श्रीशिवमहापुराणम् २३ रुद्रसंहितायां पार्वतीखण्डः

श्रीशिवमहापुराणम् २३ रुद्रसंहितायां पार्वतीखण्डः

॥ श्रीः ॥ ॥ श्रीसाम्बसदाशिवार्पणमस्तु ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१. प्रथमोऽध्यायः । हिमाचलविवाहवर्णनम् ।

नारद उवाच । दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे । कथं गिरिसुता ब्रह्मन् बभूव जगदम्बिका ॥ १॥ कथं कृत्वा तपोऽत्युग्रं पतिमाप शिवं च सा । एतन्मे पृच्छते सम्यक् कथय त्वं विशेषतः ॥ २॥ ब्रह्मोवाच । श‍ृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् । पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३॥ यदा दाक्षायणी देवी हरेण सहिता मुदा । हिमाचले सुचिक्रीडे लीलया परमेश्वरी ॥ ४॥ मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा । हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५॥ यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ । पित्रा दक्षेण तद्यज्ञे सङ्गता परमेश्वरी ॥ ६॥ तदैव मेनका तां सा हिमाचलप्रिया मुने । शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७॥ तस्यामहं सुता स्यामित्यवधार्य सती हृदा । त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८॥ समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः । सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ॥ ९॥ नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम् । नारदस्योपदेशाद्वै पतिं प्राप शिवं पुनः ॥ १०॥ नारद उवाच । ब्रह्मन् विधे महाप्राज्ञ वद मे वदतां वर । मेनकायाः समुत्पत्तिं विवाहचरितं तथा ॥ ११॥ धन्या हि मेनका देवी यस्यां जाता सुता सती । अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२॥ ब्रह्मोवाच । श‍ृणु त्वं नारद मुने पार्वतीमातुरुद्भवम् । विवाहं चरितं चैव पावनं भक्तिवर्धनम् ॥ १३॥ अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् । पर्वतो हि मुनिश्रेष्ठ महातेजाः समृद्धिभाक् ॥ १४॥ द्वैरूप्यं तस्य विख्यातं जङ्गमस्थिरभेदतः । वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५॥ पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः । नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६॥ नानावृक्षसमाकीर्णो नानाश‍ृङ्गसुचित्रितः । सिंहव्याघ्रादिपशुभिः सेवितः सुखिभिः सदा ॥ १७॥ तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः । देवर्षिसिद्धमुनिभिः संश्रितः शिवसम्प्रियः ॥ १८॥ तपःस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् । तपस्सिद्धिप्रदोऽत्यन्तं नानाधात्वाकरः शुभः ॥ १९॥ स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः । विष्ण्वंशोऽविकृतः शैलराजराजः सतां प्रियः ॥ २०॥ कुलस्थित्यै च स गिरिर्धर्मवर्द्धनहेतवे । स्वविवाहं कर्तुमैच्छत्पितृदेवहितेच्छया ॥ २१॥ तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः । ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२॥ देवा ऊचुः सर्वे श‍ृणुत नो वाक्यं पितरः प्रीतमानसाः । कर्तव्यं तत्तथैवाशु देवकार्येप्सवो यदि ॥ २३॥ मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी । तां विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४॥ एवं सर्वमहालाभः सर्वेषां च भविष्यति । युष्माकममराणां च दुःखहानिः पदे पदे ॥ २५॥ ब्रह्मोवाच । इत्याकर्ण्यामरवचः पितरस्ते विमृश्य च । स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ॥ २६॥ ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् । समुत्सवो महानासीत्तद्विवाहे सुमङ्गले ॥ २७॥ हर्यादयोऽपि ते देवा मुनयश्चापरेऽखिलाः । आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ॥ २८॥ उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः । सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम् ॥ २९॥ महामोदान्विता देवास्ते सर्वे समुनीश्वराः । सञ्जग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ॥ ३०॥ यौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् । आजगाम स्वभवनं मुदमाप गिरीश्वरः ॥ ३१॥ ब्रह्मोवाच । मेनया हि हिमागस्य सुविवाहो मुनीश्वर । प्रोक्तो मे सुखदः प्रीत्या किं भूयः श्रोतुमिच्छसि ॥ ३२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोऽध्यायः ॥ २.३.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२. द्वितीयोऽध्यायः । मेनकादीनां सनकादिभ्यः शापप्राप्तिः ।

नारद उवाच । विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् । अपि शापं समाचक्ष्व कुरु सन्देहभञ्जनम् ॥ १॥ ब्रह्मोवाच । श‍ृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः । मुनिभिः सह वक्ष्येऽहं सुतवर्य महाबुध ॥ २॥ दक्षनामा मम सुतो यः पुरा कथितो मुने । तस्य जाताः सुताः षष्टिप्रमिताः सृष्टिकारणाः ॥ ३॥ तासां विवाहमकरोत्स वरैः कश्यपादिभिः । विदितं ते समस्तं तत्प्रस्तुतं श‍ृणु नारद ॥ ४॥ तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् । तिस्रोऽभवन्सुतास्तस्याः सुभगा धर्ममूर्तयः ॥ ५॥ तासां नामानि श‍ृणु मे पावनानि मुनीश्वर । सदा विघ्नहराण्येव महामङ्गलदानि च ॥ ६॥ मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती । अन्त्या एताः सुताः सर्वाः पितॄणां मानसोद्भवाः ॥ ७॥ अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः । आसां प्रोच्य सुनामानि सर्वान्कामान् जनो लभेत् ॥ ८॥ जगद्वन्द्याः सदा लोकमातरः परमोददाः । योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ॥ ९॥ एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर । श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे ॥ १०॥ कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः । तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ॥ ११॥ तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने । गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ॥ १२॥ सनकाद्यान्मुनीन् दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् । तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ॥ १३॥ तिस्रो भगिन्यस्तास्तत्र नोत्तस्थुर्मोहिता मुने । मायया दैवविवशाः शङ्करस्य परात्मनः ॥ १४॥ मोहिनी सर्वलोकानां शिवमाया गरीयसी । तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ॥ १५॥ प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः । शिवेच्छया भवत्येव नात्र कार्या विचारणा ॥ १६॥ भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम् । विस्मिताः सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ॥ १७॥ तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः । ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ॥ १८॥ शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह । सनत्कुमारो योगीशः शापं दण्डकरं ददत् ॥ १९॥ सनत्कुमार उवाच । यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः । अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ॥ २०॥ अभ्युत्थानं कृतं नो यो नमस्कारोऽपि गर्विताः । मोहिता नरभावत्वात्स्वर्गाद् दूरा भवन्तु हि ॥ २१॥ नरस्त्रियः सम्भवन्तु तिस्रोऽप्य ज्ञानमोहिताः । स्वकर्मणः प्रभावेण लभध्वं फलमीदृशम् ॥ २२॥ ब्रह्मोवाच । इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् । पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ॥ २३॥ पितृतनया ऊचुः मुनिवर्य दयासिन्धो प्रसन्नो भव चाधुना । त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ॥ २४॥ प्राप्तं च तत्फलं विप्र न ते दोषो महामुने । अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिं पुनः ॥ २५॥ ब्रह्मोवाच श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा । शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ॥ २६॥ सनत्कुमार उवाच पितॄणां तनयास्तिस्रः श‍ृणुत प्रीतमानसाः । वचनं मम शोकघ्नं सुखदं सर्वदैव वः ॥ २७॥ विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी । ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ॥ २८॥ धन्या प्रिया द्वितीया तु योगिनी जनकस्य च । तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति ॥ २९॥ वृषभानस्य वैश्यस्य कनिष्ठा च कलावती । भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः ॥ ३०॥ मेनका योगिनी पत्या पार्वत्याश्च वरेण च । तेन देहेन कैलासं गमिष्यति परं पदम् ॥ ३१॥ धन्या च सीतया सीरध्वजो जनकवंशजः । जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति ॥ ३२॥ कलावती वृषभानस्य कौतुकात्कन्यया सह । जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ॥ ३३॥ विना विपत्तिं महिमा केषां कुत्र भविष्यति । सुकर्मिणां गते दुःखे प्रभवेद् दुर्लभं सुखम् ॥ ३४॥ पितृणां तनयाः यूयं सर्वाः स्वर्गविलासिकाः । कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात् ॥ ३५॥ इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः । शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम् ॥ ३६॥ अपरं श‍ृणुत प्रीत्या मद्वचः सुखदं सदा । धन्या यूयं शिवप्रीता मान्या पूज्या ह्यभीक्ष्णशः ॥ ३७॥ मेनायास्तनया देवी पार्वती जगदम्बिका । भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम् ॥ ३८॥ धन्यासुता स्मृता सीता रामपत्नी भविष्यति । लौकिकाचारमाश्रित्य रामेण विहरिष्यति ॥ ३९॥ कलावतीसुता राधा साक्षाद् गोलोकवासिनी । गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ॥ ४०॥ ब्रह्मोवाच । इत्थमाभाष्य स मुनिर्भ्रातृभिः सह संस्तुतः । सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत् ॥ ४१॥ तिस्रो भगिन्यस्तास्तात पितृणां मानसीः सुताः । गतपापाः सुखं प्राप्य स्वधाम प्रययुर्द्रुतम् ॥ ४२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २.३.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३. तृतीयोऽध्यायः । विष्ण्वादिदेवैः कृता शिवस्तुतिः ।

नारद उवाच । विधे प्राज्ञ महाधीमन्वद मे वदतां वर । ततः परं किमभवच्चरितं विष्णुसद्गुरोः ॥ १॥ अद्भुतेयं कथा प्रोक्ता मेनापूर्वगतिः शुभा । विवाहश्च श्रुतः सम्यक् परमं चरितं वद ॥ २॥ मेनां विवाह्य स गिरिः कृतवान् किं ततः परम् । पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका ॥ ३॥ तपः सुदुस्सहं कृत्वा कथं प्राप पतिं हरम् । एतत्सर्वं समाचक्ष्व विस्तराच्छाङ्करं यशः ॥ ४॥ ब्रह्मोवाच । मुने त्वं श‍ृणु सुप्रीत्या शाङ्करं सुयशः शुभम् । यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात् ॥ ५॥ यदा मेनाविवाहं तु कृत्वागच्छद्गिरिर्गृहम् । तदा समुत्सवो जातस्त्रिषु लोकेषु नारद ॥ ६॥ हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम् । भूसुरान् बन्धुवर्गांश्च परानानर्च सद्धिया ॥ ७॥ सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् । ययुस्तस्मै स्वस्वधाम बन्धुवर्गास्तथापरे ॥ ८॥ हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे । रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि ॥ ९॥ तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः । मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके ॥ १०॥ दृष्ट्वा तानागतान्देवान्प्रणनाम मुदा गिरिः । सम्मानं कृतवान् भक्त्या प्रशंसन् स्वविधिं महान् ॥ ११॥ साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः । रोमोद्गमो महानासीद्गिरेः प्रेमाश्रवोऽपतन् ॥ १२॥ ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः । उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान् ॥ १३॥ हिमाचल उवाच । अद्य मे सफलं जन्म सफलं सुमहत्तपः । अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः ॥ १४॥ धन्योऽहमद्य सञ्जातो धन्या मे सकला क्षितिः । धन्यं कुलं तथा दाराः सर्वं धन्यं न संशयः ॥ १५॥ यतः समागता यूयं मिलित्वा सर्व एकदा । मां निदेशयत प्रीत्योचितं मत्वा स्वसेवकम् ॥ १६॥ ब्रह्मोवाच । इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा । ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः ॥ १७॥ देवा ऊचुः । हिमाचल महाप्राज्ञ श‍ृण्वस्मद्वचनं हितम् । यदर्थमागताः सर्वे तद् ब्रूमः प्रीतितो वयम् ॥ १८॥ या पुरा जगदम्बोमा दक्षकन्याभवद्गिरे । रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि ॥ १९॥ पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती । जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका ॥ २०॥ सा कथा विदिता लोके तवापि हिमभूधर । एवं सति महालाभो भवेद्देवगणस्य हि ॥ २१॥ सर्वस्य भवतश्चापि स्युः सर्वे ते वशाः सुराः । २२॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः । तथास्त्विति प्रसन्नात्मा प्रोवाच न च आदरात् ॥ २३॥ अथ ते च समादिश्य तद्विधिं परमादरात् । स्वयं जग्मुश्च शरणमुमायाः शङ्करस्त्रियः ॥ २४॥ सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् । प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः ॥ २५॥ देवा ऊचुः । देव्युमे जगतामम्ब शिवलोकनिवासिनि । सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि ॥ २६॥ श्रीशक्तिं पावनां शान्तां पुष्टिं परमपावनीम् । वयं नमामहे भक्त्या महदव्यक्तरूपिणीम् ॥ २७॥ शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् । अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥ २८॥ त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा । त्वं दीधितिस्सूर्यगता स्वप्रपञ्चप्रकाशिनी ॥ २९॥ या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् । आप्याययति ब्रह्मादितृणान्तं तां नमामहे ॥ ३०॥ गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती । त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ॥ ३१॥ निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि । तृष्णा कान्तिश्छविस्तुष्टिः सर्वानन्दकरी सदा ॥ ३२॥ त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा । त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ॥ ३३॥ त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् । त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ॥ ३४॥ गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः । ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ॥ ३५॥ समस्तगीर्वाणगणस्य शक्ति- स्तमोमयी धातृगुणैकदृश्या । रजः प्रपञ्चात्तु भवैकरूपा या नः श्रुता भव्यकरी स्तुतेह ॥ ३६॥ संसारसागरकरालभवाङ्गदुःख- निस्तारकारितरणिं च निवीतहीनाम् । अष्टाङ्गयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै ॥ ३७॥ नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्या सुखानि वितनोति सदैव जन्तोः । निद्रेति याति सुभगा जगती भवानां सा नः प्रसीदतु भवस्थितिपालनाय ॥ ३८॥ ब्रह्मोवाच । इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् । सुप्रेममनसः सर्वे तस्थुस्ते दर्शनेप्सवः ॥ ३९॥ इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवस्तुतिर्नाम तृतीयोऽध्यायः ॥ २.३.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४. चतुर्थोऽध्यायः । शिवेन देवानां सान्त्वनम् ।

ब्रह्मोवाच । इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी । आविर्बभूव देवानां पुरतो जगदम्बिका ॥ १॥ रथे रत्नमये दिव्ये संस्थिता परमाद्भुते । किङ्किणीजालसंयुक्ते मृदुसंस्तरणे वरे ॥ २॥ कोटिसूर्याधिकाभासरम्यावयवभासिनी । स्वतेजोराशिमध्यस्था वररूपासमच्छविः ॥ ३॥ अनूपमा महामाया सदाशिवविलासिनी । त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ॥ ४॥ त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी । सर्वमाता महानिद्रा सर्वस्वजनतारिणी ॥ ५॥ तेजोराशेः प्रभावात्तु सा तु दृष्टा सुरैश्शिवा । तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकाङ्क्षिणः ॥ ६॥ अथ देवगणाः सर्वे विष्ण्वाद्या दर्शनेप्सवः । ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ॥ ७॥ बभूवानन्दसन्दोहः सर्वेषां त्रिदिवौकसाम् । पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ॥ ८॥ देवा ऊचुः । शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि । त्वां नताः सर्वथा देवा वयं सर्वार्तिनाशिनीम् ॥ ९॥ न हि जानन्ति देवेशि वेदाः शास्त्राणि कृत्स्नशः । अतीतो महिमा ध्यानं तव वाङ्मनसोः शिवे ॥ १०॥ अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा । अभिधत्ते श्रुतिरपि परेषां का कथा मता ॥ ११॥ जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः । शरणागतभक्तानां न कुत्रापि भयादिकम् ॥ १२॥ विज्ञप्तिं श‍ृणु सुप्रीता यस्या दासाः सदाम्बिके । तव देवि महादेवि हीनतो वर्णयामहे ॥ १३॥ पुरा दक्षसुता भूत्वा सञ्जाता हरवल्लभा । ब्रह्मणश्च परेषां वानाशयत्त्वमकं महत् ॥ १४॥ पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् । स्वलोकमगमस्त्वं वालभद्दुखं हरोऽपि हि ॥ १५॥ न हि जातं प्रपूर्णं तद्देवकार्यं महेश्वरि । व्याकुला मुनयो देवाः शरणं त्वां गता वयम् ॥ १६॥ पूर्णं कुरु महेशानि निर्जराणां मनोरथम् । सनत्कुमारवचनं सफलं स्याद्यथा शिवे ॥ १७॥ अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव । लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जराः सुखम् ॥ १८॥ सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः । सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ॥ १९॥ ब्रह्मोवाच । इति प्रोच्यामराः सर्वे विष्ण्वाद्याः प्रेमसङ्कुलाः । मौनमास्थाय सन्तस्थुर्भक्तिनम्रात्ममूर्तयः ॥ २०॥ शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् । आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ॥ २१॥ उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् । विहस्य मापतिमुखान् सदया भक्तवत्सला ॥ २२॥ उमोवाच हे हरे हे विधे देवा मुनयश्च गतव्यथाः । सर्वे श‍ृणुत मद्वाक्यं प्रसन्नाहं न संशयः ॥ २३॥ चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् । कृतं मयैवं सकलं दक्षमोहादिकं च तत् ॥ २४॥ अवतारं करिष्यामि क्षितौ पूर्णं न संशयः । बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ॥ २५॥ पुरा हिमाचलो देवा मेना चातिसुभक्तितः । सेवां मे चक्रतुस्तातजननीवत्सतीतनोः ॥ २६॥ इदानीं कुरुतः सेवां सुभक्त्या मम नित्यशः । मेना विशेषतस्तत्र सुतात्वे नात्र संशयः ॥ २७॥ रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे । अतश्चावतरिष्यामि दुःखनाशो भविष्यति ॥ २८॥ सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् । अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम् ॥ २९॥ हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः । अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी ॥ ३०॥ यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः । पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता ॥ ३१॥ तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः । दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ॥ ३२॥ मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती । अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः ॥ ३३॥ योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् । न सेहे विरहं सत्या मद्रूपाया महेश्वरः ॥ ३४॥ मम हेतोर्महादुःखी स बभूव कुवेषभृत् । अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ॥ ३५॥ अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः । महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ॥ ३६॥ विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः । न शान्तिं प्राप कुत्रापि प्रबुद्धोऽप्येक एव सः ॥ ३७॥ इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः । योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ॥ ३८॥ इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः । ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ॥ ३९॥ वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः । परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ॥ ४०॥ अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् । विकारेणापि केनाशु मायालिप्तो न स प्रभुः ॥ ४१॥ रुद्रोऽतीवेच्छति विभुः स मे कर्तुं करग्रहम् । अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ॥ ४२॥ अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे । हिमागपत्न्यां मेनायां लौकिकीं गतिमाश्रिता ॥ ४३॥ भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् । देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ॥ ४४॥ गच्छत स्वगृहं सर्वे भवं भजत नित्यशः । तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः ॥ ४५॥ भविष्यति कृपालोस्तु कृपया मङ्गलं सदा । वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ॥ ४६॥ ब्रह्मोवाच । इत्युक्त्वा जगदम्बा सा देवानां पश्यतां तदा । अन्तर्दधे शिवा तात स्वं लोकं प्राप वै द्रुतम् ॥ ४७॥ विष्ण्वादयः सुराः सर्वे मुनयश्च मुदान्विताः । कृत्वा तद्दिशि सन्नामं स्वस्वधामानि संययुः ॥ ४८॥ इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर । सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ॥ ४९॥ य इदं श‍ृणुयान्नित्यं श्रावयेद्वा समाहितः । पठेद्वा पाठयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥ २.३.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५. पञ्चमोऽध्यायः । मेनकया वरप्राप्तिः ।

नारद उवाच । अन्तर्हितायां देव्यां तु दुर्गायां स्वगृहेषु च । गतेष्वमरवृन्देषु किमभूत्तदनन्तरम् ॥ १॥ कथं मेनागिरीशौ च तेपाते परमं तपः । कथं सुताभवत्तस्य मेनायां तात तद्वद ॥ २॥ ब्रह्मोवाच विप्रवर्य सुतश्रेष्ठ श‍ृणु तच्चरितं महत् । प्रणम्य शङ्करं भक्त्या वच्मि भक्तिविवर्धनम् ॥ ३॥ उपदिश्य गते तात सुरवृन्दे गिरीश्वरः । हर्यादौ मेनका चापि तेपाते परमं तपः ॥ ४॥ अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती । सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा ॥ ५॥ गिरिप्रियातीव मुदानर्च देवीं शिवेन सा । दानं ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे ॥ ६॥ चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् । शिवां सम्पूजयामासापत्यार्थिन्यन्वहं रता ॥ ७॥ अष्टम्यामुपवासं तु कृत्वादान्नवमीतिथौ । मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ॥ ८॥ गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् । उमायाः पूजयामास नानावस्तुसमर्पणैः ॥ ९॥ कदाचित्सा निराहारा कदाचित्सा धृतव्रता । कदाचित्पवनाहारा कदाचिज्जलभुघ्यभूत् ॥ १०॥ शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् । निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा ॥ ११॥ सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी । सुप्रीताभवदत्यर्थमुमा शङ्करकामिनी ॥ १२॥ अनुग्रहाय मेनायाः पुरतः परमेश्वरी । आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः ॥ १३॥ दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा । उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता ॥ १४॥ देव्युवाच । वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते । सुप्रसन्ना च तपसा तवाहं गिरिकामिनि ॥ १५॥ यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना । दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत् ॥ १६॥ ततःसा मेनका देवीं प्रत्यक्षां कालिकां तदा । दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत् ॥ १७॥ मेनोवाच देवि प्रत्यक्षतो रूपं दृष्टं तव मयाधुना । त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके ॥ १८॥ ब्रह्मोवाच अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी । बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे ॥ १९॥ ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् । तुष्टाव वाग्भिरिष्टाभिर्भक्त्या प्रत्यक्षतां गताम् ॥ २०॥ मेनोवाच । महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् । प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥ २१॥ नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् । प्रणमामि सदा सिद्धां शुभसारसमालिनीम् ॥ २२॥ मातामहीं सदानन्दां भक्तशोकविनाशिनीम् । आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥ २३॥ सा त्वं बन्धच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः । हिंसां या वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥ २४॥ नित्यानित्यैर्भावहीनैः परास्तै- स्तत्तन्मात्रैर्योज्यते भूतवर्गः । तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था ॥ २५॥ योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् । यया वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः ॥ २६॥ त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः । आह्लादिका त्वं बहुचन्द्रिका या तां त्वामहं स्तौमि नमामि चण्डीम् ॥ २७॥ योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् । वाञ्छा त्वं सर्वजगतां माया च त्वं यथा हरेः ॥ २८॥ या चेष्टरूपाणि विधाय देवी सृष्टिस्थितिर्नाशमयी च कर्त्री । ब्रह्माच्युतस्थाणुशरीरहेतुः सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २९॥ ब्रह्मोवाच तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि । उवाच मेनकां देवीं वाञ्छितं वरयेत्युत ॥ ३०॥ उमोवाच प्राणप्रिया मम त्वं हि हिमाचलविलासिनि । यदिच्छसि ध्रुवं दास्ये नादेयं विद्यते मम ॥ ३१॥ इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः । उवाच परितुष्टा सा मेनका गिरिकामिनी ॥ ३२॥ मेनोवाच शिवे जय जय प्राज्ञे महेश्वरि भवाम्बिके । वरयोग्यास्म्यहं चेत्ते वृणे भूयो वरं वरम् ॥ ३३॥ प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके । बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः ॥ ३४॥ पश्चात्तथैका तनया स्वरूपगुणशालिनी । कुलद्वयानन्दकरी भुवनत्रयपूजिता ॥ ३५॥ सुता भव मम शिवे देवकार्यार्थमेव हि । रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके ॥ ३६॥ ब्रह्मोवाच तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः । स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम् ॥ ३७॥ देव्युवाच । शतपुत्राः सम्भवन्तु भवत्या वीर्यसंयुताः । तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति ॥ ३८॥ सुताहं सम्भविष्यामि सन्तुष्टा तव भक्तितः । देवकार्यं करिष्यामि सेविता निखिलैः सुरैः ॥ ३९॥ ब्रह्मोवाच एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी । पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा ॥ ४०॥ मेनकापि वरं लब्ध्वा महेशान्या अभीप्सितम् । मुदं प्रापामितां तात तपःक्लेशोऽप्यनश्यत ॥ ४१॥ दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनाः सती । जयशब्दं प्रोच्चरन्ती स्वस्थानं प्रविवेश ह ॥ ४२॥ अथ तस्मै स्वपतये शशंस सुवरं च तम् । स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया ॥ ४३॥ श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत् । प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम् ॥ ४४॥ कालक्रमेणाथ तयोः प्रवृत्ते सुरते मुने । गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः ॥ ४५॥ असूत सा नागवधूपभोग्यं सुतमुत्तमम् । समुद्रबद्धसत्सख्यं मैनाकाभिधमद्भुतम् ॥ ४६॥ वृत्रशत्रावपि क्रुद्धे वेदनाज्ञं सपक्षकम् । पविक्षतानां देवर्षे पक्षच्छिदि वराङ्गकम् ॥ ४७॥ प्रवरं शतपुत्राणां महाबलपराक्रमम् । स्वोद्भवानां महीध्राणां पर्वतेन्द्रैकधिष्ठितम् ॥ ४८॥ आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्भुतः । दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसङ्क्षयः ॥ ४९॥ दानं ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम् । शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं नाम पञ्चमोऽध्यायः ॥ २.३.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.६. षष्ठोऽध्यायः । पार्वतिजन्मवर्णनम् ।

ब्रह्मोवाच अथ सस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् । प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥ १॥ ततः सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः । ईहया भवितुं भूयः समैच्छद् गिरिदारतः ॥ २॥ सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा । पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥ ३॥ विरराज ततः सोऽति प्रमदोऽपूर्वसुद्युतिः । हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥ ४॥ ततो गिरिः स्वप्रियायां परिपूर्णं शिवांशकम् । समाधिमत्वात्समये समधत्त सुशङ्करे ॥ ५॥ समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः । चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥ ६॥ गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् । विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥ ७॥ सुखोदयं स्वभर्तुश्च मेना दौर्हृदलक्षणम् । दधौ निदानं देवानामानन्दस्येप्सितं शुभम् ॥ ८॥ देहसादादसम्पूर्णभूषणा लोध्रसम्मुखा । स्वल्पभेन्दुक्षयेकासौ विचेष्यर्क्षा विभावरी ॥ ९॥ तदाननं मृत्सुरभि नायं तृप्तिं गिरीश्वरः । मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥ १०॥ मेना स्पृहावती केषु न मे शंसति वस्तुषु । किञ्चिदिष्टं ह्रियापृच्छदनुवेलं सखीर्गिरिः ॥ ११॥ उपेत्य दौर्हृदं शैल्यं यद्वव्रेऽपश्यदाशु तत् । आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवेऽपि हि ॥ १२॥ प्रचीयमानावयवा निस्तीर्य दौर्हृदव्यथाम् । रेजे मेना बाललता नद्धपत्राधिका यथा ॥ १३॥ गिरिः सगर्भां महिषीममंस्त धरणीमिव । निधानगर्भामभ्यन्तर्लीनवह्निशमीमिव ॥ १४॥ प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च । समुन्नतेः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः ॥ १५॥ ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् । अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥ १६॥ दृष्ट्वा प्रियां शुभाङ्गीं वै मुमोदाति गिरीश्वरः । गर्भस्थजगदम्बां हि महातेजोवतीं तदा ॥ १७॥ तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा । मुनयश्च समागम्य गर्भस्थां तुष्टुवुः शिवाम् ॥ १८॥ देवा ऊचुः दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि । सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९॥ सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः । सत्यवक्त्रे सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ २०॥ शिवप्रिये महेशानि देवदुःखक्षयङ्करि । त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१॥ आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह । सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥ २२॥ त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् । त्वां विना न हि किञ्चिद्वै शोभते त्रिभवेष्वपि ॥ २३॥ ब्रह्मोवाच इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् । प्रसन्नमनसो देवाः स्वं स्वं धाम ययुस्तदा ॥ २४॥ व्यतीते नवमे मासे दशमे मासि पूर्णतः । गर्भस्था सा गतिं दध्रे कालिका जगदम्बिका ॥ २५॥ तदा सुसमयश्चासीच्छान्तभग्रहतारकः । नभः प्रसन्नतां यातं प्रकाशः सर्वदिक्षु हि ॥ २६॥ मही मङ्गलभूयिष्ठा सवनग्रामसागरा । सरःस्रवन्तीवापीषु पुफुल्लुः पङ्कजानि वै ॥ २७॥ ववुश्च विविधा वाताः सुखस्पर्शा मुनीश्वर । मुमुदुः साधवः सर्वेऽसतां दुःखमभूद् द्रुतम् ॥ २८॥ दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः । पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ॥ २९॥ विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा । तदोत्सवो महानासीद्देवादीनां नभःस्थले ॥ ३०॥ तस्मिन्नवसरे देवी पूर्वशक्तिः शिवा सती । आविर्बभूव पुरतो मेनाया निजरूपतः ॥ ३१॥ वसन्तर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके । अर्धरात्रे समुत्पन्ना गङ्गेव शशिमण्डलात् ॥ ३२॥ समये तत्स्वरूपेण मेनकाजठराच्छिवा । समुद्धूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ ३३॥ ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः । अनुकूलो ववौ वायुर्गम्भीरो गन्धयुक् शुभः ॥ ३४॥ बभूव पुष्पवृष्टिश्च तोयवृष्टिपुरस्सरम् । जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ॥ ३५॥ तस्यां तु जायमानायां सर्वस्वं समपद्यत । हिमवन्नगरे तत्र सर्वं दुःखं क्षयं गतम् ॥ ३६॥ तस्मिन्नवसरे तत्र विष्ण्वाद्याः सकलाः सुराः । आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम् ॥ ३७॥ तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् । दिव्यरूपां महामायां शिवलोकनिवासिनीम् ॥ ३८॥। देवा ऊचुः जगदम्ब महादेवि सर्वसिद्धिविधायिनि । देवकार्यकरी त्वं हि सदातस्त्वां नमामहे ॥ ३९॥ सर्वथा कुरु कल्याणं देवानां भक्तवत्सले । मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ॥ ४०॥ ब्रह्मोवाच इत्थं स्तुत्वा शिवां देवा विष्ण्वाद्याः सुप्रणम्य ताम् । स्वं स्वं धाम ययुः प्रीताः शंसन्तस्तद्गतिं पराम् ॥ ४१॥ तां तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम । श्यामां सा मेनका देवीं मुदमायाति नारद ॥ ४२॥ दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया । विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता ॥ ४३॥ मेनोवाच जगदम्ब महेशानि कृतातिकरुणा त्वया । आविर्भूता मम पुरो विलसन्ती यदम्बिके ॥ ४४॥ त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे । शिवप्रिया सदा देवि सर्वदेवस्तुता परा ॥ ४५॥ कृपां कुरु महेशानि मम ध्यानस्थिता भव । एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम् ॥ ४६॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः । प्रत्युवाच शिवा देवी सुप्रसन्ना गिरिप्रियाम् ॥ ४७॥ देव्युवाच हे मेने त्वं पुरा मां च सुसेवितवती रता । त्वद्भक्त्या सुप्रसन्नाहं वरं दातुं गतान्तिकम् ॥ ४८॥ वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः । सुता भव महादेवि सा मे देवहितं कुरु ॥ ४९॥ तथा दत्त्वा वरं तेऽहं गता स्वं पदमादरात् । समयं प्राप्य तनयाभवं ते गिरिकामिनि ॥ ५०॥ दिव्यरूपं धृतं मेऽद्य यत्ते मत्स्मरणं भवेत् । अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ॥ ५१॥ युवां मां पुत्रिभावेन दिव्यभावेन वासकृत् । चिन्तयन्तौ कृतस्नेहौ यातास्थो मद्गतिं पराम् ॥ ५२॥ देवकार्यं करिष्यामि लीलां कृत्वाद्भुतां क्षितौ । शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान् ॥ ५३॥ ब्रह्मोवाच । इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्ममायया । पश्यन्त्यां मातरि प्रीत्या सद्योऽभूत्तनयातनुः ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्ठोऽध्यायः ॥ २.३.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.७. सप्तमोऽध्यायः । पार्वत्या बाललीला ।

ब्रह्मोवाच । ततो मेनापुरः सा वै सुता भूत्वा महाद्युतिः । चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ॥ १॥ अरिष्टशय्यां परितः सद्विसारिसुतेजसा । निशीथदीपा विहतत्विष आसन्नरं मुने ॥ २॥ श्रुत्वा तद् रोदनं रम्यं गृहस्थाः सर्वयोषितः । जहृषुः सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ॥ ३॥ तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा । पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ॥ ४॥ तच्छुद्धान्तःचरायाशु पुत्रीजन्म सुशंसते । सितातपत्रं नादेयमासीत्तस्य महीभृतः ॥ ५॥ गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः । ददर्श तनयां तां तु शोभमानां सुभाससा ॥ ६॥ नीलोत्पलदलश्यामां सुद्युतिं सुमनोरमाम् । दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ॥ ७॥ सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः । तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ॥ ८॥ बभूव मङ्गलं गानं ननृतुर्वारयोषितः । दानं ददौ द्विजातिभ्यो जातकर्म विधाय च ॥ ९॥ अथ द्वारं समागत्य चकार सुमहोत्सवम् । हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणं ददौ ॥ १०॥ अथो शुभमुहूर्तेऽस्मिन् हिमवान्मुनिभिः सह । नामाकरोत्सुतायास्तु कालीत्यादि सुखप्रदम् ॥ ११॥ दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् । उत्सवं कारयामास विविधं गानपूर्वकम् ॥ १२॥ इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः । लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ॥ १३॥ तत्र सा ववृधे देवी गिरिराजगृहे शिवा । गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका ॥ १४॥ एवं सा कालिका देवी चार्वङ्गी चारुदर्शना । दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ॥ १५॥ कुलोचितेन नाम्ना तां पार्वतीत्याजुहाव ह । बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ॥ १६॥ उमेति मात्रा तपसे निषिद्धा कालिका च सा । पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ॥ १७॥ दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न । अपत्ये पार्वतीत्याख्ये सर्वसौभाग्यसंयुते ॥ १८॥ मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः । विशेषसङ्गा भवति सहकारे मुनीश्वर ॥ १९॥ पूतो विभूषितश्चापि स बभूव तया गिरिः । संस्कारवत्यैव गिरा मनीषीव हिमालयः ॥ २०॥ प्रभामहत्या शिखयेव दीपो भवनस्य च । त्रिमार्गयेव सन्मार्गस्तद्वद् गिरिजया गिरिः ॥ २१॥ कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता च सा । गङ्गासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ॥ २२॥ अथ देवी शिवा सा चोपदेशसमये मुने । पपाठ विद्याः सुप्रीत्या यतचित्ता च सद्गुरोः ॥ २३॥ प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे । हंसालिः स्वर्णदीं नक्तमात्मभासो महौषधिम् ॥ २४॥ इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि । अन्यलीलां प्रवक्ष्येऽहं श‍ृणु त्वं प्रेमतो मुने ॥ २५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं नाम सप्तमोऽध्यायः ॥ २.३.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.८. अष्टमोऽध्यायः । नारदहिमालयसंवादः ।

ब्रह्मोवाच । एकदा त्वं शिवज्ञानी शिवलीलाविदां वरः । हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥ १॥ दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद । आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥ २॥ पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः । साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः ॥ ३॥ हिमालय उवाच । हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो । सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥ ४॥ मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् । कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५॥ ब्रह्मोवाच । इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा । विलोक्य कालिकाहस्तं सर्वाङ्गं च विशेषतः ॥ ६॥ अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारदः । ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥ ७॥ नारद उवाच । एषा ते तनया मेने सुधांशोरिव वर्धिता । आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ८॥ स्वपतेः सुखदात्यन्तं पित्रोः कीर्तिविवर्धिनी । महासाध्वी च सर्वासु महानन्दकरी सदा ॥ ९॥ सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे । एका विलक्षणा रेखा तत्फलं श‍ृणु तत्त्वतः ॥ १०॥ योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः । अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥ ११॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्ते हि सत्यं मत्वा च दम्पती । मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥ १२॥ शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका । लक्षणैस्तं शिवं मत्वा जहर्षाति मुने हृदि ॥ १३॥ न मृषा नारदवचस्त्विति सञ्चिन्त्य सा शिवा । स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥ १४॥ उवाच दुखितः शैलस्त्वां तदा हृदि नारद । कमुपायं मुने कुर्यामतिदुःखमभूदिति ॥ १५॥ तच्छ्रुत्वा त्वं मुने प्रात्थ महाकौतुककारकः । हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः ॥ १६॥ नारद उवाच । स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि । कररेखा ब्रह्मलिपिर्न मृषा भवति ध्रुवम् ॥ १७॥ तादृशोऽस्याः पतिः शैल भविष्यति न संशयः । तत्रोपायं श‍ृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम् ॥ १८॥ तादृशोऽस्ति वरः शम्भुः लीलारूपधरः प्रभुः । कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः ॥ १९॥ प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः । रविपावकगङ्गानां तत्र ज्ञेया निदर्शना ॥ २०॥ तस्माच्छिवाय कन्यां स्वां शिवां देहि विवेकतः । शिवः सर्वेश्वरः सेव्योऽविकारी प्रभुरव्ययः ॥ २१॥ शीघ्रप्रसादः स शिवः तां ग्रहीष्यत्यसंशयम् । तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः ॥ २२॥ सर्वथा सुसमर्थो हि स शिवः सकलेश्वरः । कुलिशस्यापि विध्वंसी ब्रह्माधीनः सुखप्रदः ॥ २३॥ ब्रह्मोवाच इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने । शैलराजमवोचो हि हर्षयन्वचनैः शुभैः ॥ २४॥ भाविनी दयिता शम्भोः सानुकूला सदा हरे । महासाध्वी सुव्रता च पित्रोः सुखविवर्धिनी ॥ २५॥ शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी । स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति ॥ २६॥ एतयोः सदृशं प्रेम न कस्याप्येव तादृशम् । भूतं वा भविता वापि नाधुना च प्रवर्तते ॥ २७॥ अनयोः सुरकार्याणि कर्तव्यानि मृतानि च । यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः ॥ २८॥ अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः । भविष्यति तथा हर्षदिनयोर्मिलितं पुनः ॥ २९॥ शरीरार्धं हरस्यैषा हरिष्यति सुता तव । तपः प्रभावात्सन्तोष्य महेशं सकलेश्वरम् ॥ ३०॥ स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम् । विद्युद्गौरतमा चेयं तव पुत्री भविष्यति ॥ ३१॥ गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति । सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा ॥ ३२॥ नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम । इदं चोपांशु देवानां न प्रकाश्यं कदाचन ॥ ३३॥ ब्रह्मोवाच इति तस्य वचः श्रुत्वा देवर्षे तव नारद । उवाच हिमवान्वाक्यं मुने त्वां वाग्विशारदः ॥ ३४॥ हिमालय उवाच हे मुने नारद प्राज्ञ विज्ञप्तिं काञ्चिदेव हि । करोमि तां श‍ृणु प्रीत्यातस्त्वं प्रमुदमावह ॥ ३५॥ श्रूयते त्यक्तसङ्गः स महादेवो यतात्मवान् । तपश्चरति सन्नित्यं देवानामप्यगोचरः ॥ ३६॥ स कथं ध्यानमार्गस्थः परब्रह्मार्पितं मनः । भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् ॥ ३७॥ अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् । सदाशिवाख्यं स्वं रूपं निर्विकारमजात्परम् ॥ ३८॥ निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम् । अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते ॥ ३९॥ इति स श्रूयते नित्यं किन्नराणां मुखान्मुने । इहागतानां सुप्रीत्या किं तन्मिथ्यावचो ध्रुवम् ॥ ४०॥ विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः । समयं कृतवान्पूर्वं तन्मया गदितं श‍ृणु ॥ ४१॥ न त्वामृतेऽन्यां वरये दाक्षायणि सती प्रिये । भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ॥ ४२॥ इति सत्या समं तेन पुरैव समयः कृतः । तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति ॥ ४३॥ ब्रह्मोवाच इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव । तदाकर्ण्याथ देवर्षे त्वं प्रावोचः सुतत्त्वतः ॥ ४४॥ नारद उवाच न वै कार्या त्वया चिन्ता गिरिराज महामते । एषा तव सुता काली दक्षजा ह्यभवत्पुरा ॥ ४५॥ सतीनामाभवत्तस्याः सर्वमङ्गलदं सदा । सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत् ॥ ४६॥ पितुर्यज्ञे तथा प्राप्यानादरं शङ्करस्य च । तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती ॥ ४७॥ पुनःसैव समुत्पन्ना तव गेहेऽम्बिका शिवा । पार्वती हरपत्नीयं भविष्यति न संशयः ॥ ४८॥ एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने । पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम् ॥ ४९॥ तं सर्वं पूर्ववृत्तान्तं काल्या मुनिमुखाद्गिरिः । श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥ ५०॥ ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा । लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना ॥ ५१॥ करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः । मूर्ध्नि शश्वत्तथाघ्राय स्वासनान्ते न्यवेशयत् ॥ ५२॥ ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने । हर्षयन् गिरिराजं च मेनकां तनयैः सह ॥ ५३॥ सिंहासनं तु किन्त्वस्याः शैलराज भवेदतः । शम्भोरूरौ सदैतस्या आसनं तु भविष्यति ॥ ५४॥ हरेरूर्वासनं प्राप्य तनया तव सन्ततम् । न यत्र कस्यचिद् दृष्टिर्मानसं वा गमिष्यति ॥ ५५॥ ब्रह्मोवाच इति वचनमुदारं नारद त्वं गिरीशं त्रिदिवमगम उक्त्वा तत्क्षणादेव प्रीत्या । गिरिपतिरपि चित्ते चारुसम्मोदयुक्तः स्वगृहमगमदेवं सर्वसम्पत्समृद्धम् ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥ २.३.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.९. नवमोऽध्यायः । पित्रोः पार्वत्यै शिवाराधानोपदेशः तस्याः स्वप्ने शिवस्याविर्भावश्च ।

नारद उवाच । विधे तात त्वया शैववर प्राज्ञाद्भुता कथा । वर्णिता करुणां कृत्वा प्रीतिर्मे वर्धिताधिका ॥ १॥ विधे गते स्वकं धाम मयि वै दिव्यदर्शने । ततः किमभवत्तात कृपया तद्वदाधुना ॥ २॥ ब्रह्मोवाच गते त्वयि मुने स्वर्गे कियत्काले गते सति । मेना प्राप्यैकदा शैलनिकटं प्रणनाम सा ॥ ३॥ स्थित्वा सविनयं प्राह स्वनाथं गिरिकामिनी । तत्र शैलाधिनाथं सा प्राणप्रियसुता सती ॥ ४॥ मेनोवाच मुनिवाक्यं न बुद्धं मे सम्यङ्नारीस्वभावतः । विवाहं कुरु कन्यायाःसुन्दरेण वरेण ह ॥ ५॥ सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः । वरश्च गिरिजायास्तु सुलक्षणकुलोद्भवः ॥ ६॥ प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिया । सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते ॥ ७॥ ब्रह्मोवाच इत्युक्त्वाश्रुमुखी मेना पत्यङ्घ्र्योः पतिता तदा । तामुत्थाप्य गिरिः प्राह यथावत्प्राज्ञसत्तमः ॥ ८॥ हिमालय उवाच । श‍ृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः । भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन ॥ ९॥ यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् । तपः कुर्याच्छङ्करस्य सा भक्त्या स्थिरचेतसा ॥ १०॥ चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके । सर्वं भूयाच्छुभं नश्येन्नारदोक्तममङ्गलम् ॥ ११॥ अमङ्गलानि सर्वाणि मङ्गलानि सदा शिवे । तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम् ॥ १२॥ ब्रह्मोवाच । इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराभवत् । सुतोपकण्ठमगमदुपदेष्टुं तपोरुचिम् ॥ १३॥ सुताङ्गं सुकुमारं हि दृष्ट्वातीवाथ मेनका । विव्यथे नेत्रयुग्मे चाश्रुपूर्णेऽभवतां द्रुतम् ॥ १४॥ सुतां समुपदेष्टुं तन्न शशाक गिरिप्रिया । बुबुधे पार्वती तद्वै जननीङ्गितमाशु सा ॥ १५॥ अथ सा कालिका देवी सर्वज्ञा परमेश्वरी । उवाच जननीं सद्यः समाश्वास्य पुनः पुनः ॥ १६॥ पार्वत्युवाच । मातः श‍ृणु महाप्राज्ञेऽद्यतनेऽजमुहूर्तके । रात्रौ दृष्टो मया स्वप्नस्तं वदामि कृपां कुरु ॥ १७॥ विप्रश्चैव तपस्वी मां सदयः प्रीतिपूर्वकम् । उपादिदेश सुतपः कर्तुं मातः शिवस्य वै ॥ १८॥ ब्रह्मोवाच । तच्छ्रुत्वा मेनका शीघ्रं पतिमाहूय तत्र च । तत्स्वप्नं कथयामास सुतादृष्टमशेषतः ॥ १९॥ सुतास्वप्नमथाकर्ण्य मेनकातो गिरीश्वरः । उवाच परमप्रीतः प्रियां सम्बोधयन्गिरा ॥ २०॥ गिरीश्वर उवाच हे प्रियेऽपररात्रान्ते स्वप्नो दृष्टो मयापि हि । तं श‍ृणु त्वं महाप्रीत्या वच्म्यहं तं समादरात् ॥ २१॥ एकस्तपस्वी परमो नारदोक्तवराङ्गधृक् । पुरोपकण्ठं सुप्रीत्या तपः कर्तुं समागतः ॥ २२॥ गृहीत्वा स्वसुतां तत्रागमं प्रीततरोऽप्यहम् । मया ज्ञातः स वै शम्भुर्नारदोक्तवरः प्रभुः ॥ २३॥ सेवार्थं तस्य तनयामुपदिश्य तपस्विनः । तं वै प्रार्थितवांस्तस्यां न तदाङ्गीचकार सः ॥ २४॥ अभूद्विवादः सुमहान्साङ्ख्यवेदान्तसम्मतः । ततस्तदाज्ञया तत्र संस्थितासीत्सुता मम ॥ २५॥ निधाय हृदि तं कामं सिषेवे भक्तितश्च सा । इति दृष्टं मया स्वप्नं प्रोक्तवांस्ते वरानने ॥ २६॥ ततो मेने कियत्कालं परीक्ष्यं तत्फलं प्रिये । योग्यमस्तीदमेवेह बुध्यस्व त्वं मम ध्रुवम् ॥ २७॥ ब्रह्मोवाच इत्युक्त्वा गिरिराजश्च मेनका वै मुनीश्वर । सन्तस्थतुः परीक्षन्तौ तत्फलं शुद्धचेतसौ ॥ २८॥ इत्थं व्यतीतेऽल्पदिने परमेशः सतां गतिः । सतीविरहसुव्यग्रो भ्रमन्सर्वत्र सूतिकृत् ॥ २९॥ तत्राजगाम सुप्रीत्या कियद्गणयुतः प्रभुः । तपः कर्तुं सतीप्रेमविरहाकुलमानसः ॥ ३०॥ तपश्चकार स्वं तत्र पार्वती सेवने रता । सखीभ्यां सहिता नित्यं प्रसन्नार्थमभूत्तदा ॥ ३१॥ विद्धोऽपि मार्गणैः शम्भुर्विकृतिं नाप स प्रभुः । प्रेषितेन सुरैः स्वात्ममोहनार्थं स्मरेण वै ॥ ३२॥ दग्ध्वा स्मरं च तत्रैव स्ववह्निनयनेन सः । स्मृत्वा मम वचः क्रुद्धो मह्यमन्तर्दधे ततः ॥ ३३॥ ततः कालेन कियता विनाश्य गिरिजामदम् । प्रसादितः सुतपसा प्रसन्नोऽभून्महेश्वरः ॥ ३४॥ लौकिकाचारमाश्रित्य रुद्रो विष्णुप्रसादितः । कालीं विवाहयामास ततोऽभूद्बहुमङ्गलम् ॥ ३५॥ इत्येतत्कथितं तात समासाच्चरितं विभोः । शङ्करस्य परं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ३६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्णनपूर्वकं सङ्क्षेपशिवचरितवर्णनं नाम नवमोऽध्यायः ॥ २.३.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१०. दशमोऽध्यायः । भौमोत्पत्तिस्तस्य शिवकृपया ग्रहत्वप्राप्तिश्च ।

नारद उवाच । विष्णुशिष्य महाभाग विधे शैववर प्रभो । शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ॥ १॥ सतीविरहयुक्शम्भुः किं चक्रे चरितं तथा । तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ॥ २॥ शिवाशिवविवादोऽभूत्कथं कामक्षयश्च मे । तपः कृत्वा कथं प्राप शिवं शम्भुं च पार्वती ॥ ३॥ तत्सर्वमपरं चापि शिवसच्चरितं परम् । वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ॥ ४॥ सूत उवाच । इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः । विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ९॥ ब्रह्मोवाच । देवर्षे शैववर्याद्य तद्यशः श‍ृणु चादरात् । पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ॥ ६॥ आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः । सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा ॥ ७॥ गणानाभाष्य शोचंस्तां तद्गुणान्प्रेमवर्धनान् । वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ६॥ दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् । पुनर्बभ्राम लोकान्वै सर्वान् लीलाविशारदः ॥ ९॥ न प्राप दर्शनं क्वापि सतीविरहदुःखितः । पुनश्च गिरिमायातः शङ्करो भक्तशङ्करः ॥ १०॥ समाधाय मनो यत्नात्समाधिं दुःखनाशनम् । चकार च ददर्शासौ स्वरूपं निजमव्ययम् ॥ ११॥ इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः । निर्विकारी परं ब्रह्म मायाधीशः स्वयं प्रभुः ॥ १२॥ ततः समाधिं तत्याज व्यतीयुर्ह्यमिताः समाः । यदा तदा बभूवाशु चरितं तद्वदामि वः ॥ १३॥ प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसम्भवम् । पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ॥ १४॥ चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने । अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ॥ १५॥ रुरोद स शिशुस्तस्य पुरो हि परमेशितुः । प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ॥ १६॥ तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः । आविर्बभूव तत्रैव भयमानीय शङ्करात् ॥ १७॥ तं बलं द्रुतमुत्थाय क्रोडायां निदधे वरम् । स्तन्यं सापाययत्प्रीत्या दुग्धं चोपरिसम्भवम् ॥ १८॥ चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् । सत्यभावात्स्वयं माता परमेशहितावहा ॥ १९॥ तद् दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती । अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ॥ २०॥ धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम । त्वय्युद्भूतं श्रमजलान्महातेजस्विनो वरम् ॥ २१॥ मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते । त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितः सदा ॥ २२॥ असौ बालः कुदाता हि भविष्यति गुणी तव । ममापि सुखदाता हि गृहाणैनं यथारुचि ॥ २३॥ ब्रह्मोवाच । इत्युक्त्वा विररामाथ किञ्चिद्विरहमुक्तधीः । लोकाचारकरो रुद्रो निर्विकारी सतां प्रियः ॥ २४॥ अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा । स्वस्थानं ससुता प्राप सुखमात्यन्तिकं च वै ॥ २५॥ स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् । तस्यां काश्यां चिरं कालं सिषेवे शङ्करं प्रभुम् ॥ २६॥ विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः । दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ॥ २७॥ इत्युक्तं शम्भुचरितं सतीविरहसंयुतम् । तपस्याचरणं शम्भोः श‍ृणु चादरतो मुने ॥ २८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ॥ २.३.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.११. एकादशोऽध्यायः । शिवहिमवत्समागमः ।

ब्रह्मोवाच । वर्धमाना गिरेः पुत्री सा शक्तिर्लोकपूजिता । अष्टवर्षा यदा जाता हिमालयगृहे सती ॥ १॥ तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः । कृत्वा तमद्भुतामन्तर्मुमोदातीव नारद ॥ २॥ तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः । समाधातुं मनःसम्यक्तपः कर्तुं समैच्छत ॥ ३॥ कांश्चिद्गणवरान् शान्तान् नन्द्यादीनवगृह्य च । गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ ४॥ यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात्स्रुता । सर्वाघौघविनाशाय पावनी परमा मुने ॥ ५॥ तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः । एकाग्रं चिन्तयामास स्वमात्मानमतन्द्रितः ॥ ६॥ चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् । जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ॥ ७॥ हरे ध्यानपरे तस्मिन्प्रमथा ध्यानतत्पराः । अभवन्केचिदपरे नन्दिभृङ्ग्यादयो गणाः ॥ ६॥ सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः । नैवाकूजंस्तु मौना हि द्वारपाः केचनाभवन् ॥ ९॥ एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः । शङ्करस्यौषधिप्रस्थे श्रुत्वागमनमादरात् ॥ १०॥ प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः । समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ॥ ११॥ हिमालय उवाच । देवदेव महादेव कपर्दिच्छङ्कर प्रभो । त्वयैव लोकनाथेन पालितं भुवनत्रयम् ॥ १२॥ नमस्ते देवदेवेश योगिरूपधराय च । निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ॥ १३॥ कैलासवासिने शम्भो सर्वलोकाटनाय च । नमस्ते परमेशाय लीलाकाराय शूलिने ॥ १४॥ परिपूर्णगुणाधानविकाररहिताय ते । नमोऽनीहाय वीहाय धीराय परमात्मने ॥ १५॥ अबहिर्भोगकाराय जनवत्सलते नमः । त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने ॥ १६॥ विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे । विष्णुब्रह्मैकदात्रे ते भक्तप्रिय नमोऽस्तु ते ॥ १७॥ तपोरत तपःस्थान सुतपःफलदायिने । तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ॥ १८॥ व्यवहारकरायैव लोकाचारकराय ते । सगुणाय परेशाय नमोऽस्तु परमात्मने ॥ १९॥ लीला तव महेशानावेद्या साधुसुखप्रदा । भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ॥ २०॥ मम भाग्योदयात्तत्र त्वमागत इह प्रभो । सनाथ कृतवान्मां त्वं वर्णितो दीनवत्सलः ॥ २१॥ अद्य मे सफलं जन्म सफलं जीवनं मम । अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥ २२॥ ज्ञात्वा मां दासमव्यग्रमाज्ञां देहि महेश्वर । त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ॥ २३॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः । किञ्चिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ॥ २४॥ सगणं तं तथा दृष्ट्वा गिरिराजं वृषध्वजः । उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ॥ २५॥ महेश्वर उवाच । तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः । यथा न कोऽपि निकटं समायातु तथा कुरु ॥ २६॥ त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः । देवानां राक्षसानां च परेषां च महात्मनाम् ॥ २७॥ सदा वासो द्विजादीनां गङ्गापूतश्च नित्यदा । परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ॥ २८॥ अहं तपश्चराम्यत्र गङ्गावतरणे स्थले । आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ॥ २९॥ निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप । सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ॥ ३०॥ ममेदमेव परमं सेवनं पर्वतोत्तम । स्वगृहं गच्छ सत्प्रीत्या तत्सम्पादय यत्नतः ॥ ३१॥ ब्रह्मोवाच । इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् । गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ॥ ३२॥ हिमालय उवाच । पूजितोऽसि जगन्नाथ मया त्वं परमेश्वर । स्वागतेनाद्य विषये स्थितं त्वां प्रार्थयामि किम् ॥ ३३॥ महता तपसा त्वं हि देवैर्यत्नपराश्रितैः । न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ॥ ३४॥ मत्तोऽप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् । भवानिति च मत्पृष्ठे तपसे समुपस्थितः ॥ ३५॥ देवेन्द्रादधिकं मन्ये स्वात्मानं परमेश्वर । सगणेन त्वयागत्य कृतोऽनुग्रहभागहम् ॥ ३६॥ निर्विघ्नं कुरु देवेश स्वतन्त्रः परमं तपः । करिष्येऽहं तथा सेवां दासोऽहं ते सदा प्रभो ॥ ३७॥ ब्रह्मोवाच । इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः । वृत्तान्तं तं समाचख्यौ प्रियायै च समादरात् ॥ ३८॥ नीयमानान्परीवारान् स्वगणानपि नारद । समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः ॥ ३९॥ हिमालय उवाच । अद्य प्रभृति नो यातु कोऽपि गङ्गावतारणम् । मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ॥ ४०॥ गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् । दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ॥ ४१॥ इति तान्स नियम्याशु स्वगणान्निखिलान्मुने । सुयत्नं कृतवाञ्छैलस्तं श‍ृणु त्वं वदामि ते ॥ ४२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ॥ २.३.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१२. द्वादशोऽध्यायः । शिवहिमवत्संवादः ।

ब्रह्मोवाच । अथ शैलपतिर्हृष्टः सत्पुष्पफलसञ्चयम् । समादाय स्वतनयासहितोऽगाद्धरान्तिकम् ॥ १॥ स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम् । अर्पयामास तनयां कालीं तस्मै हृदाद्भुताम् ॥ २॥ फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः । अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥ ३॥ हिमगिरिरुवाच । भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् । समुत्सुका समानीता त्वदाराधनकाङ्क्षया ॥ ४॥ सखीभ्यां सह नित्यं त्वां सेवतामेव शङ्करम् । अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥ ५॥ ब्रह्मोवाच । अथ तां शङ्करोऽपश्यत्प्रथमारूढयौवनाम् । फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् ॥ ६॥ समस्तलीलासंस्थानशुभवेषविजृम्भिताम् । कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ ७॥ मृणालायतपर्यन्तबाहुयुग्ममनोहराम् । राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥ ८॥ बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् । स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥ ९॥ ध्यानपञ्जरनिर्बद्धमुनिमानसमप्यलम् । दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ॥ १०॥ दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् । विग्रहे तन्त्रमन्त्राणां वर्धिनीं कामरूपिणीम् ॥ ११॥ न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् । परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥ १२॥ दृष्ट्वा तदानीं सकलेश्वरं विभुं तपो जुषाणं विनिमीलितेक्षणम् । कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम् ॥ ३३॥ ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः । उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः ॥ १४॥ हिमाचल उवाच । देवदेव महादेव करुणाकर शङ्कर । पश्य मां शरणं प्राप्तमुन्मील्य नयने विभो ॥ १५॥ शिव शर्व महेशान जगदानन्दकृत्प्रभो । त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ॥ १६॥ न त्वां जानन्ति देवेश वेदाः शास्त्राणि कृत्स्नशः । अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ॥ १७॥ अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा । अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥ १८॥ जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः । शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥ १९॥ विज्ञप्तिं श‍ृणु मत्प्रीत्या स्वदासस्य ममाधुना । तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥ २०॥ सभाग्योऽहं महादेव प्रसादात्तव शङ्कर । मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥ २१॥ प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो । अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥ २२॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः । त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ॥ २३॥ महेश्वर उवाच । आगन्तव्यं त्वया नित्यं दर्शनार्थं ममाचल । कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ॥ २४॥ ब्रह्मोवाच । महेशवचनं श्रुत्वा शिवातातस्तथाविधम् । अचलः प्रत्युवाचेदं गिरिशं नतकन्धरः ॥ २५॥ हिमाचल उवाच । कस्मान्मयानया सार्धं नागन्तव्यं तदुच्यताम् । सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ॥ २६॥ ब्रह्मोवाच । ततोऽब्रवीद्गिरिं शम्भुः प्रहसन्वृषभध्वजः । लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ॥ २७॥ शम्भुरुवाच । इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा । नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥ २८॥ मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः । युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ॥ २९॥ अहं तपस्वी योगी च निर्लिप्तो मायया सदा । प्रयोजनं न युवत्या वै स्त्रिया किं मेऽस्ति भूधर ॥ ३०॥ एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित । वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ॥ ३१॥ भवत्यचल तत्सङ्गाद्विषयोत्पत्तिराशु वै । विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ॥ ३२॥ अतस्तपस्विना शैल न कार्या स्त्रीषु सङ्गतिः ॥ महाविषयमूलं सा ज्ञानवैराग्यनाशिनी ॥ ३३॥ ब्रह्मोवाच । इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः । विरराम गिरीशं तं महायोगिवरः प्रभुः ॥ ३४॥ एतच्छ्रुत्वा वचनं तस्य शम्भो- र्निरामयं निःस्पृहं निष्ठुरं च । कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किञ्चिद्व्याकुलश्चास तूष्णीम् ॥ ३५॥ तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य । अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम् ॥ ३६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसंवादवर्णनं नाम द्वादशोऽध्यायः ॥ २.३.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१३. त्रयोदशोऽध्यायः । शिवपार्वतीसंवादः ।

भवान्युवाच । किमुक्तं गिरिराजाय त्वया योगिंस्तपस्विना । तदुत्तरं श‍ृणु विभो मत्तो ज्ञानिविशारद ॥ १॥ तपःशक्त्यान्वितः शम्भो करोषि विपुलं तपः । तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥ २॥ सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् । तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥ ३॥ कस्त्वं का प्रकृतिःसूक्ष्मा भगवंस्तद्विमृश्यताम् । विना प्रकृत्या च कथं लिङ्गरूपी महेश्वरः ॥ ४॥ अर्चनीयोऽसि वन्द्योऽसि ध्येयोऽसि प्राणिनां सदा । प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥ ५॥ ब्रह्मोवाच । पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः । सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥ ६॥ महेश्वर उवाच । तपसा परमेणैव प्रकृतिं नाशयाम्यहम् । प्रकृत्या रहितः शम्भुरहं तिष्ठामि तत्त्वतः ॥ ७॥ तस्माच्च प्रकृतेः सद्भिर्न कार्यः सङ्ग्रहः क्वचित् । स्थातव्यं निर्विकारैश्च लोकाचारविवर्जितैः ॥ ८॥ ब्रह्मोवाच । इत्युक्ता शम्भुना तात लौकिकव्यवहारतः । सुविहस्य हृदा काली जगाद मधुरं वचः ॥ ९॥ काल्युवाच । यदुक्तं भवता योगिन्वचनं शङ्कर प्रभो । सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ १०॥ एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् । प्रकृत्या सर्वमेतच्च बद्धमस्ति निरन्तरम् ॥ ११॥ तस्मात्त्वया न वक्तव्यं न कार्यं किञ्चिदेव हि । वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥ १२॥ यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् । तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥ १३॥ प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः । त्वया शम्भोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥ १४॥ प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर । निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥ १५॥ वाग्वादेन च किं कार्यं मम योगिंस्त्वया सह । प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥ १६॥ इन्द्रियाणां गोचरत्वं यावद्भवति देहिनाम् । तावत्सर्वं विमन्तव्यं प्राकृतं ज्ञानिभिर्धिया ॥ १७॥ किं बहूक्तेन योगीश श‍ृणु मद्वचनं परम् । सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥ १८॥ मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः । मां विना त्वं निरीहोऽसि न किञ्चित्कर्तुमर्हसि ॥ १९॥ पराधीनःसदा त्वं हि नानाकर्मकरो वशी । निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥ २०॥ प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव । तर्हि त्वया न भेतव्यं समीपे मम शङ्कर ॥ २१॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्याः साङ्ख्यशास्त्रोदितं शिवः । वेदान्तमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥ २२॥ श्रीशिव उवाच । इत्येवं त्वं यदि ब्रूषे गिरिजे साङ्ख्यधारिणी । प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥ २३॥ यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः । वेदान्तवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥ २४॥ ब्रह्मोवाच । इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः । भक्तानुरञ्जनकरो भक्तानुग्रहकारकः ॥ २५॥ श्रीशिव उवाच । अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये । चरामि भूमौ परमार्थभाव- स्वरूपमानन्दमयं सुलोचयन् ॥ २६॥ तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप । अनुज्ञया विना किञ्चित्तपः कर्तुं न शक्यते ॥ २७॥ ब्रह्मोवाच । एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः । प्रणम्य हिमवाञ्छम्भुमिदं वचनमब्रवीत् ॥ २८॥ हिमवानुवाच । त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् । किमप्यहं महादेव तुच्छो भूत्वा वदामि ते ॥ २९॥ ब्रह्मोवाच । एवमुक्तो हिमवता शङ्करो लोकशङ्करः । विहस्य गिरिराजं तं प्राह याहीति सादरम् ॥ ३०॥ शङ्करेणाभ्यनुज्ञातःस्वगृहं हिमवान्ययौ । सार्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः ॥ ३१॥ पित्रा विनापि सा काली सखीभ्यां सह नित्यशः । जगाम शङ्कराभ्याशं सेवायै भक्तितत्परा ॥ ३२॥ निषिषेध न तां कोऽपि गणो नन्दीश्वरादिकः । महेशशासनात्तात तच्छासनकरः शुचिः ॥ ३३॥ साङ्ख्यवेदान्तमतयोः शिवयोः शिवदः सदा । संवादः सुखकृच्चोक्तोऽभिन्नयोः सुविचारतः ॥ ३४॥ गिरिराजस्य वचनात्तनयां तस्य शङ्करः । पार्श्वे समीपे जग्राह गौरवादपि गोपरः ॥ ३५॥ उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः । नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु ॥ ३६॥ एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः । निर्विकारो महायोगी नानालीलाकरः प्रभुः ॥ ३७॥ इदमेव महद्धैर्यं धीराणां सुतपस्विनाम् । विघ्नवन्त्यपि सम्प्राप्य यद्विघ्नैर्न विहन्यते ॥ ३८॥ ततः स्वपुरमायातो गिरिराट् परिचारकैः । मुमोदातीव मनसि सप्रियः स मुनीश्वर ॥ ३९॥ हरश्च ध्यानयोगेन परमात्मानमादरात् । निर्विघ्नेन स्वमनसा त्वासीच्चिन्तयितुं स्थितः ॥ ४०॥ काली सखीभ्यां सहिता प्रत्यहं चन्द्रशेखरम् । सेवमाना महादेवं गमनागमने स्थिता ॥ ४१॥ प्रक्षाल्य चरणौ शम्भोः पपौ तच्चरणोदकम् । वह्निशौचेन वस्त्रेण चक्रे तद्गात्रमार्जनम् ॥ ४२॥ षोडशेनोपचारेण सम्पूज्य विधिवद्धरम् । पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम् ॥ ४३॥ एवं संसेवमानायाः शङ्करं ध्यानतत्परम् । व्यतीयाय महान्कालः शिवाया मुनिसत्तम ॥ ४४॥ कदाचित्सहिता काली सखीभ्यां शङ्कराश्रमे । वितेने सुन्दरं गानं सुतालं स्मरवर्धनम् ॥ ४५॥ कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् । सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा ॥ ४६॥ कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भृशम् । वीक्षन्ती विस्मयामास सकामा चन्द्रशेखरम् ॥ ४७॥ ततस्तप्तेन भूतेशस्तां निस्सङ्गां परिस्थिताम् । सोऽचिन्तयत्तदा वीक्ष्य भूतदेहे स्थितेति च ॥ ४८॥ नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम् । महालावण्यनिचयां मुनीनामपि मोहिनीम् ॥ ४९॥ महादेवः पुनर्दृष्ट्वा तथा तां संयतेन्द्रियाम् । स्वसेवने रतां नित्यं सदयः समचिन्तयत् ॥ ५०॥ यदैवैषा तपश्चर्याव्रतं काली करिष्यति । तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम् ॥ ५१॥ ब्रह्मोवाच । इति सञ्चिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः । महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः ॥ ५२॥ ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः । हृदि नासीन्मुने काचिदन्या चिन्ता व्यवस्थिता ॥ ५३॥ काली त्वनुदिनं शम्भुं सद्भक्त्या समसेवत । विचिन्तयन्ती सततं तस्य रूपं महात्मनः ॥ ५४॥ हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थिताम् । विस्मृत्य पूर्वचिन्तां तां पश्यन्नपि न पश्यति ॥ ५५॥ एतस्मिन्नन्तरे देवाः शक्राद्या मुनयश्च ते । ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात् ॥ ५६॥ तेन कारयितुं योगं काल्या रुद्रेण कामतः । महावीर्येणासुरेण तारकेण प्रपीडिताः ॥ ५७॥ गत्वा तत्र स्मरः सर्वमुपायमकरोन्निजम् । चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह ॥ ५८॥ पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः । ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती ॥ ५९॥ बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ । चक्रतुर्देवकार्यं हि परोपकरणे रतौ ॥ ६०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.३.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१४. चतुर्दशोऽध्यायः । तारकवज्राङ्गयोरुपत्तिस्तत्तपोवर्णनञ्च ।

नारद उवाच । विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे । चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ॥ १॥ कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः । कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ॥ २॥ भस्मीचकार स कथं शङ्करश्च स्मरं वशी । तदपि ब्रूहि सुप्रीत्याऽद्भुतं तच्चरितं विभोः ॥ ३॥ कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे । कथं प्राप पतिं शम्भुमादिशक्तिर्जगत्परा ॥ ४॥ एतत्सर्वमशेषेण विशेषेण महाबुध । ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने ॥ ५॥ ब्रह्मोवाच पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रत । वच्म्यहं शङ्करं स्मृत्वा सर्वं तच्चरितं श‍ृणु ॥ ६॥ प्रथमं तारकस्यैव भवं संश‍ृणु नारद । यद्वधार्थं महायत्नः कृतो देवैः शिवाश्रयैः ॥ ७॥ मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः । त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः ॥ ८॥ दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम् । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ९॥ तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः । सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः ॥ १०॥ दितिश्च दुःखितासीत्सा कश्यपं शरणं गता । पुनःसंसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ॥ ११॥ तद्विज्ञाय महेन्द्रोऽपि लब्धच्छिद्रो महोद्यमी । तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः ॥ १२॥ तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह । स्वपन्त्या दैवयोगेन सप्त सप्ताभवन्सुताः ॥ १३॥ देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः । स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ॥ १४॥ पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः । चकार सुप्रसन्नं तं मुनिं परमसेवया ॥ १५॥ कश्यप उवाच तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः । चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ॥ १६॥ तथा दित्या कृतं पूर्णं तत्तपः श्रद्धया मुने । ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ॥ १७॥ वज्राङ्गनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः । नामतुल्यतनुर्वीरः सुप्रताप्युद्भवाद्बली ॥ १८॥ जननीशासनात्सद्यः स सुतो निर्जराधिपम् । बलाद्धृत्वा ददौ दण्डं विविधं निर्जरानपि ॥ १९॥ दितिः सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम् । अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ॥ २०॥ तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः । देवानत्याजयंस्तस्मात्सदा देवहिते रतः ॥ २१॥ देवान्मुक्त्वा स वज्राङ्गस्ततः प्रोवाच सादरम् । शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ॥ २२॥ वज्राङ्ग उवाच इन्द्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः । स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ॥ २३॥ मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् । न मे भोगाभिलाषो वै कस्यचिद्भुवनस्य हि ॥ २४॥ तत्त्वसारं विधे ब्रूहि मह्यं वेदविदांवर । येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ॥ २५॥ तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यते । तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ॥ २६॥ वराङ्गीं नाम तां दत्त्वा तस्मै दितिसुताय वै । अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ॥ २७॥ ततो दैत्यः स वज्राङ्गः सात्त्विकं भावमाश्रितः । आसुरं भावमुत्सृज्य निर्वैरः सुखमाप्तवान् ॥ २८॥ न बभूव वराङ्ग्या हि हृदि भावोऽथ सात्त्विकः । सकामा स्वपतिं भेजे श्रद्धया विविधं सती ॥ २९॥ अथ तत्सेवनादाशु सन्तुष्टोऽभून्महाप्रभुः । स वज्राङ्गः पतिस्तस्या उवाच वचनं तदा ॥ ३०॥ वज्राङ्ग्युवाच । किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते । तच्छ्रुत्वानम्य तं प्राह सा पतिं स्वमनोरथम् ॥ ३१॥ वराङ्ग्युवाच । चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते । महाबलं त्रिलोकस्य जेतारं हरिदुःखदम् ॥ ३२॥ ब्रह्मोवाच । इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः । उवाच हृदि स ज्ञानी सात्त्विको वैरवर्जितः ॥ ३३॥ प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते । किं कुर्यां हि क्व गच्छेयं कथं नश्येन्न मे पणः ॥ ३४॥ प्रियामनोरथश्चैव पूर्णः स्यात्त्रिजगद्भवेत् । क्लेशयुङ्नितरां भूयो देवाश्च मुनयस्तथा ॥ ३५॥ न पूर्णः स्यात्प्रियाकामस्तदा मे नरको भवेत् । द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान् ॥ ३६॥ वज्राङ्ग इत्थं बभ्राम स मुने धर्मसङ्कटे । बलाबलं द्वयोस्तत्र विचिचिन्त च बुद्धितः ॥ ३७॥ शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः । तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट् ॥ ३८॥ तदर्थमकरोत्तीव्रं तपोऽन्यद्दुष्करं स तु । मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेन्द्रियः ॥ ३९॥ वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् । वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा ॥ ४०॥ वज्राङ्गस्तु तदा प्रीतं मां दृष्ट्वा खे स्थितं विभुम् । सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम् ॥ ४१॥ वज्राङ्ग उवाच । सुतं देहि स्वमातुर्मे महाहितकरं प्रभो । महाबलं सुप्रतापं सुसमर्थं तपोनिधिम् ॥ ४२॥ ब्रह्मोवाच । इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने । अयां स्वधाम तद्दत्त्वा विमनाः संस्मरच्छिवम् ॥ ४३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्राङ्गोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.३.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१५. पञ्चदशोऽध्यायः । तारकासुरतपोराज्यम् ।

ब्रह्मोवाच । अथ सा गर्भमाधत्त वराङ्गी तत्पुरादरात् । स ववर्धाभ्यन्तरे हि बहुवर्षैः सुतेजसा ॥ १॥ ततः सा समये पूर्णे वराङ्गी सुषुवे सुतम् । महाकायं महावीर्यं प्रज्वलन्तं दिशो दश ॥ २॥ तदैव च महोत्पाता बभूवुर्दुःखहेतवः । जायमाने सुते तस्मिन्वराङ्ग्याः सुरदुःखदे ॥ ३॥ दिवि भुव्यन्तरिक्षे च सर्वलोकभयङ्कराः । अनर्थसूचकास्तात त्रिविधाः तान्ब्रवीम्यहम् ॥ ४॥ सोल्काश्चाशनयः पेतुर्महाशब्दा भयङ्कराः । उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥ ५॥ चचाल वसुधा साद्रिर्जज्वलुः सकला दिशः । चुक्षुभुः सरितः सर्वाः सागराश्च विशेषतः ॥ ६॥ हूत्कारानीरयन् घोरान्खरस्पर्शो मरुद्ववौ । उन्मूलयन्महावृक्षान्वात्यानीको रजोध्वजः ॥ ७॥ सराह्वोःसूर्यविध्वोस्तु मुहुः परिधयोऽभवन् । महाभयस्य विप्रेन्द्र सूचकाःसुखहारकाः ॥ ८॥ महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः । रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥ ९॥ सृगालोलूकटङ्कारैर्वमन्त्यो मुखतोऽनलम् । अन्तर्ग्रामेषु विकटं प्रणेदुरशिवाः शिवाः ॥ १०॥ यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् । सङ्गीतवद्रोदनवद्व्यमुञ्चन्विविधान्रवान् ॥ ११॥ खार्काररभसा मत्ताः खुरैर्घ्नन्तो रसां खराः । वरूथशः तदा तात पर्यधावन्नितस्ततः ॥ १२॥ खगा उदपतन्नीडाद्रासभत्रस्तमानसाः । क्रोशन्तो व्यग्रचित्ताश्च स्थितिमापुर्न कुत्रचित् ॥ १३॥ शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलाः । बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥ १४॥ गावोऽत्रसन्नसृग्दोहा बाष्पनेत्रा भयाकुलाः । तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥ १५॥ व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः । विनानिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥ १६॥ इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम । अज्ञानिनो जनास्तत्र मेनिरे विश्वसम्प्लवम् ॥ १७॥ अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै । तारकेति विचार्यैव कश्यपो हि महौजसः ॥ १८॥ महावीरः स सहसा व्यज्यमानात्मपौरुषः । ववृधेऽत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥ १९॥ अथो स तारको दैत्यो महाबलपराक्रमः । तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥ २०॥ प्राप्ताज्ञः स महामायी मायिनामपि मोहकः । सर्वदेवजयं कर्तुं तपोऽर्थं मन आदधे ॥ २१॥ मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः । विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥ २२॥ ऊर्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा । शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥ २३॥ अङ्गुष्ठेन भुवं स्पृष्ट्वा शतवर्षं च तादृशः । तेपे तपो दृढात्मा स तारकोऽसुरराट् प्रभुः ॥ २४॥ शतवर्षं जलं प्राश्नन् शतवर्षं च वायुभुक् । शतवर्षं जले तिष्ठञ्च्छतं च स्थण्डिलेऽतपत् ॥ २५॥ शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः । शतवर्षं तु हस्तस्य तलेन च भुवं स्थितः ॥ २६॥ शतवर्षं तु वृक्षस्य शाखामालम्ब्य वै मुने । पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥ २७॥ एवं कष्टतरं तेपे सुतपः स तु दैत्यराट् । काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम् ॥ २८॥ तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम् । शिरसः सर्वसंसर्पि महोपद्रवकृन्मुने ॥ २९॥ तेनैव देवलोकास्ते दग्धप्राया बभूविरे । अभितो दुःखमापन्नाः सर्वे देवर्षयो मुने ॥ ३०॥ इन्द्रश्च भयमापेदेऽधिकं देवेश्वरस्तदा । तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ॥ ३१॥ अकाण्डे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभुः । इति संशयमापन्ना निश्चयं नोपलेभिरे ॥ ३२॥ ततः सर्वे सुसम्मन्त्र्य मिथस्ते निर्जरर्षयः । मल्लोकमगमन्भीता दीना मां समुपस्थिताः ॥ ३३॥ मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः । कृतस्त्वञ्जलयो मह्यं वृत्तं सर्वं न्यवेदयन् ॥ ३४॥ अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया । वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ॥ ३५॥ अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने । तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ॥ ३६॥ इत्येवं मद्वचः श्रुत्वा तारकः स महासुरः । मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ॥ ३७॥ तारक उवाच । त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम । अतो याचे वरं त्वत्तः श‍ृणु तन्मे पितामह ॥ ३८॥ यदि प्रसन्नो देवेश यदि देयो वरो मम । देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ॥ ३९॥ त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो । मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ॥ ४०॥ शिववीर्यसमुत्पन्नः पुत्रःसेनापतिर्यदा । भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ॥ ४१॥ इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर । वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम् ॥ ४२॥ दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम् । सुप्रसन्नतरो भूत्वा शोणिताख्यपुरं गतः ॥ ४३॥ अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैः सह । शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः ॥ ४४॥ ततस्तु स महादैत्योऽभवत् त्रैलोक्यनायकः । स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम् ॥ ४५॥ राज्यं चकार विधिवत्त्रिलोकस्य स तारकः । प्रजाश्च पालयामास पीडयन्निर्जरादिकान् ॥ ४६॥ ततः स तारको दैत्यस्तेषां रत्नान्युपाददे । इन्द्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ॥ ४७॥ इन्द्रेणैरावतस्तस्य भयात्तस्मै समर्पितः । कुबेरेण तदा दत्ता निधयो नवसङ्ख्यकाः ॥ ४८॥ वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा । इन्द्रेणोच्चैः श्रवा दिव्यो भयात्तस्मै समर्पितः ॥ ४९॥ यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि । तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत् ॥ ५०॥ समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने । अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाखिलाः ॥ ५१॥ सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् । चन्द्रस्तु प्रभया दृश्यो वायुः सर्वानुकूल्यवान् ॥ ५२॥ देवानां चैव यद्द्रव्यं पितॄणां च परस्य च । तत्सर्वं समुपादत्तमसुरेण दुरात्मना ॥ ५३॥ वशीकृत्य स लोकांस्त्रीन्स्वयमिन्द्रो बभूव ह । अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी ॥ ५४॥ निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः । स्वयं नियोजयामास देवयोनिन् स्वकर्मणि ॥ ५५॥ अथ तद्बाधिता देवाः सर्वे शक्रपुरोगमाः । मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.३.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१६. षोडशोऽध्यायः । तारकासुरभीतानां देवानां कृते शिवेन सान्त्वनादानम् ।

ब्रह्मोवाच । अथ ते निर्जराः सर्वे सुप्रणम्य प्रजेश्वरम् । तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः ॥ १॥ अहं श्रुत्वामरनुतिं यथार्थां हृदयङ्गमाम् । सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥ २॥ स्वागतं स्वाधिकारा वै निर्विघ्नाः सन्ति वः सुराः । किमर्थमागता यूयमत्र सर्वे वदन्तु मे ॥ ३॥ इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः । मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥ ४॥ देवा ऊचुः । लोकेश तारको दैत्यो वरेण तव दर्पितः । निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात् स्वयम् ॥ ५॥ भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् । तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥ ६॥ अहर्निशं बाधतेऽस्मान् यत्र तत्रास्थितान्स वै । पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥ ७॥ तारकान्नश्च यद्दुःखं सम्भूतं सकलेश्वर । तेन सर्वे वयं तात पीडिता विकला अति ॥ ८॥ अग्निर्यमोऽथ वरुणो निरृतिर्वायुरेव च । अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥ ९॥ सर्वे मनुष्यधर्माणःसर्वैः परिकरैर्युताः । सेवन्ते तं महादैत्यं न स्वतन्त्राः कदाचन ॥ १०॥ एवं तेनार्दिता देवा वशगास्तस्य सर्वदा । तदिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ११॥ यावत्यो वनिताः सर्वा ये चाप्यप्सरसां गणाः । सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥ १२॥ न यज्ञाःसम्प्रवर्तन्ते न तपस्यन्ति तापसाः । दानधर्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥ १३॥ तस्य सेनापतिः क्रौञ्चो महापाप्यस्ति दानवः । स पातालतलं गत्वा बाधते त्वनिशं प्रजाः ॥ १४॥ तेन नस्तारकेणेदं सकलं भुवनत्रयम् । हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥ १५॥ वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः । स्वस्थास्तद्वारितास्तेन लोकनाथ सुरारिणा ॥ १६॥ त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि । वयं सर्वे तारकाख्यवह्नौ दग्धाः सुविह्वलाः ॥ १७॥ तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः । विकारे सान्निपाते वा वीर्यवन्त्यौषधानि च ॥ १८॥ यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने । तत्कुण्ठितमभूत्तस्य कण्ठे पुष्पमिवार्पितम् ॥ १९॥ ब्रह्मोवाच इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने । प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥ २०॥ ब्रह्मोवाच ममैव वचसा दैत्यस्तारकाख्यः समेधितः । न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥ २१॥ ततो नैव वधो योग्यो यतो वृद्धिमुपागतः । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २२॥ युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शङ्करः । किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचोदितः ॥ २३॥ तारकाख्यस्तु पापेन स्वयमेष्यति सङ्क्षयम् । यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ २४॥ न मया तारको वध्यो हरिणापि हरेण च । नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते ॥ २५॥ शिववीर्यसमुत्पन्नो यदि स्यात्तनयः सुराः । स एव तारकाख्यस्य हन्ता दैत्यस्य नापरः ॥ २६॥ यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः । महादेवप्रसादेन सिद्धिमेष्यति स ध्रुवम् ॥ २७॥ सती दाक्षायणी पूर्वं त्यक्तदेहा तु याभवत् । सोत्पन्ना मेनकागर्भात्सा कथा विदिता हि वः ॥ २८॥ तस्या अवश्यं गिरिशः करिष्यति करग्रहम् । तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ॥ २९॥ तथा विधध्वं सुतरां तस्यां तु परियत्नतः । पार्वत्यां मेनकाजायां रेतःप्रतिनिपातने ॥ ३०॥ तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् । कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् ॥ ३१॥ सा सुता गिरिराजस्य साम्प्रतं प्रौढयौवना । तपस्यन्तं हिमगिरौ नित्यं संसेवते हरम् ॥ ३२॥ वाक्याद्धिमवतः काली स्वपितुर्हठतश्शिवा । सखीभ्यां सेवते सार्धं ध्यानस्थं परमेश्वरम् ॥ ३३॥ तामग्रतोऽर्चमानां वै त्रैलोक्ये वरवर्णिनीम् । ध्यानासक्तो महेशो हि मनसापि न हीयते ॥ ३४॥ भार्यां समीहेत यथा स कालीं चन्द्रशेखरः । तथा विधध्वं त्रिदशा न चिरादेव यत्नतः ॥ ३५॥ स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः । निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः ॥ ३६॥ इत्युक्त्वाहं सुरान् शीघ्रं तारकाख्यासुरस्य वै । उपसङ्गम्य सुप्रीत्या समाभाष्येदमब्रवम् ॥ ३७॥ ब्रह्मोवाच तेजोःसारमिमं स्वर्गं राज्यं त्वं परिपासि नः । यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम् ॥ ३८॥ वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता । तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥ ३९॥ देवयोग्यानि तत्रैव कार्याणि निखिलान्यपि । भविष्यन्त्यसुरश्रेष्ठ नात्र कार्या विचारणा ॥ ४०॥ इत्युक्त्वाहं च सम्बोध्यासुरं तं सकलेश्वरः । स्मृत्वा शिवां च सशिवं तत्रान्तर्धानमागतः ॥ ४१॥ तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात् । शोणिताख्यपुरे स्थित्वा सर्वराज्यं चकार सः ॥ ४२॥ देवाःसर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम् । शक्रस्थानं ययुः प्रीत्या शक्रेण सुसमाहिताः ॥ ४३॥ तत्र गत्वा मिलित्वा च विचार्य च परस्परम् । ते सर्वे मरुतः प्रीत्या मघवन्तं वचोऽब्रुवन् ॥ ४४॥ देवा ऊचुः । शम्भोर्यथा शिवायां वै रुचिर्जायेत कामतः । मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत् ॥ ४५॥ ब्रह्मोवाच । इत्येवं सर्ववृत्तान्तं विनिवेद्य सुरेश्वरम् । जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः ॥ ४६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवसान्त्वनवर्णनं नाम षोडशोऽध्यायः ॥ २.३.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१७. सप्तदशोऽध्यायः । इन्द्रकामदेवसंवादः ।

ब्रह्मोवाच । गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् । पीडितस्तारकेनाति दैत्येन च दुरात्मना ॥ १॥ आगतस्तत्क्षणात्कामः सवसन्तो रतिप्रियः । सावलेपो युतो रत्या त्रैलोक्यविजयी प्रभुः ॥ २॥ प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतः स्मरः । महोन्नतमनास्तात साञ्जलिः शक्रमब्रवीत् ॥ ३॥ काम उवाच । किं कार्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना । तत् त्वं कथय देवेश तत्कर्तुं समुपागतः ॥ ४॥ ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्य कन्दर्पस्य सुरेश्वरः । उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन् ॥ ५॥ शक्र उवाच । तव साधु समारम्भो यन्मे कार्यमुपस्थितम् । तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज ॥ ६॥ प्रस्तुतं श‍ृणु मद्वाक्यं कथयामि तवाग्रतः । मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा ॥ ७॥ मित्राणि मम सन्त्येव बहूनि सुमहान्ति च । परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् ॥ ८॥ जयार्थं मे द्वयं तात निर्मितं वज्रमुत्तमम् । वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन ॥ ९॥ यतो हितं प्रजायेत ततः को नु प्रियः परः । तस्मान्मित्रवरस्त्वं हि मत्कार्यं कर्तुमर्हसि ॥ १०॥ मम दुःखं समुत्पन्नमसाध्यं चापि कालजम् । केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना ॥ ११॥ दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते । आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि ॥ १२॥ विनये सङ्कटे प्राप्तेऽवितथस्य परोक्षतः । सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ॥ १३॥ प्राप्तायां वै ममापत्ताववार्यायां परेण हि । परीक्षा च त्वदीयाद्या मित्रवर्य भविष्यति ॥ १४॥ न केवलं मदीयं च कार्यमस्ति सुखावहम् । किं तु सर्वसुरादीनां कार्यमेतन्न संशयः ॥ १५॥ ब्रह्मोवाच । इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः । उवाच प्रेमगम्भीरं वाक्यं सुस्मितपूर्वकम् ॥ १६॥ काम उवाच । किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव । उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च ॥ १७॥ सङ्कटे बहु यो ब्रूते स किं कार्यं करिष्यति । तथापि च महाराज कथयामि श‍ृणु प्रभो ॥ १८॥ पदं ते कर्षितुं यो वै तपस्तपति दारुणम् । पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा ॥ १९॥ क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः । देवर्षिदानवादींश्च नराणां गणना न मे ॥ २०॥ वज्रं तिष्ठतु दूरे वै शस्त्राण्यन्यान्यनेकशः । किं ते कार्यं करिष्यन्ति मयि मित्र उपस्थिते ॥ २१॥ ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्यां न संशयः । अन्येषां गणना नास्ति पातयेयं हरं त्वपि ॥ २२॥ पञ्चैव मृदवो बाणास्ते च पुष्पमया मम । चापस्त्रिधा पुष्पमयश्शिञ्जिनी भ्रमरार्जिता ॥ २३॥ बलं सुदयिता मे हि वसन्तः सचिवः स्मृतः । अहं पञ्चबलो देव मित्रं मम सुधानिधिः । २४॥ सेनाधिपश्च श‍ृङ्गारो हावभावाश्च सैनिकाः । सर्वे मे मृदवः शक्र अहं चापि तथाविधः ॥ २५॥ यद्येन पूर्यते कार्यं धीमांस्तत्तेन योजयेत् । मम योग्यं तु यत्कार्यं सर्वं तन्मे नियोजय ॥ २६॥ ब्रह्मोवाच । इत्येवं तु वचस्तस्य श्रुत्वा शक्रः सुहर्षितः । उवाच प्रणमन्वाचा कामं कान्तासुखावहम् ॥ २७॥ शक्र उवाच । यत्कार्यं मनसोद्दिष्टं मया तात मनोभव । कर्त्तुं तत् त्वं समर्थोऽसि नान्यस्मात्तस्य सम्भवः ॥ २८॥ श‍ृणु काम प्रवक्ष्यामि यथार्थं मित्रसत्तम । यदर्थे च स्पृहा जाता तव चाद्य मनोभव ॥ २९॥ तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् । अभूतजेयः सम्प्राप्य सर्वेषामपि दुःखदः ॥ ३०॥ तेन सम्पीड्यते लोको नष्टा धर्मा ह्यनेकशः । दुःखिता निर्जराः सर्वे ऋषयश्च तथाखिलाः ॥ ३१॥ देवैश्च सकलैस्तेन कृतं युद्धं यथाबलम् । सर्वेषां चायुधान्यत्र विफलान्यभवन्पुरा ॥ ३२॥ भग्नः पाशो जलेशस्य हरिचक्रं सुदर्शनम् । तत्कुण्ठितमभूत्तस्य कण्ठे क्षिप्तं च विष्णुना ॥ ३३॥ एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः । शम्भोर्वीर्योद्भवाद्बालान्महायोगीश्वरस्य हि ॥ ३४॥ एतत्कार्यं त्वया साधु कर्तव्यं सुप्रयत्नतः । ततःस्यान्मित्रवर्याति देवानां नः परं सुखम् ॥ ३५॥ ममापि विहितं तस्मात्सर्वलोकसुखावहम् । मित्रधर्मं हृदि स्मृत्वा कर्तुमर्हसि साम्प्रतम् ॥ ३६॥ शम्भुःस गिरिराजे हि तपः परममास्थितः । स प्रभुर्नापि कामेन स्वतन्त्रः परमेश्वरः ॥ ३७॥ तत्समीपे च देवार्थं पार्वती स्वसखीयुता । सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् ॥ ३८॥ यथा तस्यां रुचिस्तस्य शिवस्य नियतात्मनः । जायेत नितरां मार तथा कार्यं त्वया ध्रुवम् ॥ ३९॥ इति कृत्वा कृती स्यास्त्वं सर्वं दुःखं विनङ्क्ष्यति । लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा ॥ ४०॥ ब्रह्मोवाच । इत्युक्तः स तु कामो हि प्रफुल्लमुखपङ्कजः । प्रेम्णोवाचेति देवेशं करिष्यामि न संशयः ॥ ४१॥ इत्युक्त्वा वचनं तस्मै तथेत्योमिति तद्वचः । अग्रहीत्तरसा कामः शिवमायाविमोहितः ॥ ४२॥ यत्र योगीश्वरः साक्षात्तप्यते परमं तपः । जगाम तत्र सुप्रीतः सदारः सवसन्तकः ॥ ४३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ २.३.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१८. अष्टादशोऽध्यायः । कामकृतविकारवर्णनम् ।

कामविकारवर्णनं ब्रह्मोवाच । तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः । मोहकः स मधोश्चादौ धर्मं विस्तारयन्स्थितः ॥ १॥ वसन्तस्य च यो धर्मः प्रससार स सर्वतः । तपःस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ॥ २॥ वनानि च प्रफुल्लानि पादपानां महामुने । आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ॥ ३॥ पुष्पाणि सहकाराणामशोकवनिकासु वै । विरेजुस्सुस्मरोद्दीपकराणि सुरभीण्यपि ॥ ४॥ कैरवाणि च पुष्पाणि भ्रमराकलितानि च । बभूवुर्मदनावेशकराणि च विशेषतः ॥ ५॥ सुकामोद्दीपनकरं कोकिलाकलकूजितम् । आसीदति सुरम्यं हि मनोहरमतिप्रियम् ॥ ६॥ भ्रमराणां तथा शब्दा विविधा अभवन्मुने । मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ॥ ७॥ चन्द्रस्य विशदा कान्तिर्विकीर्णा हि समन्ततः । कामिनां कामिनीनां च दूतिका इव साभवत् ॥ ८॥ मानिनां प्रेरणायासीत्तत्काले कालदीपिका । मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ॥ ९॥ एवं वसन्तविस्तारो मदनावेशकारकः । वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत् ॥ १०॥ अचेतसामपि तदा कामासक्तिरभून्मुने । सुचेतसां हि जीवानां सेति किं वर्ण्यते कथा ॥ ११॥ एवं चकार स मधुः स्वप्रभावं सुदुस्सहम् । सर्वेषां चैव जीवानां कामोद्दीपनकारकः ॥ १२॥ अकालनिर्मितं तात मधोर्वीक्ष्य हरस्तदा । आश्चर्यं परमं मेने स्वलीलात्ततनुः प्रभुः ॥ १३॥ अथ लीलाकरस्तत्र तपः परमदुष्करम् । तताप स वशीशो हि हरो दुःखहरः प्रभुः ॥ १४॥ वसन्ते प्रसृते तत्र कामो रतिसमन्वितः । चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ॥ १५॥ स्वप्रभावं वितस्तार मोहयन्सकलान् जनान् । रत्या युक्तं तदा कामं दृष्ट्वा को वा न मोहितः ॥ १६॥ एवं प्रवृत्तसुरतौ श‍ृङ्गारोऽपि गणैः सह । हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ॥ १७॥ मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः । न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रविश्यते ॥ १८॥ यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः । महादेवे तदा सोऽभून्महाभयविमोहितः ॥ १९॥ ज्वलज्ज्वालाग्निसङ्काशभालनेत्रसमन्वितम् । ध्यानस्थं शङ्करं को वा समासादयितुं क्षमः ॥ २०॥ एतस्मिन्नन्तरे तत्र सखीभ्यां संयुता शिवा । जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ॥ २१॥ पृथिव्यां यादृशं लोकैः सौन्दर्यं वर्ण्यते महत् । तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ॥ २२॥ आर्तवाणि सुपुष्पाणि धृतानि च तया यदा । तत्सौन्दर्यं कथं वर्ण्यमपि वर्षशतैरपि ॥ २३॥ यदा शिवसमीपे तु गता सा पर्वतात्मजा । तदैव शङ्करो ध्यानं त्यक्त्वा क्षणमवस्थितः ॥ २४॥ तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु । बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ॥ २५॥ श‍ृङ्गारैश्च तदा भावैः सहिता पार्वती हरम् । जगाम कामसाहाय्ये मुने सुरभिणा सह ॥ २६॥ तदैवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः । द्रुतं पुष्पशरं तस्मै स्मरोऽमुञ्चत्सुसंयतः ॥ २७॥ यथा निरन्तरं नित्यमागच्छति तथा शिवम् । तं नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ॥ २८॥ सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि । विवृण्वती तदाङ्गानि स्त्रीस्वभावात्सुलज्जया ॥ २९॥ सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः । शिवोऽपि वर्णयामास तदङ्गानि मुदा मुने ॥ ३०॥ शिव उवाच । किं मुखं किं शशाङ्कश्च किं नेत्रे चोत्पले च किम् । भ्रुकुट्यौ धनुषी चैते कन्दर्पस्य महात्मनः ॥ ३१॥ अधरः किं च बिम्बं किं किं नासा शुकचञ्चुका । किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ॥ ३२॥ किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः । पुष्पाणि किं च वर्ण्यन्ते वस्त्राणि च तथा पुनः ॥ ३३॥ लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् । सर्वथा रमणीयानि सर्वाङ्गानि न संशयः ॥ ३४॥ अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी । एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी ॥ ३५॥ सुलावण्यनिधिश्चेयमद्भुताङ्गानि बिभ्रती । विमोहिनी मुनीनां च महासुखविवर्धीनी ॥ ३६॥ ब्रह्मोवाच । इत्येवं वर्णयित्वा तु तदङ्गानि मुहुर्मुहुः । विधिदत्तवराध्यासाद्धरस्तु विरराम ह ॥ ३७॥ हस्तं वस्त्रान्तरे यावदचालयत शङ्करः । स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ॥ ३८॥ विवृण्वती निजाङ्गानि पश्यन्ती च मुहुर्मुहुः । सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ॥ ३९॥ एवं चेष्टां तदा दृष्ट्वा शम्भुर्मोहमुपागतः । उवाच वचनं चैवं महालीलो महेश्वरः ॥ ४०॥ अस्या दर्शनमात्रेण महानन्दो भवत्यलम् । यदालिङ्गनमेतस्याः कुर्यां किन्तु ततः सुखम् ॥ ४१॥ क्षणमात्रं विचार्येत्थं सम्पूज्य गिरिजां ततः । प्रबुद्धः स महायोगी सुविरक्तो जगाविति ॥ ४२॥ किं जातं चरितं चित्रं किमहं मोहमागतः । कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ॥ ४३॥ ईश्वरोऽहं यदीच्छेयं पराङ्गस्पर्शनं खलु । तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ॥ ४४॥ एवं वैराग्यमासाद्य पर्यङ्कासादनं च तत् । वारयामास सर्वात्मा परेशः किं पतेदिह ॥ ४५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामकृतविकारवर्णनं नामाष्टादशोऽध्यायः ॥ २.३.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.१९. एकोनविंशोऽध्यायः । शिवेन कामदेवविनाशः ।

नारद उवाच । ब्रह्मन्विधे महाभाग किं जातं तदनन्तरम् । कथय त्वं प्रसादेन तां कथां पापनाशिनीम् ॥ १॥ ब्रह्मोवाच । श्रूयतां सा कथा तात यज्जातं तदनन्तरम् । तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम् ॥ २॥ धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः । विचिचिन्त मनस्येवं विस्मितोऽति ततः परम् ॥ ३॥ शिव उवाच । किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् । केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ॥ ४॥ कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् । जातो धर्मविरोधोऽत्र श्रुतिसीमा विलङ्घिता ॥ ५॥ ब्रह्मोवाच । विचिन्त्येत्थं महायोगी परमेशः सतां गतिः । दिशो विलोकयामास परितः शङ्कितस्तदा ॥ ६॥ वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् । स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम् ॥ ७॥ तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः । सञ्जातः क्रोधसम्मर्दस्तत्क्षणादपि नारद ॥ ८॥ कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः । चिक्षेपास्त्रं दुर्निवारममोघं शङ्करे मुने ॥ ९॥ बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि । समशाम्यत्ततस्तस्मिन्सङ्क्रुद्धे परमेश्वरे ॥ १०॥ मोघीभूते शिवे स्वेऽस्त्रे भयमापाशु मन्मथः । चकम्पे च पुरः स्थित्वा दृष्ट्वा मृत्युञ्जयं प्रभुम् ॥ ११॥ सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः । स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके ॥ १२॥ कामेन सुस्मृता देवाः शक्राद्यास्ते मुनीश्वर । आययुः सकलास्ते हि शम्भुं नत्वा च तुष्टुवुः ॥ १३॥ स्तुतिं कुर्वत्सु देवेषु क्रुद्धस्याति हरस्य हि । तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान् ॥ १४॥ ललाटमध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः । जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः ॥ १५॥ उत्पत्य गगने तूर्णं निपत्य धरणी तले । भ्रामं भ्रामं स्वपरितः पपात मेदिनीं परि ॥ १६॥ भस्मसात्कृतवान्साधो मदनं तावदेव हि । यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥ १७॥ हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः । रुरुदुर्विह्वलाश्चातिक्रोशन्तः किमभूदिति ॥ १८॥ श्वेताङ्गा विकृतात्मा च गिरिराजसुता तदा । जगाम मन्दिरं स्वं च समादाय सखीजनम् ॥ १९॥ क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा । भर्तृमृत्युजदुःखेन पतिता सा मृता इव ॥ २०॥ जातायां चैव संज्ञायां रतिरत्यन्तविह्वला । विललाप तदा तत्रोच्चरन्ती विविधं वचः ॥ २१॥ रतिरुवाच । किं करोमि क्व गच्छामि किं कृतं दैवतैरिह । मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् ॥ २२॥ हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद । इदं तु किमभूदत्र हा हा प्रिय प्रियेति च ॥ २३॥ ब्रह्मोवाच । इत्थं विलपती सा तु वदन्ती बहुधा वचः । हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा ॥ २४॥ तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः । अभवन्दुःखिताः सर्वे स्थावरा अपि नारद ॥ २५॥ एतस्मिन्नन्तरे तत्र देवाः शक्रादयोऽखिलाः । रतिमूचुः समाश्वास्य संस्मरन्तो महेश्वरम् ॥ २६॥ देवा ऊचुः । किञ्चिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज । जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् ॥ २७॥ सुखदाता न कोऽप्यस्ति दुःखदाता न कश्चन । सर्वोऽपि स्वकृतं भुङ्क्ते देवान् शोचसि वै वृथा ॥ २८॥ ब्रह्मोवाच । इत्याश्वास्य रतिं देवाः सर्वे शिवमुपागताः । सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन् ॥ २९॥ देवा ऊचुः । भगवन् श्रूयतामेतद्वचनं नः शुभं प्रभो । कृपां कृत्वा महेशान शरणागतवत्सल ॥ ३०॥ सुविचारय सुप्रीत्या कृतिं कामस्य शङ्कर । कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर ॥ ३१॥ दुष्टेन पीडितैर्देवैस्तारकेणाखिलैर्विभो । कर्म तत्कारितं नाथ नान्यथा विद्धि शङ्कर ॥ ३२॥ रतिरेकाकिनी देव विलापं दुःखिता सती । करोति गिरिश त्वं च तामाश्वासय सर्वद ॥ ३३॥ संहारं कर्तुकामोऽसि क्रोधेनानेन शङ्कर । दैवतैः सह सर्वेषां हतवांस्तं यदि स्मरम् ॥ ३४॥ दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः । तस्मात्त्वया च कर्तव्यं रत्याश्शोकापनोदनम् ॥ ३५॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवान् शिवः । देवानां सकलानां च वचनं चेदमब्रवीत् ॥ ३६॥ शिव उवाच । देवाश्च ऋषयः सर्वे मद्वचः श‍ृणुतादरात् । मत्कोपेन च यज्जातं तत्तथा नान्यथा भवेत् ॥ ३७॥ अनङ्गस्तावदेव स्यात्कामो रतिपतिः प्रभुः । यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः ॥ ३८॥ द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति । तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति ॥ ३९॥ प्रद्युम्नं नाम तस्यैव भविष्यति न संशयः । जातमात्रं तु तं पुत्रं शम्बरः संहरिष्यति ॥ ४०॥ हृत्वा प्रास्य समुद्रं तं शम्बरो दानवोत्तमः । मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति ॥ ४१॥ तावच्च नगरं तस्य रते स्थेयं यथासुखम् । तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥ ४२॥ तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे । भविष्यति सुखी देवाः प्रद्युम्नाख्यः स्वकामिनीम् ॥ ४३॥ तदीयं चैव यद् द्रव्यं नीत्वा स नगरं पुनः । गमिष्यति तया सार्धं देवाः सत्यं वचो मम ॥ ४४॥ ब्रह्मोवाच । इति श्रुत्वा वचः शम्भोर्देवा ऊचुः प्रणम्य तम् । किञ्चिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नताङ्गकाः ॥ ४५॥ देवा ऊचुः । देवदेव महादेव करुणासागर प्रभो । शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर ॥ ४६॥ ब्रह्मोवाच । इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः । पुनर्बभाषे करुणासागरः सकलेश्वरः ॥ ४७॥ शिव उवाच । हे देवाः सुप्रसन्नोऽस्मि जीवयिष्यामि चान्तरे । कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः ॥ ४८॥ नाख्येयमिदमाख्यानं कस्यचित्पुरतः सुराः । गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः ॥ ४९॥ ब्रह्मोवाच । इत्युक्त्वान्तर्दधे रुद्रो देवानां स्तुवतां तदा । सर्वे देवाः सुप्रसन्ना बभूवुर्गतविस्मयाः ॥ ५०॥ ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः । उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने ॥ ५१॥ कामपत्नी समादिष्टं नगरं सा गता तदा । प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर ॥ ५२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥ २.३.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२०. विंशोऽध्यायः । वडवानलचरितम् ।

नारद उवाच । विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा । गता कुत्र वद त्वं तच्चरितं शशिमौलिनः ॥ १॥ ब्रह्मोवाच । यदा भस्म चकाराशु तृतीयनयनानलः । शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ॥ २॥ हाहाकारो महानासीत् त्रैलोक्ये सचराचरे । सर्वे देवर्षयस्तात शरणं मां ययुर्द्रुतम् । ३॥ सर्वे निवेदयामासुस्तद्दुःखं मह्यमाकुलाः । सुप्रणम्य सुसंस्तूय करौ बद्ध्वा नताननाः ॥ ४॥ तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च । गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ॥ ५॥ सन्दग्धुकामः स शुचिर्ज्वालामालातिदीपितः । स्तम्भितोऽरं मया शम्भुप्रसादाप्तसुतेजसा ॥ ६॥ अथ क्रोधमयं वह्निं दग्धुकामं जगत्त्रयम् । वाडवं तमकर्षं च सौम्यज्वालामुखं मुने ॥ ७॥ तं वाडवतनुमहं समादाय शिवेच्छया । सागरं समगां लोकहिताय जगतां पतिः ॥ ८॥ आगतं मां समालोक्य सागरस्साञ्जलिर्मुने । धृत्वा च पौरुषं रूपमागतः सन्निधिं मम ॥ ९॥ सुप्रणम्याथ मां सिन्धुः संस्तूय च यथाविधि । स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ॥ १०॥ सागर उवाच । किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप । तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ॥ ११॥ अथाहं सागरवचः श्रुत्वा प्रीतिपुरस्सरम् । प्रावोचं शङ्करं स्मृत्वा लौकिकं हितमावहन् ॥ १२॥ ब्रह्मोवाच । श‍ृणु तात महाधीमन्सर्वलोकहितावह । वच्म्यहं प्रीतितःसिन्धो शिवेच्छाप्रेरितो हृदा ॥ १३॥ अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः । दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ॥ १४॥ प्रार्थितोऽहं सुरैः शीघ्रं पीडितैः शङ्करेच्छया । तत्रागत्य द्रुतं तं वै तात स्तम्भितवान् शुचिम् ॥ १५॥ वाडवं रूपमाधत्त तमादायागतोऽत्र ह । निर्दिशामि जलाधार त्वामहं करुणाकरः ॥ १६॥ अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः । ज्वालामुखस्त्वया धार्यो यावदाभूतसम्प्लवम् ॥ १७॥ यदात्राहं समागम्य वत्स्यामि सरितां पते । तदा त्वया परित्याज्यः क्रोधोऽयं शाङ्करोऽद्भुतः ॥ १८॥ भोजनं तोयमेतस्य तव नित्यं भविष्यति । यत्नादेवावधार्योऽयं यथा नोपैति चान्तरम् ॥ १९॥ इत्युक्तो हि मया सिन्धुरङ्गीचक्रे तदा ध्रुवम् । ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ॥ २०॥ ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः । वार्यौघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ॥ २१॥ ततःसन्तुष्टचेतस्कः स्वं धामाहं गतो मुने । अन्तर्धानमगात्सिन्धुर्दिव्यरूपः प्रणम्य माम् ॥ २२॥ स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् । देवा बभूवुः सुखिनो मुनयश्च महामुने ॥ २३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वडवानलचरितवर्णनं नाम विंशोऽध्यायः ॥ २.३.२०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२१. एकविंशोऽध्यायः । पार्वत्यै नारदोपदेशः ।

नारद उवाच । विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् । अद्भुतेयं कथा प्रोक्ता शङ्करस्य महात्मनः ॥ १॥ भस्मीभूते स्मरे शम्भुतृतीयनयनाग्निना । तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥ किं चकार ततो देवी पार्वती कुधरात्मजा । गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥ ब्रह्मोवाच । श‍ृणु तात महाप्राज्ञ चरितं शशिमौलिनः । महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४॥ यदादहच्छम्भुनेत्रोद्भवो हि मदनं शुचिः । महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५॥ तेन शब्देन महता कामं दग्धं समीक्ष्य च । सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥ ६॥ तेन शब्देन हिमवान्परिवारसमन्वितः । विस्मितोऽभूदतिक्लिष्टः सुतां स्मृत्वा गतां ततः ॥ ७॥ जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् । रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ॥ ८॥ आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् । मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥ क्रोडे कृत्वा सुतां शीघ्रं हिमवानचलेश्वरः । स्वमालयमथानिन्ये सान्त्वयन्नतिविह्वलाम् ॥ १०॥ अन्तर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा । विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥ पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा । पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ १२॥ निनिन्द च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् । सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥ स्वपती च पिबन्ती च सा स्नाती गच्छती शिवा । तिष्ठन्ती च सखीमध्ये न किञ्चित्सुखमाप ह ॥ १४॥ धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च । इति ब्रुवन्ती सततं स्मरन्ती हरचेष्टितम् ॥ १५॥ एवं सा पार्वती शम्भुविरहोत्क्लिष्टमानसा । सुखं न लेभे किञ्चिद्वाब्रवीच्छिवशिवेति च ॥ १६॥ निवसन्ती पितुर्गेहे पिनाकिगतचेतना । शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७॥ शैलाधिराजोऽप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे । तां सान्त्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ॥ १८॥ अथ देवमुने धीमन्हिमवत्प्रस्तरे तदा । नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९॥ ततस्त्वं पूजितस्तेन भूधरेण महात्मना । कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ २०॥ ततः प्रोवाच शैलेशः कन्याचरितमादितः । हरसेवान्वितं कामदहनं च हरेण ह ॥ २१॥ श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज । तमामन्त्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२॥ तं समुत्सृज्य रहसि कालीं तामगमस्त्वरा । लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥ आसाद्य कालीं सम्बोध्य तद्धिते स्थित आदरात् । अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥ नारद उवाच । श‍ृणु कालि वचो मे हि सत्यं वच्मि दयारतः । सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५॥ सेवितश्च महादेवस्त्वयेह तपसा विना । गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥ विरक्तश्च स ते स्वामी महायोगी महेश्वरः । विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७॥ तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् । तपसा संस्कृतां रुद्रः स द्वितीयां करिष्यति ॥ २८॥ त्वं चापि शङ्करं शम्भुं न त्यक्ष्यसि कदाचन । नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९॥ ब्रह्मोवाच । इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा । किञ्चिदुच्छ्वसिता काली प्राह त्वां साञ्जलिर्मुदा ॥ ३०॥ शिवोवाच । त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो । रुद्रस्याराधनार्थाय मन्त्रं देहि मुने हि मे ॥ ३१॥ न सिध्यति क्रिया कापि सर्वेषां सद्गुरुं विना । मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२॥ ब्रह्मोवाच । इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः । पञ्चाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३॥ अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने । प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥ नारद उवाच । श‍ृणु देवि मनोरस्य प्रभावं परमाद्भुतम् । यस्य श्रवणमात्रेण शङ्करः सुप्रसीदति ॥ ३५॥ मन्त्रोऽयं सर्वमन्त्राणामधिराजश्च कामदः । भुक्तिमुक्तिप्रदोऽत्यन्तं शङ्करस्य महाप्रियः ॥ ३६॥ सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् । आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥ ३७॥ चिन्तयन्ती च तद्रूपं नियमस्था शराक्षरम् । जप मन्त्रं शिवे त्वं हि सन्तुष्यति शिवो द्रुतम् ॥ ३८॥ एवं कुरु तपः साध्वि तपःसाध्यो महेश्वरः । तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥ ब्रह्मोवाच । एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः । यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ ४०॥ पार्वती च तदा श्रुत्वा वचनं तव नारद । सुप्रसन्ना तदा प्राप पञ्चाक्षरमनूत्तमम् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २.३.२१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२२. द्वाविंशोऽध्यायः । पार्वतीतपोवर्णनम् ।

ब्रह्मोवाच । त्वयि देवमुने याते पार्वती हृष्टमानसा । तपःसाध्यं हरं मेने तपोऽर्थं मन आदधे ॥ १॥ ततः सख्यौ समादाय जयां च विजयां तथा । मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ॥ २॥ प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् । पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ॥ ३॥ सख्यावूचतुः - हिमवन् श्रूयतां पुत्रीवचनं कथ्यतेऽधुना ॥ सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः । ४॥ भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति । तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ॥ ५॥ तस्माच्च पर्वतश्रेष्ठ देयाज्ञा भवताधुना । तपः करोतु गिरिजा वनं गत्वेति सादरम् ॥ ६॥ ब्रह्मोवाच । इत्येवं च तदा पृष्टः सखीभ्यां मुनिसत्तम । पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ॥ ७॥ हिमालय उवाच । मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः । यथेदं भवितव्यं च किमतः परमुत्तमम् ॥ ८॥ साफल्यं तु मदीयस्य कुलस्य च न संशयः । मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम् ॥ ९॥ ब्रह्मोवाच । इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा । जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ॥ १०॥ गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद । सुप्रणम्य करौ बध्वोचतुर्वचनमादरात् ॥ ११॥ सख्यावूचतुः मातस्त्वं वचनं पुत्र्याः श‍ृणु देवि नमोऽस्तु ते ॥ सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि । १२॥ तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः । प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ॥ १३॥ इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते । त्वदाज्ञा यदि जायेत तप्यते च तथा तपः ॥ १४॥ ब्रह्मोवाच । इत्युक्त्वा च ततःसख्यौ तूष्णीमास्तां मुनीश्वर । नाङ्गीचकार मेना सा तद्वाक्यं खिन्नमानसा ॥ १५॥ ततः सा पार्वती प्राह स्वयमेवाथ मातरम् । करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदाम्बुजम् ॥ १६॥ पार्वत्युवाच । मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् । अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥ १७॥ ब्रह्मोवाच । इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता । सोपाहूय तदा पुत्रीमुवाच विकला सती ॥ १८॥ मेनोवाच । दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि । तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ॥ १९॥ कुत्र यासि तपः कर्तुं देवाः सन्ति गृहे मम । तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ २०॥ कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् । साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ॥ २१॥ शरीरं कोमलं वत्से तपस्तु कठिनं महत् । एतस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ॥ २२॥ स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी । तस्मात्त्वं पुत्रि मा कार्षीः तपोऽर्थं गमनं प्रति ॥ २३॥ ब्रह्मोवाच । इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता । संवदे न सुखं किञ्चिद्विनाराध्य महेश्वरम् ॥ २४॥ तपोनिषिद्धा तपसे वनं गन्तुं च मेनया । हेतुना तेन सोमेति नाम प्राप शिवा तदा ॥ २५॥ अथ तां दुःखितां ज्ञात्वा मेना शैलप्रिया शिवाम् । निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ॥ २६॥ मातुराज्ञां च सम्प्राप्य सुव्रता मुनिसत्तम । ततः स्वान्ते सुखं लेभे पार्वती स्मृतशङ्करा ॥ २७॥ मातरं पितरं साथ प्रणिपत्य मुदा शिवा । सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता ॥ २८॥ हित्वा मतान्यनेकानि वस्त्राणि विविधानि च । वल्कलानि धृतान्याशु मौञ्जीं बद्ध्वा तु शोभनाम् ॥ २९॥ हित्वा हारं तथा चर्म मृगस्य परमं धृतम् । जगाम तपसे तत्र गङ्गावतरणं प्रति ॥ ३०॥ शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः । गङ्गावतरणो नाम प्रस्थो हिमवतःस च ॥ ३१॥ हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः । काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ॥ ३२॥ यत्र स्थित्वा पुरा शम्भुः तप्तवान्दुस्तरं तपः । तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ ३३॥ हा हरेति शिवा तत्र रुदन्ती सा गिरेः सुता । विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ ३४॥ ततश्चिरेण सा मोहं धैर्यात्संस्तभ्य पार्वती । नियमायाभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३५॥ तपश्चकार सा तत्र श‍ृङ्गितीर्थे महोत्तमे । गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत् ॥ ३६॥ सुन्दराश्च द्रुमास्तत्र पवित्राश्शिवया मुने । आरोपिताः परीक्षार्थं तपसः फलभागिनः ॥ ३७॥ भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी । तथा तपःसमारब्धं मुनीनामपि दुष्करम् ॥ ३८॥ विगृह्य मनसा सर्वाणीन्द्रियाणि सहाशु सा । समुपस्थानिके तत्र चकार परमं तपः ॥ ३९॥ ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् । कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम् ॥ ४०॥ सततं चैव वर्षासु स्थण्डिले सुस्थिरासना । शिलापृष्ठे च संसिक्ता बभूव जलधारया ॥ ४१॥ शीते जलान्तरे शश्वत्तस्थौ सा भक्तितत्परा । अनाहारातपत्तत्र नीहारेषु निशासु च ॥ ४२॥ एवं तपः प्रकुर्वाणा पञ्चाक्षरजपे रता । दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम् ॥ ४३॥ स्वारोपितान् शुभान्वृक्षान्सखीभिस्सिञ्चती मुदा । प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत् ॥ ४४॥ वातश्चैव तथा शीतवृष्टिश्च विविधा तथा । दुस्सहोऽपि तथा घर्मस्तया सेहे सुचित्तया ॥ ४५॥ दुःखं च विविधं तत्र गणितं न तयागतम् । केवलं मन आधाय शिवे सासीत्स्थिता मुने ॥ ४६॥ प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः । तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ॥ ४७॥ ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता । निराहाराभवद्देवी तपश्चरणसंरता ॥ ४८॥ आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता । तेन देवैरपर्णेति कथिता नामतः शिवा ॥ ४९॥ एकपादस्थिता सासीच्छिवं संस्मृत्य पार्वती । पञ्चाक्षरं जपन्ती च मनुं तेपे तपो महत् ॥ ५०॥ चीरवल्कलसंवीता जटासङ्घातधारिणी । शिवचिन्तनसंसक्ता जिगाय तपसा मुनीन् ॥ ५१॥ एवं तस्यास्तपस्यन्त्या चिन्तयन्त्या महेश्वरम् । त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ५२॥ षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः । तत्र क्षणमथोषित्वा चिन्तयामास सा शिवा ॥ ५३॥ नियमस्थां महादेव किं मां जानासि नाधुना । येनाहं सुचिरं तेन नानुयाता तपोरता ॥ ५४॥ लोके वेदे च गिरिशो मुनिभिर्गीयते सदा । शङ्करः स हि सर्वज्ञः सर्वात्मा सर्वदर्शनः ॥ ५५॥ सर्वभूतिप्रदो देवः सर्वभावानुभावनः । भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ॥ ५६॥ सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे । अनुरक्ता तदा सोऽत्र सम्प्रसीदतु शङ्करः ॥ ५७॥ यदि नारदतन्त्रोक्तमन्त्रो जप्तः शराक्षरः । सुभक्त्या विधिना नित्यं सम्प्रसीदतु शङ्करः ॥ ५८॥ यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् । सर्वेश्वरस्य चात्यन्तं सम्प्रसीदतु शङ्करः ॥ ५९॥ एवं चिन्तयती नित्यं तेपे सा सुचिरं तपः । अधोमुखी निर्विकारा जटावल्कलधारिणी ॥ ६०॥ तथा तया तपस्तप्तं मुनीनामपि दुष्करम् । स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ॥ ६१॥ तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः । धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ॥ ६२॥ महतां धर्मवृद्धेषु गमनं श्रेय उच्यते । प्रमाणं तपसो नास्ति मान्यो धर्मःसदा बुधैः ॥ ६३॥ श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः । अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ॥ ६४॥ जल्पन्त इति ते सर्वे सुप्रशस्य शिवातपः । जग्मुः स्वं धाम मुदिताः कठिनाङ्गाश्च ये ह्यपि ॥ ६५॥ अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना । पार्वत्या जगदम्बायाः पराश्चर्यकरं महत् ॥ ६६॥ तदाश्रमगता ये च स्वभावेन विरोधिनः । तेऽप्यासँस्तत्प्रभावेण विरोधरहितास्तदा ॥ ६७॥ सिंहा गावश्च सततं रागादिदोषसंयुताः । तन्महिम्ना च ते तत्र नाबाधन्त परस्परम् ॥ ६८॥ अथान्ये च मुनिश्रेष्ठ मार्जारा मूषकादयः । निसर्गाद्वैरिणो यत्र विक्रियन्ते स्म न क्वचित् ॥ ६९॥ वृक्षाश्च सफलास्तत्र तृणानि विविधानि च । पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ॥ ७०॥ तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् । जातं च तपसस्तस्याः सिद्धिरूपमभूत्तदा ॥ ७१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीतपोवर्णनं नाम द्वाविंशोऽध्यायः ॥ २.३.२२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२३. त्रयोविंशोऽध्यायः । शिवेन पार्वतीसान्त्वनम् ।

ब्रह्मोवाच । एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर । चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १॥ हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् । सभार्यः ससुतामात्य उवाच परमेश्वरीम् ॥ २॥ हिमालय उवाच । मा खिद्यतां महाभागे तपसानेन पार्वती । रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३॥ त्वं तन्वी सुकुमाराङ्गी तपसा च विमोहिता । भविष्यसि न सन्देहः सत्यं सत्यं वदामि ते ॥ ४॥ तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि । किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५॥ अतो हि निर्विकारत्वात्त्वामादातुं वरां हरः । नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६॥ गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते । तथैव दुर्गमं शम्भुं जानीहि त्वमिहानघे ॥ ७॥ ब्रह्मोवाच । तथैव मेनया चोक्ता तथा सह्याद्रिणा सती । मेरुणा मन्दरेणैव मैनाकेन तथैव सा ॥ ८॥ एवमन्यैः क्षितिध्रैश्च क्रौञ्चादिभिरनातुरा । तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९॥ एवं प्रोक्ता यदा तन्वी सा सर्वैः तपसि स्थिता । उवाच प्रहसन्त्येव हिमवन्तं शुचिस्मिता ॥ १०॥ पार्वत्युवाच । पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया । अधुनापि प्रतिज्ञां च श‍ृणुध्वं मम बान्धवाः ॥ ११॥ विरक्तोऽसौ महादेवो येन दग्धो रुषा स्मरः । तं तोषयामि तपसा शङ्करं भक्तवत्सलम् ॥ १२॥ सर्वे भवन्तो गच्छन्तु स्वं स्वं धाम प्रहर्षिताः । भविष्यत्येव तुष्टोऽसौ नात्र कार्या विचारणा ॥ १३॥ दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् । तमानयिष्ये चात्रैव तपसा केवलेन हि ॥ १४॥ तपोबलेन महता सुसेव्यो हि सदाशिवः । जानीध्वं हि महाभागाः सत्यं सत्यं वदामि वः ॥ १५॥ आभाष्य चैवं गिरिजा च मेनकां मैनाकबन्धुं पितरं हिमालयम् । तूष्णीं बभूवाशु सुभाषिणी शिवा समन्दरं पर्वतराजबालिका ॥ १६॥ जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते । प्रशंसमाना गिरिजां मुहुर्मुहुः सुविस्मिता हेमनगेश्वराद्याः ॥ १७॥ गतेषु तेषु सूर्वेषु सखीभिः परिवारिता । तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १८॥ तपसा महता तेन तप्तमासीच्चराचरम् । त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९॥ तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः । सिद्धाःसाध्याश्च मुनयो विद्याधरमहोरगाः ॥ २०॥ सप्रजापतयश्चैव गुह्यकाश्च तथापरे । कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१॥ सर्वे मिलित्वा शक्राद्या गुरुमामन्त्र्य विह्वलाः । सुमेरौ तप्तसर्वाङ्गा विधिं मां शरणं ययुः ॥ २२॥ तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः । ऊचुःसर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३॥ देवा ऊचुः । त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् । सन्तप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥ २४॥ तद् ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो । दग्धीभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षकः ॥ २५॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा । विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६॥ दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् । हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७॥ तत्र गत्वा हरिं दृष्ट्वा विलसन्तं सुखासने । सुप्रणम्य सुसंस्तूय प्रावोचं साञ्जलिः सुरैः ॥ २८॥ त्राहि त्राहि महाविष्णो तप्तान्नः शरणागतान् । तपसोग्रेण पार्वत्यास्तपन्त्याः परमेण हि ॥ २९॥ इत्याकर्ण्य वचस्तेषामस्मदादिदिवौकसाम् । शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ ३०॥ विष्णुरुवाच । ज्ञातं सर्वं निदानं मे पार्वतीतपसोऽद्य वै । युष्माभिः सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१॥ महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् । पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः ॥ ३२॥ वरं दातुं शिवायै हि देवदेवः पिनाकधृक् । यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत् ॥ ३३॥ तस्माद् वयं गमिष्यामो यत्र रुद्रो महाप्रभुः । तपसोग्रेण संयुक्तोऽद्यास्ते परममङ्गलः ॥ ३४॥ ब्रह्मोवाच । विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुः सुरादयः । महाभीता हठात् कुद्धाद्दग्धुकामात् लयङ्करात् ॥ ३५॥ देवा ऊचुः । महाभयङ्करं क्रुद्धं कालानलसमप्रभम् । न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभुम् ॥ ३६॥ यथा दग्धः पुरा तेन मदनो दुरतिक्रमः । तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७॥ ब्रह्मोवाच तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः । सान्त्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८॥ हरिरुवाच । हे सुरा मद्वचः प्रीत्या श‍ृणुतादरतोऽखिलाः । न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९॥ तस्माद्भवद्भिर्गन्तव्यं मया सार्धं विचक्षणैः । शम्भुं शुभकरं मत्वा शरणं तस्य सुप्रभोः ॥ ४०॥ शिवं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं हि परं पुराणम् । तपो जुषाणं परमात्मरूपं परात्परं तं शरणं व्रजामः ॥ ४१॥ ब्रह्मोवाच । एवमुक्तास्तदा देवा विष्णुना प्रभविष्णुना । जग्मुः सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२॥ प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् । जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्याः सकुतूहलाः ॥ ४३॥ पार्वत्याः सुतपो दृष्ट्वा तेजसा व्यापृतास्तदा । प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपःस्थिताम् ॥ ४४॥ प्रशंसन्तस्तपस्तस्याः साक्षात्सिद्धितनोः सुराः । जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५॥ तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा । पश्यन्तो दूरतस्तस्थुः कामभस्मकृतो हरात् ॥ ४६॥ नारद त्वं शिवस्थानं तदा गत्वाभयः सदा । शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७॥ पुनरागत्य यत्नेन देवानाहूय तांस्ततः । निनाय शङ्करस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८॥ अथ विष्ण्वादयः सर्वे तत्र गत्वा शिवं प्रभुम् । ददृशुः सुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९॥ योगपट्टस्थितं शम्भुं गणैश्च परिवारितम् । तपोरूपं दधानं च परमेश्वररूपिणम् ॥ ५०॥ ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः । प्रणम्य तुष्टुवुः सूक्तैर्वेदोपनिषदन्वितैः ॥ ५१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २.३.२३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२४. चतुर्विंशोऽध्यायः । शिवकृता पार्वतीविवाहस्वीकृतिः ।

देवा ऊचुः । नमो रुद्राय देवाय मदनान्तकराय च ॥ स्तुत्याय भूरिभासाय त्रिनेत्राय नमो नमः ॥ १॥ शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः । महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥ त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः । शम्भुरीशः शङ्करोऽसि दयालुस्त्वं विशेषतः ॥ ३॥ त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो । त्वां विना कः समर्थोऽस्ति दुःखनाशे महेश्वर ॥ ४॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः । कृपया परया युक्तो विज्ञप्तुं शम्भुमारभत् ॥ ५॥ नन्दिकेश्वर उवाच । विष्ण्वादयः सुरगणा मुनिसिद्धसङ्घा- स्त्वां द्रष्टुमेव सुरवर्य विशेषयन्ति । कार्यार्थिनोऽसुरवरैः परिभर्त्स्यमानाः सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६॥ तस्मात्त्वया हि सर्वेश त्रातव्या मुनयः सुराः । दीनबन्धुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७॥ ब्रह्मोवाच । एवं दयावता शम्भुर्विज्ञप्तो नन्दिना भृशम् । शनैः शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८॥ ईशोऽथोपरतः शम्भुस्तदा परमकोविदः । समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९॥ शम्भुरुवाच । कस्माद्यूयं समायाता मत्समीपं सुरेश्वराः । हरिब्रह्मादयः सर्वे ब्रूत कारणमाशु तत् ॥ १०॥ ब्रह्मोवाच । इति श्रुत्वा वचः शम्भोः सर्वे देवा मुदान्विताः । विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११॥ अथ विष्णुर्महाभक्तो देवानां हितकारकः । मदीरितमुवाचेदं सुरकार्यं महत्तमम् ॥ १२॥ तारकेण कृतं शम्भो देवानां परमाद्भुतम् । कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३॥ हे शम्भो तव पुत्रेणौरसेन हि भविष्यति । निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४॥ विचार्येत्थं महादेव कृपां कुरु नमोऽस्तु ते । देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५॥ तस्मात्त्वया गिरिजा देव शम्भो ग्रहीतव्या पाणिना दक्षिणेन । पाणिग्रहेणैव महानुभावां दत्तां गिरीन्द्रेण च तां कुरुष्व ॥ १६॥ विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः । दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥ १७॥ शिव उवाच । यदा मे स्वीकृता देवी गिरिजा सर्वसुन्दरी । तदा सर्वे सुरेन्द्राश्च मुनयो ऋषयस्तदा ॥ १८॥ सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि । जीवयिष्यति दुर्गा सा पाणिग्रहणतः स्मरम् ॥ १९॥ मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये । ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ २०॥ एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ । सुधीः सर्वैश्च देवेन्द्र हठं नो कर्तुमर्हसि ॥ २१॥ दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् । सर्वे तिष्ठन्तु निष्कामा मया सह सुनिश्चितम् ॥ २२॥ यथाहं च सुराः सर्वे तथा यूयमयत्नतः । तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३॥ यूयं समाधिना तेन मदनेन विना सुराः । परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ॥ २४॥ पुरावृत्तं स्मरकृतं विस्मृतं यद् विधे हरे । महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५॥ महाधनुर्धरेणैव मदनेन हठात्सुराः । सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरामराः ॥ २६॥ कामो हि नरकायैव तस्मात् क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहो मोहाच्च भ्रंशते तपः ॥ २७॥ कामक्रोधौ परित्याज्यौ भवद्भिः सुरसत्तमैः । सर्वैरेव च मन्तव्यं मद्वाक्यं नान्यथा क्वचित् ॥ २८॥ ब्रह्मोवाच । एवं विश्राव्य भगवान् महादेवो वृषध्वजः । सुरान् प्रवाचयामास विधिविष्णू तथा मुनीन् ॥ २९॥ तूष्णीम्भूतोऽभवच्छम्भुर्ध्यानमाश्रित्य वै पुनः । आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥ ३०॥ स्वात्मानमात्मना शम्भुरात्मन्येव व्यचिन्तयत् । निरञ्जनं निराभासं निर्विकारं निरामयम् ॥ ३१॥ परात्परतरं नित्यं निर्ममं निरवग्रहम् । शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥ ३२॥ एवं स्वरूपं परमं चिन्तयन् ध्यानमास्थितः । परमानन्दसम्मग्नो बभूव बहुसूतिकृत् ॥ ३३॥ ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः । हरिशक्रादयः सर्वे नन्दिनं प्रोचुरानताः ॥ ३४॥ देवा ऊचुः । किं वयं करवामाद्य विरक्तो ध्यानमास्थितः । शम्भुस्त्वं शङ्करसखः सर्वज्ञः शुचिसेवकः ॥ ३५॥ केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप । तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ३६॥ ब्रह्मोवाच । इति विज्ञापितो देवैर्मुने हर्यादिभिस्तदा । प्रत्युवाच सुरांस्तान्स नन्दी शम्भुप्रियो गणः ॥ ३७॥ नन्दीश्वर उवाच । हे हरे हे विधे शक्र निर्जरा मुनयस्तथा । श‍ृणुध्वं वचनं मे हि शिवसन्तोषकारकम् ॥ ३८॥ यदि वो हठ एवाद्य शिवदारपरिग्रहे । अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥ ३९॥ भक्तेर्वश्यो महादेवो न साधारणतः सुराः । अकार्यमपि सद्भक्त्या करोति परमेश्वरः ॥ ४०॥ एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः । यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥ ४१॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयः सुराः । तथेति मत्त्वा सुप्रीत्या शङ्करं तुष्टुवुर्हि ते ॥ ४२॥ देवदेव महादेव करुणासागर प्रभो । समुद्धर महाक्लेशात् त्राहि नः शरणागतान् ॥ ४३॥ ब्रह्मोवाच । इत्येवं बहुदीनोक्त्या तुष्टुवुः शङ्करं सुराः । रुरुदुः सुस्वरं सर्वे प्रेमव्याकुलमानसाः ॥ ४४॥ हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह । संस्मरन्मनसा शम्भुं भक्त्या परमयान्वितः ॥ ४५॥ सुरैरेवं स्तुतः शम्भुर्हरिणा च मया भृशम् । भक्तवात्सल्यतो ध्यानाद्विरतोऽभून्महेश्वरः ॥ ४६॥ उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः । विलोक्य करुणादृष्ट्या शङ्करो भक्तवत्सलः ॥ ४७॥ शङ्कर उवाच । हे हरे हे विधे देवाः शक्राद्या युगपत्समे । किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥ ४८॥ हरिरुवाच । सर्वज्ञस्त्वं महेशान त्वन्तर्याम्यखिलेश्वरः । किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥ ४९॥ तारकासुरतो दुःखं सम्भूतं विविधं मृड । सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥ ५०॥ शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् । तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥ ५१॥ इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः । तदन्यस्मादमृत्युः स बाधते निखिलं जगत् ॥ ५२॥ नारदस्य निदेशात्सा करोति कठिनं तपः । तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५३॥ वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर । देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥ ५४॥ देवानां मे महोत्साहो हृदये चास्ति शङ्कर । विवाहं तव सन्द्रष्टुं तत्त्वं कुरु यथोचितम् ॥ ५५॥ रत्यै यद्भवता दत्तो वरस्तस्य परात्पर । प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥ ५६॥ ब्रह्मोवाच । इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः । संस्तूय विविधैः स्तोत्रैः सन्तस्थुस्तत्पुरोऽखिलाः ॥ ५७॥ भक्ताधीनः शङ्करोऽपि श्रुत्वा देववचस्तदा । विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥ ५८॥ शङ्कर उवाच । हे हरे हे विधे देवाः श‍ृणुतादरतोऽखिलाः । यथोचितमहं वच्मि सविशेषं विवेकतः ॥ ५९॥ नोचितं हि विधानं वै विवाहकरणं नृणाम् । महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥ ६०॥ कुसङ्गा बहवो लोके स्त्रीसङ्गस्तत्र चाधिकः । उद्धरेत्सकलैर्बन्धैर्न स्त्रीसङ्गात्प्रमुच्यते ॥ ६१॥ लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते । स्त्र्यादिपाशसुसम्बद्धो मुच्यते न कदाचन ॥ ६२॥ वर्धन्ते विषयाः शश्वन्महाबन्धनकारिणः । विषयाक्रान्तमनसः स्वप्ने मोक्षोऽपि दुर्लभः ॥ ६३॥ सुखमिच्छति चेत्प्राज्ञो विधिवद्विषयांस्त्यजेत् । विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥ ६४॥ जनो विषयिणा साकं वार्तातः पतति क्षणात् । विषयं प्राहुराचार्याः सितालिप्तेन्द्रवारुणीम् ॥ ६५॥ यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः । तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥ ६६॥ भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्यकृत् । अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥ ६७॥ कामरूपाधिपस्यैव पणश्च सफलः कृतः । सुदक्षिणस्य भूपस्य भवबन्धगतस्य हि ॥ ६८॥ गौतमक्लेशकर्ताहं त्र्यम्बकात्मा सुखावहः । तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥ ६९॥ विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् । देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥ ७०॥ भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः । विश्वानरमुनेर्दुःखं हृतं गृहपतिर्भवन् ॥ ७१॥ किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् । मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः ॥ ७२॥ यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् । तदा तदा हराम्याशु तत्क्षणात्सर्वशःसदा ॥ ७३॥ जानेऽहं तारकाद्दुःखं सर्वेषां वः समुत्थितम् । असुरात्तद्धरिष्यामि सत्यं सत्यं वदाम्यहम् ॥ ७४॥ नास्ति यद्यपि मे काचिद्विवाहकरणे रुचिः । विवाहयिष्ये गिरिजां पुत्रोत्पादनहेतवे ॥ ७५॥ गच्छत स्वगृहाण्येव निर्भयाः सकलाः सुराः । कार्यं वः साधयिष्यामि नात्र कार्या विचारणा ॥ ७६॥ ब्रह्मोवाच । इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः । सर्वे विष्ण्वादयो देवाः स्वधामानि ययुर्मुने ॥ ७७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विंशोऽध्यायः ॥ २.३.२४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२५. पञ्चविंशोऽध्यायः । सप्तर्षिकृता पार्वतीपरीक्षा ।

नारद उवाच । गतेषु तेषु देवेषु विधिविष्ण्वादिकेषु च । सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम् ॥ १॥ किं कृतं शम्भुना तात वरं दातुं समागतः । कियत्कालेन च कथं तद्वद प्रीतिमावह ॥ २॥ ब्रह्मोवाच । गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् । तत्तपः सुपरीक्षार्थं समाधिस्थोऽभवद्भवः ॥ ३॥ स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिन्तयत् । परात्परतरं स्वस्थं निर्मायं निरवग्रहम् ॥ ४॥ तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः । अविज्ञातगतिःसूतिःस हरः परमेश्वरः ॥ ५॥ ब्रह्मोवाच । गिरिजा हि तदा तात तताप परमं तपः । तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६॥ समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा । वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७॥ सप्तापि मुनयः शीघ्रमाययुः स्मृतिमात्रतः । प्रसन्नवदनाः सर्वे वर्णयन्तो विधिं बहु ॥ ८॥ प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः । वाण्या गद्गदया बद्धकरा विनतकन्धराः ॥ ९॥ सप्तर्षय ऊचुः । देवदेव महादेव करुणासागर प्रभो । जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ १०॥ किमर्थं संस्मृता नाथ शासनं देहि तद्धि नः । स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११॥ ब्रह्मोवाच । इत्याकर्ण्य मुनीनां तु विज्ञप्तिं करुणानिधिः । प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२॥ महेश्वर उवाच । हे सप्तमुनयस्ताताः श‍ृणुतारं वचो मम । अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३॥ तपश्चरति देवेशी पार्वती गिरिजाधुना । गौरीशिखरसंज्ञे हि पर्वते दृढमानसा ॥ १४॥ मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः । सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५॥ तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः । परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः ॥ १६॥ सर्वथा छलसंयुक्तं वचनीयं वचश्च वः । न संशयः प्रकर्तव्यः शासनान्मम सुव्रताः ॥ १७॥ ब्रह्मोवाच । इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते । यत्र राजति सा दीप्ता जगन्माता नगात्मजा ॥ १८॥ तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा । मूर्ता परमतेजस्का विलसन्ती सुतेजसा ॥ १९॥ हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः । सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः ॥ २०॥ ऋषय ऊचुः । श‍ृणु शैलसुते देवि किमर्थं तप्यते तपः । इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१॥ ब्रह्मोवाच । इत्युक्ता सा शिवा देवी गिरीन्द्रतनया द्विजैः । प्रत्युवाच वचः सत्यं सुगूढमपि तत्पुरः ॥ २२॥ पार्वत्युवाच । मुनीश्वराःसंश‍ृणुत मद्वाक्यं प्रीतितो हृदा । ब्रवीमि स्वविचारं वै चिन्तितो यो धिया स्वया ॥ २३॥ करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसम्भवाः । सङ्कोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४॥ इदं मनो हि सुदृढमवशं परकर्मकृत् । जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५॥ सुरर्षेः शासनं प्राप्य करोमि सुदृढं तपः । रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६॥ अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् । तदाशां शङ्करः स्वामी पिपर्त्तु करुणानिधिः ॥ २७॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते । सम्मान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥ २८॥ ऋषय ऊचुः । न ज्ञातं तस्य चरितं वृथापण्डितमानिनः । देवर्षेः क्रूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥ २९॥ नारदः कूटवादी च परचित्तप्रमन्थकः । तस्य वार्ताश्रवणतो हानिर्भवति सर्वथा ॥ ३०॥ तत्र त्वं श‍ृणु सद् बुद्ध्या चेतिहासं सुशोभितम् । क्रमात्त्वां बोधयन्तो हि प्रीत्या तमुपधारय ॥ ३१॥ ब्रह्मपुत्रो हि यो दक्षः सुषुवे पितुराज्ञया । स्वपत्न्यामयुतं पुत्रानयुङ्क्त तपसि प्रियान् ॥ ३२॥ ते सुताः पश्चिमदिशि नारायणसरो गताः । तपोऽर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥ ३३॥ कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः । तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥ ३४॥ तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः । उत्पाद्य पुत्रान्प्रायुङ्क्त सहस्रप्रमितांस्ततः ॥ ३५॥ तेऽपि तत्र गताः पुत्राः तपोऽर्थं पितुराज्ञया । नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥ ३६॥ ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः । आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥ ३७॥ इत्थं नारदसद्वृत्तिर्विश्रुता शैलकन्यके । अन्यां श‍ृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥ ३८॥ विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत् । स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ॥ ३९॥ प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् । दत्त्वा दुःखं ददौ चायं परबुद्धिप्रभेदकः ॥ ४०॥ मुनिना निजविद्या यच्छ्राविता कर्णरोचना । स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥ ४१॥ नारदो मलिनात्मा हि सर्वदोज्ज्वलदेहवान् । जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥ ४२॥ बकं साधुं वर्णयन्ति न मत्स्यानत्ति सर्वथा । सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥ ४३॥ लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसम्मता । वृथैव मूर्खीभूता त्वं तपश्चरसि दुष्करम् ॥ ४४॥ यदर्थमीदृशं बाले करोषि विपुलं तपः । सोदासीनो निर्विकारो मदनारिर्न संशयः ॥ ४५॥ अमङ्गलवपुर्धारी निर्लज्जोऽसदनोऽकुली । कुवेषी प्रेतभूतादिसङ्गी नग्नो हि शूलभृत् ॥ ४६॥ स धूर्तस्तव विज्ञानं विनाश्य निजमायया । मोहयामास सद्युक्त्या कारयामास वै तपः ॥ ४७॥ ईदृशं हि वरं लब्ध्वा किं सुखं सम्भविष्यति । विचारं कुरु देवेशि त्वमेव गिरिजात्मजे ॥ ४६॥ प्रथमं दक्षजां साध्वीं विवाह्य सुधिया सतीम् । निर्वाहं कृतवान्नैव मूढः किञ्चिद्दिनानि हि ॥ ४९॥ तां तथैव स वै दोषं दत्त्वात्याक्षीत् स्वयं प्रभुः । ध्यायन्स्वरूपमकलमशोकमरमत्सुखी ॥ ५०॥ एकलः परनिर्वाणो ह्यसङ्गोऽद्वय एव च । तेन नार्याः कथं देवि निर्वाहः सम्भविष्यति ॥ ५१॥ अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् । त्यजास्माकं महाभागे भविष्यति च शं तव ॥ ५२॥ त्वद्योग्यो हि वरो विष्णुः सर्वसद्गुणवान्प्रभुः । वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥ ५३॥ तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् । इतीदृशं त्यज हठं सुखिता भव पार्वति ॥ ५४॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा पार्वती जगदम्बिका । विहस्य च पुनः प्राह मुनीन्ज्ञानविशारदान् ॥ ५५॥ पार्वत्युवाच । सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः । परन्तु मे हठो नैव मुक्तो भवति हे द्विजाः ॥ ५६॥ स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् । इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥ ५७॥ सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन । गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥ ५८॥ गुरूणां वचनं सत्यमिति येषां दृढा मतिः । तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥ ५९॥ गुरूणां वचनं सत्यमिति यद्धृदये न धीः । इहामुत्रापि तेषां हि दुःखं न च सुखं क्वचित् ॥ ६०॥ सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः । गृहं वसेद्वा शून्यं स्यान्मे हठः सुखदः सदा ॥ ६१॥ यद्भवद्भिः सुभणितं वचनं मुनिसत्तमाः । तदन्यथा तद्विवेकं वर्णयामि समासतः ॥ ६२॥ गुणालयो विहारी च विष्णुः सत्यं प्रकीर्तितः । सदाशिवोऽगुणः प्रोक्तस्तत्र कारणमुच्यते ॥ ६३॥ शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः । प्रभुतां लौकिकीं नैव सन्दर्शयितुमिच्छति ॥ ६४॥ अतः परमहंसानां धार्यते सुप्रिया गतिः । अवधूतस्वरूपेण परानन्देन शम्भुना ॥ ६५॥ भूषणादिरुचिर्मायालिप्तानां ब्रह्मणो न च । स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥ ६६॥ धर्मजात्यादिभिः शम्भुर्नानुगृह्णाति वै द्विजाः । गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥ ६७॥ चेच्छिवः स हि मे विप्रा विवाहं न करिष्यति । अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥ ६८॥ उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि ॥ ६९॥ ब्रह्मोवाच । इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा । विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥ ७०॥ ऋषयोऽपीत्थमाज्ञाय गिरिजायाः सुनिश्चयम् । प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥ ७१॥ अथ प्रणम्य तां देवीं मुनयो हृष्टमानसाः । शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने ॥ ७२॥ तत्र गत्वा शिवं नत्वा वृत्तान्तं विनिवेद्य तत् । तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ७३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं नाम पञ्चविंशोऽध्यायः ॥ २.३.२५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२६. षड्विंशोऽध्यायः । पार्वती-जटिलसंवादः ।

ब्रह्मोवाच । गतेषु तेषु मुनिषु स्वं लोकं शङ्करः स्वयम् । परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ॥ १॥ परीक्षाछद्मना शम्भुर्द्रष्टुं तां तुष्टमानसः । जटिलं रूपमास्थाय स ययौ पार्वतीवनम् ॥ २॥ अतीव स्थविरो विप्रदेहधारी स्वतेजसा । प्रज्वलन्मनसा हृष्टो दण्डी छत्री बभूव सः ॥ ३॥ तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् । वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ॥ ४॥ शम्भुर्निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् । उपकण्ठं ययौ प्रीत्या तदासौ भक्तवत्सलः ॥ ५॥ आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् । अपूजयच्छिवा देवी सर्वपूजोपहारकैः ॥ ६॥ सुसत्कृतं संविधाभिः पूजितं परया मुदा । पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात् ॥ ७॥ पार्वत्युवाच । ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः । इदं वनं भासयसे वद वेदविदां वर ॥ ८॥ विप्र उवाच । अहमिच्छाभिगामी च वृद्धो विप्रतनुः सुधीः । तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ ९॥ का त्वं कस्यासि तनया किमर्थं विजने वने । तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ॥ १०॥ न बाला न च वृद्धासि तरुणी भासि शोभना । कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ॥ ११॥ किं त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी । तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ॥ १२॥ वद कस्य कुले जाता कः पिता तव काभिधा । महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ॥ १३॥ किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती । एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ॥ १४॥ पार्वत्युवाच । नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती । अहं हिमाचलसुता साम्प्रतं नाम पार्वती ॥ १५॥ पुरा दक्षसुता जाता सती नामान्यजन्मनि । योगेन त्यक्तदेहाहं यत्पित्रा निन्दितः पतिः ॥ १६॥ अत्र जन्मनि सम्प्राप्तः शिवोऽपि विधिवैभवात् । मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ॥ १७॥ प्रयाते शङ्करे तापोद्विजिताहं पितुर्गृहात् । आगता तपसे विप्र सुदृढा स्वर्णदीतटे ॥ १८॥ कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् । न प्राप्याग्नौ विविक्षन्ती त्वां दृष्ट्वा संस्थिता क्षणम् ॥ १९॥ गच्छ त्वं प्रविशाम्यग्नौ शिवेनाङ्गीकृता न हि । यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ॥ २०॥ ब्रह्मोवाच । इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा । निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ॥ २१॥ वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः । बभूव तत्क्षणं सद्यो वह्निश्चन्दनपङ्कवत् ॥ २२॥ क्षणं तदन्तरे स्थित्वा ह्युत्पतन्तीं दिवं द्विजः । पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ॥ २३॥ द्विज उवाच । अहो तपस्ते किं भद्रे न बुद्धं किञ्चिदेव हि । न दग्धो वह्निना देहो न च प्राप्तं मनीषितम् ॥ २४॥ अतः सत्यं निकामं वै वद देवि मनोरथम् । ममाग्रे विप्रवर्यस्य सर्वानन्दप्रदस्य हि ॥ २५॥ यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना । तस्मान्मैत्री च सञ्जाता कार्यं गोप्यं त्वया न हि ॥ २६॥ किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् । त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते ॥ २७॥ परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् । रत्नं हस्ते समादाय हित्वा काचस्तु सञ्चितः ॥ २८॥ ईदृशं तव सौन्दर्यं कथं व्यर्थीकृतं त्वया । हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया ॥ २९॥ तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः । तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमवाप्नुयाम् ॥ ३०॥ ब्रह्मोवाच । इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका । तन्मुखेनैव तत्सर्वं कथयामास सुव्रता ॥ ३१॥ तया च प्रेरिता तत्र पार्वत्या विजयाभिधा । प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् ॥ ३२॥ सख्युवाच । श‍ृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् । हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि ॥ ३३॥ सखी मे गिरिराजस्य सुतेयं हिमभूभृतः । ख्याता वै पार्वती नाम्ना तस्या मातास्ति मेनका ॥ ३४॥ ऊढेयं न च केनापि न वाञ्छति शिवात्परम् । त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी ॥ ३५॥ तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् । तदत्र कारणं वक्ष्ये श‍ृणु साधो द्विजोत्तम ॥ ३६॥ हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च । पतिं पिनाकपाणिं वै प्राप्तुमिच्छति पार्वती ॥ ३७॥ इयं सखी मदीया वै वृक्षानारोपयत्पुरा । तेषु सर्वेषु सञ्जातं फलपुष्पादिकं द्विज ॥ ३८॥ रूपसार्थाय जनककुलालङ्करणाय च । समुद्दिश्य महेशानं कामस्यानुग्रहाय च ॥ ३९॥ मत्सखी नारददेशात्तपस्तपति दारुणम् । मनोरथं कुतस्तस्या न फलिष्यति तापस ॥ ४०॥ यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् । मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि ॥ ४१॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः । मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ४२॥ जटिल उवाच । सख्येदं कथितं तत्र परिहासोऽनुमीयते । यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् ॥ ४३॥ ब्रह्मोवाच । इत्युक्ते च तदा तेन जटिलेन द्विजन्मना । उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् ॥ ४४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोऽध्यायः ॥ २.३.२६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२७. सप्तविंशोऽध्यायः । ब्रह्मचारिप्रतारणवाक्यवर्णनम् ।

पार्वत्युवाच । श‍ृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु । सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा ॥ १॥ मनसा वचसा साक्षात्कर्मणा पतिभावतः । सत्यं ब्रवीमि नोऽसत्यं वृतो वै शङ्करो मया ॥ २॥ जानामि दुर्लभं वस्तु कथम्प्राप्यं मया भवेत् । तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया ॥ ३॥ ब्रह्मोवाच । इत्युक्त्वा वचनं तस्मै स्थिता सा गिरिजा तदा । उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः ॥ ४॥ ब्राह्मण उवाच । एतावत्कालपर्यन्तं ममेच्छा महती ह्यभूत् । किं वस्तु काङ्क्षती देवी कुरुते सुमहत्तपः ॥ ५॥ तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपङ्कजात् । इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु ॥ ६॥ न कथ्यते त्वया मह्यं मित्रत्वं निष्फलं भवेत् । यथा कार्यं तथा भावि कथनीयं सुखेन च ॥ ७॥ ब्रह्मोवाच । इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः । तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम् ॥ ८॥ पार्वत्युवाच । किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद । इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक् ॥ ९॥ द्विज उवाच । यदि श्रोतुमना देवि मां स्थापयसि भक्तितः । वदामि तत्त्वं तत्सर्वं येन ते वयुनं भवेत् ॥ १०॥ जानाम्यहं महादेवं सर्वथा गुरुधर्मतः । प्रवदामि यथार्थं हि सावधानतया श‍ृणु ॥ ११॥ वृषध्वजो महादेवो भस्मदिग्धो जटाधरः । व्याघ्रचर्माम्बरधरः संवीतो गजकृत्तिना ॥ १२॥ कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः । विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः ॥ १३॥ अव्यक्तजन्मा सततं गृहभोगविवर्जितः । दिगम्बरो दशभुजो भूतप्रेतान्वितस्सदा ॥ १४॥ केन वा कारणेन त्वं तं भर्तारं समीहसे । क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः ॥ १५॥ पूर्वं श्रुतं मया चैव व्रतं तस्य भयङ्करम् । श‍ृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः ॥ १६॥ दक्षस्य दुहिता साध्वी सती वृषभवाहनम् । वव्रे पतिं पुरा दैवात्तत्सम्भोगः परिश्रुतः ॥ १७॥ कपालिजायेति सती दक्षेण परिवर्जिता । यज्ञे भागप्रदानाय शम्भुश्चापि विवर्जितः ॥ १८॥ सा तथैवापमानेन भृशं कोपाकुला सती । तत्याजासून्प्रियाँस्तत्र तया त्यक्तश्च शङ्करः ॥ १९॥ त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् । तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥ २०॥ दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि । हित्वा च चन्दनं शुभ्रं कर्दमं लेप्तुमिच्छसि ॥ २१॥ सूर्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि । चीनांशुकं विहायैव चर्माम्बरमिहेच्छसि ॥ २२॥ गृहवासं परित्यज्य वनवासं समीहसे । लोहमिच्छसि देवेशि त्यक्त्वा शेवधिमुत्तमम् ॥ २३॥ इन्द्रादिलोकपालांश्च हित्वा शिवमनुव्रता । नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना ॥ २४॥ क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः । शशाङ्कवदना त्वं च पञ्चवक्त्रः शिवः स्मृतः ॥ २५॥ वेणी शिरसि ते दिव्या सर्पिणीव विभासिता । जटाजूटं शिवस्यैव प्रसिद्धं परिचक्षते ॥ २६॥ चन्दनं च त्वदीयाङ्गे चिताभस्म शिवस्य च । क्व दुकूलं त्वदीयं वै शाङ्करं क्व गजाजिनम् ॥ २७॥ क्व भूषणानि दिव्यानि क्व सर्पाः शङ्करस्य च । क्व चरा देवताःसर्वाः क्व च भूतबलिप्रियः ॥ २८॥ क्व वा मृदङ्गवादश्च क्व च तड्डमरुस्तथा । क्व च भेरीकलापश्च क्व च श‍ृङ्गरवोऽशुभः ॥ २९॥ क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः । भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम् ॥ ३०॥ यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः । वाहनं च बलीवर्दः सामग्री कापि तस्य न ॥ ३१॥ वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः । तन्मध्ये हि विरूपाक्षे एकोऽपि न गुणः स्मृतः ॥ ३२॥ तवापि कामो दयितो दग्धस्तेन हरेण च । अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः ॥ ३३॥ जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च । सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते ॥ ३४॥ एकाकी च सदा नित्यं विरागी च विशेषतः । तस्मात्त्वं हि हरेणैव मनो योक्तुं तु चार्हसि ॥ ३५॥ क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका । अङ्गरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ ॥ ३६॥ सर्वं विरुद्धं रूपादि तव देवि हरस्य च । मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु ॥ ३७॥ असद्वस्तु च यत्किञ्चित् तत्सर्वं स्वयमीहसे । निवर्तय मनस्तस्मान्नो चेदिच्छसि तत्कुरु ॥ ३८॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती । उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम् ॥ ३९॥ इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ २.३.२७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२८. अष्टाविंशोऽध्यायः । पार्वत्याः शिवरूपदर्शनम् ।

पार्वत्युवाच । एतावद्धि मया ज्ञातं कश्चिदन्योऽयमागतः । इदानीं सकलं ज्ञातमवध्यस्त्वं विशेषतः ॥ १॥ त्वयोक्तं विदितं देव तदलीकं न चान्यथा । यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया ॥ २॥ कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः । स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः ॥ ३॥ ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः । आगतश्छलसंयुक्तं वचोऽवादीः कुयुक्तितः ॥ ४॥ शङ्करस्य स्वरूपं तु जानामि सुविशेषतः । शिवतत्त्वमतो वच्मि सुविचार्य यथार्हतः ॥ ५॥ वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः । कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः ॥ ६॥ स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः । किं तस्य विद्यया कार्यं पूर्णस्य परमात्मनः ॥ ७॥ वेदा उच्छ्वासरूपेण पुरा दत्ताश्च विष्णवे । शम्भुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः ॥ ८॥ सर्वेषामादिभूतस्य वयोमानं कुतस्ततः । प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम् ॥ ९॥ ये भजन्ति च तं प्रीत्या शक्तीशं शङ्करं सदा । तस्मै शक्तित्रयं शम्भुः स ददाति सदाव्ययम् ॥ १०॥ तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः । तस्मान्मृत्युञ्जयन्नाम प्रसिद्धं भुवनत्रये ॥ ११॥ तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् । ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च ॥ १२॥ दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट् । भूतादयस्तत्परस्य द्वारपालाः शिवस्य तु ॥ १३॥ दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः । किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः ॥ १४॥ कल्याणरूपिणस्तस्य सेवयेह न किं भवेत् । किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः ॥ १५॥ सप्तजन्मदरिद्रः स्यात्सेवेद्यो यदि शङ्करम् । तस्यैतत्सेवनाल्लोके लक्ष्मीः स्यादनपायिनी ॥ १६॥ यदग्रे सिद्धयोऽष्टौ च नित्यं नृत्यन्ति तोषितुम् । अवाङ्मुखाः सदा तत्र तद्धितं दुर्लभं कुतः ॥ १७॥ यद्यस्य मङ्गलानीह सेवते शङ्करस्य न । यथापि मङ्गलं तस्य स्मरणादेव जायते ॥ १८॥ यस्य पूजाप्रभावेण कामाः सिद्ध्यन्ति सर्वशः । कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा ॥ १९॥ शिवेति मङ्गलं नाम मुखे यस्य निरन्तरम् । तस्यैव दर्शनादन्ये पवित्राः सन्ति सर्वदा ॥ २०॥ यद्यपूतं भवेद्भस्म चितायाश्च त्वयोदितम् । नित्यमस्याङ्गगं देवैः शिरोभिर्धार्यते कथम् ॥ २१॥ यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः । निर्गुणः शिवसंज्ञश्च स विज्ञेयः कथं भवेत् ॥ २२॥ अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः । तत्कथं हि विजानन्ति त्वादृशास्तद्बहिर्मुखाः ॥ २३॥ दुराचाराश्च पापाश्च वेभ्यस्ते विनिर्गताः । तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः ॥ २४॥ शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् । आजन्मसञ्चितं पुण्यं भस्मीभवति तस्य तत् ॥ २५॥ त्वया निन्दा कृता यात्र हरस्यामिततेजसः । त्वत्पूजा च कृता यन्मे तस्मात्पापं भजाम्यहम् ॥ २६॥ शिवविद्वेषिणं दृष्ट्वा सचैलं स्नानमाचरेत् । शिवविद्वेषिणं दृष्ट्वा प्रायश्चितं समाचरेत् ॥ २७॥ रे रे दुष्ट त्वया चोक्तमहं जानामि शङ्करम् । निश्चयेन न विज्ञातश्शिव एव सनातनः ॥ २८॥ यथा तथा भवेद्रुद्रो यथा वा बहुरूपवान् । ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः ॥ २९॥ विष्णुर्ब्रह्मापि न समः तस्य क्वापि महात्मनः । कुतोऽन्ये निर्जराद्याश्च कालाधीनाः सदैव ते ॥ ३०॥ इति बुद्ध्या समालोक्य स्वया सत्या सुतत्त्वतः । शिवार्थं वनमागत्य करोमि विपुलं तपः ॥ ३१॥ स एव परमेशानः सर्वेशो भक्तवत्सलः । सम्प्राप्तुं मेऽभिलाषो हि दीनानुग्रहकारकम् ॥ ३२॥ ब्रह्मोवाच । इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने । विरराम शिवं दध्यौ निर्विकारेण चेतसा ॥ ३३॥ तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः । पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे ॥ ३४॥ उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् । शिवसक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी ॥ ३५॥ गिरिजोवाच । वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः । पुनर्वक्तुमनाश्चैव शिवनिन्दां करिष्यति ॥ ३६॥ न केवलं भवेत्पापं निन्दां कर्तुश्शिवस्य हि । यो वै श‍ृणोति तन्निन्दां पापभाक् स भवेदिह ॥ ३७॥ शिवनिन्दाकरो वध्यः सर्वथा शिवकिङ्करैः । ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ॥ ३८॥ अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि । ब्राह्मणत्वादवध्यश्चेत्त्याज्योऽदृश्यश्च सर्वथा ॥ ३९॥ हित्वैतत्स्थलमद्यैव यास्यामोऽन्यत्र मा चिरम् । अथ सम्भाषणं न स्यादनेनाऽविदुषा पुनः ॥ ४०॥ ब्रह्मोवाच । इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने । असौ तावच्छिवः साक्षादालम्बे प्रियया स्वयम् ॥ ४१॥ कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा । दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ॥ ४२॥ शिव उवाच । कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः । प्रसन्नोऽस्मि वरं ब्रूहि नादेयं विद्यते तव ॥ ४३॥ अद्यप्रभृति ते दासः तपोभिः क्रीत एव ते । क्रीतोऽस्मि तव सौन्दर्यात्क्षणमेकं युगाय ते ॥ ४४॥ त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी । गिरिजे त्वं हि सद्बुध्या विचारय महेश्वरि ॥ ४५॥ मया परीक्षितासि त्वं बहुधा दृढमानसे । तत्क्षमस्वापराधं मे लोकलीलानुसारिणः ॥ ४६॥ न त्वादृशीं प्रणयिनीं पश्यामि च त्रिलोकके । सर्वथाहं तवाधीनः स्वकामः पूर्यतां शिवे ॥ ४७॥ एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव । त्वया साकं द्रुतं यास्ये स्वगृहं पर्वतोत्तमम् ॥ ४८॥ ब्रह्मोवाच । इत्युक्ते देवदेवेन पार्वती मुदमाप सा । तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् ॥ ४९॥ सर्वः श्रमो विनष्टोऽभूत्सत्यास्तु मुनिसत्तम । फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वत्या शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः ॥ २.३.२८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.२९. एकोनत्रिंशोऽध्यायः । शिवाशिवसंवादः ।

नारद उवाच । ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम् । तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ॥ १॥ ब्रह्मोवाच । देवर्षे श्रूयतां सम्यक् कथयामि कथां मुदा । तां महापापसंहर्त्रीं शिवभक्तिविवर्धिनीम् ॥ २॥ पार्वती वचनं श्रुत्वा हरस्स परमात्मनः । दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ॥ ३॥ प्रत्युवाच महासाध्वी स्वोपकण्ठस्थितं विभुम् । अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ॥ ४॥ पार्वत्युवाच । त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा । दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ॥ ५॥ स त्वं साहं समुत्पन्ना मेनायां कार्यसिद्धये । देवानां देवदेवेश तारकाप्तासुखात्मनाम् ॥ ६॥ यदि प्रसन्नो देवेश करोषि च कृपां यदि । पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ॥ ७॥ पितुर्गेहे मया सम्यग्गम्यते त्वदनुज्ञया । प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ॥ ८॥ गन्तव्यं भवता नाथ हिमवत्पार्श्वतः प्रभो । याचस्व मां ततो भिक्षुर्भूत्वा लीलाविशारदः ॥ ९॥ तथा त्वया प्रकर्तव्यं लोकेषु ख्यापयन् यशः । पितुर्मे सफलं सर्वं कुरुष्वैवं गृहाश्रमम् ॥ १०॥ ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः । करिष्यति न सन्देहस्तव वाक्यं पिता मम ॥ ११॥ दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव । यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ॥ १२॥ न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे । ग्रहाणां विषयस्तेन सच्छिद्रोऽयं महानभूत् ॥ १३॥ तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो । विवाहं त्वं महादेव देवानां कार्यसिद्धये ॥ १४॥ विवाहस्य यथा रीतिः कर्तव्या सा तथा ध्रुवम् । जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ॥ १५॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा सुप्रसन्नः सदाशिवः । प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ॥ १६॥ शिव उवाच । श‍ृणु देवि महेशानि परमं वचनं मम । यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ॥ १७॥ ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने । दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ॥ १८॥ एकोऽनेकत्वमापन्नो निर्गुणो हि गुणान्वितः । स्वज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ॥ १९॥ स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम् । सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि ॥ २०॥ मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या । सर्वात्मभिः सुकृतिभिः परमात्मभावैः संसिक्तमात्मनि गुणैः परिवेष्टितञ्च ॥ २१॥ के ग्रहाः के ऋतुगणाः के वान्येऽपि त्वया ग्रहाः । किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ॥ २२॥ गुणकार्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः । भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ॥ २३॥ त्वं हि वै प्रकृतिः सूक्ष्मा रजः सत्त्वतमोमयी । व्यापारदक्षा सततं सगुणा निर्गुणापि च ॥ २४॥ सर्वेषामिह भूतानामहमात्मा सुमध्यमे । निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ॥ २५॥ हिमालयं न गच्छेयं जनकं तव शैलजे । ततस्त्वां भिक्षुको भूत्वा न याचेयं कथञ्चन ॥ २६॥ महागुणैर्गरिष्ठोऽपि महात्मापि गिरीन्द्रजे । देहीति वचनात्सद्यः पुरुषो याति लाघवम् ॥ २७॥ इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ । कार्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ॥ २८॥ ब्रह्मोवाच । तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा । जगाद शङ्करं भक्त्या सुप्रणम्य पुनः पुनः ॥ २९॥ पार्वत्युवाच । त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा । स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ॥ ३०॥ प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो । याचस्व मां हिमगिरेः सौभाग्यं देहि शङ्कर ॥ ३१॥ कृपां कुरु महेशान तव भक्तास्मि नित्यशः । तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ॥ ३२॥ त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः । निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ॥ ३३॥ तथापि सगुणोऽपीह भक्तोद्धारपरायणः । विहारी स्वात्मनि रतो नानालीलाविशारदः ॥ ३४॥ सर्वथा त्वामहं जाने महादेव महेश्वर । किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ॥ ३५॥ विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् । यत्सुगीय जना नाथाञ्जसोत्तीर्णा भवाम्बुधिम् ॥ ३६॥ ब्रह्मोवाच । इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः । विरराम महेशानं नतस्कन्धा कृताञ्जलिः ॥ ३७॥ इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडम्बनाय । तथेति मत्वा प्रहसन् बभूव मुदान्वितः कर्तुमनास्तदेव ॥ ३८॥ ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः । कैलासं प्रययौ काल्या विरहाकृष्टमानसः ॥ ३९॥ तत्र गत्वा महेशानो नन्द्यादिभ्यः स ऊचिवान् । वृत्तान्तं सकलं तं वै परमानन्दनिर्भरः ॥ ४०॥ तेऽपि श्रुत्वा गणाः सर्वे भैरवाद्याश्च सर्वशः । बभूवुः सुखिनोऽत्यन्तं विदधुः परमोत्सवम् ॥ ४१॥ महत्सुमङ्गलं तत्र बभूवातीव नारद । सर्वेषां दुःखनाशोऽभूद्रुद्रः प्रापापि सम्मुदम् ॥ ४२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसंवादवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २.३.२९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३०. त्रिंशोऽध्यायः । पार्वतीप्रत्यागमनमहोत्सवः ।

नारद उवाच । विधे तात महाभाग धन्यस्त्वं परमार्थदृक् । अद्भुतेयं कथाश्रावि त्वदनुग्रहतो मया ॥ १॥ गते हरे स्वशैले हि पार्वती सर्वमङ्गला । किं चकार गता कुत्र तन्मे वद महामते ॥ २॥ ब्रह्मोवाच । श‍ृणु सुप्रीतितस्तात यज्जातं तदनन्तरम् । हरे गते निजस्थाने तद् वदामि शिवं स्मरन् ॥ ३॥ पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम् । जगाम स्वपितुर्गेहं महादेवेति वादिनी ॥ ४॥ पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः । दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः ॥ ५॥ पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः । सम्बन्धिनस्तथान्ये च सर्वे ते च समाययुः ॥ ६॥ भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा । जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः ॥ ७॥ संस्थाप्य मङ्गलघटं राजवर्त्मनि राजिते । चन्दनागरुकस्तूरीफलशाखासमन्विते ॥ ८॥ सुपुरोधाब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः । नारीभिर्नर्तकीभिश्च गजेन्द्रादिसुशोभितैः ॥ ९॥ परितः परितो रम्भास्तम्भवृन्दसमन्विते । पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥ १०॥ द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मङ्गलध्वनिम् । नानाप्रकारवाद्यैश्च शङ्खध्वनिभिरन्विते ॥ ११॥ एतस्मिन्नन्तरे दुर्गाजगाम स्वपुरान्तिकम् । विशन्ती नगरं देवी ददर्श पितरौ पुनः ॥ १२॥ सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ । दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ ॥ १३॥ तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि । हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ ॥ १४॥ ततः स्वकीया अप्यस्या अन्या नार्योऽपि सम्मुदा । भ्रातृस्त्रियोऽपि सुप्रीत्या दृढालिङ्गनमादधुः ॥ १५॥ साधितं हि त्वया सम्यक् सुकार्यं कुलतारणम् । त्वत्सदाचरणेनापि पाविताः स्माखिला वयम् ॥ १६॥ इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः । चन्दनैः सुप्रसूनैश्च समानर्चुः शिवां मुदा ॥ १७॥ तस्मिन्नवसरे देवा विमानस्था मुदाम्बरे । पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः ॥ १८॥ तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे । पुरं प्रवेशयामासुः सर्वे विप्रादयो मुदा ॥ १९॥ अथ विप्राः पुरोधाश्च सख्योऽन्याश्च स्त्रियः शिवम् । गृहं प्रवेशयामासुर्बहुमानपुरस्सरम् ॥ २०॥ स्त्रियो निर्मञ्छनं चक्रुर्विप्रा युयुजुराशिषः । हिमवान्मेनका माता मुमोदाति मुनीश्वर ॥ २१॥ स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा । हिमवान्नारदं त्वां च संस्तुवन् साधु साध्विति ॥ २२॥ ब्राह्मणेभ्यश्च बन्दिभ्यः पर्वतेन्द्रो धनं ददौ । मङ्गलं पाठयामास स द्विजेभ्यो महोत्सवम् ॥ २३॥ एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा । जामयश्च महाप्रीत्या समूषुः प्राङ्गणे मुने ॥ २४॥ ततः स हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः । सम्मान्य सकलान्प्रीत्या स्नातुं गङ्गां जगाम ह ॥ २२॥ एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः । सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ ॥ २६॥ श‍ृङ्गं वामे करे धृत्वा दक्षिणे डमरुं तथा । पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः ॥ २७॥ ततस्सुनटरूपोऽसौ मेनाया प्राङ्गणे मुदा । चक्रे सुनृत्यं विविधं गानं चातिमनोहरम् ॥ २८॥ श‍ृङ्गं च डमरुं तत्र वादयामास सुध्वनिम् । महतीं विविधां तत्र स चकार मनोहराम् ॥ २९॥ तां द्रष्टुं नागराः सर्वे पुरुषाश्च स्त्रियस्तथा । आजग्मुः सहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥ ३०॥ श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम् । सहसा मुमुहुः सर्वे मेनापि च तदा मुने ॥ ३१॥ मूर्च्छां सम्प्राप सा दुर्गा विलोक्य हृदि शङ्करम् । त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम् ॥ ३२॥ विभूतिभूषितं रम्यमस्थिमालासमन्वितम् । त्रिलोचनोज्ज्वलद्वक्त्रं नागयज्ञोपवीतकम् ॥ ३३॥ वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम् । दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम् ॥ ३४॥ हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम् । वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च ॥ ३५॥ वरं दत्त्वा शिवां चाथ तादृशं प्रीतितो हृदा । अन्तर्धाय पुनस्तत्र सुननर्त स भिक्षुकः ॥ ३६॥ ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च । तस्मै दातुं ययौ प्रीत्या तद्भूतिप्रीतमानसः ॥ ३७॥ तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम् । पुनः सुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः ॥ ३८॥ मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता । भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥ ३९॥ एतस्मिन्नन्तरे तत्र गङ्गातो गिरिराययौ । ददर्श पुरतो भिक्षुं प्राङ्गणस्थं नराकृतिम् ॥ ४०॥ श्रुत्वा मेनामुखाद् वृत्तं तत्सर्वं सुचुकोप सः । आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम् ॥ ४१॥ महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् । न शशाक बहिष्कर्तुं कोऽपि तं मुनिसत्तम ॥ ४२॥ ततः स भिक्षुकस्तात नानालीलाविशारदः । दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ ४३॥ शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् । किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम् ॥ ४४॥ यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते । गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥ ४५॥ ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम् । रक्तवर्णं पठन्तं च श्रुतिसूक्तं गिरीश्वरः ॥ ४६॥ ततः सूर्यस्वरूपं च जगच्चक्षुस्स्वरूपकम् । ददर्श गिरिराजः स क्षणं कौतुककारिणम् ॥ ४७॥ ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् । पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ४८॥ ततस्तेजस्स्वरूपं च निराकारं निरञ्जनम् । निरुपाधिं निरीहं च महाद्भुतमरूपकम् ॥ ४९॥ एवं बहूनि रूपाणि तस्य तत्र ददर्श सः । सुविस्मितो बभूवाशु परमानन्दसंयुतः ॥ ५०॥ अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् । भिक्षां ययाचे दुर्गां तां नान्यज्जग्राह किञ्चन ॥ ५१॥ न स्वीचकार शैलेन्द्रो मोहितश्शिवमायया । भिक्षुः किञ्चिन्न जग्राह तत्रैवान्तर्दधे ततः ॥ ५२॥ तदा बभूव सुज्ञानं मेनाशैलेशयोरिति । आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः ॥ ५३॥ तयोर्विचिन्त्य तत्रैवं शिवे भक्तिरभूत्परा । महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ २.३.३०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३१. एकत्रिंशोऽध्यायः । शिवमायावर्णनम् ।

ब्रह्मोवाच । तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम् । सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद ॥ १॥ देवा ऊचुः । एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति । ध्रुवं निर्वाणतां सद्यः स प्राप्स्यति च भारते ॥ २॥ अनन्तरत्नाधारश्चेत्पृथ्वीं त्यक्त्वा प्रयास्यति । रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ३॥ स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः । कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति ॥ ४॥ महादेवस्य सारूप्यं लप्स्यते नात्र संशयः । तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति ॥ ५॥ ब्रह्मोवाच । इत्यालोच्य सुराः सर्वे कृत्वा चामन्त्रणं मिथः । प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः ॥ ६॥ ततः शक्रादयो देवाः सर्वे गुरुनिकेतनम् । जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः ॥ ७॥ गत्वा तत्र गुरुं नत्वा सर्वे देवाः सवासवाः । चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात् ॥ ८॥ देवा ऊचुः । गुरो हिमालयगृहं गच्छास्मत्कार्यसिद्धये । तत्र गत्वा प्रयत्नेन कुरु निन्दां च शूलिनः ॥ ९॥ पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति । अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ॥ १०॥ कालेनैवाधुना शैल इदानीं भुवि तिष्ठतु । अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ ॥ ११॥ ब्रह्मोवाच । इति देववचः श्रुत्वा प्रददौ कर्णयोः करम् । न स्वीचकार स गुरुः स्मरन्नाम शिवेति च ॥ १२॥ अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः । उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः ॥ १३॥ बृहस्पतिरुवाच । सर्वे देवाः स्वार्थपराः परार्थध्वंसकारकाः । कृत्वा शङ्करनिन्दां हि यास्यामि नरकं ध्रुवम् ॥ १४॥ कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः । सम्पादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च ॥ १५॥ अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते । तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम् ॥ १६॥ पश्चात्सप्तर्षयः सर्वे बोधयिष्यन्ति पर्वतम् । पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ॥ १७॥ अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः । वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति ॥ १८॥ ब्रह्मोवाच । तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः । सर्वे निवेदयाञ्चक्रुर्नत्वा तद्गतमादरात् ॥ १९॥ देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा । वेदवक्ता विलप्याहं तानवोचं सुरान्मुने ॥ २०॥ ब्रह्मोवाच । नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुस्सहाम् । सम्पद्विनाशरूपाञ्च विपदां बीजरूपिणीम् ॥ २१॥ सुरा गच्छत कैलासं सन्तोषयत शङ्करम् । प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति ॥ २२॥ स गच्छेदुपशैलेशमात्मनिन्दां करोतु वै । परनिन्दा विनाशाय स्वनिन्दा यशसे मता ॥ २३॥ ब्रह्मोवाच । श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते । कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम् ॥ २४॥ तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः । सुकृताञ्जलयः सर्वे तुष्टुवुस्तं सुरा हरम् ॥ २५॥ देवा ऊचुः । देवदेव महादेव करुणाकर शङ्कर । वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते ॥ २६॥ त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरः सदा । दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः ॥ २७॥ ब्रह्मोवाच । इति स्तुत्वा महेशानं सर्वे देवाः सवासवाः । सर्वं निवेदयाञ्चक्रुस्तद्वृत्तं तत आदरात् ॥ २८॥ तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः । देवान् सुयापयामास तानाश्वास्य विहस्य सः ॥ २९॥ देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् । सिद्धं मत्वा स्वकार्यं हि प्रशंसन्तः सदाशिवम् ॥ ३०॥ ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः । प्रययौ शैलभूपञ्च मायेशो निर्विकारवान् ॥ ३१॥ यदा शैलः सभामध्ये समुवास मुदान्वितः । बन्धुवर्गैः परिवृतः पार्वतीसहितः स्वयम् ॥ ३२॥ एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः । दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ॥ ३३॥ करे स्फटिकमालां च शालग्रामं गले दधत् । जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः ॥ ३४॥ तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः । ननाम दण्डवद्भूमौ भक्त्यातिथिमपूर्वकम् ॥ ३५॥ ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम् । ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा ॥ ३६॥ आशिषं युयुजे विप्रः सर्वेषां प्रीतितश्शिवः । शिवाया अधिकं तात मनोऽभिलषितं हृदा ॥ ३७॥ मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा । दत्तं शैलाधिराजेन हिमागेन महादरात् ॥ ३८॥ पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः । तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने ॥ ३९॥ पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति । उवाच शीघ्रं विप्रेन्द्रो गिरीन्द्रं सादरं वचः ॥ ४०॥ विप्रेन्द्र उवाच । ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः । घटिकीं वृत्तिमाश्रित्य भ्रमामि धरणीतले ॥ ४१॥ मनोयायी सर्वगामी सर्वज्ञोऽहं गुरोर्बलात् । परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा ॥ ४२॥ मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि । इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम् ॥ ४३॥ निराश्रयायासङ्गाय कुरूपायागुणाय च । श्मशानवासिने व्यालग्राहिरूपाय योगिने ॥ ४४॥ दिग्वाससे कुगात्राय व्यालभूषणधारिणे । अज्ञातकुलनाम्ने च कुशीलायाविहारिणे ॥ ४५॥ विभूतिदिग्धदेहाय सङ्क्रुद्धायाविवेकिने । अज्ञातवयसेऽतीव कुजटाधारिणे सदा ॥ ४६॥ सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे कुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात् । ४७॥ इयं ते बुद्धिरचल न हि मङ्गलदा खलु । विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ ४८॥ न ते पात्रानुरूपश्च पार्वतीदानकर्मणि । महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति ॥ ४९॥ पश्य शैलाधिप त्वं च न तस्यैकोऽस्ति बान्धवः । महारत्नाकरः त्वं च तस्य किञ्चिद्धनं न हि ॥ ५०॥ बान्धवान्मेनकां कुध्रपते शीघ्रं सुतांस्तथा । सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वतीं विना ॥ ५१॥ रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम । कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा ॥ ५२॥ ब्रह्मोवाच । इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः । जगाम स्वालयं शान्तो नानालीलाकरश्शिवः ॥ ५३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ॥ २.३.३१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३२. द्वात्रिंशोऽध्यायः । सप्तर्ष्यागमनम् ।

ब्रह्मोवाच । ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् । शोकेनसाधुनयना हृदयेन विदूयता ॥ १॥ मेनोवाच । श‍ृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् । पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ॥ २॥ निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना । श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ॥ ३॥ तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् । कुरूपशीलनाम्ने हि सुलक्षणयुतां निजाम् ॥ ४॥ न मन्यसे वचो चेन्मे मरिष्यामि न संशयः । त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ॥ ५॥ गले बद्ध्वाम्बिकां रज्ज्वा यास्यामि गहनं वनम् । महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ॥ ६॥ इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा । त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ॥ ७॥ एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते । संस्मृता ऋषयः सद्यो विरहव्याकुलात्मना ॥ ८॥ ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा । तदाजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ॥ ९॥ अरुन्धती तथायाता साक्षात्सिद्धिरिवापरा । तान्दृष्ट्वा सूर्यसङ्काशान्विजहौ स्वजपं हरः ॥ १०॥ स्थित्वाग्रे ऋषयः श्रेष्ठा नत्वा स्तुत्वा शिवं मुने । मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ॥ ११॥ ततो विस्मयमापन्ना नमस्कृत्य स्थिताः पुनः । प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ॥ १२॥ ऋषय ऊचुः । सर्वोत्कृष्ट महाराज सार्वभौम दिवौकसाम् । स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनः सकलोत्तमम् ॥ १३॥ तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् । अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ॥ १४॥ वाङ्मनः कायजं किञ्चित्पुण्यं स्मरणसम्भवम् । तत्सर्वं सङ्गतं चाद्य स्मरणानुग्रहात्तव ॥ १५॥ यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः । किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ॥ १६॥ सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव । मनोरथपथं नैव गच्छसि त्वं कथञ्चन ॥ १७॥ वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा । वाचालत्वञ्च मूकस्य रङ्कस्य निधिदर्शनम् ॥ १८॥ पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायाः प्रसवस्तथा । दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ॥ १९॥ अद्यप्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः । जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ॥ २०॥ अत्र किं बहुनोक्तेन सर्वथा मान्यतां गताः । दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ॥ २१॥ पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा । सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ॥ २२॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः । लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ॥ २३॥ शिव उवाच । ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः । युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ॥ २४॥ ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका । साधनीया विशेषेण लोकानां सिद्धिहेतवे ॥ २५॥ देवानां दुःखमुत्पन्नं तारकात्सुदुरात्मनः । ब्रह्मणा च वरो दत्तः किं करोमि दुरासदः ॥ २६॥ मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः । ताः सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ॥ २७॥ तथा च कर्तुकामोऽहं विवाहं शिवया सह । तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ॥ २८॥ तस्यै परं फलं देयमभीष्टं तद्धितावहम् । एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ॥ २९॥ पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् । अहं पावितवान्कालीं यतो लीलाविशारदः ॥ ३०॥ मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः । दातुकामावभूतां च स्वसुतां वेदरीतितः ॥ ३१॥ देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् । तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्णवात्मना ॥ ३२॥ तच्छ्रुत्वा तौ सुनिर्विण्णौ तद्धीनौ सम्बभूवतुः । स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ॥ ३३॥ तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् । तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ॥ ३४॥ कथनीयं प्रयत्नेन वचनं वेदसम्मितम् । सर्वथा करणीयं तद्यथा स्यात्कार्यमुत्तमम् ॥ ३५॥ उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः । स्वीकृतस्तद्विवाहो मे वरो दत्तश्च तादृशः ॥ ३६॥ अत्र किं बहुनोक्तेन बोधनीयो हिमालयः । तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ॥ ३७॥ भवद्भिः कल्पितो यो वै विधिः स्यादधिकस्ततः । भवताञ्चैव कार्यं तु भवन्तः कार्यभागिनः ॥ ३८॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः । आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः ॥ ३९॥ वयं धन्या अभूवंश्च कृतकृत्याश्च सर्वथा । वन्द्या जाताश्च सर्वेषां पूजनीया विशेषतः ॥ ४०॥ ब्रह्मणा विष्णुना यो वै वन्द्यः सर्वार्थसाधकः । सोऽस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ॥ ४१॥ अयं वै जगतां स्वामी पिता सा जननी मता । अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ॥ ४२॥ ब्रह्मोवाच । इत्युक्त्वा ऋषयो दिव्या नमस्कृत्य शिवं तदा । गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम् ॥ ४३॥ दृष्ट्वा तां च पुरीं दिव्यां ऋषयस्तेऽतिविस्मिताः । वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ॥ ४४॥ ऋषय ऊचुः । पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमवत्पुरम् । यस्मादेवंविधे कार्ये शिवेनैव नियोजिताः ॥ ४५॥ अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः । विशेषेणामरावत्या दृश्यते पुरमुत्तमम् ॥ ४६॥ सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः । मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च ॥ ४७॥ सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च । गृहे गृहे विचित्राश्च वृक्षाः स्वर्गसमुद्भवाः ॥ ४८॥ तोरणानां तथा लक्ष्मीर्दृश्यते च गृहे गृहे । विविधानि विचित्राणि शुकहंसैर्विमानकैः ॥ ४९॥ वितानानि विचित्राणि चैलवत्तोरणैः सह । जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ॥ ५०॥ उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ । नराश्च देवताः सर्वे स्त्रियश्चाप्सरसस्तथा ॥ ५१॥ कर्मभूमौ याज्ञिकाश्च पौराणाः स्वर्गकाम्यया । कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ॥ ५२॥ यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः । दृष्ट्मेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ॥ ५३॥ ब्रह्मोवाच । इत्येवमृषिवर्यास्ते वर्णयन्तः पुरञ्च तत् । गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ॥ ५४॥ तान्दृष्ट्वा सूर्यसङ्काशान् हिमवान्विस्मितोऽब्रवीत् । दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ॥ ५५॥ हिमवानुवाच । सप्तैते सूर्यसङ्काशाः समायान्ति मदन्तिके । पूजा कार्या प्रयत्नेन मुनीनां च मयाधुना ॥ ५६॥ वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः । येषां गृहे समायान्ति महात्मानो यदीदृशाः ॥ ५७॥ ब्रह्मोवाच । एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् । सम्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम् ॥ ५८॥ कृताञ्जलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः । पूजां चकार तेषां वै बहुमानपुरस्सरम् ॥ ५९॥ हिताः सप्तर्षयस्ते च हिमवन्तं नगेश्वरम् । गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम् ॥ ६०॥ यथाग्रतश्च तान्कृत्वा धन्यो मम गृहाश्रमः । इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम् ॥ ६१॥ आसनेषूपविष्टेषु तदाज्ञप्तः स्वयं स्थितः । उवाच हिमवांस्तत्र मुनीन् ज्योतिर्मयांस्तदा ॥ ६२॥ हिमालय उवाच । धन्यो हि कृतकृत्योऽहं सफलं जीवितं मम । लोकेषु दर्शनीयोऽहं बहुतीर्थसमो मतः ॥ ६३॥ यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः । पूर्णानां भवतां कार्यं कृपणानां गृहेषु किम् ॥ ६४॥ तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे । कथनीयं सुदयया सफलं स्याज्जनुर्मम ॥ ६५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ २.३.३२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३३. त्रयस्त्रिंशोऽध्यायः । गिरिसान्त्वनम् ।

ऋषय ऊचुः । जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता । तस्माद्देया त्वया कन्या शङ्कराय महात्मने ॥ १॥ एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः । जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥ २॥ ब्रह्मोवाच । एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर । प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम् ॥ ३॥ हिमालय उवाच । सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् । तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया ॥ ४॥ इदानीमेक आगत्य विप्रो वैष्णवधर्मवान् । शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥ ५॥ तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह । सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥ ६॥ कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा । कृत्वा महाहठं विप्रा बोध्यमानापि नाबुधत् ॥ ७॥ अहं च ज्ञानविभ्रष्टो जातोऽहं सत्यमीर्यते । दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥ ब्रह्मोवाच । इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः । तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने ॥ ९॥ सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै । प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥ १०॥ अथ पत्युः समादाय निदेशं ज्ञानदा हि सा । जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥ ११॥ गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम् । उवाच मधुरं साध्वी सावधाना हितं वचः ॥ १२॥ अरुन्धत्युवाच । उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती । आगता मुनयश्चापि सप्तायाताः कृपालवः ॥ १३॥ ब्रह्मोवाच । अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका । उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ १४॥ मेनोवाच । अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् । वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥ १५॥ किमर्थमागता देवि तन्मे ब्रूहि विशेषतः । अहं दासीसमा ते हि ससुता करुणां कुरु ॥ १६॥ ब्रह्मोवाच । इत्युक्त्वा मेनका साध्वी बोधयित्वा च तां बहु । तत्रागता च सुप्रीत्या यत्र सप्तर्षयोऽपि ते ॥ १७॥ अथ शैलेश्वरं ते च बोधयामासुरादरात् । स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥ १८॥ ऋषय ऊचुः । शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् । शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ॥ १९॥ अयाचितारं सर्वेशं प्रार्थयामास यत्नतः । तारकस्य विनाशाय ब्रह्मा सम्बन्धकर्मणि ॥ २०॥ नोत्सुको दारसंयोगे शङ्करो योगिनां वरः । विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥ २१॥ दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा । हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥ २२॥ ब्रह्मोवाच । ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः । उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥ २३॥ हिमालय उवाच । शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन । कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥ २४॥ नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् । यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥ २५॥ वरायाननुरूपाय पिता कन्यां ददाति चेत् । कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं व्रजेत् ॥ २६॥ न हि दास्याम्यहं कन्यामिच्छया शूलपाणये । यद्विधानं भवेद्योग्यमृषयस्तद्विधीयताम् ॥ २७॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर । प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारदः ॥ २८॥ वसिष्ठ उवाच । श‍ृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् । धर्माविरुद्धं सत्यं च परत्रेह मुदावहम् ॥ २९॥ वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च । सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥ ३०॥ असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम् । सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ॥ ३१॥ आदावप्रीतिजनकं परिणामे सुखावहम् । दयालुर्धर्मशीलो हि बोधयत्येव बान्धवः ॥ ३२॥ श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् । सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ॥ ३३॥ एवं च त्रिविधं शैल नीतिशास्त्रोदितं वचः । कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ॥ ३४॥ ब्राह्मसम्पद्विहीनश्च शङ्करस्त्रिदशेश्वरः । तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः । ३५॥ ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा । गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥ ३६॥ कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता । को वेद शङ्करो दुःखी कुबेरो यस्य किङ्करः ॥ ३७॥ भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्तुं क्षमो हि सः । निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥ ३८॥ यस्य च त्रिविधा मूर्तिर्विधातुः सृष्टिकर्मणि । सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ॥ ३९॥ ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् । हरः कैलासनिलयः सर्वाः शिवविभूतयः ॥ ४०॥ धत्ते च त्रिविधा मूर्तीः प्रकृतिः शिवसम्भवा । अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥ ४१॥ मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता । वक्षःस्थलोद्भवा लक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ ४२॥ शिवा तेजस्सु देवानामाविर्भावं चकार सा । निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥ ४३॥ प्राप कल्पान्तरे जन्म जठरे दक्षयोषितः । नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ॥ ४४॥ देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् । साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ॥ ४५॥ शिवा शिवस्य पत्नीयं शैल जन्मनि जन्मनि । कल्पे कल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥ ४६॥ जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी । सत्या अस्थि चिताभस्म भक्त्या धत्ते हरः स्वयम् ॥ ४७॥ अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च । अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ॥ ४८॥ कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसङ्ख्यकम् । दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥ ४९॥ तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् । तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ॥ ५०॥ अङ्गीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना । विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ॥ ५१॥ तद्गत्वा प्रभुणा देवप्रार्थितेन त्वदन्तिकम् । प्रस्थापिता वयं शीघ्रं ऋषयः साप्यरुन्धती ॥ ५२॥ शिक्षयामो वयं त्वा हि देहि रुद्राय पार्वतीम् । एवङ्कृते महानन्दो भविष्यति गिरे तव ॥ ५३॥ शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि । भविता तद्विवाहोऽत्र भवितव्यबलेन हि ॥ ५४॥ वरं ददौ शिवायै स तपन्त्यै तात शङ्करः । न हीश्वरप्रतिज्ञातं विपरीताय कल्पते ॥ ५५॥ अहो प्रतिज्ञा दुर्लङ्घ्या साधूनामीशवर्तिनाम् । सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ॥ ५६॥ एको महेन्द्रः शैलानां पक्षांश्चिच्छेद लीलया । पार्वती लीलया मेरोः श‍ृङ्गभङ्गं चकार च ॥ ५७॥ एकार्थे नहि शैलेश नश्याः सर्वा हि सम्पदः । एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ॥ ५८॥ दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वरः । ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ॥ ५९॥ तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः । ब्रह्मशापाद्विभीतञ्च गुरवो ज्ञातिसत्तमाः ॥ ६०॥ शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च । रक्ष सर्वान्बन्धुवर्गान्वशं कुरु सुरानपि ॥ ६१॥ ब्रह्मोवाच । इत्याकर्ण्य वसिष्ठस्य वचनं स प्रहस्य च । पप्रच्छ नृपवार्ताञ्च हृदयेन विदूयता ॥ ६२॥ हिमालय उवाच । कस्य वंशोद्भवो ब्रह्मन् अनरण्यो नृपश्च सः । सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ॥ ६३॥ ब्रह्मोवाच । इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः । प्रोवाच गिरये तस्मै नृपवार्त्तां सुखावहाम् ॥ ६४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसान्त्वनो नाम त्रयस्त्रिंशोऽध्यायः ॥ २.३.३३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३४. चतुस्त्रिंशोऽध्यायः । अनरण्यचरितवर्णनम् ।

वसिष्ठ उवाच । मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वरः । इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि ॥ १॥ अनरण्यो नृपश्रेष्ठः सप्तद्वीपमहीपतिः । शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ॥ २॥ भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः । न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥ ३॥ बभूवुः शतपुत्राश्च राज्ञस्तस्य हिमालय । कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४॥ यः स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः । नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥ ५॥ प्राणाधिका प्रियतमा महिष्यः सर्वयोषितः । नृपस्य पत्न्यः पञ्चासन् सर्वाः सौभाग्यसंयुताः ॥ ६॥ सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे । पत्रं प्रस्थापयामास सुवरानयनाय सः ॥ ७॥ एकदा पिप्पलादर्षिर्गन्तुं स्वाश्रममुत्सुकः । तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥ ८॥ स्त्रीयुतं मग्नचित्तं च श‍ृङ्गारे रससागरे । विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥ ९॥ दृष्ट्वा तं मुनिशार्दूलः सकामः सम्बभूव सः । तपःस्वदत्तचित्तश्चाचिन्तयद्दारसङ्ग्रहम् ॥ १०॥ एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः । कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥ ११॥ एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः । ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥ १२॥ केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः । जना निवेदयाञ्चक्रुर्नत्वा शापनियन्त्रिताः ॥ १३॥ जना ऊचुः । अनरण्यसुतेयं वै पद्मा नाम रमापरा । वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥ १४॥ ब्रह्मोवाच । तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् । चुक्षोभातीव मनसि तल्लिप्सुरभवच्च सः ॥ १५॥ मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् । जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥ १६॥ राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः । मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ १७॥ कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः । मौनी बभूव नृपतिः किञ्चिन्निर्वक्तुमक्षमः ॥ १८॥ मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर । अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥ १९॥ सर्वे बभूवुराच्छन्ना गणास्तत्तेजसा मुने । रुदोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥ २०॥ महिष्यो रुरुदुस्सर्वा इतिकर्तव्यताक्षमाः । मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥ २१॥ बभूवुस्तनयाः सर्वे शोकाकुलितमानसाः । सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥ २२॥ एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः । पुरोहितश्च मतिमान् आगतो नृपसन्निधिम् ॥ २३॥ राजा प्रणम्य सम्पूज्य रुदोद च तयोः पुरः । सर्वं निवेदयाञ्चक्रे पप्रच्छोचितमाशु तत् ॥ २४॥ अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः । अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥ २५॥ शोकाकुलांश्च महिषीर्नृपबालांश्च कन्यकाम् । उत्तमां नीतिमादृत्य सर्वेषां हितकारिणीम् ॥ २६॥ गुरुपुरोधसावूचतुः श‍ृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् । मा शुचः सपरीवारः शास्त्रे कुरु मतिं सतीम् ॥ २७॥ अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप । पात्राय विप्रायान्यस्मै कस्मैचिद्वा विशेषतः ॥ २८॥ सत्पात्रं ब्राह्मणादन्यं न पश्यावो जगत्त्रये । सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ॥ २९॥ राजन्नेकनिमित्तेन सर्वसम्पद्विनश्यति । सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ॥ ३०॥ वसिष्ठ उवाच । राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः । कन्यां सालङ्कृतां कृत्वा मुनीन्द्राय ददौ किल ॥ ३१॥ कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे । पद्मां पद्मोपमां तां वै मुदितःस्वालयं ययौ ॥ ३२॥ राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् । ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ॥ ३३॥ तद्भार्यापि वनं याते प्राणनाथे तदा गिरे । भर्तुश्च दुहितुः शोकात्प्राणांस्तत्याज सुन्दरी ॥ ३४॥ पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना । शुशुचुः श्वाससंयुक्ता ज्ञात्वा सर्वेऽपरे जनाः ॥ ३५॥ अनरण्यो वनं गत्वा तपस्तप्त्वाति शङ्करम् । समाराध्य ययौ भक्त्या शिवलोकमनामयम् ॥ ३६॥ नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोऽथ धार्मिकः । पुत्रवत्पालयामास प्रजा राज्यं चकार ह ॥ ३७॥ इति ते कथितं शैलानरण्यचरितं शुभम् । कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ॥ ३८॥ शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च । रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ॥ ३९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ २.३.३४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३५. पञ्चत्रिंशोऽध्यायः । पद्मापिप्पलादचरितवर्णनम् ।

नारद उवाच । अनरण्यस्य चरितं सुतादानसमन्वितम् । श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ॥ १॥ ब्रह्मोवाच । अनरण्यस्य चरितं कन्यादानसमन्वितम् । श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः ॥ २॥ शैलेश उवाच । वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे । अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ॥ ३॥ अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् । सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम् ॥ ४॥ वसिष्ठ उवाच । पिप्पलादो मुनिवरो वयसा जर्जरोऽधिकः । गत्वा निजाश्रमं नार्यानरण्यसुतया तया ॥ ५॥ उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः । तत्रारण्ये गिरिवरे स नित्यं निजधर्मकृत् ॥ ६॥ अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् । कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ ७॥ एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् । ददर्श पथि धर्मश्च मायया नृपरूपधृक् ॥ ८॥ चारुरत्नरथस्थश्च नानालङ्कारभूषितः । नवीनयौवनश्श्रीमान्कामदेवसमप्रभः ॥ ९॥ दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः । विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ॥ १०॥ धर्म उवाच । अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे । अतीव यौवनस्थे च कामिनि स्थिरयौवने ॥ ११॥ जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः । सत्यं वदामि तन्वङ्गि समीपे नैव राजसे ॥ १२॥ विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् । त्यक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥ १३॥ प्राप्नोति सुन्दरी पुण्यात्सौन्दर्यं पूर्वजन्मनः । सफलं तद्भवेत्सर्वं रसिकालिङ्गनेन च ॥ १४॥ सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् । किङ्करं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ॥ १५॥ निर्जने कानने रम्ये शैले शैले नदीतटे । विहरस्व मया सार्धं जन्मेदं सफलं कुरु ॥ १६॥ वसिष्ठ उवाच । इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च । ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ॥ १७॥ पद्मोवाच । गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप । मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ॥ १८॥ पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम् । त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ॥ १९॥ स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति । स्त्रीजितः परपापी च तद्दर्शनमघावहम् ॥ २०॥ सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः । निन्दन्ति पितरो देवा मानवाः सकलाश्च तम् ॥ २१॥ तस्य किं ज्ञान सुतपोजपहोमप्रपूजनैः । विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ २२॥ मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह । भविष्यति क्षयस्तेन कालेन मम शापतः ॥ २३॥ वसिष्ठ उवाच । श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च । धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ॥ २४॥ धर्म उवाच । मातर्जानीहि मां धर्मं ज्ञानिनां च गुरोर्गुरुम् । परस्त्रीमातृबुद्धिं च कुर्वन्तं सततं सति ॥ २५॥ अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् । तवाहञ्च मनो जाने तथापि विधिनोदितः ॥ २६॥ कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् । शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २७॥ स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः । सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ॥ २८॥ शत्रुं मित्रं संविधातुं प्रीतिञ्च कलहं क्षमः । स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि ॥ २९॥ येन शुक्लीकृतं क्षीरं जले शैत्यं कृतं पुरा । दाहीकृतो हुताशश्च नमस्तस्मै शिवाय हि ॥ ३०॥ प्रकृतिर्निर्मिता येन तत्त्वानि महदादितः । ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ॥ ३१॥ ब्रह्मोवाच । इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः । किञ्चिन्नोवाच चकितस्तत्पातिव्रत्यतोषितः ॥ ३२॥ पद्मापि नृपकन्या सा पिप्पलादप्रिया तदा । साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत ॥ ३३॥ पद्मोवाच । त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम् । कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ॥ ३४॥ यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे । त्वं च शप्तो मयाज्ञानात्स्त्रीस्वभावाद् वृथा वृष ॥ ३५॥ का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् । चित्ते स्फुरतु सा बुद्धिर्यया शं संल्लभामि वै ॥ ३६॥ आकाशोऽसौ दिशःसर्वा यदि नश्यन्तु वायवः । तथापि साध्वीशापस्तु न नश्यति कदाचन ॥ ३७॥ सत्ये पूर्णश्चतुष्पादः पौर्णमास्यां यथा शशी । विराजसे देवराज सर्वकालं दिवानिशम् ॥ ३८॥ त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा । इतिकर्तव्यतामूढा वृथापि च वदाम्यहम् ॥ ३९॥ पादक्षयश्च भविता त्रेतायां च सुरोत्तम । पादोऽपरे द्वापरे च तृतीयोऽपि कलौ विभो ॥ ४०॥ कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवाङ्घ्रयः । पुनःसत्ये समायाते परिपूर्णो भविष्यसि ॥ ४१॥ सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित् । युगव्यवस्थया स त्वं भविष्यसि यथा तथा ॥ ४२॥ इत्येवं वचनं सत्यं ममास्तु सुखदं तव । याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ॥ ४३॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्याः सन्तुष्टोऽभूद् वृषः स वै । तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ॥ ४४॥ धर्म उवाच । धन्यासि पतिभक्तासि स्वस्ति तेऽस्तु पतिव्रते । वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ॥ ४५॥ युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः । रूपवान् गुणवान्वाग्मी सन्ततस्थिरयौवनः ॥ ४६॥ चिरञ्जीवी स भवतु मार्कण्डेयात्परश्शुभे । कुबेराद्धनवांश्चैव शक्रादैश्वर्यवानपि ॥ ४७॥ शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः । बुद्ध्या बृहस्पतिसमः समत्वेन विधेः समः ॥ ४८॥ स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि । तथा च सुभगे देवि त्वं भव स्थिरयौवना ॥ ४९॥ माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् । स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥ ५०॥ गृहा भवन्तु ते साध्वि सर्वसम्पत्समन्विताः । प्रकाशवन्तः सततं कुबेरभवनाधिकाः ॥ ५१॥ वसिष्ठ उवाच । इत्येवमुक्त्वा सन्तस्थौ धर्मः स गिरिसत्तम । सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥ ५२॥ धर्मस्तथाशिषो दत्त्वा जगाम निजमन्दिरम् । प्रशशंस च तां प्रीत्या पद्मां संसदि संसदि ॥ ५३॥ सा रेमे स्वामिना सार्धं यूना रहसि सन्ततम् । पश्चाद्बभूवुः सत्पुत्रास्तद्भर्तुरधिका गुणैः ॥ ५४॥ बभूव सकला सम्पद्दम्पत्योः सुखवर्धिनी । सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ॥ ५५॥ शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् । दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ॥ ५६॥ बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च । कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ॥ ५७॥ सप्ताहे समतीते तु दुर्लभेऽतिशुभे क्षणे । लग्नाधिपे च लग्नस्थे चन्द्रे स्वत्नयान्विते ॥ ५८॥ मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके । मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ॥ ५९॥ सर्वसद्ग्रहसंसृष्टेऽसद्ग्रहदृष्टिवर्जिते । सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ॥ ६०॥ जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् । कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ॥ ६१॥ ब्रह्मोवाच । इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः । विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ॥ ६२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ २.३.३५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३६. षट्त्रिंशोऽध्यायः । हिमालयस्य शिवाय कालीप्रदाननिश्चयवर्णनम् ।

ब्रह्मोवाच । वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः । विस्मितो भार्यया शैलानुवाच स गिरीश्वरः ॥ १॥ हिमालय उवाच । हे मेरो गिरिराट् सह्य गन्धमादन मन्दर । मैनाक विन्ध्य शैलेन्द्राः सर्वे श‍ृणुत मद्वचः ॥ २॥ वसिष्ठो हि वदत्येवं किं मे कार्यं विचार्यते । यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ॥ ३॥ ब्रह्मोवाच । तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते । प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ॥ ४॥ शैला ऊचुः । अधुना किं विमर्शेन कृतं कार्यं तथैव हि । उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ॥ ५॥ प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिणी । अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ॥ ६॥ ब्रह्मोवाच । एतच्छ्रुत्वा वचस्तेषां मेर्वादीनां हिमाचलः । सुप्रसन्नतरोऽभूद् वै जहास गिरिजा हृदि ॥ ७॥ अरुन्धती च तां मेनां बोधयामास कारणात् । नानावाक्यसमूहेनेतिहासैर्विविधैरपि ॥ ८॥ अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः । मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ॥ ९॥ अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च तान् । उवाच साञ्जलिः प्रीत्या प्रसन्नात्मा गतभ्रमः ॥ १०॥ हिमाचल उवाच । सप्तर्षयो महाभागा वचः श‍ृणुत मामकम् । विस्मयो मे गतः सर्वः शिवयोश्चरितं श्रुतम् ॥ ११॥ मदीयं च शरीरं वै पत्नी मेना सुता सुताः । ऋद्धिः सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ॥ १२॥ ब्रह्मोवाच । इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् । भूषयित्वा तदङ्गानि ऋष्युत्सङ्गे न्यवेशयत् ॥ १३॥ उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा । अयं भागो मया तस्मै दातव्य इति निश्चितम् ॥ १४॥ ऋषय ऊचुः । शङ्करो भिक्षुकस्तेऽथ स्वयं दाता भवान् गिरे । भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ॥ १५॥ हिमवन् शिखराणान्ते यद्धेतोः सदृशी गतिः । धन्यस्त्वं सर्वशैलानामधिपः सर्वतो वरः ॥ १६॥ ब्रह्मोवाच । एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः । आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ॥ १७॥ स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति । शुक्लपक्षे यथा चन्द्रो वर्धन्तां त्वद्गुणास्तथा ॥ १८॥ इत्युक्त्वा मुनयः सर्वे दत्त्वा ते गिरये मुदा । पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ॥ १९॥ अरुन्धती तदा तत्र मेनां सा सुमुखी मुदा । गुणैश्च लोभयामास शिवस्य परमा सती ॥ २०॥ हरिद्राकुङ्कुमैः शैलश्मश्रूणि प्रत्यमार्जयत् । लौकिकाचारमाधाय मङ्गलायनमुत्तमम् ॥ २१॥ ततश्च ते चतुर्थेऽह्नि सन्धार्य लग्नमुत्तमम् । परस्परं च सन्तुष्य सञ्जग्मुः शिवसन्निधिम् ॥ २२॥ तत्र गत्वा शिवं नत्वा स्तुत्वा विविधसूक्तिभिः । ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ॥ २३॥ ऋषय ऊचुः । देवदेव महादेव परमेश महाप्रभो । श‍ृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ॥ २४॥ बोधितो गिरिराजश्च मेना विविधसूक्तिभिः । सेतिहासं महेशान प्रबुद्धोऽसौ न संशयः ॥ २५॥ वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा । उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ॥ २६॥ गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो । विवाहय यथा रीतिः पार्वतीमात्मजन्मने ॥ २७॥ ब्रह्मोवाच । तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः । प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ॥ २८॥ महेश उवाच । विवाहो हि महाभागा न दृष्टो न श्रुतो मया । यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ॥ २९॥ ब्रह्मोवाच । तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् । प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ॥ ३०॥ ऋषय ऊचुः । विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः । ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ॥ ३१॥ तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् । सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ॥ ३२॥ एतांश्चान्यान्प्रभो सर्वानानयस्वेह सादरम् । सर्वं संसाधयिष्यन्ति त्वत्कार्यं ते न संशयः ॥ ३३॥ ब्रह्मोवाच । इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा । स्वधाम प्रययुः सर्वे शंसन्तः शङ्करीं गतिम् ॥ ३४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिवचनं नाम षट्त्रिंशोऽध्यायः ॥ २.३.३६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३७. सप्तत्रिंशोऽध्यायः । पार्वतीविवाहसम्भारसङ्ग्रहवर्णनम् ।

नारद उवाच । तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च । किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १॥ ब्रह्मोवाच । गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर । सारुन्धतीषु हिमवान् यदकार्षीद् ब्रवीमि ते ॥ २॥ तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः । महामनाः स मुमुदे हिमवान् पर्वतेश्वरः ॥ ३॥ तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्नपत्रिकाम् । लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४॥ अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् । नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५॥ ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् । ददुः शिवाय तत्पत्रं तिलकं संविधाय च ॥ ६॥ सम्मानिता विशेषेण प्रभुणा च यथोचितम् । सर्वे ते प्रीतिमनस आजग्मुः शैलसन्निधिम् ॥ ७॥ सम्मानितान्विशेषेण महेशेनागतान् जनान् । दृष्ट्वा सुहर्षितान् शैलो मुमोदातीव चेतसि ॥ ८॥ ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः । नानादेशस्थितानां च निखिलानां सुखास्पदम् ॥ ९॥ ततः स कारयामास स्वन्नसङ्ग्रहमादरात् । नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ १०॥ तण्डुलानां बहून् शैलान् पृथुकानां तथैव च । गुडानां शर्कराणां च लवणानां तथैव च ॥ ११॥ क्षीराणां च घृतानां च दध्नां वापीश्चकार सः । यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२॥ शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च । अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३॥ बह्वीर्हैयङ्गवानां च ह्यासवानां तथैव च । नाना पक्वान्नसङ्घांश्च महास्वादुरसाँस्तथा ॥ १४॥ नाना व्यञ्जनवस्तूनि गणदेवहितानि च । अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १९॥ मणिरत्नप्रकाराणि सुवर्णरजतानि च । द्रव्याण्येतानि चान्यानि सङ्गृह्य विधिपूर्वकम् ॥ १६॥ मङ्गलं कर्तुमारेभे गिरिर्मङ्गलकृद्दिने । संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७॥ ता मङ्गलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् । पुरद्विजस्त्रियो हृष्टा लोकाचारं प्रचक्रिरे ॥ १८॥ सोत्सवं विविधं तत्र सुमङ्गलपुरस्सरम् । हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमङ्गलम् ॥ १९॥ सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः । एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ २०॥ आजग्मुः सस्त्रियो हृष्टाः ससुताः सपरिच्छदाः । तदेव श‍ृणु देवर्षे गिर्यागमनमादृतः ॥ २१॥ वर्णयामि समासेन शिवप्रीतिविवृद्धये । देवालयगिरिर्यो हि दिव्यरूपधरो महान् ॥ २२॥ नानारत्नपरिभ्राजत्समाजः सपरिच्छदः । नानामणिमहारत्नसारमादाय यत्नतः ॥ २३॥ सुवेषालङ्कृतः श्रीमान् जगाम स हिमालयम् । मन्दरः सर्वशोभाढ्यः सनारीतनयो गिरिः ॥ २४॥ सूपायनानि सङ्गृह्य जगाम विविधानि च । अस्ताचलोऽपि दिव्यात्मा सोपायन उदारधीः ॥ २५॥ बहुशोभासमायुक्त आजगाम मुदान्वितः । उदयाचल आदाय सद्रत्नानि मणीनपि ॥ २६॥ अत्युत्कृष्टपरीवार आजगाम महासुखी । मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७॥ सुदिव्यरचनायुक्त आययौ बहुसद्बलः । सद्यो दर्दुरनामा च मुदितः सकलत्रकः ॥ २८॥ बहुशोभान्वितस्तात ययौ हिमगिरेर्गृहम् । निषदोऽपि प्रहृष्टात्मा सपरिच्छद आययौ ॥ २९॥ ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् । आजगाम महाभाग्यो भूधरो गन्धमादनः ॥ ३०॥ करवीरस्तथैवापि महाविभवसंयुतः । महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥ ३१॥ सगणः ससुतस्त्रीको बहुशोभासमन्वितः । पारियात्रो हि हृष्टात्मा मणिरत्नाकरैर्युतः ॥ ३२॥ सगणः सपरीवार आययौ हिमभूधरम् । क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः । आजगाम गिरिश्रेष्ठः समुपायन आदृतः । ३३॥ पुरुषोत्तमशैलोऽपि सपरिच्छद आदृतः । महोपायनमादायाजगाम हिमभूधरम् ॥ ३४॥ नीलः सलीलः ससुतः सस्त्रीको द्रव्यसंयुतः । आजगाम हिमागस्य गृहमानन्दसंयुतः ॥ ३५॥ त्रिकूटश्चित्रकूटोऽपि वेङ्कटः श्रीगिरिस्तथा । गोकामुखी नारदश्च हिमगेहमुपागमत् ॥ ३६॥ विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः । आजगाम प्रहृष्टात्मा सदारतनयः शुभः ॥ ३७॥ कालञ्जरो महाशैलो बहुहर्षसमन्वितः । बहुभिः स्वगणैः प्रीत्याजगाम हिमभूधरम् ॥ ३८॥ कैलासस्तु महाशैलो महाहर्षसमन्वितः । आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥ ३९॥ अन्येऽपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज । इहापि येऽचलाः सर्वे आययुस्ते हिमालयम् ॥ ४०॥ निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने । आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥ ४१॥ तदा सर्वे समायाताः शोणभद्रादयः खलु । बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति ॥ ४२॥ नद्यः सर्वाः समायाता नानालङ्कारसंयुताः । दिव्यरूपधराः प्रीत्या विवाहश्शिवयोरिति ॥ ४३॥ गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा । आययौ हिमशैलं वै विवाहश्शिवयोरिति ॥ ४४॥ गङ्गा तु सुमहाप्रीत्या नानालङ्कारसंयुता । दिव्यरूपाययौ प्रीत्या विवाहश्शिवयोरिति ॥ ४५॥ नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा । महाप्रीत्याजगामाशु विवाहश्शिवयोरिति ॥ ४६॥ आगतैस्तैस्ततः सर्वैः सर्वतो हिमभूधरम् । सङ्कुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥ ४७॥ महोत्सवा लसत्केतुध्वजातोरणकाधिका । वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥ ४८॥ हिमालयोऽपि सुप्रीत्यादरेण विविधेन च । तेषां चकार सम्मानं तासां चैव यथायथम् ॥ ४९॥ सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् । सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे लग्नपत्रसम्प्रेषणसामग्रीसङ्ग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ २.३.३७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३८. अष्टत्रिंशोऽध्यायः । विवाहमण्डपादिरचनावर्णनम् ।

ब्रह्मोवाच । अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम । स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १॥ सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः । द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ॥ २॥ प्राङ्गणं रचयामास रम्भास्तम्भसमन्वितम् । पट्टसूत्रैः सन्निबद्धं रसालपल्लवान्वितम् ॥ ३॥ मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् । शोभितं मङ्गलद्रव्यैश्चतुर्दिक्षु स्थितैः शुभैः ॥ ४॥ तथैव सर्वं परया मुदान्वित- श्चक्रे गिरीन्द्रः स्वसुतार्थमेव । गर्गं पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमङ्गलं हि ॥ ५॥ आहूय विश्वकर्माणं कारयामास सादरम् । मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६॥ अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् । अनेकलक्षणोपेतं नानाश्चर्यसमन्वितम् ॥ ७॥ स्थावरं जङ्गमं सर्वं सदृशं तैर्मनोहरम् । सर्वतोऽद्भुतसर्वस्वं नानावस्तुचमत्कृतम् ॥ ८॥ जङ्गमं विजितं तत्र स्थावरेण विशेषतः । जङ्गमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९॥ पयसा च जिता तत्र स्थलभूमिर्न चान्यथा । जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥ १०॥ क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपङ्क्तयः । क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥ ११॥ क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह । मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा ॥ १२॥ तथा तेनैव विधिना द्वारपाला मनोहराः । हस्तैर्धनूंषि चोद्धृत्य स्थावरा जङ्गमोपमाः ॥ १३॥ द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता । सर्वलक्षणसंयुक्तागता साक्षात्पयोर्णवात् ॥ १४॥ गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः । तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः ॥ १५॥ रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः । वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥ १६॥ एवं विमोहनार्थं तु कृतं वै विश्वकर्मणा । देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥ १७॥ महाद्वारि स्थितो नन्दी कृत्रिमश्च कृतो मुने । शुद्धस्फटिकसङ्काशो यथा नन्दी तथैव सः ॥ १८॥ तस्योपरि महादिव्यं पुष्पकं रत्नभूषितम् । राजितं पल्लवैः शुभ्रैश्चामरैश्च सुशोभितम् ॥ १९॥ वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ । चतुर्दन्तौ षष्टिवर्षौ भेदमानौ महाप्रभौ ॥ २०॥ तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ । चामरालङ्कृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥ २१॥ दंशिता वररत्नाढ्या लोकपालास्तथैव च । सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥ २२॥ तथा हि ऋषयःसर्वे भृग्वाद्याश्च तपोधनाः । अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥ २३॥ विष्णुश्च पार्षदैः सर्वैर्गरुडाख्यैः समन्वितः । कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥ २४॥ तथैवाहं सुतैर्वेदैस्सिद्धैश्च परिवारितः । कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥ २५॥ ऐरावतगजारूढः शक्रः स्वदलसंयुतः । कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसन्निभः ॥ २६॥ किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा । हिमागप्रेरितेनाशु क्लृप्तःसुरसमाजकः ॥ २७॥ एवम्भूतः कृतस्तेन मण्डपो दिव्यरूपवान् । अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥ २८॥ अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः । निवासार्थं सुरादीनां तत्तल्लोकान् हि यत्नतः ॥ २९॥ तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः । रचिताःसुखदा दिव्यास्तेषां वै विश्वकर्मणा ॥ ३०॥ तथा स सत्यलोकं वै विरेचे क्षणतोऽद्भुतम् । दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥ ३१॥ तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् । विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥ ३२॥ अमरेशगृहं दिव्यं तथैवाद्भुतमुत्तमम् । विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥ ३३॥ गृहाणि लोकपालानां विरेचे सुन्दराणि च । तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥ ३४॥ अन्येषाममराणां च सर्वेषां क्रमशस्तथा । सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५॥ विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः । विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥ ३६॥ तथैव चित्रं परमं महोज्ज्वलं महाप्रभं देववरैः सुपूजितम् । गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ॥ ३७॥ एवम्भूता कृता तेन रचना विश्वकर्मणा । विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥ ३८॥ एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् । पर्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥ ३९॥ इति प्रोक्तमशेषेण वृत्तान्तं प्रमुदावहम् । हिमालयस्य देवर्षे किं भूयः श्रोतुमिच्छसि ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ २.३.३८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.३९. एकोनचत्वारिंशोऽध्यायः । शिववरयात्रावर्णनम् ।

नारद उवाच । विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते । अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥ १॥ इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः । वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ॥ २॥ किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् । तां श्रावय कथां दिव्यां शङ्करस्य परात्मनः ॥ ३॥ ब्रह्मोवाच । श‍ृणु वत्स महाप्राज्ञ शाङ्करं परमं यशः । यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ ४॥ अथ शम्भुर्गृहीत्वा तां मुदा मङ्गलपत्रिकाम् । विजहास प्रहृष्टात्मा मानं तेषां व्यधाद्विभुः ॥ ५॥ वाचयित्वा च तां सम्यग्स्वीचकार विधानतः । तज्जनान्यापयामास बहुसम्मान्य चादृतः ॥ ६॥ उवाच मुनिवर्गांस्तान्कार्यं सम्यक् कृतं शुभम् । आगन्तव्यं विवाहे मे विवाहः स्वीकृतो मया ॥ ७॥ इत्याकर्ण्य वचः शम्भोः प्रहृष्टास्ते प्रणम्य तम् । परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिं परम् ॥ ८॥ अथ देवेश्वरः शम्भुः सामरस्तवां मुने द्रुतम् । लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥ ९॥ त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिं परम् । प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ॥ १०॥ अस्तौस्सुजयशब्दानि समुच्चार्य मुहुर्मुहुः । निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने ॥ ११॥ ततः शम्भुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् । उवाच मुनिवर्य त्वां प्रीणयन् शुभया गिरा ॥ १२॥ शिव उवाच । प्रीत्या श‍ृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते । ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ॥ १३॥ कृतं महत्तपो देव्या पार्वत्या तव शासनात् । तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ॥ १४॥ करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः । सप्तर्षिभिः साधितं च तल्लग्नं शोधितं च तैः ॥ १५॥ अद्यतःसप्तमे चाह्नि तद्भविष्यति नारद । महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ॥ १६॥ ब्रह्मोवाच । इति श्रुत्वा वचस्तस्य शङ्करस्य परात्मनः । प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ॥ १७॥ नारद उवाच । भवतस्तु व्रतमिदं भक्तवश्यो भवान्मतः । सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ॥ १८॥ कार्यं मत्सदृशं किञ्चित्कथनीयं त्वया विभो । मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ॥ १९॥ ब्रह्मोवाच । इत्युक्तस्तु त्वया शम्भुः शङ्करो भक्तवत्सलः । प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ॥ २०॥ शिव उवाच । विष्णुप्रभृतिदेवांश्च मुनीन् सिद्धानपि ध्रुवम् । त्वं निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ॥ २१॥ सर्व आयान्तु सोत्साहाः सर्वशोभासमन्विताः । सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ॥ २२॥ नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने । ते स्वकीया न मन्तव्या मया देवादयः खलु ॥ २३॥ ब्रह्मोवाच । इतीशाज्ञां ततो धृत्वा भवान् शङ्करवल्लभः । सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ॥ २४॥ शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान् । तद् हूत्यात्तत्र सन्तस्थौ तदाज्ञां प्राप्य नारद ॥ २५॥ शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः । स्वगणैःसोत्सवैः सर्वैर्नृत्यद्भिः सर्वतो दिशम् ॥ २६॥ एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम् । आजगामाच्युतः शीघ्रं कैलासं सपरिच्छदः ॥ २७॥ शिवं प्रणम्य सद्भक्त्या सदारः सदलो मुदा । तदाज्ञां प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ॥ २८॥ तथाहं स्वगणैराशु कैलासमगमं मुदा । प्रभुं प्रणम्यातिष्ठं वै सानन्दः स्वगणान्वितः ॥ २९॥ इन्द्रादयो लोकपाला आययुः सपरिच्छदाः । तथैवालङ्कृतास्सर्वे सोत्सवास्सकलत्रकाः ॥ ३०॥ तथैवं मुनयो नागास्सिद्धा उपसुरास्तथा । आययुश्चापरेऽपीह सोत्सवाः सुनिमन्त्रिताः ॥ ३१॥ महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् । सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ॥ ३२॥ अथोत्सवो महानासीत्कैलासे परमोऽद्भुतः । नृत्यादिकं तदा चक्रुर्यथायोग्यं सुरस्त्रियः ॥ ३३॥ एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः । यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ॥ ३४॥ शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः । शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ॥ ३५॥ मातरः सप्त तास्तत्र शिवभूषाविधिं परम् । चक्रिरे च मुदा युक्ता यथायोग्यं तथा पुनः ॥ ३६॥ तस्य स्वाभाविको वेषो भूषाविधिरभूत्तदा । तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभोः ॥ ३७॥ चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा । लोचनं सुन्दरं ह्यासीत्तृतीयं तिलकं शुभम् ॥ ३८॥ कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ । कुण्डलेऽभवतां तस्य नानारत्नान्विते मुने ॥ ३९॥ अन्याङ्गसंस्थिताः सर्पाः तदङ्गाभरणानि च । बभूवुरतिरम्याणि नानारत्नमयानि च ॥ ४०॥ विभूतिरङ्गरागोऽभूच्चन्दनादिसमुद्भवः । तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ॥ ४१॥ ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् । ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान् स्वतः ॥ ४२॥ ततश्च सर्वे सुरपक्षदानवा नागाः पतङ्गाप्सरसो महर्षयः । समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः ॥ ४३॥ सर्व ऊचुः । गच्छ गच्छ महादेव विवाहार्थं महेश्वर । गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ॥ ४४॥ ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः । प्रणम्य शङ्करं भक्त्या विज्ञानप्रीतमानसः ॥ ४५॥ विष्णुरुवाच । देव देव महादेव शरणागतवत्सल । कार्यकर्ता स्वभक्तानां विज्ञप्तिं श‍ृणु मे प्रभो ॥ ४६॥ गृह्योक्तविधिना शम्भो स्वविवाहस्य शङ्कर । गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ॥ ४७॥ त्वया च क्रियमाणे तु विवाहस्य विधौ हर । स एव हि तथा लोके सर्वः सुख्यातिमाप्नुयात् ॥ ४८॥ मण्डपस्थापनं नान्दीमुखं तत्कुलधर्मतः । कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ॥ ४९॥ ब्रह्मोवाच । एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः । लौकिकाचारनिरतो विधिना तच्चकार सः ॥ ५०॥ अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् । अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ॥ ५१॥ कश्यपोऽत्रिर्वसिष्ठश्च गौतमो भागुरिर्गुरुः । कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः ॥ ५२॥ मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः । अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ॥ ५३॥ दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः । पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ॥ ५४॥ एते चान्ये च बहव आगताश्शिवसन्निधिम् । मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥ ५५॥ वेदोक्तविधिना सर्वे वेदवेदाङ्गपारगाः । रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमङ्गलम् ॥ ५६॥ ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः । मङ्गलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ॥ ५७॥ ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया । मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये ॥ ५८॥ ततश्शिवः सुसन्तुष्टः कृत्वा सर्वं यथोचितम् । लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ॥ ५९॥ अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् । निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ॥ ६०॥ बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः । देवैः सह द्विजैश्चैव नानास्वीकारकः प्रभुः ॥ ६१॥ तदोत्सवो महानासीत्तत्र देवादिभिः कृतः । सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ॥ ६२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रणदेवागमनशिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ २.३.३९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४०. चत्वारिंशोऽध्यायः । हिमगिरिगृहेशिवस्यागमनवर्णनम् ।

ब्रह्मोवाच । अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् । आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥ १॥ शिव उवाच । अपि यूयं सह मया सङ्गच्छध्वं गिरेः पुरम् । कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ॥ २॥ ब्रह्मोवाच । अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा । स्वं स्वं बलमुपादाय तान् कथञ्चिद्वदाम्यहम् ॥ ३॥ अभ्यगाच्छङ्खकर्णश्च गणकोट्या गणेश्वरः । शिवेन सार्धं सङ्गन्तुं हिमाचलपुरं प्रति ॥ ४॥ दशकोट्या केकराक्षो गणानां स महोत्सवः । अष्टकोट्या च विकृतो गणानां गणनायकः ॥ ५॥ चतुष्कोट्या विशाखश्च गणानां गणनायकः । पारिजातश्च नवभिः कोटिभिर्गणपुङ्गवः ॥ ६॥ षष्टिः सर्वान्तकः श्रीमान् तथैव विकृताननः । गणानां दुन्दुभोऽष्टाभिः कोटिभिर्गणनायकः ॥ ७॥ पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा । षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ॥ ८॥ कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा । विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥ ९॥ सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ । तथा सनादको वीरो गणेशो मुनिसत्तम ॥ १०॥ आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः । महाकेशः सहस्रेण कोटीनां गणपो ययौ ॥ ११॥ कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने । अष्टाभिः कोटिभिर्वीरः समगाच्चन्द्रतापनः ॥ १२॥ कालश्च कालकश्चैव महाकालः शतेन वै । कोटीनां गणनाथो हि तथैवाग्निकनामकः ॥ १३॥ कोट्यग्निमुख एवागाद् गणानां गणनायकः । आदित्यमूर्धा कोट्या च तथा चैव घनावहः ॥ १४॥ सन्नाहः शतकोट्या हि कुमुदो गणपस्तथा । अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ॥ १५॥ सुमन्त्रः कोटिकोट्या च गणानां गणानायकः । काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ॥ १६॥ महाबलश्च नवभिर्मधुपिङ्गश्च कोकिलः । नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ १७॥ सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः । ययौ नवतिकोट्या तु गणेशानोऽहिरोमकः ॥ १८॥ यज्वाक्षः शतमन्युश्च मेघमन्युश्च नारद । तावत्कोट्या ययुः सर्वे गणेशा हि पृथक् पृथक् ॥ १९॥ काष्ठाङ्गुष्ठश्चतुः षष्ट्या कोटीनां गणनायकः । विरूपाक्षः सुकेशश्च वृषभश्च सनातनः ॥ २०॥ तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः । संवर्तकस्तथा चैत्रो लकुलीशः स्वयम्प्रभुः ॥ २१॥ लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने । देवो भृङ्गिरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २२॥ अशनिर्भानुकश्चैव चतुःषष्ट्या सहस्रशः । ययुः शिवविवाहार्थं शिवेन सहसोत्सवाः ॥ २३॥ भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः । वीरभद्रश्चतुःषष्ट्या रोमजानान्त्रिकोटिभिः ॥ २४॥ कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः । तत्र जग्मुश्च नन्द्याद्या गणपाः शङ्करोत्सवे ॥ २५॥ क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः । उद्वाहः शङ्करस्येत्याययौ प्रीत्या महोत्सवः ॥ २६॥ एते चान्ये च गणपा असङ्ख्याता महाबलाः । तत्र जग्मुर्महाप्रीत्या सोत्साहाः शङ्करोत्सवे ॥ २७॥ सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः । चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८॥ रुद्राक्षाभरणाः सर्वे तथा सद्भस्मधारिणः । हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २९॥ ब्रह्मविष्ण्विन्द्रसङ्काशा अणिमादिगुणैर्युताः । सूर्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ॥ ३०॥ पृथिवीचारिणः केचित् केचित्पातालचारिणः । केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१॥ किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः । आययुः स्वगणाः शम्भोः प्रीत्या वै शङ्करोत्सवे ॥ ३२॥ इत्थं देवैर्गणैश्चान्यैः सहितः शङ्करः प्रभुः । ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ॥ ३३॥ यदा जगाम सर्वेशो विवाहार्थं सुरादिभिः । तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर ॥ ३४॥ रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता । तत्राजगाम सुप्रीत्या परेषां सुभयावहा ॥ ३५॥ प्रेतासनसमारूढा सर्पाभरणभूषिता । पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ॥ ३६॥ स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना । कुतूहलं प्रकुर्वन्ती जातहर्षा महाबला ॥ ३७॥ तत्र भूतगणा दिव्या विरूपाः कोटिशो मुने । विराजन्ते स्म बहुशः तथा नानाविधास्तदा ॥ ३८॥ तैः समेताग्रतश्चण्डी जगाम विकृतानना । कुतूहलान्विता प्रीता प्रीत्युपद्रवकारिणी ॥ ३९॥ चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा । कोट्येकादशसङ्ख्याका रौद्ररुद्रप्रियाश्च ते ॥ ४०॥ तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम् । भेरीझङ्कारशब्देन शङ्खानां निनदेन च ॥ ४१॥ तथा दुन्दुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् । कुर्वञ्जगन्मङ्गलं च नाशयेन्मङ्गलेतरत् ॥ ४२॥ गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः । अन्वयुः सर्वसिद्धाश्च लोकपालादिका मुने ॥ ४३॥ मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः । शुशुभे ध्रियमाणेन छत्रेण महता मुने ॥ ४४॥ चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः । पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ॥ ४५॥ तथाहमप्यशोभं वै व्रजन्मार्गे विराजितः । वेदैर्मूर्तिधरैः शास्त्रैः पुराणैरागमैस्तथा ॥ ४६॥ सनकादिमहासिद्धैः सप्रजापतिभिः सुतैः । परिवारैः संयुतो हि शिवसेवनतत्परः ॥ ४७॥ स्वसैन्यमध्यगः शक्र ऐरावतगजस्थितः । नानाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ॥ ४८॥ तदा तु व्रजमानास्ते ऋषयो बहवश्च ते । विरेजुरतिसोत्कण्ठाः शिवस्योद्वाहनं प्रति ॥ ४९॥ शाकिन्यो यातुधानाश्च वेतालाब्रह्मराक्षसाः । भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥ ५०॥ तुम्बुरुर्नारदो हाहहूहूश्चेत्यादयो वराः । गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ॥ ५१॥ जगतो मातरः सर्वा देवकन्याश्च सर्वशः । गायत्री चैव सावित्री लक्ष्मीरन्याः सुरस्त्रियः ॥ ५२॥ एताश्चान्याश्च देवानां पत्नयो भवमातरः । उद्वाहः शङ्करस्येति जग्मुः सर्वा मुदान्विताः ॥ ५३॥ शुद्धस्फटिकसङ्काशो वृषभः सर्वसुन्दरः । यो धर्म उच्यते वेदैः शास्त्रैः सिद्धैर्महर्षिभिः ॥ ५४॥ तमारूढो महादेवो वृषभं धर्मवत्सलः । शुशुभेऽतीव देवर्षिसेवितः सकलैर्व्रजन् ॥ ५५॥ एभिः समेतैः सफलैर्महर्षिभि- र्बभौ महेशो बहुशोऽत्यलङ्कृतः । हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः ॥ ५६॥ इत्युक्तं शम्भुचरितं गमनं परमोत्सवम् । हिमालयपुरोद्भूतं सद्वृत्तं श‍ृणु नारद ॥ ५७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं नाम चत्वारिंशोऽध्यायः ॥ २.३.४०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४१. एकचत्वारिंशोऽध्यायः । विवाहमण्डपं दृष्ट्वादेवानां मोहवर्णनम् ।

ब्रह्मोवाच । ततः सम्मन्त्र्य च मिथः प्राप्याज्ञां शाङ्करीं हरिः । मुने त्वां प्रेषयामास प्रथमं कुधरालयम् ॥ १॥ अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः । हरिणा नोदितः प्रीत्या हिमाचलगृहं प्रति ॥ २॥ त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् । कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ॥ ३॥ श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने । अवलोकपरः सोऽभूच्चरितं विश्वकर्मणः ॥ ४॥ प्रविष्टो मण्डपं तस्य हिमाद्रे रत्नचित्रितम् । सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ॥ ५॥ सहस्रस्तम्भसंयुक्तं विचित्रं परमाद्भुतम् । वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ॥ ६॥ तदावोचश्च स मुने नारद त्वं नगेश्वरम् । विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ॥ ७॥ आगतास्ते किमधुना देवा विष्णुपुरोगमाः । तथा महर्षयः सर्वे सिद्धा उपसुरास्तथा ॥ ८॥ महादेवो वृषारूढो गणैश्च परिवारितः । आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ॥ ९॥ ब्रह्मोवाच । इत्येवं वचनं श्रुत्वा तव विस्मितचेतसः । उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ॥ १०॥ हिमवानुवाच । हे नारद महाप्राज्ञागतो नैवाधुना शिवः । विवाहार्थं च पार्वत्याः सगणः सवरातकः ॥ ११॥ विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया । विस्मयं त्यज देवर्षे स्वस्थो भव शिवं स्मर ॥ १२॥ भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि । मैनाकादिधरैः सार्धं गच्छ त्वं शङ्करान्तिकम् ॥ १३॥ एभिस्समेतो गिरिभिर्महामते सम्प्रार्थ्य शीघ्रं शिवमत्र चानय । देवैः समेतं च महर्षिसङ्घैः सुरासुरैरर्चितपादपल्लवम् ॥ १४॥ ब्रह्मोवाच । तथेति चोक्त्वागम आशु हि त्वं तदैव तैः शैलसुतादिभिश्च । तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवसन्निधानम् ॥ १५॥ तत्र दृष्टो महादेवो देवादिपरिवारितः । नमस्कृतस्त्वया दीप्तः शैलैस्तैर्भक्तितश्च वै ॥ १६॥ तदा मया विष्णुना च सर्वे देवाः सवासवाः । पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ॥ १७॥ विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः । मैनाकसह्यमेर्वाद्यान्नानालङ्कारसंयुतान् ॥ १८॥ देवा ऊचुः । हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे । सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ॥ १९॥ एते कस्मात्समायाताः पर्वता इह सत्तमाः । मैनाकसह्यमेर्वाद्याः सुप्रतापाः स्वलङ्कृताः ॥ २०॥ कन्यां दास्यति शैलोऽसौ शम्भवे वा न नारद । हिमालयगृहे तात किं भवत्यद्य तद्वद ॥ २१॥ इति सन्दिग्धमनसामस्माकं च दिवौकसाम् । वद त्वं पृच्छमानानां सन्देहं हर सुव्रत ॥ २२॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् । अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ॥ २३॥ एकान्तमाश्रित्य च मां हि विष्णु- मभाषथा वाक्यमिदं मुने त्वम् । शचीपतिं सर्वसुरेश्वरं वै पक्षच्छिदं पूर्वरिपुं धराणाम् ॥ २४॥ नारद उवाच । त्वष्ट्रा कृतं तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि । येनैव सर्वान्स विमोहितुं सुरान् समिच्छति प्रेमत एव युक्त्या ॥ २५॥ पुरा कृतं तस्य विमोहनं त्वया सुविस्मृतं तत् सकलं शचीपते । तस्मादसौ त्वां विजिगीषुरेव गृहे ध्रुवं तस्य गिरेर्महात्मनः ॥ २६॥ अहं विमोहितस्तेन प्रतिरूपेण भास्वता । तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ॥ २७॥ किं बहूक्तेन देवेश सर्वदेवगणाः कृताः । कृत्रिमाश्चित्ररूपेण न किञ्चिदवशेषितम् ॥ २८॥ विमोहनार्थं सर्वेषां देवानां च विशेषतः । कृता माया चित्रमयी परिहासविकारिणी ॥ २९॥ ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्य देवेन्द्रो वाक्यमब्रवीत् । विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ॥ ३०॥ देवेन्द्र उवाच । देवदेव रमानाथ त्वष्टा मां निहनिष्यति । पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ॥ ३१॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः । उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ॥ ३२॥ विष्णुरुवाच । निवातकवचैः पूर्वं मोहितोऽसि शचीपते । महाविद्याबलेनैव दानवैः पूर्ववैरिभिः ॥ ३३॥ पर्वतो हिमवानेष तथान्येऽखिलपर्वताः । विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव ॥ ३४॥ तेऽनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी । जेतुमिच्छन्ति ये मूढा न भेतव्यमरावपि ॥ ३५॥ ईश्वरो नो हि सर्वेषां शङ्करो भक्तवत्सलः । सर्वथा कुशलं शक्र करिष्यति न संशयः ॥ ३६॥ ब्रह्मोवाच । एवं संवदमानं तं शक्रं विकृतमानसम् । हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ॥ ३७॥ ईश्वर उवाच । हे हरे हे सुरेशान किं ब्रूथोऽद्य परस्परम् । इत्युक्त्वा तौ महेशानो मुने त्वां प्रत्युवाच सः ॥ ३८॥ किं नु वक्ति महाशैलो यथार्थं वद नारद । वृत्तान्तं सकलं ब्रूहि न गोप्यं कर्तुमर्हसि ॥ ३९॥ ददाति वा नैव ददाति शैलः सुतां स्वकीयां वद तच्च शीघ्रम् । किं ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात ॥ ४०॥ ब्रह्मोवाच । हत्युक्तः शम्भुना तत्र मुने त्वं देवदर्शनः । सर्वं रहस्यवोचो वै यद् दृष्टं तत्र मण्डपे ॥ ४१॥ नारद उवाच । देवदेव महादेव श‍ृणु मद्वचनं शुभम् । नास्ति विघ्नभयं नाथ विवाहे किञ्चिदेव हि ॥ ४२॥ अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् । त्वामानयितुमायाता इमे शैला न संशयः ॥ ४३॥ किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता । कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ॥ ४४॥ विचित्रं मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया । विश्वकर्मा महामायी नानाश्चर्यमयं विभो ॥ ४५॥ सर्वदेवसमाजश्च कृतस्तत्र विमोहनः । तं दृष्ट्वा विस्मयं प्राप्तोऽहं तन्मायाविमोहितः ॥ ४६॥ ब्रह्मोवाच । तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः । हर्यादीन्प्रहसन् शम्भुरुवाच सकलान्सुरान् ॥ ४७॥ ईश्वर उवाच । कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः । मायया मम किं कार्यं वद विष्णो यथातथम् ॥ ४८॥ हे ब्रह्मन् शक्र मुनयः सुरा ब्रूत यथार्थतः । मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ॥ ४९॥ केनाप्युपायेन फलं हि साध्य- मित्युच्यते पण्डितैर्न्यायविद्भिः । तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च ॥ ५०॥ ब्रह्मोवाच । एवं संवदमानोऽसौ देवैः शम्भुरभूत्तदा । कृतः स्मरेणेव वशी वशं वा प्राकृतो नरः ॥ ५१॥ अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा । ऋषयश्च महात्मानो ययुर्मोहभ्रमावहम् ॥ ५२॥ पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः । हिमाद्रेश्च तदा जग्मुर्मन्दिरं परमाद्भुतम् ॥ ५३॥ अथ विष्ण्वादिसंयुक्तो मुदितैःस्वबलैर्युतः । आजगामोपहैमागपुरं प्रमुदितो हरः ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.३.४१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४२. द्विचत्वारिंशोऽध्यायः । देवगिरिमिलापवर्णनम् ।

ब्रह्मोवाच । अथाकर्ण्य गिरीशश्च निजपुर्युपकण्ठतः । प्राप्तमीशं सर्वगं वै मुमुदेऽति हिमालयः ॥ १॥ अथ सम्भृतसम्भारः सम्भाषां कर्तुमीश्वरम् । शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ॥ २॥ स्वयं जगाम सद्भक्त्या प्राणेप्सुं द्रष्टुमीश्वरम् । भक्त्युद्रुतमनाः शैलः प्रशंसन् स्वविधिं मुदा ॥ ३॥ देवसेनां तदा दृष्ट्वा हिमवान्विस्मयं गतः । जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ॥ ४॥ देवा हि तद्बलं दृष्ट्वा विस्मयं परमं गताः । आनन्दं परमं प्रापुर्देवाश्च गिरयस्तथा ॥ ५॥ पर्वतानां महासेना देवानां च तथा मुने । मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ॥ ६॥ परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा । कृतकृत्यं तथात्मानं मेनिरे परया मुदा ॥ ७॥ अथेश्वरं पुरो दृष्ट्वा प्रणनाम हिमालयः । सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ॥ ८॥ वृषभस्थं प्रसन्नास्यं नानाभरणभूषितम् । दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ॥ ९॥ सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् । सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ॥ १०॥ भूषाभूताहियुक्ताङ्गमद्भुतावयवप्रभम् । दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ॥ ११॥ वामस्थिताच्युतं दक्षभागस्थितविधिं प्रभुम् । पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ॥ १२॥ नानाविधसुराद्यैश्च संस्तुतं लोकशङ्करम् । स्वहेत्वात्ततनुं ब्रह्म सर्वेशं वरदायकम् ॥ १३॥ सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम् । प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम् ॥ १४॥ प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् । विनतातनयारूढं नानाभूषणभूषितम् ॥ १५॥ प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह । चतुर्मुखं महाशोभं स्वपरीवारसंयुतम् ॥ १६॥ एतौ सुरेश्वरौ दृष्ट्वा शिवस्यातिप्रियौ सदा । प्रणनाम गिरीशश्च सपरीवार आदरात् ॥ १७॥ तथा शिवस्य पृष्ठे च पार्श्वयोः सुविराजितान् । देवादीन्प्रणनामासौ दृष्ट्वा गिरिवरेश्वरः ॥ १८॥ शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः । शेषहर्यात्मभूः शीघ्रं मुनिभिर्निर्जरादिभिः ॥ १९॥ सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह । गिरेः पुरं समुदिताः शशंसुर्बहु नारद ॥ २०॥ रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् । जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका ॥ २१॥ कारयित्वा विशेषेण चतुष्कं तोरणैर्युतम् । स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा ॥ २२॥ स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा । हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट् ॥ २३॥ कर्तुमैच्छद्वराचारं महोत्सवपुरस्सरम् । महाहर्षयुतः सर्वबन्धुयुग्घिमशैलराट् ॥ २४॥ अथ ते गिरिपुत्राश्च तत्र गत्वा प्रणम्य तम् । सस्ववर्गं प्रार्थनान्तामूचुः शैलेश्वरस्य वै ॥ २५॥ ततस्ते स्वालयं जग्मुः शैलपुत्रास्तदाज्ञया । शैलराजाय सञ्चख्युः ते चायान्तीति हर्षिताः ॥ २६॥ अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः । मुने विष्ण्वादयः सर्वे सेश्वरा मुमुदुर्भृशम् ॥ २७॥ कृत्वा सुवेषं सर्वेऽपि निर्जरा मुनयो गणाः । गमनं चक्रुरन्येऽपि प्रभुणा गिरिराड्गृहम् ॥ २८॥ तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् । प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम् ॥ २९॥ अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा । मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता ॥ ३०॥ त्वां प्रणम्य मुने मेना प्राह विस्मितमानसा । द्रष्टुकामा प्रभो रूपं शङ्करस्य मदापहम् ॥ ३१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ २.३.४२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४३. त्रिचत्वारिंशोऽध्यायः । मेनामोहनाय शिवकृताद्भुतलीलावर्णनम् ।

मेनोवाच । निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् । कीदृशं शिवरूपं हि यदर्थे तप उत्तमम् ॥ १॥ ब्रह्मोवाच । इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च । त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥ २॥ शिवोऽपि च तदा तस्यां ज्ञात्वाहङ्कारमात्मनः । प्राह विष्णुं च मां तात लीलां कृत्वाद्भुतां प्रभुः ॥ ३॥ शिव उवाच । मदाज्ञया युवां तातौ सदेवौ च पृथक्पृथक् । गच्छतं हि गिरिद्वारं वयं पश्चाद् व्रजेमहि ॥ ४॥ ब्रह्मोवाच । इत्याकर्ण्य हरिः सर्वानाहूयोवाच तन्मयाः । सुराः सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥ ५॥ स्थितां शिरोगृहे मेनां मुने विश्वेश्वरस्त्वया । तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ॥ ६॥ एतस्मिन् समये मेना सेनां च परमां शुभाम् । निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताभवत् ॥ ७॥ प्रथमं चैव गन्धर्वाः सुन्दराः सुभगास्तदा । आयाताः शुभवस्त्राढ्या नानालङ्कारभूषिताः ॥ ८॥ नानावाहनसंयुक्ता नानावाद्यपरायणाः । पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥ ९॥ अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् । मेना प्रहर्षिता ह्यासीच्छिवोऽयमिति चाब्रवीत् ॥ १०॥ शिवस्य गणका एते न शिवोऽयं शिवापतिः । इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥ ११॥ एवं श्रुत्वा तदा मेना विचारे तत्पराभवत् । इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥ १२॥ एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये । तेषां सेना तया दृष्टा शोभादि द्विगुणीकृता ॥ १३॥ तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा । अयं रुद्रः शिवास्वामी मेना प्राहेति हर्षिता ॥ १४॥ नायं रुद्रः शिवास्वामी सेवकोऽयं शिवस्य वै । इत्यवोचोऽगपत्न्यै त्वं तावद्वह्निः स आगतः ॥ १५॥ ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् । रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ १६॥ तावद्यमः समायातः ततोऽपि द्विगुणप्रभः । तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ १७॥ नेति त्वमब्रवीस्तां वै तावन्निरृतिरागतः । बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥ १८॥ तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता । नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥ १९॥ ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् । रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २०॥ तावद्वायुः समायातः ततोऽपि द्विगुणप्रभः । तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ २१॥ नेति त्वमब्रवीस्तां वै तावद्धनद आगतः । ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥ २२॥ तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता । नेति त्वमब्रवीस्तां वै तावदीशान आगतः ॥ २३॥ ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् । रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २४॥ तावदिन्द्रः समायातः ततोऽपि द्विगुणप्रभः । सर्वामरवरो नानादिव्यभास्त्रिदिवेश्वरः ॥ २५॥ तं दृष्ट्वा शङ्करः सोऽयमिति सा प्राह मेनका । शक्रः सुरपतिश्चायं स नेति त्वं तदाब्रवीः ॥ २६॥ तावच्चन्द्रः समायातः शोभां तद्द्विगुणां दधत् । दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥ २७॥ तावत्सूर्यः समायातः शोभां तद्द्विगुणां दधत् । दृष्ट्वा तं प्राह सा सोऽयं तां तु नेति त्वमब्रवीः ॥ २८॥ तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः । तेजसो राशयः सर्वे स्वशिष्यगणसंयुताः ॥ २९॥ तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका । रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ ३०॥ तावद्ब्रह्मा समायातः तेजसां राशिरुत्तमः । सर्षिवर्यसुतः साक्षाद्धर्मपुञ्ज इव स्तुतः ॥ ३१॥ दृष्ट्वा मां तं तदा मेना महाहर्षवती मुने । सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ॥ ३२॥ एतस्मिन्नन्तरे तत्र विष्णुर्देवः समागतः । सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ॥ ३३॥ कोटिकन्दर्पलावण्यः पीताम्बरधरः स्वराट् । राजीवलोचनः शान्तः पक्षीन्द्रवरवाहनः ॥ ३४॥ शङ्खादिलक्षणैर्युक्तो मुकुटादिविभूषितः । श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेयप्रभान्वितः ॥ ३५॥ तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत् । सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ॥ ३६॥ अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत् । नायं शिवापतिरयं किन्त्वयं केशवो हरिः ॥ ३७॥ शङ्कराखिलकार्यस्य ह्यधिकारी च तत्प्रियः । अतोऽधिको वरो ज्ञेयः स शिवः पार्वतीपतिः ॥ ३८॥ तच्छोभां वर्णितुं मेने मया नैव हि शक्यते । स एवाखिलब्रह्माण्डपतिः सर्वेश्वरः स्वराट् ॥ ३९॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् । महाधनां भाग्यवतीं कुलत्रयसुखावहाम् ॥ ४०॥ उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा । स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः ॥ ४१॥ मेनोवाच । धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना । धन्यो गिरीश्वरोऽप्यद्य सर्वं धन्यतमं मम ॥ ४२॥ ये ये दृष्ट्वा मया देवा नायकाः सुप्रभान्विताः । एतेषां यः पतिः सोऽत्र पतिरस्या भविष्यति ॥ ४३॥ अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि । वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात् ॥ ४४॥ ब्रह्मोवाच । इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा । तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः ॥ ४५॥ अद्भुतात्मागणास्तात मेनागर्वापहारकाः । आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ॥ ४६॥ तमागतमभिप्रेत्य नारद त्वं मुने तदा । मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ॥ ४७॥ नारद उवाच । अयं स शङ्करः साक्षाद् दृश्यतां सुन्दरि त्वया । यदर्थे शिवया तप्तं तपोऽति विपिने महत् ॥ ४८॥ ब्रह्मोवाच । इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् । अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम् ॥ ४९॥ तावदेवं समायाता रुद्रसेना महाद्भुता । भूतप्रेतादिसंयुक्ता नानागणसमन्विता ॥ ५०॥ वात्यारूपधराः केचित्पताकामर्मरस्वनाः । वक्रतुण्डास्तत्र केचिद्विरूपाश्चापरे तथा ॥ ५१॥ करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः । दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः ॥ ५२॥ विरुद्धवाहनाः केचिच्छृङ्गनादनिनादिनः । डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः ॥ ५३॥ अमुखाः विमुखाः केचित्केचिद् बहुमुखा गणाः । अकरा विकराः केचित्केचिद् बहुकरा गणाः ॥ ५४॥ अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा । अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ॥ ५५॥ इत्यादिविकृताकारा अनेके प्रबला गणाः । असङ्ख्यातास्तथा तात महावीरा भयङ्कराः ॥ ५६॥ अङ्गुल्या दर्शयंस्त्वं तां मुने रुद्रगणांस्ततः । हरस्य सेवकान्पश्य हरं चापि वरानने ॥ ५७॥ असङ्ख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने । तत्क्षणादभवत्सा वै मेनका त्राससङ्कुला ॥ ५८॥ तन्मध्ये शङ्करं चैव निर्गुणं गुणवत्तरम् । वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ॥ ५९॥ कपर्दिनं चन्द्रमौलिं दशहस्तं कपालिनम् । व्याघ्रचर्मोत्तरीयं च पिनाकवरपाणिनम् ॥ ६०॥ शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् । गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ॥ ६१॥ चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् । शिवोऽयमिति चाङ्गुल्या दर्शयंस्तां त्वमब्रवीः ॥ ६२॥ त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव । सा पपात द्रुतं भूमौ मेना दुःखभरा सती ॥ ६३॥ किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे । इत्युक्त्वा मूर्च्छिता तत्र मेनका साभवत्क्षणात् ॥ ६४॥ अथ प्रयत्नैर्विविधैः सखीभिरुपसेविता । लेभे संज्ञां शनैर्मेना गिरीश्वरप्रिया तदा ॥ ६५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.३.४३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४४. चतुश्चत्वारिंशोऽध्यायः । मेनाप्रबोधवर्णनम् ।

ब्रह्मोवाच । संज्ञां लब्ध्वा ततः सा च मेना शैलप्रिया सती । विललापातिसङ्क्षुब्धा तिरस्कारमथाकरोत् ॥ १॥ तत्र तावत्स्वपुत्रांश्च निनिन्द स्खलिता मुहुः । प्रथमं सा ततः पुत्रीं कथयामास दुर्वचः ॥ २॥ मेनोवाच । मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् । पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥ ३॥ ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् । मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४॥ पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् । तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥ ५॥ किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् । कुलादिकं विनष्टं मे विहितं जीवितं मम ॥ ६॥ क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् । तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥ ७॥ केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना । इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥ ८॥ किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम । हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥ ९॥ हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया । हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥ १०॥ हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया । सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥ ११॥ तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् । प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥ १२॥ सिंहसेवां तथा मुक्त्वा श‍ृगालः सेवितस्त्वया । ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥ १३॥ गृहे यज्ञविभूतिं हि दूरीकृत्य सुमङ्गलाम् । गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमङ्गलम् ॥ १४॥ सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् । कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥ १५॥ धिक्त्वां च तव बुद्धिं च धिग्रूपं चरितं तव । धिक् चोपदेशकर्तारं धिक्सख्यावपि ते तथा ॥ १६॥ आवां च धिक्तथा पुत्रि यौ ते जन्मप्रवर्तकौ । धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च कुबुद्धिदान् ॥ १७॥ धिक्कुलं धिक् क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया । गृहं तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥ १८॥ पर्वतानामयं राजा नायातु निकटे मम । सप्तर्षयः स्वयं नैव दर्शयन्तु मुखं मम ॥ १९॥ साधितं किं च सर्वैस्तु मिलित्वा घातितं कुलम् । बन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥ २०॥ अथो न वा मृता चाहं पुत्रिका न मृता कथम् । राक्षसाद्यैः कथं नो वा भक्षिता गगने पुनः ॥ २१॥ छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः । त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥ २२॥ ब्रह्मोवाच । इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता । व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ ॥ २३॥ हाहाकारो महानासीत्तस्मिन्काले मुनीश्वर । सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥ २४॥ पुरा देवमुने चाहमागतस्तु स्वयं तदा । मां दृष्ट्वा त्वं वचस्तां वै प्रावोच ऋषिसत्तम ॥ २५॥ नारद उवाच । यथार्थं सुन्दरं रूपं न ज्ञातं ते शिवस्य वै । लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥ २६॥ तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते । कार्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥ २७॥ ब्रह्मोवाच । तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत् । उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान् ॥ २८॥ इत्युक्ते तु तया देवा इन्द्राद्याः सकलाः क्रमात् । समागत्य च दिक्पाला वचनं चेदमब्रुवन् ॥ २९॥ देवा ऊचुः । हे मेने पितृकन्ये हि श‍ृण्वस्मद्वचनं मुदा । अयं वै परमः साक्षाच्छिवः परसुखावहः ॥ ३०॥ कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुस्सहम् । दर्शनं दत्तवान् शम्भुर्वरं सद्भक्तवत्सलः ॥ ३१॥ ब्रह्मोवाच । अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः । न देया तु मया कन्या गिरिशायोग्ररूपिणे ॥ ३२॥ किमर्थं तु भवन्तश्च सर्वे देवाः प्रवञ्चिताः । रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यताः ॥ ३३॥ इत्युक्ते च तया तत्र ऋषयःसप्त एव हि । ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ॥ ३४॥ सप्तर्षय ऊचुः । कार्यं साधयितुं प्राप्ताः पितृकन्ये गिरिप्रिये । विरुद्धं चात्र युक्तार्थे कथं मन्यामहे वयम् ॥ ३५॥ अयं वै परमो लाभो दर्शनं शङ्करस्य यत् । दानपात्रं स ते भूत्वागतस्तव च मन्दिरम् ॥ ३६॥ ब्रह्मोवाच । इत्युक्ता तैस्ततो मेना मुनिवाक्यं मृषाकरोत् । प्रत्युवाच च रुष्टा सा तानृषीन् ज्ञानदुर्बला ॥ ३७॥ मेनोवाच । शस्त्राद्यैर्घातयिष्येऽहं न दास्ये शङ्कराय ताम् । दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ॥ ३८॥ ब्रह्मोवाच । इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला । हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ॥ ३९॥ ततो हिमालयस्तत्राजगामातिसमाकुलः । ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वं च दर्शयन् ॥ ४०॥ हिमालय उवाच । श‍ृणु मेने वचो मेऽद्य विकलासि कथं प्रिये । के के समागता गेहं कथं चैतान्विनिन्दसि ॥ ४१॥ शङ्करं त्वं च जानासि रूपं दृष्ट्वासि विह्वला । विकटं तस्य शम्भोस्तु नानारूपाभिधस्य हि ॥ ४२॥ स शङ्करो मया ज्ञातः सर्वेषां प्रतिपालकः । पूज्यानां पूज्य एवासौ कर्तानुग्रहनिग्रहौ ॥ ४३॥ हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे । उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ॥ ४४॥ यद्वै द्वारगतः शम्भुः पुरा विकटरूपधृक् । नानालीलां च कृतवान् चेतयामि च तामिमाम् ॥ ४५॥ तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया । अङ्गीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये ॥ ४६॥ ब्रह्मोवाच । इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने । तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ॥ ४७॥ मेनोवाच । मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि । गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ॥ ४८॥ अधः पातय निःशङ्कं दास्ये तां न हराय हि । तथैनामथवा नाथ गत्वा वै सागरे सुताम् ॥ ४९॥ निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव । यदि दास्यसि पुत्रीं त्वं रुद्राय विकटात्मने ॥ तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् । ५०॥ ब्रह्मोवाच । इत्युक्ते च तदा तत्र वचने मेनया हठात् । उवाच वचनं रम्यं पार्वती स्वयमागता ॥ ५१॥ पार्वत्युवाच । मातस्ते विपरीता हि बुद्धिर्जाताशुभावहा । धर्मावलम्बनात्त्वं हि कथं धर्मं जहासि वै ॥ ५२॥ अयं रुद्रोऽपरः साक्षात्सर्वप्रभव ईश्वरः । शम्भुः सुरूपः सुखदः सर्वश्रुतिषु वर्णितः । ५३॥ महेशः शङ्करश्चायं सर्वदेवप्रभुः स्वराट् । नानारूपाभिधो मातर्हरिर्ब्रह्मादिसेवितः ॥ ५४॥ अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः । निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ॥ ५५॥ यदर्थे देवताः सर्वा आयाता किङ्करीकृताः । द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ॥ ५६॥ उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु । देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् । ५७॥ देहि मां परमेशाय शङ्कराय जनन्यहो । स्वीकुरु त्वमिमं मातर्विनयं मे ब्रवीमि ते ॥ ५८॥ चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् । भागं लभेत्कथं सैंहं श‍ृगालः परवञ्चकः ॥ ५९॥ मनसा वचसा मातः कर्मणा च हरः स्वयम् । मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ॥ ६०॥ ब्रह्मोवाच । इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया । सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ॥ ६१॥ मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा । ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ॥ ६२॥ ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने । तद्धस्तात्तां परिच्छिद्य निन्युर्दूरतरं ततः ॥ ६३॥ तान्वै तथाविधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः । उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः ॥ ६४॥ मेनोवाच । किमेनां हि करिष्येऽहं दुष्टाग्रहवतीं शिवाम् । दास्याम्यस्यै गरं तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ॥ ६५॥ छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः । निमज्जयिष्ये वा सिन्धौ स्वसुतां पार्वतीं खलु ॥ ६६॥ अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् । न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ॥ ६७॥ वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया । कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ॥ ६८॥ न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि । नो सुरूपं न चातुर्यं न गृहं वास्य किञ्चन ॥ ६९॥ न वस्त्रं नाप्यलङ्काराः सहायाः केऽपि तस्य न । वाहनं न शुभं ह्यस्य न वयो न धनं तथा ॥ ७०॥ न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः । किं विलोक्य मया पुत्री देयास्मै स्यात्सुमङ्गला ॥ ७१॥ ब्रह्मोवाच । इत्यादि सुविलप्याथ बहुशो मेनका तदा । रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ॥ ७२॥ अथाहं द्रुतमागत्याकथयं मेनकां च ताम् । शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ॥ ७३॥ ब्रह्मोवाच । श्रोतव्यं प्रीतितो मेने मदीयं वचनं शुभम् । यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ॥ ७४॥ शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च । न त्वं जानासि तद्रूपं कथं दुःखं समीहसे ॥ ७५॥ अनेकरूपनामा च नानालीलाकरः प्रभुः । सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ॥ ७६॥ इति विज्ञाय मेने त्वं शिवां देहि शिवाय वै । कुहठं त्यज कुज्ञानं सर्वकार्यविनाशनम् ॥ ७७॥ ब्रह्मोवाच । इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः । लज्जां किञ्चिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ॥ ७८॥ मेनोवाच । किमर्थं तु भवान्ब्रह्मन् रूपमस्या महावरम् । व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ॥ ७९॥ न वक्तव्यं च भवता शिवाय प्रतिदीयताम् । न दास्येऽहं शिवायैनां स्वसुतां प्राणवल्लभाम् ॥ ८०॥ ब्रह्मोवाच । इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने । समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ॥ ८१॥ सिद्धा ऊचुः । अयं वै परमः साक्षाच्छिवः परसुखावहः । कृपया च भवत्पुत्र्यै दर्शनं दत्तवान्प्रभुः ॥ ८२॥ ब्रह्मोवाच । अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः । न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ॥ ८३॥ किमर्थं तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः । रूपमस्याः परं नाम व्यर्थीकर्तुं समुद्यताः ॥ ८४॥ इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् । सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः ॥ ८५॥ एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत् । द्रुतं शिवप्रियो विष्णुः समागत्याब्रवीदिदम् ॥ ८६॥ विष्णुरुवाच । पितॄणां च प्रिया पुत्री मानसी गुणसंयुता । पत्नी हिमवतः साक्षाद्ब्रह्मणः कुलमुत्तमम् ॥ ८७॥ सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् । धर्मस्याधारभूतासि कथं धर्मं जहासि हि ॥ ८८॥ देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा । विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ॥ ८९॥ शिवं त्वं न च जानासि निर्गुणः सगुणः स हि । विरूपः ससुरूपो हि सर्वसेव्यः सतां गतिः ॥ ९०॥ तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी । तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥ ९१॥ ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः । अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ॥ ९२॥ ततो वेदास्तथा देवा यत्किञ्चिद्दृश्यते जगत् । स्थावरं जङ्गमं चैव तत्सर्वं शकरादभूत् ॥ ९३॥ तद्रूपं वर्णितं केन ज्ञायते केन वा पुनः । मया च ब्रह्मणा यस्य ह्यन्तो लब्धश्च नैव हि ॥ ९४॥ आब्रह्मस्तम्बपर्यन्तं यत्किञ्चिद् दृश्यते जगत् । तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ॥ ९५॥ स एवेदृक्सुरूपेणावतीर्णो निजलीलया । शिवातपःप्रभावाद्धि तव द्वारि समागतः ॥ ९६॥ तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवं भज । भविष्यति महानन्दः क्लेशो यास्यति सङ्क्षयम् ॥ ९७॥ ब्रह्मोवाच । एवं प्रबोधितायास्तु मेनकाया अभून्मुने । तस्यास्तु कोमलं किञ्चिन्मनो विष्णुप्रबोधितम् ॥ ९८॥ परं हठं न तत्याज कन्यां दातुं हराय न । स्वीचकार तदा मेना शिवमायाविमोहिता ॥ ९९॥ उवाच च हरिं मेना किञ्चिद्बुद्धा गिरिप्रिया । श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा ॥ १००॥ यदि रम्यतनुः सः स्यात्तदा देया मया सुता । नान्यथा कोटिशो यत्नैर्वच्मि सत्यं दृढं वचः ॥ १०१॥ ब्रह्मोवाच । इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता । शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ॥ १०२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनाप्रबोधवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ २.३.४४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४५. पञ्चचत्वारिंशोऽध्यायः । दिव्यस्वरूपेण शिवाविर्भावस्थितिवर्णनम् ।

ब्रह्मोवाच । एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् । अनुकूलयितुं शम्भुमयास्तन्निकटे मुने ॥ १॥ तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः । स्तोत्रैर्नानाविधैः स्तुत्वा देवकार्यचिकीर्षया ॥ २॥ श्रुत्वा त्वद्वचनं प्रीत्या शम्भुना धृतमद्भुतम् । स्वरूपमुत्तमं दिव्यं कृपालुत्वं च दर्शितम् ॥ ३॥ तद् दृष्ट्वा सुन्दरं शम्भुं स्वरूपं मन्मथाधिकम् । अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥ ४॥ स्तोत्रैर्नानाविधैः स्तुत्वा परमानन्दसंयुतः । आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥ ५॥ तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसङ्कुलः । हर्षयंस्तां शैलपत्नीं मेनां त्वं वाक्यमब्रवीः ॥ ६॥ नारद उवाच । मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् । कृता शिवेन तेनैव सुकृपा करुणात्मना ॥ ७॥ ब्रह्मोवाच । श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी । ददर्श शिवरूपं तत्परमानन्ददायकम् ॥ ८॥ कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् । विचित्रवसनं चात्र नानाभूषणभूषितम् ॥ ९॥ सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् । गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम् ॥ १०॥ सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यैः सेवितं तथा । सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम् ॥ ११॥ सर्वथा रमणीयं च भूषितस्य विभूषणैः । वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥ १२॥ गङ्गा च यमुना चैव विधत्तः स्म सुचामरे । सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्तनम् ॥ १३॥ मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा । स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥ १४॥ तथा जयेति भाषन्तो नानारूपा गणास्तदा । स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥ १५॥ सिद्धाश्चोपसुराः सर्वे मुनयश्च महासुखाः । ययुः शिवेन सुप्रीताः सकलाश्चापरे तथा ॥ १६॥ एवं देवादयः सर्वे कुतूहलसमन्विताः । परं ब्रह्म गृणन्तस्ते स्वपत्नीभिरलङ्कृताः ॥ १७॥ विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः । गायन्तोऽप्यग्रतस्तस्य परमं शाङ्करं यशः ॥ १८॥ इत्थं महोत्सवस्तत्र बभूव मुनिसत्तम । नानाविधो महेशे हि शैलद्वारि च गच्छति ॥ १९॥ तस्मिंश्च समये तत्र सुषमा या परात्मनः । वर्णितुं तां विशेषेण कः शक्नोति मुनीश्वर ॥ २०॥ तथाविधं च तं दृष्ट्वा मेना चित्रगता इव । क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥ २१॥ मेनोवाच । धन्या पुत्री मदीया च यया तप्तं महत्तपः । यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे ॥ २२॥ मया कृता पुरा या वै शिवनिन्दा दुरत्यया । तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥ २३॥ ब्रह्मोवाच । इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् । साञ्जलिः प्रणता शैलप्रिया लज्जापराभवत् ॥ २४॥ तावत्स्त्रियः समाजग्मुर्हित्वा कामाननेकशः । वह्व्यस्ताः पुरवासिन्यः शिवदर्शनलालसाः ॥ २५॥ मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ । द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥ २६॥ काचित्तु स्वामिनःसेवां सखीयुक्ता विहाय च । सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥ २७॥ काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात् । अतृप्तं शङ्करं द्रष्टुं ययौ दर्शनलालसा ॥ २८॥ रशनां बध्नती काचित्तयैव सहिता ययौ । वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः ॥ २९॥ भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया । द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला ॥ ३०॥ काचिद्धस्ते शलाकां च धृत्वाञ्जनकरा प्रिया । अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम् ॥ ३१॥ काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः । श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता ॥ ३२॥ इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः । दृष्ट्वा तु शाङ्करं रूपं मोहं प्राप्तास्तदाभवन् ॥ ३३॥ ततस्ताः प्रेमसंविग्नाः शिवदर्शनहर्षिताः । निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन् ॥ ३४॥ पुरवासिन्य ऊचुः । नेत्राणि सफलान्यासन् हिमवत्पुरवासिनाम् । यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः ॥ ३५॥ तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः । येन दृष्टः शिवः साक्षात्सर्वपापप्रणाशकः ॥ ३६॥ पार्वत्या साधितं सर्वं शिवार्थे यत्तपः कृतम् । धन्येयं कृतकृत्येयं शिवा प्राप्य शिवं पतिम् ॥ ३७॥ यदीदं युगलं ब्रह्मा न युञ्ज्याच्छिवयोर्मुदा । तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात् ॥ ३८॥ सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् । सर्वेषां सार्थता जाता सर्वकार्यसमुद्भवा ॥ ३९॥ विना तु तपसा शम्भोर्दर्शनं दुर्लभं नृणाम् । दर्शनाच्छङ्करस्यैव सर्वे याताः कृतार्थताम् ॥ ४०॥ लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनं पुरा । तथासौ पार्वती देवी हरं प्राप्य सुभूषिता ॥ ४१॥ ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती । तथासौ पार्वती देवी हरं प्राप्य सुभूषिता ॥ ४२॥ वयं धन्याः स्त्रियः सर्वाः पुरुषाः सकला वराः । ये ये पश्यन्ति सर्वेशं शङ्करं गिरिजापतिम् ॥ ४३॥ ब्रह्मोवाच । इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि । शिवं समर्चयामासुर्लाजान्ववृषुरादरात् ॥ ४४॥ तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः । वर्णयन्त्योऽधिकं भाग्यं मेनायाश्च गिरेरपि ॥ ४५॥ कथास्तथाविधाः श‍ृण्वंस्तद्वामावर्णिताः शुभाः । प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा ॥ ४६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ २.३.४५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४६. षट्चत्शरिंशोऽध्यायः । मण्डपद्वारे वरागमनवर्णनम् ।

ब्रह्मोवाच । अथ शम्भुः प्रसन्नात्मा सदूतं स्वगणैःसुरैः । सर्वैरन्यैर्गिरेर्धाम जगाम सकुतूहलम् ॥ १॥ मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया । तत उत्थाय स्वगृहाभ्यन्तरं सा जगाम ह ॥ २॥ नीराजनार्थं शम्भोश्च दीपपात्रकरा सती । सर्वर्षिस्त्रीगणैस्साकमगच्छद् द्वारमादरात् ॥ ३॥ तत्रागतं महेशानं शङ्करं गिरिजावरम् । ददर्श प्रीतितो मेना सेवितं सकलैः सुरैः ॥ ४॥ चारुचम्पकवर्णाभं पञ्चवक्त्रं त्रिलोचनम् । ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥ ५॥ मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् । सत्कण्ठाभरणं चारुवलयाङ्गदभूषितम् ॥ ६॥ वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा । अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥ ७॥ चन्दनागरुकस्तूरीचारुकुङ्कुमभूषितम् । रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥ ८॥ सर्वस्वप्रभयाच्छन्नमतीव सुमनोहरम् । अतीव तरुणं रम्यं भूषिताङ्गैश्च भूषितम् ॥ ९॥ कामिनीकान्तमव्यग्रं कोटिचन्द्राननाम्बुजम् । कोटिस्मराधिकतनुच्छविं सर्वाङ्गसुन्दरम् ॥ १०॥ ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् । दृष्ट्वा जामातरं मेना जहौ शोकं मुदान्विता ॥ ११॥ प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् । मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥ १२॥ नीराजनं चकारासौ प्रफुल्लवदना सती । अवलोकपरा तत्र मेना जामातरं मुदा ॥ १३॥ गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता । मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥ १४॥ यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च । ततोऽधिकं प्रपश्यामि सौन्दर्यं परमेशितुः ॥ १५॥ महेशस्य सुलावण्यमनिर्वाच्यं च सम्प्रति । एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥ १६॥ प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता । दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः ॥ १७॥ न दृष्टो वर इत्येवमस्माभिर्दानगोचरः । धन्या हि गिरिजादेवीमूचुः काश्चन कन्यकाः ॥ १८॥ जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः । दृष्ट्वा शङ्कररूपं च प्रहृष्टाः सर्वदेवताः ॥ १९॥ नानाप्रकारवाद्यानि वादका मधुराक्षरम् । नानाप्रकारशिल्पेन वादयामासुरादरात् ॥ २०॥ हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् । मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ॥ २१॥ परपृच्छां चकारासौ मुदिता स्वगृहं ययौ । शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥ २२॥ एतस्मिन्नन्तरे दुर्गां शैलान्तः पुरचारिकाः । बहिर्जग्मुः समादाय पूजितुं कुलदेवताम् ॥ २३॥ तत्र तां ददृशुर्देवा निमेषरहिता मुदा । सुनीलाञ्जनवर्णाभां स्वाङ्गैश्च प्रतिभूषिताम् ॥ २४॥ त्रिनेत्रादृतनेत्रां तामन्यवारितलोचनाम् । ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥ २५॥ सुचारुकबरीभारां चारुपत्रकशोभिताम् । कस्तूरीबिन्दुभिस्सार्धं सिन्दूरबिन्दुशोभिताम् ॥ २६॥ रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् । रत्नकेयूरवलयां रत्नकङ्कणमण्डिताम् ॥ २७॥ सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् । मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ॥ २८॥ मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् । रत्नदर्पणहस्तां च क्रीडापद्मविभूषिताम् ॥ २९॥ चन्दनागुरुकस्तूरीकुङ्कुमेनातिचर्चिताम् । क्वणन्मञ्जीरपादां च रक्ताङ्घ्रितलराजिताम् ॥ ३०॥ प्रणेमुः शिरसा देवीं भक्तियुक्ताः समेनकाम् । सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ॥ ३१॥ त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः । शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ॥ ३२॥ शिवः सर्वं विसस्मार शिवासंन्यस्तलोचनः । पुलकाञ्चितसर्वाङ्गो हर्षाद्गौरीविलोचनः ॥ ३३॥ अथ काली बहिः पुर्या गत्वा पूज्य कुलाम्बिकाम् । विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ॥ ३४॥ शङ्करोऽपि सुरैः सार्धं हरिणा ब्रह्मणा तथा । हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ॥ ३५॥ तत्र सर्वे सुखं तस्थुः सेवन्तः शङ्करं यथा । सम्मानिता गिरीशेन नानाविधसुसम्पदा ॥ ३६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥ २.३.४६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४७. सप्तचत्वारिंशोऽध्यायः । शिवस्यहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनम् ।

ब्रह्मोवाच । ततः शैलवरः सोऽपि प्रीत्या दुर्गोपवीतकम् । कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥ १॥ अथ विष्ण्वादयो देवा मुनयः सकुतूहलम् । हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः ॥ २॥ श्रुत्याचारं भवाचारं विधाय च यथार्थतः । शिवामलङ्कृतां चक्रुः शिवदत्तविभूषणैः ॥ ३॥ प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः । नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥ ४॥ अहताम्बरयुग्मेन शोभिता वरवर्णिनी । विरराज महाशैलदुहिता शङ्करप्रिया ॥ ५॥ कञ्चुकी परमा दिव्या नानारत्नान्विताद्भुता । विधृता च तया देव्या विलसन्त्यधिकं मुने ॥ ६॥ सा बभार तथा हारं दिव्यरत्नसमन्वितम् । वलयानि महार्हाणि शुद्धचामीकराणि च ॥ ७॥ स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् । शुशुभेऽति महाशैलकन्यका त्रिजगत्प्रसूः ॥ ८॥ तदोत्सवो महानासीदुभयत्र मुदावहः । दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥ ९॥ अन्येषां द्रव्यदानं च बभूव विविधं महत् । गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥ १०॥ अथ विष्णुरहं धाता शक्राद्या अमरास्तथा । मुनयश्च महाप्रीत्या निखिलाः सोत्सवा मुदा ॥ ११॥ सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् । सम्प्राप्य हिमगिर्याज्ञां स्वं स्वं स्थानं समाश्रिताः ॥ १२॥ एतस्मिन्नन्तरे तत्र ज्योतिः शास्त्रविशारदः । हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥ १३॥ गर्ग उवाच । हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो । पाणिग्रहार्थं शम्भुं चानय त्वं निजमन्दिरम् ॥ १४॥ ब्रह्मोवाच । अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः । निवेदितं च गर्गेण मुमुदेऽतीव चेतसि ॥ १५॥ महीधरान्द्विजांश्चैव परानपि मुदा गिरिः । प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥ १६॥ ते पर्वता द्विजाश्चैव सर्वमङ्गलपाणयः । सञ्जग्मुः सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥ १७॥ तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा । महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥ १८॥ श्रुत्वा वादित्रनिर्घोषं सर्वे शङ्करसेवकाः । उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥ १९॥ परस्परं समूचुस्ते हर्षनिर्भरमानसाः । अत्रागच्छन्ति गिरयः शिवानयनकाम्यया ॥ २०॥ पाणिग्रहणकालो हि नूनं सद्यः समागतः । महद्भाग्यं हि सर्वेषां सम्प्राप्तमिह मन्महे ॥ २१॥ धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् । द्रक्ष्यामः परमप्रीत्या जगतां मङ्गलालयम् ॥ २२॥ ब्रह्मोवाच । एवं यावदभूत्तेषां संवादस्तत्र चादरात् । तावत्सर्वे समायाताः पर्वतेन्द्रस्य मन्त्रिणः ॥ २३॥ ते गत्वा प्रार्थयाञ्चक्रुः शिवं विष्ण्वादिकानपि । कन्यादानोचितः कालो वर्तते गम्यतामिति ॥ २४॥ ते तच्छ्रुत्वा सुराः सर्वे मुने विष्ण्वादयोऽखिलाः । मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम् ॥ २५॥ शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः । गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥ २६॥ अथ स्नानं कृतं तेन मङ्गलद्रव्यसंयुतम् । शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा ॥ २७॥ स्नातः सुवाससा युक्तः सर्वैस्तैः परिवारितः । आरोपितो वृषस्कन्धे लोकपालैः सुसेवितः ॥ २८॥ पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् । वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥ २९॥ हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः । शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥ ३०॥ बभौ छत्रेण महता ध्रियमाणो हि मूर्धनि । चामरैर्वीज्यमानोऽसौ सवितानो महेश्वरः ॥ ३१॥ अहं विष्णुस्तथा चेन्द्रो लोकपालास्तथैव च । अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥ ३२॥ ततः शङ्खाश्च भेर्यश्च पटहानकगोमुखाः । पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥ ३३॥ तथैव गायकाः सर्वे जगुः परममङ्गलम् । नर्तक्यो ननृतुः सर्वा नानातालसमन्विताः ॥ ३४॥ एभिस्समेतो जगदेकबन्धु- र्ययौ तदानीं परमेशवर्चसा । सुसेव्यमानः सकलैः सुरेश्वरै- र्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥ ३५॥ सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम् । संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः ॥ ३६॥ वृषादुत्तारयामासुर्महेशं पर्वतोत्तमाः । निन्युर्गृहान्तरं प्रीत्या महोत्सवपुरस्सरम् ॥ ३७॥ हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् । प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत् ॥ ३८॥ सर्वान्सुरान्मुनीनन्यान् प्रणम्य समहोत्सवः । सम्मानमकरोत्तेषां प्रशंसन्स्वविधिं मुदा ॥ ३९॥ सोऽगःसाच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् । सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥ ४०॥ प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् । सर्वान्विष्णुं च मामीशं विशिष्टांश्च विशेषतः ॥ ४१॥ सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च । अन्याभिश्च पुरन्ध्रीभिश्चक्रे नीराजनं मुदा ॥ ४२॥ पुरोधसा कृत्यविदा शङ्कराय महात्मने । मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥ ४३॥ मया स नोदितस्तत्र पुरोधाः कृतवांस्तदा । सुमङ्गलं च यत्कर्म प्रस्तावसदृशं मुने ॥ ४४॥ अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा । यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥ ४५॥ वेदिकोपरि तन्वङ्गी संस्थिता सुविराजिता । तत्र नीतो महादेवो विष्णुना च मया सह ॥ ४६॥ लग्नं निरीक्षमाणास्ते वाचस्पतिपुरोगमाः । कन्यादानोचितं तत्र बभूवुः परमोत्सवाः ॥ ४७॥ तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् । यावच्छेषा घटी तावत्कृतं प्रणवभाषणम् ॥ ४८॥ पुण्याहं प्रवदन् गर्गः समादध्रेऽञ्जलिं मुदा । पार्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥ ४९॥ तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः । परमोदारया तत्र पार्वत्या रुचिरास्यया ॥ ५०॥ विलोकयन्ती तं शम्भुं यस्यार्थे परमं तपः । कृतं पुरा महाप्रीत्या विरराज शिवाति सा ॥ ५१॥ मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः । समानर्च शिवां शम्भुः लौकिकाचारसंरतः ॥ ५२॥ एवं परस्परं तौ वै पार्वतीपरमेश्वरौ । अर्चयन्तौ तदानीं च शुशुभाते जगन्मयौ ॥ ५३॥ त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् । तदा नीराजितौ लक्ष्म्यादिभिः स्त्रीभिर्विशेषतः ॥ ५४॥ तथापरा वै द्विजयोषितश्च नीराजयामासुरथो पुरस्त्रियः । शिवां च शम्भुञ्च विलोकयन्त्योऽ- वापुर्मुदं ताः सकला महोत्सवम् ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ २.३.४७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४८. अष्टचत्वारिंशोऽध्यायः । शिवाशिवयोर्विवाहविधिकथनम् ।

ब्रह्मोवाच । एतस्मिन्नन्तरे तत्र गर्गाचार्यप्रणोदितः । हिमवान्मेनया सार्धं कन्यां दातुं प्रचक्रमे ॥ १॥ हैमं कलशमादाय मेना चार्धाङ्गमाश्रिता । हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ॥ २॥ पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः । तं वरं वरयामास वस्त्रचन्दनभूषणैः ॥ ३॥ ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने । प्रयोगो भण्यतां तावदस्मिन्समय आगते ॥ ४॥ तथेति चोक्ता ते सर्वे कालज्ञा द्विजसत्तमाः । तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ॥ ५॥ ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा । सूतीकृतपरेशेन विहसन् शम्भुमब्रवीत् ॥ ६॥ स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा । नाम वेदं तथा शाखां माकार्षीः समयात्ययम् ॥ ७॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य हिमाद्रेः शङ्करस्तदा । सुमुखो विमुखः सद्योऽप्यशोच्यः शोच्यतां गतः ॥ ८॥ एवंविधः सुरवरैर्मुनिभिस्तदानीं गन्धर्वयक्षगणसिद्धगणैस्तथैव । दृष्टो निरुत्तरमुखो भगवान्महेशोऽ- कार्षीस्सुहास्यमथ तत्र स नारद त्वम् ॥ ९॥ वीणामवादयंस्त्वं हि ब्रह्मविज्ञोऽथ नारद । शिवेन प्रेरितस्तत्र मनसा शम्भुमानसः ॥ १०॥ तदा निवारितो धीमान् पर्वतेन्द्रेण वै हठात् । विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा ॥ ११॥ न निवृत्तोऽभवस्त्वं हि स यदा शङ्करेच्छया । इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥ १२॥ सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध । प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ॥ १३॥ नारद उवाच । त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन । वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ॥ १४॥ त्वया पृष्ठो हरः साक्षात्स्वगोत्रकथनं प्रति । समयेऽस्मिंस्तदत्यन्तमुपहासकरं वचः ॥ १५॥ अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत । विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ॥ १६॥ यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता । स एव शङ्करस्तेद्य दृष्टः कालीतपोबलात् ॥ १७॥ अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः । निराकारो निर्विकारी मायाधीशः परात्परः ॥ १८॥ अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः । तदिच्छया हि सगुणः सुतनुर्बहुनामभृत् ॥ १९॥ सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः । पार्वतीतपसा सोऽद्य जामाता ते न संशयः ॥ २०॥ लीलाविहारिणा तेन मोहितं सचराचरम् । नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ॥ २१॥ लिङ्गाकृतेर्महेशस्य केन दृष्टं न मस्तकम् । विष्णुर्गत्वा हि पातालं तदैनं नाप विस्मितः ॥ २२॥ किं बहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया । तदधीनास्त्रयो लोका हरिब्रह्मादयोऽपि च ॥ २३॥ तस्मात्त्वया शिवातात सुविचार्य प्रयत्नतः । न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ॥ २४॥ ब्रह्मोवाच । इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः । प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन् गिरा ॥ २५॥ नारद उवाच । श‍ृणु तात महाशैल शिवाजनक मद्वचः । तच्छ्रुत्वा तनयां देवीं देहि त्वं शङ्कराय हि ॥ २६॥ सगुणस्य महेशस्य लीलया रूपधारिणः । गोत्रं कुलं विजानीहि नादमेव हि केवलम् ॥ २७॥ शिवो नादमयः सत्यं नादः शिवमयस्तथा । उभयोरन्तरं नास्ति नादस्य च शिवस्य च ॥ २८॥ सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः । शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततः स हि ॥ २९॥ अतो हि वादिता वीणा प्रेरितेन मयाद्य वै । सर्वेश्वरेण मनसा शङ्करेण हिमालय ॥ ३०॥ ब्रह्मोवाच । एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः । हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ॥ ३१॥ अथ विष्णुप्रभृतयः सुराश्च मुनयस्तथा । साधु साध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ॥ ३२॥ महेश्वरस्य गाम्भीर्यं ज्ञात्वा सर्वे विचक्षणाः । सविस्मया महामोदान्विताः प्रोचुः परस्परम् ॥ ३३॥ यस्याज्ञया जगदिदं च विशालमेव जातं परात्परतरो निजबोधरूपः । शर्वः स्वतन्त्रगतिकृत्परभावगम्यः सोऽसौ त्रिलोकपतिरद्य च नः सुदृष्टः ॥ ३४॥ अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसम्भ्रमाः । ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ॥ ३५॥ पर्वता ऊचुः । कन्यादाने स्थीयतां चाद्य शैल- नाथोक्त्या किं कार्यनाशस्तवैव । सत्यं ब्रूमो नात्र कार्यो विमर्शः तस्मात्कन्या दीयतामीश्वराय ॥ ३६॥ ब्रह्मोवाच । तच्छ्रुत्वा वचनं तेषां सुहृदां स हिमालयः । स्वकन्यादानमकरोच्छिवाय विधिनोदितः ॥ ३७॥ इमां कन्यां तुभ्यमहं ददामि परमेश्वर । भार्यार्थं परिगृह्णीष्व प्रसीद सकलेश्वर ॥ ३८॥ तस्मै रुद्राय महते मन्त्रेणानेन दत्तवान् । हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ॥ ३९॥ इत्थं शिवाकरं शैलं शिवहस्ते निधाय च । मुमोदातीव मनसि तीर्णकाममहार्णवः ॥ ४०॥ वेदमन्त्रेण गिरिशो गिरिजाकरपङ्कजम् । जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ॥ ४१॥ क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं मुने । पपाठ शङ्करः प्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ४२॥ महोत्सवो महानासीत्सर्वत्र प्रमुदावहः । बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ॥ ४३॥ साधुशब्दं नमः शब्दं चक्रुः सर्वेऽतिहर्षिताः । गन्धर्वाः सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ॥ ४४॥ हिमाचलस्य पौरा हि मुमुदुश्चाति चेतसि । मङ्गलं महदासीद्वै महोत्सवपुरस्सरम् ॥ ४५॥ अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः । हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ॥ ४६॥ अथ शैलवरः सोऽदात्सुप्रसन्नो हिमाचलः । शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम् ॥ ४७॥ ततो बन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः । ददुः शिवाय सद्द्रव्यं नानाविधिविधानतः ॥ ४८॥ हिमालयस्तुष्टमनाः पार्वतीशिवप्रीतये । नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ॥ ४९॥ यौतुकानि ददौ तस्मै रत्नानि विविधानि च । चारुरत्नविकाराणि पात्राणि विविधानि च ॥ ५०॥ गवां लक्षं हयानां च सज्जितानां शतं तथा । दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ॥ ५१॥ नागानां शतलक्षं हि रथानां च तथा मुने । सुवर्णजटितानां च रत्नसारविनिर्मितम् ॥ ५२॥ इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् । शिवाय परमेशाय विधिनाप कृतार्थताम् ॥ ५३॥ अथ शैलवरो माध्यन्दिनोक्तस्तोत्रतो मुदा । तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः ॥ ५४॥ ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा । शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ॥ ५५॥ देवाभिधानमुच्चार्य पर्युक्षणविधिं व्यधुः । महोत्सवस्तदा चासीन्महानन्दकरो मुने ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ २.३.४८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.४९. एकोनपञ्चाशत्तमोऽध्यायः । विवाहसंस्कारकथनं विधिमोहवर्णनञ्च ।

ब्रह्मोवाच । अथो ममाज्ञया विप्रैः संस्थाप्यानलमीश्वरः । होमं चकार तत्रैवमङ्के संस्थाप्य पार्वतीम् ॥ १॥ ऋग्यजुस्साममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः । लाजाञ्जलिं ददौ कालीभ्राता मैनाकसंज्ञकः ॥ २॥ अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा । वह्निप्रदक्षिणां तात लोकाचारं विधाय च ॥ ३॥ तत्राद्भुतमलञ्चक्रे चरितं गिरिजापतिः । तदेव श‍ृणु देवर्षे तवस्नेहाद् ब्रवीम्यहम् ॥ ४॥ तस्मिन्नवसरे चाहं शिवमायाविमोहितः । अपश्यं चरणे देव्या नखेन्दुं च मनोहरम् ॥ ५॥ दर्शनात्तस्य च तदाभूवं देवमुने ह्यहम् । मदनेन समाविष्टोऽतीव क्षुभितमानसः ॥ ६॥ मुहुर्मुहुरपश्यं वै तदङ्गं स्मरमोहितः । ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्भुवि ॥ ७॥ रेतसा क्षरता तेन लज्जितोऽहं पितामहः । मुने व्यमर्दं तच्छिन्नं चरणाभ्यां हि गोपयन् ॥ ८॥ तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद । हन्तुमैच्छत्तदा शीघ्रं मां विधिं काममोहितम् ॥ ९॥ हाहाकारो महानासीत्तत्र सर्वत्र नारद । जनाश्चकम्पिरे सर्वे भयमायाति विश्वभृत् ॥ १०॥ ततस्तं तुष्टुवुः शम्भुं विष्ण्वाद्या निर्जरा मुने । सकोपम्प्रज्वलन्तं च तेजसा हन्तुमुद्यतम् ॥ ११॥ देवा ऊचुः । देवदेव जगद्व्यापिन् परमेश सदाशिव । जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२॥ सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः । निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३॥ आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः । यतोऽव्ययः स नैतानि तत्सत्यम्ब्रह्म चिद्भवान् । १४॥ तवैव चरणाम्भोजं मुक्तिकामा दृढव्रताः । विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ १५॥ त्वं ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् । आनन्दमात्रमव्यग्रमविकारमनात्मकम् ॥ १६॥ विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि । तदपेक्षतयात्मेशोऽनपेक्षः सर्वदा विभुः ॥ १७॥ एकस्त्वमेव सदसद् द्वयमद्वयमेव च । स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १८॥ अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः । तस्माद् भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९॥ धन्या वयं महेशान तव दर्शनमात्रतः । दृढभक्तजनानन्दप्रदः शम्भो दयां कुरु ॥ २०॥ त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् । विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१॥ योऽयं ब्रह्मास्ति रजसा विश्वमूर्तिः पितामहः । त्वत्प्रसादात्प्रभो विष्णुः सत्त्वेन पुरुषोत्तमः ॥ २२॥ कालाग्निरुद्रस्तमसा परमात्मा गुणैः परः । सदा शिवो महेशानःसर्वव्यापी महेश्वरः ॥ २३॥ व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च । त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४॥ महादेव परेशान करुणाकर शङ्कर । प्रसीद देवदेवेश प्रसीद पुरुषोत्तम । २५॥ वासांसि सागराः सप्त दिशश्चैव महाभुजाः । द्यौर्मूर्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६॥ चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो । नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७॥ कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर । वाचामगोचरोऽसि त्वं मनसा चापि शङ्कर ॥ २८॥ पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये । त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९॥ अनिर्देश्याय नित्याय विद्युज्ज्वालाय रूपिणे । अग्निवर्णाय देवाय शङ्कराय नमो नमः ॥ ३०॥ विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् । रूपमास्थाय लोकेऽस्मिन् संस्थिताय नमो नमः ॥ ३१॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः । ब्रह्मणे मे ददौ शीघ्रमभयं भक्तवत्सलः ॥ ३२॥ अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा । अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम् ॥ ३३॥ मम तद्रेतसा तात मर्दितेन मुहुर्मुहुः । अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः ॥ ३४॥ ऋषयो बहवो जाता बालखिल्याः सहस्रशः । कणकैस्तैश्च वीर्यस्य प्रज्वलद्भिः स्वतेजसा ॥ ३५॥ अथ ते ऋषयः सर्वे उपतस्थुस्तदा मुने । ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन् ॥ ३६॥ ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि । बालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा ॥ ३७॥ नारद उवाच । गच्छध्वं सङ्गता यूयं पर्वतं गन्धमादनम् । न स्थातव्यं भवद्भिश्च न हि वोऽत्र प्रयोजनम् ॥ ३८॥ तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः । सूर्यशिष्याः शिवस्यैवाज्ञया मे कथितं त्विदम् ॥ ३९॥ ब्रह्मोवाच । इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् । सत्वरं प्रययुर्नत्वा शङ्करं गन्धमादनम् ॥ ४०॥ विष्ण्वादिभिस्तदाभूवं श्वासितोऽहं मुनीश्वर । निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः ॥ ४१॥ अस्तवं चापि सर्वेशं शङ्करं भक्तवत्सलम् । सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम् ॥ ४२॥ देवदेव महादेव करुणासागर प्रभो । त्वमेव कर्ता सर्वस्य भर्ता हर्ता च सर्वथा ॥ ४३॥ त्वदिच्छया हि सकलं स्थितं हि सचराचरम् । तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः ॥ ४४॥ इत्येवमुक्त्वा सोऽहं वै प्रणामं च कृताञ्जलिः । अन्येऽपि तुष्टुवुः सर्वे विष्ण्वाद्यास्तं महेश्वरम् ॥ ४५॥ अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा । विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः ॥ ४६॥ ददौ सोऽतिवरं मह्यमभयं प्रीतमानसः । सर्वे सुखमतीवापुरत्यामोदमहं मुने ॥ ४७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे विधिमोहवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ २.३.४९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५०. पञ्चाशत्तमोऽध्यायः । विवाहमहोत्सवे स्त्रीविनोदवर्णनम् ।

ब्रह्मोवाच । ततश्चाहं मुनिगणैः शेषकृत्यं शिवाज्ञया । अकार्षं नारद प्रीत्या शिवाशिवविवाहतः ॥ १॥ तयोः शिरोऽभिषेकश्च बभूवादरतस्ततः । ध्रुवस्य दर्शनं विप्राः कारयामासुरादरात ॥ २॥ हृदयालम्भनं कर्म बभूव तदनन्तरम् । स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः ॥ ३॥ शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया । तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह ॥ ४॥ ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ । लेभाते परमां शोभां भक्तचित्तमुदावहाम् ॥ ५॥ ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा । चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने ॥ ६॥ इत्थं निवृत्ते विधिवद्यज्ञे वैवाहिके शिवः । ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः ॥ ७॥ गोदानं विधिवच्छम्भुराचार्याय ददौ ततः । महादानानि च प्रीत्या यानि मङ्गलदानि वै ॥ ८॥ ततः शतसुवर्णं च विप्रेभ्यः स ददौ पृथक् । बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः ॥ ९॥ तदानीममराः सर्वे परे जीवाश्चराचराः । मुमुदुश्चेतसातीव बभूवाति जयध्वनिः ॥ १०॥ मङ्गलध्वनिगानं च बभूव बहु सर्वतः । वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्धनः ॥ ११॥ हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः । गिरिमामन्त्र्य सुप्रीत्या स्वस्थानं प्रययुर्द्रुतम् ॥ १२॥ तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् । शिवाशिवौ समानीय ययुः कुहवरालयम् ॥ १३॥ लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः । महोत्साहो बभूवाथ सर्वतः प्रमुदावहः ॥ १४॥ अथ तास्तौ समानीय दम्पती जनशङ्करौ । वासालयं महादिव्यं भवाचारं व्यधुर्मुदा ॥ १५॥ अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः । निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम् ॥ १६॥ कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् । सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः ॥ १७॥ वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः । प्रशंसन्त्यः स्वभाग्यानि पश्यन्त्यः परमेश्वरम् ॥ १८॥ महासुरूपवेषं च सर्वलावण्यसंयुतम् । नवीनयौवनस्थं च कामनीचित्तमोहनम् ॥ १९॥ ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् । सुसूक्ष्मवासो बिभ्राणं नानारत्नविभूषितम् ॥ २०॥ तदानीं दिव्यनार्यश्च षोडशारं समाययुः । तौ दम्पती च सन्द्रष्टुं महादरपुरस्सरम् ॥ २१॥ सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा । अदितिश्च शची चैव लोपामुद्राप्यरुन्धती ॥ २२॥ अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा । शतरूपा च संज्ञा च रतिरेताः सुरस्त्रियः ॥ २३॥ देवकन्या नागकन्या मुनिकन्या मनोहराः । तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः ॥ २४॥ ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा । तमूचुः क्रमतो देव्यः सुहासं मधुरं वचः ॥ २५॥ सरस्वत्युवाच । प्राप्ता सती महादेवाधुना प्राणाधिका मुदा । दृष्ट्वा प्रियास्यं चन्द्राभं सन्तापं त्यज कामुक ॥ २६॥ कालं गमय कालेश सतीसंश्लेषपूर्वकम् । विश्लेषस्ते न भविता सर्वकालं समाश्रिता ॥ २७॥ लक्ष्मीरुवाच । लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि । तिष्ठ तां प्रति का लज्जा प्राणा यान्ति यया विना ॥ २८॥ सावित्र्युवाच । भोजयित्वा सतीं शम्भो शीघ्रं त्वं भुङ्क्ष्व मा खिदः । तदाचम्य सकर्पूरं ताम्बूलं देहि सादरम् ॥ २९॥ जाह्नव्युवाच । स्वर्णकान्तिकरां धृत्वा केशान्मार्जय योषितः । कामिन्याः स्वामिसौभाग्यसुखं नातः परं भवेत् ॥ ३०॥ अदितिरुवाच । भोजनान्ते शिवे शम्भुं मुखशुद्ध्यर्थमादरात् । जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम् ॥ ३१॥ शच्युवाच । कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि । यो बभ्रामानिशं मोहात् का लज्जा ते प्रियां प्रति ॥ ३२॥ लोपामुद्रोवाच । व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव । दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि ॥ ३३॥ अरुन्धत्युवाच । मया दत्तां सतीम्मेनां तुभ्यं दातुमनीप्सिता । विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि ॥ ३४॥ अहल्योवाच । वृद्धावस्थां परित्यज्य ह्यतीव तरुणो भव । येन मेनानुमन्येत त्वां सुतार्पितमानसा ॥ ३५॥ तुलस्युवाच । सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः । कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ॥ ३६॥ स्वाहोवाच । स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् । विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता ॥ ३७॥ रोहिण्युवाच । कामं पूरय पार्वत्याः कामशास्त्रविशारद । कुरु पारं स्वयं कामी कामिनीकामसागरम् ॥ ३८॥ वसुन्धरोवाच । जानासि भावं भावज्ञ कामार्तानां च योषिताम् । न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम् ॥ ३९॥ शतरूपोवाच । भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः । येन तुष्टिर्भवेच्छम्भो तत्कर्तुमुचितं स्त्रियाः ॥ ४०॥ संज्ञोवाच । तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् । रत्नप्रदीपं ताम्बूलं तल्पं निर्माय निर्जने ॥ ४१॥ ब्रह्मोवाच । स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् । निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः ॥ ४२॥ शङ्कर उवाच । देव्यो न ब्रूत वचनमेवम्भूतं ममान्तिकम् । जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ॥ ४३॥ ब्रह्मोवाच । शङ्करस्य वचः श्रुत्वा लज्जिताः सुरयोषितः । बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ॥ ४४॥ भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः । सकर्पूरं च ताम्बूलं बुभुजे भार्यया सह ॥ ४५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ २.३.५०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५१. एकपञ्चाशत्तमोऽध्यायः । शिवाज्ञयाकामसञ्जीवनप्रकारकथनम् ।

ब्रह्मोवाच । तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः । सुप्रसन्ना च तं प्राह शङ्करं दीनवत्सलम् ॥ १॥ रतिरुवाच । गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् । किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ॥ २॥ जीवयात्र पतिं मे हि कामव्यापारमात्मनि । कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥ ३॥ विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः । अहमेका महेशान दुःखिनी स्वपतिं विना ॥ ४॥ सनाथां कुरु मां देव प्रसन्नो भव शङ्कर । स्वोक्तं सत्यं विधेहि त्वं दीनबन्धो पर प्रभो ॥ ५॥ त्वां विना कः समर्थोऽत्र त्रैलोक्ये सचराचरे । नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥ ६॥ सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्दप्रदायिनी । सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥ ७॥ जीविते मम नाथे हि पार्वत्या प्रियया सह । सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥ ८॥ सर्वं कर्तुं समर्थोऽसि यतस्त्वं परमेश्वरः । किं बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥ ९॥ ब्रह्मोवाच । तदित्युक्त्वा कामभस्म ददौ सग्रन्थिबन्धनम् । रुदोद पुरतः शम्भोर्नाथ नाथेत्युदीर्य च ॥ १०॥ रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः । रुरुदुः सकला देव्यः प्रोचुर्दीनतरं वचः ॥ ११॥ देव्य ऊचुः । भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥ कामं जीवय सोत्साहां रतिं कुरु नमोऽस्तु ते ॥ १२॥ ब्रह्मोवाच । इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः । कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥ १३॥ सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः । तद्रूपवेषचिह्नात्मा सुन्दरोऽद्भुतमूर्तिमान् ॥ १४॥ तद्रूपश्च तदाकारं सस्मितं सधनुशरम् । दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ॥ १५॥ कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः । प्राणनाथप्रदं पत्या जीवितेन पुनः पुनः ॥ १६॥ कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः । प्रसन्नोऽभवदत्यन्तमुवाच करुणार्द्रधीः ॥ १७॥ शङ्कर उवाच । प्रसन्नोऽहं तव स्तुत्या सनारीकस्य चित्तज । स्वयम्भव वरं ब्रूहि वाञ्छितं तद् ददामि ते ॥ १८॥ ब्रह्मोवाच । इति शम्भुवचः श्रुत्वा महानन्दः स्मरस्ततः । उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा ॥ १९॥ काम उवाच । देवदेव महादेव करुणासागर प्रभो । यदि प्रसन्नः सर्वेश ममानन्दकरो भव ॥ २०॥ क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो । स्वजनेषु परां प्रीतिं भक्तिं देहि स्वपादयोः ॥ २१॥ ब्रह्मोवाच । इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरः । ओमित्युक्त्वाब्रवीत्तं वै विहसन्करुणानिधिः ॥ २२॥ ईश्वर उवाच । हे कामाहं प्रसन्नोऽस्मि भयं त्यज महामते । गच्छ विष्णुसमीपं च बहिःस्थाने स्थितो भव ॥ २३॥ ब्रह्मोवाच । तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् । बहिर्गत्वा हरिन्देवान् प्रणम्य समुपास्त सः ॥ २४॥ कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् । विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ॥ २५॥ देवा ऊचुः । धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः । जीवयामास सत्त्वांशकृपादृष्ट्याखिलेश्वरः ॥ २६॥ सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् । काले रक्षा विवाहश्च निषेकः केन वार्यते ॥ २७॥ ब्रह्मोवाच । इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा । सन्तस्थुस्तत्र विष्ण्वाद्याः सर्वे लब्धमनोरथाः ॥ २८॥ सोऽपि प्रमुदितस्तत्र समुवास शिवाज्ञया । जयशब्दो नमः शब्दः साधुशब्दो बभूव ह ॥ २९॥ ततः शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् । मिष्टान्नं भोजयामास तं च सा च मुदान्विता ॥ ३०॥ अथ शम्भुर्भवाचारी तत्र कृत्यं विधाय तत् । मेनामामन्त्र्य शैलं च जनवासं जगाम सः ॥ ३१॥ महोत्सवस्तदा चासीद् वेदध्वनिरभून्मुने । वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ॥ ३२॥ शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा । हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ॥ ३३॥ जयशब्दो बभूवाथ नमश्शब्दस्तथैव च । वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ॥ ३४॥ अथ विष्णुरहं शक्रः सर्वे देवाश्च सर्षयः । सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ॥ ३५॥ देवा ऊचुः । जय शम्भोऽखिलाधार जय नाम महेश्वर । जय रुद्र महादेव जय विश्वम्भर प्रभो ॥ ३६॥ जय कालीपते स्वामिन् जयानन्दप्रवर्धक । जय त्र्यम्बक सर्वेश जय मायापते विभो ॥ ३७॥ जय निर्गुण निष्काम कारणातीत सर्वग । जय लीलाखिलाधार धृतरूप नमोऽस्तु ते ॥ ३८॥ जय स्वभक्तसत्कामप्रदेश करुणाकर । जय सानन्दसद्रूप जय मायागुणाकृते ॥ ३९॥ जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे । जयाविकार मायेश वाङ्मनोऽतीतविग्रह ॥ ४०॥ ब्रह्मोवाच । इति स्तुत्वा महेशानं गिरिजानायकं प्रभुम् । सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ॥ ४१॥ अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः । ददौ मानवरं तेषां सर्वेषां तत्र नारद ॥ ४२॥ विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञां परमेशितुः । अतिहृष्टाः प्रसन्नास्याः स्वस्थानं जग्मुरादृताः ॥ ४३॥ इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसञ्जीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ २.३.५१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५२. द्विपञ्चाशत्तमोऽध्यायः । हिमालयगृहेवरपक्षीयभोजनवर्णनम् ।

ब्रह्मोवाच । अथ शैलवरस्तात हिमवान्भाग्यसत्तमः । प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ॥ १॥ मार्जनं लेपनं सम्यक्कारयामास तस्य सः । स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥ २॥ अथ शैलः सुरान् सर्वानन्यानपि च सेश्वरान् । भोजनायाह्वयामास पुत्रैः शैलैः परैरपि ॥ ३॥ शैलाह्वानमथाकर्ण्य स प्रभुः साच्युतो मुने । सर्वैःसुरादिभिस्तत्र भोजनाय ययौ मुदा ॥ ४॥ गिरिः प्रभुं च सर्वांस्तान् सुसत्कृत्य यथाविधि । मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥ ५॥ नानासुभोज्यवस्तूनि परिवेष्य च तत्पुनः । साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः ॥ ६॥ अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः । सदाशिवं पुरस्कृत्य बुभुजुः सकलाश्च ते ॥ ७॥ तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः । पङ्क्तिभूताश्च बुभुजुर्विहसन्तः पृथक्पृथक् ॥ ८॥ नन्दिभृङ्गिवीरभद्रवीरभद्रगणाः पृथक् । बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥ ९॥ देवाः सेन्द्रा लोकपाला नानाशोभासमन्विताः । बुभुजुस्ते महाभागा नानाहास्यरसैस्सह ॥ १०॥ सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा । बुभुजुः प्रीतितः सर्वे पृथक् पङ्क्तिगतास्तदा ॥ ११॥ तथा चण्डीगणाः सर्वे बुभुजुः कृतभोजनाः । कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा ॥ १२॥ एवं ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः । विश्रामार्थं गताः प्रीत्या विष्ण्वाद्याः स्वं स्वमाश्रमम् ॥ १३॥ मेनाज्ञया स्त्रियः साध्व्यः शिवं सम्प्रार्थ्य भक्तितः । गेहे निवासयामासुर्वासाख्ये परमोत्सवे ॥ १४॥ रत्नसिंहासने शम्भुः मेनादत्ते मनोहरे । सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम् ॥ १५॥ रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया । रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम् ॥ १६॥ रत्नदर्पणशोभाढ्यं मण्डितं श्वेतचामरैः । मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत् ॥ १७॥ अनौपम्यं महादिव्यं विचित्रं सुमनोहरम् । चित्ताह्लादकरं नानारचनारचितस्थलम् ॥ १८॥ शिवदत्तवरस्यैव प्रभावमतुलं परम् । दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ॥ १९॥ नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् । चन्दनागरुसंयुक्तं पुष्पशय्यासमन्वितम् ॥ २०॥ नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा । रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ॥ २१॥ कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् । कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ॥ २२॥ कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् । कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ॥ २३॥ एतादृशं गृहं सर्वं दृष्ट्वाश्चर्यं महेश्वरः । प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ॥ २४॥ तत्रातिरमणीये च रत्नपर्यङ्क उत्तमे । अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ॥ २५॥ हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः । सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ॥ २६॥ एवं कुर्वति शैलेशे स्वपिति प्रेष्ठ ईश्वरे । व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥ २७॥ अथ प्रभातकाले च धृत्युत्साहपरायणाः । नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥ २८॥ सर्वे सुराःसमुत्तस्थुर्विष्ण्वाद्याः सुमुदान्विताः । स्वेष्टं संस्मृत्य देवेशं सज्जीभूताः ससम्भ्रमाः ॥ २९॥ स्ववाहनानि सज्जानि कैलासं गन्तुमुत्सुकाः । कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ॥ ३०॥ वासगेहमथागत्य धर्मो नारायणाज्ञया । उवाच शङ्करं योगी योगीशं समयोचितम् ॥ ३१॥ धर्म उवाच । उत्तिष्ठोत्तिष्ठ भद्रं ते भव नः प्रमथाधिप । जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ॥ ३२॥ ब्रह्मोवाच । इति धर्मवचः श्रुत्वा विजहास महेश्वरः । ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ॥ ३३॥ उवाच विहसन् धर्मं त्वमग्रे गच्छ तत्र ह । अहमप्यागमिष्यामि द्रुतमेव न संशयः ॥ ३४॥ ब्रह्मोवाच । इत्युक्तः शङ्करेणाथ जनावासं जगाम सः । स्वयं गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः ॥ ३५॥ तज्ज्ञात्वा स्त्रीगणः सोऽसौ तत्रागच्छन्महोत्सवः । चक्रे मङ्गलगानं हि पश्यन् शम्भुपदद्वयम् ॥ ३६॥ अथ शम्भुर्भवाचारी प्रातःकृत्यं विधाय च । मेनामामन्त्र्य कुध्रं च जनावासं जगाम सः ॥ ३७॥ महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने । वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ॥ ३८॥ शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा । हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ॥ ३९॥ जयशब्दो बभूवाथ नमः शब्दस्तथैव च । वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ २.३.५२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५३. त्रिपञ्चाशत्तमोऽध्यायः । वधूवरयोः यात्राप्रस्थानवर्णनम् ।

ब्रह्मोवाच । अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः । कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १॥ ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः । पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २॥ तत्र प्रभुं प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा । कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैः सह ॥ ३॥ विलोकनेन ते शम्भो कृतार्थोऽहं न संशयः । धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैः सह ॥ ४॥ ब्रह्मोवाच । इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च । प्रभुं निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५॥ अथ ते मनसा गत्वा शिव संयुतमादरात् । प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६॥ देवा ऊचुः । धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी । त्वत्समो न त्रिलोकेषु कोऽपि पुण्यतमो जनः ॥ ७॥ यस्य द्वारि महेशानः परब्रह्म सतां गतिः । समागतः सदासैश्च कृपया भक्तवत्सलः ॥ ८॥ जनावासोऽतिरम्यश्च सम्मानो विविधः कृतः । भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९॥ चित्रं न खलु तत्रास्ति यत्र देवी शिवाम्बिका । परिपूर्णमशेषं च वयं धन्या यदागताः ॥ १०॥ ब्रह्मोवाच । इत्थं परस्परं तत्र प्रशंसाभवदुत्तमा । उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११॥ अभून्मङ्गलगानं च ननर्ताप्सरसाङ्गणः । नुतिं चक्रुर्मागधाद्या द्रव्यदानमभूद् बहु ॥ १२॥ तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः । भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३॥ भोजनार्थं प्रभुं प्रीत्यानयामास यथोचितम् । परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४॥ प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् । सर्वेषाममराणां च मुनीनां च यथार्थतः ॥ १५॥ परेषां च गतानां च गिरीशो मण्डपान्तरे । आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६॥ सुरसैर्विविधान्नैश्च तर्पयामास तान् गिरिः । बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७॥ तदानीं पुरनार्यश्च गालीदानं व्यधुर्मुदा । मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८॥ ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद । स्वस्थानं प्रययुः सर्वे मुदितास्तृप्तिमागताः ॥ १९॥ इत्थं तृतीये घस्त्रेऽपि मानितास्तेऽभवन्मुने । गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ २०॥ चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः । बभूव विधिवद्येन विना खण्डित एव सः ॥ २१॥ उत्सवो विविधश्चासीत्साधुवादजयध्वनिः । बहुदानं सुगानं च नर्तनं विविधं तथा ॥ २२॥ पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः । विज्ञप्तिं चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३॥ तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः । कियद्दिनानि तिष्ठन्तु कृपां कुर्वन्तु मां सुराः ॥ २४॥ इत्युक्त्वा स्नेहतस्ताँश्च प्रभुं विष्णुं च मां परान् । वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २५॥ इत्थं व्यतीयुर्दिवसा बहवो वसतां च तत् । सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततः सुराः ॥ २६॥ ते तं सम्बोधयामासुर्मेनां च समयोचितम् । शिवतत्त्वं परं प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७॥ अङ्गीकृतं गिरीशेन तत्तद्बोधनतो मुने । यात्रार्थमगमच्छम्भुः शैलेशं सामरादिकः ॥ २८॥ यात्रां कुर्वति देवेशे स्वशैलं सामरे शिवे । उच्चैः रुदोद सा मेना तमुवाच कृपानिधिम् ॥ २९॥ मेनोवाच । कृपानिधे कृपां कृत्वा शिवां सम्पालयिष्यसि । सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥ ३०॥ त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि । स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुं विना ॥ ३१॥ त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता । त्वन्निन्दया भवेन्मौना मृत्युञ्जय मृता इव ॥ ३२॥ ब्रह्मोवाच । इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतां तदा । अत्युच्चै रोदनं कृत्वा मूर्च्छामाप तयोः पुरः ॥ ३३॥ अथ मेनां बोधयित्वा तामामन्त्र्य गिरिं तथा । चकार यात्रां देवैश्च महोत्सवपुरस्सरम् ॥ ३४॥ अथ ते निर्जराः सर्वे प्रभुणा स्वगणैः सह । यात्रां प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥ ३५॥ हिमाचलपुरीबाह्योपवने हर्षिताः सुराः । सेश्वराः सोत्सवास्तस्थुः पर्यैषन्त शिवागमम् ॥ ३६॥ इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर । आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ २.३.५३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५४. चतुःपञ्चाशत्तमोऽध्यायः । पतिव्रताधर्मवर्णनम् ।

ब्रह्मोवाच । अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् । कारय स्वात्मजादेव्या यात्रामद्योचितां गिरे ॥ १॥ इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहं परम् । विषण्णोऽभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥ २॥ कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः । तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥ ३॥ शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने । मेना संयापयामास कर्तुमासीत्समुद्यता ॥ ४॥ श्रुतिस्वकुलजाचारं चचार विधिवन्मुने । उत्सवं विविधं तत्र सा मेना क्षितिभृत्प्रिया ॥ ५॥ गिरिजां भूषयामास नानारत्नांशुकैर्वरैः । द्वादशाभरणैश्चैव श‍ृङ्गारैर्नृपसम्मितैः ॥ ६॥ मेनामनोगतिं बुद्ध्वा साध्व्येका द्विजकामिनी । गिरिजां शिक्षयामास पातिव्रत्यव्रतं परम् ॥ ७॥ द्विजपत्न्युवाच । गिरिजे श‍ृणु सुप्रीत्या मद्वचो धर्मवर्धनम् । इहामुत्रानन्दकरं श‍ृण्वतां च सुखप्रदम् ॥ ८॥ धन्या पतिव्रता नारी नान्या पूज्या विशेषतः । पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥ ९॥ सेवते या पतिं प्रेम्णा परमेश्वरवच्छिवे । इह भुक्त्वाखिलान् भोगानन्ते पत्या शिवां गतिम् ॥ १०॥ पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती । शाण्डिल्या शतरूपानसूया लक्ष्मीः स्वधा सती ॥ ११॥ संज्ञा च सुमतिः श्रद्धा मेना स्वाहा तथैव च । अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तारजाद्भयात् ॥ १२॥ पातिव्रत्यवृषेणैव ता गताः सर्वपूज्यताम् । ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥ १३॥ सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः । दीनानुग्रहकर्ता च सर्वसेव्यः सतां गतिः ॥ १४॥ महान्पतिव्रताधर्मः श्रुतिस्मृतिषु नोदितः । यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥ १५॥ भुञ्ज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा । तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥ १६॥ स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः । सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥ १७॥ अनलङ्कृतमात्मानं दर्शयेन्न क्वचिच्छिवे । कार्यार्थं प्रोषिते तस्मिन् भवेन्मण्डनवर्जिता ॥ १८॥ पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता । आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥ हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु । १९॥ आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् । सत्वरं साञ्जलिः प्रीत्या सुप्रणम्य वदेदिति ॥ २०॥ किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् । तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥ २१॥ चिरं तिष्ठेन्न च द्वारे गच्छेन्नैव परालये । आदाय तत्त्वं यत्किञ्चित्कस्मैचिन्नार्पयेत्क्वचित् ॥ २२॥ पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् । प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥ २३॥ न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् । दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥ २४॥ तीर्थार्थिनी तु या नारी पतिपादोदकं पिबेत् । तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५॥ भुञ्ज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् । महाप्रसाद इत्युक्त्वा पतिदत्तं पतिव्रता ॥ २६॥ अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि । परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ २७॥ संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । भवेत्सा सर्वदा देवी पतिव्रतपरायणा ॥ २८॥ कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् । अन्यथा तत्फलं नास्ति परत्र नरकं व्रजेत् ॥ २९॥ सुखपूर्वं सुखासीनं रममाणं यदृच्छया । आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥ ३०॥ क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव च । सुखितं दुःखितं वापि पतिमेकं न लङ्घयेत् ॥ ३१॥ स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ॥ ३२॥ सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् । अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥ ३३॥ हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम् । कूर्पासकं च ताम्बूलं माङ्गल्याभरणादिकम् ॥ ३४॥ केशसंस्कारकबरीकरकर्णादिभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥ ३५॥ न रजक्या न बन्धक्या तथा श्रमणया न च । न च दुर्भगया क्वापि सखित्वं कारयेत् क्वचित् ॥ ३६॥ पतिविद्वेषिणीं नारीं न सा सम्भाषयेत् क्वचित् । नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ॥ ३७॥ नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि । न यन्त्रके न देहल्यां सती च प्रवसेत् क्वचित् ॥ ३८॥ विना व्यवायसमयं प्रागल्भ्यं नाचरेत् क्वचित् । यत्र यत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ॥ ३९॥ हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया । पतिव्रता भवेद्देवी सदा पतिहितैषिणी ॥ ४०॥ एकरूपा भवेत्पुण्या सम्पत्सु च विपत्सु च । विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्यधारिणी ॥ ४१॥ सर्पिर्लवणतैलादिक्षयेऽपि च पतिव्रता । पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ॥ ४२॥ विधेर्विष्णोर्हराद्वापि पतिरेकोऽधिको मतः । पतिव्रताया देवेशि स्वपतिश्शिव एव च ॥ ४३॥ व्रतोपवासनियमं पतिमुल्लङ्घ्य याचरेत् । आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ ४४॥ उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा । सरमा जायते ग्रामे श‍ृगाली निर्जने वने ॥ ४५॥ उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ । न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ॥ ४६॥ अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् । गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ॥ ४७॥ बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः । ताम्बूलैर्वसनैश्चापि पादसंवाहनादिभिः ॥ ४८॥ तथैव चाटुवचनैः खेदसन्नोदनैः परैः । या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ॥ ४९॥ मितं ददाति जनको मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं पूजयेत्सदा ॥ ५०॥ भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च । तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ॥ ५१॥ या भर्तारं परित्यज्य रहश्चरति दुर्मतिः । उलूकी जायते क्रूरा वृक्षकोटरशायिनी ॥ ५२॥ ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका । कटाक्षयति यान्यं वै केकराक्षी तु सा भवेत् ॥ ५३॥ या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् । ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ॥ ५४॥ या तुं कृत्य प्रियं ब्रूयान् मूका सा जायते खलु । या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनः पुनः ॥ ५५॥ दृष्टिं विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते । काणा च विमुखी चापि कुरूपापि च जायते ॥ ५६॥ जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् । भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा ॥ ५७॥ सा धन्या जननी लोके स धन्यो जनकः पिता । धन्यःस च पतिर्यस्य गृहे देवी पतिव्रता ॥ ५८॥ पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः । पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुञ्जते ॥ ५९॥ शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिता ॥ ६०॥ पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् । तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ॥ ६१॥ विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि । सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥ ६२॥ आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा । अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः ॥ ६३॥ भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये ॥ ६४॥ गृहे गृहे न किं नार्यो रूपलावण्यगर्विताः । परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ ६५॥ परलोकस्त्वयं लोको जीयते भार्यया द्वयम् । देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥ ६६॥ गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता । ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ॥ ६७॥ यथा गङ्गावगाहेन शरीरं पावनं भवेत् । तथा पतिव्रतां दृष्ट्वा सकलं पावनं भवेत् ॥ ६८॥ न गङ्गाया तया भेदो या नारी पतिदेवता । उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ॥ ६९॥ तारः पतिः श्रुतिर्नारी क्षमा सा स स्वयं तपः । फलं पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥ ७०॥ एवं पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे । तद्भेदान् श‍ृणु सुप्रीत्या सावधानतयाद्य मे ॥ ७१॥ चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः । उत्तमादिविभेदेन स्मरतां पापहारिकाः ॥ ७२॥ उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका । ब्रुवे तासां लक्षणानि सावधानतया श‍ृणु ॥ ७३॥ स्वप्नेऽपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् । नान्यं परपतिं भद्रे उत्तमा सा प्रकीर्तिता ॥ ७४॥ या पितृभ्रातृसुतवत् परं पश्यति सद्धिया । मध्यमा सा हि कथिता शैलजे वै पतिव्रता ॥ ७५॥ बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न । निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ॥ ७६॥ पत्युः कुलस्य च भयाद्व्यभिचारं करोति न । पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ॥ ७७॥ चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः । पावनाः सर्वलोकानामिहामुत्रापि हर्षिताः ॥ ७८॥ पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् । जीवितो विप्र एको हि मृतो वाराहशापतः ॥ ७९॥ एवं ज्ञात्वा शिवे नित्यं कर्तव्यं पतिसेवनम् । त्वया शैलात्मजे प्रीत्या सर्वकामप्रदं सदा ॥ ८०॥ जगदम्बा महेशी त्वं शिवः साक्षात्पतिस्तव । तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ॥ ८१॥ त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् । तथापि कथितं मेऽद्य जगदाचारतः शिवे ॥ ८२॥ ब्रह्मोवाच । इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् । शिवां मुदमतिप्राप पार्वती शङ्करप्रिया ॥ ८३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ २.३.५४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे

२.३.५५. पञ्चपञ्चाशत्तमोऽध्यायः । शिवयोः कैलासगमनवर्णनम् ।

ब्रह्मोवाच । अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतं च तत् । प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ॥ १॥ तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा । धृतिं धृत्वाहूय कालीं विश्लेषविरहाकुला ॥ २॥ अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः । पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥ ३॥ शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता । मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥ ४॥ सर्वाश्च रुरुदुर्नार्यः सर्वमासीदचेतनम् । स्वयं रुरोद योगीशो गच्छन्कोऽन्य परः प्रभुः ॥ ५॥ एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः । स सर्वतनयैस्तत्र सचिवैश्च द्विजैः परैः ॥ ६॥ स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि । क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥ ७॥ ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् । सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८॥ ननाम पार्वती भक्त्या मातरं पितरं गुरुम् । महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ॥ ९॥ पार्वत्या रोदनेनैव रुरुदुः सर्वयोषितः । नितरां जननी मेना यामयो भ्रातरस्तथा ॥ १०॥ पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः । भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥ ११॥ तदा विप्राः समागत्य बोधयामासुरादरात् । लग्नं निवेदयामासुर्यात्रायाः सुखदं परम् ॥ १२॥ ततो हिमालयो मेनां धृत्वा धैर्यं विवेकतः । शिबिकामानयामास शिवारोहणहेतवे ॥ १३॥ शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् । आशिषं प्रददुः सर्वाः पिता माता द्विजास्तथा ॥ १४॥ महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा । नानाद्रव्यसमूहं च परेषां दुर्लभं शुभम् ॥ १५॥ शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा । द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥ १६॥ हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः । प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥ १७॥ प्रीत्याभिरेभिरे सर्वे महोत्सवपुरस्सरम् । प्रभुं प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥ १८॥ जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद । लीलया त्वां च देवेशि सदा प्राणप्रिया मम ॥ १९॥ ब्रह्मोवाच । इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती । शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥ २०॥ पार्वत्युवाच । सर्वं स्मरामि प्राणेश मौनीभूतो भवेति च । प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥ २१॥ ब्रह्मोवाच । इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् । मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः ॥ २२॥ शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् । भोजयामास देवांश्च नारायणपुरोगमान् ॥ २३॥ तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् । भोजयामास सुरसमन्नं बहुविधं प्रभुः ॥ २४॥ ततो भुक्त्वा च ते देवा नानारत्नविभूषिताः । सस्त्रीकाः सगणाः सर्वे प्रणेमुश्चन्द्रशेखरम् ॥ २५॥ संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः । प्रशंसन्तो विवाहं च स्वधामानि ययुस्ततः ॥ २६॥ नारायणं मुने मां च प्रणनाम शिवःस्वयम् । लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥ २७॥ मयाश्लिष्याशिषं दत्त्वा शिवस्य पुनरग्रतः । मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥ २८॥ तमामन्त्र्य मया विष्णुः साञ्जलिः शिवयोर्मुदा । प्रशंसंस्तद्विवाहं च जगाम स्वालयं परम् ॥ २९॥ शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन् मुदा । सर्वे गणाः सुखं प्रापुरतीव स्वभजन् शिवौ ॥ ३०॥ इत्येवं कथितस्तात शिवोद्वाहः सुमङ्गलः । शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥ ३१॥ य इमं श‍ृणुयान्नित्यं शुचिस्तद्गतमानसः । श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥ ३२॥ इदमाख्यानमाख्यातमद्भुतं मङ्गलायनम् । सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३३॥ यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरं परम् । सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥ ३४॥ अपमृत्युप्रशमनं महाशान्तिकरं शुभम् । सर्वदुःस्वप्नशमनं बुद्धिप्रज्ञादिसाधनम् ॥ ३५॥ शिवोत्सवेषु सर्वेषु पठितव्यं प्रयत्नतः । शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥ ३६॥ पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः । शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥ ३७॥ श‍ृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् । सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥ ३८॥ इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ २.३.५५॥ ॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां तृतीयः पार्वतीखण्डः समाप्तः ॥ २.३॥
% Text title            : Shivapuranam 2.3 rudrasaMhitA pArvatIkhaNDaH
% File name             : shivapurANam2rudrasaMhitA3pArvatIkhaNDaH.itx
% itxtitle              : shivapurANam 2\.3 (rudrasaMhitAyAM pArvatIkhaNDaH)
% engtitle              : shivapurANam 2.3 rudrasaMhitA pArvatIkhaNDaH)
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org