौरुषभावेन संयुक्तः स बभूव ह ।
मायां जित्वा विशेषेण स्वाधीनां तां चकार ह ॥ ४१॥
शृणुयाद्यो गणेशस्य स्तोत्रं शिवकृतं पठेत् ।
निर्मोहः सर्वभावेषु भवेद्देवपरायणः ॥ ४२॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ।
भुक्त्वा भोगाननेकांश्चान्ते स्वानन्दमवाप्नुयात् ॥ ४३॥
इदं गुणेशमाहात्म्यं कथितं लेशतो मया ।
पठनाच्छ्रवणान् नृभ्यः सर्वसिद्धिप्रदायकम् ॥ ४४॥
धूम्रवर्णात्मकश्चायमवतारः प्रकीर्तितः ।
पौरुषार्थप्रदः पूर्णो गणेशो भुक्तिमुक्तिदः ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ८.१२
(Page खं. ८ अ. १३ पान २९)
८.१३ बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
बलेः पुत्रोऽभवद्बाणो दैत्यः परमधार्मिकः ।
शिवभक्तः सदा साधुगुणयुक्तः प्रतापवान् ॥ १॥
बाल्यात् प्रारभ्य शम्भुं सोऽभजद्भावपरायणः ।
नान्यं देवं प्रजानाति स्वधर्मपालको बभौ ॥ २॥
शुक्रः पञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने ।
सविधिं शङ्करस्यैवादिदेश तपसे मतिम् ॥ ३॥
सोऽतपत्तप उग्रं मां ध्यात्वा मद्भक्तिभावितः ।
प्रगतेषु च वर्षेषु सहस्रे तोषितोऽभवम् ॥ ४॥
मुद्गल उवाच ।
जगाम वरदो बाणं शङ्करः करुणानिधिः ।
स तं तुष्टाव रौद्रैश्च स्तोत्रैः पूज्य यथाविधि ॥ ५॥
प्रसन्नो भगवान् प्राह वरान् वृणु महामते ।
दास्यामि तपसा तुष्टो भक्त्या चैवासुराधिप ॥ ६॥
बाणासुर उवाच ।
वरदोऽसि महादेव भक्ति देहि त्वयि स्थिराम् ।
शैवं मां कुरु देवेश नान्यदेवपरायणम् ॥ ७॥
बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतम् ।
न मत्समः प्रसङ्ग्रामे सम्भवेत् सचराचरे ॥ ८॥
तथेति तं महादेवो जगाद भक्तमुत्तमम् ।
ययौ स्वनगरं शुम्भुः पार्वत्या गणसंयुतः ॥ ९॥
ततो बाणासुरो दैत्यो जिग्ये वै विष्णुमुख्यकान् ।
सुरान् राज्यं चकाराऽसौ धर्मनिष्ठः स्वभावतः ॥ १०॥
स्वर्गेषु देवपान् स्थाप्य पातालेषु महासुरान् ।
नागान् नरान् पृथिव्यां स राज्यं चकार धर्मतः ॥ ११॥
वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यपः ।
नित्यं कैलासगो भूत्वा पूजयच्छङ्करं प्रभुम् ॥ १२॥
तस्य धर्मप्रभावेण भक्त्या तुष्टः सदाशिवः ।
वासार्थमाययौ शम्भुर्नगरे तस्य पार्षदैः ॥ १३॥
ततः स शाम्भवे दैत्यो विचारमकरोत् हृदि ।
पञ्चायतनरूपेण शङ्करः प्रबभूव ह ॥ १४॥
एकनिष्ठतया शम्भुं भजिष्यामि विशेषतः ।
नान्यं जानामि देवेशं शङ्करादपरं कदा ॥ १५॥
पूजिते शङ्करे सर्वं पूजितं सचराचरम् ।
मया वेदविवादेषु तथा सङ्कथितं बुधैः ॥ १६॥
एकनिष्ठा समा भक्तिर्न भूता न भविष्यति ।
अतोऽहमेकनिष्ठातो भजिष्यामि सदाशिवम् ॥ १७॥
तत्राऽऽदौ गणराजश्च पूजनीयः प्रयत्नतः ।
कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ॥ १८॥
ब्राह्मणैर्गाणपत्यैर्यैस्तैः कृतं त्विदमादरात् ।
द्वितीये पूजिते देवे एकनिष्ठा कथं भवेत् ॥ १९॥
एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परम् ।
एकनिष्ठतया शम्भुं पूजयन्नित्यमादरात् ॥ २०॥
एवं वर्षे गते पूर्णे शङ्करं पूज्य भक्तितः ।
शोणिते नगरे संस्थं स ननर्त पुरोऽसुरः ॥ २१॥
ततः प्रसन्नतां यातः शिवः कल्याणदायकः ।
जगाद तं वरं ब्रूहि महापाशुपताऽसुर ॥ २२॥
शिवस्य वचनं श्रुत्वा हर्षितो बलिनन्दनः ।
जगाद तं महादेवं प्रणिपत्यातिभक्तितः ॥ २३॥
बाणासुर उवाच ।
योद्धारं देहि देवेश सदृशं बलसंयुतम् ।
सहस्रभुजवीर्यस्य सहनेऽतिपराक्रमम् ॥ २४॥
तच्छ्रुत्वा कुपितः शम्भुर्ददौ शापं महात्मने ।
राज्यं भ्रष्टं भुजानां ते छेदश्चैव भविष्यति ॥ २५॥
वासुदेवेन सङ्ग्रामं करिष्यस्यसुराधम ।
(Page खं. ८ अ. १३ पान ३०)
मत्तो वृणोषि किं दुष्ट भविष्यसि पराजितः ॥ २६॥
तच्छ्रुत्वा शोकसंयुक्तो बाणस्तं प्रणनाम ह ।
पुनः स्वगृहमागत्य काव्यं पूज्य जगाद सः ॥ २७॥
शिवस्तं त्यज्य कैलासं ययौ क्रोधसमन्वितः ।
उन्मत्तं धारयामास मानसे चासुरेश्वरम् ॥ २८॥
काव्यस्तं सान्त्वयामास श्रुत्वा वृत्तान्तमञ्जसा ।
बोधयामास दैत्येशं योगीशो द्विजसत्तमाः ॥ २९॥
शुक्र उवाच ।
गणेशं त्यज्य दैत्येन्द्र शङ्करं भजसे परम् ।
वेदे विरुद्धं तत् कर्म करोषि त्वं न संशयः ॥ ३०॥
ज्येष्ठराज इति प्रोक्तं वेदैः पश्य महामते ।
सर्वपूज्यादिपूज्यत्वं प्रकाशकारकं शुभम् ॥ ३१॥
यथा सन्ध्यादिकं कर्मावश्यं तद्वद् गजाननः ।
एकनिष्ठापरैः पूज्यः सर्वादौ ज्येष्ठभावतः ॥ ३२॥
त्यक्त्वा गणेश्वरं शम्भुं भजसे नित्यमादरात् ।
कुपितो गणनाथस्तु बुद्धिभेदं चकार ह ॥ ३३॥
सिद्धिबुद्धिपतिः साक्षाद्गणेशो ब्रह्मनायकः ।
तं त्यक्त्वा शाम्भवीं सिद्धिं लभसे कथमप्यहो ॥ ३४॥
शिवस्य हृदये सोऽपि तव तिष्ठति साम्प्रतम् ।
यदिच्छया शिवाद्याश्च वर्तन्ते त्वमपि ध्रुवम् ॥ ३५॥
अतस्त्वं शिवहीनश्च कृतस्तेन महात्मना ।
संशप्तः शङ्करेणैव शैवः परमभाविकः ॥ ३६॥
गच्छ तं शरणं देवं गणेशं ब्रह्मनायकम् ।
तदा विघ्नविहीनस्त्वं भविष्यसि न संशयः ॥ ३७॥
गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः ।
बाह्यान्तरैकभावेन समूहो जायते ह्यतः ॥ ३८॥
तथाऽयं गणराजस्य गण एकः शिवः स्मृतः ।
समूहाख्यश्च तपसां विचारय महामते ॥ ३९॥
अथवा शिवसंज्ञोऽयं सहजानां परा गतिः ।
गणरूपश्चेश्वराणां समूहे सहजः शिवः ॥ ४०॥
एवं विष्ण्वादयः सर्वे गणास्तस्य प्रकीर्तिताः ।
पश्य वेदोपनिषदि कथितं तत्त्वथर्वणि ॥ ४१॥
एवमुक्त्वा महादैत्यं काव्यः स्वगृहमाययौ ।
बाणः खेदसमायुक्तो विचारमकरोत् हृदि ॥ ४२॥
ततस्तेन गणेशस्य महो ज्ञातं महाद्भुतम् ।
चतुर्थीं प्राप्य दैत्येशस्तं पुपूज गजाननम् ॥ ४३॥
ध्याननिष्ठो गणेशस्य जजाप मन्त्रमुत्तमम् ।
गणानां त्वेति बाणः स क्षमापनं चकार ह ॥ ४४॥
अथर्वोपनिषद्भिस्तं तुष्टाव स कृताञ्जलिः ।
ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ ४५॥
उपवासकरं बाणमाययौ द्विरदाननः ।
वरदो ह्येकवर्षेण मूषकोपरि संस्थितः ॥ ४६॥
आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः ।
उत्थाय तं प्रणम्यादौ पुपूज भक्तिलोलुपः ॥ ४७॥
पुनः प्रणम्य विघ्नेशं तुष्टाव स कृताञ्जलिः ।
बाणः परमधर्मात्मा भक्तिनम्रात्मकन्धरम् ॥ ४८॥
बाणासुर उवाच ।
विघ्नेशाय परेशाय भक्तविघ्नविदारिणे ।
अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ ४९॥
विनायकाय देवेश दैत्येशनायकाय ते ।
निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ ५०॥
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः ।
सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ ५१॥
लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने ।
(Page खं. ८ अ. १३ पान ३१)
आदिमध्यान्तहीनाय हेरम्बाय नमो नमः ॥ ५२॥
शूर्पकर्णाय शूराय मोहान्धकविदारिणे ।
ब्रह्मेशाय सुशान्ताय शान्तिदात्रे नमो नमः ॥ ५३॥
एकदन्ताय देवाय स्वानन्दे वासकारिणे ।
अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥ ५४॥
मायामायिकरूपाय मायामायिकवर्जित ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ ५५॥
सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण ।
योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः ॥ ५६॥
त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे ।
सिद्ध्या सम्मोहितं नाथ सिद्धिदात्रे नमो नमः ॥ ५७॥
शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् ।
अहङ्कारेण युक्ताश्चेद्भ्रष्टाः स्वस्वाधिकारतः ॥ ५८॥
मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया ।
मां शप्त्वा त्यज्य सः शम्भुर्गतः क्रोधपरायणः ॥ ५९॥
अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् ।
अपराधान् महोग्रान् मे क्षान्त्वा पाहि निरन्तरम् ॥ ६०॥
एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च ।
बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥ ६१॥
तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् ।
स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् ॥ ६२॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् ।
भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥ ६३॥
अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै ।
भुक्तिं मुक्तिं सदा सौख्यं शृण्वते मनसीप्सितम् ॥ ६४॥
त्वया त्यक्तोऽहमत्यन्तक्रोधयुक्तश्च नित्यदा ।
शिवहीनं प्रकृत्वांऽते नारकं त्वां करोमि वै ॥ ६५॥
किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् ।
शरणागतमेवं मे मत्पादप्रवणं परम् ॥ ६६॥
शिवशापो न मिथ्या ते भविष्यति कदाचन ।
तथापि शृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥ ६७॥
वासुदेवं समायुध्य भुजच्छेदो भविष्यति ।
भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥ ६८॥
एवमुक्त्वा महादैत्यं गणेशो विरराम ह ।
तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥ ६९॥
बाण उवाच ।
तव विस्मरणं नाथ न भवेन् मे तथा कुरु ।
त्वया युक्तं शिवं नित्यं भजिष्यामि सुभक्तितः ॥ ७०॥
गाणेशं ज्ञानमाद्यं मे देहि विघ्नेश शाश्वतम् ।
नान्यदिच्छामि सर्वेश त्वत्पादप्रवणोऽधुना ॥ ७१॥
श्रीगणेश उवाच ।
गाणेशज्ञानसंयुक्तो भविष्यसि महासुर ।
अनेन जडदेहेन गणः शैवो भविष्यसि ॥ ७२॥
महाकालेति नाम्ना त्वं विख्यातः सर्वमण्डले ।
नष्टे शिवपदे दैत्य स्वानन्दे आगमिष्यसि ॥ ७३॥
एवमुक्त्वा गणाधीशोंऽतर्दधे मुनिसत्तमाः ।
बाणो हर्षसमायुक्तो गणेशमभजत्ततः ॥ ७४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॥ ८.१३
(Page खं. ८ अ. १४ पान ३२)
८.१४ बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
कृपया वरदानेन गणेशभजनेन च ।
बुद्धिभेदः शिवस्यापि बभूव सर्वसंयुतः ॥ १॥
ततो गिरिसुतायुक्तः शङ्करः स्कन्दमुख्यकैः ।
गणैः समाययौ सद्यो बाणस्य नगरं पुनः ॥ २॥
तमागतं समाज्ञाय बाणो हर्षसमन्वितः ।
ध्यात्वा गजाननं देवं ययौ शङ्करसन्निधिम् ॥ ३॥
प्रणनाम स साष्टाङ्गं शिवं गणसमन्वितम् ।
रुरोद पूजयित्वा तं क्षमस्वेति जगाद सः ॥ ४॥
ततस्तं शङ्करो भक्तं समुत्थाप्य प्रसस्वजे ।
जगाद मधुरं वाक्यं हर्षयन् दानवाधिपम् ॥ ५॥
श्रीशिव उवाच ।
मा कुरुष्व वृथा चिन्तां सन्तुष्टोऽहं समागतः ।
वरान् वृणु महाभाग दास्यामि बलिनन्दन ॥ ६॥
बाणासुर उवाच ।
तव भक्तिं स्थिरां देहि वियोगस्ते न मे क्वचित् ।
भवेत्तथा महादेव कुरुष्व शिव सर्वदा ॥ ७॥
तथेत्युवाच शम्भुस्तं तस्थौ तन्नगरे सदा ।
ततस्तस्मात् सुता जज्ञे सर्वलक्षणसंयुता ॥ ८॥
उषानाम्नीं महाभागामुपयेमेऽनिरुद्धकः ।
तां स्वप्ने सा शुशोचैव तदर्थं कामपीडिता ॥ ९॥
चित्रलेखा तमानीय ददौ तस्यै पतिं स्वकम् ।
मायया यादवान् सम्मोह्य मुमोद ततः परम् ॥ १०॥
एकस्तम्भस्थितां तां स उपयेमेऽनिरुद्धकः ।
तया सम्मोहितोऽत्यन्तं रेमे हर्षसमन्वितः ॥ ११॥
यादवाः संहृतं रात्रौ दृष्ट्वा कामसुतं दृढम् ।
शुशुचुः परमोद्विग्ना न लेभुस्तद्गतिं च ते ॥ १२॥
प्रद्युम्नेन गणाधीशः प्रार्थितस्तपसा परः ।
तस्य प्रसादयोगेन नारदस्तत्र चाययौ ॥ १३॥
तेन सङ्कथितं सर्वं चेष्टितं कामपुत्रजम् ।
श्रुत्वा संहर्षिताः सर्वे यादवाः प्रबभूविरे ॥ १४॥
तत ईश्वरसंयुक्तं बाणं जेतुं मनो दधे ।
कृष्णो रामेण संयुक्तो यादवैः परमद्युतिः ॥ १५॥
शङ्करस्य भयेनैव भीतं तं प्रत्युवाच ह ।
उद्धवः कुरु कृष्ण त्वं गणेशाराधनं परम् ॥ १६॥
तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः ।
शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति ॥ १७॥
तत एकाक्षरस्यैव पुरश्चरणमाकरोत् ।
कृष्णो गणपतिं ध्यात्वा यथाशास्त्रं विधानतः ॥ १८॥
यादवैः प्रययौ तत्र यत्र बाणः स्थितोऽभवत् ।
शङ्खं दध्मौ ततः सोऽपि स शिवो योद्धुमाययौ ॥ १९॥
ततः शिवो ददौ तस्मै कवचं गणपस्य च ।
सामवेदभवं शुद्धं बाणाय खेदसंयुतः ॥ २०॥
शिवशप्तासुरेणात्र हस्तच्छेदस्य कारणात् ।
कृष्णः संयुयुधे तेन दैत्येन्द्रेण महाबलः ॥ २१॥
खिन्नं बाणं समालोक्य शङ्करो योद्धुमाययौ ।
कृष्णेन तं समालोक्य कृष्णः सस्मार विघ्नपम् ॥ २२॥
महायुद्धं तयोरासीत् त्रिलोकीनाशसन्निभम् ।
शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ॥ २३॥
ततो जृम्भास्त्रवेगेन मोहयित्वा सदाशिवम् ।
कृष्णश्चक्रं मुमोचैव बाणस्य भुजसञ्छिदे ॥ २४॥
चक्रेण क्षुरधारेण भुजाश्छिन्नाः समन्ततः ।
अवशिष्टौ भुजौ द्वौ च चक्रं सङ्कुठितं ततः ॥ २५॥
ततः खेदसमायुक्तः कृष्णः सस्मार विघ्नपम् ।
स्वयमाकाशवाणीं स शुश्राव गणपेरिताम् ॥ २६॥
(Page खं. ८ अ. १४ पान ३३)
गणेशकवचेनैव रक्षितं शङ्करेण च ।
बाणं हन्तुं रणे कृष्ण न क्षमस्त्वं भविष्यसि ॥ २७॥
शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः ।
जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ ॥ २८॥
ततो हर्षेण संयुक्तः कृष्णश्चक्रं निवर्त्य च ।
संस्थितः संयुगे सद्यो जृम्भास्त्रैर्वर्जितोऽभवम् ॥ २९॥
ततो मयाऽतिबोधेन ज्ञातं विघ्नेशचेष्टितम् ।
कृष्णो ननाम मां तत्र स्वस्वजेऽहं जनार्दनम् ॥ ३०॥
यथाविधि विवाहं स चकार दैत्यनायकः ।
अनिरुद्धाय पुत्रीं स्वां ददौ प्रेमपरिप्लुतः ॥ ३१॥
ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः ।
बाणो राज्यं परित्यज्य महाकालो बभूव ह ॥ ३२॥
कैलासे प्रातरुत्थाय पुपूज द्विरदाननम् ।
शमीमन्दारदूर्वादिरक्तपुष्पैर्विशेषतः ॥ ३३॥
सम्पूज्यादौ गणपतिं पश्चाच्छम्भुं महागणः ।
सदा ध्यानपरो भूत्वा तोषयामास तौ परौ ॥ ३४॥
शौनक उवाच ।
सूत विघ्नेश्वरस्यैव प्रियोऽत्यन्तं बभूव ह ।
रक्तवर्णः कथं तेन तुष्टो भवति सर्वपः ॥ ३५॥
रक्तवर्णः स्वयं साक्षाद्गणेशो ब्रह्मणां पतिः ।
रक्तवस्त्रधरो रक्तचन्दनेन विराजितः ॥ ३६॥
रक्तपुष्पधरः पूर्णः सिन्धुराङ्गविलेपनः ।
रक्तसागरखेली स वद कारणमुत्तमम् ॥ ३७॥
सर्ववर्णमयश्चायं कथमेकं समाश्रितः ।
तन्नः संशयदं साधो नुद सर्वज्ञसत्तम ॥ ३८॥
सूत उवाच ।
वर्णाः पञ्च समुद्भूताः सृष्ट्यादौ श्वेतशामलौ ।
रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा ॥ ३९॥
परस्परविभेदेन तथा सम्मीलनेन च ।
अनन्ता वर्णकाः प्रोक्ता जानीहि द्विजसत्तम ॥ ४०॥
तैस्तपो गणनाथस्य कृतं घोरं तु पञ्चभिः ।
वर्षकेषु शते तान् स आययौ गणनायकः ॥ ४१॥
तं दृष्ट्वा प्रणताः सर्वे वर्णाः सन्तुष्टुवुः परम् ।
वरान् वव्रुः तथा विप्र स्वस्वशोभासमन्वितान् ॥ ४२॥
अन्ये गणेश्वरं ते तु जगुस्तं ब्रह्मनायकम् ।
अस्मदीयस्वरूपस्थो भव स्वामिन्नमोऽस्तु ते ॥ ४३॥
वयं तेन गणाध्यक्ष कृतकृत्या भवामहे ।
मायाबन्धनहीनास्त्वां भजामहे निरन्तरम् ॥ ४४॥
तथेति तानुवाचैव गणेशोंऽतर्दधे ततः ।
वर्णा हर्षयुताः सर्वे स्वस्वकार्यरताः पुरा ॥ ४५॥
वर्णैः संशोभितं सर्वं नानाभेदैः समन्ततः ।
चराचरं विशेषेण वर्णयुक्तं बभूव ह ॥ ४६॥
काश्यपो गणनाथस्तु नीलवर्णाकृतिं धरः ।
मयूरेशस्तथा श्वेतवर्णयुक्तो बभूव ह ॥ ४७॥
वरेण्यस्य सुतो रक्तवर्णयुक्तो गजाननः ।
धूम्रवर्णस्तथा श्यामवर्णरूपधरो बभौ ॥ ४८॥
हरिद्रागणपः पीतवर्णाकृतिपरोऽभवत् ।
नानावताररूपैः स नानावर्णधरोऽभवत् ॥ ४९॥
एवं वरप्रदानेन वर्णाः सर्वे महामुने ।
गणेशाराधने सक्ताः स्वस्वकार्यपरायणाः ॥ ५०॥
ततो रक्तेन वर्णेन पुनस्तप्तं तपो महत् ।
निराहारेण विप्रेश ध्यात्वा हृदि गजाननम् ॥ ५१॥
सहस्रवर्षे च गते गणपस्तं समाययौ ।
वरान् दातुं महाभागं स ननाम गणाधिपम् ॥ ५२॥
(Page खं. ८ अ. १५ पान ३४)
पूजयित्वा प्रतुष्टाव रक्तवर्णः प्रहर्षितः ।
स्तोत्रैर्नानाविधैस्तं तु गाणेशैर्गणपप्रियैः ॥ ५३॥
ततः प्रसन्नभावेन विघ्नेशस्तमुवाच ह ।
वरान् वृणु महाभाग रक्तवर्ण हृदीप्सितान् ॥ ५४॥
रक्तवर्ण उवाच ।
रक्तवर्णस्वरूपस्थो भव त्वं गणनायक ।
सदा रक्तप्रियो नाथ नानावर्णेषु मानद ॥ ५५॥
तेनाऽहं सर्ववर्णेषु श्रेष्ठो भावी न संशयः ।
सततं कृतकृत्यश्च तव सन्निधिसंस्थितः ॥ ५६॥
तथेति तमथोक्त्वाऽसौ गणेशोंऽतर्दधे स्वयम् ।
तदादि वेदशास्त्रेषु रक्तवस्तुप्रियोऽभवत् ॥ ५७॥
इदं बाणचरित्रं यः शृणुयाद्वर्णसम्भवम् ।
पठेत्तस्य गणाधीशो वरदश्च भविष्यति ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः ॥ ८.१४
८.१५ बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सनकाद्या ऊचुः ।
श्रुत्वा त्वद्वदनाम्भोजात् कथाममृतरूपिणीम् ।
जन्ममृत्युहरां पूर्णां सर्वसौख्यकरीं शिव ॥ १॥
गाणेशानीं न तृप्ता वै वयं वद महामते ।
पुनर्गणपतेः सौम्यां कथामवतारजां पराम् ॥ २॥
श्रीशिव उवाच ।
कलिप्रवृत्तिकामार्थं ब्रह्मा विष्णुं ययौ पुरा ।
तुष्टाव तं रमानाथं जगाद स्वप्रयोजनम् ॥ ३॥
ब्रह्मोवाच ।
कलिं पापस्वरूपं च सृजामि स्म जनार्दन ।
न तं जनाः प्रहर्षेण मानयिष्यन्ति सर्वदा ॥ ४॥
द्वापरान्ते कलिः प्रोक्तस्तस्य कालोऽधुनाऽऽगतः ।
तं प्रवर्तय देवेश त्वं स्मृतः सर्वपालकः ॥ ५॥
ब्रह्मणो वचनं श्रुत्वा केशवस्तमुवाच ह ।
पापरूपं महाघोरं नाभिनन्दाम्यहं कलिम् ॥ ६॥
धर्मपालनभावार्थमवतारं करोम्यहम् ।
धर्मनाशकरं पापं कलिं नैवाभिनन्दये ॥ ७॥
ततस्तं केशवं देवं जगाद चतुराननः ।
बुद्धावतारभृत्त्वं वै कथितोऽसि जनार्दन ॥ ८॥
अवतारचरित्रं ते कलिप्रवर्तकं प्रभो ।
पश्य पौराणिकीं गाथां स्वधर्मस्थां त्वदाश्रिताम् ॥ ९॥
ब्रह्मणो वचनं श्रुत्वा निःश्वस्य तमथोऽब्रवीत् ।
विष्णुस्तथेति दुःखेन ब्रह्मा स्वभवनं ययौ ॥ १०॥
ततः स भगवांस्तत्र तताप तप उत्तमम् ।
षडक्षरेण मन्त्रेण ध्यात्वा हृदि गजाननम् ॥ ११॥
दशवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ।
तमाययौ महाभक्तं भक्तेशो भक्तवत्सलः ॥ १२॥
तमागतं समालोक्य तुष्टावाऽऽपूज्य विघ्नपम् ।
हेरम्बोपनिषत्तत्त्वैर्भक्त्या नम्रात्मकन्धरः ॥ १३॥
ततो गजाननस्तुष्टस्तं जगाद कृपान्वितः ।
वरान् वृणु महाभाग यांस्ते चित्ते स्थिरान् परान् ॥ १४॥
(Page खं. ८ अ. १५ पान ३५)
गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीत् ।
कृताञ्जलिः प्रणम्यैव गणेशं सर्वसिद्धिदम् ॥ १५॥
श्रीविष्णुरुवाच ।
भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीम् ।
बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे ॥ १६॥
धर्मसंस्थापनं नित्यं करोमि गणनायक ।
धर्मलोपार्थमेवाहं त्वया बुद्धः प्रकीर्तितः ॥ १७॥
एतदेव विरुद्धं मे प्राप्तं ढुण्ढे दयानिधे ।
तदर्थं शरणं नाथ यातोऽहं ते पदस्य च ॥ १८॥
अतो मां रक्ष विघ्नेश विरुद्धाचरणात् प्रभो ।
विनायकस्त्वमेको वै कुरु मां धर्मपालकम् ॥ १९॥
श्रीगणेश उवाच ।
मा भयं कुरु विष्णो त्वं धर्मयुक्तो भविष्यसि ।
कलिप्रवर्तने दोषो न ते क्वापि महात्मनः ॥ २०॥
मया चतुर्युगाः खेलाद्रचिताः क्रमकारणात् ।
वरदानेन मे सर्वे स्वस्वकालयुता बभुः ॥ २१॥
कलिस्तेषु महापापी मया संस्थापितोऽभवत् ।
मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादरात् ॥ २२॥
अहङ्कारं विभो त्यक्त्वा कर्ताहमिति चित्तगम् ।
समर्प्य मयि कर्माणि कुरु कर्म यथातथम् ॥ २३॥
चित्ते चिन्तामणिं पश्य तदिच्छावशगं जगत् ।
ब्रह्म नानाविधं तद्वत्तत्र कस्त्वं विचारय ॥ २४॥
वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता ।
तस्या आज्ञां प्रपाल्यैव वर्तितव्यं तु जन्तुभिः ॥ २५॥
प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परम् ।
सर्वेषां नात्र सन्देहो जीवानामीशभाविनाम् ॥ २६॥
कलिखेलकरः सोऽपि गणेशो धूम्रवर्णकः ।
चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थतः ॥ २७॥
एवं धार्य महाविष्णो मदाज्ञावशगो भव ।
कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि ॥ २८॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
विष्णुर्हर्षसमायुक्तो बुद्धोऽभूच्च महर्षयः ॥ २९॥
कृतं तेन महच्छास्त्रं बौद्धं मोहप्रदायकम् ।
कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् ॥ ३०॥
सनकाद्या ऊचुः ।
कीदृशं बौद्धशास्त्रं तद्वद सर्वज्ञ ते नमः ।
ज्ञात्वा मोहविहीनास्तज्जना भवन्ति नित्यदा ॥ ३१॥
श्रीशिव उवाच ।
शृणुध्वं मुनयः सर्वे बौद्धं नरकदायकम् ।
वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदम् ॥ ३२॥
स्वयं बुद्धिपतिः साक्षाद् हृदि तिष्ठति देहिनाम् ।
ब्रह्मणामीश्वराणां च पञ्चचित्तप्रचालकः ॥ ३३॥
स विनायक इत्युक्तः सर्वेषां नायको मतः ।
नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः ॥ ३४॥
तदिच्छया स्वयं ब्रह्म नानारूपधरं बभौ ।
नानाक्रीडासमायुक्तं नानामायाबलाश्रितम् ॥ ३५॥
तत्र पापादिकं नास्ति न पुष्पादिकमञ्जसा ।
ज्ञानाज्ञानसमानैश्च तुर्यं वै नात्र संशयः ॥ ३६॥
न स्वर्गप्राप्तिदं कर्म ब्रह्मणो नारकं कथम् ।
भ्रान्तिदं सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेत् ॥ ३७॥
हृदि बुद्धिप्रदातारं सर्वेषां खेलकारकम् ।
तं ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः ॥ ३८॥
चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः ।
न वर्णाश्रमधर्मैः स शरीरं पीडयेत् कदा ॥ ३९॥
(Page खं. ८ अ. १५ पान ३६)
देहो भोगार्थमानन्दाद्रचितस्तेन ब्रह्मणा ।
नानायत्नैः शरीरं तत् पोषणीयं निरन्तरम् ॥ ४०॥
शरीरे कष्टमापन्ने बुद्धिः खेदयुता भवेत् ।
तत्स्थबुद्धिपतिः साक्षाद् दुःखितश्च तथा भवेत् ॥ ४१॥
अहं ब्रह्मेति सन्धार्य सदा स्वेच्छापरो भवेत् ।
पापपुण्यविहीनः स देहपोषणकारकः ॥ ४२॥
नानापदार्थभावेषु मनस्तस्य प्रवर्तते ।
भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमम् ॥ ४३॥
जीवहिंसामयं कर्म कर्तव्यं न कदाचन ।
तृणाङ्कुरादिकं तद्वन्नच्छेत्तव्यं विचारतः ॥ ४४॥
देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः ।
न स्वाहा न स्वधाद्यं यदहं ब्रह्मेति बोधतः ॥ ४५॥
ब्राह्मणेभ्यो न दातव्यं दानभोज्यादिकं कदा ।
सर्वे समानरूपाश्च कथं तत्र द्विजादिकम् ॥ ४६॥
यत्र चित्तस्य सम्प्रीतिर्जायते मुनिसत्तमाः ।
तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः ॥ ४७॥
एवं नानामतैर्युक्तं शास्त्रं बौद्धं महर्षयः ।
ज्ञातव्यं कलिदोषैश्च युक्तं नरकदं भवेत् ॥ ४८॥
वर्णाश्रमस्थकं धर्मं त्यक्त्वा स्वेच्छापरो भवेत् ।
अहिंसा परमो भावी ह्येतद्बौद्धरहस्यकम् ॥ ४९॥
सर्वान् सम्मोह्य विश्वात्मा बुद्धः कलिप्रवर्तकः ।
संस्थितः कैकटे देशे गुप्तरूपेण मानदाः ॥ ५०॥
गणेशध्यानसंयुक्तः समर्प्य ढुण्ढये कृतम् ।
कर्मयोगयुतः सोऽपि तदाऽऽज्ञापालकोऽभवत् ॥ ५१॥
तथापि पूजया हीनो बभूवे बुद्धरूपधृक् ।
विष्णुर्वेदविरुद्धस्थमार्गसंसर्जनात् किल ॥ ५२॥
कलिप्रान्ते दुराचारा बौद्धमाया विमोहिताः ।
वर्णाश्रमपरिभ्रष्टा भविष्यन्ति गृहे गृहे ॥ ५३॥
लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः ।
अधर्मेण जितः सोऽपि सदोपोषणसंयुतः ॥ ५४॥
ततो बुद्धः स्वयं ढुण्ढिं परं ध्यात्वा तपोन्वितः ।
प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ॥ ५५॥
ततो गणेश्वरः साक्षात् प्रसन्नोऽवतरिष्यति ।
धूम्रवर्ण इति ख्यातो धर्मं संस्थापयिष्यति ॥ ५६॥
हृष्टो बुद्धश्च तं नत्वा पूज्य स्तुत्वा विशेषतः ।
अन्तर्धानं स्वयं कृत्वा स्वमहिम्नि स्थितो भवेत् ॥ ५७॥
इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावतः ।
पठनाच्छ्रवणात् सद्यो मोहघ्नं कामदं भवेत् ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः ॥ ८.१५
(Page खं. ८ अ. १६ पान ३७)
८.१६ धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः ।
प्रार्थयिष्यन्ति विघ्नेशमुपोषणपरायणाः ॥ १॥
नानातपोन्वितान् वीक्ष्य प्रादुर्भावं गजाननः ।
करिष्यत्यमरान् विप्राः पुरः परमभक्तितः ॥ २॥
समागतं गणेशानं धूम्रवर्णधरं प्रभुम् ।
द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणम् ॥ ३॥
नानापुष्पमयीं मालां दधानं गन्धचर्चितम् ।
दृष्ट्वा सुराः प्रणेमुस्तं नत्वा पूज्य प्रतुष्टुवुः ॥ ४॥
नमस्ते धूम्रवर्णाय नानाखेलकराय च ।
अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ ५॥
अनाथानां प्रणाथाय नाथनाथाय ते नमः ।
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ ६॥
सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे ।
योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ ७॥
नरकुञ्जररूपाय धूम्रवर्णधराय च ।
द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ ८॥
खड्गचर्मधरायैव नाना चन्दनचर्चित ।
नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥ ९॥
पूर्णाय पूर्णरूपाय गणेशाय परात्मने ।
धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥ १०॥
धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया ।
नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्वदग्रतः ॥ ११॥
बुद्धमायासहायेन कलिना निर्जिता वयम् ।
विष्णुशम्भुमुखा देवास्तान् पालय महोदर ॥ १२॥
सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः ।
क्षुद्रदेवाः स्वग्रामस्थाः कलिना पपलुश्च ते ॥ १३॥
ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः ।
तीर्थानि कलिना नाथ जितानि पपलुस्तथा ॥ १४॥
ततो दशसहस्रेण जिता विष्णुशिवादयः ।
कलिना पृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः ॥ १५॥
कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् ।
विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥ १६॥
त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् ।
देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥ १७॥
न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः ।
छेत्तुं समुद्यतः क्वापि त्वां चिन्तयति सर्वदा ॥ १८॥
तव चिन्तनभावेन वयं सर्वे पराजिताः ।
कलिना देवदेवेश उपोषणयुताः कृताः ॥ १९॥
अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप ।
तं हनिष्यति वेगेन कलिः परमदारुणः ॥ २०॥
नष्टे धर्मे गणाधीश अधर्मः केवलो महान् ।
भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥ २१॥
अतो लेशमयं धर्मं रक्षस्व गणनायक ।
नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥ २२॥
रक्ष रक्ष दयासिन्धो धूम्रवर्ण गजानन ।
मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥ २३॥
एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः ।
रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः ॥ २४॥
धूम्रवर्ण उवाच ।
मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् ।
सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥ २५॥
भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् ।
पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥ २६॥
धनधान्यप्रदं चैवारोग्यसम्पत्प्रवर्धनम् ।
पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥ २७॥
एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् ।
निर्ममे विविधां सेनां नानाशस्त्रसमन्विताम् ॥ २८॥
(Page खं. ८ अ. १६ पान ३८)
नानावाहनगां पूर्णतेजोयुक्तां महर्षयः ।
तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥ २९॥
म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् ।
स्वयं सन्त्रासयामास कलिं धर्मवधे रतम् ॥ ३०॥
तस्याङ्गवायुना स्पृष्टा जना धर्मपरायणाः ।
भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥ ३१॥
कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः ।
गणेशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥ ३२॥
ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः ।
देहधारी समागत्य धूम्रवर्णं ननाम सः ॥ ३३॥
तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् ।
ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥ ३४॥
कलिरुवाच ।
धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक ।
नानारूपधरायैव विघ्नेशाय नमो नमः ॥ ३५॥
अनन्तपादहस्तायानन्तबाहुधराय ते ।
अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ ३६॥
हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ ३७॥
आदिमध्यान्तहीनायादिमध्यान्तभयाय ते ।
आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ३८॥
मायाहीनाय मायाया आधाराय परात्मने ।
मायिभ्यो मायया मोहदायिने ते नमो नमः ॥ ३९॥
कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने ।
आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ४०॥
सहजाय नमस्तुभ्यं स्वानन्दाय समाधये ।
योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥ ४१॥
कस्त्वां स्तोतुं समर्थः स्याद्यत्र शान्तिं गताः प्रभो ।
वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥ ४२॥
रक्ष मां गणनाथ त्वं दासं शरणमागतम् ।
अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥ ४३॥
एवमुक्त्वा कलिस्तस्य पादं गृह्य पपात ह ।
तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥ ४४॥
धूम्रवर्ण उवाच ।
मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन ।
शरणं मां प्रपन्नं च शृणु मे वच नोहतम् ॥ ४५॥
स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् ।
पठते शृण्वते नित्यं सर्वकामफलप्रदम् ॥ ४६॥
अन्ते स्वानन्ददं पूर्णं भविष्यति कले परम् ।
दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥ ४७॥
तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः ।
कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥ ४८॥
तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् ।
धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥ ४९॥
पुनस्तान् स्थाप्य सर्वेशः कृतं तैः सम्प्रवर्तयत् ।
स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः ॥ ५०॥
धूम्रवर्णावतारस्य चरितं कथितं मया ।
सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॥ ८.१६
(Page खं. ८ अ. १७ पान ३९)
८.१७ युगवरप्रदानं नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत सूत महाभाग कथां पापापहारिणीम् ।
वदसे योगदां पूर्णां श्रुत्वा तृष्टा वयं द्विज ॥ १॥
पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः ।
महासंशयसंयुक्ता वयं जाता विशेषतः ॥ २॥
कृते स्त्रीणां च स्वातन्त्र्यं त्रेतायां ब्रह्मणा कृतम् ।
द्वापरे संस्कृतं श्वेतकेतुनैकपतिश्रितम् ॥ ३॥
गौतमेन कथं शप्ता कृतेऽहल्या महासती ।
इत्यादिबहवोऽस्माभिर्मार्गा दृष्टाः कृते युगे ॥ ४॥
अन्यत् कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते ।
एकवर्णाऽऽश्रमस्थास्ते भवन् सङ्कीर्तिता जनाः ॥ ५॥
त्रेतायां क्षात्रधर्मं तु चकार प्रपितामहः ।
ततोऽभवन्नरा वर्णाश्रमस्थास्ते प्रकीर्तितम् ॥ ६॥
सौरचान्द्रभवौ विप्र द्वापरान्ते स्थितौ नृपौ ।
पुनः कृतयुगे प्राप्ते राज्यं तौ च करिष्यतः ॥ ७॥
वर्णाश्रमविभागेन वर्तयिष्यन्ति मानवाः ।
किमिदं कौतुकं तत्र विरुद्धवाचकं परम् ॥ ८॥
युगधर्मेण नष्टास्ताः कलौ पापमये क्रियाः ।
वर्णाश्रमविभागस्थास्तत्र सिद्धिः कुतोऽभवत् ॥ ९॥
कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयात् ।
नरः सर्वत्र सम्प्रोक्तं कथं तच्च भविष्यति ॥ १०॥
अतो युगभवं सर्वं कथयस्व विशेषतः ।
यथातथ्यं महाभाग सुलभं सुगमार्थकम् ॥ ११॥
सूत उवाच ।
युगा नानाविधाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ।
तदर्थज्ञो न मुह्येत मतभेदप्रमाणतः ॥ १२॥
तुरीयदेहगं केचित् कृतं वदन्ति निश्चितम् ।
त्रेता सुषुप्तिगा स्वाप्नं द्वापारं जागृतं कलिम् ॥ १३॥
तत्रात्मा गुणपः प्रोक्तो सर्वत्रैको महर्षयः ।
माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता ॥ १४॥
तस्यां नानाविधायां न व्यभिचारो भविष्यति ।
यत्र तत्र स्थितं स्वस्य पतिं पश्यति सा शुभा ॥ १५॥
सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागतः ।
तयोर्गुणेशजं रूपं तदाकारं विभाति च ॥ १६॥
भिन्नभावात् समुत्पन्ने जागृत्स्वप्ने न संशयः ।
तयोः पतिकलत्रादि व्यभिचारयुतं भवेत् ॥ १७॥
तत्र संस्थापिता तेन मर्यादा श्वेतकेतुना ।
श्वेतं स्वप्नं ध्वजो यस्य श्वेतकेतुः स वै स्मृतः ॥ १८॥
अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः ।
नेमे युगा महाविप्राः कथिता मुनिभिः पुरा ॥ १९॥
ध्यानं कृतयुगं केचित् यज्ञं त्रेतां वदन्ति च ।
आचारं द्वापरं देहविषयं कलिमेव च ॥ २०॥
तत्र ध्याने महाभागा एकवर्णाश्रमो भवेत् ।
ज्ञानं तदेव ज्ञातव्यमेकरूपधरं सदा ॥ २१॥
यज्ञः कर्ममयः प्रोक्तस्तत्र वर्णाश्रमो भवेत् ।
अतो वर्णाश्रमाचारस्त्रेतायां परिकीर्तितः ॥ २२॥
एवं नाना विचारेण मुनिभिः कथितं पुरा ।
न तत्र संशयः कार्यो जनैस्तदर्थयुक्तिभिः ॥ २३॥
अधुना युगमाहात्म्यं कथयामि समासतः ।
कलौ सिद्धिकरं चैव कर्म येन प्रजायते ॥ २४॥
आदौ ब्रह्माऽसृजत् कालं धर्माधर्मव्यवस्थया ।
स चतुर्धाऽभवत्तत्र युगरूपः पुरातनः ॥ २५॥
कृतं त्रेता द्वापरश्च कलिश्चेति महर्षयः ।
तेभ्यः सिद्धिप्रदानार्थं ददौ मन्त्रान् प्रजापतिः ॥ २६॥
(Page खं. ८ अ. १७ पान ४०)
तं प्रणम्य ययुः सर्वे तपसे वनमुत्तमम् ।
गणेशं चेतसि ध्यात्वा जेपुर्मन्त्रं युगानि च ॥ २७॥
निराहारप्रभावेण परितुष्टो गजाननः ।
भक्त्या तेषां ययौ वर्षसहस्रे वरदः पुरः ॥ २८॥
तमागतं समालोक्य प्रणेमुस्ते गणाधिपम् ।
पूज्य ते तुष्टुवुः सर्वे हर्षगद्गदभाषणाः ॥ २९॥
युगपुरुषा ऊचुः ।
गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
नानारूपभृते तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥
भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च ।
परेशाय पराणां ते पराय च नमो नमः ॥ ३१॥
स्वानन्दवासिने तुभ्यं नानामायाप्रचारिणे ।
सदा स्वानदम्भोगस्थ पालकाय नमो नमः ॥ ३२॥
अमेयशक्तये तुभ्यं नानामायाप्रहारिणे ।
मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥ ३३॥
लम्बोदराय लोकानामुदरस्थाय ते नमः ।
एकदन्ताय शूर्पाकारकर्णाय नमो नमः ॥ ३४॥
त्रिनेत्राय गजाकारवक्त्राय परमात्मने ।
चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥ ३५॥
देवाय देवरूपाय देवदेवाय ते नमः ।
देवदेवेशकायैव विघ्नेशाय नमो नमः ॥ ३६॥
सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः ।
सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥ ३७॥
ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च ।
ब्रह्मभ्यो ब्रह्मदात्रे ते शान्तिस्थाय नमो नमाः ॥ ३८॥
किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः ।
योगरूपा भवन्ति स्म ततस्ते नमनं शुभम् ॥ ३९॥
एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज ।
स तानुवाच प्रीतात्मा भक्तवात्सल्ययन्त्रितः ॥ ४०॥
श्रीगणेश उवाच ।
स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति ।
पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥ ४१॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः ।
भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥ ४२॥
वरान् ब्रूत महाभागा ददामि मनसेप्सितान् ।
तपसा स्तोत्रमुख्येन तुष्टो भक्त्या विशेषतः ॥ ४३॥
युगा ऊचुः ।
यथा संरचिता देव गजानन वयं त्वया ।
सामर्थ्यमतुलं देहि तथा ते भक्तिमुत्तमाम् ॥ ४४॥
कृत उवाच ।
सदा सत्त्वयुतं मां त्वं कुरु कर्मपरायणम् ।
स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतम् ॥ ४५॥
त्रेतोवाच ।
भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजोयुताम् ।
तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु ते ॥ ४६॥
द्वापर उवाच ।
भुक्तिसौख्ययुतं मां त्वं कुरु धर्मपरायणम् ।
भोगबुद्धिपरार्थं च रजस्तमोयुतं प्रभो ॥ ४७॥
कलिरुवाच ।
तामसं देहभोगार्थमुद्यतं सततं प्रभो ।
विकर्मरुचिसंयुक्तं मां कुरुष्व गजानन ॥ ४८॥
पुनस्ते तं वदन्ति स्म युगा हर्षसमन्विताः ।
एकैकाश्रितभावेन भो कुरुष्व निरन्तरम् ॥ ४९॥
तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाच ह ।
मेघगम्भीरया वाचा सर्वेभ्यः सुखदायकः ॥ ५०॥
श्रीगणेश उवाच ।
लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति ।
शतांशेन च सा त्रेता द्वापरस्त्वयुतांशतः ॥ ५१॥
यदा त्रेतायुगं प्राप्तं शतांशेन तदा कृतम् ।
(Page खं. ८ अ. १८ पान ४१)
सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति ॥ ५२॥
अयुतांशेन पापिष्ठः कलिस्तेन समन्वितः ।
चरिष्यति न सन्देहः परस्परप्रवेशनात् ॥ ५३॥
द्वापरे समनुप्राप्ते शतांशेन भविष्यति ।
कलिः सहस्रभागात्त्रेतायुतांशं कृतं भवेत् ॥ ५४॥
कलौ शतांशरूपेण द्वापरः प्रभविष्यति ।
सहस्रभागात्त्रेता च लक्षांशेन कृतं भवेत् ॥ ५५॥
धर्माऽधर्माविचारेण मोहदः स कलिः स्मृतः ।
धर्मज्ञो मोहकर्माऽसौ द्वापरः परिकीर्तितः ॥ ५६॥
यशाः प्रिया स्वधर्मस्थास्त्रेता सर्वत्र सम्मता ।
मुक्तिप्रियं कृतयुगं स्वधर्मस्थं प्रकीर्तितम् ॥ ५७॥
एवं क्रमेण सर्वत्र भविष्यथ युगाः प्रियाः ।
मां ज्ञात्वा बन्धहीनाश्च वाञ्छितार्थप्रदायकाः ॥ ५८॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः ।
युगा हर्षसमायुक्ताः स्वस्वकर्मपराः बभुः ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते युगवरप्रदानं नाम सप्तदशोऽध्यायः ॥ ८.१७
८.१८ युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
कृते कलिमुखाश्चैव युगाः सन्ति महर्षयः ।
कृताज्ञापालकाः सर्वे कृतमानभयार्दिताः ॥ १॥
तत्रायुः कृततुल्यं वै सर्वेषां जन्मिनां सदा ।
पापाचारादियुक्तानां सर्वं कृतसमं भवेत् ॥ २॥
शापादिकं नराणां तु सफलं कृतभावतः ।
भवते पापिनामेव यथा सुकृतिनां वचः ॥ ३॥
तत्र भेदं प्रवक्ष्यामि नरोऽपराधसंयुतः ।
न भवेच्छापभीतः सन् कृते युगप्रमाणतः ॥ ४॥
तद्वत् त्रेतायुगे विप्र युगास्त्रयः कृतादयः ।
वर्तन्ते भयसंयुक्तास्त्रेतायां नात्र संशयः ॥ ५॥
पापिनां सुकृतिनां चायुरादि तत् समं भवेत् ।
त्रेतायुगप्रमाणेन ज्ञातव्यं द्विजसत्तम ॥ ६॥
द्वापारे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः ।
तेन सर्वं तदाकारं फलं भवति कर्मजम् ॥ ७॥
आयुरादि नराणां च द्वापरेण समं भवेत् ।
नानाभावास्तदाकारा मया वक्तुं न शक्यते ॥ ८॥
कलौ युगास्त्रयस्ते तु तदाज्ञावशवर्तिनः ।
वर्तन्ते तेन कर्मादिफलं कलिसमं भवेत् ॥ ९॥
आयुरादि महर्षे तु कलितुल्यं न संशयः ।
सुकृतिनां महापापिनां युगस्य प्रमाणतः ॥ १०॥
अतो लेशमयी सिद्धिः कलौ सत्कर्मकारिणाम् ।
भविष्यति तथा सर्वमासुरेण हतं भवेत् ॥ ११॥
योगः शान्तिप्रदः प्रोक्तः स एव मुनिसत्तम ।
चतुर्षु युगधर्मेषु समरूपो भविष्यति ॥ १२॥
कृते कर्म कृतं चैकफलदं शास्त्रसम्मते ।
त्रेतायां तद्दशाधिक्यं द्वापारे तु शताधिकम् ॥ १३॥
(Page खं. ८ अ. १८ पान ४२)
सहस्रगुणसंयुक्तं भवते सर्वमञ्जसा ।
कलौ युगेन सन्देहो गणेशवरदानतः ॥ १४॥
कलौ तावन्मयं प्रोक्तं विकर्मकृतमञ्जसा ।
फलदं द्वापरे तच्च दशाधिक्यं भवेत् परम् ॥ १५॥
त्रेतायां तच्छताधिक्यं कृते साहस्रकं भवेत् ।
युगमानस्य माहात्म्यान्निश्चितं मुनिभिः पुरा ॥ १६॥
एवं नानाप्रमाणानि युगेषु कथितानि च ।
कथितं तत् पुरा विप्राः पुराणेषु समासतः ॥ १७॥
अथ सिद्धिं प्रवक्ष्यामि कलौ सर्वार्थदायिनीम् ।
यथाऽऽचारयुतं कर्म फलदं तत् क्षणाद्भवेत् ॥ १८॥
आसुरेण स्वभावेन कलिना सर्वमावृतम् ।
फलं कर्मभवं विप्र तस्मात् न फलदं भवेत् ॥ १९॥
कर्मसिद्धिं कलौ तत्र यदीच्छति जनो हृदि ।
सर्वादावयुतं कुर्यात् गायत्रीसम्भवं जपम् ॥ २०॥
हविष्यान्नं तु भुक्त्वा स एकभुक्तपरायणः ।
ब्रह्मचर्ययुतो जन्तुः सत्यभाषी जितेन्द्रियः ॥ २१॥
शौचाचारसमायुक्तो द्वेषादि स परित्यजेत् ।
मनसाऽपि स्त्रियं नैव भोगार्थं संस्मरेत् कदा ॥ २२॥
यदा देहं समागृह्य नरः कर्मपरायणः ।
मनसा विषयं चेच्छेत्तदा सिद्धिः कथं भवेत् ॥ २३॥
एवमादि स्वधर्मस्थां क्रियां कृत्वा महायशाः ।
गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेत् ॥ २४॥
ततः कृच्छ्रं समा कुर्यात्ततः कर्म समाचरेत् ।
स सर्वकलिदोषेण मुक्तः सिद्धिमवाप्नुयात् ॥ २५॥
यथोक्तविधिना कर्म कृतं येन महात्मना ।
चतुर्गणं कलौ विप्राः सिद्धिदं तत् क्षणाद्भवेत् ॥ २६॥
आसुरेण स्वभावेन कृतं कर्म द्विजादिभिः ।
कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे ॥ २७॥
केवलासुरभावेन सत्कर्म मानवेन च ।
सहस्रगुणितं हर्षात् कृतमासुरगं भवेत् ॥ २८॥
सुरासुरस्वभावेन कृतं कर्म शुभाशुभम् ।
सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् ॥ २९॥
एवं सर्वं समाख्यातं युगधर्मरहस्यकम् ।
सङ्क्षेपेण कलौ तद्वत् सिद्धिदं मुनिसत्तम ॥ ३०॥
शृणुयादिदमाख्यानं युगानां मानवः परम् ।
पठेद्वा पाठयेत् सोऽपि दोषहीनो भवेत्ततः ॥ ३१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः ॥ ८.१८
(Page खं. ८ अ. १९ पान ४३)
८.१९ समासवत्सरचरितं नामैकोनविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
मासानां चरितं ब्रूहि सूत सर्वार्थकोविद ।
मलमासे गणेशस्य पूजनं कीदृशं भवेत् ॥ १॥
सूत उवाच ।
ब्रह्मणोंऽगसमुत्पन्नः संवत्सरः प्रतापवान् ।
मासा द्वादश तस्यांऽगात् समुत्पन्नाः पुरा मुने ॥ २॥
छायाया मलमासश्च समुत्पन्नः शुभप्रदः ।
सह तैर्गणपं ध्यात्वा तपस्तेपे स वत्सरः ॥ ३॥
षडक्षरं महामन्त्रं जजाप ब्रह्मणोदितम् ।
गणेशस्य सदा ध्यानं चकार हर्षसंयुतः ॥ ४॥
एवं वर्षसहस्रेण प्रसन्नो वरदोऽभवत् ।
तमाययौ गणाधीशो भक्तं भक्तजनप्रियः ॥ ५॥
उवाच तं समाधिस्थं संवत्सरं गजाननः ।
समास त्वं वरान् ब्रूहि परान् मत्तो हृदीप्सितान् ॥ ६॥
गणेशवचनं श्रुत्वा संवत्सरो बुबोध तम् ।
समुत्थाय गणेशानं ननाम भक्तिसंयुतः ॥ ७॥
समासः पूजयामास यथाविध्युपचारतः ।
पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ ८॥
समाससंवत्सर उवाच ।
नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये ।
हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ ९॥
शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने ।
लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ १०॥
अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः ।
कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ ११॥
आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित ।
गणेशाय गणानां ते चालकाय नमो नमः ॥ १२॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥ १३॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥ १४॥
अनन्तविभवायैवानन्तमायाप्रचारिणे ।
मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥ १५॥
शान्तियोगमयायैव शान्तियोगधराय ते ।
शान्तियोगप्रदात्रे च योगेशाय नमो नमः ॥ १६॥
किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे ।
योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः ॥ १७॥
अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो ।
वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥ १८॥
भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् ।
कालमानकरं ढुण्ढे वीर्यं देहि स्वभावजम् ॥ १९॥
कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् ।
साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥ २०॥
एवमुक्त्वा प्रणेमुस्तं मासाः संवत्सरान्विताः ।
तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥ २१॥
श्रीगणेश उवाच ।
यद्यत् सम्प्रार्थितं मासाः संवत्सर तथास्तु वै ।
सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥ २२॥
सूर्येण संयुताः सर्वे द्वादशदेहधारिणा ।
फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥ २३॥
ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः ।
अन्ते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥ २४॥
याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् ।
भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥ २५॥
आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि ।
देवताऽहं त्वदीये तु कर्मणां फलदायकः ॥ २६॥
(Page खं. ८ अ. २० पान ४४)
सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः ।
नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २७॥
त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् ।
नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २८॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
पठतां शृण्वतां नॄणां भावपूरं न संशयः ॥ २९॥
कालदोषभवं पापं कालस्योल्लङ्घनादिकम् ।
हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥ ३०॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः ।
संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥ ३१॥
मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे ।
कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥ ३२॥
एतत् संवत्सरस्यैव समासस्य चरित्रकम् ।
यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥ ३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते समासवत्सरचरितं नामैकोनविंशोऽध्यायः ॥ ८.१९
८.२० मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
ततो बहौ गते काले मासाः षट् तपसि स्थिताः ।
निराहारपराः सर्वे गणेशं समतोषयन् ॥ १॥
कार्तिको मार्गशीर्षश्च माघो वैशाखश्रावणौ ।
अधिमासस्तथा विप्र गणेशध्यानतत्परः ॥ २॥
दशवर्षेषु विघ्नेशस्तान् ययौ वरदायकः ।
स्तुतः सम्पूजितस्तैस्तु वरान् ब्रूत स चाब्रवीत् ॥ ३॥
गणेशवचनं श्रुत्वा मासास्तं प्रणिपत्य च ।
ऊचुः प्रहृष्टचित्तास्ते भक्त्या नम्रात्मकन्धराः ॥ ४॥
मासा ऊचुः ।
यदि विघ्नेश सर्वेश वरदोऽसि तदा प्रभो ।
अस्मासु यत्कृतं कर्म बहुलं कुरु सर्वदा ॥ ५॥
तेनास्मत्कालसम्प्राप्तौ नरा यत्नपरायणाः ।
भविष्यन्ति विशेषेण सदा सत्कर्मकारिणः ॥ ६॥
तद्भक्तिनिलयान्नित्यं कुरु नो गणनायक ।
त्वद्दासप्रवणांस्तद्वत् कर्मदोषविवर्जितान् ॥ ७॥
श्रीगणेश उवाच ।
अन्येषु सर्वमासेषु कृतं कर्म तदात्मकम् ।
फलदं सम्मतं शास्त्रे मदीयवरदानतः ॥ ८॥
तेभ्यो दशाधिकं कर्म फलदं प्रभविष्यति ।
मार्गशीर्षे कृतं मासाः शुभदं मानवैः किल ॥ ९॥
तस्माद्वैशाखमासे तद्भविष्यति दशाधिकम् ।
तस्मात् कार्तिकिके मासे दशाधिकफलप्रदम् ॥ १०॥
तस्माद्दशाधिकं माघे कर्म यन्मानवैः कृतम् ।
तस्माद्दशाधिकं भावि श्रावणे फलदं भवेत् ॥ ११॥
तस्माद्दशाधिकं प्रोक्तं ढौण्ढे मासे फलप्रदम् ।
एवं क्रमेण श्रेष्ठा वै भविष्यथ यथा तपः ॥ १२॥
अधिमासस्य देवोऽहं ढुण्ढिराजो न संशयः ।
ढौण्ढमासः समाख्यातो मया नाम्नाऽधुना महान् ॥ १३॥
(Page खं. ८ अ. २१ पान ४५)
अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः ।
नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥ १४॥
उपासते श्रावणे मां नानायत्नपरायणाः ।
उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥ १५॥
समारभ्य प्रतिपदं चतुर्थ्यन्तं मदर्चनम् ।
चतुर्थ्यां जागरं कुर्यात् पञ्चम्यां पारणं तथा ॥ १६॥
यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् ।
स सर्वसुखमाभोज्यान्ते स्वानन्दमवाप्नुयात् ॥ १७॥
मुख्यं पञ्चसु वै स्नानं मासेषु सर्वभावतः ।
प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥ १८॥
एवं मासा भवन्तोऽपि भविष्यन्ति जनैः सदा ।
सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥ १९॥
मयि भक्तियुता नित्यं सर्वदेवपरायणाः ।
भविष्यथ मदीयेन वरेणैव विशेषतः ॥ २०॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो भक्तवत्सलः ।
मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥ २१॥
शृणोति मासचारित्रमेवं पठति यो नरः ।
स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥ २२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥ ८.२०
८.२१ धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् ।
तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥ १॥
के के सिद्धिं गतास्तेषु गणेशभजनेन वै ।
तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥ २॥
सूत उवाच ।
अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा ।
तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥ ३॥
स्वशाखोक्तेन मार्गेण सन्ध्यादिकं समाचरेत् ।
वैदिकैस्तान्त्रिकैर्मन्त्रैः पूजयेद्गणनायकम् ॥ ४॥
पुराणसम्भवैर्वाऽपि यथोपचारसंयुतः ।
एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥ ५॥
हविष्यान्नं फलहारो निराहारोऽथवा पुनः ।
ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥ ६॥
पृथव्यां शयनकारी स सत्यावाङ् मौनधारकः ।
यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥ ७॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने ।
स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥ ८॥
स्त्रीणां व्रतमिदं पुण्यं साधवानां सुखप्रदम् ।
विधवानां विशेषेण परं मासात्मकं भवेत् ॥ ९॥
तेषु पञ्चकमानन्दाच्चरेन् मुख्यं सदा जनः ।
गणेशपूजनं विप्र भोजनं दीपदानकम् ॥ १०॥
शमीमन्दारसेवां च प्रदक्षिणपरायणाम् ।
(Page खं. ८ अ. २१ पान ४६)
गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥ ११॥
एवमादि गणेशस्य प्रियं नानाविधं चरेत् ।
सदा तन्निष्ठभावेन तिष्ठेन् मासव्रती मुने ॥ १२॥
अन्यान् शम्भुमुखान् देवान् पूजयेन् मानवो मुने ।
स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत् ॥ १३॥
आवश्यकेन भावेन मासाः सेव्या इमे नरैः ।
धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥ १४॥
यं यमिच्छति तं तं वै लभते नात्र संशयः ।
मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥ १५॥
अत्रेतिहासमुख्यं ते कथयामि समासतः ।
मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥ १६॥
शङ्खासुरो महादैत्यो ब्रह्माण्डाधिपतिः पुरा ।
बभूव स जहारैव वेदान् स्मृतिसमन्वितान् ॥ १७॥
ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः ।
वर्णसङ्करजं कर्म बभूवे सर्वमण्डले ॥ १८॥
ततो मुनिगणैर्युक्ता देवा विधिमुखा ययुः ।
विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥ १९॥
ततो विष्णुः स्वयं शम्भुं जगाम तान् विसृज्य सः ।
तं जगाद महाभागं विनयेन समन्वितः ॥ २०॥
विष्णुरुवाच ।
शङ्खं वेदहरं शम्भो दुर्जयं देवतादिभिः ।
जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥ २१॥
श्रीशिव उवाच ।
समीपे कार्तिको मासो जनार्दन समागतः ।
तत्र मासव्रतेन त्वं तोषयस्व गजाननम् ॥ २२॥
तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् ।
शङ्खासुरं न सन्देहो नान्यथा पुरुषोत्तम ॥ २३॥
श्रुत्वा तं शङ्करं नत्वा विष्णुः परपुरञ्जयः ।
गतो बदरिकारण्यं व्रतार्थं भक्तिसंयुतः ॥ २४॥
तत्रैकाक्षरमन्त्रस्य पुरश्चरणमुत्तमम् ।
चकार गणनाथं स तोषयामास यत्नतः ॥ २५॥
कार्तिके पञ्चकं सेव्यं गाणेशं सर्वसिद्धिदम् ।
मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥ २६॥
ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि ।
केनोपायेन दैत्येशं विजेष्यामि सुदारुणम् ॥ २७॥
तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि ।
मात्स्येनैव स्वरूपेण विजयो मे भविष्यति ॥ २८॥
एतस्मिन्नन्तरे तत्र बभूवाऽऽकाशजां पराम् ।
वाणीं शुश्राव देवेशः केशवः परवीरहा ॥ २९॥
मात्स्यरूपेण शङ्खं तं जहि सर्वभयङ्करम् ।
मां स्मृत्वा नात्र सन्देहो विजयस्ते भविष्यति ॥ ३०॥
ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः ।
घोरं युद्धं स कृत्वा तं जघान शङ्खमुल्बणम् ॥ ३१॥
साङ्गान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः ।
स्तुतः सम्पूजितो देवैर्मुनिभिः स्वस्थलं ययौ ॥ ३२॥
एवं कार्तिकमासे तु स्नानादिव्रततेजसा ।
हतः शङ्खासुरस्तेन विष्णुना मत्स्यरूपिणा ॥ ३३॥
अन्यच्च शृणु विपेन्द्र कथां पापप्रणाशिनीम् ।
कार्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥ ३४॥
पौलस्त्यो ब्राह्मणः कश्चित् सोमदत्त इति श्रुतः ।
स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥ ३५॥
जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् ।
(Page खं. ८ अ. २१ पान ४७)
पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥ ३६॥
सोमदत्त उवाच ।
केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् ।
क्षणभङ्गुरदेहत्वात्तदुपायं वद प्रभो ॥ ३७॥
गौतम उवाच ।
समीपे कार्तिको मासः समायातो महामुने ।
व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥ ३८॥
एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् ।
स्थानं स्वस्याश्रमे सोऽपि तत्रारम्भं चकार ह ॥ ३९॥
एकनिष्ठः स्वभावेन परं गाणेशपञ्चकम् ।
सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥ ४०॥
उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् ।
जजाप मन्त्रराजं स षडक्षरं शुभप्रदम् ॥ ४१॥
तत्र चित्रं समभवत् समाप्तिसम्भवे दिने ।
तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥ ४२॥
पूजायां संस्थितो विप्रः सोमदत्तो महायशाः ।
कार्तिक्यां पूर्णिमायां स एकासनविधौ रतः ॥ ४३॥
तत्र दूर्वाशमीमन्दारपुष्पाणि स्थितानि तु ।
अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥ ४४॥
सोमदत्तः स्वयं तत्र मौनवानासने स्थितः ।
नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥ ४५॥
ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् ।
लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥ ४६॥
अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः ।
दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥ ४७॥
ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः ।
शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥ ४८॥
स्वकण्ठे शस्त्रघातं स चकार गणनायकः ।
तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥ ४९॥
शमीमन्दारदूर्वादीन् गृह्य तस्मै ददौ पुनः ।
उवाच पूजय त्वं तु गणेशं हठतत्पर ॥ ५०॥
दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः ।
नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥ ५१॥
सोमदत्त उवाच ।
त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा ।
समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥ ५२॥
न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् ।
निश्चयं मे दृढं दृष्ट्वा परीक्षार्थं समागतः ॥ ५३॥
दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् ।
सत्यं वद महाभाग तेन तृप्तो भवामि च ॥ ५४॥
ततो व्रतप्रभावेण भक्त्या नियमयुक्तया ।
सन्तुष्टो गणराजः स दर्शयामास स्वं वपुः ॥ ५५॥
चतुर्भुजं त्रिनेत्रं च शुण्डादण्डविराजितम् ।
सिद्धिबुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥ ५६॥
नानाभूषणशोभाढ्यं शेषनाभिधरं परम् ।
चिन्तामणिं मणिं हृत्स्थं लम्बोदरैकदन्तकम् ॥ ५७॥
मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् ।
ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥ ५८॥
सरोमाञ्चो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् ।
न विवेद विधिं किञ्चिद्देहातीत इवाबभौ ॥ ५९॥
ततो हर्षं समागृह्य पूजयामास तं प्रभुम् ।
पुनः प्रणम्य हरम्बं तुष्टाव स कृताञ्जलिः ॥ ६०॥
सोमदत्त उवाच ।
गणेशाय परेशाय सदा शान्तिप्रदायिने ।
योगिनां योगरूपाय हृदिस्थाय नमो नमः ॥ ६१॥
(Page खं. ८ अ. २१ पान ४८)
विघ्नेशाय महाविघ्नविघ्नदाय परात्मने ।
विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥ ६२॥
अनादये महाकाल कालाय कालरूपिणे ।
अन्ते विहारयुक्तायादिनाथाय नमो नमः ॥ ६३॥
विनायकाय देवाय सर्वेषां नायकाय च ।
नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥ ६४॥
लम्बोदराय सर्वेषामुदरस्थाय ते नमः ।
अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥ ६५॥
आदिमध्यान्तहीनाय तदाकारस्वरूपिणे ।
स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ॥ ६६॥
सिद्धिदात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे ।
सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥ ६७॥
बुद्धिपते सुबुद्धीनां दात्रे साधुजनप्रिय ।
दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥ ६८॥
सम्प्रज्ञातस्वरूपायासम्प्रज्ञातं महाशिरः ।
तयोर्योगे नराकार गजाकाराय ते नमः ॥ ६९॥
किं स्तौमि गणनाथ त्वां सदा योगस्वरूपिणे ।
अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥ ७०॥
धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् ।
कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥ ७१॥
धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् ।
तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥ ७२॥
भक्तिं त्वदीयपादेषु देहि मे द्विरदानन ।
नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥ ७३॥
तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ७४॥
गाणपत्यप्रियोऽत्यन्तं भविष्यसि महामुने ।
भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥ ७५॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति नृणां विप्र पठतां शृण्वतां सदा ॥ ७६॥
एवमुक्त्वांऽतर्दधेऽसौ विघ्नेशः करुणानिधिः ।
सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥ ७७॥
तदादि स मुनिः ख्यातो बभूव गणपप्रियः ।
योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥ ७८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥ ८.२१
(Page खं. ८ अ. २२ पान ४९)
८.२२ कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः ।
नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥ १॥
प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः ।
नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥ २॥
तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् ।
जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥ ३॥
अन्यः कैवर्तकस्तत्र तथा मन्दारकं मुने ।
पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥ ४॥
वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् ।
स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥ ५॥
शूद्रः श्यामलसंज्ञस्तु दीपदानं चकार ह ।
गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥ ६॥
अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः ।
ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥ ७॥
कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह ।
गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥ ८॥
शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् ।
तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥ ९॥
एवं नाना जनास्तत्र गणेशप्रीतये मुने ।
स्नात्वा किञ्चित् स्वभावेनाभजंस्तं गणनायकम् ॥ १०॥
रोगवन्ध्यादिदोषैस्ते मुक्ता जाता विशेषतः ।
समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥ ११॥
अन्ते स्वानन्दगाः सर्वे गणेशं नम्य तत्क्षणात् ।
ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥ १२॥
अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः ।
गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥ १३॥
नियमेन समा भक्तिर्न भूता न भविष्यति ।
किञ्चिन्नियमसंयुक्तो गणेशं वशमानयेत् ॥ १४॥
नियमेन कृतं किञ्चिद्गणेशप्रीतये नरैः ।
भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥ १५॥
कार्तिके स्नानमत्यन्तं मुख्यं विघ्नेशसेवनम् ।
यथाशक्ति कृतं सर्वसिद्धिदं प्रभविष्यति ॥ १६॥
करोति यः कार्तिके चेत् पञ्चकं गणपप्रियम् ।
स गणेशप्रियोऽत्यन्तं भवत्यत्र न संशयः ॥ १७॥
दानं होमादिकं किञ्चित् कार्तिकेऽनन्तपुण्यदम् ।
भवेत्तु गणनाथाय चार्पितं कर्मजं फलम् ॥ १८॥
बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् ।
गणेशाय कृतं नित्यं तदक्षय्यप्रदं भवेत् ॥ १९॥
इदं कार्तिकमासस्य माहात्म्यं कथितं मया ।
गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥ २०॥
यः शृणोति नरो भक्त्या पठते भावसंयुतः ।
सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥ २१॥
अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः ।
तेषां लोकसुखं सर्वमन्ते भुञ्जन्ति निश्चितम् ॥ २२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥ ८.२२
(Page खं. ८ अ. २३ पान ५०)
८.२३ मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सङ्क्षेपेण महाभाग मार्गशीर्षभवं परम् ।
माहात्म्यं वद सूत त्वं गणेशभक्तिदायकम् ॥ १॥
सूत उवाच ।
अन्धकासुरनामा वै दैत्यः परमदारुणः ।
जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमम् ॥ २॥
देवा वनस्थिताः सर्वे भययुक्ताः विशेषतः ।
वधार्थं तस्य चोद्युक्ता लेभिरे न किमप्यहो ॥ ३॥
ततः शम्भुः परां चिन्तामापेदे मुनिभिः सह ।
जगाम सहसा तत्र नारदः करुणानिधिः ॥ ४॥
तं दृष्ट्वा हर्षसंयुक्ता देवाः शङ्करमुख्यकाः ।
पप्रच्छुस्ते महाभागं दुःखशोकयुताः परम् ॥ ५॥
श्रीशिव उवाच ।
अन्धकेन जिताः सर्वे वयं योगीन्द्रसत्तम ।
गृहीतुं पार्वतीं पत्नीं भावार्थमुद्यतोऽभवत् ॥ ६॥
कर्मनाशप्रभावेणोपोषणेन समन्वितान् ।
देवांस्तान् रक्ष विप्रेश द्विजान् कर्मपरायणान् ॥ ७॥
अन्धकस्य वधोपायं वद त्वं सर्ववित्तम ।
करिष्यामो वयं तं तु भक्तियुक्ता महामते ॥ ८॥
नारद उवाच ।
समीपे मार्गशीर्षस्तु सम्प्राप्तः सर्वसिद्धिदः ।
व्रतं मासात्मकं कार्यं गणेशप्रीतये त्वया ॥ ९॥
ततो व्रतप्रभावेण जेष्यसे दैत्यपुङ्गवम् ।
अन्धकं नाम सन्देहो विघ्नेशस्य प्रसादतः ॥ १०॥
एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
वीणागानरतो विप्र नम्य तं स्वेच्छया ययौ ॥ ११॥
ततो देवगणैर्युक्तो मुनिभिः शङ्करः स्वयम् ।
मार्गशीर्षभवं मुख्यं व्रतं चकार वैघ्नपम् ॥ १२॥
गणेशपञ्चकं नित्यं सेवयामास यत्नतः ।
उषः स्नात्वा विशेषेण गणेशमभजत् प्रभुम् ॥ १३॥
उपोषणसमायुक्तः शङ्करोऽहर्निशं परम् ।
तमेव चिन्तयन् भक्त्या ध्यानसंस्थो बभूव ह ॥ १४॥
एवं मासव्रतं पूर्णं शिवः कृत्वा द्विजोत्तमान् ।
पूज्य भोज्य स्वयं देवश्चकार पारणं मुने ॥ १५॥
ततो व्रतप्रभावेण सन्तुष्टो गणनायकः ।
आययौ शङ्करं तत्र वरदानार्थमादरात् ॥ १६॥
सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितम् ।
विघ्नेशं हर्षसंयुक्तः शङ्करः प्रणनाम तम् ॥ १७॥
शिवः पूज्य गणाधीशं देवैर्मुनिभिरादरात् ।
तुष्टाव हृष्टरोमाऽसौ प्रबद्धकरसम्पुटः ॥ १८॥
श्रीशिव उवाच ।
गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये ।
परेशाय च हेरम्बाय पाशिने नमो नमः ॥ १९॥
मूषकवाहनायैव नमः परशुपाणये ।
दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ २०॥
शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते ।
सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ २१॥
हेरम्बाय महाविघ्नवारणाय गजानन ।
आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥ २२॥
स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये ।
सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥ २३॥
अनन्तोदरभावाय ब्रह्मणां पतये नमः ।
ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥ २४॥
अनन्तविभवायैव भक्तपालनधर्मिणे ।
अभक्तानां विनाशाय खेलकाय नमो नमः ॥ २५॥
योगाय योगनाथाय योगिने योगदायिने ।
सदा शान्तिस्वरूपाय शान्तिशाताय ते नमः ॥ २६॥
(Page खं. ८ अ. २३ पान ५१)
किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम् ।
योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च ॥ २७॥
धन्योऽहं देवपैर्देवैर्मुनिभिर्गणनायक ।
दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥ २८॥
सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम् ।
आज्ञानान्धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥ २९॥
एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः ।
तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥ ३०॥
श्रीगणेश उवाच ।
वज्रपञ्जरकं मे त्वं गृह्य दैत्येन्द्रसत्तमम् ।
जहि ज्ञानमयं शम्भो विजयी सर्वदा भव ॥ ३१॥
भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम् ।
यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥ ३२॥
त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः ।
शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥ ३३॥
भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत् ।
भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥ ३४॥
सूत उवाच ।
एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः ।
शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥ ३५॥
श्रीशिव उवाच ।
वज्रपञ्जरकं नाथ ब्रूहि मे गणपप्रियम् ।
ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥ ३६॥
श्रीगणेश उवाच ।
आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम् ।
वज्रपञ्जरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥ ३७॥
त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् ।
नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ ३८॥
एवं ध्यात्वा गणेशानं मानसैरुपचारकैः ।
पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥ ३९॥
बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः ।
देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥ ४०॥
देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् ।
देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ४१॥
महोदरस्तथा देवो नानाबोधान् प्रतापवान् ।
सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४२॥
साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः ।
असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ४३॥
सत्सु स्थितं सुमोहेन विकटो मां परात्परः ।
रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ४४॥
आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः ।
विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ४५॥
अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक् ।
मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ४६॥
स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् ।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ ४७॥
अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः ।
निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ ४८॥
योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् ।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ४९॥
पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः ।
वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ ५०॥
रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् ।
विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ ५१॥
उर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा ।
(Page खं. ८ अ. २४ पान ५२)
सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ ५२॥
यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः ।
परशुपाशसंयुक्तो वरदाभयधारकः ॥ ५३॥
इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् ।
धारयस्व महादेव विजयी त्वं भविष्यसि ॥ ५४॥
य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् ।
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ ५५॥
यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् ।
वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥ ५६॥
त्रिकालं यः पठेन्नित्यं स गणेश इवापरः ।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ ५७॥
यः शृणोति गणेशस्य पञ्जरं वज्रसंज्ञकम् ।
आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ ५८॥
धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् ।
सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ ५९॥
न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा ।
शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ ६०॥
यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् ।
पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ ६१॥
लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् ।
स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ ६२॥
एवमुक्त्वा गणेशानोंऽतर्दधे मुनिसत्तम ।
शिवो देवादिभिर्युक्तो हर्षितः सम्बभूव ह ॥ ६३॥
लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः ।
सिद्धपञ्जरको भूत्वा ययावन्धकदैत्यपम् ॥ ६४॥
गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् ।
त्रिशूलेनान्धकं सोऽपि विव्याध गर्वसंयुतम् ॥ ६५॥
एवमन्धकदैत्येशं जित्वा शम्भुः प्रतापवान् ।
देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥ ६६॥
विश्वं स्वधर्मसंयुक्तं चकार शङ्करः स्वयम् ।
मार्गशीर्षव्रतेनैव पञ्जरेण समन्वितः ॥ ६७॥
इदमन्धकनाशाख्यं चरितं यः शृणोति वा ।
पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३
८.२४ मार्गशीर्षमासमाहात्म्ये साधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः ।
गणेशभजने प्रीतिसंयुक्तोऽभून्निरन्तरम् ॥ १॥
जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः ।
भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥ २॥
साधुरुवाच ।
गणेशप्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् ।
येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥ ३॥
भरद्वाज उवाच ।
मार्गशीर्षव्रतं पुत्र कुरु शीघ्रं समागतम् ।
(Page खं. ८ अ. २४ पान ५३)
तेन त्वं गणनाथस्य प्रियोऽत्यन्तं भविष्यसि ॥ ४॥
एवमुक्त्वा भरद्वाजो कथयामास भावतः ।
विधियुक्तं व्रतं पूर्णं गणेशपञ्चकैर्युतम् ॥ ५॥
साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् ।
उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥ ६॥
समाप्तिसम्भवे तत्र दिवसे गणनायकः ।
द्विजरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥ ७॥
उवाच तं महाभागं पूजान्ते मुनिमुख्यकम् ।
भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥ ८॥
तथेति तं प्रणम्यादौ पुपूज भक्तिसंयुतः ।
भोजयामास भक्त्या स नानारसयुतान्नकैः ॥ ९॥
स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् ।
देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥ १०॥
श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि ।
शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥ ११॥
तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो ।
स्वयं मां छलितुं यातो गणेशो द्विजरूपधृक् ॥ १२॥
पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् ।
गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥ १३॥
अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः ।
एवं विचार्य साधुः स दूर्वां चिक्षेप चान्धसि ॥ १४॥
गणेशं हृदि सञ्चिन्त्य पायसं गृह्य सत्वरः ।
दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥ १५॥
तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः ।
ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥ १६॥
तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया ।
वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥ १७॥
साधुरुवाच ।
यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय ।
गणेशस्त्वं न सन्देहो मम भाग्यात् समागतः ॥ १८॥
तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् ।
तं दृष्ट्वा हर्षितोऽत्यन्तं साधुः साधुगुणान्वितः ॥ १९॥
प्रणम्य पूजयामास तुष्टाव स कृताञ्जलिः ।
गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥ २०॥
साधुरुवाच ।
हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने ।
अनाकाराय देवाय साकाराय नमो नमः ॥ २१॥
लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये ।
अनादये परेशाय गणेशाय नमो नमः ॥ २२॥
स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे ।
भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ २३॥
सर्वाकाराय सर्वादिपूज्याय परमात्मने ।
ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ २४॥
निराकाराय सर्वेषां पूज्याय परमप्रिय ।
विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ २५॥
मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः ।
ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ २६॥
शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे ।
चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ २७॥
अग्नये नैरृतायैव कुबेराय धराधर ।
(Page खं. ८ अ. २४ पान ५४)
नराय पशुरूपाय नमो नागासुराय ते ॥ २८॥
चराचरमयायैव चराचरविवर्जित ।
समाय सहजायैव स्वसंवेद्याय ते नमः ॥ २९॥
योगाय शान्तिनाथाय शान्तिदाय नमो नमः ।
किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ ३०॥
धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् ।
वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ ३१॥
एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च ।
तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ ३२॥
श्रीगणेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ३३॥
त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् ।
भविष्यति महाभाग पठतां शृण्वतां सदा ॥ ३४॥
सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् ।
नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ ३५॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ ३६॥
एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः ।
मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ ३७॥
अन्यच्च शृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् ।
मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ ३८॥
एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः ।
स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ ३९॥
समागते मार्गशीर्षे स्नानं कृत्वा महामतिः ।
गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ ४०॥
ततः परं नृपस्यैव चकार सेवनं सदा ।
पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ ४१॥
तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ।
मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ ४२॥
तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् ।
एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ ४३॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः ।
किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ ४४॥
इदं यः शृणुयान्नित्यं मार्गशीर्षे नरोत्तमः ।
पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ ४५॥
मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया ।
कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ८.२४
(Page खं. ८ अ. २५ पान ५५)
८.२५ माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् ।
न तृप्यामि कथां शृण्वन् गाणेशीं सर्वसिद्धिदाम् ॥ १॥
सूत उवाच ।
प्रह्लादस्य महातेजाः पुत्रोऽभूद्दैत्यपालकः ।
विरोचनः समाख्यातः तेजस्विनां शिरोमणिः ॥ २॥
स शुक्रमुपसङ्गम्य प्रणम्य मुनिसत्तमम् ।
जगाद दुःखसंयुक्तो निःश्वस्यासुरनायकः ॥ ३॥
विरोचन उवाच ।
दैत्या देवार्दिताः स्वामिंस्तिष्ठन्ति भयसङ्कुलाः ।
पातालेषु ततो मह्यं शाधि तेषां हिताय भोः ॥ ४॥
शुक्र उवाच ।
आकृष्णेनेति मन्त्रेण सूर्यमाराधय प्रभुम् ।
तेन त्वं दानवानां तु पालकः प्रभविष्यसि ॥ ५॥
तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् ।
कामं वनं समाश्रित्य तताप परमं तपः ॥ ६॥
ध्यात्वा रविं विशेषेणार्घ्यदानं तु चकार ह ।
उपस्थानपरो भूत्वा सूर्यमाराधयत् सदा ॥ ७॥
दिव्यवर्षसहस्रेण प्रसन्नः सविता ययौ ।
वरं दातुं महातेजा विरोचनाश्रमं मुने ॥ ८॥
तमागतं समालोक्य ननाम ह विरोचनः ।
पूज्य तुष्टाव देवेशमथर्वशिरसा प्रभुम् ॥ ९॥
तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः ।
वरं ब्रूहि महादैत्य मनसीप्सितमुत्तमम् ॥ १०॥
विरोचन उवाच ।
सर्वेभ्यो मरणं नाथ न भवेत् मे दिवाकर ।
चराचरमयेभ्यश्च राज्यं देहि त्रिलोकजम् ॥ ११॥
विस्मितः सविता तस्मै ददौ स्वमुकुटं परम् ।
जगाद भावगम्भीरो वचनं जगदीश्वरः ॥ १२॥
भानुरुवाच ।
मस्तके धारयस्वैनं तेन मृत्युविवर्जितः ।
भविष्यसि यदाऽन्यस्य हस्तः शिरसि नो पतेत् ॥ १३॥
परहस्तः स्पृशेद्दैत्य मस्तके चेन् मरिष्यसि ।
यदा मुकुटहीने ते सावधानस्ततो भव ॥ १४॥
राज्यं त्रैलोक्यसम्भूतं दत्तं तुभ्यं मयाऽधुना ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ १५॥
एवमुक्त्वांऽतर्दधेऽसौ भानुः सवार्थकोविदः ।
विरोचनः प्रसन्नात्मा स्वगृहं प्रययौ ततः ॥ १६॥
ततः शुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि ।
दैत्यैः समावृतः सोऽपि जिग्ये भूमिं महाबलः ॥ १७॥
ततः शेषं विनिर्जित्य ययौ स ह्यमरावतीम् ।
देवेन्द्रं वशमानाय्य विकुण्ठमगमत्ततः ॥ १८॥
विष्णोर्विरोचनस्यैव युद्धं बभूव दारुणम् ।
जित्वा विष्णुं महादैत्यो हर्षितः सम्बभूव ह ॥ १९॥
विष्णुना संयुता देवाः पपलुर्वनमाश्रिताः ।
दैत्याः स्वर्गभुजः सर्वे कृतास्तेन महात्मना ॥ २०॥
ततः स दैत्यपान् स्थाप्य विकुण्ठादिपदेषु च ।
आययौ नगरं स्वीयं दैत्यवृन्दसमन्वितः ॥ २१॥
ततः स दैत्यपैर्युक्तो भोगान्नानाविधान् परान् ।
बुभुजे पापसन्निष्ठः स्त्रीमांसादिषु लोलुपः ॥ २२॥
ततो बहौ गते काले दैत्येशैः प्रेरितः खलः ।
कर्म वर्णाश्रमस्थं स खण्डयामास भूतले ॥ २३॥
आसुरं कर्म सर्वत्र कारयामास मानवैः ।
ततो हाहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः ॥ २४॥
एवं बहौ गते काले देवाश्चोपोषणान्विताः ।
मुनिभिः केशवं सर्वे तुष्टुवुस्तद्वधाय तम् ॥ २५॥
(Page खं. ८ अ. २५ पान ५६)
सोऽपि निःश्वस्य देवेशो विचारमकरोत् हृदि ।
नावाप दैत्यनाशार्थं स्वयं खिन्नो बभूव ह ॥ २६॥
ततो विघ्नेश्वरं विष्णुः सस्मार दुःखमुक्तये ।
गणेशकृपया तत्राऽऽजगाम देवलो मुनिः ॥ २७॥
तं प्रणम्यामराः सर्वे पप्रच्छुः कार्यसिद्धये ।
विरोचनवधाथार्य तानुवाच स हर्षितः ॥ २८॥
समीपे ह्यधुना प्राप्तो मासो माघः सुपुण्यदः ।
तत्र स्नानसमायुक्ताः सेवध्वं गणनायकम् ॥ २९॥
एवमुक्त्वा महायोगी देवलोऽकथयत् परम् ।
विधिं माघभवं सर्वं गाणेशपञ्चकात्मकम् ॥ ३०॥
उपदिश्य व्रतं योगी ययौ स्वेच्छापरायणः ।
देवलः केशवाद्यांश्च गणेशभजने रताः ॥ ३१॥
माघमासव्रतं चक्रुर्गाणेशं सर्वसिद्धिदम् ।
यथाशास्त्रं विधानेन विघ्नेशमभजत् परम् ॥ ३२॥
सम्पूर्णे तद्व्रते तत्र खवाणी तानुवाच ह ।
विष्णो स्त्रीवेषगो भूत्वा जहि दैत्यं महाबलम् ॥ ३३॥
गणेशं मनसि स्मृत्वा गच्छ तं दैत्यनायकम् ।
तवाधीनो महादैत्यो भविष्यति विरोचनः ॥ ३४॥
श्रुत्वाऽतिहर्षिता देवास्तुष्टुवुर्गणनायकम् ।
ततो विष्णुं महाभागाः प्रेरयामासुरादरात् ॥ ३५॥
गच्छ गच्छ महाविष्णो जहि दैत्यं महाबलम् ।
चराचरं सदा हर्षयुक्तं कुरु जनार्दन ॥ ३६॥
तथेति तानुवाचाथ विष्णुर्ध्यात्वा गजाननम् ।
स्त्रीरूपः प्रययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३७॥
पुष्पवृक्षयुतायां स वाटिकायां स्थितोऽभवत् ।
तत्र नारायणं दैत्या ददृशुः स्त्रीस्वरूपिणम् ॥ ३८॥
मोहितास्तां समागम्य पप्रच्छुर्विनयान्विताः ।
काऽसि कस्याऽसि रम्भोरु किमर्थं त्वागता वद ॥ ३९॥
आज्ञां कुरु महाभागे वयं दासा न संशयः ।
तव पादस्य वामाक्षि पश्य सर्वान् शुचिस्मिते ॥ ४०॥
एवं तेषां वचः श्रुत्वा तान् जगाद सुरूपिणी ।
हावभावसमायुक्ता मोहिनी मोहकारिणी ॥ ४१॥
मोहिन्युवाच ।
अहं स्वेच्छामयी रम्या नावृता स्वेच्छया गता ।
मोहिनी सर्वविख्याता चरामि ह्यकुतोभया ॥ ४२॥
विश्वस्य नायकः कोऽपि भविष्यति महाबलः ।
वरिष्यामि पतिं दैत्या नान्यं गच्छत मा चिरम् ॥ ४३॥
तस्यास्तद्वचनं श्रुत्वा क्षुभिता दैत्यदानवाः ।
तेषु केचिद्ययुस्तत्र विरोचनं सदान्वितम् ॥ ४४॥
तं प्रणम्य महात्मानं जगुर्वृत्तान्तमादरात् ।
श्रुत्वा सोऽपि महामोहयुक्तो बभूव तत्क्षणात् ॥ ४५॥
गणेशमायया भ्रान्तः प्रययौ तामनिन्दिताम् ।
विरोचनो महादैत्यः संवृतस्तां ददर्श ह ॥ ४६॥
समागतं महादैत्यं दृष्ट्वा विष्णुः प्रहर्षितः ।
सस्मार गणपं चित्ते ध्यात्वा तत्रैव संस्थितः ॥ ४७॥
ततो गणेश्वरः साक्षात्तयोर्हृदि व्यवस्थितः ।
बुद्धिभेदं चकारासौ तादृशौ तौ बभूवतुः ॥ ४८॥
अथो विरोचनो देवीं दृष्ट्वा मोहयुतोऽभवत् ।
समीपे प्रययौ तस्या एकाकी हर्षसंयुतः ॥ ४९॥
तामुवाच महादैत्यो विनयेन समन्वितः ।
कृत्वा करपुटं विप्र महामायाप्रमोहितः ॥ ५०॥
विरोचन उवाच ।
(Page खं. ८ अ. २६ पान ५७)
ब्रह्मविष्णुमहेशेन्द्राद्या जिताः सचराचराः ।
मया ब्रह्माण्डनाथेन तव दासेन भामिनि ॥ ५१॥
तवाज्ञावशगोऽहं तु भविष्यामि निरन्तरम् ।
पत्नी भव मदीया त्वं गृहमागच्छ मे प्रिये ॥ ५२॥
एवं तस्य वचः श्रुत्वा तमुवाच सुमोहिनी ।
यदा वचोऽन्यथा मे त्वं करिष्यसि त्यजाम्यहम् ॥ ५३॥
तथेति तां समागृह्य ययौ स्वगृहमुत्तमम् ।
तन्निष्ठस्तत्परः सोऽपि बभूव समीपस्थितः ॥ ५४॥
नानाचातुर्यभावेन मोहयामास तं हरिः ।
मोहिनीरूपसंस्थश्च खलं यभितुमुद्यतम् ॥ ५५॥
तमुवाच महाभागा मोहिनी सर्वमोहिनी ।
अभ्यङ्गं कुरु नाथ त्वं मद्धस्तेन महामते ॥ ५६॥
पश्चात् स्नानं च कृत्वा तु भोजनं कुरु सुव्रत ।
ततो मां स्पृश दैत्येन्द्र तवाधीनां निरन्तरम् ॥ ५७॥
गणेशमायया भ्रान्तस्तामुवाच तथेति सः ।
सुवासितेन तैलेनाभ्यङ्गं कर्तुं समुद्यतः ॥ ५८॥
प्रगृह्य मोहिनी तैलमुत्तार्य मुकुटं परम् ।
मस्तकात्तस्य हस्ताभ्यां मूर्ध्नि हृष्टा व्यमर्दयत् ॥ ५९॥
हस्तयोः स्पर्शमात्रेण शतचूर्णोऽभवत्तदा ।
मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिताऽभवत् ॥ ६०॥
जय लम्बोदरेत्युक्त्वांऽतर्दधे सा तु मोहिनी ।
दैत्या मृतं समालोक्य विविशुस्ते रसातलम् ॥ ६१॥
देवर्षिभिस्ततो विष्णुः स्वलोकमगमच्च तैः ।
स्वस्वधर्मयुतान् लोकान् कारयामास माधवः ॥ ६२॥
एवं माघव्रतेनैव गाणेशेन जनार्दनः ।
जघान दैत्यनाथं तं त्रैलोक्यजयकारिणम् ॥ ६३॥
इदं यः शृणुयात् जन्तुः पठेद्वा गणपं स्मरन् ।
स सर्वसुखसंयुक्तो भविष्यति निरन्तरम् ॥ ६४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः ॥ ८.२५
८.२६ माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
मौद्गलो ब्राह्मणः कश्चिन्नाम्ना विश्वसहोऽभवत् ।
गाणपत्यप्रियोऽत्यन्तं सदा सत्सङ्गलालसः ॥ १॥
स कदाचिन् महाभागो माघव्रतपरोऽभवत् ।
गाणेशपञ्चकं नित्यमसेवद्भक्तिसंयुतः ॥ २॥
प्रातः काले समुत्थाय स्नानार्थं चागतं द्विजम् ।
तत्रैका राक्षसी घोरा तं दृष्ट्वा भक्षितुं ययौ ॥ ३॥
विकरालमुखीं तां स दृष्ट्वा भयसमन्वितः ।
गणेशेति समुच्चार्य जलं चिक्षेप दूर्वया ॥ ४॥
दूर्वायुक्तं जलं तस्या देहे लग्नं महामुने ।
तेन शुद्धा विश्वसहं ननामैव जगाद ह ॥ ५॥
राक्षस्युवाच ।
अहं त्वां शरणं प्राप्ता तारयस्व भवार्णवात् ।
तव दर्शनमात्रेण जाताऽहं शुद्धमानसा ॥ ६॥
(Page खं. ८ अ. २६ पान ५८)
तस्यास्तद्वचनं श्रुत्वा रुदतीं दुःखसंयुताम् ।
उवाच दयया युक्तो विश्वसहः प्रतापवान् ॥ ७॥
विश्वसह उवाच ।
काऽसि त्वं वद पापिष्ठे कर्म किं पापरूपकम् ।
कृतं त्वया महाघोरे किं रोदिषि सुदुःखिता ॥ ८॥
राक्षस्युवाच ।
पूर्वजन्मनि विप्रेश ब्राह्मण्यहं सुरूपिणी ।
पातिव्रत्यं परित्यज्य देहभोगयुताऽभवम् ॥ ९॥
यथेष्टं विषये सक्ताऽऽचरं पापपरायणा ।
मृता यामैर्हृता तत्र यातनायां स्थिताऽभवम् ॥ १०॥
भुक्त्वा दुःखमपारं तु कृता राक्षस्यहं पुनः ।
सदा क्षुधा समाविष्टा अभ्रमं यत्र तत्र ह ॥ ११॥
नीचोच्चमांसमत्यन्तमभक्षं नित्यमेव च ।
तथापि मां पिपीडासौ जठराग्निः समुत्थितः ॥ १२॥
अपारं भक्षयाम्येव तथापि क्षुधया युता ।
विप्रजन्मन आरभ्य न तृप्ताहं कदाऽभवम् ॥ १३॥
अधुना त्वां समालोक्य भक्षितुं सहसाऽऽगता ।
जलस्पर्शेन ते तात जातिस्मरा भवाम्यहम् ॥ १४॥
तारयस्व महाभाग त्वं समर्थो न संशयः ।
नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः ॥ १५॥
तस्यास्तद्वचनं श्रुत्वा विश्वसहो महामतिः ।
विचार्य दयया युक्तः तां जगाद प्रहर्षितः ॥ १६॥
विश्वसह उवाच ।
गणेशनाममाहात्म्यं कथयितुं न शक्यते ।
मया श्रुतं पुराणेषु सत्यमेव तदञ्जसा ॥ १७॥
दूर्वायुक्तजलेन त्वं कृता जातिस्मराऽधुना ।
अधुना तारणार्थं ते ददामि पुण्यमुत्तमम् ॥ १८॥
माघस्नानभवं पुण्यमेकाहेन समुद्भवम् ।
ददामि त्वां महाभागे गच्छ त्वं नगरं निजम् ॥ १९॥
एवमुक्त्वा ददौ तस्यै पुण्यं हस्तजलेन सः ।
एकस्नानभवं पूर्णं माघमासे स मौद्गलः ॥ २०॥
ततो गणेश्वरस्यैव दूतास्तत्र समाययुः ।
तां विमाने विनिक्षिप्य ययुः स्वानन्दकं पुरम् ॥ २१॥
तत् दृष्ट्वा परमाश्चर्यं विश्वसहो महामुनिः ।
स्नानं कृत्वा ययौ स्नानमभजद्गणनायकम् ॥ २२॥
समाप्ते तद्व्रते तत्राऽऽययौ विनायकः प्रभुः ।
वरं दातुं द्विजायैव मौद्गलाय विशेषतः ॥ २३॥
समागतं गणाध्यक्षं दृष्ट्वोत्थाय नमाम तम् ।
सम्भ्रमेण समायुक्तो ननर्त प्रेमविह्वलः ॥ २४॥
तं तादृशं समालोक्य जगाद द्विरदाननः ।
वरान् वृणु महाभाग दास्यामि मनसीप्सितान् ॥ २५॥
गणेशवचनं श्रुत्वा प्रतिबुद्धो महामुनिः ।
जगाद तं प्रपूज्यैव हर्षं संयम्य शौनक ॥ २६॥
विश्वसह उवाच ।
धन्यं मे जन्मकर्मादि जनकौ श्रुतमेव च ।
धन्यं माघव्रतं मुख्यं येन दृष्टो गजाननः ॥ २७॥
त्वां वेदाः सोपनिषदो न जानन्ति गणेश्वर ।
योगिनः शङ्कराद्याः स कथं त्वं स्वयमागतः ॥ २८॥
कृतकृत्योऽहमत्यन्तं त्वदङ्घ्रियुगदर्शनात् ।
किं वृणोमि गणेशान भक्तिं देहि दृढां त्वयि ॥ २९॥
विघ्नेशाय नमस्तुभ्यं परात्परतमाय च ।
हेरम्बाय गणेशाय गणानां पतये नमः ॥ ३०॥
मायाकारशरीराय मायिकशिरसे नमः ।
तयोर्योगे सुदेहाय गजानन नमोऽस्तु ते ॥ ३१॥
(Page खं. ८ अ. २६ पान ५९)
राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे ।
सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥ ३२॥
तामसाय जनानां तु संहर्त्रे कालरूपिणे ।
कर्मणे त्रिस्वरूपाय नमोऽहङ्कृतिधारिणे ॥ ३३॥
चालकाय महामोहदायिने शक्तिरूपिणे ।
गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥ ३४॥
बिन्दुमात्रशरीराय सोऽहङ्काराय देहिने ।
बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥ ३५॥
विदेहाय परेशाय स्वानन्दाय नमोऽस्तु ते ।
अयोगाय सुशान्ताय योगेशाय नमो नमः ॥ ३६॥
किं स्तौमि त्वां गणाध्यक्ष योगशान्तिस्वरूपिणम् ।
तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥ ३७॥
एवमुक्त्वा विश्वसहो ननामैव गजाननम् ।
तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥ ३८॥
श्रीगणेश उवाच ।
त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् ।
पठतां शृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥ ३९॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
भुक्तिमुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥ ४०॥
मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा ।
यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥ ४१॥
एवमुक्त्वा गणाधीशोंऽतर्दधे तस्य पश्यतः ।
विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥ ४२॥
गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः ।
सदा माघव्रते संस्थो गाणेशपञ्चके रतः ॥ ४३॥
अन्यच्छृणु महच्चित्रं चरित्रं माससम्भवम् ।
सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥ ४४॥
चाण्डालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् ।
माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥ ४५॥
स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् ।
रात्रौ गीतं गणेशस्य गायति स्म निरन्तरम् ॥ ४६॥
एवं गीतं माघमासे गणेशं देवमन्दिरे ।
गत्वा गायन् पुनः सोऽपि कुटुम्बभरणे रतः ॥ ४७॥
एकदा कार्यसंस्थः स माघमासे बभूव ह ।
याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥ ४८॥
प्रणम्य विघ्नहर्तारं गीतं गीत्वा स्वमन्दिरम् ।
जगाम मार्गमध्यस्थं पिशाचाः पञ्च तं ययुः ॥ ४९॥
दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् ।
गणेशस्मृतिमात्रेण पिशाचाः स्तम्भिता बभुः ॥ ५०॥
ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् ।
अवलोकनपुण्येन शुद्धान्तरा बभूविरे ॥ ५१॥
जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः ।
तारयस्व महाभाग संसारान्नः पिशाचकान् ॥ ५२॥
तव दर्शनमात्रेण शुद्धा जाता वयं किल ।
तव गानफलं देहि तेन मुक्ता भवामहे ॥ ५३॥
तेषां तद्वचनं श्रुत्वा हर्षयुक्तो जगाद तान् ।
नीलः परमभावज्ञः पिशाचान् पापनिश्चयान् ॥ ५४॥
नील उवाच ।
गणेशगीतसम्भूतं फलं वो न ददाम्यहम् ।
एकगीतफलेनैवोद्धरिष्यति चराचरम् ॥ ५५॥
अत एकस्य पादस्य फलं दास्यामि शाश्वतम् ।
तेन मुक्ता भवन्तोऽपि भविष्यन्ति न संशयः ॥ ५६॥
एवमुक्त्वा ददौ तेभ्य एकगीतस्य पादजम् ।
(Page खं. ८ अ. २७ पान ६०)
फलं तेनाऽभवन् सर्वे दिव्यदेहधरा मुने ॥ ५७॥
विमानेषु समारुह्य गताः स्वानन्दके पुरे ।
चाण्डालो विस्मितो नीलः स्वगृहं प्रययौ ततः ॥ ५८॥
ततोऽधिकां गणेशस्य भक्तिं चक्रे महामुने ।
अन्ते गणेश्वरं सोऽपि ययौ कोटिकुलैः सह ॥ ५९॥
एवमेकात्मकेनैव नियमेन विशेषतः ।
माघमासे गणेशानं प्रापुश्चानन्तजन्तवः ॥ ६०॥
माघमासभवं चित्रं व्रतजं कथितं मया ।
माहात्म्यं श्रवणान्नृभ्यः पठनाद्भुक्तिमुक्तिदम् ॥ ६१॥
धनधान्यप्रदं पुत्रपौत्रसौभाग्यवर्धनम् ।
नानारोगहरं सद्यः किं भूयः श्रोतुमिच्छसि ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः ॥ ८.२६
८.२७ वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो ।
मलमासस्य चित्रं त्वं सूत सर्वार्थकोविद ॥ १॥
सूत उवाच ।
वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा ।
कर्मखण्डनमार्गेण देवान् हन्तुं समुद्यतः ॥ २॥
ततो देवगणाः सर्वे भयभीता बभूविरे ।
शरणं स्वगुरुं जग्मुरुपोषणपरायणाः ॥ ३॥
तानुवाच महातेजा बृहस्पतिरुदारधीः ।
सेन्द्रान् वैशाखजं देवाः कुरुध्वं व्रतमुत्तमम् ॥ ४॥
तेन व्रतप्रभावेण समर्थः सुरनायकः ।
दधीच्यस्थिजवज्रेण हनिष्यति महासुरम् ॥ ५॥
सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् ।
गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः ॥ ६॥
गाणेशपञ्चकं नित्यं सिषेविरे सुरर्षयः ।
गणेशस्मरणं ध्यानं चक्रुः परमभाविकाः ॥ ७॥
वैशाखी पूर्णिमायां ते स्वप्ने सर्वसुखावहम् ।
ददृशुर्गणराजं वै मूर्तिस्थं पूजने रताः ॥ ८॥
मूर्तिस्तान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा ।
इन्द्रदेहं समाश्रित्य हनिष्यामि महासुरम् ॥ ९॥
अमरा मुनयः सर्वे प्रबुद्धा विस्मिता जगुः ।
परस्परं विचार्यैवं सर्वैकस्वप्नभावतः ॥ १०॥
ततः क्रोधसमायुक्तो बभूव देवनायकः ।
देवान् गृह्य ययौ तत्र दधीचिं मुनिभिः पुरा ॥ ११॥
तं प्रार्थ्य वज्रमादाय तदस्थिजं महाबलः ।
देवैः समावृतो युद्धं वज्रेणैव चकार सः ॥ १२॥
वृत्रेन्द्रयोर्महद्युद्धं देवानां दैत्यपैः सह ।
बभूव दारुणं विप्र मया वक्तुं न शक्यते ॥ १३॥
इन्द्रो गणपतिं स्मृत्वा तं वज्रेण महासुरम् ।
जघान तं मृतं दृष्ट्वा दैत्याः पातालमाविशन् ॥ १४॥
देवा हर्षसमायुक्ता ब्रह्मणा गणपं पुनः ।
(Page खं. ८ अ. २७ पान ६१)
बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुवुः ॥ १५॥
देवर्षय ऊचुः ।
नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने ।
अनन्तमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥ १६॥
नमस्तुभ्यं महाविघ्ननाशनाय महात्मने ।
विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥ १७॥
हेरम्बाय महादीनपालकाय च ढुण्ढये ।
लम्बोदराय देवाय देवदेवेश ते नमः ॥ १८॥
अनाथानां प्रणाथाय नाथहीनाय ते नमः ।
नाथानां नाथरूपाय वक्रतुण्डाय वै नमः ॥ १९॥
परात्परतमायैव योगशान्तिप्रदाय ते ।
योगानां पतये तुभ्यं नमो योगाय ते नमः ॥ २०॥
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ।
सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥ २१॥
अनन्तमायया देव चारिणे ते नमो नमः ।
मायाहीनाय मायायै मायिनां मोहकारिणे ॥ २२॥
मूषकोपरि संस्थाय मूषकध्वजधारिणे ।
सिद्धिबुद्धिपते तुभ्यं स्वानन्दस्थाय ते नमः ॥ २३॥
किं स्तुमस्त्वां गणाध्यक्ष शान्तिरूपं परात्परम् ।
वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥ २४॥
एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने ।
स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥ २५॥
वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः ।
सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥ २६॥
एवं वैशाखमासस्य व्रतेन देवनायकः ।
हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥ २७॥
अन्यच्च शृणु माहात्म्यं वैशाखव्रतसम्भवम् ।
सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥ २८॥
गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह ।
स गणेशपरो नित्यमभजद्गणनायकम् ॥ २९॥
स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः ।
अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥ ३०॥
तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविदम् ।
तं प्रणम्य महाभागं शिवदत्तः पुपूज ह ॥ ३१॥
नित्यं सेवापरं दृष्ट्वा सुतं विनयसंयुतम् ।
मुक्तिमिच्छन्तमत्यन्तं गर्गः संहर्षितोऽभवत् ॥ ३२॥
उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद ।
तत्करिष्यामि ते शीलसन्तुष्टोऽहं न संशयः ॥ ३३॥
तस्य तद्वचनं श्रुत्वा शिवदत्तः कृताञ्जलिः ।
तं प्रणम्य महात्मानं जगाद सुखदं वचः ॥ ३४॥
शिवदत्त उवाच ।
गुह्यं वेदरहस्यं मे वद योगीन्द्रसत्तम ।
येनाहं कृतकृत्यश्च भविष्यामि सुसेवनात् ॥ ३५॥
गर्ग उवाच ।
लक्षचतुरशीतिषु योनिषु मानवात्मिका ।
योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेत् ॥ ३६॥
धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य सर्वदा ।
पात्रता तस्य सम्भूता तस्माच्छ्रेष्ठं न विद्यते ॥ ३७॥
तेषु ब्राह्मणवर्णस्थः श्रेष्ठः शास्त्रेषु सम्मतः ।
सर्वकर्माधिकारित्वात्तेषु शास्त्रज्ञ एव च ॥ ३८॥
तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुतः ।
तेषु ज्ञानी महाश्रेष्ठः सर्वत्रात्मप्रदर्शनात् ॥ ३९॥
तेषु योगी विशेषेणाधिकस्तेषु महामते ।
गाणपत्योऽधिको योगी परस्तस्मान्न विद्यते ॥ ४०॥
यत्र तत्राऽपि वर्णस्थो गाणपत्योऽधिको मतः ।
(Page खं. ८ अ. २८ पान ६२)
योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् ॥ ४१॥
इदं वेदान्तसम्भूतं सारं ते सम्प्रकाशितम् ।
तस्माद्भज गणेशानं कृतकृत्यो भविष्यसि ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः ॥ ८.२७
८.२८ शुकगीताकथनं नामाष्टाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिवदत्त उवाच ।
वद तात महायोगिन् सर्वसंशयनाशकृत् ।
योगिनः प्रवदन्तीह नानामतयुतं वचः ॥ १॥
केचिच्छिवं तथा विष्णुं रविं शक्तिं गणेश्वरम् ।
कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदन्ति च ॥ २॥
योगं साङ्ख्यमथाऽनन्दमव्यक्तं बोधसंज्ञितम् ।
अन्नं प्राणं मनो योगिन्नित्यादिबहवो मताः ॥ ३॥
श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावतः ।
सर्वमान्यं वद स्वामिंस्त्वमस्माकं परा गतिः ॥ ४॥
गर्ग उवाच ।
अत्र ते वर्णयिष्यामि चेतिहासं पुरा भवम् ।
शृणुष्वैकमना वत्स सर्वमान्यं वचो महत् ॥ ५॥
एकदा नैमिषारण्ये यज्ञं चकार हर्षतः ।
वसिष्ठस्तत्र विप्रेन्द्रा देवेन्द्राश्च समायुयः ॥ ६॥
नानावर्णाश्रमप्रज्ञाः श्रेष्ठाः त्रैलोक्यवासिनः ।
आययुर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे ॥ ७॥
योगिनः शुकमुख्याश्च नागाः शेषादयोऽपरे ।
सर्वे सम्मिलितास्तत्र कथां चक्रुः परस्परम् ॥ ८॥
तत्र वेदान्तवादेषु कुशला अवदन् मिथः ।
नानामतसमायुक्ताः श्रेष्ठं स्वस्वमते स्थिरम् ॥ ९॥
नानावादपराः सर्वे निश्चयं नैव लेभिरे ।
ततः शुकं नमस्कृत्योचुः सर्वे शान्तिधारकम् ॥ १०॥
सर्वश्रेष्ठा ऊचुः ।
भगवन् सर्वसारज्ञ योगीन्द्रेषु महामते ।
श्रेष्ठस्त्वं शास्त्रवादेषु वद सारं हिताय नः ॥ ११॥
योगीन्द्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् ।
त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः ॥ १२॥
तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् ।
जगाद सर्वसारज्ञः सभायां सर्वसन्निधौ ॥ १३॥
श्रीशुक उवाच ।
अन्नकोशमयं ब्रह्मान्नसंज्ञं राजसम्मतम् ।
जागृत् स्थूलस्वरूपस्थं ज्ञातव्यं वेदवादतः ॥ १४॥
प्राणो ब्रह्म तथा प्राणकोशानां तत् प्रकाशकम् ।
मनः कोशमयं ब्रह्म मनोमयं प्रकीर्तितम् ॥ १५॥
विज्ञानकोशगं ब्रह्म विज्ञानपदवाचकम् ।
त्रिकोशस्थं क्रमात् सूक्ष्मं स्वाप्नमन्तरगं मतम् ॥ १६॥
आनन्दकोशसंस्थं यद्ब्रह्मानन्दमयं बुधैः ।
सौषुप्तमुभयत्रस्थं समं वेदविचारतः ॥ १७॥
(Page खं. ८ अ. २८ पान ६३)
चैतन्यं चेतनासंस्थं ब्रह्मात्मप्रत्ययात्मकम् ।
तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकम् ॥ १८॥
बिन्दुमयं समाख्यातं ब्रह्मदेहात्मधारकम् ।
चतुर्णां देहभूतानां संयोगे त्वम्पदाश्रितम् ॥ १९॥
उत्पत्तिस्थितिनाद्युक्तं ब्रह्म चतुर्विधं मतम् ।
प्रचुराख्यं चतुर्देहैः तस्मात् त्वम्पदसंज्ञितम् ॥ २०॥
चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः ।
उत्पत्तिस्थितिनाशेभ्यो हीनः सोऽहम्पदाश्रयः ॥ २१॥
बिन्दुमोहयुतो नित्यं भ्रान्त्या नानाऽवभासते ।
एक एव स्वयं वेदे कथितस्तत्पदाश्रयः ॥ २२॥
देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते ।
देहाभिमानहीनश्चेत् परमात्मा स एव तु ॥ २३॥
देहदेहिसमायोगे योगोऽसि पदसंज्ञकः ।
मनोवाणीविहीनत्वात् बोधरूपोऽयमुच्यते ॥ २४॥
न बाह्यो नान्तरस्थो यन्न समो नास्मितात्मकः ।
न चतुर्णां हि संयोगे बिन्दुमात्रात्मकः स्मृतः ॥ २५॥
न सोऽहङ्काररूपस्थः सदा भेदविवर्जितः ।
अतः किं कथनीयं स्यात्तत्रैवं बोधरूपिणि ॥ २६॥
बोधेन ज्ञायते सर्वं बोधस्य बोधकं च न ।
अतो बोधमयं ब्रह्मासिपदाख्यं प्रकीर्तितम् ॥ २७॥
प्रकृतिसङ्गतो बोधो बोधः पुरुषधारकः ।
प्रकृतिपुम्भवं सौख्यं बोधो जानाति सर्वदा ॥ २८॥
प्रकृतिपुम्भवं सौख्यं ज्ञात्वा सृष्ट्वा स्वयं प्रभुः ।
द्वैधं तत्र विशेषेण खेलत्यसिपदात्मकम् ॥ २९॥
तेनायं स्वत उत्थानवाचकः परिकीर्तितः ।
बोधादुत्थानभावश्च जायते सुविचक्षणाः ॥ ३०॥
ततः परं विबोधाख्यं ब्रह्म खेलविवर्जितम् ।
बोधनाशेन योगेन लभ्यते योगिभिर्मुदा ॥ ३१॥
बोधनाशे प्रसङ्ख्यातुं कः समर्थो भवेन्नरः ।
अतः साङ्ख्यपरं ब्रह्म सङ्ख्यानाशात् प्रकथ्यते ॥ ३२॥
देहदेहिमये नित्यं ब्रह्मणि द्वैतमास्थितम् ।
स्वस्वभावविहीनेन तस्मात् परं विबोधकम् ॥ ३३॥
विषयादिषु बोधेनोत्थानं सञ्जायते नृणाम् ।
बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मतम् ॥ ३४॥
ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते ।
उत्थानवर्जितं साङ्ख्यं योगिभिर्ब्रह्म वर्ण्यते ॥ ३५॥
यदोत्थानयुतं ब्रह्म वर्तते सर्ववित्तमाः ।
तदोत्थानविहीनत्वं मते भवति योगिनाम् ॥ ३६॥
अतः परत उत्थानसंयुतं साङ्ख्यसंज्ञितम् ।
ब्रह्मोत्थानविहीनत्वादुत्थानं जायतेऽन्यतः ॥ ३७॥
तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकम् ।
सर्वेषां ब्रह्मणां विप्राः संयोगस्तत्र तन्मयः ॥ ३८॥
स्वस्वरूपात् परं ब्रह्म संयोगाख्यं न वर्तते ।
तदेवोत्थानहीनं न नैवोत्थानविवर्जितम् ॥ ३९॥
तदेव पञ्चधा जातं ब्रह्म स्वानन्दवाचकम् ।
असत् सत् समानेतिस्वानन्दभेदैः प्रकथ्यते ॥ ४०॥
अन्नं ब्रह्मेति यत् प्रोक्तं तत्रान्नमयमुच्यते ।
नाम तस्य न सन्देहोन्नोपाधित्वाद्विचक्षणाः ॥ ४१॥
तस्यानुभवरूपं यद्योगिनां हृदि जायते ।
तदेव रूपकं तस्य नामरूपात्मकं ततः ॥ ४२॥
समाधिना महायोगी तत्त्यक्त्वा प्राणब्रह्मणि ।
(Page खं. ८ अ. २८ पान ६४)
गच्छति चेत्तदान्नस्य लयस्तत्र भवत् स्वयम् ॥ ४३॥
तद्वत् क्रमेण योगीन्द्राः स्वानन्दस्था भवन्ति हि ।
त्यक्त्वा ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना ॥ ४४॥
तदा तेषां लयस्तत्र जायते ब्रह्मणां किल ।
अत उत्पत्तिनाशाभ्यां तानि युक्तानि योगिनः ॥ ४५॥
उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते ।
अतो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहतः ॥ ४६॥
बोधसाङ्ख्यात्मके यस्माज्जायते स्वस्वरूपतः ।
तत्रान्ते योगभावेन गच्छतो लयमञ्जसा ॥ ४७॥
अतोऽसद्रूपस्वानन्दो नानाब्रह्मसु संस्थितः ।
सा शक्तिर्वेदवादेषु शाक्तं ब्रह्म तदुच्यते ॥ ४८॥
असति जीवनं यच्च सदा खण्डमयं परम् ।
सद्रूपं स्वस्वरूपं तदात्मा भानुः प्रकथ्यते ॥ ४९॥
तयोः स्रष्टा समः साक्षात् स्वानन्दः परिकीर्तितः ।
विष्णुः स तत् प्रवेशात्तु ब्रह्म वेदे प्रकथ्यते ॥ ५०॥
त्रयाणां नेति कर्ता स्वस्वाधीनोऽव्यक्तकः शिवः ।
चतुर्णां मन्त्रसंयोगे स्वानन्दः पूर्ण उच्यते ॥ ५१॥
चतुर्विधं प्रसृष्टं तु स्थापितं संहृतं पुरा ।
स्वानन्देन सदा ब्रह्म तस्मात्तन् मायया युतम् ॥ ५२॥
ब्रह्मणां जगतां तस्माद्भावस्तेन प्रकथ्यते ।
भवप्रत्ययसज्ञं तद्ब्रह्म यत् स्वस्वरूपकम् ॥ ५३॥
समाधिसंज्ञितं ब्रह्मान्वयात् सर्वत्र कीर्तितम् ।
भवप्रत्यययोगस्थं स्वस्वरूपं महौजसः ॥ ५४॥
ततः परमयोगाख्यं ब्रह्म मायाविवर्जितम् ।
मायया वर्णनं सर्वं जायते तद्विवर्जितम् ॥ ५५॥
मायया जगतामत्र ब्रह्मणां खेल उच्यते ।
तेषां संयोगभावश्चायोगे किं तैः प्रकथ्यते ॥ ५६॥
यद्युत्थानयुतं ब्रह्म तदा बोधमयं भवेत् ।
उत्थानवर्जितं चैतद्भवेत् साङ्ख्यविबोधगम् ॥ ५७॥
समाधिसंज्ञं यदि तत्तदा स्वानन्द उच्यते ।
स्वस्य प्रवेशनाशाद् वै किमयोगे वदत्ययम् ॥ ५८॥
ब्रह्म ब्रह्मणि संस्थं तन्नागतं न गतं भवेत् ।
व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि योगिनाम् ॥ ५९॥
सदा निवृत्तिसंज्ञं तद्ब्रह्म मायाविवर्जितम् ।
स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते ततः ॥ ६०॥
मायानाशार्थमत्यन्तमुपायो ह्ययमेकलः ।
उपायप्रत्ययाख्यं तद्ब्रह्मायोगात्मकं परम् ॥ ६१॥
अयोगात् परमं ब्रह्म योगाख्यं शान्तिदायकम् ।
संयोगायोगयोर्योगे लभ्यते योगिनायकैः ॥ ६२॥
तदेव गणराजश्च ब्रह्मणस्पतिवाचकः ।
ब्रह्मणां ब्रह्मरूपः स शान्त्या योगेन लभ्यते ॥ ६३॥
संयोगे गणराजस्तु गकाराक्षरगो मतः ।
अयोगे स णकाराख्यस्तयोः पतिः प्रकथ्यते ॥ ६४॥
इदं वेदान्तसारं यत् कथितं योगमार्गतः ।
तं भजध्वं महाभागा यदि शान्तिं समिच्छथ ॥ ६५॥
गर्ग उवाच ।
एवमुक्त्वा शुको योगी तूष्णीं भावेन संस्थितः ।
सर्वे विस्मितचित्तास्तं साधु साध्विति चाब्रुवन् ॥ ६६॥
निःसंशयाः कृतास्तेन त्यक्त्वा स्वस्वमतं ततः ।
गणेशभजने सक्ता वयं पुत्र महामते ॥ ६७॥
क्रमेण शान्तिमापन्ना गाणपा अभवंश्च ते ।
गता गणेश्वरं योगशान्तिदं त्वां वदाम्यहम् ॥ ६८॥
(Page खं. ८ अ. २९ पान ६५)
शुकगीता मया तुभ्यं कथिता ब्रह्मदायिनी ।
शृणुयाद्यः पठेत् सोऽपि ब्रह्मभूतो भविष्यति ॥ ६९॥
नानेन सदृशं ज्ञानं योगदं कुत्र वर्तते ।
श्रवणात् सर्वसिद्धिदं भविष्यति क्रमादिदम् ॥ ७०॥
यं यमिच्छति तं तं स लभते मानवो ध्रुवम् ।
अन्ते स्वानन्दवासी स ब्रह्मभूतो भविष्यति ॥ ७१॥
शुकगीतासमं किञ्चित् विद्यते नैव निश्चितम् ।
वेदोपनिषदाद्येषु सारभूता हि कथ्यते ॥ ७२॥
न श्राव्या दुर्जनायेयं वेदगुह्यमयी परा ।
योगिभिः शुद्धचित्तेभ्यः सुत श्राव्या प्रयत्नतः ॥ ७३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते शुकगीताकथनं नामाष्टाविंशोऽध्यायः ॥ ८.२८
८.२९ वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिवदत्त उवाच ।
श्रुत्वा त्वद्वदनाम्भोजाच्छुकगीतां सुतोषितः ।
जातोऽधुना गणेशस्य प्राप्त्यर्थं वद मां पितः ॥ १॥
गर्ग उवाच ।
समीपे व्रतमुख्यं यत् समागतं सुसिद्धिदम् ।
वैशाखमासजं कृत्वा गाणपत्यो भविष्यसि ॥ २॥
एवमुक्त्वा महायोगी गर्गस्तस्मै ददौ परम् ।
गाणेशपञ्चकेनैकाक्षरं विधिसमन्वितम् ॥ ३॥
ततस्तेनाभ्यनुज्ञातो गर्गः स्वेच्छाचरो ययौ ।
शिवदत्तो व्रतं चक्रे गणेशप्रीतये परम् ॥ ४॥
वैशाखे ध्यानसंयुक्तस्तोषयामास शौनक ।
गाणेशपञ्चकेनैव गणेशं सर्वसिद्धिदम् ॥ ५॥
चतुर्थ्यां गणराजस्तु शुक्लायां प्रययौ मुनिम् ।
ब्राह्मणस्य स्वरूपेण भिक्षार्थं क्षुधितो भृशम् ॥ ६॥
तमागतं समालोक्य प्रणनाम कृताञ्जलिः ।
जगाद तं द्विजं विप्रः शिवदत्तो महायशाः ॥ ७॥
शिवदत्त उवाच ।
आस्यतां किं वद मुने कारणार्थं समागतः ।
शक्यं चेत्तत् करिष्यामि प्रीतये विघ्नपस्य च ॥ ८॥
द्विज उवाच ।
पाराशर्यं महाभाग मां जानीहि न संशयः ।
क्षुधितं वै समायातं त्वद्गेहे भोजनाय तु ॥ ९॥
तस्य तत् वचनं श्रुत्वा हर्षयुक्त उवाच तम् ।
तात शुक्लचतुर्थीजं व्रतं वदसि किं मुने ॥ १०॥
उपोषणसमायुक्ता देवर्षयो गजाननम् ।
सेवन्ते त्वं महाभाग विस्मृतोऽसि वदस्व माम् ॥ ११॥
तस्य तद्वचनं श्रुत्वा पाराशर्यस्तमब्रवीत् ।
न जानामि व्रताद्यं तु सदा भक्षणलालसः ॥ १२॥
श्रुत्वा प्रणम्य गार्ग्यः स नैवेद्यं गणपस्य च ।
ददौ तस्मै स भुक्त्वा तं तृप्त्वा जगाद हर्षितः ॥ १३॥
पाराशर्य उवाच ।
तव भावेन सन्तुष्टो जातोऽहं द्विजसत्तम ।
(Page खं. ८ अ. २९ पान ६६)
वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन् मुने ॥ १४॥
गार्ग्य उवाच ।
किं वृणोमि महाविप्र सर्वं मायामयं जगत् ।
गणेशतत्परश्चाहं गच्छ त्वं निजमन्दिरम् ॥ १५॥
एवं तस्य वचः श्रुत्वा पुनस्तं स द्विजोऽब्रवीत् ।
नयामि स्वगृहं विप्र वरदोऽहं समागतः ॥ १६॥
ततस्तं हठसंयुक्तं दृष्ट्वा गार्ग्य उवाच ह ।
गणेशं दशर्य स्वामिन्नान्यं याचे वरं परम् ॥ १७॥
एवमुक्तो द्विजस्तं सञ्जगाद मोहदं वचः ।
त्यक्त्वा नानाविधैश्वर्यं किं वृणोषि गजाननम् ॥ १८॥
अहं योगीन्द्रमुख्यश्च दास्यामि सकलं सुखम् ।
एवमुक्त्वा स गार्ग्याय दर्शयामास चैन्द्रकम् ॥ १९॥
नानादेवयुतो विप्रमिन्द्रस्तं प्रणनाम ह ।
दासोऽहं ते महाभाग भुङ्क्ष्व त्वं सुखमैन्द्रजम् ॥ २०॥
एवमुक्त्वा चकाराऽसौ मायया वैभवं परम् ।
गार्ग्यस्तं नश्वरं मत्वा न दध्ने गणपे रतः ॥ २१॥
ततोंऽतर्धानमकरोदिन्द्रः स्वनगरं ययौ ।
सत्यलोकसमायुक्तस्तत्र ब्रह्मा समाययौ ॥ २२॥
जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्वितः ।
राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् ॥ २३॥
अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रतः ।
न मुमोह जगादैव भोगं नेच्छामि भो विधे ॥ २४॥
ततोंऽतर्धानमकरोद्ब्रह्मा लोकपितामहः ।
आययौ केशवस्तत्र विकुण्ठेन समन्वितः ॥ २५॥
विकुण्ठविभवं दृष्ट्वा गार्ग्यो गणपतिं भजन् ।
प्रार्थयन्तं महाविष्णुं त्यक्त्वा योगपरोऽभवत् ॥ २६॥
ततः सोऽपि ययौ स्थानमाययौ तत्र शङ्करः ।
कैलासेन समायुक्तो नानाविभवमोहदः ॥ २७॥
शिवेन प्रार्थितो गार्ग्यः कैलासे राज्यकारणात् ।
न चकार स वै तत्र मतिं गणपतौ रतः ॥ २८॥
शिवोंऽतर्धानमकरोत्ततस्तं पुनरब्रवीत् ।
पाराशर्यो महायोगी गार्ग्यं निन्दापरायणः ॥ २९॥
पाराशर्य उवाच ।
मूर्खोऽसि हतभाग्योऽसि गणेशं किं करिष्यसि ।
ब्रह्माकारमतो भुङ्क्ष्व भोगान्नानाविधान् परान् ॥ ३०॥
सत्यसङ्कल्पजान् भोगान् भुक्त्वा चान्ते गणेश्वरम् ।
भजिष्यसि न सन्देहो ब्रह्माण्डाधिपतिर्भव ॥ ३१॥
गार्ग्य उवाच ।
असत्यं दीनजं सौख्यं पराधीनात्मकं मुने ।
सत्यसङ्कल्पजं सौख्यं सत्यमनुपमं परम् ॥ ३२॥
सत्यासत्यादिभेदाश्च मायायुक्ता न संशयः ।
क्षणभङ्गुरदेहस्थो नेच्छामि योगिसत्तम ॥ ३३॥
अथ वेश्वरभावेनामृतरूपं करोषि माम् ।
तथापि योगनिपुणः सुखं नेच्छामि चैश्वरम् ॥ ३४॥
त्वं किमर्थमिहायातश्छलयितुं महाखल ।
गच्छ स्व भवनं विप्र गणेशे भक्तिखण्डक ॥ ३५॥
एवं तिरस्कृतस्तेन पाराशर्यो महामुनिः ।
प्रहस्य गणपाकारो बभूवे तत्क्षणान् मुने ॥ ३६॥
जगाद तं महाभागं शिवदत्तं गजाननः ।
पश्य मां गणनाथं त्वं पराशरसुतं मुने ॥ ३७॥
स दृष्ट्वा गणराजं तं प्रणनाम कृताञ्जलिः ।
साश्रुनेत्रोऽभवत् सद्यो ननर्त प्रेमविह्वलः ॥ ३८॥
देहभावं समासाद्य तं पुपूज गजाननम् ।
(Page खं. ८ अ. २९ पान ६७)
मुदा युतः प्रतुष्टाव शिवदत्तः कृताञ्जलिः ॥ ३९॥
शिवदत्त उवाच ।
गणेशाय नमस्तुभ्यं पराशरात्मजाय ते ।
शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ ४०॥
सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ ४१॥
अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे ।
भोगहीनाय देवाय सुराय ते नमो नमः ॥ ४२॥
अपारगुणधाराय गुणानां पतये नमः ।
गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ ४३॥
आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे ।
आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ ४४॥
स्वानन्दपतये तुभ्यं मूषकवाहनाय च ।
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ ४५॥
योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे ।
गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ ४६॥
परेशाय महादीनपालकाय नमो नमः ।
सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ ४७॥
किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि ।
अतो नमो नमो नाथ तुष्टो भव महोदर ॥ ४८॥
रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः ।
गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ ४९॥
धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः ।
वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ ५०॥
एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः ।
तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ ५१॥
श्रीगणेश उवाच ।
वरान् वृणु महाभाग ये ते चित्ते ददामि तान् ।
प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ ५२॥
शिवदत्त उवाच ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ।
नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ ५३॥
श्रीगणेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ ५४॥
त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् ।
श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ ५५॥
यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति ।
स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ ५६॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ ५७॥
सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः ।
अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ ५८॥
एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् ।
कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ ५९॥
वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् ।
यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः ॥ ८.२९
(Page खं. ८ अ. २० पान ६८)
८.३० वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
विश्वावसुश्च नाम्ना को द्राविडे वैश्ययोनिजः ।
श्रुत्वा वैशाखमाहात्म्यं गाणेशं मुदितोऽभवत् ॥ १॥
स कुटुम्बपरो नित्यं व्यवसायं चकार ह ।
स्नात्वा वैशाखमासे तु दीपदानपरोऽभवत् ॥ २॥
पूर्णिमायां निशायां स स्वगृहं गन्तुमुद्यतः ।
व्यवसायं परित्यज्य मार्गसंस्थो बभूव ह ॥ ३॥
तत्र तं भक्षितुं कोऽपि राक्षसः क्रूररूपधृक् ।
आययौ नगरस्यैव वीथ्यां विश्वावसुं मुने ॥ ४॥
तमागतं समालोक्य विश्वावसुः सुविह्वलः ।
सस्मार गणपं चित्ते पपात भूतले भयात् ॥ ५॥
तमालोक्य धरासंस्थं राक्षसः सहसा मुने ।
जातिस्मरो बभूवाऽपि रुरोद तं प्रमार्जयन् ॥ ६॥
ततो विश्वावसुं वैश्यं सावधानं क्षणार्धतः ।
तं प्रणम्य महाभागं राक्षसस्तु वचोऽब्रवीत् ॥ ७॥
धूम्र उवाच ।
धूम्रनामानमेवं मां विद्धि वैश्यकुलोद्भव ।
तव दर्शनमात्रेण स्मरन् जातिं न संशयः ॥ ८॥
पूर्वजन्मनि विप्रोऽहं सुरुचिर्नामतोऽभवम् ।
विश्वामित्रकुले संस्थः पापकर्मपरायणः ॥ ९॥
मया शूद्राय दीक्षा वै दत्ता पौराणिकी परा ।
मात्स्यी स नित्यमेवेदं पुराणमपठन् मुदा ॥ १०॥
ब्राह्मणैर्निन्दितं तत्र स्वधर्मदूषकं परम् ।
मृतं मां यमदूता वै गृह्य जग्मुः स्वमालयम् ॥ ११॥
चित्रगुप्त उवाचाऽथ यमं नीतिविशारदम् ।
स्वधर्मनिरतश्चायं सदाचारयुतोऽभवत् ॥ १२॥
मात्स्यं स विप्रः शूद्रायाऽशिक्षापयत् सुमन्दधीः ।
ब्रह्मणैर्वारितः पापी पापकर्मपरोऽभवत् ॥ १३॥
तच्छ्रुत्वा धर्मराजस्तमुवाच क्रोधसंयुतः ।
मां वीक्ष्य ताड्यतां दूतस्तथेति स चकार ह ॥ १४॥
भुक्तभोगोऽहमत्यन्तं राक्षसो वैश्यसत्तम ।
जातोऽत्र क्षुधयाऽऽविष्टो भ्रमामि तु दिवानिशम् ॥ १५॥
त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहाऽभवम् ।
अधुना तारयस्व त्वं मां संसारान् महामते ॥ १६॥
नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः ।
एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् ॥ १७॥
ततो दयायुतो वैश्यस्तमुवाच सुविस्मितः ।
किं करोमि वद प्राज्ञ धूम्र ते तारणाय माम् ॥ १८॥
धूम्र उवाच ।
वैशाखे दीपदानं त्वं करोषि ढुण्ढिसन्निधौ ।
तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहम् ॥ १९॥
विश्वावसुरुवाच ।
दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः ।
अपारं तद्भवं पुण्यं न दास्यामि कदाचन ॥ २०॥
तथापि शृणु मे वाक्यमेकवर्तिजदीपतः ।
यज्जातं तद्गृहाण त्वं तेन मुक्तो भविष्यसि ॥ २१॥
एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवम् ।
एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ॥ २२॥
ततस्तत्र समायाता विमानवरसंस्थिताः ।
गाणेशा राक्षसं धूम्रं गृह्य स्वानन्दमाययुः ॥ २३॥
एवं व्रतस्य माहात्म्यं वैशाखे सम्भवस्य च ।
गाणेशानां महाभाग तत्र किं वर्णयाम्यहम् ॥ २४॥
अन्यच्च शृणु विप्रर्षे वैशाखमासगं महत् ।
चरित्रं सर्वपापघ्नं श्रवणात् पठनान्नृणाम् ॥ २५॥
(Page खं. ८ अ. ३१ पान ६९)
कश्चिच्छूद्रो महापापी गणेशालयमाययौ ।
चौर्यार्थं तत्र रात्रौ स वस्त्रग्रहणलालसः ॥ २६॥
समीपे गणराजस्य ययौ वैशाखमासके ।
दीपं तेजोविहीनं स ददर्श ढुण्ढिसन्निधौ ॥ २७॥
स वर्तिं चालयामास कृत्वा दीपं सुतेजसम् ।
वस्त्रग्रहणसंसक्तो बभूवे जातिदूषकः ॥ २८॥
ततोऽकस्मान्नरं तत्र राज्ञः कं च समागतम् ।
देवालस्य रक्षणार्थं तं दृष्ट्वा स पपाल ह ॥ २९॥
ततो हाहाकृतं तेन सद्यो लोकैः समागतैः ।
तैर्हतो योजने दूरं मृतो यामैर्हतोऽभवत् ॥ ३०॥
भुक्त्वा नानाविधां याम्यां यातनां यमसन्निधौ ।
समानीतं यमः प्राह तं शूद्रं क्रोधसंयुतः ॥ ३१॥
वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता ।
तेन प्रकाशकस्तत्र बभूव सुखदायकः ॥ ३२॥
तस्य पुण्यं त्वया प्राप्तं तद्भोक्ष्यसि पुराऽथ वा ।
पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् ॥ ३३॥
शूद्रो यमं जगदाथाऽऽदौ पुण्यं देहि मे प्रभो ।
भोक्तुं पश्चान् महत् पापं तथेति स चकार ह ॥ ३४॥
ततः स वैश्यजो जातो नाम्ना धर्मप्रियो महान् ।
नानाभोगयुतो नित्यं यौवनस्थो बभूव ह ॥ ३५॥
गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने ।
दीपदानं विशेषेण चकार हर्षसंयुतः ॥ ३६॥
अन्ते पापविहीनः स जगाम गणनायकम् ।
ब्रह्मभूतो बभूवापि पूर्वसंस्कारभावतः ॥ ३७॥
एवं किञ्चिच्च संस्कारादुद्धरन्ति जनादयः ।
वैशाखजान्न सन्देहः कति तत्र ब्रुवे मुने ॥ ३८॥
इदं वैशाखमासस्य चरित्रं भुक्तिमुक्तिदम् ।
कथितं ते समासेन नानाभोगकरं परम् ॥ ३९॥
यः पठेच्छृणुयाद्वाऽपि स सर्वार्थयुतो भवेत् ।
अन्ते गणपतौ लीनो भवेद्भावपरायणः ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ॥ ८.३०
८.३१ जालन्धरवधो नामैकत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
अधुना शृणु माहात्म्यं श्रावणस्य सुखप्रदम् ।
गणनाथप्रियं विप्र समासेन वदाम्यहम् ॥ १॥
रामो दाशरथिः शूरः साक्षाद्विष्णुः प्रतापवान् ।
सभासनगतस्तत्रागतान् विप्रान्ननाम ह ॥ २॥
पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितम् ।
तद्वधार्थं वयं राम यातास्तं जहि राघव ॥ ३॥
तथेति तानुवाचाऽसौ द्विजान् पप्रच्छ राघवः ।
दुर्जयस्य जयः केन भविष्यति च मे द्विजाः ॥ ४॥
ततस्तं ब्राह्मणाः प्राहुर्गणेशस्याभिषेचनम् ।
सूक्तैर्गाणेशकैस्तेन विजयी त्वं भविष्यसि ॥ ५॥
(Page खं. ८ अ. ३१ पान ७०)
मासेषु श्रावणो मुख्यः समागतोऽधुना प्रभो ।
विघ्नेशप्रीतिदोऽत्यन्तममायुक्तो व्रतं कुरु ॥ ६॥
एवमुक्त्वा विधिं तस्मै कथयामासुरादरात् ।
गणेशमभजत्तत्र शत्रुघ्नः परवीरहा ॥ ७॥
उपोषणसमायुक्तः स्वयं दुग्धमभक्षयत् ।
अभिषेकपरो भूत्वा तोषयामास विघ्नपम् ॥ ८॥
मासमात्रं व्रतं कृत्वा गणेशं नम्य राघवः ।
शत्रुघ्नो ब्राह्मणैः सार्धं ययौ लवणराक्षसम् ॥ ९॥
त्रिशूलेन विहीनं संरुध्य तं लक्ष्मणानुजः ।
स्मृत्वा गणेश्वरं दुष्टं जघान शरघाततः ॥ १०॥
महोऽग्रं पतितं युद्धं तयोः सर्वभयङ्करम् ।
ततः खड्गेन शत्रुघ्नस्तस्य चिच्छेद मस्तकम् ॥ ११॥
ततो देवगणाः सर्वे पुष्पवृष्टिं प्रचक्रिरे ।
शत्रुघ्नोपरि शत्रुघ्नो जय हेरम्ब चाब्रवीत् ॥ १२॥
ब्राह्मणैः पूजितः सोऽपि प्रणम्य द्विजपुङ्गवान् ।
आवासं मथुरां तत्र सुदेशां तां चकार ह ॥ १३॥
गते कियति काले संस्थाप्य पुत्रं महामतिः ।
माथुरे रामचन्द्रं तु ययौ भक्तिपरायणः ॥ १४॥
एवं श्रावणमासे वै गणेशस्य महात्मनः ।
अनुष्ठानफलं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १५॥
अन्यत्त्वं शृणु माहात्म्यं श्रावणव्रतजं महत् ।
जालन्धरवधार्थाय यच्छिवेन कृतं पुरा ॥ १६॥
जालन्धरेण दैत्येन जितं सर्वं चराचरम् ।
त्रैलोक्याधिपतिः सोऽपि बभूव वरदानतः ॥ १७॥
आसुरं कर्म सर्वत्र कारयामास दैत्यपैः ।
न स्वाहा न स्वधा कुत्र बभूवे भूमिमण्डले ॥ १८॥
एवं बहौ गते काले गृहीतुं पार्वतीं ययौ ।
जालन्धरस्ततो युद्धं बभूवे देवदैत्ययोः ॥ १९॥
देवैः पराजिता दैत्याः पपलुस्ते दिशो दश ।
ततो जालन्धरः क्रुद्धो युयुधे शस्त्रधारकः ॥ २०॥
जितः शम्भुः सुरेशानैः पपाल भयसङ्कुलः ।
अन्तर्दधे महाशक्तिः स ततो विस्मितोऽभवत् ॥ २१॥
स्वगृहं दैत्यराजः स समागत्यातिविह्वलः ।
कामबाणाभिभूतः सन् सस्मार जगदम्बिकाम् ॥ २२॥
न लेभे कुत्रचिच्छर्म नानाशीतलजातिषु ।
जज्वाल कामजेनैव वह्निना भृशदुःखितः ॥ २३॥
अथ देवगणाः सर्वे पर्वतद्रोणिमाश्रिताः ।
विचारं तस्य नाशार्थं चक्रुर्जालन्धरस्य ते ॥ २४॥
ततो बृहस्पतिः प्राह शङ्करादीन् सुरेन्द्रकान् ।
श्रावणे गणनाथस्यानुष्ठानं कुरुत प्रियाः ॥ २५॥
तथेति गुरुणा युक्ता देवाः शम्भ्वादयोऽपरे ।
मुनयो गणनाथं वै दूर्वाभिरन्वतोषयन् ॥ २६॥
दिवा रात्रौ गणाधीशमभजन्नैकचेतसः ।
समाप्ते श्रावणे मासे भाद्रिं यात्रां प्रचक्रिरे ॥ २७॥
पञ्चम्यां पारणं कृत्वा प्रणिपत्य गजाननम् ।
प्रेरिता आकाशगिरा तं महादैत्यमाययुः ॥ २८॥
युद्धं कृत्वा महाघोरं जलन्धरेण शङ्करः ।
स्मृत्वा गजाननं चित्ते त्रिशूलेन जघान तम् ॥ २९॥
स स्मृतः शिवदेहे तु लयं ययौ महासुरः ।
देवा मुनियुताः शम्भुं तुष्टुवुः पूज्य भक्तितः ॥ ३०॥
जालन्धरं महादैत्यमेवं जित्वा सदाशिवः ।
स्थापयामास देवादीन् स्वस्थानेषु यथा पुरा ॥ ३१॥
वर्णाश्रमयुतांल्लोकान् चकार शङ्करः प्रभुः ।
(Page खं. ८ अ. ३२ पान ७१)
नित्यवच्छ्रावणे मासेऽनुष्ठानसंयुतोऽभवत् ॥ ३२॥
एकनिष्ठतया शम्भुः सिषेवे गणनायकम् ।
नित्यं ध्यानपरो भूत्वा तमेवाचिन्तयत् प्रभुम् ॥ ३३॥
एवं श्रावणमासस्य व्रतं ते कथितं मया ।
येन व्रतप्रभावेण शम्भुर्जिग्ये जलन्धरम् ॥ ३४॥
इदं यः शृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालन्धरवधो नामैकत्रिंशोऽध्यायः ॥ ८.३१
८.३२ श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
अवन्तीनगरीमध्ये बभूव ब्राह्मणोत्तमः ।
गालवः सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥ १॥
शापानुग्रहयोः शक्तस्तपस्तेजोयुतो मुनिः ।
चचार पृथिवीं सर्वां मुने यात्रापरः कदा ॥ २॥
स्वगुरुं स समागम्य विश्वामित्रं महामुनिम् ।
यात्रां समाप्य तत्रैव संस्थितोऽभूत् सुशीलगः ॥ ३॥
गणेशभजने सक्तं विश्वामित्रं तपोनिधिम् ।
एकनिष्ठतया दृष्ट्वा तमुवाच कृताञ्जलिः ॥ ४॥
गालव उवाच ।
पञ्चभूतात्मको देहो नश्वरः सर्वसम्मतम् ।
देहसंस्थं गणेशानं तं कथं भजसे प्रभो ॥ ५॥
योगीन्द्राणां गुरुः साक्षात्त्वं ब्रह्मपदधारकः ।
ब्रह्मभूतस्वभावं किं त्यक्त्वा भजसि विघ्नपम् ॥ ६॥
अयं ब्रह्मपतिः साक्षाद्वेदेषु कथितोऽभवत् ।
कथं देहधरः सोऽपि बभूव च गजाननः ॥ ७॥
रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकम् ।
तदर्थं कथितं स्वामिन् वेदैः किं योगिनां मतम् ॥ ८॥
गणेशपूजनेनैव शुद्धचित्तो नरो भवेत् ।
स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः ॥ ९॥
सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा ।
त्यक्त्वा गजाननं तात जडोन्मत्तादिवच्चरेत् ॥ १०॥
त्वं शान्तियोगयुक्तः सन्नधुनाऽपि गजाननम् ।
भजसे किं महायोगिन् लोकानां सङ्ग्रहाय वा ॥ ११॥
सूत उवाच ।
एवं वदन्तमत्यन्तं मुनिर्निर्भर्त्स्य गालवम् ।
विश्वामित्रः स्वशिष्यं तमुवाच ज्ञानदायकः ॥ १२॥
विश्वामित्र उवाच ।
मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकम् ।
सर्ववत्तं विशेषेण त्वं मा जानीहि गालव ॥ १३॥
पञ्चचित्तमयी बुद्धिः स्वेच्छया देहधारिणी ।
नानाभ्रान्तिकरी सिद्धिर्बभूवे सर्वदा तथा ॥ १४॥
तयोः स्वामी गणेशानो देहधारी बभूव ह ।
स्वेच्छया क्रीडनार्थाय मायाभ्यां मायिको यथा ॥ १५॥
देहो जगन्मयो यस्य गजाकारं शिरः प्रभोः ।
ब्रह्ममयं तयोर्योगे देहधारी गजाननः ॥ १६॥
(Page खं. ८ अ. ३२ पान ७२)
योगिनां हृदये ढुण्ढिर्वर्तते कथितो मया ।
अज्ञानिनां निराकारः पञ्चभूतात्मकस्तथा ॥ १७॥
सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते ।
नोत्पत्तिनाशभावश्च सर्ववन्मूर्खसत्तम ॥ १८॥
अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः ।
अन्तर्धाय स्वमात्मानं तिष्ठति योगनायकः ॥ १९॥
विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने ।
ब्रह्मणस्पतिसंज्ञे च योगे तन्मयभावतः ॥ २०॥
नरकुञ्जररूपं तदभेदेन समास्थितम् ।
तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥ २१॥
योगी योगबलेनैव भवति ब्रह्मरूपगः ।
तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥ २२॥
ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके ।
वर्तते सर्वदा तस्मात्तं भजन्ते तु योगिनः ॥ २३॥
एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् ।
गालवं तूष्णीम्भावेनाभजत्तं गणनायकम् ॥ २४॥
तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च ।
निन्दयस्वात्मनात्मानं संशयस्यापनुत्तये ॥ २५॥
गालव उवाच ।
अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तम ।
शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥ २६॥
गणेशो योगशान्तिस्थो सदा योगीन्द्रसत्तम ।
कथं देव इति ख्यातः कथितो वेदवादिभिः ॥ २७॥
देवाः सत्त्वयुता नाथ नरा राजसतां गताः ।
तामसा असुराः प्रोक्तास्त्रिलोके वासकारिणः ॥ २८॥
एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः ।
येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥ २९॥
विश्वामित्र उवाच ।
देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः ।
इन्द्रादयो न सन्देहस्तेष्विन्द्रः परमा गतिः ॥ ३०॥
ब्रह्मणो दिवसान्ते ते लयं गच्छन्ति नित्यदा ।
अन्ये कर्मकरा देवा भवन्ति मानवाः पुनः ॥ ३१॥
कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः ।
कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥ ३२॥
परमेष्ठी समाख्यातः परा सेष्ठिस्तदात्मिका ।
इष्ट्यास्तस्मान् परं किञ्चिल्लभ्यते नैव मानवैः ॥ ३३॥
शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः ।
अभवन् सत्यसङ्कल्पाः सगुणा निर्गुणा मुदा ॥ ३४॥
गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते ।
एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥ ३५॥
दिवु क्रीडात्मको धातुः पठ्यते मुनिभिर्मुदा ।
सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥ ३६॥
स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः ।
देवा इन्द्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥ ३७॥
सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा ।
ब्रह्मा तेन मुनीन्द्रैः स देव इत्यभिधीयते ॥ ३८॥
अनन्तकोटिब्रह्माण्डानि रचित्वा स्वमायया ।
शिवादयश्च चत्वारस्तेषु क्रीडन्ति देवकाः ॥ ३९॥
सत्यसङ्कल्पकत्वाद्वै ईश्वरास्ते प्रकीर्तिताः ।
देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥ ४०॥
असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् ।
विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥ ४१॥
जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाद्गणजातिषु ।
देवो गणेश्वरः प्रोक्तः पश्य वेदेषु वर्णितम् ॥ ४२॥
(Page खं. ८ अ. ३२ पान ७३)
अतो देवसमानास्ते न भवन्ति कदाचन ।
ब्रह्मादयो महाभागा देवशब्दप्रधारकाः ॥ ४३॥
सूत उवाच ।
विश्वामित्रवचः श्रुत्वा गालवोऽत्यन्तविस्मितः ।
जगाद तं महाभागं संशयेन समन्वितः ॥ ४४॥
गालव उवाच ।
देवा हविर्भुजः सर्वे तद्वदिमे महामते ।
हविर्भुजो महेशाद्या अभवन् भागमिश्रिताः ॥ ४५॥
दैत्याद्यैः कर्मनाशेन पीडिता अमरा यदि ।
तदा शम्भ्वादयस्तद्वदुपोषणयुताः कृताः ॥ ४६॥
तेन देवसमानास्ते दृश्यन्ते नाऽत्र संशयः ।
वद संशयनाशार्थं शिष्यं योगीन्द्रसत्तम ॥ ४७॥
विश्वामित्र उवाच ।
अज्ञानासुरभावार्थैर्देवा ब्रह्मादयः किल ।
उपोषणयुताः सर्वे कृता दैत्यैर्भवन्त्यतः ॥ ४८॥
अथाऽन्यच्छृणु तत्त्वं त्वं सर्वसंशयनाशनम् ।
खण्डैश्वर्ययुता इन्द्रादयो देवाः प्रकीर्तिताः ॥ ४९॥
मन्वन्तरे गते देवा इन्द्राद्या भागवर्जिताः ।
देहत्यागं प्रकुर्वन्ति तपसा ध्यानशालिना ॥ ५०॥
अन्ये देवा भवन्ति स्मान्यस्मिन् मन्वन्तरे मुदा ।
इन्द्राद्यास्तेन ते प्रोक्ताः खण्डैश्वर्यात्मका मुने ॥ ५१॥
स्वस्वमन्वन्तरेष्वेव ते भवन्ति हविर्भुजः ।
नष्टे मन्वन्तरे देवा हविर्भागविवर्जिताः ॥ ५२॥
तथा ब्रह्मा स्वयं साक्षाद्धविर्भागधरो न च ।
द्विपरार्धमयं कालं भुनक्ति स हविः प्रभुः ॥ ५३॥
अत ऐश्वर्यसंयुक्तः कल्पमात्रं न संशयः ।
कथमिन्द्रादिकैरस्य समता भवतीत्यहो ॥ ५४॥
बुधैः स परमेष्ठीति कथितश्चेष्टिभक्षणाम् ।
अखण्डैश्वर्यसंयुक्तेष्टिश्च सर्वत्र सम्मता ॥ ५५॥
शिवादयः समाख्याता हविर्भुजस्ततोऽधिकः ।
अत ऐश्वर्यसंयुक्ता अखण्डं हि हविर्भुजः ॥ ५६॥
गालव उवाच ।
हविर्भुजः समाख्याता देवाः शास्त्रेषु मानद ।
यज्ञभागविहीनत्वात् कथं देवो गजाननः ॥ ५७॥
विश्वामित्र उवाच ।
यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते ।
पूज्यस्तथा हविर्भोक्ता सर्वसिद्धिप्रदायकः ॥ ५८॥
एकभागाश्रिता भावाद्गणेश इति कथ्यते ।
समूहानां समायोगस्तत्र किं संशयो मुने ॥ ५९॥
वेदेषु गणराजस्य यज्ञो भिन्नो निरूपितः ।
ब्राह्मणस्पत्यसंज्ञस्तु हविर्भुक् तत्र विघ्नपः ॥ ६०॥
एकभागाश्रिता देवा विष्णुशङ्करमुख्यकाः ।
अतः स्वस्वपदेष्वेव पूजनीयाः प्रयत्नतः ॥ ६१॥
सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तितः ।
सर्वपूज्यो महाविघ्नसमूहानां प्रपालनात् ॥ ६२॥
गालव उवाच ।
पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः ।
गणेशः सर्वपूज्यादिपूज्यः कथं बभूव ह ॥ ६३॥
विश्वामित्र उवाच ।
सगुणा निर्गुणाः प्रोक्ता ईश्वराः शम्भुमुख्यकाः ।
सत्यसङ्कल्पभावेन योगरूपा न तेऽभवन् ॥ ६४॥
एकगुणाश्रिताः सर्वे सगुणाः परिकीर्तिताः ।
महालये लयं ते वै गच्छन्ति गुणधारणात् ॥ ६५॥
सगुणा नाशवन्तस्ते निर्गुणा नाशवर्जिताः ।
योगरूपास्तयोर्योगे शिवाद्याः सम्मता बुधैः ॥ ६६॥
नरकुञ्जरयोगत्वात् गणेशो योगवाचकः ।
(Page खं. ८ अ. ३३ पान ७४)
सगुणो निर्गुणः सोऽपि तादृशस्तन्मयोऽभवत् ॥ ६७॥
योगरूपः सदा देवो सगुणो निर्गुणोऽपि वा ।
स्वेच्छया द्विविधं सृष्ट्वा खेलते भाववर्जितः ॥ ६८॥
स्वानन्दनगरे संस्थो देहधारी गजाननः ।
स्वानन्दस्य लयो नास्ति वेदादिषु विचारय ॥ ६९॥
अतोऽयं नाशहीनोऽपि देहभृच्छोभते स्वयम् ।
सगुणे योगनाथश्चान्तर्धाय निर्गुणे रतः ॥ ७०॥
अन्तर्धाय गणेशानो निर्गुणं योगशान्तिदः ।
योगरूपे रतः सद्यः स्वेच्छया नात्र संशयः ॥ ७१॥
अतोऽयं ज्येष्ठराजश्च कथितो वेदवादिभिः ।
ज्येष्ठानां ज्येष्ठभावाद्वै गतः सर्वादिपूज्यताम् ॥ ७२॥
पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिप्रदा मता ।
तयोः स्वामी गणेशानः सेव्यते मे हृदि स्थितः ॥ ७३॥
एवमुक्त्वा महायोगी विरराम महामुने ।
गालवः संशयं त्यक्त्वा प्रणनाम कृताञ्जलिः ॥ ७४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः ॥ ८.३२
८.३३ श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
गणेशप्राप्तिकामार्थं गालवो मुनिसत्तमम् ।
पुनः पप्रच्छ सद्बुद्धिर्विनयेन द्विजोत्तमः ॥ १॥
गालव उवाच ।
द्रष्टुमिच्छामि विघ्नेशं तदुपायं वद प्रभो ।
तवाज्ञावशगो भूत्वाऽऽचरिष्यामि तदेव च ॥ २॥
विश्वामित्र उवाच ।
प्राप्तं श्रावणमासं त्वं विद्धि गालव सौख्यदम् ।
तत्रानुष्ठानभावेन गणेशं पश्य सिद्धिज ॥ ३॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं मुनिः ।
तं प्रणम्य महाविप्रं गालवस्तादृशे रतः ॥ ४॥
श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः ।
जजाप मन्त्रराजं स विधियुक्तं विधानवित् ॥ ५॥
पयो भुक्त्वा गणेशानं तोषयामास गालवः ।
सदा ध्यानपरो भूत्वा चिन्तयत्तं महामतिः ॥ ६॥
अमायां गणराजस्तु ययौ भक्तिनियन्त्रितः ।
सिद्धिबुद्धियुतो विप्रं सिंहगः सर्वभाववित् ॥ ७॥
तमागतं समालोक्य गालवः प्रेमसंयुतः ।
समुत्थाय प्रणम्यादौ पुपूज विघ्ननायकम् ॥ ८॥
पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ।
साश्रुनेत्रो गणाध्यक्षं सर्वसिद्धिप्रदायकम् ॥ ९॥
गालव उवाच ।
अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने ।
योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥ १०॥
अचिन्त्यरूपधाराय विघ्नेशाय नमो नमः ।
सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥ ११॥
स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे ।
अनन्तविभवायैव हेरम्बाय नमो नमः ॥ १२॥
लम्बोदराय देवाय देवदेवेशरूपिणे ।
(Page खं. ८ अ. ३३ पान ७५)
असुराणां निहन्त्रे च असुराय नमो नमः ॥ १३॥
सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे ।
ब्रह्माकारशरीरायैकदन्ताय नमो नमः ॥ १४॥
सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने ।
सदा शान्तिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥ १५॥
पाशाङ्कुशधरायैकदन्ताभयप्रधारिणे ।
नाभिशेषाय सर्वादौ पूज्याय ते नमो नमः ॥ १६॥
किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥ १७॥
सूत उवाच ।
एवं स्तुत्वा गणेशानं ननर्त प्रेमविह्वलः ।
धन्योऽहं कृतकृत्योऽहमुच्चरंश्च पुनः पुनः ॥ १८॥
तमुवाच गणाधीशो वरान् वरय गालव ।
दास्यामि श्रावणस्यैव व्रतेन तुष्टिमागतः ॥ १९॥
त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् ।
पठतां शृण्वतां विप्र मद्भक्तिवृद्धिकारकम् ॥ २०॥
धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् ।
आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा प्रवर्धनम् ॥ २१॥
एवमुक्त्वा गणेशानो विरराम महामते ।
गालवस्तं प्रणम्यादौ जगाद करसम्पुटः ॥ २२॥
गालव उवाच ।
भक्तिं देहि त्वदीयां मे गाणपत्यं कुरु प्रभो ।
योगं शान्तिप्रदं पूर्णं नान्यं याचे गजानन ॥ २३॥
तथेति तमथोक्त्वाऽसौ गणेशोंऽतरधीयत ।
गालवः खेदसंयुक्तो वियोगाद्गणपस्य तु ॥ २४॥
ततो जगाम विप्रेन्द्रं विश्वामित्रं ननाम सः ।
वृत्तान्तं कथयामास सोऽपि संहर्षितोऽवदत् ॥ २५॥
विश्वामित्र उवाच ।
धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने ।
सच्छिष्येण त्वया पुत्र तारितोऽहं न संशयः ॥ २६॥
एवं प्रशंसितो विप्रो विश्वामित्रेण गालवः ।
तं प्रणम्य ययौ सोऽपि स्वेच्छाचारी यथा तथा ॥ २७॥
सदा गणपतिं भक्त्याऽभजदनन्यचेतसा ।
गालवो योगिवन्द्यश्च बभूव परमार्थवित् ॥ २८॥
गाणेशानि जगामासौ क्षेत्राणि गणपे रतः ।
अन्ते मयूरक्षेत्रे तु वासं चकार हर्षितः ॥ २९॥
तत्रैव गणनाथं सोऽभजद्भावसमन्वितः ।
क्षेत्रसंन्यासविप्रैश्च पूजितोऽकथयत् कथाः ॥ ३०॥
इदं गालवमाहात्म्यं कथितं पापनाशनम् ।
पठनाच्छ्रवणात् सर्वसिद्धिदं जन्तवे भवेत् ॥ ३१॥
अन्यच्छृणु चरित्रं यत् सर्वसौख्यकरं मुने ।
महाराष्ट्रेंऽत्यजः कश्चिच्छुश्राव श्रावणस्य च ॥ ३२॥
माहात्म्यं गणनाथस्य भक्त्याश्रितं द्विजात् पुरा ।
तत्र चित्तं समानीय गणराजपरोऽभवत् ॥ ३३॥
आगते श्रावणे मासे स्नात्वा देवालये स्थितम् ।
ननाम नियमेनैव नित्यं भक्तिसमन्वितः ॥ ३४॥
ततः स्वव्यवासायेषु कुटुम्बपोषणे रतः ।
चकार विविधान् कामांल्लोकानां द्रव्यकारणात् ॥ ३५॥
समाप्ते श्रावणे मासे मृतं तं दैवयोगतः ।
प्रगृह्य गाणपा जग्मुः स्वालयं हर्षसंयुताः ॥ ३६॥
मार्गे सङ्गच्छतस्तस्याङ्गाद्वायुः सहसाऽऽययौ ।
पञ्चचौरशरीराङ्गे पस्पर्श दैवयोगतः ॥ ३७॥
चौराणां बुद्धिभेदोऽथ बभूवे तेन ते पुनः ।
ऊचुः परस्परं चौराः पापकर्मपरायणाः ॥ ३८॥
(Page खं. ८ अ. २२ पान ७६)
चौरा ऊचुः ।
नित्यं पापसमाचारा वयं चौर्यपरायणाः ।
लोकेभ्यो दुःखदाः पूर्णा का गतिर्वो भविष्यति ॥ ३९॥
पापिनां नरकेष्वेव गतिर्दुःखतरा भवेत् ।
यमस्य यातना तत्र दुःसहा नात्र संशयः ॥ ४०॥
नरके वासिनो नित्यं भविष्यामो वयं यतः ।
अतः परं न कर्तव्यं चौर्यं चौराः कदाचन ॥ ४१॥
एवं निश्चत्य मार्गे ते वनस्थे संस्थिता मुधा ।
तत्राऽकस्मात् समायाता ब्राह्मणा दश तापसाः ॥ ४२॥
तान् दृष्ट्वा गोभिरानन्दसंयुक्तान् पापनिश्चयाः ।
चौराः खड्गधरा याता हन्तुं तांस्ते द्विजा जगुः ॥ ४३॥
द्विजा ऊचुः ।
किमर्थं शस्त्रसंयुक्ताश्चौरा यूयं समागताः ।
गावो ग्राह्याः सुखेनैव वयं गच्छामहे पुनः ॥ ४४॥
मा हिंसां कुरुत प्राज्ञा ब्राह्मणवधसंश्रिताम् ।
ब्रह्महत्याभवं पापं वज्रलेपसमं भवेत् ॥ ४५॥
तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः ।
ऊचुर्नियम्य स्वात्मानं पापत्रासभयातुराः ॥ ४६॥
चौरा ऊचुः ।
ब्रह्महत्याभवं पापं तत् कीदृक् यातनाप्रदम् ।
कनोपायेन पापानि लयं गच्छन्ति भो द्विजाः ॥ ४७॥
वयं पापसमाचारा जन्मादारभ्य नित्यदा ।
नानाविधानि पापानि कुर्महे चाधुनावधिम् ॥ ४८॥
चराम किं वयं चौरास्तदर्थं पापनाशकम् ।
उपायं तद्वदध्वं नो दयया ब्राह्मणोत्तमाः ॥ ४९॥
चौराणां वचनं श्रुत्वा ब्राह्मणास्तानथाब्रुवन् ।
विस्मिता भयसंयुक्ता लोकोद्धारपरायणाः ॥ ५०॥
ब्राह्मणा ऊचुः ।
अनुतापेन पापानि नश्यन्ति चौरनायकाः ।
अतः परं च पापानि मा चरध्वं तदा किल ॥ ५१॥
श्रावणे गणनाथं ते सेवध्वं ब्रह्मनायकम् ।
तेन पापविहीनाश्च गमिष्यथ परां गतिम् ॥ ५२॥
एवमुक्त्वा महाभागास्ताननुज्ञाप्य ते ययुः ।
ब्राह्मणाः स्वाश्रमं गोभिर्युक्ता हर्षसमन्विताः ॥ ५३॥
समीपे श्रावणं मासं समागतं विलोक्य ते ।
चौराः स्वगृहमागत्य गणेशमभजन् परम् ॥ ५४॥
स्नात्वा प्रातर्गणेशानं प्रणम्य भावसंयुताः ।
प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन् मुने ॥ ५५॥
ते च एकभुजः सर्वे ब्रह्मचर्यपरायणाः ।
मासमात्रं व्रतं चक्रुः साधवस्ते बभूविरे ॥ ५६॥
इह भुक्त्वाऽखिलान् भागानन्ते स्वानन्दमाययुः ।
एवं नाना जना विप्र श्रावणे लेभिरे गतिम् ॥ ५७॥
तेषां चरित्रकं पूर्णं कथने नैव शक्यते ।
किञ्चिन्नियमयुक्तानां का कथा व्रतकारिणाम् ॥ ५८॥
एवं श्रावणमाहात्यं गाणपत्यपदप्रदम् ।
कथितं मुनिशार्दूल समासेन सुखप्रदम् ॥ ५९॥
शृणुयाच्छ्रावयेद्वाऽपि पठेद्यो स लभेत् पदम् ।
गाणेशं विविधान् भोगान् भुक्त्वांऽते मुनिसत्तम ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ८.३३
(Page खं. ८ अ. ३४ पान ७७)
८.३४ मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
मलमासभवं चित्रं चरित्रं कथयाम्यहम् ।
सङ्क्षेपेण मुनिश्रेष्ठ शृणु सर्वार्थदायकम् ॥ १॥
कलिकल्मषरूपेण मलेन पीडिताः सुराः ।
शरणं केशवस्यैव ययुर्विप्रेन्द्रमुख्यकैः ॥ २॥
स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं धर्मप्रपालकम् ।
घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥ ३॥
देवर्षय ऊचुः ।
लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः ।
तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥ ४॥
कलिना पापरूपेण जनार्दन जिता वयम् ।
पृथिवीं त्वमपि त्यक्त्वा किं स्थितोऽसि महाप्रभो ॥ ५॥
तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः ।
मेघगम्भीरया वाचा सर्वेषां पालकः प्रभुः ॥ ६॥
हरिरुवाच ।
मा भयं देवविप्राद्याः कुरुताहं न संशयः ।
करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥ ७॥
एवमुक्त्वा महाविष्णुर्देवर्षीन् विससर्ज ह ।
विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥ ८॥
कलिमलप्रणाशार्थं समर्थं चिन्त्य माधवः ।
आययौ मयूरक्षेत्रे तपोर्थं गणपे रतः ॥ ९॥
मलमासं समासाद्य नानामलनिकृन्तनम् ।
गाणेशपञ्चकं पूज्यं व्रतं चकार मासजम् ॥ १०॥
घृतभुक् गणनाथं सोऽसेवयद्यत्नसंयुतः ।
उषःस्नात्वा यथान्यायं चकार ढुण्ढिचिन्तनम् ॥ ११॥
ढौण्ढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः ।
पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥ १२॥
स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् ।
अश्ववाहं द्विहस्ताभ्यां खड्गचर्मधरं हरिः ॥ १३॥
स उवाच महाविष्णुं स्वभक्तं भक्तपालकः ।
मेघगम्भीरनादेन हर्षयन् हर्षवर्धनः ॥ १४॥
श्रीगणेश उवाच ।
नानामलप्रणाशार्थं मलमासव्रतं चरेत् ।
तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥ १५॥
मलमासस्य देवोऽहं ढुण्ढयित्वा विशेषतः ।
हरामि मलसम्भूतं दुःखं पापमयं परम् ॥ १६॥
अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः ।
कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥ १७॥
एवमुक्त्वा गणेशानस्ततोंऽर्धानमाकरोत् ।
प्रबुद्धः केशवोऽत्यन्तं स्मृत्वा हर्षयुतोऽभवत् ॥ १८॥
प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् ।
अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥ १९॥
कल्किर्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि ।
स्वाङ्गान्नानाविधां सेना कल्प्य दुष्टवधे रतः ॥ २०॥
नाना जनहृदिस्थः स कलिः प्रयत्नसंयुतः ।
तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥ २१॥
ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः ।
हत्वा दुष्टान् महाघोरानानाय्य ब्राह्मणोत्तमान् ॥ २२॥
एवं कृत्वांऽतर्दधेऽसौ स्तुतो देवर्षिभिर्हरिः ।
विकुण्ठमगमत् सद्यो हर्षनिर्भरमानसः ॥ २३॥
शौनक उवाच ।
धूम्रवर्णावताराख्यो गणेशः कलिना पुरा ।
युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥ २४॥
कल्किर्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना ।
वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥ २५॥
सूत उवाच ।
महाघोरस्वरूपोऽयं कलिः सृष्टः स्वयम्भुवा ।
पापसेनासमायुक्तो जिग्ये धर्मं क्षणे क्षणे ॥ २६॥
तन्नाशार्थं विशेषेण देवा मुनिगणास्तस्था ।
नानावताररूपैस्तं जयन्ति स्म प्रयत्नतः ॥ २७॥
गणराजस्य तदपि वरेण मूलवर्जितः ।
कलिर्न जायते विप्र पुनर्वृद्धिं प्रयाति सः ॥ २८॥
दशवर्षवयोयुक्ता नारी गर्भवती भवेत् ।
गृहे गृहे तथा त्रिंशत् परमायुर्भवेन्नृणाम् ॥ २९॥
वर्णसङ्कररूपाश्च जनाः सर्वे धरातले ।
सार्धैकभागो विश्वस्थो भवेद्धर्मों महामुने ॥ ३०॥
तदा विष्णुः सुराद्यैः सम्प्रार्थितः कल्किरूपधृक् ।
जित्वा कलिं पुनः सोऽपि धर्मं संस्थापयेत् परम् ॥ ३१॥
यदा पञ्च वयो वर्षा नारी गर्भवती भवेत् ।
षोडशाब्दपरं चायुर्मानवानां गृहे गृहे ॥ ३२॥
महाघोरं कलिं वीक्ष्य कस्मिन् कल्पे शिवादयः ।
तं जेतुं न समर्थाश्च बभूवुर्विष्णुमुख्यकाः ॥ ३३॥
विश्वाधर्मात्र रूपेण धर्मस्तिष्ठेद्धरातले ।
हाहाकाररवैर्युक्ता जनास्तत्र सुदुःखिनः ॥ ३४॥
तदा विघ्नेश्वरं सर्वे गच्छन्ति स्म शरण्यकम् ।
धूम्रवर्णो गणाध्यक्षो कलिं जिग्ये सुदुर्जयम् ॥ ३५॥
पुनर्धर्मं समास्थाप्य कृतं तथा महामुने ।
एवं कलिबलं दृष्ट्वाऽवतारं कुरुते स्म च ॥ ३६॥
एवं मलभवे मासे व्रतं कृत्वा जनार्दनः ।
जिग्ये कलिमलं पूर्णं महापापौघरूपिणम् ॥ ३७॥
अन्यच्छृणु महाविप्र माहात्म्यं मलसम्भवम् ।
धौम्यः सौम्यतपोयुक्तो बभूव परमद्युतिः ॥ ३८॥
स ययौ योगप्राप्त्यर्थं दधीचिं योगपारगम् ।
तं प्रणम्य विनीतात्मा संस्थितस्तेन पूजितः ॥ ३९॥
उवाच तं महाभागं दधीचिं मुनिवन्दितम् ।
कृताञ्जलिर्नतो भूत्वा धौम्यश्च तपतां वरम् ॥ ४०॥
धौम्य उवाच ।
तपसा स्वर्गभोगश्च लभ्यते सर्वजन्तुभिः ।
ब्रह्मभूयप्रदं विप्र तपो नैव प्रकीर्तितम् ॥ ४१॥
अतो मां शाधि तं योगिन् योगं शान्तिपदप्रदम् ।
संसाध्य कृतकृत्योऽहं भविष्यामि विशेषतः ॥ ४२॥
ब्रह्मणि तन्मया विप्र कथ्यन्ते ब्राह्मणा बुधैः ।
अतो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो ॥ ४३॥
धौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने ।
दधीचिस्तं महाभागं जगाद हर्षसंयुतः ॥ ४४॥
दधीचिरुवाच ।
ब्रह्म नाना विधं प्रोक्तं वेदादिषु विशेषतः ।
गाणेशं तेषु मुख्यं च ब्रह्मणां ब्रह्मदायकम् ॥ ४५॥
अहं पुरा तपोनिष्ठः क्षुपं राजशिरोमणिम् ।
स्पर्धयित्वा महाभागाऽभवं शैवो निरन्तरम् ॥ ४६॥
क्षुपार्थमागतं विष्णुं जित्वा योगपरायणः ।
ब्रह्मणि सहजे विप्र संस्थितोऽहं सुसौख्यदे ॥ ४७॥
तत्र स्वाधीनभावं च दृष्ट्वा श्रान्तोऽभवं पुरा ।
स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ॥ ४८॥
ततोऽहं शान्तिप्राप्त्यर्थं शङ्करं चागमं प्रभुम् ।
तं प्रणम्य महादेवमस्तवं विविधैः स्तवैः ॥ ४९॥
ततो मामब्रवीच्छम्भुः स्मयमान इदं वचः ।
किमर्थमागतो विप्र दधीचे वद साम्प्रतम् ॥ ५०॥
शिवस्य वचनं श्रुत्वा हर्षयुक्तो महादरात् ।
पुनः प्रणम्य विश्वेशं कृताञ्जलिपुटोऽवदम् ॥ ५१॥
(Page खं. ८ अ. ३४ पान ७९)
दधीचिरुवाच ।
नमस्ते शङ्करायैव शिवाय सुखवादिने ।
ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥ ५२॥
स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् ।
घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥ ५३॥
स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो ।
स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥ ५४॥
स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ।
कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥ ५५॥
अहं शैवः सदा नाथं त्वां जानामि परात्परम् ।
अतस्त्वां शरणं यातः शान्तियोगं वदस्व माम् ॥ ५६॥
श्रीशिव उवाच ।
सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् ।
कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥ ५७॥
स्वाधीनं त्रिविधं तात वर्तते न कदाचन ।
तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥ ५८॥
चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः ।
स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ ५९॥
पञ्चभिर्वर्जितो योगो ह्ययोग इति कथ्यते ।
न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥ ६०॥
तयोर्योगे महायोगिन् शान्तियोगः प्रकीर्तितः ।
पञ्चचित्तभवं भावं त्यक्त्वा शान्तिमवाप्स्यसि ॥ ६१॥
अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते ।
सदा संयोगता कुत्राऽयोगता भ्रान्तिदा भवेत् ॥ ६२॥
पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिकरी मता ।
माये त्यक्त्वा स्वयं चिन्तामणिः साक्षाद्भविष्यसि ॥ ६३॥
एवमुक्त्वा स्वयं मह्यं ददौ शम्भुर्महामनुम् ।
एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥ ६४॥
शैवोऽहं सततं नाथ किं मां वदसि मानद ।
गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥ ६५॥
शिव उवाच ।
गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना ।
सहजानां समायोगे गणोऽहं गणपस्य वै ॥ ६६॥
गणेशाकारभावेन गणाः सर्वे विचारय ।
तत्र किं व्यभिचारस्ते भवते वद साम्प्रतम् ॥ ६७॥
एवमुक्त्वा स्वयं शम्भुर्विरराम महामते ।
अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥ ६८॥
शम्भुना कथितं योगं साधयित्वा परात् परम् ।
योगशान्तियुतोऽहं तु जातः शम्भुप्रसादतः ॥ ६९॥
सदा शान्तिसमायुक्तो भजामि द्विरदाननम् ।
गुरुरूपधरं शम्भुं गाणपत्योऽहमादरात् ॥ ७०॥
एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् ।
त्वमपि गणराजं तं भजस्व भावसंयुतः ॥ ७१॥
एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् ।
मन्त्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥ ७२॥
पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् ।
दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥ ७३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥ ८.३४
(Page खं. ८ अ. ३५ पान ८०)
८.३५ मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
धौम्यो जजाप मन्त्रं तं ध्यात्वा हृदि गजाननम् ।
क्रमेण योगभूमिस्थः शमदमपरोऽभवत् ॥ १॥
ततः समागतं वीक्ष्य मलमासं विशेषतः ।
अज्ञानमलनाशार्थं चकार तद्भवं व्रतम् ॥ २॥
उषः स्नात्वा विधानेन गाणेशे पञ्चके रतः ।
सदा गणपतिं धौम्यः सस्मार शुद्धचेतसा ॥ ३॥
आगतं गणराजं तं ततो भक्तो मुनीश्वर ।
अमायां स समालोक्य हर्षितोऽभून् महामुनिः ॥ ४॥
उत्थाय तं प्रणम्याऽऽदौ पुपूज भक्तिसंयुतः ।
पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसम्पुटः ॥ ५॥
धौम्य उवाच ।
नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् ।
भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ ६॥
धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् ।
किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ ७॥
तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् ।
स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥ ८॥
गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने ।
शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः ॥ ९॥
अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥ १०॥
नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः ।
आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥ ११॥
अव्यक्तेषु महेशाय संयोगेषु निजात्मने ।
निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥ १२॥
योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः ।
आदिमध्यान्तभेदैस्तु खेलकाय नमो नमः ॥ १३॥
नानामायाप्रचालाय सिद्धिबुद्धिपते नमः ।
स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर ॥ १४॥
किं स्तौमि त्वां गणाधीश वेदा योगिन एव च ।
न समर्था अतो नाथ प्रणमामि गजाननम् ॥ १५॥
एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले ।
दण्डवद्गणनाथस्य पादौ गृह्य महामुनिः ॥ १६॥
तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणां पतिः ।
वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषितः ॥ १७॥
स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा ।
सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥ १८॥
योगशान्तिप्रदं पूर्णं मयि भक्तिविवर्धनम् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषितः ॥ १९॥
सूत उवाच ।
गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुतः ।
तं जगाद गणाधीशं भक्तेशं भक्तवत्सलम् ॥ २०॥
धौम्य उवाच ।
प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
देहि मे योगशान्तिं तु यत्र त्वं मोदसे सदा ॥ २१॥
तथेति गणनाथस्तमुक्त्वा चान्तर्हितोऽभवत् ।
धौम्यः खिन्न इवात्यन्तं तत्रैव संस्थितोऽभवत् ॥ २२॥
तत्र संस्थापयामास ब्राह्मणैर्मन्त्रकोविदैः ।
गणेशं तं सदा ध्यात्वा पूज्य भक्तिं चकार ह ॥ २३॥
शौनक उवाच ।
अकर्मकारिणः प्रोक्ता सात्त्विकाः शास्त्रसम्मतम् ।
कर्मकर्तार एवं तु राजसाः परिकीर्तिताः ॥ २४॥
विकर्मकारिणः सर्वे तामसाः सूत निश्चितम् ।
त्रिधा भेदयुताः सर्वे भवन्ति भुवि मानवाः ॥ २५॥
(Page खं. ८ अ. ३५ पान ८१)
ब्रह्मार्पणतया मुक्तिं गच्छन्ति द्विज सात्त्विकाः ।
सकामाद्राजसा जन्ममृत्युयुक्ता भ्रमन्ति ते ॥ २६॥
तामसा नरकेष्वेव शिश्नोदरपराः किल ।
गच्छन्ति त्रिगुणे भावे संस्था जनास्त्रिधा गतिम् ॥ २७॥
तत्र तामसभावाख्यः शङ्करः परिकीर्तितः ।
तं भजन्ति महाभागाश्चतुर्वर्गफलार्थिनः ॥ २८॥
तामसस्य तु ये भक्ता नारकाः सम्मताः पुरा ।
शिवभक्ताः कथं सर्वे भवन्ति ब्रह्मभूतकाः ॥ २९॥
सूत उवाच ।
सम्यक् पृष्टं त्वया विप्र सर्वेषामुपकारकम् ।
कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमात् ॥ ३०॥
तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसम्मतम् ।
अज्ञानात् द्विविधं सर्वं समुत्पन्नं विचारय ॥ ३१॥
सात्त्विकमान्तरं स्वाप्नं जागृद्बाह्यं तु राजसम् ।
तयोर्मूलस्वरूपत्वात्तामसः शङ्करः स्मृतः ॥ ३२॥
तत्राधिकारकं वक्ष्ये त्रिगुणरूपधारिणाम् ।
क्षणे क्षणे रजः संस्था ह्यवस्था विविधात्मिकाः ॥ ३३॥
सृजति सात्त्विकस्तद्वदवस्थाः पालको मतः ।
तामसस्ताः समाहृत्य लीनाः करोति सर्वदा ॥ ३४॥
अतः सर्वमिदं विप्र त्रिभिर्व्याप्तं समन्ततः ।
गर्भाधानादिप्रारभ्य मरणान्तं सुशोभते ॥ ३५॥
कर्माकर्मविकर्माणि त्रिगुणैः संयुतानि च ।
कर्मयोगस्य विप्रेश गुणा इमे प्रकीर्तिताः ॥ ३६॥
न तत्र शम्भुमुख्यास्ते सुरा ग्राह्या बुधैः कदा ।
अतः शङ्करभक्ताश्च लभन्ते सर्वमञ्जसा ॥ ३७॥
अधुना शृणु माहात्म्यं मलमासभवं परम् ।
वैश्यः कश्चिच्छमो नाम बभूवे मालवे मुने ॥ ३८॥
स श्रुत्वा मलमासस्य माहात्म्यं मलनाशनम् ।
गणेशभक्तिसंयुक्तश्चकार व्रतमुत्तमम् ॥ ३९॥
मलमासं समासाद्य स्नात्वा प्रातर्गणाधिपम् ।
सस्मार स्मरणेनैव ततः कार्यपरोऽभवत् ॥ ४०॥
एकदा मार्गसंस्थं च वैश्यं निद्रायुतं निशि ।
तत्र तं भक्षितुं प्रेता दश याता महाबलाः ॥ ४१॥
तस्मिन् काले शमो दैवादभूज्जागृन् महामुने ।
ददर्श तान् महाप्रेतान् सस्मार गणनायकम् ॥ ४२॥
जगाद स्वान्तरे सोऽपि गणेश करुणानिधे ।
रक्ष मां प्रेतषेभ्यस्त्वं त्वत्पादे भक्तिसंयुतम् ॥ ४३॥
मलमासस्य देवेश दिवसाः सप्त एव च ।
उर्वरिता व्रतं मेऽत्र भग्नं नोचेद्भविष्यति ॥ ४४॥
समाप्ते मलमासे मां मारयस्व गजानन ।
नाधुना व्रतसंस्थं तु रक्ष रक्ष दयानिधे ॥ ४५॥
मलमासव्रते संस्थं दृष्ट्वा प्रेता भयातुराः ।
जातिस्मरा बभूवुस्ते रुरुदुस्तं प्रणम्य वै ॥ ४६॥
ततः स विस्मितो भूत्वा तान् पप्रच्छ महाबलान् ।
किमर्थं दुःखसंयुक्ता भवन्तो मां ब्रुवन्तु च ॥ ४७॥
प्रेता ऊचुः ।
पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसम्भवाः ।
अनाचाररताः सर्वे मृता यमगृहे गताः ॥ ४८॥
तत्र नानाविधां पूर्णां यातनां दुःखदां पराम् ।
भुक्त्वा प्रेताः कृतास्तेन यमेन साधुसत्तम ॥ ४९॥
अत्र शीतोष्णकाद्येषु नाना द्वन्द्वेषु सर्वदा ।
पतिता दुःखसंयुक्ता भ्रमामो यत्र तत्र ह ॥ ५०॥
(Page खं. ८ अ. ३६ पान ८२)
अधुना दैवयोगेन भक्षितुं त्वां समागताः ।
त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे ॥ ५१॥
मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे ।
गणेशस्मृतिसंयुक्तः स्नानं करोषि नित्यदा ॥ ५२॥
एकस्नानभवं पुण्यं देहि वैश्य वयं तदा ।
अस्मभ्यं तेन निःपापा गमिष्यामोऽपुनर्भवम् ॥ ५३॥
प्रेतानां वचनं श्रुत्वा हर्षयुक्तः शमोऽब्रवीत् ।
प्रेतान् दुःखयुतान् वीक्ष्य दयायुक्तः स्वभावतः ॥ ५४॥
शम उवाच ।
किं मया क्रियते प्रेता मलमासभवं व्रतम् ।
स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुतम् ॥ ५५॥
गणेशस्मरणस्यैव महिमा केन गण्यते ।
पुराणेषु श्रुतं तस्मात् वचः शृणुत मे हितम् ॥ ५६॥
एकनामस्मृतेः पुण्यं ददामि स्नानसम्भवम् ।
तेन बन्धनहीनाश्च भविष्यथ न संशयः ॥ ५७॥
एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलम् ।
मलमासे गणेशस्य स्मृतियुक्तं महामुने ॥ ५८॥
ततस्तत्र समायाता गाणेशा यानसंयुताः ।
प्रेतान् गृह्य ययुः सर्वे स्वानन्दं गणपे रताः ॥ ५९॥
तत्र लम्बोदरं दृष्ट्वा ब्रह्मभूता बभूविरे ।
प्रेताः पश्य महाश्चर्यं शौनक मलमासगम् ॥ ६०॥
एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः ।
ढौण्ढे मासे कति ब्रूयां सङ्ख्यातुं न क्षमो ह्यहम् ॥ ६१॥
सङ्क्षेपेण मया तुभ्यं कथितं चरितं शुभम् ।
मलमासभवं चित्रं श्रवणात् सर्वदायकम् ॥ ६२॥
यः पठेच्छ्रावयेद्वाऽपि शृणुयात् स लभेत् परम् ।
इह भुक्त्वाऽखिलान् भोगान् स्वजनैः परिवारितः ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ८.३५
८.३६ संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
प्रसङ्गात् सर्वमासानां कथयामि चरित्रकम् ।
गणेशभक्तिदं चित्रं शृणुध्वं मुनयः परम् ॥ १॥
प्रातः स्नानं विधायैव गाणेशे पञ्चके रतः ।
नित्यं द्वादशमासेषु स सर्वार्थमवाप्नुयात् ॥ २॥
असाध्यं साधयेन् मर्त्यः परं यद्यपि दुर्लभम् ।
लभेत् द्वादशमासेषु गणेशे पञ्चके रतः ॥ ३॥
अत्र ते कथयिष्यामीतिहासं पूर्वसम्भवम् ।
श्रवणात् पठनात् नॄणां पावनं सर्वसिद्धिदम् ॥ ४॥
नलो नाम महाराजो निषधेषु बभूव ह ।
धर्मशीलो वदान्यश्च स्वधर्मनिरतः सदा ॥ ५॥
दमयन्त्या युतः सोऽपि विचारमकरोत् हृदि ।
त्रिलोकगमने शक्तो भविष्यामि कथं नरः ॥ ६॥
नरदेहधरो यस्तु स्वेच्छागतियुतो भवेत् ।
(Page खं. ८ अ. ३६ पान ८३)
तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥ ७॥
एवं विचार्य विप्रेशं गौतमं स ययौ नृपः ।
प्रणम्य तं महाभागं पप्रच्छ स्वहितावहम् ॥ ८॥
नल उवाच ।
नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् ।
तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥ ९॥
गौतम उवाच ।
श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप ।
प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यात्मकं चरेत् ॥ १०॥
ततो गाणेशकं राजन् पञ्चकं भक्तिसंयुतः ।
नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥ ११॥
आषाढीं स समासाद्यामावास्यां गणपे रतः ।
मण्डपे गणनाथं च पूजयेद्धेमनिर्मितम् ॥ १२॥
द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान् ।
होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥ १३॥
वायनं ब्राह्मणायैव प्रदद्यात् स बलिं चरेत् ।
ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥ १४॥
प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् ।
सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥ १५॥
एकविंशतिसङ्ख्याकानथवा सङ्ख्ययातिगान् ।
दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥ १६॥
योषिद्भ्यः कञ्चुकादींश्च नानालङ्कारकांस्तथा ।
प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥ १७॥
सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम् ।
अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥ १८॥
एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि ।
त्रिलोकस्तथा सर्वं लभसे मनसीप्सितम् ॥ १९॥
एवमुक्त्वा महायोगी गौतमो विरराम ह ।
नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥ २०॥
चकार सर्वधर्मज्ञो नलो गणपतौ रतः ।
यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥ २१॥
ततः स योगिवन्द्यश्च बभूव ज्ञानसंयुतः ।
त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥ २२॥
एवं नाना जना विप्र व्रतं संवत्सरात्मकम् ।
चक्रुस्ते योगिवन्द्याश्च बभूवुर्ज्ञानसंयुताः ॥ २३॥
मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमुत्तमाम् ।
अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ २४॥
तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते ।
अनन्तत्वात् महाभाग सङ्क्षेपेण निरूपितम् ॥ २५॥
गाणेशपञ्चकस्यैव सेवने न समर्थकाः ।
किञ्चिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥ २६॥
तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः ।
अन्ते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥ २७॥
शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वन्ध्यो बभूव ह ।
पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरोऽभवत् ॥ २८॥
न लेभे सन्ततिं सोऽपि ततोऽतिदुःखसंयुतः ।
प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥ २९॥
तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् ।
उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥ ३०॥
श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम् ।
प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥ ३१॥
गाणेशपञ्चकं पूर्णं सेवितुं न बभूव ह ।
समर्थः स ततो विप्र चकार स्वल्पभावतः ॥ ३२॥
स्नात्वा गणपतेः पूजां चकार पार्थिवीं पराम् ।
नाममन्त्रैः स्वयं नित्यं ब्रह्मचर्ययुतोऽभवत् ॥ ३३॥
एकभुङ् नियमे संस्थश्चकार व्रतमुत्तमम् ।
समाप्य तद्व्रतं पूर्णं गणेशमभजन्मुदा ॥ ३४॥
द्विजातीनां स शुश्रूषां चकार धर्मसंयुतः ।
मिलितेन तदन्नेन कुटुम्बं समपोषयत् ॥ ३५॥
ततः स्वल्पेन कालेन पुत्रं लेभे महामुने ।
ज्ञानयुक्तं सरूपं तं दृष्ट्वाऽतिहर्षितोऽभवत् ॥ ३६॥
क्रमेण पञ्च पुत्राश्च पुत्र्यस्तिस्रो बभूविरे ।
शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् ॥ ३७॥
अन्ते स्वानन्दलोकं स जगाम भार्यया युतः ।
इह भुक्त्वाऽखिलान् भोगान् ब्रह्मभूतो बभूव ह ॥ ३८॥
एवं नाना जना विप्र किञ्चित् कृत्वा व्रतात्मकम् ।
नियमं सिद्धिसंयुक्ता बभूवुः कति ते ब्रुवे ॥ ३९॥
उद्यापनं मया प्रोक्तं तदेव सर्वसम्मतम् ।
सर्वमासेषु कर्तव्यं मासात्मकव्रतेऽपि च ॥ ४०॥
चातुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतम् ।
मलमासव्रते तद्वदिदं कर्तव्यमादरात् ॥ ४१॥
सांवत्सरं व्रतं मुख्यं कथितं ते समासतः ।
पठनाच्छ्रवणाच्चेदं सर्वदं प्रभविष्यति ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ८.३६
८.३७ चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
चातुर्मास्य व्रतं ब्रूहि गाणेशं सर्वदायकम् ।
न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्द्धिनीम् ॥ १॥
सूत उवाच ।
अत्र ते कथयिष्यामि पुरातनभवं परम् ।
इतिहासं महाभाग श्रवणात् सर्वदायकम् ॥ २॥
बृहदश्व इति ख्यातो ब्राह्मणः परमार्थवित् ।
तपोयुक्तो महातेजाः शापानुग्रहणे क्षमः ॥ ३॥
नानातपःप्रभावेणांऽतर्ज्ञानं सम्बभूव ह ।
हृदि तस्य ततः सोऽपि शमदमपरोऽभवत् ॥ ४॥
सोऽहम्ब्रह्मणि संस्थोऽभूत् अन्ते शून्यमये मुनिः ।
शान्तियुक्तः स्वभावेन संस्थितो ब्रह्मवित्समः ॥ ५॥
तस्याऽऽश्रमे महायोगी विभाण्डः सहसाऽऽगतः ।
तं प्रणम्य महाभागं पुपूज भक्तिसंयुतः ॥ ६॥
विश्रान्तं मुनिमुख्यं स जगाद हर्षसंयुतः ।
विभाण्डं विनयेनैव युक्तो वचनमुत्तमम् ॥ ७॥
बृहदश्व उवाच ।
निरालम्बमयं ब्रह्म सदैकरूपधारकम् ।
ध्यातृध्यानविहीनं यत् तत्त्वमेव न संशयः ॥ ८॥
महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् ।
अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ ९॥
एवं तस्य वचः श्रुत्वा विभाण्डस्तमुवाच ह ।
योगयुक्तं सुनैपुण्यं ज्ञात्वा शान्तिप्रदायकः ॥ १०॥
(Page खं. ८ अ. ३७ पान ८५)
विभाण्ड उवाच ।
अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते ।
निरालम्बभवं सौख्यं मुने कुत्र प्रवर्तते ॥ ११॥
तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत् ।
सुशान्तिदं विस्मितः किं तदर्थं लालसी सदा ॥ १२॥
बृहदश्व उवाच ।
पूर्णशान्तिप्रदं नाथ वद मां करुणानिधे ।
सोहङ्कारात्परं भावं न जानामि कदाचन ॥ १३॥
विभाण्ड उवाच ।
अहं पुरा तपोनिष्ठोऽभवं तत्र समाययुः ।
इन्द्रेण प्रेषिता नार्यस्तपोभङ्गार्थमादरात् ॥ १४॥
नृत्यगानादि चिह्नैर्मां मोहनाय समुद्यताः ।
अप्सरसस्ततो धैर्यमहं धृत्वा स्थितोऽभवम् ॥ १५॥
ततोऽति हठसंयुक्ताः स्त्रियः कामसमन्विताः ।
हावभावकटाक्षाद्यैश्चिह्नैर्मां समपीडयन् ॥ १६॥
ततो मे विह्वलत्वाद्वै वीर्यं पपात भूतले ।
तृणयुक्ते सुसङ्खिन्नोऽगमं त्यक्त्वा स्वमाश्रमम् ॥ १७॥
ततस्त्वप्सरसः सर्वा जग्मुः स्वर्गं महामुने ।
अहं जाजलिकं विप्रमगमं तं नतोऽभवम् ॥ १८॥
तेन सम्मानितो नित्यमवसं तपसा युतः ।
अवदं गणनाथस्य पूजने सक्तमादरात् ॥ १९॥
एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः ।
त्यक्त्वा देवेन्द्रकान् सर्वान् गणेशं भजसे कथम् ॥ २०॥
एवं पृष्टो मया योगी जाजलिः परमार्थवित् ।
मामुवाच दयायुक्तस्तत्तेऽहं कथयामि तु ॥ २१॥
जाजलिरुवाच ।
गणेशान्न परं ब्रह्म वेदे पश्य महामते ।
ब्रह्मणस्पति संज्ञं तं वदन्ति वेदवादिनः ॥ २२॥
अहं पुरा तपोनिष्ठोऽभवं नित्यं महामुने ।
अत्यन्ततपसा मेऽभूद् व्याप्तं सर्वं चराचरम् ॥ २३॥
ततोऽकस्मात् समायातमाश्रमे मे महामुनिः ।
लोमशं तं प्रणम्याहमपूजं भक्तिसंयुतः ॥ २४॥
ततो मामब्रवीत् विप्रो लोमशः सर्वविन् मुनिः ।
दयायुक्तः स्वभावेन महायोगीन्द्रवन्दितः ॥ २५॥
लोमश उवाच ।
किं तपोनिष्ठभावेन साध्यं कर्तुमभीप्ससि ।
योगं साधय तत्त्वज्ञ स्वयं ब्रह्म भविष्यसि ॥ २६॥
तपसा सर्वभोगश्च लभ्यते मानवैः सदा ।
पुनः पतनभावात्तन्नमत्तं द्वन्द्वसंयुतः ॥ २७॥
एवं तस्य वचः श्रुत्वा तं प्रणम्य पुनर्मुनिम् ।
अपृच्छं योगदं मार्गं विनयेन समन्वितः ॥ २८॥
केन मार्गेण योगज्ञ लभे योगं महामुने ।
तं वदस्व करिष्यामि त्वच्छिष्योऽहं विधानतः ॥ २९॥
लोमश उवाच ।
पुराऽहं कर्मयोगेन मूकस्तपःसमन्वितः ।
प्रणम्य भक्त्या ब्रह्माणमपृच्छं सर्वदं वद ॥ ३०॥
ततस्तेन समाख्यातं सर्वसारं सुशान्तिदम् ।
गाणेशं सर्वमान्यं तत् पुराणं संश्रुतं मया ॥ ३१॥
श्रवणस्य च माहात्म्याद्वाणीयुक्तोऽभवं पुरा ।
ततो हर्षसमायुक्तो मुने विधिं नतो विभुम् ॥ ३२॥
ततः स्वमाश्रमं गत्वा गणेशकथितं परम् ।
गीताज्ञानं समाराध्य योगिवन्द्योऽभवं मुदा ॥ ३३॥
ततो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानतः ।
पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नपम् ॥ ३४॥
(Page खं. ८ अ. ३७ पान ८३)
एकाक्षरजपासक्तं मां ज्ञात्वा गणनायकः ।
शतवर्षैः प्रसन्नोऽभूदाययौ वरदः प्रभुः ॥ ३५॥
तमागतं समालोक्योत्थाय नत्वा गजाननम् ।
पूज्य नानाविधैः स्तोत्रैः स्तुतोऽसौ मामुवाच ह ॥ ३६॥
श्रीगणेश उवाच ।
वरं वृणु महाभागेप्सितं मनसि लोमश ।
दास्यामि तपसा तुष्टो भक्त्या ते मुनिसत्तम ॥ ३७॥
लोमश उवाच ।
गाणपत्यं कुरुष्व त्वं मां ते भक्तिसमन्वितम् ।
नान्यं याचे वरं नाथ मिथ्या मायाभ्रमात्मकम् ॥ ३८॥
आयुष्यं विपुलं देहि तेन युक्तो निरन्तरम् ।
भजिष्यामि गणेशान चरणं ते तदर्थतः ॥ ३९॥
ततो मामब्रवीद्देवो गणेशो भक्तवत्सलः ।
गाणपत्यप्रियोऽत्यन्तं भविष्यसि स्वयं मुदा ॥ ४०॥
कल्पे कल्पे च ते रोम लयं गच्छति नित्यदा ।
एवं क्रमेण सर्वाणि यान्ति लोमानि नाशकम् ॥ ४१॥
तदा देहं परित्यज्य मल्लोके आगमिष्यसि ।
तत्र मां भक्तिभावेन भजिष्यसि न संशयः ॥ ४२॥
यद्यदिच्छसि योगीश तत्तत्ते सफलं सदा ।
भविष्यति स्मृतः कार्ये प्रकटोऽहं भवामि ते ॥ ४३॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
खिन्नोऽहं तं समास्थाप्य नित्यपूजापरायणः ॥ ४४॥
ततो बहौ गते काले मुने मन्वन्तरात्मके ।
मघवाऽन्यः समुत्पन्नस्त्रिलोकीराज्यकारकः ॥ ४५॥
विश्वकर्माणमाहूय जगाद मघवा वचः ।
गृहं मे कुरु शोभाढ्यं नानाऽऽश्चर्ययुतं परम् ॥ ४६॥
वाटिकादिकमेवं मे भोगार्थं रचयस्व च ।
तथेति विश्वकर्माऽसौ चकार दुःखसंयुतः ॥ ४७॥
तथापि मघवा शान्तो न बभूव महामुने ।
तेनाश्चर्ययुतोनित्यमिदं कुरु महामते ॥ ४८॥
विश्वकर्मा ततः खिन्नः सस्मार गणनायकम् ।
इन्द्रं त्यक्त्वाऽन्यदेवानां गृहार्थं व्याकुलोऽभवत् ॥ ४९॥
कदाऽयं गृहकार्यं तु गजाननः समाप्य माम् ।
मोचयिष्यति देवेशोऽन्यदेवकार्यसिद्धये ॥ ५०॥
ततोऽहं दैवयोगेनागमं देवेन्द्रसत्तमम् ।
मघवा पूज्य मां वाक्यं जगाद हर्षसंयुतः ॥ ५१॥
इन्द्र उवाच ।
धन्यं मे जन्मकर्मादि त्वत्पादयुगदर्शनात् ।
किं पत्रं मस्तके विप्र पलाशस्य धृतं वद ॥ ५२॥
लोमश उवाच ।
देहो नश्वररूपोऽयं पतिष्यति न संशयः ।
तदर्थं गृहसम्भूतं श्रमं कः प्रसमाचरेत् ॥ ५३॥
वृष्टिसंवारणार्थायोष्णभावार्थनिवारणात् ।
पत्रं गृहस्वरूपं तु पुरन्दर धृतं मया ॥ ५४॥
एवं मद्गिरमाकर्ण्य मामुवाच पुरन्दरः ।
कल्पे लोम्नः प्रणाशस्ते भवेत्ते नैव लोमशः ॥ ५५॥
आज्ञां कुरु महाभाग त्वदर्थं गृहमुत्तमम् ।
कारयिष्यामि विप्रेश तत्र नित्यं सुखी भव ॥ ५६॥
वयं चतुर्दश प्राज्ञाऽभवन् त्वल्लोमनाशके ।
तदपि त्वं किमर्थं तं देहं वदसि नश्वरम् ॥ ५७॥
श्रुत्वाऽहं मघवन्तं तमवदं हर्षसंयुतः ।
इन्द्र किं मां त्वं वदसि भ्रान्तिदं योगनाशनम् ॥ ५८॥
नष्टं देहं समालोक्य कः श्राम्येत्तत्र पण्डितः ।
योगामृतेन सन्तुष्टोऽहं भ्रमामि यदृच्छया ॥ ५९॥
पिपीलिका भवच्चेन्द्रो नरः सुद्युम्नसंज्ञितः ।
(Page खं. ८ अ. ३७ पान ८७)
पूर्वसंस्कारयोगेनाश्वमेधशतकारकाः ॥ ६०॥
स त्वं यज्ञफलं भोक्तुं जातोऽसि मघवाऽधना ।
पतिष्यसि पुनर्देव तत्र का ते गतिर्भवेत् ॥ ६१॥
एवमुक्त्वा महायोगी लोमशः स्वप्रभावतः ।
ददौ जातिस्मरत्वं तु मघवते महायशाः ॥ ६२॥
मघवा सर्वमालोक्य त्रासयुक्तो बभूव ह ।
प्रणम्य लोमशं सोऽपि पप्रच्छ हितकारकम् ॥ ६३॥
इन्द्र उवाच ।
जन्ममृत्युहरं तात वद योगं परात् परम् ।
येन कामादिकं सर्वं नाशं गच्छति तत्क्षणात् ॥ ६४॥
लोमश उवाच ।
गणेशं भज भावेन ततो योगमवाप्स्यसि ।
ब्रह्मणां ब्रह्मरूपोऽयं सदा शान्तिपरायणः ॥ ६५॥
इन्द्र उवाच ।
नामरूपधरं देवं वदसे किं गणेश्वरम् ।
योगाकारं महाभाग वद तस्य महो महत् ॥ ६६॥
लोमश उवाच ।
योगरूपो गणेशोऽयं योगप्राप्त्यर्थमादरात् ।
नामरूपधरो जातो भक्तानां क्रीडनोत्सुकः ॥ ६७॥
सम्प्रज्ञातमयो देहो मस्तकं गजवाचकम् ।
असम्प्रज्ञातरूपं तत्तयोर्योगे गजाननः ॥ ६८॥
सिद्धिर्भ्रान्तिकरी माया बुद्धिर्भ्रान्तिधरा मता ।
ताभ्यां क्रीडति ब्रह्मेशो जगत्सु ब्रह्मसु प्रभो ॥ ६९॥
स्वसंवेद्येन योगेन दर्शनं तस्य जायते ।
तेन स्वानन्दवासी स कथितः शास्त्रवादिभिः ॥ ७०॥
गणाः समूहरूपाश्च बाह्यान्तरादियोगतः ।
ब्रह्माकारो गणेशानस्तेषां स्वामी प्रकीर्तितः ॥ ७१॥
एवमुक्त्वा महायोगी लोमशो मन्त्रमादिशत् ।
षडक्षरं गणेशस्येन्द्रार्थं विधिसमन्वितम् ॥ ७२॥
इन्द्रः प्रणम्य विप्रेशमुवाच विनयान्वितः ।
वद शीघ्रं गणेशस्य दर्शनं मे कथं भवेत् ॥ ७३॥
लोमश उवाच ।
दक्षिणायनरूपा सा रात्रिर्देवी दिवौकसाम् ।
रात्रौ कर्माधिकारो न नराणां भूनिवासिनाम् ॥ ७४॥
तज्ज्ञात्वा दुःखसंयुक्ता रात्रिर्ब्रह्माणमावदत् ।
सत्कर्मसंयुतां नाथ मां कुरुष्व पितामह ॥ ७५॥
ततो ब्रह्मा ददौ तस्यै मन्त्रं षोडशवर्णकम् ।
गणेशस्य ययौ सा तं प्रणम्य वनमुत्तमम् ॥ ७६॥
ध्यात्वा हृदि गणाधीशं तताप तप उत्तमम् ।
आषाढ्यां पूर्णिमायां सा समारेभे ततः परम् ॥ ७७॥
कार्तिक्यां पूर्णिमायां तां प्रसन्नोऽभूद्गजाननः ।
आययौ वरदानार्थं रात्रिं भक्तिनियन्त्रितः ॥ ७८॥
समागतं गणाध्यक्षं सा विलोक्य ननाम तम् ।
तुष्टाव विविधैः स्तोत्रैर्भक्तिनम्रात्मकन्धरा ॥ ७९॥
ततः प्रसन्नतां यातो गणेशस्तामुवाच ह ।
वरान् वरय रात्रे त्वं दास्यामि हृदि ते स्थितान् ॥ ८०॥
रात्रिरुवाच ।
भक्तिं ते चरणे नाथ देहि मेऽनन्यधर्मिणीम् ।
सत्कर्मसंयुतां मां त्वं कुरुष्व रात्र्यपि प्रभो ॥ ८१॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः ।
भक्तिर्मदीयपादे ते भविष्यति महामते ॥ ८२॥
आषाढी पूर्णिमाद्यं च कार्तिकी पूर्णिमान्तगम् ।
चातुर्मास्यं सिद्धिदं च भविष्यति सुधर्मिणाम् ॥ ८३॥
गाणेशपञ्चकं सेव्यं चातुर्मास्ये त्वदीयिके ।
सर्वसिद्धिसमायुक्ता भविष्यसि न संशयः ॥ ८४॥
(Page खं. ८ अ. ३७ पान ८८)
षण्मासेषु महाभागे भव सत्कर्मसंयुता ।
नाना देवप्रियाऽत्यन्तं सत्कर्मणः प्रतापतः ॥ ८५॥
विवाहादिकमेवं ते समयेन भविष्यति ।
अन्यन्नानाविधं कर्म देवतोषं तथाऽस्तु च ॥ ८६॥
चातुर्मास्यव्रतेनैव मां नराः पर्युपासते ।
सांवत्सरभवं पुण्यं लभन्ते पूर्णभावतः ॥ ८७॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो भक्तवत्सलः ।
रात्रिस्तं प्रणिपत्यैव हर्षयुक्ताऽभवत् सदा ॥ ८८॥
अतस्त्वं देवराजेन्द्र चातुर्मास्यव्रतं कुरु ।
योगयुक्तो महाभागो भविष्यसि न संशयः ॥ ८९॥
एवमुक्त्वा महेन्द्रं तं पूजितस्तेन चागमम् ।
स्वस्याश्रमं गणेशानमभजं मुनिसत्तम ॥ ९०॥
इन्द्रस्ततः समाहूय विश्वकर्माणमादरात् ।
जगाद तं महाभागं गच्छ त्वं स्वगृहं सुर ॥ ९१॥
विश्वकर्मा ययौ स्थानं स्वकीयं हर्षसंयुतः ।
अभजद्गणनाथं स विस्मितः सन् महामतिः ॥ ९२॥
इन्द्रो राज्यं विनिक्षिप्य देवेषु वनगोऽभवत् ।
ध्यात्वा हृदि गणेशानमजपन् मन्त्रमुत्तमम् ॥ ९३॥
चातुर्मास्यव्रतं चक्रे गाणेशे पञ्चके रतः ।
तेन व्रतप्रभावेण योगयुक्तो बभूव ह ॥ ९४॥
चित्तमोहं परित्यज्य स चिन्तामणितन्मयः ।
भूत्वा स्वगृहमागत्य चकार राज्यमुत्तमम् ॥ ९५॥
निःस्पृहः सर्वभोगेषु सदा विघ्नेशतत्परः ।
बभूव राज्यसंस्थोऽपि महेन्द्रः परमार्थवित् ॥ ९६॥
नित्यव्रतं चकारासौ महेन्द्रो भक्तिसंयुतः ।
चातुर्मास्यभवं विप्र सर्वसिद्धिप्रदायकम् ॥ ९७॥
भुक्त्वा मन्वन्तरस्थं स्वराज्यं निहतकण्टकम् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ९८॥
जाजलिरुवाच ।
देवाः कर्मफलं भुक्त्वा पतन्ति भूमिमण्डले ।
स्वर्गेषु यत् कृतं कर्म फलहीनं मतं बुधैः ॥ ९९॥
इन्द्रः कथं महाभाग चातुर्मास्यव्रतोद्भवम् ।
फलं प्राप्य गणेशानं ययावन्ते वद प्रभो ॥ १००॥
लोमश उवाच ।
त्वयोक्तं जाजले वाक्यं तदेव सर्वसम्मतम् ।
स्वर्गभूमौ कृतं कर्म निष्फलं जायते सदा ॥ १०१॥
पृथिव्यां भारते खण्डे समागत्य महामुने ।
देवाः कुर्वन्ति कर्माणि तानि सत्फलकानि तु ॥ १०२॥
कर्मभूमौ कृतं कर्म देवैर्वा दानवैर्नरैः ।
जन्तुभिर्विविधैः सर्वैः सफलं सम्भवेत् सदा ॥ १०३॥
अतो व्रतं मुख्यतमं कुरु विघ्नेशतत्परः ।
चातुर्मास्यभवं चित्रं गाणेशपञ्चके रतः ॥ १०४॥
गणेशकृपया सर्वं ज्ञास्यसि नात्र संशयः ।
अन्ते तल्लीनतां विप्र गमिष्यसि विशेषतः ॥ १०५॥
जाजलिस्तं प्रणम्याऽऽददौ लोमशं गुरुमुख्यकम् ।
जगाम स्वाश्रमं त्यक्त्वा बल्लालेशं महामतिः ॥ १०६॥
तत्र गत्वा व्रतं मुख्यं चकार भक्तिसंयुतः ।
चातुर्मास्ये यथाशास्त्रयुक्तं पयः प्रभक्षयन् ॥ १०७॥
समाप्ते तद्व्रते सद्यः प्रसन्नो गणनायकः ।
आययौ जाजलिं विप्रं वरदो भक्तवत्सलः ॥ १०८॥
तमागतं समालोक्य जाजलिः प्रणनाम ह ।
पूज्य नम्य प्रतुष्टाव कृत्वा करपुटं प्रभुम् ॥ १०९॥
जाजलिरुवाच ।
नमस्ते ब्रह्मनाथाय बल्लालेशस्वरूपिणे ।
(Page खं. ८ अ. ३७ पान ८९)
बल्लालवरदात्रे ते गणेशाय नमो नमः ॥ ११०॥
विघ्नेशाय महाविघ्ननाशनाय परात्मने ।
भक्तानां भक्तनाथायाभक्तानां विघ्नकारिणे ॥ १११॥
परात्परतरायैव सगुणाय चतुर्भुज ।
निर्गुणाय तयोर्योगे हेरम्बाय नमो नमः ॥ ११२॥
वक्रतुण्डाय देवायैकदन्ताय महोदर ।
लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥ ११३॥
स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने ।
नानामायाप्रचालाय मायिकाय नमो नमः ॥ ११४॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते ।
अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥ ११५॥
देवाय दानवायैव देवदानवमर्दिने ।
सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥ ११६॥
योगानां योगनाथाय शान्तीनां शान्तिरूपिणे ।
ब्रह्मणां पतये तुभ्यं चिन्तामणे नमो नमः ॥ ११७॥
किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥ ११८॥
एवमुक्त्वा गणेशानं ननाम भक्तिभावतः ।
तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥ ११९॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतां शृण्वतां विप्र मयि भक्तिविवर्धनम् ॥ १२०॥
वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् ।
तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥ १२१॥
जाजलिरुवाच ।
तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदाम् ।
योगशान्तिकरीं नाथ नान्यं याचे गजानन ॥ १२२॥
ओमित्युक्त्वा गणाधीशोंऽतर्दधे मुनिसत्तम ।
जाजलिस्तं प्रणम्यैव हर्षयुक्तो बभूव ह ॥ १२३॥
एवं व्रतस्य माहात्म्यं विभाण्ड कथितं मया ।
येनाहं योगिनां वन्द्योऽभवं योगपरायणः ॥ १२४॥
तदादि वार्षिकं विप्र चातुर्मास्यभवं व्रतम् ।
करोमि गणपप्रीत्यै बल्लालेशं समाश्रितः ॥ १२५॥
त्वमप्येतादृशं विप्र व्रतं कुरु महाद्भुतम् ।
चातुर्मास्ये महायोगिवन्द्यः सद्यो भविष्यसि ॥ १२६॥
एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः ।
सविधिं गणराजस्य विभाण्डाय महात्मने ॥ १२७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ८.३७
(Page खं. ८ अ. ३८ पान ९०)
८.३८ कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
विभाण्ड उवाच ।
बल्लालेशचरित्रं मे ब्रूहि योगीन्द्रसत्तम ।
बल्लालेशः कथं नाम्ना गणेशोऽभूच्छुभप्रदः ॥ १॥
केनासौ स्थापितो देवः पल्लीसामीप्यगोऽभवत् ।
चरित्रं वद योगीश सर्वसिद्धिकरं परम् ॥ २॥
जाजलिरुवाच ।
सिन्धुदेशे समाख्याता पल्ली नाम्नी पुरी पुरा ।
तत्र कल्याणनाम्नैको वैश्यो धर्मयुतोऽभवत् ॥ ३॥
इन्दुमती महाभागा पत्नी तस्य सुरूपिणी ।
तस्यां पुत्रौऽभवत्तस्माद्बल्लालो भक्तिसंयुतः ॥ ४॥
पुत्रस्यैकादशे नाम दिवसे स चकार ह ।
बल्लालो ब्राह्मणैरुक्तो भक्तिबलसमन्वितः ॥ ५॥
बल्लालो गणनाथस्य ध्यानयुक्तः सदाऽभवत् ।
क्षुधां तृषां न जानाति भक्तिभावात् स्म नित्यदा ॥ ६॥
माता पुत्राय स्तन्यं तु ददौ हर्षसमन्विता ।
कृत्वा स्मरणमत्यन्तमतिविस्मितमानसा ॥ ७॥
न रुरोद कदा बालस्तन्यार्थं मुनिसत्तम ।
ततश्चचाल पद्भ्यां स जानुना वैश्यनन्दनः ॥ ८॥
पृथिव्यां गणपं धूलिमयं कृत्वा महामतिः ।
धूल्योपचारकैस्तं स पूजयामास भक्तितः ॥ ९॥
ततः पद्भ्यां गतिं चक्रे बल्लालो गणपे रतः ।
अवदत् स्खलितां वाचं जय विघ्नेश आदरात् ॥ १०॥
ततः किञ्चिद्गते काले स वयस्यैः समन्वितः ।
पुपूज गणनाथं तं यत्र तत्र महीतले ॥ ११॥
बालान् संशिक्षयामास मा खेलं कुरुत प्रियाः ।
नाशभूतं महाभागाः खेलं गाणेशचिह्नितम् ॥ १२॥
भजध्वं गणपं नित्यं तेन सर्वं हितं भवेत् ।
ततस्ते तादृशं चक्रुर्गाणपत्यपरायणाः ॥ १३॥
ततः काले गते किञ्चित्तत्र लोकभवं परम् ।
विघ्नं भक्तिविघाताख्यं ज्ञात्वा सोऽपि सुदुःखितः ॥ १४॥
विचार्य हृदि बालैः स मुदा ग्रामसमीपगम् ।
पर्वतं वैश्यपुत्रोऽपि जगाम भक्तिकारणात् ॥ १५॥
तत्र सुन्दररूपं स पाषाणं स्थाप्य बालकैः ।
पुपूज वनजैः पत्रैः फलैः पुष्पैर्गजाननम् ॥ १६॥
त्रिकालपूजनं कृत्वा रात्रौ स्वगृहमाययौ ।
भुक्त्वा सुष्वाप बल्लालो गाणपत्याग्रणीर्महान् ॥ १७॥
पुनः प्रातः समुत्थाय बालकैः स जगाम ह ।
गणेशं भक्तिसंयुक्तस्तैः पुपूज महामुने ॥ १८॥
ततो लोकाः पुरे संस्था बालान् सन्ताड्य तान् जगुः ।
अभुक्त्वा नित्यमानन्दात् कुत्र गच्छथ बालकाः ॥ १९॥
निशायामेकभुक्तेन कथं तिष्ठथ नित्यदा ।
बल्लालसङ्गसंयुक्ता मा गच्छथ कदाचन ॥ २०॥
एवं क्रोधसमायुक्ता जना नगरवासिनः ।
अशिक्षयन् स्वपुत्रादींस्ते तथापि वनं ययुः ॥ २१॥
बल्लालसहिताः सर्वे गणेशभजने रताः ।
नानाछन्दयुतास्तं ते गणेशमभजन् परम् ॥ २२॥
ततोऽतिक्रोधसंयुक्ताः कल्याणं प्रययुः किल ।
जनाः श्रेष्ठं महावैश्यं जगुस्तं भयवर्जिताः ॥ २३॥
नागरा ऊचुः ।
बल्लालो बालकान् गृह्य याति नित्यं वनान्तरम् ।
उपोषणसमायुक्तान् रात्रावागच्छति प्रभो ॥ २४॥
कृशा नो बालकाः सर्वे कृतास्तेन दुरात्मना ।
अद्य श्वो वा मरिष्यन्ति स्वसुतं शिक्षयाऽधुना ॥ २५॥
(Page खं. ८ अ. ३८ पान ९९)
नानाप्रयत्नवन्तोऽपि वयं सर्वे महामते ।
ताडयामः सुतान् गृह्य तथापि त्वत्सुते रताः ॥ २६॥
तेषां तद्वचनं श्रुत्वा कल्याणः क्रोधसंयुतः ।
विसृज्य तान् ययौ शीघ्रं वने हन्तुं सुतं शुभम् ॥ २७॥
महान्तं दण्डमादाय क्रोधयुक्तः स्वभावतः ।
जगाम बालसामीप्ये ददर्श बालकान् मुने ॥ २८॥
तृणकाष्ठादिभिश्चित्रं धातुभी रञ्जितं परम् ।
कृत्वा देवालयं देवं स्थाप्य पूजापरायणान् ॥ २९॥
कांश्चित् प्रदक्षिणपरान् नामकीर्तनसंयुतान् ।
ध्याननिष्ठान् तपोनिष्ठान् पुराणवाचकान् परान् ॥ ३०॥
नानाछन्दकरान् वैश्यो गाणेशान् परमार्थकान् ।
बल्लालं ध्यानसंस्थं तु गणेशस्य पुरः सुतम् ॥ ३१॥
ततो दण्डेन देवस्य देवालयं बभञ्ज ह ।
दृष्ट्वा बाला भयोद्विग्नाः पपलुः सर्वतो दिशम् ॥ ३२॥
एक एव स बल्लालो न चचाल दृढाऽऽसनात् ।
नियमस्थो महाभक्तस्तं जग्राह पिता सुतम् ॥ ३३॥
दण्डेन ताडयामास बल्लालं यमसन्निभः ।
तस्य देहात् प्रसुस्राव रुधिरं सर्वतो द्विज ॥ ३४॥
तथापि स गणेशानं न मुमोच हृदि स्थितम् ।
सस्मार देहसन्त्यागे तत्परो वैश्यजः प्रभुम् ॥ ३५॥
ततो देवं प्रगृह्यैव चिक्षेप गणनायकम् ।
दूरे पर्वतभागे स वल्लीपाशानथानयत् ॥ ३६॥
तैः सुतं हस्तपादेषु बबन्ध दृढमेव सः ।
ततस्तं क्रोधसंयुक्तो जगाद वैश्यजोऽधमः ॥ ३७॥
कल्याण उवाच ।
मामनादृत्य नित्यं त्वं देवपूजापरोऽसि वै ।
तस्येदं त्वं फलं मुख्यं भुङ्क्ष्व पुत्र महाद्भुतम् ॥ ३८॥
लोका मां लज्जया हीना वदन्ति त्वद्विचेष्टितम् ।
अयशस्कारिणं पुत्रं मारयस्व महामते ॥ ३९॥
त्वया पुत्रेण सर्वत्र निन्दितोऽहं कृतोऽधुना ।
वन्ध्यः पुरा मुदा युक्तः सुयशा नगरेषु तु ॥ ४०॥
अतो देहं परित्यज्य गच्छ विघ्नेश्वरं सुत ।
स तं सर्वं शुभं देवः करिष्यति न संशयः ॥ ४१॥
एवमुक्त्वा महापापी जगाम नगरं पुनः ।
गृहे समागतस्तत्र विघ्नयुक्तो बभूव ह ॥ ४२॥
गलत्कुष्ठयुतश्चान्धो बधिरः कुब्ज एव च ।
मूककीटसमायुक्तो बभूव सहसा मुने ॥ ४३॥
ततोऽतिखेदसंयुक्तो बभूव वैश्यदूषकः ।
पत्नी तं तादृशं दृष्ट्वा शुशोच दुःखसंयुता ॥ ४४॥
पप्रच्छ तं पतिं सा तु न स शुश्राव तां गिरम् ।
मूकत्वान्न स्वयं किञ्चिज्जगाद दुःखसंयुतः ॥ ४५॥
ततो जना जगुस्तां ते नागरा भयसंयुताः ।
वृत्तान्तं वनसम्भूतं बल्लालताडनात्मकम् ॥ ४६॥
ततोऽतिदुःखसंयुक्ता सा जगाम वनं जनैः ।
सुतं द्रष्टुं सती विप्र रुदतीन्दुमती परम् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ८.३८
(Page खं. ८ अ. ३९ पान ९२)
८.३९ बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
विभाण्डक उवाच ।
बल्लालस्य गतिं नाथ वद लेभे स कां पराम् ।
गाणपत्यो महाभागो दःखितो मुनिसत्तम ॥ १॥
जाजलिरुवाच ।
बल्लालो गणनाथं स सस्मार वनसंस्थितः ।
रक्तस्रावयुतश्चैको बद्धः पित्रा दुरात्मना ॥ २॥
विघ्नारिर्नाम देवेश कथं तेऽभूद्गजानन ।
भक्तविघ्नकरो मे किं विपरीतोऽसि निश्चितम् ॥ ३॥
मद्भक्तिखण्डनार्थं मां यदा छलयसे परम् ।
मया पुरा पदे नाथ देहोऽयं ते समर्पितः ॥ ४॥
पततु मे शरीरं तु न मुञ्चामि कदाचन ।
त्वां गणेश दयासिन्धो भक्तोऽहं भावसंयुतः ॥ ५॥
यदि मे सुदृढा भक्तिस्तव पादे निरन्तरम् ।
तदा कुष्ठयुतश्चान्धः पिता भवतु कुब्जकः ॥ ६॥
मूको बधिरतायुक्तो भवतु त्वत्प्रसादतः ।
अहं बन्धनहीनश्च विघ्नेश ते नमो नमः ॥ ७॥
गजाननैकभक्तस्य बल्लालस्य मुखान्मुने ।
वचनं निःसृतं यावत् स तावत् तादृशोऽभवत् ॥ ८॥
ततो गणेश्वरः प्रीतो ब्राह्मणस्य स्वरूपधृक् ।
तमाययौ महाभक्तं भक्तवचनयन्त्रितः ॥ ९॥
बद्धं बल्लालभक्तं स ददर्श ब्राह्मणोत्तमः ।
तत्क्षणाच्छिथिलान्येव बन्धनानि बभूविरे ॥ १०॥
अङ्गानि क्षतहीनानि बभूवुर्मुनिसत्तम ।
ततः स हर्षितो मेने गणेशं द्विजरूपिणम् ॥ ११॥
उत्थाय तं स बल्लालः प्रणनाम पुपूज ह ।
पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ १२॥
बल्लाल उवाच ।
गणेशाय धाम्ने परेशाय तुभ्यं सदाऽऽनन्दरूपाय सर्वातिगाय ।
अपारस्वरूपाय देवाधिदेव नमस्ते प्रभो भक्तसंरक्षकाय ॥ १३॥
हेरम्बाय नमस्तुभ्यं विघ्नेशाय परात्मने ।
ब्रह्मेशाय महायोगदात्रे शान्तिमयाय ते ॥ १४॥
स्वानन्दवासिने तुभ्यं स्वानन्दे खेलकाय ते ।
योगेशाय महोदाररूपधारिन्नमो नमः ॥ १५॥
सदा सन्मयकायायाव्यक्तशीर्ष्णे नमो नमः ।
योगरूपेण सर्वत्र संस्थिताय नमो नमः ॥ १६॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते तुभ्यं नमस्ते गजवक्रिणे ॥ १७॥
लम्बोदराय देवाय चतुर्बाहुधराय ते ।
मूषकध्वजिने तुभ्यं पाशाङ्कुशप्रधारिणे ॥ १८॥
द्विजरूपधरायैव भक्तवत्सलभावतः ।
रक्षितुं भक्तवाक्यं तु समागताय ते नमः ॥ १९॥
त्वं माता त्वं पिता नाथस्त्वं सुहृत् कुलदैवतम् ।
द्रव्यं विद्यादिकं मे त्वं सर्वं ते वै नमो नमः ॥ २०॥
देहेन वाचा मनसा कृतान् मे सांसर्गिकान् जागृतिस्वप्नजातान् ।
संसुप्तितो यान् सकलापराधान् क्षमस्व हेरम्ब दयानिधे त्वम् ॥ २१॥
एवमुक्त्वा ननर्ताऽसौ बल्लालो भक्तियन्त्रितः ।
साश्रुनेत्रः सरोमाञ्चो ब्राह्मणाग्रे महामुने ॥ २२॥
तमुवाच गणाधीशस्त्यक्त्वा ब्राह्मणरूपकम् ।
गजाननस्वरूपेण संयुक्तो भक्तमुत्तमम् ॥ २३॥
श्रीगणेश उवाच ।
वरान् ब्रूहि महायोगिन् यांस्ते चित्तगतान् परान् ।
दास्यामि भक्तितुष्टोऽहं नियमेन महामते ॥ २४॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
(Page खं. ८ अ. ३९ पान ९३)
भविष्यति नरायैव पठते शृण्वते सदा ॥ २५॥
यं यमिच्छति तं तं तु दास्याम्यनेन संस्तुतः ।
अन्ते सायुज्यदं मे वै भावि स्तोत्रं विशेषतः ॥ २६॥
बल्लाल उवाच ।
तव भक्तिं स्थिरां देहि सङ्गं मे भावितात्मनाम् ।
त्वयि विमुखभावानामनादरं गजानन ॥ २७॥
नान्यं किञ्चिद् वरं याचे दासोऽहं ते विनायक ।
त्वदेकविलयं नित्यं मां कुरुष्व विशेषतः ॥ २८॥
तथेति तमथोवाच गणेशो भक्तवत्सलः ।
त्वन्नामपूर्वकं नाम भविष्यत्यत्र मे परम् ॥ २९॥
अत्रैवाहं सदा सर्वान् बल्लालेशो गणेश्वरः ।
स्थास्यामि भक्तिसंयुक्ता पालयिष्यामि योगिनः ॥ ३०॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तत्र देवालयं चित्रं बभूव तत्क्षणान् मुने ॥ ३१॥
बल्लालेशयुतं रम्यं दृष्ट्वा बल्लालवैश्यकः ।
विस्मितस्तं प्रणम्याऽऽदौ पूजार्थं सन्दधे मनः ॥ ३२॥
तत्र पूजोपचाराश्च पतिता वै समन्ततः ।
बल्लालस्य ततस्तं तैः पूजयामास वैश्यजः ॥ ३३॥
नियमं नित्यजं पूर्णं कृत्वा ध्यानपरोऽभवत् ।
तत उत्थाय हर्षेण ननाम गणनायकम् ॥ ३४॥
दिव्यज्ञानयुतः सद्यो बभूव परमाद्भुतः ।
स्वपरभ्रान्तिहीनः स बल्लालो गणपप्रियः ॥ ३५॥
ततो माता समायाता लोकैस्तं सा ददर्श ह ।
विस्मिता निर्व्रणं दृष्ट्वा मुक्तं देवालये स्थितम् ॥ ३६॥
वृत्तान्तं तन्मुखाच्छ्रुत्वा स तां पुनरुवाच ह ।
गणेशद्वेषिणं तातं न पश्यामि कदाचन ॥ ३७॥
नाना जन्मसु मे माता पिता नानाविधोऽभवत् ।
तेषु केषां धराम्येवाभिमानं तारणात्मकम् ॥ ३८॥
गच्छ त्वं स्वगृहं नाहं पुत्रो दुष्टस्य निश्चितम् ।
येन देवालयं भग्नं स देवं भक्तिखण्डने ॥ ३९॥
श्रुत्वा सा शोकसंयुक्ता स्वस्थानं तत आययौ ।
बल्लालस्तत्र विघ्नेशमभजत् हर्षसंयुतः ॥ ४०॥
तत्राकस्मात् समायातं ज्योतीरूपं विमानकम् ।
तेन बल्लालवैश्यस्तु जगाम गणनायकम् ॥ ४१॥
विभाण्ड उवाच ।
कर्मणा यन्त्रिता लोकाः शुभाशुभपरायणाः ।
शुभाशुभे प्रकुर्वन्ति कर्मणा प्रेरिता पुनः ॥ ४२॥
तत्र योगी स बल्लालः स्वपरभ्रमवर्जितः ।
कथं कल्याणवैश्यं तं द्वेषिणं प्रददर्श ह ॥ ४३॥
जाजलिरुवाच ।
योगिषु गणनाथस्य भक्ताः श्रेष्ठा मता बुधैः ।
तेषु बल्लालवैश्योऽयं भक्तराजोऽभवत्परः ॥ ४४॥
गणेशभजने सक्ताः पूज्या मान्या निरन्तरम् ।
भक्तैस्तद्विपरीतास्ते त्याज्या वैरिसमानकाः ॥ ४५॥
अतो बल्लालवैश्यस्तु पितरं पूज्यमञ्जसा ।
गणेशार्थं गणेशस्य निन्दकं समभर्त्सयत् ॥ ४६॥
विभाण्डक उवाच ।
कुले यस्य महायोगिन् गाणपत्यो भवेत् कदा ।
तस्य वंशभुवः कोटिकुलस्योद्धारकारकः ॥ ४७॥
अयं कल्याणवैश्यस्य पुत्रः स्वानन्दगोऽभवत् ।
तदपि तस्य जनको माता भूमौ स्थितौ कथम् ॥ ४८॥
अन्ते तयोर्गतिश्चात्र कीदृशी सम्बभूव ह ।
कथां श्रुत्वा महाचित्रामाश्चर्यं मे हृदि स्थितम् ॥ ४९॥
जाजलिरुवाच ।
गाणपत्यः कुले जातः कुलोद्धारार्थमादरात् ।
(Page खं. ८ अ. ३९ पान ९४)
यत्नं करोति चेद्विप्र तदा तस्य गतिर्भवेत् ॥ ५०॥
अथवा गणनाथं स तदा गच्छेन् महामुने ।
उद्धारं कुलजानां वै भवेत् सद्यो न संशयः ॥ ५१॥
बल्लालशापरक्षार्थं गणेशस्तस्य भावगः ।
अन्यजन्मनि चोद्धारं चकार स तयोः पुनः ॥ ५२॥
इदं बल्लालमाहात्म्यं कथितं ते समासतः ।
सर्वसिद्धिप्रदं पूर्णं शृण्वते पठते भवेत् ॥ ५३॥
न बले सदृशो येषां बल्लालास्ते प्रकीर्तिताः ।
तेषां स्वामी गणाधीशो बल्लालेश इति स्मृतः ॥ ५४॥
त्वमपि व्रतमुख्यं तत् कुरुष्व भक्तिसंयुतः ।
चातुर्मास्यभवं चित्रं बल्लालेशपरायणः ॥ ५५॥
तेन योगयुतः पूर्णः प्रसादेन भविष्यसि ।
बल्लालेशस्य विप्रेश नात्र कार्या विचारणा ॥ ५६॥
बल्लालेश्वरमाहात्म्यं यः शृणोति नरोत्तमः ।
पठति स महाभोगान् भुक्त्वा ब्रह्ममयो भवेत् ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ८.३९
८.४० चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
जाजलिस्तं विभाण्डं स ततो ददौ महामनुम् ।
पञ्चाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ १॥
मन्त्रं प्राप्य महाभागो जाजलेराश्रमे स्थितः ।
बल्लालेशं समभ्यर्च्य व्रतं चकार भक्तितः ॥ २॥
गाणेशपञ्चकं कृत्वा ध्याननिष्ठो बभूव ह ।
कार्तिक्यां पूर्णिमायां तु ययौ बल्लालनायकः ॥ ३॥
तं दृष्ट्वा सहसोत्थाय विभाण्डः प्रणतोऽभवत् ।
पूज्य तुष्टाव विघ्नेशं नानास्तोत्रैः सुहर्षितः ॥ ४॥
ततः प्रसन्नतां यातो बल्लालेशो महामुने ।
योगशान्तियुतं विप्रं कृत्वांऽतर्धानगोऽभवत् ॥ ५॥
तदादिगाणपत्यश्च विभाण्डः प्रबभूव ह ।
बल्लालेशपरो भूत्वा चचार मनसेरितः ॥ ६॥
विभाण्डक उवाच ।
कृत्वैवं योगशान्तिस्थोऽभवं सर्वैः सुवन्दितः ।
बृहदश्व कुरुष्व त्वं व्रतं गाणेश्वरं परम् ॥ ७॥
एवमुक्त्वा ददौ तस्मै मुनिर्मन्त्रं दशाक्षरम् ।
गणेशस्य महायोगी विधियुक्तं महामुने ॥ ८॥
तं प्रणम्य ययौ स्थानं स्वकीयं बृहदश्वकः ।
चातुर्मास्यव्रतं चक्रे गाणेशपञ्चके रतः ॥ ९॥
बृहदश्वाय विघ्नेशो ददौ योगं सुशान्तिदम् ।
गणेश्वरं सोऽपि नित्यमभजद्भक्तिसंयुतः ॥ १०॥
अन्यां च शृणु विप्रेश चातुर्मास्यभवां कथाम् ।
विभाण्डस्य च वीर्यं यत् पतितं भूमिमण्डले ॥ ११॥
तद्गृह्य च वने संस्था हरिणी तृणसंयुतम् ।
(Page खं. ८ अ. ४० पान ९५)
अमोघं तत्क्षणात् साऽभूद्गर्भयुक्ता महामुने ॥ १२॥
तस्यां पुत्रोऽभवत् साक्षाद्ब्रह्मतेजोयुतः परः ।
ललाटे शृङ्गधारी स ऋष्यशृङ्गस्ततः स्मृतः ॥ १३॥
नारदेनाभ्यनुज्ञातो विभाण्डस्तं समानयत् ।
स्वाश्रमे सर्वसंस्कारान् कारयामास विप्रपैः ॥ १४॥
कदा तमृष्यशृङ्गं स लोमपादो नृपोत्तमः ।
अप्सरोभिः समाहृत्य स्वपुरे त्वानयन्मुनिम् ॥ १५॥
अनावृष्टिभवं दुःखं जनानां वीक्ष्य भूमिपः ।
स्वात्मजां प्रददौ तस्मै शान्तां गुणयुतां पराम् ॥ १६॥
सद्यो वृष्टिः समुत्पन्ना जनानां दुःखनाशिनी ।
शान्तया विप्रपो रेमे हर्षनिर्भरमानसः ॥ १७॥
कदा स्वपितरं विप्रो भार्यया प्रजगाम ह ।
नत्वा विभाण्डं तत्रैव संस्थितः सेवनोत्सुकः ॥ १८॥
विनयेन समायुक्तं पुत्रं दृष्ट्वा तपोयुतम् ।
जगाद तं महायोगी विभाण्डः प्रेमसंयुतः ॥ १९॥
विभाण्ड उवाच ।
ब्रह्मणि ब्रह्मभूतो यो ब्राह्मणः परिकीर्तितः ।
अतस्त्वं पुत्र भावेन भव ब्राह्मण उत्तमः ॥ २०॥
एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः शुभम् ।
सविधिं तं नमस्कृत्य पुत्रत्वं साधयत् परम् ॥ २१॥
शान्तया भार्यया सार्धं चातुर्मास्यव्रते रतः ।
गाणेशपञ्चकं सेव्य ध्याननिष्ठो बभूव ह ॥ २२॥
नित्यं योगपरो भूत्वा प्रार्थयद्गणनायकम् ।
कुरु योगीन्द्रवन्द्यं मां सभार्यं गणनायक ॥ २३॥
व्रतमात्रेण सन्तुष्टो ध्यानेन तपसा प्रभुः ।
ददौ योगं गणाधीश ऋष्यशृङ्गाय धीमते ॥ २४॥
ततः स भार्यया सार्धं गाणपत्यो बभूव ह ।
शान्तियुक्तः स्वभावेनाऽभजद्विघ्नेश्वरं मुदा ॥ २५॥
एतस्मिन्नन्तरे तत्र लोमपादो नृपोत्तमः ।
आययौ प्रार्थयामास विभाण्डं प्रीतिसंयुतः ॥ २६॥
ऋष्यशृङ्गं सुतायुक्तं प्रार्थयित्वा समानयत् ।
स्वपुरे तं समास्थाप्य तदाज्ञावशगोऽभवत् ॥ २७॥
नित्यं सोऽपि गणाधीशमभजन्नृपनायकः ।
उपदिष्टः स्वजामात्रा चातुर्मास्यपरायणः ॥ २८॥
अन्ते जगाम विघ्नेशं राजा धर्मभृतां वरः ।
एवं नाना जना विप्र व्रतेन सिद्धिमाययुः ॥ २९॥
तत्र तेऽहं कति ब्रूयां वक्तुं शक्तो न सर्वदा ।
चातुर्मास्यसमं मुख्यं व्रतं नैव विनिश्चितम् ॥ ३०॥
एकः कैवर्तकः कोऽपि नाम्ना नादकरः स्मृतः ।
स कदाचित् द्विजान् दृष्ट्वा प्रणतोऽभून् महामुने ॥ ३१॥
चातुर्मास्यव्रते संस्थान् दृष्ट्वा पप्रच्छ भक्तितः ।
कीदृशं व्रतमुख्यं मे ब्रूत विप्रेन्द्रमुख्यकाः ॥ ३२॥
ततस्ते विनतं दृष्ट्वा कथयामासुरादरात् ।
व्रतं गाणेश्वरं मुख्यं सविधि मुनिसत्तम ॥ ३३॥
श्रुत्वाऽऽनम्य स तान् विप्रान् ययौ स्वगृहमादरात् ।
चातुर्मास्यव्रते स्नात्वा चक्रे गणेशदर्शनम् ॥ ३४॥
भजनं घटिकामात्रं ततः स कार्यकारकः ।
बभूव निन्दयन् देहं गणेशे भक्तिवर्जितम् ॥ ३५॥
ततः कदाचिन् मार्गस्थं कार्यार्थं वनगोचरम् ।
तत्र तं भक्षितुं याता वनस्था दश राक्षसाः ॥ ३६॥
(Page खं. ८ अ. ४० पान ९६)
स गणेशं भयोद्विग्नः सस्मार हृदि सर्वपम् ।
राक्षसास्तस्य सान्निध्यमाजग्मुर्भक्षणार्थिनः ॥ ३७॥
दृष्ट्वा स जलमादाय गणेशाय नमो इति ।
मन्त्रमुच्चार्य तान् दुष्टान् सिषेच भयसङ्कुलः ॥ ३८॥
गणेशनाममन्त्रेण मन्त्रितेन जलेन ते ।
स्पृष्टा जातिस्मरा जाता रुरुदुस्तं प्रणम्य तु ॥ ३९॥
ऊचुः प्राञ्जलयो भूत्वा नादकरं महामुने ।
राक्षसा दुःखसंयुक्तास्तं प्रणम्य दयायुतम् ॥ ४०॥
राक्षसा ऊचुः ।
वयं ब्राह्मणजातिस्था पूर्वजन्मनि शूद्रज ।
तत्राचारविहीनाश्चाभवाम स्म निरन्तरम् ॥ ४१॥
यथेच्छं विषये सक्ता मृता यमगृहे गताः ।
यमेन विविधेष्वेव निक्षिप्ता नरकेषु च ॥ ४२॥
भुक्त्वा पापभवं दुःखं राक्षसा मानदायक ।
जाताः क्षुधासमाविष्टा श्रमामो यत्र तत्र तु ॥ ४३॥
दैवयोगेन ते साधो दर्शनं भाग्यगौरवात् ।
प्राप्तं ते जलपातेन वयं जातिस्मराः कृताः ॥ ४४॥
अधुना तारयास्मांस्त्वं शरणं त्वां समागतान् ।
देहि पुण्यं महाभाग गणेशकीर्तने भवम् ॥ ४५॥
एवं तेषां नादकरो वचः श्रुत्वा दयायुतः ।
ज्ञात्वा माहात्म्यमुख्यं तानुवाच नामसम्भवम् ॥ ४६॥
नादकर उवाच ।
गणेशकीर्तनस्यैव पुण्यं वक्तुं न शक्यते ।
कथितं गुरुभिः पूर्वं ब्राह्मणैस्तत्त्वकोविदैः ॥ ४७॥
अतो राक्षसजातिस्था वचः शृणुत मे हितम् ।
चातुर्मास्ये मया नित्यं कीर्तनं क्रियते परम् ॥ ४८॥
एकनाम्नो भवं पुण्यं दास्यामि दयया युतः ।
चातुर्मास्ये कृतस्यापि कीर्तनस्य न संशयः ॥ ४९॥
तेन बन्धनहीनाश्च भविष्यथ विचक्षणाः ।
एवमुक्त्वा ददौ तेभ्यः पुण्यं नामैकसम्भवम् ॥ ५०॥
दत्ते पुण्ये समायातास्तत्र गाणेशदूतकाः ।
तान् गृह्य निजलोकं तेऽभवन् गता महामुने ॥ ५१॥
गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूता बभूविरे ।
एवं व्रतस्य माहात्म्यं कथने नैव शक्यते ॥ ५२॥
चातुर्मास्यभवं चित्रं चरितं कथितं मया ।
सङ्क्षेपेण महाविप्र भुक्तिमुक्तिफलप्रदम् ॥ ५३॥
शृणुयाच्छ्रावयेद्यस्तु पठेद्भावसमन्वितः ।
सोऽपि व्रतफलं लब्ध्वा मनसेप्सितमाप्नुयात् ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः ॥ ८.४०
(Page खं. ८ अ. ४१ पान ९७)
८.४१ कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
गणेशनाममाहात्म्यं वद मे करुणानिधे ।
एकनामभवेनैव पुण्येन दश चोद्धृताः ॥ १॥
सूत उवाच ।
गणेशनाममाहात्म्यं कथितुं कोऽर्हति प्रभो ।
अपारं वेदवादेषु कथितं वेदवादिभिः ॥ २॥
अत्रेतिहासकं वक्ष्ये सर्वसिद्धिप्रदं परम् ।
श्रवणात् पठनाच्चापि नरेभ्यो नात्र संशयः ॥ ३॥
जरत्कारुरिति ख्यातो ब्राह्मणो ब्रह्मवित्तमः ।
अपारतपसा युक्तः शापानुग्रहकारकः ॥ ४॥
तमाययौ महाभागः पुत्रस्तस्य महात्मनः ।
आस्तिकः पुण्यशीलश्च प्रणनाम कृताञ्जलिः ॥ ५॥
सेवायामुत्सुकस्तत्रोवास हर्षसमन्वितः ।
योगीन्द्रं पितरं सोऽपि कदा जगाद विप्रप ॥ ६॥
आस्तिक उवाच ।
जनमेजययज्ञेऽहं रक्षित्वा पन्नगोत्तमान् ।
समायातो महाभाग वन्दनार्थं पदस्य ते ॥ ७॥
तत्र सर्पगणानग्नौ मृतांश्च भृशपीडितान् ।
तान् दृष्ट्वा त्राससंयुक्तोऽभवं परमपावन ॥ ८॥
संसारं दुःखदं वीक्ष्य तं नेच्छामि महामुने ।
अतः सुशान्तिदं मार्गं वद योगप्रदायकम् ॥ ९॥
एवं पुत्रवचः श्रुत्वा हर्षयुक्तो महामुनिः ।
जरत्कारुर्जगादेदं वचनं योगभावितम् ॥ १०॥
जरत्कारुरुवाच ।
ब्रह्मज्ञानं विना पुत्र शान्तिर्नैव प्रलभ्यते ।
नानाब्रह्मसु संस्थैश्चान्नप्राणादिषु मानद ॥ ११॥
शान्तिभ्यः शान्तिदं पूर्णं ब्रह्म वेदप्रकाशकम् ।
ब्रह्मणस्पतिसंज्ञं तं भजस्व विधिसंयुतः ॥ १२॥
श्रुत्वा विप्रस्तमास्तीको जगाद तपसा युतः ।
कथं गणेश्वरं तात श्रेष्ठं वेदा ब्रुवन्ति वै ॥ १३॥
नामरूपधरो भूत्वा ब्रह्मणस्पतिवाचकः ।
कथं बभूव देवेशो वद तस्य स्वरूपकम् ॥ १४॥
जरत्कारुरुवाच ।
समूहे गणधातुश्च समूहा ब्रह्मरूपिणः ।
बाह्यान्तरैकभावाख्यास्तेषां स्वामी गणेश्वरः ॥ १५॥
सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः ।
गजरूपं तयोर्योगे देहधारी गजाननः ॥ १६॥
अज्ञानसंयुतान्यादौ भूतानि विविधानि तु ।
तेभ्यो ज्ञानप्रदानार्थं देहधारी बभूव ह ॥ १७॥
स्वसंवेद्येन योगेन दर्शनं तस्य जायते ।
योगिनां तेन विघ्नेशो निजलोकनिवासकृत् ॥ १८॥
सिद्धिरैश्वर्यरूपा सा भ्रान्तिदा सततं मता ।
बुद्धिर्भ्रान्तिधरा प्रोक्ता पञ्चचित्तस्वरूपिणी ॥ १९॥
तयोः स्वामी गणाधीशः खेलते चित्तसिद्धिगः ।
मायाभ्यां योगरूपोऽयं तदाकारः परात्परः ॥ २०॥
अत्र ते कथयिष्यामि पुरातनं महाद्भुतम् ।
इतिहासं गणेशस्य नाममाहात्म्यसंयुतम् ॥ २१॥
त्वां मातुर्जठरे संस्थं प्रत्यज्याहं तु निर्गतः ।
योगार्थं योगनिपुणं कौण्डिण्यं सङ्गतोऽभवम् ॥ २२॥
स्थावरे नगरे सोऽपि गाणपत्याग्रणीर्महान् ।
चिन्तामणिं गणेशानमभजद् दूर्वया सदा ॥ २३॥
मां दृष्ट्वा हर्षसंयुक्तो जगाद स्वागतं मुने ।
जरत्कारो निषीद त्वं तापसोग्र महामते ॥ २४॥
एवमाभाष्य मां विप्रः कृत्वाऽऽतिथ्यं यथाविधि ।
पप्रच्छ किं महाविप्र वदेच्छसि शुभप्रदम् ॥ २५॥
कौण्डिण्यस्य वचः श्रुत्वा हर्षितोऽहं तमब्रुवम् ।
तात भ्रमणसंयुक्तो भ्रमामि पृथिवीतले ॥ २६॥
नानातपोयुतो नाथ न शान्तिमलभं कदा ।
तवाश्रममतो यातो वद शान्तिं सुशान्तिद ॥ २७॥
कौडिण्य उवाच ।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ।
नान्यथा त्वं जरत्कारो श्रमयुक्तो भविष्यसि ॥ २८॥
एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् ।
नामरूपधरं देवं कथं वदसि शान्तिदम् ॥ २९॥
ततो मामब्रवीत् सोऽपि दयायुक्तः स्वभावतः ।
शृणु पुरा भवं चित्रमितिहासं वदाम्यहम् ॥ ३०॥
अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः ।
नाविन्दं तं ततो देवं ब्रह्माणं सङ्गतोऽभवम् ॥ ३१॥
तं प्रणम्य महाभागं योगशान्तिप्रदायकम् ।
अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः ॥ ३२॥
ब्रह्मोवाच ।
गणेशं भज भावेन ततः शान्तिमवाप्स्यसि ।
गच्छ स्थावरसंज्ञे त्वं पुरे चिन्तामणिं भज ॥ ३३॥
चञ्चलं चित्तमाख्यातं स्थिरं यत्र बभूव ह ।
तेन स्थावरसंज्ञं तत् क्षेत्रं नाम्ना मया कृतम् ॥ ३४॥
पञ्चचित्तप्रकाशो मे तत्र चिन्तामणिः प्रभुः ।
स्थापितोऽभून् मया पूर्वं साक्षाच्छान्तिप्रदायकः ॥ ३५॥
सृष्ट्यादौ तपसा तत्र मया संराधितोऽभवत् ।
तस्य वरप्रभावेण योगिवन्द्योऽभवं मुदा ॥ ३६॥
एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् ।
नामरूपधरो नाथ शान्तिदः कथमञ्जसा ॥ ३७॥
ततो मामब्रवीद्ब्रह्मा हर्षयुक्तेन चेतसा ।
गणानां पतिभावेन स्थितोऽयं नामधारकः ॥ ३८॥
देहो जगन्मयस्तस्य गजाख्यं ब्रह्म मस्तकम् ।
तयोर्योगे स्वरूपस्थो बभूव भक्तकारणात् ॥ ३९॥
स्वानन्दो नगरं यस्य सिद्धिर्बुद्धिः प्रिये मते ।
लक्षलाभौ सुतौ प्रोक्तौ मूषको वाहनं तथा ॥ ४०॥
एवं नानाविधानीह ब्रह्माकाराणि तस्य वै ।
सुहृदश्च ततः प्रोक्तो वेदेषु ब्रह्मणस्पतिः ॥ ४१॥
मायामोहयुतान्यादौ विश्वानि मुनिसत्तम ।
ब्रह्माणि योगदानार्थं तेभ्यो देहधरोऽभवत् ॥ ४२॥
स्वेच्छया देहधारी स स्वेच्छया मायया युतः ।
स्वेच्छया योगरूपोऽयं विनायकस्ततः स्मृतः ॥ ४३॥
नास्थिचर्मादिसंयुक्तो देहस्तस्य महात्मनः ।
तद्वर्जितो वै विप्रेश योगदेहधरोऽभवत् ॥ ४४॥
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
भृशुण्डिनोऽमरर्षीणां संवादसम्भवं महान् ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः ॥ ८.४१
(Page खं. ८ अ. ४२ पान ९९)
८.४२ गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कौण्डिण्य उवाच ।
अहो गणेशमाहात्म्यमद्भुतं संश्रुतं मया ।
भृशुण्डिनो वद त्वत्तो देवर्षीणां वचो मिथः ॥ १॥
ब्रह्मोवाच ।
एकदा मुनयः सर्वे ते विचार्य परस्परम् ।
समाययुर्विधातारं संशयस्यापनुत्तये ॥ २॥
प्रणम्य लोकधातारं जगुः सर्वे सुहर्षिताः ।
मुनयः कश्यपाद्या मां देवेन्द्रैर्मुनिमुख्यकैः ॥ ३॥
देवर्षय ऊचुः ।
सर्वपूज्यो गणेशोऽयं सर्वादिपूज्य एव सः ।
नामरूपधरो नित्यो ब्रह्मणस्पतिवाचकः ॥ ४॥
वेदेषु कथितं ब्रह्मन् ब्रह्म ब्रह्मैव केवलम् ।
तत्र सागुण्यनैर्गुण्यं विद्यते न कदाचन ॥ ५॥
देहधारी गणेशानो वेदेषु ब्रह्मणस्पतिः ।
अतः संशयसंयुक्ताः प्रष्टुं त्वां समुपागताः ॥ ६॥
त्वं साक्षाद्योगिवन्द्यश्च सर्वेषां प्रपितामहः ।
छिन्धि संशयकं नाथानुभवेन तदात्मना ॥ ७॥
ब्रह्मोवाच ।
तेषां वचनमाकर्ण्य ब्रह्मा चिन्तातुरोऽभवम् ।
न किञ्चिदवदं तत्र मोहयुक्तोऽहमञ्जसा ॥ ८॥
सर्वैस्तैः संयुतो वेधा अगमं केशवं पुरा ।
तं प्रणम्य महाभागा ह्यपृच्छत् संशयं परम् ॥ ९॥
विष्णुः खेदसमायुक्तो लेभे नैव तदुत्तरम् ।
तैः सार्धं शङ्करं सोऽपि जगाम ज्ञानसिद्धये ॥ १०॥
प्रणम्य गिरिजानाथं जगाद संशयं परम् ।
तच्छ्रुत्वा शङ्करस्तत्र निश्चयं कर्तुमक्षमः ॥ ११॥
शिवस्तान् प्रत्युवाचेदं वचनं सुखदायकम् ।
भृशुण्डिनं च स्वगुरुं चित्ते स्मृत्वा गणेश्वरम् ॥ १२॥
श्रीशिव उवाच ।
आदिमध्यावसानेषु भृशुण्डी मुनिपुङ्गवः ।
तिष्ठति सर्वभावज्ञो गुरुर्नो हितकारकः ॥ १३॥
गणेशनाममाहात्म्यं सम्पूर्णं कथयिष्यति ।
जानाति नात्र सन्देहो नाम्ना सिद्धेश्वरोऽभवत् ॥ १४॥
ततस्तेन समायुक्ता जग्मुर्देवर्षयो मुने ।
भृशुण्डिनं महाभागममलाश्रमसंस्थितम् ॥ १५॥
तं प्रणम्य महात्मानं स्थिताः सर्वे सुरर्षयः ।
स तान् पूज्य जगादेदं वचनं हितकारकम् ॥ १६॥
भृशुण्ड्युवाच ।
धन्यं मे जन्मकर्मादि येन वो दर्शनं महत् ।
प्राप्तं वदत वाक्यं मां किमर्थमागताः पराः ॥ १७॥
साक्षाद्गणपतेः सर्वे विभूतिपदधारकाः ।
यूयं गणेश सामान्याः पावनार्थं समागताः ॥ १८॥
भृशुण्डिवचनं श्रुत्वा जगाद शङ्करो वचः ।
प्रणम्य तं महाभागं योगीन्द्राणां गुरोर्गुरुम् ॥ १९॥
श्रीशङ्कर उवाच ।
गणेशस्य महत्तत्त्वं परिपूर्णं महामते ।
त्वं जानासि न सन्देहः साक्षाच्छुण्डाधरो भवान् ॥ २०॥
अतः संशयसंयुक्ता वयं सर्वे समागताः ।
तं तेऽहं शृणु वक्ष्यामि भ्रान्तिदायकमुत्तमम् ॥ २१॥
नामरूपधरो नित्यः कथं विघ्नेश्वरोऽभवत् ।
ब्रह्मणस्पतिसंज्ञस्तु वेदवादेषु योगिप ॥ २२॥
तेषां वचनमाकर्ण्य तान् जगाद महामुनिः ।
भृशुण्डी सर्वसारज्ञो गाणपत्याग्रणीर्महान् ॥ २३॥
भृशुण्ड्युवाच ।
गः शक्तिः सूर्य अः प्रोक्तो णो विष्णुरः शिवः स्मृतः ।
तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २४॥
गणाः समूहवाच्याश्च बाह्यान्तरैकभावतः ।
तेषां स्वामी गणेशानस्तेनायं ब्रह्मणस्पतिः ॥ २५॥
(Page खं. ८ अ. ४२ पान १००)
गो बोध अविबोधस्थो णः स्वानन्दो निवृत्तिकृत् ।
तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २६॥
विश्वानि ग प्रसूतानि ब्रह्माणि ण गतानि तु ।
तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २७॥
एवं नानार्थसंयुक्तं नाम तस्य महात्मनः ।
तेष्वर्थान् देवविप्राद्याः कति ब्रूयां न शक्यते ॥ २८॥
चित्तरूपा महामाया पञ्चधा परिकीर्तिता ।
सा बुद्धिर्भ्रान्तिदा तत्र सिद्धिर्माया परा स्मृता ॥ २९॥
ताभ्यां नानाविधान्यादौ चकार खेलनार्थतः ।
विश्वानि मोहयुक्तानि ब्रह्माणि ब्रह्मणस्पतिः ॥ ३०॥
तेषां मोहविनाशार्थं योगदानार्थमादरात् ।
नामरूपधरो जातो गणेशो गणवल्लभः ॥ ३१॥
अर्थसत्तासमायुक्तं नाम तस्य सुरर्षयः ।
कथं नाशविनाशादि भेदास्तत्र भवन्त्यतः ॥ ३२॥
अथ रूपं प्रवक्ष्यामि गणेशस्य सुखप्रदम् ।
येन संशयहीनास्तं भजिष्यथ निरन्तरम् ॥ ३३॥
समष्टिव्यष्टिरूपाख्ये कुम्भस्थले महात्मनः ।
त्रयी त्रिनेत्ररूपा तु शुण्डा तुरीयवाचका ॥ ३४॥
धर्माधर्मौ गणेशस्याधरौ बिन्दुर्गलाकृतिः ।
देही दन्तः सदैकस्तु बोधो जठरवाचकः ॥ ३५॥
साङ्ख्यं कर्णात्मकं तस्य हस्ताश्च त्वर्थवाचकाः ।
मायामायिकरूपौ वै पादौ गणपतेः स्मृतौ ॥ ३६॥
एषां संयोगरूपाख्यो देहस्तस्य सुरर्षयः ।
स्वसंवेद्यात्मकः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ३७॥
अभिमानेन शून्यत्वादेषामयोगवाचकः ।
देहो देहधरस्याऽपि गणेशस्य विचक्षणाः ॥ ३८॥
संयोगायोगयोर्योगे देहधारी गजाननः ।
बभूव योगदानार्थं जगद्भ्यो ब्रह्मभ्यः पर ॥ ३९॥
विश्वं कण्ठादधस्तस्य शिरो ब्रह्म गजात्मकम् ।
तयोर्योगे गणेशानो देहधारी बभूव च ॥ ४०॥
एवं नानार्थभावेन ध्यायन्ते योगिनोऽमलाः ।
देहं गणपतेः प्राज्ञा मायामोहविवर्जिताः ॥ ४१॥
शब्दार्थसत्तया युक्तं वपुस्तस्य विराजति ।
नाशानाशादिभावैश्च वर्जितं तन्मयं तथा ॥ ४२॥
एतत् सर्वं समाख्यातं नामरूपरहस्यकम् ।
गणेशस्य महाभागा यथा मुद्गलभाषितम् ॥ ४३॥
गणेशेति सकृज्जप्त्वा ब्रह्मभूतो भवेन्नरः ।
द्विवारं चेद्गणेशानः तस्यर्णी नाऽत्र संशयः ॥ ४४॥
गणेशेति सकृज्जप्त्वा यस्तिष्ठति नरोत्तमः ।
जगद्ब्रह्मयुतस्तेन संस्मृतो गणनायकः ॥ ४५॥
अतो गणेशनाम्नश्च स्मरणं न करोति यः ।
स दुरात्मा परित्याज्यश्चाण्डालानां शिरोमणिः ॥ ४६॥
गणेशनमनं कृत्वा नरस्तिष्ठति यो भुवि ।
तेन नानाविधं विश्वं ब्रह्म सन्नमितं भवेत् ॥ ४७॥
गणेशरूपं सन्ध्याने धृतं येन महात्मना ।
जगद्ब्रह्मयुतो योगो ध्यातस्तेन न संशयः ॥ ४८॥
गणेशमूर्तिरूपं तु दृष्टं येन सुरर्षयः ।
नानाब्रह्म तथा विश्वं दृष्टं सोऽपि गजाननः ॥ ४९॥
अनन्तानि महाभागा विश्वानि ब्रह्मकाणि तु ।
तेषां तु पूजनं केन भवेदानन्त्यभावतः ॥ ५०॥
ततः सुलभभावार्थं तेषां योगमयः प्रभुः ।
नामरूपधरो ढुण्ढिर्बभूव भक्तिलालसः ॥ ५१॥
(Page खं. ८ अ. ४३ पान १०१)
तस्य पूजादिभावेन पूजितं सर्वमञ्जसा ।
जगद्ब्रह्म न सन्देहो विविधं शान्तिरूपकम् ॥ ५२॥
इदं सर्वं समाख्यातं रहस्यं गणपस्य च ।
नामरूपात्मकं पूर्णं सङ्क्षेपेण सुरर्षयः ॥ ५३॥
भजध्वं तं विशेषेण सर्वसंशयवर्जिताः ।
तेनैव कृतकृत्याश्च भविष्यथ सुरर्षयः ॥ ५४॥
एवमुक्त्वा महायोगी विरराम महामुने ।
भृशुण्डी सर्वसारज्ञो गजानन इवापरः ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः ॥ ८.४२
८.४३ चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
एतादृशं गणेशस्य माहात्म्यं मुनिसत्तम ।
दर्शनस्मरणाद्यं तु सर्वसिद्धिप्रदायकम् ॥ १॥
जना गणेश्वरस्यैवं दर्शनं नामकीर्तनम् ।
सकृत् कुर्वन्ति विप्रेशाऽथ वाऽधिकं न संशयः ॥ २॥
ते सर्वे सुखसंयुक्ता भुक्त्वा भोगान् मनोगतान् ।
ब्रह्मभूता न जायन्ते वद तत्रापि कारणम् ॥ ३॥
भृशुण्ड्युवाच ।
अविश्वासेन तेषां तु फलमर्धं गतं भवेत् ।
अभक्त्या पादसम्भूतं दम्भेन त्रिपदं तथा ॥ ४॥
अतः सम्पूर्णभावेन फलहीना जनाः किल ।
न प्राप्नुवन्ति पुण्यं ते सर्वशास्त्रप्रकीर्तितम् ॥ ५॥
अन्यच्च शुणुत प्राज्ञाः पुण्यं पापं समं मतम् ।
बलेन तेजसा भावैः शास्त्रेष्वत्र न संशयः ॥ ६॥
यथा गणेशनाम्नश्च कीर्तने पुण्यमुत्तमम् ।
तथा निन्दादिजं पापमतुलं जायते किल ॥ ७॥
यथा जना भजन्ते तं बाह्यभावपरायणाः ।
तथा ते तस्य निन्दां वै कुर्वते पश्यत प्रियाः ॥ ८॥
अन्यच्च कथयिष्यामि संशयस्यापनुत्तये ।
उल्लङ्घनादिजं पापं मानाच्छतगुणं भवेत् ॥ ९॥
ज्ञात्वा गणेश्वरं सर्वे कुर्वन्त्युल्लङ्घनं सदा ।
तेन भोगविहीनास्ते गच्छन्ति नरके किल ॥ १०॥
नानाविघ्नसमायुक्ता जन्मजन्मसु ते जनाः ।
भवन्ति नाऽत्र सन्देहो गणेशोल्लङ्घनेन च ॥ ११॥
गणेशमानजं पुण्यं स्वल्पं किं सुखदं भवेत् ।
उल्लङ्घनबलेनैव हतं मन्दमिव प्रियाः ॥ १२॥
यथा विस्मृतिभावेन विस्मृतो गणनायकः ।
विधेर्यज्ञे भवन् सर्वे जलरूपाः सुरास्तथा ॥ १३॥
महातपोयुताभिश्च स्त्रीभिर्देवाः पुनः कृताः ।
स्वल्पोल्लङ्घनजं पापं पश्यध्वं तु सुरर्षयः ॥ १४॥
अतो दुःखयुता लोका गणेशस्मरणादिभिः ।
गच्छन्ति नरके युक्ताः गणेशोल्लङ्घनादिभिः ॥ १५॥
अन्यच्च कथयिष्यामि कर्म शास्त्रे प्रकीर्तितम् ।
प्रत्यवायाकुलं सर्वं सर्वत्र विविधं पुरा ॥ १६॥
प्रत्यवायमनादृत्य कर्म कुर्वन्ति मानवाः ।
ते सर्वे सकलं पुण्यं प्राप्नुवन्ति न निश्चितम् ॥ १७॥
इत्यादि बहवो भेदाः कृताः विघ्नेश्वरेण च ।
अखण्डक्रीडनार्थं कथयितुं नैव शक्यते ॥ १८॥
अपारमहिमायुक्तं माहात्म्यं गणपस्य च ।
तस्य खण्डनभावार्थं निन्दादिकं चकार सः ॥ १९॥
अतो गणपतिं देवा भजध्वं यत्नसंयुताः ।
मुनयस्तेन सम्पूर्णं गणपं परमाप्स्यथ ॥ २०॥
सुरर्षय ऊचुः ।
गणेशो योगरूपोऽयं कथं पुम्भावमाश्रितः ।
एकदेशमयं योगिन् वद तस्य चरित्रकम् ॥ २१॥
भृशुण्ड्युवाच ।
यथा ब्रह्म महाभागा नपुंसकप्रवाचकम् ।
स्त्रीपुम्भावविहीनं तदेकमार्गपरं मतम् ॥ २२॥
स्त्रीपुन्नपुंसकं सर्वं त्रिविधं त्रयवाचकम् ।
आत्मा तुरीयसंज्ञश्च पुंवाचकस्त्रिवर्जितः ॥ २३॥
जनानां कथने वेदास्तं वदन्ति गजाननम् ।
एकमार्गाश्रितं सर्वं कथने नाभवन् क्षमाः ॥ २४॥
अतोऽयं गणनाथस्तैः पुम्भावात्मक उच्यते ।
यथा योगादिकाः शब्दास्तथा देवादयो मताः ॥ २५॥
वामाङ्गं प्राकृतं रूपं सिद्धिस्तस्य महात्मनः ।
दक्षिणाङ्गं महाभागा बुद्धिः पुरुषवाचिका ॥ २६॥
तयोर्योगे गणेशानो योगाकारो न संशयः ।
पुम्भावादियुतोऽयं न तेभ्यः संवर्जितो न च ॥ २७॥
देवर्षय ऊचुः ।
चतुर्थी गणनाथस्य प्रियाऽत्यन्तं तिथिः परा ।
कथं रिक्ता तु सा प्रोक्ता विवाहादौ विवर्जिता ॥ २८॥
साक्षान् मङ्गलमूर्तेश्च तिथिर्मङ्गलदायिका ।
सर्वदा रिक्तभावेन कथं युक्ता बभूव सा ॥ २९॥
भृशुण्ड्युवाच ।
पक्षयोरुभयोः संस्था चतुर्थी गणपप्रिया ।
व्रतानामादिभूता वै गणेशप्राप्तिकारिका ॥ ३०॥
व्रतं चतुःप्रदं पूर्णं सर्वसिद्धिप्रदायकम् ।
नित्यवन् मानवैः सर्वैः कर्तव्यं चादिरूपकम् ॥ ३१॥
तदा चतुः पदार्थास्तैर्लभ्यन्ते नाऽत्र संशयः ।
नो चेत् कर्म कृतं सर्वं निष्फलं जायते नरैः ॥ ३२॥
अतः सा सम्मता सद्भिः सर्वकार्येषु देवपाः ।
व्रतभङ्गो न कर्तव्यो नानाकार्यपरैरपि ॥ ३३॥
विवाहादिषु कार्येषु भोजनं क्रियते जनैः ।
नानाविषयसङ्गश्च व्रतं तत्र कुतो भवेत् ॥ ३४॥
अतः संशयहीनास्तां भजन्ते व्रतमार्गतः ।
मङ्गलायतनां पूर्णां चतुर्थीं सर्वसिद्धिदाम् ॥ ३५॥
जन्ममृत्युयुतैलोकैः पूरितं सकलं जगत् ॥ ३६॥
चतुर्थी व्रतकर्तारो जन्ममृत्युविवर्जिताः ।
त्यक्त्वा कर्मफलं कर्म गच्छन्ति निजलोककम् ॥ ३७॥
सर्वसङ्कटहीनास्ते भुक्त्वा भोगान् मनेप्सितान् ।
ब्रह्मभूता भवन्त्येव चतुर्थीव्रतकारकाः ॥ ३८॥
व्रतमात्रेण रिक्तं स कुरुते विश्वमञ्जसा ।
तेन रिक्ता समाख्याता चतुर्थी नाऽत्र संशयः ॥ ३९॥
विश्वं त्यक्त्वा गणेशानं गच्छन्ति व्रतकारिणः ।
तेन रिक्तं जगत् सर्वं भवते मुनयोऽमराः ॥ ४०॥
नान्यतिथिसमा देवी मता रिक्ता चतुर्थिका ।
ब्रह्मभूयप्रदातृत्वात् सर्वेभ्यः सुखदायिका ॥ ४१॥
एतत् सर्वं समाख्यातं गणेशस्य महात्मनः ।
रहस्यं व्रतमुख्यस्य किं भूयः श्रोतुमिच्छथ ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ८.४३
(Page खं. ८ अ. ४४ पान १०३)
८.४४ जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
ब्रह्म नानाविधं प्रोक्तं क्रमार्थं प्राप्तिहेतवे ।
गणेशस्य न सन्देहः पात्रभेदप्रभावतः ॥ १॥
अग्नीन्द्रकादयः सर्वे ब्रह्मशब्दप्रयाचकाः ।
पुराणेषु महाभाग तेभ्यो ब्रह्मादयोऽभवन् ॥ २॥
पितामहः समाख्यातो ब्रह्मा तेभ्यो मुने कथम् ।
बभूव शम्भुमुख्याश्चाभवन् वेद महामते ॥ ३॥
इति तेषां वचः श्रुत्वा हर्षितो मुनिसत्तमः ।
भृशुण्डी प्रत्युवाचेदं वाक्यं संशयनाशनम् ॥ ४॥
भृशुण्ड्युवाच ।
तत्त्वरूपा समाख्याता ब्रह्माकारा न संशयः ।
ब्रह्मादयः समुत्पन्ना देवास्तेभ्यः सुरर्षयः ॥ ५॥
अश्विनौ नासिकायाश्च देवौ सर्वत्र संस्थितौ ।
ब्रह्माकारेण ताभ्यां तु पृथ्वीतत्त्वं विनिःसृतम् ॥ ६॥
प्रकृतिर्भूमिराख्याता गन्धः पुरुष उच्यते ।
तयोर्योगेऽश्विनौ देवौ ब्रह्माकारौ मतौ बुधैः ॥ ७॥
पृथ्वीतत्त्वमयो देहस्त्रिगुणात्मशरीरिणाम् ।
ब्रह्मादीनां च ताभ्यां स निःसृतो नाऽत्र संशयः ॥ ८॥
विराड्रूपं पृथिव्यास्तु ताभ्यां जातं न संशयः ।
प्रणवो पृथिवीदेहस्तथा जातः सुरर्षयः ॥ ९॥
अनेन विधिना ब्रह्मा कथ्यते शास्त्रवेदिभिः ।
तस्माद्विश्वं समुद्भूतं तत्र चित्रं न विद्यते ॥ १०॥
नरोऽश्विनौ समाराध्य जित्वा पृथ्वीभवं भ्रमम् ।
पुनः स जलतत्त्वार्थं वरुणं भजते परम् ॥ ११॥
तदाऽश्विनौ प्रनष्टौ च दृष्टौ तेन महात्मना ।
मुख्यं वारुणकं ब्रह्म तस्माज्जातमिदं जगत् ॥ १२॥
एवं परम्परा मार्गा ब्रह्मरूपा मताः परे ।
इन्द्राद्यास्तत्त्वरूपस्थास्तत्वैः सम्भावयन्ति ते ॥ १३॥
शिवादिदेहरूपेषु संस्थितास्तत्त्वधारकाः ।
देवा इन्द्रमुखास्तेन तदाधाराः शिवादयः ॥ १४॥
गौणमार्गेण देवेशाः शम्भ्वादयो बभूविरे ।
इन्द्रादिभ्यो न सन्देहो न मुख्यं तत्प्रकीर्तितम् ॥ १५॥
मुख्यभावेन देवेन्द्रा इन्द्रादयः समुद्भवाः ।
शिवादिभ्यश्च सम्पूर्णकलाभिर्नात्र संशयः ॥ १६॥
एवमुक्त्वा महायोगी भृशुण्डी विरराम ह ।
देवर्षयः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ १७॥
देवर्षय ऊचुः ।
सर्वसंशयहीनाश्च कृता वयं महामुने ।
त्वया न चित्रमेवेदं गणेशाकाररूपिणा ॥ १८॥
देवर्षयस्ततः स्वस्वस्थलं जग्मुः सुहर्षिताः ।
संशयेन विहीनास्तेऽभजन्नित्यं गणेश्वरम् ॥ १९॥
ब्रह्मोवाच ।
एतत्ते कथितं वत्स रहस्यं शान्तिदायकम् ।
तस्मात्त्वं गणनाथं तं भज शान्तिमवाप्स्यसि ॥ २०॥
एवमुक्त्वा ददौ तस्मै ब्रह्मा मन्त्रं षडक्षरम् ।
विधियुक्तं गणेशस्य सर्वसिद्धिप्रदायकम् ॥ २१॥
कौण्डिण्य उवाच ।
ततो ब्रह्माणमानम्यागमं चिन्तामणिं मुदा ।
तपोयोगेन विघ्नेशं मन्त्रेणाराधयन् परम् ॥ २२॥
गते वर्षशते देवः प्रसन्नो वरदोऽभवत् ।
आययौ मां वरं दातुं सिद्धिबुद्धिसमन्वितः ॥ २३॥
तं दृष्ट्वा सहसोत्थायाऽऽपूज्याऽऽनम्य गजाननम् ।
स्तौमि हर्षेण संयुक्तः कौथुमेन महामुने ॥ २४॥
ततो मे वाञ्छितं दत्वा योगं योगपति स्वयम् ।
जगाम स्वस्थलं विप्राहं खिन्न इव संस्थितः ॥ २५॥
(Page खं. ८ अ. ४४ पान १०४)
तदादि गाणपत्योऽहं जातः सम्पूर्णभावतः ।
अभजं तं विशेषेण पत्न्या चिन्तामणिं सदा ॥ २६॥
प्रियां गणेशस्यात्यन्तं दूर्वां ज्ञात्वा महामुने ।
दूर्वाभिरयुतेनाऽपूजयं तं नित्यमादरात् ॥ २७॥
मदीयसहगत्वेन किञ्चिच्छुद्धाऽब्रवीद्वचः ।
आश्रया मां किमर्थं त्वं तृणानुष्ठानतत्परः ॥ २८॥
भार्याया वचनं श्रुत्वा संशयेन समन्वितम् ।
तस्यै गणेश्वरे भक्तिदानार्थं त्वब्रवं वचः ॥ २९॥
दूर्वार्पणेन विघ्नेशः सन्तुष्टो जायते परे ।
न तथा द्रव्यकाद्यैश्च वस्त्रैर्नैवेद्यमुख्यकैः ॥ ३०॥
विना दूर्वां निराहारो तिष्ठति गणनायकः ।
निष्फला जायते पूजा कृता नानाविधा किल ॥ ३१॥
एकदूर्वाङ्कुरं भक्त्या फलं केन न गण्यते ।
समर्पयेद्गणेशाय तस्मात्तं दूर्वयाऽर्चयेत् ॥ ३२॥
ततस्तस्या हृदि संस्थः संशयो न जगाम ह ।
एकदूर्वाङ्कुरं गृह्याऽऽददां तस्यै हिताय च ॥ ३३॥
अवदं गच्छ देवेशं देवेन्द्रं दूर्वया समम् ।
सुवर्णं देहि विघ्नेश पूजायां स्थितया प्रभो ॥ ३४॥
प्रियेन न्यूनमधिकं त्वया ग्राह्यं कदाचन ।
तथेति नम्य मां सा वै जगाम देवनायकम् ॥ ३५॥
तेन सम्पूजिता देवी जगाद मे वचो हितम् ।
स इन्द्रो हर्षसंयुक्तस्तथा चकार विप्रप ॥ ३६॥
त्रैलोक्यं घटमध्ये स समारोप्य क्रमेण च ।
तथापि दूर्वया तुल्यं न बभूव महामुने ॥ ३७॥
दृष्ट्वाऽतिखेदसंयुक्तः सस्मार पञ्च देवपान् ।
तेऽपि स्वपुरसंयुक्ता जग्मुः कार्यप्रसिद्धये ॥ ३८॥
सर्वे सग्रामसस्त्रीकाः शिवविष्णुमुखाऽमराः ।
घटे स्थितास्तथा तेऽपि दूर्वया नाभवन् समाः ॥ ३९॥
ततस्तैर्मायया सर्वं ब्रह्माण्डं लोकसङ्कुलम् ।
घटे क्षिप्तं तथा तन्न दूर्वया च समं कदा ॥ ४०॥
दृष्ट्वा ते भयसंयुक्ता मम शापाच्च विप्रप ।
आययुश्चाश्रयायुक्ता आश्रमे मे सुदुःखिनः ॥ ४१॥
प्रणम्य मां विधिस्तत्र सर्वैर्जगाद शोकतः ।
दासास्ते मुनिशार्दूल दूर्वापुण्येन वै कृताः ॥ ४२॥
एकदूर्वासमं नैव ब्रह्माण्डं भवति प्रभो ।
गणेशपूजने क्षिप्ता त्वया कौण्डिण्यसत्तम ॥ ४३॥
एकदूर्वाङ्कुराज्जातं फलं चिन्तामणिः स्वयम् ।
दास्यति ते महाभाग न वयं तत्समा यतः ॥ ४४॥
आज्ञापय करिष्यामो दासास्ते कार्यमुत्तमम् ।
नित्यं कार्यकरान् स्वामिन् पालयस्व सुरेश्वरान् ॥ ४५॥
तेषां वचनमाकर्ण्य तान् पूज्य प्राब्रवं वचः ।
विधे सर्वैः समायुक्तो गच्छ त्वं स्वपदं प्रभो ॥ ४६॥
नाहं दूर्वाफले सक्तो भार्याबोधार्थमञ्जसा ।
कृतं मया महादेवा दासोऽहं क्षम्यतामिति ॥ ४७॥
ततस्ते सर्वदेवेशा ययुः स्वस्वपदं मुदा ।
भार्या मे श्रद्धया युक्ता गाणपत्याऽभवत् सदा ॥ ४८॥
स्त्रिया नित्यं महाभाग भजामि गणनायकम् ।
चित्तस्थिरकृते क्षेत्रे स्थितं चिन्तामणिं मुदा ॥ ४९॥
अतस्त्वमपि विप्रेश शान्तिमिच्छसि चेत्तदा ।
(Page खं. ८ अ. ४५ पान १०५)
भज विघ्नेश्वरं तेन योगिवन्द्यो भविष्यसि ॥ ५०॥
एवमुक्त्वा ददौ मह्यं मन्त्रं गणपतेः परम् ।
षडक्षरं विधानेन पुत्र सर्वार्थदायकम् ॥ ५१॥
तं प्रणम्य महाभागमपृच्छं विनयान्वितः ।
योगप्राप्त्यर्थमत्यन्तं वचनं संशयात्मकम् ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ८.४४
८.४५ जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
जरत्कारुरुवाच ।
ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ।
अन्नप्राणादिभेदैश्च संयुक्तं क्रमसिद्धये ॥ १॥
मनोमयं ब्रह्म तेषु मनः कोशप्रकाशकम् ।
न मुख्यं तन् महाभाग सूक्ष्मं स्वप्नविकारजम् ॥ २॥
मनोबुद्धिरहङ्कारश्चित्तं चतुर्विधं परम् ।
अन्तःकरणमित्युक्तं शास्त्रेषु मुनिसत्तमैः ॥ ३॥
चित्तमत्र समाख्यातं तत्र चिन्तामणिः स्थितः ।
चित्तप्रकाशकत्वाद्वै मनो ब्रह्म कलात्मकः ॥ ४॥
प्राणो मनश्च विज्ञानं त्रिविधं स्वप्नमुच्यते ।
तेष्वेकदेशतः सोऽपि ब्रह्माकारो गजाननः ॥ ५॥
कथं शान्तिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिम् ।
वेदेषु कथितं विप्र कथं तन्नैव बुध्यते ॥ ६॥
कौण्डिण्य उवाच ।
सम्यक् पृष्टं त्वया विप्र सर्वेषां हितकारकम् ।
कथयामि महाप्रीत्या प्रणम्य गणनायकम् ॥ ७॥
साङ्ख्ययोगादिभेदस्थैर्मार्गा नानाविधाः स्मृताः ।
पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः ॥ ८॥
अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः ।
तत्र चित्तं समाख्यातमन्तःकरणगं परम् ॥ ९॥
एकभागाश्रितं चित्तं मनो ब्रह्मणि संस्थितम् ।
पदार्थशोधनाख्ये तद्विधौ जानीहि मानद ॥ १०॥
कुत्र वेदविवादेषु मनसः परमा मता ।
बुद्धिस्तस्याः परं ब्रह्म शान्तिदं सर्वसम्मतम् ॥ ११॥
अन्तःकरणगा बुद्धिरेकदेशप्रभावतः ।
न मुख्या सा समाख्याता तद्वच्चित्तं मतं बुधैः ॥ १२॥
अत्रान्यं बोधदं मार्गं वदामि वेदगं परम् ।
समाहितमना विप्र शृणु संशयनाशनम् ॥ १३॥
देहः क्रियात्मकः प्रोक्तो मनो बोधात्मकं मतम् ।
तयोर्योगे स्वयं बुद्धिर्मोहदा द्वन्द्वधारिका ॥ १४॥
गणेशोपासनेनैव द्वन्द्वदुःखहरा भवेत् ।
ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमतां परा ॥ १५॥
ततः परं स्वयं लीना जायते गणपे परे ।
तदा शान्तियुतो जन्तुर्ब्रह्मभूतो भवेत् स्वयम् ॥ १६॥
अहं गणेशरूपश्चेत्तदा मे देहजो भ्रमः ।
कुत्र मनोमयो मोहो विवेकदायकः परः ॥ १७॥
तयोर्योगे योगमयः कुत्र मे सम्भवेद्भ्रमः ।
द्वन्द्वभावयुतः सोऽपि द्वन्द्वसंवर्जितः स्मृतः ॥ १८॥
(Page खं. ८ अ. ४५ पान १०६)
एवं ज्ञात्वा महायोगी शान्तिं संलभते पराम् ।
गणेशे गणनाथोऽयं भवते मुनिसत्तम ॥ १९॥
अनेन विधिना विद्धि चित्तं बुद्धिमयं परम् ।
तत्र चिन्तामणिं ज्ञात्वा ब्रह्मभूतो नरो भवेत् ॥ २०॥
अन्यच्च शृणु विप्रेश मनो विवेकधारकम् ।
विवेकादभिमानश्चोत्पद्यते विविधेषु वै ॥ २१॥
अतो बुधैरहङ्कारो मनोमय उदाहृतः ।
कथितं वेदवादेषु मता बुद्धिर्मनः परा ॥ २२॥
बुद्धिर्ज्ञानात्मिका प्रोक्ता सैव द्वेधाऽभवन् मुदा ।
जडा देहे क्रियामूला चैतन्यदा मनोमयी ॥ २३॥
वृद्विक्षयादिकं ज्ञानं सदा देहे प्रतिष्ठितम् ।
तदेव बुद्धिजं विद्धि जरत्कारो सुयोगतः ॥ २४॥
देहात्मनि विवेकाख्यं ज्ञानं मनसि संस्थितम् ।
बुद्धिजं क्षयवृद्ध्यादिहीनं चैतन्यधारकम् ॥ २५॥
तयोर्योगे स्वयं बुद्धिर्ज्ञानरूपा ययोः परा ।
ब्रह्माहमिति शब्दाख्या मनोवाणीविवर्जिता ॥ २६॥
बुद्धिरूपं महच्चित्तं जानीहि तत्स्वरूपकम् ।
कथयाम्यधुना प्रीत्या सर्वसंशयनाशनम् ॥ २७॥
चित्तं प्रकाशकं प्रोक्तं प्रकाशो बुद्धिगो मतः ।
अतः चिन्तामणिः प्रोक्तो बुद्धीशो गणनायकः ॥ २८॥
चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामुने ।
विक्षिप्तं मुनिभिर्मुख्यैरेकाग्रं च निरोधकम् ॥ २९॥
देहदेहिमयं चित्तमेकाग्रं शास्त्रसम्मतम् ।
मनः स्वप्नमयं ब्रह्म देहरूपं विचारय ॥ ३०॥
अतो मनोमयं चित्तं मा जानीहि महत्परम् ।
प्रकाशकारकं चित्तं सर्वशास्त्रेषु सम्मतम् ॥ ३१॥
संयोगाऽयोगगं चित्तं निरोधवाचकं मतम् ।
नानाब्रह्माणि चैकाग्रनिरोधमयगानि तु ॥ ३२॥
देहदेहिप्रकाशत्वादेकाग्रं चित्तमुच्यते ।
संयोगायोगकाशत्वान्निरोधं चित्तमञ्जसा ॥ ३३॥
इति सर्वं समाख्यातं भज त्वं गणनायकम् ।
तेन योगीन्द्रवन्द्यो वै भविष्यसि सुशान्तिगः ॥ ३४॥
जरत्कारुरुवाच ।
एवमुक्त्वा महायोगी कौण्डिण्यो विरराम ह ।
जरत्कारुः प्रणम्यैवागमं तं हर्षसंयुतः ॥ ३५॥
साधयित्वा महायोगं गाणपत्योऽभवं सुत ।
गणनाथं त्वमपि तं भज शान्त्यर्थमादरात् ॥ ३६॥
सूत उवाच ।
एवमुक्त्वा महायोगी जरत्कारुर्महामुने ।
विरराम पुनस्तं चास्तीक ऊचे विशेषवित् ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ८.४५
(Page खं. ८ अ. ४६ पान १०७)
८.४६ ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आस्तीक उवाच ।
बाल्यात्प्रभृति शैवोऽहं पितस्तं त्यज्य विघ्नपम् ।
कथं भजामि विप्रेश अतः शैवं वदस्व माम् ॥ १॥
जरत्कारुरुवाच ।
त्यक्त्वा गणेशं शान्तिस्थो न कोऽपि सुत सम्भवेत् ।
गणेशानं शम्भुमुखा ध्यात्वा शान्तियुता बभुः ॥ २॥
शिवविष्ण्वादि भावेषु ब्रह्मशब्दः प्रकीर्तितः ।
एकांशेन गणेशस्य वेदेषु वेदवादिभिः ॥ ३॥
तेषु योगं समाराध्य शान्तिं प्राप्ताः सुयोगिनः ।
सा शान्तिः स्वल्पभावाख्या न मुख्या योगिनां मते ॥ ४॥
शान्तिभ्यः शान्तिदः प्रोक्तो गणेशो ब्रह्मणस्पतिः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ५॥
गणेशो मायया युक्तः पञ्चधा परिकीर्तितः ।
पञ्चभेदविहीनः स निर्मायिक उदाहृतः ॥ ६॥
मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ।
तयोर्योगे गणेशानः शान्तिरूपो न संशयः ॥ ७॥
अतो गणेशरूपाद्वै शिवो भिन्नः प्रकीर्तितः ।
त्यजाज्ञानभवं दुःखमभेदं गणपं भज ॥ ८॥
अत्र ते कथयिष्यामि संवादं शङ्करस्य च ।
उपमन्योर्महाभाग सर्वशान्तिप्रदायकम् ॥ ९॥
महापाशुपतो विप्र उपमन्युर्महायशाः ।
सहजं शङ्करं ब्रह्म ज्ञात्वा खेदयुतोऽभवत् ॥ १०॥
जगाम शङ्करं विप्रस्तं प्रणम्य पुपूज ह ।
स्तुत्वा नम्य जगादाथ कृताञ्जलिर्महामुनिः ॥ ११॥
उपमन्युरुवाच ।
सहजं शाङ्करं ब्रह्म स्वाधीनं दोषसंयुतम् ।
स्वाधीनं च पराधीनं नैव ब्रह्मणि विद्यते ॥ १२॥
ब्रह्मभूयकरं योगं वद शैव सदाशिव ।
येनाहं शिवतां प्राप्य शान्तिस्थस्तं भजे सदा ॥ १३॥
इति तस्य वचः श्रुत्वा हर्षयुक्तः सदाशिवः ।
उवाच तं महाभागं योगं गाणेशसंज्ञकम् ॥ १४॥
शिव उवाच ।
एकदा काशीसंस्थं मामुवाच मुनिसत्तमः ।
जैगीषव्यो यथा त्वं वै तथा पाशुपताग्रणीः ॥ १५॥
जैगीषव्य उवाच ।
शिवः सहजसंज्ञस्थो ब्रह्मणि सहजं कथम् ।
अतः शैवं परं योगं वद मे शान्तिदायकम् ॥ १६॥
विश्वनाथ उवाच ।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ।
ढुण्ढयित्वा मया योगात् हृतो ढुण्ढिः हृदि स्थितः ॥ १७॥
मम श्रुत्वा वचो रम्यं दुःखितो मामुवाच ह ।
जैगीषव्यो वचो विप्र तदहं कथयामि ते ॥ १८॥
जैगीषव्य उवाच ।
त्यक्त्वा विश्वेश्वरं देवं भजाम्यन्यं न विश्वप ।
अशान्तिशान्तिदो वाऽपि शिवो मे परमा गतिः ॥ १९॥
विश्वनाथ उवाच ।
असच्छक्तिश्च सद्भानुः समो हरिरहं शिवः ।
अव्यक्तश्च चतुर्णां वै योगे स्वानन्द उच्यते ॥ २०॥
स एव गणनाथोऽयं मायया पञ्चधा बभौ ।
मायाहीनो ह्ययोगाख्यः पञ्चभिर्वर्जितो मतः ॥ २१॥
तयोर्योगे गणाधीशः शान्तिदः पूर्णवाचकः ।
अतोऽयं ब्रह्मणां नाथो वयं ब्रह्मप्रवाचकाः ॥ २२॥
खेलनाद्गणनाथोऽयमस्मद्रूपधरोऽभवत् ।
कलया तत्र किं भिन्नं मन्यसे मुनिसत्तम ॥ २३॥
भेदबुद्धिं परित्यज्य भज विघ्नेशमादरात् ।
न भिन्नः शङ्करस्तस्मात्तद्रूपं तं विभावय ॥ २४॥
(Page खं. ८ अ. ४६ पान १०८)
एवमुक्त्वाऽददात्तस्मै मन्त्रमेकाक्षरं ततः ।
सविधिं गणनाथस्य ततो ध्यानप्रसिद्धये ॥ २५॥
साधयित्वा यथान्यायं योगं गाणेशसंज्ञितम् ।
ततो यज्ञं समारेभे ब्राह्मणस्पत्यसंज्ञकम् ॥ २६॥
कृत्वा यज्ञं मुदायुक्तो द्विजान्नत्वा विसृज्य सः ।
संस्थितस्तत्र विघ्नेशः प्रययौ वरदायकः ॥ २७॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज ह ।
पुनः प्रणम्य तुष्टाव यजुःस्तोत्रेण विघ्नपम् ॥ २८॥
योगशान्तिं प्रदत्वाऽसौ जैगीषव्याय धीमते ।
आचार्यतां तु योगस्य स्वयमन्तर्दधे विभुः ॥ २९॥
ततो गुरुं शिवं सोऽपि ढुण्ढिराजं तु दैवतम् ।
गाणपत्यस्वभावेनाभजत्काशीस्थितो मुनिः ॥ ३०॥
अतस्त्वं गणनाथं तं भज शान्तिप्रसिद्धये ।
शान्तिभ्यः शान्तिदः प्रोक्तः सर्वेषां योगधारकः ॥ ३१॥
जरत्कारुरुवाच ।
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे ॥ ३२॥
तं प्रणम्य ययौ सोऽपि मन्त्रध्यानपरोऽभवत् ।
इष्टिं कृत्वा गणेशस्य शान्तिरूपो बभूव ह ॥ ३३॥
गणराजस्तुतमपि ययौ भक्तं महामुनिम् ।
दत्वा शान्तिं स्तुतस्तेनांऽतर्दधे ब्रह्मनायकः ॥ ३४॥
अतस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुत ।
व्यभिचारो न ते भावी शान्तियुक्तो भविष्यसि ॥ ३५॥
सूत उवाच ।
एवमुक्त्वा ददौ तस्मै स्वमन्त्रं तु षडक्षरम् ।
विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः ॥ ३६॥
आस्तीकः साधयामास ध्यात्वा हृदि गजाननम् ।
इष्टिं कृत्वा गणेशस्य शान्तियुक्तो बभूव ह ॥ ३७॥
गाणपत्यप्रियोऽत्यन्तं मातरं स जगाम ह ।
उपदिश्य गणेशानं शान्तियुक्तां चकार ताम् ॥ ३८॥
अतो गणपतिं नित्यमभजत् प्रीतिसंयुतः ।
अन्ते गाणेश्वरे धाम्नि ब्रह्मैव स बभूव ह ॥ ३९॥
एतत्ते कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् ।
माहात्म्यं गाणपत्यानां प्रियं सङ्क्षेपतो मया ॥ ४०॥
यः शृणोति नरो भक्त्या पठते तस्य सिद्धिदम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४१॥
ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ८.४६
(Page खं. ८ अ. ४७ पान १०९)
८.४७ त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
कथं दशहरा देवी दशमी चाश्विनेऽभवत् ।
कथं तत्र शमीपूजां कुर्वन्ति देवतादयः ॥ १॥
सूत उवाच ।
शङ्खं हत्वा महावीरं विष्णुः परपुरञ्जयः ।
ददौ वेदान् विधात्रे स साङ्गोपाङ्गसमन्वितान् ॥ २॥
तान् दृष्ट्वा हर्षितो ब्रह्मा सस्मार गणनायकम् ।
ततो गणेश्वरं वेदा ययुः सृष्टाश्च तेन ये ॥ ३॥
पुरा कपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः ।
हृतेषु वेदशास्त्रेषु शङ्खेन पापरूपिणा ॥ ४॥
तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव विघ्नपम् ।
प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने ॥ ५॥
ततस्तं प्रत्युवाचैवाकाशवाणी महाद्भुता ।
सर्वैर्विधे शमीं पूज्य विघ्नहीनो भविष्यसि ॥ ६॥
या शमी स गणेशानो न भेदस्तत्र वर्तते ।
अद्यैव तां महाभाग पूजयस्व विधानतः ॥ ७॥
ततो वेदान् समास्पृश्य प्रशस्तान् कुरु मानद ।
एवमुक्त्वा खवाणीस्थो विरराम गजाननः ॥ ८॥
श्रुत्वाऽतिहर्षितो ब्रह्मा वेदैर्देवैः सहेश्वरैः ।
मुनिभिस्तां प्रपूज्यैव वेदान् शस्तान्न् चकार ह ॥ ९॥
यस्मिन् काले महाविप्र पूजिता विधिना शमी ।
आश्विनी दशमी तत्र सायाह्ने सा बभूव ह ॥ १०॥
ततो दशहरा जाता सा शमीसंयुता तिथिः ।
तदर्थं शृणु भावेन सर्वकार्येषु सिद्धिदाम् ॥ ११॥
दश दिक्षु स्थितान्येव भूतानि भयदानि च ।
कार्यध्वंसं प्रकुर्वन्ति क्रूराणि प्रबलानि च ॥ १२॥
दशमी हन्ति सा तानि शमी पूजाबलेन वै ।
अतो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये ॥ १३॥
शमीपूजाविधिं कृत्वा सायाह्ने तानलोकयत् ।
साङ्गोपाङ्गयुतान् वेदांस्ततः सर्वानुपादिशत् ॥ १४॥
नानाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनम् ।
शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजन्तुभिः ॥ १५॥
तेन विघ्नविहीनास्ते दशदिक्षु भ्रमन्ति चेत् ।
सर्वसिद्धियुताः सर्वे भवन्ति नात्र संशयः ॥ १६॥
दशदिक्षु स्थितान् हन्ति विघ्नान् दशहरा मता ।
अद्य प्रभृति देवेशा मुनयो वार्षिकी भवा ॥ १७॥
पूजयिष्यन्ति देवेशा शमीं कार्यप्रवर्धिनीम् ।
वार्षिकं दुःखमुत्सृज्य स्थास्यन्ति सुखभोगिनः ॥ १८॥
पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् ।
पठिष्यन्ति पुराणादींस्तेषां ज्ञानं भविष्यति ॥ १९॥
न यो दशहरायां तु शमीं पूजयते कदा ।
स नाना विघ्नसंयुक्तो नरकेंऽते प्रगच्छति ॥ २०॥
एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुतः ।
स्वलोकं शङ्कराद्याश्च जग्मुर्विप्राः सुरा मुने ॥ २१॥
तदादि चाश्विनी शुक्ला दशहरा बभूव ह ।
दशमी शमीसंयुक्ता सर्वार्थे सिद्धिदायिनी ॥ २२॥
अतोऽवश्यं स्वभावेन पूजयन्ति शमीं नराः ।
देवा नागास्तथा वेदान् पठन्ते पाठयन्त्यपि ॥ २३॥
इदं सर्वं समाख्यातं चरितं शमीसम्भवम् ।
यः शृणोति नरः सोऽपि लभते पठतीप्सितम् ॥ २४॥
शौनक उवाच ।
किमाधारमिदं सर्वं वर्तते सूत तद्वद ।
कर्माधीनं वदन्त्येव केचिदत्र मुनीश्वराः ॥ २५॥
ईश्वराधीनमेतद्वै केचिच्चेदं यदृच्छया ।
त्रिविधं तेषु किं सत्यं ज्ञायते न मुनीश्वरैः ॥ २६॥
सूत उवाच ।
त्रिविधं प्रवदन्त्येव मुनयो ब्रह्मवेदिनः ।
तत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्तम ॥ २७॥
गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने ।
तत्र माया समाख्याता सिद्धिरैश्वर्यदायिनी ॥ २८॥
ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते ।
मायाभोगार्थमत्यन्तमतः श्रमयुतोऽभवत् ॥ २९॥
मायामायिकयोगात् स गणेशो ब्रह्मनायकः ।
क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ ३०॥
न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते ।
अतो यदृच्छया सर्वं वर्तते योगिनां हृदि ॥ ३१॥
अन्यच्च शृणु विप्रेश माया नानाभ्रमात्मिका ।
सा जडा सर्वभावेन कर्तुं नैव क्षमाऽभवत् ॥ ३२॥
तया सम्मोहितोऽत्यन्तं मायिकस्तां चचाल ह ।
तदा सत्तायुता माया खेलते विविधे रता ॥ ३३॥
मायिकेन धृता देवी चचाल विविधात्मिका ।
मायिकेच्छावशेनैव संस्थिता नाऽत्र संशयः ॥ ३४॥
यदा त्यक्ता महामाया मायिकेन महामुने ।
तदा शक्ता न किञ्चित् सा कर्तुं जडप्रभावतः ॥ ३५॥
ईश्वराधीनभावेन वर्तते सर्वमञ्जसा ।
वदन्ति मुनयः केचित् ध्यानमार्गपरायणाः ॥ ३६॥
अन्यच्च कथयिष्यामि माया कर्मस्वरूपिणी ।
नानाभावयुता नित्यं खेलति त्रिविधा परा ॥ ३७॥
कर्माकर्मविकर्माण्यचालयत् सर्वरूपिणी ।
स्वर्गमुक्तिमहावीचिदायिनी त्रिविधे रता ॥ ३८॥
यादृशं कुरुते कर्म फलं भोक्ष्यति तादृशम् ।
कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल ॥ ३९॥
शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः ।
कल्पकोटिशतैर्वाऽपि कृतं कर्म न तं त्यजेत् ॥ ४०॥
एवं वदन्ति विप्रेश ब्राह्मणा देहवादिनः ।
धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् ॥ ४१॥
अथैकभावनां वक्ष्ये त्रयाणां शृणु शौनक ।
गणेशमायया भ्रान्ता न जानन्ति कुयोगिनः ॥ ४२॥
मायामायिकरूपेण संस्थितो गणनायकः ।
क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ ४३॥
तस्येच्छया महाविप्र ईश्वरश्चैव तिष्ठति ।
मोहितो गणनाथेन जानाति न गजाननम् ॥ ४४॥
अहं श्रेष्ठः परं ब्रह्म मदाधारमिदं जगत् ।
मदिच्छया प्रवर्तन्ते जन्तवो नाऽत्र संशयः ॥ ४५॥
यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् ।
करोतीश्वर आनन्दादतो भेदो न दृश्यते ॥ ४६॥
कर्मरूपा महामाया गणेशेच्छासमन्विता ।
चलते तं न ज्ञानाति मोहिता भ्रान्तिसंयुता ॥ ४७॥
अहं श्रेष्ठा न सन्देहो मदाधारमिदं जगत् ।
सकलं कर्मभावेन धारयामि चराचरम् ॥ ४८॥
यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् ।
कर्म कुर्वन्ति विप्रेश चराचरात्मजीविनः ॥ ४९॥
अतस्त्रिविधकं विप्र एकलक्षाश्रितं मतम् ।
एवं बाधविहीनं तत्त्रिधा संवर्तते सदा ॥ ५०॥
मायावादिन एवं तत् कर्माधीनं वदन्ति हि ।
अद्वैतवादिनः सर्वे ईश्वराधीनगं तथा ॥ ५१॥
योगिनः प्रवदन्त्येतद्यदृच्छाधीनगं जगत् ।
एवं सत्यं प्रमाणेन त्रिविधं मुनिसत्तम ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥ ८.४७
(Page खं. ८ अ. ४८ पान १११)
८.४८ मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
प्रसङ्गाच्छृणु मासानां चरितं गणपे रतम् ।
द्वादशानां सुसङ्क्षेपात् सर्वसिद्धिप्रदायकम् ॥ १॥
श्रावणे पञ्चकं सेव्य गाणेशं वरुणः स्वयम् ।
दिगीशत्वं समालेभे ज्ञानं गाणेशसम्भवम् ॥ २॥
स्वयं भाद्रपदे वायुस्तथा सेव्य मयूरपम् ।
योगं लेभे दिगीशत्वं गाणपत्योऽभवत् प्रभुः ॥ ३॥
आश्विने देवगन्धर्वाः सेव्य विघ्नेश्वरं पुरा ।
स्वस्यैश्वर्यसमायुक्ता बभूवुस्ते महामुने ॥ ४॥
कार्तिके वक्रतुण्डं तु सेव्य विद्याधरास्तथा ।
स्वस्वव्यापारसंयुक्ता बभूवुर्ज्ञानधारकाः ॥ ५॥
विकटं मार्गशीर्षे चादित्याः संसेव्य सर्वपाः ।
जातास्तेजस्विनः सर्वे ज्ञानयुक्ता महामुने ॥ ६॥
पौषे लम्बोदरं सेव्य वसवः स्वपदाश्रिताः ।
बभूवुर्ज्ञानसंयुक्ता नानाभावपरायणाः ॥ ७॥
माघे रुद्रा गणेशानं सेव्य सर्वत्रगा बभुः ।
गाणपत्या महाभागाश्चरन्ति ह्यकुतोभयाः ॥ ८॥
फाल्गुने निरृतिः सेव्य गणेशं दिक्पतेः पदम् ।
लेभेऽभिचारभावाख्यं कर्मभोगं महामतिः ॥ ९॥
चैत्र अप्सरसः सर्वाः सेव्य तं धूम्रवर्णकम् ।
नानालावण्यजं लेभुर्गानादि भगमेव च ॥ १०॥
हेरम्बं सैव्य वैशाखेऽभवन् यक्षजनास्तथा ।
स्वस्वव्यापारकुशला नानाभोगपरायणाः ॥ ११॥
ज्येष्ठे विनायकं नागाः सेव्य सामर्थ्यसंयुताः ।
बभूवुः कार्यकर्तारो नानाभोगपरायणाः ॥ १२॥
पक्षिणः पञ्चकं नित्यं सेव्याऽऽषाढे गजाननम् ।
अभवन् भोगसंयुक्ताः स्वकार्यकुशलाः किल ॥ १३॥
ढुण्ढिराजं तथा ढौण्ढे धातुभिः सेव्य पर्वताः ।
बभूवू रत्नजातीनां धारका भोगकारिणः ॥ १४॥
वार्षिकं स्वस्वमासं ते समाश्रित्य गजाननम् ।
अभवन् स्नानकर्तारो गाणेशे पञ्चके रताः ॥ १५॥
एवं नानाजनाः सिद्धिं लेभिरे मासजेन च ।
व्रतेन कति ते ब्रूयां नालं वर्षायुतैरपि ॥ १६॥
इदं मासभवं सर्वं माहात्म्यं कथितं मया ।
पठनाच्छ्रवणात् सद्यो भवते सर्वसिद्धिदम् ॥ १७॥
यं यमिच्छति तं तं स लभते नाऽत्र संशयः ।
अन्ते गाणेश्वरे धाम्नि लीनः सञ्जायते मुने ॥ १८॥
इदं सर्वं समाख्यातं यद्यत् पृष्टं त्वया मुने ।
श्रोतुमिच्छसि किं भूयो वद तत् कथयाम्यहम् ॥ १९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ८.४८
(Page खं. ८ अ. ४९ पान ११२)
८.४९ गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
प्रकृतं वद सूत त्वं संवादं शङ्करस्य च ।
सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥ १॥
नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् ।
श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥ २॥
सूत उवाच ।
धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् ।
चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥ ३॥
सनकाद्या ऊचुः ।
नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् ।
धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥ ४॥
अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् ।
विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥ ५॥
श्रीशिव उवाच ।
गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् ।
साधकाय महाभागाः शीघ्रं वै शान्तिदं परम् ॥ ६॥
पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः ।
तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥ ७॥
गङ्गोवाच ।
वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा ।
इच्छामि तमहं ज्ञातुं त्वत्तः किं परमं मतम् ॥ ८॥
श्रीशिव उवाच ।
गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् ।
ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥ ९॥
तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् ।
कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥ १०॥
पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् ।
तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥ ११॥
तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये ।
तथा गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥ १२॥
तत्तेऽहं शृणु वक्ष्यामि गणेशहृदयं परम् ।
येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥ १३॥
ॐ अस्य गणेशहृदयस्तोत्रमन्त्रस्य।शम्भुऋषिः ।
नाना छन्दांसि।गणेशो देवता ।
गमिति बीजम् ।
ज्ञानात्मिका शक्तिः ।
नादः कीलकम् ।
श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थें जपे विनियोगः ।
ॐ गमित्येकाक्षरात्मकबीजैः करन्यासाः षडङ्गन्यासाश्च ।
अथ ध्यानम् ।
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं
पाशं चैवाङ्कुशं वै रदनमभयकं पाणिभिः सन्दधानम् ।
सिद्ध्या बुद्ध्या प्रशिष्टं गजवदनमहं चिन्तये ह्येकदन्तं
नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ १४॥
एवं ध्यात्वा मानसोपचारैः पूजयेत् ।
किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् ।
ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकम् ।
ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १५॥
हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् ।
आशापूरं तु वरदं विकटं धरणीधरम् ॥ १६॥
सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम् ।
माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ १७॥
एकविंशति नामानि गणेशस्य महात्मनः ।
अर्थेन संयुतान्येव हृदयं परिकीर्तितम् ॥ १८॥
गङ्गोवाच ।
एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव ।
गणेशहृदयं येन जानामि करुणानिधे ॥ १९॥
श्रीशिव उवाच ।
ग काररूपं विविधं चराचरं ण कारगं ब्रह्म तथा परात्परम् ।
तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥ २०॥
(Page खं. ८ अ. ४९ पान ११३)
मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः ।
योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥ २१॥
चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् ।
भोगैर्विहीनं त्वथ भोगकारं चिन्तामणिं तं प्रणमामि नित्यम् ॥ २२॥
विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् ।
निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥ २३॥
वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर देवमानवाः ।
नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ २४॥
मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन ।
तस्मान् मयूरेशमयो वदन्ति नमामि मायापतिमासमन्तात् ॥ २५॥
यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि ।
अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ २६॥
जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् ।
तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥ २७॥
दीनार्थवाच्यस्त्वथ हेर्जगद्गो ब्रह्मार्थवाच्यो निगमेषु रम्बः ।
तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥ २८॥
विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् ।
तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥ २९॥
माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न ।
श्रेष्ठं वदन्ते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ ३०॥
नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् ।
पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥ ३१॥
मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् ।
अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥ ३२॥
वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च ।
अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥ ३३॥
मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च ।
तस्मात् परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥ ३४॥
चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे ।
तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥ ३५॥
विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः ।
ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥ ३६॥
असत्यसत् साम्यतुरीयनैज्यगनिवृत्तिरूपाणि विरच्य खेलकः ।
सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ ३७॥
अमङ्गलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् ।
ततः परं मङ्गलरूपधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ ३८॥
सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् ।
पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ ३९॥
भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविघ्नहा च ।
भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥ ४०॥
नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् ।
त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ ४१॥
गङ्गोवाच ।
नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मप्रदं परम् ।
न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥ ४२॥
शङ्कर उवाच ।
मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः ।
भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥ ४३॥
हृदयं मन्त्रराजस्य कथयामि समासतः ।
मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥ ४४॥
गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः ।
बिन्दुः शिवस्तथा भानुरनुनासिकसंज्ञितः ॥ ४५॥
तेषां सन्धिर्महाशक्तिरेभिर्मन्त्रः स उच्यते ।
देवता गणनाथस्तु तेषां संयोगकारकः ॥ ४६॥
तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा ।
अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥ ४७॥
तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे ।
अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुकौ ॥ ४८॥
शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् ।
शून्यं देहिस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥ ४९॥
ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् ।
एतादृशं विजानीहि मन्त्रराजं गजाननम् ॥ ५०॥
आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा ।
ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥ ५१॥
तद्दशांशेन होमं वै कुर्यादागममार्गतः ।
तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥ ५२॥
तद्दशांशमितं देवि मार्जनं तद्दशांशतः ।
विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्यते ॥ ५३॥
यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् ।
अतस्त्वं मन्त्रराजस्य पञ्चकं तत् समाचर ॥ ५४॥
एवमुक्त्वाऽददात्तस्यै मन्त्रं विधिसमन्वितम् ।
गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥ ५५॥
मयूरेशं समासाद्य चकार तपमुत्तमम् ।
गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥ ५६॥
पुरश्चरणमेकं सा चकार सरितां वरा ।
ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ ५७॥
तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह ।
तेनैकविंशतिनाम्नामर्थज्ञा तत्क्षणादभूत् ॥ ५८॥
ततो हर्षयुता देवी तत्र वासं चकार सा ।
नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥ ५९॥
सनकाद्या ऊचुः ।
ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो ।
अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥ ६०॥
शिव उवाच ।
ब्रह्मभूतो नरो योगी गणेशमभजत् सदा ।
नवधा भक्तिभावेन तत्परश्च महर्षयः ॥ ६१॥
पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् ।
स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥ ६२॥
सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः ।
ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति समर्पितं किल ॥ ६३॥
(Page खं. ८ अ. ४९ पान ११५)
योगाकारेण विघ्नेश एकानेकादिसंश्रितः ।
भुङ्क्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥ ६४॥
नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः ।
स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥ ६५॥
अनेन विधिना विप्रा भजन्ते गणनायकम् ।
योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥ ६६॥
एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया ।
हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥ ६७॥
यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् ।
यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥ ६८॥
तथा गणपतेरेतत् हृदयं परिकीर्तितम् ।
अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥ ६९॥
अनेन गणनाथं तु यस्तोष्यति नरोत्तमः ।
स भुक्त्वा सकलान् भोगानन्ते योगमयो भवेत् ॥ ७०॥
एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् ।
प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥ ७१॥
एकाक्षरस्य मन्त्रस्य पञ्चकं सेव्य योगिनः ।
गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥ ७२॥
ततो नित्यं गणेशस्य हृदयं ते महर्षयः ।
जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥ ७३॥
अतस्त्वमपि भावेन गणेशहृदयं परम् ।
सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥ ७४॥
मुद्गल उवाच ।
एवमुक्त्वा महानागं शेषाय प्रददौ शिवः ।
मन्त्रमेकाक्षरं साङ्गं स ययौ तं प्रणम्य च ॥ ७५॥
साधयित्वा यथान्यायं हृदयज्ञो बभूव ह ।
नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥ ७६॥
गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः ।
ईप्सितं प्राप्नुयादन्ते ब्रह्मभूतो भवेदिदम् ॥ ७७॥
नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः ।
स गणेशो न सन्देहो दर्शनात् सिद्धिदो भवेत् ॥ ७८॥
पुत्रपौत्रकलत्रादि लभते पाठतो नरः ।
धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥ ७९॥
एकविंशतिवारं यो दिवसानेकविंशतिम् ।
पठेद्गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥ ८०॥
असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् ।
राजबन्धात्त्रिकालेषु मोचयेत् पाठतो विधे ॥ ८१॥
मारणोच्चाटनादीनि वश्यमोहादिकानि तु ।
अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥ ८२॥
सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् ।
अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥ ८३॥
विद्यामायुर्यशः प्रज्ञामङ्गहीनोंऽगमाप्नुयात् ।
यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥ ८४॥
नानेन सदृशं किञ्चित् शीघ्रसिद्धिकरं भवेत् ।
साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥ ८५॥
गणेशभक्तिहीनाय दुर्विनीताय विद्विषे ।
न देयं गणराजस्य हृदयं वै कदाचन ॥ ८६॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नतः ।
दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ ८७॥
महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च ।
हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥ ८८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ८.४९
(Page खं. ८ अ. ५० पान ११६)
८.५० फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
योगिध्येयं गणेशस्य रूपं सर्वत्र सम्मतम् ।
ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥ १॥
कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् ।
वद तत् कारणं विप्र संशयस्यापनुत्तये ॥ २॥
मुद्गल उवाच ।
अयोगिनो गणेशानं पञ्चभूतमयं प्रभुम् ।
जानन्ति सर्वतुल्यं तं देहधारिणमञ्जसा ॥ ३॥
न तेषां हृदये दक्ष रूपं योगमयं परम् ।
शोभते गणराजस्य योगाकारमपि स्फुटम् ॥ ४॥
योगिनस्तं विशेषेण जानन्ति योगरूपिणम् ।
तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ॥ ५॥
समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् ।
कुम्भस्थले गणेशस्य पश्यन्ति तन्मये च ते ॥ ६॥
त्रिविधं विविधं दक्ष त्रिनेत्रे सङ्गतं महः ।
पश्यन्ति योगिनस्तस्य गणेशस्य महात्मनः ॥ ७॥
महाकारणरूपा तु शुण्डा तस्य प्रकीर्तिता ।
बिन्दुः कण्ठस्तथा दन्तः सोऽहं मात्रात्मकः स्मृतः ॥ ८॥
बोधरूपं गणेशस्य जठरं साङ्ख्यवाचकौ ।
कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥ ९॥
मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् ।
द्वौ पादौ गणराजस्य पश्यन्ति योगिनः किल ॥ १०॥
संहाराख्यं च यद्ब्रह्म परशुस्तस्य शोभनः ।
नियन्त्राख्यं तथा दक्ष अङ्कुशश्च महात्मनः ॥ ११॥
कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् ।
बन्धमोक्षात्मकं हन्त दुष्टनाशकरं मुदा ॥ १२॥
अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् ।
वरं सकामकानां तु कामदं तं वदन्ति ते ॥ १३॥
चिन्तामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् ।
अक्षीणतेजसं चन्द्रममृतं ब्रह्म निश्चितम् ॥ १४॥
स्वानन्दाख्यं परं ब्रह्म तदेव नगरं प्रभोः ।
इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥ १५॥
पञ्चचित्तमयी बुद्धिस्तत्रैश्वर्यभ्रमात्मिका ।
सिद्धिर्माये वदन्त्येव योगिनो योगभावतः ॥ १६॥
मूषकं व्यापकाख्यं च परं पश्यन्ति वाहनम् ।
धर्माधर्मौ गणेशस्योरःपृष्ठे पार्श्वगे किल ॥ १७॥
शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः ।
कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥ १८॥
लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ ।
यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥ १९॥
इत्यादि विविधं तस्य ब्रह्माकारं न संशयः ।
सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥ २०॥
योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् ।
ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥ २१॥
सगुणं कण्ठपर्यन्तं निर्गुणं गजवाचकम् ।
मस्तकं च तयोर्योगे योगं जानन्ति विघ्नपम् ॥ २२॥
योगिध्येयमतो वेदादिषु सङ्कथितं विधे ।
रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥ २३॥
दक्ष उवाच ।
मूषको वाहनं तस्य कथं बभूव विप्रप ।
तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥ २४॥
मुद्गल उवाच ।
मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् ।
भुङ्क्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम् ॥ २५॥
(Page खं. ८ अ. ५० पान ११७)
मुषस्तेये समाख्यातो धातुः स एव मूषकः ।
व्यापकश्चौरवत् सर्वान् भुङ्क्ते मोह्य हृदि स्थितः ॥ २६॥
तपसाऽऽराधितस्तेन व्यापकेन गजाननः ।
प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थतः ॥ २७॥
एतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकम् ।
नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकम् ॥ २८॥
य इदं श्रावयेद्दक्ष शृणुयाद्वा पठेन्नरः ।
स सर्वसुखसंयुक्तोंऽते ब्रह्मणि गतो भवेत् ॥ २९॥
नानेन सदृशं किञ्चित् सर्वसिद्धिकरं परम् ।
यत्र साक्षाद्गणेशानः कीर्त्यते धूम्रवर्णकः ॥ ३०॥
यं यमिच्छति तं तं स लभेदनेन निश्चितम् ।
श्रवणेन न सन्देहो मानवः शुभमश्नुते ॥ ३१॥
लेखयित्वा गृहे यस्तु पूजयेत् पुस्तकं नरः ।
न तत्र राक्षसादिभ्यो भयं भवति कर्हिचित् ॥ ३२॥
भोगान् भुक्त्वा स विविधान् पुत्रपौत्रसुहृद् वृतः ।
अन्ते स्वानन्दगो भूत्वा गणेशे तन्मयो भवेत् ॥ ३३॥
धमार्थकाममोक्षाणां दायकः श्रवणेन च ।
पठनेन न सन्देहः खण्डोऽयं धूम्रवर्णकः ॥ ३४॥
तीर्थानि विविधान्येव तपः कुर्यान्नरोत्तमः ।
विविधं तत् फलं सद्य अस्य श्रवणतो लभेत् ॥ ३५॥
इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् ।
विविधं स लभेत् पुण्यमस्य श्रवणतो नरः ॥ ३६॥
बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् ।
किञ्चिन्नानाविधेष्वेव साधनेषु प्रजापते ॥ ३७॥
यत्र योगपतिः साक्षाद्वर्ण्यते धूम्रवर्णकः ।
तेन किं तुल्यतां यान्ति विचारय महामते ॥ ३८॥
सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकम् ।
धूम्रवर्णस्य सङ्क्षेपाद्यथामति प्रमाणतः ॥ ३९॥
विस्तरेण शिवाद्याश्च वेदा योगिन एव च ।
न समर्था भवन्तीह तत्र कोऽहं प्रजापते ॥ ४०॥
अधुना त्वं गणेशानं भज यत्नपरायणः ।
अथवा श्रोतुमिच्छा ते वदतां कथयाम्यहम् ॥ ४१॥
सूत उवाच ।
एवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे ।
दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ ४२॥
धूम्रवर्णचरित्रं तु कथितं ते महामुने ।
यथा दक्षाय तेनैव कथितं तादृशं परम् ॥ ४३॥
सर्वसिद्धिकरं चित्रं नानाख्यानसमन्वितम् ।
श्रुतं त्वया महाभाग किं भूयः श्रोतुमिच्छसि ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
अष्टमे खण्डे धूम्रवर्णचरिते फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ८.५०
॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे अष्टमः खण्डः समाप्तः ॥
Proofread by Yash Khasbage