श्रीशिवमहापुराणम् २२ रुद्रसंहितायां सतीखण्डः

श्रीशिवमहापुराणम् २२ रुद्रसंहितायां सतीखण्डः

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१. प्रथमोऽध्यायः । सतीसङ्क्षेपचरित्रवर्णनम् ।

सतीसङ्क्षेपचरित्रवर्णनं नारद उवाच । विधे सर्वं विजानासि कृपया शङ्करस्य च । त्वयाद्भुता हि कथिताः कथा मे शिवयोः शुभाः ॥ १॥ त्वन्मुखाम्भोजसंवृत्तां श्रुत्वा शिवकथां पराम् । अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो ॥ २॥ पूर्णांशः शङ्करस्यैव यो रुद्रो वर्णितः पुरा । विधे त्वया महेशानः कैलासनिलयो वशी ॥ ३॥ स योगी सर्वविष्ण्वादिसुरसेव्यः सतां गतिः । निर्द्वन्द्वः क्रीडति सदा निर्विकारो महाप्रभुः ॥ ४॥ सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् । हरिप्रार्थनया प्रीत्या मङ्गलां सुतपस्विनीम् ॥ ५॥ प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा । कथमेकशरीरेण द्वयोरप्यात्मजा मता ॥ ६॥ कथं सती पार्वती सा पुनः शिवमुपागता । एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७॥ सूत उवाच । इति तस्य वचः श्रुत्वा सुरर्षेः शङ्करात्मनः । प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८॥ ब्रह्मोवाच । श‍ृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् । यां श्रुत्वा सफलं जन्म भविष्यति न संशयः ॥ ९॥ पुराहं स्वसुतां दृष्ट्वा सन्ध्याह्वां तनयैः सह । अभवं विकृतस्तात कामबाणप्रपीडितः ॥ १०॥ धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः । धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११॥ यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः । तेनाकार्षं सहाकार्यं परमेशेन शम्भुना ॥ १२॥ तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह । कर्तुं तन्मोहनं मूढः शिवमायाविमोहितः ॥ १३॥ अभवंस्तेऽथ वै सर्वे तस्मिन् शम्भौ परप्रभौ । उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४॥ तदास्मरं रमेशानं व्यर्थोपायः सुतैः सह । अबोधयत्स आगत्य शिवभक्तिरतः सुधीः ॥ १५॥ प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना । तदीर्षामत्यजं सोऽहं तं हठं न विमोहितः ॥ १६॥ शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा । दक्षादसिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७॥ सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुःसहम् । रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ॥ १८॥ सोमो रुद्रो गृही भूत्वाकार्षील्लीलां परां प्रभुः । मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ १९॥ विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया । रेमे बहुविमोहो हि स्वतन्त्रः स्वात्तविग्रहः ॥ २०॥ तया विहरतस्तस्य व्यतीयाय महान् मुने । कालः सुखकरः शम्भोर्निर्विकारस्य सद्रतेः ॥ २१॥ ततो रुद्रस्य दक्षेण स्पर्धा जाता निजेच्छया । महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२॥ तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः । महाशान्तं निर्विकारं निनिन्द बहुमोहितः ॥ २३॥ ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् । सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४॥ नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः । तथा तत्र सतीं नाम्नीं स्वपुत्रीं विधिमोहितः ॥ २५॥ यदा नाकारिता पित्रा मायामोहित चेतसा । लीलां चकार सुज्ञाना महासाध्वी शिवा तदा ॥ २६॥ अथागता सती तत्र शिवाज्ञामधिगम्य सा । अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ॥ २७॥ विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः । विनिन्द्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ॥ २८॥ तच्छ्रुत्वा देवदेवेशः क्रोधं कृत्वा तु दुःसहम् । जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ॥ २९॥ सगणं तं समुत्पाद्य किं कुर्यामिति वादिनम् । सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ॥ ३०॥ गणाधीशस्तदाज्ञां स प्राप्य बहुबलान्वितः । गतोऽरं तत्र सहसा महाबलपराक्रमः ॥ ३१॥ महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया । सर्वान्स दण्डयामास न कश्चिदवशेषितः ॥ ३२॥ विष्णुं सञ्जित्य यत्नेन सामरं गणसत्तमः । चक्रे दक्षशिरश्छेदं तच्छिरोऽग्नौ जुहाव च ॥ ३३॥ यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् । ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ॥ ३४॥ यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति । रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः ॥ ३५॥ मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु सम्मता । रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभौ ॥ ३६॥ ततो रुद्रः प्रसन्नोऽभूत्स्तुतिमाकर्ण्य तां पराम् । विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ॥ ३७॥ पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना । शङ्करेण महेशेन नानालीलाविहारिणा ॥ ३८॥ जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः । पुनः स कारितो यज्ञः शङ्करेण कृपालुना ॥ ३९॥ रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः । यज्ञे विष्ण्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्मुने ॥ ४०॥ सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा । पतिता पर्वते तत्र पूजिता सुखदायिनी ॥ ४१॥ ज्वालामुखीति विख्याता सर्वकामफलप्रदा । बभूव परमा देवी दर्शनात्पापहारिणी ॥ ४२॥ इदानीं पूज्यते लोके सर्वकामफलाप्तये । संविधाभिरनेकाभिर्महोत्सवपरःसरम् ॥ ४३॥ ततश्च सा सती देवी हिमालयसुताभवत् । तस्याश्च पार्वती नाम प्रसिद्धमभवत्तदा ॥ ४४॥ सा पुनश्च समाराध्य तपसा कठिनेन वै । तमेव परमेशानं भर्तारं समुपाश्रिता ॥ ४५॥ एतत्सर्वं समाख्यातं यत्पृष्टोऽहं मुनीश्वर । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीसङ्क्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ २.२.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२. द्वितीयोऽध्यायः । कामप्रादुर्भावः ।

सूत उवाच । इत्याकर्ण्य वचस्तस्य नैमिषारण्यवासिनः । पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ॥ १॥ नारद उवाच । विधे विधे महाभाग कथां शम्भोः शुभावहाम् । श‍ृण्वन् भवन्मुखाम्भोजान्न तृप्तोऽस्मि महाप्रभो ॥ २॥ अतः कथय तत्सर्वं शिवस्य चरितं शुभम् । सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ॥ ३॥ सती हि कथमुत्पन्ना दक्षदारेषु शोभना । कथं हरो मनश्चक्रे दाराहरणकर्मणि ॥ ४॥ कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा । हिमवत्तनया जाता भूयो वाकाशमागता ॥ ५॥ पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् । कथमर्धशरीरस्था बभूव स्मरनाशिनः ॥ ६॥ एतत्सर्वं समाचक्ष्व विस्तरेण महामते । नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ ७॥ ब्रह्मोवाच । श‍ृणु त्वं च मुने सर्वं सतीशिवयशः शुभम् । पावनं परमं दिव्यं गुह्याद् गुह्यतमं परम् ॥ ८॥ एतच्छम्भुः पुरोवाच भक्तवर्याय विष्णवे । पृष्टस्तेन महाभक्त्या परोपकृतये मुने ॥ ९॥ ततः सोऽपि मया पृष्टो विष्णुः शैववरः सुधीः । प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ॥ १०॥ अहं तत्कथयिष्यामि कथामेतां पुरातनीम् । शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ॥ ११॥ पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः । अरूपः शक्तिरहितश्चिन्मात्रः सदसत्परः ॥ १२॥ अभवत्सगुणः सोऽपि द्विरूपः शक्तिमान्प्रभुः । सोमो दिव्याकृतिर्विप्र निर्विकारी परात्परः ॥ १३॥ तस्य वामाङ्गजो विष्णुर्ब्रह्माहं दक्षिणाङ्गजः । रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ॥ १४॥ सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः । लयकर्ता स्वयं रुद्रस्त्रिधाभूतः सदाशिवः ॥ १५॥ तमेवाहं समाराध्य ब्रह्मा लोकपितामहः । प्रजाः ससर्ज सर्वास्ताः सुरासुरनरादिकाः ॥ १६॥ सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् । अमन्यं सुप्रसन्नोऽहं निजं सर्वमहोन्नतम् ॥ १७॥ मरीचिमत्रिं पुलहं पुलस्त्याङ्गिरसौ क्रतुम् । वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ॥ १६॥ ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने । तदा मन्मनसो जाता चारुरूपा वराङ्गना ॥ १९॥ नाम्ना सन्ध्या दिवाक्षान्ता सायं सन्ध्या जपन्तिका । अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी ॥ २०॥ न तादृशी देवलोके न मर्त्ये न रसातले । कालत्रयेऽपि वै नारी सम्पूर्णगुणशालिनी ॥ २१॥ दृष्ट्वाहं तां समुत्थाय चिन्तयन् हृदि हृद्गताम् । दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ॥ २२॥ एवं चिन्तयतो मे हि ब्रह्मणो मुनिसत्तम । मानसः पुरुषो मञ्जुराविर्भूतो महाद्भुतः ॥ २३॥ काञ्चनीकृतजाताभः पीनोरस्कः सुनासिकः । सुवृत्तोरुकटीजङ्घो नीलवेलितकेसरः ॥ २४॥ लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः । कपाटायतसद्वक्षो रोमराजीविराजितः ॥ २५॥ अभ्रमातङ्गकाकारः पीनो नीलसुवासकः । आरक्तपाणिनयनमुखपादकरोद्भवः ॥ २६॥ क्षीणमध्यश्चारुदन्तः प्रमत्तगजगन्धनः । प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ॥ २७॥ कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः । पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः ॥ २८॥ कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् । सुगन्धिमारुतो तात श‍ृङ्गाररससेवितः ॥ २९॥ तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते । औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ॥ ३०॥ अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् । धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ॥ ३१॥ मां सोऽपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् । प्रणम्य पुरुषः प्राह विनयानतकन्धरः ॥ ३२॥ पुरुष उवाच । किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय । मान्योऽद्य पुरुषो यस्मादुचितः शोभितो विधे ॥ ३३॥ अभिमानं च योग्यं च स्थानं पत्नी च या मम । तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ॥ ३४॥ ब्रह्मोवाच । एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः । क्षणं न किञ्चित् प्रोवाच स स्रष्टा चातिविस्मितः ॥ ३५॥ अतो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् । अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ॥ ३६॥ ब्रह्मोवाच । अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः । मोहयन् पुरुषान् स्त्रींश्च कुरु सृष्टिं सनातनीम् ॥ ३७॥ अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे । एते सर्वे भविष्यन्ति न क्षमास्तव लङ्घने ॥ ३८॥ अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तम । भविष्यामस्तव वशे किमन्ये प्राणधारकाः ॥ ३९॥ प्रच्छन्नरूपो जन्तूनां प्रविशन् हृदयं सदा । सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ ४०॥ त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोऽद्भुतम् । सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ॥ ४१॥ इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः । नामान्येते वदिष्यन्ति सुता मे तव तत्त्वतः ॥ ४२॥ ब्रह्मोवाच । इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च । आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ॥ ४३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २.२.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३. तृतीयोऽध्यायः । कामशापानुग्रहः ।

ब्रह्मोवाच । ततस्ते मुनयः सर्वे मदभिप्रायवेदिनः । चक्रुस्तदुचितं नाम मरीचिप्रमुखाः सुताः ॥ १॥ मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः । दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २॥ ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः । ऊचुः सङ्गतमेतस्मै पुरुषाय ममात्मजाः ॥ ३॥ ऋषय ऊचुः । यस्मात्प्रमथसे तत्त्वं जातोऽस्माकं यथा विधेः । तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५॥ मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः । तस्मात्कन्दर्पनामापि लोके ख्यातो भविष्यसि ॥ ६॥ त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति । ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७॥ दक्षोऽयं भवतः पत्नीं स्वयं दास्यति कामिनीम् । आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८॥ एषा च कन्यका चारुरूपा ब्रह्ममनोभवा । सन्ध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९॥ ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वराङ्गना । अतः सन्ध्येति विख्याता क्रान्ताभा तुल्यमल्लिका ॥ १०॥ ब्रह्मोवाच । कौसुमानि तथास्त्राणि पञ्चादाय मनोभवः । प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ॥ ११॥ हर्षणं रोचनाख्यं च मोहनं शोषणं तथा । मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२॥ ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् । तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ॥ १३॥ तिष्ठन्ति मुनयश्चात्र स्वयं चापि प्रजापतिः । एतेषां साक्षिभूतं मे भविष्यत्यद्य निश्चयम् ॥ १४॥ सन्ध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः । इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५॥ ब्रह्मोवाच । इति सञ्चिन्त्य मनसा निश्चित्य च मनोभवः । पुष्पजं पुष्पजातैश्च योजयामास मार्गणैः ॥ १६॥ आलीढस्थानमासाद्य धनुराकृष्य यत्नतः । चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७॥ संहिते तेन कोदण्डे मारुताश्च सुगन्धयः । ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८॥ ततस्तानपि धात्रादीन् सर्वानेव च मानसान् । पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९॥ ततस्ते मुनयः सर्वे मोहिताश्चाप्यहं मुने । संहितो मनसा किञ्चिद्विकारं प्रापुरादितः ॥ २०॥ सन्ध्यां सर्वे निरीक्षन्तः सविकारं मुहुर्मुहुः । आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१॥ ततः सर्वान्स मदनो मोहयित्वा पुनः पुनः । यथेन्द्रियविकारं ते प्रापुस्तानकरोत्तथा ॥ २२॥ उदीरितेन्द्रियो धाता वीक्ष्याहं स यदा च ताम् । तदैव चोनपञ्चाशद्भावा जाताः शरीरतः ॥ २३॥ सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातनात् । चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ॥ २४॥ निसर्गसुन्दरी सन्ध्या तान्भावान् मानसोद्भवान् । कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५॥ अथ भावयुतां सन्ध्यां वीक्ष्याकार्षं प्रजापतिः । धर्माभिपूरिततनुरभिलाषमहं मुने ॥ २६॥ ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि । दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वैकारिकेन्द्रियम् ॥ २७॥ दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखांश्च माम् । सन्ध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८॥ यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् । कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा ॥ २९॥ इत्थं पापगतिं वीक्ष्य भ्रातृणां च पितुस्तथा । धर्मः सस्मार शम्भुं वै तदा धर्मावनं प्रभुम् ॥ ३०॥ संस्मरन्मनसा धर्मः शङ्करं धर्मपालकम् । तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसम्भवः ॥ ३१॥ धर्म उवाच । देवदेव महादेव धर्मपाल नमोऽस्तु ते । सृष्टिस्थितिविनाशानां कर्ता शम्भो त्वमेव हि ॥ ३२॥ सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् । रजःसत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३॥ निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः । निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४॥ रक्ष रक्ष महादेव पापान्मां दुस्तरादितः । मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५॥ ब्रह्मोवाच । इति स्तुतो महेशानो धर्मेणैव परः प्रभुः । तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६॥ जातो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् । मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७॥ स साधुवादं तान् सर्वान् विहस्य च पुनः पुनः । उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८॥ शिव उवाच । अहो ब्रह्मंस्तव कथं कामभावः समुद्गतः । दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९॥ यथा माता च भगिनी भ्रातृपत्नी तथा सुता । एताः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ ४०॥ एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः । कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१॥ धैर्यं जागरितं चित्ते न कथं चतुरानन । येन क्षुद्रेण कामेन रन्तुं विघटितं विधे ॥। ४२॥ एकान्तयोगिनस्तस्मात्सर्वदादित्यदर्शिनः । कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३॥ कथं कामोऽपि मन्दात्मा प्राबल्यात्सोऽधुनैव हि । विकृतान् कृतवान् बाणैरकालज्ञोऽल्पचेतनः ॥ ४४॥ धिक् तं श्रुतं सदा तस्य यस्य कान्ता मनोऽहरत् । धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५॥ ब्रह्मोवाच । इति तस्य वचः श्रुत्वा लोके सोऽहं शिवस्य च । व्रीडया द्विगुणीभूतः स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६॥ ततः कामविकारं हि निगृह्य चात्यजं मुने । जिघृक्षुरपि तद्भीत्या तां सन्ध्यां कामरूपिणीम् ॥ ४७॥ मच्छरीरात्तु घर्माम्भो यत्पपात द्विजोत्तम । अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८॥ भिन्नाञ्जननिभाः सर्वे फुल्लराजीवलोचनाः । नितान्तयतयः पुण्याः संसारविमुखाः परे ॥ ४९॥ सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः । षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ ५०॥ घर्माम्भः पतितं भूमौ तदा दक्षशरीरतः । समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गना ॥ ५१॥ तन्वङ्गी सममध्या च तनुरोमावली श्रुता । मृद्वङ्गी चारुदशना नवकाञ्चनसुप्रभा ॥ ५२॥ सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा । नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३॥ मरीचिप्रमुखाः षड् वै निगृहीतेन्द्रियक्रियाः । ऋते क्रतुं वसिष्ठं च पुलस्त्याङ्गिरसौ तथा ॥ ५४॥ क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च । तेभ्यः पितृगणा जाता अपरे मुनिसत्तम ॥ ५५॥ सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः । हविष्मन्तः सुताः सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६॥ क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा । आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः ॥ ५७॥ जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ । लोकानां पितृवर्गेषु कव्यवाट् स समन्ततः ॥ ५८॥ सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताभवत् । निर्दोषा शम्भुसन्दृष्टा धर्मकर्मपरायणा ॥ ५९॥ एतस्मिन्नन्तरे शम्भुरनुगृह्याखिलान्द्विजान् । धर्मं संरक्ष्य विधिवदन्तर्धानं गतो द्रुतम् ॥ ६०॥ अथ शङ्करवाक्येन लज्जितोऽहं पितामहः । कन्दर्पायाकोपिषं हि भ्रुकुटीकुटिलाननः ॥ ६१॥ दृष्ट्वा मुखमभिप्रायं विदित्वा सोऽपि मन्मथः । स्वबाणान्सञ्जहाराशु भीतः पशुपतेर्मुने ॥ ६२॥ ततः कोपसमायुक्तः पद्मयोनिरहं मुने । अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३॥ भवनेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः । भविष्यति महादेवे कृत्वा कर्म सुदुष्करम् ॥ ६४॥ इति वेधास्त्वहं काममक्षयं द्विजसत्तम । समक्षं पितृसङ्घस्य मुनीनां च यतात्मनाम् ॥ ६५॥ इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः । प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६॥ ब्रह्माणं मामुवाचेदं सदक्षादिसुतं मुने । श‍ृण्वतां पितृसङ्घानां सन्ध्यायाश्च विगर्वधीः ॥ ६७॥ काम उवाच । किमर्थं भवता ब्रह्मन् शप्तोऽहमिति दारुणम् । अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८॥ त्वया चोक्तं नु मत्कर्म यत्तद् ब्रह्मन् कृतं मया । तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९॥ अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः । इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ ७०॥ नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि । दारुणः समयश्चैष शापो देव जगत्पते ॥ ७१॥ ब्रह्मोवाच । इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः । प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः ॥ ७२॥ ब्रह्मोवाच । आत्मजा मम सन्ध्येयं यस्मादेतत्सकामतः । लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ॥ ७३॥ अधुना शान्तरोषोऽहं त्वां वदामि मनोभव । श‍ृणुष्व गतसन्देहः सुखी भव भयं त्यज ॥ ७४॥ त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना । तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५॥ यदा करिष्यति हरोऽञ्जसा दारपरिग्रहम् । तदा स एव भवतः शरीरं प्रापयिष्यति ॥ ७६॥ एवमुक्त्वाथ मदनमहं लोकपितामहः । अन्तर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७॥ इत्येवं मे वचः श्रुत्वा मदनस्तेऽपि मानसाः । सम्बभूवुः सुताः सर्वे सुखिनोऽरं गृहं गताः ॥ ७८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ २.२.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.४. चतुर्थोऽध्यायः । कामविवाहः ।

नारद उवाच । विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो । अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १॥ ततः किमभवत्तात चरितं तद् वदाधुना । अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २॥ ब्रह्मोवाच । शम्भौ गते निजस्थाने वेधस्यन्तर्हिते मयि । दक्षः प्राहाथ कन्दर्पं संस्मरन् मम तद्वचः ॥ ३॥ दक्ष उवाच । मद्देहजेयं कन्दर्प सद्रूपगुणसंयुता । एनां गृह्णीष्व भार्यार्थं भवतः सदृशीं गुणैः ॥ ४॥ एषा तव महातेजाः सर्वदा सहचारिणी । भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५॥ ब्रह्मोवाच । इत्युक्त्वा प्रददौ तस्यै देहस्वेदाम्बुसम्भवाम् । कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६॥ विवाह्य तां स्मरः सोऽपि मुमोदातीव नारद । दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७॥ अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् । आत्मागुणेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥ ८॥ क्षणप्रदाभवत्कान्ता गौरी मृगदृशी मुदा । लोलापाङ्ग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९॥ तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् । उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ १०॥ गतिं दृष्ट्वा कटाक्षाणामाशु तस्या द्विजोत्तम । आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११॥ तस्याः स्वभावसौरभ्यं धीरश्वासानिलं तथा । आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले ॥ १२॥ पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् । न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३॥ सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् । रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४॥ दृढपीनोन्नतं तस्याः स्तनमध्यं विलम्बिनीम् । आनाभिलम्बिनीं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५॥ ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भ्रमाम् । विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६॥ गम्भीरनाभिरन्ध्रान्तश्चतुःपार्श्वत्वगावृतम् । आननाब्जेक्षणद्वन्द्वमारक्तकमलं यथा ॥ १७॥ क्षीणमध्येन वपुषा निसर्गाष्टापदप्रभा । रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८॥ रम्भास्तम्भायतं स्निग्धं यदूरुयुगलं मृदु । निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥ १९॥ आरक्तपार्ष्णिपादाग्रं प्रान्तभागं पदद्वयम् । अनुरागमिवानेन मित्रं तस्या मनोभवः ॥ २०॥ तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः । वृत्ताभिरङ्गुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१॥ तद् बाहुयुगुलं कान्तं मृणालयुगलायतम् । मृदु स्निग्धं चिरं राजत्कान्तिलोहप्रवालवत् ॥ २२॥ नीलनीरदसङ्काशः केशपाशो मनोहरः । चमरीबालभरवद्विभाति स्म स्मरप्रिया ॥ २३॥ एतादृशीं रतिं नाम्नीं प्रालेयाद्रिसमुद्भवाम् । गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४॥ चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् । भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५॥ कटाक्षपाततुङ्गौघां स्वीयनेत्रोत्पलान्विताम् । तनुलोमाम्बुशैवालां मनोद्रुमविलासिनीम् ॥ २६॥ निम्ननाभिह्रदां क्षामां सर्वाङ्गरमणीयिकाम् । सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७॥ द्वादशाभरणैर्युक्तां श‍ृङ्गारैः षोडशैर्युताम् । मोहनीं सर्वलोकानां भासयन्तीं दिशो दश ॥ २८॥ इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः । रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९॥ नोवाच च तदा दक्षं कामो मोदभवात्ततः । विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः ॥ ३०॥ तदा महोत्सवस्तात बभूव सुखवर्धनः । दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१॥ कामोऽतीव सुखं प्राप्य सर्वदुःखक्षयं गतः । दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२॥ रराज च तया सार्धं भिन्नश्चारुवचाः स्मरः । जीमूत इव सन्ध्यायां सौदामन्या मनोज्ञया ॥ ३३॥ इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् । रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ २.२.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.५. पञ्चमोऽध्यायः । सन्ध्याचरित्रम् ।

सूत उवाच । इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः । स मुदोवाच संस्मृत्य शङ्करं प्रीतमानसः ॥ १॥ नारद उवाच । ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते । अद्भुता कथिता लीला त्वया च शशिमौलिनः ॥ २॥ गृहीतदारे मदने हृष्टे हि स्वगृहं गते । दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ॥ ३॥ मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु । सन्ध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ॥ ४॥ किं चकार च केनैव पुरुषेण विवाहिता । एतत्सर्वं विशेषेण सन्ध्यायाश्चरितं वद ॥ ५॥ सूत उवाच । इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रस्य धीमतः । संस्मृत्य शङ्करं भक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ॥ ६॥ ब्रह्मोवाच । श‍ृणु त्वं च मुने सर्वं सन्ध्यायाश्चरितं शुभम् । यच्छ्रुत्वा सर्वकामिन्यःसाध्व्यः स्युः सर्वदा मुने ॥ ७॥ सा च सन्ध्या सुता मे हि मनोजाता पुराभवत् । तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ॥ ८॥ मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य धीमती । ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता ॥ ९॥ वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् । पतिव्रता च मुख्याभूद्वन्द्या पूज्या त्वभीषणा ॥ १०॥ नारद उवाच । कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया । कथं शरीरं सा त्यक्त्वाभवन्मेधातिथेः सुता ॥ ११॥ कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम् । वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम् ॥ १२॥ एतन्मे श्रोष्यमाणाय विस्तरेण पितामह । कौतूहलमरुन्धत्याश्चरितं ब्रूहि तत्त्वतः ॥ १३॥ ब्रह्मोवाच । अहं स्वतनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः । कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ॥ १४॥ सन्ध्यायाश्चलितं चित्तं कामबाणविलोडितम् । ऋषीणामपि संरुद्धमानसानां महात्मनाम् ॥ १५॥ भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति । आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ॥ १६॥ कामस्य तादृशं भावं मुनिमोहकरं मुहुः । दृष्ट्वा सन्ध्या स्वयं तत्रोपयमायातिदुःखिता ॥ १७॥ ततस्तु ब्रह्मणा शप्ते मदने च मया मुने । अन्तर्भूते मयि शिवे गते चापि निजास्पदे ॥ १८॥ आमर्षवशमापन्ना सा सन्ध्या मुनिसत्तम । मम पुत्री विचार्यैवं तदा ध्यानपराभवत् ॥ १९॥ ध्यायन्ती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी । इदं विममृशे सन्ध्या तस्मिन्काले यथोचितम् ॥ २०॥ सन्ध्योवाच । उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः । अकार्षीत्सानुरागोऽयमभिलाषं पिता मम ॥ २१॥ पश्यतां मानसानां च मुनीनां भावितात्मनाम् । दृष्ट्वैव माममर्यादं सकाममभवन्मनः ॥ २२॥ ममापि मथितं चित्तं मदनेन दुरात्मना । येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ॥ २३॥ फलमेतस्य पापस्य मदनः स्वयमाप्तवान् । यस्तं शशाप कुपितः शम्भोरग्रे पितामहः ॥ २४॥ प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी । तच्छोधनफलमहमाशु चेच्छामि साधनम् ॥ २५॥ यन्मां पिता भ्रातरश्च सकामामपरोक्षतः । दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः पापकृत्परा ॥ २६॥ ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् । पत्या इव स्वके ताते सर्वेषु सहजेष्वषि ॥ २७॥ करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् । आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः ॥ २८॥ किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले । उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ २९॥ एतदर्थमहं कृत्वा तपः परमदारुणम् । मर्यादां स्थापयिष्यामि पश्चात्त्यक्ष्यामि जीवितम् ॥ ३०॥ यस्मिन् शरीरे पित्रा मे ह्यभिलाषः स्वयं कृतः । भ्रातृभिस्तेन कायेन किञ्चिन्नास्ति प्रयोजनम् ॥ ३१॥ मया येन शरीरेण तातेषु सहजेषु च । उद्भावितः कामभावो न तत्सुकृतसाधनम् ॥ ३२॥ इति सञ्चिन्त्य मनसा सन्ध्या शैलवरं ततः । जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ॥ ३३॥ अथ तत्र गतां ज्ञात्वा सन्ध्यां गिरिवरं प्रति । तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ॥ ३४॥ वसिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् । समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ॥ ३५॥ ब्रह्मोवाच । वसिष्ठ पुत्र गच्छ त्वं सन्ध्यां जातां मनस्विनीम् । तपसे धृतकामां च दीक्षस्वैनां यथाविधि ॥ ३६॥ मन्दाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान् । युष्मान्मां च तथात्मानं सकामां मुनिसत्तम ॥ ३७॥ अनुक्तमूर्त्तं तत्कर्म पूर्वमृत्युं विमृश्य सा । युष्माकमात्मनश्चापि प्राणान्सन्त्यक्तुमिच्छति ॥ ३८॥ अमर्यादेषु मर्यादां तपसा स्थापयिष्यति । तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे ॥ ३९॥ न भावं तपसस्तात सानुजानाति कञ्चन । तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु ॥ ४०॥ इदं रूपं परित्यज्य निजं रूपान्तरं मुने । परिगृह्यान्तिके तस्याः तपश्चर्यां निदर्शय ॥ ४१॥ इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् । नाप्नुयात्साऽथ किञ्चिद्वै ततो रूपान्तरं कुरु ॥ ४२॥ ब्रह्मोवाच । नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयायुतः ॥ तथास्त्विति च मां प्रोच्य ययौ सन्ध्यान्तिकं मुनिः । ४३॥ तत्र देवसरः पूर्णं गुणैर्मानससम्मितम् । ददर्श स वसिष्ठोऽथ सन्ध्यां तत्तीरगामपि ॥। ४४॥ तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् । उद्यदिन्दुसुनक्षत्रं प्रदोषे गगनं यथा ॥ ४५॥ मुनिर्दृष्ट्वाथ तां तत्र सुसम्भावां स कौतुकी । वीक्षाञ्चक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ॥ ४६॥ चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणाम्बुधिम् । यान्ती सा चैव ददृशे तेन सानुगिरेर्महत् ॥ ४७॥ निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी । यथा हिमवतो गङ्गा तथा गच्छति सागरम् ॥ ४८॥ तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् । सन्ध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठः सादरं तदा ॥ ४९॥ वसिष्ठ उवाच । किमर्थमागता भद्रे निर्जनं त्वं महीधरम् । कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ॥ ५०॥ एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् । वदनं पूर्णचन्द्राभं निष्चेष्टं वा कथं तव ॥ ५१॥ ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्य वसिष्ठस्य महात्मनः । दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् ॥ ५२॥ शरीरधृग्ब्रह्मचर्यं विलसन्तं जटाधरम् । सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ॥ ५३॥ सन्ध्योवाच । यदर्थमागता शैलं सिद्धं तन्मे निबोध ह । तव दर्शनमात्रेण यन्मे सेत्स्यति वै विभो ॥ ५४॥ तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता । ब्रह्मणोऽहं सुता जाता नाम्ना सन्ध्येति विश्रुता ॥ ५५॥ यदि ते युज्यते सह्यं मां त्वं समुपदेशय । एतच्चिकीर्षितं गुह्यं नान्यं किञ्चन विद्यते ॥ ५६॥ अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता । चिन्तया परिशुष्येऽहं वेपते हि मनो मम ॥ ५७॥ ब्रह्मोवाच । आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः । स्वयं च सर्वकृत्यज्ञो नान्यत्किञ्चन पृष्टवान् ॥ ५८॥ अथ तां नियतात्मानं तपसेति धृतोद्यमाम् । प्रोवाच मनसा स्मृत्वा शङ्करं भक्तवत्सलम् ॥ ५९॥ वसिष्ठ उवाच । परमं यो महत्तेजः परमं यो महत्तपः । परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ॥ ६०॥ धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् । तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ॥ ६१॥ मन्त्रेणानेन देवेशं शम्भुं भज शुभानने । तेन ते सकलावाप्तिर्भविष्यति न संशयः ॥ ६२॥ ॐ नमः शङ्करायेति ओमित्यन्तेन सन्ततम् । मौनं तपः समारम्भं तन्मे निगदतः श‍ृणु ॥ ६३॥ स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् । द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ॥ ६४॥ तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् । एवं तपःसमाप्तौ वा षष्ठे काले क्रिया भवेत् ॥ ६५॥ एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा । सर्वाभीष्टप्रदा देवि सत्यं सत्यं न संशयः ॥ ६६॥ एवं चित्ते समुद्दिश्य कामं चिन्तय शङ्करम् । स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ॥ ६७॥ ब्रह्मोवाच । उपविश्य वसिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् । तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ॥ ६८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं नाम पञ्चमोऽध्यायः ॥ २.२.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.६. षष्ठोऽध्यायः । सन्ध्याचरित्रवर्णनम् ।

ब्रह्मोवाच । सुतवर्य महाप्राज्ञ श‍ृणु सन्ध्यातपो महत् । यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद् ध्रुवम् ॥ १॥ उपदिश्य तपोभावं वसिष्ठे स्वगृहं गते । सन्ध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २॥ ततः सानन्दमनसो वेषं कृत्वा तु यादृशम् । तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३॥ यथोक्तं तु वसिष्ठेन मन्त्रं तपसि साधनम् । मन्त्रेण तेन सद्भक्त्या पूजयामास शङ्करम् ॥ ४॥ एकान्तमनसस्तस्याः कुर्वन्त्याः सुमहत्तपः । शम्भौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५॥ प्रसन्नोऽभूत्तदा शम्भुस्तपसा तेन तोषितः । अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६॥ यद्रूपं चिन्तयन्ती सा तेन प्रत्यक्षतां गतः । ७॥ अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं प्रभुम् । प्रसन्नवदनं शान्तं मुमोदातीव शङ्करम् ॥ ८॥ ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् । इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९॥ निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः । दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ १०॥ दिव्यज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा । प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११॥ सन्ध्योवाच । निराकारं ज्ञानगम्यं परं य- न्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् । अन्तश्चिन्त्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोऽस्तु ॥ १२॥ सर्वं शान्तं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् । खाध्वप्रख्यं ध्वान्तमार्गात्परस्ताद्- रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३॥ एकं शुद्धं दीप्यमानं विनाजां चिदानन्दं सहजं चाविकारि । नित्यानन्दं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४॥ विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छन्दं ध्येयमात्मस्वरूपम् । सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥ १५॥ यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् । इष्टाभीती शूलमुण्डं दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ॥ १६॥ गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च । पुनः कालश्च रूपाणि यस्य तुभ्यं नमोऽस्तु ते ॥ १७॥ प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ । तस्मादव्यक्तरूपाय शङ्कराय नमो नमः ॥ १८॥ यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् । संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ १९॥ नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय । समस्तलोकान्तरभूतिदाय प्रकाशरूपाय परात्पराय ॥ २०॥ यस्यापरं नो जगदुच्यते पदात् क्षितिर्दिशः सूर्य इन्दुर्मनोजः । बहिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शम्भवे मे नमोऽस्तु ॥ २१॥ त्वं परः परमात्मा च त्वं विद्या विविधा हरः । सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ॥ २२॥ यस्य नादिर्न मध्यं च नान्तमस्ति जगद्यतः । कथं स्तोष्यामि तं देवं वाङ्मनोऽगोचरं हरम् ॥ २३॥ यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः । न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ २४॥ स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो । नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५॥ नमस्तुभ्यं महेशान नमस्तुभ्यं तपोमय । प्रसीद शम्भो देवेश भूयो भूयो नमोऽस्तु ते ॥ २६॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्याः संस्तुतः परमेश्वरः । सुप्रसन्नतरश्चाभूच्छङ्करो भक्तवत्सलः ॥ २७॥ अथ तस्याः शरीरं तु वल्कलाजिनसंयुतम् । परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८॥ हिमानीतर्जिताम्भोजसदृशं वदनं तदा । निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ॥ २९॥ महेश्वर उवाच । प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै । स्तवेन च शुभप्राज्ञे वरं वरय साम्प्रतम् ॥ ३०॥ येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् । तत्करिष्ये च भद्रं ते प्रसन्नोऽहं तव व्रतैः ॥ ३१॥ ब्रह्मोवाच । इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा । सन्ध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ॥ ३२॥ सन्ध्योवाच । यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि । यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर ॥ ३३॥ यदि देव प्रसन्नोऽसि तपसा मम साम्प्रतम् । वृतस्तदायं प्रथमं वरो मम विधीयताम् ॥ ३४॥ उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन् भुवस्थले । न भवन्तु समेनैव सकामाः सम्भवन्तु वै ॥ ३५॥ यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा । भविष्यामि तथा नान्या वर एको वृतो मया ॥ ३६॥ सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति । यो मे पतिर्भवेन्नाथ सोऽपि मेऽतिसुहृच्च वै ॥ ३७॥ यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् । गमिष्यति तदा नाशं स च क्लीबो भविष्यति ॥ ३८॥ ब्रह्मोवाच । इति श्रुत्वा वचस्तस्याः शङ्करो भक्तवत्सलः । उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ॥ ३९॥ महेश्वर उवाच । श‍ृणु देवि च सन्ध्ये त्वं त्वत्पापं भस्मतां गतम् । त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ॥ ४०॥ यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया । सुप्रसन्नेन तपसा तव सन्ध्ये वरेण हि ॥ ४१॥ प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः । तृतीयो यौवनो भावश्चतुर्थो वार्धकस्तथा ॥ ४२॥ तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः । सकामाः स्युर्द्वितीयान्ते भविष्यति क्वचित् क्वचित् ॥ ४३॥ तपसा तव मर्यादा जगति स्थापिता मया । उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ ४४॥ त्वं च लोके सतीभावं तादृशं समवाप्नुहि । त्रिषु लोकेषु नान्यस्या यादृशं सम्भविष्यति ॥ ४५॥ यः पश्यति सकामस्त्वां पाणिग्राहमृते तव । स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ॥ ४६॥ पतिस्तव महाभागस्तपोरूपसमन्वितः । सप्तकल्पान्तजीवी च भविष्यति सह त्वया ॥ ४७॥ इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया । अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ॥ ४८॥ अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः । तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ॥ ४९॥ स च मेधातिथेर्यज्ञे मुनेद्वादशवार्षिके । कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ॥ ५०॥ एतच्छैलोपत्यकायां चन्द्रभागानदीतटे । मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ५१॥ तत्र गत्वा स्वयं छन्दं मुनिभिर्नोपलक्षिता । मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ ५२॥ यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन । तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ॥ ५३॥ यदा त्वं दारुणं सन्ध्ये तपश्चरसि पर्वते । यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ५४॥ त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः । यास्ताः शीलसमापन्ना यथायोग्यं विवाहिताः ॥ ५५॥ तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः । चन्द्रोऽन्याःसम्परित्यज्य रोहिण्यां प्रीतिमानभूत् ॥ ५६॥ तद्धेतोर्हि यदा चन्द्रः शप्तो दक्षेण कोपिना । तदा भवत्या निकटे सर्वे देवाः समागताः । ५७॥ न दृष्टाश्च त्वया सन्ध्ये ते देवा ब्रह्मणा सह । मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ॥ ५८॥ चन्द्रस्य शापमोक्षार्थं जाता चन्द्रनदी तदा । सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः ॥ ५९॥ तपसा तत्समो नास्ति न भूतो न भविष्यति । येन यज्ञः समारब्धो ज्योतिष्टोमो महाविधिः ॥ ६०॥ तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् । इदानीं सुपवित्रा त्वं सम्पूर्णोऽस्तु पणस्तव ॥ ६१॥ एतन्मया स्थापितं स्वाकार्यार्थं भो तपस्विनि । तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः । कृत्वा हितं च देवेशस्तत्रैवान्तरधीयत ॥ ६२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ २.२.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.७. सप्तमोऽध्यायः । सन्ध्याया अरुन्धतीनामप्राप्तीर्वसिष्ठेन सह विवाहश्च ।

ब्रह्मोवाच । वरं दत्त्वा मुने तस्मिन् शम्भावन्तर्हिते तदा । सन्ध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १॥ तत्र शम्भोः प्रसादेन न केनाप्युपलक्षिता । सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २॥ वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने । उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३॥ तमेव कृत्वा मनसा तपश्चर्योपदेशकम् । पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४॥ समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता । हृष्टा शम्भुप्रसादेन सा विवेश विधेः सुता ॥ ५॥ तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः । दग्धं हव्यमयं गन्धं तस्तार यदलक्षितम् ॥ ६॥ वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मण्डलम् । शुद्धं प्रवेशयामास शम्भोरेवाज्ञया पुनः ॥ ७॥ सूर्यो द्वयर्धं विभज्याथ तच्छरीरं तदा रथे । स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥ ८॥ तदूर्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर । प्रातःसन्ध्याभवत्सा तु अहोरात्रादिमध्यगा ॥ ९॥ तच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ॥ सा सायमभवत्सन्ध्या पितृप्रीतिप्रदा सदा ॥ १०॥ सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः । प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११॥ अस्तं गते ततः सूर्ये शोणपद्मनिभे सदा । उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ॥ १२॥ तस्याः प्राणास्तु मनसा शम्भुनाथ दयालुना । दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥ मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा । प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चनसुप्रभा ॥ १४॥ तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः । यज्ञार्थं तां तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५॥ अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः । शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६॥ न रुणद्धि यतो धर्मं सा कस्मादपि कारणात् । अतस्त्रिलोके विदितं नाम सम्प्राप तत्स्वयम् ॥ १७॥ यज्ञं समाप्य स मुनिः कृतकृत्यभाव- मासाद्य सम्मदयुतस्तनयाप्रलम्भात् । तस्मिन्निजाश्रमपदे सह शिष्यवर्गै- स्तामेव सन्ततमसौ दयते सुरर्षे ॥ १८॥ अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे । चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ॥ १९॥ सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः । तापसारण्यमपि सा पवित्रमकरोत्सती ॥ २०॥ विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै । वसिष्ठेन ह्यरुन्धत्या ब्रह्मविष्णुमहेश्वराः ॥ २१॥ तद्विवाहे महोत्साहो बभूव सुखवर्धनः । सर्वे सुराश्च मुनयः सुखमापुः परं मुने ॥ २२॥ ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः । सप्तनद्यः समुत्पन्नाः शिप्राद्याः सुपवित्रकाः ॥ २३॥ अरुन्धती महासाध्वी साध्वीनां प्रवरोत्तमा । वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ॥ २४॥ यस्याः पुत्राः समुत्पन्नाः श्रेष्ठाः शक्त्यादयः शुभाः । वसिष्ठं प्राप्य तं कान्तं संरेजे मुनिसत्तम ॥ २५॥ एवं सन्ध्याचरित्रं ते कथितं मुनिसत्तम । पवित्रं परमं दिव्यं सर्वकामफलप्रदम् ॥ २६॥ य इदं श‍ृणुयान्नारी पुरुषो वा शुभव्रतः । सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे अरुन्धतीवसिष्ठविवाहवर्णनं नाम सप्तमोऽध्यायः ॥ २.२.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.८. अष्टमोऽध्यायः । वसन्तस्वरूपवर्णनम् ।

सूत उवाच । इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः । प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः ॥ १॥ नारद उवाच । ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते । धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः ॥ २॥ श्राविता सुकथा दिव्या शिवभक्तिविवर्धिनी । अरुन्धत्यास्तथा तस्याः स्वरूपायाः परे भवे ॥ ३॥ इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् । शिवस्य परपापघ्नं मङ्गलप्रदमुत्तमम् ॥ ४॥ गृहीतदारे कामे च हृष्टे तेषु गतेषु च । सन्ध्यायां किं तपस्तप्तुं गतायामभवत्ततः ॥ ५॥ सूत उवाच । इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः । सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ६॥ ब्रह्मोवाच । श‍ृणु नारद विप्रेन्द्र तदेव चरितं शुभम् । शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः ॥ ७॥ अहं विमोहितस्तात यदैवान्तर्हितः पुरा । अचिन्तयं सदाहं तच्छम्भुवाक्यविषार्दितः ॥ ८॥ चिन्तयित्वा चिरं चित्ते शिवमायाविमोहितः । शिवे चेर्ष्यामकार्षं हि तच्छृणुष्व वदामि ते ॥ ९॥ अथाहमगमं तत्र यत्र दक्षादयः स्थिताः । सरतिं मदनं दृष्ट्वा समदोऽहं हि किञ्चन ॥ १०॥ दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद । अवोचं वचनं सोऽहं शिवमायाविमोहितः ॥ ११॥ ब्रह्मोवाच । हे दक्ष हे मरीच्याद्याः सुताः श‍ृणुत मद्वचः । श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये ॥ १२॥ कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् । मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु ॥ १३॥ तेन दुःखाभितप्तोऽहं लभेऽहं शर्म न क्वचित् । यथा गृह्णातु कान्तां स स यत्नः कार्य एव हि ॥ १४॥ यथा गृह्णातु कान्तां स सुखी स्यां दुःखवर्जितः । दुर्लभः स तु कामो मे परं मन्ये विचारतः ॥ १५॥ कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् । मुनीनां पुरतः कस्मात्स कान्तां सङ्ग्रहीष्यति ॥ १६॥ का वा नारी त्रिलोकेऽस्मिन् या भवेत्तन्मनःस्थिता । योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ॥ १७॥ मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने । नितान्तयोगी रामाणां नामापि सहते न सः ॥ १८॥ परिग्रहं विना चैव हरेण कथयादिना । मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता ॥ १९॥ भुवि केचिद्भविष्यन्ति मम वध्या महासुराः । वध्याः केचिद्धरेर्नूनं केचिच्छम्भोरुपायतः ॥ २०॥ संसारविमुखे शम्भौ तथैकान्तविरागिणि । अस्मादृते न कर्मान्यत् करिष्यति न संशयः ॥ २१॥ इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च । सरतिं मदनं तत्र सानन्दमगदं ततः ॥ २२॥ ब्रह्मोवाच । मत्पुत्रवर काम त्वं सर्वथा सुखदायकः । मद्वचः श‍ृणु सुप्रीत्या स्वपत्न्या पितृवत्सल ॥ २३॥ अनया सहचारिण्या राजसे त्वं मनोभव । एषा च भवता पत्या युक्ता संशोभते भृशम् ॥ २४॥ यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा । क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ २५॥ तथैव युवयोः शोभा दाम्पत्यं च पुरस्कृतम् । अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥ २६॥ जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनाम् । यथाशु सुमनः शम्भुः कुर्याद्दारप्रतिग्रहम् ॥ २७॥ विजने स्निग्धदेशे तु पर्वतेषु सरःसु च । यत्र यत्र प्रयातीशस्तत्र तत्रानया सह ॥ २८॥ मोहय त्वं यतात्मानं वनिताविमुखं हरम् । त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ २९॥ भूते हरे सानुरागे भवतोऽपि मनोभव । शापोपशान्तिर्भविता तस्मादात्महितं कुरु ॥ ३०॥ सानुरागो वरारोहां यदीच्छति महेश्वरः । तदा भवोऽपि योग्यार्यस्त्वां च सन्तारयिष्यति ॥ ३१॥ तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने । विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ ३२॥ ब्रह्मोवाच । इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः । उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम् ॥ ३३॥ मन्मथ उवाच । करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम् । किं तु योषिन्ममास्त्रं मे तत्कान्तां भगवन् सृज ॥ ३४॥ मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् । कर्तव्यमधुना धातस्तत्रोपायं परं कुरु ॥ ३५॥ ब्रह्मोवाच । एवंवादिनि कन्दर्पे धाताहं स प्रजापतिः । कया सम्मोहनीयोसाविति चिन्तामयामहम् ॥ ३६॥ चिन्ताविष्टस्य मे तस्य निःश्वासो यो विनिःसृतः । तस्माद्वसन्तः सञ्जातः पुष्पव्रातविभूषितः ॥ ३७॥ शोणराजीवसङ्काशः फुल्लतामरसेक्षणः । सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ ३८॥ शार्ङ्गवच्चरणावर्तः श्यामकुञ्चितमूर्धजः । सन्ध्यांशुमालिसदृशः कुण्डलद्वयमण्डितः ॥ ३९॥ प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः । कम्बुग्रीवः सुविस्तीर्णहृदयः पीनसन्मुखः ॥ ४०॥ सर्वाङ्गसुन्दरः श्यामः सम्पूर्णः सर्वलक्षणैः । दर्शनीयतमः सर्वमोहनः कामवर्धनः ॥ ४१॥ एतादृशे समुत्पन्ने वसन्ते कुसुमाकरे । ववौ वायुः सुसुरभिः पादपा अपि पुष्पिताः ॥ ४२॥ पिका विनेदुः शतशः पञ्चमं मधुरस्वनाः । प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः ॥ ४३॥ तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् । हिरण्यगर्भो मदनमगदं मधुरं वचः ॥ ४४॥ ब्रह्मोवाच । एवं स मन्मथनिभः सदा सहचरोऽभवत् । आनुकूल्यं तव कृते सर्वं देवः करिष्यति ॥ ४५॥ यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति । तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ४६॥ वसतेरन्तहेतुत्वाद्वसन्ताख्यो भवत्वयम् । तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥ ४७॥ असौ वसन्तश‍ृङ्गारो वासन्तो मलयानिलः । भवेत्तु सुहृदो भावः सदा त्वद्वशवर्तिनः ॥ ४८॥ विव्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा । रत्याः कुर्वन्तु सौहृद्यं सुहृदस्ते यथा तव ॥ ४९॥ एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् । मोहयस्व महादेवं रत्या सह महोद्यमः ॥ ५०॥ अहं तां कामिनीं तात भावयिष्यामि यत्नतः । मनसा सुविचार्यैव या हरं मोहयिष्यति ॥ ५१॥ ब्रह्मोवाच । एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः । ननाम चरणौ मेऽपि स पत्नीसहितस्तदा ॥ ५२॥ दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च । यत्रात्मा गतवान् शम्भुस्तत्स्थानं मन्मथो ययौ ॥ ५३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखण्डे वसन्तस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥ २.२.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.९. नवमोऽध्यायः । कामप्रभाव मारगणोत्पत्तिश्च ।

ब्रह्मोवाच । तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे । चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥ १॥ गत्वा तत्र महावीरो मन्मथो मोहकारकः । स्वप्रभावं ततानाशु मोहयामास प्राणिनः ॥ २॥ वसन्तोऽपि प्रभावं स्वं चकार हरमोहनम् । सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥ ३॥ विविधान्कृतवान्यत्नान् रत्या सह मनोभवः । जीवाः सर्वे वशं याताः सगणेशः शिवो न हि ॥ ४॥ समधोर्मदनस्यासन्प्रयासा निष्फला मुने । जगाम स निजस्थानं निवृत्य विमदस्तदा ॥ ५॥ कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा । उवाच मदनो मां चोदासीनो विमदो मुने ॥ ६॥ काम उवाच । ब्रह्मन् शम्भुर्मोहनीयो न वै योगपरायणः । न शक्तिर्मम नान्यस्य तस्य शम्भोर्हि मोहने ॥ ७॥ समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः । रत्या सहाखिलास्ते च निष्फला अभवन् शिवे ॥ ८॥ श‍ृणु ब्रह्मन्यथास्माभिः कृता हि हरमोहने । प्रयासान् विविधाँस्तात गदतस्तान्मुने मम ॥ ९॥ यदा समाधिमाश्रित्य स्थितः शम्भुर्नियन्त्रितः । तदा सुगन्धिवातेन शीतलेनातिवेगिना ॥ १०॥ उद्वेजयामि रुद्रं स्म नित्यं मोहनकारिणा । प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥ ११॥ स्वसायकांस्तथा पञ्च समादाय शरासनम् । तस्याभितो भ्रमतस्तु मोहयंस्तद्गणानहम् ॥ १२॥ मम प्रवेशमात्रेण सुवश्याः सर्वजन्तवः । अभवद्विकृतो नैव शङ्करः सगणः प्रभुः ॥ १३॥ यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः । तत्रागतस्तदैवाहं सरतिः समधुर्विधे ॥ १४॥ यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् । कैलासं वा यदा यातस्तत्राहं गतवांस्तदा ॥ १५॥ यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन । तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥ १६॥ तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः । नानाभावानकार्षीच्च दाम्पत्यक्रममुत्तमम् ॥ १७॥ नीलकण्ठं महादेवं सगणं तत्पुरःस्थिताः । अकार्षुर्मोहितं भावं मृगाश्च पक्षिणस्तथा ॥ १८॥ मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् । विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥ १९॥ नालभद् विवरं तस्मिन् कदाचिदपि मच्छरः । सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥ २०॥ मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने । तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥ २१॥ चम्पकान्केशरान्बालान्कारणान्पाटलांस्तथा । नागकेशरपुन्नागान्किंशुकान्केतकान् वरान् ॥ २२॥ मालतीमल्लिकापर्णभारान्कुरबकांस्तथा । उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३॥ सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः । यत्नात्सुगन्धीन्यकरोदतीव गिरिशाश्रमे ॥ २४॥ लताः सर्वाः सुमनसो धत्तूराङ्कुरसञ्चयाः । वृक्षाङ्कं चिरभावेन वेष्टयन्ति स्म तत्र च ॥ २५॥ तान्वृक्षांश्च सुपुष्पौघान् तैः सुगन्धिसमीरणैः । दृष्ट्वा कामवशं याता मुनयोऽपि परे किमु ॥ २६॥ एवं सत्यपि शम्भोर्न दृष्टं मोहस्य कारणम् । भावमात्रमकार्षीन्नो कोपो मय्यपि शङ्करः ॥ २७॥ इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् । विमुखोऽहं शम्भुमोहान्नियतं ते वदाम्यहम् ॥ २८॥ तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे । शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥ २९॥ ज्वलदग्निप्रकाशाक्षं जटाराशिकरालिनम् । श‍ृङ्गिणं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ ३०॥ ब्रह्मोवाच । मनोभववचश्चेत्थं श्रुत्वाहं चतुराननः । विवक्षुरपि नावोचं चिन्ताविष्टोऽभवं तदा ॥ ३१॥ मोहनेऽहं समर्थो न हरस्येति मनोभवः । वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥ ३२॥ निश्श्वासमारुता मे हि नानारूपा महाबलाः । जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः ॥ ३३॥ अवादयन्त ते सर्वे नानावाद्यानसङ्ख्यकान् । पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥ ३४॥ अथ ते मम निःश्वाससम्भवाश्च महागणाः । मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥ ३५॥ तेषां तु वदतां तत्र मारयच्छेदयेति माम् । वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥ ३६॥ मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् । उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७॥ काम उवाच । हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक । उत्पन्नाः क इमे वीरा विकराला भयङ्कराः ॥ ३८॥ किं कर्मैते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे । किन्नामधेया एते तद्वद तत्र नियोजय ॥ ३९॥ नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च । मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥ ४०॥ ब्रह्मोवाच । इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः । तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥ ४१॥ एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः । मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ॥ ४२॥ सदैव विघ्नं जन्तूनां करिष्यन्ति गणा इमे । विना निजार्चनं काम नानाकामरतात्मनाम् ॥ ४३॥ तवानुगमनं कर्म मुख्यमेषां मनोभव । सहायिनो भविष्यन्ति सदा तव न संशयः ॥ ४४॥ यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा । गन्तारस्तत्र तत्रैते सहायार्थं तदा तदा ॥ ४५॥ चित्तभ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् । ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यन्ति सर्वथा ॥ ४६॥ ब्रह्मोवाच । इत्याकर्ण्य वचो मे हि सरतिः स मनोभवः । किञ्चित्प्रसन्नवदनो बभूव मुनिसत्तम ॥ ४७॥ श्रुत्वा तेऽपि गणाः सर्वे मदनं मां च सर्वतः । परिवार्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥ ४८॥ अथ ब्रह्मा स्मरं प्रीत्यागदं मे कुरु शासनम् । एभिः सहैव गच्छ त्वं पुनश्च हरमोहने ॥ ४९॥ मन आधाय यत्नानि कुरु मारगणैः सह । मोहो भवेद्यथा शम्भोर्दारग्रहणहेतवे ॥ ५०॥ इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः । देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥ ५१॥ काम उवाच । मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः । तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥ ५२॥ तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि । गमिष्यामि पुनस्तत्र सदारोऽहं त्वदाज्ञया ॥ ५३॥ मनो निश्चितमेतद्धि तन्मोहो न भविष्यति । भस्म कुर्यान्न मे देहमिति शङ्कास्ति मे विधे ॥ ५४॥ इत्युक्त्वा समधुः कामः सरतिः सभयस्तदा । ययौ मारगणैः सार्धं शिवस्थानं मुनीश्वर ॥ ५५॥ पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा । बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥ ५६॥ उपायं स चकाराति तत्र मारगणोऽपि च । मोहोऽभवन्न वै शम्भोरपि कश्चित्परात्मनः ॥ ५७॥ निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा । आसीन्मारगणोऽगर्वोऽहर्षो मेऽपि पुरस्थितः ॥ ५८॥ कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः । स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥ ५९॥ कृतं पूर्वादधिकतः कर्म तन्मोहने विधे । नाभवत्तस्य मोहोऽपि कश्चिद्ध्यानरतात्मनः ॥ ६०॥ न दग्धा मे तनुश्चैव तत्र तेन दयालुना । कारणं पूर्वपुण्यं च निर्विकारः स वै प्रभुः ॥ ६१॥ चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज । परोपायं कुरु तदा विगर्व इति मे मतिः ॥ ६२॥ ब्रह्मोवाच । इत्युक्त्वा सपरीवारो ययौ कामः स्वमाश्रमम् । प्रणम्य मां स्मरन् शम्भुं गर्वदं दीनवत्सलम् ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ २.२.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१०. दशमोऽध्यायः । ब्रह्मविष्णुसंवादः ।

नारद उवाच । ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः । कथितं सुचरित्रं ते शङ्करस्य परात्मनः ॥ १॥ निजाश्रमे गते कामे सगणे सरतौ ततः । किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ॥ २॥ ब्रह्मोवाच । श‍ृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः । यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ॥ ३॥ निजाश्रमं गते कामे परिवारसमन्विते । यद् बभूव तदा जातं तच्चरित्रं निबोध मे ॥ ४॥ नष्टोऽभून्नारद मदो विस्मयोऽभूच्च मे हृदि । निरानन्दस्य च मुनेऽपूर्णे निजमनोरथे ॥ ५॥ अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् । निर्विकारो जितात्मा स शङ्करो योगतत्परः ॥ ६॥ इत्थं विचार्य बहुधा तदाहं विमदो मुने । हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ॥ ७॥ अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः । तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा ॥ ८॥ चतुर्भुजोऽरविन्दाक्षः शङ्खपद्मगदाधरः । लसत्पीतपटः श्यामतनुर्भक्तप्रियो हरिः ॥ ९॥ तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः । अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा ॥ १०॥ हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् । दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ॥ ११॥ हरिरुवाच । विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक । किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ॥ १२॥ किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना । शमयिष्यामि तत्सर्वं नात्र कार्या विचारणा ॥ १३॥ ब्रह्मोवाच । इति विष्णोर्वचः श्रुत्वा किञ्चिदुच्छ्वसिताननः । अवोचं वचनं विष्णुं प्रणम्य सुकृताञ्जलिः ॥ १४॥ देवदेव रमानाथ मद्वार्तां श‍ृणु मानद । श्रुत्वा च करुणां कृत्वा हर दुःखं कमावह ॥ १५॥ रुद्रसम्मोहनार्थं हि कामं प्रेषितवानहम् । परिवारयुतं विष्णो समारमधुबान्धवम् ॥ १६॥ चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते । नाभवत्तस्य सम्मोहो योगिनः समदर्शिनः ॥ १७॥ इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः । विज्ञाताखिलदो ज्ञानी शिवतत्त्वविशारदः ॥ १८॥ विष्णुरुवाच । कस्माद्धेतोरिति मतिस्तव जाता पितामह । सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ॥ १९॥ ब्रह्मोवाच । श‍ृणु तात चरित्रं तत् तव माया विमोहिनी । तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ॥ २०॥ ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः । आसं तच्छृणु देवेश वदामि तव शासनात् ॥ २१॥ सृष्टिप्रारम्भसमये दश पुत्रा हि जज्ञिरे । दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ॥ २२॥ धर्मो वक्षःस्थलात्कामो मनसोऽन्योऽपि देहतः । जातास्तत्र सुतां दृष्ट्वा मम मोहोऽभवद्धरे ॥ २३॥ कुदृष्ट्या तां समद्राक्षं तव मायाविमोहितः । तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ॥ २४॥ धिक्कारं कृतवान् सर्वान् निजं मत्वा परं प्रभुम् । ज्ञानिनं योगिनं नाथं भोगिनं विजितेन्द्रियम् ॥ २५॥ पुत्रो भूत्वा मम हरेऽनिन्दन्मां च समक्षतः । इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ॥ २६॥ गृह्णीयाद्यदि पत्नीं स स्यां सुखी नष्टदुःखधीः । एतदर्थं समायातः शरणं तव केशव ॥ २७॥ ब्रह्मोवाच । इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः । विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम् ॥ २८॥ विष्णुरुवाच । विधे श‍ृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् । सर्वं वेदागमादीनां सम्मतं परमार्थतः ॥ २९॥ महामूढमतिश्चाद्य सञ्जातोऽसि कथं विधे । वेदवक्तापि निखिललोककर्ता हि दुर्मतिः ॥ ३०॥ जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् । किं ब्रुवन्त्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया ॥ ३१॥ रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् । वेदवक्तापि विज्ञानं विस्मृतं तेऽखिलं विधे ॥ ३२॥ शङ्करं सुरसामान्यं मत्वा द्रोहं करोषि हि । सुबुद्धिर्विगता तेऽद्याविर्भूता कुमतिस्तथा ॥ ३३॥ तत्त्वसिद्धान्तमाख्यातं श‍ृणु सद्बुद्धिमावह । यथार्थं निगमाख्यातं निर्णीय भवकारकम् ॥ ३४॥ शिवः सर्वस्वकर्ता हि भर्ता हर्ता परात्परः । परब्रह्म परेशश्च निर्गुणो नित्य एव च ॥ ३५॥ अनिर्देश्यो निर्विकारः परमात्माद्वयोऽच्युतः । अनन्तोऽन्तकरः स्वामी व्यापकः परमेश्वरः ॥ ३६॥ सृष्टिस्थितिविनाशानां कर्ता त्रिगुणभाग्विभुः । ब्रह्मविष्णुमहेशाख्यो रजः सत्त्वतमः परः ॥ ३७॥ मायाभिन्नो निरीहश्च मायो मायाविशारदः । सगुणोऽपि स्वतन्त्रश्च निजानन्दोऽविकल्पकः ॥ ३८॥ आत्मारामो हि निर्द्वन्द्वो भक्ताधीनःसुविग्रहः । योगी योगरतो नित्यं योगमार्गप्रदर्शकः ॥ ३९॥ गर्वापहारी लोकेशः सर्वदा दीनवत्सलः । एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हि तम् ॥ ४०॥ ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै । भज सर्वात्मना शम्भुं सन्तुष्टः शं विधास्यति ॥ ४१॥ गृह्णीयाच्छङ्करः पत्नीं विचारो हृदि चेत्तव । शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन् ॥ ४२॥ कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि । सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति ॥ ४३॥ कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा । कस्यचित्तनया लोके सा तत्पत्नी भवेद् ध्रुवम् ॥ ४४॥ दक्षमाज्ञापय ब्रह्मन् तपः कुर्य्यात्प्रयत्नतः । तामुत्पादयितुं पत्नीं शिवार्थं भक्तितः स्वतः ॥ ४५॥ भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ । स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ ॥ ४६॥ ब्रह्मोवाच । इत्युक्त्वा तत्क्षणं मेशः शिवं सस्मार स्वप्रभुम् । कृपया तस्य सम्प्राप्य ज्ञानमूचे च मां ततः ॥ ४७॥ विष्णुरुवाच । विधे स्मर पुरोक्तं यद्वचनं शङ्करेण च । प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया ॥ ४८॥ विस्मृतं तव तत्सर्वं धन्या या शाम्भवी परा । तया सम्मोहितं सर्वं दुर्विज्ञेया शिवं विना ॥ ४९॥ यदा हि सगुणो जातः स्वेच्छया निर्गुणः शिवः । मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत् ॥ ५०॥ उपादिदेश त्वां शम्भुः सृष्टिकार्यं तदा प्रभुः । तत्पालनं च मां ब्रह्मन् सोमः सूतिकरोऽव्ययः ॥ ५१॥ तदा वां वेश्म सम्प्राप्तौ साञ्जली नतमस्तकौ । भव त्वमसि सर्वेशोऽवतारी गुणरूपधृक् ॥ ५२॥ इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः । दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः ॥ ५३॥ मद्रूपं परमं विष्णो ईदृशं ह्यङ्गतो विधेः । प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ५४॥ पूर्णरूपः स मे पूज्यः सदा वां सर्वकामकृत् । लयकर्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत् ॥ ५५॥ त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः । उमाया अपि रूपाणि भविष्यन्ति त्रिधा सुतौ ॥ ५६॥ लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती । पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति ॥ ५७॥ विष्णुरुवाच । इत्युक्त्वान्तर्हितो जातः कृपां कृत्वा महेश्वरः । अभूतां सुखिनावावां स्वस्वकार्यपरायणौ ॥ ५८॥ समयं प्राप्य सस्त्रीकावावां ब्रह्मन्न शङ्करः । अवतीर्णः स्वयं रुद्रनामा कैलाससंश्रयः ॥ ५९॥ अवतीर्णा शिवाभूत्सा सती नाम प्रजेश्वर । तदुत्पादनहेतोर्हि यत्नोऽतः कार्य एव वै ॥ ६०॥ इत्युक्त्वान्तर्दधे विष्णुः कृत्वा स करुणां पराम् । प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः ॥ ६१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः ॥ २.२.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.११. एकादशोऽध्यायः । दुर्गास्तुतिर्ब्रह्मवरप्राप्तिश्च ।

नारद उवाच । ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर । गते विष्णौ किमभवदकार्षीत्किं विधे भवान् ॥ १॥ ब्रह्मोवाच । विप्रनन्दनवर्य त्वं सावधानतया श‍ृणु । विष्णौ गते भगवति यदकार्षमहं खलु ॥ २॥ विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् । स्तौमि देवीं जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३॥ सर्वत्र व्यापिनीं नित्यां निरालम्बां निराकुलाम् । त्रिदेवजननीं वन्दे स्थूलस्थूलामरूपिणीम् ॥ ४॥ त्वं चितिः परमानन्दा परमात्मस्वरूपिणी । प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५॥ एवं संस्तूयमाना सा योगनिद्रा मया मुने । आविर्बभूव प्रत्यक्षं देवर्षे चण्डिका मम ॥ ६॥ स्निग्धाञ्जनद्युतिश्चारुरूपा दिव्यचतुर्भुजा । सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७॥ शरदिन्द्वानना शुभ्रचन्द्रभाला त्रिलोचना । सर्वावयवरम्या च कमलाङ्घ्रिनखद्युतिः ॥ ८॥ समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि । भक्त्या विनततुङ्गांशः प्रास्तवं सुप्रणम्य वै ॥ ९॥ ब्रह्मोवाच । नमो नमस्ते जगतःप्रवृत्ति- निवृत्तिरूपे स्थितिसर्गरूपे । चराचराणां भवती सुशक्तिः सनातनी सर्वविमोहनीति ॥ १०॥ या श्रीः सदा केशवमूर्तिमाला विश्वम्भरा या सकलं बिभर्ति । या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्यः ॥ ११॥ या योगिनां वै महिता मनोज्ञा सा त्वं नमस्ते परमाणुसारे । यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ॥ १२॥ प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलम्बा । कूटस्थमव्यक्तमनन्तरूपं त्वं बिभ्रती कालमयी जगन्ति ॥ १३॥ विकारबीजं प्रकरोषि नित्यं गुणान्विता सर्वजनेषु नूनम् । त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ॥ १४॥ सत्वं रजस्तामस इत्यमीषां विकारहीना सभुवस्तुरीया । सा त्वं गुणानां जगदेकहेतुं ब्रह्मान्तरारम्भसि चात्सि पासि ॥ १५॥ अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि । जगद्धिताय सततं शिवपत्नि नमोऽस्तु ते ॥ १६॥ इत्याकर्ण्य वचः सा मे काली लोकविभाविनी । प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥ १७॥ देव्युवाच । ब्रह्मन् किमर्थं भवता स्तुताहमवधारय । उच्यतां यदि धृष्योऽसि तच्छीघ्रं पुरतो मम ॥ १८॥ प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता । तस्मात्त्वं वाञ्छितं ब्रूहि या करिष्यामि भाविता ॥ १९॥ ब्रह्मोवाच । श‍ृणु देवि महेशानि कृपां कृत्वा ममोपरि । मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥ २०॥ यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा । शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥ २१॥ तपश्चरति भूतेश एक एवाविकल्पकः । अपत्नीको निर्विकारो न द्वितीयां समीहते ॥ २२॥ तं मोहय यथा चान्यां द्वितीयां सति वीक्षते । त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ॥ २३॥ तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी । सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव ॥ २४॥ यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् । आमोदयसि विश्वस्य हितायैतं तथा कुरु ॥ २५॥ कान्ताभिलाषमात्रं मे दृष्ट्वानिन्दद् वृषध्वजः । स कथं वनितां देवी स्वेच्छया सङ्ग्रहीष्यति ॥ २६॥ हरे गृहीतकान्ते तु कथं सृष्टिः शुभावहा । आद्यन्तमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥ २७॥ इति चिन्तापरो नाहं त्वदन्यं शरणं हितम् । कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे ॥ २८॥ न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः । न चाप्यहं जगन्मातर्नान्यस्त्वां कोऽपि वै विना ॥ २९॥ तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी । तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ॥ ३०॥ दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः । त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥ ३१॥ ब्रह्मोवाच इत्याकर्ण्य वचः सा चिन्तामाप शिवा तदा । उवाच च स्वमनसि विस्मिता जगदम्बिका ॥ ३२॥ देव्युवाच । अहो सुमहदाश्चर्यं वेदवक्ताऽपि विश्वकृत् । महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥ ३३॥ विधेश्चेतसि सञ्जातो महामोहोऽसुखावहः । यद्वरं निर्विकारं तं सम्मोहयितुमिच्छति ॥ ३४॥ हरमोहवरं मत्तः समिच्छति विधिस्त्वयम् । को लाभोऽस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥ ३५॥ परब्रह्माख्यो यः शम्भुर्निर्गुणो निर्विकारवान् । तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥ ३६॥ स एव पूर्णरूपेण रुद्रनामाभवच्छिवः । भक्तोद्धारणहेतोर्हि स्वतन्त्रः परमेश्वरः ॥ ३७॥ हरेर्विधेश्च स स्वामी शिवायूनो न कर्हिचित् । योगादरो ह्यमायस्थो मायेशः परतः परः ॥ ३८॥ मत्वा तमात्मजं ब्रह्मा सामान्यसुरसन्निभम् । इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥ ३९॥ न दद्याच्चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति । किं कुर्यां येन न विभुः क्रुद्धः स्यान्मे महेश्वरः ॥ ४०॥ ब्रह्मोवाच । विचार्येत्थं महेशं तं सस्मार मनसा शिवा । प्राप्यानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥ ४१॥ दुर्गोवाच । यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् । मदृते मोहयित्रीह शङ्करस्य न विद्यते ॥ ४२॥ हरेऽगृहीतदारे तु सृष्टिर्नैषा सनातनी । भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥ ४३॥ ममापि मोहने यन्नो विद्यतेऽस्य महाप्रभोः । त्वद्वाक्याद् द्विगुणो मेऽद्य प्रयत्नोऽभूत्स निर्भरः ॥ ४४॥ अहं तथा यतिष्यामि यथा दारपरिग्रहम् । हरः करिष्यति विधे स्वयमेव विमोहितः ॥ ४५॥ सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी । भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया ॥ ४६॥ यथा सोऽपि मयैवेह वशवर्ती सदा भवेत् । तथा यत्नं करिष्यामि तस्यैव कृपया विधे ॥ ४७॥ उत्पन्ना दक्षजायायां सतीरूपेण शङ्करम् । अहं सभाजयिष्यामि लीलया तं पितामह ॥ ४८॥ यथान्यजन्तुरवनौ वर्तते वनितावशे । मद्भक्त्या स हरो वामावशवर्ती भविष्यति ॥ ४९॥ ब्रह्मोवाच । मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका । वीक्ष्यमाणा मया तात तत्रैवान्तर्दधे ततः ॥ ५०॥ तस्यामन्तर्हितायां तु सोऽहं लोकपितामहः । अगमं यत्र स्वसुतास्तेभ्यः सर्वमवर्णयम् ॥ ५१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनं नामैकादशोऽध्यायः ॥ २.२.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१२. द्वादशोऽध्यायः । दक्षवरप्राप्तिः ।

नारद उवाच । ब्रह्मन् शम्भुवर प्राज्ञ सम्यगुक्तं त्वयानघ । शिवाशिवचरित्रं च पावितं जन्म मे हितम् ॥ १॥ इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः । कं वरं प्राप देव्यास्तु कथं सा दक्षजाभवत् ॥ २॥ ब्रह्मोवाच । श‍ृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोऽखिलैः । यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ॥ ३॥ मदाज्ञप्तः सुधीर्दक्षः समाधाय महाधिपः । अयाद्यष्टुं च तां देवीं तत्कामो जगदम्बिकाम् ॥ ४॥ क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् । तपस्तप्तुं समारेभे द्रष्टुं प्रत्यक्षतोऽम्बिकाम् ॥ ५॥ दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः । तपश्चचार नियतः संयतात्मा दृढव्रतः ॥ ६॥ मारुताशी निराहारो जलाहारी च पर्णभुक् । एवं निनाय तं कालं चिन्तयन्तां जगन्मयीम् ॥ ७॥ दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः । नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ॥ ८॥ ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम । जगदम्बां पूजयतः प्रत्यक्षमभवच्छिवा ॥ ९॥ ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् । कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ॥ १०॥ सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् । वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ॥ ११॥ आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् । तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् । १२॥ दक्ष उवाच । जगदबं महामाये जगदीशे महेश्वरि । कृपां कृत्वा नमस्तेऽस्तु दर्शितं स्ववपुर्मम ॥ १३॥ प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणि । प्रसीद भक्तवरदे जगन्माये नमोऽस्तु ते ॥ १४॥ ब्रह्मोवाच । इति स्तुता महेशानी दक्षेण प्रयतात्मना । उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने ॥ १५॥ देव्युवाच । तुष्टाहं दक्ष भवतः सद्भक्त्या ह्यनया भृशम् । वरं वृष्णीष्व स्वाभीष्टं नादेयं विद्यते तव ॥ १६॥ ब्रह्मोवाच । जगदम्बावचः श्रुत्वा ततो दक्षः प्रजापतिः । सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ॥ १७॥ दक्ष उवाच । जगदम्ब महामाये यदि त्वं वरदा मम । मद्वचः श‍ृ णु सुप्रीत्या मम कामं प्रपूरय ॥ १८॥ मम स्वामी शिवो यो हि स जातो ब्रह्मणः सुतः । रुद्रनामा पूर्णरूपावतारः परमात्मनः ॥ १९॥ तवावतारो नो जातः का तत्पत्नी भवेदतः । तं मोहय महेशानमवतीर्य क्षितौ शिवे ॥ २०॥ त्वदृते तस्य मोहाय न शक्तान्या कदाचन । तस्मान्मम सुता भूत्वा हरजाया भवाधुना ॥ २१॥ इत्थं कृत्वा सुलीलां च भव त्वं हरमोहिनी । ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ॥ २२॥ स्वार्थं न केवलं मेऽस्ति सर्वेषां जगतामपि । ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ॥ २३॥ ब्रह्मोवाच । इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका । प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम् ॥ २४॥ देव्युवाच । तात प्रजापते दक्ष श‍ृणु मे परमं वचः । सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा ॥ २५॥ अहं तव सुता दक्ष त्वज्जायायां महेश्वरी । भविष्यामि न सन्देहस्त्वद्भक्तिवशवर्तिनी ॥ २६॥ तथा यत्नं करिष्यामि तपः कृत्वा सुदुःसहम् । हरजाया भविष्यामि तद्वरं प्राप्य चानघ ॥ २७॥ नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः । विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ॥ २८॥ अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि । मम स्वामी स वै शम्भुर्नानारूपधरोऽपि ह ॥ २९॥ वरप्रभावाद् भ्रुकुटेरवतीर्णो विधेः स च । अहं तद्वरतोऽपीहावतरिष्ये तदाज्ञया ॥ ३०॥ गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका । हरजाया भविष्यामि भूत्वा ते तनयाचिरात् ॥ ३१॥ इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि । पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ॥ ३२॥ परन्तु प्रण आधेयो मनसा ते प्रजापते । श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ॥ ३३॥ यदा भवान् मयि पुनर्भवेन्मन्दादरस्तदा । देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम् ॥ ३४॥ एष दत्तस्तव वरः प्रतिसर्गं प्रजापते । अहं तव सुता भूत्वा भविष्यामि हरप्रिया ॥ ३५॥ ब्रह्मोवाच । एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ॥ अन्तर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः । ३६॥ अन्तर्हितायां दुर्गायां स दक्षोऽपि निजाश्रमम् । जगाम च मुदं लेभे भविष्यति सुतेति सा ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षवरप्राप्तिवर्णनं नाम द्वादशोऽध्यायः ॥ २.२.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१३. त्रयोदशोऽध्यायः । दक्षसृष्टौ नारदशापः ।

नारद उवाच । ब्रह्मन् विधे महाप्राज्ञ वद नो वदतां वर । दक्षे गृहं गते प्रीत्या किमभूत्तदनन्तरम् ॥ १॥ ब्रह्मोवाच । दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः । सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २॥ तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३॥ दक्ष उवाच । ब्रह्मंस्तात प्रजानाथ वर्धन्ते न प्रजाः प्रभो मया विरचिताः सर्वास्तावत्यो हि स्थिताः खलु ॥ ४॥ किं करोमि प्रजानाथ वर्धेयुः कथमात्मना । तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५॥ ब्रह्मोवाच । दक्ष प्रजापते तात श‍ृणु मे परमं वचः । तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६॥ या च पञ्चजनस्याङ्गसुता रम्या प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७॥ वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८॥ ब्रह्मोवाच ततःसमुत्पादयितुं प्रजा मैथुनधर्मतः । उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९॥ अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः । हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ १०॥ अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने । पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११॥ पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् । प्रतीचीं तपसे तात सर्वे दाक्षायणाः सुताः ॥ १२॥ तत्र नारायणसरस्तीर्थं परमपावनम् । सङ्गमो यत्र सञ्जातो दिव्यसिन्धुसमुद्रयोः ॥ १३॥ तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽभवन् । धर्मे पारमहंसे च विनिर्धूतमलाशयाः ॥ १४॥ प्रजाविवृद्धये ते वै तेपिरे तत्र सत्तमाः । दाक्षायणा दृढात्मानः पित्रादेशेसुयन्त्रिता ॥ १५॥ त्वं च तान् नारद ज्ञात्वा तपतः सृष्टिहेतवे । अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥ १६॥ अदृष्ट्वा तं भुवः सृष्टिं कथं कर्तुं समुद्यताः । हर्यश्वा दक्षतनया इत्यवोचंस्तमादरत् ॥ १७॥ ब्रह्मोवाच तं निशम्याथ हर्यश्वास्ते त्वदुक्तमतन्द्रिताः । औत्पत्तिकधियः सर्वे स्वयं विममृशुर्भृशम् ॥ १८॥ सुशास्त्रजनकादेशं यो न वेद निवर्तकम् । स कथं गुणविश्रम्भी कर्तुं सर्गमुपक्रमेत् ॥ १९॥ इति निश्चित्य ते पुत्राः सुधियश्चैकचेतसः । प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम् ॥ २०॥ नारद त्वं मनः शम्भोर्लोकानन्यचरो मुने । निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१॥ काले गते बहुतरे मम पुत्रः प्रजापतिः । नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२॥ मुहुर्मुहुरुवाचेति सुप्रजत्वं शुचां पदम् । शुशोच बहुशो दक्षः शिवमायाविमोहितः ॥ २३॥ अहमागत्य सुप्रीत्या सान्त्वयं दक्षमात्मजम् । शान्तिभावं प्रदर्श्यैव दैवं प्रबलमित्युत ॥ २४॥ अथ दक्षः पञ्चजन्यां मया स परिसान्त्वितः । सबलाश्वाभिधान् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५॥ तेऽपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः । प्रजासर्गे यत्र सिद्धाः स्वपूर्वभ्रातरो ययुः ॥ २६॥ तदुपस्पर्शनादेव नष्टाघा विमलाशयाः । तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥ २७॥ प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद । पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ॥ २८॥ भ्रातृपन्थानमादिश्य त्वं मुनेऽमोघदर्शन । अयाश्चोर्ध्वगतिं तेऽपि भ्रातृमार्गं ययुः सुताः ॥ २९॥ उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः । विस्मितोऽभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥ ३०॥ पूर्ववत् त्वत्कृतं दक्षः शुश्राव चकितो भृशम् । पुत्रनाशं शुशोचाति पुत्रशोकविमूर्च्छितः ॥ ३१॥ चुक्रोध तुभ्यं दक्षोऽसौ दुष्टोऽयमिति चाब्रवीत् । आगतस्तत्र दैवात् त्वमनुग्रहकरस्तदा ॥ ३२॥ शोकाविष्टः स दक्षो हि रोषविस्फुरिताधरः । उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥ ३३॥ दक्ष उवाच । किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिङ्गतः । भिक्षोमार्गोऽर्भकानां वै दर्शितोऽसाधुकारि नः ॥ ३४॥ ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः । विघातः श्रेयसोऽमीषां निर्दयेन शठेन ते ॥ ३५॥ ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान् । मातरं पितरं त्यक्त्वा मोक्षमिच्छन् व्रजत्यधः ॥ ३६॥ निर्दयस्त्वं सुनिर्लज्जः शिशुधीभिद्यशोऽपहा । हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥ ३७॥ मुहुर्मुहुरभद्रं त्वमचरो मेऽधमाधम । विभवेद् भ्रमतस्तेऽतः पदं लोकेषु न स्थिरम् ॥ ३८॥ शशापेति शुचा दक्षस्त्वां तदा साधुसम्मतम् । बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥ ३९॥ शापं प्रत्यग्रहीच्च त्वं स मुने निर्विकारधीः । एष एव ब्रह्मसाधो सहते सोऽपि च स्वयम् ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ २.२.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१४. चतुर्दशोऽध्यायः । सतीजन्म तस्या बाललीला च ।

ब्रह्मोवाच । एतस्मिन्नन्तरे देवमुने लोकपितामहः । तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १॥ असान्त्वयमहं दक्षं पूर्ववत्सुविचक्षणः । अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २॥ स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम् । समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह ॥ ३॥ ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् । जनयामास दुहितॄः सुभगाः षष्टिसम्मिताः ॥ ४॥ तासां विवाहं कृतवान् धर्मादिभिरतन्द्रितः । तदेव श‍ृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५॥ ददौ दश सुता दक्षो धर्माय विधिवन्मुने । त्रयोदश कश्यपाय मुनये त्रिनवेन्दवे ॥ ६॥ भूताङ्गिरः कृशाश्श्वाभ्यां द्वे द्वे पुत्र्यौ प्रदत्तवान् । तार्क्ष्याय चापराः कन्याः प्रसूतिप्रसवैर्यतः ॥ ७॥ त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् । ८॥ केचिद्वदन्ति तां ज्येष्ठां मध्यमां चापरे शिवाम् । सर्वानन्तरजां केचित्कल्पभेदात् त्रयं च सत् ॥ ९॥ अनन्तरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः । दक्षो दधौ सुप्रीत्या तां मनसा जगदम्बिकाम् ॥ १०॥ अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः । भूयो भूयो नमस्कृत्य साञ्जलिर्विनयान्वितः ॥ ११॥ सन्तुष्टा सा तदा देवी विचारं मनसीति च । चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२॥ अथ सोवास मनसि दक्षस्य जगदम्बिका । विललास तदातीव स दक्षो मुनिसत्तम ॥ १३॥ सुमुहूर्तेन दक्षोऽपि स्वपत्न्यां निदधे मुदा । दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४॥ आविर्बभूव चिह्नानि दोहदस्याखिलानि वै । १५॥ विरेजे वीरिणी तात हृष्टचित्ताधिकं च सा । शिवावासप्रभावात्तु महामङ्गलरूपिणी ॥ १६॥ कुलस्य सम्प्रदायैश्च श्रुतेश्चित्तसमुन्नतेः । व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७॥ उत्सवोऽतीव सञ्जातस्तदा तेषु च कर्मसु । वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८॥ अथ तस्मिन्नवसरे सर्वे हर्यादयः सुराः । ज्ञात्वा गर्भगतां देवीं वीरिण्यां ते मुदं ययुः ॥ १९॥ तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् । लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ २०॥ कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः । दक्षप्रजापतेश्चैव वीरिण्याः स्वगृहं ययुः ॥ २१॥ गतेषु नवमासेषु कारयित्वा च लौकिकीम् । गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२॥ आविर्बभूव पुरतो मातुः सद्यस्तदा मुने । मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३॥ तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः । शैवदेवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४॥ तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् । दिशः शान्ता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५॥ अवादयन्त त्रिदशाः शुभवाद्यानि खे गताः । जज्ज्वलुश्चाग्नयः शान्ताः सर्वमासीत्सुमङ्गलम् ॥ २६॥ वीरिणीसम्भवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् । नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७॥ दक्ष उवाच । महेशानि नमस्तुभ्यं जगदम्बे सनातनि । कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८॥ शिवा शान्ता महामाया योगनिद्रा जगन्मयी । या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥ २९॥ यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३०॥ यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१॥ यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२॥ रजःसत्त्वतमोरूपां सर्वकार्यकरीं सदा । त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३॥ यस्त्वां विचिन्तयेद् देवि विद्याविद्यात्मिकां पराम् । तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता ॥ ३४॥ यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् । तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५॥ ये स्तुवन्ति जगन्मातर्भवानीमम्बिकेति च । जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६॥ ब्रह्मोवाच । इति स्तुता जगन्माता शिवा दक्षेण धीमता । तथोवाच तदा दक्षं यथा माता श‍ृणोति न ॥ ३७॥ सर्वं सम्मोह्य तथ्यं च तथा दक्षः श‍ृणोतु तत् । नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८॥ देव्युवाच । अहमाराधिता पूर्वं सुतार्थं ते प्रजापते । ईप्सितं तव सिद्धं तु तपो धारय सम्प्रति ॥ ३९॥ ब्रह्मोवाच । एवमुक्त्वा तदा देवी दक्षं च निजमायया । आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा ॥ ४०॥ अथ तद् रोदनं श्रुत्वा स्त्रियो वाक्यं ससम्भ्रमाः । आगतास्तत्र सुप्रीत्या दास्योऽपि च ससम्भ्रमाः ॥ ४१॥ दृष्ट्वासिक्नीसुतारूपं ननन्दुः सर्वयोषितः । सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२॥ उत्सवश्च महानासीद् गानवाद्यपुरःसरम् । दक्षोऽसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥ ४३॥ दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा । दानं ददौ द्विजातिभ्योऽन्येभ्यश्च द्रविणं तथा ॥ ४४॥ बभूव सर्वतो गानं नर्तनं च यथोचितम् । नेदुर्वाद्यानि बहुशः सुमङ्गलपुरःसरम् ॥ ४५॥ अथ हर्यादयो देवाः सर्वे सानुचरास्तदा । मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६॥ दृष्ट्वा दक्षसुतामम्बां जगतः परमेश्वरीम् । नेमुः सविनयाः सर्वे तुष्टुवुश्च शुभैः स्तवैः ॥ ४७॥ ऊचुः सर्वे प्रमुदिता गिरं जयजयात्मिकाम् । प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८॥ तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया । प्रशस्तायाः सर्वगुणैः सत्त्वादपि मुदान्वितः ॥ ४९॥ नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः । महामङ्गलदान्येव दुःखघ्नानि विशेषतः ॥ ५०॥ दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि । मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१॥ अथ विष्ण्वादयः सर्वे सुप्रशस्याजनन्दनम् । प्रीत्या ययुः स्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२॥ अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् । शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३॥ पालिता साथ वीरिण्या दक्षेण च महात्मना । ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४॥ तस्यां तु सद्गुणाः सर्वे विविशुर्द्विजसत्तम । शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः ॥ ५५॥ आचरन्निजभावेन सखीमध्यगता यदा । तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६॥ यदा जगौ सुगीतानि शिवा बाल्योचितानि सा । तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७॥ ववृधेऽतीव दम्पत्योः प्रत्यहं करुणातुला । तस्या बाल्येऽपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८॥ सर्वबालगुणाक्रान्तां सदा स्वालयकारिणीम् । तोषयामास पितरौ नित्यं नित्यं मुहुर्मुहुः ॥ ५९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे सतीजन्मबाललीलावर्णनं नाम चतुर्दशोऽध्यायः ॥ २.२.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१५. पञ्चदशोऽध्यायः । नन्दाव्रतविधानं शिवस्तुतिकथनञ्च ।

ब्रह्मोवाच । अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीमहम् । त्वया सह मुनेऽद्राक्षं सारभूतां त्रिलोकके ॥ १॥ पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती । प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २॥ प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने । स्थितोऽहं नारद त्वं च विनतामहमागदम् ॥ ३॥ त्वामेव यः कामयते यं तु कामयसे सति । तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४॥ यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति । जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥ ५॥ इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः । विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६॥ दक्षोऽभवच्च सुप्रीतस्तदाकर्ण्य गतज्वरः । आददे तनयां स्वां तां मत्वा हि परमेश्वरीम् ॥ ७॥ इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला । जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८॥ बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती । अतीव तपसाङ्गेन सर्वाङ्गेषु मनोहरा ॥ ९॥ दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नान्तर्वयःस्थिताम् । चिन्तयामास भर्गाय कथं दास्य इमां सुताम् ॥ १०॥ अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् । पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागता ॥ ११॥ पप्रच्छाज्ञां तपोहेतोः शङ्करस्य विशालधीः । मातुः शिवाथ वीरिण्याः सा सती परमेश्वरी ॥ १२॥ ततः सती महेशानं पतिं प्राप्तुं दृढव्रता । सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १३॥ आश्विने मासि नन्दायां तिथावानर्च भक्तितः । गुडौदनैः सलवणैर्हरं नत्वा निनाय तम् ॥ १४॥ कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि । समाकीर्णैः समाराध्य सस्मार परमेश्वरम् ॥ १५॥ मार्गशीर्षेऽसिताष्टम्यां सतिलैः सयवौदनैः । पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥ १६॥ पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि । अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७॥ माघे तु पौर्णमास्यां सा कृत्वा जागरणं निशि । आर्द्रवस्त्रा नदीतीरेऽकरोच्छङ्करपूजनम् ॥ १८॥ तपस्यासितभूतायां कृत्वा जागरणं निशि । विशेषतः समानर्च शैलूषैः सर्वयामसु ॥ १९॥ चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् । अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम् ॥ २०॥ माघशुक्लतृतीयायां तिलाहारयवौदनैः । पूजयित्वा सती रुद्रं गव्यैर्मासं निनाय तम् ॥ २१॥ ज्येष्ठस्य पूर्णिमायां वै रात्रौ सम्पूज्य शङ्करम् । वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२॥ आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा । बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तथा ॥ २३॥ श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् । यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४॥ भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः । सम्पूज्य च चतुर्दश्यां चकार जलभोजनम् ॥ २५॥ नानाविधैः फलैः पुष्पैः सस्यैस्तत्कालसम्भवैः । चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६॥ सर्वमासे सर्वदिने शिवार्चनरता सती । दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ॥ २७॥ इत्थं नन्दाव्रतं कृत्स्नं समाप्य सुसमाहिता । दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ॥ २८॥ एतस्मिन्नन्तरे देवा मुनयश्चाखिला मुने । विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥ २९॥ दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा । शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥ ३०॥ चक्रुः सर्वे सुराः सत्यै मुदा साञ्जलयो नतिम् । मुनयश्च नतस्कन्धा विष्ण्वाद्याः प्रीतमानसाः ॥ ३१॥ अथ सर्वे सुप्रसन्नाः विष्ण्वाद्याश्च सुरर्षयः । प्रशशंसुस्तपस्तस्याः सत्यास्तस्मात्सविस्मयाः ॥ ३२॥ ततः प्रणम्य तां देवीं पुनस्ते मुनयः सुराः । जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥ ३३॥ सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः । वासुदेवोऽपि भगवाञ्जगामाथ हरान्तिकम् ॥ ३४॥ गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य ससम्भ्रमाः । तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५॥ देवा ऊचुः । नमो भगवते तुभ्यं यत एतच्चराचरम् । पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥ आदिबीजाय सर्वेषां चिद्रूपाय पराय च । ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥ य इदं प्रतिपच्येदं येनेदं विचकास्ति हि । यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्रतः ॥ ३८॥ योऽस्मात्परस्माच्च परो निर्विकारी महाप्रभुः । ईक्षते यः स्वात्मनीदं तं नताः स्म स्वयम्भुवम् ॥ ३९॥ अविद्धदृक् परः साक्षी सर्वात्मानेकरूपधृक् । आत्मभूतः परब्रह्म तपन्तं शरणं गताः ॥ ४०॥ न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् । कः पुनर्जन्तुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥ दिदृक्षवो यस्य पदं मुक्तसङ्गाः सुसाधवः । चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥ त्वज्जन्मादिविकारा नो विद्यन्ते केऽपि दुःखदाः । तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३॥ तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे । नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४॥ अरूपायोरुरूपाय परायानन्तशक्तये । त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५॥ नम आत्मप्रदीपाय निर्वाणसुखसम्पदे । ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥ नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः । पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४७॥ क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥ ४८॥ सर्वाध्यक्षाय महते मूलप्रकृतये नमः । पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९॥ त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः । सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोऽस्तु ते ॥ ५०॥ त्रिलोककारणायाथापवर्गाय नमो नमः । अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१॥ सर्वाम्नायागमानां चोदधये परमेष्ठिने । परायणाय भक्तानां गुणानां च नमोऽस्तु ते ॥ ५२॥ नमो गुणारणिच्छन्नचिदूष्माय महेश्वर । मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३॥ पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च । स्वप्रकाशाय नित्यायाव्ययायाजस्रसंविदे ॥ ५४॥ प्रत्यग्द्रष्टेऽविकाराय परमैश्वर्यधारिणे । यं भजन्ति चतुर्वर्गं कामयन्तीष्टसद्गतिम् ॥ सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५॥ एकान्तिनः कञ्चनार्थं भक्ता वाञ्छन्ति यस्य न । केवलं चरितं ते ते गायन्ति परमङ्गलम् ॥ ५६॥ अक्षरं परमं ब्रह्म तमव्यक्ताकृतिं विभुम् । अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥ अतीन्द्रियमनाधारं सर्वाधारमहेतुकम् । अनन्तमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥ हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥ यथार्चिषोऽग्नेः सवितुर्यान्ति निर्यान्ति वासकृत् । गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ ६०॥ न त्वं देवोऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो । न स्त्री न षण्ढो न पुमान्सदसन्न च किञ्चन ॥ ६१॥ निषेधशेषः सर्वं त्वं विश्वकृद्विश्वपालकः । विश्वलयकृद्विश्वात्मा प्रणताः स्मः तमीश्वरम् ॥ ६२॥ योगरन्धितकर्माणो यं प्रपश्यन्ति योगिनः । योगसम्भाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३॥ नमोऽस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय । नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४॥ कदिन्द्रियाणां दुर्गेशानवाप्य परवर्त्मने । भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥ यच्छक्त्याहन्धियात्मानं हन्त वेद न मूढधीः । तं दुरत्ययमाहात्म्यं त्वां नताः स्मो महाप्रभुम् ॥ ६६॥ ब्रह्मोवाच । इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकाः सुराः । तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकन्धराः ॥ ६७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.२.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१६. षोडशोऽध्यायः । ब्रह्मविष्णुकृता शिवप्रार्थना ।

ब्रह्मोवाच । इति स्तुतिं च हर्यादिकृतामाकर्ण्य शङ्करः । बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ॥ १॥ ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ सङ्गतौ हरः । यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ २॥ रुद्र उवाच । हे हरे हे विधे देवा मुनयश्चाद्य निर्भयाः । निजागमनहेतुं हि कथयध्वं सुतत्त्वतः ॥ ३॥ किमर्थमागता यूयं किं कार्यं चेह विद्यते । तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ॥ ४॥ ब्रह्मोवाच । इति पृष्टे हरेणाहं सर्वलोकपितामहः । मुनेऽवोचं महादेवं विष्णुना परिचोदितः ॥ ५॥ देवदेव महादेव करुणासागर प्रभो । यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ॥ ६॥ विशेषतस्तवैवार्थमागता वृषभध्वज । सहार्थिनः सदा योग्यमन्यथा न जगद्भवेत् ॥ ७॥ केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर । हरेर्वध्यास्तथा केचिद्भवन्तश्चापि केचन ॥ ८॥ केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो । मायावध्याः प्रभो केचिद्भविष्यन्त्यसुराः सदा ॥ ९॥ तवैव कृपया शम्भोः सुराणां सुखमुत्तमम् । नाशयित्वासुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ॥ १०॥ योगयुक्ते त्वयि सदा रागद्वेषविवर्जिते । दयामात्रैकनिरते न वध्या ह्यथवा तव ॥ ११॥ आराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः । अतश्च भविता युक्तं नित्यं नित्यं वृषध्वज ॥ १२॥ सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा तदा । शरीरभेदमस्माकं मायायाश्च न युज्यते ॥ १३॥ एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः । कार्यभेदो न सिद्धश्चेद्रूपभेदोऽप्रयोजनः ॥ १४॥ एक एव त्रिधा भिन्नः परमात्मा महेश्वरः । मायायाः कारणादेव स्वतन्त्रो लीलया प्रभुः ॥ १५॥ वामाङ्गजो हरिस्तस्य दक्षिणाङ्गभवो ह्यहम् । शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुः शिवः ॥ १६॥ इत्थं वयं त्रिधा भूताः प्रभो भिन्नस्वरूपिणः । शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ॥ १७॥ अहं विष्णुश्च सस्त्रीकौ सञ्जातौ कार्यहेतुतः । लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ॥ १८॥ तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे । परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ॥ १९॥ अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया । यन्नो पुरः पुरा प्रोक्तं त्वयैव शिवरूपिणा ॥ २०॥ मद्रूपं परमं ब्रह्मन्नीदृशं भवदङ्गतः । प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१॥ सृष्टिकर्ताभवद् ब्रह्मा हरिः पालनकारकः । लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ॥ २२॥ स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् । इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ॥ २३॥ निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः । पालको लयहेतुस्त्वमाविर्भूतः स्वयं शिवः ॥ २४॥ त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि । लोककार्यरतां तस्मादेकां गृह्णीष्व कामिनीम् ॥ २५॥ यथा पद्मालया विष्णोः सावित्री च यथा मम । तथा सहचरीं शम्भो कान्तां गृह्णीष्व सम्प्रति ॥ २६॥ ब्रह्मोवाच । इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः । स मां जगाद लोकेशः स्मेराननमुखो हरः ॥ २७॥ ईश्वर उवाच । हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा । दृष्ट्वा वां च ममानन्दो भवत्यतितरां खलु ॥ २८॥ युवां सुरविशिष्टौ हि त्रिभुवस्वामिनौ किल । कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ॥ २९॥ उचितं न सुरश्रेष्ठौ विवाहकरणं मम । तपोरतविरक्तस्य सदा विदितयोगिनः ॥ ३०॥ यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरञ्जनः । अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ॥ ३१॥ अविकारी ह्यभोगी च सदाशुचिरमङ्गलः । तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ॥ ३२॥ केवलं योगलग्नस्य ममानन्दः सदास्ति वै । ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ॥ ३३॥ विवाहकरणं लोके विज्ञेयं परबन्धनम् । तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ॥ ३४॥ न स्वार्थं मे प्रवृत्तिर्हि सम्यक् स्वार्थविचिन्तनात् । तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ॥ ३५॥ मत्वा वचो गरिष्ठं वा निजोक्तिपरिपूर्तये । करिष्यामि विवाहं वै भक्तवश्यः सदा ह्यहम् ॥ ३६॥ परन्तु यादृशीं कान्तां ग्रहीष्यामि यथापणम् । तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ॥ ३७॥ या मे तेजः समर्था हि ग्रहीतुं स्याद्विभागशः । तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ३८॥ योगयुक्ते मयि तथा योगिन्येव भविष्यति । कामासक्ते मयि तथा कामिन्येव भविष्यति ॥ ३९॥ यमक्षरं वेदविदो निगदन्ति मनीषिणः । ज्योतीरूपं शिवं ते च चिन्तयिष्ये सनातनम् ॥ ४०॥ तच्चिन्तायां यदासक्तो ब्रह्मन् गच्छामि भाविनीम् । तत्र या विघ्नजननी न भवित्री हतास्तु मे ॥ ४१॥ त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः । अंशभूता महाभागा योग्यं तदनुचिन्तनम् ॥ ४२॥ तच्चिन्तया विनोद्वाहं स्थास्यामि कमलासन । तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ॥ ४३॥ तत्राप्येकं पणं मे त्वं श‍ृणु ब्रह्मँश्च मां प्रति । अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ॥ ४४॥ ब्रह्मोवाच । इति तस्य वचः श्रुत्वाहं स विष्णुर्हरस्य च । सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ॥ ४५॥ श‍ृणु नाथ महेशान मार्गिता यादृशी त्वया । निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ॥ ४६॥ उमा सा भिन्नरूपेण सञ्जाता कार्यसाधिनी । सरस्वती तथा लक्ष्मीर्द्विधारूपा पुरा प्रभो ॥ ४७॥ पद्मा कान्ताभवद्विष्णोस्तथा मम सरस्वती । तृतीयरूपा सा नोऽभूल्लोककार्यहितैषिणी ॥ ४८॥ दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो । सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ॥ ४९॥ सा तपस्यति देवेश त्वदर्थं हि दृढव्रता । त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ॥ ५०॥ दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर । तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ॥ ५१॥ हरेर्मम च देवानामियं वाञ्छास्ति शङ्कर । परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ॥ ५२॥ मङ्गलं परमं भूयात् त्रिलोकेषु सुखावहम् । सर्वज्वरो विनश्येद् वै सर्वेषां नात्र संशयः ॥ ५३॥ अथवास्मद्वचःशेषेऽवदत्तं मधुसूदनः । लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ॥ ५४॥ विष्णुरुवाच । देवदेव महादेव करुणाकर शङ्कर । यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ॥ ५५॥ तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि । सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्य ताम् ॥ ५६॥ ब्रह्मोवाच । इत्युक्त्वा भगवान् विष्णुः तूष्णीमास मुने सुधीः । तथास्त्विति विहस्याह स प्रभुर्भक्तवत्सलः ॥ ५७॥ ततस्त्वावां च सम्प्राप्य चाज्ञां स मुनिभिः सुरैः । अगच्छाव स्वेष्टदेशं सस्त्रीकौ परहर्षितौ ॥ ५८॥ इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुब्रह्मकृतशिवप्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ २.२.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१७. सप्तदशोऽध्यायः । सतीवरलाभकथनम् ।

ब्रह्मोवाच । इत्युक्त्वा सर्वदेवैश्च कृता शम्भोर्नुतिः परा । शिवाच्च सा वरं प्राप्ता श‍ृणु ह्यादरतो मुने ॥ १॥ अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता । आश्विने मासि सर्वेशं पूजयामास भक्तितः ॥ २॥ इति नन्दाव्रते पूर्णे नवम्यां दिनभागतः । तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद् हरः ॥ ३॥ सर्वाङ्गसुन्दरो गौरः पञ्चवक्त्रस्त्रिलोचनः । चन्द्रभालः प्रसन्नात्मा शितिकण्ठश्चतुर्भुजः ॥ ४॥ त्रिशूलब्रह्मकवराभयधृग्भस्मभास्वरः । स्वर्धुन्या विलसच्छीर्षः सकलाङ्गमनोहरः ॥ ५॥ महालावण्यधामा च कोटिचन्द्रसमाननः । कोटिस्मरसमा कान्तिः सर्वथा स्त्रीप्रियाकृतिः ॥ ६॥ प्रत्यक्षतो हरं वीक्ष्य सती सेदृग्विधं प्रभुम् । ववन्दे चरणौ तस्य सुलज्जावनतानना ॥ ७॥ अथ प्राह महादेवः सतीं तद्व्रतधारिणीम् । तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः ॥ ८॥ महादेव उवाच । दक्षनन्दिनि प्रीतोऽस्मि व्रतेनानेन सुव्रते । वरं वरय सन्दास्ये यत्तवाभिमतं भवेत् ॥ ९॥ ब्रह्मोवाच । जानन्नपीह तद्भावं महादेवो जगत्पतिः । जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया ॥ १०॥ सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम् । शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः ॥ ११॥ प्रेममग्नाभवत्साति श्रुत्वा शिववचः प्रियम् । तज्ज्ञात्वा सुप्रसन्नोऽभूच्छङ्करो भक्तवत्सलः ॥ १२॥ वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम् । सतीभक्तिवशः शम्भुरन्तर्यामी सतां गतिः ॥ १३॥ अथ त्रपां स्वां सन्धाय यदा प्राह हरं सती । यथेष्टं देहि वरद वरमित्यनिवारकम् ॥ १४॥ तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः । भव त्वं मम भार्येति प्राह तां भक्तवत्सलः ॥ १५॥ एतच्छ्रुत्वा वचस्तस्य साभीष्टफलभावनम् । तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ॥ १६॥ सकामस्य हरस्याग्रे स्थिता सा चारुहासिनी । अकरोन्निजभावांश्च हावान्कामविवर्धनान् ॥ १७॥ ततो भावान्समादाय श‍ृङ्गाराख्यो रसस्तदा । तयोश्चित्ते विवेशाशु कला हावा यथोदितम् ॥ १८॥ तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणोः । काप्यभिख्या तयोरासीच्चित्राचन्द्रमसोर्यथा ॥ १९॥ रेजे सती हरं प्राप्य स्निग्धभिन्नाञ्जनप्रभा । चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः ॥ २०॥ अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः । सुप्रसन्ना करौ बद्ध्वा नतका भक्तवत्सलम् ॥ २१॥ सत्युवाच । देवदेव महादेव विवाहविधिना प्रभो । पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ २२॥ ब्रह्मोवाच । एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः । तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम् ॥ २३॥ दाक्षायण्यपि तं नत्वा शम्भुं विज्ञाप्य भक्तितः । प्राप्ताज्ञा मातुरभ्याशमगान्मोहमुदान्विता ॥ २४॥ हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् । दाक्षायणीवियोगाद्वै कृच्छ्रं ध्यानपरोऽभवत् ॥ २५॥ समाधाय मनः शम्भुर्लौकिकीं गतिमाश्रितः । चिन्तयामास देवर्षे मनसा मां वृषध्वजः ॥ २६॥ ततः सञ्चिन्त्यमानोऽहं महेशेन त्रिशूलिना । पुरस्तात्प्राविशत्तूर्णं हरसिद्धिप्रचोदितः ॥ २७॥ यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः । सरस्वतीयुतस्तात तत्रैव समुपस्थितः ॥ २८॥ सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः । उत्सुकः प्रेमबद्धश्च सत्या शम्भुरुवाच ह ॥ २९॥ शम्भुरुवाच । अहं ब्रह्मन्स्वार्थपरः परिग्रहकृतौ च यत् । तदा स्वत्वमिव स्वार्थे प्रतिभाति ममाधुना ॥ ३०॥ अहमाराधितः सत्या दाक्षायण्याथ भक्तितः । तस्यै वरो मया दत्तो नन्दाव्रतप्रभावतः ॥ ३१॥ भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः । मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा ॥ ३२॥ अथावदत्तदा मां सा सती दाक्षायणी त्विति । पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ ३३॥ तदप्यङ्गीकृतं ब्रह्मन्मया तद्भक्तितुष्टितः । सा गता भवनं मातुरहमत्रागतो विधे ॥ ३४॥ तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात् । तां दक्षोऽपि यथा कन्यां दद्यान्मेऽरं तथा वद ॥ ३५॥ सतीवियोगभङ्गः स्याद्यथा मे त्वं तथा कुरु । समाश्वासय तं दक्षं सर्वविद्याविशारदः ॥ ३६॥ ब्रह्मोवाच । इत्युदीर्य महादेवः सकाशे मे प्रजापतेः । सरस्वतीं विलोक्याशु वियोगवशगोऽभवत् ॥ ३७॥ तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः । प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम् ॥ ३८॥ ब्रह्मोवाच यदात्थ भगवन् शम्भो तद्विचार्य सुनिश्चितम् । मुख्यः स्वार्थो हि देवानां ममापि वृषभध्वज ॥ ३९॥ दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति । अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥ ४०॥ ब्रह्मोवाच इत्युदीर्य महादेवमहं सर्वेश्वरं प्रभुम् । अगमं दक्षनिलयं स्यन्दनेनातिवेगिना ॥ ४१॥ नारद उवाच । विधे प्राज्ञ महाभाग वद नो वदतां वर । सत्यै गृहागतायै स दक्षः किमकरोत्ततः ॥ ४२॥ ब्रह्मोवाच । तपस्तप्त्वा वरं प्राप्य मनोऽभिलषितं सती । गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा ॥ ४३॥ मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात् । वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टात्तु भक्तितः ॥ ४४॥ माता पिता च वृत्तान्तं सर्वं श्रुत्वा सखीमुखात् । आनन्दं परमं लेभे चक्रे च परमोत्सवम् ॥ ४५॥ द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः । अन्येभ्यश्चान्धदीनेभ्यो वीरिणी च महामनाः ॥ ४६॥ वीरिणी तां समालिङ्ग्य स्वसुतां प्रीतिवर्द्धिनीम् । मूर्ध्न्युपाघ्राय मुदिता प्रशशंशुर्मुहुर्मुहुः ॥ ४७॥ अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः । चिन्तयामास देयेयं स्वसुता शम्भवे कथम् ॥ ४८॥ आगतोऽपि महादेवः प्रसन्नः स जगाम ह । पुनरेव कथं सोऽपि सुतार्थेऽत्रागमिष्यति ॥ ४९॥ प्रस्थाप्योऽथ मया कश्चिच्छम्भोर्निकटमञ्जसा । नैतद्योग्यं न गृह्णीयाद्यद्येवं विफलार्दना ॥ ५०॥ अथवा पूजयिष्यामि तमेव वृषभध्वजम् । मदीयतनया भक्त्या स्वयमेव यथा भवेत् ॥ ५१॥ तयैव पूजितः सोऽपि वाञ्छत्यार्यप्रयत्नतः । शम्भुर्भवतु मद्भर्तेत्येवं दत्तवरेण तत् ॥ ५२॥ इति चिन्तयतस्तस्य दक्षस्य पुरतोऽन्वहम् । उपस्थितोऽहं सहसा सरस्वत्यन्वितस्तदा ॥ ५३॥ मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः । आसनं च ददौ मह्यं स्वभवाय यथोचितम् ॥ ५४॥ ततो मां सर्वलोकेशं तत्रागमनकारणम् । दक्षः पप्रच्छ स क्षिप्रं चिन्ताविष्टोऽपि हर्षितः ॥ ५५॥ दक्ष उवाच । तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत् । ममोपरि सुप्रसादं कृत्वाचक्ष्व जगद्गुरो ॥ ५६॥ पुत्रस्नेहात्कार्यवशादथवा लोककारक । ममाश्रमं समायातो हृष्टस्य तव दर्शनात् ॥ ५७॥ ब्रह्मोवाच । इति पृष्टः स्वपुत्रेण दक्षेण मुनिसत्तम । विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम् ॥ ५८॥ ब्रह्मोवाच श‍ृणु दक्ष यदर्थं त्वत्समीपमहमागतः । त्वत्तो कस्य हितं मेऽपि भवतोऽपि तदीप्सितम् ॥ ५९॥ तव पुत्री समाराध्य महादेवं जगत्पतिम् । यो वरः प्रार्थितस्तस्य समयोऽयमुपागतः ॥ ६०॥ शम्भुना तव पुत्र्यर्थं त्वत्सकाशमहं ध्रुवम् । प्रस्थापितोऽस्मि यत्कृत्यं श्रेयस्तदवधारय ॥ ६१॥ वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शङ्करः । त्वत्सुताया वियोगेन न शर्म लभतेऽञ्जसा ॥ ६२॥ अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम् । सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः ॥ ६३॥ स कामबाणविद्धोऽपि परित्यज्यात्मचिन्तनम् । सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा ॥ ६४॥ विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः । क्व सतीत्येवमभितो भाषते निकृतावपि ॥ ६५॥ मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च । मरीच्याद्यैर्मुनिवरैस्तत्सिद्धमधुना सुत ॥ ६६॥ त्वत्पुत्र्याराधितः शम्भुः सोऽपि तस्या विचिन्तनात् । अनुशोधयितुं प्रेप्सुर्वर्तते हिमवद्गिरौ ॥ ६७॥ यथा नानाविधैर्भावैः सत्त्वात्तेन व्रतेन च । शम्भुराराधितस्तेन तथैवाराध्यते सती ॥ ६८॥ तस्मात्तु दक्ष तनयां शम्भ्वर्थं परिकल्पिताम् । तस्मै देह्यविलम्बेन कृता ते कृतकृत्यता ॥ ६९॥ अहं तमानयिष्यामि नारदेन त्वदालयम् । तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम् ॥ ७०॥ ब्रह्मोवाच श्रुत्वा मम वचश्चेति स मे पुत्रोऽतिहर्षितः । एवमेवेति मां दक्ष उवाच परहर्षितः ॥ ७१॥ ततः सोऽहं मुने तत्रागममत्यन्तहर्षितः । उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः ॥ ७२॥ गते नारद दक्षोऽपि सदारतनयो ह्यपि । अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः ॥ ७३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवरलाभो नाम सप्तदशोऽध्यायः ॥ २.२.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१८. अष्टादशोऽध्यायः । शिवसतीविवाहः ।

नारद उवाच । रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः । का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥ १॥ ब्रह्मोवाच । अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् । आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ॥ २॥ मां वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः । मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ३॥ अथ प्रीत्या हरो लोके गतिमाश्रित्य लीलया । सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥ ४॥ ईश्वर उवाच । किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतः स माम् । कथयस्व यथा स्वान्तं न दीर्येन्मन्मथेन हि ॥ ५॥ धावमानो विप्रयोगो मामेव च सतीं प्रति । अभिहन्ति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ॥ ६॥ सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् । अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥ ७॥ ब्रह्मोवाच । इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् । श्रुत्वाहं नारदमुने सान्त्वयन्नगदं शिवम् ॥ ८॥ ब्रह्मोवाच सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज । तच्छ्रणुष्व निजासाध्यं सिद्धमित्यवधारय ॥ ९॥ देया तस्मै मया पुत्री तदर्थं परिकल्पिता । ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥ १०॥ मत्पुत्र्याराधितः शम्भुरेतदर्थं स्वयं पुनः । सोऽप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥ ११॥ शुभे लग्ने सुमुहूर्ते समागच्छतु सेऽन्तिकम् । तदा दास्यामि तनयां भिक्षार्थं शम्भवे विधे ॥ १२॥ इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज । शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥ १३॥ ब्रह्मोवाच इति श्रुत्वा मम वचो लौकिकीं गतिमाश्रितः । उवाच विहसन् रुद्रो मुने मां भक्तवत्सलः ॥ १४॥ रुद्र उवाच । गमिष्ये भवता सार्धं नारदेन च तद्गृहम् । अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥ १५॥ मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर । तैः सार्धं दक्षनिलयं गमिष्ये सगणो विधे ॥ १६॥ ब्रह्मोवाच । इत्याज्ञप्तोऽहमीशेन लोकाचारपरेण ह । संस्मरं नारदं त्वां च मरीच्यादीन्सुतांस्तथा ॥ १७॥ ततः समागताः सर्वे मानसास्तनयास्त्वया । मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥ १८॥ विष्णुः समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् । स स्वसैन्यैः कमलया गरुडारूढ एव च ॥ १९॥ अथ चैत्रसिते पक्षे नक्षत्रे भगदैवते । त्रयोदश्यां दिने भानौ निर्गच्छत्स महेश्वरः ॥ २०॥ सर्वैः सुरगणैः सार्धं ब्रह्मविष्णुपुरःसरैः । तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शङ्करः ॥ २१॥ मार्गे समुत्सवो जातो देवादीनां च गच्छताम् । तथा हरगणानां च सानन्दमनसामति ॥ २२॥ गजगोव्याघ्रसर्पाश्च जटा चन्द्रकला तथा । जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥ २३॥ ततः क्षणेन बलिना बलीवर्देन वेगिना । सविष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥ २४॥ ततो दक्षो विनीतात्मा सम्प्रहृष्टतनूरुहः । प्रययौ सम्मुखं तस्य संयुक्तः सकलैर्निजैः ॥ २५॥ सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः । पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥ २६॥ परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा । दक्षः समानयामास गृहाभ्यन्तरतः शिवम् ॥ २७॥ अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् । समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥ २८॥ ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा । पूजयामास सद्भक्त्या यथोचितविधानतः ॥ २९॥ कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा । चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ ३०॥ ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः । प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥ ३१॥ वाढमित्यहमप्युक्त्वा प्रहृष्टेनान्तरात्मना । समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥ ३२॥ ततः शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते । सतीं निजसुतां दक्षो ददौ हर्षेण शम्भवे ॥ ३३॥ उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः । दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ ३४॥ अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः । नेमुः सर्वे संस्तुतिभिः तोषयामासुरीश्वरम् ॥ ३५॥ समुत्सवो महानासीन्नृत्यगानपुरःसरः । आनन्दं परमं जग्मुः सर्वे मुनिगणाः सुराः ॥ ३६॥ कन्यां दत्त्वा कृतार्थोऽभूत्तदा दक्षो हि मत्सुतः । शिवाशिवौ प्रसन्नौ च निखिलं मङ्गलालयम् ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कन्यादानवर्णनं नामाष्टादशोऽध्यायः ॥ २.२.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.१९. एकोनविंशोऽध्यायः । शिवलीलावर्णनम् ।

ब्रह्मोवाच । कृत्वा दक्षः सुतादानं यौतकं विविधं ददौ । हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १॥ अथ शम्भुमुपागत्य समुत्थाय कृताञ्जलिः । सार्धं कमलया चेदमुवाच गरुडध्वजः ॥ २॥ विष्णुरुवाच । देवदेव महादेव करुणासागर प्रभो । त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३॥ युवां लीलावतारौ वै सतां क्षेमाय सर्वदा । खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४॥ स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर । दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५॥ देवानां वा नृणां रक्षां कुरु सत्यानया सताम् । संसारसारिणां शम्भो मङ्गलं सर्वदा तथा ॥ ६॥ य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् । तं हन्याः सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७॥ ब्रह्मोवाच । इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः । एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८॥ स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर । उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९॥ अहं देवीं समागत्य गृह्योक्तविधिनाखिलम् । अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ १०॥ ततः शिवा शिवश्चैव यथाविधि प्रहृष्टवत् । अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११॥ तदा महोत्सवस्तत्राद्भुतोऽभूद् द्विजसत्तम । सर्वेषां सुखदं वाद्यं गीतनृत्यपुरःसरम् ॥ १२॥ तदानीमद्भुतं तत्र चरितं समभूदति । सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३॥ दुर्ज्ञेया शाम्भवी माया तया सम्मोहितं जगत् । सचराचरमत्यन्तं सदेवासुरमानुषम् ॥ १४॥ योऽहं शम्भुं मोहयितुं पुरैच्छं कपटेन ह । मां च तं शङ्करस्तात मोहयामास लीलया ॥ १५॥ इच्छेत्परापकारं यः स तस्यैव भवेद् ध्रुवम् । इति मत्वापकारं नो कुर्यादन्यस्य पूरुषः ॥ १६॥ प्रदक्षिणां प्रकुर्वन्त्या वह्नेः सत्याः पदद्वयम् । आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७॥ मदनाविष्टचेताश्च भूत्वाङ्गानि व्यलोकयम् । अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८॥ यथा यथाहं रम्याणि व्यैक्षमङ्गानि कौतुकात् । सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९॥ अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् । स्मराविष्टमना वक्त्रं द्रष्टुकामोऽभवं मुने ॥ २०॥ न शम्भोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् । न च सा लज्जयाविष्टा करोति प्रकटं मुखम् ॥ २१॥ ततस्तद्दर्शनार्थाय सदुपायं विचारयन् । धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२॥ आर्द्रेन्धनानि भूरीणि क्षिप्त्वा तत्र विभावसौ । स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ॥ २३॥ प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समन्ततः । तादृग् येन तमोभूतं वेदीभूमिविनिर्मितम् ॥ २४॥ ततो धूमाकुले नेत्रे महेशः परमेश्वरः । हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५॥ ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने । अवेक्षं किल कामार्तः प्रहृष्टेनान्तरात्मना ॥ २६॥ मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् । अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७॥ मम रेतः प्रचस्कन्द ततस्तद्वीक्षणाद् द्रुतम् । चतुर्बिन्दुमितं भूमौ तुषारचयसन्निभम् ॥ २८॥ ततोऽहं शङ्कितो मौनी तत्क्षणं विस्मितो मुने । आच्छादये स्म तद्रेतो यथा कश्चिद् बुबोध न ॥ २९॥ अथ तद्भगवान् शम्भुर्ज्ञात्वा दिव्येन चक्षुषा । रेतोऽवस्कन्दनात्तस्य कोपादेतदुवाच ह ॥ ३०॥ रुद्र उवाच । किमेतद्विहितं पाप त्वया कर्म विगर्हितम् । विवाहे मम कान्ताया वक्त्रं दृष्टं न रागतः ॥ ३१॥ त्वं वेत्सि शङ्करेणैतत्कर्म ज्ञातं न किञ्चन । त्रैलोक्येऽपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२॥ यत्किञ्चित् त्रिषु लोकेषु जङ्गमं स्थावरं तथा । तस्याहं मध्यगो मूढ तैलं यद्वत्तिलान्तिगम् ॥ ३३॥ ब्रह्मोवाच । इत्युक्त्वा प्रियविष्णुर्मां तदा विष्णुवचः स्मरन् । इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य शङ्करः ॥ ३४॥ शम्भुनोद्यमिते शूले मां च हन्तुं द्विजोत्तम । मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५॥ ततो देवगणाः सर्वे मुनयश्चाखिलास्तथा । तुष्टुवुः शङ्करं तत्र प्रज्वलन्तं भयातुराः ॥ ३६॥ देवा ऊचुः । देवदेव महादेव शरणागतवत्सल । ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७॥ जगत्पिता महेश त्वं जगन्माता सती मता । हरिब्रह्मादयः सर्वे तव दासाः सुरप्रभो ॥ ३८॥ अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो । तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ॥ ३९॥ ब्रह्मोवाच । इत्थं बहुतरं दीना निर्जरा मुनयश्च ते । तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ ४०॥ दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः । वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१॥ अथाग्रे सङ्गतं वीक्ष्य तदा दक्षं महेश्वरः । प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२॥ महेश्वर उवाच । विष्णुना मेऽतिभक्तेन यदिदानीमुदीरितम् । मयाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३॥ सतीं यः साभिलाषः सन् वीक्षेत वध तं प्रभो । इति विष्णुवचः सत्यं विधिं हत्वा करोम्यहम् ॥ ४४॥ साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् । अभवत् त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५॥ ब्रह्मोवाच । इत्युक्तवति देवेश महेशे क्रोधसङ्कुले । चकम्पिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६॥ हाहाकारो महानासीदौदासीन्यं च सर्वशः । अभूवं विकलोऽतीव तदाहं तद्विमोहितः ॥ ४७॥ अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः । तमेवंवादिनं रुद्रं तुष्टाव प्रणतः सुधीः ॥ ४८॥ स्तुत्वा च विविधैः स्तोत्रैः शङ्करं भक्तवत्सलम् । इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरः सरः ॥ ४९॥ विष्णुरुवाच । विधिं न जहि भूतेश स्रष्टारं जगतां प्रभुम् । अयं शरणगस्तेऽद्य शरणागतवत्सलः ॥ ५०॥ अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः । विज्ञप्तिं हृदि मे मत्वा कृपां कुरु ममोपरि ॥ ५१॥ अन्यच्च श‍ृणु मे नाथ वचनं हेतुगर्भितम् । तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२॥ प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः । अस्मिन् हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३॥ सृष्टिस्थित्यन्तकर्माणि करिष्यामः पुनः पुनः । त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४॥ एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति । तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५॥ अनेनैव सती कन्या दक्षस्य च शिवा विभो । सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६॥ ब्रह्मोवाच । इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् । प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७॥ महेश उवाच । देवदेव रमेशान विष्णो मत्प्राणवल्लभ । न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८॥ पूरयिष्यामि विज्ञप्तिं पूर्वान्तेऽङ्गीकृतां मया । महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९॥ अहमेव प्रजाः स्रक्ष्ये सर्वाः स्थिरचरा अपि । अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा ॥ ६०॥ हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् । स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ॥ ६१॥ ब्रह्मोवाच । इति तस्य वचः श्रुत्वा गिरीशस्याह चाच्युतः । स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२॥ अच्युत उवाच । प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेऽस्ति वै । विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३॥ त्रयो देवा वयं शम्भो त्वदात्मानः परा नहि । एकरूपा न भिन्नाश्च तत्त्वतः सुविचारय ॥ ६४॥ ततस्तद्वचनं श्रुत्वा विष्णोः स्वातिप्रियस्य सः । शम्भुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५॥ शम्भुरुवाच । हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम । लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६॥ ब्रह्मोवाच । इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा । इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७॥ विष्णुरुवाच । न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव । न वाहं भवतो भिन्नो न मत् त्वं परमेश्वर ॥ ६८॥ सर्वं जानासि सर्वज्ञ परमेश सदाशिव । मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ॥ ६९॥ त्वदाज्ञया वदामीश श‍ृण्वन्तु निखिलाः सुराः । मुनयश्चापरे शैवं तत्त्वं सन्धार्य स्वं मनः ॥ ७०॥ प्रधानस्याप्रधानस्य भागाभागस्य रूपिणः । ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१॥ कस्त्वं कोऽहं च को ब्रह्मा तवैव परमात्मनः । अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ ७२॥ चिन्तयस्वात्मनात्मानं स्वलीलाधृतविग्रहः । एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३॥ शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः । अङ्गानि ते तथेशस्य तस्य भागत्रयं हर ॥ ७४॥ यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनन्तरूपम् । नित्यं च दीर्घादिविशेषणाद्यै- र्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५॥ ब्रह्मोवाच । एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥ बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ २.२.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२०. विंशोऽध्यायः । सतीविवाहोत्सव ।

नारद उवाच । ब्रह्मन् विधे महाभाग शिवभक्त वरप्रभो । श्रावितं चरितं शम्भोरद्भुतं मङ्गलायनम् ॥ १॥ ततः किमभवत्तात कथ्यतां शशिमौलिनः । सत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् । २॥ ब्रह्मोवाच । निवृत्ते शङ्करे चास्मद्वधाद्भक्तानुकम्पिनि । अभवन्निर्भयाः सर्वे सुखिनः सुप्रसन्नकाः ॥ ३॥ नतस्कन्धाः साञ्जलयः प्रणेमुर्निखिलाश्च ते । तुष्टुवुः शङ्करं भक्त्या चक्रुर्जयरवं मुदा ॥ ४॥ एतस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने । अस्तवं शङ्करं भक्त्या विविधैश्च शुभस्तवैः ॥ ५॥ ततस्तुष्टमनाः शम्भुर्बहुलीलाकरः प्रभुः । मुने मां समुवाचेदं सर्वेषां श‍ृण्वतां तदा ॥ ६॥ रुद्र उवाच । ब्रह्मन् तात प्रसन्नोऽहं निर्भयस्त्वं भवाधुना । स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥ ७॥ ब्रह्मोवाच । इत्याकर्ण्य वचः शम्भोर्बहुलीलाकृतः प्रभोः । स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ॥ ८॥ यावदेवमहं स्वं कं स्पृशामि निजपाणिना । तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ॥ ९॥ ततो लज्जापरीताङ्गः स्थितश्चाहमधोमुखः । इन्द्राद्यैरमरैः सर्वैः सुदृष्टः सर्वतः स्थितैः ॥ १०॥ अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् । प्रावोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ११॥ अस्य पापस्य शुद्ध्यर्थं प्रायश्चित्तं वद प्रभो । निग्रहं च तथा न्यायं येन पापं प्रयातु मे ॥ १२॥ इत्युक्तस्तु मया शम्भुरुवाच प्रणतं हि माम् । सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥ १३॥ शम्भुरुवाच । अनेनैव स्वरूपेण मदधिष्ठितकेन हि । तपः कुरु प्रसन्नात्मा मदाराधनतत्परः ॥ १४॥ ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ । साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥ १५॥ मनुष्याणामिदं कृत्यं यस्माद्वीर्यं त्वयाधुना । तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥ १६॥ यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति । किमेतद् ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥ १७॥ ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः । परदारकृतात्त्यागान्मुक्तिं सद्यः स यास्यति ॥ १८॥ यथा यथा जनश्चैतत्कृत्यं ते कीर्तयिष्यति । तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ १९॥ एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् । जनहास्यकरं लोके तव गर्हाकरं परम् ॥ २०॥ एतच्च तव वीर्यं हि पतितं वेदिमध्यगम् । कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥ २१॥ चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव । तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयङ्कराः ॥ २२॥ एतस्मिन्नन्तरे तत्र देवर्षीणां पुरो द्रुतम् । तद्रेतसः समभवंस्तन्मिताश्च बलाहकाः ॥ २३॥ संवर्तकस्तथावर्तः पुष्करो द्रोण एव च । एते चतुर्विधास्तात महामेघा लयङ्कराः ॥ २४॥ गर्जन्तश्चाथ मुञ्चन्तस्तोयानीषच्छिवेच्छया । फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥ २५॥ तैस्तु सञ्छादिते व्योम्नि सुगर्जद्भिश्च शङ्करः । प्रशान् दाक्षायणी देवी भृशं शान्तोऽभवद् द्रुतम् ॥ २६॥ अथ चाहं वीतभयः शङ्करस्याज्ञया तदा । शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥ २७॥ पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः । सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥ २८॥ वाद्यमानेषु वाद्येषु गायमानेषु तेषु च । पठत्सु विप्रवर्गेषु वेदान् भक्त्यान्वितेषु च ॥ २९॥ रम्भादिषु पुरन्ध्रीषु नृत्यमानासु सादरम् । महोत्सवो महानासीद्देवपत्नीषु नारद ॥ ३०॥ अथ कर्मवितानेशः प्रसन्नः परमेश्वरः । प्राह मां प्राञ्जलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥ ३१॥ ईश्वर उवाच । हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् । प्रसन्नोऽस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥ ३२॥ याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा । ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ३३॥ ब्रह्मोवाच । इत्याकर्ण्य वचः सोऽहं शङ्करस्य कृताञ्जलिः । मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥ ३४॥ यदि प्रसन्नो देवेश वरयोग्योऽस्म्यहं यदि । तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥ ३५॥ अनेनैव तु रूपेण वेद्यामस्यां महेश्वर । त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ३६॥ येनास्य सन्निधौ कृत्वा स्वाश्रमं शशिशेखर । तपः कुर्यां विनाशाय स्वपापस्यास्य शङ्कर ॥ ३७॥ चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते । सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥ ३८॥ तदैव तस्य पापानि प्रयान्तु हर सङ्क्षयम् । वर्धते विपुलं पुण्यं रोगा नश्यन्तु सर्वशः ॥ ३९॥ या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता । सापि त्वद्दर्शनादेव निर्दोषा सम्भवेद् ध्रुवम् ॥ ४०॥ ब्रह्मोवाच । इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् । तथास्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥ ४१॥ शिव उवाच । हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः । स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥ ४२॥ ब्रह्मोवाच । इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः । उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥ ४३॥ ततो दक्षं समामन्त्र्य शङ्करः परमेश्वरः । पत्न्या सत्या गन्तुमना अभूत्स्वजनवत्सलः ॥ ४४॥ एतस्मिन्नन्तरे दक्षो विनयावनतः सुधीः । साञ्जलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ४५॥ विष्ण्वादयः सुराः सर्वे मुनयश्च गणास्तदा । नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥ ४६॥ आरोप्य वृषभे शम्भुः सतीं दक्षाज्ञया मुदा । जगाम हिमवत्प्रस्थं वृषभस्थः स्वयं प्रभुः ॥ ४७॥ अथ सा शङ्कराभ्याशे सुदती चारुहासिनी । विरेजे वृषभस्था वै चन्द्रान्ते कालिका यथा ॥ ४८॥ विष्ण्वादयः सुराः सर्वे मरीच्याद्यास्तथर्षयः । दक्षोऽपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥ ४९॥ केचिद्वाद्यान्वादयन्तो गायन्तः सुस्वरं परे । शिवं शिवयशः शुद्धमनुजग्मुः शिवं मुदा ॥ ५०॥ मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना । स्वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥ ५१॥ विसृष्टा अपि विष्ण्वाद्याः शम्भुना पुनरेव ते । अनुजग्मुः शिवं भक्त्या सुराः परमया मुदा ॥ ५२॥ तैः सर्वैः सगणैः शम्भुः सत्या च स्वस्त्रिया युतः । प्राप स्वं धाम संहृष्टो हिमवद् गिरिशोभितम् ॥ ५३॥ तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा । मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥ ५४॥ शम्भुमाभाष्य ते सर्वे विष्ण्वाद्या मुदिताननाः । स्वं स्वं धाम ययुर्नत्वा स्तुत्वा च मुनयः सुराः ॥ ५५॥ शिवोऽपि मुदितोऽत्यर्थं स्वपत्न्या दक्षकन्यया । हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥ ५६॥ ततः स शङ्करः सत्या सगणः सूतिकृन्मुने । प्राप स्वं धाम संहृष्टः कैलासं पर्वतोत्तमम् ॥ ५७॥ एतद् वः सर्वमाख्यातं यथा तस्य पुराभवत् । विवाहो वृषयानस्य मनुस्वायम्भुवान्तरे ॥ ५८॥ विवाहसमये यज्ञे प्रारम्भे वा श‍ृणोति यः । एतदाख्यानमव्यग्रः सम्पूज्य वृषभध्वजम् ॥ ५९॥ तस्याविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् । शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥ ६०॥ कन्या च सुखसौभाग्यशीलाचारगुणान्विता । साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥ ६१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीविवाहवर्णनं नाम विंशोऽध्यायः ॥ २.२.२०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२१. एकविंशोऽध्यायः । सतीशिवक्रीडावर्णनम् ।

नारद उवाच । समीचीनं वचस्तात सर्वज्ञस्य तवानघ । महाद्भुतं श्रुतं नो वै चरितं शिवयोः शुभम् ॥ १॥ विवाहश्च श्रुतः सम्यक् सर्वमोहापहारकः । परमज्ञानसम्पन्नो मङ्गलालय उत्तमः ॥ २॥ भूय एव विवित्सा मे चरितं शिवयोः शुभम् । तद्वर्णय महाप्राज्ञ कृपां कृत्वातुलामरम् ॥ ३॥ ब्रह्मोवाच । सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् । यदहं नोदितः सौम्य शिवलीलानुवर्णने ॥ ४॥ विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् । गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ॥ ५॥ ततो हरः स सगणः स्वस्थानं प्राप्य मोदनम् । देवर्षे तत्र वृषभादवातरदतिप्रियात् ॥ ६॥ यथायोग्यं निजस्थानं प्रविश्य स सतीसखः । मुमुदेऽतीव देवर्षे भवाचारकरः शिवः ॥ ७॥ ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् । स्वीयान्निर्यापयामास नन्द्यादीन् गिरिकन्दरात् ॥ ८॥ उवाच चैतांस्तान् सर्वान्नन्द्यादीनतिसूनृतम् । लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ॥ ९॥ महेश उवाच । यदाहं च स्मराम्यत्र स्मरणादरमानसाः । समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ॥ १०॥ इत्युक्ते वामदेवेन नन्द्याद्याः स्वगणाश्च ते । महावेगा महावीरा नानास्थानेषु संययुः ॥ ११॥ ईश्वरोऽपि तया सार्धं तेषु यातेषु विभ्रमी । दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ॥ १२॥ कदाचिद्वन्यपुष्पाणि समाहृत्य मनोहराम् । मालां विधाय सत्यास्तु हारस्थाने स योजयत् ॥ ३॥ कदाचिद्दर्पणे चैव वीक्षन्तीमात्मनः सतीम् । अनुगम्य हरो वक्त्रं स्वीयमप्यवलोकयत् ॥ १४॥ कदाचित्कुण्डलं तस्या उल्लास्योल्लास्य सङ्गतः । बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ॥ १५॥ सरागौ चरणावस्याः यावकेनोज्ज्वलेन च । निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ॥ १६॥ उच्चैरपि यदाख्येयमन्येषां पुरतो बहु । तत् कर्णे कथयत्यस्या हरो द्रष्टुं तदाननम् ॥ १७॥ न दूरमपि गन्तासौ समागत्य प्रयत्नतः । अनुबध्नाति नामाक्षी पृष्ठदेशेऽन्यमानसाम् ॥ १८॥ अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः । तामालिलिङ्ग भीत्या स्वं चकिता व्याकुलाभवत् ॥ १९॥ सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये । चकार भ्रमराकारं मृगनाभिविशेषकम् ॥ २०॥ हारमस्याः कुचयुगाद्वियोज्य सहसा हरः । न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ॥ २१॥ अङ्गदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः । तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ॥ २२॥ कालिकेति समायाति सवर्णा ते सखी त्विमाम् । यास्यत्वस्यास्तथेक्षन्त्याः प्रोत्तुङ्गौ साहसं कुचौ ॥ २३॥ कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः । चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ॥ २४॥ आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शङ्करः । सर्वाङ्गेषु करोति स्म पुष्पाभरणमादरात् ॥ २५॥ गिरिकुञ्जेषु रम्येषु सत्या सह महेश्वरः । विजहार समस्तेषु प्रियया भक्तवत्सलः ॥ २६॥ तया विना स्म नो याति नास्थितो न स्म चेष्टते । तया विना क्षणमपि शर्म लेभे न शङ्करः ॥ २७॥ विहृत्य सुचिरं कालं कैलासगिरिकुञ्जरे । अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरम् ॥ २८॥ तस्मिन्प्रविष्टे कामे तु वसन्तः शङ्करान्तिके । वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभोः ॥ २९॥ सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः । अम्भांसि फुल्लपद्मानि पद्माः सभ्रमरास्तथा । ३०॥ प्रविष्टे सदृतौ तत्र ववौ स मलयो मरुत् । सुगन्धिगन्धपुष्पेण मोदकश्च सुगन्धियुक् ॥ ३१॥ सन्ध्यार्धचन्द्रसङ्काशाः पलाशाश्च विरेजिरे । कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ॥ ३२॥ बभुः पङ्कजपुष्पाणि सरस्सु सकलाञ्जनान् । सम्मोहयितुमुद्युक्ता सुमुखी वायुदेवता ॥ ३३॥ नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः । बभुर्मदनकेत्वाभा मनोज्ञाः शङ्करान्तिके ॥ ३४॥ लवङ्गवल्ली सुरभिगन्धेनोद्वास्य मारुतम् । मोहयामास चेतांसि भृशं कामिजने पुरा ॥ ३५॥ चारुचर्चितभृङ्गौघाः सुस्वराश्चूतशालिनः । बभुर्मदनबाणौघपर्यङ्कमदनावृताः ॥ ३६॥ अम्भांसि मलहीनानि रेजुः फुल्लकुशाशयाः । मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ॥ ३७॥ तुषाराः सूर्यरश्मीनां सङ्गमादगमन् बहिः । प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ॥ ३८॥ प्रसन्नाः सह चन्द्रेण निर्नीशारास्तदाऽभवन् । विभावर्यः प्रियेणैवं कामिन्यः सुमनोहराः ॥ ३९॥ तस्मिन्काले महादेवः सह सत्या धरोत्तमे । रेमे स सुचिरं छन्दं निकुञ्जेषु नदीषु च ॥ ४०॥ तथा तेन समं रेजे तदा दाक्षायणी मुने । यथा हरः क्षणमपि शान्तिमाप तया विना ॥ ४१॥ सम्भोगविषये देवी सती तस्य मनःप्रिया । विशतीव हरस्याङ्गे पाययन्निव तद्रसम् ॥ ४२॥ तस्याः कुसुममालाभिर्भूषयन्सकलां तनुम् । स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ॥ ४३॥ आलापैर्वीक्षितैर्हास्यैस्तथा सम्भाषणैर्हरः । तस्यादिदेश गिरिजां शंसतीवात्मसंविदम् ॥ ४४॥ तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हरः । नानावैशेषिकीं तन्वीमवस्थां स कदाचन ॥ ४५॥ तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः । गुणैरिव महादन्ती बद्धो नान्यविचेष्टितः ॥ ४६॥ इति हिमगिरिकुञ्जप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः । क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पञ्च चान्ये ॥ ४७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीशिवक्रीडावर्णनं नामैकविंशोऽध्यायः ॥ २.२.२१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२२. द्वाविंशोऽध्यायः । शिवाशिवविहारवर्णनम् ।

ब्रह्मोवाच । कदाचिदथ दक्षस्य तनया जलदागमे । कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥ १॥ सत्युवाच । देवदेव महादेव शम्भो मत्प्राणवल्लभ । श‍ृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥ २॥ घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः । अनेकवर्णमेघौघाः सङ्गीताम्बरदिक्चयाः ॥ ३॥ विवान्ति वाता हृदयं हारयन्तीति वेगिनः । कदम्बरजसा धौताः पाथोबिन्दुविकर्षणाः ॥ ४॥ मेघानां गर्जितैरुच्चैर्धारासारं विमुञ्चताम् । विद्युत्पताकिनां तीव्रैः क्षुब्धं स्यात्कस्य नो मनः ॥ ५॥ न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः । दिवापि रात्रिवद्भाति विरहिव्यसनाकरः ॥ ६॥ मेघा नैकत्र तिष्ठन्तो ध्वनन्तः पवनेरिताः । पतन्त इव लोकानां दृश्यन्ते मूर्ध्नि शङ्कर ॥ ७॥ वाताहता महावृक्षा नर्तन्त इव चाम्बरे । दृश्यन्ते हर भीरूणां त्रासदाः कामुकेप्सिताः ॥ ८॥ स्निग्धनीलाञ्जनस्याशु सदिवौघस्य पृष्ठतः । बलाकराजीवात्युच्चैर्यमुनापृष्ठफेनवत् ॥ ९॥ क्षपायामीश वलयो दृश्यन्ते करभाश्रिताः । अम्बुधाविव सन्दीप्तपावको वडवामुखः ॥ १०॥ प्रारोहन्तीह सस्यानि मन्दरे प्राङ्गणेष्वपि । किमन्यत्र विरूपाक्ष सस्योद्भूतिं वदाम्यहम् ॥ ११॥ श्यामलै राजतै रक्तैर्विशदोऽयं हिमाचलः । मन्दराश्रयमेघौघः पत्रैर्दुग्धाम्बुधिर्यथा ॥ १२॥ असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् । उच्चावचान् कलौ लक्ष्मीर्गन्ता सन्त्यज्य सज्जनान् ॥ १३॥ मन्दराचलमेघानां शब्देन हृषिता मुहुः । केकायन्ते प्रतिवने सततं पृष्ठसूचकम् ॥ १४॥ मेघोत्सुकानां मधुरश्चातकानां मनोहरः । धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ॥ १५॥ मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः । ये छादयन्त्यनुगते मयूरांश्चातकांस्तथा ॥ १६॥ शिखिसारङ्गयोर्दृष्ट्वा मित्रादपि पराभवम् । हर्षं गच्छन्ति गिरिश विदूरमपि मानसम् ॥ १७॥ एतस्मिन्विषमे काले नीडं काकाश्चकोरकाः । कुर्वन्ति त्वां विना गेहान् कथं शान्तिमवाप्स्यसि ॥ १८॥ महतीवाद्य नो भीतिर्मां मेघोत्था पिनाकधृक् । यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥ १९॥ कैलासे वा हिमाद्रौ वा महाकोश्यामथ क्षितौ । तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥ २०॥ ब्रह्मोवाच । एवमुक्तस्तया शम्भुर्दाक्षायण्या तथासकृत् । सञ्जहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥ २१॥ अथोवाच सतीं देवीं स्मिताभिन्नौष्ठसम्पुटः । महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥ २२॥ ईश्वरः उवाच । यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे । मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये ॥ २३॥ मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः । सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे ॥ २४॥ कैलासस्य तथा देवि पादगाः प्रायशो घनाः । सञ्चरन्ति न गच्छन्ति तत ऊर्ध्वं कदाचन ॥ २५॥ सुमेरोर्वा गिरेरूर्ध्वं न गच्छन्ति बलाहकाः । जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥ २६॥ इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते । मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥ २७॥ स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः । शब्दोत्तरङ्गैर्मधुरस्वनैस्तै- र्मुदोपगेयानि गिरौ हिमोत्थे ॥ २८॥ सिद्धाङ्गनास्ते रचितासना भुवं काङ्क्षन्ति चैवोपहृतं सकौतुकम् । स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यन्ति फलादिदानकैः ॥ २९॥ फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरङ्गमुख्याः । सर्वास्तु तास्ते सततं सहायतां समाचरिष्यन्त्यनुमोदविभ्रमैः ॥ ३०॥ रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वाङ्गना निजवपुर्निजकान्तिसह्यम् । हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१॥ या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके । सा चापि ते तत्र मनोऽनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ॥ ३२॥ पुरस्थवर्गैर्गिरिराजवन्द्यैः प्रीतिं विचिन्वद्भिरुदाररूपाम् । शिक्षा सदा ते खलु शोचितापि कार्यान्वहं प्रीतियुता गुणाद्यैः ॥ ३३॥ विचित्रैः कोकिलालापमोदैः कुञ्जगणावृतम् । सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये ॥ ३४॥ नानाबहुजलापूर्णसरः शीतसमावृतम् । पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥ ३५॥ सर्वकामप्रदैर्वृक्षैः शाद्वलैः कल्पसंज्ञकैः । सक्षणं पश्य कुसुमान्यथाश्वकरिगोव्रजम् ॥ ३६॥ प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् । देवालये महामाये नानामृगगणैर्युतम् ॥ ३७॥ स्फाटिकैः स्वर्णवप्राद्यै राजतैश्च विराजितम् । मानसादिसरोरङ्गैरभितः परिशोभितम् ॥ ३८॥ हिरण्मयै रत्ननालैः पङ्कजैर्मुकुलैर्वृतम् । शिशुमारैस्तथासङ्ख्यैः कच्छपैर्मकरैः करैः ॥ ३९॥ निषेवितं मञ्जुलैश्च तथा नीलोत्पलादिभिः । देवेशि तस्मान्मुक्तैश्च सर्वगन्धैश्च कुङ्कुमैः ॥ ४०॥ लसद्गन्धजलैः शुभ्रैरापूर्णैः स्वच्छकान्तिभिः । शाद्वलैस्तरुणैस्तुङ्गैस्तीरस्थैरुपशोभितम् ॥ ४१॥ नृत्यद्भिरिव शाखोटैर्वर्जयन्तं स्वसम्भवम् । कामदेवैः सारसैश्च मत्तचक्राङ्गशोभितैः ॥ ४२॥ मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः । शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥ ४३॥ वासवस्य कुबेरस्य यमस्य वरुणस्य च । अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥ ४४॥ पुरीभिः शोभिशिखरं मेरोरुच्चैः सुरालयम् । रम्भाशचीमेनकादिरम्भोरुगणसेवितम् ॥ ४५॥ किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् । सारभूते महारम्ये संविहर्तुं महागिरौ ॥ ४६॥ तत्र देवी सखियुता साप्सरोगणमण्डिता । नित्यं करिष्यति शची तव योग्यां सहायताम् ॥ ४७॥ अथवा मम कैलासे पर्वतेन्द्रे सदाश्रये । स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥ ४८॥ गङ्गाजलौघप्रयते पूर्णचन्द्रसमप्रभे । दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥ ४९॥ नानामृगगणैर्युक्ते पद्माकरशतावृते । सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुन्दरे ॥ ५०॥ स्थानेष्वेतेषु यत्रापि तवान्तःकरणे स्पृहा । तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥ ५१॥ ब्रह्मोवाच । इतीरिते शङ्करेण तदा दाक्षायणी शनैः । इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥ ५२॥ सत्युवाच । हिमाद्रावेव वसितुमहमिच्छे त्वया सह । नचिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥ ५३॥ ब्रह्मोवाच । अथ तद्वाक्यमाकर्ण्य हरः परममोहितः । हिमाद्रिशिखरं तुङ्गं दाक्षायण्या समं ययौ ॥ ५४॥ सिद्धाङ्गनागणयुतमगम्यं चैव पक्षिभिः । अगमच्छिखरं रम्यं सरसीवनराजितम् ॥ ५५॥ विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम् । बालार्कसदृशं शम्भुराससाद सतीसखः ॥ ५६॥ स्फटिकाभ्रमये तस्मिन् शाद्वलद्रुमराजिते । विचित्रपुष्पावलिभिः सरसीभिश्च संयुते ॥ ५७॥ प्रफुल्लतरुशाखाग्रं गुञ्जद् भ्रमरसेवितम् । पङ्केरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा ॥ ५८॥ शोभितं चक्रवाकाद्यैः कादम्बैर्हंससङ्कुलैः । प्रमत्तसारसैः क्रौञ्चैर्नीलस्कन्धैश्च शब्दितैः ॥ ५९॥ पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः । तुरङ्गवदनैः सिद्धैरप्सरोभिश्च गुह्यकैः ॥ ६०॥ विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् । पुरन्ध्रीभिः पार्वतीभिः कन्याभिरभिसङ्गतम् ॥ ६१॥ विपञ्चीतान्त्रिकामत्तमृदङ्गपटहस्वनैः । नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥ ६२॥ देविकाभिर्दीर्घिकाभिर्गन्धिभिः सुसमावृतम् । प्रफुल्लकुसुमैर्नित्यं सुकुञ्जैरुपशोभितम् ॥ ६३॥ शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः । सह सत्या चिरं रेमे एवम्भूतेषु शोभनम् ॥ ६४॥ तस्मिन् स्वर्गसमे स्थाने दिव्यमानेन शङ्करः । दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥ ६५॥ स कदाचित्ततः स्थानादन्यद्याति स्थलं हरः । कदाचिन्मेरुशिखरं देवीदेववृतं सदा ॥ ६६॥ द्वीपान्नाना तथोद्यानवनानि वसुधातलम् । गत्वा गत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥ ६७॥ न यज्ञे स दिवारात्रौ न ब्रह्मणि तपस्समम् । सत्यां हि मनसा शम्भुः प्रीतिमेव चकार ह ॥ ६८॥ एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा । महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ॥ ६९॥ एवमन्योन्यसंसर्गादनुरागमहीरुहम् । वर्धयामासतुः कालीशिवौ भावाम्बुसेचनैः ॥ ७०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे शिवाशिवविहारवर्णनं नामद्वाविंशोऽध्यायः ॥ २.२.२२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२३. त्रयोविंशोऽध्यायः । भक्तिप्रभाववर्णनम् ।

ब्रह्मोवाच । एवं कृत्वा विहारं वै शङ्करेण च सा सती । सन्तुष्टा साभवच्चाति विरागा समजायत ॥ १॥ एकस्मिन्दिवसे देवी सती रहसि सङ्गता । शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृताञ्जलिः ॥ २॥ सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती । उवाच साञ्जलिर्भक्त्या विनयावनता ततः ॥ ३॥ सत्युवाच । देवदेव महादेव करुणासागर प्रभो । दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४॥ त्वं परः पुरुषः स्वामी रजःसत्त्वतमः परः । निर्गुणः सगुणः साक्षी निर्विकारी महाप्रभुः ॥ ५॥ धन्याहं ते प्रिया जाता कामिनी सुविहारिणी । जातस्त्वं मे पतिः स्वामिन् भक्तवात्सल्यतो हर ॥ ६॥ कृतो बहुसमा नाथ विहारः परमस्त्वया । सन्तुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७॥ ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् । येन संसारदुःखाद्वै तरेज्जीवोऽञ्जसा हर ॥ ८॥ यत्कृत्वा विषयी जीवः स लभेत्परमं पदम् । संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९॥ ब्रह्मोवाच । इत्यपृच्छत्स्म सद्भक्त्या शङ्करं सा सती मुने । आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ १०॥ आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः । अवोचत्परमप्रीतः सतीं योगविरक्तधीः ॥ ११॥ शिव उवाच । श‍ृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि । परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२॥ परतत्त्वं विजानीहि विज्ञानं परमेश्वरी । द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३॥ तद्दुर्लभं त्रिलोकेऽस्मिंस्तज्ज्ञाता विरलः प्रिये । यादृशो यः स दासोऽहं ब्रह्म साक्षात्परात्परः ॥ १४॥ तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा । सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५॥ भक्तौ ज्ञाने न भेदो हि तत्कर्तुः सर्वदा सुखम् । विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६॥ भक्त्याधीः सदाहं वै तत्प्रभावाद् गृहेष्वपि । नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७॥ सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता । वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८॥ नैष्ठिक्यनैष्ठिकी भेदाद् द्विविधे द्विविधे हि ते । षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९॥ विहिताविहिताभेदात्तामनेकां विदुर्बुधाः । तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ २०॥ ते नवाङ्गे उभे ज्ञेये वर्णिते मुनिभिः प्रिये । वर्णयामि नवाङ्गानि प्रेमतः श‍ृणु दक्षजे ॥ २१॥ श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा । दास्यं तथार्चनं देवि वन्दनं मम सर्वदा ॥ २२॥ सख्यमात्मार्पणं चेति नवाङ्गानि विदुर्बुधाः । उपाङ्गानि शिवे तस्या बहूनि कथितानि वै ॥ २३॥ श‍ृणु देवि नवाङ्गानां लक्षणानि पृथक् पृथक् । मम भक्तेर्मनो दत्त्वा भुक्तिमुक्तिप्रदानि हि ॥ २४॥ कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा । स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५॥ हृदाकाशेन सम्पश्यन् जन्मकर्माणि वै मम । प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६॥ व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा । निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७॥ अरुणोदयमारभ्य सेवाकालेऽञ्चिता हृदा । निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २८॥ सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः । हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९॥ सदा भृत्यानुकूल्येन विधिना मे परात्मने । अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ ३०॥ मन्त्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् । यदष्टाङ्गेन भूस्पर्शं तद्वै वन्दनमुच्यते ॥ ३१॥ मङ्गलामङ्गलं यद्यत्करोतीतीश्वरो हि मे । सर्वं तन्मङ्गलायेति विश्वासः सख्यलक्षणम् ॥ ३२॥ कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् । निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम् ॥ ३३॥ नवाङ्गानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च । मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४॥ उपाङ्गानि च मद्भक्तेर्बहूनि कथितानि वै । बिल्वादिसेवनादीनि समूह्यानि विचारतः ॥ ३५॥ इत्थं साङ्गोपाङ्गभक्तिर्मम सर्वोत्तमा प्रिये । ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६॥ सर्वकर्मफलोत्पत्तिः सर्वदा त्वत्समप्रिया । यच्चित्ते सा स्थिता नित्यं सर्वदा सोऽति मत्प्रियः ॥ ३७॥ त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः । चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८॥ कलौ तु ज्ञानवैराग्यौ वृद्धरूपौ निरुत्सवौ । ग्राहकाभावतो देवि जातौ जर्जरतामति ॥ ३९॥ कलौ प्रत्यक्षफलदा भक्तिः सर्वयुगेष्वपि । तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ ४०॥ यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् । विघ्नहर्ता रिपुस्तस्य दण्ड्यो नात्र च संशयः ॥ ४१॥ भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतः । अदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२॥ भक्तहेतोरहं देवि रव्युपर्यभवं किल । अतिक्रोधान्वितः शूलं गृहीत्वान्वजयं पुरा । ४३॥ भक्तहेतोरहं देवि रावणं सगणं क्रुधा । त्यजामि स्म कृतो नैव पक्षपातो हि तस्य वै ॥ ४४॥ भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् । काश्या न्यसारयं क्रोधाद्दण्डयित्वा च नन्दिना ॥ ४५॥ किं बहूक्तेन देवेशि भक्त्याधीनः सदा ह्यहम् । तत्कर्तुः पुरुषस्यातिवशगो नात्र संशयः ॥ ४६॥ ब्रह्मोवाच । इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती । जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७॥ पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने । शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८॥ सयन्त्रमन्त्रशास्त्रं च तन्माहात्म्यं विशेषतः । अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९॥ शङ्करोऽपि तदाकर्ण्य सतीप्रश्नं प्रहृष्टधीः । वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ ५०॥ तन्त्रशास्त्रं सयन्त्रं हि सपञ्चाङ्गं महेश्वरः । बभाषे महिमानं च तत्तद्देववरस्य वै ॥ ५१॥ सेतिहासकथां तेषां भक्तमाहात्म्यमेव च । सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२॥ सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् । वैद्यशास्त्रं तथा ज्योतिःशास्त्रं जीवसुखावहम् ॥ ५३॥ सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः । कृपां कृत्वा महेशानो वर्णयामास तत्त्वतः ॥ ५४॥ इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ । लोकोपकारकरणधृतसद्गुणविग्रहौ ॥ ५५॥ चिक्रीडाते बहुविधं कैलासे हिमवद् गिरौ । अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २.२.२३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२४. चतुर्विंशोऽध्यायः । रामपरीक्षावर्णनम् ।

नारद उवाच । ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर । श्रावितं शङ्करयशः सतीशङ्करयोः शुभम् ॥ १॥ इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् । किमकार्ष्टां हि तत्स्थौ वै चरितं दम्पती शिवौ ॥ २॥ ब्रह्मोवाच । सतीशिवचरित्रं च श‍ृणु मे प्रेमतो मुने । लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ॥ ३॥ ततः सती महादेवी वियोगमलभन्मुने । स्वपतः शङ्करस्येति वदन्त्येके सुबुद्धयः ॥ ४॥ वागर्थाविव सम्पृक्तौ शक्तीशौ सर्वदा चितौ । कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ॥ ५॥ लीलारुचित्वादथवा सङ्घटेताखिलं च तत् । कुरुते यद्यदीशौ च सतीशौ भवरीतिगौ ॥ ६॥ सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे । शम्भोरनादरात्तत्र देहं तत्याज सङ्गता ॥ ७॥ पुनर्हिमालये सैवाविर्भूता नामतः सती । पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ॥ ८॥ सूत उवाच । इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः । पप्रच्छ च विधातारं शिवाशिवमहद्यशः ॥ ९॥ नारद उवाच । विष्णुशिष्य महाभाग विधे मे वद विस्तरात् । शिवाशिवचरित्रं तद्भवाचारपरानुगम् ॥ १०॥ किमर्थं शङ्करो जायां तत्याज प्राणतः प्रियाम् । तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ॥ ११॥ कुतोऽध्वरेऽजः पुत्रस्यानादरोऽभूच्छिवस्य ते । कथं तत्याज सा देहं गत्वा तत्र पितुः क्रतौ ॥ १२॥ ततः किमभवत्तत्र किमकार्षीन्महेश्वरः । तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छ्रुतावहम् ॥ १३॥ ब्रह्मोवाच । श‍ृणु तात परप्रीत्या मुनिभिः सह नारद । सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ॥ १४॥ नमस्कृत्य महेशानं हर्यादिसुरसेवितम् । परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ॥ १५॥ सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः । स्वतन्त्रो निर्विकारी च सती सापि हि तद्विधा ॥ १६॥ अन्यथा कः समर्थो हि तत्कर्मकरणे मुने । परमात्मा परब्रह्म स एव परमेश्वरः ॥ १७॥ यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः । मुनयश्च महात्मानः सिद्धाश्च सनकादयः ॥ १८॥ शेषः सदा यशो यस्य मुदा गायति नित्यशः । पारं न लभते तात स प्रभुः शङ्करः शिवः ॥ १९॥ तस्यैव लीलया सर्वोऽयमिति तत्त्वविभ्रमः । तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ॥ २०॥ एकस्मिन्समये रुद्रः सत्या त्रिभवने भवः । वृषमारुह्य पर्याटद्रसां लीलाविशारदः ॥ २१॥ आगत्य दण्डकारण्यं पर्यटन् सागराम्बराम् । दर्शयन् तत्रगां शोभां सत्यै सत्यपणः प्रभुः ॥ २२॥ तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः । अन्विष्यन्तं प्रियां सीतां रावणेन हृतां छलात् ॥ २३॥ हा सीतेति प्रोच्चरन्तं विरहाविष्टमानसम् । यतस्ततश्च पश्यन्तं रुदन्तं हि मुहुर्मुहुः ॥ २४॥ समिच्छन्तं च तत्प्राप्तिं पृच्छन्तं तद्गतिं हृदा । कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम् ॥ २५॥ सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम् । भरताग्रजमानन्दरहितं विगतप्रभम् ॥ २६॥ पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः । रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः ॥ २७॥ जयेत्युक्त्वान्यतोऽगच्छन्नदात्तस्मै स्वदर्शनम् । रामाय विपिने तस्मिन् शङ्करो भक्तवत्सलः ॥ २८॥ इतीदृशीं सती दृष्ट्वा शिवलीलां विमोहनीम् । सुविस्मिता शिवं प्राह शिवमायाविमोहिता ॥ २९॥ सत्युवाच । देवदेव परब्रह्म सर्वेश परमेश्वर । सेवन्ते त्वां सदा सर्वे हरिब्रह्मादयः सुराः ॥ ३०॥ त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा । वेदान्तवेद्यो यत्नेन निर्विकारी परप्रभुः ॥ ३१॥ काविमौ पुरुषौ नाथ विरहव्याकुलाकृती । विचरन्तौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ॥ ३२॥ तयोर्ज्येष्ठं कञ्जश्यामं दृष्ट्वा वै केन हेतुना । मुदितः सुप्रसन्नात्माभवो भक्त इवाधुना ॥ ३३॥ इति मे संशयं स्वामिन् शङ्कर छेत्तुमर्हसि । सेव्यस्य सेवके नैव घटते प्रणतिः प्रभो ॥ ३४॥ ब्रह्मोवाच । आदिशक्तिः सती देवी शिवा सा परमेश्वरी । शिवमायावशी भूत्वा पप्रच्छेत्थं शिवं प्रभुम् ॥ ३५॥ तदाकर्ण्य वचः सत्याः शङ्करः परमेश्वरः । तदा विहस्य स प्राह सतीं लीलाविशारदः ॥ ३६॥ परमेश्वर उवाच । श‍ृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् । वरदानप्रभावात्तु प्रणामं चैवमादरात् ॥ ३७॥ रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ । सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ॥ ३८॥ गौरवर्णौ लघुर्बन्धुः शेषेशो लक्ष्मणाभिधः । ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ॥ ३९॥ अवतीर्णः क्षितौ साधुरक्षणाय भवाय नः । इत्युक्त्वा विररामासौ शम्भुः सूतिकरः प्रभुः ॥ ४०॥ श्रुत्वापीत्थं वचः शम्भोर्न विशश्वास तन्मनः । शिवमाया बलवती सैव त्रैलोक्यमोहिनी ॥ ४१॥ अविश्वस्तं मनो ज्ञात्वा तस्याः शम्भुः सनातनः । अवोचद्वचनं चेति प्रभुर्लीलाविशारदः ॥ ४२॥ शिव उवाच । श‍ृणु मद्वचनं देवि न विश्वसिति चेन्मनः । तव रामपरिक्षां हि कुरु तत्र स्वया धिया ॥ ४३॥ विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये । गत्वा तत्र स्थितस्तावद् वटे भव परीक्षिका ॥ ४४॥ ब्रह्मोवाच । शिवाज्ञया सती तत्र गत्वाचिन्तयदीश्वरी । कुर्यां परीक्षां च कथं रामस्य वनचारिणः ॥ ४५॥ सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ । यदि रामो हरिः सर्वं विज्ञास्यति न चान्यथा ॥ ४६॥ इत्थं विचार्य सीता सा भूत्वा रामसमीपतः । अगमत्तत्परीक्षार्थं सती मोहपरायणा ॥ ४७॥ सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च । विहस्य तत्प्रविज्ञाय नत्वावोचद् रघूद्वहः ॥ ४८॥ श्रीराम उवाच । प्रेमतस्त्वं सति ब्रूहि क्व शम्भुस्ते नमो गतः । एकाकी विपिने कस्मादागता पतिना विना ॥ ४९॥ त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति । ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि ॥ ५०॥ ब्रह्मोवाच । इति रामवचः श्रुत्वा चकितासीत्सती तदा । स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ॥ ५१॥ रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च । स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ॥ ५२॥ शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः । इहागच्छच्च विपिने स्वतन्त्रः परमेश्वरः ॥ ५३॥ अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् । सलक्ष्मणं विरहिणं सीतया क्लिष्टमानसम् ॥ ५४॥ नत्वा त्वां स गतो मूले वटस्य स्थित एव हि । प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ॥ ५५॥ चतुर्भुजं हरिं त्वां नो दृष्ट्वैव मुदितोऽभवत् । यथेदं रूपममलं पश्यन्नानन्दमाप्तवान् ॥ ५६॥ तच्छ्रुत्वा वचनं शम्भोर्भ्रममानीय चेतसि । तदाज्ञया परीक्षां ते कृतवत्यस्मि राघव ॥ ५७॥ ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताखिला । निःसंशया तदापि तच्छृणु त्वं च महामते ॥ ५८॥ कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः । कुरु निःसंशयां त्वं मां शमलं प्राप्नुहि द्रुतम् ॥ ५९॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः । अस्मरत्स्वं प्रभुं शम्भुं प्रेमाभूद् हृदि चाधिकम् ॥ ६०॥ सत्या विनाज्ञया शम्भुसमीपं नागमन्मुने । संवर्ण्य महिमानं च प्रावोचद्राघवः सतीम् ॥ ६१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २.२.२४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२५. पञ्चविंशोऽध्यायः । शिवसतीवियोगः ।

श्रीराम उवाच । एकदा हि पुरा देवि शम्भुः परमसूतिकृत् । विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १॥ तेन स्वधेनुशालायां कारयामास विस्तृतम् । रम्यं च भवनं सम्यक् तत्र सिंहासनं वरम् ॥ २॥ तत्र च्छत्रं महादिव्यं सर्वदाद्भुतमुत्तमम् । कारयामास विघ्नार्थं शङ्करो विश्वकर्मणा ॥ ३॥ शक्रादीनां जुहावाशु समस्तान् देवतागणान् । सिद्धगन्धर्वनागादीनुपदेवांश्च कृत्स्नशः ॥ ४॥ देवान् सर्वानागमांश्च विधिपुत्रान् मुनीनपि । देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५॥ देवानां च तथर्षीणां सिद्धानां फणिनामपि । आनयन् मङ्गलकराः कन्याः षोडश षोडश ॥ ६॥ वीणामृदङ्गप्रमुखवाद्यान्नानाविधान् मुने । उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७॥ राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः प्रत्यक्षतीर्थपाथोभिः पञ्चकुम्भांश्च पूरितान् । ८॥ तथान्याः संविधा दिव्या आनयत्स्वगणैस्तदा । ब्रह्मघोषं महारावं कारयामास शङ्करः ॥ ९॥ अथो हरिं समाहूय वैकुण्ठात्प्रीतमानसः । तद्भक्त्या पूर्णया देवि मोदति स्म महेश्वरः ॥ १०॥ सुमुहूर्ते महादेवस्तत्र सिंहासने वरे । उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११॥ आबद्धरम्यमुकुटं कृतकौतुकमङ्गलम् । अभ्यषिञ्चन्महेशस्तु स्वयं ब्रह्माण्डमण्डपे ॥ १२॥ दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् । ततस्तुष्टाव तं शम्भुः स्वतन्त्रो भक्तवत्सलः ॥ १३॥ ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् । व्यापयन्स्वं वराधीनं स्वतन्त्रं भक्तवत्सलः ॥ १४॥ महेश उवाच । अतः प्रभृति लोकेश मन्निदेशादयं हरिः । मम वन्द्यः स्वयं विष्णुर्जातः सर्वः श‍ृणोति हि ॥ १५॥ सर्वैर्देवादिभिस्तात प्रणम त्वममुं हरिम् । वर्णयन्तु हरिं वेदा ममैते मामिवाज्ञया ॥ १६॥ श्रीराम उवाच । इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् । विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७॥ ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा । मुनिसिद्धादिभिश्चैव वन्दितोऽभूद्धरिस्तदा ॥ १८॥ ततो महेशो हरयेऽशंसद्दिविषदां पुरः । महावरान् सुप्रसन्नो दत्तवान् भक्तवत्सलः ॥ १९॥ महेश उवाच । त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया । दाता धर्मार्थकामानां शास्ता दुर्णयकारिणाम् ॥ २०॥ जगदीशो जगत्पूज्यो महाबलपराक्रमः । अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१॥ शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया । नानालीलाप्रभावत्वं स्वतन्त्रत्वं भवत्रये ॥ २२॥ त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः । त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३॥ मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः । यया सम्मोहितं विश्वमचिद्रूपं भविष्यति ॥ २४॥ मम बाहुर्मदीयस्त्वं दक्षिणोऽसौ विधिर्हरे । अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५॥ हृदयं मम यो रुद्रः स एवाहं न संशयः । पूज्यस्तव सदा सोऽपि ब्रह्मादीनामपि ध्रुवम् ॥ २६॥ अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः । नानावतारभेदैश्च सदा नानोतिकर्तृभिः ॥ २७॥ मम लोके तवेदं वै स्थानं च परमर्द्धिमत् । गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥ २८॥ भविष्यन्ति हरे ये तेऽवतारा भुवि रक्षकाः । मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद् वरात् ॥ २९॥ श्रीराम उवाच । अखण्डैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् । कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥ ३०॥ तदाप्रभृति लक्ष्मीशो गोपवेषोऽभवत्तथा । अयासीत्तत्र सुप्रीत्या गोपगोपीगवां पतिः ॥ ३१॥ सोऽपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् । नानावतारसन्धर्तावनकर्ता शिवाज्ञया ॥ ३२॥ इदानीं स चतुर्द्धात्रावातरच्छङ्कराज्ञया । रामोऽहं तत्र भरतो लक्ष्मणः शत्रुहेति च ॥ ३३॥ अथ पित्राज्ञया देवि ससीतालक्ष्मणः सति । आगतोऽहं वने चाद्य दुःखितो दैवतोऽभवम् ॥ ३४॥ निशाचरेण मे जाया हृता सीतेति केनचित् । अन्वेष्यामि प्रियां चात्र विरही बन्धुना वने ॥ ३५॥ दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम । भविष्यति न सन्देहो मातस्ते कृपया सति ॥ ३६॥ सीताप्राप्तिवरं देवि भविष्यति न संशयः । तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥ ३७॥ महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् । यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥ ३८॥ इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् । तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९॥ अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः । हृष्टाभूत्सा प्रशंसन्तं शिवभक्तिरतं हृदि ॥ ४०॥ स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् । प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ ॥ ४१॥ पथि साचिन्तयद् देवी सञ्चलन्ती पुनः पुनः । नाङ्गीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥ ४२॥ किमुत्तरमहं दास्ये गत्वा शङ्करसन्निधौ । इति सञ्चिन्त्य बहुधा पश्चात्तापोऽभवत्तदा ॥ ४३॥ गत्वा शम्भुसमीपं च प्रणनाम शिवं हृदा । विषण्णवदना शोकव्याकुला विगतप्रभा ॥ ४४॥ अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः । प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥ ४५॥ श्रुत्वा शिववचो नाहं किमपि प्रणतानना । सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥ ४६॥ अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा । दक्षजाया महायोगी नानालीलाविशारदः ॥ ४७॥ सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः । तत्प्रार्थितोऽथ रुद्रोऽसौ मर्यादाप्रतिपालकः ॥ ४८॥ विषादोऽभूत्प्रभोस्तत्र मनस्येवमुवाच ह । धर्मवक्ता धर्मकर्ता धर्मावनकरः सदा ॥ ४९॥ शिव उवाच । कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् । नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥ ५०॥ ब्रह्मोवाच । इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् । पणं न नाशयामास वेदधर्मप्रपालकः ॥ ५१॥ ततो विहाय मनसा सतीं तां परमेश्वरः । जगाम स्वगिरिं भेदं जगावद्धा स हि प्रभुः ॥ ५२॥ चलन्तं पथि तं व्योमवाण्युवाच महेश्वरम् । सर्वान् संश्रावयंस्तत्र दक्षजां च विशेषतः ॥ ५३॥ व्योमवाण्युवाच । धन्यस्त्वं परमेशान त्वत्समोऽद्य तथा पणः । न कोऽप्यन्यस्त्रिलोकेऽस्मिन् महायोगी महाप्रभुः ॥ ५४॥ ब्रह्मोवाच । श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा । कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥ ५५॥ इति पृष्टोऽपि गिरिशः सत्या हितकरः प्रभुः । नोद्वाहं स्वं पणं तस्यै यत् हर्यग्रेऽकरोत्पुरा ॥ ५६॥ तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम् । सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥ ५७॥ ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः । शम्भुना दक्षजा तस्मान्निःश्वसन्ती मुहुर्मुहुः ॥ ५८॥ शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् । सत्यै पणं स्वकीयं हि कथा बह्वीर्वदन् प्रभुः ॥ ५९॥ सत्या प्राप स कैलासं कथयन् विविधाः कथाः । वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥ ६०॥ तत्र तस्थौ सती धाम्नि महाव्याकुलमानसा । न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥ ६१॥ महान्कालो व्यतीयाय तयोरित्थं महामुने । स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥ ६२॥ ध्यानं तत्याज गिरिशस्ततः स परमोतिकृत् । तज्ज्ञात्वा जगदम्बा हि सती तत्राजगाम सा ॥ ६३॥ ननामाथ शिवं देवी हृदयेन विदूयता । आसनं दत्तवान् शम्भुः स्वसम्मुख उदारधीः ॥ ६४॥ कथयामास सुप्रीत्या कथा वह्वीर्मनोरमाः । निःशोकां कृतवान् सद्यो लीलां कृत्वा च तादृशीम् ॥ ६५॥ पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः । नेत्याश्चर्यं शिवे तात मन्तव्यं परमेश्वरे ॥ ६६॥ इत्थं शिवाशिवकथां वदन्ति मुनयो मुने । किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥ ६७॥ शिवाशिवचरित्रं को जानाति परमार्थतः । स्वेच्छया क्रीडतस्तौ हि चरितं कुरुतः सदा ॥ ६८॥ वागर्थाविव सम्पृक्तौ सदा खलु सतीशिवौ । तयोर्वियोगोऽसम्भाव्यः सम्भवेदिच्छया तयोः ॥ ६९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवियोगो नाम पञ्चविंशोऽध्यायः ॥ २.२.२५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२६. षड्विंशोऽध्यायः । शिवसतीवियोगः ।

ब्रह्मोवाच । पुराभवच्च सर्वेषामध्वरो विधिना महान् । प्रयागे समवेतानां मुनीनां च महात्मनाम् ॥ १॥ तत्र सिद्धाः समायाताः सनकाद्याः सुरर्षयः । सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ॥ २॥ अहं समागतस्तत्र परिवारसमन्वितः । निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ॥ ३॥ समाजोऽभूद्विचित्रो हि तेषामुत्सवसंयुतः । ज्ञानवादोऽभवत्तत्र नानाशास्त्रसमुद्भवः ॥ ४॥ तस्मिन्नवसरे रुद्रः सभवानीगणः प्रभुः । त्रिलोकहितकृत्स्वामी तत्रागात्सूतिकृन्मुने ॥ ५॥ दृष्ट्वा शिवं सुराः सर्वे सिद्धाश्च मुनयस्तथा । अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ॥ ६॥ तस्थुः शिवाज्ञया सर्वे यथास्थानं मुदान्विताः । प्रभुदर्शनसन्तुष्टाः वर्णयन्तो निजं विधिम् ॥ ७॥ तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः । आगमत्तत्र सुप्रीतः सुवर्चस्वी यदृच्छया ॥ ८॥ मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया । ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ॥ ९॥ स्तुतिभिः प्रणिपातैश्च दक्षः सर्वैः सुरर्षिभिः । पूजितो वरतेजस्वी करौ वध्वा विनम्रकैः ॥ १०॥ नानाविहारकृन्नाथः स्वतन्त्रः परमोतिकृत् । नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ॥ ११॥ दृष्ट्वानतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः । अकुप्यत्सहसा रुद्रे तदा दक्षः प्रजापतिः ॥ १२॥ क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् । सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ॥ १३॥ दक्षवाच । एते हि सर्वे च सुरासुरा भृशं नमन्ति मां विप्रवरास्तथर्षयः । कथं ह्यसौ दुर्जनवन्महामना त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४॥ श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना । लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकः सदा ॥ १५॥ पाखण्डिनो दुर्जनपापशीला दृष्ट्वा द्विजं प्रोद्धतनिन्दकाञ्च । वध्वां सदासक्तरतिप्रवीण- स्तस्मादमुं शप्तुमहं प्रवृत्तः ॥ १६॥ ब्रह्मोवाच । इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् । श‍ृण्वन्त्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७॥ दक्ष उवाच । रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोऽथ विवर्णरूपः । देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्महीनः ॥ १८॥ ब्रह्मोवाच । इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः । अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैः समम् ॥ १९॥ नन्दी निशम्य तद्वाक्यं लोलाक्षोऽतिरुषान्वितः । अब्रवीत् त्वरितं दक्षं शापं दातुमना गणः ॥ २०॥ नन्दीश्वर उवाच । रे रे शठ महामूढ दक्ष दुष्टमते त्वया । यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ॥ २१॥ यस्य स्मरणमात्रेण भवन्ति सफला मखाः । तीर्थानि च पवित्राणि सोऽयं शप्तो हरः कथम् ॥ २२॥ वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते । वृथोपहसितश्चैवादुष्टो रुद्रो महाप्रभुः ॥ २३॥ येनेदं पाल्यते विश्वं सृष्टमन्ते विनाशितम् । शप्तोऽयं स कथं रुद्रो महेशो ब्राह्मणाधम ॥ २४॥ एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः । नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ॥ २५॥ दक्ष उवाच । यूयं सर्वे रुद्रगणा वेदबाह्या भवन्तु वै । वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ॥ २६॥ पाखण्डवादनिरताः शिष्टाचारबहिष्कृताः । मदिरापाननिरता जटाभस्मास्थिधारिणः ॥ २७॥ ब्रह्मोवाच । इति शप्तास्तथा तेन दक्षेण शिवकिङ्कराः । तच्छ्रुत्वातिरुषाविष्टोऽभवन्नन्दी शिवप्रियः ॥ २८॥ प्रत्युवाच द्रुतं दक्षं गर्वितं तं महाखलम् । शिलादतनयो नन्दी तेजस्वी शिववल्लभः ॥ २९॥ नन्दीश्वर उवाच । रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिङ्कराः । शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ॥ ३०॥ भृग्वाद्यैर्दुष्टचित्तैश्च मूढैः स उपहासितः । महाप्रभुर्महेशानो ब्राह्मणत्वादहम्मते ॥ ३१॥ ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः । रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम् ॥ ३२॥ वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः । भवन्तु सततं विप्रा नान्यदस्तीति वादिनः ॥ ३३॥ कामात्मानः स्वर्गपराः क्रोधलोभमदान्विताः । भवन्तु सततं विप्रा भिक्षुका निरपत्रपाः ॥ ३४॥ वेदमार्गं पुरस्कृत्य ब्राह्मणाः शूद्रयाजिनः । दरिद्रा वै भविष्यन्ति प्रतिग्रहरताः सदा ॥ ३५॥ असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः । भविष्यन्ति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ॥ ३६॥ यः शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् । द्रुह्यत्यजो दुष्टमतिः तत्त्वतां विमुखो भवेत् ॥ ३७॥ कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुतां वेदवादं च शाश्वतम् ॥ ३८॥ विनष्टानन्दकमुखो विस्मृतात्मगतिः पशुः । भ्रष्टकर्मानयरतो दक्षो बस्तमुखोऽचिरात् ॥ ३९॥ शप्तास्ते कोपिना तत्र नन्दिना ब्राह्मणा यदा । हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः ॥ ४०॥ तदाकर्ण्याहमत्यन्तमनिन्दं तं मुहुर्मुहुः । भृग्वादीनपि विप्रांश्च वेदसृट् शिवतत्त्ववित् ॥ ४१॥ ईश्वरोऽपि वचः श्रुत्वा नन्दिनः प्रहसन्निव । उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ॥ ४२॥ सदाशिव उवाच । श‍ृणु नन्दिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि । वृथा शप्तं ब्रह्मकुलं मत्वा शप्तं च मां भ्रमात् ॥ ४३॥ वेदो मन्त्राक्षरमयः साक्षात्सूक्तमयो भृशम् । सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ॥ ४४॥ तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः । शप्या न वेदाः केनापि दुर्द्धियाऽपि कदाचन ॥ ४५॥ अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि । शान्तो भव महाधीमन् सनकादिविबोधकः ॥ ४६॥ यज्ञोऽहं यज्ञकर्माहं यज्ञाङ्गानि च सर्वशः । यज्ञात्मा यज्ञनिरतो यज्ञबाह्योऽहमेव वै ॥ ४७॥ कोऽयं कस्त्वमिमे के हि सर्वोऽहमपि तत्त्वतः । इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ॥ ४८॥ तत्त्वज्ञानेन निर्हृत्य प्रपञ्चरचनां भव । बुधःस्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ॥ ४९॥ ब्रह्मोवाच । एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः । विवेकपरमो भूत्वा शान्तोऽभूत्क्रोधवर्जितः ॥ ५०॥ शिवोऽपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् । सगणः स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ॥ ५१॥ दक्षोऽपि स रुषाविष्टस्तैर्द्विजैः परिवारितः । स्वस्थानं च ययौ चित्ते शिवद्रोहपरायणः ॥ ५२॥ रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः । श्रद्धां विहायैव स मूढबुद्धि- र्निन्दापरोऽभूच्छिवपूजकानाम् ॥ ५३॥ इत्युक्तो दक्षदुर्बुद्धिः शम्भुना परमात्मना । परां दुर्धिषणां तस्य श‍ृणु तात वदाम्यहम् ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ॥ २.२.२६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२७. सप्तविंशोऽध्यायः । दक्षयज्ञारम्भः ।

ब्रह्मोवाच । एकदा तु मुने तेन यज्ञः प्रारम्भितो महान् । तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १॥ महर्षयोऽखिलास्तत्र निर्जराश्च समागताः । यद्यज्ञकरणार्थं हि शिवमायाविमोहिताः ॥ २॥ अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः । दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३॥ पैलः पराशरो गर्गो भार्गवः ककुभः सितः । सुमन्तुत्रिककङ्काश्च वैशम्पायन एव च ॥ ४॥ एते चान्ये च बहवो मुनयो हर्षिता ययुः । मम पुत्रस्य दक्षस्य सदाराः ससुता मखम् ॥ ५॥ तथा सर्वे सुरगणा लोकपाला महोदयाः । तथोपनिर्जराः सर्वे स्वोपकारबलान्विताः ॥ ६॥ सत्यलोकात्समानीतो नुतोऽहं विश्वकारकः । ससुतः सपरीवारो मूर्तवेदादिसंयुतः ॥ ७॥ वैकुण्ठाच्च तथा विष्णुः सम्प्रार्थ्य विविधादरात् । सपार्षदपरीवारः समानीतो मखं प्रति ॥ ८॥ एवमन्ये समायाता दक्षयज्ञं विमोहिताः । सत्कृतास्तेन दक्षेण सर्वे ते हि दुरात्मना ॥ ९॥ भवनानि महार्हाणि सुप्रभाणि महान्ति च । त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ १०॥ तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः । सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११॥ वर्तमाने महायज्ञे तीर्थे कनखले तदा । ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२॥ अधिष्ठाता स्वयं विष्णुः सह सर्वमरुद्गणैः । अहं तत्राभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३॥ तथैव सर्वे दिक्पाला द्वारपालाश्च रक्षकाः । सायुधाः सपरीवाराः कुतूहलकराः सदा ॥ १४॥ उपतस्थे स्वयं यज्ञः सुरूपस्तस्य चाध्वरे । सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराभवन् ॥ १५॥ तनूनपादपि निजं चक्रे रूपं सहस्रशः । हविषां ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६॥ अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः । उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ॥ १७॥ अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः । सप्तर्षयः समा गाथाः कुर्वन्ति स्म पृथक्पृथक् ॥ १८॥ गन्धर्वविद्याधरसिद्धसङ्घा- नादित्यसङ्घान् सगणान् सयज्ञान् । सङ्ख्यावतान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९॥ द्विजर्षिराजर्षिसुरर्षिसङ्घा नृपाः समित्राः सचिवाः ससैन्याः । वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्रा ॥ २०॥ दीक्षायुक्तस्तदा दक्षः कृतकौतुकमङ्गलः । भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१॥ तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण दुरात्मना । कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२॥ कपालिभार्येति सती दयिता स्वसुतापि च । नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३॥ एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे । स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसम्मताः ॥ २४॥ एतस्मिन्नन्तरेऽदृष्ट्वा तत्र वै शङ्करं प्रभुम् । प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ॥ २५॥ दधीच उवाच । सर्वे श‍ृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा । कस्मान्नैवागतः शम्भुरस्मिन् यज्ञे महोत्सवे ॥ २६॥ एते सुरेशा मुनयो महत्तराः सलोकपालाश्च समागता हि । तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ॥ २७॥ येनैव सर्वाण्यपि मङ्गलानि भवन्ति शंसन्ति महाविपश्चितः । सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ॥ २८॥ अमङ्गलान्येव च मङ्गलानि भवन्ति येनाधिगतानि दक्ष । त्रिपञ्चकेनाप्यथ मङ्गलानि भवन्ति सद्यः परतः पराणि ॥ २९॥ तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः । त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना ॥ ३०॥ इन्द्रेण लोकपालैश्च द्विजैः सिद्धैः सहाधुना । सर्वथानयनीयोऽसौ शङ्करो यज्ञपूर्तये ॥ ३१॥ सर्वैर्भवद्भिर्गन्तव्यं यत्र देवो महेश्वरः । दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ॥ ३२॥ तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना । अत्रागतेन देवेशाः साम्बेन परमात्मना ॥ ३३॥ यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् । तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ॥ ३४॥ समागते शङ्करेऽत्र पावनो हि भवेन्मखः । भविष्यत्यन्यथापूर्णः सत्यमेतद् ब्रवीम्यहम् ॥ ३५॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः । उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ॥ ३६॥ मूलं विष्णुर्देवतानां यत्र धर्मः सनातनः । समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ॥ ३७॥ यस्मिन् वेदाश्च यज्ञाश्च कर्माणि विविधानि च । प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः ॥ ३८॥ सत्यलोकात्समायातो ब्रह्मा लोकपितामहः । वेदैः सोपनिषद्भिश्च विविधैरागमैः सह ॥ ३९॥ तथा सुरगणैः साकमागतः सुरराट् स्वयम् । तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥ ४०॥ ये ये यज्ञोचिताः शान्ताः पात्रभूताः समागताः । वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः ॥ ४१॥ अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् । कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२॥ हरोऽकुलीनोऽसौ विप्र पितृमातृविवर्जितः । भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥ ४३॥ आत्मसम्भावितो मूढः स्तब्धो मौनी समत्सरः । कर्मण्यस्मिन्न योग्योऽसौ नानीतो हि मयाधुना ॥ ४४॥ तस्मात्त्वयेदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् । सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥ ४५॥ ब्रह्मोवाच । एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत् । सर्वेषां श‍ृण्वतां देवमुनीनां सारसंयुतम् ॥ ४६॥ दधीच उवाच । अयज्ञोऽयं महाजातो विना तेन शिवेन हि । विनाशोऽपि विशेषेण ह्यत्र ते हि भविष्यति ॥ ४७॥ एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः । यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ ॥ ४८॥ ततोऽन्ये शाङ्करा ये च मुख्याः शिवमतानुगाः । निर्ययुः स्वाश्रमान् सद्यः शापं दत्त्वा तथैव च ॥ ४९॥ मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः । शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ॥ ५०॥ दक्ष उवाच । गतः शिवप्रियो विप्रो दधीचो नाम नामतः । अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ॥ ५१॥ एतच्छुभतरं जातं सम्मतं मे हि सर्वथा । सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ॥ ५२॥ विनष्टचित्ता मन्दाश्च मिथ्यावादरताः खलाः । वेदबाह्या दुराचाराः त्याज्यास्ते मखकर्मणि ॥ ५३॥ वेदवादरता यूयं सर्वे विष्णुपुरोगमाः । यज्ञं मे सफलं विप्राः सुराः कुर्वन्तु माचिरम् ॥ ५४॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः । तन्मखे देवयजनं चक्रुः सर्वे सुरर्षयः ॥ ५५॥ इति तन्मखशापो हि वर्णितो मे मुनीश्वर । यज्ञविध्वंसयोगोऽपि प्रोच्यते श‍ृणु सादरम् ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे यज्ञप्रारम्भो नाम सप्तविंशोऽध्यायः ॥ २.२.२७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२८. अष्टाविंशोऽध्यायः । सतीयात्रावर्णनम् ।

ब्रह्मोवाच । यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः । तस्मिन्नेवान्तरे देवी पर्वते गन्धमादने ॥ १॥ धारागृहे वितानेन सखीभिः परिवारिता । दाक्षायणी महाक्रीडाश्चकार विविधाः सती ॥ २॥ क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती । दक्षयज्ञे प्रयान्तीं तां रोहिण्यापृच्छ्य सत्वरम् ॥ ३॥ दृष्ट्वा सीमन्तया भूतां विजयां प्राह सा सती । स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥ ४॥ सत्युवाच । हे सखीप्रवरे प्राणप्रिये त्वं विजये मम । क्व गमिष्यति चन्द्रोऽयं रोहिण्या पृच्छ सत्वरम् ॥ ५॥ ब्रह्मोवाच । तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम् । क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम् ॥ ६॥ विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् । कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ॥ ७॥ तच्छ्रुत्वा विजया देवीं त्वरिता जातसम्भ्रमा । कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ॥ ८॥ तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा । विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिन्तयत् ॥ ९॥ दक्षः पिता मे माता च वीरिणी नौ कुतः सती । आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ॥ १०॥ पृच्छेयं शङ्करं तत्र कारणं सर्वमादरात् । चिन्तयित्वेति सासीद्वै तत्र गन्तुं सुनिश्चया ॥ ११॥ अथ दाक्षायणी देवी विजयां प्रवरां सखीम् । स्थापयित्वा द्रुतं तत्र समगच्छच्छिवान्तिकम् ॥ १२॥ ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः । नन्द्यादिभिर्महावीरैः प्रवरैर्यूथयूथपैः ॥ १३॥ दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा । प्रष्टुं तत्कारणं शीघ्रं प्राप शङ्करसन्निधिम् ॥ १४॥ शिवेन स्थापिता स्वाङ्के प्रीतियुक्तेन स्वप्रिया । प्रमोदिता वचोभिः सा बहुमानपुरःसरम् ॥ १५॥ अथ शम्भुर्महालीलः सर्वेशः सुखदः सताम् । सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ॥ १६॥ शम्भुरुवाच । किमर्थमागतात्र त्वं सभामध्ये सविस्मया । कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ॥ १७॥ ब्रह्मोवाच । एवमुक्ता तदा तेन महेशेन मुनीश्वर । साञ्जलिः सुप्रणम्याशु सत्युवाच प्रभुं शिवा ॥ १८॥ सत्युवाच । पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् । तत्रोत्सवो महानस्ति समवेताः सुरर्षयः ॥ १९॥ पितुर्मम महायज्ञे कस्मात्तव न रोचते । गमनं देवदेवेश तत्सर्वं कथय प्रभो ॥ २०॥ सुहृदामेष वै धर्मः सुहृद्भिः सह सङ्गतिः । कुर्वन्ति यन्महादेव सुहृदः प्रीतिवर्धिनीम् ॥ २१॥ तस्मात्सर्वप्रयत्नेन मया गच्छ सह प्रभो । यज्ञवाटं पितुर्मेऽद्य स्वामिन् प्रार्थनया मम ॥ २२॥ ब्रह्मोवाच । तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः । दक्षवागिषुहृद्विद्धो बभाषे सूनृतं वचः ॥ २३॥ महेश्वर उवाच । दक्षस्तव पिता देवि मम द्रोही विशेषतः ॥ २४॥ यस्य ये मानिनः सर्वे ससुरर्षिमुखाः परे । ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ॥ २५॥ अनाहूताश्च ये देवि गच्छन्ति परमन्दिरम् । अवमानं प्राप्नुवन्ति मरणादधिकं तथा ॥ २६॥ परालयं गतोऽपीन्द्रो लघुर्भवति तद्विधः । का कथा च परेषां वै रीढा यात्रा हि तद्विधा ॥ २७॥ तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति । न गन्तव्यं विशेषेण सत्यमुक्तं मया प्रिये ॥ २८॥ तथारिभिर्न व्यथते ह्यर्दितोऽपि शरैर्जनः । स्वानां दुरुक्तिभिर्मर्मताडितः स यथा मतः ॥ २९॥ विद्यादिभिर्गुणैः षड्भिरसदन्यैः सतां स्मृतौ । हतायां भूयसां धाम न पश्यन्ति खलाः प्रिये ॥ ३०॥ ब्रह्मोवाच । एवमुक्ता सती तेन महेशेन महात्मना । उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ॥ ३१॥ सत्युवाच । यज्ञःस्यात्सफलो येन स त्वं शम्भोऽखिलेश्वर । अनाहूतोऽसि तेनाद्य पित्रा मे दुष्टकारिणा ॥ ३२॥ तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः । सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ॥ ३३॥ तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो । अनुज्ञां देहि मे नाथ तत्र गन्तुं महेश्वर ॥ ३४॥ ब्रह्मोवाच । इत्युक्तो भगवान् रुद्रस्तया देव्या शिवः स्वयम् । विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ॥ ३५॥ शिव उवाच । यद्येवं ते रुचिर्देवि तत्र गन्तुमवश्यकम् । सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ॥ ३६॥ एतं नन्दिनमारुह्य वृषभं सज्जमादरात् । महाराजोपचाराणि कृत्वा बहुगुणान्विता ॥ ३७॥ भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती । सुभूषिता सती युक्ता ह्यगमत्पितृमन्दिरम् ॥ ३८॥ महाराजोपचाराणि दत्तानि परमात्मना । सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ॥ ३९॥ गणाः षष्टिसहस्राणि रौद्रा जग्मुः शिवाज्ञया । कुतूहलयुताः प्रीता महोत्सवसमन्विताः ॥ ४०॥ तदोत्सवो महानासीद्यजने तत्र सर्वतः । सत्याः शिवप्रियायास्तु वामदेवगणैः कृतः ॥ ४१॥ कुतूहलं गणाश्चक्रुः शिवयोर्यश उज्जगुः । बलात्ते पुप्लुवुः प्रीत्या महावीराः शिवप्रियाः ॥ ४२॥ सर्वथासीन्महाशोभा गमने जगदम्बिके । सुखारावः सम्बभूव पूरितं भुवनत्रयम् ॥ ४३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीयात्रावर्णनं नामाष्टविंशोऽध्यायः ॥ २.२.२८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.२९. एकोनत्रिंशोऽध्यायः । सतीवाक्यम् ।

ब्रह्मोवाच । दाक्षायणी गता तत्र यत्र यज्ञो महाप्रभः । सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥ १॥ स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् । ददर्श सुप्रभं चारु सुरर्षिगणसंयुतम् ॥ २॥ द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् । नन्दिनोऽभ्यन्तरं शीघ्रमेकैवागच्छदध्वरम् ॥ ३॥ आगतां च सतीं दृष्ट्वासिक्नी माता यशस्विनी । अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥ ४॥ नाकरोदादरं दक्षो दृष्ट्वा तामपि किञ्चन । नान्योऽपि तद्भयात्तत्र शिवमायाविमोहितः ॥ ५॥ अथ सा मातरं देवी पितरं च सती मुने । अनमद्विस्मितात्यन्तं सर्वलोकपराभवात् ॥ ६॥ भागानपश्यद्देवानां हर्यादीनां तदध्वरे । न शम्भुभागमकरोत् क्रोधं दुर्विषहं सती ॥ ७॥ तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् । क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥ ८॥ सत्युवाच । अनाहूतस्त्वया कस्माच्छम्भुः परमशोभनः । येन पूतमिदं विश्वं समग्रं सचराचरम् ॥ ९॥ यज्ञो यज्ञविदां श्रेष्ठो यज्ञाङ्गो यज्ञदक्षिणः । यज्ञकर्ता च यः शम्भुस्तं विना च कथं मखः ॥ १०॥ यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो । विना तेन कृतं सर्वमपवित्रं भविष्यति ॥ ११॥ द्रव्यमन्त्रादिकं सर्वं हव्यं कव्यं च यन्मयम् । शम्भुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥ १२॥ किं शिवं सुरसामान्यं मत्वाकार्षीरनादरम् । भ्रष्टबुद्धिर्भवानद्य जातोऽसि जनकाधम ॥ १३॥ विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् । प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥ १४॥ एते कथं समायाता विष्णुब्रह्मादयः सुराः । तव यज्ञे विना शम्भुं स्वप्रभुं मुनयस्तथा ॥ १५॥ ब्रह्मोवाच । इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति । पृथक्पृथगवोचत्सा भर्त्सयन्ती भवात्मिका ॥ १६॥ सत्युवाच । हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः । सगुणं निर्गुणं चापि श्रुतयो यं वदन्ति ह ॥ १७॥ यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः । अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे ॥ १८॥ तदपि ज्ञानमायातं न ते चेतसि दुर्मते । भागार्थी दक्षयज्ञेऽस्मिन् शिवं स्वस्वामिनं विना ॥ १९॥ पुरा पञ्चमुखो भूत्वा गर्वितोऽसि सदाशिवम् । कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ॥ २०॥ इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् । भस्मीकृतः पविस्ते हि हरेण क्रूरकर्मणा ॥ २१॥ हे सुराः किन्न जानीथ महादेवस्य विक्रमम् । अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥ २२॥ भिक्षाटनं च कृतवान् पुरा दारुवने विभुः । शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा ॥ २३॥ शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् । तल्लिङ्गेनाखिलं दग्धं भुवनं सचराचरम् ॥ २४॥ सर्वे मूढाश्च सञ्जाता विष्णुब्रह्मादयः सुराः । मुनयोऽन्ये विना शम्भुमागता यदिहाध्वरे ॥ २५॥ सर्वे वेदाश्च सम्भूता साङ्गाः शास्त्राणि वाग्यतः । योऽसौ वेदान्तगः शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥ २६॥ ब्रह्मोवाच । इत्यनेकविधा वाणीरगदज्जगदम्बिका । कोपान्विता सती तत्र हृदयेन विदूयता ॥ २७॥ विष्ण्वादयोऽखिला देवा मुनयो ये च तद्वचः । मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥ २८॥ अथ दक्षः समाकर्ण्य स्वपुत्र्यास्तादृशं वचः । विलोक्य क्रूरदृष्ट्या तां सतीं क्रुद्धोऽब्रवीद्वचः ॥ २९॥ दक्ष उवाच । तव किं बहुनोक्तेन कार्यं नास्तीह साम्प्रतम् । गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥ ३०॥ अमङ्गलस्तु ते भर्ता शिवोऽसौ गम्यते बुधैः । अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ॥ ३१॥ तस्मान्नाह्वायितो रुद्रो यज्ञार्थं सुकुवेषभृत् । देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२॥ विधिना प्रेरितेन त्वं दत्ता मन्देन पापिना । रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥ ३३॥ तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते । यद्यागतासि यज्ञेऽस्मिन् दायं गृह्णीष्व चात्मना ॥ ३४॥ ब्रह्मोवाच । दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपूजिता । निन्दायुक्तं स्वपितरं दृष्ट्वासीद् रुषिता भृशम् ॥ ३५॥ अचिन्तयत्तदा सेति कथं यास्यामि शङ्करम् । शङ्करं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम् ॥ ३६॥ अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् । निःश्वसन्ती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७॥ सत्युवाच । यो निन्दति महादेवं निन्द्यमानं श‍ृणोति वा । तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ ३८॥ तस्मात्त्यक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम् । किं जीवितेन मे तात श‍ृण्वन्त्यानादरं प्रभोः ॥ ३९॥ यदि शक्तः स्वयं शम्भोर्निन्दकस्य विशेषतः । छिन्द्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥ ४०॥ यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै । कर्णौ धीमान् ततः शुद्ध्येद् वदन्तीदं बुधा वराः ॥ ४१॥ ब्रह्मोवाच । इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा । अस्मरच्छाङ्करं वाक्यं दूयमानेन चेतसा ॥ ४२॥ ततः सङ्क्रुद्ध्य सा दक्षं निःशङ्कं प्राह तानपि । सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥ ४३॥ सत्युवाच । तात त्वं निन्दकः शम्भोः पश्चात्तापं गमिष्यसि । इह भुक्त्वा महादुःखमन्ते यास्यसि यातनाम् ॥ ४४॥ यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः । तस्मिन्नवैरे शर्वेऽस्मिन् त्वां विना कः प्रतीपकः ॥ ४५॥ महद्विनिन्दा नाश्चर्यं सर्वदासत्सु सेर्ष्यकम् । महदङ्घ्रिरजोध्वस्ततमःसु नैव शोभना ॥ ४६॥ शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् । सकृत्प्रसङ्गात्सकलमघमाशु विहन्ति तत् ॥ ४७॥ पवित्रकीर्तिममलं भवान् द्वेष्टि शिवेतरः । अलङ्घ्यशासनं शम्भुमहो सर्वेश्वरं खलः ॥ ४८॥ यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् । सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥ ४९॥ यद्वर्षत्यर्थिनः शीघ्रं लोकस्य शिव आदरात् । भवान् द्रुह्यति मूर्खत्वात् तस्मै चाशेषबन्धवे ॥ ५०॥ किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः । ब्रह्मादयस्तं मुनयः सनकाद्यास्तथापरे ॥ ५१॥ अवकीर्य जटा भूतैः श्मशाने स कपालधृक् । तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥ ५२॥ ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमादरात् । निर्माल्यं मुनयो देवाः स शिवः परमेश्वरः ॥ ५३॥ प्रवृत्तं च निवृत्तं च द्विविधं कर्म चोदितम् । वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः ॥ ५४॥ विरोधियौगपद्यैककर्तृके च तथा द्वयम् । परब्रह्मणि शम्भौ तु कर्मर्च्छन्ति न किञ्चन ॥ ५५॥ मा वः पदव्यः स्म पितः या अस्मदास्थिताः सदा । यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥ ५६॥ नोऽव्यक्तलिङ्गः सततमवधूतसुसेवितः । अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥ ५७॥ किं बहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः । त्वदुद्भवेन देहेन न मे किञ्चित्प्रयोजनम् । ५८॥ तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः । परित्याज्यो विशेषेण तत्सम्बन्धो विपश्चिता ॥ ५९॥ गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः । दाक्षायणीति सहसाहं भवामि सुदुर्मना ॥ ६०॥ तस्मात्त्वदङ्गजं देहं कुणपं गर्हितं सदा । व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा ॥ ६१॥ हे सुरा मुनयः सर्वे यूयं श‍ृणुत मद्वचः । सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम् ॥ ६२॥ सर्वे यूयं विमूढा हि शिवनिन्दाः कलिप्रियाः । प्राप्स्यन्ति दण्डं नियतमखिलं च हराद् ध्रुवम् ॥ ६३॥ ब्रह्मोवाच । दक्षमुक्त्वाध्वरे तस्मिन् व्यरमत्सा सती तदा । अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम् ॥ ६४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २.२.२९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३०. त्रिंशोऽध्यायः । सतीदेहत्यागोपद्रववर्णनम् ।

नारद उवाच । मौनीभूता यदा सासीत्सती शङ्करवल्लभा । चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ॥ १॥ ब्रह्मोवाच । मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात् । क्षितावुदीच्यां सहसा निषसाद प्रशान्तधीः ॥ २॥ जलमाचम्य विधिवत् संवृता वाससा शुचिः । दृङ् निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ॥ ३॥ कृत्वा समानावनिलौ प्राणापानौ सितानना । उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः ॥ ४॥ हृदि स्थाप्योरसि धिया स्थितं कण्ठाद् भ्रुवोः सती । अनिन्दितानयन्मध्यं शङ्करप्राणवल्लभा ॥ ५॥ एवं स्वदेहं सहसा दक्षकोपाज्जिहासती । दग्धे गात्रे वायुशुचिर्धारितं योगमार्गतः ॥ ६॥ ततः स्वभर्तुश्चरणं चिन्तयन्ती न चापरम् । अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ॥ ७॥ हतकल्मषतद्देहः प्रापतच्च तदग्निना । भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ॥ ८॥ तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा । हाहेति सोऽद्भुतश्चित्रः सुरादीनां भयावहः ॥ ९॥ हन्त प्रिया परा शम्भोर्देवी दैवतमस्य हि । जहावसून् सती केन सुदुष्टेन प्रकोपिता ॥ १०॥ अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत । चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ॥ ११॥ अहोऽद्य विमनाभूत्सा सती देवी मनस्विनी । वृषध्वजप्रियाभीक्ष्णं मानयोग्या सतां सदा ॥ १२॥ सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् स प्रजापतिः । महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ॥ १३॥ यत्स्वाङ्गजां सुतां शम्भुद्विट् न्यषेधत्समुद्यताम् । महानरकभोगी स मृतये नोऽपराधतः ॥ १४॥ वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् । द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ॥ १५॥ द्वारि स्थिता गणाः सर्वे रसायुतमिता रुषा । शङ्करस्य प्रभावात्तेऽक्रुध्यन्नतिमहाबलाः ॥ १६॥ हाहाकारमकुर्वंस्ते धिग् धिग् नो नेति वादिनः । उच्चैः सर्वेऽसकृद्वीराः शङ्करस्य गणाधिपाः ॥ १७॥ हाहाकारेण महता व्याप्तमासीद्दिगन्तरम् । सर्वे प्रापन् भयं देवा मुनयोऽन्येऽपि ते स्थिताः ॥ १८॥ गणाः सम्मन्त्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः । कुर्वन्तः प्रलयं वाद्यैः शस्त्रैर्व्याप्तं दिगन्तरम् ॥ १९॥ शस्त्रैरघ्नन्निजाङ्गानि केचित्तत्र शुचाकुलाः । शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ॥ २०॥ इत्थं ते विलयं प्राप्ता दाक्षायण्याः समं तदा । गणायुते द्वे च तदा तदद्भुतमिवाभवत् ॥ २१॥ गणा नाशावशिष्टा ये शङ्करस्य महात्मनः । दक्षं तं क्रोधितं हन्तुमुदतिष्ठन्नुदायुधाः ॥ २२॥ तेषामापततां वेगं निशम्य भगवान् भृगुः । यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ॥ २३॥ हूयमाने च भृगुणा समुत्पेतुर्महासुराः । ऋभवो नाम प्रबला वीरास्तत्र सहस्रशः ॥ २४॥ तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर । अभूद्युद्धं सुविकटं श‍ृण्वतां रोमहर्षणम् ॥ २५॥ ऋभुभिस्तैर्महावीरैर्हन्यमानाः समन्ततः । अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ॥ २६॥ एवं शिवगणास्ते वै हता विद्राविता द्रुतम् । शिवेच्छया महाशक्त्या तदद्भुतमिवाभवत् ॥ २७॥ तद् दृष्ट्वा ऋषयो देवाः शक्राद्याः समरुद्गणाः । विश्वेऽश्विनौ लोकपालास्तूष्णीं भूतास्तदाभवन् ॥ २८॥ केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तः समन्ततः । उद्विग्ना मन्त्रयन्तश्च विघ्नाभावं मुहुर्मुहुः ॥ २९॥ सुविचार्योदर्कफलं महोद्विग्नाः सुबुद्धयः । सुरविष्ण्वादयोऽभूवंस्तन्नाशाद्रावणान्मुहुः ॥ ३०॥ एवम्भूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः । ब्रह्मबन्धोश्च दक्षस्य शङ्करद्रोहिणो मुने ॥ ३१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने सतीदेहत्यागोपद्रववर्णनं नाम त्रिंशोऽध्यायः ॥ २.२.३०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३१. एकत्रिंशोऽध्यायः । आकाशवाणी ।

ब्रह्मोवाच । एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर । अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ॥ १॥ व्योमवाण्युवाच । रे रे दक्ष दुराचार दम्भाचारपरायण । किं कृतं ते महामूढ कर्म चानर्थकारकम् ॥ २॥ न कृतं शैवराजस्य दधीचेर्वचनस्य हि । प्रमाणं तत्कृते मूढ सर्वानन्दकरं शुभम् ॥ ३॥ निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुःसहम् । ततोऽपि बुद्धं किञ्चिन्नो त्वया मूढेन चेतसि ॥ ४॥ ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः । समागतायाः सत्याश्च मङ्गलाया गृहं स्वतः ॥ ५॥ सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल । ब्रह्मपुत्र इति वृथा गर्वितोऽसि विमोहितः ॥ ६॥ सा सत्येव सदाराध्या सर्वपुण्यफलप्रदा । त्रिलोकमाता कल्याणी शङ्करार्धाङ्गभागिनी ॥ ७॥ सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी । माहेश्वरी स्वभक्तानां सर्वमङ्गलदायिनी ॥ ८॥ सा सत्येवार्चिता नित्यं संसारभयनाशिनी । मनोऽभीष्टप्रदा देवी सर्वोपद्रवहारिणी ॥ ९॥ सा सत्येवार्चिता नित्यं कीर्तिसम्पत्प्रदायिनी । परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ १०॥ सा सत्येव जगद्धात्री जगद्रक्षणकारिणी । अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ॥ ११॥ सा सत्येव जगन्माता विष्णुमाता विलासिनी । ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ॥ १२॥ सा सत्येव तपोधर्मदानादिफलदायिनी । शम्भुशक्तिर्महादेवी दुष्टहन्त्री परात्परा ॥ १३॥ ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया । तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ॥ १४॥ शम्भुर्हि परमेशानः सर्वस्वामी परात्परः । विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥ १५॥ तप्यते हि तपः सिद्धैरेतद्दर्शनकाङ्क्षिभिः । युज्यते योगिभिर्योगैरेतद्दर्शनकाङ्क्षिभिः ॥ १६॥ अनन्तधनधान्यानां यागादीनां तथैव च । दर्शनं शङ्करस्यैव महत्फलमुदाहृतम् ॥ १७॥ शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः । आदिविद्यावरस्वामी सर्वमङ्गलमङ्गलः ॥ १८॥ तच्छक्तेर्न कृतो यस्मात्सत्करोऽद्य त्वया खल । अत एवाध्वरस्यास्य विनाशो हि भविष्यति ॥ १९॥ अमङ्गलं भवत्येव पूजार्हाणामपूजया । पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ॥ २०॥ सहस्रेणापि शिरसां शेषो यत्पादजं रजः । वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ॥ २१॥ यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् । विष्णुर्विष्णुत्वमापन्नस्तस्य शम्भोः प्रिया सती ॥ २२॥ यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् । ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शम्भोः प्रिया सती ॥ २३॥ यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् । इन्द्रादयो लोकपालाः प्रापुः स्वं स्वं परं पदम् ॥ २४॥ जगत्पिता शिवः शक्तिर्जगन्माता च सा सती । सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ॥ २५॥ दौर्भाग्यं त्वयि सङ्क्रान्तं सङ्क्रान्तास्त्वयि चापदः । यौ चानाराधितौ भक्त्या भवानीशङ्करौ च तौ ॥ २६॥ अनभ्यर्च्य शिवं शम्भुं कल्याणं प्राप्नुयामिति । किमस्ति गर्वो दुर्वारः स गर्वोऽद्य विनश्यति ॥ २७॥ सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव । करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८॥ यदि देवाः करिष्यन्ति साहाय्यमधुना तव । तदा नाशं समाप्स्यन्ति शलभा इव वह्निना ॥ २९॥ ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्विति । सहायास्तव यावन्तस्ते ज्वलन्त्वद्य सत्वरम् ॥ ३०॥ अमराणां च सर्वेषां शपथोऽमङ्गलाय ते । करिष्यन्त्यद्य साहाय्यं यदेतस्य दुरात्मनः ॥ ३१॥ निर्गच्छन्त्वमराः स्वोकमेतदध्वरमण्डपात् । अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३२॥ निर्गच्छन्त्वपरे सर्वे मुनिनागादयो मखात् । अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा ॥ ३३॥ निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमण्डपात् । अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३४॥ निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमण्डपात् । अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३५॥ ब्रह्मोवाच । इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥ व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ॥ ३६॥ तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयः सुराः । अकार्षुर्विस्मयं तात मुनयश्च तथापरे ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ २.२.३१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३२. द्वात्रिंशोऽध्यायः । वीरभद्रोत्पत्तिः शिवोपदेशश्च ।

नारद उवाच । श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाबुधः । अन्ये च कृतवन्तः किं ततश्च किमभूद् वद ॥ १॥ पराजिताः शिवगणा भृगुमन्त्रबलेन वै । किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ॥ २॥ ब्रह्मोवाच । श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः । नावोचत्किञ्चिदपि ते तिष्ठन्तस्तु विमोहिताः ॥ ३॥ पलायमाना ये वीरा भृगुमन्त्रबलेन ते । अवशिष्टाः शिवगणाः शिवं शरणमाययुः ॥ ४॥ सर्वं निवेदयामासू रुद्रायामिततेजसे । चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ॥ ५॥ गणा ऊचुः । देवदेव महादेव पाहि नः शरणागतान् । संश‍ृण्वादरतो नाथ सतीवार्तां च विस्तरात् ॥ ६॥ गर्वितेन महेशान दक्षेण सुदुरात्मना । अपमानः कृतः सत्यानादरो निर्जरैस्तथा ॥ ७॥ तुभ्यं भागमदान्नो स देवेभ्यश्च प्रदत्तवान् । दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षः सुगर्वितः ॥ ८॥ ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो । विनिन्द्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ॥ ९॥ गणास्त्वयुतसङ्ख्याका मृतास्तत्र विलज्जया । स्वाङ्गान्याच्छिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ॥ १०॥ तद्यज्ञं ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः । तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ॥ ११॥ ते वयं शरणं प्राप्तास्तव विश्वम्भर प्रभो । निर्भयान् कुरु नस्तस्माद् दयमान भवाद्भयात् ॥ १२॥ अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो । दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ॥ १३॥ इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च शङ्कर । तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ॥ १४॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य स्वगणानां वचः प्रभुः । सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ॥ १५॥ आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शनः । प्रणम्य शङ्करं भक्त्या साञ्जलिस्तत्र तस्थिवान् ॥ १६॥ त्वां प्रशस्याथ स स्वामी सत्या वार्तां च पृष्टवान् । दक्षयज्ञगताया वै परं च चरितं तथा ॥ १७॥ पृष्टेन शम्भुना तात त्वयाश्वेव शिवात्मना । तत्सर्वं कथितं वृत्तं जातं दक्षाध्वरे हि यत् ॥ १८॥ तदाकर्ण्येश्वरो वाक्यं मुने तत् त्वन्मुखोदितम् । चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः ॥ १९॥ उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः । आस्फालयामास रुषा पर्वतस्य तदोपरि ॥ २०॥ तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः । सम्बभूव महारावो महाप्रलयभीषणः ॥ २१॥ तज्जटायाः समुद्भूतो वीरभद्रो महाबलः । पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ॥ २२॥ स भूमिं विश्वतो वृत्य चात्यतिष्ठद्दशाङ्गुलम् । प्रलयानलसङ्काशः प्रोन्नतो दोःसहस्रवान् ॥ २३॥ कोपनिःश्वासतस्तत्र महारुद्रस्य चेशितुः । जातं ज्वराणां शतकं सन्निपातास्त्रयोदश ॥ २४॥ महाकाली समुत्पन्ना तज्जटापरभागतः । महाभयङ्करा तात भूतकोटिभिरावृता ॥ २५॥ सर्वे मूर्तिधराः क्रूराः ज्वरा लोकभयङ्कराः । स्वतेजसा प्रज्वलन्तो दहन्त इव सर्वतः ॥ २६॥ अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम् । कृताञ्जलिपुटः प्राह वाक्यं वाक्यविशारदः ॥ २७॥ वीरभद्र उवाच । महारुद्र महारौद्र सोमसूर्याग्निलोचन । किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ॥ २८॥ शोषणीयाः किमीशान क्षणार्धेनैव सिन्धवः । पेषणीयाः किमीशान क्षणार्धेनैव पर्वताः ॥ २९॥ क्षणेन भस्मसात्कुर्यां ब्रह्माण्डमुत किं हर । क्षणेन भस्मसात्कुर्यां सुरान्वा किं मुनीश्वरान् ॥ ३०॥ व्याश्वासः सर्वलोकानां किमु कार्यो हि शङ्कर । कर्तव्यं किमुतेशान सर्वप्राणिविहिंसनम् ॥ ३१॥ ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर । पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ॥ ३२॥ यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो । तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः ॥ ३३॥ क्षुद्रास्तरन्ति लोकाब्धिं शासनाच्छङ्करस्य ते । हरातोऽहं न किं तर्तुं महापत्सागरं क्षमः ॥ ३४॥ त्वत्प्रेषिततृणेनापि महत्कार्यमयत्नतः । क्षणेन शक्यते कर्तुं शङ्करात्र न संशयः ॥ ३५॥ लीलामात्रेण ते शम्भो कार्यं यद्यपि सिध्यति । तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम् ॥ ३६॥ शक्तिरेतादृशी शम्भो ममापि त्वदनुग्रहात् । विना शक्तिर्न कस्यापि शङ्कर त्वदनुग्रहात् ॥ ३७॥ त्वदाज्ञया विना कोऽपि तृणादीनपि वस्तुतः । नैव चालयितुं शक्तः सत्यमेतन्न संशयः ॥ ३८॥ शम्भो नियम्याः सर्वेऽपि देवाद्यास्ते महेश्वर । तथैवाहं नियम्यस्ते नियन्तुः सर्वदेहिनाम् ॥ ३९॥ प्रणतोऽस्मि महादेव भूयोऽपि प्रणतोऽस्म्यहम् । प्रेषय स्वेष्टसिद्ध्यर्थं मामद्य हर सत्वरम् ॥ ४०॥ स्पन्दोऽपि जायते शम्भोऽसव्याङ्गानां मुहुर्मुहुः । भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ॥ ४१॥ हर्षोत्साहविशेषोऽपि जायते मम कश्चन । शम्भो त्वत्पादकमले संसक्तश्च मनो मम ॥ ४२॥ भविष्यति प्रतिपदं शुभसन्तानसन्ततिः ॥ ४३॥ तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् । यस्य शम्भौ दृढा भक्तिस्त्वयि शोभनसंश्रये ॥ ४४॥ ब्रह्मोवाच । इत्युक्तं तद्वचः श्रुत्वा सन्तुष्टो मङ्गलापतिः । वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ॥ ४५॥ महेश्वर उवाच । श‍ृणु मद्वचनं तात वीरभद्र सुचेतसा । करणीयं प्रयत्नेन तद् द्रुतं मे प्रतोषकम् ॥ ४६॥ यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः । मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ॥ ४७॥ तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् । पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ॥ ४८॥ सुरा भवन्तु गन्धर्वा यक्षा वान्ये च केचन । तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ४९॥ तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोऽपि वा । अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ॥ ५०॥ सुरा भवन्तु गन्धर्वा यक्षा वान्ये च केचन । तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१॥ दधीचिकृतमुल्लङ्घ्य शपथं मयि तत्र ये । तिष्ठन्ति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ॥ ५२॥ प्रमथाश्चागमिष्यन्ति यदि विष्ण्वादयो भ्रमात् । नानाकर्षणमन्त्रेण ज्वालयानीय सत्वरम् ॥ ५३॥ ये तत्रोल्लङ्घ्य शपथं मदीयं गर्विताः स्थिताः । ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ॥ ५४॥ सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् । प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ॥ ५५॥ तत्र त्वयि गते देवा विश्वाद्या अपि सादरम् । स्तोष्यन्ति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ॥ ५६॥ देवानपि कृतद्रोहान् ज्वालामालासमाकुलैः । ज्वालय ज्वलनैः शीघ्रं माध्यायाध्यायपालकम् ॥ ५७॥ दक्षादीन्सकलांस्तत्र सपत्नीकान्सबान्धवान् । प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ॥ ५८॥ ब्रह्मोवाच । इत्युक्त्वा रोषताम्राक्षो वेदमर्यादपालकः । विरराम महावीरं कालारिः सकलेश्वरः ॥ ५९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ २.२.३२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३३. त्रयस्त्रिंशोऽध्यायः । वीरभद्रयात्रा ।

ब्रह्मोवाच । इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात् । वीरभद्रोऽतिसन्तुष्टः प्रणनाम महेश्वरम् ॥ १॥ शासनं शिरसा धृत्वा देवदेवस्य शूलिनः । प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति । २॥ शिवोऽथ प्रेषयामास शोभार्थं कोटिशो गणान् । तेन सार्धं महावीरान्प्रलयानलसन्निभान् ॥ ३॥ अथ ते वीरभद्रस्य पुरतः प्रबला गणाः । पश्चादपि ययुर्वीराः कुतूहलकरा गणाः ॥ ४॥ वीरभद्रसमेता ये गणाः शतसहस्रशः । पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५॥ गणैः समेतः किल तैर्महात्मा स वीरभद्रो हरवेषभूषणः । सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोऽतिभीकरः ॥ ६॥ नल्वानं च सहस्रे द्वे प्रमाणं स्यन्दनस्य हि । अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७॥ तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः । शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८॥ वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् । कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९॥ तुष्टुवुश्च गणा वीरं शिपिविष्टे प्रचेष्टितम् । चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवे ॥ १०॥ काली कात्यायनीशानी चामुण्डा मुण्डमर्दिनी । भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११॥ एताभिर्नवदुर्गाभिर्महाकाली समन्विता । ययौ दक्षविनाशाय सर्वभूतगणैः सह । १२॥ डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः । कूष्माण्डाः पर्पटाश्चैव चटका ब्रह्मराक्षसाः ॥ १३॥ भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः । निर्ययुस्त्वरितं वीराः शिवाज्ञाप्रतिपालकाः ॥ १४॥ तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् । निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५॥ तेषां गणानां सर्वेषां सङ्ख्यानं श‍ृणु नारद । महाबलवतां सङ्घो मुख्यानां धैर्यशालिनाम् ॥ १६॥ अभ्ययाच्छङ्कुकर्णश्च दशकोट्या गणेश्वरः । दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १७॥ चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः । षड्भिः सर्वाङ्कको वीरस्तथैव विकृताननः ॥ १८॥ ज्वालकेशो द्वादशभिः कोटिभिर्गणपुङ्गवः । सप्तभिः समदज्जीमान् दुद्रभोऽष्टाभिरेव च ॥ १९॥ पञ्चभिश्च कपालीशः षड्भिः सन्दारको गणः । कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ २०॥ विष्टम्भोऽष्टाष्टभिर्वीरैः कोटिभिर्गणसत्तमः । सहस्रकोटिभिस्तात सन्नादः पिप्पलस्तथा ॥ २१॥ आवेशनस्तथाष्टाभिरष्टाभिश्चन्द्रतापनः । महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२॥ कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने । विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तमः ॥ २३॥ कालश्च कालकश्चैव महाकालस्तथैव च । कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४॥ अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च । आदित्यमूर्धा कोट्या च तथा चैव घनावहः ॥ २५॥ सन्नाहः शतकोट्या च कोट्या च कुमुदो गणः । अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६॥ काष्ठागूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा । सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७॥ काकपादोदरः षष्टिकोटिभिर्गणसत्तमः । तथा सन्तानकः षष्टिकोटिभिर्गणपुङ्गवः ॥ २८॥ महाबलश्च नवभिः कोटिभिः पुङ्गवस्तथा । २९॥ मधुपिङ्गस्तथा तात गणाधीशो हि निर्ययौ । नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ ३०॥ निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ॥ ३१॥ विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः । तालकेतुः षडास्यश्च पञ्चास्यश्च गणाधिपः ॥ ३२॥ संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः । लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३॥ गणो भृङ्गीरिटिः श्रीमान् देवदेवप्रियस्तथा । अशनिर्भालकश्चैव चतुःषष्ट्या सहस्रकः ॥ ३४॥ कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः । वीरेशो ह्यभ्ययाद्वीरः वीरभद्रः शिवाज्ञया ॥ ३५॥ भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः । रोमजैः श्वगणैश्चैव तथा वीरो ययौ द्रुतम् ॥ ३६॥ तदा भेरीमहानादः शङ्खाश्च विविधस्वनाः । जटाहरो मुखाश्चैव श‍ृङ्गाणि विविधानि च ॥ ३७॥ ते तानि विततान्येव बन्धनानि सुखानि च । वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८॥ वीरभद्रस्य यात्रायां सबलस्य महामुने । शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ २.२.३३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३४. चतुस्त्रिंशोऽध्यायः । यज्ञवाटे देवानां दुःशकुनदर्शनम् ।

ब्रह्मोवाच । एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते । दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १॥ उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते । त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २॥ दक्षवामाक्षिबाहूरुविस्पन्दः समजायत । नानाकष्टप्रदस्तात सर्वथाशुभसूचकः ॥ ३॥ भूकम्पः समभूत्तत्र दक्षयागस्थले तदा । दक्षोऽपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ॥ ४॥ दिशश्चासन्सुमलिनाः कर्बुरोऽभूद्दिवाकरः । परिवेषसहस्रेण सङ्क्रान्तश्च भयङ्करः ॥ ५॥ नक्षत्राणि पतन्ति स्म विद्युदग्निप्रभाणि च । नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६॥ गृध्रा दक्षशिरः स्पृष्ट्वा समुद्भूताः सहस्रशः । आसीद् गृध्रपक्षच्छायैः सच्छायो यागमण्डपः ॥ ७॥ ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा । उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसम्भवा ॥ ८॥ खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः । शलभाश्च समुद्भूता विवर्तानिलकम्पिताः ॥ ९॥ नीतश्च पवनैरूर्ध्वं स दक्षाध्वरमण्डपः । दैवान्वितेन दक्षेण यः कृतो नूतनोऽद्भुतः ॥ १०॥ वेमुर्दक्षादयः सर्वे तदा शोणितमद्भुतम् । वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११॥ सकम्पाश्च बभूवुस्ते दीपा वातहता इव । दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२॥ तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे । प्रातस्तुषारवर्षीणि पद्मानीव वनान्तरे ॥ १३॥ दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि । निशायां कमलाश्चैव कुमुदानीव सङ्गवे ॥ १४॥ असृग्ववर्ष देवश्च तिमिरेणावृता दिशः । दिग्दाहोऽभूद्विशेषेण त्रासयन् सकलाञ्जनान् ॥ १५॥ एवंविधान्यरिष्टानि ददृशुर्विबुधादयः । भयमापेदिरेऽत्यन्तं मुने विष्ण्वादिकास्तदा ॥ १६॥ भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् । तरवस्तीरसञ्जाता नदीवेगहता इव ॥ १७॥ पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव । कन्दुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८॥ ततस्ते तापसन्तप्ता रुरुदुः कुररी इव । रोदनध्वनिसङ्क्रातोरुक्तिप्रत्युक्तिका इव ॥ १९॥ सवैकुण्ठास्ततः सर्वे तदा कुण्ठितशक्तयः । स्वस्वोपकण्ठमाकण्ठं लुलुठुः कमठा इव ॥ २०॥ एतस्मिन्नन्तरे तत्र सञ्जाता चाशरीरवाक् । श्रावयत्यखिलान् देवान् दक्षं चैव विशेषतः ॥ २१॥ आकाशवाण्युवाच । धिक् जन्म तव दक्षाद्य महामूढोऽसि पापधीःस् ॥ भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् । २२॥ सहायिनोऽत्र ये मूढास्तव देवादयः स्थिताः । तेषामपि महद्दुःखं भविष्यति न संशयः ॥ २३॥ ब्रह्मोवाच । तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च । दक्षः प्रापद्भयं चाति परे देवादयोऽपि ह ॥ २४॥ वेपमानस्तदा दक्षो विकलश्चाति चेतसि । अगच्छच्छरणं विष्णोः स्वप्रभोरिन्दिरापतेः ॥ २५॥ सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः । अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ॥ २६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दुःशकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ २.२.३४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३५. पञ्चत्रिंशोऽध्यायः । विष्णुवचनम् ।

दक्ष उवाच । देवदेव हरे विष्णो दीनबन्धो कृपानिधे । मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १॥ रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः । कृपा विधेया यज्ञस्य भङ्गो भवतु न प्रभो ॥ २॥ ब्रह्मोवाच । इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् । पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३॥ उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् । श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४॥ स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् । अवदच्छिवतत्त्वज्ञो दक्षं सम्बोधयन्हरिः ॥ ५॥ हरिरुवाच । श‍ृणु दक्ष प्रवक्ष्यामि तत्त्वतः श‍ृणु मे वचः । सर्वथा ते हितकरं महामन्त्रसुखप्रदम् ॥ ६॥ अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता । सकलाधीश्वरस्यैव शङ्करस्य परात्मनः ॥ ७॥ ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा । विफलं केवलं नैव विपत्तिश्च पदे पदे ॥ ८॥ अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते । त्रीणि तत्र भविष्यन्ति दारिद्र्यं मरणं भयम् ॥ ९॥ तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः । अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ १०॥ अद्यापि न वयं सर्वे प्रभवः प्रभवामहे । भवतो दुर्नयेनैव मया सत्यमुदीर्यते ॥ ११॥ ब्रह्मोवाच । विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिन्तापरोऽभवत् । विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२॥ एतस्मिन्नन्तरे वीरभद्रः सैन्यसमन्वितः । अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३॥ पृष्ठे केचित्समायाता गगने केचिदागताः । दिशश्च विदिशः सर्वे समावृत्य तथापरे ॥ १४॥ शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः । असङ्ख्याः सिंहनादान्वै कुर्वन्तो वीरसत्तमाः ॥ १५॥ तेन नादेन महता नादितं भुवनत्रयम् । रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६॥ सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला । सशैलकानना तत्र चुक्षुभुः सकलाब्धयः ॥ १७॥ एवम्भूतं च तत्सैन्यं लोकक्षयकरं महत् । दृष्ट्वा च विस्मिताः सर्वे बभूवुरमरादयः ॥ १८॥ सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः । दण्डवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत ॥ १९॥ दक्ष उवाच । भवद्बलेनैव मया यज्ञः प्रारम्भितो महान् । सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ २०॥ विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः । धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१॥ तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो । त्वदन्यः कः समर्थोऽस्ति यतस्त्वं सकलप्रभुः ॥ २२॥ ब्रह्मोवाच । दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा । अवोचद् बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३॥ विष्णुरुवाच । मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै । ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४॥ तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः । श‍ृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाधुना ॥ २५॥ नैमिषेऽनिमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् । तत् किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६॥ रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव । न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः ॥ २७॥ किं कर्म किमकर्मेति तन्न पश्यसि दुर्मते । समर्थं केवलं कर्म न भविष्यति सर्वदा ॥ २८॥ स्वकर्म विद्धि तद्येन समर्थत्वेन जायते । न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ॥ २९॥ ईश्वरस्य च यो भक्त्या शान्तस्तद्गतमानसः । कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥ ३०॥ केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः । निरयं ते च गच्छन्ति कल्पकोटिशतानि च ॥ ३१॥ पुनः कर्ममयैः पाशैर्बद्धा जन्मनि जन्मनि । निरयेषु प्रपच्यन्ते केवलं कर्मरूपिणः ॥ ३२॥ अयं रुद्रगणाधीशो वीरभद्रोऽरिमर्दनः । रुद्रकोपाग्निसम्भूतः समायातोऽध्वराङ्गणे ॥ ३३॥ अयमस्मद्विनाशार्थमागतोऽस्ति न संशयः । अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥ ३४॥ प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः । ततः प्रशान्तहृदयो भविष्यति न संशयः ॥ ३५॥ श्रीमहादेवशपथं समुल्लङ्घ्य भ्रमान्मया । यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥ ३६॥ शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे । शपथोल्लङ्घनादेव शिवद्रोही यतोऽस्म्यहम् ॥ ३७॥ कालत्रयेऽपि न यतो महेशद्रोहिणां सुखम् । ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥ ३८॥ सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति । शैवचक्रमिदं यस्मादशैवलयकारणम् ॥ ३९॥ विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् । हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥ ४०॥ शैवं शपथमुल्लङ्घ्य स्थितं मां चक्रमीदृशम् । असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥ ४१॥ अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम् । गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ॥ ४२॥ वीरभद्रः पूजितोऽपि शीघ्रमस्माभिरादरात् । महाक्रोधसमाक्रान्तो नास्मान् संरक्षयिष्यति ॥ ४३॥ अकाण्डप्रलयोऽस्माकमागतोऽद्य हि हा हहा । हा हा बत तवेदानीं नाशोऽस्माकमुपस्थितः ॥ ४४॥ शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये । शङ्करद्रोहिणो लोके कः शरण्यो भविष्यति ॥ ४५॥ तनुनाशेऽपि सम्प्राप्यास्तैश्चापि यमयातनाः । ता नैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥ ४६॥ शिवद्रोहिणमालोक्य दष्टदन्तो यमः स्वयम् । तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥ ४७॥ गन्तुमेवाहमुद्युक्तंः सर्वथा शपथोत्तरम् । तथापि न गतः शीघ्रं दुष्टसंसर्गपापतः ॥ ४८॥ यदद्य क्रियतेऽस्माभिः पलायनमितस्तदा । शार्वो नाकर्षकः शस्त्रैरस्मानाकर्षयिष्यति ॥ ४९॥ स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः । श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्लभम् ॥ ५०॥ यावन्तश्च गणाः सन्ति श्रीरुद्रस्य त्रिशूलिनः । तावतामपि सर्वेषां शक्तिरेतादृशी ध्रुवम् ॥ ५१॥ श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया । पुरा शिरश्च चिच्छेद पञ्चमं ब्रह्मणो ध्रुवम् ॥ ५२॥ एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः । वीरभद्रोऽपि सम्प्राप तदैवाध्वरमण्डपम् ॥ ५३॥ एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् । वीरभद्रेण सहितं ददृशुश्च सुरादयः ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ २.२.३५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३६. षट्त्रिंशोऽध्यायः । विष्णुवीरभद्रसंवादः ।

ब्रह्मोवाच । इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा । वज्रपाणिः सुरैः सार्धं योद्धुकामोऽभवत्तदा ॥ १॥ तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा । यमो महिषमारूढो निरृतिः प्रेतमेव च ॥ २॥ पाशी च मकरारूढो मृगारूढः सदागतिः । कुबेरः पुष्पकारूढः सन्नद्धोऽभूदतन्द्रितः ॥ ३॥ तथान्ये सुरसङ्घाश्च यक्षचारणगुह्यकाः । आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥ ४॥ तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा । तदन्तिकं समागत्य सकलत्रोऽभ्यभाषत ॥ ५॥ दक्ष उवाच । युष्मद्बलेनैव मया यज्ञः प्रारम्भितो महान् । सत्कर्मसिद्धये यूयं प्रमाणाः स्युर्महाप्रभाः ॥ ६॥ ब्रह्मोवाच । तच्छ्रुत्वा दक्षवचनं सर्वे देवाः सवासवाः । निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः ॥ ७॥ अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः । शक्रादयो लोकपाला मोहिताः शिवमायया ॥ ८॥ देवानां च गणानां च तदासीत्समरो महान् । तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ॥ ९॥ नेदुः शङ्खाश्च भेर्यश्च तस्मिन् रणमहोत्सवे । महादुन्दुभयो नेदुः पटहा डिण्डिमादयः ॥ १०॥ तेन शब्देन महता श्लाघ्यमानास्तदा सुराः । लोकपालैश्च सहिता जघ्नुस्तान् शिवकिङ्करान् ॥ ११॥ इन्द्राद्यैर्लोकपालैश्च गणाः शम्भोः पराङ्मुखाः । कृताश्च मुनिशार्दूल भृगोर्मन्त्रबलेन च ॥ १२॥ उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा । यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १३॥ पराजितान् स्वकान् दृष्ट्वा वीरभद्रो रुषान्वितः । भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥ १४॥ वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः । महात्रिशूलमादाय पातयामास निर्जरान् ॥ १५॥ देवान् यक्षान् साध्यगणान् गुह्यकान् चारणानपि । शूलघातैश्च ते सर्वे गणा वेगात् प्रजघ्निरे ॥ १६॥ केचिद् द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः । अन्यैः शस्त्रैरपि सुरा गणैर्भिन्नास्तदाभवन् ॥ १७॥ एवं पराजिताः सर्वे पलायनपरायणाः । परस्परं परित्यज्य गता देवास्त्रिविष्टपम् ॥ १८॥ केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः । सङ्ग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥ १९॥ सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे । बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥ २०॥ लोकपाला ऊचुः । गुरो बृहस्पते तात महाप्राज्ञ दयानिधे । शीघ्रं वद पृच्छतो नः कुतोऽस्माकं जयो भवेत् ॥ २१॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां स्मृत्वा शम्भुं प्रयत्नवान् । बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥ २२॥ बृहस्पतिरुवाच । यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै । तदेव विवृणोमीन्द्र सावधानतया श‍ृणु ॥ २३॥ अस्ति यश्चेश्वरः कश्चित् फलदः सर्वकर्मणाम् । कर्तारं भजते सोऽपि न स्वकर्तुः प्रभुर्हि सः ॥ २४॥ न मन्त्रौषधयः सर्वे नाभिचारा न लौकिकाः । न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २५॥ अन्यान्यपि च शास्त्राणि नानावेदयुतानि च । ज्ञातुं नेशं सम्भवन्ति वदन्त्येवं पुरातनाः ॥ २६॥ न स्वज्ञेयो महेशानः सर्ववेदायुतेन सः । भक्तैरनन्यशरणैर्नान्यथेति महाश्रुतिः ॥ २७॥ शान्त्या च परया दृष्ट्या सर्वथा निर्विकारया । तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ॥ २८॥ परं तु संवदिष्यामि कार्याकार्य विवक्षितौ । सिद्धयंशं च सुरेशान तं श‍ृणु त्वं हिताय वै ॥ २९॥ त्वमिन्द्र बालिशो भूत्वा लोकपालैः सहाद्य वै । आगतो दक्षयज्ञं हि किं करिष्यसि विक्रमम् ॥ ३०॥ एते रुद्रसहायाश्च गणाः परमकोपनाः । आगता यज्ञविघ्नार्थं तं करिष्यन्त्यसंशयम् ॥ ३१॥ सर्वथा न ह्युपायोऽत्र केषाञ्चिदपि तत्त्वतः । यज्ञविघ्नविनाशार्थं सत्यं सत्यं ब्रवीम्यहम् ॥ ३२॥ ब्रह्मोवाच । एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः । चिन्तामापेदिरे सर्वे लोकपालाः सवासवाः ॥ ३३॥ ततोऽब्रवीद् वीरभद्रो महावीरगणैर्वृतः । इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शङ्करम् ॥ ३४॥ वीरभद्र उवाच । सर्वे यूयं बालिशत्वादवदानार्थमागताः । अवदानं प्रयच्छामि आगच्छत ममान्तिकम् ॥ ३५॥ हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप । हे पाशपाणे हे वायो निरृते यम शेष हे ॥ ३६॥ हे सुरासुरसङ्घा हीहैत यूयं विचक्षणाः । अवदानानि दास्यामि आतृप्त्याद्यासतां वरान् ॥ ३७॥ ब्रह्मोवाच । एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः । निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः । तैर्बाणैर्निहताःसर्वे वासवाद्याः सुरेश्वराः ॥ ३८॥ पलायनपरा भूत्वा जग्मुस्ते च दिशो दश । गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥ यज्ञवाटोपकण्ठे हि वीरभद्रोऽगमद् गणैः । ३९॥ तदा ते ऋषयः सर्वे सुभीता हि रमेश्वरम् । विज्ञप्तुकामाः सहसा शीघ्रमूचुर्नता भृशम् ॥ ४०॥ ऋषय ऊचुः । देवदेव रमानाथ सर्वेश्वर महाप्रभो । रक्ष यज्ञं हि दक्षस्य यज्ञोऽसि त्वं न संशयः ॥ ४१॥ यज्ञकर्मा यज्ञरूपो यज्ञाङ्गो यज्ञरक्षकः । रक्ष यज्ञमतो रक्ष त्वत्तोऽन्यो न हि रक्षकः ॥ ४२॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः । योद्धुकामोऽभवद्विष्णुर्वीरभद्रेण तेन वै ॥ ४३॥ चतुर्भुजः सुसन्नद्धो चक्रायुधधरः करैः । महाबलोऽमरगणैर्यज्ञवाटात्स निर्ययौ ॥ ४४॥ वीरभद्रः शूलपाणिर्नानागणसमन्वितः । ददर्श विष्णुं सन्नद्धं योद्धुकामं महाप्रभुम् ॥ ४५॥ तं दृष्ट्वा वीरभद्रोऽभूद् भ्रुकुटीकुटिलाननः । कृतान्त इव पापिष्ठं मृगेन्द्र इव वारणम् ॥ ४६॥ तथाविधं हरिं दृष्ट्वा वीरभद्रोऽरिमर्दनः । अवदत्त्वरितः क्रुद्धो गणैर्वीरैः समावृतः ॥ ४७॥ वीरभद्र उवाच । रे रे हरे महादेवशपथोल्लङ्घनं त्वया । कथमद्य कृतं चित्ते गर्वः किमभवत्तव ॥ ४८॥ तव श्रीरुद्रशपथोल्लङ्घने शक्तिरस्ति किम् । को वा त्वमसि को वा ते रक्षऽकोऽस्ति जगत्त्रये ॥ ४९॥ अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे । दक्षस्य यज्ञपाता त्वं कथं जातोऽसि तद्वद ॥ ५०॥ दाक्षायण्या कृतं यच्च तन्न दृष्टं किमु त्वया । प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया चापि दक्षयज्ञेऽस्मिन् अवदानार्थमागतः । अवदानं प्रयच्छामि तव चापि महाभुज ॥ ५२॥ वक्षो विदारयिष्यामि त्रिशूलेन हरे तव । कस्तवास्ति समायातो रक्षकोऽद्य ममान्तिकम् ॥ ५३॥ पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना । दग्धं भवन्तमधुना पेषयिष्यामि सत्वरम् ॥ ५४॥ रे रे हरे दुराचार महेशविमुखाधम । श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ॥ ५५॥ अथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्थितः । नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥ ५६॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् । उवाच विहसन् प्रीत्या विष्णुस्तत्र सुरेश्वरः ॥ ५७॥ विष्णुरुवाच । श‍ृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः । न रुद्रविमुखं मां त्वं वद शङ्करसेवकम् ॥ ५८॥ अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः । दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ॥ ५९॥ अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः । दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ॥ ६०॥ श‍ृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव । रुद्रतेजःस्वरूपो हि सुप्रतापालय प्रभो ॥ ६१॥ अहं निवारयामि त्वां त्वं च मां विनिवारय । तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ॥ ६२॥ ब्रह्मोवाच । इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः । अवदत्सुप्रसन्नोऽस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ॥ ६३॥ ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः । प्रश्रयावनतोऽवादीद्विष्णुं देवं हि तत्त्वतः ॥ ६४॥ वीरभद्र उवाच । तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो । इदानीं तत्त्वतो वच्मि श‍ृणु त्वं सावधानतः ॥ ६५॥ यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः । इति वेदा वर्णयन्ति शिवशासनतो हरे ॥ ६६॥ शिवाज्ञया वयं सर्वे सेवकाः शङ्करस्य वै । तथापि च रमानाथ प्रवादोचितमादरात् ॥ ६७॥ ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः । प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ॥ ६८॥ विष्णुरुवाच । युद्धं कुरु महावीर मया सार्धमशङ्कितः । तवास्त्रैः पूर्यमाणोऽहं गमिष्यामि स्वमाश्रमम् ॥ ६९॥ ब्रह्मोवाच । इत्युक्त्वा हि विरम्यासौ सन्नद्धोऽभूद् रणाय च । स्वगणैर्वीरभद्रोऽपि सन्नद्धोऽभून्महाबलः ॥ ७०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुवीरभद्रसंवादो नाम षट्त्रिंशोऽध्यायः ॥ २.२.३६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३७. सप्तत्रिंशोऽध्यायः । दक्षयज्ञविध्वंसः ।

ब्रह्मोवाच । वीरभद्रोऽथ युद्धे वै विष्णुना स महाबलः । संस्मृत्य शङ्करं चित्ते सर्वापद्विनिवारणम् ॥ १॥ आरुह्य स्यन्दनं दिव्यं सर्ववैरिविमर्दनः । गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २॥ विष्णुश्चापि महाघोषं पाञ्चजन्याभिधं निजम् । दध्मौ बली महाशङ्खं स्वकीयान् हर्षयन्निव ॥ ३॥ तच्छ्रुत्वा शङ्खनिर्ह्रादं देवा ये च पलायिताः । रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥ ४॥ वीरभद्रगणैस्ते तु लोकपालाः सवासवाः । युद्धं चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५॥ गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् । अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६॥ नन्दिना युयुधे शक्रोऽनलो वै चाश्मना तथा । कुबेरोऽपि हि कूष्माण्डपतिना युयुधे बली ॥ ७॥ तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८॥ नन्दिना च हतः शक्रस्त्रिशूलेन स्तनान्तरे ॥ ९॥ बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् । नानाघातांश्च कुर्वन्तौ नन्दिशक्रौ जिगीषया ॥ १०॥ शक्त्या जघान चाश्मानं शुचिः परमकोपनः । सोऽपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११॥ यमेन सह सङ्ग्रामं महालोको गणाग्रणीः । चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२॥ नैरृतेन समागम्य चण्डश्च बलवत्तरः । युयुधे परमास्त्रैश्च नैरृतिं निविडम्बयन् ॥ १३॥ वरुणेन समं वीरो मुण्डश्चैव महाबलः । युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४॥ वायुना च हतो भृङ्गी स्वास्त्रेण परमौजसा । भृङ्गिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५॥ कुबेरेणैव सङ्गम्य कूष्माण्डपतिरादरात् । युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६॥ योगिनीचक्रसंयुक्तो भैरवीनायको महान् । विदार्य देवानखिलान् पपौ शोणितमद्भुतम् ॥ १७॥ क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुङ्गवान् । काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८॥ अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा । चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९॥ क्षेत्रपालः समायान्तं चक्रमालोक्य वेगतः । तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ २०॥ चक्रं ग्रसितमालोक्य विष्णुः परपुरञ्जयः । मुखं तस्य परामृज्य तमुद्गालितवानरिम् ॥ २१॥ स्वचक्रमादाय महानुभावः चुकोप चातीव भवैकभर्ता । महाबली तैर्युयुधे प्रवीरैः सङ्क्रुद्धनानायुधधारकोऽस्त्रैः ॥ २२॥ चक्रे महारणं विष्णुः तैः सार्धं युयुधे मुदा । नानायुधानि सङ्क्षिप्य तुमुलं भीमविक्रमम् ॥ २३॥ अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः । नानास्त्राणि विमुञ्चन्तः सङ्कुद्धाः परमौजसा ॥ २४॥ इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा । विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५॥ अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः । युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६॥ तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् । महावीराब्धिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७॥ विष्णोर्योगबलात्तस्य देहादेव सुदारुणाः । शङ्खचक्रगदाहस्ता असङ्ख्याताश्च जज्ञिरे ॥ २८॥ ते चापि युयुधुस्तेन वीरभद्रेण भाषता । विष्णुवत् बलवन्तो हि नानायुधधरा गणाः ॥ २९॥ तान्सर्वानपि वीरोऽसौ नारायणसमप्रभान् । भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ ३०॥ ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे । जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१॥ तेन घातेन सहसा विहतः पुरुषोत्तमः । पपात च तदा भूमौ विसंज्ञोऽभून्मुने हरिः ॥ ३२॥ ततो जज्ञेऽद्भुतं तेजः प्रलयानलसन्निभम् । त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३॥ क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः । प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४॥ तस्य चक्रं महारौद्रं कालादित्यसमप्रभम् । व्यष्टम्भयददीनात्मा वीरभद्रः शिवः प्रभुः ॥ ३५॥ मुने शम्भोः प्रभावात्तु मायेशस्य महाप्रभोः । न चचाल हरेश्चक्रं करस्थं स्तम्भितं ध्रुवम् ॥ ३६॥ अथ विष्णुर्गणेशेन वीरभद्रेण भाषता । अतिष्ठत् स्तम्भितस्तेन श‍ृङ्गवानिव निश्चलः ॥ ३७॥ ततो विष्णुः स्तम्भितो हि वीरभद्रेण नारद । यज्वोपमन्त्रणमनुं निःस्तम्भनकरं जपन् ॥ ३८॥ ततः स्तम्भननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः । शार्ङ्गं जग्राह स क्रुद्धः स्वधनुः सशरं मुने ॥ ३९॥ त्रिभिश्च धर्षितं बाणैस्तेन शार्ङ्गधनुर्हरेः । वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ ४०॥ अथ विष्णुर्महावाण्या बोधितस्तं महागणम् । असह्यवर्चसं ज्ञात्वा ह्यन्तर्धातुं मनो दधे ॥ ४१॥ ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् । गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतन्त्रम् ॥ ४२॥ सत्यलोकगतश्चाहं पुत्रशोकेन पीडितः । अचिन्तयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३॥ विष्णौ मयि गते चैव देवाश्च मुनिभिः सह । विनिर्जिता गणैः सर्वे ये ते यज्ञोपजीविनः ॥ ४४॥ तमुपद्रवमालक्ष्य विध्वस्तं च महामखम् । मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे ॥ ४५॥ तं तदा मृगरूपेण धावन्तं गगनं प्रति । वीरभद्रः समादाय विशिरस्कमथाकरोत् ॥ ४६॥ ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः । अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम् ॥ ४७॥ मुनिमङ्गिरसं चैव कृशाश्वं च महागणः । जघान मूर्ध्नि पादेन दत्तं च मुनिपुङ्गवम् ॥ ४८॥ सरस्वत्याश्च नासाग्रं देवमातुस्तथैव च । चिच्छेद करजाग्रेण वीरभद्रः प्रतापवान् ॥ ४९॥ ततोऽन्यानपि देवादीन् विदार्य पृथिवीतले । पातयामास सोऽयं वै क्रोधाक्रान्तातिलोचनः ॥ ५०॥ वीरभद्रो विदार्यापि देवान्मुख्यान्मुनीनपि । नाभूच्छान्तो द्रुतक्रोधः फणिराडिव मण्डितः ॥ ५१॥ वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् । दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२॥ व्यपोथयद् भृगुं यावन्मणिभद्रः प्रतापवान् । पदाक्रम्योरसि तदाकार्षीत्तच्छ्मश्रुलुञ्चनम् ॥ ५३॥ चण्डश्चोत्पाटयामास पूष्णो दन्तान् प्रवेगतः । शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४॥ नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि । उज्जहार दक्षमक्ष्णा यः शपन्तमसूसुचत् ॥ ५५॥ विडम्बिता स्वधा तत्र सा स्वाहा दक्षिणा तथा । मन्त्रास्तन्त्रास्तथा चान्ये तत्रस्था गणनायकैः ॥ ५६॥ ववृषुस्ते पुरीषाणि वितानाग्नौ रुषा गणाः । अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७॥ अन्तर्वेद्यन्तरगतं निलीनं तद्भयाद् बलात् । आनिनाय समाज्ञाय वीरभद्रः स्वभूःसुतम् ॥ ५८॥ कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः । अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९॥ अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः । करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥ ६०॥ तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः । अग्निकुण्डे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१॥ रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे । क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः ॥ ६२॥ अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना । ज्वालयामास सक्रोधो दीप्ताग्निः शलभानिव ॥ ६३॥ वीरभद्रस्ततो दग्धान् दृष्ट्वा दक्षपुरोगमान् । अट्टाट्टहासमकरोत् पूरयंश्च जगत्त्रयम् ॥ ६४॥ वीरश्रिया वृतस्तत्र ततो नन्दनसम्भवा । पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५॥ ववुर्गन्धवहाः शीताः सुगन्धाः सुखदाः शनैः । देवदुन्दुभयो नेदुः सममेव ततः परम् ॥ ६६॥ कैलासं स ययौ वीरः कृतकार्यस्ततः परम् । विनाशितदृढध्वान्तो भानुमानिव सत्वरम् ॥ ६७॥ कृतकार्यं वीरभद्रं दृष्ट्वा सन्तुष्टमानसः । शम्भुर्वीरगणाध्यक्षं चकार परमेश्वरः ॥ ६८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे यज्ञविध्वंसवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ २.२.३७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३८. अष्टत्रिंशोऽध्यायः । क्षुवदधीचविवादः ।

सूत उवाच । इत्याकर्ण्य वचस्तस्य विधेरमितधीमतः । पप्रच्छ नारदः प्रीत्या विस्मितस्तं द्विजोत्तमः ॥ १॥ नारद उवाच । शिवं विहाय दक्षस्य सुरैर्यज्ञं हरिर्गतः । हेतुना केन तद् ब्रूहि यत्रावज्ञाभवत्ततः ॥ २॥ जानाति किं स शम्भुं नो हरिः प्रलयविक्रमम् । रणं कथं च कृतवान् तद्गणैरबुधो यथा ॥ ३॥ एष मे संशयो भूयांस्तं छिन्धि करुणानिधे । चरितं ब्रूहि शम्भोस्तु चित्तोत्साहकरं प्रभो ॥ ४॥ ब्रह्मोवाच । द्विजवर्य श‍ृणु प्रीत्या चरितं शशिमौलिनः । यत्पृच्छते कुर्वतश्च सर्वसंशयहारकम् ॥ ५॥ दधीचस्य मुनेः शापाद् भ्रष्टज्ञानो हरिः पुरा । सामरो दक्षयज्ञं वै गतः क्षुवसहायकृत् ॥ ६॥ नारद उवाच । किमर्थं शप्तवान्विष्णुं दधीचो मुनिसत्तमः । कोऽपकारः कृतस्तस्य हरिणा तत्सहायिना ॥ ७॥ ब्रह्मोवाच । समुत्पन्नो महातेजा राजा क्षुव इति स्मृतः । अभून्मित्रं दधीचस्य मुनीन्द्रस्य महाप्रभोः ॥ ८॥ चिरात्तपःप्रसङ्गाद्वै वादः क्षुवदधीचयोः । महानर्थकरः ख्यातस्त्रिलोकेष्वभवत्पुरा ॥ ९॥ तत्र त्रिवर्णतः श्रेष्ठो विप्र एव न संशयः । इति प्राह दधीचो हि शिवभक्तस्तु वेदवित् ॥ १०॥ तच्छ्रुत्वा वचनं तस्य दधीचस्य महामुने । क्षुवः प्राहेति नृपतिः श्रीमदेन विमोहितः ॥ ११॥ क्षुव उवाच । अष्टानां लोकपालानां वपुर्धारयते नृपः । तस्मान्नृपो वरिष्ठो हि वर्णाश्रमपतिः प्रभुः ॥ १२॥ सर्वदेवमयो राजा श्रुतिः प्राहेति तत्परा । महती देवता या सा सोऽहमेव ततो मुने ॥ १३॥ तस्माद्विप्राद्वरो राजा च्यावनेय विचार्यताम् । नावमन्तव्य एवातः पूज्योऽहं सर्वथा त्वया ॥ १४॥ ब्रह्मोवाच । श्रुत्वा तथा मतं तस्य क्षुवस्य मुनिसत्तमः । श्रुतिस्मृतिविरुद्धं तं चुकोपातीव भार्गवः ॥ १५॥ अथ क्रुद्धो महातेजा गौरवाच्चात्मनो मुने । अताडयत्क्षुवं मूर्ध्नि दधीचो वाममुष्टितः ॥ १६॥ वज्रेण तं च चिच्छेद दधीचं ताडितः क्षुवः । जगर्जातीव सङ्क्रुद्धो ब्रह्माण्डाधिपतिः कुधीः ॥ १७॥ पपात भूमौ निहतो तेन वज्रेण भार्गवः । शुक्रं सस्मार क्षुवकृद्भार्गवस्य कुलन्धरः ॥ १८॥ शुक्रोऽथ सन्धयामास ताडितं च क्षुवेन तु । योगी दधीचस्य तदा देहमागत्य स द्रुतम् ॥ १९॥ सन्धाय पूर्ववद्देहं दधीचस्याह भार्गवः । शिवभक्ताग्रणीर्मृत्यञ्जयविद्याप्रवर्तकः ॥ २०॥ शुक्र उवाच । दधीच तात सम्पूज्य शिवं सर्वेश्वरं प्रभुम् । महामृत्युञ्जयं मन्त्रं श्रौतमग्र्यं वदामि ते ॥ २१॥ त्र्यम्बकं यजामहे त्रैलोक्यं पितरं प्रभुम् । त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम् ॥ २२॥ त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः । त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः ॥ २३॥ त्रिदेवस्य महादेवः सुगन्धिं पुष्टिवर्द्धनम् । सर्वभूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा ॥ २४॥ इन्द्रियेषु तथान्येषु देवेषु च गणेषु च । पुष्पे सुगन्धिवत्सूरः सुगन्धिरमरेश्वरः ॥ २५॥ पुष्टिश्च प्रकृतेर्यस्मात्पुरुषाद् वै द्विजोत्तम । महदादिविशेषान्तविकल्पश्चापि सुव्रत ॥ २६॥ विष्णोः पितामहस्यापि मुनीनां च महामुने । इन्द्रियाणां च देवानां तस्माद् वै पुष्टिवर्धनः ॥ २७॥ तं देवममृतं रुद्रं कर्मणा तपसापि वा । स्वाध्यायेन च योगेन ध्यानेन च प्रजायते ॥ २८॥ सत्येनान्येन सूक्ष्माग्रान्मृत्युपाशाद्भवः स्वयम् । बन्धमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥ २९॥ मृतसञ्जीवनीमन्त्रो मम सर्वोत्तमः स्मृतः । एवं जपपरः प्रीत्या नियमेन शिवं स्मरन् ॥ ३०॥ जप्त्वा हुत्वाभिमन्त्र्यैवं जलं पिब दिवानिशम् । शिवस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं क्वचित् ॥ ३१॥ कृत्वा न्यासादिकं सर्वं सम्पूज्य विधिवच्छिवम् । संविधायेदं निर्व्यग्रः शङ्करं भक्तवत्सलम् ॥ ३२॥ ध्यानमस्य प्रवक्ष्यामि यथा ध्यात्वा जपेन्मनुम् । सिद्धमन्त्रो भवेद्धीमान् यावच्छम्भुप्रभावतः ॥ ३३॥ हस्ताम्भोजयुगस्थकुम्भयुगलादुद्धृत्य तोयं शिरः सिञ्चन्तं करयोर्युगेन दधतं स्वाङ्के सकुम्भौ करौ । अक्षस्रङ्मृगहस्तमम्बुजगतं मूर्धस्थचन्द्रस्रवत्- पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥ ३४॥ ब्रह्मोवाच । उपदिश्येति शुक्रः तं दधीचिं मुनिसत्तमम् । स्वस्थानमगमत्तात संस्मरन् शङ्करं प्रभुम् ॥ ३५॥ तस्य तद्वचनं श्रुत्वा दधीचो हि महामुनिः । वनं जगाम तपसे महाप्रीत्या शिवं स्मरन् ॥ ३६॥ तत्र गत्वा विधानेन महामृत्युञ्जयाभिधम् । तं मनुं प्रजपन् प्रीत्या तपस्तेपे शिवं स्मरन् ॥ ३७॥ तन्मनुं सुचिरं जप्त्वा तपसाराध्य शङ्करम् । शिवं सन्तोषयामास महामृत्युञ्जयं हि सः ॥ ३८॥ अथ शम्भुः प्रसन्नात्मा तज्जपाद्भक्तवत्सलः । आविर्बभूव पुरतस्तस्य प्रीत्या महामुने ॥ ३९॥ तं दृष्ट्वा स्वप्रभुं शम्भुं स मुमोद मुनीश्वरः । प्रणम्य विधिवद्भक्त्या तुष्टाव सुकृताञ्जलिः ॥ ४०॥ अथ प्रीत्या शिवस्तात प्रसन्नश्च्यावनिं मुने । वरं ब्रूहीति स प्राह सुप्रसन्नेन चेतसा ॥ ४१॥ तच्छ्रुत्वा शम्भुवचनं दधीचो भक्तसत्तमः । साञ्जलिर्नतकः प्राह शङ्करं भक्तवत्सलम् ॥ ४२॥ दधीच उवाच । देवदेव महादेव मह्यं देहि वरत्रयम् । वज्रास्थित्वमवध्यत्वमदीनत्वं हि सर्वतः ॥ ४३॥ ब्रह्मोवाच । तदुक्तवचनं श्रुत्वा प्रसन्नः परमेश्वरः । वरत्रयं ददौ तस्मै दधीचाय तथास्त्विति ॥ ४४॥ वरत्रयं शिवात्प्राप्य सानन्दश्च महामुनिः । क्षुवस्थानं जगामाशु वेदमार्गे प्रतिष्ठितः ॥ ४५॥ प्राप्यावध्यत्वमुग्रात्स वज्रास्थित्वमदीनताम् । अताडयच्च राजेन्द्रं पादमूलेन मूर्धनि ॥ ४६॥ क्षुवो दधीचं वज्रेण जघानोरस्यथो नृपः । क्रोधं कृत्वा विशेषेण विष्णुगौरवगर्वितः ॥ ४७॥ नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः । प्रभावात्परमेशस्य धातृपुत्रो विसिस्मिये ॥ ४८॥ दृष्ट्वाप्यवध्यत्वमदीनतां च वज्रस्य चात्यन्तपरप्रभावम् । क्षुवो दधीचस्य मुनीश्वरस्य विसिस्मिये चेतसि धातृपुत्रः ॥ ४९॥ आराधयामास हरिं मुकुन्द- मिन्द्रानुजं काननमाशु गत्वा । प्रपन्नपालश्च पराजितो हि दधीचमृत्युञ्जयसेवकेन ॥ ५०॥ पूजया तस्य सन्तुष्टो भगवान् मधुसूदनः । प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ॥ ५१॥ दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् । तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ॥ ५२॥ सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम् । विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ ५३॥ राजोवाच । भगवन् ब्राह्मणः कश्चिद्दधीच इति विश्रुतः । धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥ ५४॥ अवध्यः सर्वदा सर्वैः शङ्करस्य प्रभावतः । तमाराध्य महादेवं मृत्युञ्जयमनामयम् ॥ ५५॥ सावज्ञं वामपादेन मम मूर्ध्नि सदस्यपि । ताडयामास वेगेन स दधीचो महातपाः ॥ ५६॥ उवाच मां च गर्वेण न बिभेमीति सर्वतः । मृत्युञ्जयाप्तसुवरो गर्वितो ह्यतुलं हरे ॥ ५७॥ अथ ज्ञात्वा दधीचस्य ह्यवध्यत्वं महात्मनः । सस्मारास्य महेशस्य प्रभावमतुलं हरिः ॥ ५८॥ एवं स्मृत्वा हरिः प्राह क्षुवं विधिसुतं द्रुतम् । विप्राणां नास्ति राजेन्द्र भयमण्वपि कुत्रचित् ॥ ५९॥ विशेषाद् रुद्रभक्तानां भयं नास्ति च भूपते । दुःखं करोति विप्रस्य शापार्थं स सुरस्य मे ॥ ६०॥ भविता तस्य शापेन दक्षयज्ञे सुरेश्वरात् । विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥ ६१॥ तस्मात्समेत्य राजेन्द्र सर्वयज्ञो न भूयते । करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥ ६२॥ श्रुत्वा वाक्यं क्षुवः प्राह तथास्त्विति हरेर्नृपः । तस्थौ तत्रैव तत्प्रीत्या तत्कामोत्सुकमानसः ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे क्षुवदधीचवादवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ २.२.३८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.३९. एकोनचत्वारिंशोऽध्यायः । विष्णुदधीचयुद्धवर्णनम् ।

ब्रह्मोवाच । क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ । विप्ररूपमथास्थाय भगवान् भक्तवत्सलः ॥ १॥ दधीचं प्राह विप्रर्षिमभिवन्द्य जगद्गुरुः । क्षुवकार्यार्थमुद्युक्तः शैवेन्द्रं छलमाश्रितः ॥ २॥ विष्णुरुवाच । भो भो दधीच विप्रर्षे भवार्चनरताव्यय । वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति ॥ ३॥ ब्रह्मोवाच । याचितो देवदेवेन दधीचः शैवसत्तमः ॥ क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४॥ दधीच उवाच । ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः । भगवान् विप्ररूपेण मायी त्वमसि वै हरिः ॥ ५॥ भूतं भविष्यं देवेश वर्तमानं जनार्दन । ज्ञानं प्रसादाद् रुद्रस्य सदा त्रैकालिकं मम ॥ ६॥ त्वां जानेऽहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत । आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७॥ जाने तवैव भगवन् भक्तवत्सलतां हरे । छलं त्यज स्वरूपं हि स्वीकुरु स्मर शङ्करम् ॥ ८॥ अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे । वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९॥ वदामि न मृषा क्वापि शिवस्मरणसक्तधीः । न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ १०॥ विष्णुरुवाच । भयं दधीच सर्वत्र नष्टं च तव सुव्रत । भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च ॥ ११॥ बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव । नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहादहम् ॥ १२॥ ब्रह्मोवाच । एवं श्रुत्वापि तद्वाक्यं विष्णोः स तु महामुनिः । विहस्य निर्भयः प्राह दधीचः शैवसत्तमः ॥ १३॥ दधीच उवाच । न बिभेमि सदा क्वापि कुतश्चिदपि किञ्चन । प्रभावाद्देवदेवस्य शम्भोः साक्षात्पिनाकिनः ॥ १४॥ ब्रह्मोवाच । ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः । चक्रमुद्यम्य सन्तस्थौ दिधक्षुर्मुनिसत्तमम् ॥ १५॥ अभवत्कुण्ठितं तत्र विप्रे चक्रं सुदारुणम् । प्रभावाच्च तदीशस्य नृपतेः सन्निधावपि ॥ १६॥ दृष्ट्वा तं कुण्ठितास्यं तच्चक्रं विष्णुं जगाद ह । दधीचः सस्मितं साक्षात्सदसद्व्यक्तिकारणम् ॥ १७॥ दधीच उवाच । भगवन् भवता लब्धं पुरातीव सुदारुणम् । सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः । भवस्य तच्छुभं चक्रं न जिघांसति मामिह ॥ १८॥ भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः । ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९॥ ब्रह्मोवाच । स तस्य वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमानुषम् । ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ २०॥ चक्रुर्देवास्ततस्तस्य विष्णोःसाहाय्यमादरात् । द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१॥ चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः । दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२॥ कुशमुष्टिमथादाय दधीचः संस्मरन् शिवम् । ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥ २३॥ शङ्करस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा । दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४॥ दग्धुं देवान् मतिं चक्रे सायुधान् सशिखं च तत् । प्रज्वलत्सर्वतः शैवं युगान्ताग्न्यधिकप्रभम् ॥ २५॥ नारायणेन्द्रमुख्यैस्तु देवैः क्षिप्तानि यानि च । आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६॥ देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या दिवौकसः । तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७॥ ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः । आत्मनः सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८॥ ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः । मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९॥ ततो विष्णुगणांस्तान्वै नियुध्य बहुशो रणे । ददाह सहसा सर्वान् दधीचः शैवसत्तमः ॥ ३०॥ ततस्तद्विस्मयार्थाय दधीचस्य मुनेर्हरिः । विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१॥ तस्य देहे हरेः साक्षादपश्यद् द्विजसत्तमः । दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२॥ भूतानां कोटयश्चैव गणानां कोटयस्तथा । अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा ॥ ३३॥ दृष्ट्वैतदखिलं तत्र च्यावनिः सततं तदा । विष्णुमाह जगन्नाथं जगत्स्तवमजं विभुम् ॥ ३४॥ दधीच उवाच । मायां त्यज महाबाहो प्रतिभासो विचारतः । विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५॥ मयि पश्य जगत्सर्वं त्वया युक्तमतन्द्रितः । ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६॥ ब्रह्मोवाच । इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः । ब्रह्माण्डं च्यावनिः शम्भुतेजसा पूर्णदेहकः ॥ ३७॥ तदाह विष्णुं देवेशं दधीचः शैवसत्तमः । संस्मरन् शङ्करं चित्ते विहसन् विभयः सुधीः ॥ ३८॥ दधीच उवाच । मायया त्वनया किं वा मन्त्रशक्त्याथ वा हरे । सत्कामनामिमां कृत्वा योद्धुमर्हसि यत्नतः ॥ ३९॥ ब्रह्मोवाच । एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा । शम्भुतेजोमयं विष्णुः चुकोपातीव तं मुनिम् ॥ ४०॥ देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् । योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१॥ एतस्मिन्नन्तरे तत्रागमन्मत्सङ्गमः क्षुवः । अवारयन्तं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२॥ निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः । जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३॥ क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् । दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४॥ क्षुव उवाच । प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे । प्रसीद परमेशान दुर्लक्ष्यो दुर्जनैः सदा ॥ ४५॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य राज्ञः सुरगणस्य हि । अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६॥ अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः । हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७॥ दधीच उवाच । रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वराः । ध्वस्ता भवन्तु देवेन विष्णुना च समं गणैः ॥ ४८॥ ब्रह्मोवाच । एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः । देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९॥ ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः । इत्युक्त्वा स स्फुटं विप्रः प्रविवेश निजाश्रमम् ॥ ५०॥ दधीचमभिवन्द्यैव क्षुवो निजगृहं गतः । विष्णुर्जगाम स्वं लोकं सुरैः सह यथागतम् ॥ ५१॥ तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् । स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२॥ कथितस्तव सङ्क्षेपाद्वादः क्षुवदधीचयोः । नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३॥ य इदं कीर्तयेन्नित्यं वादं क्षुवदधीचयोः । जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ५४॥ रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा । मृत्युभीतिर्भवेन्नैव विजयी च भविष्यति ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ २.२.३९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.४०. चत्वारिंशोऽध्यायः । ब्रह्मादीनां कैलासयात्रा शिवदर्शनं च ।

नारद उवाच विधे विधे महाप्राज्ञ शैवतत्त्वप्रदर्शक । श्राविता रमणीप्राया शिवलीला महाद्भुता ॥ १॥ वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै । कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ॥ २॥ ब्रह्मोवाच । अथ देवगणाः सर्वे मुनयश्च पराजिताः । रुद्रानीकैर्विभिन्नाङ्गा मम लोकं ययुस्तदा ॥ ३॥ स्वयम्भुवे नमस्कृत्य मह्यं संस्तूय भूरिशः । तत्स्वक्लेशं विषेशेण कार्त्स्न्येनैव न्यवेदयन् ॥ ४॥ तदाकर्ण्य ततोऽहं वै पुत्रशोकेन पीडितः । अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ॥ ५॥ किं कार्यं कार्यमद्याशु मया देवसुखावहम् । येन जीवतु दक्षोऽसौ मखः पूर्णो भवेत्सुरः ॥ ६॥ एवं विचार्य बहुधा नालभं शमहं मुने । विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप तदोचितम् ॥ ७॥ अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः । नत्वा नुत्वा च विविधैः स्तवैर्दुःखं न्यवदेयम् ॥ ८॥ यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः । सुखिनः स्युः सुराः सर्वे मुनयश्च तथा कुरु ॥ ९॥ देवदेव रमानाथ विष्णो देवसुखावह । वयं त्वच्छरणं प्राप्ताः सदेवमुनयो ध्रुवम् ॥ १०॥ ब्रह्मोवाच । इत्याकर्ण्य वचो मे हि ब्रह्मणः स रमेश्वरः । प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ॥ ११॥ विष्णुरुवाच । तेजीयसि न सा भूता कृतागसि बुभूषताम् । तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ॥ १२॥ कृतपापाः सुराः सर्वे शिवे हि परमेश्वरे । पराददुर्यज्ञभागं तस्य शम्भोर्विधे यतः ॥ १३॥ प्रसादयध्वं सर्वे हि यूयं शुद्धेन चेतसा । अथापरप्रसादं तं गृहीताङ्घ्रियुगं शिवम् ॥ १४॥ यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् । सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ॥ १५॥ तमाशु प्रियया देवं विहीनं च दुरुक्तिभिः । क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ॥ १६॥ अयमेव महोपायस्तच्छान्त्यै केवलं विधे । शम्भोः सन्तुष्टये मन्ये सत्यमेवोदितं मया ॥ १७॥ नाहं न त्वं सुराश्चान्ये मुनयोऽपि तनूभृतः । यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ॥ १८॥ आत्मतन्त्रस्य तस्यापि परस्य परमात्मनः । क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ॥ १९॥ चलिष्येऽहमपि ब्रह्मन् सर्वैः सार्धं शिवालयम् । क्षमापयामि गिरिशं कृतागश्च शिवे ध्रुवम् ॥ २०॥ ब्रह्मोवाच । इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् । सार्धं देवैर्मतिं चक्रे तद्गिरौ गमनाय सः ॥ २१॥ ययौ स्वधिष्ण्यनिलयं शिवस्याद्रिवरं शुभम् । कैलासं सामरमुनिप्रजेशादिमयो हरिः ॥ २२॥ अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः । नरेतरैरप्सरोभिर्योगसिद्धैर्महोन्नतम् ॥ २३॥ नानामणिमयैः श‍ृङ्गैः शोभमानं समन्ततः । नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ॥ २४॥ नानामृगगणाकीर्णं नानापक्षिसमन्वितम् । नानाजलप्रस्रवणैरमरैः सिद्धयोषिताम् ॥ २५॥ रमणैर्विहरन्तीनां नानाकन्दरसानुभिः । द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ॥ २६॥ व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् । सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ॥ २७॥ पर्यस्तं गङ्गया सत्या स्थानपुण्यतरोदया । सर्वपावनसङ्कर्त्र्या विष्णुपद्या सुनिर्मलम् ॥ २८॥ एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् । ययुस्ते विस्मयं देवा विष्ण्वाद्याः समुनीश्वराः ॥ २९॥ तत्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् । कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ॥ ३०॥ वनं सौगन्धिकं चापि ददृशुस्तत्समीपतः । सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्भुतम् ॥ ३१॥ तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने । नन्दा चालकनन्दा च दर्शनात्पापहारिके ॥ ३२॥ पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः । विगाह्य पुम्भिस्तास्तत्र क्रीडन्ति रतिकर्शिताः ॥ ३३॥ हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च यत् । गच्छन्तस्ते सुरा आराद्ददृशुः शाङ्करं वटम् ॥ ३४॥ पर्यक्कृताचलच्छायं पादोनविटपायतम् । शतयोजनकोत्सेधं निर्नीडं तापवर्जितम् ॥ ३५॥ महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् । शम्भुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ॥ ३६॥ मुमुक्षुशरणे तस्मिन् महायोगमये वटे । आसीनं ददृशुः सर्वे शिवं विष्ण्वादयः सुराः ॥ ३७॥ विधिपुत्रैर्महासिद्धैः शिवभक्तिरतैः सदा । उपास्यमानं समुदा शान्तैः संशान्तविग्रहैः ॥ ३८॥ तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् । सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिः सदा ॥ ३९॥ तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् । वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ॥ ४०॥ मुने तुभ्यं प्रवोचन्तं पृच्छते ज्ञानमुत्तमम् । कुशासने सूपविष्टं सर्वेषां श‍ृण्वतां सताम् ॥ ४१॥ कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि । बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ॥ ४२॥ एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयः सुराः । प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ॥ ४३॥ उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः । उत्थाय चक्रे शिरसाभिवन्दनमपि प्रभुः ॥ ४४॥ वन्दिताङ्घ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिः शिवः । ननामाथ यथा विष्णुः कश्यपं लोकसद्गतिः ॥ ४५॥ सुरसिद्धगणाधीशमहर्षिसुनमस्कृतम् । समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ॥ ४६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे शिवदर्शनवर्णनं नाम चत्वारिंशोऽध्यायः ॥ २.२.४०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.४१. एकचत्वारिंशोऽध्यायः । देवैः कृता शिवस्तुतिः ।

विष्ण्वादय ऊचुः । देवदेव महादेव लौकिकाचारकृत्प्रभो । ब्रह्म त्वामीश्वरं शम्भुं जानीमः कृपया तव ॥ १॥ किं मोहयसि नस्तात मायया परया तव । दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २॥। प्रकृतेः पुरुषस्यापि जगतो योनिबीजयोः । परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३॥ त्वमेव विश्वं सृजसि पास्यत्सि निजतन्त्रतः । स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४॥ त्वमेव क्रतुमीशान ससर्जिथ दयापरः । दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५॥ त्वयैव लोकेऽवसिताः सेतवो यान् धृतव्रताः । शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६॥ कर्तुस्त्वं मङ्गलानां हि स्वपरं तु सुखे विभो । अमङ्गलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७॥ सर्वकर्मफलानां हि सदा दाता त्वमेव हि । सर्वे हि प्रोक्ताः पशवस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८॥ पृथग्धियः कर्मदृशोऽरुन्तुदाश्च दुराशयाः । वितुदन्ति परान् मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९॥ तेषां दैववधानां भो भूयात्त्वच्च वधो विभो । भगवन्परमेशान कृपां कुरु परप्रभो ॥ १०॥ नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने । कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११॥ त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः । त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२॥ नमस्ते नीलकण्ठाय वेधसे परमात्मने । विश्वाय विश्वबीजाय जगदानन्दहेतवे ॥ १३॥ ओङ्कारस्त्वं वषट्कारः सर्वारम्भप्रवर्तकः । हन्तकारः स्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४॥ कृतः कथं यज्ञभङ्गस्त्वया धर्मपरायण । ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५॥ ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः । शरण्योऽसि सदानन्त्यः सर्वेषां प्राणिनां प्रभो ॥ १६॥ नमस्ते भगवन् रुद्र भास्करामिततेजसे । नमो भवाय देवाय रसायाम्बुमयाय ते ॥ १७॥ शर्वाय क्षितिरूपाय सदा सुरभिणे नमः । रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८॥ ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः । पशूनां पतये तुभ्यं यजमानाय वेधसे ॥ १९॥ भीमाय व्योमरूपाय शब्दमात्राय ते नमः । महादेवाय सोमाय प्रवृत्ताय नमोऽस्तु ते ॥ २०॥ उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने । नमस्ते कालकालाय नमस्ते रुद्रमन्यवे ॥ २१॥ नमः शिवाय भीमाय शङ्कराय शिवाय ते । उग्रोऽसि सर्वभूतानां नियन्ता यच्छिवोऽसि नः ॥ २२॥ मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने । अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३॥ शर्वाय सर्वरूपाय पुरुषाय परात्मने । सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४॥ जाताय बहुधा लोके प्रभूताय नमो नमः । नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५॥ मीढुष्टमाय देवाय शिपिविष्टाय ते नमः । महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ॥ २६॥ ताराय च सुताराय तरुणाय सुतेजसे । हरिकेशाय देवाय महेशाय नमो नमः ॥ २७॥ देवानां शम्भवे तुभ्यं विभवे परमात्मने । परमाय नमस्तुभ्यं कालकण्ठाय ते नमः ॥ २८॥ हिरण्याय परेशाय हिरण्यवपुषे नमः । भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९॥ भस्मदिग्धशरीराय रुद्राक्षाभरणाय च । नमो ह्रस्वाय दीर्घाय वामनाय नमोऽस्तु ते ॥ ३०॥ दूरेवधाय ते देवाग्रेवधाय नमो नमः । धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१॥ नानायुधधरायैव दैत्यदानवनाशिने । सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२॥ वामाय वामरूपाय वामनेत्राय ते नमः । अघोराय परेशाय विकटाय नमो नमः ॥ ३३॥ तत्पुरुषाय नाथाय पुराणपुरुषाय च । पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४॥ ईशानाय नमस्तुभ्यमीश्वराय नमो नमः । ब्रह्मणे ब्रह्मरूपाय नमः साक्षात्परात्मने ॥ ३५॥ उग्रोऽसि सर्वदुष्टानां नियन्तासि शिवोऽसि नः । कालकूटाशिने तुभ्यं देवाद्यवनकारिणे ॥ ३६॥ वीराय वीरभद्राय रक्षद्वीराय शूलिने । महादेवाय महते पशूनां पतये नमः ॥ ३७॥ वीरात्मने सुविद्याय श्रीकण्ठाय पिनाकिने । नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८॥ पराय परमेशाय परात्परतराय ते । परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९॥ नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे । भैरवाय शरण्याय त्र्यम्बकाय विहारिणे ॥ ४०॥ मृत्युञ्जयाय शोकाय त्रिगुणाय गुणात्मने । चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१॥ भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा । परब्रह्म निर्विकारी चिदानन्दः प्रकाशवान् ॥ ४२॥ ब्रह्मविष्ण्विन्द्रचन्द्रादिप्रमुखाःसकलाः सुराः । मुनयश्चापरे त्वत्तः सम्प्रसूता महेश्वर ॥ ४३॥ यतो बिभर्षि सकलं विभज्य तनुमष्टधा । अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ४४॥ त्वद्भयाद्वाति वातोऽयं दहत्यग्निर्भयात्तव । सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५॥ दयासिन्धो महेशान प्रसीद परमेश्वर । रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६॥ रक्षिताः सततं नाथ त्वयैव करुणानिधे । नानापद्भ्यो वयं शम्भो तथैवाद्य प्रपाहि नः ॥ ४७॥ यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत् । असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः ॥ ४८॥ भगोऽक्षिणी प्रपद्येत यजमानश्च जीवतु । पूष्णो दन्ताश्च रोहन्तु भृगोः श्मश्रूणि पूर्ववत् ॥ ४९॥ भवतानुगृहीतानां देवादीनां च सर्वशः । आरोग्यं भग्नगात्राणां शङ्कर त्वायुधाश्मभिः ॥ ५०॥ पूर्णभागोऽस्तु ते नाथावशिष्टेऽध्वरकर्मणि । रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१॥ इत्युक्त्वा सप्रजेशश्च रमेशश्च कृताञ्जलिः । दण्डवत्पतितो भूमौ क्षमापयितुमुद्यतः ॥ ५२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.२.४१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.४२. द्विचत्वारिंशोऽध्यायः । दक्षदुःखनिराकरणम् ।

ब्रह्मोवाच । श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै । अनुनीतः शम्भुरासीत्प्रसन्नः परमेश्वरः ॥ १॥ आश्वास्य देवान् विष्ण्वादीन् विहस्य करुणानिधिः । उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥ २॥ श्रीमहादेव उवाच । श‍ृणुतं सावधानेन मम वाक्यं सुरोत्तमौ । यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ॥ ३॥ नाघं तनौ तु बालानां वर्णये नानुचिन्तये । मम मायाभिभूतानां दण्डस्तत्र धृतो मया ॥ ४॥ दक्षस्य यज्ञभङ्गोऽयं न कृतश्च मया क्वचित् । परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ५॥ परेषां क्लेदनं कर्म न कार्यं तत् कदाचन । परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ६॥ दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः । मित्रनेत्रेण सम्पश्येद्यज्ञभागं भगः सुरः ॥ ७॥ पूषाभिधः सुरस्तात दद्भिर्जक्षतु पिष्टभुक् । याजमानैर्भग्नदन्तः सत्यमेतन्मयोदितम् ॥ ८॥ बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोधकृत् । देवाः प्रकृतिसर्वाङ्गा ये म उच्छेषणं ददुः ॥ ९॥ बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकः । भवन्त्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥ १०॥ ब्रह्मोवाच । इत्युक्त्वा परमेशानो विरराम दयान्वितः । चराचरपतिर्देवः सम्राट् वेदानुसारकृत् ॥ ११॥ तदा सर्वे सुराद्यास्ते श्रुत्वा शङ्करभाषितम् । साधु साध्विति सम्प्रोचुः परितुष्टाः सविष्ण्वजाः ॥ १२॥ ततः शम्भुं समामन्त्र्य मया विष्णुः सुरर्षिभिः । भूयस्तद्देवयजनं ययौ च परया मुदा ॥ १३॥ एवं तेषां प्रार्थनया विष्णुप्रभृतिभिः सुरैः । ययौ कनखलं शम्भुर्यज्ञवाटं प्रजापतेः ॥ १४॥ रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् । प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥ १५॥ स्वहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती । तथान्ये ऋषयः सर्वे पितरश्चाग्नयस्तथा ॥ १६॥ येऽन्ये च बहवस्तत्र यक्षगन्धर्वराक्षसाः । त्रोटिता लुञ्चिताश्चैव मृताः केचिद्रणाजिरे ॥ १७॥ यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् । वीरभद्रं महावीर्यमुवाच प्रहसन् प्रभुः ॥ १८॥ वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् । महान् दण्डो धृतस्तात देवर्ष्यादिषु सत्वरम् ॥ १९॥ दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् । यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥ २०॥ ब्रह्मोवाच । एवमुक्तः शङ्करेण वीरभद्रस्त्वरान्वितः । कबन्धमानयित्वाग्रे तस्य शम्भोरथाक्षिपत् ॥ २१॥ विशिरस्कं च तं दृष्ट्वा शङ्करो लोकशङ्करः । वीरभद्रमुवाचाग्रे विहसन् मुनिसत्तम ॥ २२॥ शिरः कुत्रेति तेनोक्तं वीरभद्रोऽब्रवीत्प्रभुः । मया शिरो हुतं चाग्नौ तदानीमेव शङ्कर ॥ २३॥ इति श्रुत्वा वचस्तस्य वीरभद्रस्य शङ्करः । देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥ २४॥ विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः । मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥ २५॥ अथ प्रजापतेस्तस्य सवनीयपशोः शिरः । बस्तस्य सन्दधुः शम्भोः कायेनारं सुशासनात् ॥ २६॥ सन्धीयमाने शिरसि शम्भुसद्दृष्टिवीक्षितः । सद्यः सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः ॥ २७॥ उत्थितश्चाग्रतः शम्भुं ददर्श करुणानिधिम् । दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः ॥ २८॥ पुरा हरमहाद्वेषकलिलात्माभवद्धि सः । शिवावलोकनात् सद्यः शरच्चन्द्र इवामलः ॥ २९॥ भवं स्तोतुमनाः सोऽथ नाशक्नोदनुरागतः । उत्कण्ठाविकलत्वाच्च सम्परेतां सुतां स्मरन् ॥ ३०॥ अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः । तुष्टाव प्रणतो भूत्वा शङ्करं लोकशङ्करम् ॥ ३१॥ दक्ष उवाच । नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् । नमामि देवाधिपतीश्वरं हरं सदा सुखाढ्यं जगदेकबान्धवम् ॥ ३२॥ नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम् । नमामि शर्वं भवभावभावं परात्परं शङ्करमानतोऽस्मि ॥ ३३॥ देवदेव महादेव कृपां कुरु नमोऽस्तु ते । अपराधं क्षमस्वाद्य मम शम्भो कृपानिधे ॥ ३४॥ अनुग्रहः कृतस्ते हि दण्डव्याजेन शङ्कर । खलोऽहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥ ३५॥ अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः । विष्णुब्रह्मादिभिः सेव्यो वेदवेद्यो महेश्वरः ॥ ३६॥ साधूनां कल्पवृक्षस्त्वं दुष्टानां दण्डधृक् सदा । स्वतन्त्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥ ३७॥ विद्यातपोव्रतधरानसृजः प्रथमं द्विजा । आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥ ३८॥ सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव । गृहीतदण्डो दुष्टांस्तान् मर्यादापरिपालकः ॥ ३९॥ मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः । अमरानतिदीनाशान् मदनुग्रहकारकः ॥ ४०॥ स भवान् भगवान् शम्भो दीनबन्धो परात्परः । स्वकृतेन महार्हेण सन्तुष्टो भक्तवत्सल ॥ ४१॥ ब्रह्मोवाच । इति स्तुत्वा महेशानं शङ्करं लोकशङ्करम् । प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥ ४२॥ अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् । बाष्पगद्गदया वाण्या सुप्रणम्य कृताञ्जलिः ॥ ४३॥ विष्णुरुवाच । महादेव महेशान लोकानुग्रहकारक । परब्रह्म परात्मा त्वं दीनबन्धो दयानिधे ॥ ४४॥ सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभो । अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम् ॥ ४५॥ दक्षोऽयं मम भक्तस्त्वां यन्निनिन्द खलः पुरा । तत् क्षन्तव्यं महेशाद्य निर्विकारो यतो भवान् ॥ ४६॥ कृतो मयापराधोऽपि तव शङ्कर मौढ्यतः । त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥ ४७॥ त्वं मे स्वामी परब्रह्म दासोऽहं ते सदाशिव । पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥ ४८॥ ब्रह्मोवाच । देवदेव महादेव करुणासागर प्रभो । स्वतन्त्रः परमात्मा त्वं परमेशोऽद्वयोऽव्ययः ॥ ४९॥ मम पुत्रोपरि कृतो देवानुग्रह ईश्वर । स्वापमानमगणयन् दक्षयज्ञं समुद्धर ॥ ५०॥ प्रसन्नो भव देवेश सर्वशापान्निराकुरु । सबोधः प्रेरकस्त्वं मे त्वमेव विनिवारकः ॥ ५१॥ इति स्तुत्वा महेशानं परमं च महामुने । कृताञ्जलिपुटो भूत्वा विनम्रीकृतमस्तकः ॥ ५२॥ अथ शक्रादयो देवा लोकपालाः सुचेतसः । तुष्टुवुः शङ्करं देवं प्रसन्नमुखपङ्कजम् ॥ ५३॥ ततः प्रसन्नमनसः सर्वे देवास्तथा परे । सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शङ्करं मुदा ॥ ५४॥ तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा । प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक् ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ २.२.४२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां द्वितीयः सतीखण्डे

२.२.४३. त्रिचत्वारिंशोऽध्यायः । दक्षयज्ञानुसन्धानम् ।

ब्रह्मोवाच । इति स्तुतो रमेशेन मया चैव सुरर्षिभिः । तथान्यैश्च महादेवः प्रसन्नः सम्बभूव ह ॥ १॥ अथ शम्भुः कृपादृष्ट्या सर्वान् ऋषिसुरादिकान् । ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २॥ महादेव उवाच । श‍ृणु दक्ष प्रवक्ष्यामि प्रसन्नोऽस्मि प्रजापते । भक्ताधीनः सदाहं वै स्वतन्त्रोऽप्यखिलेश्वरः ॥ ३॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा । उत्तरोत्तरतः श्रेष्ठास्तेषां दक्ष प्रजापते ॥ ४॥ आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः । पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५॥ तत्र ज्ञानी प्रियतरो मम रूपं च स स्मृतः । तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम् ॥ ६॥ ज्ञानगम्योऽहमात्मज्ञो वेदान्तश्रुतिपारगैः । विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७॥ न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् । न शक्नुवन्ति मां प्राप्तुं मूढाः कर्मवशा नराः ॥ ८॥ केवलं कर्मणा त्वं स्म संसारं तर्तुमिच्छसि । अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९॥ इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् । बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ १०॥ अन्यच्च श‍ृणु सद्बुद्ध्या वचनं मे प्रजापते । वच्मि गुह्यं धर्महेतोः सगुणत्वेऽप्यहं तव ॥ ११॥ अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयन्दृगविशेषणः ॥ १२॥ आत्ममायां समाविश्य सोऽहं गुणमयीं मुने । सृजन् रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥ १३॥ अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले । अज्ञः पश्यति भेदेन भूतानि ब्रह्म चेश्वरम् ॥ १४॥ शिरःकरादिस्वाङ्गेषु कुरुते न यथा पुमान् । पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५॥ सर्वभूतात्मनामेकभावनां यो न पश्यति । त्रिसुराणां भिदां दक्ष स शान्तिमधिगच्छति ॥ १६॥ यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः । नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७॥ मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः । स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८॥ विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी । विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥ इत्युक्त्वा शङ्करः स्वामी सर्वेषां परमेश्वरः । सर्वेषां श‍ृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ २०॥ हरिभक्तो हि मां निन्देत्तथा शैवो भवेद्यदि । तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१॥ ब्रह्मोवाच । इत्याकर्ण्य महेशस्य वचनं सुखकारकम् । जहर्षुः सकलास्तत्र सुरमुन्यादयो मुने ॥ २२॥ दक्षोऽभवन्महाप्रीत्या शिवभक्तिरतस्तदा । सकुटुम्बः सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३॥ यथा येन कृता शम्भोः संस्तुतिः परमात्मनः । तथा तस्मै वरो दत्तः शम्भुना तुष्टचेतसा ॥ २४॥ ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः । यज्ञं चकार सम्पूर्णं शिवानुग्रहतो मुने ॥ २५॥ ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः । दानं ददौ द्विजेभ्यश्च प्राप्तः शम्भोरनुग्रहः ॥ २६॥ अथ देवस्य सुमहत्तत्कर्म विधिपूर्वकम् । दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥ २७॥ एवं दक्षमखः पूर्णोऽभवत्तत्र मुनीश्वर । शङ्करस्य प्रसादेन परब्रह्मस्वरूपिणः ॥ २८॥ अथ देवर्षयः सर्वे शंसन्तः शाङ्करं यशः । स्वधामानि ययुस्तुष्टाः परेऽपि सुखतस्तदा ॥ २९॥ अहं विष्णुश्च सुप्रीतावपि स्वं स्वं परं मुदा । गायन्तौ सुयशः शम्भोः सर्वमङ्गलदं सदा ॥ ३०॥ दक्षसम्मानितः प्रीत्या महादेवोऽपि सद्गतिः । कैलासं स ययौ शैलं सुप्रीतः सगणो निजम् ॥ ३१॥ आगत्य स्वगिरिं शम्भुः सस्मार स्वप्रियां सतीम् । गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥ ३२॥ कालं निनाय विज्ञानी बहु तच्चरितं वदन् । लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥ ३३॥ नानीतिकारकः स्वामी परब्रह्म सतां गतिः । तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥ ३४॥ अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन । के परे मुनयो देवा मानुषाद्याश्च योगिनः ॥ ३५॥ महिमा शाङ्करोऽनन्तो दुर्विज्ञेयो मनीषिभिः । भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥ ३६॥ एकोऽपि न विकारो हि शिवस्य परमात्मनः । सन्दर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम् ॥ ३७॥ यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने । लभते सद्गतिं दिव्यामिहापि सुखमुत्तमम् ॥ ३८॥ इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः । जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥ ३९॥ पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा । गौरी भूत्वार्धवामाङ्गी लीलाश्चक्रेऽद्भुताः शिवा ॥ ४०॥ इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् । भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१॥ इदमाख्यानमनघं पवित्रं परपावनम् । स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२॥ य इदं श‍ृणुयाद् भक्त्या श्रावयेद्भक्तिमान्नरान् । सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३॥ यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् । सोऽपि भुक्त्वाखिलान् भोगानन्ते मोक्षमवाप्नुयात् ॥ ४४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षयज्ञानुसन्धानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.२.४३॥ ॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां द्वितीयः सतीखण्डः समाप्तः ॥ २.२॥
% Text title            : Shivapuranam 2.2 rudrasaMhitA satIkhaNDaH
% File name             : shivapurANam2rudrasaMhitA2satIkhaNDaH.itx
% itxtitle              : shivapurANam 2\.2 (rudrasaMhitAyAM satIkhaNDaH)
% engtitle              : shivapurANam 2.2 rudrasaMhitA satIkhaNDaH
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org