श्रीशिवमहापुराणम् २२ रुद्रसंहितायां सतीखण्डः
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१. प्रथमोऽध्यायः । सतीसङ्क्षेपचरित्रवर्णनम् ।
सतीसङ्क्षेपचरित्रवर्णनं नारद उवाच ।
विधे सर्वं विजानासि कृपया शङ्करस्य च ।
त्वयाद्भुता हि कथिताः कथा मे शिवयोः शुभाः ॥ १॥
त्वन्मुखाम्भोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।
अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो ॥ २॥
पूर्णांशः शङ्करस्यैव यो रुद्रो वर्णितः पुरा ।
विधे त्वया महेशानः कैलासनिलयो वशी ॥ ३॥
स योगी सर्वविष्ण्वादिसुरसेव्यः सतां गतिः ।
निर्द्वन्द्वः क्रीडति सदा निर्विकारो महाप्रभुः ॥ ४॥
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।
हरिप्रार्थनया प्रीत्या मङ्गलां सुतपस्विनीम् ॥ ५॥
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।
कथमेकशरीरेण द्वयोरप्यात्मजा मता ॥ ६॥
कथं सती पार्वती सा पुनः शिवमुपागता ।
एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७॥
सूत उवाच ।
इति तस्य वचः श्रुत्वा सुरर्षेः शङ्करात्मनः ।
प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८॥
ब्रह्मोवाच ।
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।
यां श्रुत्वा सफलं जन्म भविष्यति न संशयः ॥ ९॥
पुराहं स्वसुतां दृष्ट्वा सन्ध्याह्वां तनयैः सह ।
अभवं विकृतस्तात कामबाणप्रपीडितः ॥ १०॥
धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः ।
धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११॥
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।
तेनाकार्षं सहाकार्यं परमेशेन शम्भुना ॥ १२॥
तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ।
कर्तुं तन्मोहनं मूढः शिवमायाविमोहितः ॥ १३॥
अभवंस्तेऽथ वै सर्वे तस्मिन् शम्भौ परप्रभौ ।
उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४॥
तदास्मरं रमेशानं व्यर्थोपायः सुतैः सह ।
अबोधयत्स आगत्य शिवभक्तिरतः सुधीः ॥ १५॥
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।
तदीर्षामत्यजं सोऽहं तं हठं न विमोहितः ॥ १६॥
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।
दक्षादसिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७॥
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुःसहम् ।
रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ॥ १८॥
सोमो रुद्रो गृही भूत्वाकार्षील्लीलां परां प्रभुः ।
मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ १९॥
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।
रेमे बहुविमोहो हि स्वतन्त्रः स्वात्तविग्रहः ॥ २०॥
तया विहरतस्तस्य व्यतीयाय महान् मुने ।
कालः सुखकरः शम्भोर्निर्विकारस्य सद्रतेः ॥ २१॥
ततो रुद्रस्य दक्षेण स्पर्धा जाता निजेच्छया ।
महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२॥
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।
महाशान्तं निर्विकारं निनिन्द बहुमोहितः ॥ २३॥
ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ।
सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४॥
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।
तथा तत्र सतीं नाम्नीं स्वपुत्रीं विधिमोहितः ॥ २५॥
यदा नाकारिता पित्रा मायामोहित चेतसा ।
लीलां चकार सुज्ञाना महासाध्वी शिवा तदा ॥ २६॥
अथागता सती तत्र शिवाज्ञामधिगम्य सा ।
अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ॥ २७॥
विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ।
विनिन्द्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ॥ २८॥
तच्छ्रुत्वा देवदेवेशः क्रोधं कृत्वा तु दुःसहम् ।
जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ॥ २९॥
सगणं तं समुत्पाद्य किं कुर्यामिति वादिनम् ।
सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ॥ ३०॥
गणाधीशस्तदाज्ञां स प्राप्य बहुबलान्वितः ।
गतोऽरं तत्र सहसा महाबलपराक्रमः ॥ ३१॥
महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया ।
सर्वान्स दण्डयामास न कश्चिदवशेषितः ॥ ३२॥
विष्णुं सञ्जित्य यत्नेन सामरं गणसत्तमः ।
चक्रे दक्षशिरश्छेदं तच्छिरोऽग्नौ जुहाव च ॥ ३३॥
यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ।
ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ॥ ३४॥
यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ।
रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः ॥ ३५॥
मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु सम्मता ।
रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभौ ॥ ३६॥
ततो रुद्रः प्रसन्नोऽभूत्स्तुतिमाकर्ण्य तां पराम् ।
विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ॥ ३७॥
पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना ।
शङ्करेण महेशेन नानालीलाविहारिणा ॥ ३८॥
जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ।
पुनः स कारितो यज्ञः शङ्करेण कृपालुना ॥ ३९॥
रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ।
यज्ञे विष्ण्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्मुने ॥ ४०॥
सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ।
पतिता पर्वते तत्र पूजिता सुखदायिनी ॥ ४१॥
ज्वालामुखीति विख्याता सर्वकामफलप्रदा ।
बभूव परमा देवी दर्शनात्पापहारिणी ॥ ४२॥
इदानीं पूज्यते लोके सर्वकामफलाप्तये ।
संविधाभिरनेकाभिर्महोत्सवपरःसरम् ॥ ४३॥
ततश्च सा सती देवी हिमालयसुताभवत् ।
तस्याश्च पार्वती नाम प्रसिद्धमभवत्तदा ॥ ४४॥
सा पुनश्च समाराध्य तपसा कठिनेन वै ।
तमेव परमेशानं भर्तारं समुपाश्रिता ॥ ४५॥
एतत्सर्वं समाख्यातं यत्पृष्टोऽहं मुनीश्वर ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीसङ्क्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ २.२.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२. द्वितीयोऽध्यायः । कामप्रादुर्भावः ।
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य नैमिषारण्यवासिनः ।
पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ॥ १॥
नारद उवाच ।
विधे विधे महाभाग कथां शम्भोः शुभावहाम् ।
शृण्वन् भवन्मुखाम्भोजान्न तृप्तोऽस्मि महाप्रभो ॥ २॥
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ।
सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ॥ ३॥
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ।
कथं हरो मनश्चक्रे दाराहरणकर्मणि ॥ ४॥
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।
हिमवत्तनया जाता भूयो वाकाशमागता ॥ ५॥
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ।
कथमर्धशरीरस्था बभूव स्मरनाशिनः ॥ ६॥
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।
नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ ७॥
ब्रह्मोवाच ।
शृणु त्वं च मुने सर्वं सतीशिवयशः शुभम् ।
पावनं परमं दिव्यं गुह्याद् गुह्यतमं परम् ॥ ८॥
एतच्छम्भुः पुरोवाच भक्तवर्याय विष्णवे ।
पृष्टस्तेन महाभक्त्या परोपकृतये मुने ॥ ९॥
ततः सोऽपि मया पृष्टो विष्णुः शैववरः सुधीः ।
प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ॥ १०॥
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ।
शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ॥ ११॥
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ।
अरूपः शक्तिरहितश्चिन्मात्रः सदसत्परः ॥ १२॥
अभवत्सगुणः सोऽपि द्विरूपः शक्तिमान्प्रभुः ।
सोमो दिव्याकृतिर्विप्र निर्विकारी परात्परः ॥ १३॥
तस्य वामाङ्गजो विष्णुर्ब्रह्माहं दक्षिणाङ्गजः ।
रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ॥ १४॥
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ।
लयकर्ता स्वयं रुद्रस्त्रिधाभूतः सदाशिवः ॥ १५॥
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः ।
प्रजाः ससर्ज सर्वास्ताः सुरासुरनरादिकाः ॥ १६॥
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ।
अमन्यं सुप्रसन्नोऽहं निजं सर्वमहोन्नतम् ॥ १७॥
मरीचिमत्रिं पुलहं पुलस्त्याङ्गिरसौ क्रतुम् ।
वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ॥ १६॥
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ।
तदा मन्मनसो जाता चारुरूपा वराङ्गना ॥ १९॥
नाम्ना सन्ध्या दिवाक्षान्ता सायं सन्ध्या जपन्तिका ।
अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी ॥ २०॥
न तादृशी देवलोके न मर्त्ये न रसातले ।
कालत्रयेऽपि वै नारी सम्पूर्णगुणशालिनी ॥ २१॥
दृष्ट्वाहं तां समुत्थाय चिन्तयन् हृदि हृद्गताम् ।
दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ॥ २२॥
एवं चिन्तयतो मे हि ब्रह्मणो मुनिसत्तम ।
मानसः पुरुषो मञ्जुराविर्भूतो महाद्भुतः ॥ २३॥
काञ्चनीकृतजाताभः पीनोरस्कः सुनासिकः ।
सुवृत्तोरुकटीजङ्घो नीलवेलितकेसरः ॥ २४॥
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।
कपाटायतसद्वक्षो रोमराजीविराजितः ॥ २५॥
अभ्रमातङ्गकाकारः पीनो नीलसुवासकः ।
आरक्तपाणिनयनमुखपादकरोद्भवः ॥ २६॥
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगन्धनः ।
प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ॥ २७॥
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।
पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः ॥ २८॥
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।
सुगन्धिमारुतो तात शृङ्गाररससेवितः ॥ २९॥
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ।
औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ॥ ३०॥
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ।
धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ॥ ३१॥
मां सोऽपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।
प्रणम्य पुरुषः प्राह विनयानतकन्धरः ॥ ३२॥
पुरुष उवाच ।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय ।
मान्योऽद्य पुरुषो यस्मादुचितः शोभितो विधे ॥ ३३॥
अभिमानं च योग्यं च स्थानं पत्नी च या मम ।
तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ॥ ३४॥
ब्रह्मोवाच ।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।
क्षणं न किञ्चित् प्रोवाच स स्रष्टा चातिविस्मितः ॥ ३५॥
अतो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।
अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ॥ ३६॥
ब्रह्मोवाच ।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः ।
मोहयन् पुरुषान् स्त्रींश्च कुरु सृष्टिं सनातनीम् ॥ ३७॥
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ।
एते सर्वे भविष्यन्ति न क्षमास्तव लङ्घने ॥ ३८॥
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तम ।
भविष्यामस्तव वशे किमन्ये प्राणधारकाः ॥ ३९॥
प्रच्छन्नरूपो जन्तूनां प्रविशन् हृदयं सदा ।
सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ ४०॥
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोऽद्भुतम् ।
सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ॥ ४१॥
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।
नामान्येते वदिष्यन्ति सुता मे तव तत्त्वतः ॥ ४२॥
ब्रह्मोवाच ।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च ।
आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ॥ ४३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २.२.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३. तृतीयोऽध्यायः । कामशापानुग्रहः ।
ब्रह्मोवाच ।
ततस्ते मुनयः सर्वे मदभिप्रायवेदिनः ।
चक्रुस्तदुचितं नाम मरीचिप्रमुखाः सुताः ॥ १॥
मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः ।
दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २॥
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।
ऊचुः सङ्गतमेतस्मै पुरुषाय ममात्मजाः ॥ ३॥
ऋषय ऊचुः ।
यस्मात्प्रमथसे तत्त्वं जातोऽस्माकं यथा विधेः ।
तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४॥
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।
अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५॥
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।
तस्मात्कन्दर्पनामापि लोके ख्यातो भविष्यसि ॥ ६॥
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।
ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७॥
दक्षोऽयं भवतः पत्नीं स्वयं दास्यति कामिनीम् ।
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८॥
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।
सन्ध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९॥
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वराङ्गना ।
अतः सन्ध्येति विख्याता क्रान्ताभा तुल्यमल्लिका ॥ १०॥
ब्रह्मोवाच ।
कौसुमानि तथास्त्राणि पञ्चादाय मनोभवः ।
प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ॥ ११॥
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।
मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२॥
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।
तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ॥ १३॥
तिष्ठन्ति मुनयश्चात्र स्वयं चापि प्रजापतिः ।
एतेषां साक्षिभूतं मे भविष्यत्यद्य निश्चयम् ॥ १४॥
सन्ध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।
इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५॥
ब्रह्मोवाच ।
इति सञ्चिन्त्य मनसा निश्चित्य च मनोभवः ।
पुष्पजं पुष्पजातैश्च योजयामास मार्गणैः ॥ १६॥
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७॥
संहिते तेन कोदण्डे मारुताश्च सुगन्धयः ।
ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८॥
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।
पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९॥
ततस्ते मुनयः सर्वे मोहिताश्चाप्यहं मुने ।
संहितो मनसा किञ्चिद्विकारं प्रापुरादितः ॥ २०॥
सन्ध्यां सर्वे निरीक्षन्तः सविकारं मुहुर्मुहुः ।
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१॥
ततः सर्वान्स मदनो मोहयित्वा पुनः पुनः ।
यथेन्द्रियविकारं ते प्रापुस्तानकरोत्तथा ॥ २२॥
उदीरितेन्द्रियो धाता वीक्ष्याहं स यदा च ताम् ।
तदैव चोनपञ्चाशद्भावा जाताः शरीरतः ॥ २३॥
सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातनात् ।
चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ॥ २४॥
निसर्गसुन्दरी सन्ध्या तान्भावान् मानसोद्भवान् ।
कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५॥
अथ भावयुतां सन्ध्यां वीक्ष्याकार्षं प्रजापतिः ।
धर्माभिपूरिततनुरभिलाषमहं मुने ॥ २६॥
ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि ।
दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वैकारिकेन्द्रियम् ॥ २७॥
दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखांश्च माम् ।
सन्ध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८॥
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।
कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा ॥ २९॥
इत्थं पापगतिं वीक्ष्य भ्रातृणां च पितुस्तथा ।
धर्मः सस्मार शम्भुं वै तदा धर्मावनं प्रभुम् ॥ ३०॥
संस्मरन्मनसा धर्मः शङ्करं धर्मपालकम् ।
तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसम्भवः ॥ ३१॥
धर्म उवाच ।
देवदेव महादेव धर्मपाल नमोऽस्तु ते ।
सृष्टिस्थितिविनाशानां कर्ता शम्भो त्वमेव हि ॥ ३२॥
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ।
रजःसत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३॥
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ।
निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४॥
रक्ष रक्ष महादेव पापान्मां दुस्तरादितः ।
मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५॥
ब्रह्मोवाच ।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ।
तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६॥
जातो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् ।
मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७॥
स साधुवादं तान् सर्वान् विहस्य च पुनः पुनः ।
उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८॥
शिव उवाच ।
अहो ब्रह्मंस्तव कथं कामभावः समुद्गतः ।
दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९॥
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ।
एताः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ ४०॥
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ।
कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१॥
धैर्यं जागरितं चित्ते न कथं चतुरानन ।
येन क्षुद्रेण कामेन रन्तुं विघटितं विधे ॥। ४२॥
एकान्तयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ।
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३॥
कथं कामोऽपि मन्दात्मा प्राबल्यात्सोऽधुनैव हि ।
विकृतान् कृतवान् बाणैरकालज्ञोऽल्पचेतनः ॥ ४४॥
धिक् तं श्रुतं सदा तस्य यस्य कान्ता मनोऽहरत् ।
धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५॥
ब्रह्मोवाच ।
इति तस्य वचः श्रुत्वा लोके सोऽहं शिवस्य च ।
व्रीडया द्विगुणीभूतः स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६॥
ततः कामविकारं हि निगृह्य चात्यजं मुने ।
जिघृक्षुरपि तद्भीत्या तां सन्ध्यां कामरूपिणीम् ॥ ४७॥
मच्छरीरात्तु घर्माम्भो यत्पपात द्विजोत्तम ।
अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८॥
भिन्नाञ्जननिभाः सर्वे फुल्लराजीवलोचनाः ।
नितान्तयतयः पुण्याः संसारविमुखाः परे ॥ ४९॥
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः ।
षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ ५०॥
घर्माम्भः पतितं भूमौ तदा दक्षशरीरतः ।
समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गना ॥ ५१॥
तन्वङ्गी सममध्या च तनुरोमावली श्रुता ।
मृद्वङ्गी चारुदशना नवकाञ्चनसुप्रभा ॥ ५२॥
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ।
नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३॥
मरीचिप्रमुखाः षड् वै निगृहीतेन्द्रियक्रियाः ।
ऋते क्रतुं वसिष्ठं च पुलस्त्याङ्गिरसौ तथा ॥ ५४॥
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ।
तेभ्यः पितृगणा जाता अपरे मुनिसत्तम ॥ ५५॥
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।
हविष्मन्तः सुताः सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६॥
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ।
आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः ॥ ५७॥
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ ।
लोकानां पितृवर्गेषु कव्यवाट् स समन्ततः ॥ ५८॥
सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताभवत् ।
निर्दोषा शम्भुसन्दृष्टा धर्मकर्मपरायणा ॥ ५९॥
एतस्मिन्नन्तरे शम्भुरनुगृह्याखिलान्द्विजान् ।
धर्मं संरक्ष्य विधिवदन्तर्धानं गतो द्रुतम् ॥ ६०॥
अथ शङ्करवाक्येन लज्जितोऽहं पितामहः ।
कन्दर्पायाकोपिषं हि भ्रुकुटीकुटिलाननः ॥ ६१॥
दृष्ट्वा मुखमभिप्रायं विदित्वा सोऽपि मन्मथः ।
स्वबाणान्सञ्जहाराशु भीतः पशुपतेर्मुने ॥ ६२॥
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ।
अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३॥
भवनेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः ।
भविष्यति महादेवे कृत्वा कर्म सुदुष्करम् ॥ ६४॥
इति वेधास्त्वहं काममक्षयं द्विजसत्तम ।
समक्षं पितृसङ्घस्य मुनीनां च यतात्मनाम् ॥ ६५॥
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ।
प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६॥
ब्रह्माणं मामुवाचेदं सदक्षादिसुतं मुने ।
शृण्वतां पितृसङ्घानां सन्ध्यायाश्च विगर्वधीः ॥ ६७॥
काम उवाच ।
किमर्थं भवता ब्रह्मन् शप्तोऽहमिति दारुणम् ।
अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८॥
त्वया चोक्तं नु मत्कर्म यत्तद् ब्रह्मन् कृतं मया ।
तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९॥
अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः ।
इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ ७०॥
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ।
दारुणः समयश्चैष शापो देव जगत्पते ॥ ७१॥
ब्रह्मोवाच ।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ।
प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः ॥ ७२॥
ब्रह्मोवाच ।
आत्मजा मम सन्ध्येयं यस्मादेतत्सकामतः ।
लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ॥ ७३॥
अधुना शान्तरोषोऽहं त्वां वदामि मनोभव ।
शृणुष्व गतसन्देहः सुखी भव भयं त्यज ॥ ७४॥
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।
तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५॥
यदा करिष्यति हरोऽञ्जसा दारपरिग्रहम् ।
तदा स एव भवतः शरीरं प्रापयिष्यति ॥ ७६॥
एवमुक्त्वाथ मदनमहं लोकपितामहः ।
अन्तर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७॥
इत्येवं मे वचः श्रुत्वा मदनस्तेऽपि मानसाः ।
सम्बभूवुः सुताः सर्वे सुखिनोऽरं गृहं गताः ॥ ७८॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ २.२.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.४. चतुर्थोऽध्यायः । कामविवाहः ।
नारद उवाच ।
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ।
अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १॥
ततः किमभवत्तात चरितं तद् वदाधुना ।
अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २॥
ब्रह्मोवाच ।
शम्भौ गते निजस्थाने वेधस्यन्तर्हिते मयि ।
दक्षः प्राहाथ कन्दर्पं संस्मरन् मम तद्वचः ॥ ३॥
दक्ष उवाच ।
मद्देहजेयं कन्दर्प सद्रूपगुणसंयुता ।
एनां गृह्णीष्व भार्यार्थं भवतः सदृशीं गुणैः ॥ ४॥
एषा तव महातेजाः सर्वदा सहचारिणी ।
भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५॥
ब्रह्मोवाच ।
इत्युक्त्वा प्रददौ तस्यै देहस्वेदाम्बुसम्भवाम् ।
कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६॥
विवाह्य तां स्मरः सोऽपि मुमोदातीव नारद ।
दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७॥
अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ।
आत्मागुणेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥ ८॥
क्षणप्रदाभवत्कान्ता गौरी मृगदृशी मुदा ।
लोलापाङ्ग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९॥
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् ।
उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ १०॥
गतिं दृष्ट्वा कटाक्षाणामाशु तस्या द्विजोत्तम ।
आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११॥
तस्याः स्वभावसौरभ्यं धीरश्वासानिलं तथा ।
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले ॥ १२॥
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ।
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३॥
सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४॥
दृढपीनोन्नतं तस्याः स्तनमध्यं विलम्बिनीम् ।
आनाभिलम्बिनीं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५॥
ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भ्रमाम् ।
विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६॥
गम्भीरनाभिरन्ध्रान्तश्चतुःपार्श्वत्वगावृतम् ।
आननाब्जेक्षणद्वन्द्वमारक्तकमलं यथा ॥ १७॥
क्षीणमध्येन वपुषा निसर्गाष्टापदप्रभा ।
रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८॥
रम्भास्तम्भायतं स्निग्धं यदूरुयुगलं मृदु ।
निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥ १९॥
आरक्तपार्ष्णिपादाग्रं प्रान्तभागं पदद्वयम् ।
अनुरागमिवानेन मित्रं तस्या मनोभवः ॥ २०॥
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।
वृत्ताभिरङ्गुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१॥
तद् बाहुयुगुलं कान्तं मृणालयुगलायतम् ।
मृदु स्निग्धं चिरं राजत्कान्तिलोहप्रवालवत् ॥ २२॥
नीलनीरदसङ्काशः केशपाशो मनोहरः ।
चमरीबालभरवद्विभाति स्म स्मरप्रिया ॥ २३॥
एतादृशीं रतिं नाम्नीं प्रालेयाद्रिसमुद्भवाम् ।
गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४॥
चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ।
भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५॥
कटाक्षपाततुङ्गौघां स्वीयनेत्रोत्पलान्विताम् ।
तनुलोमाम्बुशैवालां मनोद्रुमविलासिनीम् ॥ २६॥
निम्ननाभिह्रदां क्षामां सर्वाङ्गरमणीयिकाम् ।
सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७॥
द्वादशाभरणैर्युक्तां शृङ्गारैः षोडशैर्युताम् ।
मोहनीं सर्वलोकानां भासयन्तीं दिशो दश ॥ २८॥
इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ।
रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९॥
नोवाच च तदा दक्षं कामो मोदभवात्ततः ।
विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः ॥ ३०॥
तदा महोत्सवस्तात बभूव सुखवर्धनः ।
दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१॥
कामोऽतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ।
दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२॥
रराज च तया सार्धं भिन्नश्चारुवचाः स्मरः ।
जीमूत इव सन्ध्यायां सौदामन्या मनोज्ञया ॥ ३३॥
इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां
हृदुपरि जगृहे वै योगदर्शीव विद्याम् ।
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे
हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ २.२.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.५. पञ्चमोऽध्यायः । सन्ध्याचरित्रम् ।
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ।
स मुदोवाच संस्मृत्य शङ्करं प्रीतमानसः ॥ १॥
नारद उवाच ।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।
अद्भुता कथिता लीला त्वया च शशिमौलिनः ॥ २॥
गृहीतदारे मदने हृष्टे हि स्वगृहं गते ।
दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ॥ ३॥
मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ।
सन्ध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ॥ ४॥
किं चकार च केनैव पुरुषेण विवाहिता ।
एतत्सर्वं विशेषेण सन्ध्यायाश्चरितं वद ॥ ५॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रस्य धीमतः ।
संस्मृत्य शङ्करं भक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ॥ ६॥
ब्रह्मोवाच ।
शृणु त्वं च मुने सर्वं सन्ध्यायाश्चरितं शुभम् ।
यच्छ्रुत्वा सर्वकामिन्यःसाध्व्यः स्युः सर्वदा मुने ॥ ७॥
सा च सन्ध्या सुता मे हि मनोजाता पुराभवत् ।
तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ॥ ८॥
मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य धीमती ।
ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता ॥ ९॥
वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ।
पतिव्रता च मुख्याभूद्वन्द्या पूज्या त्वभीषणा ॥ १०॥
नारद उवाच ।
कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया ।
कथं शरीरं सा त्यक्त्वाभवन्मेधातिथेः सुता ॥ ११॥
कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम् ।
वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम् ॥ १२॥
एतन्मे श्रोष्यमाणाय विस्तरेण पितामह ।
कौतूहलमरुन्धत्याश्चरितं ब्रूहि तत्त्वतः ॥ १३॥
ब्रह्मोवाच ।
अहं स्वतनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः ।
कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ॥ १४॥
सन्ध्यायाश्चलितं चित्तं कामबाणविलोडितम् ।
ऋषीणामपि संरुद्धमानसानां महात्मनाम् ॥ १५॥
भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ।
आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ॥ १६॥
कामस्य तादृशं भावं मुनिमोहकरं मुहुः ।
दृष्ट्वा सन्ध्या स्वयं तत्रोपयमायातिदुःखिता ॥ १७॥
ततस्तु ब्रह्मणा शप्ते मदने च मया मुने ।
अन्तर्भूते मयि शिवे गते चापि निजास्पदे ॥ १८॥
आमर्षवशमापन्ना सा सन्ध्या मुनिसत्तम ।
मम पुत्री विचार्यैवं तदा ध्यानपराभवत् ॥ १९॥
ध्यायन्ती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ।
इदं विममृशे सन्ध्या तस्मिन्काले यथोचितम् ॥ २०॥
सन्ध्योवाच ।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।
अकार्षीत्सानुरागोऽयमभिलाषं पिता मम ॥ २१॥
पश्यतां मानसानां च मुनीनां भावितात्मनाम् ।
दृष्ट्वैव माममर्यादं सकाममभवन्मनः ॥ २२॥
ममापि मथितं चित्तं मदनेन दुरात्मना ।
येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ॥ २३॥
फलमेतस्य पापस्य मदनः स्वयमाप्तवान् ।
यस्तं शशाप कुपितः शम्भोरग्रे पितामहः ॥ २४॥
प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ।
तच्छोधनफलमहमाशु चेच्छामि साधनम् ॥ २५॥
यन्मां पिता भ्रातरश्च सकामामपरोक्षतः ।
दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः पापकृत्परा ॥ २६॥
ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् ।
पत्या इव स्वके ताते सर्वेषु सहजेष्वषि ॥ २७॥
करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ।
आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः ॥ २८॥
किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ २९॥
एतदर्थमहं कृत्वा तपः परमदारुणम् ।
मर्यादां स्थापयिष्यामि पश्चात्त्यक्ष्यामि जीवितम् ॥ ३०॥
यस्मिन् शरीरे पित्रा मे ह्यभिलाषः स्वयं कृतः ।
भ्रातृभिस्तेन कायेन किञ्चिन्नास्ति प्रयोजनम् ॥ ३१॥
मया येन शरीरेण तातेषु सहजेषु च ।
उद्भावितः कामभावो न तत्सुकृतसाधनम् ॥ ३२॥
इति सञ्चिन्त्य मनसा सन्ध्या शैलवरं ततः ।
जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ॥ ३३॥
अथ तत्र गतां ज्ञात्वा सन्ध्यां गिरिवरं प्रति ।
तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ॥ ३४॥
वसिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् ।
समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ॥ ३५॥
ब्रह्मोवाच ।
वसिष्ठ पुत्र गच्छ त्वं सन्ध्यां जातां मनस्विनीम् ।
तपसे धृतकामां च दीक्षस्वैनां यथाविधि ॥ ३६॥
मन्दाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान् ।
युष्मान्मां च तथात्मानं सकामां मुनिसत्तम ॥ ३७॥
अनुक्तमूर्त्तं तत्कर्म पूर्वमृत्युं विमृश्य सा ।
युष्माकमात्मनश्चापि प्राणान्सन्त्यक्तुमिच्छति ॥ ३८॥
अमर्यादेषु मर्यादां तपसा स्थापयिष्यति ।
तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे ॥ ३९॥
न भावं तपसस्तात सानुजानाति कञ्चन ।
तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु ॥ ४०॥
इदं रूपं परित्यज्य निजं रूपान्तरं मुने ।
परिगृह्यान्तिके तस्याः तपश्चर्यां निदर्शय ॥ ४१॥
इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् ।
नाप्नुयात्साऽथ किञ्चिद्वै ततो रूपान्तरं कुरु ॥ ४२॥
ब्रह्मोवाच ।
नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयायुतः ॥
तथास्त्विति च मां प्रोच्य ययौ सन्ध्यान्तिकं मुनिः । ४३॥
तत्र देवसरः पूर्णं गुणैर्मानससम्मितम् ।
ददर्श स वसिष्ठोऽथ सन्ध्यां तत्तीरगामपि ॥। ४४॥
तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।
उद्यदिन्दुसुनक्षत्रं प्रदोषे गगनं यथा ॥ ४५॥
मुनिर्दृष्ट्वाथ तां तत्र सुसम्भावां स कौतुकी ।
वीक्षाञ्चक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ॥ ४६॥
चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणाम्बुधिम् ।
यान्ती सा चैव ददृशे तेन सानुगिरेर्महत् ॥ ४७॥
निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी ।
यथा हिमवतो गङ्गा तथा गच्छति सागरम् ॥ ४८॥
तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।
सन्ध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठः सादरं तदा ॥ ४९॥
वसिष्ठ उवाच ।
किमर्थमागता भद्रे निर्जनं त्वं महीधरम् ।
कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ॥ ५०॥
एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् ।
वदनं पूर्णचन्द्राभं निष्चेष्टं वा कथं तव ॥ ५१॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तस्य वसिष्ठस्य महात्मनः ।
दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् ॥ ५२॥
शरीरधृग्ब्रह्मचर्यं विलसन्तं जटाधरम् ।
सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ॥ ५३॥
सन्ध्योवाच ।
यदर्थमागता शैलं सिद्धं तन्मे निबोध ह ।
तव दर्शनमात्रेण यन्मे सेत्स्यति वै विभो ॥ ५४॥
तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।
ब्रह्मणोऽहं सुता जाता नाम्ना सन्ध्येति विश्रुता ॥ ५५॥
यदि ते युज्यते सह्यं मां त्वं समुपदेशय ।
एतच्चिकीर्षितं गुह्यं नान्यं किञ्चन विद्यते ॥ ५६॥
अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।
चिन्तया परिशुष्येऽहं वेपते हि मनो मम ॥ ५७॥
ब्रह्मोवाच ।
आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः ।
स्वयं च सर्वकृत्यज्ञो नान्यत्किञ्चन पृष्टवान् ॥ ५८॥
अथ तां नियतात्मानं तपसेति धृतोद्यमाम् ।
प्रोवाच मनसा स्मृत्वा शङ्करं भक्तवत्सलम् ॥ ५९॥
वसिष्ठ उवाच ।
परमं यो महत्तेजः परमं यो महत्तपः ।
परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ॥ ६०॥
धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ।
तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ॥ ६१॥
मन्त्रेणानेन देवेशं शम्भुं भज शुभानने ।
तेन ते सकलावाप्तिर्भविष्यति न संशयः ॥ ६२॥
ॐ नमः शङ्करायेति ओमित्यन्तेन सन्ततम् ।
मौनं तपः समारम्भं तन्मे निगदतः शृणु ॥ ६३॥
स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् ।
द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ॥ ६४॥
तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् ।
एवं तपःसमाप्तौ वा षष्ठे काले क्रिया भवेत् ॥ ६५॥
एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा ।
सर्वाभीष्टप्रदा देवि सत्यं सत्यं न संशयः ॥ ६६॥
एवं चित्ते समुद्दिश्य कामं चिन्तय शङ्करम् ।
स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ॥ ६७॥
ब्रह्मोवाच ।
उपविश्य वसिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् ।
तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ॥ ६८॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं नाम पञ्चमोऽध्यायः ॥ २.२.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.६. षष्ठोऽध्यायः । सन्ध्याचरित्रवर्णनम् ।
ब्रह्मोवाच ।
सुतवर्य महाप्राज्ञ शृणु सन्ध्यातपो महत् ।
यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद् ध्रुवम् ॥ १॥
उपदिश्य तपोभावं वसिष्ठे स्वगृहं गते ।
सन्ध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २॥
ततः सानन्दमनसो वेषं कृत्वा तु यादृशम् ।
तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३॥
यथोक्तं तु वसिष्ठेन मन्त्रं तपसि साधनम् ।
मन्त्रेण तेन सद्भक्त्या पूजयामास शङ्करम् ॥ ४॥
एकान्तमनसस्तस्याः कुर्वन्त्याः सुमहत्तपः ।
शम्भौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५॥
प्रसन्नोऽभूत्तदा शम्भुस्तपसा तेन तोषितः ।
अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६॥
यद्रूपं चिन्तयन्ती सा तेन प्रत्यक्षतां गतः । ७॥
अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं प्रभुम् ।
प्रसन्नवदनं शान्तं मुमोदातीव शङ्करम् ॥ ८॥
ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ।
इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९॥
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ।
दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ १०॥
दिव्यज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा ।
प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११॥
सन्ध्योवाच ।
निराकारं ज्ञानगम्यं परं य-
न्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ।
अन्तश्चिन्त्यं योगिभिस्तस्य रूपं
तस्मै तुभ्यं लोककर्त्रे नमोऽस्तु ॥ १२॥
सर्वं शान्तं निर्मलं निर्विकारं
ज्ञानागम्यं स्वप्रकाशेऽविकारम् ।
खाध्वप्रख्यं ध्वान्तमार्गात्परस्ताद्-
रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३॥
एकं शुद्धं दीप्यमानं विनाजां
चिदानन्दं सहजं चाविकारि ।
नित्यानन्दं सत्यभूतिप्रसन्नं
यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४॥
विद्याकारोद्भावनीयं प्रभिन्नं
सत्त्वच्छन्दं ध्येयमात्मस्वरूपम् ।
सारं पारं पावनानां पवित्रं
तस्मै रूपं यस्य चैवं नमस्ते ॥ १५॥
यत्त्वाकारं शुद्धरूपं मनोज्ञं
रत्नाकल्पं स्वच्छकर्पूरगौरम् ।
इष्टाभीती शूलमुण्डं दधानं
हस्तैर्नमो योगयुक्ताय तुभ्यम् ॥ १६॥
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।
पुनः कालश्च रूपाणि यस्य तुभ्यं नमोऽस्तु ते ॥ १७॥
प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ।
तस्मादव्यक्तरूपाय शङ्कराय नमो नमः ॥ १८॥
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।
संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ १९॥
नमो नमः कारणकारणाय
दिव्यामृतज्ञानविभूतिदाय ।
समस्तलोकान्तरभूतिदाय
प्रकाशरूपाय परात्पराय ॥ २०॥
यस्यापरं नो जगदुच्यते पदात्
क्षितिर्दिशः सूर्य इन्दुर्मनोजः ।
बहिर्मुखा नाभितश्चान्तरिक्षं
तस्मै तुभ्यं शम्भवे मे नमोऽस्तु ॥ २१॥
त्वं परः परमात्मा च त्वं विद्या विविधा हरः ।
सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ॥ २२॥
यस्य नादिर्न मध्यं च नान्तमस्ति जगद्यतः ।
कथं स्तोष्यामि तं देवं वाङ्मनोऽगोचरं हरम् ॥ २३॥
यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ।
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ २४॥
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।
नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५॥
नमस्तुभ्यं महेशान नमस्तुभ्यं तपोमय ।
प्रसीद शम्भो देवेश भूयो भूयो नमोऽस्तु ते ॥ २६॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्याः संस्तुतः परमेश्वरः ।
सुप्रसन्नतरश्चाभूच्छङ्करो भक्तवत्सलः ॥ २७॥
अथ तस्याः शरीरं तु वल्कलाजिनसंयुतम् ।
परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८॥
हिमानीतर्जिताम्भोजसदृशं वदनं तदा ।
निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ॥ २९॥
महेश्वर उवाच ।
प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै ।
स्तवेन च शुभप्राज्ञे वरं वरय साम्प्रतम् ॥ ३०॥
येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ।
तत्करिष्ये च भद्रं ते प्रसन्नोऽहं तव व्रतैः ॥ ३१॥
ब्रह्मोवाच ।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ।
सन्ध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ॥ ३२॥
सन्ध्योवाच ।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ।
यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर ॥ ३३॥
यदि देव प्रसन्नोऽसि तपसा मम साम्प्रतम् ।
वृतस्तदायं प्रथमं वरो मम विधीयताम् ॥ ३४॥
उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन् भुवस्थले ।
न भवन्तु समेनैव सकामाः सम्भवन्तु वै ॥ ३५॥
यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ।
भविष्यामि तथा नान्या वर एको वृतो मया ॥ ३६॥
सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ।
यो मे पतिर्भवेन्नाथ सोऽपि मेऽतिसुहृच्च वै ॥ ३७॥
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।
गमिष्यति तदा नाशं स च क्लीबो भविष्यति ॥ ३८॥
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तस्याः शङ्करो भक्तवत्सलः ।
उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ॥ ३९॥
महेश्वर उवाच ।
शृणु देवि च सन्ध्ये त्वं त्वत्पापं भस्मतां गतम् ।
त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ॥ ४०॥
यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया ।
सुप्रसन्नेन तपसा तव सन्ध्ये वरेण हि ॥ ४१॥
प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।
तृतीयो यौवनो भावश्चतुर्थो वार्धकस्तथा ॥ ४२॥
तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः ।
सकामाः स्युर्द्वितीयान्ते भविष्यति क्वचित् क्वचित् ॥ ४३॥
तपसा तव मर्यादा जगति स्थापिता मया ।
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ ४४॥
त्वं च लोके सतीभावं तादृशं समवाप्नुहि ।
त्रिषु लोकेषु नान्यस्या यादृशं सम्भविष्यति ॥ ४५॥
यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।
स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ॥ ४६॥
पतिस्तव महाभागस्तपोरूपसमन्वितः ।
सप्तकल्पान्तजीवी च भविष्यति सह त्वया ॥ ४७॥
इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ।
अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ॥ ४८॥
अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः ।
तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ॥ ४९॥
स च मेधातिथेर्यज्ञे मुनेद्वादशवार्षिके ।
कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ॥ ५०॥
एतच्छैलोपत्यकायां चन्द्रभागानदीतटे ।
मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ५१॥
तत्र गत्वा स्वयं छन्दं मुनिभिर्नोपलक्षिता ।
मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ ५२॥
यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ।
तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ॥ ५३॥
यदा त्वं दारुणं सन्ध्ये तपश्चरसि पर्वते ।
यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ५४॥
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः ।
यास्ताः शीलसमापन्ना यथायोग्यं विवाहिताः ॥ ५५॥
तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ।
चन्द्रोऽन्याःसम्परित्यज्य रोहिण्यां प्रीतिमानभूत् ॥ ५६॥
तद्धेतोर्हि यदा चन्द्रः शप्तो दक्षेण कोपिना ।
तदा भवत्या निकटे सर्वे देवाः समागताः । ५७॥
न दृष्टाश्च त्वया सन्ध्ये ते देवा ब्रह्मणा सह ।
मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ॥ ५८॥
चन्द्रस्य शापमोक्षार्थं जाता चन्द्रनदी तदा ।
सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः ॥ ५९॥
तपसा तत्समो नास्ति न भूतो न भविष्यति ।
येन यज्ञः समारब्धो ज्योतिष्टोमो महाविधिः ॥ ६०॥
तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ।
इदानीं सुपवित्रा त्वं सम्पूर्णोऽस्तु पणस्तव ॥ ६१॥
एतन्मया स्थापितं स्वाकार्यार्थं भो तपस्विनि ।
तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ।
कृत्वा हितं च देवेशस्तत्रैवान्तरधीयत ॥ ६२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ २.२.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.७. सप्तमोऽध्यायः । सन्ध्याया अरुन्धतीनामप्राप्तीर्वसिष्ठेन सह विवाहश्च ।
ब्रह्मोवाच ।
वरं दत्त्वा मुने तस्मिन् शम्भावन्तर्हिते तदा ।
सन्ध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १॥
तत्र शम्भोः प्रसादेन न केनाप्युपलक्षिता ।
सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २॥
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ।
उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३॥
तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ।
पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४॥
समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।
हृष्टा शम्भुप्रसादेन सा विवेश विधेः सुता ॥ ५॥
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।
दग्धं हव्यमयं गन्धं तस्तार यदलक्षितम् ॥ ६॥
वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मण्डलम् ।
शुद्धं प्रवेशयामास शम्भोरेवाज्ञया पुनः ॥ ७॥
सूर्यो द्वयर्धं विभज्याथ तच्छरीरं तदा रथे ।
स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥ ८॥
तदूर्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर ।
प्रातःसन्ध्याभवत्सा तु अहोरात्रादिमध्यगा ॥ ९॥
तच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ॥
सा सायमभवत्सन्ध्या पितृप्रीतिप्रदा सदा ॥ १०॥
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ।
प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११॥
अस्तं गते ततः सूर्ये शोणपद्मनिभे सदा ।
उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ॥ १२॥
तस्याः प्राणास्तु मनसा शम्भुनाथ दयालुना ।
दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥
मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा ।
प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चनसुप्रभा ॥ १४॥
तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः ।
यज्ञार्थं तां तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५॥
अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः ।
शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६॥
न रुणद्धि यतो धर्मं सा कस्मादपि कारणात् ।
अतस्त्रिलोके विदितं नाम सम्प्राप तत्स्वयम् ॥ १७॥
यज्ञं समाप्य स मुनिः कृतकृत्यभाव-
मासाद्य सम्मदयुतस्तनयाप्रलम्भात् ।
तस्मिन्निजाश्रमपदे सह शिष्यवर्गै-
स्तामेव सन्ततमसौ दयते सुरर्षे ॥ १८॥
अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ।
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ॥ १९॥
सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ।
तापसारण्यमपि सा पवित्रमकरोत्सती ॥ २०॥
विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ।
वसिष्ठेन ह्यरुन्धत्या ब्रह्मविष्णुमहेश्वराः ॥ २१॥
तद्विवाहे महोत्साहो बभूव सुखवर्धनः ।
सर्वे सुराश्च मुनयः सुखमापुः परं मुने ॥ २२॥
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ।
सप्तनद्यः समुत्पन्नाः शिप्राद्याः सुपवित्रकाः ॥ २३॥
अरुन्धती महासाध्वी साध्वीनां प्रवरोत्तमा ।
वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ॥ २४॥
यस्याः पुत्राः समुत्पन्नाः श्रेष्ठाः शक्त्यादयः शुभाः ।
वसिष्ठं प्राप्य तं कान्तं संरेजे मुनिसत्तम ॥ २५॥
एवं सन्ध्याचरित्रं ते कथितं मुनिसत्तम ।
पवित्रं परमं दिव्यं सर्वकामफलप्रदम् ॥ २६॥
य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे अरुन्धतीवसिष्ठविवाहवर्णनं नाम सप्तमोऽध्यायः ॥ २.२.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.८. अष्टमोऽध्यायः । वसन्तस्वरूपवर्णनम् ।
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः ।
प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः ॥ १॥
नारद उवाच ।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।
धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः ॥ २॥
श्राविता सुकथा दिव्या शिवभक्तिविवर्धिनी ।
अरुन्धत्यास्तथा तस्याः स्वरूपायाः परे भवे ॥ ३॥
इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् ।
शिवस्य परपापघ्नं मङ्गलप्रदमुत्तमम् ॥ ४॥
गृहीतदारे कामे च हृष्टे तेषु गतेषु च ।
सन्ध्यायां किं तपस्तप्तुं गतायामभवत्ततः ॥ ५॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः ।
सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ६॥
ब्रह्मोवाच ।
शृणु नारद विप्रेन्द्र तदेव चरितं शुभम् ।
शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः ॥ ७॥
अहं विमोहितस्तात यदैवान्तर्हितः पुरा ।
अचिन्तयं सदाहं तच्छम्भुवाक्यविषार्दितः ॥ ८॥
चिन्तयित्वा चिरं चित्ते शिवमायाविमोहितः ।
शिवे चेर्ष्यामकार्षं हि तच्छृणुष्व वदामि ते ॥ ९॥
अथाहमगमं तत्र यत्र दक्षादयः स्थिताः ।
सरतिं मदनं दृष्ट्वा समदोऽहं हि किञ्चन ॥ १०॥
दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद ।
अवोचं वचनं सोऽहं शिवमायाविमोहितः ॥ ११॥
ब्रह्मोवाच ।
हे दक्ष हे मरीच्याद्याः सुताः शृणुत मद्वचः ।
श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये ॥ १२॥
कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ।
मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु ॥ १३॥
तेन दुःखाभितप्तोऽहं लभेऽहं शर्म न क्वचित् ।
यथा गृह्णातु कान्तां स स यत्नः कार्य एव हि ॥ १४॥
यथा गृह्णातु कान्तां स सुखी स्यां दुःखवर्जितः ।
दुर्लभः स तु कामो मे परं मन्ये विचारतः ॥ १५॥
कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ।
मुनीनां पुरतः कस्मात्स कान्तां सङ्ग्रहीष्यति ॥ १६॥
का वा नारी त्रिलोकेऽस्मिन् या भवेत्तन्मनःस्थिता ।
योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ॥ १७॥
मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने ।
नितान्तयोगी रामाणां नामापि सहते न सः ॥ १८॥
परिग्रहं विना चैव हरेण कथयादिना ।
मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता ॥ १९॥
भुवि केचिद्भविष्यन्ति मम वध्या महासुराः ।
वध्याः केचिद्धरेर्नूनं केचिच्छम्भोरुपायतः ॥ २०॥
संसारविमुखे शम्भौ तथैकान्तविरागिणि ।
अस्मादृते न कर्मान्यत् करिष्यति न संशयः ॥ २१॥
इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च ।
सरतिं मदनं तत्र सानन्दमगदं ततः ॥ २२॥
ब्रह्मोवाच ।
मत्पुत्रवर काम त्वं सर्वथा सुखदायकः ।
मद्वचः शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल ॥ २३॥
अनया सहचारिण्या राजसे त्वं मनोभव ।
एषा च भवता पत्या युक्ता संशोभते भृशम् ॥ २४॥
यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा ।
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ २५॥
तथैव युवयोः शोभा दाम्पत्यं च पुरस्कृतम् ।
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥ २६॥
जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनाम् ।
यथाशु सुमनः शम्भुः कुर्याद्दारप्रतिग्रहम् ॥ २७॥
विजने स्निग्धदेशे तु पर्वतेषु सरःसु च ।
यत्र यत्र प्रयातीशस्तत्र तत्रानया सह ॥ २८॥
मोहय त्वं यतात्मानं वनिताविमुखं हरम् ।
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ २९॥
भूते हरे सानुरागे भवतोऽपि मनोभव ।
शापोपशान्तिर्भविता तस्मादात्महितं कुरु ॥ ३०॥
सानुरागो वरारोहां यदीच्छति महेश्वरः ।
तदा भवोऽपि योग्यार्यस्त्वां च सन्तारयिष्यति ॥ ३१॥
तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने ।
विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ ३२॥
ब्रह्मोवाच ।
इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः ।
उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम् ॥ ३३॥
मन्मथ उवाच ।
करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम् ।
किं तु योषिन्ममास्त्रं मे तत्कान्तां भगवन् सृज ॥ ३४॥
मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् ।
कर्तव्यमधुना धातस्तत्रोपायं परं कुरु ॥ ३५॥
ब्रह्मोवाच ।
एवंवादिनि कन्दर्पे धाताहं स प्रजापतिः ।
कया सम्मोहनीयोसाविति चिन्तामयामहम् ॥ ३६॥
चिन्ताविष्टस्य मे तस्य निःश्वासो यो विनिःसृतः ।
तस्माद्वसन्तः सञ्जातः पुष्पव्रातविभूषितः ॥ ३७॥
शोणराजीवसङ्काशः फुल्लतामरसेक्षणः ।
सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ ३८॥
शार्ङ्गवच्चरणावर्तः श्यामकुञ्चितमूर्धजः ।
सन्ध्यांशुमालिसदृशः कुण्डलद्वयमण्डितः ॥ ३९॥
प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः ।
कम्बुग्रीवः सुविस्तीर्णहृदयः पीनसन्मुखः ॥ ४०॥
सर्वाङ्गसुन्दरः श्यामः सम्पूर्णः सर्वलक्षणैः ।
दर्शनीयतमः सर्वमोहनः कामवर्धनः ॥ ४१॥
एतादृशे समुत्पन्ने वसन्ते कुसुमाकरे ।
ववौ वायुः सुसुरभिः पादपा अपि पुष्पिताः ॥ ४२॥
पिका विनेदुः शतशः पञ्चमं मधुरस्वनाः ।
प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः ॥ ४३॥
तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् ।
हिरण्यगर्भो मदनमगदं मधुरं वचः ॥ ४४॥
ब्रह्मोवाच ।
एवं स मन्मथनिभः सदा सहचरोऽभवत् ।
आनुकूल्यं तव कृते सर्वं देवः करिष्यति ॥ ४५॥
यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति ।
तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ४६॥
वसतेरन्तहेतुत्वाद्वसन्ताख्यो भवत्वयम् ।
तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥ ४७॥
असौ वसन्तशृङ्गारो वासन्तो मलयानिलः ।
भवेत्तु सुहृदो भावः सदा त्वद्वशवर्तिनः ॥ ४८॥
विव्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा ।
रत्याः कुर्वन्तु सौहृद्यं सुहृदस्ते यथा तव ॥ ४९॥
एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् ।
मोहयस्व महादेवं रत्या सह महोद्यमः ॥ ५०॥
अहं तां कामिनीं तात भावयिष्यामि यत्नतः ।
मनसा सुविचार्यैव या हरं मोहयिष्यति ॥ ५१॥
ब्रह्मोवाच ।
एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः ।
ननाम चरणौ मेऽपि स पत्नीसहितस्तदा ॥ ५२॥
दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च ।
यत्रात्मा गतवान् शम्भुस्तत्स्थानं मन्मथो ययौ ॥ ५३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखण्डे वसन्तस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥ २.२.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.९. नवमोऽध्यायः । कामप्रभाव मारगणोत्पत्तिश्च ।
ब्रह्मोवाच ।
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ।
चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥ १॥
गत्वा तत्र महावीरो मन्मथो मोहकारकः ।
स्वप्रभावं ततानाशु मोहयामास प्राणिनः ॥ २॥
वसन्तोऽपि प्रभावं स्वं चकार हरमोहनम् ।
सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥ ३॥
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ।
जीवाः सर्वे वशं याताः सगणेशः शिवो न हि ॥ ४॥
समधोर्मदनस्यासन्प्रयासा निष्फला मुने ।
जगाम स निजस्थानं निवृत्य विमदस्तदा ॥ ५॥
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ।
उवाच मदनो मां चोदासीनो विमदो मुने ॥ ६॥
काम उवाच ।
ब्रह्मन् शम्भुर्मोहनीयो न वै योगपरायणः ।
न शक्तिर्मम नान्यस्य तस्य शम्भोर्हि मोहने ॥ ७॥
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ।
रत्या सहाखिलास्ते च निष्फला अभवन् शिवे ॥ ८॥
शृणु ब्रह्मन्यथास्माभिः कृता हि हरमोहने ।
प्रयासान् विविधाँस्तात गदतस्तान्मुने मम ॥ ९॥
यदा समाधिमाश्रित्य स्थितः शम्भुर्नियन्त्रितः ।
तदा सुगन्धिवातेन शीतलेनातिवेगिना ॥ १०॥
उद्वेजयामि रुद्रं स्म नित्यं मोहनकारिणा ।
प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥ ११॥
स्वसायकांस्तथा पञ्च समादाय शरासनम् ।
तस्याभितो भ्रमतस्तु मोहयंस्तद्गणानहम् ॥ १२॥
मम प्रवेशमात्रेण सुवश्याः सर्वजन्तवः ।
अभवद्विकृतो नैव शङ्करः सगणः प्रभुः ॥ १३॥
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ।
तत्रागतस्तदैवाहं सरतिः समधुर्विधे ॥ १४॥
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ।
कैलासं वा यदा यातस्तत्राहं गतवांस्तदा ॥ १५॥
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ।
तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥ १६॥
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ।
नानाभावानकार्षीच्च दाम्पत्यक्रममुत्तमम् ॥ १७॥
नीलकण्ठं महादेवं सगणं तत्पुरःस्थिताः ।
अकार्षुर्मोहितं भावं मृगाश्च पक्षिणस्तथा ॥ १८॥
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ।
विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥ १९॥
नालभद् विवरं तस्मिन् कदाचिदपि मच्छरः ।
सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥ २०॥
मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ।
तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥ २१॥
चम्पकान्केशरान्बालान्कारणान्पाटलांस्तथा ।
नागकेशरपुन्नागान्किंशुकान्केतकान् वरान् ॥ २२॥
मालतीमल्लिकापर्णभारान्कुरबकांस्तथा ।
उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३॥
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ।
यत्नात्सुगन्धीन्यकरोदतीव गिरिशाश्रमे ॥ २४॥
लताः सर्वाः सुमनसो धत्तूराङ्कुरसञ्चयाः ।
वृक्षाङ्कं चिरभावेन वेष्टयन्ति स्म तत्र च ॥ २५॥
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगन्धिसमीरणैः ।
दृष्ट्वा कामवशं याता मुनयोऽपि परे किमु ॥ २६॥
एवं सत्यपि शम्भोर्न दृष्टं मोहस्य कारणम् ।
भावमात्रमकार्षीन्नो कोपो मय्यपि शङ्करः ॥ २७॥
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ।
विमुखोऽहं शम्भुमोहान्नियतं ते वदाम्यहम् ॥ २८॥
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ।
शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥ २९॥
ज्वलदग्निप्रकाशाक्षं जटाराशिकरालिनम् ।
शृङ्गिणं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ ३०॥
ब्रह्मोवाच ।
मनोभववचश्चेत्थं श्रुत्वाहं चतुराननः ।
विवक्षुरपि नावोचं चिन्ताविष्टोऽभवं तदा ॥ ३१॥
मोहनेऽहं समर्थो न हरस्येति मनोभवः ।
वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥ ३२॥
निश्श्वासमारुता मे हि नानारूपा महाबलाः ।
जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः ॥ ३३॥
अवादयन्त ते सर्वे नानावाद्यानसङ्ख्यकान् ।
पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥ ३४॥
अथ ते मम निःश्वाससम्भवाश्च महागणाः ।
मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥ ३५॥
तेषां तु वदतां तत्र मारयच्छेदयेति माम् ।
वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥ ३६॥
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ।
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७॥
काम उवाच ।
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ।
उत्पन्नाः क इमे वीरा विकराला भयङ्कराः ॥ ३८॥
किं कर्मैते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे ।
किन्नामधेया एते तद्वद तत्र नियोजय ॥ ३९॥
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ।
मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥ ४०॥
ब्रह्मोवाच ।
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ।
तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥ ४१॥
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ।
मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ॥ ४२॥
सदैव विघ्नं जन्तूनां करिष्यन्ति गणा इमे ।
विना निजार्चनं काम नानाकामरतात्मनाम् ॥ ४३॥
तवानुगमनं कर्म मुख्यमेषां मनोभव ।
सहायिनो भविष्यन्ति सदा तव न संशयः ॥ ४४॥
यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा ।
गन्तारस्तत्र तत्रैते सहायार्थं तदा तदा ॥ ४५॥
चित्तभ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् ।
ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यन्ति सर्वथा ॥ ४६॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचो मे हि सरतिः स मनोभवः ।
किञ्चित्प्रसन्नवदनो बभूव मुनिसत्तम ॥ ४७॥
श्रुत्वा तेऽपि गणाः सर्वे मदनं मां च सर्वतः ।
परिवार्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥ ४८॥
अथ ब्रह्मा स्मरं प्रीत्यागदं मे कुरु शासनम् ।
एभिः सहैव गच्छ त्वं पुनश्च हरमोहने ॥ ४९॥
मन आधाय यत्नानि कुरु मारगणैः सह ।
मोहो भवेद्यथा शम्भोर्दारग्रहणहेतवे ॥ ५०॥
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः ।
देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥ ५१॥
काम उवाच ।
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ।
तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥ ५२॥
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ।
गमिष्यामि पुनस्तत्र सदारोऽहं त्वदाज्ञया ॥ ५३॥
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ।
भस्म कुर्यान्न मे देहमिति शङ्कास्ति मे विधे ॥ ५४॥
इत्युक्त्वा समधुः कामः सरतिः सभयस्तदा ।
ययौ मारगणैः सार्धं शिवस्थानं मुनीश्वर ॥ ५५॥
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ।
बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥ ५६॥
उपायं स चकाराति तत्र मारगणोऽपि च ।
मोहोऽभवन्न वै शम्भोरपि कश्चित्परात्मनः ॥ ५७॥
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ।
आसीन्मारगणोऽगर्वोऽहर्षो मेऽपि पुरस्थितः ॥ ५८॥
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ।
स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥ ५९॥
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ।
नाभवत्तस्य मोहोऽपि कश्चिद्ध्यानरतात्मनः ॥ ६०॥
न दग्धा मे तनुश्चैव तत्र तेन दयालुना ।
कारणं पूर्वपुण्यं च निर्विकारः स वै प्रभुः ॥ ६१॥
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ।
परोपायं कुरु तदा विगर्व इति मे मतिः ॥ ६२॥
ब्रह्मोवाच ।
इत्युक्त्वा सपरीवारो ययौ कामः स्वमाश्रमम् ।
प्रणम्य मां स्मरन् शम्भुं गर्वदं दीनवत्सलम् ॥ ६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ २.२.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१०. दशमोऽध्यायः । ब्रह्मविष्णुसंवादः ।
नारद उवाच ।
ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः ।
कथितं सुचरित्रं ते शङ्करस्य परात्मनः ॥ १॥
निजाश्रमे गते कामे सगणे सरतौ ततः ।
किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ॥ २॥
ब्रह्मोवाच ।
शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः ।
यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ॥ ३॥
निजाश्रमं गते कामे परिवारसमन्विते ।
यद् बभूव तदा जातं तच्चरित्रं निबोध मे ॥ ४॥
नष्टोऽभून्नारद मदो विस्मयोऽभूच्च मे हृदि ।
निरानन्दस्य च मुनेऽपूर्णे निजमनोरथे ॥ ५॥
अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् ।
निर्विकारो जितात्मा स शङ्करो योगतत्परः ॥ ६॥
इत्थं विचार्य बहुधा तदाहं विमदो मुने ।
हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ॥ ७॥
अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः ।
तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा ॥ ८॥
चतुर्भुजोऽरविन्दाक्षः शङ्खपद्मगदाधरः ।
लसत्पीतपटः श्यामतनुर्भक्तप्रियो हरिः ॥ ९॥
तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः ।
अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा ॥ १०॥
हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् ।
दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ॥ ११॥
हरिरुवाच ।
विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक ।
किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ॥ १२॥
किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना ।
शमयिष्यामि तत्सर्वं नात्र कार्या विचारणा ॥ १३॥
ब्रह्मोवाच ।
इति विष्णोर्वचः श्रुत्वा किञ्चिदुच्छ्वसिताननः ।
अवोचं वचनं विष्णुं प्रणम्य सुकृताञ्जलिः ॥ १४॥
देवदेव रमानाथ मद्वार्तां शृणु मानद ।
श्रुत्वा च करुणां कृत्वा हर दुःखं कमावह ॥ १५॥
रुद्रसम्मोहनार्थं हि कामं प्रेषितवानहम् ।
परिवारयुतं विष्णो समारमधुबान्धवम् ॥ १६॥
चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते ।
नाभवत्तस्य सम्मोहो योगिनः समदर्शिनः ॥ १७॥
इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः ।
विज्ञाताखिलदो ज्ञानी शिवतत्त्वविशारदः ॥ १८॥
विष्णुरुवाच ।
कस्माद्धेतोरिति मतिस्तव जाता पितामह ।
सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ॥ १९॥
ब्रह्मोवाच ।
शृणु तात चरित्रं तत् तव माया विमोहिनी ।
तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ॥ २०॥
ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः ।
आसं तच्छृणु देवेश वदामि तव शासनात् ॥ २१॥
सृष्टिप्रारम्भसमये दश पुत्रा हि जज्ञिरे ।
दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ॥ २२॥
धर्मो वक्षःस्थलात्कामो मनसोऽन्योऽपि देहतः ।
जातास्तत्र सुतां दृष्ट्वा मम मोहोऽभवद्धरे ॥ २३॥
कुदृष्ट्या तां समद्राक्षं तव मायाविमोहितः ।
तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ॥ २४॥
धिक्कारं कृतवान् सर्वान् निजं मत्वा परं प्रभुम् ।
ज्ञानिनं योगिनं नाथं भोगिनं विजितेन्द्रियम् ॥ २५॥
पुत्रो भूत्वा मम हरेऽनिन्दन्मां च समक्षतः ।
इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ॥ २६॥
गृह्णीयाद्यदि पत्नीं स स्यां सुखी नष्टदुःखधीः ।
एतदर्थं समायातः शरणं तव केशव ॥ २७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः ।
विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम् ॥ २८॥
विष्णुरुवाच ।
विधे शृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् ।
सर्वं वेदागमादीनां सम्मतं परमार्थतः ॥ २९॥
महामूढमतिश्चाद्य सञ्जातोऽसि कथं विधे ।
वेदवक्तापि निखिललोककर्ता हि दुर्मतिः ॥ ३०॥
जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् ।
किं ब्रुवन्त्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया ॥ ३१॥
रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् ।
वेदवक्तापि विज्ञानं विस्मृतं तेऽखिलं विधे ॥ ३२॥
शङ्करं सुरसामान्यं मत्वा द्रोहं करोषि हि ।
सुबुद्धिर्विगता तेऽद्याविर्भूता कुमतिस्तथा ॥ ३३॥
तत्त्वसिद्धान्तमाख्यातं शृणु सद्बुद्धिमावह ।
यथार्थं निगमाख्यातं निर्णीय भवकारकम् ॥ ३४॥
शिवः सर्वस्वकर्ता हि भर्ता हर्ता परात्परः ।
परब्रह्म परेशश्च निर्गुणो नित्य एव च ॥ ३५॥
अनिर्देश्यो निर्विकारः परमात्माद्वयोऽच्युतः ।
अनन्तोऽन्तकरः स्वामी व्यापकः परमेश्वरः ॥ ३६॥
सृष्टिस्थितिविनाशानां कर्ता त्रिगुणभाग्विभुः ।
ब्रह्मविष्णुमहेशाख्यो रजः सत्त्वतमः परः ॥ ३७॥
मायाभिन्नो निरीहश्च मायो मायाविशारदः ।
सगुणोऽपि स्वतन्त्रश्च निजानन्दोऽविकल्पकः ॥ ३८॥
आत्मारामो हि निर्द्वन्द्वो भक्ताधीनःसुविग्रहः ।
योगी योगरतो नित्यं योगमार्गप्रदर्शकः ॥ ३९॥
गर्वापहारी लोकेशः सर्वदा दीनवत्सलः ।
एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हि तम् ॥ ४०॥
ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै ।
भज सर्वात्मना शम्भुं सन्तुष्टः शं विधास्यति ॥ ४१॥
गृह्णीयाच्छङ्करः पत्नीं विचारो हृदि चेत्तव ।
शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन् ॥ ४२॥
कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि ।
सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति ॥ ४३॥
कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा ।
कस्यचित्तनया लोके सा तत्पत्नी भवेद् ध्रुवम् ॥ ४४॥
दक्षमाज्ञापय ब्रह्मन् तपः कुर्य्यात्प्रयत्नतः ।
तामुत्पादयितुं पत्नीं शिवार्थं भक्तितः स्वतः ॥ ४५॥
भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ ।
स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ ॥ ४६॥
ब्रह्मोवाच ।
इत्युक्त्वा तत्क्षणं मेशः शिवं सस्मार स्वप्रभुम् ।
कृपया तस्य सम्प्राप्य ज्ञानमूचे च मां ततः ॥ ४७॥
विष्णुरुवाच ।
विधे स्मर पुरोक्तं यद्वचनं शङ्करेण च ।
प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया ॥ ४८॥
विस्मृतं तव तत्सर्वं धन्या या शाम्भवी परा ।
तया सम्मोहितं सर्वं दुर्विज्ञेया शिवं विना ॥ ४९॥
यदा हि सगुणो जातः स्वेच्छया निर्गुणः शिवः ।
मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत् ॥ ५०॥
उपादिदेश त्वां शम्भुः सृष्टिकार्यं तदा प्रभुः ।
तत्पालनं च मां ब्रह्मन् सोमः सूतिकरोऽव्ययः ॥ ५१॥
तदा वां वेश्म सम्प्राप्तौ साञ्जली नतमस्तकौ ।
भव त्वमसि सर्वेशोऽवतारी गुणरूपधृक् ॥ ५२॥
इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः ।
दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः ॥ ५३॥
मद्रूपं परमं विष्णो ईदृशं ह्यङ्गतो विधेः ।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ५४॥
पूर्णरूपः स मे पूज्यः सदा वां सर्वकामकृत् ।
लयकर्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत् ॥ ५५॥
त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः ।
उमाया अपि रूपाणि भविष्यन्ति त्रिधा सुतौ ॥ ५६॥
लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती ।
पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति ॥ ५७॥
विष्णुरुवाच ।
इत्युक्त्वान्तर्हितो जातः कृपां कृत्वा महेश्वरः ।
अभूतां सुखिनावावां स्वस्वकार्यपरायणौ ॥ ५८॥
समयं प्राप्य सस्त्रीकावावां ब्रह्मन्न शङ्करः ।
अवतीर्णः स्वयं रुद्रनामा कैलाससंश्रयः ॥ ५९॥
अवतीर्णा शिवाभूत्सा सती नाम प्रजेश्वर ।
तदुत्पादनहेतोर्हि यत्नोऽतः कार्य एव वै ॥ ६०॥
इत्युक्त्वान्तर्दधे विष्णुः कृत्वा स करुणां पराम् ।
प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः ॥ ६१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः ॥ २.२.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.११. एकादशोऽध्यायः । दुर्गास्तुतिर्ब्रह्मवरप्राप्तिश्च ।
नारद उवाच ।
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर ।
गते विष्णौ किमभवदकार्षीत्किं विधे भवान् ॥ १॥
ब्रह्मोवाच ।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ।
विष्णौ गते भगवति यदकार्षमहं खलु ॥ २॥
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ।
स्तौमि देवीं जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३॥
सर्वत्र व्यापिनीं नित्यां निरालम्बां निराकुलाम् ।
त्रिदेवजननीं वन्दे स्थूलस्थूलामरूपिणीम् ॥ ४॥
त्वं चितिः परमानन्दा परमात्मस्वरूपिणी ।
प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५॥
एवं संस्तूयमाना सा योगनिद्रा मया मुने ।
आविर्बभूव प्रत्यक्षं देवर्षे चण्डिका मम ॥ ६॥
स्निग्धाञ्जनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ।
सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७॥
शरदिन्द्वानना शुभ्रचन्द्रभाला त्रिलोचना ।
सर्वावयवरम्या च कमलाङ्घ्रिनखद्युतिः ॥ ८॥
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ।
भक्त्या विनततुङ्गांशः प्रास्तवं सुप्रणम्य वै ॥ ९॥
ब्रह्मोवाच ।
नमो नमस्ते जगतःप्रवृत्ति-
निवृत्तिरूपे स्थितिसर्गरूपे ।
चराचराणां भवती सुशक्तिः
सनातनी सर्वविमोहनीति ॥ १०॥
या श्रीः सदा केशवमूर्तिमाला
विश्वम्भरा या सकलं बिभर्ति ।
या त्वं पुरा सृष्टिकरी महेशी
हर्त्री त्रिलोकस्य परा गुणेभ्यः ॥ ११॥
या योगिनां वै महिता मनोज्ञा
सा त्वं नमस्ते परमाणुसारे ।
यमादिपूते हृदि योगिनां या
या योगिनां ध्यानपथे प्रतीता ॥ १२॥
प्रकाशशुद्ध्यादियुता विरागा
सा त्वं हि विद्या विविधावलम्बा ।
कूटस्थमव्यक्तमनन्तरूपं
त्वं बिभ्रती कालमयी जगन्ति ॥ १३॥
विकारबीजं प्रकरोषि नित्यं
गुणान्विता सर्वजनेषु नूनम् ।
त्वं वै गुणानां च शिवे त्रयाणां
निदानभूता च ततः परासि ॥ १४॥
सत्वं रजस्तामस इत्यमीषां
विकारहीना सभुवस्तुरीया ।
सा त्वं गुणानां जगदेकहेतुं
ब्रह्मान्तरारम्भसि चात्सि पासि ॥ १५॥
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।
जगद्धिताय सततं शिवपत्नि नमोऽस्तु ते ॥ १६॥
इत्याकर्ण्य वचः सा मे काली लोकविभाविनी ।
प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥ १७॥
देव्युवाच ।
ब्रह्मन् किमर्थं भवता स्तुताहमवधारय ।
उच्यतां यदि धृष्योऽसि तच्छीघ्रं पुरतो मम ॥ १८॥
प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ।
तस्मात्त्वं वाञ्छितं ब्रूहि या करिष्यामि भाविता ॥ १९॥
ब्रह्मोवाच ।
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ।
मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥ २०॥
यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ।
शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥ २१॥
तपश्चरति भूतेश एक एवाविकल्पकः ।
अपत्नीको निर्विकारो न द्वितीयां समीहते ॥ २२॥
तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ।
त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ॥ २३॥
तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी ।
सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव ॥ २४॥
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् ।
आमोदयसि विश्वस्य हितायैतं तथा कुरु ॥ २५॥
कान्ताभिलाषमात्रं मे दृष्ट्वानिन्दद् वृषध्वजः ।
स कथं वनितां देवी स्वेच्छया सङ्ग्रहीष्यति ॥ २६॥
हरे गृहीतकान्ते तु कथं सृष्टिः शुभावहा ।
आद्यन्तमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥ २७॥
इति चिन्तापरो नाहं त्वदन्यं शरणं हितम् ।
कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे ॥ २८॥
न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः ।
न चाप्यहं जगन्मातर्नान्यस्त्वां कोऽपि वै विना ॥ २९॥
तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ।
तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ॥ ३०॥
दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः ।
त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥ ३१॥
ब्रह्मोवाच
इत्याकर्ण्य वचः सा चिन्तामाप शिवा तदा ।
उवाच च स्वमनसि विस्मिता जगदम्बिका ॥ ३२॥
देव्युवाच ।
अहो सुमहदाश्चर्यं वेदवक्ताऽपि विश्वकृत् ।
महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥ ३३॥
विधेश्चेतसि सञ्जातो महामोहोऽसुखावहः ।
यद्वरं निर्विकारं तं सम्मोहयितुमिच्छति ॥ ३४॥
हरमोहवरं मत्तः समिच्छति विधिस्त्वयम् ।
को लाभोऽस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥ ३५॥
परब्रह्माख्यो यः शम्भुर्निर्गुणो निर्विकारवान् ।
तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥ ३६॥
स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ।
भक्तोद्धारणहेतोर्हि स्वतन्त्रः परमेश्वरः ॥ ३७॥
हरेर्विधेश्च स स्वामी शिवायूनो न कर्हिचित् ।
योगादरो ह्यमायस्थो मायेशः परतः परः ॥ ३८॥
मत्वा तमात्मजं ब्रह्मा सामान्यसुरसन्निभम् ।
इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥ ३९॥
न दद्याच्चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ।
किं कुर्यां येन न विभुः क्रुद्धः स्यान्मे महेश्वरः ॥ ४०॥
ब्रह्मोवाच ।
विचार्येत्थं महेशं तं सस्मार मनसा शिवा ।
प्राप्यानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥ ४१॥
दुर्गोवाच ।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।
मदृते मोहयित्रीह शङ्करस्य न विद्यते ॥ ४२॥
हरेऽगृहीतदारे तु सृष्टिर्नैषा सनातनी ।
भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥ ४३॥
ममापि मोहने यन्नो विद्यतेऽस्य महाप्रभोः ।
त्वद्वाक्याद् द्विगुणो मेऽद्य प्रयत्नोऽभूत्स निर्भरः ॥ ४४॥
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।
हरः करिष्यति विधे स्वयमेव विमोहितः ॥ ४५॥
सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।
भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया ॥ ४६॥
यथा सोऽपि मयैवेह वशवर्ती सदा भवेत् ।
तथा यत्नं करिष्यामि तस्यैव कृपया विधे ॥ ४७॥
उत्पन्ना दक्षजायायां सतीरूपेण शङ्करम् ।
अहं सभाजयिष्यामि लीलया तं पितामह ॥ ४८॥
यथान्यजन्तुरवनौ वर्तते वनितावशे ।
मद्भक्त्या स हरो वामावशवर्ती भविष्यति ॥ ४९॥
ब्रह्मोवाच ।
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका ।
वीक्ष्यमाणा मया तात तत्रैवान्तर्दधे ततः ॥ ५०॥
तस्यामन्तर्हितायां तु सोऽहं लोकपितामहः ।
अगमं यत्र स्वसुतास्तेभ्यः सर्वमवर्णयम् ॥ ५१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनं नामैकादशोऽध्यायः ॥ २.२.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१२. द्वादशोऽध्यायः । दक्षवरप्राप्तिः ।
नारद उवाच ।
ब्रह्मन् शम्भुवर प्राज्ञ सम्यगुक्तं त्वयानघ ।
शिवाशिवचरित्रं च पावितं जन्म मे हितम् ॥ १॥
इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ।
कं वरं प्राप देव्यास्तु कथं सा दक्षजाभवत् ॥ २॥
ब्रह्मोवाच ।
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोऽखिलैः ।
यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ॥ ३॥
मदाज्ञप्तः सुधीर्दक्षः समाधाय महाधिपः ।
अयाद्यष्टुं च तां देवीं तत्कामो जगदम्बिकाम् ॥ ४॥
क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ।
तपस्तप्तुं समारेभे द्रष्टुं प्रत्यक्षतोऽम्बिकाम् ॥ ५॥
दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ।
तपश्चचार नियतः संयतात्मा दृढव्रतः ॥ ६॥
मारुताशी निराहारो जलाहारी च पर्णभुक् ।
एवं निनाय तं कालं चिन्तयन्तां जगन्मयीम् ॥ ७॥
दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ।
नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ॥ ८॥
ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ।
जगदम्बां पूजयतः प्रत्यक्षमभवच्छिवा ॥ ९॥
ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ।
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ॥ १०॥
सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ।
वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ॥ ११॥
आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।
तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् । १२॥
दक्ष उवाच ।
जगदबं महामाये जगदीशे महेश्वरि ।
कृपां कृत्वा नमस्तेऽस्तु दर्शितं स्ववपुर्मम ॥ १३॥
प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणि ।
प्रसीद भक्तवरदे जगन्माये नमोऽस्तु ते ॥ १४॥
ब्रह्मोवाच ।
इति स्तुता महेशानी दक्षेण प्रयतात्मना ।
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने ॥ १५॥
देव्युवाच ।
तुष्टाहं दक्ष भवतः सद्भक्त्या ह्यनया भृशम् ।
वरं वृष्णीष्व स्वाभीष्टं नादेयं विद्यते तव ॥ १६॥
ब्रह्मोवाच ।
जगदम्बावचः श्रुत्वा ततो दक्षः प्रजापतिः ।
सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ॥ १७॥
दक्ष उवाच ।
जगदम्ब महामाये यदि त्वं वरदा मम ।
मद्वचः शृ णु सुप्रीत्या मम कामं प्रपूरय ॥ १८॥
मम स्वामी शिवो यो हि स जातो ब्रह्मणः सुतः ।
रुद्रनामा पूर्णरूपावतारः परमात्मनः ॥ १९॥
तवावतारो नो जातः का तत्पत्नी भवेदतः ।
तं मोहय महेशानमवतीर्य क्षितौ शिवे ॥ २०॥
त्वदृते तस्य मोहाय न शक्तान्या कदाचन ।
तस्मान्मम सुता भूत्वा हरजाया भवाधुना ॥ २१॥
इत्थं कृत्वा सुलीलां च भव त्वं हरमोहिनी ।
ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ॥ २२॥
स्वार्थं न केवलं मेऽस्ति सर्वेषां जगतामपि ।
ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ॥ २३॥
ब्रह्मोवाच ।
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ।
प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम् ॥ २४॥
देव्युवाच ।
तात प्रजापते दक्ष शृणु मे परमं वचः ।
सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा ॥ २५॥
अहं तव सुता दक्ष त्वज्जायायां महेश्वरी ।
भविष्यामि न सन्देहस्त्वद्भक्तिवशवर्तिनी ॥ २६॥
तथा यत्नं करिष्यामि तपः कृत्वा सुदुःसहम् ।
हरजाया भविष्यामि तद्वरं प्राप्य चानघ ॥ २७॥
नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ।
विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ॥ २८॥
अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ।
मम स्वामी स वै शम्भुर्नानारूपधरोऽपि ह ॥ २९॥
वरप्रभावाद् भ्रुकुटेरवतीर्णो विधेः स च ।
अहं तद्वरतोऽपीहावतरिष्ये तदाज्ञया ॥ ३०॥
गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ।
हरजाया भविष्यामि भूत्वा ते तनयाचिरात् ॥ ३१॥
इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ।
पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ॥ ३२॥
परन्तु प्रण आधेयो मनसा ते प्रजापते ।
श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ॥ ३३॥
यदा भवान् मयि पुनर्भवेन्मन्दादरस्तदा ।
देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम् ॥ ३४॥
एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।
अहं तव सुता भूत्वा भविष्यामि हरप्रिया ॥ ३५॥
ब्रह्मोवाच ।
एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ॥
अन्तर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः । ३६॥
अन्तर्हितायां दुर्गायां स दक्षोऽपि निजाश्रमम् ।
जगाम च मुदं लेभे भविष्यति सुतेति सा ॥ ३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षवरप्राप्तिवर्णनं नाम द्वादशोऽध्यायः ॥ २.२.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१३. त्रयोदशोऽध्यायः । दक्षसृष्टौ नारदशापः ।
नारद उवाच ।
ब्रह्मन् विधे महाप्राज्ञ वद नो वदतां वर ।
दक्षे गृहं गते प्रीत्या किमभूत्तदनन्तरम् ॥ १॥
ब्रह्मोवाच ।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ।
सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २॥
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।
दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३॥
दक्ष उवाच ।
ब्रह्मंस्तात प्रजानाथ वर्धन्ते न प्रजाः प्रभो
मया विरचिताः सर्वास्तावत्यो हि स्थिताः खलु ॥ ४॥
किं करोमि प्रजानाथ वर्धेयुः कथमात्मना ।
तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५॥
ब्रह्मोवाच ।
दक्ष प्रजापते तात शृणु मे परमं वचः ।
तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६॥
या च पञ्चजनस्याङ्गसुता रम्या प्रजापतेः ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७॥
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।
तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८॥
ब्रह्मोवाच
ततःसमुत्पादयितुं प्रजा मैथुनधर्मतः ।
उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९॥
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ।
हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ १०॥
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ।
पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११॥
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ।
प्रतीचीं तपसे तात सर्वे दाक्षायणाः सुताः ॥ १२॥
तत्र नारायणसरस्तीर्थं परमपावनम् ।
सङ्गमो यत्र सञ्जातो दिव्यसिन्धुसमुद्रयोः ॥ १३॥
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽभवन् ।
धर्मे पारमहंसे च विनिर्धूतमलाशयाः ॥ १४॥
प्रजाविवृद्धये ते वै तेपिरे तत्र सत्तमाः ।
दाक्षायणा दृढात्मानः पित्रादेशेसुयन्त्रिता ॥ १५॥
त्वं च तान् नारद ज्ञात्वा तपतः सृष्टिहेतवे ।
अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥ १६॥
अदृष्ट्वा तं भुवः सृष्टिं कथं कर्तुं समुद्यताः ।
हर्यश्वा दक्षतनया इत्यवोचंस्तमादरत् ॥ १७॥
ब्रह्मोवाच
तं निशम्याथ हर्यश्वास्ते त्वदुक्तमतन्द्रिताः ।
औत्पत्तिकधियः सर्वे स्वयं विममृशुर्भृशम् ॥ १८॥
सुशास्त्रजनकादेशं यो न वेद निवर्तकम् ।
स कथं गुणविश्रम्भी कर्तुं सर्गमुपक्रमेत् ॥ १९॥
इति निश्चित्य ते पुत्राः सुधियश्चैकचेतसः ।
प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम् ॥ २०॥
नारद त्वं मनः शम्भोर्लोकानन्यचरो मुने ।
निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१॥
काले गते बहुतरे मम पुत्रः प्रजापतिः ।
नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२॥
मुहुर्मुहुरुवाचेति सुप्रजत्वं शुचां पदम् ।
शुशोच बहुशो दक्षः शिवमायाविमोहितः ॥ २३॥
अहमागत्य सुप्रीत्या सान्त्वयं दक्षमात्मजम् ।
शान्तिभावं प्रदर्श्यैव दैवं प्रबलमित्युत ॥ २४॥
अथ दक्षः पञ्चजन्यां मया स परिसान्त्वितः ।
सबलाश्वाभिधान् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५॥
तेऽपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ।
प्रजासर्गे यत्र सिद्धाः स्वपूर्वभ्रातरो ययुः ॥ २६॥
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ।
तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥ २७॥
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ।
पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ॥ २८॥
भ्रातृपन्थानमादिश्य त्वं मुनेऽमोघदर्शन ।
अयाश्चोर्ध्वगतिं तेऽपि भ्रातृमार्गं ययुः सुताः ॥ २९॥
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ।
विस्मितोऽभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥ ३०॥
पूर्ववत् त्वत्कृतं दक्षः शुश्राव चकितो भृशम् ।
पुत्रनाशं शुशोचाति पुत्रशोकविमूर्च्छितः ॥ ३१॥
चुक्रोध तुभ्यं दक्षोऽसौ दुष्टोऽयमिति चाब्रवीत् ।
आगतस्तत्र दैवात् त्वमनुग्रहकरस्तदा ॥ ३२॥
शोकाविष्टः स दक्षो हि रोषविस्फुरिताधरः ।
उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥ ३३॥
दक्ष उवाच ।
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिङ्गतः ।
भिक्षोमार्गोऽर्भकानां वै दर्शितोऽसाधुकारि नः ॥ ३४॥
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ।
विघातः श्रेयसोऽमीषां निर्दयेन शठेन ते ॥ ३५॥
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान् ।
मातरं पितरं त्यक्त्वा मोक्षमिच्छन् व्रजत्यधः ॥ ३६॥
निर्दयस्त्वं सुनिर्लज्जः शिशुधीभिद्यशोऽपहा ।
हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥ ३७॥
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमाधम ।
विभवेद् भ्रमतस्तेऽतः पदं लोकेषु न स्थिरम् ॥ ३८॥
शशापेति शुचा दक्षस्त्वां तदा साधुसम्मतम् ।
बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥ ३९॥
शापं प्रत्यग्रहीच्च त्वं स मुने निर्विकारधीः ।
एष एव ब्रह्मसाधो सहते सोऽपि च स्वयम् ॥ ४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ २.२.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१४. चतुर्दशोऽध्यायः । सतीजन्म तस्या बाललीला च ।
ब्रह्मोवाच ।
एतस्मिन्नन्तरे देवमुने लोकपितामहः ।
तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १॥
असान्त्वयमहं दक्षं पूर्ववत्सुविचक्षणः ।
अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २॥
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम् ।
समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह ॥ ३॥
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ।
जनयामास दुहितॄः सुभगाः षष्टिसम्मिताः ॥ ४॥
तासां विवाहं कृतवान् धर्मादिभिरतन्द्रितः ।
तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५॥
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ।
त्रयोदश कश्यपाय मुनये त्रिनवेन्दवे ॥ ६॥
भूताङ्गिरः कृशाश्श्वाभ्यां द्वे द्वे पुत्र्यौ प्रदत्तवान् ।
तार्क्ष्याय चापराः कन्याः प्रसूतिप्रसवैर्यतः ॥ ७॥
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् । ८॥
केचिद्वदन्ति तां ज्येष्ठां मध्यमां चापरे शिवाम् ।
सर्वानन्तरजां केचित्कल्पभेदात् त्रयं च सत् ॥ ९॥
अनन्तरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ।
दक्षो दधौ सुप्रीत्या तां मनसा जगदम्बिकाम् ॥ १०॥
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ।
भूयो भूयो नमस्कृत्य साञ्जलिर्विनयान्वितः ॥ ११॥
सन्तुष्टा सा तदा देवी विचारं मनसीति च ।
चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२॥
अथ सोवास मनसि दक्षस्य जगदम्बिका ।
विललास तदातीव स दक्षो मुनिसत्तम ॥ १३॥
सुमुहूर्तेन दक्षोऽपि स्वपत्न्यां निदधे मुदा ।
दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४॥
आविर्बभूव चिह्नानि दोहदस्याखिलानि वै । १५॥
विरेजे वीरिणी तात हृष्टचित्ताधिकं च सा ।
शिवावासप्रभावात्तु महामङ्गलरूपिणी ॥ १६॥
कुलस्य सम्प्रदायैश्च श्रुतेश्चित्तसमुन्नतेः ।
व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७॥
उत्सवोऽतीव सञ्जातस्तदा तेषु च कर्मसु ।
वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८॥
अथ तस्मिन्नवसरे सर्वे हर्यादयः सुराः ।
ज्ञात्वा गर्भगतां देवीं वीरिण्यां ते मुदं ययुः ॥ १९॥
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ।
लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ २०॥
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ।
दक्षप्रजापतेश्चैव वीरिण्याः स्वगृहं ययुः ॥ २१॥
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ।
गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२॥
आविर्बभूव पुरतो मातुः सद्यस्तदा मुने ।
मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३॥
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ।
शैवदेवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४॥
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ।
दिशः शान्ता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५॥
अवादयन्त त्रिदशाः शुभवाद्यानि खे गताः ।
जज्ज्वलुश्चाग्नयः शान्ताः सर्वमासीत्सुमङ्गलम् ॥ २६॥
वीरिणीसम्भवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ।
नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७॥
दक्ष उवाच ।
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ।
कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८॥
शिवा शान्ता महामाया योगनिद्रा जगन्मयी ।
या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥ २९॥
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३०॥
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ।
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१॥
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत् ।
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२॥
रजःसत्त्वतमोरूपां सर्वकार्यकरीं सदा ।
त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३॥
यस्त्वां विचिन्तयेद् देवि विद्याविद्यात्मिकां पराम् ।
तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता ॥ ३४॥
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ।
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५॥
ये स्तुवन्ति जगन्मातर्भवानीमम्बिकेति च ।
जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६॥
ब्रह्मोवाच ।
इति स्तुता जगन्माता शिवा दक्षेण धीमता ।
तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ३७॥
सर्वं सम्मोह्य तथ्यं च तथा दक्षः शृणोतु तत् ।
नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८॥
देव्युवाच ।
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ।
ईप्सितं तव सिद्धं तु तपो धारय सम्प्रति ॥ ३९॥
ब्रह्मोवाच ।
एवमुक्त्वा तदा देवी दक्षं च निजमायया ।
आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा ॥ ४०॥
अथ तद् रोदनं श्रुत्वा स्त्रियो वाक्यं ससम्भ्रमाः ।
आगतास्तत्र सुप्रीत्या दास्योऽपि च ससम्भ्रमाः ॥ ४१॥
दृष्ट्वासिक्नीसुतारूपं ननन्दुः सर्वयोषितः ।
सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२॥
उत्सवश्च महानासीद् गानवाद्यपुरःसरम् ।
दक्षोऽसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥ ४३॥
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ।
दानं ददौ द्विजातिभ्योऽन्येभ्यश्च द्रविणं तथा ॥ ४४॥
बभूव सर्वतो गानं नर्तनं च यथोचितम् ।
नेदुर्वाद्यानि बहुशः सुमङ्गलपुरःसरम् ॥ ४५॥
अथ हर्यादयो देवाः सर्वे सानुचरास्तदा ।
मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६॥
दृष्ट्वा दक्षसुतामम्बां जगतः परमेश्वरीम् ।
नेमुः सविनयाः सर्वे तुष्टुवुश्च शुभैः स्तवैः ॥ ४७॥
ऊचुः सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ।
प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८॥
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ।
प्रशस्तायाः सर्वगुणैः सत्त्वादपि मुदान्वितः ॥ ४९॥
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ।
महामङ्गलदान्येव दुःखघ्नानि विशेषतः ॥ ५०॥
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ।
मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१॥
अथ विष्ण्वादयः सर्वे सुप्रशस्याजनन्दनम् ।
प्रीत्या ययुः स्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२॥
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ।
शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३॥
पालिता साथ वीरिण्या दक्षेण च महात्मना ।
ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४॥
तस्यां तु सद्गुणाः सर्वे विविशुर्द्विजसत्तम ।
शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः ॥ ५५॥
आचरन्निजभावेन सखीमध्यगता यदा ।
तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६॥
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ।
तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७॥
ववृधेऽतीव दम्पत्योः प्रत्यहं करुणातुला ।
तस्या बाल्येऽपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८॥
सर्वबालगुणाक्रान्तां सदा स्वालयकारिणीम् ।
तोषयामास पितरौ नित्यं नित्यं मुहुर्मुहुः ॥ ५९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे सतीजन्मबाललीलावर्णनं नाम चतुर्दशोऽध्यायः ॥ २.२.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१५. पञ्चदशोऽध्यायः । नन्दाव्रतविधानं शिवस्तुतिकथनञ्च ।
ब्रह्मोवाच ।
अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीमहम् ।
त्वया सह मुनेऽद्राक्षं सारभूतां त्रिलोकके ॥ १॥
पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ।
प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २॥
प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने ।
स्थितोऽहं नारद त्वं च विनतामहमागदम् ॥ ३॥
त्वामेव यः कामयते यं तु कामयसे सति ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४॥
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥ ५॥
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६॥
दक्षोऽभवच्च सुप्रीतस्तदाकर्ण्य गतज्वरः ।
आददे तनयां स्वां तां मत्वा हि परमेश्वरीम् ॥ ७॥
इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ।
जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८॥
बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।
अतीव तपसाङ्गेन सर्वाङ्गेषु मनोहरा ॥ ९॥
दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नान्तर्वयःस्थिताम् ।
चिन्तयामास भर्गाय कथं दास्य इमां सुताम् ॥ १०॥
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।
पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागता ॥ ११॥
पप्रच्छाज्ञां तपोहेतोः शङ्करस्य विशालधीः ।
मातुः शिवाथ वीरिण्याः सा सती परमेश्वरी ॥ १२॥
ततः सती महेशानं पतिं प्राप्तुं दृढव्रता ।
सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १३॥
आश्विने मासि नन्दायां तिथावानर्च भक्तितः ।
गुडौदनैः सलवणैर्हरं नत्वा निनाय तम् ॥ १४॥
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।
समाकीर्णैः समाराध्य सस्मार परमेश्वरम् ॥ १५॥
मार्गशीर्षेऽसिताष्टम्यां सतिलैः सयवौदनैः ।
पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥ १६॥
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।
अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७॥
माघे तु पौर्णमास्यां सा कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरेऽकरोच्छङ्करपूजनम् ॥ १८॥
तपस्यासितभूतायां कृत्वा जागरणं निशि ।
विशेषतः समानर्च शैलूषैः सर्वयामसु ॥ १९॥
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् ।
अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम् ॥ २०॥
माघशुक्लतृतीयायां तिलाहारयवौदनैः ।
पूजयित्वा सती रुद्रं गव्यैर्मासं निनाय तम् ॥ २१॥
ज्येष्ठस्य पूर्णिमायां वै रात्रौ सम्पूज्य शङ्करम् ।
वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२॥
आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा ।
बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तथा ॥ २३॥
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४॥
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।
सम्पूज्य च चतुर्दश्यां चकार जलभोजनम् ॥ २५॥
नानाविधैः फलैः पुष्पैः सस्यैस्तत्कालसम्भवैः ।
चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६॥
सर्वमासे सर्वदिने शिवार्चनरता सती ।
दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ॥ २७॥
इत्थं नन्दाव्रतं कृत्स्नं समाप्य सुसमाहिता ।
दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ॥ २८॥
एतस्मिन्नन्तरे देवा मुनयश्चाखिला मुने ।
विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥ २९॥
दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ।
शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥ ३०॥
चक्रुः सर्वे सुराः सत्यै मुदा साञ्जलयो नतिम् ।
मुनयश्च नतस्कन्धा विष्ण्वाद्याः प्रीतमानसाः ॥ ३१॥
अथ सर्वे सुप्रसन्नाः विष्ण्वाद्याश्च सुरर्षयः ।
प्रशशंसुस्तपस्तस्याः सत्यास्तस्मात्सविस्मयाः ॥ ३२॥
ततः प्रणम्य तां देवीं पुनस्ते मुनयः सुराः ।
जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥ ३३॥
सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ।
वासुदेवोऽपि भगवाञ्जगामाथ हरान्तिकम् ॥ ३४॥
गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य ससम्भ्रमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५॥
देवा ऊचुः ।
नमो भगवते तुभ्यं यत एतच्चराचरम् ।
पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥
आदिबीजाय सर्वेषां चिद्रूपाय पराय च ।
ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥
य इदं प्रतिपच्येदं येनेदं विचकास्ति हि ।
यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्रतः ॥ ३८॥
योऽस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ।
ईक्षते यः स्वात्मनीदं तं नताः स्म स्वयम्भुवम् ॥ ३९॥
अविद्धदृक् परः साक्षी सर्वात्मानेकरूपधृक् ।
आत्मभूतः परब्रह्म तपन्तं शरणं गताः ॥ ४०॥
न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ।
कः पुनर्जन्तुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥
दिदृक्षवो यस्य पदं मुक्तसङ्गाः सुसाधवः ।
चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥
त्वज्जन्मादिविकारा नो विद्यन्ते केऽपि दुःखदाः ।
तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३॥
तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ।
नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४॥
अरूपायोरुरूपाय परायानन्तशक्तये ।
त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५॥
नम आत्मप्रदीपाय निर्वाणसुखसम्पदे ।
ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥
नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४७॥
क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥ ४८॥
सर्वाध्यक्षाय महते मूलप्रकृतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९॥
त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ।
सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोऽस्तु ते ॥ ५०॥
त्रिलोककारणायाथापवर्गाय नमो नमः ।
अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१॥
सर्वाम्नायागमानां चोदधये परमेष्ठिने ।
परायणाय भक्तानां गुणानां च नमोऽस्तु ते ॥ ५२॥
नमो गुणारणिच्छन्नचिदूष्माय महेश्वर ।
मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३॥
पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ।
स्वप्रकाशाय नित्यायाव्ययायाजस्रसंविदे ॥ ५४॥
प्रत्यग्द्रष्टेऽविकाराय परमैश्वर्यधारिणे ।
यं भजन्ति चतुर्वर्गं कामयन्तीष्टसद्गतिम् ॥
सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५॥
एकान्तिनः कञ्चनार्थं भक्ता वाञ्छन्ति यस्य न ।
केवलं चरितं ते ते गायन्ति परमङ्गलम् ॥ ५६॥
अक्षरं परमं ब्रह्म तमव्यक्ताकृतिं विभुम् ।
अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥
अतीन्द्रियमनाधारं सर्वाधारमहेतुकम् ।
अनन्तमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥
हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥
यथार्चिषोऽग्नेः सवितुर्यान्ति निर्यान्ति वासकृत् ।
गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ ६०॥
न त्वं देवोऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ।
न स्त्री न षण्ढो न पुमान्सदसन्न च किञ्चन ॥ ६१॥
निषेधशेषः सर्वं त्वं विश्वकृद्विश्वपालकः ।
विश्वलयकृद्विश्वात्मा प्रणताः स्मः तमीश्वरम् ॥ ६२॥
योगरन्धितकर्माणो यं प्रपश्यन्ति योगिनः ।
योगसम्भाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३॥
नमोऽस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ।
नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४॥
कदिन्द्रियाणां दुर्गेशानवाप्य परवर्त्मने ।
भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥
यच्छक्त्याहन्धियात्मानं हन्त वेद न मूढधीः ।
तं दुरत्ययमाहात्म्यं त्वां नताः स्मो महाप्रभुम् ॥ ६६॥
ब्रह्मोवाच ।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकाः सुराः ।
तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकन्धराः ॥ ६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.२.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१६. षोडशोऽध्यायः । ब्रह्मविष्णुकृता शिवप्रार्थना ।
ब्रह्मोवाच ।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शङ्करः ।
बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ॥ १॥
ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ सङ्गतौ हरः ।
यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ २॥
रुद्र उवाच ।
हे हरे हे विधे देवा मुनयश्चाद्य निर्भयाः ।
निजागमनहेतुं हि कथयध्वं सुतत्त्वतः ॥ ३॥
किमर्थमागता यूयं किं कार्यं चेह विद्यते ।
तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ॥ ४॥
ब्रह्मोवाच ।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ।
मुनेऽवोचं महादेवं विष्णुना परिचोदितः ॥ ५॥
देवदेव महादेव करुणासागर प्रभो ।
यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ॥ ६॥
विशेषतस्तवैवार्थमागता वृषभध्वज ।
सहार्थिनः सदा योग्यमन्यथा न जगद्भवेत् ॥ ७॥
केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर ।
हरेर्वध्यास्तथा केचिद्भवन्तश्चापि केचन ॥ ८॥
केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ।
मायावध्याः प्रभो केचिद्भविष्यन्त्यसुराः सदा ॥ ९॥
तवैव कृपया शम्भोः सुराणां सुखमुत्तमम् ।
नाशयित्वासुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ॥ १०॥
योगयुक्ते त्वयि सदा रागद्वेषविवर्जिते ।
दयामात्रैकनिरते न वध्या ह्यथवा तव ॥ ११॥
आराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।
अतश्च भविता युक्तं नित्यं नित्यं वृषध्वज ॥ १२॥
सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा तदा ।
शरीरभेदमस्माकं मायायाश्च न युज्यते ॥ १३॥
एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ।
कार्यभेदो न सिद्धश्चेद्रूपभेदोऽप्रयोजनः ॥ १४॥
एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ।
मायायाः कारणादेव स्वतन्त्रो लीलया प्रभुः ॥ १५॥
वामाङ्गजो हरिस्तस्य दक्षिणाङ्गभवो ह्यहम् ।
शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुः शिवः ॥ १६॥
इत्थं वयं त्रिधा भूताः प्रभो भिन्नस्वरूपिणः ।
शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ॥ १७॥
अहं विष्णुश्च सस्त्रीकौ सञ्जातौ कार्यहेतुतः ।
लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ॥ १८॥
तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ।
परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ॥ १९॥
अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ।
यन्नो पुरः पुरा प्रोक्तं त्वयैव शिवरूपिणा ॥ २०॥
मद्रूपं परमं ब्रह्मन्नीदृशं भवदङ्गतः ।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१॥
सृष्टिकर्ताभवद् ब्रह्मा हरिः पालनकारकः ।
लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ॥ २२॥
स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ।
इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ॥ २३॥
निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ।
पालको लयहेतुस्त्वमाविर्भूतः स्वयं शिवः ॥ २४॥
त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ।
लोककार्यरतां तस्मादेकां गृह्णीष्व कामिनीम् ॥ २५॥
यथा पद्मालया विष्णोः सावित्री च यथा मम ।
तथा सहचरीं शम्भो कान्तां गृह्णीष्व सम्प्रति ॥ २६॥
ब्रह्मोवाच ।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ।
स मां जगाद लोकेशः स्मेराननमुखो हरः ॥ २७॥
ईश्वर उवाच ।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ।
दृष्ट्वा वां च ममानन्दो भवत्यतितरां खलु ॥ २८॥
युवां सुरविशिष्टौ हि त्रिभुवस्वामिनौ किल ।
कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ॥ २९॥
उचितं न सुरश्रेष्ठौ विवाहकरणं मम ।
तपोरतविरक्तस्य सदा विदितयोगिनः ॥ ३०॥
यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरञ्जनः ।
अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ॥ ३१॥
अविकारी ह्यभोगी च सदाशुचिरमङ्गलः ।
तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ॥ ३२॥
केवलं योगलग्नस्य ममानन्दः सदास्ति वै ।
ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ॥ ३३॥
विवाहकरणं लोके विज्ञेयं परबन्धनम् ।
तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ॥ ३४॥
न स्वार्थं मे प्रवृत्तिर्हि सम्यक् स्वार्थविचिन्तनात् ।
तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ॥ ३५॥
मत्वा वचो गरिष्ठं वा निजोक्तिपरिपूर्तये ।
करिष्यामि विवाहं वै भक्तवश्यः सदा ह्यहम् ॥ ३६॥
परन्तु यादृशीं कान्तां ग्रहीष्यामि यथापणम् ।
तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ॥ ३७॥
या मे तेजः समर्था हि ग्रहीतुं स्याद्विभागशः ।
तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ३८॥
योगयुक्ते मयि तथा योगिन्येव भविष्यति ।
कामासक्ते मयि तथा कामिन्येव भविष्यति ॥ ३९॥
यमक्षरं वेदविदो निगदन्ति मनीषिणः ।
ज्योतीरूपं शिवं ते च चिन्तयिष्ये सनातनम् ॥ ४०॥
तच्चिन्तायां यदासक्तो ब्रह्मन् गच्छामि भाविनीम् ।
तत्र या विघ्नजननी न भवित्री हतास्तु मे ॥ ४१॥
त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ।
अंशभूता महाभागा योग्यं तदनुचिन्तनम् ॥ ४२॥
तच्चिन्तया विनोद्वाहं स्थास्यामि कमलासन ।
तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ॥ ४३॥
तत्राप्येकं पणं मे त्वं शृणु ब्रह्मँश्च मां प्रति ।
अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ॥ ४४॥
ब्रह्मोवाच ।
इति तस्य वचः श्रुत्वाहं स विष्णुर्हरस्य च ।
सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ॥ ४५॥
शृणु नाथ महेशान मार्गिता यादृशी त्वया ।
निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ॥ ४६॥
उमा सा भिन्नरूपेण सञ्जाता कार्यसाधिनी ।
सरस्वती तथा लक्ष्मीर्द्विधारूपा पुरा प्रभो ॥ ४७॥
पद्मा कान्ताभवद्विष्णोस्तथा मम सरस्वती ।
तृतीयरूपा सा नोऽभूल्लोककार्यहितैषिणी ॥ ४८॥
दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ।
सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ॥ ४९॥
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।
त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ॥ ५०॥
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।
तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ॥ ५१॥
हरेर्मम च देवानामियं वाञ्छास्ति शङ्कर ।
परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ॥ ५२॥
मङ्गलं परमं भूयात् त्रिलोकेषु सुखावहम् ।
सर्वज्वरो विनश्येद् वै सर्वेषां नात्र संशयः ॥ ५३॥
अथवास्मद्वचःशेषेऽवदत्तं मधुसूदनः ।
लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ॥ ५४॥
विष्णुरुवाच ।
देवदेव महादेव करुणाकर शङ्कर ।
यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ॥ ५५॥
तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ।
सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्य ताम् ॥ ५६॥
ब्रह्मोवाच ।
इत्युक्त्वा भगवान् विष्णुः तूष्णीमास मुने सुधीः ।
तथास्त्विति विहस्याह स प्रभुर्भक्तवत्सलः ॥ ५७॥
ततस्त्वावां च सम्प्राप्य चाज्ञां स मुनिभिः सुरैः ।
अगच्छाव स्वेष्टदेशं सस्त्रीकौ परहर्षितौ ॥ ५८॥
इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुब्रह्मकृतशिवप्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ २.२.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१७. सप्तदशोऽध्यायः । सतीवरलाभकथनम् ।
ब्रह्मोवाच ।
इत्युक्त्वा सर्वदेवैश्च कृता शम्भोर्नुतिः परा ।
शिवाच्च सा वरं प्राप्ता शृणु ह्यादरतो मुने ॥ १॥
अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता ।
आश्विने मासि सर्वेशं पूजयामास भक्तितः ॥ २॥
इति नन्दाव्रते पूर्णे नवम्यां दिनभागतः ।
तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद् हरः ॥ ३॥
सर्वाङ्गसुन्दरो गौरः पञ्चवक्त्रस्त्रिलोचनः ।
चन्द्रभालः प्रसन्नात्मा शितिकण्ठश्चतुर्भुजः ॥ ४॥
त्रिशूलब्रह्मकवराभयधृग्भस्मभास्वरः ।
स्वर्धुन्या विलसच्छीर्षः सकलाङ्गमनोहरः ॥ ५॥
महालावण्यधामा च कोटिचन्द्रसमाननः ।
कोटिस्मरसमा कान्तिः सर्वथा स्त्रीप्रियाकृतिः ॥ ६॥
प्रत्यक्षतो हरं वीक्ष्य सती सेदृग्विधं प्रभुम् ।
ववन्दे चरणौ तस्य सुलज्जावनतानना ॥ ७॥
अथ प्राह महादेवः सतीं तद्व्रतधारिणीम् ।
तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः ॥ ८॥
महादेव उवाच ।
दक्षनन्दिनि प्रीतोऽस्मि व्रतेनानेन सुव्रते ।
वरं वरय सन्दास्ये यत्तवाभिमतं भवेत् ॥ ९॥
ब्रह्मोवाच ।
जानन्नपीह तद्भावं महादेवो जगत्पतिः ।
जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया ॥ १०॥
सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम् ।
शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः ॥ ११॥
प्रेममग्नाभवत्साति श्रुत्वा शिववचः प्रियम् ।
तज्ज्ञात्वा सुप्रसन्नोऽभूच्छङ्करो भक्तवत्सलः ॥ १२॥
वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम् ।
सतीभक्तिवशः शम्भुरन्तर्यामी सतां गतिः ॥ १३॥
अथ त्रपां स्वां सन्धाय यदा प्राह हरं सती ।
यथेष्टं देहि वरद वरमित्यनिवारकम् ॥ १४॥
तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः ।
भव त्वं मम भार्येति प्राह तां भक्तवत्सलः ॥ १५॥
एतच्छ्रुत्वा वचस्तस्य साभीष्टफलभावनम् ।
तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ॥ १६॥
सकामस्य हरस्याग्रे स्थिता सा चारुहासिनी ।
अकरोन्निजभावांश्च हावान्कामविवर्धनान् ॥ १७॥
ततो भावान्समादाय शृङ्गाराख्यो रसस्तदा ।
तयोश्चित्ते विवेशाशु कला हावा यथोदितम् ॥ १८॥
तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणोः ।
काप्यभिख्या तयोरासीच्चित्राचन्द्रमसोर्यथा ॥ १९॥
रेजे सती हरं प्राप्य स्निग्धभिन्नाञ्जनप्रभा ।
चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः ॥ २०॥
अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः ।
सुप्रसन्ना करौ बद्ध्वा नतका भक्तवत्सलम् ॥ २१॥
सत्युवाच ।
देवदेव महादेव विवाहविधिना प्रभो ।
पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ २२॥
ब्रह्मोवाच ।
एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः ।
तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम् ॥ २३॥
दाक्षायण्यपि तं नत्वा शम्भुं विज्ञाप्य भक्तितः ।
प्राप्ताज्ञा मातुरभ्याशमगान्मोहमुदान्विता ॥ २४॥
हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् ।
दाक्षायणीवियोगाद्वै कृच्छ्रं ध्यानपरोऽभवत् ॥ २५॥
समाधाय मनः शम्भुर्लौकिकीं गतिमाश्रितः ।
चिन्तयामास देवर्षे मनसा मां वृषध्वजः ॥ २६॥
ततः सञ्चिन्त्यमानोऽहं महेशेन त्रिशूलिना ।
पुरस्तात्प्राविशत्तूर्णं हरसिद्धिप्रचोदितः ॥ २७॥
यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः ।
सरस्वतीयुतस्तात तत्रैव समुपस्थितः ॥ २८॥
सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः ।
उत्सुकः प्रेमबद्धश्च सत्या शम्भुरुवाच ह ॥ २९॥
शम्भुरुवाच ।
अहं ब्रह्मन्स्वार्थपरः परिग्रहकृतौ च यत् ।
तदा स्वत्वमिव स्वार्थे प्रतिभाति ममाधुना ॥ ३०॥
अहमाराधितः सत्या दाक्षायण्याथ भक्तितः ।
तस्यै वरो मया दत्तो नन्दाव्रतप्रभावतः ॥ ३१॥
भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः ।
मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा ॥ ३२॥
अथावदत्तदा मां सा सती दाक्षायणी त्विति ।
पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ ३३॥
तदप्यङ्गीकृतं ब्रह्मन्मया तद्भक्तितुष्टितः ।
सा गता भवनं मातुरहमत्रागतो विधे ॥ ३४॥
तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात् ।
तां दक्षोऽपि यथा कन्यां दद्यान्मेऽरं तथा वद ॥ ३५॥
सतीवियोगभङ्गः स्याद्यथा मे त्वं तथा कुरु ।
समाश्वासय तं दक्षं सर्वविद्याविशारदः ॥ ३६॥
ब्रह्मोवाच ।
इत्युदीर्य महादेवः सकाशे मे प्रजापतेः ।
सरस्वतीं विलोक्याशु वियोगवशगोऽभवत् ॥ ३७॥
तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः ।
प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम् ॥ ३८॥
ब्रह्मोवाच
यदात्थ भगवन् शम्भो तद्विचार्य सुनिश्चितम् ।
मुख्यः स्वार्थो हि देवानां ममापि वृषभध्वज ॥ ३९॥
दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति ।
अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥ ४०॥
ब्रह्मोवाच
इत्युदीर्य महादेवमहं सर्वेश्वरं प्रभुम् ।
अगमं दक्षनिलयं स्यन्दनेनातिवेगिना ॥ ४१॥
नारद उवाच ।
विधे प्राज्ञ महाभाग वद नो वदतां वर ।
सत्यै गृहागतायै स दक्षः किमकरोत्ततः ॥ ४२॥
ब्रह्मोवाच ।
तपस्तप्त्वा वरं प्राप्य मनोऽभिलषितं सती ।
गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा ॥ ४३॥
मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात् ।
वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टात्तु भक्तितः ॥ ४४॥
माता पिता च वृत्तान्तं सर्वं श्रुत्वा सखीमुखात् ।
आनन्दं परमं लेभे चक्रे च परमोत्सवम् ॥ ४५॥
द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः ।
अन्येभ्यश्चान्धदीनेभ्यो वीरिणी च महामनाः ॥ ४६॥
वीरिणी तां समालिङ्ग्य स्वसुतां प्रीतिवर्द्धिनीम् ।
मूर्ध्न्युपाघ्राय मुदिता प्रशशंशुर्मुहुर्मुहुः ॥ ४७॥
अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः ।
चिन्तयामास देयेयं स्वसुता शम्भवे कथम् ॥ ४८॥
आगतोऽपि महादेवः प्रसन्नः स जगाम ह ।
पुनरेव कथं सोऽपि सुतार्थेऽत्रागमिष्यति ॥ ४९॥
प्रस्थाप्योऽथ मया कश्चिच्छम्भोर्निकटमञ्जसा ।
नैतद्योग्यं न गृह्णीयाद्यद्येवं विफलार्दना ॥ ५०॥
अथवा पूजयिष्यामि तमेव वृषभध्वजम् ।
मदीयतनया भक्त्या स्वयमेव यथा भवेत् ॥ ५१॥
तयैव पूजितः सोऽपि वाञ्छत्यार्यप्रयत्नतः ।
शम्भुर्भवतु मद्भर्तेत्येवं दत्तवरेण तत् ॥ ५२॥
इति चिन्तयतस्तस्य दक्षस्य पुरतोऽन्वहम् ।
उपस्थितोऽहं सहसा सरस्वत्यन्वितस्तदा ॥ ५३॥
मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः ।
आसनं च ददौ मह्यं स्वभवाय यथोचितम् ॥ ५४॥
ततो मां सर्वलोकेशं तत्रागमनकारणम् ।
दक्षः पप्रच्छ स क्षिप्रं चिन्ताविष्टोऽपि हर्षितः ॥ ५५॥
दक्ष उवाच ।
तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत् ।
ममोपरि सुप्रसादं कृत्वाचक्ष्व जगद्गुरो ॥ ५६॥
पुत्रस्नेहात्कार्यवशादथवा लोककारक ।
ममाश्रमं समायातो हृष्टस्य तव दर्शनात् ॥ ५७॥
ब्रह्मोवाच ।
इति पृष्टः स्वपुत्रेण दक्षेण मुनिसत्तम ।
विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम् ॥ ५८॥
ब्रह्मोवाच
शृणु दक्ष यदर्थं त्वत्समीपमहमागतः ।
त्वत्तो कस्य हितं मेऽपि भवतोऽपि तदीप्सितम् ॥ ५९॥
तव पुत्री समाराध्य महादेवं जगत्पतिम् ।
यो वरः प्रार्थितस्तस्य समयोऽयमुपागतः ॥ ६०॥
शम्भुना तव पुत्र्यर्थं त्वत्सकाशमहं ध्रुवम् ।
प्रस्थापितोऽस्मि यत्कृत्यं श्रेयस्तदवधारय ॥ ६१॥
वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शङ्करः ।
त्वत्सुताया वियोगेन न शर्म लभतेऽञ्जसा ॥ ६२॥
अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम् ।
सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः ॥ ६३॥
स कामबाणविद्धोऽपि परित्यज्यात्मचिन्तनम् ।
सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा ॥ ६४॥
विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः ।
क्व सतीत्येवमभितो भाषते निकृतावपि ॥ ६५॥
मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च ।
मरीच्याद्यैर्मुनिवरैस्तत्सिद्धमधुना सुत ॥ ६६॥
त्वत्पुत्र्याराधितः शम्भुः सोऽपि तस्या विचिन्तनात् ।
अनुशोधयितुं प्रेप्सुर्वर्तते हिमवद्गिरौ ॥ ६७॥
यथा नानाविधैर्भावैः सत्त्वात्तेन व्रतेन च ।
शम्भुराराधितस्तेन तथैवाराध्यते सती ॥ ६८॥
तस्मात्तु दक्ष तनयां शम्भ्वर्थं परिकल्पिताम् ।
तस्मै देह्यविलम्बेन कृता ते कृतकृत्यता ॥ ६९॥
अहं तमानयिष्यामि नारदेन त्वदालयम् ।
तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम् ॥ ७०॥
ब्रह्मोवाच
श्रुत्वा मम वचश्चेति स मे पुत्रोऽतिहर्षितः ।
एवमेवेति मां दक्ष उवाच परहर्षितः ॥ ७१॥
ततः सोऽहं मुने तत्रागममत्यन्तहर्षितः ।
उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः ॥ ७२॥
गते नारद दक्षोऽपि सदारतनयो ह्यपि ।
अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः ॥ ७३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवरलाभो नाम सप्तदशोऽध्यायः ॥ २.२.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१८. अष्टादशोऽध्यायः । शिवसतीविवाहः ।
नारद उवाच ।
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ।
का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥ १॥
ब्रह्मोवाच ।
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ।
आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ॥ २॥
मां वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः ।
मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ३॥
अथ प्रीत्या हरो लोके गतिमाश्रित्य लीलया ।
सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥ ४॥
ईश्वर उवाच ।
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतः स माम् ।
कथयस्व यथा स्वान्तं न दीर्येन्मन्मथेन हि ॥ ५॥
धावमानो विप्रयोगो मामेव च सतीं प्रति ।
अभिहन्ति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ॥ ६॥
सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ।
अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥ ७॥
ब्रह्मोवाच ।
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ।
श्रुत्वाहं नारदमुने सान्त्वयन्नगदं शिवम् ॥ ८॥
ब्रह्मोवाच
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ।
तच्छ्रणुष्व निजासाध्यं सिद्धमित्यवधारय ॥ ९॥
देया तस्मै मया पुत्री तदर्थं परिकल्पिता ।
ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥ १०॥
मत्पुत्र्याराधितः शम्भुरेतदर्थं स्वयं पुनः ।
सोऽप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥ ११॥
शुभे लग्ने सुमुहूर्ते समागच्छतु सेऽन्तिकम् ।
तदा दास्यामि तनयां भिक्षार्थं शम्भवे विधे ॥ १२॥
इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ।
शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥ १३॥
ब्रह्मोवाच
इति श्रुत्वा मम वचो लौकिकीं गतिमाश्रितः ।
उवाच विहसन् रुद्रो मुने मां भक्तवत्सलः ॥ १४॥
रुद्र उवाच ।
गमिष्ये भवता सार्धं नारदेन च तद्गृहम् ।
अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥ १५॥
मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ।
तैः सार्धं दक्षनिलयं गमिष्ये सगणो विधे ॥ १६॥
ब्रह्मोवाच ।
इत्याज्ञप्तोऽहमीशेन लोकाचारपरेण ह ।
संस्मरं नारदं त्वां च मरीच्यादीन्सुतांस्तथा ॥ १७॥
ततः समागताः सर्वे मानसास्तनयास्त्वया ।
मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥ १८॥
विष्णुः समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ।
स स्वसैन्यैः कमलया गरुडारूढ एव च ॥ १९॥
अथ चैत्रसिते पक्षे नक्षत्रे भगदैवते ।
त्रयोदश्यां दिने भानौ निर्गच्छत्स महेश्वरः ॥ २०॥
सर्वैः सुरगणैः सार्धं ब्रह्मविष्णुपुरःसरैः ।
तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शङ्करः ॥ २१॥
मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ।
तथा हरगणानां च सानन्दमनसामति ॥ २२॥
गजगोव्याघ्रसर्पाश्च जटा चन्द्रकला तथा ।
जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥ २३॥
ततः क्षणेन बलिना बलीवर्देन वेगिना ।
सविष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥ २४॥
ततो दक्षो विनीतात्मा सम्प्रहृष्टतनूरुहः ।
प्रययौ सम्मुखं तस्य संयुक्तः सकलैर्निजैः ॥ २५॥
सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ।
पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥ २६॥
परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ।
दक्षः समानयामास गृहाभ्यन्तरतः शिवम् ॥ २७॥
अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ।
समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥ २८॥
ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ।
पूजयामास सद्भक्त्या यथोचितविधानतः ॥ २९॥
कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ।
चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ ३०॥
ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ।
प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥ ३१॥
वाढमित्यहमप्युक्त्वा प्रहृष्टेनान्तरात्मना ।
समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥ ३२॥
ततः शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ।
सतीं निजसुतां दक्षो ददौ हर्षेण शम्भवे ॥ ३३॥
उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः ।
दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ ३४॥
अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ।
नेमुः सर्वे संस्तुतिभिः तोषयामासुरीश्वरम् ॥ ३५॥
समुत्सवो महानासीन्नृत्यगानपुरःसरः ।
आनन्दं परमं जग्मुः सर्वे मुनिगणाः सुराः ॥ ३६॥
कन्यां दत्त्वा कृतार्थोऽभूत्तदा दक्षो हि मत्सुतः ।
शिवाशिवौ प्रसन्नौ च निखिलं मङ्गलालयम् ॥ ३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कन्यादानवर्णनं नामाष्टादशोऽध्यायः ॥ २.२.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.१९. एकोनविंशोऽध्यायः । शिवलीलावर्णनम् ।
ब्रह्मोवाच ।
कृत्वा दक्षः सुतादानं यौतकं विविधं ददौ ।
हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १॥
अथ शम्भुमुपागत्य समुत्थाय कृताञ्जलिः ।
सार्धं कमलया चेदमुवाच गरुडध्वजः ॥ २॥
विष्णुरुवाच ।
देवदेव महादेव करुणासागर प्रभो ।
त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३॥
युवां लीलावतारौ वै सतां क्षेमाय सर्वदा ।
खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४॥
स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर ।
दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५॥
देवानां वा नृणां रक्षां कुरु सत्यानया सताम् ।
संसारसारिणां शम्भो मङ्गलं सर्वदा तथा ॥ ६॥
य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ।
तं हन्याः सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७॥
ब्रह्मोवाच ।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ।
एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८॥
स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ।
उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९॥
अहं देवीं समागत्य गृह्योक्तविधिनाखिलम् ।
अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ १०॥
ततः शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ।
अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११॥
तदा महोत्सवस्तत्राद्भुतोऽभूद् द्विजसत्तम ।
सर्वेषां सुखदं वाद्यं गीतनृत्यपुरःसरम् ॥ १२॥
तदानीमद्भुतं तत्र चरितं समभूदति ।
सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३॥
दुर्ज्ञेया शाम्भवी माया तया सम्मोहितं जगत् ।
सचराचरमत्यन्तं सदेवासुरमानुषम् ॥ १४॥
योऽहं शम्भुं मोहयितुं पुरैच्छं कपटेन ह ।
मां च तं शङ्करस्तात मोहयामास लीलया ॥ १५॥
इच्छेत्परापकारं यः स तस्यैव भवेद् ध्रुवम् ।
इति मत्वापकारं नो कुर्यादन्यस्य पूरुषः ॥ १६॥
प्रदक्षिणां प्रकुर्वन्त्या वह्नेः सत्याः पदद्वयम् ।
आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७॥
मदनाविष्टचेताश्च भूत्वाङ्गानि व्यलोकयम् ।
अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८॥
यथा यथाहं रम्याणि व्यैक्षमङ्गानि कौतुकात् ।
सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९॥
अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ।
स्मराविष्टमना वक्त्रं द्रष्टुकामोऽभवं मुने ॥ २०॥
न शम्भोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ।
न च सा लज्जयाविष्टा करोति प्रकटं मुखम् ॥ २१॥
ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ।
धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२॥
आर्द्रेन्धनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।
स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ॥ २३॥
प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समन्ततः ।
तादृग् येन तमोभूतं वेदीभूमिविनिर्मितम् ॥ २४॥
ततो धूमाकुले नेत्रे महेशः परमेश्वरः ।
हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५॥
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ।
अवेक्षं किल कामार्तः प्रहृष्टेनान्तरात्मना ॥ २६॥
मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ।
अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७॥
मम रेतः प्रचस्कन्द ततस्तद्वीक्षणाद् द्रुतम् ।
चतुर्बिन्दुमितं भूमौ तुषारचयसन्निभम् ॥ २८॥
ततोऽहं शङ्कितो मौनी तत्क्षणं विस्मितो मुने ।
आच्छादये स्म तद्रेतो यथा कश्चिद् बुबोध न ॥ २९॥
अथ तद्भगवान् शम्भुर्ज्ञात्वा दिव्येन चक्षुषा ।
रेतोऽवस्कन्दनात्तस्य कोपादेतदुवाच ह ॥ ३०॥
रुद्र उवाच ।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ।
विवाहे मम कान्ताया वक्त्रं दृष्टं न रागतः ॥ ३१॥
त्वं वेत्सि शङ्करेणैतत्कर्म ज्ञातं न किञ्चन ।
त्रैलोक्येऽपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२॥
यत्किञ्चित् त्रिषु लोकेषु जङ्गमं स्थावरं तथा ।
तस्याहं मध्यगो मूढ तैलं यद्वत्तिलान्तिगम् ॥ ३३॥
ब्रह्मोवाच ।
इत्युक्त्वा प्रियविष्णुर्मां तदा विष्णुवचः स्मरन् ।
इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य शङ्करः ॥ ३४॥
शम्भुनोद्यमिते शूले मां च हन्तुं द्विजोत्तम ।
मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५॥
ततो देवगणाः सर्वे मुनयश्चाखिलास्तथा ।
तुष्टुवुः शङ्करं तत्र प्रज्वलन्तं भयातुराः ॥ ३६॥
देवा ऊचुः ।
देवदेव महादेव शरणागतवत्सल ।
ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७॥
जगत्पिता महेश त्वं जगन्माता सती मता ।
हरिब्रह्मादयः सर्वे तव दासाः सुरप्रभो ॥ ३८॥
अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ।
तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ॥ ३९॥
ब्रह्मोवाच ।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ।
तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ ४०॥
दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः ।
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१॥
अथाग्रे सङ्गतं वीक्ष्य तदा दक्षं महेश्वरः ।
प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२॥
महेश्वर उवाच ।
विष्णुना मेऽतिभक्तेन यदिदानीमुदीरितम् ।
मयाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३॥
सतीं यः साभिलाषः सन् वीक्षेत वध तं प्रभो ।
इति विष्णुवचः सत्यं विधिं हत्वा करोम्यहम् ॥ ४४॥
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।
अभवत् त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५॥
ब्रह्मोवाच ।
इत्युक्तवति देवेश महेशे क्रोधसङ्कुले ।
चकम्पिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६॥
हाहाकारो महानासीदौदासीन्यं च सर्वशः ।
अभूवं विकलोऽतीव तदाहं तद्विमोहितः ॥ ४७॥
अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ।
तमेवंवादिनं रुद्रं तुष्टाव प्रणतः सुधीः ॥ ४८॥
स्तुत्वा च विविधैः स्तोत्रैः शङ्करं भक्तवत्सलम् ।
इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरः सरः ॥ ४९॥
विष्णुरुवाच ।
विधिं न जहि भूतेश स्रष्टारं जगतां प्रभुम् ।
अयं शरणगस्तेऽद्य शरणागतवत्सलः ॥ ५०॥
अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ।
विज्ञप्तिं हृदि मे मत्वा कृपां कुरु ममोपरि ॥ ५१॥
अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ।
तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२॥
प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः ।
अस्मिन् हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३॥
सृष्टिस्थित्यन्तकर्माणि करिष्यामः पुनः पुनः ।
त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४॥
एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ।
तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५॥
अनेनैव सती कन्या दक्षस्य च शिवा विभो ।
सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६॥
ब्रह्मोवाच ।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ।
प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७॥
महेश उवाच ।
देवदेव रमेशान विष्णो मत्प्राणवल्लभ ।
न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८॥
पूरयिष्यामि विज्ञप्तिं पूर्वान्तेऽङ्गीकृतां मया ।
महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९॥
अहमेव प्रजाः स्रक्ष्ये सर्वाः स्थिरचरा अपि ।
अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा ॥ ६०॥
हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ।
स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ॥ ६१॥
ब्रह्मोवाच ।
इति तस्य वचः श्रुत्वा गिरीशस्याह चाच्युतः ।
स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२॥
अच्युत उवाच ।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेऽस्ति वै ।
विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३॥
त्रयो देवा वयं शम्भो त्वदात्मानः परा नहि ।
एकरूपा न भिन्नाश्च तत्त्वतः सुविचारय ॥ ६४॥
ततस्तद्वचनं श्रुत्वा विष्णोः स्वातिप्रियस्य सः ।
शम्भुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५॥
शम्भुरुवाच ।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ।
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६॥
ब्रह्मोवाच ।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ।
इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७॥
विष्णुरुवाच ।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ।
न वाहं भवतो भिन्नो न मत् त्वं परमेश्वर ॥ ६८॥
सर्वं जानासि सर्वज्ञ परमेश सदाशिव ।
मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ॥ ६९॥
त्वदाज्ञया वदामीश शृण्वन्तु निखिलाः सुराः ।
मुनयश्चापरे शैवं तत्त्वं सन्धार्य स्वं मनः ॥ ७०॥
प्रधानस्याप्रधानस्य भागाभागस्य रूपिणः ।
ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१॥
कस्त्वं कोऽहं च को ब्रह्मा तवैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ ७२॥
चिन्तयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ।
एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३॥
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।
अङ्गानि ते तथेशस्य तस्य भागत्रयं हर ॥ ७४॥
यज्ज्योतिरभ्रं स्वपुरं पुराणं
कूटस्थमव्यक्तमनन्तरूपम् ।
नित्यं च दीर्घादिविशेषणाद्यै-
र्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥
बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ २.२.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२०. विंशोऽध्यायः । सतीविवाहोत्सव ।
नारद उवाच ।
ब्रह्मन् विधे महाभाग शिवभक्त वरप्रभो ।
श्रावितं चरितं शम्भोरद्भुतं मङ्गलायनम् ॥ १॥
ततः किमभवत्तात कथ्यतां शशिमौलिनः ।
सत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् । २॥
ब्रह्मोवाच ।
निवृत्ते शङ्करे चास्मद्वधाद्भक्तानुकम्पिनि ।
अभवन्निर्भयाः सर्वे सुखिनः सुप्रसन्नकाः ॥ ३॥
नतस्कन्धाः साञ्जलयः प्रणेमुर्निखिलाश्च ते ।
तुष्टुवुः शङ्करं भक्त्या चक्रुर्जयरवं मुदा ॥ ४॥
एतस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ।
अस्तवं शङ्करं भक्त्या विविधैश्च शुभस्तवैः ॥ ५॥
ततस्तुष्टमनाः शम्भुर्बहुलीलाकरः प्रभुः ।
मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ॥ ६॥
रुद्र उवाच ।
ब्रह्मन् तात प्रसन्नोऽहं निर्भयस्त्वं भवाधुना ।
स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥ ७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचः शम्भोर्बहुलीलाकृतः प्रभोः ।
स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ॥ ८॥
यावदेवमहं स्वं कं स्पृशामि निजपाणिना ।
तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ॥ ९॥
ततो लज्जापरीताङ्गः स्थितश्चाहमधोमुखः ।
इन्द्राद्यैरमरैः सर्वैः सुदृष्टः सर्वतः स्थितैः ॥ १०॥
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ।
प्रावोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ११॥
अस्य पापस्य शुद्ध्यर्थं प्रायश्चित्तं वद प्रभो ।
निग्रहं च तथा न्यायं येन पापं प्रयातु मे ॥ १२॥
इत्युक्तस्तु मया शम्भुरुवाच प्रणतं हि माम् ।
सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥ १३॥
शम्भुरुवाच ।
अनेनैव स्वरूपेण मदधिष्ठितकेन हि ।
तपः कुरु प्रसन्नात्मा मदाराधनतत्परः ॥ १४॥
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ ।
साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥ १५॥
मनुष्याणामिदं कृत्यं यस्माद्वीर्यं त्वयाधुना ।
तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥ १६॥
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ।
किमेतद् ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥ १७॥
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ।
परदारकृतात्त्यागान्मुक्तिं सद्यः स यास्यति ॥ १८॥
यथा यथा जनश्चैतत्कृत्यं ते कीर्तयिष्यति ।
तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ १९॥
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ।
जनहास्यकरं लोके तव गर्हाकरं परम् ॥ २०॥
एतच्च तव वीर्यं हि पतितं वेदिमध्यगम् ।
कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥ २१॥
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ।
तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयङ्कराः ॥ २२॥
एतस्मिन्नन्तरे तत्र देवर्षीणां पुरो द्रुतम् ।
तद्रेतसः समभवंस्तन्मिताश्च बलाहकाः ॥ २३॥
संवर्तकस्तथावर्तः पुष्करो द्रोण एव च ।
एते चतुर्विधास्तात महामेघा लयङ्कराः ॥ २४॥
गर्जन्तश्चाथ मुञ्चन्तस्तोयानीषच्छिवेच्छया ।
फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥ २५॥
तैस्तु सञ्छादिते व्योम्नि सुगर्जद्भिश्च शङ्करः ।
प्रशान् दाक्षायणी देवी भृशं शान्तोऽभवद् द्रुतम् ॥ २६॥
अथ चाहं वीतभयः शङ्करस्याज्ञया तदा ।
शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥ २७॥
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ।
सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥ २८॥
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ।
पठत्सु विप्रवर्गेषु वेदान् भक्त्यान्वितेषु च ॥ २९॥
रम्भादिषु पुरन्ध्रीषु नृत्यमानासु सादरम् ।
महोत्सवो महानासीद्देवपत्नीषु नारद ॥ ३०॥
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ।
प्राह मां प्राञ्जलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥ ३१॥
ईश्वर उवाच ।
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ।
प्रसन्नोऽस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥ ३२॥
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ।
ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ३३॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचः सोऽहं शङ्करस्य कृताञ्जलिः ।
मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥ ३४॥
यदि प्रसन्नो देवेश वरयोग्योऽस्म्यहं यदि ।
तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥ ३५॥
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ।
त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ३६॥
येनास्य सन्निधौ कृत्वा स्वाश्रमं शशिशेखर ।
तपः कुर्यां विनाशाय स्वपापस्यास्य शङ्कर ॥ ३७॥
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ।
सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥ ३८॥
तदैव तस्य पापानि प्रयान्तु हर सङ्क्षयम् ।
वर्धते विपुलं पुण्यं रोगा नश्यन्तु सर्वशः ॥ ३९॥
या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता ।
सापि त्वद्दर्शनादेव निर्दोषा सम्भवेद् ध्रुवम् ॥ ४०॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ।
तथास्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥ ४१॥
शिव उवाच ।
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ।
स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥ ४२॥
ब्रह्मोवाच ।
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ।
उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥ ४३॥
ततो दक्षं समामन्त्र्य शङ्करः परमेश्वरः ।
पत्न्या सत्या गन्तुमना अभूत्स्वजनवत्सलः ॥ ४४॥
एतस्मिन्नन्तरे दक्षो विनयावनतः सुधीः ।
साञ्जलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ४५॥
विष्ण्वादयः सुराः सर्वे मुनयश्च गणास्तदा ।
नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥ ४६॥
आरोप्य वृषभे शम्भुः सतीं दक्षाज्ञया मुदा ।
जगाम हिमवत्प्रस्थं वृषभस्थः स्वयं प्रभुः ॥ ४७॥
अथ सा शङ्कराभ्याशे सुदती चारुहासिनी ।
विरेजे वृषभस्था वै चन्द्रान्ते कालिका यथा ॥ ४८॥
विष्ण्वादयः सुराः सर्वे मरीच्याद्यास्तथर्षयः ।
दक्षोऽपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥ ४९॥
केचिद्वाद्यान्वादयन्तो गायन्तः सुस्वरं परे ।
शिवं शिवयशः शुद्धमनुजग्मुः शिवं मुदा ॥ ५०॥
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ।
स्वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥ ५१॥
विसृष्टा अपि विष्ण्वाद्याः शम्भुना पुनरेव ते ।
अनुजग्मुः शिवं भक्त्या सुराः परमया मुदा ॥ ५२॥
तैः सर्वैः सगणैः शम्भुः सत्या च स्वस्त्रिया युतः ।
प्राप स्वं धाम संहृष्टो हिमवद् गिरिशोभितम् ॥ ५३॥
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ।
मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥ ५४॥
शम्भुमाभाष्य ते सर्वे विष्ण्वाद्या मुदिताननाः ।
स्वं स्वं धाम ययुर्नत्वा स्तुत्वा च मुनयः सुराः ॥ ५५॥
शिवोऽपि मुदितोऽत्यर्थं स्वपत्न्या दक्षकन्यया ।
हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥ ५६॥
ततः स शङ्करः सत्या सगणः सूतिकृन्मुने ।
प्राप स्वं धाम संहृष्टः कैलासं पर्वतोत्तमम् ॥ ५७॥
एतद् वः सर्वमाख्यातं यथा तस्य पुराभवत् ।
विवाहो वृषयानस्य मनुस्वायम्भुवान्तरे ॥ ५८॥
विवाहसमये यज्ञे प्रारम्भे वा शृणोति यः ।
एतदाख्यानमव्यग्रः सम्पूज्य वृषभध्वजम् ॥ ५९॥
तस्याविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ।
शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥ ६०॥
कन्या च सुखसौभाग्यशीलाचारगुणान्विता ।
साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥ ६१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीविवाहवर्णनं नाम विंशोऽध्यायः ॥ २.२.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२१. एकविंशोऽध्यायः । सतीशिवक्रीडावर्णनम् ।
नारद उवाच ।
समीचीनं वचस्तात सर्वज्ञस्य तवानघ ।
महाद्भुतं श्रुतं नो वै चरितं शिवयोः शुभम् ॥ १॥
विवाहश्च श्रुतः सम्यक् सर्वमोहापहारकः ।
परमज्ञानसम्पन्नो मङ्गलालय उत्तमः ॥ २॥
भूय एव विवित्सा मे चरितं शिवयोः शुभम् ।
तद्वर्णय महाप्राज्ञ कृपां कृत्वातुलामरम् ॥ ३॥
ब्रह्मोवाच ।
सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ।
यदहं नोदितः सौम्य शिवलीलानुवर्णने ॥ ४॥
विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ।
गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ॥ ५॥
ततो हरः स सगणः स्वस्थानं प्राप्य मोदनम् ।
देवर्षे तत्र वृषभादवातरदतिप्रियात् ॥ ६॥
यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ।
मुमुदेऽतीव देवर्षे भवाचारकरः शिवः ॥ ७॥
ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ।
स्वीयान्निर्यापयामास नन्द्यादीन् गिरिकन्दरात् ॥ ८॥
उवाच चैतांस्तान् सर्वान्नन्द्यादीनतिसूनृतम् ।
लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ॥ ९॥
महेश उवाच ।
यदाहं च स्मराम्यत्र स्मरणादरमानसाः ।
समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ॥ १०॥
इत्युक्ते वामदेवेन नन्द्याद्याः स्वगणाश्च ते ।
महावेगा महावीरा नानास्थानेषु संययुः ॥ ११॥
ईश्वरोऽपि तया सार्धं तेषु यातेषु विभ्रमी ।
दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ॥ १२॥
कदाचिद्वन्यपुष्पाणि समाहृत्य मनोहराम् ।
मालां विधाय सत्यास्तु हारस्थाने स योजयत् ॥ ३॥
कदाचिद्दर्पणे चैव वीक्षन्तीमात्मनः सतीम् ।
अनुगम्य हरो वक्त्रं स्वीयमप्यवलोकयत् ॥ १४॥
कदाचित्कुण्डलं तस्या उल्लास्योल्लास्य सङ्गतः ।
बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ॥ १५॥
सरागौ चरणावस्याः यावकेनोज्ज्वलेन च ।
निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ॥ १६॥
उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ।
तत् कर्णे कथयत्यस्या हरो द्रष्टुं तदाननम् ॥ १७॥
न दूरमपि गन्तासौ समागत्य प्रयत्नतः ।
अनुबध्नाति नामाक्षी पृष्ठदेशेऽन्यमानसाम् ॥ १८॥
अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः ।
तामालिलिङ्ग भीत्या स्वं चकिता व्याकुलाभवत् ॥ १९॥
सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये ।
चकार भ्रमराकारं मृगनाभिविशेषकम् ॥ २०॥
हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।
न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ॥ २१॥
अङ्गदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः ।
तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ॥ २२॥
कालिकेति समायाति सवर्णा ते सखी त्विमाम् ।
यास्यत्वस्यास्तथेक्षन्त्याः प्रोत्तुङ्गौ साहसं कुचौ ॥ २३॥
कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।
चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ॥ २४॥
आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शङ्करः ।
सर्वाङ्गेषु करोति स्म पुष्पाभरणमादरात् ॥ २५॥
गिरिकुञ्जेषु रम्येषु सत्या सह महेश्वरः ।
विजहार समस्तेषु प्रियया भक्तवत्सलः ॥ २६॥
तया विना स्म नो याति नास्थितो न स्म चेष्टते ।
तया विना क्षणमपि शर्म लेभे न शङ्करः ॥ २७॥
विहृत्य सुचिरं कालं कैलासगिरिकुञ्जरे ।
अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरम् ॥ २८॥
तस्मिन्प्रविष्टे कामे तु वसन्तः शङ्करान्तिके ।
वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभोः ॥ २९॥
सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः ।
अम्भांसि फुल्लपद्मानि पद्माः सभ्रमरास्तथा । ३०॥
प्रविष्टे सदृतौ तत्र ववौ स मलयो मरुत् ।
सुगन्धिगन्धपुष्पेण मोदकश्च सुगन्धियुक् ॥ ३१॥
सन्ध्यार्धचन्द्रसङ्काशाः पलाशाश्च विरेजिरे ।
कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ॥ ३२॥
बभुः पङ्कजपुष्पाणि सरस्सु सकलाञ्जनान् ।
सम्मोहयितुमुद्युक्ता सुमुखी वायुदेवता ॥ ३३॥
नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ।
बभुर्मदनकेत्वाभा मनोज्ञाः शङ्करान्तिके ॥ ३४॥
लवङ्गवल्ली सुरभिगन्धेनोद्वास्य मारुतम् ।
मोहयामास चेतांसि भृशं कामिजने पुरा ॥ ३५॥
चारुचर्चितभृङ्गौघाः सुस्वराश्चूतशालिनः ।
बभुर्मदनबाणौघपर्यङ्कमदनावृताः ॥ ३६॥
अम्भांसि मलहीनानि रेजुः फुल्लकुशाशयाः ।
मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ॥ ३७॥
तुषाराः सूर्यरश्मीनां सङ्गमादगमन् बहिः ।
प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ॥ ३८॥
प्रसन्नाः सह चन्द्रेण निर्नीशारास्तदाऽभवन् ।
विभावर्यः प्रियेणैवं कामिन्यः सुमनोहराः ॥ ३९॥
तस्मिन्काले महादेवः सह सत्या धरोत्तमे ।
रेमे स सुचिरं छन्दं निकुञ्जेषु नदीषु च ॥ ४०॥
तथा तेन समं रेजे तदा दाक्षायणी मुने ।
यथा हरः क्षणमपि शान्तिमाप तया विना ॥ ४१॥
सम्भोगविषये देवी सती तस्य मनःप्रिया ।
विशतीव हरस्याङ्गे पाययन्निव तद्रसम् ॥ ४२॥
तस्याः कुसुममालाभिर्भूषयन्सकलां तनुम् ।
स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ॥ ४३॥
आलापैर्वीक्षितैर्हास्यैस्तथा सम्भाषणैर्हरः ।
तस्यादिदेश गिरिजां शंसतीवात्मसंविदम् ॥ ४४॥
तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हरः ।
नानावैशेषिकीं तन्वीमवस्थां स कदाचन ॥ ४५॥
तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ।
गुणैरिव महादन्ती बद्धो नान्यविचेष्टितः ॥ ४६॥
इति हिमगिरिकुञ्जप्रस्थभागे दरीषु
प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ।
क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता
दश दश च सुरर्षे वत्सराः पञ्च चान्ये ॥ ४७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीशिवक्रीडावर्णनं नामैकविंशोऽध्यायः ॥ २.२.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२२. द्वाविंशोऽध्यायः । शिवाशिवविहारवर्णनम् ।
ब्रह्मोवाच ।
कदाचिदथ दक्षस्य तनया जलदागमे ।
कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥ १॥
सत्युवाच ।
देवदेव महादेव शम्भो मत्प्राणवल्लभ ।
शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥ २॥
घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः ।
अनेकवर्णमेघौघाः सङ्गीताम्बरदिक्चयाः ॥ ३॥
विवान्ति वाता हृदयं हारयन्तीति वेगिनः ।
कदम्बरजसा धौताः पाथोबिन्दुविकर्षणाः ॥ ४॥
मेघानां गर्जितैरुच्चैर्धारासारं विमुञ्चताम् ।
विद्युत्पताकिनां तीव्रैः क्षुब्धं स्यात्कस्य नो मनः ॥ ५॥
न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ।
दिवापि रात्रिवद्भाति विरहिव्यसनाकरः ॥ ६॥
मेघा नैकत्र तिष्ठन्तो ध्वनन्तः पवनेरिताः ।
पतन्त इव लोकानां दृश्यन्ते मूर्ध्नि शङ्कर ॥ ७॥
वाताहता महावृक्षा नर्तन्त इव चाम्बरे ।
दृश्यन्ते हर भीरूणां त्रासदाः कामुकेप्सिताः ॥ ८॥
स्निग्धनीलाञ्जनस्याशु सदिवौघस्य पृष्ठतः ।
बलाकराजीवात्युच्चैर्यमुनापृष्ठफेनवत् ॥ ९॥
क्षपायामीश वलयो दृश्यन्ते करभाश्रिताः ।
अम्बुधाविव सन्दीप्तपावको वडवामुखः ॥ १०॥
प्रारोहन्तीह सस्यानि मन्दरे प्राङ्गणेष्वपि ।
किमन्यत्र विरूपाक्ष सस्योद्भूतिं वदाम्यहम् ॥ ११॥
श्यामलै राजतै रक्तैर्विशदोऽयं हिमाचलः ।
मन्दराश्रयमेघौघः पत्रैर्दुग्धाम्बुधिर्यथा ॥ १२॥
असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ।
उच्चावचान् कलौ लक्ष्मीर्गन्ता सन्त्यज्य सज्जनान् ॥ १३॥
मन्दराचलमेघानां शब्देन हृषिता मुहुः ।
केकायन्ते प्रतिवने सततं पृष्ठसूचकम् ॥ १४॥
मेघोत्सुकानां मधुरश्चातकानां मनोहरः ।
धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ॥ १५॥
मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ।
ये छादयन्त्यनुगते मयूरांश्चातकांस्तथा ॥ १६॥
शिखिसारङ्गयोर्दृष्ट्वा मित्रादपि पराभवम् ।
हर्षं गच्छन्ति गिरिश विदूरमपि मानसम् ॥ १७॥
एतस्मिन्विषमे काले नीडं काकाश्चकोरकाः ।
कुर्वन्ति त्वां विना गेहान् कथं शान्तिमवाप्स्यसि ॥ १८॥
महतीवाद्य नो भीतिर्मां मेघोत्था पिनाकधृक् ।
यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥ १९॥
कैलासे वा हिमाद्रौ वा महाकोश्यामथ क्षितौ ।
तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥ २०॥
ब्रह्मोवाच ।
एवमुक्तस्तया शम्भुर्दाक्षायण्या तथासकृत् ।
सञ्जहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥ २१॥
अथोवाच सतीं देवीं स्मिताभिन्नौष्ठसम्पुटः ।
महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥ २२॥
ईश्वरः उवाच ।
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।
मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये ॥ २३॥
मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः ।
सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे ॥ २४॥
कैलासस्य तथा देवि पादगाः प्रायशो घनाः ।
सञ्चरन्ति न गच्छन्ति तत ऊर्ध्वं कदाचन ॥ २५॥
सुमेरोर्वा गिरेरूर्ध्वं न गच्छन्ति बलाहकाः ।
जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥ २६॥
इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ।
मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥ २७॥
स्वेच्छाविहारैस्तव कौतुकानि
सुवर्णपक्षानिलवृन्दवृन्दैः ।
शब्दोत्तरङ्गैर्मधुरस्वनैस्तै-
र्मुदोपगेयानि गिरौ हिमोत्थे ॥ २८॥
सिद्धाङ्गनास्ते रचितासना भुवं
काङ्क्षन्ति चैवोपहृतं सकौतुकम् ।
स्वेच्छाविहारे मणिकुट्टिमे गिरौ
कुर्वन्ति चेष्यन्ति फलादिदानकैः ॥ २९॥
फणीन्द्रकन्या गिरिकन्यकाश्च
या नागकन्याश्च तुरङ्गमुख्याः ।
सर्वास्तु तास्ते सततं सहायतां
समाचरिष्यन्त्यनुमोदविभ्रमैः ॥ ३०॥
रूपं तदेवमतुलं वदनं सुचारु
दृष्ट्वाङ्गना निजवपुर्निजकान्तिसह्यम् ।
हेला निजे वपुषि रूपगणेषु नित्यं
कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१॥
या मेनका पर्वतराज जाया
रूपैर्गुणैः ख्यातवती त्रिलोके ।
सा चापि ते तत्र मनोऽनुमोदं
नित्यं करिष्यत्यनुनाथनाद्यैः ॥ ३२॥
पुरस्थवर्गैर्गिरिराजवन्द्यैः
प्रीतिं विचिन्वद्भिरुदाररूपाम् ।
शिक्षा सदा ते खलु शोचितापि
कार्यान्वहं प्रीतियुता गुणाद्यैः ॥ ३३॥
विचित्रैः कोकिलालापमोदैः कुञ्जगणावृतम् ।
सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये ॥ ३४॥
नानाबहुजलापूर्णसरः शीतसमावृतम् ।
पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥ ३५॥
सर्वकामप्रदैर्वृक्षैः शाद्वलैः कल्पसंज्ञकैः ।
सक्षणं पश्य कुसुमान्यथाश्वकरिगोव्रजम् ॥ ३६॥
प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।
देवालये महामाये नानामृगगणैर्युतम् ॥ ३७॥
स्फाटिकैः स्वर्णवप्राद्यै राजतैश्च विराजितम् ।
मानसादिसरोरङ्गैरभितः परिशोभितम् ॥ ३८॥
हिरण्मयै रत्ननालैः पङ्कजैर्मुकुलैर्वृतम् ।
शिशुमारैस्तथासङ्ख्यैः कच्छपैर्मकरैः करैः ॥ ३९॥
निषेवितं मञ्जुलैश्च तथा नीलोत्पलादिभिः ।
देवेशि तस्मान्मुक्तैश्च सर्वगन्धैश्च कुङ्कुमैः ॥ ४०॥
लसद्गन्धजलैः शुभ्रैरापूर्णैः स्वच्छकान्तिभिः ।
शाद्वलैस्तरुणैस्तुङ्गैस्तीरस्थैरुपशोभितम् ॥ ४१॥
नृत्यद्भिरिव शाखोटैर्वर्जयन्तं स्वसम्भवम् ।
कामदेवैः सारसैश्च मत्तचक्राङ्गशोभितैः ॥ ४२॥
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ।
शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥ ४३॥
वासवस्य कुबेरस्य यमस्य वरुणस्य च ।
अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥ ४४॥
पुरीभिः शोभिशिखरं मेरोरुच्चैः सुरालयम् ।
रम्भाशचीमेनकादिरम्भोरुगणसेवितम् ॥ ४५॥
किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ।
सारभूते महारम्ये संविहर्तुं महागिरौ ॥ ४६॥
तत्र देवी सखियुता साप्सरोगणमण्डिता ।
नित्यं करिष्यति शची तव योग्यां सहायताम् ॥ ४७॥
अथवा मम कैलासे पर्वतेन्द्रे सदाश्रये ।
स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥ ४८॥
गङ्गाजलौघप्रयते पूर्णचन्द्रसमप्रभे ।
दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥ ४९॥
नानामृगगणैर्युक्ते पद्माकरशतावृते ।
सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुन्दरे ॥ ५०॥
स्थानेष्वेतेषु यत्रापि तवान्तःकरणे स्पृहा ।
तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥ ५१॥
ब्रह्मोवाच ।
इतीरिते शङ्करेण तदा दाक्षायणी शनैः ।
इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥ ५२॥
सत्युवाच ।
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ।
नचिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥ ५३॥
ब्रह्मोवाच ।
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ।
हिमाद्रिशिखरं तुङ्गं दाक्षायण्या समं ययौ ॥ ५४॥
सिद्धाङ्गनागणयुतमगम्यं चैव पक्षिभिः ।
अगमच्छिखरं रम्यं सरसीवनराजितम् ॥ ५५॥
विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम् ।
बालार्कसदृशं शम्भुराससाद सतीसखः ॥ ५६॥
स्फटिकाभ्रमये तस्मिन् शाद्वलद्रुमराजिते ।
विचित्रपुष्पावलिभिः सरसीभिश्च संयुते ॥ ५७॥
प्रफुल्लतरुशाखाग्रं गुञ्जद् भ्रमरसेवितम् ।
पङ्केरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा ॥ ५८॥
शोभितं चक्रवाकाद्यैः कादम्बैर्हंससङ्कुलैः ।
प्रमत्तसारसैः क्रौञ्चैर्नीलस्कन्धैश्च शब्दितैः ॥ ५९॥
पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः ।
तुरङ्गवदनैः सिद्धैरप्सरोभिश्च गुह्यकैः ॥ ६०॥
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् ।
पुरन्ध्रीभिः पार्वतीभिः कन्याभिरभिसङ्गतम् ॥ ६१॥
विपञ्चीतान्त्रिकामत्तमृदङ्गपटहस्वनैः ।
नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥ ६२॥
देविकाभिर्दीर्घिकाभिर्गन्धिभिः सुसमावृतम् ।
प्रफुल्लकुसुमैर्नित्यं सुकुञ्जैरुपशोभितम् ॥ ६३॥
शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ।
सह सत्या चिरं रेमे एवम्भूतेषु शोभनम् ॥ ६४॥
तस्मिन् स्वर्गसमे स्थाने दिव्यमानेन शङ्करः ।
दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥ ६५॥
स कदाचित्ततः स्थानादन्यद्याति स्थलं हरः ।
कदाचिन्मेरुशिखरं देवीदेववृतं सदा ॥ ६६॥
द्वीपान्नाना तथोद्यानवनानि वसुधातलम् ।
गत्वा गत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥ ६७॥
न यज्ञे स दिवारात्रौ न ब्रह्मणि तपस्समम् ।
सत्यां हि मनसा शम्भुः प्रीतिमेव चकार ह ॥ ६८॥
एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ।
महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ॥ ६९॥
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्धयामासतुः कालीशिवौ भावाम्बुसेचनैः ॥ ७०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे शिवाशिवविहारवर्णनं नामद्वाविंशोऽध्यायः ॥ २.२.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२३. त्रयोविंशोऽध्यायः । भक्तिप्रभाववर्णनम् ।
ब्रह्मोवाच ।
एवं कृत्वा विहारं वै शङ्करेण च सा सती ।
सन्तुष्टा साभवच्चाति विरागा समजायत ॥ १॥
एकस्मिन्दिवसे देवी सती रहसि सङ्गता ।
शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृताञ्जलिः ॥ २॥
सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ।
उवाच साञ्जलिर्भक्त्या विनयावनता ततः ॥ ३॥
सत्युवाच ।
देवदेव महादेव करुणासागर प्रभो ।
दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४॥
त्वं परः पुरुषः स्वामी रजःसत्त्वतमः परः ।
निर्गुणः सगुणः साक्षी निर्विकारी महाप्रभुः ॥ ५॥
धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ।
जातस्त्वं मे पतिः स्वामिन् भक्तवात्सल्यतो हर ॥ ६॥
कृतो बहुसमा नाथ विहारः परमस्त्वया ।
सन्तुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७॥
ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ।
येन संसारदुःखाद्वै तरेज्जीवोऽञ्जसा हर ॥ ८॥
यत्कृत्वा विषयी जीवः स लभेत्परमं पदम् ।
संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९॥
ब्रह्मोवाच ।
इत्यपृच्छत्स्म सद्भक्त्या शङ्करं सा सती मुने ।
आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ १०॥
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ।
अवोचत्परमप्रीतः सतीं योगविरक्तधीः ॥ ११॥
शिव उवाच ।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ।
परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२॥
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ।
द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३॥
तद्दुर्लभं त्रिलोकेऽस्मिंस्तज्ज्ञाता विरलः प्रिये ।
यादृशो यः स दासोऽहं ब्रह्म साक्षात्परात्परः ॥ १४॥
तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ।
सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५॥
भक्तौ ज्ञाने न भेदो हि तत्कर्तुः सर्वदा सुखम् ।
विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६॥
भक्त्याधीः सदाहं वै तत्प्रभावाद् गृहेष्वपि ।
नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७॥
सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ।
वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८॥
नैष्ठिक्यनैष्ठिकी भेदाद् द्विविधे द्विविधे हि ते ।
षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९॥
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।
तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ २०॥
ते नवाङ्गे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ।
वर्णयामि नवाङ्गानि प्रेमतः शृणु दक्षजे ॥ २१॥
श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ।
दास्यं तथार्चनं देवि वन्दनं मम सर्वदा ॥ २२॥
सख्यमात्मार्पणं चेति नवाङ्गानि विदुर्बुधाः ।
उपाङ्गानि शिवे तस्या बहूनि कथितानि वै ॥ २३॥
शृणु देवि नवाङ्गानां लक्षणानि पृथक् पृथक् ।
मम भक्तेर्मनो दत्त्वा भुक्तिमुक्तिप्रदानि हि ॥ २४॥
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ।
स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५॥
हृदाकाशेन सम्पश्यन् जन्मकर्माणि वै मम ।
प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६॥
व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ।
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७॥
अरुणोदयमारभ्य सेवाकालेऽञ्चिता हृदा ।
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २८॥
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ।
हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९॥
सदा भृत्यानुकूल्येन विधिना मे परात्मने ।
अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ ३०॥
मन्त्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ।
यदष्टाङ्गेन भूस्पर्शं तद्वै वन्दनमुच्यते ॥ ३१॥
मङ्गलामङ्गलं यद्यत्करोतीतीश्वरो हि मे ।
सर्वं तन्मङ्गलायेति विश्वासः सख्यलक्षणम् ॥ ३२॥
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् ।
निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम् ॥ ३३॥
नवाङ्गानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ।
मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४॥
उपाङ्गानि च मद्भक्तेर्बहूनि कथितानि वै ।
बिल्वादिसेवनादीनि समूह्यानि विचारतः ॥ ३५॥
इत्थं साङ्गोपाङ्गभक्तिर्मम सर्वोत्तमा प्रिये ।
ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६॥
सर्वकर्मफलोत्पत्तिः सर्वदा त्वत्समप्रिया ।
यच्चित्ते सा स्थिता नित्यं सर्वदा सोऽति मत्प्रियः ॥ ३७॥
त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः ।
चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८॥
कलौ तु ज्ञानवैराग्यौ वृद्धरूपौ निरुत्सवौ ।
ग्राहकाभावतो देवि जातौ जर्जरतामति ॥ ३९॥
कलौ प्रत्यक्षफलदा भक्तिः सर्वयुगेष्वपि ।
तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ ४०॥
यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ।
विघ्नहर्ता रिपुस्तस्य दण्ड्यो नात्र च संशयः ॥ ४१॥
भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतः ।
अदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२॥
भक्तहेतोरहं देवि रव्युपर्यभवं किल ।
अतिक्रोधान्वितः शूलं गृहीत्वान्वजयं पुरा । ४३॥
भक्तहेतोरहं देवि रावणं सगणं क्रुधा ।
त्यजामि स्म कृतो नैव पक्षपातो हि तस्य वै ॥ ४४॥
भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ।
काश्या न्यसारयं क्रोधाद्दण्डयित्वा च नन्दिना ॥ ४५॥
किं बहूक्तेन देवेशि भक्त्याधीनः सदा ह्यहम् ।
तत्कर्तुः पुरुषस्यातिवशगो नात्र संशयः ॥ ४६॥
ब्रह्मोवाच ।
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ।
जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७॥
पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ।
शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८॥
सयन्त्रमन्त्रशास्त्रं च तन्माहात्म्यं विशेषतः ।
अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९॥
शङ्करोऽपि तदाकर्ण्य सतीप्रश्नं प्रहृष्टधीः ।
वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ ५०॥
तन्त्रशास्त्रं सयन्त्रं हि सपञ्चाङ्गं महेश्वरः ।
बभाषे महिमानं च तत्तद्देववरस्य वै ॥ ५१॥
सेतिहासकथां तेषां भक्तमाहात्म्यमेव च ।
सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२॥
सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ।
वैद्यशास्त्रं तथा ज्योतिःशास्त्रं जीवसुखावहम् ॥ ५३॥
सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ।
कृपां कृत्वा महेशानो वर्णयामास तत्त्वतः ॥ ५४॥
इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ।
लोकोपकारकरणधृतसद्गुणविग्रहौ ॥ ५५॥
चिक्रीडाते बहुविधं कैलासे हिमवद् गिरौ ।
अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २.२.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२४. चतुर्विंशोऽध्यायः । रामपरीक्षावर्णनम् ।
नारद उवाच ।
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ।
श्रावितं शङ्करयशः सतीशङ्करयोः शुभम् ॥ १॥
इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ।
किमकार्ष्टां हि तत्स्थौ वै चरितं दम्पती शिवौ ॥ २॥
ब्रह्मोवाच ।
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ।
लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ॥ ३॥
ततः सती महादेवी वियोगमलभन्मुने ।
स्वपतः शङ्करस्येति वदन्त्येके सुबुद्धयः ॥ ४॥
वागर्थाविव सम्पृक्तौ शक्तीशौ सर्वदा चितौ ।
कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ॥ ५॥
लीलारुचित्वादथवा सङ्घटेताखिलं च तत् ।
कुरुते यद्यदीशौ च सतीशौ भवरीतिगौ ॥ ६॥
सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ।
शम्भोरनादरात्तत्र देहं तत्याज सङ्गता ॥ ७॥
पुनर्हिमालये सैवाविर्भूता नामतः सती ।
पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ॥ ८॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः ।
पप्रच्छ च विधातारं शिवाशिवमहद्यशः ॥ ९॥
नारद उवाच ।
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ।
शिवाशिवचरित्रं तद्भवाचारपरानुगम् ॥ १०॥
किमर्थं शङ्करो जायां तत्याज प्राणतः प्रियाम् ।
तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ॥ ११॥
कुतोऽध्वरेऽजः पुत्रस्यानादरोऽभूच्छिवस्य ते ।
कथं तत्याज सा देहं गत्वा तत्र पितुः क्रतौ ॥ १२॥
ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ।
तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छ्रुतावहम् ॥ १३॥
ब्रह्मोवाच ।
शृणु तात परप्रीत्या मुनिभिः सह नारद ।
सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ॥ १४॥
नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ।
परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ॥ १५॥
सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ।
स्वतन्त्रो निर्विकारी च सती सापि हि तद्विधा ॥ १६॥
अन्यथा कः समर्थो हि तत्कर्मकरणे मुने ।
परमात्मा परब्रह्म स एव परमेश्वरः ॥ १७॥
यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ।
मुनयश्च महात्मानः सिद्धाश्च सनकादयः ॥ १८॥
शेषः सदा यशो यस्य मुदा गायति नित्यशः ।
पारं न लभते तात स प्रभुः शङ्करः शिवः ॥ १९॥
तस्यैव लीलया सर्वोऽयमिति तत्त्वविभ्रमः ।
तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ॥ २०॥
एकस्मिन्समये रुद्रः सत्या त्रिभवने भवः ।
वृषमारुह्य पर्याटद्रसां लीलाविशारदः ॥ २१॥
आगत्य दण्डकारण्यं पर्यटन् सागराम्बराम् ।
दर्शयन् तत्रगां शोभां सत्यै सत्यपणः प्रभुः ॥ २२॥
तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ।
अन्विष्यन्तं प्रियां सीतां रावणेन हृतां छलात् ॥ २३॥
हा सीतेति प्रोच्चरन्तं विरहाविष्टमानसम् ।
यतस्ततश्च पश्यन्तं रुदन्तं हि मुहुर्मुहुः ॥ २४॥
समिच्छन्तं च तत्प्राप्तिं पृच्छन्तं तद्गतिं हृदा ।
कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम् ॥ २५॥
सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम् ।
भरताग्रजमानन्दरहितं विगतप्रभम् ॥ २६॥
पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः ।
रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः ॥ २७॥
जयेत्युक्त्वान्यतोऽगच्छन्नदात्तस्मै स्वदर्शनम् ।
रामाय विपिने तस्मिन् शङ्करो भक्तवत्सलः ॥ २८॥
इतीदृशीं सती दृष्ट्वा शिवलीलां विमोहनीम् ।
सुविस्मिता शिवं प्राह शिवमायाविमोहिता ॥ २९॥
सत्युवाच ।
देवदेव परब्रह्म सर्वेश परमेश्वर ।
सेवन्ते त्वां सदा सर्वे हरिब्रह्मादयः सुराः ॥ ३०॥
त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा ।
वेदान्तवेद्यो यत्नेन निर्विकारी परप्रभुः ॥ ३१॥
काविमौ पुरुषौ नाथ विरहव्याकुलाकृती ।
विचरन्तौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ॥ ३२॥
तयोर्ज्येष्ठं कञ्जश्यामं दृष्ट्वा वै केन हेतुना ।
मुदितः सुप्रसन्नात्माभवो भक्त इवाधुना ॥ ३३॥
इति मे संशयं स्वामिन् शङ्कर छेत्तुमर्हसि ।
सेव्यस्य सेवके नैव घटते प्रणतिः प्रभो ॥ ३४॥
ब्रह्मोवाच ।
आदिशक्तिः सती देवी शिवा सा परमेश्वरी ।
शिवमायावशी भूत्वा पप्रच्छेत्थं शिवं प्रभुम् ॥ ३५॥
तदाकर्ण्य वचः सत्याः शङ्करः परमेश्वरः ।
तदा विहस्य स प्राह सतीं लीलाविशारदः ॥ ३६॥
परमेश्वर उवाच ।
शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् ।
वरदानप्रभावात्तु प्रणामं चैवमादरात् ॥ ३७॥
रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ ।
सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ॥ ३८॥
गौरवर्णौ लघुर्बन्धुः शेषेशो लक्ष्मणाभिधः ।
ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ॥ ३९॥
अवतीर्णः क्षितौ साधुरक्षणाय भवाय नः ।
इत्युक्त्वा विररामासौ शम्भुः सूतिकरः प्रभुः ॥ ४०॥
श्रुत्वापीत्थं वचः शम्भोर्न विशश्वास तन्मनः ।
शिवमाया बलवती सैव त्रैलोक्यमोहिनी ॥ ४१॥
अविश्वस्तं मनो ज्ञात्वा तस्याः शम्भुः सनातनः ।
अवोचद्वचनं चेति प्रभुर्लीलाविशारदः ॥ ४२॥
शिव उवाच ।
शृणु मद्वचनं देवि न विश्वसिति चेन्मनः ।
तव रामपरिक्षां हि कुरु तत्र स्वया धिया ॥ ४३॥
विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये ।
गत्वा तत्र स्थितस्तावद् वटे भव परीक्षिका ॥ ४४॥
ब्रह्मोवाच ।
शिवाज्ञया सती तत्र गत्वाचिन्तयदीश्वरी ।
कुर्यां परीक्षां च कथं रामस्य वनचारिणः ॥ ४५॥
सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ ।
यदि रामो हरिः सर्वं विज्ञास्यति न चान्यथा ॥ ४६॥
इत्थं विचार्य सीता सा भूत्वा रामसमीपतः ।
अगमत्तत्परीक्षार्थं सती मोहपरायणा ॥ ४७॥
सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च ।
विहस्य तत्प्रविज्ञाय नत्वावोचद् रघूद्वहः ॥ ४८॥
श्रीराम उवाच ।
प्रेमतस्त्वं सति ब्रूहि क्व शम्भुस्ते नमो गतः ।
एकाकी विपिने कस्मादागता पतिना विना ॥ ४९॥
त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति ।
ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि ॥ ५०॥
ब्रह्मोवाच ।
इति रामवचः श्रुत्वा चकितासीत्सती तदा ।
स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ॥ ५१॥
रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ।
स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ॥ ५२॥
शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः ।
इहागच्छच्च विपिने स्वतन्त्रः परमेश्वरः ॥ ५३॥
अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् ।
सलक्ष्मणं विरहिणं सीतया क्लिष्टमानसम् ॥ ५४॥
नत्वा त्वां स गतो मूले वटस्य स्थित एव हि ।
प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ॥ ५५॥
चतुर्भुजं हरिं त्वां नो दृष्ट्वैव मुदितोऽभवत् ।
यथेदं रूपममलं पश्यन्नानन्दमाप्तवान् ॥ ५६॥
तच्छ्रुत्वा वचनं शम्भोर्भ्रममानीय चेतसि ।
तदाज्ञया परीक्षां ते कृतवत्यस्मि राघव ॥ ५७॥
ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताखिला ।
निःसंशया तदापि तच्छृणु त्वं च महामते ॥ ५८॥
कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः ।
कुरु निःसंशयां त्वं मां शमलं प्राप्नुहि द्रुतम् ॥ ५९॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः ।
अस्मरत्स्वं प्रभुं शम्भुं प्रेमाभूद् हृदि चाधिकम् ॥ ६०॥
सत्या विनाज्ञया शम्भुसमीपं नागमन्मुने ।
संवर्ण्य महिमानं च प्रावोचद्राघवः सतीम् ॥ ६१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २.२.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२५. पञ्चविंशोऽध्यायः । शिवसतीवियोगः ।
श्रीराम उवाच ।
एकदा हि पुरा देवि शम्भुः परमसूतिकृत् ।
विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १॥
तेन स्वधेनुशालायां कारयामास विस्तृतम् ।
रम्यं च भवनं सम्यक् तत्र सिंहासनं वरम् ॥ २॥
तत्र च्छत्रं महादिव्यं सर्वदाद्भुतमुत्तमम् ।
कारयामास विघ्नार्थं शङ्करो विश्वकर्मणा ॥ ३॥
शक्रादीनां जुहावाशु समस्तान् देवतागणान् ।
सिद्धगन्धर्वनागादीनुपदेवांश्च कृत्स्नशः ॥ ४॥
देवान् सर्वानागमांश्च विधिपुत्रान् मुनीनपि ।
देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५॥
देवानां च तथर्षीणां सिद्धानां फणिनामपि ।
आनयन् मङ्गलकराः कन्याः षोडश षोडश ॥ ६॥
वीणामृदङ्गप्रमुखवाद्यान्नानाविधान् मुने ।
उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७॥
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः
प्रत्यक्षतीर्थपाथोभिः पञ्चकुम्भांश्च पूरितान् । ८॥
तथान्याः संविधा दिव्या आनयत्स्वगणैस्तदा ।
ब्रह्मघोषं महारावं कारयामास शङ्करः ॥ ९॥
अथो हरिं समाहूय वैकुण्ठात्प्रीतमानसः ।
तद्भक्त्या पूर्णया देवि मोदति स्म महेश्वरः ॥ १०॥
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ।
उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११॥
आबद्धरम्यमुकुटं कृतकौतुकमङ्गलम् ।
अभ्यषिञ्चन्महेशस्तु स्वयं ब्रह्माण्डमण्डपे ॥ १२॥
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ।
ततस्तुष्टाव तं शम्भुः स्वतन्त्रो भक्तवत्सलः ॥ १३॥
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ।
व्यापयन्स्वं वराधीनं स्वतन्त्रं भक्तवत्सलः ॥ १४॥
महेश उवाच ।
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ।
मम वन्द्यः स्वयं विष्णुर्जातः सर्वः शृणोति हि ॥ १५॥
सर्वैर्देवादिभिस्तात प्रणम त्वममुं हरिम् ।
वर्णयन्तु हरिं वेदा ममैते मामिवाज्ञया ॥ १६॥
श्रीराम उवाच ।
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ।
विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७॥
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ।
मुनिसिद्धादिभिश्चैव वन्दितोऽभूद्धरिस्तदा ॥ १८॥
ततो महेशो हरयेऽशंसद्दिविषदां पुरः ।
महावरान् सुप्रसन्नो दत्तवान् भक्तवत्सलः ॥ १९॥
महेश उवाच ।
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ।
दाता धर्मार्थकामानां शास्ता दुर्णयकारिणाम् ॥ २०॥
जगदीशो जगत्पूज्यो महाबलपराक्रमः ।
अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१॥
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ।
नानालीलाप्रभावत्वं स्वतन्त्रत्वं भवत्रये ॥ २२॥
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।
त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३॥
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ।
यया सम्मोहितं विश्वमचिद्रूपं भविष्यति ॥ २४॥
मम बाहुर्मदीयस्त्वं दक्षिणोऽसौ विधिर्हरे ।
अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५॥
हृदयं मम यो रुद्रः स एवाहं न संशयः ।
पूज्यस्तव सदा सोऽपि ब्रह्मादीनामपि ध्रुवम् ॥ २६॥
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ।
नानावतारभेदैश्च सदा नानोतिकर्तृभिः ॥ २७॥
मम लोके तवेदं वै स्थानं च परमर्द्धिमत् ।
गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥ २८॥
भविष्यन्ति हरे ये तेऽवतारा भुवि रक्षकाः ।
मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद् वरात् ॥ २९॥
श्रीराम उवाच ।
अखण्डैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् ।
कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥ ३०॥
तदाप्रभृति लक्ष्मीशो गोपवेषोऽभवत्तथा ।
अयासीत्तत्र सुप्रीत्या गोपगोपीगवां पतिः ॥ ३१॥
सोऽपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ।
नानावतारसन्धर्तावनकर्ता शिवाज्ञया ॥ ३२॥
इदानीं स चतुर्द्धात्रावातरच्छङ्कराज्ञया ।
रामोऽहं तत्र भरतो लक्ष्मणः शत्रुहेति च ॥ ३३॥
अथ पित्राज्ञया देवि ससीतालक्ष्मणः सति ।
आगतोऽहं वने चाद्य दुःखितो दैवतोऽभवम् ॥ ३४॥
निशाचरेण मे जाया हृता सीतेति केनचित् ।
अन्वेष्यामि प्रियां चात्र विरही बन्धुना वने ॥ ३५॥
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ।
भविष्यति न सन्देहो मातस्ते कृपया सति ॥ ३६॥
सीताप्राप्तिवरं देवि भविष्यति न संशयः ।
तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥ ३७॥
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ।
यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥ ३८॥
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ।
तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९॥
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ।
हृष्टाभूत्सा प्रशंसन्तं शिवभक्तिरतं हृदि ॥ ४०॥
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ।
प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ ॥ ४१॥
पथि साचिन्तयद् देवी सञ्चलन्ती पुनः पुनः ।
नाङ्गीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥ ४२॥
किमुत्तरमहं दास्ये गत्वा शङ्करसन्निधौ ।
इति सञ्चिन्त्य बहुधा पश्चात्तापोऽभवत्तदा ॥ ४३॥
गत्वा शम्भुसमीपं च प्रणनाम शिवं हृदा ।
विषण्णवदना शोकव्याकुला विगतप्रभा ॥ ४४॥
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ।
प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥ ४५॥
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ।
सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥ ४६॥
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ।
दक्षजाया महायोगी नानालीलाविशारदः ॥ ४७॥
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ।
तत्प्रार्थितोऽथ रुद्रोऽसौ मर्यादाप्रतिपालकः ॥ ४८॥
विषादोऽभूत्प्रभोस्तत्र मनस्येवमुवाच ह ।
धर्मवक्ता धर्मकर्ता धर्मावनकरः सदा ॥ ४९॥
शिव उवाच ।
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ।
नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥ ५०॥
ब्रह्मोवाच ।
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ।
पणं न नाशयामास वेदधर्मप्रपालकः ॥ ५१॥
ततो विहाय मनसा सतीं तां परमेश्वरः ।
जगाम स्वगिरिं भेदं जगावद्धा स हि प्रभुः ॥ ५२॥
चलन्तं पथि तं व्योमवाण्युवाच महेश्वरम् ।
सर्वान् संश्रावयंस्तत्र दक्षजां च विशेषतः ॥ ५३॥
व्योमवाण्युवाच ।
धन्यस्त्वं परमेशान त्वत्समोऽद्य तथा पणः ।
न कोऽप्यन्यस्त्रिलोकेऽस्मिन् महायोगी महाप्रभुः ॥ ५४॥
ब्रह्मोवाच ।
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा ।
कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥ ५५॥
इति पृष्टोऽपि गिरिशः सत्या हितकरः प्रभुः ।
नोद्वाहं स्वं पणं तस्यै यत् हर्यग्रेऽकरोत्पुरा ॥ ५६॥
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम् ।
सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥ ५७॥
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ।
शम्भुना दक्षजा तस्मान्निःश्वसन्ती मुहुर्मुहुः ॥ ५८॥
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ।
सत्यै पणं स्वकीयं हि कथा बह्वीर्वदन् प्रभुः ॥ ५९॥
सत्या प्राप स कैलासं कथयन् विविधाः कथाः ।
वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥ ६०॥
तत्र तस्थौ सती धाम्नि महाव्याकुलमानसा ।
न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥ ६१॥
महान्कालो व्यतीयाय तयोरित्थं महामुने ।
स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥ ६२॥
ध्यानं तत्याज गिरिशस्ततः स परमोतिकृत् ।
तज्ज्ञात्वा जगदम्बा हि सती तत्राजगाम सा ॥ ६३॥
ननामाथ शिवं देवी हृदयेन विदूयता ।
आसनं दत्तवान् शम्भुः स्वसम्मुख उदारधीः ॥ ६४॥
कथयामास सुप्रीत्या कथा वह्वीर्मनोरमाः ।
निःशोकां कृतवान् सद्यो लीलां कृत्वा च तादृशीम् ॥ ६५॥
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ।
नेत्याश्चर्यं शिवे तात मन्तव्यं परमेश्वरे ॥ ६६॥
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ।
किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥ ६७॥
शिवाशिवचरित्रं को जानाति परमार्थतः ।
स्वेच्छया क्रीडतस्तौ हि चरितं कुरुतः सदा ॥ ६८॥
वागर्थाविव सम्पृक्तौ सदा खलु सतीशिवौ ।
तयोर्वियोगोऽसम्भाव्यः सम्भवेदिच्छया तयोः ॥ ६९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो नाम पञ्चविंशोऽध्यायः ॥ २.२.२५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२६. षड्विंशोऽध्यायः । शिवसतीवियोगः ।
ब्रह्मोवाच ।
पुराभवच्च सर्वेषामध्वरो विधिना महान् ।
प्रयागे समवेतानां मुनीनां च महात्मनाम् ॥ १॥
तत्र सिद्धाः समायाताः सनकाद्याः सुरर्षयः ।
सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ॥ २॥
अहं समागतस्तत्र परिवारसमन्वितः ।
निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ॥ ३॥
समाजोऽभूद्विचित्रो हि तेषामुत्सवसंयुतः ।
ज्ञानवादोऽभवत्तत्र नानाशास्त्रसमुद्भवः ॥ ४॥
तस्मिन्नवसरे रुद्रः सभवानीगणः प्रभुः ।
त्रिलोकहितकृत्स्वामी तत्रागात्सूतिकृन्मुने ॥ ५॥
दृष्ट्वा शिवं सुराः सर्वे सिद्धाश्च मुनयस्तथा ।
अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ॥ ६॥
तस्थुः शिवाज्ञया सर्वे यथास्थानं मुदान्विताः ।
प्रभुदर्शनसन्तुष्टाः वर्णयन्तो निजं विधिम् ॥ ७॥
तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः ।
आगमत्तत्र सुप्रीतः सुवर्चस्वी यदृच्छया ॥ ८॥
मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया ।
ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ॥ ९॥
स्तुतिभिः प्रणिपातैश्च दक्षः सर्वैः सुरर्षिभिः ।
पूजितो वरतेजस्वी करौ वध्वा विनम्रकैः ॥ १०॥
नानाविहारकृन्नाथः स्वतन्त्रः परमोतिकृत् ।
नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ॥ ११॥
दृष्ट्वानतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः ।
अकुप्यत्सहसा रुद्रे तदा दक्षः प्रजापतिः ॥ १२॥
क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् ।
सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ॥ १३॥
दक्षवाच ।
एते हि सर्वे च सुरासुरा भृशं
नमन्ति मां विप्रवरास्तथर्षयः ।
कथं ह्यसौ दुर्जनवन्महामना
त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४॥
श्मशानवासी निरपत्रपो ह्ययं
कथं प्रणामं न करोति मेऽधुना ।
लुप्तक्रियो भूतपिशाचसेवितो
मत्तोऽविधो नीतिविदूषकः सदा ॥ १५॥
पाखण्डिनो दुर्जनपापशीला
दृष्ट्वा द्विजं प्रोद्धतनिन्दकाञ्च ।
वध्वां सदासक्तरतिप्रवीण-
स्तस्मादमुं शप्तुमहं प्रवृत्तः ॥ १६॥
ब्रह्मोवाच ।
इत्येवमुक्त्वा स महाखलस्तदा
रुषान्वितो रुद्रमिदं ह्यवोचत् ।
शृण्वन्त्वमी विप्रवरास्तथा सुरा
वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७॥
दक्ष उवाच ।
रुद्रो ह्ययं यज्ञबहिष्कृतो मे
वर्णेष्वतीतोऽथ विवर्णरूपः ।
देवैर्न भागं लभतां सहैव
श्मशानवासी कुलजन्महीनः ॥ १८॥
ब्रह्मोवाच ।
इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः ।
अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैः समम् ॥ १९॥
नन्दी निशम्य तद्वाक्यं लोलाक्षोऽतिरुषान्वितः ।
अब्रवीत् त्वरितं दक्षं शापं दातुमना गणः ॥ २०॥
नन्दीश्वर उवाच ।
रे रे शठ महामूढ दक्ष दुष्टमते त्वया ।
यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ॥ २१॥
यस्य स्मरणमात्रेण भवन्ति सफला मखाः ।
तीर्थानि च पवित्राणि सोऽयं शप्तो हरः कथम् ॥ २२॥
वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते ।
वृथोपहसितश्चैवादुष्टो रुद्रो महाप्रभुः ॥ २३॥
येनेदं पाल्यते विश्वं सृष्टमन्ते विनाशितम् ।
शप्तोऽयं स कथं रुद्रो महेशो ब्राह्मणाधम ॥ २४॥
एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः ।
नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ॥ २५॥
दक्ष उवाच ।
यूयं सर्वे रुद्रगणा वेदबाह्या भवन्तु वै ।
वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ॥ २६॥
पाखण्डवादनिरताः शिष्टाचारबहिष्कृताः ।
मदिरापाननिरता जटाभस्मास्थिधारिणः ॥ २७॥
ब्रह्मोवाच ।
इति शप्तास्तथा तेन दक्षेण शिवकिङ्कराः ।
तच्छ्रुत्वातिरुषाविष्टोऽभवन्नन्दी शिवप्रियः ॥ २८॥
प्रत्युवाच द्रुतं दक्षं गर्वितं तं महाखलम् ।
शिलादतनयो नन्दी तेजस्वी शिववल्लभः ॥ २९॥
नन्दीश्वर उवाच ।
रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिङ्कराः ।
शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ॥ ३०॥
भृग्वाद्यैर्दुष्टचित्तैश्च मूढैः स उपहासितः ।
महाप्रभुर्महेशानो ब्राह्मणत्वादहम्मते ॥ ३१॥
ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः ।
रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम् ॥ ३२॥
वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः ।
भवन्तु सततं विप्रा नान्यदस्तीति वादिनः ॥ ३३॥
कामात्मानः स्वर्गपराः क्रोधलोभमदान्विताः ।
भवन्तु सततं विप्रा भिक्षुका निरपत्रपाः ॥ ३४॥
वेदमार्गं पुरस्कृत्य ब्राह्मणाः शूद्रयाजिनः ।
दरिद्रा वै भविष्यन्ति प्रतिग्रहरताः सदा ॥ ३५॥
असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः ।
भविष्यन्ति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ॥ ३६॥
यः शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् ।
द्रुह्यत्यजो दुष्टमतिः तत्त्वतां विमुखो भवेत् ॥ ३७॥
कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया ।
कर्मतन्त्रं वितनुतां वेदवादं च शाश्वतम् ॥ ३८॥
विनष्टानन्दकमुखो विस्मृतात्मगतिः पशुः ।
भ्रष्टकर्मानयरतो दक्षो बस्तमुखोऽचिरात् ॥ ३९॥
शप्तास्ते कोपिना तत्र नन्दिना ब्राह्मणा यदा ।
हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः ॥ ४०॥
तदाकर्ण्याहमत्यन्तमनिन्दं तं मुहुर्मुहुः ।
भृग्वादीनपि विप्रांश्च वेदसृट् शिवतत्त्ववित् ॥ ४१॥
ईश्वरोऽपि वचः श्रुत्वा नन्दिनः प्रहसन्निव ।
उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ॥ ४२॥
सदाशिव उवाच ।
शृणु नन्दिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि ।
वृथा शप्तं ब्रह्मकुलं मत्वा शप्तं च मां भ्रमात् ॥ ४३॥
वेदो मन्त्राक्षरमयः साक्षात्सूक्तमयो भृशम् ।
सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ॥ ४४॥
तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः ।
शप्या न वेदाः केनापि दुर्द्धियाऽपि कदाचन ॥ ४५॥
अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि ।
शान्तो भव महाधीमन् सनकादिविबोधकः ॥ ४६॥
यज्ञोऽहं यज्ञकर्माहं यज्ञाङ्गानि च सर्वशः ।
यज्ञात्मा यज्ञनिरतो यज्ञबाह्योऽहमेव वै ॥ ४७॥
कोऽयं कस्त्वमिमे के हि सर्वोऽहमपि तत्त्वतः ।
इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ॥ ४८॥
तत्त्वज्ञानेन निर्हृत्य प्रपञ्चरचनां भव ।
बुधःस्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ॥ ४९॥
ब्रह्मोवाच ।
एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः ।
विवेकपरमो भूत्वा शान्तोऽभूत्क्रोधवर्जितः ॥ ५०॥
शिवोऽपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् ।
सगणः स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ॥ ५१॥
दक्षोऽपि स रुषाविष्टस्तैर्द्विजैः परिवारितः ।
स्वस्थानं च ययौ चित्ते शिवद्रोहपरायणः ॥ ५२॥
रुद्रं तदानीं परिशप्यमानं
संस्मृत्य दक्षः परया रुषान्वितः ।
श्रद्धां विहायैव स मूढबुद्धि-
र्निन्दापरोऽभूच्छिवपूजकानाम् ॥ ५३॥
इत्युक्तो दक्षदुर्बुद्धिः शम्भुना परमात्मना ।
परां दुर्धिषणां तस्य शृणु तात वदाम्यहम् ॥ ५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ॥ २.२.२६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२७. सप्तविंशोऽध्यायः । दक्षयज्ञारम्भः ।
ब्रह्मोवाच ।
एकदा तु मुने तेन यज्ञः प्रारम्भितो महान् ।
तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १॥
महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ।
यद्यज्ञकरणार्थं हि शिवमायाविमोहिताः ॥ २॥
अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः ।
दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३॥
पैलः पराशरो गर्गो भार्गवः ककुभः सितः ।
सुमन्तुत्रिककङ्काश्च वैशम्पायन एव च ॥ ४॥
एते चान्ये च बहवो मुनयो हर्षिता ययुः ।
मम पुत्रस्य दक्षस्य सदाराः ससुता मखम् ॥ ५॥
तथा सर्वे सुरगणा लोकपाला महोदयाः ।
तथोपनिर्जराः सर्वे स्वोपकारबलान्विताः ॥ ६॥
सत्यलोकात्समानीतो नुतोऽहं विश्वकारकः ।
ससुतः सपरीवारो मूर्तवेदादिसंयुतः ॥ ७॥
वैकुण्ठाच्च तथा विष्णुः सम्प्रार्थ्य विविधादरात् ।
सपार्षदपरीवारः समानीतो मखं प्रति ॥ ८॥
एवमन्ये समायाता दक्षयज्ञं विमोहिताः ।
सत्कृतास्तेन दक्षेण सर्वे ते हि दुरात्मना ॥ ९॥
भवनानि महार्हाणि सुप्रभाणि महान्ति च ।
त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ १०॥
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ।
सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११॥
वर्तमाने महायज्ञे तीर्थे कनखले तदा ।
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२॥
अधिष्ठाता स्वयं विष्णुः सह सर्वमरुद्गणैः ।
अहं तत्राभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३॥
तथैव सर्वे दिक्पाला द्वारपालाश्च रक्षकाः ।
सायुधाः सपरीवाराः कुतूहलकराः सदा ॥ १४॥
उपतस्थे स्वयं यज्ञः सुरूपस्तस्य चाध्वरे ।
सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराभवन् ॥ १५॥
तनूनपादपि निजं चक्रे रूपं सहस्रशः ।
हविषां ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६॥
अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ।
उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ॥ १७॥
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ।
सप्तर्षयः समा गाथाः कुर्वन्ति स्म पृथक्पृथक् ॥ १८॥
गन्धर्वविद्याधरसिद्धसङ्घा-
नादित्यसङ्घान् सगणान् सयज्ञान् ।
सङ्ख्यावतान्नागचरान् समस्तान्
वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९॥
द्विजर्षिराजर्षिसुरर्षिसङ्घा
नृपाः समित्राः सचिवाः ससैन्याः ।
वसुप्रमुख्या गणदेवताश्च
सर्वे वृतास्तेन मखोपवेत्त्रा ॥ २०॥
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमङ्गलः ।
भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१॥
तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण दुरात्मना ।
कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२॥
कपालिभार्येति सती दयिता स्वसुतापि च ।
नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३॥
एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ।
स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसम्मताः ॥ २४॥
एतस्मिन्नन्तरेऽदृष्ट्वा तत्र वै शङ्करं प्रभुम् ।
प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ॥ २५॥
दधीच उवाच ।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ।
कस्मान्नैवागतः शम्भुरस्मिन् यज्ञे महोत्सवे ॥ २६॥
एते सुरेशा मुनयो महत्तराः
सलोकपालाश्च समागता हि ।
तथापि यज्ञस्तु न शोभते भृशं
पिनाकिना तेन महात्मना विना ॥ २७॥
येनैव सर्वाण्यपि मङ्गलानि
भवन्ति शंसन्ति महाविपश्चितः ।
सोऽसौ न दृष्टोऽत्र पुमान् पुराणो
वृषध्वजो नीलगलः परेशः ॥ २८॥
अमङ्गलान्येव च मङ्गलानि
भवन्ति येनाधिगतानि दक्ष ।
त्रिपञ्चकेनाप्यथ मङ्गलानि
भवन्ति सद्यः परतः पराणि ॥ २९॥
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ।
त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना ॥ ३०॥
इन्द्रेण लोकपालैश्च द्विजैः सिद्धैः सहाधुना ।
सर्वथानयनीयोऽसौ शङ्करो यज्ञपूर्तये ॥ ३१॥
सर्वैर्भवद्भिर्गन्तव्यं यत्र देवो महेश्वरः ।
दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ॥ ३२॥
तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ।
अत्रागतेन देवेशाः साम्बेन परमात्मना ॥ ३३॥
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ।
तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ॥ ३४॥
समागते शङ्करेऽत्र पावनो हि भवेन्मखः ।
भविष्यत्यन्यथापूर्णः सत्यमेतद् ब्रवीम्यहम् ॥ ३५॥
ब्रह्मोवाच ।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः ।
उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ॥ ३६॥
मूलं विष्णुर्देवतानां यत्र धर्मः सनातनः ।
समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ॥ ३७॥
यस्मिन् वेदाश्च यज्ञाश्च कर्माणि विविधानि च ।
प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः ॥ ३८॥
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ।
वेदैः सोपनिषद्भिश्च विविधैरागमैः सह ॥ ३९॥
तथा सुरगणैः साकमागतः सुरराट् स्वयम् ।
तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥ ४०॥
ये ये यज्ञोचिताः शान्ताः पात्रभूताः समागताः ।
वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः ॥ ४१॥
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ।
कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२॥
हरोऽकुलीनोऽसौ विप्र पितृमातृविवर्जितः ।
भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥ ४३॥
आत्मसम्भावितो मूढः स्तब्धो मौनी समत्सरः ।
कर्मण्यस्मिन्न योग्योऽसौ नानीतो हि मयाधुना ॥ ४४॥
तस्मात्त्वयेदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ।
सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥ ४५॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत् ।
सर्वेषां शृण्वतां देवमुनीनां सारसंयुतम् ॥ ४६॥
दधीच उवाच ।
अयज्ञोऽयं महाजातो विना तेन शिवेन हि ।
विनाशोऽपि विशेषेण ह्यत्र ते हि भविष्यति ॥ ४७॥
एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः ।
यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ ॥ ४८॥
ततोऽन्ये शाङ्करा ये च मुख्याः शिवमतानुगाः ।
निर्ययुः स्वाश्रमान् सद्यः शापं दत्त्वा तथैव च ॥ ४९॥
मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ।
शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ॥ ५०॥
दक्ष उवाच ।
गतः शिवप्रियो विप्रो दधीचो नाम नामतः ।
अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ॥ ५१॥
एतच्छुभतरं जातं सम्मतं मे हि सर्वथा ।
सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ॥ ५२॥
विनष्टचित्ता मन्दाश्च मिथ्यावादरताः खलाः ।
वेदबाह्या दुराचाराः त्याज्यास्ते मखकर्मणि ॥ ५३॥
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ।
यज्ञं मे सफलं विप्राः सुराः कुर्वन्तु माचिरम् ॥ ५४॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ।
तन्मखे देवयजनं चक्रुः सर्वे सुरर्षयः ॥ ५५॥
इति तन्मखशापो हि वर्णितो मे मुनीश्वर ।
यज्ञविध्वंसयोगोऽपि प्रोच्यते शृणु सादरम् ॥ ५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे यज्ञप्रारम्भो नाम सप्तविंशोऽध्यायः ॥ २.२.२७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२८. अष्टाविंशोऽध्यायः । सतीयात्रावर्णनम् ।
ब्रह्मोवाच ।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ।
तस्मिन्नेवान्तरे देवी पर्वते गन्धमादने ॥ १॥
धारागृहे वितानेन सखीभिः परिवारिता ।
दाक्षायणी महाक्रीडाश्चकार विविधाः सती ॥ २॥
क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती ।
दक्षयज्ञे प्रयान्तीं तां रोहिण्यापृच्छ्य सत्वरम् ॥ ३॥
दृष्ट्वा सीमन्तया भूतां विजयां प्राह सा सती ।
स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥ ४॥
सत्युवाच ।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ।
क्व गमिष्यति चन्द्रोऽयं रोहिण्या पृच्छ सत्वरम् ॥ ५॥
ब्रह्मोवाच ।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम् ।
क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम् ॥ ६॥
विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ।
कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ॥ ७॥
तच्छ्रुत्वा विजया देवीं त्वरिता जातसम्भ्रमा ।
कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ॥ ८॥
तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा ।
विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिन्तयत् ॥ ९॥
दक्षः पिता मे माता च वीरिणी नौ कुतः सती ।
आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ॥ १०॥
पृच्छेयं शङ्करं तत्र कारणं सर्वमादरात् ।
चिन्तयित्वेति सासीद्वै तत्र गन्तुं सुनिश्चया ॥ ११॥
अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ।
स्थापयित्वा द्रुतं तत्र समगच्छच्छिवान्तिकम् ॥ १२॥
ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ।
नन्द्यादिभिर्महावीरैः प्रवरैर्यूथयूथपैः ॥ १३॥
दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ।
प्रष्टुं तत्कारणं शीघ्रं प्राप शङ्करसन्निधिम् ॥ १४॥
शिवेन स्थापिता स्वाङ्के प्रीतियुक्तेन स्वप्रिया ।
प्रमोदिता वचोभिः सा बहुमानपुरःसरम् ॥ १५॥
अथ शम्भुर्महालीलः सर्वेशः सुखदः सताम् ।
सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ॥ १६॥
शम्भुरुवाच ।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ।
कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ॥ १७॥
ब्रह्मोवाच ।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ।
साञ्जलिः सुप्रणम्याशु सत्युवाच प्रभुं शिवा ॥ १८॥
सत्युवाच ।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ।
तत्रोत्सवो महानस्ति समवेताः सुरर्षयः ॥ १९॥
पितुर्मम महायज्ञे कस्मात्तव न रोचते ।
गमनं देवदेवेश तत्सर्वं कथय प्रभो ॥ २०॥
सुहृदामेष वै धर्मः सुहृद्भिः सह सङ्गतिः ।
कुर्वन्ति यन्महादेव सुहृदः प्रीतिवर्धिनीम् ॥ २१॥
तस्मात्सर्वप्रयत्नेन मया गच्छ सह प्रभो ।
यज्ञवाटं पितुर्मेऽद्य स्वामिन् प्रार्थनया मम ॥ २२॥
ब्रह्मोवाच ।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ।
दक्षवागिषुहृद्विद्धो बभाषे सूनृतं वचः ॥ २३॥
महेश्वर उवाच ।
दक्षस्तव पिता देवि मम द्रोही विशेषतः ॥ २४॥
यस्य ये मानिनः सर्वे ससुरर्षिमुखाः परे ।
ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ॥ २५॥
अनाहूताश्च ये देवि गच्छन्ति परमन्दिरम् ।
अवमानं प्राप्नुवन्ति मरणादधिकं तथा ॥ २६॥
परालयं गतोऽपीन्द्रो लघुर्भवति तद्विधः ।
का कथा च परेषां वै रीढा यात्रा हि तद्विधा ॥ २७॥
तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ।
न गन्तव्यं विशेषेण सत्यमुक्तं मया प्रिये ॥ २८॥
तथारिभिर्न व्यथते ह्यर्दितोऽपि शरैर्जनः ।
स्वानां दुरुक्तिभिर्मर्मताडितः स यथा मतः ॥ २९॥
विद्यादिभिर्गुणैः षड्भिरसदन्यैः सतां स्मृतौ ।
हतायां भूयसां धाम न पश्यन्ति खलाः प्रिये ॥ ३०॥
ब्रह्मोवाच ।
एवमुक्ता सती तेन महेशेन महात्मना ।
उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ॥ ३१॥
सत्युवाच ।
यज्ञःस्यात्सफलो येन स त्वं शम्भोऽखिलेश्वर ।
अनाहूतोऽसि तेनाद्य पित्रा मे दुष्टकारिणा ॥ ३२॥
तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ।
सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ॥ ३३॥
तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ।
अनुज्ञां देहि मे नाथ तत्र गन्तुं महेश्वर ॥ ३४॥
ब्रह्मोवाच ।
इत्युक्तो भगवान् रुद्रस्तया देव्या शिवः स्वयम् ।
विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ॥ ३५॥
शिव उवाच ।
यद्येवं ते रुचिर्देवि तत्र गन्तुमवश्यकम् ।
सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ॥ ३६॥
एतं नन्दिनमारुह्य वृषभं सज्जमादरात् ।
महाराजोपचाराणि कृत्वा बहुगुणान्विता ॥ ३७॥
भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ।
सुभूषिता सती युक्ता ह्यगमत्पितृमन्दिरम् ॥ ३८॥
महाराजोपचाराणि दत्तानि परमात्मना ।
सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ॥ ३९॥
गणाः षष्टिसहस्राणि रौद्रा जग्मुः शिवाज्ञया ।
कुतूहलयुताः प्रीता महोत्सवसमन्विताः ॥ ४०॥
तदोत्सवो महानासीद्यजने तत्र सर्वतः ।
सत्याः शिवप्रियायास्तु वामदेवगणैः कृतः ॥ ४१॥
कुतूहलं गणाश्चक्रुः शिवयोर्यश उज्जगुः ।
बलात्ते पुप्लुवुः प्रीत्या महावीराः शिवप्रियाः ॥ ४२॥
सर्वथासीन्महाशोभा गमने जगदम्बिके ।
सुखारावः सम्बभूव पूरितं भुवनत्रयम् ॥ ४३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीयात्रावर्णनं नामाष्टविंशोऽध्यायः ॥ २.२.२८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.२९. एकोनत्रिंशोऽध्यायः । सतीवाक्यम् ।
ब्रह्मोवाच ।
दाक्षायणी गता तत्र यत्र यज्ञो महाप्रभः ।
सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥ १॥
स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ।
ददर्श सुप्रभं चारु सुरर्षिगणसंयुतम् ॥ २॥
द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ।
नन्दिनोऽभ्यन्तरं शीघ्रमेकैवागच्छदध्वरम् ॥ ३॥
आगतां च सतीं दृष्ट्वासिक्नी माता यशस्विनी ।
अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥ ४॥
नाकरोदादरं दक्षो दृष्ट्वा तामपि किञ्चन ।
नान्योऽपि तद्भयात्तत्र शिवमायाविमोहितः ॥ ५॥
अथ सा मातरं देवी पितरं च सती मुने ।
अनमद्विस्मितात्यन्तं सर्वलोकपराभवात् ॥ ६॥
भागानपश्यद्देवानां हर्यादीनां तदध्वरे ।
न शम्भुभागमकरोत् क्रोधं दुर्विषहं सती ॥ ७॥
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ।
क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥ ८॥
सत्युवाच ।
अनाहूतस्त्वया कस्माच्छम्भुः परमशोभनः ।
येन पूतमिदं विश्वं समग्रं सचराचरम् ॥ ९॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञाङ्गो यज्ञदक्षिणः ।
यज्ञकर्ता च यः शम्भुस्तं विना च कथं मखः ॥ १०॥
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ।
विना तेन कृतं सर्वमपवित्रं भविष्यति ॥ ११॥
द्रव्यमन्त्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ।
शम्भुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥ १२॥
किं शिवं सुरसामान्यं मत्वाकार्षीरनादरम् ।
भ्रष्टबुद्धिर्भवानद्य जातोऽसि जनकाधम ॥ १३॥
विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ।
प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥ १४॥
एते कथं समायाता विष्णुब्रह्मादयः सुराः ।
तव यज्ञे विना शम्भुं स्वप्रभुं मुनयस्तथा ॥ १५॥
ब्रह्मोवाच ।
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ।
पृथक्पृथगवोचत्सा भर्त्सयन्ती भवात्मिका ॥ १६॥
सत्युवाच ।
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ।
सगुणं निर्गुणं चापि श्रुतयो यं वदन्ति ह ॥ १७॥
यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ।
अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे ॥ १८॥
तदपि ज्ञानमायातं न ते चेतसि दुर्मते ।
भागार्थी दक्षयज्ञेऽस्मिन् शिवं स्वस्वामिनं विना ॥ १९॥
पुरा पञ्चमुखो भूत्वा गर्वितोऽसि सदाशिवम् ।
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ॥ २०॥
इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ।
भस्मीकृतः पविस्ते हि हरेण क्रूरकर्मणा ॥ २१॥
हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ।
अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥ २२॥
भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ।
शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा ॥ २३॥
शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ।
तल्लिङ्गेनाखिलं दग्धं भुवनं सचराचरम् ॥ २४॥
सर्वे मूढाश्च सञ्जाता विष्णुब्रह्मादयः सुराः ।
मुनयोऽन्ये विना शम्भुमागता यदिहाध्वरे ॥ २५॥
सर्वे वेदाश्च सम्भूता साङ्गाः शास्त्राणि वाग्यतः ।
योऽसौ वेदान्तगः शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥ २६॥
ब्रह्मोवाच ।
इत्यनेकविधा वाणीरगदज्जगदम्बिका ।
कोपान्विता सती तत्र हृदयेन विदूयता ॥ २७॥
विष्ण्वादयोऽखिला देवा मुनयो ये च तद्वचः ।
मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥ २८॥
अथ दक्षः समाकर्ण्य स्वपुत्र्यास्तादृशं वचः ।
विलोक्य क्रूरदृष्ट्या तां सतीं क्रुद्धोऽब्रवीद्वचः ॥ २९॥
दक्ष उवाच ।
तव किं बहुनोक्तेन कार्यं नास्तीह साम्प्रतम् ।
गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥ ३०॥
अमङ्गलस्तु ते भर्ता शिवोऽसौ गम्यते बुधैः ।
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ॥ ३१॥
तस्मान्नाह्वायितो रुद्रो यज्ञार्थं सुकुवेषभृत् ।
देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२॥
विधिना प्रेरितेन त्वं दत्ता मन्देन पापिना ।
रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥ ३३॥
तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ।
यद्यागतासि यज्ञेऽस्मिन् दायं गृह्णीष्व चात्मना ॥ ३४॥
ब्रह्मोवाच ।
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपूजिता ।
निन्दायुक्तं स्वपितरं दृष्ट्वासीद् रुषिता भृशम् ॥ ३५॥
अचिन्तयत्तदा सेति कथं यास्यामि शङ्करम् ।
शङ्करं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम् ॥ ३६॥
अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ।
निःश्वसन्ती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७॥
सत्युवाच ।
यो निन्दति महादेवं निन्द्यमानं शृणोति वा ।
तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ ३८॥
तस्मात्त्यक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम् ।
किं जीवितेन मे तात शृण्वन्त्यानादरं प्रभोः ॥ ३९॥
यदि शक्तः स्वयं शम्भोर्निन्दकस्य विशेषतः ।
छिन्द्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥ ४०॥
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ।
कर्णौ धीमान् ततः शुद्ध्येद् वदन्तीदं बुधा वराः ॥ ४१॥
ब्रह्मोवाच ।
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ।
अस्मरच्छाङ्करं वाक्यं दूयमानेन चेतसा ॥ ४२॥
ततः सङ्क्रुद्ध्य सा दक्षं निःशङ्कं प्राह तानपि ।
सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥ ४३॥
सत्युवाच ।
तात त्वं निन्दकः शम्भोः पश्चात्तापं गमिष्यसि ।
इह भुक्त्वा महादुःखमन्ते यास्यसि यातनाम् ॥ ४४॥
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ।
तस्मिन्नवैरे शर्वेऽस्मिन् त्वां विना कः प्रतीपकः ॥ ४५॥
महद्विनिन्दा नाश्चर्यं सर्वदासत्सु सेर्ष्यकम् ।
महदङ्घ्रिरजोध्वस्ततमःसु नैव शोभना ॥ ४६॥
शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ।
सकृत्प्रसङ्गात्सकलमघमाशु विहन्ति तत् ॥ ४७॥
पवित्रकीर्तिममलं भवान् द्वेष्टि शिवेतरः ।
अलङ्घ्यशासनं शम्भुमहो सर्वेश्वरं खलः ॥ ४८॥
यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ।
सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥ ४९॥
यद्वर्षत्यर्थिनः शीघ्रं लोकस्य शिव आदरात् ।
भवान् द्रुह्यति मूर्खत्वात् तस्मै चाशेषबन्धवे ॥ ५०॥
किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ।
ब्रह्मादयस्तं मुनयः सनकाद्यास्तथापरे ॥ ५१॥
अवकीर्य जटा भूतैः श्मशाने स कपालधृक् ।
तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥ ५२॥
ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमादरात् ।
निर्माल्यं मुनयो देवाः स शिवः परमेश्वरः ॥ ५३॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्म चोदितम् ।
वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः ॥ ५४॥
विरोधियौगपद्यैककर्तृके च तथा द्वयम् ।
परब्रह्मणि शम्भौ तु कर्मर्च्छन्ति न किञ्चन ॥ ५५॥
मा वः पदव्यः स्म पितः या अस्मदास्थिताः सदा ।
यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥ ५६॥
नोऽव्यक्तलिङ्गः सततमवधूतसुसेवितः ।
अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥ ५७॥
किं बहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः ।
त्वदुद्भवेन देहेन न मे किञ्चित्प्रयोजनम् । ५८॥
तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ।
परित्याज्यो विशेषेण तत्सम्बन्धो विपश्चिता ॥ ५९॥
गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ।
दाक्षायणीति सहसाहं भवामि सुदुर्मना ॥ ६०॥
तस्मात्त्वदङ्गजं देहं कुणपं गर्हितं सदा ।
व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा ॥ ६१॥
हे सुरा मुनयः सर्वे यूयं शृणुत मद्वचः ।
सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम् ॥ ६२॥
सर्वे यूयं विमूढा हि शिवनिन्दाः कलिप्रियाः ।
प्राप्स्यन्ति दण्डं नियतमखिलं च हराद् ध्रुवम् ॥ ६३॥
ब्रह्मोवाच ।
दक्षमुक्त्वाध्वरे तस्मिन् व्यरमत्सा सती तदा ।
अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम् ॥ ६४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २.२.२९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३०. त्रिंशोऽध्यायः । सतीदेहत्यागोपद्रववर्णनम् ।
नारद उवाच ।
मौनीभूता यदा सासीत्सती शङ्करवल्लभा ।
चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ॥ १॥
ब्रह्मोवाच ।
मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात् ।
क्षितावुदीच्यां सहसा निषसाद प्रशान्तधीः ॥ २॥
जलमाचम्य विधिवत् संवृता वाससा शुचिः ।
दृङ् निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ॥ ३॥
कृत्वा समानावनिलौ प्राणापानौ सितानना ।
उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः ॥ ४॥
हृदि स्थाप्योरसि धिया स्थितं कण्ठाद् भ्रुवोः सती ।
अनिन्दितानयन्मध्यं शङ्करप्राणवल्लभा ॥ ५॥
एवं स्वदेहं सहसा दक्षकोपाज्जिहासती ।
दग्धे गात्रे वायुशुचिर्धारितं योगमार्गतः ॥ ६॥
ततः स्वभर्तुश्चरणं चिन्तयन्ती न चापरम् ।
अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ॥ ७॥
हतकल्मषतद्देहः प्रापतच्च तदग्निना ।
भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ॥ ८॥
तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा ।
हाहेति सोऽद्भुतश्चित्रः सुरादीनां भयावहः ॥ ९॥
हन्त प्रिया परा शम्भोर्देवी दैवतमस्य हि ।
जहावसून् सती केन सुदुष्टेन प्रकोपिता ॥ १०॥
अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत ।
चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ॥ ११॥
अहोऽद्य विमनाभूत्सा सती देवी मनस्विनी ।
वृषध्वजप्रियाभीक्ष्णं मानयोग्या सतां सदा ॥ १२॥
सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् स प्रजापतिः ।
महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ॥ १३॥
यत्स्वाङ्गजां सुतां शम्भुद्विट् न्यषेधत्समुद्यताम् ।
महानरकभोगी स मृतये नोऽपराधतः ॥ १४॥
वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् ।
द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ॥ १५॥
द्वारि स्थिता गणाः सर्वे रसायुतमिता रुषा ।
शङ्करस्य प्रभावात्तेऽक्रुध्यन्नतिमहाबलाः ॥ १६॥
हाहाकारमकुर्वंस्ते धिग् धिग् नो नेति वादिनः ।
उच्चैः सर्वेऽसकृद्वीराः शङ्करस्य गणाधिपाः ॥ १७॥
हाहाकारेण महता व्याप्तमासीद्दिगन्तरम् ।
सर्वे प्रापन् भयं देवा मुनयोऽन्येऽपि ते स्थिताः ॥ १८॥
गणाः सम्मन्त्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः ।
कुर्वन्तः प्रलयं वाद्यैः शस्त्रैर्व्याप्तं दिगन्तरम् ॥ १९॥
शस्त्रैरघ्नन्निजाङ्गानि केचित्तत्र शुचाकुलाः ।
शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ॥ २०॥
इत्थं ते विलयं प्राप्ता दाक्षायण्याः समं तदा ।
गणायुते द्वे च तदा तदद्भुतमिवाभवत् ॥ २१॥
गणा नाशावशिष्टा ये शङ्करस्य महात्मनः ।
दक्षं तं क्रोधितं हन्तुमुदतिष्ठन्नुदायुधाः ॥ २२॥
तेषामापततां वेगं निशम्य भगवान् भृगुः ।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ॥ २३॥
हूयमाने च भृगुणा समुत्पेतुर्महासुराः ।
ऋभवो नाम प्रबला वीरास्तत्र सहस्रशः ॥ २४॥
तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर ।
अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम् ॥ २५॥
ऋभुभिस्तैर्महावीरैर्हन्यमानाः समन्ततः ।
अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ॥ २६॥
एवं शिवगणास्ते वै हता विद्राविता द्रुतम् ।
शिवेच्छया महाशक्त्या तदद्भुतमिवाभवत् ॥ २७॥
तद् दृष्ट्वा ऋषयो देवाः शक्राद्याः समरुद्गणाः ।
विश्वेऽश्विनौ लोकपालास्तूष्णीं भूतास्तदाभवन् ॥ २८॥
केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तः समन्ततः ।
उद्विग्ना मन्त्रयन्तश्च विघ्नाभावं मुहुर्मुहुः ॥ २९॥
सुविचार्योदर्कफलं महोद्विग्नाः सुबुद्धयः ।
सुरविष्ण्वादयोऽभूवंस्तन्नाशाद्रावणान्मुहुः ॥ ३०॥
एवम्भूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः ।
ब्रह्मबन्धोश्च दक्षस्य शङ्करद्रोहिणो मुने ॥ ३१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने सतीदेहत्यागोपद्रववर्णनं नाम त्रिंशोऽध्यायः ॥ २.२.३०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३१. एकत्रिंशोऽध्यायः । आकाशवाणी ।
ब्रह्मोवाच ।
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ।
अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ॥ १॥
व्योमवाण्युवाच ।
रे रे दक्ष दुराचार दम्भाचारपरायण ।
किं कृतं ते महामूढ कर्म चानर्थकारकम् ॥ २॥
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ।
प्रमाणं तत्कृते मूढ सर्वानन्दकरं शुभम् ॥ ३॥
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुःसहम् ।
ततोऽपि बुद्धं किञ्चिन्नो त्वया मूढेन चेतसि ॥ ४॥
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ।
समागतायाः सत्याश्च मङ्गलाया गृहं स्वतः ॥ ५॥
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ।
ब्रह्मपुत्र इति वृथा गर्वितोऽसि विमोहितः ॥ ६॥
सा सत्येव सदाराध्या सर्वपुण्यफलप्रदा ।
त्रिलोकमाता कल्याणी शङ्करार्धाङ्गभागिनी ॥ ७॥
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ।
माहेश्वरी स्वभक्तानां सर्वमङ्गलदायिनी ॥ ८॥
सा सत्येवार्चिता नित्यं संसारभयनाशिनी ।
मनोऽभीष्टप्रदा देवी सर्वोपद्रवहारिणी ॥ ९॥
सा सत्येवार्चिता नित्यं कीर्तिसम्पत्प्रदायिनी ।
परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ १०॥
सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ।
अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ॥ ११॥
सा सत्येव जगन्माता विष्णुमाता विलासिनी ।
ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ॥ १२॥
सा सत्येव तपोधर्मदानादिफलदायिनी ।
शम्भुशक्तिर्महादेवी दुष्टहन्त्री परात्परा ॥ १३॥
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ।
तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ॥ १४॥
शम्भुर्हि परमेशानः सर्वस्वामी परात्परः ।
विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥ १५॥
तप्यते हि तपः सिद्धैरेतद्दर्शनकाङ्क्षिभिः ।
युज्यते योगिभिर्योगैरेतद्दर्शनकाङ्क्षिभिः ॥ १६॥
अनन्तधनधान्यानां यागादीनां तथैव च ।
दर्शनं शङ्करस्यैव महत्फलमुदाहृतम् ॥ १७॥
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ।
आदिविद्यावरस्वामी सर्वमङ्गलमङ्गलः ॥ १८॥
तच्छक्तेर्न कृतो यस्मात्सत्करोऽद्य त्वया खल ।
अत एवाध्वरस्यास्य विनाशो हि भविष्यति ॥ १९॥
अमङ्गलं भवत्येव पूजार्हाणामपूजया ।
पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ॥ २०॥
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ।
वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ॥ २१॥
यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् ।
विष्णुर्विष्णुत्वमापन्नस्तस्य शम्भोः प्रिया सती ॥ २२॥
यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् ।
ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शम्भोः प्रिया सती ॥ २३॥
यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् ।
इन्द्रादयो लोकपालाः प्रापुः स्वं स्वं परं पदम् ॥ २४॥
जगत्पिता शिवः शक्तिर्जगन्माता च सा सती ।
सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ॥ २५॥
दौर्भाग्यं त्वयि सङ्क्रान्तं सङ्क्रान्तास्त्वयि चापदः ।
यौ चानाराधितौ भक्त्या भवानीशङ्करौ च तौ ॥ २६॥
अनभ्यर्च्य शिवं शम्भुं कल्याणं प्राप्नुयामिति ।
किमस्ति गर्वो दुर्वारः स गर्वोऽद्य विनश्यति ॥ २७॥
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ।
करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८॥
यदि देवाः करिष्यन्ति साहाय्यमधुना तव ।
तदा नाशं समाप्स्यन्ति शलभा इव वह्निना ॥ २९॥
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्विति ।
सहायास्तव यावन्तस्ते ज्वलन्त्वद्य सत्वरम् ॥ ३०॥
अमराणां च सर्वेषां शपथोऽमङ्गलाय ते ।
करिष्यन्त्यद्य साहाय्यं यदेतस्य दुरात्मनः ॥ ३१॥
निर्गच्छन्त्वमराः स्वोकमेतदध्वरमण्डपात् ।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३२॥
निर्गच्छन्त्वपरे सर्वे मुनिनागादयो मखात् ।
अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा ॥ ३३॥
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमण्डपात् ।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३४॥
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमण्डपात् ।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३५॥
ब्रह्मोवाच ।
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥
व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ॥ ३६॥
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयः सुराः ।
अकार्षुर्विस्मयं तात मुनयश्च तथापरे ॥ ३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ २.२.३१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३२. द्वात्रिंशोऽध्यायः । वीरभद्रोत्पत्तिः शिवोपदेशश्च ।
नारद उवाच ।
श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाबुधः ।
अन्ये च कृतवन्तः किं ततश्च किमभूद् वद ॥ १॥
पराजिताः शिवगणा भृगुमन्त्रबलेन वै ।
किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ॥ २॥
ब्रह्मोवाच ।
श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ।
नावोचत्किञ्चिदपि ते तिष्ठन्तस्तु विमोहिताः ॥ ३॥
पलायमाना ये वीरा भृगुमन्त्रबलेन ते ।
अवशिष्टाः शिवगणाः शिवं शरणमाययुः ॥ ४॥
सर्वं निवेदयामासू रुद्रायामिततेजसे ।
चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ॥ ५॥
गणा ऊचुः ।
देवदेव महादेव पाहि नः शरणागतान् ।
संशृण्वादरतो नाथ सतीवार्तां च विस्तरात् ॥ ६॥
गर्वितेन महेशान दक्षेण सुदुरात्मना ।
अपमानः कृतः सत्यानादरो निर्जरैस्तथा ॥ ७॥
तुभ्यं भागमदान्नो स देवेभ्यश्च प्रदत्तवान् ।
दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षः सुगर्वितः ॥ ८॥
ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ।
विनिन्द्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ॥ ९॥
गणास्त्वयुतसङ्ख्याका मृतास्तत्र विलज्जया ।
स्वाङ्गान्याच्छिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ॥ १०॥
तद्यज्ञं ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ।
तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ॥ ११॥
ते वयं शरणं प्राप्तास्तव विश्वम्भर प्रभो ।
निर्भयान् कुरु नस्तस्माद् दयमान भवाद्भयात् ॥ १२॥
अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ।
दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ॥ १३॥
इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च शङ्कर ।
तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ॥ १४॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य स्वगणानां वचः प्रभुः ।
सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ॥ १५॥
आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शनः ।
प्रणम्य शङ्करं भक्त्या साञ्जलिस्तत्र तस्थिवान् ॥ १६॥
त्वां प्रशस्याथ स स्वामी सत्या वार्तां च पृष्टवान् ।
दक्षयज्ञगताया वै परं च चरितं तथा ॥ १७॥
पृष्टेन शम्भुना तात त्वयाश्वेव शिवात्मना ।
तत्सर्वं कथितं वृत्तं जातं दक्षाध्वरे हि यत् ॥ १८॥
तदाकर्ण्येश्वरो वाक्यं मुने तत् त्वन्मुखोदितम् ।
चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः ॥ १९॥
उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ।
आस्फालयामास रुषा पर्वतस्य तदोपरि ॥ २०॥
तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ।
सम्बभूव महारावो महाप्रलयभीषणः ॥ २१॥
तज्जटायाः समुद्भूतो वीरभद्रो महाबलः ।
पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ॥ २२॥
स भूमिं विश्वतो वृत्य चात्यतिष्ठद्दशाङ्गुलम् ।
प्रलयानलसङ्काशः प्रोन्नतो दोःसहस्रवान् ॥ २३॥
कोपनिःश्वासतस्तत्र महारुद्रस्य चेशितुः ।
जातं ज्वराणां शतकं सन्निपातास्त्रयोदश ॥ २४॥
महाकाली समुत्पन्ना तज्जटापरभागतः ।
महाभयङ्करा तात भूतकोटिभिरावृता ॥ २५॥
सर्वे मूर्तिधराः क्रूराः ज्वरा लोकभयङ्कराः ।
स्वतेजसा प्रज्वलन्तो दहन्त इव सर्वतः ॥ २६॥
अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम् ।
कृताञ्जलिपुटः प्राह वाक्यं वाक्यविशारदः ॥ २७॥
वीरभद्र उवाच ।
महारुद्र महारौद्र सोमसूर्याग्निलोचन ।
किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ॥ २८॥
शोषणीयाः किमीशान क्षणार्धेनैव सिन्धवः ।
पेषणीयाः किमीशान क्षणार्धेनैव पर्वताः ॥ २९॥
क्षणेन भस्मसात्कुर्यां ब्रह्माण्डमुत किं हर ।
क्षणेन भस्मसात्कुर्यां सुरान्वा किं मुनीश्वरान् ॥ ३०॥
व्याश्वासः सर्वलोकानां किमु कार्यो हि शङ्कर ।
कर्तव्यं किमुतेशान सर्वप्राणिविहिंसनम् ॥ ३१॥
ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ।
पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ॥ ३२॥
यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ।
तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः ॥ ३३॥
क्षुद्रास्तरन्ति लोकाब्धिं शासनाच्छङ्करस्य ते ।
हरातोऽहं न किं तर्तुं महापत्सागरं क्षमः ॥ ३४॥
त्वत्प्रेषिततृणेनापि महत्कार्यमयत्नतः ।
क्षणेन शक्यते कर्तुं शङ्करात्र न संशयः ॥ ३५॥
लीलामात्रेण ते शम्भो कार्यं यद्यपि सिध्यति ।
तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम् ॥ ३६॥
शक्तिरेतादृशी शम्भो ममापि त्वदनुग्रहात् ।
विना शक्तिर्न कस्यापि शङ्कर त्वदनुग्रहात् ॥ ३७॥
त्वदाज्ञया विना कोऽपि तृणादीनपि वस्तुतः ।
नैव चालयितुं शक्तः सत्यमेतन्न संशयः ॥ ३८॥
शम्भो नियम्याः सर्वेऽपि देवाद्यास्ते महेश्वर ।
तथैवाहं नियम्यस्ते नियन्तुः सर्वदेहिनाम् ॥ ३९॥
प्रणतोऽस्मि महादेव भूयोऽपि प्रणतोऽस्म्यहम् ।
प्रेषय स्वेष्टसिद्ध्यर्थं मामद्य हर सत्वरम् ॥ ४०॥
स्पन्दोऽपि जायते शम्भोऽसव्याङ्गानां मुहुर्मुहुः ।
भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ॥ ४१॥
हर्षोत्साहविशेषोऽपि जायते मम कश्चन ।
शम्भो त्वत्पादकमले संसक्तश्च मनो मम ॥ ४२॥
भविष्यति प्रतिपदं शुभसन्तानसन्ततिः ॥ ४३॥
तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ।
यस्य शम्भौ दृढा भक्तिस्त्वयि शोभनसंश्रये ॥ ४४॥
ब्रह्मोवाच ।
इत्युक्तं तद्वचः श्रुत्वा सन्तुष्टो मङ्गलापतिः ।
वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ॥ ४५॥
महेश्वर उवाच ।
शृणु मद्वचनं तात वीरभद्र सुचेतसा ।
करणीयं प्रयत्नेन तद् द्रुतं मे प्रतोषकम् ॥ ४६॥
यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ।
मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ॥ ४७॥
तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ।
पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ॥ ४८॥
सुरा भवन्तु गन्धर्वा यक्षा वान्ये च केचन ।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ४९॥
तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोऽपि वा ।
अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ॥ ५०॥
सुरा भवन्तु गन्धर्वा यक्षा वान्ये च केचन ।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१॥
दधीचिकृतमुल्लङ्घ्य शपथं मयि तत्र ये ।
तिष्ठन्ति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ॥ ५२॥
प्रमथाश्चागमिष्यन्ति यदि विष्ण्वादयो भ्रमात् ।
नानाकर्षणमन्त्रेण ज्वालयानीय सत्वरम् ॥ ५३॥
ये तत्रोल्लङ्घ्य शपथं मदीयं गर्विताः स्थिताः ।
ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ॥ ५४॥
सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् ।
प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ॥ ५५॥
तत्र त्वयि गते देवा विश्वाद्या अपि सादरम् ।
स्तोष्यन्ति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ॥ ५६॥
देवानपि कृतद्रोहान् ज्वालामालासमाकुलैः ।
ज्वालय ज्वलनैः शीघ्रं माध्यायाध्यायपालकम् ॥ ५७॥
दक्षादीन्सकलांस्तत्र सपत्नीकान्सबान्धवान् ।
प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ॥ ५८॥
ब्रह्मोवाच ।
इत्युक्त्वा रोषताम्राक्षो वेदमर्यादपालकः ।
विरराम महावीरं कालारिः सकलेश्वरः ॥ ५९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ २.२.३२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३३. त्रयस्त्रिंशोऽध्यायः । वीरभद्रयात्रा ।
ब्रह्मोवाच ।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात् ।
वीरभद्रोऽतिसन्तुष्टः प्रणनाम महेश्वरम् ॥ १॥
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ।
प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति । २॥
शिवोऽथ प्रेषयामास शोभार्थं कोटिशो गणान् ।
तेन सार्धं महावीरान्प्रलयानलसन्निभान् ॥ ३॥
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः ।
पश्चादपि ययुर्वीराः कुतूहलकरा गणाः ॥ ४॥
वीरभद्रसमेता ये गणाः शतसहस्रशः ।
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५॥
गणैः समेतः किल तैर्महात्मा
स वीरभद्रो हरवेषभूषणः ।
सहस्रबाहुर्भुजगाधिपाढ्यो
ययौ रथस्थः प्रबलोऽतिभीकरः ॥ ६॥
नल्वानं च सहस्रे द्वे प्रमाणं स्यन्दनस्य हि ।
अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७॥
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।
शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८॥
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।
कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९॥
तुष्टुवुश्च गणा वीरं शिपिविष्टे प्रचेष्टितम् ।
चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवे ॥ १०॥
काली कात्यायनीशानी चामुण्डा मुण्डमर्दिनी ।
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११॥
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।
ययौ दक्षविनाशाय सर्वभूतगणैः सह । १२॥
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।
कूष्माण्डाः पर्पटाश्चैव चटका ब्रह्मराक्षसाः ॥ १३॥
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।
निर्ययुस्त्वरितं वीराः शिवाज्ञाप्रतिपालकाः ॥ १४॥
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।
निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५॥
तेषां गणानां सर्वेषां सङ्ख्यानं शृणु नारद ।
महाबलवतां सङ्घो मुख्यानां धैर्यशालिनाम् ॥ १६॥
अभ्ययाच्छङ्कुकर्णश्च दशकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १७॥
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वाङ्कको वीरस्तथैव विकृताननः ॥ १८॥
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुङ्गवः ।
सप्तभिः समदज्जीमान् दुद्रभोऽष्टाभिरेव च ॥ १९॥
पञ्चभिश्च कपालीशः षड्भिः सन्दारको गणः ।
कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ २०॥
विष्टम्भोऽष्टाष्टभिर्वीरैः कोटिभिर्गणसत्तमः ।
सहस्रकोटिभिस्तात सन्नादः पिप्पलस्तथा ॥ २१॥
आवेशनस्तथाष्टाभिरष्टाभिश्चन्द्रतापनः ।
महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२॥
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।
विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तमः ॥ २३॥
कालश्च कालकश्चैव महाकालस्तथैव च ।
कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४॥
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।
आदित्यमूर्धा कोट्या च तथा चैव घनावहः ॥ २५॥
सन्नाहः शतकोट्या च कोट्या च कुमुदो गणः ।
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६॥
काष्ठागूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।
सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७॥
काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ।
तथा सन्तानकः षष्टिकोटिभिर्गणपुङ्गवः ॥ २८॥
महाबलश्च नवभिः कोटिभिः पुङ्गवस्तथा । २९॥
मधुपिङ्गस्तथा तात गणाधीशो हि निर्ययौ ।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ ३०॥
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ॥ ३१॥
विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ।
तालकेतुः षडास्यश्च पञ्चास्यश्च गणाधिपः ॥ ३२॥
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ।
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३॥
गणो भृङ्गीरिटिः श्रीमान् देवदेवप्रियस्तथा ।
अशनिर्भालकश्चैव चतुःषष्ट्या सहस्रकः ॥ ३४॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।
वीरेशो ह्यभ्ययाद्वीरः वीरभद्रः शिवाज्ञया ॥ ३५॥
भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ।
रोमजैः श्वगणैश्चैव तथा वीरो ययौ द्रुतम् ॥ ३६॥
तदा भेरीमहानादः शङ्खाश्च विविधस्वनाः ।
जटाहरो मुखाश्चैव शृङ्गाणि विविधानि च ॥ ३७॥
ते तानि विततान्येव बन्धनानि सुखानि च ।
वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८॥
वीरभद्रस्य यात्रायां सबलस्य महामुने ।
शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ २.२.३३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३४. चतुस्त्रिंशोऽध्यायः । यज्ञवाटे देवानां दुःशकुनदर्शनम् ।
ब्रह्मोवाच ।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।
दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १॥
उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।
त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २॥
दक्षवामाक्षिबाहूरुविस्पन्दः समजायत ।
नानाकष्टप्रदस्तात सर्वथाशुभसूचकः ॥ ३॥
भूकम्पः समभूत्तत्र दक्षयागस्थले तदा ।
दक्षोऽपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ॥ ४॥
दिशश्चासन्सुमलिनाः कर्बुरोऽभूद्दिवाकरः ।
परिवेषसहस्रेण सङ्क्रान्तश्च भयङ्करः ॥ ५॥
नक्षत्राणि पतन्ति स्म विद्युदग्निप्रभाणि च ।
नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६॥
गृध्रा दक्षशिरः स्पृष्ट्वा समुद्भूताः सहस्रशः ।
आसीद् गृध्रपक्षच्छायैः सच्छायो यागमण्डपः ॥ ७॥
ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा ।
उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसम्भवा ॥ ८॥
खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः ।
शलभाश्च समुद्भूता विवर्तानिलकम्पिताः ॥ ९॥
नीतश्च पवनैरूर्ध्वं स दक्षाध्वरमण्डपः ।
दैवान्वितेन दक्षेण यः कृतो नूतनोऽद्भुतः ॥ १०॥
वेमुर्दक्षादयः सर्वे तदा शोणितमद्भुतम् ।
वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११॥
सकम्पाश्च बभूवुस्ते दीपा वातहता इव ।
दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२॥
तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।
प्रातस्तुषारवर्षीणि पद्मानीव वनान्तरे ॥ १३॥
दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।
निशायां कमलाश्चैव कुमुदानीव सङ्गवे ॥ १४॥
असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।
दिग्दाहोऽभूद्विशेषेण त्रासयन् सकलाञ्जनान् ॥ १५॥
एवंविधान्यरिष्टानि ददृशुर्विबुधादयः ।
भयमापेदिरेऽत्यन्तं मुने विष्ण्वादिकास्तदा ॥ १६॥
भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ।
तरवस्तीरसञ्जाता नदीवेगहता इव ॥ १७॥
पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।
कन्दुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८॥
ततस्ते तापसन्तप्ता रुरुदुः कुररी इव ।
रोदनध्वनिसङ्क्रातोरुक्तिप्रत्युक्तिका इव ॥ १९॥
सवैकुण्ठास्ततः सर्वे तदा कुण्ठितशक्तयः ।
स्वस्वोपकण्ठमाकण्ठं लुलुठुः कमठा इव ॥ २०॥
एतस्मिन्नन्तरे तत्र सञ्जाता चाशरीरवाक् ।
श्रावयत्यखिलान् देवान् दक्षं चैव विशेषतः ॥ २१॥
आकाशवाण्युवाच ।
धिक् जन्म तव दक्षाद्य महामूढोऽसि पापधीःस् ॥
भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् । २२॥
सहायिनोऽत्र ये मूढास्तव देवादयः स्थिताः ।
तेषामपि महद्दुःखं भविष्यति न संशयः ॥ २३॥
ब्रह्मोवाच ।
तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ।
दक्षः प्रापद्भयं चाति परे देवादयोऽपि ह ॥ २४॥
वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।
अगच्छच्छरणं विष्णोः स्वप्रभोरिन्दिरापतेः ॥ २५॥
सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ।
अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ॥ २६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ २.२.३४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३५. पञ्चत्रिंशोऽध्यायः । विष्णुवचनम् ।
दक्ष उवाच ।
देवदेव हरे विष्णो दीनबन्धो कृपानिधे ।
मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १॥
रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ।
कृपा विधेया यज्ञस्य भङ्गो भवतु न प्रभो ॥ २॥
ब्रह्मोवाच ।
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ।
पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३॥
उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ।
श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४॥
स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ।
अवदच्छिवतत्त्वज्ञो दक्षं सम्बोधयन्हरिः ॥ ५॥
हरिरुवाच ।
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ।
सर्वथा ते हितकरं महामन्त्रसुखप्रदम् ॥ ६॥
अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।
सकलाधीश्वरस्यैव शङ्करस्य परात्मनः ॥ ७॥
ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ।
विफलं केवलं नैव विपत्तिश्च पदे पदे ॥ ८॥
अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते ।
त्रीणि तत्र भविष्यन्ति दारिद्र्यं मरणं भयम् ॥ ९॥
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ।
अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ १०॥
अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ।
भवतो दुर्नयेनैव मया सत्यमुदीर्यते ॥ ११॥
ब्रह्मोवाच ।
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिन्तापरोऽभवत् ।
विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२॥
एतस्मिन्नन्तरे वीरभद्रः सैन्यसमन्वितः ।
अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३॥
पृष्ठे केचित्समायाता गगने केचिदागताः ।
दिशश्च विदिशः सर्वे समावृत्य तथापरे ॥ १४॥
शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ।
असङ्ख्याः सिंहनादान्वै कुर्वन्तो वीरसत्तमाः ॥ १५॥
तेन नादेन महता नादितं भुवनत्रयम् ।
रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६॥
सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ।
सशैलकानना तत्र चुक्षुभुः सकलाब्धयः ॥ १७॥
एवम्भूतं च तत्सैन्यं लोकक्षयकरं महत् ।
दृष्ट्वा च विस्मिताः सर्वे बभूवुरमरादयः ॥ १८॥
सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ।
दण्डवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत ॥ १९॥
दक्ष उवाच ।
भवद्बलेनैव मया यज्ञः प्रारम्भितो महान् ।
सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ २०॥
विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ।
धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१॥
तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ।
त्वदन्यः कः समर्थोऽस्ति यतस्त्वं सकलप्रभुः ॥ २२॥
ब्रह्मोवाच ।
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ।
अवोचद् बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३॥
विष्णुरुवाच ।
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ।
ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४॥
तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ।
शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाधुना ॥ २५॥
नैमिषेऽनिमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ।
तत् किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६॥
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ।
न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः ॥ २७॥
किं कर्म किमकर्मेति तन्न पश्यसि दुर्मते ।
समर्थं केवलं कर्म न भविष्यति सर्वदा ॥ २८॥
स्वकर्म विद्धि तद्येन समर्थत्वेन जायते ।
न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ॥ २९॥
ईश्वरस्य च यो भक्त्या शान्तस्तद्गतमानसः ।
कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥ ३०॥
केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ।
निरयं ते च गच्छन्ति कल्पकोटिशतानि च ॥ ३१॥
पुनः कर्ममयैः पाशैर्बद्धा जन्मनि जन्मनि ।
निरयेषु प्रपच्यन्ते केवलं कर्मरूपिणः ॥ ३२॥
अयं रुद्रगणाधीशो वीरभद्रोऽरिमर्दनः ।
रुद्रकोपाग्निसम्भूतः समायातोऽध्वराङ्गणे ॥ ३३॥
अयमस्मद्विनाशार्थमागतोऽस्ति न संशयः ।
अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥ ३४॥
प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ।
ततः प्रशान्तहृदयो भविष्यति न संशयः ॥ ३५॥
श्रीमहादेवशपथं समुल्लङ्घ्य भ्रमान्मया ।
यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥ ३६॥
शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ।
शपथोल्लङ्घनादेव शिवद्रोही यतोऽस्म्यहम् ॥ ३७॥
कालत्रयेऽपि न यतो महेशद्रोहिणां सुखम् ।
ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥ ३८॥
सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ।
शैवचक्रमिदं यस्मादशैवलयकारणम् ॥ ३९॥
विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ।
हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥ ४०॥
शैवं शपथमुल्लङ्घ्य स्थितं मां चक्रमीदृशम् ।
असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥ ४१॥
अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम् ।
गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ॥ ४२॥
वीरभद्रः पूजितोऽपि शीघ्रमस्माभिरादरात् ।
महाक्रोधसमाक्रान्तो नास्मान् संरक्षयिष्यति ॥ ४३॥
अकाण्डप्रलयोऽस्माकमागतोऽद्य हि हा हहा ।
हा हा बत तवेदानीं नाशोऽस्माकमुपस्थितः ॥ ४४॥
शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ।
शङ्करद्रोहिणो लोके कः शरण्यो भविष्यति ॥ ४५॥
तनुनाशेऽपि सम्प्राप्यास्तैश्चापि यमयातनाः ।
ता नैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥ ४६॥
शिवद्रोहिणमालोक्य दष्टदन्तो यमः स्वयम् ।
तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥ ४७॥
गन्तुमेवाहमुद्युक्तंः सर्वथा शपथोत्तरम् ।
तथापि न गतः शीघ्रं दुष्टसंसर्गपापतः ॥ ४८॥
यदद्य क्रियतेऽस्माभिः पलायनमितस्तदा ।
शार्वो नाकर्षकः शस्त्रैरस्मानाकर्षयिष्यति ॥ ४९॥
स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ।
श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्लभम् ॥ ५०॥
यावन्तश्च गणाः सन्ति श्रीरुद्रस्य त्रिशूलिनः ।
तावतामपि सर्वेषां शक्तिरेतादृशी ध्रुवम् ॥ ५१॥
श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ।
पुरा शिरश्च चिच्छेद पञ्चमं ब्रह्मणो ध्रुवम् ॥ ५२॥
एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ।
वीरभद्रोऽपि सम्प्राप तदैवाध्वरमण्डपम् ॥ ५३॥
एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ।
वीरभद्रेण सहितं ददृशुश्च सुरादयः ॥ ५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ २.२.३५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३६. षट्त्रिंशोऽध्यायः । विष्णुवीरभद्रसंवादः ।
ब्रह्मोवाच ।
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ।
वज्रपाणिः सुरैः सार्धं योद्धुकामोऽभवत्तदा ॥ १॥
तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।
यमो महिषमारूढो निरृतिः प्रेतमेव च ॥ २॥
पाशी च मकरारूढो मृगारूढः सदागतिः ।
कुबेरः पुष्पकारूढः सन्नद्धोऽभूदतन्द्रितः ॥ ३॥
तथान्ये सुरसङ्घाश्च यक्षचारणगुह्यकाः ।
आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥ ४॥
तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।
तदन्तिकं समागत्य सकलत्रोऽभ्यभाषत ॥ ५॥
दक्ष उवाच ।
युष्मद्बलेनैव मया यज्ञः प्रारम्भितो महान् ।
सत्कर्मसिद्धये यूयं प्रमाणाः स्युर्महाप्रभाः ॥ ६॥
ब्रह्मोवाच ।
तच्छ्रुत्वा दक्षवचनं सर्वे देवाः सवासवाः ।
निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः ॥ ७॥
अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः ।
शक्रादयो लोकपाला मोहिताः शिवमायया ॥ ८॥
देवानां च गणानां च तदासीत्समरो महान् ।
तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ॥ ९॥
नेदुः शङ्खाश्च भेर्यश्च तस्मिन् रणमहोत्सवे ।
महादुन्दुभयो नेदुः पटहा डिण्डिमादयः ॥ १०॥
तेन शब्देन महता श्लाघ्यमानास्तदा सुराः ।
लोकपालैश्च सहिता जघ्नुस्तान् शिवकिङ्करान् ॥ ११॥
इन्द्राद्यैर्लोकपालैश्च गणाः शम्भोः पराङ्मुखाः ।
कृताश्च मुनिशार्दूल भृगोर्मन्त्रबलेन च ॥ १२॥
उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १३॥
पराजितान् स्वकान् दृष्ट्वा वीरभद्रो रुषान्वितः ।
भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥ १४॥
वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ।
महात्रिशूलमादाय पातयामास निर्जरान् ॥ १५॥
देवान् यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।
शूलघातैश्च ते सर्वे गणा वेगात् प्रजघ्निरे ॥ १६॥
केचिद् द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः ।
अन्यैः शस्त्रैरपि सुरा गणैर्भिन्नास्तदाभवन् ॥ १७॥
एवं पराजिताः सर्वे पलायनपरायणाः ।
परस्परं परित्यज्य गता देवास्त्रिविष्टपम् ॥ १८॥
केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।
सङ्ग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥ १९॥
सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।
बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥ २०॥
लोकपाला ऊचुः ।
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ।
शीघ्रं वद पृच्छतो नः कुतोऽस्माकं जयो भवेत् ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां स्मृत्वा शम्भुं प्रयत्नवान् ।
बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥ २२॥
बृहस्पतिरुवाच ।
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ।
तदेव विवृणोमीन्द्र सावधानतया शृणु ॥ २३॥
अस्ति यश्चेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।
कर्तारं भजते सोऽपि न स्वकर्तुः प्रभुर्हि सः ॥ २४॥
न मन्त्रौषधयः सर्वे नाभिचारा न लौकिकाः ।
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २५॥
अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ।
ज्ञातुं नेशं सम्भवन्ति वदन्त्येवं पुरातनाः ॥ २६॥
न स्वज्ञेयो महेशानः सर्ववेदायुतेन सः ।
भक्तैरनन्यशरणैर्नान्यथेति महाश्रुतिः ॥ २७॥
शान्त्या च परया दृष्ट्या सर्वथा निर्विकारया ।
तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ॥ २८॥
परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ।
सिद्धयंशं च सुरेशान तं शृणु त्वं हिताय वै ॥ २९॥
त्वमिन्द्र बालिशो भूत्वा लोकपालैः सहाद्य वै ।
आगतो दक्षयज्ञं हि किं करिष्यसि विक्रमम् ॥ ३०॥
एते रुद्रसहायाश्च गणाः परमकोपनाः ।
आगता यज्ञविघ्नार्थं तं करिष्यन्त्यसंशयम् ॥ ३१॥
सर्वथा न ह्युपायोऽत्र केषाञ्चिदपि तत्त्वतः ।
यज्ञविघ्नविनाशार्थं सत्यं सत्यं ब्रवीम्यहम् ॥ ३२॥
ब्रह्मोवाच ।
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः ।
चिन्तामापेदिरे सर्वे लोकपालाः सवासवाः ॥ ३३॥
ततोऽब्रवीद् वीरभद्रो महावीरगणैर्वृतः ।
इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शङ्करम् ॥ ३४॥
वीरभद्र उवाच ।
सर्वे यूयं बालिशत्वादवदानार्थमागताः ।
अवदानं प्रयच्छामि आगच्छत ममान्तिकम् ॥ ३५॥
हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप ।
हे पाशपाणे हे वायो निरृते यम शेष हे ॥ ३६॥
हे सुरासुरसङ्घा हीहैत यूयं विचक्षणाः ।
अवदानानि दास्यामि आतृप्त्याद्यासतां वरान् ॥ ३७॥
ब्रह्मोवाच ।
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः ।
निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः ।
तैर्बाणैर्निहताःसर्वे वासवाद्याः सुरेश्वराः ॥ ३८॥
पलायनपरा भूत्वा जग्मुस्ते च दिशो दश ।
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥
यज्ञवाटोपकण्ठे हि वीरभद्रोऽगमद् गणैः । ३९॥
तदा ते ऋषयः सर्वे सुभीता हि रमेश्वरम् ।
विज्ञप्तुकामाः सहसा शीघ्रमूचुर्नता भृशम् ॥ ४०॥
ऋषय ऊचुः ।
देवदेव रमानाथ सर्वेश्वर महाप्रभो ।
रक्ष यज्ञं हि दक्षस्य यज्ञोऽसि त्वं न संशयः ॥ ४१॥
यज्ञकर्मा यज्ञरूपो यज्ञाङ्गो यज्ञरक्षकः ।
रक्ष यज्ञमतो रक्ष त्वत्तोऽन्यो न हि रक्षकः ॥ ४२॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः ।
योद्धुकामोऽभवद्विष्णुर्वीरभद्रेण तेन वै ॥ ४३॥
चतुर्भुजः सुसन्नद्धो चक्रायुधधरः करैः ।
महाबलोऽमरगणैर्यज्ञवाटात्स निर्ययौ ॥ ४४॥
वीरभद्रः शूलपाणिर्नानागणसमन्वितः ।
ददर्श विष्णुं सन्नद्धं योद्धुकामं महाप्रभुम् ॥ ४५॥
तं दृष्ट्वा वीरभद्रोऽभूद् भ्रुकुटीकुटिलाननः ।
कृतान्त इव पापिष्ठं मृगेन्द्र इव वारणम् ॥ ४६॥
तथाविधं हरिं दृष्ट्वा वीरभद्रोऽरिमर्दनः ।
अवदत्त्वरितः क्रुद्धो गणैर्वीरैः समावृतः ॥ ४७॥
वीरभद्र उवाच ।
रे रे हरे महादेवशपथोल्लङ्घनं त्वया ।
कथमद्य कृतं चित्ते गर्वः किमभवत्तव ॥ ४८॥
तव श्रीरुद्रशपथोल्लङ्घने शक्तिरस्ति किम् ।
को वा त्वमसि को वा ते रक्षऽकोऽस्ति जगत्त्रये ॥ ४९॥
अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ।
दक्षस्य यज्ञपाता त्वं कथं जातोऽसि तद्वद ॥ ५०॥
दाक्षायण्या कृतं यच्च तन्न दृष्टं किमु त्वया ।
प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया चापि दक्षयज्ञेऽस्मिन् अवदानार्थमागतः ।
अवदानं प्रयच्छामि तव चापि महाभुज ॥ ५२॥
वक्षो विदारयिष्यामि त्रिशूलेन हरे तव ।
कस्तवास्ति समायातो रक्षकोऽद्य ममान्तिकम् ॥ ५३॥
पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ।
दग्धं भवन्तमधुना पेषयिष्यामि सत्वरम् ॥ ५४॥
रे रे हरे दुराचार महेशविमुखाधम ।
श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ॥ ५५॥
अथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्थितः ।
नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥ ५६॥
ब्रह्मोवाच ।
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् ।
उवाच विहसन् प्रीत्या विष्णुस्तत्र सुरेश्वरः ॥ ५७॥
विष्णुरुवाच ।
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः ।
न रुद्रविमुखं मां त्वं वद शङ्करसेवकम् ॥ ५८॥
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ।
दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ॥ ५९॥
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ।
दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ॥ ६०॥
शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव ।
रुद्रतेजःस्वरूपो हि सुप्रतापालय प्रभो ॥ ६१॥
अहं निवारयामि त्वां त्वं च मां विनिवारय ।
तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ॥ ६२॥
ब्रह्मोवाच ।
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः ।
अवदत्सुप्रसन्नोऽस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ॥ ६३॥
ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः ।
प्रश्रयावनतोऽवादीद्विष्णुं देवं हि तत्त्वतः ॥ ६४॥
वीरभद्र उवाच ।
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो ।
इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ॥ ६५॥
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ।
इति वेदा वर्णयन्ति शिवशासनतो हरे ॥ ६६॥
शिवाज्ञया वयं सर्वे सेवकाः शङ्करस्य वै ।
तथापि च रमानाथ प्रवादोचितमादरात् ॥ ६७॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः ।
प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ॥ ६८॥
विष्णुरुवाच ।
युद्धं कुरु महावीर मया सार्धमशङ्कितः ।
तवास्त्रैः पूर्यमाणोऽहं गमिष्यामि स्वमाश्रमम् ॥ ६९॥
ब्रह्मोवाच ।
इत्युक्त्वा हि विरम्यासौ सन्नद्धोऽभूद् रणाय च ।
स्वगणैर्वीरभद्रोऽपि सन्नद्धोऽभून्महाबलः ॥ ७०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुवीरभद्रसंवादो नाम षट्त्रिंशोऽध्यायः ॥ २.२.३६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३७. सप्तत्रिंशोऽध्यायः । दक्षयज्ञविध्वंसः ।
ब्रह्मोवाच ।
वीरभद्रोऽथ युद्धे वै विष्णुना स महाबलः ।
संस्मृत्य शङ्करं चित्ते सर्वापद्विनिवारणम् ॥ १॥
आरुह्य स्यन्दनं दिव्यं सर्ववैरिविमर्दनः ।
गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २॥
विष्णुश्चापि महाघोषं पाञ्चजन्याभिधं निजम् ।
दध्मौ बली महाशङ्खं स्वकीयान् हर्षयन्निव ॥ ३॥
तच्छ्रुत्वा शङ्खनिर्ह्रादं देवा ये च पलायिताः ।
रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥ ४॥
वीरभद्रगणैस्ते तु लोकपालाः सवासवाः ।
युद्धं चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५॥
गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ।
अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६॥
नन्दिना युयुधे शक्रोऽनलो वै चाश्मना तथा ।
कुबेरोऽपि हि कूष्माण्डपतिना युयुधे बली ॥ ७॥
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८॥
नन्दिना च हतः शक्रस्त्रिशूलेन स्तनान्तरे ॥ ९॥
बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ।
नानाघातांश्च कुर्वन्तौ नन्दिशक्रौ जिगीषया ॥ १०॥
शक्त्या जघान चाश्मानं शुचिः परमकोपनः ।
सोऽपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११॥
यमेन सह सङ्ग्रामं महालोको गणाग्रणीः ।
चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२॥
नैरृतेन समागम्य चण्डश्च बलवत्तरः ।
युयुधे परमास्त्रैश्च नैरृतिं निविडम्बयन् ॥ १३॥
वरुणेन समं वीरो मुण्डश्चैव महाबलः ।
युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४॥
वायुना च हतो भृङ्गी स्वास्त्रेण परमौजसा ।
भृङ्गिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५॥
कुबेरेणैव सङ्गम्य कूष्माण्डपतिरादरात् ।
युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६॥
योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।
विदार्य देवानखिलान् पपौ शोणितमद्भुतम् ॥ १७॥
क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुङ्गवान् ।
काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८॥
अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ।
चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९॥
क्षेत्रपालः समायान्तं चक्रमालोक्य वेगतः ।
तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ २०॥
चक्रं ग्रसितमालोक्य विष्णुः परपुरञ्जयः ।
मुखं तस्य परामृज्य तमुद्गालितवानरिम् ॥ २१॥
स्वचक्रमादाय महानुभावः
चुकोप चातीव भवैकभर्ता ।
महाबली तैर्युयुधे प्रवीरैः
सङ्क्रुद्धनानायुधधारकोऽस्त्रैः ॥ २२॥
चक्रे महारणं विष्णुः तैः सार्धं युयुधे मुदा ।
नानायुधानि सङ्क्षिप्य तुमुलं भीमविक्रमम् ॥ २३॥
अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ।
नानास्त्राणि विमुञ्चन्तः सङ्कुद्धाः परमौजसा ॥ २४॥
इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ।
विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५॥
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ।
युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६॥
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ।
महावीराब्धिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७॥
विष्णोर्योगबलात्तस्य देहादेव सुदारुणाः ।
शङ्खचक्रगदाहस्ता असङ्ख्याताश्च जज्ञिरे ॥ २८॥
ते चापि युयुधुस्तेन वीरभद्रेण भाषता ।
विष्णुवत् बलवन्तो हि नानायुधधरा गणाः ॥ २९॥
तान्सर्वानपि वीरोऽसौ नारायणसमप्रभान् ।
भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ ३०॥
ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ।
जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१॥
तेन घातेन सहसा विहतः पुरुषोत्तमः ।
पपात च तदा भूमौ विसंज्ञोऽभून्मुने हरिः ॥ ३२॥
ततो जज्ञेऽद्भुतं तेजः प्रलयानलसन्निभम् ।
त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३॥
क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ।
प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४॥
तस्य चक्रं महारौद्रं कालादित्यसमप्रभम् ।
व्यष्टम्भयददीनात्मा वीरभद्रः शिवः प्रभुः ॥ ३५॥
मुने शम्भोः प्रभावात्तु मायेशस्य महाप्रभोः ।
न चचाल हरेश्चक्रं करस्थं स्तम्भितं ध्रुवम् ॥ ३६॥
अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ।
अतिष्ठत् स्तम्भितस्तेन शृङ्गवानिव निश्चलः ॥ ३७॥
ततो विष्णुः स्तम्भितो हि वीरभद्रेण नारद ।
यज्वोपमन्त्रणमनुं निःस्तम्भनकरं जपन् ॥ ३८॥
ततः स्तम्भननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ।
शार्ङ्गं जग्राह स क्रुद्धः स्वधनुः सशरं मुने ॥ ३९॥
त्रिभिश्च धर्षितं बाणैस्तेन शार्ङ्गधनुर्हरेः ।
वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ ४०॥
अथ विष्णुर्महावाण्या बोधितस्तं महागणम् ।
असह्यवर्चसं ज्ञात्वा ह्यन्तर्धातुं मनो दधे ॥ ४१॥
ज्ञात्वा च तत्सर्वमिदं भविष्यं
सतीकृतं दुष्प्रसहं परेषाम् ।
गताः स्वलोकं स्वगणान्वितास्तु
स्मृत्वा शिवं सर्वपतिं स्वतन्त्रम् ॥ ४२॥
सत्यलोकगतश्चाहं पुत्रशोकेन पीडितः ।
अचिन्तयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३॥
विष्णौ मयि गते चैव देवाश्च मुनिभिः सह ।
विनिर्जिता गणैः सर्वे ये ते यज्ञोपजीविनः ॥ ४४॥
तमुपद्रवमालक्ष्य विध्वस्तं च महामखम् ।
मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे ॥ ४५॥
तं तदा मृगरूपेण धावन्तं गगनं प्रति ।
वीरभद्रः समादाय विशिरस्कमथाकरोत् ॥ ४६॥
ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ।
अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम् ॥ ४७॥
मुनिमङ्गिरसं चैव कृशाश्वं च महागणः ।
जघान मूर्ध्नि पादेन दत्तं च मुनिपुङ्गवम् ॥ ४८॥
सरस्वत्याश्च नासाग्रं देवमातुस्तथैव च ।
चिच्छेद करजाग्रेण वीरभद्रः प्रतापवान् ॥ ४९॥
ततोऽन्यानपि देवादीन् विदार्य पृथिवीतले ।
पातयामास सोऽयं वै क्रोधाक्रान्तातिलोचनः ॥ ५०॥
वीरभद्रो विदार्यापि देवान्मुख्यान्मुनीनपि ।
नाभूच्छान्तो द्रुतक्रोधः फणिराडिव मण्डितः ॥ ५१॥
वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ।
दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२॥
व्यपोथयद् भृगुं यावन्मणिभद्रः प्रतापवान् ।
पदाक्रम्योरसि तदाकार्षीत्तच्छ्मश्रुलुञ्चनम् ॥ ५३॥
चण्डश्चोत्पाटयामास पूष्णो दन्तान् प्रवेगतः ।
शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४॥
नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ।
उज्जहार दक्षमक्ष्णा यः शपन्तमसूसुचत् ॥ ५५॥
विडम्बिता स्वधा तत्र सा स्वाहा दक्षिणा तथा ।
मन्त्रास्तन्त्रास्तथा चान्ये तत्रस्था गणनायकैः ॥ ५६॥
ववृषुस्ते पुरीषाणि वितानाग्नौ रुषा गणाः ।
अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७॥
अन्तर्वेद्यन्तरगतं निलीनं तद्भयाद् बलात् ।
आनिनाय समाज्ञाय वीरभद्रः स्वभूःसुतम् ॥ ५८॥
कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ।
अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९॥
अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ।
करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥ ६०॥
तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ।
अग्निकुण्डे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१॥
रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ।
क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः ॥ ६२॥
अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ।
ज्वालयामास सक्रोधो दीप्ताग्निः शलभानिव ॥ ६३॥
वीरभद्रस्ततो दग्धान् दृष्ट्वा दक्षपुरोगमान् ।
अट्टाट्टहासमकरोत् पूरयंश्च जगत्त्रयम् ॥ ६४॥
वीरश्रिया वृतस्तत्र ततो नन्दनसम्भवा ।
पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५॥
ववुर्गन्धवहाः शीताः सुगन्धाः सुखदाः शनैः ।
देवदुन्दुभयो नेदुः सममेव ततः परम् ॥ ६६॥
कैलासं स ययौ वीरः कृतकार्यस्ततः परम् ।
विनाशितदृढध्वान्तो भानुमानिव सत्वरम् ॥ ६७॥
कृतकार्यं वीरभद्रं दृष्ट्वा सन्तुष्टमानसः ।
शम्भुर्वीरगणाध्यक्षं चकार परमेश्वरः ॥ ६८॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे यज्ञविध्वंसवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ २.२.३७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३८. अष्टत्रिंशोऽध्यायः । क्षुवदधीचविवादः ।
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य विधेरमितधीमतः ।
पप्रच्छ नारदः प्रीत्या विस्मितस्तं द्विजोत्तमः ॥ १॥
नारद उवाच ।
शिवं विहाय दक्षस्य सुरैर्यज्ञं हरिर्गतः ।
हेतुना केन तद् ब्रूहि यत्रावज्ञाभवत्ततः ॥ २॥
जानाति किं स शम्भुं नो हरिः प्रलयविक्रमम् ।
रणं कथं च कृतवान् तद्गणैरबुधो यथा ॥ ३॥
एष मे संशयो भूयांस्तं छिन्धि करुणानिधे ।
चरितं ब्रूहि शम्भोस्तु चित्तोत्साहकरं प्रभो ॥ ४॥
ब्रह्मोवाच ।
द्विजवर्य शृणु प्रीत्या चरितं शशिमौलिनः ।
यत्पृच्छते कुर्वतश्च सर्वसंशयहारकम् ॥ ५॥
दधीचस्य मुनेः शापाद् भ्रष्टज्ञानो हरिः पुरा ।
सामरो दक्षयज्ञं वै गतः क्षुवसहायकृत् ॥ ६॥
नारद उवाच ।
किमर्थं शप्तवान्विष्णुं दधीचो मुनिसत्तमः ।
कोऽपकारः कृतस्तस्य हरिणा तत्सहायिना ॥ ७॥
ब्रह्मोवाच ।
समुत्पन्नो महातेजा राजा क्षुव इति स्मृतः ।
अभून्मित्रं दधीचस्य मुनीन्द्रस्य महाप्रभोः ॥ ८॥
चिरात्तपःप्रसङ्गाद्वै वादः क्षुवदधीचयोः ।
महानर्थकरः ख्यातस्त्रिलोकेष्वभवत्पुरा ॥ ९॥
तत्र त्रिवर्णतः श्रेष्ठो विप्र एव न संशयः ।
इति प्राह दधीचो हि शिवभक्तस्तु वेदवित् ॥ १०॥
तच्छ्रुत्वा वचनं तस्य दधीचस्य महामुने ।
क्षुवः प्राहेति नृपतिः श्रीमदेन विमोहितः ॥ ११॥
क्षुव उवाच ।
अष्टानां लोकपालानां वपुर्धारयते नृपः ।
तस्मान्नृपो वरिष्ठो हि वर्णाश्रमपतिः प्रभुः ॥ १२॥
सर्वदेवमयो राजा श्रुतिः प्राहेति तत्परा ।
महती देवता या सा सोऽहमेव ततो मुने ॥ १३॥
तस्माद्विप्राद्वरो राजा च्यावनेय विचार्यताम् ।
नावमन्तव्य एवातः पूज्योऽहं सर्वथा त्वया ॥ १४॥
ब्रह्मोवाच ।
श्रुत्वा तथा मतं तस्य क्षुवस्य मुनिसत्तमः ।
श्रुतिस्मृतिविरुद्धं तं चुकोपातीव भार्गवः ॥ १५॥
अथ क्रुद्धो महातेजा गौरवाच्चात्मनो मुने ।
अताडयत्क्षुवं मूर्ध्नि दधीचो वाममुष्टितः ॥ १६॥
वज्रेण तं च चिच्छेद दधीचं ताडितः क्षुवः ।
जगर्जातीव सङ्क्रुद्धो ब्रह्माण्डाधिपतिः कुधीः ॥ १७॥
पपात भूमौ निहतो तेन वज्रेण भार्गवः ।
शुक्रं सस्मार क्षुवकृद्भार्गवस्य कुलन्धरः ॥ १८॥
शुक्रोऽथ सन्धयामास ताडितं च क्षुवेन तु ।
योगी दधीचस्य तदा देहमागत्य स द्रुतम् ॥ १९॥
सन्धाय पूर्ववद्देहं दधीचस्याह भार्गवः ।
शिवभक्ताग्रणीर्मृत्यञ्जयविद्याप्रवर्तकः ॥ २०॥
शुक्र उवाच ।
दधीच तात सम्पूज्य शिवं सर्वेश्वरं प्रभुम् ।
महामृत्युञ्जयं मन्त्रं श्रौतमग्र्यं वदामि ते ॥ २१॥
त्र्यम्बकं यजामहे त्रैलोक्यं पितरं प्रभुम् ।
त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम् ॥ २२॥
त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः ।
त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः ॥ २३॥
त्रिदेवस्य महादेवः सुगन्धिं पुष्टिवर्द्धनम् ।
सर्वभूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा ॥ २४॥
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च ।
पुष्पे सुगन्धिवत्सूरः सुगन्धिरमरेश्वरः ॥ २५॥
पुष्टिश्च प्रकृतेर्यस्मात्पुरुषाद् वै द्विजोत्तम ।
महदादिविशेषान्तविकल्पश्चापि सुव्रत ॥ २६॥
विष्णोः पितामहस्यापि मुनीनां च महामुने ।
इन्द्रियाणां च देवानां तस्माद् वै पुष्टिवर्धनः ॥ २७॥
तं देवममृतं रुद्रं कर्मणा तपसापि वा ।
स्वाध्यायेन च योगेन ध्यानेन च प्रजायते ॥ २८॥
सत्येनान्येन सूक्ष्माग्रान्मृत्युपाशाद्भवः स्वयम् ।
बन्धमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥ २९॥
मृतसञ्जीवनीमन्त्रो मम सर्वोत्तमः स्मृतः ।
एवं जपपरः प्रीत्या नियमेन शिवं स्मरन् ॥ ३०॥
जप्त्वा हुत्वाभिमन्त्र्यैवं जलं पिब दिवानिशम् ।
शिवस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं क्वचित् ॥ ३१॥
कृत्वा न्यासादिकं सर्वं सम्पूज्य विधिवच्छिवम् ।
संविधायेदं निर्व्यग्रः शङ्करं भक्तवत्सलम् ॥ ३२॥
ध्यानमस्य प्रवक्ष्यामि यथा ध्यात्वा जपेन्मनुम् ।
सिद्धमन्त्रो भवेद्धीमान् यावच्छम्भुप्रभावतः ॥ ३३॥
हस्ताम्भोजयुगस्थकुम्भयुगलादुद्धृत्य तोयं शिरः
सिञ्चन्तं करयोर्युगेन दधतं स्वाङ्के सकुम्भौ करौ ।
अक्षस्रङ्मृगहस्तमम्बुजगतं मूर्धस्थचन्द्रस्रवत्-
पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥ ३४॥
ब्रह्मोवाच ।
उपदिश्येति शुक्रः तं दधीचिं मुनिसत्तमम् ।
स्वस्थानमगमत्तात संस्मरन् शङ्करं प्रभुम् ॥ ३५॥
तस्य तद्वचनं श्रुत्वा दधीचो हि महामुनिः ।
वनं जगाम तपसे महाप्रीत्या शिवं स्मरन् ॥ ३६॥
तत्र गत्वा विधानेन महामृत्युञ्जयाभिधम् ।
तं मनुं प्रजपन् प्रीत्या तपस्तेपे शिवं स्मरन् ॥ ३७॥
तन्मनुं सुचिरं जप्त्वा तपसाराध्य शङ्करम् ।
शिवं सन्तोषयामास महामृत्युञ्जयं हि सः ॥ ३८॥
अथ शम्भुः प्रसन्नात्मा तज्जपाद्भक्तवत्सलः ।
आविर्बभूव पुरतस्तस्य प्रीत्या महामुने ॥ ३९॥
तं दृष्ट्वा स्वप्रभुं शम्भुं स मुमोद मुनीश्वरः ।
प्रणम्य विधिवद्भक्त्या तुष्टाव सुकृताञ्जलिः ॥ ४०॥
अथ प्रीत्या शिवस्तात प्रसन्नश्च्यावनिं मुने ।
वरं ब्रूहीति स प्राह सुप्रसन्नेन चेतसा ॥ ४१॥
तच्छ्रुत्वा शम्भुवचनं दधीचो भक्तसत्तमः ।
साञ्जलिर्नतकः प्राह शङ्करं भक्तवत्सलम् ॥ ४२॥
दधीच उवाच ।
देवदेव महादेव मह्यं देहि वरत्रयम् ।
वज्रास्थित्वमवध्यत्वमदीनत्वं हि सर्वतः ॥ ४३॥
ब्रह्मोवाच ।
तदुक्तवचनं श्रुत्वा प्रसन्नः परमेश्वरः ।
वरत्रयं ददौ तस्मै दधीचाय तथास्त्विति ॥ ४४॥
वरत्रयं शिवात्प्राप्य सानन्दश्च महामुनिः ।
क्षुवस्थानं जगामाशु वेदमार्गे प्रतिष्ठितः ॥ ४५॥
प्राप्यावध्यत्वमुग्रात्स वज्रास्थित्वमदीनताम् ।
अताडयच्च राजेन्द्रं पादमूलेन मूर्धनि ॥ ४६॥
क्षुवो दधीचं वज्रेण जघानोरस्यथो नृपः ।
क्रोधं कृत्वा विशेषेण विष्णुगौरवगर्वितः ॥ ४७॥
नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः ।
प्रभावात्परमेशस्य धातृपुत्रो विसिस्मिये ॥ ४८॥
दृष्ट्वाप्यवध्यत्वमदीनतां च
वज्रस्य चात्यन्तपरप्रभावम् ।
क्षुवो दधीचस्य मुनीश्वरस्य
विसिस्मिये चेतसि धातृपुत्रः ॥ ४९॥
आराधयामास हरिं मुकुन्द-
मिन्द्रानुजं काननमाशु गत्वा ।
प्रपन्नपालश्च पराजितो हि
दधीचमृत्युञ्जयसेवकेन ॥ ५०॥
पूजया तस्य सन्तुष्टो भगवान् मधुसूदनः ।
प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ॥ ५१॥
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् ।
तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ॥ ५२॥
सम्पूज्य चैवं त्रिदशेश्वराद्यैः
स्तुत्वा स्तुतं देवमजेयमीशम् ।
विज्ञापयामास निरीक्ष्य भक्त्या
जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ ५३॥
राजोवाच ।
भगवन् ब्राह्मणः कश्चिद्दधीच इति विश्रुतः ।
धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥ ५४॥
अवध्यः सर्वदा सर्वैः शङ्करस्य प्रभावतः ।
तमाराध्य महादेवं मृत्युञ्जयमनामयम् ॥ ५५॥
सावज्ञं वामपादेन मम मूर्ध्नि सदस्यपि ।
ताडयामास वेगेन स दधीचो महातपाः ॥ ५६॥
उवाच मां च गर्वेण न बिभेमीति सर्वतः ।
मृत्युञ्जयाप्तसुवरो गर्वितो ह्यतुलं हरे ॥ ५७॥
अथ ज्ञात्वा दधीचस्य ह्यवध्यत्वं महात्मनः ।
सस्मारास्य महेशस्य प्रभावमतुलं हरिः ॥ ५८॥
एवं स्मृत्वा हरिः प्राह क्षुवं विधिसुतं द्रुतम् ।
विप्राणां नास्ति राजेन्द्र भयमण्वपि कुत्रचित् ॥ ५९॥
विशेषाद् रुद्रभक्तानां भयं नास्ति च भूपते ।
दुःखं करोति विप्रस्य शापार्थं स सुरस्य मे ॥ ६०॥
भविता तस्य शापेन दक्षयज्ञे सुरेश्वरात् ।
विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥ ६१॥
तस्मात्समेत्य राजेन्द्र सर्वयज्ञो न भूयते ।
करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥ ६२॥
श्रुत्वा वाक्यं क्षुवः प्राह तथास्त्विति हरेर्नृपः ।
तस्थौ तत्रैव तत्प्रीत्या तत्कामोत्सुकमानसः ॥ ६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे क्षुवदधीचवादवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ २.२.३८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.३९. एकोनचत्वारिंशोऽध्यायः । विष्णुदधीचयुद्धवर्णनम् ।
ब्रह्मोवाच ।
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ ।
विप्ररूपमथास्थाय भगवान् भक्तवत्सलः ॥ १॥
दधीचं प्राह विप्रर्षिमभिवन्द्य जगद्गुरुः ।
क्षुवकार्यार्थमुद्युक्तः शैवेन्द्रं छलमाश्रितः ॥ २॥
विष्णुरुवाच ।
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ।
वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति ॥ ३॥
ब्रह्मोवाच ।
याचितो देवदेवेन दधीचः शैवसत्तमः ॥
क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४॥
दधीच उवाच ।
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ।
भगवान् विप्ररूपेण मायी त्वमसि वै हरिः ॥ ५॥
भूतं भविष्यं देवेश वर्तमानं जनार्दन ।
ज्ञानं प्रसादाद् रुद्रस्य सदा त्रैकालिकं मम ॥ ६॥
त्वां जानेऽहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ।
आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७॥
जाने तवैव भगवन् भक्तवत्सलतां हरे ।
छलं त्यज स्वरूपं हि स्वीकुरु स्मर शङ्करम् ॥ ८॥
अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ।
वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९॥
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ।
न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ १०॥
विष्णुरुवाच ।
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ।
भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च ॥ ११॥
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ।
नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहादहम् ॥ १२॥
ब्रह्मोवाच ।
एवं श्रुत्वापि तद्वाक्यं विष्णोः स तु महामुनिः ।
विहस्य निर्भयः प्राह दधीचः शैवसत्तमः ॥ १३॥
दधीच उवाच ।
न बिभेमि सदा क्वापि कुतश्चिदपि किञ्चन ।
प्रभावाद्देवदेवस्य शम्भोः साक्षात्पिनाकिनः ॥ १४॥
ब्रह्मोवाच ।
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ।
चक्रमुद्यम्य सन्तस्थौ दिधक्षुर्मुनिसत्तमम् ॥ १५॥
अभवत्कुण्ठितं तत्र विप्रे चक्रं सुदारुणम् ।
प्रभावाच्च तदीशस्य नृपतेः सन्निधावपि ॥ १६॥
दृष्ट्वा तं कुण्ठितास्यं तच्चक्रं विष्णुं जगाद ह ।
दधीचः सस्मितं साक्षात्सदसद्व्यक्तिकारणम् ॥ १७॥
दधीच उवाच ।
भगवन् भवता लब्धं पुरातीव सुदारुणम् ।
सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ।
भवस्य तच्छुभं चक्रं न जिघांसति मामिह ॥ १८॥
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ।
ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९॥
ब्रह्मोवाच ।
स तस्य वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमानुषम् ।
ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ २०॥
चक्रुर्देवास्ततस्तस्य विष्णोःसाहाय्यमादरात् ।
द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१॥
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ।
दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२॥
कुशमुष्टिमथादाय दधीचः संस्मरन् शिवम् ।
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥ २३॥
शङ्करस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ।
दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४॥
दग्धुं देवान् मतिं चक्रे सायुधान् सशिखं च तत् ।
प्रज्वलत्सर्वतः शैवं युगान्ताग्न्यधिकप्रभम् ॥ २५॥
नारायणेन्द्रमुख्यैस्तु देवैः क्षिप्तानि यानि च ।
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६॥
देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या दिवौकसः ।
तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७॥
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ।
आत्मनः सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८॥
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ।
मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९॥
ततो विष्णुगणांस्तान्वै नियुध्य बहुशो रणे ।
ददाह सहसा सर्वान् दधीचः शैवसत्तमः ॥ ३०॥
ततस्तद्विस्मयार्थाय दधीचस्य मुनेर्हरिः ।
विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१॥
तस्य देहे हरेः साक्षादपश्यद् द्विजसत्तमः ।
दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२॥
भूतानां कोटयश्चैव गणानां कोटयस्तथा ।
अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा ॥ ३३॥
दृष्ट्वैतदखिलं तत्र च्यावनिः सततं तदा ।
विष्णुमाह जगन्नाथं जगत्स्तवमजं विभुम् ॥ ३४॥
दधीच उवाच ।
मायां त्यज महाबाहो प्रतिभासो विचारतः ।
विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५॥
मयि पश्य जगत्सर्वं त्वया युक्तमतन्द्रितः ।
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६॥
ब्रह्मोवाच ।
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ।
ब्रह्माण्डं च्यावनिः शम्भुतेजसा पूर्णदेहकः ॥ ३७॥
तदाह विष्णुं देवेशं दधीचः शैवसत्तमः ।
संस्मरन् शङ्करं चित्ते विहसन् विभयः सुधीः ॥ ३८॥
दधीच उवाच ।
मायया त्वनया किं वा मन्त्रशक्त्याथ वा हरे ।
सत्कामनामिमां कृत्वा योद्धुमर्हसि यत्नतः ॥ ३९॥
ब्रह्मोवाच ।
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा ।
शम्भुतेजोमयं विष्णुः चुकोपातीव तं मुनिम् ॥ ४०॥
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ।
योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१॥
एतस्मिन्नन्तरे तत्रागमन्मत्सङ्गमः क्षुवः ।
अवारयन्तं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२॥
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ।
जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३॥
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ।
दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४॥
क्षुव उवाच ।
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ।
प्रसीद परमेशान दुर्लक्ष्यो दुर्जनैः सदा ॥ ४५॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य राज्ञः सुरगणस्य हि ।
अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६॥
अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ।
हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७॥
दधीच उवाच ।
रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वराः ।
ध्वस्ता भवन्तु देवेन विष्णुना च समं गणैः ॥ ४८॥
ब्रह्मोवाच ।
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ।
देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९॥
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ।
इत्युक्त्वा स स्फुटं विप्रः प्रविवेश निजाश्रमम् ॥ ५०॥
दधीचमभिवन्द्यैव क्षुवो निजगृहं गतः ।
विष्णुर्जगाम स्वं लोकं सुरैः सह यथागतम् ॥ ५१॥
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ।
स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२॥
कथितस्तव सङ्क्षेपाद्वादः क्षुवदधीचयोः ।
नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३॥
य इदं कीर्तयेन्नित्यं वादं क्षुवदधीचयोः ।
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ५४॥
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ।
मृत्युभीतिर्भवेन्नैव विजयी च भविष्यति ॥ ५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ २.२.३९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.४०. चत्वारिंशोऽध्यायः । ब्रह्मादीनां कैलासयात्रा शिवदर्शनं च ।
नारद उवाच
विधे विधे महाप्राज्ञ शैवतत्त्वप्रदर्शक ।
श्राविता रमणीप्राया शिवलीला महाद्भुता ॥ १॥
वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ।
कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ॥ २॥
ब्रह्मोवाच ।
अथ देवगणाः सर्वे मुनयश्च पराजिताः ।
रुद्रानीकैर्विभिन्नाङ्गा मम लोकं ययुस्तदा ॥ ३॥
स्वयम्भुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ।
तत्स्वक्लेशं विषेशेण कार्त्स्न्येनैव न्यवेदयन् ॥ ४॥
तदाकर्ण्य ततोऽहं वै पुत्रशोकेन पीडितः ।
अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ॥ ५॥
किं कार्यं कार्यमद्याशु मया देवसुखावहम् ।
येन जीवतु दक्षोऽसौ मखः पूर्णो भवेत्सुरः ॥ ६॥
एवं विचार्य बहुधा नालभं शमहं मुने ।
विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप तदोचितम् ॥ ७॥
अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।
नत्वा नुत्वा च विविधैः स्तवैर्दुःखं न्यवदेयम् ॥ ८॥
यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ।
सुखिनः स्युः सुराः सर्वे मुनयश्च तथा कुरु ॥ ९॥
देवदेव रमानाथ विष्णो देवसुखावह ।
वयं त्वच्छरणं प्राप्ताः सदेवमुनयो ध्रुवम् ॥ १०॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचो मे हि ब्रह्मणः स रमेश्वरः ।
प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ॥ ११॥
विष्णुरुवाच ।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ।
तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ॥ १२॥
कृतपापाः सुराः सर्वे शिवे हि परमेश्वरे ।
पराददुर्यज्ञभागं तस्य शम्भोर्विधे यतः ॥ १३॥
प्रसादयध्वं सर्वे हि यूयं शुद्धेन चेतसा ।
अथापरप्रसादं तं गृहीताङ्घ्रियुगं शिवम् ॥ १४॥
यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ।
सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ॥ १५॥
तमाशु प्रियया देवं विहीनं च दुरुक्तिभिः ।
क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ॥ १६॥
अयमेव महोपायस्तच्छान्त्यै केवलं विधे ।
शम्भोः सन्तुष्टये मन्ये सत्यमेवोदितं मया ॥ १७॥
नाहं न त्वं सुराश्चान्ये मुनयोऽपि तनूभृतः ।
यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ॥ १८॥
आत्मतन्त्रस्य तस्यापि परस्य परमात्मनः ।
क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ॥ १९॥
चलिष्येऽहमपि ब्रह्मन् सर्वैः सार्धं शिवालयम् ।
क्षमापयामि गिरिशं कृतागश्च शिवे ध्रुवम् ॥ २०॥
ब्रह्मोवाच ।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ।
सार्धं देवैर्मतिं चक्रे तद्गिरौ गमनाय सः ॥ २१॥
ययौ स्वधिष्ण्यनिलयं शिवस्याद्रिवरं शुभम् ।
कैलासं सामरमुनिप्रजेशादिमयो हरिः ॥ २२॥
अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ।
नरेतरैरप्सरोभिर्योगसिद्धैर्महोन्नतम् ॥ २३॥
नानामणिमयैः शृङ्गैः शोभमानं समन्ततः ।
नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ॥ २४॥
नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ।
नानाजलप्रस्रवणैरमरैः सिद्धयोषिताम् ॥ २५॥
रमणैर्विहरन्तीनां नानाकन्दरसानुभिः ।
द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ॥ २६॥
व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ।
सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ॥ २७॥
पर्यस्तं गङ्गया सत्या स्थानपुण्यतरोदया ।
सर्वपावनसङ्कर्त्र्या विष्णुपद्या सुनिर्मलम् ॥ २८॥
एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ।
ययुस्ते विस्मयं देवा विष्ण्वाद्याः समुनीश्वराः ॥ २९॥
तत्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ।
कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ॥ ३०॥
वनं सौगन्धिकं चापि ददृशुस्तत्समीपतः ।
सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्भुतम् ॥ ३१॥
तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ।
नन्दा चालकनन्दा च दर्शनात्पापहारिके ॥ ३२॥
पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ।
विगाह्य पुम्भिस्तास्तत्र क्रीडन्ति रतिकर्शिताः ॥ ३३॥
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च यत् ।
गच्छन्तस्ते सुरा आराद्ददृशुः शाङ्करं वटम् ॥ ३४॥
पर्यक्कृताचलच्छायं पादोनविटपायतम् ।
शतयोजनकोत्सेधं निर्नीडं तापवर्जितम् ॥ ३५॥
महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ।
शम्भुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ॥ ३६॥
मुमुक्षुशरणे तस्मिन् महायोगमये वटे ।
आसीनं ददृशुः सर्वे शिवं विष्ण्वादयः सुराः ॥ ३७॥
विधिपुत्रैर्महासिद्धैः शिवभक्तिरतैः सदा ।
उपास्यमानं समुदा शान्तैः संशान्तविग्रहैः ॥ ३८॥
तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ।
सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिः सदा ॥ ३९॥
तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ।
वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ॥ ४०॥
मुने तुभ्यं प्रवोचन्तं पृच्छते ज्ञानमुत्तमम् ।
कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ॥ ४१॥
कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ।
बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ॥ ४२॥
एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयः सुराः ।
प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ॥ ४३॥
उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ।
उत्थाय चक्रे शिरसाभिवन्दनमपि प्रभुः ॥ ४४॥
वन्दिताङ्घ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिः शिवः ।
ननामाथ यथा विष्णुः कश्यपं लोकसद्गतिः ॥ ४५॥
सुरसिद्धगणाधीशमहर्षिसुनमस्कृतम् ।
समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ॥ ४६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे शिवदर्शनवर्णनं नाम चत्वारिंशोऽध्यायः ॥ २.२.४०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.४१. एकचत्वारिंशोऽध्यायः । देवैः कृता शिवस्तुतिः ।
विष्ण्वादय ऊचुः ।
देवदेव महादेव लौकिकाचारकृत्प्रभो ।
ब्रह्म त्वामीश्वरं शम्भुं जानीमः कृपया तव ॥ १॥
किं मोहयसि नस्तात मायया परया तव ।
दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २॥।
प्रकृतेः पुरुषस्यापि जगतो योनिबीजयोः ।
परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३॥
त्वमेव विश्वं सृजसि पास्यत्सि निजतन्त्रतः ।
स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४॥
त्वमेव क्रतुमीशान ससर्जिथ दयापरः ।
दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५॥
त्वयैव लोकेऽवसिताः सेतवो यान् धृतव्रताः ।
शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६॥
कर्तुस्त्वं मङ्गलानां हि स्वपरं तु सुखे विभो ।
अमङ्गलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७॥
सर्वकर्मफलानां हि सदा दाता त्वमेव हि ।
सर्वे हि प्रोक्ताः पशवस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८॥
पृथग्धियः कर्मदृशोऽरुन्तुदाश्च दुराशयाः ।
वितुदन्ति परान् मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९॥
तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ।
भगवन्परमेशान कृपां कुरु परप्रभो ॥ १०॥
नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने ।
कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११॥
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः ।
त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२॥
नमस्ते नीलकण्ठाय वेधसे परमात्मने ।
विश्वाय विश्वबीजाय जगदानन्दहेतवे ॥ १३॥
ओङ्कारस्त्वं वषट्कारः सर्वारम्भप्रवर्तकः ।
हन्तकारः स्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४॥
कृतः कथं यज्ञभङ्गस्त्वया धर्मपरायण ।
ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५॥
ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ।
शरण्योऽसि सदानन्त्यः सर्वेषां प्राणिनां प्रभो ॥ १६॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय देवाय रसायाम्बुमयाय ते ॥ १७॥
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।
रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८॥
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः ।
पशूनां पतये तुभ्यं यजमानाय वेधसे ॥ १९॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।
महादेवाय सोमाय प्रवृत्ताय नमोऽस्तु ते ॥ २०॥
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ।
नमस्ते कालकालाय नमस्ते रुद्रमन्यवे ॥ २१॥
नमः शिवाय भीमाय शङ्कराय शिवाय ते ।
उग्रोऽसि सर्वभूतानां नियन्ता यच्छिवोऽसि नः ॥ २२॥
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ।
अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३॥
शर्वाय सर्वरूपाय पुरुषाय परात्मने ।
सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४॥
जाताय बहुधा लोके प्रभूताय नमो नमः ।
नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५॥
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ॥ २६॥
ताराय च सुताराय तरुणाय सुतेजसे ।
हरिकेशाय देवाय महेशाय नमो नमः ॥ २७॥
देवानां शम्भवे तुभ्यं विभवे परमात्मने ।
परमाय नमस्तुभ्यं कालकण्ठाय ते नमः ॥ २८॥
हिरण्याय परेशाय हिरण्यवपुषे नमः ।
भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९॥
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ।
नमो ह्रस्वाय दीर्घाय वामनाय नमोऽस्तु ते ॥ ३०॥
दूरेवधाय ते देवाग्रेवधाय नमो नमः ।
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१॥
नानायुधधरायैव दैत्यदानवनाशिने ।
सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२॥
वामाय वामरूपाय वामनेत्राय ते नमः ।
अघोराय परेशाय विकटाय नमो नमः ॥ ३३॥
तत्पुरुषाय नाथाय पुराणपुरुषाय च ।
पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४॥
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ।
ब्रह्मणे ब्रह्मरूपाय नमः साक्षात्परात्मने ॥ ३५॥
उग्रोऽसि सर्वदुष्टानां नियन्तासि शिवोऽसि नः ।
कालकूटाशिने तुभ्यं देवाद्यवनकारिणे ॥ ३६॥
वीराय वीरभद्राय रक्षद्वीराय शूलिने ।
महादेवाय महते पशूनां पतये नमः ॥ ३७॥
वीरात्मने सुविद्याय श्रीकण्ठाय पिनाकिने ।
नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८॥
पराय परमेशाय परात्परतराय ते ।
परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९॥
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ।
भैरवाय शरण्याय त्र्यम्बकाय विहारिणे ॥ ४०॥
मृत्युञ्जयाय शोकाय त्रिगुणाय गुणात्मने ।
चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१॥
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ।
परब्रह्म निर्विकारी चिदानन्दः प्रकाशवान् ॥ ४२॥
ब्रह्मविष्ण्विन्द्रचन्द्रादिप्रमुखाःसकलाः सुराः ।
मुनयश्चापरे त्वत्तः सम्प्रसूता महेश्वर ॥ ४३॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।
अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ४४॥
त्वद्भयाद्वाति वातोऽयं दहत्यग्निर्भयात्तव ।
सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५॥
दयासिन्धो महेशान प्रसीद परमेश्वर ।
रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६॥
रक्षिताः सततं नाथ त्वयैव करुणानिधे ।
नानापद्भ्यो वयं शम्भो तथैवाद्य प्रपाहि नः ॥ ४७॥
यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत् ।
असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः ॥ ४८॥
भगोऽक्षिणी प्रपद्येत यजमानश्च जीवतु ।
पूष्णो दन्ताश्च रोहन्तु भृगोः श्मश्रूणि पूर्ववत् ॥ ४९॥
भवतानुगृहीतानां देवादीनां च सर्वशः ।
आरोग्यं भग्नगात्राणां शङ्कर त्वायुधाश्मभिः ॥ ५०॥
पूर्णभागोऽस्तु ते नाथावशिष्टेऽध्वरकर्मणि ।
रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१॥
इत्युक्त्वा सप्रजेशश्च रमेशश्च कृताञ्जलिः ।
दण्डवत्पतितो भूमौ क्षमापयितुमुद्यतः ॥ ५२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.२.४१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.४२. द्विचत्वारिंशोऽध्यायः । दक्षदुःखनिराकरणम् ।
ब्रह्मोवाच ।
श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै ।
अनुनीतः शम्भुरासीत्प्रसन्नः परमेश्वरः ॥ १॥
आश्वास्य देवान् विष्ण्वादीन् विहस्य करुणानिधिः ।
उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥ २॥
श्रीमहादेव उवाच ।
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ।
यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ॥ ३॥
नाघं तनौ तु बालानां वर्णये नानुचिन्तये ।
मम मायाभिभूतानां दण्डस्तत्र धृतो मया ॥ ४॥
दक्षस्य यज्ञभङ्गोऽयं न कृतश्च मया क्वचित् ।
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ५॥
परेषां क्लेदनं कर्म न कार्यं तत् कदाचन ।
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ६॥
दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ।
मित्रनेत्रेण सम्पश्येद्यज्ञभागं भगः सुरः ॥ ७॥
पूषाभिधः सुरस्तात दद्भिर्जक्षतु पिष्टभुक् ।
याजमानैर्भग्नदन्तः सत्यमेतन्मयोदितम् ॥ ८॥
बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोधकृत् ।
देवाः प्रकृतिसर्वाङ्गा ये म उच्छेषणं ददुः ॥ ९॥
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकः ।
भवन्त्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥ १०॥
ब्रह्मोवाच ।
इत्युक्त्वा परमेशानो विरराम दयान्वितः ।
चराचरपतिर्देवः सम्राट् वेदानुसारकृत् ॥ ११॥
तदा सर्वे सुराद्यास्ते श्रुत्वा शङ्करभाषितम् ।
साधु साध्विति सम्प्रोचुः परितुष्टाः सविष्ण्वजाः ॥ १२॥
ततः शम्भुं समामन्त्र्य मया विष्णुः सुरर्षिभिः ।
भूयस्तद्देवयजनं ययौ च परया मुदा ॥ १३॥
एवं तेषां प्रार्थनया विष्णुप्रभृतिभिः सुरैः ।
ययौ कनखलं शम्भुर्यज्ञवाटं प्रजापतेः ॥ १४॥
रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ।
प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥ १५॥
स्वहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ।
तथान्ये ऋषयः सर्वे पितरश्चाग्नयस्तथा ॥ १६॥
येऽन्ये च बहवस्तत्र यक्षगन्धर्वराक्षसाः ।
त्रोटिता लुञ्चिताश्चैव मृताः केचिद्रणाजिरे ॥ १७॥
यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ।
वीरभद्रं महावीर्यमुवाच प्रहसन् प्रभुः ॥ १८॥
वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ।
महान् दण्डो धृतस्तात देवर्ष्यादिषु सत्वरम् ॥ १९॥
दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ।
यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥ २०॥
ब्रह्मोवाच ।
एवमुक्तः शङ्करेण वीरभद्रस्त्वरान्वितः ।
कबन्धमानयित्वाग्रे तस्य शम्भोरथाक्षिपत् ॥ २१॥
विशिरस्कं च तं दृष्ट्वा शङ्करो लोकशङ्करः ।
वीरभद्रमुवाचाग्रे विहसन् मुनिसत्तम ॥ २२॥
शिरः कुत्रेति तेनोक्तं वीरभद्रोऽब्रवीत्प्रभुः ।
मया शिरो हुतं चाग्नौ तदानीमेव शङ्कर ॥ २३॥
इति श्रुत्वा वचस्तस्य वीरभद्रस्य शङ्करः ।
देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥ २४॥
विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।
मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥ २५॥
अथ प्रजापतेस्तस्य सवनीयपशोः शिरः ।
बस्तस्य सन्दधुः शम्भोः कायेनारं सुशासनात् ॥ २६॥
सन्धीयमाने शिरसि शम्भुसद्दृष्टिवीक्षितः ।
सद्यः सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः ॥ २७॥
उत्थितश्चाग्रतः शम्भुं ददर्श करुणानिधिम् ।
दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः ॥ २८॥
पुरा हरमहाद्वेषकलिलात्माभवद्धि सः ।
शिवावलोकनात् सद्यः शरच्चन्द्र इवामलः ॥ २९॥
भवं स्तोतुमनाः सोऽथ नाशक्नोदनुरागतः ।
उत्कण्ठाविकलत्वाच्च सम्परेतां सुतां स्मरन् ॥ ३०॥
अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ।
तुष्टाव प्रणतो भूत्वा शङ्करं लोकशङ्करम् ॥ ३१॥
दक्ष उवाच ।
नमामि देव वरदं वरेण्यं
महेश्वरं ज्ञाननिधिं सनातनम् ।
नमामि देवाधिपतीश्वरं हरं
सदा सुखाढ्यं जगदेकबान्धवम् ॥ ३२॥
नमामि विश्वेश्वर विश्वरूपं
पुरातनं ब्रह्मनिजात्मरूपम् ।
नमामि शर्वं भवभावभावं
परात्परं शङ्करमानतोऽस्मि ॥ ३३॥
देवदेव महादेव कृपां कुरु नमोऽस्तु ते ।
अपराधं क्षमस्वाद्य मम शम्भो कृपानिधे ॥ ३४॥
अनुग्रहः कृतस्ते हि दण्डव्याजेन शङ्कर ।
खलोऽहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥ ३५॥
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ।
विष्णुब्रह्मादिभिः सेव्यो वेदवेद्यो महेश्वरः ॥ ३६॥
साधूनां कल्पवृक्षस्त्वं दुष्टानां दण्डधृक् सदा ।
स्वतन्त्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥ ३७॥
विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ।
आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥ ३८॥
सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ।
गृहीतदण्डो दुष्टांस्तान् मर्यादापरिपालकः ॥ ३९॥
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ।
अमरानतिदीनाशान् मदनुग्रहकारकः ॥ ४०॥
स भवान् भगवान् शम्भो दीनबन्धो परात्परः ।
स्वकृतेन महार्हेण सन्तुष्टो भक्तवत्सल ॥ ४१॥
ब्रह्मोवाच ।
इति स्तुत्वा महेशानं शङ्करं लोकशङ्करम् ।
प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥ ४२॥
अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ।
बाष्पगद्गदया वाण्या सुप्रणम्य कृताञ्जलिः ॥ ४३॥
विष्णुरुवाच ।
महादेव महेशान लोकानुग्रहकारक ।
परब्रह्म परात्मा त्वं दीनबन्धो दयानिधे ॥ ४४॥
सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभो ।
अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम् ॥ ४५॥
दक्षोऽयं मम भक्तस्त्वां यन्निनिन्द खलः पुरा ।
तत् क्षन्तव्यं महेशाद्य निर्विकारो यतो भवान् ॥ ४६॥
कृतो मयापराधोऽपि तव शङ्कर मौढ्यतः ।
त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥ ४७॥
त्वं मे स्वामी परब्रह्म दासोऽहं ते सदाशिव ।
पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥ ४८॥
ब्रह्मोवाच ।
देवदेव महादेव करुणासागर प्रभो ।
स्वतन्त्रः परमात्मा त्वं परमेशोऽद्वयोऽव्ययः ॥ ४९॥
मम पुत्रोपरि कृतो देवानुग्रह ईश्वर ।
स्वापमानमगणयन् दक्षयज्ञं समुद्धर ॥ ५०॥
प्रसन्नो भव देवेश सर्वशापान्निराकुरु ।
सबोधः प्रेरकस्त्वं मे त्वमेव विनिवारकः ॥ ५१॥
इति स्तुत्वा महेशानं परमं च महामुने ।
कृताञ्जलिपुटो भूत्वा विनम्रीकृतमस्तकः ॥ ५२॥
अथ शक्रादयो देवा लोकपालाः सुचेतसः ।
तुष्टुवुः शङ्करं देवं प्रसन्नमुखपङ्कजम् ॥ ५३॥
ततः प्रसन्नमनसः सर्वे देवास्तथा परे ।
सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शङ्करं मुदा ॥ ५४॥
तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ।
प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक् ॥ ५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ २.२.४२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे
२.२.४३. त्रिचत्वारिंशोऽध्यायः । दक्षयज्ञानुसन्धानम् ।
ब्रह्मोवाच ।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ।
तथान्यैश्च महादेवः प्रसन्नः सम्बभूव ह ॥ १॥
अथ शम्भुः कृपादृष्ट्या सर्वान् ऋषिसुरादिकान् ।
ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २॥
महादेव उवाच ।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोऽस्मि प्रजापते ।
भक्ताधीनः सदाहं वै स्वतन्त्रोऽप्यखिलेश्वरः ॥ ३॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा ।
उत्तरोत्तरतः श्रेष्ठास्तेषां दक्ष प्रजापते ॥ ४॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।
पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५॥
तत्र ज्ञानी प्रियतरो मम रूपं च स स्मृतः ।
तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम् ॥ ६॥
ज्ञानगम्योऽहमात्मज्ञो वेदान्तश्रुतिपारगैः ।
विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७॥
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ।
न शक्नुवन्ति मां प्राप्तुं मूढाः कर्मवशा नराः ॥ ८॥
केवलं कर्मणा त्वं स्म संसारं तर्तुमिच्छसि ।
अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९॥
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ।
बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ १०॥
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ।
वच्मि गुह्यं धर्महेतोः सगुणत्वेऽप्यहं तव ॥ ११॥
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयन्दृगविशेषणः ॥ १२॥
आत्ममायां समाविश्य सोऽहं गुणमयीं मुने ।
सृजन् रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥ १३॥
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ।
अज्ञः पश्यति भेदेन भूतानि ब्रह्म चेश्वरम् ॥ १४॥
शिरःकरादिस्वाङ्गेषु कुरुते न यथा पुमान् ।
पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५॥
सर्वभूतात्मनामेकभावनां यो न पश्यति ।
त्रिसुराणां भिदां दक्ष स शान्तिमधिगच्छति ॥ १६॥
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ।
नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७॥
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ।
स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८॥
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ।
विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥
इत्युक्त्वा शङ्करः स्वामी सर्वेषां परमेश्वरः ।
सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ २०॥
हरिभक्तो हि मां निन्देत्तथा शैवो भवेद्यदि ।
तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ।
जहर्षुः सकलास्तत्र सुरमुन्यादयो मुने ॥ २२॥
दक्षोऽभवन्महाप्रीत्या शिवभक्तिरतस्तदा ।
सकुटुम्बः सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३॥
यथा येन कृता शम्भोः संस्तुतिः परमात्मनः ।
तथा तस्मै वरो दत्तः शम्भुना तुष्टचेतसा ॥ २४॥
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ।
यज्ञं चकार सम्पूर्णं शिवानुग्रहतो मुने ॥ २५॥
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ।
दानं ददौ द्विजेभ्यश्च प्राप्तः शम्भोरनुग्रहः ॥ २६॥
अथ देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ।
दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥ २७॥
एवं दक्षमखः पूर्णोऽभवत्तत्र मुनीश्वर ।
शङ्करस्य प्रसादेन परब्रह्मस्वरूपिणः ॥ २८॥
अथ देवर्षयः सर्वे शंसन्तः शाङ्करं यशः ।
स्वधामानि ययुस्तुष्टाः परेऽपि सुखतस्तदा ॥ २९॥
अहं विष्णुश्च सुप्रीतावपि स्वं स्वं परं मुदा ।
गायन्तौ सुयशः शम्भोः सर्वमङ्गलदं सदा ॥ ३०॥
दक्षसम्मानितः प्रीत्या महादेवोऽपि सद्गतिः ।
कैलासं स ययौ शैलं सुप्रीतः सगणो निजम् ॥ ३१॥
आगत्य स्वगिरिं शम्भुः सस्मार स्वप्रियां सतीम् ।
गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥ ३२॥
कालं निनाय विज्ञानी बहु तच्चरितं वदन् ।
लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥ ३३॥
नानीतिकारकः स्वामी परब्रह्म सतां गतिः ।
तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥ ३४॥
अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ।
के परे मुनयो देवा मानुषाद्याश्च योगिनः ॥ ३५॥
महिमा शाङ्करोऽनन्तो दुर्विज्ञेयो मनीषिभिः ।
भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥ ३६॥
एकोऽपि न विकारो हि शिवस्य परमात्मनः ।
सन्दर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम् ॥ ३७॥
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने ।
लभते सद्गतिं दिव्यामिहापि सुखमुत्तमम् ॥ ३८॥
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ।
जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥ ३९॥
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ।
गौरी भूत्वार्धवामाङ्गी लीलाश्चक्रेऽद्भुताः शिवा ॥ ४०॥
इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ।
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१॥
इदमाख्यानमनघं पवित्रं परपावनम् ।
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२॥
य इदं शृणुयाद् भक्त्या श्रावयेद्भक्तिमान्नरान् ।
सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३॥
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ।
सोऽपि भुक्त्वाखिलान् भोगानन्ते मोक्षमवाप्नुयात् ॥ ४४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षयज्ञानुसन्धानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.२.४३॥
॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां द्वितीयः सतीखण्डः समाप्तः ॥ २.२॥