श्रीशिवमहापुराणम् २३ रुद्रसंहितायां पार्वतीखण्डः
॥ श्रीः ॥
॥ श्रीसाम्बसदाशिवार्पणमस्तु ॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
॥ द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१. प्रथमोऽध्यायः । हिमाचलविवाहवर्णनम् ।
नारद उवाच ।
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ।
कथं गिरिसुता ब्रह्मन् बभूव जगदम्बिका ॥ १॥
कथं कृत्वा तपोऽत्युग्रं पतिमाप शिवं च सा ।
एतन्मे पृच्छते सम्यक् कथय त्वं विशेषतः ॥ २॥
ब्रह्मोवाच ।
शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।
पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३॥
यदा दाक्षायणी देवी हरेण सहिता मुदा ।
हिमाचले सुचिक्रीडे लीलया परमेश्वरी ॥ ४॥
मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ।
हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५॥
यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ।
पित्रा दक्षेण तद्यज्ञे सङ्गता परमेश्वरी ॥ ६॥
तदैव मेनका तां सा हिमाचलप्रिया मुने ।
शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७॥
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।
त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८॥
समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ।
सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ॥ ९॥
नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम् ।
नारदस्योपदेशाद्वै पतिं प्राप शिवं पुनः ॥ १०॥
नारद उवाच ।
ब्रह्मन् विधे महाप्राज्ञ वद मे वदतां वर ।
मेनकायाः समुत्पत्तिं विवाहचरितं तथा ॥ ११॥
धन्या हि मेनका देवी यस्यां जाता सुता सती ।
अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२॥
ब्रह्मोवाच ।
शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम् ।
विवाहं चरितं चैव पावनं भक्तिवर्धनम् ॥ १३॥
अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ।
पर्वतो हि मुनिश्रेष्ठ महातेजाः समृद्धिभाक् ॥ १४॥
द्वैरूप्यं तस्य विख्यातं जङ्गमस्थिरभेदतः ।
वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५॥
पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ।
नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६॥
नानावृक्षसमाकीर्णो नानाशृङ्गसुचित्रितः ।
सिंहव्याघ्रादिपशुभिः सेवितः सुखिभिः सदा ॥ १७॥
तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ।
देवर्षिसिद्धमुनिभिः संश्रितः शिवसम्प्रियः ॥ १८॥
तपःस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ।
तपस्सिद्धिप्रदोऽत्यन्तं नानाधात्वाकरः शुभः ॥ १९॥
स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ।
विष्ण्वंशोऽविकृतः शैलराजराजः सतां प्रियः ॥ २०॥
कुलस्थित्यै च स गिरिर्धर्मवर्द्धनहेतवे ।
स्वविवाहं कर्तुमैच्छत्पितृदेवहितेच्छया ॥ २१॥
तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ।
ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२॥
देवा ऊचुः
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।
कर्तव्यं तत्तथैवाशु देवकार्येप्सवो यदि ॥ २३॥
मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ।
तां विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४॥
एवं सर्वमहालाभः सर्वेषां च भविष्यति ।
युष्माकममराणां च दुःखहानिः पदे पदे ॥ २५॥
ब्रह्मोवाच ।
इत्याकर्ण्यामरवचः पितरस्ते विमृश्य च ।
स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ॥ २६॥
ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ।
समुत्सवो महानासीत्तद्विवाहे सुमङ्गले ॥ २७॥
हर्यादयोऽपि ते देवा मुनयश्चापरेऽखिलाः ।
आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ॥ २८॥
उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ।
सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम् ॥ २९॥
महामोदान्विता देवास्ते सर्वे समुनीश्वराः ।
सञ्जग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ॥ ३०॥
यौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ।
आजगाम स्वभवनं मुदमाप गिरीश्वरः ॥ ३१॥
ब्रह्मोवाच ।
मेनया हि हिमागस्य सुविवाहो मुनीश्वर ।
प्रोक्तो मे सुखदः प्रीत्या किं भूयः श्रोतुमिच्छसि ॥ ३२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोऽध्यायः ॥ २.३.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२. द्वितीयोऽध्यायः । मेनकादीनां सनकादिभ्यः शापप्राप्तिः ।
नारद उवाच ।
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ।
अपि शापं समाचक्ष्व कुरु सन्देहभञ्जनम् ॥ १॥
ब्रह्मोवाच ।
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ।
मुनिभिः सह वक्ष्येऽहं सुतवर्य महाबुध ॥ २॥
दक्षनामा मम सुतो यः पुरा कथितो मुने ।
तस्य जाताः सुताः षष्टिप्रमिताः सृष्टिकारणाः ॥ ३॥
तासां विवाहमकरोत्स वरैः कश्यपादिभिः ।
विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद ॥ ४॥
तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ।
तिस्रोऽभवन्सुतास्तस्याः सुभगा धर्ममूर्तयः ॥ ५॥
तासां नामानि शृणु मे पावनानि मुनीश्वर ।
सदा विघ्नहराण्येव महामङ्गलदानि च ॥ ६॥
मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती ।
अन्त्या एताः सुताः सर्वाः पितॄणां मानसोद्भवाः ॥ ७॥
अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः ।
आसां प्रोच्य सुनामानि सर्वान्कामान् जनो लभेत् ॥ ८॥
जगद्वन्द्याः सदा लोकमातरः परमोददाः ।
योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ॥ ९॥
एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ।
श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे ॥ १०॥
कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ।
तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ॥ ११॥
तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ।
गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ॥ १२॥
सनकाद्यान्मुनीन् दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ।
तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ॥ १३॥
तिस्रो भगिन्यस्तास्तत्र नोत्तस्थुर्मोहिता मुने ।
मायया दैवविवशाः शङ्करस्य परात्मनः ॥ १४॥
मोहिनी सर्वलोकानां शिवमाया गरीयसी ।
तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ॥ १५॥
प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ।
शिवेच्छया भवत्येव नात्र कार्या विचारणा ॥ १६॥
भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम् ।
विस्मिताः सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ॥ १७॥
तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ।
ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ॥ १८॥
शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ।
सनत्कुमारो योगीशः शापं दण्डकरं ददत् ॥ १९॥
सनत्कुमार उवाच ।
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ।
अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ॥ २०॥
अभ्युत्थानं कृतं नो यो नमस्कारोऽपि गर्विताः ।
मोहिता नरभावत्वात्स्वर्गाद् दूरा भवन्तु हि ॥ २१॥
नरस्त्रियः सम्भवन्तु तिस्रोऽप्य ज्ञानमोहिताः ।
स्वकर्मणः प्रभावेण लभध्वं फलमीदृशम् ॥ २२॥
ब्रह्मोवाच ।
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ।
पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ॥ २३॥
पितृतनया ऊचुः
मुनिवर्य दयासिन्धो प्रसन्नो भव चाधुना ।
त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ॥ २४॥
प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ।
अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिं पुनः ॥ २५॥
ब्रह्मोवाच
श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ।
शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ॥ २६॥
सनत्कुमार उवाच
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ।
वचनं मम शोकघ्नं सुखदं सर्वदैव वः ॥ २७॥
विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ।
ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ॥ २८॥
धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ।
तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति ॥ २९॥
वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ।
भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः ॥ ३०॥
मेनका योगिनी पत्या पार्वत्याश्च वरेण च ।
तेन देहेन कैलासं गमिष्यति परं पदम् ॥ ३१॥
धन्या च सीतया सीरध्वजो जनकवंशजः ।
जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति ॥ ३२॥
कलावती वृषभानस्य कौतुकात्कन्यया सह ।
जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ॥ ३३॥
विना विपत्तिं महिमा केषां कुत्र भविष्यति ।
सुकर्मिणां गते दुःखे प्रभवेद् दुर्लभं सुखम् ॥ ३४॥
पितृणां तनयाः यूयं सर्वाः स्वर्गविलासिकाः ।
कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात् ॥ ३५॥
इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः ।
शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम् ॥ ३६॥
अपरं शृणुत प्रीत्या मद्वचः सुखदं सदा ।
धन्या यूयं शिवप्रीता मान्या पूज्या ह्यभीक्ष्णशः ॥ ३७॥
मेनायास्तनया देवी पार्वती जगदम्बिका ।
भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम् ॥ ३८॥
धन्यासुता स्मृता सीता रामपत्नी भविष्यति ।
लौकिकाचारमाश्रित्य रामेण विहरिष्यति ॥ ३९॥
कलावतीसुता राधा साक्षाद् गोलोकवासिनी ।
गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ॥ ४०॥
ब्रह्मोवाच ।
इत्थमाभाष्य स मुनिर्भ्रातृभिः सह संस्तुतः ।
सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत् ॥ ४१॥
तिस्रो भगिन्यस्तास्तात पितृणां मानसीः सुताः ।
गतपापाः सुखं प्राप्य स्वधाम प्रययुर्द्रुतम् ॥ ४२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २.३.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३. तृतीयोऽध्यायः । विष्ण्वादिदेवैः कृता शिवस्तुतिः ।
नारद उवाच ।
विधे प्राज्ञ महाधीमन्वद मे वदतां वर ।
ततः परं किमभवच्चरितं विष्णुसद्गुरोः ॥ १॥
अद्भुतेयं कथा प्रोक्ता मेनापूर्वगतिः शुभा ।
विवाहश्च श्रुतः सम्यक् परमं चरितं वद ॥ २॥
मेनां विवाह्य स गिरिः कृतवान् किं ततः परम् ।
पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका ॥ ३॥
तपः सुदुस्सहं कृत्वा कथं प्राप पतिं हरम् ।
एतत्सर्वं समाचक्ष्व विस्तराच्छाङ्करं यशः ॥ ४॥
ब्रह्मोवाच ।
मुने त्वं शृणु सुप्रीत्या शाङ्करं सुयशः शुभम् ।
यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात् ॥ ५॥
यदा मेनाविवाहं तु कृत्वागच्छद्गिरिर्गृहम् ।
तदा समुत्सवो जातस्त्रिषु लोकेषु नारद ॥ ६॥
हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम् ।
भूसुरान् बन्धुवर्गांश्च परानानर्च सद्धिया ॥ ७॥
सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् ।
ययुस्तस्मै स्वस्वधाम बन्धुवर्गास्तथापरे ॥ ८॥
हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे ।
रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि ॥ ९॥
तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः ।
मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके ॥ १०॥
दृष्ट्वा तानागतान्देवान्प्रणनाम मुदा गिरिः ।
सम्मानं कृतवान् भक्त्या प्रशंसन् स्वविधिं महान् ॥ ११॥
साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः ।
रोमोद्गमो महानासीद्गिरेः प्रेमाश्रवोऽपतन् ॥ १२॥
ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः ।
उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान् ॥ १३॥
हिमाचल उवाच ।
अद्य मे सफलं जन्म सफलं सुमहत्तपः ।
अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः ॥ १४॥
धन्योऽहमद्य सञ्जातो धन्या मे सकला क्षितिः ।
धन्यं कुलं तथा दाराः सर्वं धन्यं न संशयः ॥ १५॥
यतः समागता यूयं मिलित्वा सर्व एकदा ।
मां निदेशयत प्रीत्योचितं मत्वा स्वसेवकम् ॥ १६॥
ब्रह्मोवाच ।
इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा ।
ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः ॥ १७॥
देवा ऊचुः ।
हिमाचल महाप्राज्ञ शृण्वस्मद्वचनं हितम् ।
यदर्थमागताः सर्वे तद् ब्रूमः प्रीतितो वयम् ॥ १८॥
या पुरा जगदम्बोमा दक्षकन्याभवद्गिरे ।
रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि ॥ १९॥
पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती ।
जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका ॥ २०॥
सा कथा विदिता लोके तवापि हिमभूधर ।
एवं सति महालाभो भवेद्देवगणस्य हि ॥ २१॥
सर्वस्य भवतश्चापि स्युः सर्वे ते वशाः सुराः । २२॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः ।
तथास्त्विति प्रसन्नात्मा प्रोवाच न च आदरात् ॥ २३॥
अथ ते च समादिश्य तद्विधिं परमादरात् ।
स्वयं जग्मुश्च शरणमुमायाः शङ्करस्त्रियः ॥ २४॥
सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् ।
प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः ॥ २५॥
देवा ऊचुः ।
देव्युमे जगतामम्ब शिवलोकनिवासिनि ।
सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि ॥ २६॥
श्रीशक्तिं पावनां शान्तां पुष्टिं परमपावनीम् ।
वयं नमामहे भक्त्या महदव्यक्तरूपिणीम् ॥ २७॥
शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ।
अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥ २८॥
त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ।
त्वं दीधितिस्सूर्यगता स्वप्रपञ्चप्रकाशिनी ॥ २९॥
या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ।
आप्याययति ब्रह्मादितृणान्तं तां नमामहे ॥ ३०॥
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ।
त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ॥ ३१॥
निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि ।
तृष्णा कान्तिश्छविस्तुष्टिः सर्वानन्दकरी सदा ॥ ३२॥
त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ।
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ॥ ३३॥
त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् ।
त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ॥ ३४॥
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।
ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ॥ ३५॥
समस्तगीर्वाणगणस्य शक्ति-
स्तमोमयी धातृगुणैकदृश्या ।
रजः प्रपञ्चात्तु भवैकरूपा
या नः श्रुता भव्यकरी स्तुतेह ॥ ३६॥
संसारसागरकरालभवाङ्गदुःख-
निस्तारकारितरणिं च निवीतहीनाम् ।
अष्टाङ्गयोगपरिपालनकेलिदक्षां
विन्ध्यागवासनिरतां प्रणमाम तां वै ॥ ३७॥
नासाक्षिवक्त्रभुजवक्षसि मानसे च
धृत्या सुखानि वितनोति सदैव जन्तोः ।
निद्रेति याति सुभगा जगती भवानां
सा नः प्रसीदतु भवस्थितिपालनाय ॥ ३८॥
ब्रह्मोवाच ।
इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् ।
सुप्रेममनसः सर्वे तस्थुस्ते दर्शनेप्सवः ॥ ३९॥
इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवस्तुतिर्नाम तृतीयोऽध्यायः ॥ २.३.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४. चतुर्थोऽध्यायः । शिवेन देवानां सान्त्वनम् ।
ब्रह्मोवाच ।
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ।
आविर्बभूव देवानां पुरतो जगदम्बिका ॥ १॥
रथे रत्नमये दिव्ये संस्थिता परमाद्भुते ।
किङ्किणीजालसंयुक्ते मृदुसंस्तरणे वरे ॥ २॥
कोटिसूर्याधिकाभासरम्यावयवभासिनी ।
स्वतेजोराशिमध्यस्था वररूपासमच्छविः ॥ ३॥
अनूपमा महामाया सदाशिवविलासिनी ।
त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ॥ ४॥
त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी ।
सर्वमाता महानिद्रा सर्वस्वजनतारिणी ॥ ५॥
तेजोराशेः प्रभावात्तु सा तु दृष्टा सुरैश्शिवा ।
तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकाङ्क्षिणः ॥ ६॥
अथ देवगणाः सर्वे विष्ण्वाद्या दर्शनेप्सवः ।
ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ॥ ७॥
बभूवानन्दसन्दोहः सर्वेषां त्रिदिवौकसाम् ।
पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ॥ ८॥
देवा ऊचुः ।
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ।
त्वां नताः सर्वथा देवा वयं सर्वार्तिनाशिनीम् ॥ ९॥
न हि जानन्ति देवेशि वेदाः शास्त्राणि कृत्स्नशः ।
अतीतो महिमा ध्यानं तव वाङ्मनसोः शिवे ॥ १०॥
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ।
अभिधत्ते श्रुतिरपि परेषां का कथा मता ॥ ११॥
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।
शरणागतभक्तानां न कुत्रापि भयादिकम् ॥ १२॥
विज्ञप्तिं शृणु सुप्रीता यस्या दासाः सदाम्बिके ।
तव देवि महादेवि हीनतो वर्णयामहे ॥ १३॥
पुरा दक्षसुता भूत्वा सञ्जाता हरवल्लभा ।
ब्रह्मणश्च परेषां वानाशयत्त्वमकं महत् ॥ १४॥
पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ।
स्वलोकमगमस्त्वं वालभद्दुखं हरोऽपि हि ॥ १५॥
न हि जातं प्रपूर्णं तद्देवकार्यं महेश्वरि ।
व्याकुला मुनयो देवाः शरणं त्वां गता वयम् ॥ १६॥
पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ।
सनत्कुमारवचनं सफलं स्याद्यथा शिवे ॥ १७॥
अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव ।
लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जराः सुखम् ॥ १८॥
सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ।
सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ॥ १९॥
ब्रह्मोवाच ।
इति प्रोच्यामराः सर्वे विष्ण्वाद्याः प्रेमसङ्कुलाः ।
मौनमास्थाय सन्तस्थुर्भक्तिनम्रात्ममूर्तयः ॥ २०॥
शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ।
आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ॥ २१॥
उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ।
विहस्य मापतिमुखान् सदया भक्तवत्सला ॥ २२॥
उमोवाच
हे हरे हे विधे देवा मुनयश्च गतव्यथाः ।
सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः ॥ २३॥
चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ।
कृतं मयैवं सकलं दक्षमोहादिकं च तत् ॥ २४॥
अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ।
बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ॥ २५॥
पुरा हिमाचलो देवा मेना चातिसुभक्तितः ।
सेवां मे चक्रतुस्तातजननीवत्सतीतनोः ॥ २६॥
इदानीं कुरुतः सेवां सुभक्त्या मम नित्यशः ।
मेना विशेषतस्तत्र सुतात्वे नात्र संशयः ॥ २७॥
रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे ।
अतश्चावतरिष्यामि दुःखनाशो भविष्यति ॥ २८॥
सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ।
अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम् ॥ २९॥
हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ।
अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी ॥ ३०॥
यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ।
पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता ॥ ३१॥
तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः ।
दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ॥ ३२॥
मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती ।
अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः ॥ ३३॥
योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ।
न सेहे विरहं सत्या मद्रूपाया महेश्वरः ॥ ३४॥
मम हेतोर्महादुःखी स बभूव कुवेषभृत् ।
अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ॥ ३५॥
अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ।
महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ॥ ३६॥
विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ।
न शान्तिं प्राप कुत्रापि प्रबुद्धोऽप्येक एव सः ॥ ३७॥
इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ।
योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ॥ ३८॥
इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः ।
ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ॥ ३९॥
वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ।
परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ॥ ४०॥
अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ।
विकारेणापि केनाशु मायालिप्तो न स प्रभुः ॥ ४१॥
रुद्रोऽतीवेच्छति विभुः स मे कर्तुं करग्रहम् ।
अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ॥ ४२॥
अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ।
हिमागपत्न्यां मेनायां लौकिकीं गतिमाश्रिता ॥ ४३॥
भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् ।
देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ॥ ४४॥
गच्छत स्वगृहं सर्वे भवं भजत नित्यशः ।
तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः ॥ ४५॥
भविष्यति कृपालोस्तु कृपया मङ्गलं सदा ।
वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ॥ ४६॥
ब्रह्मोवाच ।
इत्युक्त्वा जगदम्बा सा देवानां पश्यतां तदा ।
अन्तर्दधे शिवा तात स्वं लोकं प्राप वै द्रुतम् ॥ ४७॥
विष्ण्वादयः सुराः सर्वे मुनयश्च मुदान्विताः ।
कृत्वा तद्दिशि सन्नामं स्वस्वधामानि संययुः ॥ ४८॥
इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ।
सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ॥ ४९॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
पठेद्वा पाठयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥ २.३.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५. पञ्चमोऽध्यायः । मेनकया वरप्राप्तिः ।
नारद उवाच ।
अन्तर्हितायां देव्यां तु दुर्गायां स्वगृहेषु च ।
गतेष्वमरवृन्देषु किमभूत्तदनन्तरम् ॥ १॥
कथं मेनागिरीशौ च तेपाते परमं तपः ।
कथं सुताभवत्तस्य मेनायां तात तद्वद ॥ २॥
ब्रह्मोवाच
विप्रवर्य सुतश्रेष्ठ शृणु तच्चरितं महत् ।
प्रणम्य शङ्करं भक्त्या वच्मि भक्तिविवर्धनम् ॥ ३॥
उपदिश्य गते तात सुरवृन्दे गिरीश्वरः ।
हर्यादौ मेनका चापि तेपाते परमं तपः ॥ ४॥
अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती ।
सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा ॥ ५॥
गिरिप्रियातीव मुदानर्च देवीं शिवेन सा ।
दानं ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे ॥ ६॥
चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् ।
शिवां सम्पूजयामासापत्यार्थिन्यन्वहं रता ॥ ७॥
अष्टम्यामुपवासं तु कृत्वादान्नवमीतिथौ ।
मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ॥ ८॥
गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ।
उमायाः पूजयामास नानावस्तुसमर्पणैः ॥ ९॥
कदाचित्सा निराहारा कदाचित्सा धृतव्रता ।
कदाचित्पवनाहारा कदाचिज्जलभुघ्यभूत् ॥ १०॥
शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् ।
निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा ॥ ११॥
सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ।
सुप्रीताभवदत्यर्थमुमा शङ्करकामिनी ॥ १२॥
अनुग्रहाय मेनायाः पुरतः परमेश्वरी ।
आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः ॥ १३॥
दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा ।
उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता ॥ १४॥
देव्युवाच ।
वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ।
सुप्रसन्ना च तपसा तवाहं गिरिकामिनि ॥ १५॥
यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना ।
दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत् ॥ १६॥
ततःसा मेनका देवीं प्रत्यक्षां कालिकां तदा ।
दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत् ॥ १७॥
मेनोवाच
देवि प्रत्यक्षतो रूपं दृष्टं तव मयाधुना ।
त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके ॥ १८॥
ब्रह्मोवाच
अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी ।
बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे ॥ १९॥
ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् ।
तुष्टाव वाग्भिरिष्टाभिर्भक्त्या प्रत्यक्षतां गताम् ॥ २०॥
मेनोवाच ।
महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् ।
प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥ २१॥
नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ।
प्रणमामि सदा सिद्धां शुभसारसमालिनीम् ॥ २२॥
मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ।
आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥ २३॥
सा त्वं बन्धच्छेदहेतुर्यतीनां
कस्ते गेयो मादृशीभिः प्रभावः ।
हिंसां या वाथर्ववेदस्य सा त्वं
नित्यं कामं त्वं ममेष्टं विधेहि ॥ २४॥
नित्यानित्यैर्भावहीनैः परास्तै-
स्तत्तन्मात्रैर्योज्यते भूतवर्गः ।
तेषां शक्तिस्त्वं सदा नित्यरूपा
काले योषा योगयुक्ता समर्था ॥ २५॥
योनिर्धरित्री जगतां त्वमेव
त्वमेव नित्या प्रकृतिः परस्तात् ।
यया वशं क्रियते ब्रह्मरूपं
सा त्वं नित्या मे प्रसीदाद्य मातः ॥ २६॥
त्वं जातवेदोगतशक्तिरुग्रा
त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहुचन्द्रिका या
तां त्वामहं स्तौमि नमामि चण्डीम् ॥ २७॥
योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां माया च त्वं यथा हरेः ॥ २८॥
या चेष्टरूपाणि विधाय देवी
सृष्टिस्थितिर्नाशमयी च कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुः
सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २९॥
ब्रह्मोवाच
तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि ।
उवाच मेनकां देवीं वाञ्छितं वरयेत्युत ॥ ३०॥
उमोवाच
प्राणप्रिया मम त्वं हि हिमाचलविलासिनि ।
यदिच्छसि ध्रुवं दास्ये नादेयं विद्यते मम ॥ ३१॥
इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः ।
उवाच परितुष्टा सा मेनका गिरिकामिनी ॥ ३२॥
मेनोवाच
शिवे जय जय प्राज्ञे महेश्वरि भवाम्बिके ।
वरयोग्यास्म्यहं चेत्ते वृणे भूयो वरं वरम् ॥ ३३॥
प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके ।
बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः ॥ ३४॥
पश्चात्तथैका तनया स्वरूपगुणशालिनी ।
कुलद्वयानन्दकरी भुवनत्रयपूजिता ॥ ३५॥
सुता भव मम शिवे देवकार्यार्थमेव हि ।
रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके ॥ ३६॥
ब्रह्मोवाच
तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः ।
स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम् ॥ ३७॥
देव्युवाच ।
शतपुत्राः सम्भवन्तु भवत्या वीर्यसंयुताः ।
तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति ॥ ३८॥
सुताहं सम्भविष्यामि सन्तुष्टा तव भक्तितः ।
देवकार्यं करिष्यामि सेविता निखिलैः सुरैः ॥ ३९॥
ब्रह्मोवाच
एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी ।
पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा ॥ ४०॥
मेनकापि वरं लब्ध्वा महेशान्या अभीप्सितम् ।
मुदं प्रापामितां तात तपःक्लेशोऽप्यनश्यत ॥ ४१॥
दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनाः सती ।
जयशब्दं प्रोच्चरन्ती स्वस्थानं प्रविवेश ह ॥ ४२॥
अथ तस्मै स्वपतये शशंस सुवरं च तम् ।
स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया ॥ ४३॥
श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत् ।
प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम् ॥ ४४॥
कालक्रमेणाथ तयोः प्रवृत्ते सुरते मुने ।
गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः ॥ ४५॥
असूत सा नागवधूपभोग्यं सुतमुत्तमम् ।
समुद्रबद्धसत्सख्यं मैनाकाभिधमद्भुतम् ॥ ४६॥
वृत्रशत्रावपि क्रुद्धे वेदनाज्ञं सपक्षकम् ।
पविक्षतानां देवर्षे पक्षच्छिदि वराङ्गकम् ॥ ४७॥
प्रवरं शतपुत्राणां महाबलपराक्रमम् ।
स्वोद्भवानां महीध्राणां पर्वतेन्द्रैकधिष्ठितम् ॥ ४८॥
आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्भुतः ।
दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसङ्क्षयः ॥ ४९॥
दानं ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम् ।
शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः ॥ ५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनावरलाभवर्णनं नाम पञ्चमोऽध्यायः ॥ २.३.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.६. षष्ठोऽध्यायः । पार्वतिजन्मवर्णनम् ।
ब्रह्मोवाच
अथ सस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ।
प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥ १॥
ततः सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ।
ईहया भवितुं भूयः समैच्छद् गिरिदारतः ॥ २॥
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ।
पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥ ३॥
विरराज ततः सोऽति प्रमदोऽपूर्वसुद्युतिः ।
हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥ ४॥
ततो गिरिः स्वप्रियायां परिपूर्णं शिवांशकम् ।
समाधिमत्वात्समये समधत्त सुशङ्करे ॥ ५॥
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ।
चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥ ६॥
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ।
विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥ ७॥
सुखोदयं स्वभर्तुश्च मेना दौर्हृदलक्षणम् ।
दधौ निदानं देवानामानन्दस्येप्सितं शुभम् ॥ ८॥
देहसादादसम्पूर्णभूषणा लोध्रसम्मुखा ।
स्वल्पभेन्दुक्षयेकासौ विचेष्यर्क्षा विभावरी ॥ ९॥
तदाननं मृत्सुरभि नायं तृप्तिं गिरीश्वरः ।
मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥ १०॥
मेना स्पृहावती केषु न मे शंसति वस्तुषु ।
किञ्चिदिष्टं ह्रियापृच्छदनुवेलं सखीर्गिरिः ॥ ११॥
उपेत्य दौर्हृदं शैल्यं यद्वव्रेऽपश्यदाशु तत् ।
आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवेऽपि हि ॥ १२॥
प्रचीयमानावयवा निस्तीर्य दौर्हृदव्यथाम् ।
रेजे मेना बाललता नद्धपत्राधिका यथा ॥ १३॥
गिरिः सगर्भां महिषीममंस्त धरणीमिव ।
निधानगर्भामभ्यन्तर्लीनवह्निशमीमिव ॥ १४॥
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ।
समुन्नतेः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः ॥ १५॥
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ।
अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥ १६॥
दृष्ट्वा प्रियां शुभाङ्गीं वै मुमोदाति गिरीश्वरः ।
गर्भस्थजगदम्बां हि महातेजोवतीं तदा ॥ १७॥
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ।
मुनयश्च समागम्य गर्भस्थां तुष्टुवुः शिवाम् ॥ १८॥
देवा ऊचुः
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ।
सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९॥
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ।
सत्यवक्त्रे सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ २०॥
शिवप्रिये महेशानि देवदुःखक्षयङ्करि ।
त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१॥
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ।
सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥ २२॥
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ।
त्वां विना न हि किञ्चिद्वै शोभते त्रिभवेष्वपि ॥ २३॥
ब्रह्मोवाच
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ।
प्रसन्नमनसो देवाः स्वं स्वं धाम ययुस्तदा ॥ २४॥
व्यतीते नवमे मासे दशमे मासि पूर्णतः ।
गर्भस्था सा गतिं दध्रे कालिका जगदम्बिका ॥ २५॥
तदा सुसमयश्चासीच्छान्तभग्रहतारकः ।
नभः प्रसन्नतां यातं प्रकाशः सर्वदिक्षु हि ॥ २६॥
मही मङ्गलभूयिष्ठा सवनग्रामसागरा ।
सरःस्रवन्तीवापीषु पुफुल्लुः पङ्कजानि वै ॥ २७॥
ववुश्च विविधा वाताः सुखस्पर्शा मुनीश्वर ।
मुमुदुः साधवः सर्वेऽसतां दुःखमभूद् द्रुतम् ॥ २८॥
दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः ।
पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ॥ २९॥
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा ।
तदोत्सवो महानासीद्देवादीनां नभःस्थले ॥ ३०॥
तस्मिन्नवसरे देवी पूर्वशक्तिः शिवा सती ।
आविर्बभूव पुरतो मेनाया निजरूपतः ॥ ३१॥
वसन्तर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ।
अर्धरात्रे समुत्पन्ना गङ्गेव शशिमण्डलात् ॥ ३२॥
समये तत्स्वरूपेण मेनकाजठराच्छिवा ।
समुद्धूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ ३३॥
ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः ।
अनुकूलो ववौ वायुर्गम्भीरो गन्धयुक् शुभः ॥ ३४॥
बभूव पुष्पवृष्टिश्च तोयवृष्टिपुरस्सरम् ।
जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ॥ ३५॥
तस्यां तु जायमानायां सर्वस्वं समपद्यत ।
हिमवन्नगरे तत्र सर्वं दुःखं क्षयं गतम् ॥ ३६॥
तस्मिन्नवसरे तत्र विष्ण्वाद्याः सकलाः सुराः ।
आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम् ॥ ३७॥
तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् ।
दिव्यरूपां महामायां शिवलोकनिवासिनीम् ॥ ३८॥।
देवा ऊचुः
जगदम्ब महादेवि सर्वसिद्धिविधायिनि ।
देवकार्यकरी त्वं हि सदातस्त्वां नमामहे ॥ ३९॥
सर्वथा कुरु कल्याणं देवानां भक्तवत्सले ।
मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ॥ ४०॥
ब्रह्मोवाच
इत्थं स्तुत्वा शिवां देवा विष्ण्वाद्याः सुप्रणम्य ताम् ।
स्वं स्वं धाम ययुः प्रीताः शंसन्तस्तद्गतिं पराम् ॥ ४१॥
तां तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम ।
श्यामां सा मेनका देवीं मुदमायाति नारद ॥ ४२॥
दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया ।
विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता ॥ ४३॥
मेनोवाच
जगदम्ब महेशानि कृतातिकरुणा त्वया ।
आविर्भूता मम पुरो विलसन्ती यदम्बिके ॥ ४४॥
त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे ।
शिवप्रिया सदा देवि सर्वदेवस्तुता परा ॥ ४५॥
कृपां कुरु महेशानि मम ध्यानस्थिता भव ।
एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम् ॥ ४६॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः ।
प्रत्युवाच शिवा देवी सुप्रसन्ना गिरिप्रियाम् ॥ ४७॥
देव्युवाच
हे मेने त्वं पुरा मां च सुसेवितवती रता ।
त्वद्भक्त्या सुप्रसन्नाहं वरं दातुं गतान्तिकम् ॥ ४८॥
वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः ।
सुता भव महादेवि सा मे देवहितं कुरु ॥ ४९॥
तथा दत्त्वा वरं तेऽहं गता स्वं पदमादरात् ।
समयं प्राप्य तनयाभवं ते गिरिकामिनि ॥ ५०॥
दिव्यरूपं धृतं मेऽद्य यत्ते मत्स्मरणं भवेत् ।
अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ॥ ५१॥
युवां मां पुत्रिभावेन दिव्यभावेन वासकृत् ।
चिन्तयन्तौ कृतस्नेहौ यातास्थो मद्गतिं पराम् ॥ ५२॥
देवकार्यं करिष्यामि लीलां कृत्वाद्भुतां क्षितौ ।
शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान् ॥ ५३॥
ब्रह्मोवाच ।
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्ममायया ।
पश्यन्त्यां मातरि प्रीत्या सद्योऽभूत्तनयातनुः ॥ ५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्ठोऽध्यायः ॥ २.३.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.७. सप्तमोऽध्यायः । पार्वत्या बाललीला ।
ब्रह्मोवाच ।
ततो मेनापुरः सा वै सुता भूत्वा महाद्युतिः ।
चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ॥ १॥
अरिष्टशय्यां परितः सद्विसारिसुतेजसा ।
निशीथदीपा विहतत्विष आसन्नरं मुने ॥ २॥
श्रुत्वा तद् रोदनं रम्यं गृहस्थाः सर्वयोषितः ।
जहृषुः सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ॥ ३॥
तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ।
पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ॥ ४॥
तच्छुद्धान्तःचरायाशु पुत्रीजन्म सुशंसते ।
सितातपत्रं नादेयमासीत्तस्य महीभृतः ॥ ५॥
गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ।
ददर्श तनयां तां तु शोभमानां सुभाससा ॥ ६॥
नीलोत्पलदलश्यामां सुद्युतिं सुमनोरमाम् ।
दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ॥ ७॥
सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ।
तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ॥ ८॥
बभूव मङ्गलं गानं ननृतुर्वारयोषितः ।
दानं ददौ द्विजातिभ्यो जातकर्म विधाय च ॥ ९॥
अथ द्वारं समागत्य चकार सुमहोत्सवम् ।
हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणं ददौ ॥ १०॥
अथो शुभमुहूर्तेऽस्मिन् हिमवान्मुनिभिः सह ।
नामाकरोत्सुतायास्तु कालीत्यादि सुखप्रदम् ॥ ११॥
दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ।
उत्सवं कारयामास विविधं गानपूर्वकम् ॥ १२॥
इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ।
लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ॥ १३॥
तत्र सा ववृधे देवी गिरिराजगृहे शिवा ।
गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका ॥ १४॥
एवं सा कालिका देवी चार्वङ्गी चारुदर्शना ।
दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ॥ १५॥
कुलोचितेन नाम्ना तां पार्वतीत्याजुहाव ह ।
बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ॥ १६॥
उमेति मात्रा तपसे निषिद्धा कालिका च सा ।
पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ॥ १७॥
दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ।
अपत्ये पार्वतीत्याख्ये सर्वसौभाग्यसंयुते ॥ १८॥
मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ।
विशेषसङ्गा भवति सहकारे मुनीश्वर ॥ १९॥
पूतो विभूषितश्चापि स बभूव तया गिरिः ।
संस्कारवत्यैव गिरा मनीषीव हिमालयः ॥ २०॥
प्रभामहत्या शिखयेव दीपो भवनस्य च ।
त्रिमार्गयेव सन्मार्गस्तद्वद् गिरिजया गिरिः ॥ २१॥
कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता च सा ।
गङ्गासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ॥ २२॥
अथ देवी शिवा सा चोपदेशसमये मुने ।
पपाठ विद्याः सुप्रीत्या यतचित्ता च सद्गुरोः ॥ २३॥
प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ।
हंसालिः स्वर्णदीं नक्तमात्मभासो महौषधिम् ॥ २४॥
इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ।
अन्यलीलां प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने ॥ २५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनं नाम सप्तमोऽध्यायः ॥ २.३.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.८. अष्टमोऽध्यायः । नारदहिमालयसंवादः ।
ब्रह्मोवाच ।
एकदा त्वं शिवज्ञानी शिवलीलाविदां वरः ।
हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥ १॥
दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद ।
आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥ २॥
पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः ।
साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः ॥ ३॥
हिमालय उवाच ।
हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो ।
सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥ ४॥
मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् ।
कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५॥
ब्रह्मोवाच ।
इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा ।
विलोक्य कालिकाहस्तं सर्वाङ्गं च विशेषतः ॥ ६॥
अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारदः ।
ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥ ७॥
नारद उवाच ।
एषा ते तनया मेने सुधांशोरिव वर्धिता ।
आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ८॥
स्वपतेः सुखदात्यन्तं पित्रोः कीर्तिविवर्धिनी ।
महासाध्वी च सर्वासु महानन्दकरी सदा ॥ ९॥
सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे ।
एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः ॥ १०॥
योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः ।
अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥ ११॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्ते हि सत्यं मत्वा च दम्पती ।
मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥ १२॥
शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका ।
लक्षणैस्तं शिवं मत्वा जहर्षाति मुने हृदि ॥ १३॥
न मृषा नारदवचस्त्विति सञ्चिन्त्य सा शिवा ।
स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥ १४॥
उवाच दुखितः शैलस्त्वां तदा हृदि नारद ।
कमुपायं मुने कुर्यामतिदुःखमभूदिति ॥ १५॥
तच्छ्रुत्वा त्वं मुने प्रात्थ महाकौतुककारकः ।
हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः ॥ १६॥
नारद उवाच ।
स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि ।
कररेखा ब्रह्मलिपिर्न मृषा भवति ध्रुवम् ॥ १७॥
तादृशोऽस्याः पतिः शैल भविष्यति न संशयः ।
तत्रोपायं शृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम् ॥ १८॥
तादृशोऽस्ति वरः शम्भुः लीलारूपधरः प्रभुः ।
कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः ॥ १९॥
प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः ।
रविपावकगङ्गानां तत्र ज्ञेया निदर्शना ॥ २०॥
तस्माच्छिवाय कन्यां स्वां शिवां देहि विवेकतः ।
शिवः सर्वेश्वरः सेव्योऽविकारी प्रभुरव्ययः ॥ २१॥
शीघ्रप्रसादः स शिवः तां ग्रहीष्यत्यसंशयम् ।
तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः ॥ २२॥
सर्वथा सुसमर्थो हि स शिवः सकलेश्वरः ।
कुलिशस्यापि विध्वंसी ब्रह्माधीनः सुखप्रदः ॥ २३॥
ब्रह्मोवाच
इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने ।
शैलराजमवोचो हि हर्षयन्वचनैः शुभैः ॥ २४॥
भाविनी दयिता शम्भोः सानुकूला सदा हरे ।
महासाध्वी सुव्रता च पित्रोः सुखविवर्धिनी ॥ २५॥
शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी ।
स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति ॥ २६॥
एतयोः सदृशं प्रेम न कस्याप्येव तादृशम् ।
भूतं वा भविता वापि नाधुना च प्रवर्तते ॥ २७॥
अनयोः सुरकार्याणि कर्तव्यानि मृतानि च ।
यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः ॥ २८॥
अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः ।
भविष्यति तथा हर्षदिनयोर्मिलितं पुनः ॥ २९॥
शरीरार्धं हरस्यैषा हरिष्यति सुता तव ।
तपः प्रभावात्सन्तोष्य महेशं सकलेश्वरम् ॥ ३०॥
स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम् ।
विद्युद्गौरतमा चेयं तव पुत्री भविष्यति ॥ ३१॥
गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति ।
सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा ॥ ३२॥
नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम ।
इदं चोपांशु देवानां न प्रकाश्यं कदाचन ॥ ३३॥
ब्रह्मोवाच
इति तस्य वचः श्रुत्वा देवर्षे तव नारद ।
उवाच हिमवान्वाक्यं मुने त्वां वाग्विशारदः ॥ ३४॥
हिमालय उवाच
हे मुने नारद प्राज्ञ विज्ञप्तिं काञ्चिदेव हि ।
करोमि तां शृणु प्रीत्यातस्त्वं प्रमुदमावह ॥ ३५॥
श्रूयते त्यक्तसङ्गः स महादेवो यतात्मवान् ।
तपश्चरति सन्नित्यं देवानामप्यगोचरः ॥ ३६॥
स कथं ध्यानमार्गस्थः परब्रह्मार्पितं मनः ।
भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् ॥ ३७॥
अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् ।
सदाशिवाख्यं स्वं रूपं निर्विकारमजात्परम् ॥ ३८॥
निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम् ।
अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते ॥ ३९॥
इति स श्रूयते नित्यं किन्नराणां मुखान्मुने ।
इहागतानां सुप्रीत्या किं तन्मिथ्यावचो ध्रुवम् ॥ ४०॥
विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः ।
समयं कृतवान्पूर्वं तन्मया गदितं शृणु ॥ ४१॥
न त्वामृतेऽन्यां वरये दाक्षायणि सती प्रिये ।
भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ॥ ४२॥
इति सत्या समं तेन पुरैव समयः कृतः ।
तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति ॥ ४३॥
ब्रह्मोवाच
इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव ।
तदाकर्ण्याथ देवर्षे त्वं प्रावोचः सुतत्त्वतः ॥ ४४॥
नारद उवाच
न वै कार्या त्वया चिन्ता गिरिराज महामते ।
एषा तव सुता काली दक्षजा ह्यभवत्पुरा ॥ ४५॥
सतीनामाभवत्तस्याः सर्वमङ्गलदं सदा ।
सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत् ॥ ४६॥
पितुर्यज्ञे तथा प्राप्यानादरं शङ्करस्य च ।
तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती ॥ ४७॥
पुनःसैव समुत्पन्ना तव गेहेऽम्बिका शिवा ।
पार्वती हरपत्नीयं भविष्यति न संशयः ॥ ४८॥
एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने ।
पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम् ॥ ४९॥
तं सर्वं पूर्ववृत्तान्तं काल्या मुनिमुखाद्गिरिः ।
श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥ ५०॥
ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा ।
लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना ॥ ५१॥
करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः ।
मूर्ध्नि शश्वत्तथाघ्राय स्वासनान्ते न्यवेशयत् ॥ ५२॥
ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने ।
हर्षयन् गिरिराजं च मेनकां तनयैः सह ॥ ५३॥
सिंहासनं तु किन्त्वस्याः शैलराज भवेदतः ।
शम्भोरूरौ सदैतस्या आसनं तु भविष्यति ॥ ५४॥
हरेरूर्वासनं प्राप्य तनया तव सन्ततम् ।
न यत्र कस्यचिद् दृष्टिर्मानसं वा गमिष्यति ॥ ५५॥
ब्रह्मोवाच
इति वचनमुदारं नारद त्वं गिरीशं
त्रिदिवमगम उक्त्वा तत्क्षणादेव प्रीत्या ।
गिरिपतिरपि चित्ते चारुसम्मोदयुक्तः
स्वगृहमगमदेवं सर्वसम्पत्समृद्धम् ॥ ५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥ २.३.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.९. नवमोऽध्यायः । पित्रोः पार्वत्यै शिवाराधानोपदेशः तस्याः स्वप्ने शिवस्याविर्भावश्च ।
नारद उवाच ।
विधे तात त्वया शैववर प्राज्ञाद्भुता कथा ।
वर्णिता करुणां कृत्वा प्रीतिर्मे वर्धिताधिका ॥ १॥
विधे गते स्वकं धाम मयि वै दिव्यदर्शने ।
ततः किमभवत्तात कृपया तद्वदाधुना ॥ २॥
ब्रह्मोवाच
गते त्वयि मुने स्वर्गे कियत्काले गते सति ।
मेना प्राप्यैकदा शैलनिकटं प्रणनाम सा ॥ ३॥
स्थित्वा सविनयं प्राह स्वनाथं गिरिकामिनी ।
तत्र शैलाधिनाथं सा प्राणप्रियसुता सती ॥ ४॥
मेनोवाच
मुनिवाक्यं न बुद्धं मे सम्यङ्नारीस्वभावतः ।
विवाहं कुरु कन्यायाःसुन्दरेण वरेण ह ॥ ५॥
सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः ।
वरश्च गिरिजायास्तु सुलक्षणकुलोद्भवः ॥ ६॥
प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिया ।
सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते ॥ ७॥
ब्रह्मोवाच
इत्युक्त्वाश्रुमुखी मेना पत्यङ्घ्र्योः पतिता तदा ।
तामुत्थाप्य गिरिः प्राह यथावत्प्राज्ञसत्तमः ॥ ८॥
हिमालय उवाच ।
शृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः ।
भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन ॥ ९॥
यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।
तपः कुर्याच्छङ्करस्य सा भक्त्या स्थिरचेतसा ॥ १०॥
चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके ।
सर्वं भूयाच्छुभं नश्येन्नारदोक्तममङ्गलम् ॥ ११॥
अमङ्गलानि सर्वाणि मङ्गलानि सदा शिवे ।
तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम् ॥ १२॥
ब्रह्मोवाच ।
इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराभवत् ।
सुतोपकण्ठमगमदुपदेष्टुं तपोरुचिम् ॥ १३॥
सुताङ्गं सुकुमारं हि दृष्ट्वातीवाथ मेनका ।
विव्यथे नेत्रयुग्मे चाश्रुपूर्णेऽभवतां द्रुतम् ॥ १४॥
सुतां समुपदेष्टुं तन्न शशाक गिरिप्रिया ।
बुबुधे पार्वती तद्वै जननीङ्गितमाशु सा ॥ १५॥
अथ सा कालिका देवी सर्वज्ञा परमेश्वरी ।
उवाच जननीं सद्यः समाश्वास्य पुनः पुनः ॥ १६॥
पार्वत्युवाच ।
मातः शृणु महाप्राज्ञेऽद्यतनेऽजमुहूर्तके ।
रात्रौ दृष्टो मया स्वप्नस्तं वदामि कृपां कुरु ॥ १७॥
विप्रश्चैव तपस्वी मां सदयः प्रीतिपूर्वकम् ।
उपादिदेश सुतपः कर्तुं मातः शिवस्य वै ॥ १८॥
ब्रह्मोवाच ।
तच्छ्रुत्वा मेनका शीघ्रं पतिमाहूय तत्र च ।
तत्स्वप्नं कथयामास सुतादृष्टमशेषतः ॥ १९॥
सुतास्वप्नमथाकर्ण्य मेनकातो गिरीश्वरः ।
उवाच परमप्रीतः प्रियां सम्बोधयन्गिरा ॥ २०॥
गिरीश्वर उवाच
हे प्रियेऽपररात्रान्ते स्वप्नो दृष्टो मयापि हि ।
तं शृणु त्वं महाप्रीत्या वच्म्यहं तं समादरात् ॥ २१॥
एकस्तपस्वी परमो नारदोक्तवराङ्गधृक् ।
पुरोपकण्ठं सुप्रीत्या तपः कर्तुं समागतः ॥ २२॥
गृहीत्वा स्वसुतां तत्रागमं प्रीततरोऽप्यहम् ।
मया ज्ञातः स वै शम्भुर्नारदोक्तवरः प्रभुः ॥ २३॥
सेवार्थं तस्य तनयामुपदिश्य तपस्विनः ।
तं वै प्रार्थितवांस्तस्यां न तदाङ्गीचकार सः ॥ २४॥
अभूद्विवादः सुमहान्साङ्ख्यवेदान्तसम्मतः ।
ततस्तदाज्ञया तत्र संस्थितासीत्सुता मम ॥ २५॥
निधाय हृदि तं कामं सिषेवे भक्तितश्च सा ।
इति दृष्टं मया स्वप्नं प्रोक्तवांस्ते वरानने ॥ २६॥
ततो मेने कियत्कालं परीक्ष्यं तत्फलं प्रिये ।
योग्यमस्तीदमेवेह बुध्यस्व त्वं मम ध्रुवम् ॥ २७॥
ब्रह्मोवाच
इत्युक्त्वा गिरिराजश्च मेनका वै मुनीश्वर ।
सन्तस्थतुः परीक्षन्तौ तत्फलं शुद्धचेतसौ ॥ २८॥
इत्थं व्यतीतेऽल्पदिने परमेशः सतां गतिः ।
सतीविरहसुव्यग्रो भ्रमन्सर्वत्र सूतिकृत् ॥ २९॥
तत्राजगाम सुप्रीत्या कियद्गणयुतः प्रभुः ।
तपः कर्तुं सतीप्रेमविरहाकुलमानसः ॥ ३०॥
तपश्चकार स्वं तत्र पार्वती सेवने रता ।
सखीभ्यां सहिता नित्यं प्रसन्नार्थमभूत्तदा ॥ ३१॥
विद्धोऽपि मार्गणैः शम्भुर्विकृतिं नाप स प्रभुः ।
प्रेषितेन सुरैः स्वात्ममोहनार्थं स्मरेण वै ॥ ३२॥
दग्ध्वा स्मरं च तत्रैव स्ववह्निनयनेन सः ।
स्मृत्वा मम वचः क्रुद्धो मह्यमन्तर्दधे ततः ॥ ३३॥
ततः कालेन कियता विनाश्य गिरिजामदम् ।
प्रसादितः सुतपसा प्रसन्नोऽभून्महेश्वरः ॥ ३४॥
लौकिकाचारमाश्रित्य रुद्रो विष्णुप्रसादितः ।
कालीं विवाहयामास ततोऽभूद्बहुमङ्गलम् ॥ ३५॥
इत्येतत्कथितं तात समासाच्चरितं विभोः ।
शङ्करस्य परं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्णनपूर्वकं सङ्क्षेपशिवचरितवर्णनं नाम नवमोऽध्यायः ॥ २.३.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१०. दशमोऽध्यायः । भौमोत्पत्तिस्तस्य शिवकृपया ग्रहत्वप्राप्तिश्च ।
नारद उवाच ।
विष्णुशिष्य महाभाग विधे शैववर प्रभो ।
शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ॥ १॥
सतीविरहयुक्शम्भुः किं चक्रे चरितं तथा ।
तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ॥ २॥
शिवाशिवविवादोऽभूत्कथं कामक्षयश्च मे ।
तपः कृत्वा कथं प्राप शिवं शम्भुं च पार्वती ॥ ३॥
तत्सर्वमपरं चापि शिवसच्चरितं परम् ।
वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ॥ ४॥
सूत उवाच ।
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ।
विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ९॥
ब्रह्मोवाच ।
देवर्षे शैववर्याद्य तद्यशः शृणु चादरात् ।
पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ॥ ६॥
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ।
सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा ॥ ७॥
गणानाभाष्य शोचंस्तां तद्गुणान्प्रेमवर्धनान् ।
वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ६॥
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ।
पुनर्बभ्राम लोकान्वै सर्वान् लीलाविशारदः ॥ ९॥
न प्राप दर्शनं क्वापि सतीविरहदुःखितः ।
पुनश्च गिरिमायातः शङ्करो भक्तशङ्करः ॥ १०॥
समाधाय मनो यत्नात्समाधिं दुःखनाशनम् ।
चकार च ददर्शासौ स्वरूपं निजमव्ययम् ॥ ११॥
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ।
निर्विकारी परं ब्रह्म मायाधीशः स्वयं प्रभुः ॥ १२॥
ततः समाधिं तत्याज व्यतीयुर्ह्यमिताः समाः ।
यदा तदा बभूवाशु चरितं तद्वदामि वः ॥ १३॥
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसम्भवम् ।
पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ॥ १४॥
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ।
अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ॥ १५॥
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ।
प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ॥ १६॥
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ।
आविर्बभूव तत्रैव भयमानीय शङ्करात् ॥ १७॥
तं बलं द्रुतमुत्थाय क्रोडायां निदधे वरम् ।
स्तन्यं सापाययत्प्रीत्या दुग्धं चोपरिसम्भवम् ॥ १८॥
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ।
सत्यभावात्स्वयं माता परमेशहितावहा ॥ १९॥
तद् दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ।
अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ॥ २०॥
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ।
त्वय्युद्भूतं श्रमजलान्महातेजस्विनो वरम् ॥ २१॥
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ।
त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितः सदा ॥ २२॥
असौ बालः कुदाता हि भविष्यति गुणी तव ।
ममापि सुखदाता हि गृहाणैनं यथारुचि ॥ २३॥
ब्रह्मोवाच ।
इत्युक्त्वा विररामाथ किञ्चिद्विरहमुक्तधीः ।
लोकाचारकरो रुद्रो निर्विकारी सतां प्रियः ॥ २४॥
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ।
स्वस्थानं ससुता प्राप सुखमात्यन्तिकं च वै ॥ २५॥
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ।
तस्यां काश्यां चिरं कालं सिषेवे शङ्करं प्रभुम् ॥ २६॥
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ।
दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ॥ २७॥
इत्युक्तं शम्भुचरितं सतीविरहसंयुतम् ।
तपस्याचरणं शम्भोः शृणु चादरतो मुने ॥ २८॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ॥ २.३.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.११. एकादशोऽध्यायः । शिवहिमवत्समागमः ।
ब्रह्मोवाच ।
वर्धमाना गिरेः पुत्री सा शक्तिर्लोकपूजिता ।
अष्टवर्षा यदा जाता हिमालयगृहे सती ॥ १॥
तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ।
कृत्वा तमद्भुतामन्तर्मुमोदातीव नारद ॥ २॥
तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः ।
समाधातुं मनःसम्यक्तपः कर्तुं समैच्छत ॥ ३॥
कांश्चिद्गणवरान् शान्तान् नन्द्यादीनवगृह्य च ।
गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ ४॥
यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात्स्रुता ।
सर्वाघौघविनाशाय पावनी परमा मुने ॥ ५॥
तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ।
एकाग्रं चिन्तयामास स्वमात्मानमतन्द्रितः ॥ ६॥
चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ।
जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ॥ ७॥
हरे ध्यानपरे तस्मिन्प्रमथा ध्यानतत्पराः ।
अभवन्केचिदपरे नन्दिभृङ्ग्यादयो गणाः ॥ ६॥
सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः ।
नैवाकूजंस्तु मौना हि द्वारपाः केचनाभवन् ॥ ९॥
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः ।
शङ्करस्यौषधिप्रस्थे श्रुत्वागमनमादरात् ॥ १०॥
प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ।
समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ॥ ११॥
हिमालय उवाच ।
देवदेव महादेव कपर्दिच्छङ्कर प्रभो ।
त्वयैव लोकनाथेन पालितं भुवनत्रयम् ॥ १२॥
नमस्ते देवदेवेश योगिरूपधराय च ।
निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ॥ १३॥
कैलासवासिने शम्भो सर्वलोकाटनाय च ।
नमस्ते परमेशाय लीलाकाराय शूलिने ॥ १४॥
परिपूर्णगुणाधानविकाररहिताय ते ।
नमोऽनीहाय वीहाय धीराय परमात्मने ॥ १५॥
अबहिर्भोगकाराय जनवत्सलते नमः ।
त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने ॥ १६॥
विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे ।
विष्णुब्रह्मैकदात्रे ते भक्तप्रिय नमोऽस्तु ते ॥ १७॥
तपोरत तपःस्थान सुतपःफलदायिने ।
तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ॥ १८॥
व्यवहारकरायैव लोकाचारकराय ते ।
सगुणाय परेशाय नमोऽस्तु परमात्मने ॥ १९॥
लीला तव महेशानावेद्या साधुसुखप्रदा ।
भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ॥ २०॥
मम भाग्योदयात्तत्र त्वमागत इह प्रभो ।
सनाथ कृतवान्मां त्वं वर्णितो दीनवत्सलः ॥ २१॥
अद्य मे सफलं जन्म सफलं जीवनं मम ।
अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥ २२॥
ज्ञात्वा मां दासमव्यग्रमाज्ञां देहि महेश्वर ।
त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ॥ २३॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ।
किञ्चिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ॥ २४॥
सगणं तं तथा दृष्ट्वा गिरिराजं वृषध्वजः ।
उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ॥ २५॥
महेश्वर उवाच ।
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।
यथा न कोऽपि निकटं समायातु तथा कुरु ॥ २६॥
त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ।
देवानां राक्षसानां च परेषां च महात्मनाम् ॥ २७॥
सदा वासो द्विजादीनां गङ्गापूतश्च नित्यदा ।
परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ॥ २८॥
अहं तपश्चराम्यत्र गङ्गावतरणे स्थले ।
आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ॥ २९॥
निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ।
सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ॥ ३०॥
ममेदमेव परमं सेवनं पर्वतोत्तम ।
स्वगृहं गच्छ सत्प्रीत्या तत्सम्पादय यत्नतः ॥ ३१॥
ब्रह्मोवाच ।
इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ।
गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ॥ ३२॥
हिमालय उवाच ।
पूजितोऽसि जगन्नाथ मया त्वं परमेश्वर ।
स्वागतेनाद्य विषये स्थितं त्वां प्रार्थयामि किम् ॥ ३३॥
महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ।
न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ॥ ३४॥
मत्तोऽप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् ।
भवानिति च मत्पृष्ठे तपसे समुपस्थितः ॥ ३५॥
देवेन्द्रादधिकं मन्ये स्वात्मानं परमेश्वर ।
सगणेन त्वयागत्य कृतोऽनुग्रहभागहम् ॥ ३६॥
निर्विघ्नं कुरु देवेश स्वतन्त्रः परमं तपः ।
करिष्येऽहं तथा सेवां दासोऽहं ते सदा प्रभो ॥ ३७॥
ब्रह्मोवाच ।
इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः ।
वृत्तान्तं तं समाचख्यौ प्रियायै च समादरात् ॥ ३८॥
नीयमानान्परीवारान् स्वगणानपि नारद ।
समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः ॥ ३९॥
हिमालय उवाच ।
अद्य प्रभृति नो यातु कोऽपि गङ्गावतारणम् ।
मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ॥ ४०॥
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।
दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ॥ ४१॥
इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ।
सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते ॥ ४२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ॥ २.३.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१२. द्वादशोऽध्यायः । शिवहिमवत्संवादः ।
ब्रह्मोवाच ।
अथ शैलपतिर्हृष्टः सत्पुष्पफलसञ्चयम् ।
समादाय स्वतनयासहितोऽगाद्धरान्तिकम् ॥ १॥
स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम् ।
अर्पयामास तनयां कालीं तस्मै हृदाद्भुताम् ॥ २॥
फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ।
अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥ ३॥
हिमगिरिरुवाच ।
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ।
समुत्सुका समानीता त्वदाराधनकाङ्क्षया ॥ ४॥
सखीभ्यां सह नित्यं त्वां सेवतामेव शङ्करम् ।
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥ ५॥
ब्रह्मोवाच ।
अथ तां शङ्करोऽपश्यत्प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् ॥ ६॥
समस्तलीलासंस्थानशुभवेषविजृम्भिताम् ।
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ ७॥
मृणालायतपर्यन्तबाहुयुग्ममनोहराम् ।
राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥ ८॥
बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ।
स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥ ९॥
ध्यानपञ्जरनिर्बद्धमुनिमानसमप्यलम् ।
दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ॥ १०॥
दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ।
विग्रहे तन्त्रमन्त्राणां वर्धिनीं कामरूपिणीम् ॥ ११॥
न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ।
परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥ १२॥
दृष्ट्वा तदानीं सकलेश्वरं विभुं
तपो जुषाणं विनिमीलितेक्षणम् ।
कपर्दिनं चन्द्रकलाविभूषणं
वेदान्तवेद्यं परमासने स्थितम् ॥ ३३॥
ववन्द शीर्ष्णा च पुनर्हिमाचलः
स संशयं प्रापददीनसत्त्वः ।
उवाच वाक्यं जगदेकबन्धुं
गिरीश्वरो वाक्यविदां वरिष्ठः ॥ १४॥
हिमाचल उवाच ।
देवदेव महादेव करुणाकर शङ्कर ।
पश्य मां शरणं प्राप्तमुन्मील्य नयने विभो ॥ १५॥
शिव शर्व महेशान जगदानन्दकृत्प्रभो ।
त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ॥ १६॥
न त्वां जानन्ति देवेश वेदाः शास्त्राणि कृत्स्नशः ।
अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ॥ १७॥
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ।
अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥ १८॥
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।
शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥ १९॥
विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना ।
तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥ २०॥
सभाग्योऽहं महादेव प्रसादात्तव शङ्कर ।
मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥ २१॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो ।
अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥ २२॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ।
त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ॥ २३॥
महेश्वर उवाच ।
आगन्तव्यं त्वया नित्यं दर्शनार्थं ममाचल ।
कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ॥ २४॥
ब्रह्मोवाच ।
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ।
अचलः प्रत्युवाचेदं गिरिशं नतकन्धरः ॥ २५॥
हिमाचल उवाच ।
कस्मान्मयानया सार्धं नागन्तव्यं तदुच्यताम् ।
सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ॥ २६॥
ब्रह्मोवाच ।
ततोऽब्रवीद्गिरिं शम्भुः प्रहसन्वृषभध्वजः ।
लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ॥ २७॥
शम्भुरुवाच ।
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ।
नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥ २८॥
मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः ।
युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ॥ २९॥
अहं तपस्वी योगी च निर्लिप्तो मायया सदा ।
प्रयोजनं न युवत्या वै स्त्रिया किं मेऽस्ति भूधर ॥ ३०॥
एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ।
वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ॥ ३१॥
भवत्यचल तत्सङ्गाद्विषयोत्पत्तिराशु वै ।
विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ॥ ३२॥
अतस्तपस्विना शैल न कार्या स्त्रीषु सङ्गतिः ॥
महाविषयमूलं सा ज्ञानवैराग्यनाशिनी ॥ ३३॥
ब्रह्मोवाच ।
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ।
विरराम गिरीशं तं महायोगिवरः प्रभुः ॥ ३४॥
एतच्छ्रुत्वा वचनं तस्य शम्भो-
र्निरामयं निःस्पृहं निष्ठुरं च ।
कालीतातश्चकितोऽभूत्सुरर्षे
तद्वत्किञ्चिद्व्याकुलश्चास तूष्णीम् ॥ ३५॥
तपस्विनोक्तं वचनं निशम्य
तथा गिरीशं चकितं विचार्य ।
अतः प्रणम्यैव शिवं भवानी
जगाद वाक्यं विशदन्तदानीम् ॥ ३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसंवादवर्णनं नाम द्वादशोऽध्यायः ॥ २.३.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१३. त्रयोदशोऽध्यायः । शिवपार्वतीसंवादः ।
भवान्युवाच ।
किमुक्तं गिरिराजाय त्वया योगिंस्तपस्विना ।
तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद ॥ १॥
तपःशक्त्यान्वितः शम्भो करोषि विपुलं तपः ।
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥ २॥
सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ।
तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥ ३॥
कस्त्वं का प्रकृतिःसूक्ष्मा भगवंस्तद्विमृश्यताम् ।
विना प्रकृत्या च कथं लिङ्गरूपी महेश्वरः ॥ ४॥
अर्चनीयोऽसि वन्द्योऽसि ध्येयोऽसि प्राणिनां सदा ।
प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥ ५॥
ब्रह्मोवाच ।
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ।
सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥ ६॥
महेश्वर उवाच ।
तपसा परमेणैव प्रकृतिं नाशयाम्यहम् ।
प्रकृत्या रहितः शम्भुरहं तिष्ठामि तत्त्वतः ॥ ७॥
तस्माच्च प्रकृतेः सद्भिर्न कार्यः सङ्ग्रहः क्वचित् ।
स्थातव्यं निर्विकारैश्च लोकाचारविवर्जितैः ॥ ८॥
ब्रह्मोवाच ।
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ।
सुविहस्य हृदा काली जगाद मधुरं वचः ॥ ९॥
काल्युवाच ।
यदुक्तं भवता योगिन्वचनं शङ्कर प्रभो ।
सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ १०॥
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ।
प्रकृत्या सर्वमेतच्च बद्धमस्ति निरन्तरम् ॥ ११॥
तस्मात्त्वया न वक्तव्यं न कार्यं किञ्चिदेव हि ।
वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥ १२॥
यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ।
तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥ १३॥
प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ।
त्वया शम्भोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥ १४॥
प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ।
निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥ १५॥
वाग्वादेन च किं कार्यं मम योगिंस्त्वया सह ।
प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥ १६॥
इन्द्रियाणां गोचरत्वं यावद्भवति देहिनाम् ।
तावत्सर्वं विमन्तव्यं प्राकृतं ज्ञानिभिर्धिया ॥ १७॥
किं बहूक्तेन योगीश शृणु मद्वचनं परम् ।
सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥ १८॥
मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ।
मां विना त्वं निरीहोऽसि न किञ्चित्कर्तुमर्हसि ॥ १९॥
पराधीनःसदा त्वं हि नानाकर्मकरो वशी ।
निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥ २०॥
प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ।
तर्हि त्वया न भेतव्यं समीपे मम शङ्कर ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्याः साङ्ख्यशास्त्रोदितं शिवः ।
वेदान्तमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥ २२॥
श्रीशिव उवाच ।
इत्येवं त्वं यदि ब्रूषे गिरिजे साङ्ख्यधारिणी ।
प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥ २३॥
यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ।
वेदान्तवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥ २४॥
ब्रह्मोवाच ।
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ।
भक्तानुरञ्जनकरो भक्तानुग्रहकारकः ॥ २५॥
श्रीशिव उवाच ।
अत्रैव सोऽहं तपसा परेण
गिरे तव प्रस्थवरेऽतिरम्ये ।
चरामि भूमौ परमार्थभाव-
स्वरूपमानन्दमयं सुलोचयन् ॥ २६॥
तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ।
अनुज्ञया विना किञ्चित्तपः कर्तुं न शक्यते ॥ २७॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ।
प्रणम्य हिमवाञ्छम्भुमिदं वचनमब्रवीत् ॥ २८॥
हिमवानुवाच ।
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ।
किमप्यहं महादेव तुच्छो भूत्वा वदामि ते ॥ २९॥
ब्रह्मोवाच ।
एवमुक्तो हिमवता शङ्करो लोकशङ्करः ।
विहस्य गिरिराजं तं प्राह याहीति सादरम् ॥ ३०॥
शङ्करेणाभ्यनुज्ञातःस्वगृहं हिमवान्ययौ ।
सार्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः ॥ ३१॥
पित्रा विनापि सा काली सखीभ्यां सह नित्यशः ।
जगाम शङ्कराभ्याशं सेवायै भक्तितत्परा ॥ ३२॥
निषिषेध न तां कोऽपि गणो नन्दीश्वरादिकः ।
महेशशासनात्तात तच्छासनकरः शुचिः ॥ ३३॥
साङ्ख्यवेदान्तमतयोः शिवयोः शिवदः सदा ।
संवादः सुखकृच्चोक्तोऽभिन्नयोः सुविचारतः ॥ ३४॥
गिरिराजस्य वचनात्तनयां तस्य शङ्करः ।
पार्श्वे समीपे जग्राह गौरवादपि गोपरः ॥ ३५॥
उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः ।
नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु ॥ ३६॥
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ।
निर्विकारो महायोगी नानालीलाकरः प्रभुः ॥ ३७॥
इदमेव महद्धैर्यं धीराणां सुतपस्विनाम् ।
विघ्नवन्त्यपि सम्प्राप्य यद्विघ्नैर्न विहन्यते ॥ ३८॥
ततः स्वपुरमायातो गिरिराट् परिचारकैः ।
मुमोदातीव मनसि सप्रियः स मुनीश्वर ॥ ३९॥
हरश्च ध्यानयोगेन परमात्मानमादरात् ।
निर्विघ्नेन स्वमनसा त्वासीच्चिन्तयितुं स्थितः ॥ ४०॥
काली सखीभ्यां सहिता प्रत्यहं चन्द्रशेखरम् ।
सेवमाना महादेवं गमनागमने स्थिता ॥ ४१॥
प्रक्षाल्य चरणौ शम्भोः पपौ तच्चरणोदकम् ।
वह्निशौचेन वस्त्रेण चक्रे तद्गात्रमार्जनम् ॥ ४२॥
षोडशेनोपचारेण सम्पूज्य विधिवद्धरम् ।
पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम् ॥ ४३॥
एवं संसेवमानायाः शङ्करं ध्यानतत्परम् ।
व्यतीयाय महान्कालः शिवाया मुनिसत्तम ॥ ४४॥
कदाचित्सहिता काली सखीभ्यां शङ्कराश्रमे ।
वितेने सुन्दरं गानं सुतालं स्मरवर्धनम् ॥ ४५॥
कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् ।
सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा ॥ ४६॥
कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भृशम् ।
वीक्षन्ती विस्मयामास सकामा चन्द्रशेखरम् ॥ ४७॥
ततस्तप्तेन भूतेशस्तां निस्सङ्गां परिस्थिताम् ।
सोऽचिन्तयत्तदा वीक्ष्य भूतदेहे स्थितेति च ॥ ४८॥
नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम् ।
महालावण्यनिचयां मुनीनामपि मोहिनीम् ॥ ४९॥
महादेवः पुनर्दृष्ट्वा तथा तां संयतेन्द्रियाम् ।
स्वसेवने रतां नित्यं सदयः समचिन्तयत् ॥ ५०॥
यदैवैषा तपश्चर्याव्रतं काली करिष्यति ।
तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम् ॥ ५१॥
ब्रह्मोवाच ।
इति सञ्चिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः ।
महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः ॥ ५२॥
ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः ।
हृदि नासीन्मुने काचिदन्या चिन्ता व्यवस्थिता ॥ ५३॥
काली त्वनुदिनं शम्भुं सद्भक्त्या समसेवत ।
विचिन्तयन्ती सततं तस्य रूपं महात्मनः ॥ ५४॥
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थिताम् ।
विस्मृत्य पूर्वचिन्तां तां पश्यन्नपि न पश्यति ॥ ५५॥
एतस्मिन्नन्तरे देवाः शक्राद्या मुनयश्च ते ।
ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात् ॥ ५६॥
तेन कारयितुं योगं काल्या रुद्रेण कामतः ।
महावीर्येणासुरेण तारकेण प्रपीडिताः ॥ ५७॥
गत्वा तत्र स्मरः सर्वमुपायमकरोन्निजम् ।
चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह ॥ ५८॥
पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः ।
ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती ॥ ५९॥
बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ ।
चक्रतुर्देवकार्यं हि परोपकरणे रतौ ॥ ६०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.३.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१४. चतुर्दशोऽध्यायः । तारकवज्राङ्गयोरुपत्तिस्तत्तपोवर्णनञ्च ।
नारद उवाच ।
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ।
चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ॥ १॥
कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ।
कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ॥ २॥
भस्मीचकार स कथं शङ्करश्च स्मरं वशी ।
तदपि ब्रूहि सुप्रीत्याऽद्भुतं तच्चरितं विभोः ॥ ३॥
कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ।
कथं प्राप पतिं शम्भुमादिशक्तिर्जगत्परा ॥ ४॥
एतत्सर्वमशेषेण विशेषेण महाबुध ।
ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने ॥ ५॥
ब्रह्मोवाच
पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रत ।
वच्म्यहं शङ्करं स्मृत्वा सर्वं तच्चरितं शृणु ॥ ६॥
प्रथमं तारकस्यैव भवं संशृणु नारद ।
यद्वधार्थं महायत्नः कृतो देवैः शिवाश्रयैः ॥ ७॥
मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः ।
त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः ॥ ८॥
दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम् ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ९॥
तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः ।
सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः ॥ १०॥
दितिश्च दुःखितासीत्सा कश्यपं शरणं गता ।
पुनःसंसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ॥ ११॥
तद्विज्ञाय महेन्द्रोऽपि लब्धच्छिद्रो महोद्यमी ।
तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः ॥ १२॥
तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह ।
स्वपन्त्या दैवयोगेन सप्त सप्ताभवन्सुताः ॥ १३॥
देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ।
स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ॥ १४॥
पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ।
चकार सुप्रसन्नं तं मुनिं परमसेवया ॥ १५॥
कश्यप उवाच
तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ।
चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ॥ १६॥
तथा दित्या कृतं पूर्णं तत्तपः श्रद्धया मुने ।
ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ॥ १७॥
वज्राङ्गनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ।
नामतुल्यतनुर्वीरः सुप्रताप्युद्भवाद्बली ॥ १८॥
जननीशासनात्सद्यः स सुतो निर्जराधिपम् ।
बलाद्धृत्वा ददौ दण्डं विविधं निर्जरानपि ॥ १९॥
दितिः सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम् ।
अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ॥ २०॥
तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः ।
देवानत्याजयंस्तस्मात्सदा देवहिते रतः ॥ २१॥
देवान्मुक्त्वा स वज्राङ्गस्ततः प्रोवाच सादरम् ।
शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ॥ २२॥
वज्राङ्ग उवाच
इन्द्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ।
स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ॥ २३॥
मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ।
न मे भोगाभिलाषो वै कस्यचिद्भुवनस्य हि ॥ २४॥
तत्त्वसारं विधे ब्रूहि मह्यं वेदविदांवर ।
येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ॥ २५॥
तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यते ।
तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ॥ २६॥
वराङ्गीं नाम तां दत्त्वा तस्मै दितिसुताय वै ।
अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ॥ २७॥
ततो दैत्यः स वज्राङ्गः सात्त्विकं भावमाश्रितः ।
आसुरं भावमुत्सृज्य निर्वैरः सुखमाप्तवान् ॥ २८॥
न बभूव वराङ्ग्या हि हृदि भावोऽथ सात्त्विकः ।
सकामा स्वपतिं भेजे श्रद्धया विविधं सती ॥ २९॥
अथ तत्सेवनादाशु सन्तुष्टोऽभून्महाप्रभुः ।
स वज्राङ्गः पतिस्तस्या उवाच वचनं तदा ॥ ३०॥
वज्राङ्ग्युवाच ।
किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते ।
तच्छ्रुत्वानम्य तं प्राह सा पतिं स्वमनोरथम् ॥ ३१॥
वराङ्ग्युवाच ।
चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते ।
महाबलं त्रिलोकस्य जेतारं हरिदुःखदम् ॥ ३२॥
ब्रह्मोवाच ।
इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः ।
उवाच हृदि स ज्ञानी सात्त्विको वैरवर्जितः ॥ ३३॥
प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते ।
किं कुर्यां हि क्व गच्छेयं कथं नश्येन्न मे पणः ॥ ३४॥
प्रियामनोरथश्चैव पूर्णः स्यात्त्रिजगद्भवेत् ।
क्लेशयुङ्नितरां भूयो देवाश्च मुनयस्तथा ॥ ३५॥
न पूर्णः स्यात्प्रियाकामस्तदा मे नरको भवेत् ।
द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान् ॥ ३६॥
वज्राङ्ग इत्थं बभ्राम स मुने धर्मसङ्कटे ।
बलाबलं द्वयोस्तत्र विचिचिन्त च बुद्धितः ॥ ३७॥
शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः ।
तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट् ॥ ३८॥
तदर्थमकरोत्तीव्रं तपोऽन्यद्दुष्करं स तु ।
मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेन्द्रियः ॥ ३९॥
वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् ।
वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा ॥ ४०॥
वज्राङ्गस्तु तदा प्रीतं मां दृष्ट्वा खे स्थितं विभुम् ।
सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम् ॥ ४१॥
वज्राङ्ग उवाच ।
सुतं देहि स्वमातुर्मे महाहितकरं प्रभो ।
महाबलं सुप्रतापं सुसमर्थं तपोनिधिम् ॥ ४२॥
ब्रह्मोवाच ।
इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने ।
अयां स्वधाम तद्दत्त्वा विमनाः संस्मरच्छिवम् ॥ ४३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्राङ्गोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.३.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१५. पञ्चदशोऽध्यायः । तारकासुरतपोराज्यम् ।
ब्रह्मोवाच ।
अथ सा गर्भमाधत्त वराङ्गी तत्पुरादरात् ।
स ववर्धाभ्यन्तरे हि बहुवर्षैः सुतेजसा ॥ १॥
ततः सा समये पूर्णे वराङ्गी सुषुवे सुतम् ।
महाकायं महावीर्यं प्रज्वलन्तं दिशो दश ॥ २॥
तदैव च महोत्पाता बभूवुर्दुःखहेतवः ।
जायमाने सुते तस्मिन्वराङ्ग्याः सुरदुःखदे ॥ ३॥
दिवि भुव्यन्तरिक्षे च सर्वलोकभयङ्कराः ।
अनर्थसूचकास्तात त्रिविधाः तान्ब्रवीम्यहम् ॥ ४॥
सोल्काश्चाशनयः पेतुर्महाशब्दा भयङ्कराः ।
उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥ ५॥
चचाल वसुधा साद्रिर्जज्वलुः सकला दिशः ।
चुक्षुभुः सरितः सर्वाः सागराश्च विशेषतः ॥ ६॥
हूत्कारानीरयन् घोरान्खरस्पर्शो मरुद्ववौ ।
उन्मूलयन्महावृक्षान्वात्यानीको रजोध्वजः ॥ ७॥
सराह्वोःसूर्यविध्वोस्तु मुहुः परिधयोऽभवन् ।
महाभयस्य विप्रेन्द्र सूचकाःसुखहारकाः ॥ ८॥
महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः ।
रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥ ९॥
सृगालोलूकटङ्कारैर्वमन्त्यो मुखतोऽनलम् ।
अन्तर्ग्रामेषु विकटं प्रणेदुरशिवाः शिवाः ॥ १०॥
यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् ।
सङ्गीतवद्रोदनवद्व्यमुञ्चन्विविधान्रवान् ॥ ११॥
खार्काररभसा मत्ताः खुरैर्घ्नन्तो रसां खराः ।
वरूथशः तदा तात पर्यधावन्नितस्ततः ॥ १२॥
खगा उदपतन्नीडाद्रासभत्रस्तमानसाः ।
क्रोशन्तो व्यग्रचित्ताश्च स्थितिमापुर्न कुत्रचित् ॥ १३॥
शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलाः ।
बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥ १४॥
गावोऽत्रसन्नसृग्दोहा बाष्पनेत्रा भयाकुलाः ।
तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥ १५॥
व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः ।
विनानिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥ १६॥
इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम ।
अज्ञानिनो जनास्तत्र मेनिरे विश्वसम्प्लवम् ॥ १७॥
अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै ।
तारकेति विचार्यैव कश्यपो हि महौजसः ॥ १८॥
महावीरः स सहसा व्यज्यमानात्मपौरुषः ।
ववृधेऽत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥ १९॥
अथो स तारको दैत्यो महाबलपराक्रमः ।
तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥ २०॥
प्राप्ताज्ञः स महामायी मायिनामपि मोहकः ।
सर्वदेवजयं कर्तुं तपोऽर्थं मन आदधे ॥ २१॥
मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः ।
विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥ २२॥
ऊर्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा ।
शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥ २३॥
अङ्गुष्ठेन भुवं स्पृष्ट्वा शतवर्षं च तादृशः ।
तेपे तपो दृढात्मा स तारकोऽसुरराट् प्रभुः ॥ २४॥
शतवर्षं जलं प्राश्नन् शतवर्षं च वायुभुक् ।
शतवर्षं जले तिष्ठञ्च्छतं च स्थण्डिलेऽतपत् ॥ २५॥
शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः ।
शतवर्षं तु हस्तस्य तलेन च भुवं स्थितः ॥ २६॥
शतवर्षं तु वृक्षस्य शाखामालम्ब्य वै मुने ।
पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥ २७॥
एवं कष्टतरं तेपे सुतपः स तु दैत्यराट् ।
काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम् ॥ २८॥
तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम् ।
शिरसः सर्वसंसर्पि महोपद्रवकृन्मुने ॥ २९॥
तेनैव देवलोकास्ते दग्धप्राया बभूविरे ।
अभितो दुःखमापन्नाः सर्वे देवर्षयो मुने ॥ ३०॥
इन्द्रश्च भयमापेदेऽधिकं देवेश्वरस्तदा ।
तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ॥ ३१॥
अकाण्डे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभुः ।
इति संशयमापन्ना निश्चयं नोपलेभिरे ॥ ३२॥
ततः सर्वे सुसम्मन्त्र्य मिथस्ते निर्जरर्षयः ।
मल्लोकमगमन्भीता दीना मां समुपस्थिताः ॥ ३३॥
मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः ।
कृतस्त्वञ्जलयो मह्यं वृत्तं सर्वं न्यवेदयन् ॥ ३४॥
अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया ।
वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ॥ ३५॥
अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने ।
तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ॥ ३६॥
इत्येवं मद्वचः श्रुत्वा तारकः स महासुरः ।
मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ॥ ३७॥
तारक उवाच ।
त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम ।
अतो याचे वरं त्वत्तः शृणु तन्मे पितामह ॥ ३८॥
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ॥ ३९॥
त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो ।
मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ॥ ४०॥
शिववीर्यसमुत्पन्नः पुत्रःसेनापतिर्यदा ।
भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ॥ ४१॥
इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर ।
वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम् ॥ ४२॥
दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम् ।
सुप्रसन्नतरो भूत्वा शोणिताख्यपुरं गतः ॥ ४३॥
अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैः सह ।
शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः ॥ ४४॥
ततस्तु स महादैत्योऽभवत् त्रैलोक्यनायकः ।
स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम् ॥ ४५॥
राज्यं चकार विधिवत्त्रिलोकस्य स तारकः ।
प्रजाश्च पालयामास पीडयन्निर्जरादिकान् ॥ ४६॥
ततः स तारको दैत्यस्तेषां रत्नान्युपाददे ।
इन्द्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ॥ ४७॥
इन्द्रेणैरावतस्तस्य भयात्तस्मै समर्पितः ।
कुबेरेण तदा दत्ता निधयो नवसङ्ख्यकाः ॥ ४८॥
वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा ।
इन्द्रेणोच्चैः श्रवा दिव्यो भयात्तस्मै समर्पितः ॥ ४९॥
यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि ।
तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत् ॥ ५०॥
समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने ।
अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाखिलाः ॥ ५१॥
सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् ।
चन्द्रस्तु प्रभया दृश्यो वायुः सर्वानुकूल्यवान् ॥ ५२॥
देवानां चैव यद्द्रव्यं पितॄणां च परस्य च ।
तत्सर्वं समुपादत्तमसुरेण दुरात्मना ॥ ५३॥
वशीकृत्य स लोकांस्त्रीन्स्वयमिन्द्रो बभूव ह ।
अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी ॥ ५४॥
निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः ।
स्वयं नियोजयामास देवयोनिन् स्वकर्मणि ॥ ५५॥
अथ तद्बाधिता देवाः सर्वे शक्रपुरोगमाः ।
मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ॥ ५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.३.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१६. षोडशोऽध्यायः । तारकासुरभीतानां देवानां कृते शिवेन सान्त्वनादानम् ।
ब्रह्मोवाच ।
अथ ते निर्जराः सर्वे सुप्रणम्य प्रजेश्वरम् ।
तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः ॥ १॥
अहं श्रुत्वामरनुतिं यथार्थां हृदयङ्गमाम् ।
सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥ २॥
स्वागतं स्वाधिकारा वै निर्विघ्नाः सन्ति वः सुराः ।
किमर्थमागता यूयमत्र सर्वे वदन्तु मे ॥ ३॥
इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः ।
मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥ ४॥
देवा ऊचुः ।
लोकेश तारको दैत्यो वरेण तव दर्पितः ।
निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात् स्वयम् ॥ ५॥
भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् ।
तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥ ६॥
अहर्निशं बाधतेऽस्मान् यत्र तत्रास्थितान्स वै ।
पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥ ७॥
तारकान्नश्च यद्दुःखं सम्भूतं सकलेश्वर ।
तेन सर्वे वयं तात पीडिता विकला अति ॥ ८॥
अग्निर्यमोऽथ वरुणो निरृतिर्वायुरेव च ।
अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥ ९॥
सर्वे मनुष्यधर्माणःसर्वैः परिकरैर्युताः ।
सेवन्ते तं महादैत्यं न स्वतन्त्राः कदाचन ॥ १०॥
एवं तेनार्दिता देवा वशगास्तस्य सर्वदा ।
तदिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ११॥
यावत्यो वनिताः सर्वा ये चाप्यप्सरसां गणाः ।
सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥ १२॥
न यज्ञाःसम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
दानधर्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥ १३॥
तस्य सेनापतिः क्रौञ्चो महापाप्यस्ति दानवः ।
स पातालतलं गत्वा बाधते त्वनिशं प्रजाः ॥ १४॥
तेन नस्तारकेणेदं सकलं भुवनत्रयम् ।
हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥ १५॥
वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः ।
स्वस्थास्तद्वारितास्तेन लोकनाथ सुरारिणा ॥ १६॥
त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि ।
वयं सर्वे तारकाख्यवह्नौ दग्धाः सुविह्वलाः ॥ १७॥
तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः ।
विकारे सान्निपाते वा वीर्यवन्त्यौषधानि च ॥ १८॥
यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने ।
तत्कुण्ठितमभूत्तस्य कण्ठे पुष्पमिवार्पितम् ॥ १९॥
ब्रह्मोवाच
इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ।
प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥ २०॥
ब्रह्मोवाच
ममैव वचसा दैत्यस्तारकाख्यः समेधितः ।
न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥ २१॥
ततो नैव वधो योग्यो यतो वृद्धिमुपागतः ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २२॥
युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शङ्करः ।
किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचोदितः ॥ २३॥
तारकाख्यस्तु पापेन स्वयमेष्यति सङ्क्षयम् ।
यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ २४॥
न मया तारको वध्यो हरिणापि हरेण च ।
नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते ॥ २५॥
शिववीर्यसमुत्पन्नो यदि स्यात्तनयः सुराः ।
स एव तारकाख्यस्य हन्ता दैत्यस्य नापरः ॥ २६॥
यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ।
महादेवप्रसादेन सिद्धिमेष्यति स ध्रुवम् ॥ २७॥
सती दाक्षायणी पूर्वं त्यक्तदेहा तु याभवत् ।
सोत्पन्ना मेनकागर्भात्सा कथा विदिता हि वः ॥ २८॥
तस्या अवश्यं गिरिशः करिष्यति करग्रहम् ।
तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ॥ २९॥
तथा विधध्वं सुतरां तस्यां तु परियत्नतः ।
पार्वत्यां मेनकाजायां रेतःप्रतिनिपातने ॥ ३०॥
तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् ।
कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् ॥ ३१॥
सा सुता गिरिराजस्य साम्प्रतं प्रौढयौवना ।
तपस्यन्तं हिमगिरौ नित्यं संसेवते हरम् ॥ ३२॥
वाक्याद्धिमवतः काली स्वपितुर्हठतश्शिवा ।
सखीभ्यां सेवते सार्धं ध्यानस्थं परमेश्वरम् ॥ ३३॥
तामग्रतोऽर्चमानां वै त्रैलोक्ये वरवर्णिनीम् ।
ध्यानासक्तो महेशो हि मनसापि न हीयते ॥ ३४॥
भार्यां समीहेत यथा स कालीं चन्द्रशेखरः ।
तथा विधध्वं त्रिदशा न चिरादेव यत्नतः ॥ ३५॥
स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः ।
निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः ॥ ३६॥
इत्युक्त्वाहं सुरान् शीघ्रं तारकाख्यासुरस्य वै ।
उपसङ्गम्य सुप्रीत्या समाभाष्येदमब्रवम् ॥ ३७॥
ब्रह्मोवाच
तेजोःसारमिमं स्वर्गं राज्यं त्वं परिपासि नः ।
यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम् ॥ ३८॥
वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता ।
तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥ ३९॥
देवयोग्यानि तत्रैव कार्याणि निखिलान्यपि ।
भविष्यन्त्यसुरश्रेष्ठ नात्र कार्या विचारणा ॥ ४०॥
इत्युक्त्वाहं च सम्बोध्यासुरं तं सकलेश्वरः ।
स्मृत्वा शिवां च सशिवं तत्रान्तर्धानमागतः ॥ ४१॥
तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात् ।
शोणिताख्यपुरे स्थित्वा सर्वराज्यं चकार सः ॥ ४२॥
देवाःसर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम् ।
शक्रस्थानं ययुः प्रीत्या शक्रेण सुसमाहिताः ॥ ४३॥
तत्र गत्वा मिलित्वा च विचार्य च परस्परम् ।
ते सर्वे मरुतः प्रीत्या मघवन्तं वचोऽब्रुवन् ॥ ४४॥
देवा ऊचुः ।
शम्भोर्यथा शिवायां वै रुचिर्जायेत कामतः ।
मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत् ॥ ४५॥
ब्रह्मोवाच ।
इत्येवं सर्ववृत्तान्तं विनिवेद्य सुरेश्वरम् ।
जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः ॥ ४६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवसान्त्वनवर्णनं नाम षोडशोऽध्यायः ॥ २.३.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१७. सप्तदशोऽध्यायः । इन्द्रकामदेवसंवादः ।
ब्रह्मोवाच ।
गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ।
पीडितस्तारकेनाति दैत्येन च दुरात्मना ॥ १॥
आगतस्तत्क्षणात्कामः सवसन्तो रतिप्रियः ।
सावलेपो युतो रत्या त्रैलोक्यविजयी प्रभुः ॥ २॥
प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतः स्मरः ।
महोन्नतमनास्तात साञ्जलिः शक्रमब्रवीत् ॥ ३॥
काम उवाच ।
किं कार्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ।
तत् त्वं कथय देवेश तत्कर्तुं समुपागतः ॥ ४॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तस्य कन्दर्पस्य सुरेश्वरः ।
उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन् ॥ ५॥
शक्र उवाच ।
तव साधु समारम्भो यन्मे कार्यमुपस्थितम् ।
तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज ॥ ६॥
प्रस्तुतं शृणु मद्वाक्यं कथयामि तवाग्रतः ।
मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा ॥ ७॥
मित्राणि मम सन्त्येव बहूनि सुमहान्ति च ।
परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् ॥ ८॥
जयार्थं मे द्वयं तात निर्मितं वज्रमुत्तमम् ।
वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन ॥ ९॥
यतो हितं प्रजायेत ततः को नु प्रियः परः ।
तस्मान्मित्रवरस्त्वं हि मत्कार्यं कर्तुमर्हसि ॥ १०॥
मम दुःखं समुत्पन्नमसाध्यं चापि कालजम् ।
केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना ॥ ११॥
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।
आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि ॥ १२॥
विनये सङ्कटे प्राप्तेऽवितथस्य परोक्षतः ।
सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ॥ १३॥
प्राप्तायां वै ममापत्ताववार्यायां परेण हि ।
परीक्षा च त्वदीयाद्या मित्रवर्य भविष्यति ॥ १४॥
न केवलं मदीयं च कार्यमस्ति सुखावहम् ।
किं तु सर्वसुरादीनां कार्यमेतन्न संशयः ॥ १५॥
ब्रह्मोवाच ।
इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः ।
उवाच प्रेमगम्भीरं वाक्यं सुस्मितपूर्वकम् ॥ १६॥
काम उवाच ।
किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव ।
उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च ॥ १७॥
सङ्कटे बहु यो ब्रूते स किं कार्यं करिष्यति ।
तथापि च महाराज कथयामि शृणु प्रभो ॥ १८॥
पदं ते कर्षितुं यो वै तपस्तपति दारुणम् ।
पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा ॥ १९॥
क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः ।
देवर्षिदानवादींश्च नराणां गणना न मे ॥ २०॥
वज्रं तिष्ठतु दूरे वै शस्त्राण्यन्यान्यनेकशः ।
किं ते कार्यं करिष्यन्ति मयि मित्र उपस्थिते ॥ २१॥
ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्यां न संशयः ।
अन्येषां गणना नास्ति पातयेयं हरं त्वपि ॥ २२॥
पञ्चैव मृदवो बाणास्ते च पुष्पमया मम ।
चापस्त्रिधा पुष्पमयश्शिञ्जिनी भ्रमरार्जिता ॥ २३॥
बलं सुदयिता मे हि वसन्तः सचिवः स्मृतः ।
अहं पञ्चबलो देव मित्रं मम सुधानिधिः । २४॥
सेनाधिपश्च शृङ्गारो हावभावाश्च सैनिकाः ।
सर्वे मे मृदवः शक्र अहं चापि तथाविधः ॥ २५॥
यद्येन पूर्यते कार्यं धीमांस्तत्तेन योजयेत् ।
मम योग्यं तु यत्कार्यं सर्वं तन्मे नियोजय ॥ २६॥
ब्रह्मोवाच ।
इत्येवं तु वचस्तस्य श्रुत्वा शक्रः सुहर्षितः ।
उवाच प्रणमन्वाचा कामं कान्तासुखावहम् ॥ २७॥
शक्र उवाच ।
यत्कार्यं मनसोद्दिष्टं मया तात मनोभव ।
कर्त्तुं तत् त्वं समर्थोऽसि नान्यस्मात्तस्य सम्भवः ॥ २८॥
शृणु काम प्रवक्ष्यामि यथार्थं मित्रसत्तम ।
यदर्थे च स्पृहा जाता तव चाद्य मनोभव ॥ २९॥
तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् ।
अभूतजेयः सम्प्राप्य सर्वेषामपि दुःखदः ॥ ३०॥
तेन सम्पीड्यते लोको नष्टा धर्मा ह्यनेकशः ।
दुःखिता निर्जराः सर्वे ऋषयश्च तथाखिलाः ॥ ३१॥
देवैश्च सकलैस्तेन कृतं युद्धं यथाबलम् ।
सर्वेषां चायुधान्यत्र विफलान्यभवन्पुरा ॥ ३२॥
भग्नः पाशो जलेशस्य हरिचक्रं सुदर्शनम् ।
तत्कुण्ठितमभूत्तस्य कण्ठे क्षिप्तं च विष्णुना ॥ ३३॥
एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः ।
शम्भोर्वीर्योद्भवाद्बालान्महायोगीश्वरस्य हि ॥ ३४॥
एतत्कार्यं त्वया साधु कर्तव्यं सुप्रयत्नतः ।
ततःस्यान्मित्रवर्याति देवानां नः परं सुखम् ॥ ३५॥
ममापि विहितं तस्मात्सर्वलोकसुखावहम् ।
मित्रधर्मं हृदि स्मृत्वा कर्तुमर्हसि साम्प्रतम् ॥ ३६॥
शम्भुःस गिरिराजे हि तपः परममास्थितः ।
स प्रभुर्नापि कामेन स्वतन्त्रः परमेश्वरः ॥ ३७॥
तत्समीपे च देवार्थं पार्वती स्वसखीयुता ।
सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् ॥ ३८॥
यथा तस्यां रुचिस्तस्य शिवस्य नियतात्मनः ।
जायेत नितरां मार तथा कार्यं त्वया ध्रुवम् ॥ ३९॥
इति कृत्वा कृती स्यास्त्वं सर्वं दुःखं विनङ्क्ष्यति ।
लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा ॥ ४०॥
ब्रह्मोवाच ।
इत्युक्तः स तु कामो हि प्रफुल्लमुखपङ्कजः ।
प्रेम्णोवाचेति देवेशं करिष्यामि न संशयः ॥ ४१॥
इत्युक्त्वा वचनं तस्मै तथेत्योमिति तद्वचः ।
अग्रहीत्तरसा कामः शिवमायाविमोहितः ॥ ४२॥
यत्र योगीश्वरः साक्षात्तप्यते परमं तपः ।
जगाम तत्र सुप्रीतः सदारः सवसन्तकः ॥ ४३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्रकामसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ २.३.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१८. अष्टादशोऽध्यायः । कामकृतविकारवर्णनम् ।
कामविकारवर्णनं
ब्रह्मोवाच ।
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ।
मोहकः स मधोश्चादौ धर्मं विस्तारयन्स्थितः ॥ १॥
वसन्तस्य च यो धर्मः प्रससार स सर्वतः ।
तपःस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ॥ २॥
वनानि च प्रफुल्लानि पादपानां महामुने ।
आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ॥ ३॥
पुष्पाणि सहकाराणामशोकवनिकासु वै ।
विरेजुस्सुस्मरोद्दीपकराणि सुरभीण्यपि ॥ ४॥
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।
बभूवुर्मदनावेशकराणि च विशेषतः ॥ ५॥
सुकामोद्दीपनकरं कोकिलाकलकूजितम् ।
आसीदति सुरम्यं हि मनोहरमतिप्रियम् ॥ ६॥
भ्रमराणां तथा शब्दा विविधा अभवन्मुने ।
मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ॥ ७॥
चन्द्रस्य विशदा कान्तिर्विकीर्णा हि समन्ततः ।
कामिनां कामिनीनां च दूतिका इव साभवत् ॥ ८॥
मानिनां प्रेरणायासीत्तत्काले कालदीपिका ।
मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ॥ ९॥
एवं वसन्तविस्तारो मदनावेशकारकः ।
वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत् ॥ १०॥
अचेतसामपि तदा कामासक्तिरभून्मुने ।
सुचेतसां हि जीवानां सेति किं वर्ण्यते कथा ॥ ११॥
एवं चकार स मधुः स्वप्रभावं सुदुस्सहम् ।
सर्वेषां चैव जीवानां कामोद्दीपनकारकः ॥ १२॥
अकालनिर्मितं तात मधोर्वीक्ष्य हरस्तदा ।
आश्चर्यं परमं मेने स्वलीलात्ततनुः प्रभुः ॥ १३॥
अथ लीलाकरस्तत्र तपः परमदुष्करम् ।
तताप स वशीशो हि हरो दुःखहरः प्रभुः ॥ १४॥
वसन्ते प्रसृते तत्र कामो रतिसमन्वितः ।
चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ॥ १५॥
स्वप्रभावं वितस्तार मोहयन्सकलान् जनान् ।
रत्या युक्तं तदा कामं दृष्ट्वा को वा न मोहितः ॥ १६॥
एवं प्रवृत्तसुरतौ शृङ्गारोऽपि गणैः सह ।
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ॥ १७॥
मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ।
न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रविश्यते ॥ १८॥
यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ।
महादेवे तदा सोऽभून्महाभयविमोहितः ॥ १९॥
ज्वलज्ज्वालाग्निसङ्काशभालनेत्रसमन्वितम् ।
ध्यानस्थं शङ्करं को वा समासादयितुं क्षमः ॥ २०॥
एतस्मिन्नन्तरे तत्र सखीभ्यां संयुता शिवा ।
जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ॥ २१॥
पृथिव्यां यादृशं लोकैः सौन्दर्यं वर्ण्यते महत् ।
तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ॥ २२॥
आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ।
तत्सौन्दर्यं कथं वर्ण्यमपि वर्षशतैरपि ॥ २३॥
यदा शिवसमीपे तु गता सा पर्वतात्मजा ।
तदैव शङ्करो ध्यानं त्यक्त्वा क्षणमवस्थितः ॥ २४॥
तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ॥ २५॥
शृङ्गारैश्च तदा भावैः सहिता पार्वती हरम् ।
जगाम कामसाहाय्ये मुने सुरभिणा सह ॥ २६॥
तदैवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ।
द्रुतं पुष्पशरं तस्मै स्मरोऽमुञ्चत्सुसंयतः ॥ २७॥
यथा निरन्तरं नित्यमागच्छति तथा शिवम् ।
तं नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ॥ २८॥
सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ।
विवृण्वती तदाङ्गानि स्त्रीस्वभावात्सुलज्जया ॥ २९॥
सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ।
शिवोऽपि वर्णयामास तदङ्गानि मुदा मुने ॥ ३०॥
शिव उवाच ।
किं मुखं किं शशाङ्कश्च किं नेत्रे चोत्पले च किम् ।
भ्रुकुट्यौ धनुषी चैते कन्दर्पस्य महात्मनः ॥ ३१॥
अधरः किं च बिम्बं किं किं नासा शुकचञ्चुका ।
किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ॥ ३२॥
किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ।
पुष्पाणि किं च वर्ण्यन्ते वस्त्राणि च तथा पुनः ॥ ३३॥
लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ।
सर्वथा रमणीयानि सर्वाङ्गानि न संशयः ॥ ३४॥
अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ।
एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी ॥ ३५॥
सुलावण्यनिधिश्चेयमद्भुताङ्गानि बिभ्रती ।
विमोहिनी मुनीनां च महासुखविवर्धीनी ॥ ३६॥
ब्रह्मोवाच ।
इत्येवं वर्णयित्वा तु तदङ्गानि मुहुर्मुहुः ।
विधिदत्तवराध्यासाद्धरस्तु विरराम ह ॥ ३७॥
हस्तं वस्त्रान्तरे यावदचालयत शङ्करः ।
स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ॥ ३८॥
विवृण्वती निजाङ्गानि पश्यन्ती च मुहुर्मुहुः ।
सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ॥ ३९॥
एवं चेष्टां तदा दृष्ट्वा शम्भुर्मोहमुपागतः ।
उवाच वचनं चैवं महालीलो महेश्वरः ॥ ४०॥
अस्या दर्शनमात्रेण महानन्दो भवत्यलम् ।
यदालिङ्गनमेतस्याः कुर्यां किन्तु ततः सुखम् ॥ ४१॥
क्षणमात्रं विचार्येत्थं सम्पूज्य गिरिजां ततः ।
प्रबुद्धः स महायोगी सुविरक्तो जगाविति ॥ ४२॥
किं जातं चरितं चित्रं किमहं मोहमागतः ।
कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ॥ ४३॥
ईश्वरोऽहं यदीच्छेयं पराङ्गस्पर्शनं खलु ।
तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ॥ ४४॥
एवं वैराग्यमासाद्य पर्यङ्कासादनं च तत् ।
वारयामास सर्वात्मा परेशः किं पतेदिह ॥ ४५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामकृतविकारवर्णनं नामाष्टादशोऽध्यायः ॥ २.३.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.१९. एकोनविंशोऽध्यायः । शिवेन कामदेवविनाशः ।
नारद उवाच ।
ब्रह्मन्विधे महाभाग किं जातं तदनन्तरम् ।
कथय त्वं प्रसादेन तां कथां पापनाशिनीम् ॥ १॥
ब्रह्मोवाच ।
श्रूयतां सा कथा तात यज्जातं तदनन्तरम् ।
तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम् ॥ २॥
धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः ।
विचिचिन्त मनस्येवं विस्मितोऽति ततः परम् ॥ ३॥
शिव उवाच ।
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ।
केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ॥ ४॥
कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् ।
जातो धर्मविरोधोऽत्र श्रुतिसीमा विलङ्घिता ॥ ५॥
ब्रह्मोवाच ।
विचिन्त्येत्थं महायोगी परमेशः सतां गतिः ।
दिशो विलोकयामास परितः शङ्कितस्तदा ॥ ६॥
वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् ।
स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम् ॥ ७॥
तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः ।
सञ्जातः क्रोधसम्मर्दस्तत्क्षणादपि नारद ॥ ८॥
कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः ।
चिक्षेपास्त्रं दुर्निवारममोघं शङ्करे मुने ॥ ९॥
बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि ।
समशाम्यत्ततस्तस्मिन्सङ्क्रुद्धे परमेश्वरे ॥ १०॥
मोघीभूते शिवे स्वेऽस्त्रे भयमापाशु मन्मथः ।
चकम्पे च पुरः स्थित्वा दृष्ट्वा मृत्युञ्जयं प्रभुम् ॥ ११॥
सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः ।
स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके ॥ १२॥
कामेन सुस्मृता देवाः शक्राद्यास्ते मुनीश्वर ।
आययुः सकलास्ते हि शम्भुं नत्वा च तुष्टुवुः ॥ १३॥
स्तुतिं कुर्वत्सु देवेषु क्रुद्धस्याति हरस्य हि ।
तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान् ॥ १४॥
ललाटमध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः ।
जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः ॥ १५॥
उत्पत्य गगने तूर्णं निपत्य धरणी तले ।
भ्रामं भ्रामं स्वपरितः पपात मेदिनीं परि ॥ १६॥
भस्मसात्कृतवान्साधो मदनं तावदेव हि ।
यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥ १७॥
हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः ।
रुरुदुर्विह्वलाश्चातिक्रोशन्तः किमभूदिति ॥ १८॥
श्वेताङ्गा विकृतात्मा च गिरिराजसुता तदा ।
जगाम मन्दिरं स्वं च समादाय सखीजनम् ॥ १९॥
क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा ।
भर्तृमृत्युजदुःखेन पतिता सा मृता इव ॥ २०॥
जातायां चैव संज्ञायां रतिरत्यन्तविह्वला ।
विललाप तदा तत्रोच्चरन्ती विविधं वचः ॥ २१॥
रतिरुवाच ।
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ।
मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् ॥ २२॥
हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ।
इदं तु किमभूदत्र हा हा प्रिय प्रियेति च ॥ २३॥
ब्रह्मोवाच ।
इत्थं विलपती सा तु वदन्ती बहुधा वचः ।
हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा ॥ २४॥
तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः ।
अभवन्दुःखिताः सर्वे स्थावरा अपि नारद ॥ २५॥
एतस्मिन्नन्तरे तत्र देवाः शक्रादयोऽखिलाः ।
रतिमूचुः समाश्वास्य संस्मरन्तो महेश्वरम् ॥ २६॥
देवा ऊचुः ।
किञ्चिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज ।
जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् ॥ २७॥
सुखदाता न कोऽप्यस्ति दुःखदाता न कश्चन ।
सर्वोऽपि स्वकृतं भुङ्क्ते देवान् शोचसि वै वृथा ॥ २८॥
ब्रह्मोवाच ।
इत्याश्वास्य रतिं देवाः सर्वे शिवमुपागताः ।
सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन् ॥ २९॥
देवा ऊचुः ।
भगवन् श्रूयतामेतद्वचनं नः शुभं प्रभो ।
कृपां कृत्वा महेशान शरणागतवत्सल ॥ ३०॥
सुविचारय सुप्रीत्या कृतिं कामस्य शङ्कर ।
कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर ॥ ३१॥
दुष्टेन पीडितैर्देवैस्तारकेणाखिलैर्विभो ।
कर्म तत्कारितं नाथ नान्यथा विद्धि शङ्कर ॥ ३२॥
रतिरेकाकिनी देव विलापं दुःखिता सती ।
करोति गिरिश त्वं च तामाश्वासय सर्वद ॥ ३३॥
संहारं कर्तुकामोऽसि क्रोधेनानेन शङ्कर ।
दैवतैः सह सर्वेषां हतवांस्तं यदि स्मरम् ॥ ३४॥
दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः ।
तस्मात्त्वया च कर्तव्यं रत्याश्शोकापनोदनम् ॥ ३५॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवान् शिवः ।
देवानां सकलानां च वचनं चेदमब्रवीत् ॥ ३६॥
शिव उवाच ।
देवाश्च ऋषयः सर्वे मद्वचः शृणुतादरात् ।
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवेत् ॥ ३७॥
अनङ्गस्तावदेव स्यात्कामो रतिपतिः प्रभुः ।
यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः ॥ ३८॥
द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति ।
तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति ॥ ३९॥
प्रद्युम्नं नाम तस्यैव भविष्यति न संशयः ।
जातमात्रं तु तं पुत्रं शम्बरः संहरिष्यति ॥ ४०॥
हृत्वा प्रास्य समुद्रं तं शम्बरो दानवोत्तमः ।
मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति ॥ ४१॥
तावच्च नगरं तस्य रते स्थेयं यथासुखम् ।
तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥ ४२॥
तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे ।
भविष्यति सुखी देवाः प्रद्युम्नाख्यः स्वकामिनीम् ॥ ४३॥
तदीयं चैव यद् द्रव्यं नीत्वा स नगरं पुनः ।
गमिष्यति तया सार्धं देवाः सत्यं वचो मम ॥ ४४॥
ब्रह्मोवाच ।
इति श्रुत्वा वचः शम्भोर्देवा ऊचुः प्रणम्य तम् ।
किञ्चिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नताङ्गकाः ॥ ४५॥
देवा ऊचुः ।
देवदेव महादेव करुणासागर प्रभो ।
शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर ॥ ४६॥
ब्रह्मोवाच ।
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः ।
पुनर्बभाषे करुणासागरः सकलेश्वरः ॥ ४७॥
शिव उवाच ।
हे देवाः सुप्रसन्नोऽस्मि जीवयिष्यामि चान्तरे ।
कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः ॥ ४८॥
नाख्येयमिदमाख्यानं कस्यचित्पुरतः सुराः ।
गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः ॥ ४९॥
ब्रह्मोवाच ।
इत्युक्त्वान्तर्दधे रुद्रो देवानां स्तुवतां तदा ।
सर्वे देवाः सुप्रसन्ना बभूवुर्गतविस्मयाः ॥ ५०॥
ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः ।
उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने ॥ ५१॥
कामपत्नी समादिष्टं नगरं सा गता तदा ।
प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर ॥ ५२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥ २.३.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२०. विंशोऽध्यायः । वडवानलचरितम् ।
नारद उवाच ।
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ।
गता कुत्र वद त्वं तच्चरितं शशिमौलिनः ॥ १॥
ब्रह्मोवाच ।
यदा भस्म चकाराशु तृतीयनयनानलः ।
शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ॥ २॥
हाहाकारो महानासीत् त्रैलोक्ये सचराचरे ।
सर्वे देवर्षयस्तात शरणं मां ययुर्द्रुतम् । ३॥
सर्वे निवेदयामासुस्तद्दुःखं मह्यमाकुलाः ।
सुप्रणम्य सुसंस्तूय करौ बद्ध्वा नताननाः ॥ ४॥
तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ।
गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ॥ ५॥
सन्दग्धुकामः स शुचिर्ज्वालामालातिदीपितः ।
स्तम्भितोऽरं मया शम्भुप्रसादाप्तसुतेजसा ॥ ६॥
अथ क्रोधमयं वह्निं दग्धुकामं जगत्त्रयम् ।
वाडवं तमकर्षं च सौम्यज्वालामुखं मुने ॥ ७॥
तं वाडवतनुमहं समादाय शिवेच्छया ।
सागरं समगां लोकहिताय जगतां पतिः ॥ ८॥
आगतं मां समालोक्य सागरस्साञ्जलिर्मुने ।
धृत्वा च पौरुषं रूपमागतः सन्निधिं मम ॥ ९॥
सुप्रणम्याथ मां सिन्धुः संस्तूय च यथाविधि ।
स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ॥ १०॥
सागर उवाच ।
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ।
तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ॥ ११॥
अथाहं सागरवचः श्रुत्वा प्रीतिपुरस्सरम् ।
प्रावोचं शङ्करं स्मृत्वा लौकिकं हितमावहन् ॥ १२॥
ब्रह्मोवाच ।
शृणु तात महाधीमन्सर्वलोकहितावह ।
वच्म्यहं प्रीतितःसिन्धो शिवेच्छाप्रेरितो हृदा ॥ १३॥
अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ।
दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ॥ १४॥
प्रार्थितोऽहं सुरैः शीघ्रं पीडितैः शङ्करेच्छया ।
तत्रागत्य द्रुतं तं वै तात स्तम्भितवान् शुचिम् ॥ १५॥
वाडवं रूपमाधत्त तमादायागतोऽत्र ह ।
निर्दिशामि जलाधार त्वामहं करुणाकरः ॥ १६॥
अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ।
ज्वालामुखस्त्वया धार्यो यावदाभूतसम्प्लवम् ॥ १७॥
यदात्राहं समागम्य वत्स्यामि सरितां पते ।
तदा त्वया परित्याज्यः क्रोधोऽयं शाङ्करोऽद्भुतः ॥ १८॥
भोजनं तोयमेतस्य तव नित्यं भविष्यति ।
यत्नादेवावधार्योऽयं यथा नोपैति चान्तरम् ॥ १९॥
इत्युक्तो हि मया सिन्धुरङ्गीचक्रे तदा ध्रुवम् ।
ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ॥ २०॥
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।
वार्यौघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ॥ २१॥
ततःसन्तुष्टचेतस्कः स्वं धामाहं गतो मुने ।
अन्तर्धानमगात्सिन्धुर्दिव्यरूपः प्रणम्य माम् ॥ २२॥
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ।
देवा बभूवुः सुखिनो मुनयश्च महामुने ॥ २३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वडवानलचरितवर्णनं नाम विंशोऽध्यायः ॥ २.३.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२१. एकविंशोऽध्यायः । पार्वत्यै नारदोपदेशः ।
नारद उवाच ।
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ।
अद्भुतेयं कथा प्रोक्ता शङ्करस्य महात्मनः ॥ १॥
भस्मीभूते स्मरे शम्भुतृतीयनयनाग्निना ।
तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥
किं चकार ततो देवी पार्वती कुधरात्मजा ।
गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥
ब्रह्मोवाच ।
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ।
महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४॥
यदादहच्छम्भुनेत्रोद्भवो हि मदनं शुचिः ।
महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५॥
तेन शब्देन महता कामं दग्धं समीक्ष्य च ।
सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला ॥ ६॥
तेन शब्देन हिमवान्परिवारसमन्वितः ।
विस्मितोऽभूदतिक्लिष्टः सुतां स्मृत्वा गतां ततः ॥ ७॥
जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ।
रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ॥ ८॥
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ।
मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥
क्रोडे कृत्वा सुतां शीघ्रं हिमवानचलेश्वरः ।
स्वमालयमथानिन्ये सान्त्वयन्नतिविह्वलाम् ॥ १०॥
अन्तर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ।
विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥
पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ।
पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ १२॥
निनिन्द च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ।
सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥
स्वपती च पिबन्ती च सा स्नाती गच्छती शिवा ।
तिष्ठन्ती च सखीमध्ये न किञ्चित्सुखमाप ह ॥ १४॥
धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ।
इति ब्रुवन्ती सततं स्मरन्ती हरचेष्टितम् ॥ १५॥
एवं सा पार्वती शम्भुविरहोत्क्लिष्टमानसा ।
सुखं न लेभे किञ्चिद्वाब्रवीच्छिवशिवेति च ॥ १६॥
निवसन्ती पितुर्गेहे पिनाकिगतचेतना ।
शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७॥
शैलाधिराजोऽप्यथ मेनकापि
मैनाकमुख्यास्तनयाश्च सर्वे ।
तां सान्त्वयामासुरदीनसत्त्वा
हरं विसस्मार तथापि नो सा ॥ १८॥
अथ देवमुने धीमन्हिमवत्प्रस्तरे तदा ।
नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९॥
ततस्त्वं पूजितस्तेन भूधरेण महात्मना ।
कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ २०॥
ततः प्रोवाच शैलेशः कन्याचरितमादितः ।
हरसेवान्वितं कामदहनं च हरेण ह ॥ २१॥
श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ।
तमामन्त्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२॥
तं समुत्सृज्य रहसि कालीं तामगमस्त्वरा ।
लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥
आसाद्य कालीं सम्बोध्य तद्धिते स्थित आदरात् ।
अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥
नारद उवाच ।
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः ।
सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५॥
सेवितश्च महादेवस्त्वयेह तपसा विना ।
गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥
विरक्तश्च स ते स्वामी महायोगी महेश्वरः ।
विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७॥
तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ।
तपसा संस्कृतां रुद्रः स द्वितीयां करिष्यति ॥ २८॥
त्वं चापि शङ्करं शम्भुं न त्यक्ष्यसि कदाचन ।
नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९॥
ब्रह्मोवाच ।
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ।
किञ्चिदुच्छ्वसिता काली प्राह त्वां साञ्जलिर्मुदा ॥ ३०॥
शिवोवाच ।
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ।
रुद्रस्याराधनार्थाय मन्त्रं देहि मुने हि मे ॥ ३१॥
न सिध्यति क्रिया कापि सर्वेषां सद्गुरुं विना ।
मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२॥
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ।
पञ्चाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३॥
अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने ।
प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥
नारद उवाच ।
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ।
यस्य श्रवणमात्रेण शङ्करः सुप्रसीदति ॥ ३५॥
मन्त्रोऽयं सर्वमन्त्राणामधिराजश्च कामदः ।
भुक्तिमुक्तिप्रदोऽत्यन्तं शङ्करस्य महाप्रियः ॥ ३६॥
सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ।
आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम् ॥ ३७॥
चिन्तयन्ती च तद्रूपं नियमस्था शराक्षरम् ।
जप मन्त्रं शिवे त्वं हि सन्तुष्यति शिवो द्रुतम् ॥ ३८॥
एवं कुरु तपः साध्वि तपःसाध्यो महेश्वरः ।
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥
ब्रह्मोवाच ।
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः ।
यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ ४०॥
पार्वती च तदा श्रुत्वा वचनं तव नारद ।
सुप्रसन्ना तदा प्राप पञ्चाक्षरमनूत्तमम् ॥ ४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २.३.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२२. द्वाविंशोऽध्यायः । पार्वतीतपोवर्णनम् ।
ब्रह्मोवाच ।
त्वयि देवमुने याते पार्वती हृष्टमानसा ।
तपःसाध्यं हरं मेने तपोऽर्थं मन आदधे ॥ १॥
ततः सख्यौ समादाय जयां च विजयां तथा ।
मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ॥ २॥
प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् ।
पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ॥ ३॥
सख्यावूचतुः -
हिमवन् श्रूयतां पुत्रीवचनं कथ्यतेऽधुना ॥
सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः । ४॥
भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति ।
तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ॥ ५॥
तस्माच्च पर्वतश्रेष्ठ देयाज्ञा भवताधुना ।
तपः करोतु गिरिजा वनं गत्वेति सादरम् ॥ ६॥
ब्रह्मोवाच ।
इत्येवं च तदा पृष्टः सखीभ्यां मुनिसत्तम ।
पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ॥ ७॥
हिमालय उवाच ।
मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः ।
यथेदं भवितव्यं च किमतः परमुत्तमम् ॥ ८॥
साफल्यं तु मदीयस्य कुलस्य च न संशयः ।
मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम् ॥ ९॥
ब्रह्मोवाच ।
इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा ।
जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ॥ १०॥
गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद ।
सुप्रणम्य करौ बध्वोचतुर्वचनमादरात् ॥ ११॥
सख्यावूचतुः
मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ॥
सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि । १२॥
तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः ।
प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ॥ १३॥
इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते ।
त्वदाज्ञा यदि जायेत तप्यते च तथा तपः ॥ १४॥
ब्रह्मोवाच ।
इत्युक्त्वा च ततःसख्यौ तूष्णीमास्तां मुनीश्वर ।
नाङ्गीचकार मेना सा तद्वाक्यं खिन्नमानसा ॥ १५॥
ततः सा पार्वती प्राह स्वयमेवाथ मातरम् ।
करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदाम्बुजम् ॥ १६॥
पार्वत्युवाच ।
मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ।
अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥ १७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता ।
सोपाहूय तदा पुत्रीमुवाच विकला सती ॥ १८॥
मेनोवाच ।
दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि ।
तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ॥ १९॥
कुत्र यासि तपः कर्तुं देवाः सन्ति गृहे मम ।
तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ २०॥
कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् ।
साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ॥ २१॥
शरीरं कोमलं वत्से तपस्तु कठिनं महत् ।
एतस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ॥ २२॥
स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी ।
तस्मात्त्वं पुत्रि मा कार्षीः तपोऽर्थं गमनं प्रति ॥ २३॥
ब्रह्मोवाच ।
इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता ।
संवदे न सुखं किञ्चिद्विनाराध्य महेश्वरम् ॥ २४॥
तपोनिषिद्धा तपसे वनं गन्तुं च मेनया ।
हेतुना तेन सोमेति नाम प्राप शिवा तदा ॥ २५॥
अथ तां दुःखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ।
निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ॥ २६॥
मातुराज्ञां च सम्प्राप्य सुव्रता मुनिसत्तम ।
ततः स्वान्ते सुखं लेभे पार्वती स्मृतशङ्करा ॥ २७॥
मातरं पितरं साथ प्रणिपत्य मुदा शिवा ।
सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता ॥ २८॥
हित्वा मतान्यनेकानि वस्त्राणि विविधानि च ।
वल्कलानि धृतान्याशु मौञ्जीं बद्ध्वा तु शोभनाम् ॥ २९॥
हित्वा हारं तथा चर्म मृगस्य परमं धृतम् ।
जगाम तपसे तत्र गङ्गावतरणं प्रति ॥ ३०॥
शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः ।
गङ्गावतरणो नाम प्रस्थो हिमवतःस च ॥ ३१॥
हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः ।
काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ॥ ३२॥
यत्र स्थित्वा पुरा शम्भुः तप्तवान्दुस्तरं तपः ।
तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ ३३॥
हा हरेति शिवा तत्र रुदन्ती सा गिरेः सुता ।
विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ ३४॥
ततश्चिरेण सा मोहं धैर्यात्संस्तभ्य पार्वती ।
नियमायाभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३५॥
तपश्चकार सा तत्र शृङ्गितीर्थे महोत्तमे ।
गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत् ॥ ३६॥
सुन्दराश्च द्रुमास्तत्र पवित्राश्शिवया मुने ।
आरोपिताः परीक्षार्थं तपसः फलभागिनः ॥ ३७॥
भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी ।
तथा तपःसमारब्धं मुनीनामपि दुष्करम् ॥ ३८॥
विगृह्य मनसा सर्वाणीन्द्रियाणि सहाशु सा ।
समुपस्थानिके तत्र चकार परमं तपः ॥ ३९॥
ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् ।
कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम् ॥ ४०॥
सततं चैव वर्षासु स्थण्डिले सुस्थिरासना ।
शिलापृष्ठे च संसिक्ता बभूव जलधारया ॥ ४१॥
शीते जलान्तरे शश्वत्तस्थौ सा भक्तितत्परा ।
अनाहारातपत्तत्र नीहारेषु निशासु च ॥ ४२॥
एवं तपः प्रकुर्वाणा पञ्चाक्षरजपे रता ।
दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम् ॥ ४३॥
स्वारोपितान् शुभान्वृक्षान्सखीभिस्सिञ्चती मुदा ।
प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत् ॥ ४४॥
वातश्चैव तथा शीतवृष्टिश्च विविधा तथा ।
दुस्सहोऽपि तथा घर्मस्तया सेहे सुचित्तया ॥ ४५॥
दुःखं च विविधं तत्र गणितं न तयागतम् ।
केवलं मन आधाय शिवे सासीत्स्थिता मुने ॥ ४६॥
प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः ।
तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ॥ ४७॥
ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता ।
निराहाराभवद्देवी तपश्चरणसंरता ॥ ४८॥
आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता ।
तेन देवैरपर्णेति कथिता नामतः शिवा ॥ ४९॥
एकपादस्थिता सासीच्छिवं संस्मृत्य पार्वती ।
पञ्चाक्षरं जपन्ती च मनुं तेपे तपो महत् ॥ ५०॥
चीरवल्कलसंवीता जटासङ्घातधारिणी ।
शिवचिन्तनसंसक्ता जिगाय तपसा मुनीन् ॥ ५१॥
एवं तस्यास्तपस्यन्त्या चिन्तयन्त्या महेश्वरम् ।
त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ५२॥
षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ।
तत्र क्षणमथोषित्वा चिन्तयामास सा शिवा ॥ ५३॥
नियमस्थां महादेव किं मां जानासि नाधुना ।
येनाहं सुचिरं तेन नानुयाता तपोरता ॥ ५४॥
लोके वेदे च गिरिशो मुनिभिर्गीयते सदा ।
शङ्करः स हि सर्वज्ञः सर्वात्मा सर्वदर्शनः ॥ ५५॥
सर्वभूतिप्रदो देवः सर्वभावानुभावनः ।
भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ॥ ५६॥
सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे ।
अनुरक्ता तदा सोऽत्र सम्प्रसीदतु शङ्करः ॥ ५७॥
यदि नारदतन्त्रोक्तमन्त्रो जप्तः शराक्षरः ।
सुभक्त्या विधिना नित्यं सम्प्रसीदतु शङ्करः ॥ ५८॥
यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् ।
सर्वेश्वरस्य चात्यन्तं सम्प्रसीदतु शङ्करः ॥ ५९॥
एवं चिन्तयती नित्यं तेपे सा सुचिरं तपः ।
अधोमुखी निर्विकारा जटावल्कलधारिणी ॥ ६०॥
तथा तया तपस्तप्तं मुनीनामपि दुष्करम् ।
स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ॥ ६१॥
तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः ।
धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ॥ ६२॥
महतां धर्मवृद्धेषु गमनं श्रेय उच्यते ।
प्रमाणं तपसो नास्ति मान्यो धर्मःसदा बुधैः ॥ ६३॥
श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः ।
अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ॥ ६४॥
जल्पन्त इति ते सर्वे सुप्रशस्य शिवातपः ।
जग्मुः स्वं धाम मुदिताः कठिनाङ्गाश्च ये ह्यपि ॥ ६५॥
अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना ।
पार्वत्या जगदम्बायाः पराश्चर्यकरं महत् ॥ ६६॥
तदाश्रमगता ये च स्वभावेन विरोधिनः ।
तेऽप्यासँस्तत्प्रभावेण विरोधरहितास्तदा ॥ ६७॥
सिंहा गावश्च सततं रागादिदोषसंयुताः ।
तन्महिम्ना च ते तत्र नाबाधन्त परस्परम् ॥ ६८॥
अथान्ये च मुनिश्रेष्ठ मार्जारा मूषकादयः ।
निसर्गाद्वैरिणो यत्र विक्रियन्ते स्म न क्वचित् ॥ ६९॥
वृक्षाश्च सफलास्तत्र तृणानि विविधानि च ।
पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ॥ ७०॥
तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् ।
जातं च तपसस्तस्याः सिद्धिरूपमभूत्तदा ॥ ७१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीतपोवर्णनं नाम द्वाविंशोऽध्यायः ॥ २.३.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२३. त्रयोविंशोऽध्यायः । शिवेन पार्वतीसान्त्वनम् ।
ब्रह्मोवाच ।
एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर ।
चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १॥
हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् ।
सभार्यः ससुतामात्य उवाच परमेश्वरीम् ॥ २॥
हिमालय उवाच ।
मा खिद्यतां महाभागे तपसानेन पार्वती ।
रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३॥
त्वं तन्वी सुकुमाराङ्गी तपसा च विमोहिता ।
भविष्यसि न सन्देहः सत्यं सत्यं वदामि ते ॥ ४॥
तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि ।
किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५॥
अतो हि निर्विकारत्वात्त्वामादातुं वरां हरः ।
नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६॥
गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते ।
तथैव दुर्गमं शम्भुं जानीहि त्वमिहानघे ॥ ७॥
ब्रह्मोवाच ।
तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ।
मेरुणा मन्दरेणैव मैनाकेन तथैव सा ॥ ८॥
एवमन्यैः क्षितिध्रैश्च क्रौञ्चादिभिरनातुरा ।
तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९॥
एवं प्रोक्ता यदा तन्वी सा सर्वैः तपसि स्थिता ।
उवाच प्रहसन्त्येव हिमवन्तं शुचिस्मिता ॥ १०॥
पार्वत्युवाच ।
पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया ।
अधुनापि प्रतिज्ञां च शृणुध्वं मम बान्धवाः ॥ ११॥
विरक्तोऽसौ महादेवो येन दग्धो रुषा स्मरः ।
तं तोषयामि तपसा शङ्करं भक्तवत्सलम् ॥ १२॥
सर्वे भवन्तो गच्छन्तु स्वं स्वं धाम प्रहर्षिताः ।
भविष्यत्येव तुष्टोऽसौ नात्र कार्या विचारणा ॥ १३॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ।
तमानयिष्ये चात्रैव तपसा केवलेन हि ॥ १४॥
तपोबलेन महता सुसेव्यो हि सदाशिवः ।
जानीध्वं हि महाभागाः सत्यं सत्यं वदामि वः ॥ १५॥
आभाष्य चैवं गिरिजा च मेनकां
मैनाकबन्धुं पितरं हिमालयम् ।
तूष्णीं बभूवाशु सुभाषिणी शिवा
समन्दरं पर्वतराजबालिका ॥ १६॥
जग्मुस्तथोक्ताः शिवया हि पर्वता
यथागतेनापि विचक्षणास्ते ।
प्रशंसमाना गिरिजां मुहुर्मुहुः
सुविस्मिता हेमनगेश्वराद्याः ॥ १७॥
गतेषु तेषु सूर्वेषु सखीभिः परिवारिता ।
तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १८॥
तपसा महता तेन तप्तमासीच्चराचरम् ।
त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९॥
तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः ।
सिद्धाःसाध्याश्च मुनयो विद्याधरमहोरगाः ॥ २०॥
सप्रजापतयश्चैव गुह्यकाश्च तथापरे ।
कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१॥
सर्वे मिलित्वा शक्राद्या गुरुमामन्त्र्य विह्वलाः ।
सुमेरौ तप्तसर्वाङ्गा विधिं मां शरणं ययुः ॥ २२॥
तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः ।
ऊचुःसर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३॥
देवा ऊचुः ।
त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् ।
सन्तप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥ २४॥
तद् ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो ।
दग्धीभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षकः ॥ २५॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा ।
विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६॥
दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् ।
हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७॥
तत्र गत्वा हरिं दृष्ट्वा विलसन्तं सुखासने ।
सुप्रणम्य सुसंस्तूय प्रावोचं साञ्जलिः सुरैः ॥ २८॥
त्राहि त्राहि महाविष्णो तप्तान्नः शरणागतान् ।
तपसोग्रेण पार्वत्यास्तपन्त्याः परमेण हि ॥ २९॥
इत्याकर्ण्य वचस्तेषामस्मदादिदिवौकसाम् ।
शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ ३०॥
विष्णुरुवाच ।
ज्ञातं सर्वं निदानं मे पार्वतीतपसोऽद्य वै ।
युष्माभिः सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१॥
महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् ।
पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः ॥ ३२॥
वरं दातुं शिवायै हि देवदेवः पिनाकधृक् ।
यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत् ॥ ३३॥
तस्माद् वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ।
तपसोग्रेण संयुक्तोऽद्यास्ते परममङ्गलः ॥ ३४॥
ब्रह्मोवाच ।
विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुः सुरादयः ।
महाभीता हठात् कुद्धाद्दग्धुकामात् लयङ्करात् ॥ ३५॥
देवा ऊचुः ।
महाभयङ्करं क्रुद्धं कालानलसमप्रभम् ।
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभुम् ॥ ३६॥
यथा दग्धः पुरा तेन मदनो दुरतिक्रमः ।
तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७॥
ब्रह्मोवाच
तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः ।
सान्त्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८॥
हरिरुवाच ।
हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः ।
न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९॥
तस्माद्भवद्भिर्गन्तव्यं मया सार्धं विचक्षणैः ।
शम्भुं शुभकरं मत्वा शरणं तस्य सुप्रभोः ॥ ४०॥
शिवं पुराणं पुरुषं ह्यधीशं
वरेण्यरूपं हि परं पुराणम् ।
तपो जुषाणं परमात्मरूपं
परात्परं तं शरणं व्रजामः ॥ ४१॥
ब्रह्मोवाच ।
एवमुक्तास्तदा देवा विष्णुना प्रभविष्णुना ।
जग्मुः सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२॥
प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् ।
जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्याः सकुतूहलाः ॥ ४३॥
पार्वत्याः सुतपो दृष्ट्वा तेजसा व्यापृतास्तदा ।
प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपःस्थिताम् ॥ ४४॥
प्रशंसन्तस्तपस्तस्याः साक्षात्सिद्धितनोः सुराः ।
जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५॥
तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा ।
पश्यन्तो दूरतस्तस्थुः कामभस्मकृतो हरात् ॥ ४६॥
नारद त्वं शिवस्थानं तदा गत्वाभयः सदा ।
शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७॥
पुनरागत्य यत्नेन देवानाहूय तांस्ततः ।
निनाय शङ्करस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८॥
अथ विष्ण्वादयः सर्वे तत्र गत्वा शिवं प्रभुम् ।
ददृशुः सुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९॥
योगपट्टस्थितं शम्भुं गणैश्च परिवारितम् ।
तपोरूपं दधानं च परमेश्वररूपिणम् ॥ ५०॥
ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः ।
प्रणम्य तुष्टुवुः सूक्तैर्वेदोपनिषदन्वितैः ॥ ५१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २.३.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२४. चतुर्विंशोऽध्यायः । शिवकृता पार्वतीविवाहस्वीकृतिः ।
देवा ऊचुः ।
नमो रुद्राय देवाय मदनान्तकराय च ॥
स्तुत्याय भूरिभासाय त्रिनेत्राय नमो नमः ॥ १॥
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः ।
महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ।
शम्भुरीशः शङ्करोऽसि दयालुस्त्वं विशेषतः ॥ ३॥
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ।
त्वां विना कः समर्थोऽस्ति दुःखनाशे महेश्वर ॥ ४॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ।
कृपया परया युक्तो विज्ञप्तुं शम्भुमारभत् ॥ ५॥
नन्दिकेश्वर उवाच ।
विष्ण्वादयः सुरगणा मुनिसिद्धसङ्घा-
स्त्वां द्रष्टुमेव सुरवर्य विशेषयन्ति ।
कार्यार्थिनोऽसुरवरैः परिभर्त्स्यमानाः
सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६॥
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयः सुराः ।
दीनबन्धुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७॥
ब्रह्मोवाच ।
एवं दयावता शम्भुर्विज्ञप्तो नन्दिना भृशम् ।
शनैः शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८॥
ईशोऽथोपरतः शम्भुस्तदा परमकोविदः ।
समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९॥
शम्भुरुवाच ।
कस्माद्यूयं समायाता मत्समीपं सुरेश्वराः ।
हरिब्रह्मादयः सर्वे ब्रूत कारणमाशु तत् ॥ १०॥
ब्रह्मोवाच ।
इति श्रुत्वा वचः शम्भोः सर्वे देवा मुदान्विताः ।
विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११॥
अथ विष्णुर्महाभक्तो देवानां हितकारकः ।
मदीरितमुवाचेदं सुरकार्यं महत्तमम् ॥ १२॥
तारकेण कृतं शम्भो देवानां परमाद्भुतम् ।
कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३॥
हे शम्भो तव पुत्रेणौरसेन हि भविष्यति ।
निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४॥
विचार्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ।
देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५॥
तस्मात्त्वया गिरिजा देव शम्भो
ग्रहीतव्या पाणिना दक्षिणेन ।
पाणिग्रहेणैव महानुभावां
दत्तां गिरीन्द्रेण च तां कुरुष्व ॥ १६॥
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ।
दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥ १७॥
शिव उवाच ।
यदा मे स्वीकृता देवी गिरिजा सर्वसुन्दरी ।
तदा सर्वे सुरेन्द्राश्च मुनयो ऋषयस्तदा ॥ १८॥
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ।
जीवयिष्यति दुर्गा सा पाणिग्रहणतः स्मरम् ॥ १९॥
मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये ।
ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ २०॥
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ।
सुधीः सर्वैश्च देवेन्द्र हठं नो कर्तुमर्हसि ॥ २१॥
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ।
सर्वे तिष्ठन्तु निष्कामा मया सह सुनिश्चितम् ॥ २२॥
यथाहं च सुराः सर्वे तथा यूयमयत्नतः ।
तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३॥
यूयं समाधिना तेन मदनेन विना सुराः ।
परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ॥ २४॥
पुरावृत्तं स्मरकृतं विस्मृतं यद् विधे हरे ।
महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५॥
महाधनुर्धरेणैव मदनेन हठात्सुराः ।
सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरामराः ॥ २६॥
कामो हि नरकायैव तस्मात् क्रोधोऽभिजायते ।
क्रोधाद्भवति सम्मोहो मोहाच्च भ्रंशते तपः ॥ २७॥
कामक्रोधौ परित्याज्यौ भवद्भिः सुरसत्तमैः ।
सर्वैरेव च मन्तव्यं मद्वाक्यं नान्यथा क्वचित् ॥ २८॥
ब्रह्मोवाच ।
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ।
सुरान् प्रवाचयामास विधिविष्णू तथा मुनीन् ॥ २९॥
तूष्णीम्भूतोऽभवच्छम्भुर्ध्यानमाश्रित्य वै पुनः ।
आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥ ३०॥
स्वात्मानमात्मना शम्भुरात्मन्येव व्यचिन्तयत् ।
निरञ्जनं निराभासं निर्विकारं निरामयम् ॥ ३१॥
परात्परतरं नित्यं निर्ममं निरवग्रहम् ।
शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥ ३२॥
एवं स्वरूपं परमं चिन्तयन् ध्यानमास्थितः ।
परमानन्दसम्मग्नो बभूव बहुसूतिकृत् ॥ ३३॥
ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः ।
हरिशक्रादयः सर्वे नन्दिनं प्रोचुरानताः ॥ ३४॥
देवा ऊचुः ।
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ।
शम्भुस्त्वं शङ्करसखः सर्वज्ञः शुचिसेवकः ॥ ३५॥
केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप ।
तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ३६॥
ब्रह्मोवाच ।
इति विज्ञापितो देवैर्मुने हर्यादिभिस्तदा ।
प्रत्युवाच सुरांस्तान्स नन्दी शम्भुप्रियो गणः ॥ ३७॥
नन्दीश्वर उवाच ।
हे हरे हे विधे शक्र निर्जरा मुनयस्तथा ।
शृणुध्वं वचनं मे हि शिवसन्तोषकारकम् ॥ ३८॥
यदि वो हठ एवाद्य शिवदारपरिग्रहे ।
अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥ ३९॥
भक्तेर्वश्यो महादेवो न साधारणतः सुराः ।
अकार्यमपि सद्भक्त्या करोति परमेश्वरः ॥ ४०॥
एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ।
यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥ ४१॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयः सुराः ।
तथेति मत्त्वा सुप्रीत्या शङ्करं तुष्टुवुर्हि ते ॥ ४२॥
देवदेव महादेव करुणासागर प्रभो ।
समुद्धर महाक्लेशात् त्राहि नः शरणागतान् ॥ ४३॥
ब्रह्मोवाच ।
इत्येवं बहुदीनोक्त्या तुष्टुवुः शङ्करं सुराः ।
रुरुदुः सुस्वरं सर्वे प्रेमव्याकुलमानसाः ॥ ४४॥
हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ।
संस्मरन्मनसा शम्भुं भक्त्या परमयान्वितः ॥ ४५॥
सुरैरेवं स्तुतः शम्भुर्हरिणा च मया भृशम् ।
भक्तवात्सल्यतो ध्यानाद्विरतोऽभून्महेश्वरः ॥ ४६॥
उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ।
विलोक्य करुणादृष्ट्या शङ्करो भक्तवत्सलः ॥ ४७॥
शङ्कर उवाच ।
हे हरे हे विधे देवाः शक्राद्या युगपत्समे ।
किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥ ४८॥
हरिरुवाच ।
सर्वज्ञस्त्वं महेशान त्वन्तर्याम्यखिलेश्वरः ।
किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥ ४९॥
तारकासुरतो दुःखं सम्भूतं विविधं मृड ।
सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥ ५०॥
शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ।
तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥ ५१॥
इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ।
तदन्यस्मादमृत्युः स बाधते निखिलं जगत् ॥ ५२॥
नारदस्य निदेशात्सा करोति कठिनं तपः ।
तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५३॥
वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ।
देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥ ५४॥
देवानां मे महोत्साहो हृदये चास्ति शङ्कर ।
विवाहं तव सन्द्रष्टुं तत्त्वं कुरु यथोचितम् ॥ ५५॥
रत्यै यद्भवता दत्तो वरस्तस्य परात्पर ।
प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥ ५६॥
ब्रह्मोवाच ।
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ।
संस्तूय विविधैः स्तोत्रैः सन्तस्थुस्तत्पुरोऽखिलाः ॥ ५७॥
भक्ताधीनः शङ्करोऽपि श्रुत्वा देववचस्तदा ।
विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥ ५८॥
शङ्कर उवाच ।
हे हरे हे विधे देवाः शृणुतादरतोऽखिलाः ।
यथोचितमहं वच्मि सविशेषं विवेकतः ॥ ५९॥
नोचितं हि विधानं वै विवाहकरणं नृणाम् ।
महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥ ६०॥
कुसङ्गा बहवो लोके स्त्रीसङ्गस्तत्र चाधिकः ।
उद्धरेत्सकलैर्बन्धैर्न स्त्रीसङ्गात्प्रमुच्यते ॥ ६१॥
लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ।
स्त्र्यादिपाशसुसम्बद्धो मुच्यते न कदाचन ॥ ६२॥
वर्धन्ते विषयाः शश्वन्महाबन्धनकारिणः ।
विषयाक्रान्तमनसः स्वप्ने मोक्षोऽपि दुर्लभः ॥ ६३॥
सुखमिच्छति चेत्प्राज्ञो विधिवद्विषयांस्त्यजेत् ।
विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥ ६४॥
जनो विषयिणा साकं वार्तातः पतति क्षणात् ।
विषयं प्राहुराचार्याः सितालिप्तेन्द्रवारुणीम् ॥ ६५॥
यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ।
तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥ ६६॥
भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्यकृत् ।
अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥ ६७॥
कामरूपाधिपस्यैव पणश्च सफलः कृतः ।
सुदक्षिणस्य भूपस्य भवबन्धगतस्य हि ॥ ६८॥
गौतमक्लेशकर्ताहं त्र्यम्बकात्मा सुखावहः ।
तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥ ६९॥
विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ।
देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥ ७०॥
भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ।
विश्वानरमुनेर्दुःखं हृतं गृहपतिर्भवन् ॥ ७१॥
किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ।
मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः ॥ ७२॥
यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ।
तदा तदा हराम्याशु तत्क्षणात्सर्वशःसदा ॥ ७३॥
जानेऽहं तारकाद्दुःखं सर्वेषां वः समुत्थितम् ।
असुरात्तद्धरिष्यामि सत्यं सत्यं वदाम्यहम् ॥ ७४॥
नास्ति यद्यपि मे काचिद्विवाहकरणे रुचिः ।
विवाहयिष्ये गिरिजां पुत्रोत्पादनहेतवे ॥ ७५॥
गच्छत स्वगृहाण्येव निर्भयाः सकलाः सुराः ।
कार्यं वः साधयिष्यामि नात्र कार्या विचारणा ॥ ७६॥
ब्रह्मोवाच ।
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ।
सर्वे विष्ण्वादयो देवाः स्वधामानि ययुर्मुने ॥ ७७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विंशोऽध्यायः ॥ २.३.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२५. पञ्चविंशोऽध्यायः । सप्तर्षिकृता पार्वतीपरीक्षा ।
नारद उवाच ।
गतेषु तेषु देवेषु विधिविष्ण्वादिकेषु च ।
सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम् ॥ १॥
किं कृतं शम्भुना तात वरं दातुं समागतः ।
कियत्कालेन च कथं तद्वद प्रीतिमावह ॥ २॥
ब्रह्मोवाच ।
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ।
तत्तपः सुपरीक्षार्थं समाधिस्थोऽभवद्भवः ॥ ३॥
स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिन्तयत् ।
परात्परतरं स्वस्थं निर्मायं निरवग्रहम् ॥ ४॥
तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ।
अविज्ञातगतिःसूतिःस हरः परमेश्वरः ॥ ५॥
ब्रह्मोवाच ।
गिरिजा हि तदा तात तताप परमं तपः ।
तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६॥
समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा ।
वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७॥
सप्तापि मुनयः शीघ्रमाययुः स्मृतिमात्रतः ।
प्रसन्नवदनाः सर्वे वर्णयन्तो विधिं बहु ॥ ८॥
प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ।
वाण्या गद्गदया बद्धकरा विनतकन्धराः ॥ ९॥
सप्तर्षय ऊचुः ।
देवदेव महादेव करुणासागर प्रभो ।
जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ १०॥
किमर्थं संस्मृता नाथ शासनं देहि तद्धि नः ।
स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११॥
ब्रह्मोवाच ।
इत्याकर्ण्य मुनीनां तु विज्ञप्तिं करुणानिधिः ।
प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२॥
महेश्वर उवाच ।
हे सप्तमुनयस्ताताः शृणुतारं वचो मम ।
अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३॥
तपश्चरति देवेशी पार्वती गिरिजाधुना ।
गौरीशिखरसंज्ञे हि पर्वते दृढमानसा ॥ १४॥
मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ।
सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५॥
तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः ।
परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः ॥ १६॥
सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ।
न संशयः प्रकर्तव्यः शासनान्मम सुव्रताः ॥ १७॥
ब्रह्मोवाच ।
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ।
यत्र राजति सा दीप्ता जगन्माता नगात्मजा ॥ १८॥
तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा ।
मूर्ता परमतेजस्का विलसन्ती सुतेजसा ॥ १९॥
हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः ।
सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः ॥ २०॥
ऋषय ऊचुः ।
शृणु शैलसुते देवि किमर्थं तप्यते तपः ।
इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१॥
ब्रह्मोवाच ।
इत्युक्ता सा शिवा देवी गिरीन्द्रतनया द्विजैः ।
प्रत्युवाच वचः सत्यं सुगूढमपि तत्पुरः ॥ २२॥
पार्वत्युवाच ।
मुनीश्वराःसंशृणुत मद्वाक्यं प्रीतितो हृदा ।
ब्रवीमि स्वविचारं वै चिन्तितो यो धिया स्वया ॥ २३॥
करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसम्भवाः ।
सङ्कोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४॥
इदं मनो हि सुदृढमवशं परकर्मकृत् ।
जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५॥
सुरर्षेः शासनं प्राप्य करोमि सुदृढं तपः ।
रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६॥
अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ।
तदाशां शङ्करः स्वामी पिपर्त्तु करुणानिधिः ॥ २७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते ।
सम्मान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥ २८॥
ऋषय ऊचुः ।
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः ।
देवर्षेः क्रूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥ २९॥
नारदः कूटवादी च परचित्तप्रमन्थकः ।
तस्य वार्ताश्रवणतो हानिर्भवति सर्वथा ॥ ३०॥
तत्र त्वं शृणु सद् बुद्ध्या चेतिहासं सुशोभितम् ।
क्रमात्त्वां बोधयन्तो हि प्रीत्या तमुपधारय ॥ ३१॥
ब्रह्मपुत्रो हि यो दक्षः सुषुवे पितुराज्ञया ।
स्वपत्न्यामयुतं पुत्रानयुङ्क्त तपसि प्रियान् ॥ ३२॥
ते सुताः पश्चिमदिशि नारायणसरो गताः ।
तपोऽर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥ ३३॥
कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः ।
तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥ ३४॥
तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः ।
उत्पाद्य पुत्रान्प्रायुङ्क्त सहस्रप्रमितांस्ततः ॥ ३५॥
तेऽपि तत्र गताः पुत्राः तपोऽर्थं पितुराज्ञया ।
नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥ ३६॥
ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः ।
आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥ ३७॥
इत्थं नारदसद्वृत्तिर्विश्रुता शैलकन्यके ।
अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥ ३८॥
विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत् ।
स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ॥ ३९॥
प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् ।
दत्त्वा दुःखं ददौ चायं परबुद्धिप्रभेदकः ॥ ४०॥
मुनिना निजविद्या यच्छ्राविता कर्णरोचना ।
स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥ ४१॥
नारदो मलिनात्मा हि सर्वदोज्ज्वलदेहवान् ।
जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥ ४२॥
बकं साधुं वर्णयन्ति न मत्स्यानत्ति सर्वथा ।
सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥ ४३॥
लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसम्मता ।
वृथैव मूर्खीभूता त्वं तपश्चरसि दुष्करम् ॥ ४४॥
यदर्थमीदृशं बाले करोषि विपुलं तपः ।
सोदासीनो निर्विकारो मदनारिर्न संशयः ॥ ४५॥
अमङ्गलवपुर्धारी निर्लज्जोऽसदनोऽकुली ।
कुवेषी प्रेतभूतादिसङ्गी नग्नो हि शूलभृत् ॥ ४६॥
स धूर्तस्तव विज्ञानं विनाश्य निजमायया ।
मोहयामास सद्युक्त्या कारयामास वै तपः ॥ ४७॥
ईदृशं हि वरं लब्ध्वा किं सुखं सम्भविष्यति ।
विचारं कुरु देवेशि त्वमेव गिरिजात्मजे ॥ ४६॥
प्रथमं दक्षजां साध्वीं विवाह्य सुधिया सतीम् ।
निर्वाहं कृतवान्नैव मूढः किञ्चिद्दिनानि हि ॥ ४९॥
तां तथैव स वै दोषं दत्त्वात्याक्षीत् स्वयं प्रभुः ।
ध्यायन्स्वरूपमकलमशोकमरमत्सुखी ॥ ५०॥
एकलः परनिर्वाणो ह्यसङ्गोऽद्वय एव च ।
तेन नार्याः कथं देवि निर्वाहः सम्भविष्यति ॥ ५१॥
अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् ।
त्यजास्माकं महाभागे भविष्यति च शं तव ॥ ५२॥
त्वद्योग्यो हि वरो विष्णुः सर्वसद्गुणवान्प्रभुः ।
वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥ ५३॥
तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् ।
इतीदृशं त्यज हठं सुखिता भव पार्वति ॥ ५४॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा पार्वती जगदम्बिका ।
विहस्य च पुनः प्राह मुनीन्ज्ञानविशारदान् ॥ ५५॥
पार्वत्युवाच ।
सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः ।
परन्तु मे हठो नैव मुक्तो भवति हे द्विजाः ॥ ५६॥
स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् ।
इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥ ५७॥
सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन ।
गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥ ५८॥
गुरूणां वचनं सत्यमिति येषां दृढा मतिः ।
तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥ ५९॥
गुरूणां वचनं सत्यमिति यद्धृदये न धीः ।
इहामुत्रापि तेषां हि दुःखं न च सुखं क्वचित् ॥ ६०॥
सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः ।
गृहं वसेद्वा शून्यं स्यान्मे हठः सुखदः सदा ॥ ६१॥
यद्भवद्भिः सुभणितं वचनं मुनिसत्तमाः ।
तदन्यथा तद्विवेकं वर्णयामि समासतः ॥ ६२॥
गुणालयो विहारी च विष्णुः सत्यं प्रकीर्तितः ।
सदाशिवोऽगुणः प्रोक्तस्तत्र कारणमुच्यते ॥ ६३॥
शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः ।
प्रभुतां लौकिकीं नैव सन्दर्शयितुमिच्छति ॥ ६४॥
अतः परमहंसानां धार्यते सुप्रिया गतिः ।
अवधूतस्वरूपेण परानन्देन शम्भुना ॥ ६५॥
भूषणादिरुचिर्मायालिप्तानां ब्रह्मणो न च ।
स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥ ६६॥
धर्मजात्यादिभिः शम्भुर्नानुगृह्णाति वै द्विजाः ।
गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥ ६७॥
चेच्छिवः स हि मे विप्रा विवाहं न करिष्यति ।
अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥ ६८॥
उदयति यदि भानुः पश्चिमे दिग्विभागे
प्रचलति यदि मेरुः शीततां याति वह्निः ।
विकसति यदि पद्मं पर्वताग्रे शिलायां
न हि चलति हठो मे सत्यमेतद्ब्रवीमि ॥ ६९॥
ब्रह्मोवाच ।
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा ।
विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥ ७०॥
ऋषयोऽपीत्थमाज्ञाय गिरिजायाः सुनिश्चयम् ।
प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥ ७१॥
अथ प्रणम्य तां देवीं मुनयो हृष्टमानसाः ।
शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने ॥ ७२॥
तत्र गत्वा शिवं नत्वा वृत्तान्तं विनिवेद्य तत् ।
तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ७३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनं नाम पञ्चविंशोऽध्यायः ॥ २.३.२५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२६. षड्विंशोऽध्यायः । पार्वती-जटिलसंवादः ।
ब्रह्मोवाच ।
गतेषु तेषु मुनिषु स्वं लोकं शङ्करः स्वयम् ।
परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ॥ १॥
परीक्षाछद्मना शम्भुर्द्रष्टुं तां तुष्टमानसः ।
जटिलं रूपमास्थाय स ययौ पार्वतीवनम् ॥ २॥
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ।
प्रज्वलन्मनसा हृष्टो दण्डी छत्री बभूव सः ॥ ३॥
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ।
वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ॥ ४॥
शम्भुर्निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ।
उपकण्ठं ययौ प्रीत्या तदासौ भक्तवत्सलः ॥ ५॥
आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ।
अपूजयच्छिवा देवी सर्वपूजोपहारकैः ॥ ६॥
सुसत्कृतं संविधाभिः पूजितं परया मुदा ।
पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात् ॥ ७॥
पार्वत्युवाच ।
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ।
इदं वनं भासयसे वद वेदविदां वर ॥ ८॥
विप्र उवाच ।
अहमिच्छाभिगामी च वृद्धो विप्रतनुः सुधीः ।
तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ ९॥
का त्वं कस्यासि तनया किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ॥ १०॥
न बाला न च वृद्धासि तरुणी भासि शोभना ।
कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ॥ ११॥
किं त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ।
तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ॥ १२॥
वद कस्य कुले जाता कः पिता तव काभिधा ।
महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ॥ १३॥
किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ।
एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ॥ १४॥
पार्वत्युवाच ।
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ।
अहं हिमाचलसुता साम्प्रतं नाम पार्वती ॥ १५॥
पुरा दक्षसुता जाता सती नामान्यजन्मनि ।
योगेन त्यक्तदेहाहं यत्पित्रा निन्दितः पतिः ॥ १६॥
अत्र जन्मनि सम्प्राप्तः शिवोऽपि विधिवैभवात् ।
मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ॥ १७॥
प्रयाते शङ्करे तापोद्विजिताहं पितुर्गृहात् ।
आगता तपसे विप्र सुदृढा स्वर्णदीतटे ॥ १८॥
कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ।
न प्राप्याग्नौ विविक्षन्ती त्वां दृष्ट्वा संस्थिता क्षणम् ॥ १९॥
गच्छ त्वं प्रविशाम्यग्नौ शिवेनाङ्गीकृता न हि ।
यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ॥ २०॥
ब्रह्मोवाच ।
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ।
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ॥ २१॥
वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः ।
बभूव तत्क्षणं सद्यो वह्निश्चन्दनपङ्कवत् ॥ २२॥
क्षणं तदन्तरे स्थित्वा ह्युत्पतन्तीं दिवं द्विजः ।
पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ॥ २३॥
द्विज उवाच ।
अहो तपस्ते किं भद्रे न बुद्धं किञ्चिदेव हि ।
न दग्धो वह्निना देहो न च प्राप्तं मनीषितम् ॥ २४॥
अतः सत्यं निकामं वै वद देवि मनोरथम् ।
ममाग्रे विप्रवर्यस्य सर्वानन्दप्रदस्य हि ॥ २५॥
यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ।
तस्मान्मैत्री च सञ्जाता कार्यं गोप्यं त्वया न हि ॥ २६॥
किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ।
त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते ॥ २७॥
परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् ।
रत्नं हस्ते समादाय हित्वा काचस्तु सञ्चितः ॥ २८॥
ईदृशं तव सौन्दर्यं कथं व्यर्थीकृतं त्वया ।
हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया ॥ २९॥
तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः ।
तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमवाप्नुयाम् ॥ ३०॥
ब्रह्मोवाच ।
इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका ।
तन्मुखेनैव तत्सर्वं कथयामास सुव्रता ॥ ३१॥
तया च प्रेरिता तत्र पार्वत्या विजयाभिधा ।
प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् ॥ ३२॥
सख्युवाच ।
शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् ।
हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि ॥ ३३॥
सखी मे गिरिराजस्य सुतेयं हिमभूभृतः ।
ख्याता वै पार्वती नाम्ना तस्या मातास्ति मेनका ॥ ३४॥
ऊढेयं न च केनापि न वाञ्छति शिवात्परम् ।
त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी ॥ ३५॥
तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् ।
तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम ॥ ३६॥
हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च ।
पतिं पिनाकपाणिं वै प्राप्तुमिच्छति पार्वती ॥ ३७॥
इयं सखी मदीया वै वृक्षानारोपयत्पुरा ।
तेषु सर्वेषु सञ्जातं फलपुष्पादिकं द्विज ॥ ३८॥
रूपसार्थाय जनककुलालङ्करणाय च ।
समुद्दिश्य महेशानं कामस्यानुग्रहाय च ॥ ३९॥
मत्सखी नारददेशात्तपस्तपति दारुणम् ।
मनोरथं कुतस्तस्या न फलिष्यति तापस ॥ ४०॥
यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् ।
मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि ॥ ४१॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः ।
मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ४२॥
जटिल उवाच ।
सख्येदं कथितं तत्र परिहासोऽनुमीयते ।
यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् ॥ ४३॥
ब्रह्मोवाच ।
इत्युक्ते च तदा तेन जटिलेन द्विजन्मना ।
उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् ॥ ४४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोऽध्यायः ॥ २.३.२६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२७. सप्तविंशोऽध्यायः । ब्रह्मचारिप्रतारणवाक्यवर्णनम् ।
पार्वत्युवाच ।
शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ।
सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा ॥ १॥
मनसा वचसा साक्षात्कर्मणा पतिभावतः ।
सत्यं ब्रवीमि नोऽसत्यं वृतो वै शङ्करो मया ॥ २॥
जानामि दुर्लभं वस्तु कथम्प्राप्यं मया भवेत् ।
तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया ॥ ३॥
ब्रह्मोवाच ।
इत्युक्त्वा वचनं तस्मै स्थिता सा गिरिजा तदा ।
उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः ॥ ४॥
ब्राह्मण उवाच ।
एतावत्कालपर्यन्तं ममेच्छा महती ह्यभूत् ।
किं वस्तु काङ्क्षती देवी कुरुते सुमहत्तपः ॥ ५॥
तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपङ्कजात् ।
इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु ॥ ६॥
न कथ्यते त्वया मह्यं मित्रत्वं निष्फलं भवेत् ।
यथा कार्यं तथा भावि कथनीयं सुखेन च ॥ ७॥
ब्रह्मोवाच ।
इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः ।
तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम् ॥ ८॥
पार्वत्युवाच ।
किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ।
इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक् ॥ ९॥
द्विज उवाच ।
यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ।
वदामि तत्त्वं तत्सर्वं येन ते वयुनं भवेत् ॥ १०॥
जानाम्यहं महादेवं सर्वथा गुरुधर्मतः ।
प्रवदामि यथार्थं हि सावधानतया शृणु ॥ ११॥
वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ।
व्याघ्रचर्माम्बरधरः संवीतो गजकृत्तिना ॥ १२॥
कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः ।
विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः ॥ १३॥
अव्यक्तजन्मा सततं गृहभोगविवर्जितः ।
दिगम्बरो दशभुजो भूतप्रेतान्वितस्सदा ॥ १४॥
केन वा कारणेन त्वं तं भर्तारं समीहसे ।
क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः ॥ १५॥
पूर्वं श्रुतं मया चैव व्रतं तस्य भयङ्करम् ।
शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः ॥ १६॥
दक्षस्य दुहिता साध्वी सती वृषभवाहनम् ।
वव्रे पतिं पुरा दैवात्तत्सम्भोगः परिश्रुतः ॥ १७॥
कपालिजायेति सती दक्षेण परिवर्जिता ।
यज्ञे भागप्रदानाय शम्भुश्चापि विवर्जितः ॥ १८॥
सा तथैवापमानेन भृशं कोपाकुला सती ।
तत्याजासून्प्रियाँस्तत्र तया त्यक्तश्च शङ्करः ॥ १९॥
त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् ।
तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥ २०॥
दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ।
हित्वा च चन्दनं शुभ्रं कर्दमं लेप्तुमिच्छसि ॥ २१॥
सूर्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ।
चीनांशुकं विहायैव चर्माम्बरमिहेच्छसि ॥ २२॥
गृहवासं परित्यज्य वनवासं समीहसे ।
लोहमिच्छसि देवेशि त्यक्त्वा शेवधिमुत्तमम् ॥ २३॥
इन्द्रादिलोकपालांश्च हित्वा शिवमनुव्रता ।
नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना ॥ २४॥
क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ।
शशाङ्कवदना त्वं च पञ्चवक्त्रः शिवः स्मृतः ॥ २५॥
वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ।
जटाजूटं शिवस्यैव प्रसिद्धं परिचक्षते ॥ २६॥
चन्दनं च त्वदीयाङ्गे चिताभस्म शिवस्य च ।
क्व दुकूलं त्वदीयं वै शाङ्करं क्व गजाजिनम् ॥ २७॥
क्व भूषणानि दिव्यानि क्व सर्पाः शङ्करस्य च ।
क्व चरा देवताःसर्वाः क्व च भूतबलिप्रियः ॥ २८॥
क्व वा मृदङ्गवादश्च क्व च तड्डमरुस्तथा ।
क्व च भेरीकलापश्च क्व च शृङ्गरवोऽशुभः ॥ २९॥
क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ।
भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम् ॥ ३०॥
यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ।
वाहनं च बलीवर्दः सामग्री कापि तस्य न ॥ ३१॥
वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ।
तन्मध्ये हि विरूपाक्षे एकोऽपि न गुणः स्मृतः ॥ ३२॥
तवापि कामो दयितो दग्धस्तेन हरेण च ।
अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः ॥ ३३॥
जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ।
सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते ॥ ३४॥
एकाकी च सदा नित्यं विरागी च विशेषतः ।
तस्मात्त्वं हि हरेणैव मनो योक्तुं तु चार्हसि ॥ ३५॥
क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ।
अङ्गरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ ॥ ३६॥
सर्वं विरुद्धं रूपादि तव देवि हरस्य च ।
मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु ॥ ३७॥
असद्वस्तु च यत्किञ्चित् तत्सर्वं स्वयमीहसे ।
निवर्तय मनस्तस्मान्नो चेदिच्छसि तत्कुरु ॥ ३८॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ।
उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम् ॥ ३९॥
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ २.३.२७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२८. अष्टाविंशोऽध्यायः । पार्वत्याः शिवरूपदर्शनम् ।
पार्वत्युवाच ।
एतावद्धि मया ज्ञातं कश्चिदन्योऽयमागतः ।
इदानीं सकलं ज्ञातमवध्यस्त्वं विशेषतः ॥ १॥
त्वयोक्तं विदितं देव तदलीकं न चान्यथा ।
यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया ॥ २॥
कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः ।
स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः ॥ ३॥
ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः ।
आगतश्छलसंयुक्तं वचोऽवादीः कुयुक्तितः ॥ ४॥
शङ्करस्य स्वरूपं तु जानामि सुविशेषतः ।
शिवतत्त्वमतो वच्मि सुविचार्य यथार्हतः ॥ ५॥
वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः ।
कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः ॥ ६॥
स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः ।
किं तस्य विद्यया कार्यं पूर्णस्य परमात्मनः ॥ ७॥
वेदा उच्छ्वासरूपेण पुरा दत्ताश्च विष्णवे ।
शम्भुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः ॥ ८॥
सर्वेषामादिभूतस्य वयोमानं कुतस्ततः ।
प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम् ॥ ९॥
ये भजन्ति च तं प्रीत्या शक्तीशं शङ्करं सदा ।
तस्मै शक्तित्रयं शम्भुः स ददाति सदाव्ययम् ॥ १०॥
तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः ।
तस्मान्मृत्युञ्जयन्नाम प्रसिद्धं भुवनत्रये ॥ ११॥
तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् ।
ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च ॥ १२॥
दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट् ।
भूतादयस्तत्परस्य द्वारपालाः शिवस्य तु ॥ १३॥
दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः ।
किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः ॥ १४॥
कल्याणरूपिणस्तस्य सेवयेह न किं भवेत् ।
किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः ॥ १५॥
सप्तजन्मदरिद्रः स्यात्सेवेद्यो यदि शङ्करम् ।
तस्यैतत्सेवनाल्लोके लक्ष्मीः स्यादनपायिनी ॥ १६॥
यदग्रे सिद्धयोऽष्टौ च नित्यं नृत्यन्ति तोषितुम् ।
अवाङ्मुखाः सदा तत्र तद्धितं दुर्लभं कुतः ॥ १७॥
यद्यस्य मङ्गलानीह सेवते शङ्करस्य न ।
यथापि मङ्गलं तस्य स्मरणादेव जायते ॥ १८॥
यस्य पूजाप्रभावेण कामाः सिद्ध्यन्ति सर्वशः ।
कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा ॥ १९॥
शिवेति मङ्गलं नाम मुखे यस्य निरन्तरम् ।
तस्यैव दर्शनादन्ये पवित्राः सन्ति सर्वदा ॥ २०॥
यद्यपूतं भवेद्भस्म चितायाश्च त्वयोदितम् ।
नित्यमस्याङ्गगं देवैः शिरोभिर्धार्यते कथम् ॥ २१॥
यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः ।
निर्गुणः शिवसंज्ञश्च स विज्ञेयः कथं भवेत् ॥ २२॥
अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ।
तत्कथं हि विजानन्ति त्वादृशास्तद्बहिर्मुखाः ॥ २३॥
दुराचाराश्च पापाश्च वेभ्यस्ते विनिर्गताः ।
तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः ॥ २४॥
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।
आजन्मसञ्चितं पुण्यं भस्मीभवति तस्य तत् ॥ २५॥
त्वया निन्दा कृता यात्र हरस्यामिततेजसः ।
त्वत्पूजा च कृता यन्मे तस्मात्पापं भजाम्यहम् ॥ २६॥
शिवविद्वेषिणं दृष्ट्वा सचैलं स्नानमाचरेत् ।
शिवविद्वेषिणं दृष्ट्वा प्रायश्चितं समाचरेत् ॥ २७॥
रे रे दुष्ट त्वया चोक्तमहं जानामि शङ्करम् ।
निश्चयेन न विज्ञातश्शिव एव सनातनः ॥ २८॥
यथा तथा भवेद्रुद्रो यथा वा बहुरूपवान् ।
ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः ॥ २९॥
विष्णुर्ब्रह्मापि न समः तस्य क्वापि महात्मनः ।
कुतोऽन्ये निर्जराद्याश्च कालाधीनाः सदैव ते ॥ ३०॥
इति बुद्ध्या समालोक्य स्वया सत्या सुतत्त्वतः ।
शिवार्थं वनमागत्य करोमि विपुलं तपः ॥ ३१॥
स एव परमेशानः सर्वेशो भक्तवत्सलः ।
सम्प्राप्तुं मेऽभिलाषो हि दीनानुग्रहकारकम् ॥ ३२॥
ब्रह्मोवाच ।
इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने ।
विरराम शिवं दध्यौ निर्विकारेण चेतसा ॥ ३३॥
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।
पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे ॥ ३४॥
उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ।
शिवसक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी ॥ ३५॥
गिरिजोवाच ।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।
पुनर्वक्तुमनाश्चैव शिवनिन्दां करिष्यति ॥ ३६॥
न केवलं भवेत्पापं निन्दां कर्तुश्शिवस्य हि ।
यो वै शृणोति तन्निन्दां पापभाक् स भवेदिह ॥ ३७॥
शिवनिन्दाकरो वध्यः सर्वथा शिवकिङ्करैः ।
ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ॥ ३८॥
अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ।
ब्राह्मणत्वादवध्यश्चेत्त्याज्योऽदृश्यश्च सर्वथा ॥ ३९॥
हित्वैतत्स्थलमद्यैव यास्यामोऽन्यत्र मा चिरम् ।
अथ सम्भाषणं न स्यादनेनाऽविदुषा पुनः ॥ ४०॥
ब्रह्मोवाच ।
इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ।
असौ तावच्छिवः साक्षादालम्बे प्रियया स्वयम् ॥ ४१॥
कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा ।
दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ॥ ४२॥
शिव उवाच ।
कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः ।
प्रसन्नोऽस्मि वरं ब्रूहि नादेयं विद्यते तव ॥ ४३॥
अद्यप्रभृति ते दासः तपोभिः क्रीत एव ते ।
क्रीतोऽस्मि तव सौन्दर्यात्क्षणमेकं युगाय ते ॥ ४४॥
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।
गिरिजे त्वं हि सद्बुध्या विचारय महेश्वरि ॥ ४५॥
मया परीक्षितासि त्वं बहुधा दृढमानसे ।
तत्क्षमस्वापराधं मे लोकलीलानुसारिणः ॥ ४६॥
न त्वादृशीं प्रणयिनीं पश्यामि च त्रिलोकके ।
सर्वथाहं तवाधीनः स्वकामः पूर्यतां शिवे ॥ ४७॥
एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव ।
त्वया साकं द्रुतं यास्ये स्वगृहं पर्वतोत्तमम् ॥ ४८॥
ब्रह्मोवाच ।
इत्युक्ते देवदेवेन पार्वती मुदमाप सा ।
तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् ॥ ४९॥
सर्वः श्रमो विनष्टोऽभूत्सत्यास्तु मुनिसत्तम ।
फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् ॥ ५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वत्या शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः ॥ २.३.२८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.२९. एकोनत्रिंशोऽध्यायः । शिवाशिवसंवादः ।
नारद उवाच ।
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम् ।
तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ॥ १॥
ब्रह्मोवाच ।
देवर्षे श्रूयतां सम्यक् कथयामि कथां मुदा ।
तां महापापसंहर्त्रीं शिवभक्तिविवर्धिनीम् ॥ २॥
पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ।
दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ॥ ३॥
प्रत्युवाच महासाध्वी स्वोपकण्ठस्थितं विभुम् ।
अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ॥ ४॥
पार्वत्युवाच ।
त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा ।
दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ॥ ५॥
स त्वं साहं समुत्पन्ना मेनायां कार्यसिद्धये ।
देवानां देवदेवेश तारकाप्तासुखात्मनाम् ॥ ६॥
यदि प्रसन्नो देवेश करोषि च कृपां यदि ।
पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ॥ ७॥
पितुर्गेहे मया सम्यग्गम्यते त्वदनुज्ञया ।
प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ॥ ८॥
गन्तव्यं भवता नाथ हिमवत्पार्श्वतः प्रभो ।
याचस्व मां ततो भिक्षुर्भूत्वा लीलाविशारदः ॥ ९॥
तथा त्वया प्रकर्तव्यं लोकेषु ख्यापयन् यशः ।
पितुर्मे सफलं सर्वं कुरुष्वैवं गृहाश्रमम् ॥ १०॥
ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ।
करिष्यति न सन्देहस्तव वाक्यं पिता मम ॥ ११॥
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ।
यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ॥ १२॥
न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ।
ग्रहाणां विषयस्तेन सच्छिद्रोऽयं महानभूत् ॥ १३॥
तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ।
विवाहं त्वं महादेव देवानां कार्यसिद्धये ॥ १४॥
विवाहस्य यथा रीतिः कर्तव्या सा तथा ध्रुवम् ।
जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ॥ १५॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा सुप्रसन्नः सदाशिवः ।
प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ॥ १६॥
शिव उवाच ।
शृणु देवि महेशानि परमं वचनं मम ।
यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ॥ १७॥
ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ।
दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ॥ १८॥
एकोऽनेकत्वमापन्नो निर्गुणो हि गुणान्वितः ।
स्वज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ॥ १९॥
स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम् ।
सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि ॥ २०॥
मायामयं कृतमिदं च जगत्समग्रं
सर्वात्मना हि विधृतं परया स्वबुद्ध्या ।
सर्वात्मभिः सुकृतिभिः परमात्मभावैः
संसिक्तमात्मनि गुणैः परिवेष्टितञ्च ॥ २१॥
के ग्रहाः के ऋतुगणाः के वान्येऽपि त्वया ग्रहाः ।
किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ॥ २२॥
गुणकार्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ।
भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ॥ २३॥
त्वं हि वै प्रकृतिः सूक्ष्मा रजः सत्त्वतमोमयी ।
व्यापारदक्षा सततं सगुणा निर्गुणापि च ॥ २४॥
सर्वेषामिह भूतानामहमात्मा सुमध्यमे ।
निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ॥ २५॥
हिमालयं न गच्छेयं जनकं तव शैलजे ।
ततस्त्वां भिक्षुको भूत्वा न याचेयं कथञ्चन ॥ २६॥
महागुणैर्गरिष्ठोऽपि महात्मापि गिरीन्द्रजे ।
देहीति वचनात्सद्यः पुरुषो याति लाघवम् ॥ २७॥
इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ।
कार्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ॥ २८॥
ब्रह्मोवाच ।
तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ।
जगाद शङ्करं भक्त्या सुप्रणम्य पुनः पुनः ॥ २९॥
पार्वत्युवाच ।
त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा ।
स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ॥ ३०॥
प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ।
याचस्व मां हिमगिरेः सौभाग्यं देहि शङ्कर ॥ ३१॥
कृपां कुरु महेशान तव भक्तास्मि नित्यशः ।
तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ॥ ३२॥
त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ।
निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ॥ ३३॥
तथापि सगुणोऽपीह भक्तोद्धारपरायणः ।
विहारी स्वात्मनि रतो नानालीलाविशारदः ॥ ३४॥
सर्वथा त्वामहं जाने महादेव महेश्वर ।
किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ॥ ३५॥
विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ।
यत्सुगीय जना नाथाञ्जसोत्तीर्णा भवाम्बुधिम् ॥ ३६॥
ब्रह्मोवाच ।
इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ।
विरराम महेशानं नतस्कन्धा कृताञ्जलिः ॥ ३७॥
इत्येवमुक्तः स तया महात्मा
महेश्वरो लोकविडम्बनाय ।
तथेति मत्वा प्रहसन् बभूव
मुदान्वितः कर्तुमनास्तदेव ॥ ३८॥
ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ।
कैलासं प्रययौ काल्या विरहाकृष्टमानसः ॥ ३९॥
तत्र गत्वा महेशानो नन्द्यादिभ्यः स ऊचिवान् ।
वृत्तान्तं सकलं तं वै परमानन्दनिर्भरः ॥ ४०॥
तेऽपि श्रुत्वा गणाः सर्वे भैरवाद्याश्च सर्वशः ।
बभूवुः सुखिनोऽत्यन्तं विदधुः परमोत्सवम् ॥ ४१॥
महत्सुमङ्गलं तत्र बभूवातीव नारद ।
सर्वेषां दुःखनाशोऽभूद्रुद्रः प्रापापि सम्मुदम् ॥ ४२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसंवादवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २.३.२९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३०. त्रिंशोऽध्यायः । पार्वतीप्रत्यागमनमहोत्सवः ।
नारद उवाच ।
विधे तात महाभाग धन्यस्त्वं परमार्थदृक् ।
अद्भुतेयं कथाश्रावि त्वदनुग्रहतो मया ॥ १॥
गते हरे स्वशैले हि पार्वती सर्वमङ्गला ।
किं चकार गता कुत्र तन्मे वद महामते ॥ २॥
ब्रह्मोवाच ।
शृणु सुप्रीतितस्तात यज्जातं तदनन्तरम् ।
हरे गते निजस्थाने तद् वदामि शिवं स्मरन् ॥ ३॥
पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम् ।
जगाम स्वपितुर्गेहं महादेवेति वादिनी ॥ ४॥
पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः ।
दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः ॥ ५॥
पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः ।
सम्बन्धिनस्तथान्ये च सर्वे ते च समाययुः ॥ ६॥
भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा ।
जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः ॥ ७॥
संस्थाप्य मङ्गलघटं राजवर्त्मनि राजिते ।
चन्दनागरुकस्तूरीफलशाखासमन्विते ॥ ८॥
सुपुरोधाब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः ।
नारीभिर्नर्तकीभिश्च गजेन्द्रादिसुशोभितैः ॥ ९॥
परितः परितो रम्भास्तम्भवृन्दसमन्विते ।
पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥ १०॥
द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मङ्गलध्वनिम् ।
नानाप्रकारवाद्यैश्च शङ्खध्वनिभिरन्विते ॥ ११॥
एतस्मिन्नन्तरे दुर्गाजगाम स्वपुरान्तिकम् ।
विशन्ती नगरं देवी ददर्श पितरौ पुनः ॥ १२॥
सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ ।
दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ ॥ १३॥
तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि ।
हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ ॥ १४॥
ततः स्वकीया अप्यस्या अन्या नार्योऽपि सम्मुदा ।
भ्रातृस्त्रियोऽपि सुप्रीत्या दृढालिङ्गनमादधुः ॥ १५॥
साधितं हि त्वया सम्यक् सुकार्यं कुलतारणम् ।
त्वत्सदाचरणेनापि पाविताः स्माखिला वयम् ॥ १६॥
इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः ।
चन्दनैः सुप्रसूनैश्च समानर्चुः शिवां मुदा ॥ १७॥
तस्मिन्नवसरे देवा विमानस्था मुदाम्बरे ।
पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः ॥ १८॥
तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे ।
पुरं प्रवेशयामासुः सर्वे विप्रादयो मुदा ॥ १९॥
अथ विप्राः पुरोधाश्च सख्योऽन्याश्च स्त्रियः शिवम् ।
गृहं प्रवेशयामासुर्बहुमानपुरस्सरम् ॥ २०॥
स्त्रियो निर्मञ्छनं चक्रुर्विप्रा युयुजुराशिषः ।
हिमवान्मेनका माता मुमोदाति मुनीश्वर ॥ २१॥
स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा ।
हिमवान्नारदं त्वां च संस्तुवन् साधु साध्विति ॥ २२॥
ब्राह्मणेभ्यश्च बन्दिभ्यः पर्वतेन्द्रो धनं ददौ ।
मङ्गलं पाठयामास स द्विजेभ्यो महोत्सवम् ॥ २३॥
एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा ।
जामयश्च महाप्रीत्या समूषुः प्राङ्गणे मुने ॥ २४॥
ततः स हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः ।
सम्मान्य सकलान्प्रीत्या स्नातुं गङ्गां जगाम ह ॥ २२॥
एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः ।
सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ ॥ २६॥
शृङ्गं वामे करे धृत्वा दक्षिणे डमरुं तथा ।
पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः ॥ २७॥
ततस्सुनटरूपोऽसौ मेनाया प्राङ्गणे मुदा ।
चक्रे सुनृत्यं विविधं गानं चातिमनोहरम् ॥ २८॥
शृङ्गं च डमरुं तत्र वादयामास सुध्वनिम् ।
महतीं विविधां तत्र स चकार मनोहराम् ॥ २९॥
तां द्रष्टुं नागराः सर्वे पुरुषाश्च स्त्रियस्तथा ।
आजग्मुः सहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥ ३०॥
श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम् ।
सहसा मुमुहुः सर्वे मेनापि च तदा मुने ॥ ३१॥
मूर्च्छां सम्प्राप सा दुर्गा विलोक्य हृदि शङ्करम् ।
त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम् ॥ ३२॥
विभूतिभूषितं रम्यमस्थिमालासमन्वितम् ।
त्रिलोचनोज्ज्वलद्वक्त्रं नागयज्ञोपवीतकम् ॥ ३३॥
वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम् ।
दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम् ॥ ३४॥
हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम् ।
वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च ॥ ३५॥
वरं दत्त्वा शिवां चाथ तादृशं प्रीतितो हृदा ।
अन्तर्धाय पुनस्तत्र सुननर्त स भिक्षुकः ॥ ३६॥
ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च ।
तस्मै दातुं ययौ प्रीत्या तद्भूतिप्रीतमानसः ॥ ३७॥
तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम् ।
पुनः सुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः ॥ ३८॥
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ।
भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥ ३९॥
एतस्मिन्नन्तरे तत्र गङ्गातो गिरिराययौ ।
ददर्श पुरतो भिक्षुं प्राङ्गणस्थं नराकृतिम् ॥ ४०॥
श्रुत्वा मेनामुखाद् वृत्तं तत्सर्वं सुचुकोप सः ।
आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम् ॥ ४१॥
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ।
न शशाक बहिष्कर्तुं कोऽपि तं मुनिसत्तम ॥ ४२॥
ततः स भिक्षुकस्तात नानालीलाविशारदः ।
दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ ४३॥
शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् ।
किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम् ॥ ४४॥
यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते ।
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥ ४५॥
ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम् ।
रक्तवर्णं पठन्तं च श्रुतिसूक्तं गिरीश्वरः ॥ ४६॥
ततः सूर्यस्वरूपं च जगच्चक्षुस्स्वरूपकम् ।
ददर्श गिरिराजः स क्षणं कौतुककारिणम् ॥ ४७॥
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ।
पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ४८॥
ततस्तेजस्स्वरूपं च निराकारं निरञ्जनम् ।
निरुपाधिं निरीहं च महाद्भुतमरूपकम् ॥ ४९॥
एवं बहूनि रूपाणि तस्य तत्र ददर्श सः ।
सुविस्मितो बभूवाशु परमानन्दसंयुतः ॥ ५०॥
अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ।
भिक्षां ययाचे दुर्गां तां नान्यज्जग्राह किञ्चन ॥ ५१॥
न स्वीचकार शैलेन्द्रो मोहितश्शिवमायया ।
भिक्षुः किञ्चिन्न जग्राह तत्रैवान्तर्दधे ततः ॥ ५२॥
तदा बभूव सुज्ञानं मेनाशैलेशयोरिति ।
आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः ॥ ५३॥
तयोर्विचिन्त्य तत्रैवं शिवे भक्तिरभूत्परा ।
महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी ॥ ५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ २.३.३०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३१. एकत्रिंशोऽध्यायः । शिवमायावर्णनम् ।
ब्रह्मोवाच ।
तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम् ।
सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद ॥ १॥
देवा ऊचुः ।
एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति ।
ध्रुवं निर्वाणतां सद्यः स प्राप्स्यति च भारते ॥ २॥
अनन्तरत्नाधारश्चेत्पृथ्वीं त्यक्त्वा प्रयास्यति ।
रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ३॥
स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ।
कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति ॥ ४॥
महादेवस्य सारूप्यं लप्स्यते नात्र संशयः ।
तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति ॥ ५॥
ब्रह्मोवाच ।
इत्यालोच्य सुराः सर्वे कृत्वा चामन्त्रणं मिथः ।
प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः ॥ ६॥
ततः शक्रादयो देवाः सर्वे गुरुनिकेतनम् ।
जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः ॥ ७॥
गत्वा तत्र गुरुं नत्वा सर्वे देवाः सवासवाः ।
चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात् ॥ ८॥
देवा ऊचुः ।
गुरो हिमालयगृहं गच्छास्मत्कार्यसिद्धये ।
तत्र गत्वा प्रयत्नेन कुरु निन्दां च शूलिनः ॥ ९॥
पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ।
अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ॥ १०॥
कालेनैवाधुना शैल इदानीं भुवि तिष्ठतु ।
अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ ॥ ११॥
ब्रह्मोवाच ।
इति देववचः श्रुत्वा प्रददौ कर्णयोः करम् ।
न स्वीचकार स गुरुः स्मरन्नाम शिवेति च ॥ १२॥
अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः ।
उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः ॥ १३॥
बृहस्पतिरुवाच ।
सर्वे देवाः स्वार्थपराः परार्थध्वंसकारकाः ।
कृत्वा शङ्करनिन्दां हि यास्यामि नरकं ध्रुवम् ॥ १४॥
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।
सम्पादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च ॥ १५॥
अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते ।
तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम् ॥ १६॥
पश्चात्सप्तर्षयः सर्वे बोधयिष्यन्ति पर्वतम् ।
पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ॥ १७॥
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।
वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति ॥ १८॥
ब्रह्मोवाच ।
तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः ।
सर्वे निवेदयाञ्चक्रुर्नत्वा तद्गतमादरात् ॥ १९॥
देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा ।
वेदवक्ता विलप्याहं तानवोचं सुरान्मुने ॥ २०॥
ब्रह्मोवाच ।
नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुस्सहाम् ।
सम्पद्विनाशरूपाञ्च विपदां बीजरूपिणीम् ॥ २१॥
सुरा गच्छत कैलासं सन्तोषयत शङ्करम् ।
प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति ॥ २२॥
स गच्छेदुपशैलेशमात्मनिन्दां करोतु वै ।
परनिन्दा विनाशाय स्वनिन्दा यशसे मता ॥ २३॥
ब्रह्मोवाच ।
श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते ।
कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम् ॥ २४॥
तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः ।
सुकृताञ्जलयः सर्वे तुष्टुवुस्तं सुरा हरम् ॥ २५॥
देवा ऊचुः ।
देवदेव महादेव करुणाकर शङ्कर ।
वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते ॥ २६॥
त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरः सदा ।
दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः ॥ २७॥
ब्रह्मोवाच ।
इति स्तुत्वा महेशानं सर्वे देवाः सवासवाः ।
सर्वं निवेदयाञ्चक्रुस्तद्वृत्तं तत आदरात् ॥ २८॥
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।
देवान् सुयापयामास तानाश्वास्य विहस्य सः ॥ २९॥
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् ।
सिद्धं मत्वा स्वकार्यं हि प्रशंसन्तः सदाशिवम् ॥ ३०॥
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।
प्रययौ शैलभूपञ्च मायेशो निर्विकारवान् ॥ ३१॥
यदा शैलः सभामध्ये समुवास मुदान्वितः ।
बन्धुवर्गैः परिवृतः पार्वतीसहितः स्वयम् ॥ ३२॥
एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः ।
दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ॥ ३३॥
करे स्फटिकमालां च शालग्रामं गले दधत् ।
जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः ॥ ३४॥
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।
ननाम दण्डवद्भूमौ भक्त्यातिथिमपूर्वकम् ॥ ३५॥
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम् ।
ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा ॥ ३६॥
आशिषं युयुजे विप्रः सर्वेषां प्रीतितश्शिवः ।
शिवाया अधिकं तात मनोऽभिलषितं हृदा ॥ ३७॥
मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा ।
दत्तं शैलाधिराजेन हिमागेन महादरात् ॥ ३८॥
पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः ।
तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने ॥ ३९॥
पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति ।
उवाच शीघ्रं विप्रेन्द्रो गिरीन्द्रं सादरं वचः ॥ ४०॥
विप्रेन्द्र उवाच ।
ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः ।
घटिकीं वृत्तिमाश्रित्य भ्रमामि धरणीतले ॥ ४१॥
मनोयायी सर्वगामी सर्वज्ञोऽहं गुरोर्बलात् ।
परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा ॥ ४२॥
मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि ।
इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम् ॥ ४३॥
निराश्रयायासङ्गाय कुरूपायागुणाय च ।
श्मशानवासिने व्यालग्राहिरूपाय योगिने ॥ ४४॥
दिग्वाससे कुगात्राय व्यालभूषणधारिणे ।
अज्ञातकुलनाम्ने च कुशीलायाविहारिणे ॥ ४५॥
विभूतिदिग्धदेहाय सङ्क्रुद्धायाविवेकिने ।
अज्ञातवयसेऽतीव कुजटाधारिणे सदा ॥ ४६॥
सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे
कुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात् । ४७॥
इयं ते बुद्धिरचल न हि मङ्गलदा खलु ।
विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ ४८॥
न ते पात्रानुरूपश्च पार्वतीदानकर्मणि ।
महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति ॥ ४९॥
पश्य शैलाधिप त्वं च न तस्यैकोऽस्ति बान्धवः ।
महारत्नाकरः त्वं च तस्य किञ्चिद्धनं न हि ॥ ५०॥
बान्धवान्मेनकां कुध्रपते शीघ्रं सुतांस्तथा ।
सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वतीं विना ॥ ५१॥
रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम ।
कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा ॥ ५२॥
ब्रह्मोवाच ।
इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः ।
जगाम स्वालयं शान्तो नानालीलाकरश्शिवः ॥ ५३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ॥ २.३.३१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३२. द्वात्रिंशोऽध्यायः । सप्तर्ष्यागमनम् ।
ब्रह्मोवाच ।
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ।
शोकेनसाधुनयना हृदयेन विदूयता ॥ १॥
मेनोवाच ।
शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ।
पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ॥ २॥
निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना ।
श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ॥ ३॥
तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ।
कुरूपशीलनाम्ने हि सुलक्षणयुतां निजाम् ॥ ४॥
न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ।
त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ॥ ५॥
गले बद्ध्वाम्बिकां रज्ज्वा यास्यामि गहनं वनम् ।
महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ॥ ६॥
इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ।
त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ॥ ७॥
एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ।
संस्मृता ऋषयः सद्यो विरहव्याकुलात्मना ॥ ८॥
ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ।
तदाजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ॥ ९॥
अरुन्धती तथायाता साक्षात्सिद्धिरिवापरा ।
तान्दृष्ट्वा सूर्यसङ्काशान्विजहौ स्वजपं हरः ॥ १०॥
स्थित्वाग्रे ऋषयः श्रेष्ठा नत्वा स्तुत्वा शिवं मुने ।
मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ॥ ११॥
ततो विस्मयमापन्ना नमस्कृत्य स्थिताः पुनः ।
प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ॥ १२॥
ऋषय ऊचुः ।
सर्वोत्कृष्ट महाराज सार्वभौम दिवौकसाम् ।
स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनः सकलोत्तमम् ॥ १३॥
तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ।
अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ॥ १४॥
वाङ्मनः कायजं किञ्चित्पुण्यं स्मरणसम्भवम् ।
तत्सर्वं सङ्गतं चाद्य स्मरणानुग्रहात्तव ॥ १५॥
यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ।
किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ॥ १६॥
सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ।
मनोरथपथं नैव गच्छसि त्वं कथञ्चन ॥ १७॥
वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ।
वाचालत्वञ्च मूकस्य रङ्कस्य निधिदर्शनम् ॥ १८॥
पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायाः प्रसवस्तथा ।
दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ॥ १९॥
अद्यप्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ।
जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ॥ २०॥
अत्र किं बहुनोक्तेन सर्वथा मान्यतां गताः ।
दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ॥ २१॥
पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ।
सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ॥ २२॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ।
लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ॥ २३॥
शिव उवाच ।
ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ।
युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ॥ २४॥
ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका ।
साधनीया विशेषेण लोकानां सिद्धिहेतवे ॥ २५॥
देवानां दुःखमुत्पन्नं तारकात्सुदुरात्मनः ।
ब्रह्मणा च वरो दत्तः किं करोमि दुरासदः ॥ २६॥
मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ।
ताः सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ॥ २७॥
तथा च कर्तुकामोऽहं विवाहं शिवया सह ।
तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ॥ २८॥
तस्यै परं फलं देयमभीष्टं तद्धितावहम् ।
एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ॥ २९॥
पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् ।
अहं पावितवान्कालीं यतो लीलाविशारदः ॥ ३०॥
मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ।
दातुकामावभूतां च स्वसुतां वेदरीतितः ॥ ३१॥
देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् ।
तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्णवात्मना ॥ ३२॥
तच्छ्रुत्वा तौ सुनिर्विण्णौ तद्धीनौ सम्बभूवतुः ।
स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ॥ ३३॥
तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ।
तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ॥ ३४॥
कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ।
सर्वथा करणीयं तद्यथा स्यात्कार्यमुत्तमम् ॥ ३५॥
उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ।
स्वीकृतस्तद्विवाहो मे वरो दत्तश्च तादृशः ॥ ३६॥
अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ।
तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ॥ ३७॥
भवद्भिः कल्पितो यो वै विधिः स्यादधिकस्ततः ।
भवताञ्चैव कार्यं तु भवन्तः कार्यभागिनः ॥ ३८॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ।
आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः ॥ ३९॥
वयं धन्या अभूवंश्च कृतकृत्याश्च सर्वथा ।
वन्द्या जाताश्च सर्वेषां पूजनीया विशेषतः ॥ ४०॥
ब्रह्मणा विष्णुना यो वै वन्द्यः सर्वार्थसाधकः ।
सोऽस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ॥ ४१॥
अयं वै जगतां स्वामी पिता सा जननी मता ।
अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ॥ ४२॥
ब्रह्मोवाच ।
इत्युक्त्वा ऋषयो दिव्या नमस्कृत्य शिवं तदा ।
गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम् ॥ ४३॥
दृष्ट्वा तां च पुरीं दिव्यां ऋषयस्तेऽतिविस्मिताः ।
वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ॥ ४४॥
ऋषय ऊचुः ।
पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमवत्पुरम् ।
यस्मादेवंविधे कार्ये शिवेनैव नियोजिताः ॥ ४५॥
अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ।
विशेषेणामरावत्या दृश्यते पुरमुत्तमम् ॥ ४६॥
सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ।
मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च ॥ ४७॥
सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ।
गृहे गृहे विचित्राश्च वृक्षाः स्वर्गसमुद्भवाः ॥ ४८॥
तोरणानां तथा लक्ष्मीर्दृश्यते च गृहे गृहे ।
विविधानि विचित्राणि शुकहंसैर्विमानकैः ॥ ४९॥
वितानानि विचित्राणि चैलवत्तोरणैः सह ।
जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ॥ ५०॥
उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ।
नराश्च देवताः सर्वे स्त्रियश्चाप्सरसस्तथा ॥ ५१॥
कर्मभूमौ याज्ञिकाश्च पौराणाः स्वर्गकाम्यया ।
कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ॥ ५२॥
यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ।
दृष्ट्मेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ॥ ५३॥
ब्रह्मोवाच ।
इत्येवमृषिवर्यास्ते वर्णयन्तः पुरञ्च तत् ।
गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ॥ ५४॥
तान्दृष्ट्वा सूर्यसङ्काशान् हिमवान्विस्मितोऽब्रवीत् ।
दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ॥ ५५॥
हिमवानुवाच ।
सप्तैते सूर्यसङ्काशाः समायान्ति मदन्तिके ।
पूजा कार्या प्रयत्नेन मुनीनां च मयाधुना ॥ ५६॥
वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः ।
येषां गृहे समायान्ति महात्मानो यदीदृशाः ॥ ५७॥
ब्रह्मोवाच ।
एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ।
सम्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम् ॥ ५८॥
कृताञ्जलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ।
पूजां चकार तेषां वै बहुमानपुरस्सरम् ॥ ५९॥
हिताः सप्तर्षयस्ते च हिमवन्तं नगेश्वरम् ।
गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम् ॥ ६०॥
यथाग्रतश्च तान्कृत्वा धन्यो मम गृहाश्रमः ।
इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम् ॥ ६१॥
आसनेषूपविष्टेषु तदाज्ञप्तः स्वयं स्थितः ।
उवाच हिमवांस्तत्र मुनीन् ज्योतिर्मयांस्तदा ॥ ६२॥
हिमालय उवाच ।
धन्यो हि कृतकृत्योऽहं सफलं जीवितं मम ।
लोकेषु दर्शनीयोऽहं बहुतीर्थसमो मतः ॥ ६३॥
यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः ।
पूर्णानां भवतां कार्यं कृपणानां गृहेषु किम् ॥ ६४॥
तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ।
कथनीयं सुदयया सफलं स्याज्जनुर्मम ॥ ६५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ २.३.३२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३३. त्रयस्त्रिंशोऽध्यायः । गिरिसान्त्वनम् ।
ऋषय ऊचुः ।
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ।
तस्माद्देया त्वया कन्या शङ्कराय महात्मने ॥ १॥
एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ।
जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥ २॥
ब्रह्मोवाच ।
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ।
प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम् ॥ ३॥
हिमालय उवाच ।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् ।
तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया ॥ ४॥
इदानीमेक आगत्य विप्रो वैष्णवधर्मवान् ।
शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥ ५॥
तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ।
सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥ ६॥
कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ।
कृत्वा महाहठं विप्रा बोध्यमानापि नाबुधत् ॥ ७॥
अहं च ज्ञानविभ्रष्टो जातोऽहं सत्यमीर्यते ।
दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥
ब्रह्मोवाच ।
इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ।
तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने ॥ ९॥
सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ।
प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥ १०॥
अथ पत्युः समादाय निदेशं ज्ञानदा हि सा ।
जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥ ११॥
गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम् ।
उवाच मधुरं साध्वी सावधाना हितं वचः ॥ १२॥
अरुन्धत्युवाच ।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ।
आगता मुनयश्चापि सप्तायाताः कृपालवः ॥ १३॥
ब्रह्मोवाच ।
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ।
उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ १४॥
मेनोवाच ।
अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।
वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥ १५॥
किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ।
अहं दासीसमा ते हि ससुता करुणां कुरु ॥ १६॥
ब्रह्मोवाच ।
इत्युक्त्वा मेनका साध्वी बोधयित्वा च तां बहु ।
तत्रागता च सुप्रीत्या यत्र सप्तर्षयोऽपि ते ॥ १७॥
अथ शैलेश्वरं ते च बोधयामासुरादरात् ।
स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥ १८॥
ऋषय ऊचुः ।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ।
शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ॥ १९॥
अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ।
तारकस्य विनाशाय ब्रह्मा सम्बन्धकर्मणि ॥ २०॥
नोत्सुको दारसंयोगे शङ्करो योगिनां वरः ।
विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥ २१॥
दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा ।
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥ २२॥
ब्रह्मोवाच ।
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ।
उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥ २३॥
हिमालय उवाच ।
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन ।
कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥ २४॥
नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ।
यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥ २५॥
वरायाननुरूपाय पिता कन्यां ददाति चेत् ।
कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं व्रजेत् ॥ २६॥
न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ।
यद्विधानं भवेद्योग्यमृषयस्तद्विधीयताम् ॥ २७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ।
प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारदः ॥ २८॥
वसिष्ठ उवाच ।
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ।
धर्माविरुद्धं सत्यं च परत्रेह मुदावहम् ॥ २९॥
वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ।
सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥ ३०॥
असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम् ।
सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ॥ ३१॥
आदावप्रीतिजनकं परिणामे सुखावहम् ।
दयालुर्धर्मशीलो हि बोधयत्येव बान्धवः ॥ ३२॥
श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ।
सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ॥ ३३॥
एवं च त्रिविधं शैल नीतिशास्त्रोदितं वचः ।
कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ॥ ३४॥
ब्राह्मसम्पद्विहीनश्च शङ्करस्त्रिदशेश्वरः ।
तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः । ३५॥
ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ।
गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥ ३६॥
कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ।
को वेद शङ्करो दुःखी कुबेरो यस्य किङ्करः ॥ ३७॥
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्तुं क्षमो हि सः ।
निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥ ३८॥
यस्य च त्रिविधा मूर्तिर्विधातुः सृष्टिकर्मणि ।
सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ॥ ३९॥
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ।
हरः कैलासनिलयः सर्वाः शिवविभूतयः ॥ ४०॥
धत्ते च त्रिविधा मूर्तीः प्रकृतिः शिवसम्भवा ।
अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥ ४१॥
मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ।
वक्षःस्थलोद्भवा लक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ ४२॥
शिवा तेजस्सु देवानामाविर्भावं चकार सा ।
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥ ४३॥
प्राप कल्पान्तरे जन्म जठरे दक्षयोषितः ।
नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ॥ ४४॥
देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ।
साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ॥ ४५॥
शिवा शिवस्य पत्नीयं शैल जन्मनि जन्मनि ।
कल्पे कल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥ ४६॥
जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ।
सत्या अस्थि चिताभस्म भक्त्या धत्ते हरः स्वयम् ॥ ४७॥
अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ।
अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ॥ ४८॥
कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसङ्ख्यकम् ।
दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥ ४९॥
तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ।
तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ॥ ५०॥
अङ्गीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ।
विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ॥ ५१॥
तद्गत्वा प्रभुणा देवप्रार्थितेन त्वदन्तिकम् ।
प्रस्थापिता वयं शीघ्रं ऋषयः साप्यरुन्धती ॥ ५२॥
शिक्षयामो वयं त्वा हि देहि रुद्राय पार्वतीम् ।
एवङ्कृते महानन्दो भविष्यति गिरे तव ॥ ५३॥
शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि ।
भविता तद्विवाहोऽत्र भवितव्यबलेन हि ॥ ५४॥
वरं ददौ शिवायै स तपन्त्यै तात शङ्करः ।
न हीश्वरप्रतिज्ञातं विपरीताय कल्पते ॥ ५५॥
अहो प्रतिज्ञा दुर्लङ्घ्या साधूनामीशवर्तिनाम् ।
सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ॥ ५६॥
एको महेन्द्रः शैलानां पक्षांश्चिच्छेद लीलया ।
पार्वती लीलया मेरोः शृङ्गभङ्गं चकार च ॥ ५७॥
एकार्थे नहि शैलेश नश्याः सर्वा हि सम्पदः ।
एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ॥ ५८॥
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वरः ।
ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ॥ ५९॥
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ।
ब्रह्मशापाद्विभीतञ्च गुरवो ज्ञातिसत्तमाः ॥ ६०॥
शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ।
रक्ष सर्वान्बन्धुवर्गान्वशं कुरु सुरानपि ॥ ६१॥
ब्रह्मोवाच ।
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रहस्य च ।
पप्रच्छ नृपवार्ताञ्च हृदयेन विदूयता ॥ ६२॥
हिमालय उवाच ।
कस्य वंशोद्भवो ब्रह्मन् अनरण्यो नृपश्च सः ।
सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ॥ ६३॥
ब्रह्मोवाच ।
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ।
प्रोवाच गिरये तस्मै नृपवार्त्तां सुखावहाम् ॥ ६४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसान्त्वनो नाम त्रयस्त्रिंशोऽध्यायः ॥ २.३.३३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३४. चतुस्त्रिंशोऽध्यायः । अनरण्यचरितवर्णनम् ।
वसिष्ठ उवाच ।
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वरः ।
इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि ॥ १॥
अनरण्यो नृपश्रेष्ठः सप्तद्वीपमहीपतिः ।
शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ॥ २॥
भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ।
न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥ ३॥
बभूवुः शतपुत्राश्च राज्ञस्तस्य हिमालय ।
कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४॥
यः स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ।
नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥ ५॥
प्राणाधिका प्रियतमा महिष्यः सर्वयोषितः ।
नृपस्य पत्न्यः पञ्चासन् सर्वाः सौभाग्यसंयुताः ॥ ६॥
सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ।
पत्रं प्रस्थापयामास सुवरानयनाय सः ॥ ७॥
एकदा पिप्पलादर्षिर्गन्तुं स्वाश्रममुत्सुकः ।
तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥ ८॥
स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ।
विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥ ९॥
दृष्ट्वा तं मुनिशार्दूलः सकामः सम्बभूव सः ।
तपःस्वदत्तचित्तश्चाचिन्तयद्दारसङ्ग्रहम् ॥ १०॥
एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः ।
कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥ ११॥
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।
ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥ १२॥
केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ।
जना निवेदयाञ्चक्रुर्नत्वा शापनियन्त्रिताः ॥ १३॥
जना ऊचुः ।
अनरण्यसुतेयं वै पद्मा नाम रमापरा ।
वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥ १४॥
ब्रह्मोवाच ।
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ।
चुक्षोभातीव मनसि तल्लिप्सुरभवच्च सः ॥ १५॥
मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ।
जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥ १६॥
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ १७॥
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ।
मौनी बभूव नृपतिः किञ्चिन्निर्वक्तुमक्षमः ॥ १८॥
मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ।
अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥ १९॥
सर्वे बभूवुराच्छन्ना गणास्तत्तेजसा मुने ।
रुदोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥ २०॥
महिष्यो रुरुदुस्सर्वा इतिकर्तव्यताक्षमाः ।
मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥ २१॥
बभूवुस्तनयाः सर्वे शोकाकुलितमानसाः ।
सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥ २२॥
एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ।
पुरोहितश्च मतिमान् आगतो नृपसन्निधिम् ॥ २३॥
राजा प्रणम्य सम्पूज्य रुदोद च तयोः पुरः ।
सर्वं निवेदयाञ्चक्रे पप्रच्छोचितमाशु तत् ॥ २४॥
अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ।
अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥ २५॥
शोकाकुलांश्च महिषीर्नृपबालांश्च कन्यकाम् ।
उत्तमां नीतिमादृत्य सर्वेषां हितकारिणीम् ॥ २६॥
गुरुपुरोधसावूचतुः
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ।
मा शुचः सपरीवारः शास्त्रे कुरु मतिं सतीम् ॥ २७॥
अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ।
पात्राय विप्रायान्यस्मै कस्मैचिद्वा विशेषतः ॥ २८॥
सत्पात्रं ब्राह्मणादन्यं न पश्यावो जगत्त्रये ।
सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ॥ २९॥
राजन्नेकनिमित्तेन सर्वसम्पद्विनश्यति ।
सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ॥ ३०॥
वसिष्ठ उवाच ।
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ।
कन्यां सालङ्कृतां कृत्वा मुनीन्द्राय ददौ किल ॥ ३१॥
कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ।
पद्मां पद्मोपमां तां वै मुदितःस्वालयं ययौ ॥ ३२॥
राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ।
ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ॥ ३३॥
तद्भार्यापि वनं याते प्राणनाथे तदा गिरे ।
भर्तुश्च दुहितुः शोकात्प्राणांस्तत्याज सुन्दरी ॥ ३४॥
पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ।
शुशुचुः श्वाससंयुक्ता ज्ञात्वा सर्वेऽपरे जनाः ॥ ३५॥
अनरण्यो वनं गत्वा तपस्तप्त्वाति शङ्करम् ।
समाराध्य ययौ भक्त्या शिवलोकमनामयम् ॥ ३६॥
नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोऽथ धार्मिकः ।
पुत्रवत्पालयामास प्रजा राज्यं चकार ह ॥ ३७॥
इति ते कथितं शैलानरण्यचरितं शुभम् ।
कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ॥ ३८॥
शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ।
रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ॥ ३९॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ २.३.३४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३५. पञ्चत्रिंशोऽध्यायः । पद्मापिप्पलादचरितवर्णनम् ।
नारद उवाच ।
अनरण्यस्य चरितं सुतादानसमन्वितम् ।
श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ॥ १॥
ब्रह्मोवाच ।
अनरण्यस्य चरितं कन्यादानसमन्वितम् ।
श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः ॥ २॥
शैलेश उवाच ।
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ।
अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ॥ ३॥
अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ।
सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम् ॥ ४॥
वसिष्ठ उवाच ।
पिप्पलादो मुनिवरो वयसा जर्जरोऽधिकः ।
गत्वा निजाश्रमं नार्यानरण्यसुतया तया ॥ ५॥
उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः ।
तत्रारण्ये गिरिवरे स नित्यं निजधर्मकृत् ॥ ६॥
अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ ७॥
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ।
ददर्श पथि धर्मश्च मायया नृपरूपधृक् ॥ ८॥
चारुरत्नरथस्थश्च नानालङ्कारभूषितः ।
नवीनयौवनश्श्रीमान्कामदेवसमप्रभः ॥ ९॥
दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ।
विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ॥ १०॥
धर्म उवाच ।
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ।
अतीव यौवनस्थे च कामिनि स्थिरयौवने ॥ ११॥
जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ।
सत्यं वदामि तन्वङ्गि समीपे नैव राजसे ॥ १२॥
विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ।
त्यक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥ १३॥
प्राप्नोति सुन्दरी पुण्यात्सौन्दर्यं पूर्वजन्मनः ।
सफलं तद्भवेत्सर्वं रसिकालिङ्गनेन च ॥ १४॥
सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ।
किङ्करं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ॥ १५॥
निर्जने कानने रम्ये शैले शैले नदीतटे ।
विहरस्व मया सार्धं जन्मेदं सफलं कुरु ॥ १६॥
वसिष्ठ उवाच ।
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ।
ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ॥ १७॥
पद्मोवाच ।
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ।
मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ॥ १८॥
पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम् ।
त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ॥ १९॥
स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ।
स्त्रीजितः परपापी च तद्दर्शनमघावहम् ॥ २०॥
सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ।
निन्दन्ति पितरो देवा मानवाः सकलाश्च तम् ॥ २१॥
तस्य किं ज्ञान सुतपोजपहोमप्रपूजनैः ।
विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ २२॥
मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ।
भविष्यति क्षयस्तेन कालेन मम शापतः ॥ २३॥
वसिष्ठ उवाच ।
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च ।
धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ॥ २४॥
धर्म उवाच ।
मातर्जानीहि मां धर्मं ज्ञानिनां च गुरोर्गुरुम् ।
परस्त्रीमातृबुद्धिं च कुर्वन्तं सततं सति ॥ २५॥
अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ।
तवाहञ्च मनो जाने तथापि विधिनोदितः ॥ २६॥
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २७॥
स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ।
सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ॥ २८॥
शत्रुं मित्रं संविधातुं प्रीतिञ्च कलहं क्षमः ।
स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि ॥ २९॥
येन शुक्लीकृतं क्षीरं जले शैत्यं कृतं पुरा ।
दाहीकृतो हुताशश्च नमस्तस्मै शिवाय हि ॥ ३०॥
प्रकृतिर्निर्मिता येन तत्त्वानि महदादितः ।
ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ॥ ३१॥
ब्रह्मोवाच ।
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ।
किञ्चिन्नोवाच चकितस्तत्पातिव्रत्यतोषितः ॥ ३२॥
पद्मापि नृपकन्या सा पिप्पलादप्रिया तदा ।
साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत ॥ ३३॥
पद्मोवाच ।
त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम् ।
कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ॥ ३४॥
यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ।
त्वं च शप्तो मयाज्ञानात्स्त्रीस्वभावाद् वृथा वृष ॥ ३५॥
का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ।
चित्ते स्फुरतु सा बुद्धिर्यया शं संल्लभामि वै ॥ ३६॥
आकाशोऽसौ दिशःसर्वा यदि नश्यन्तु वायवः ।
तथापि साध्वीशापस्तु न नश्यति कदाचन ॥ ३७॥
सत्ये पूर्णश्चतुष्पादः पौर्णमास्यां यथा शशी ।
विराजसे देवराज सर्वकालं दिवानिशम् ॥ ३८॥
त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ।
इतिकर्तव्यतामूढा वृथापि च वदाम्यहम् ॥ ३९॥
पादक्षयश्च भविता त्रेतायां च सुरोत्तम ।
पादोऽपरे द्वापरे च तृतीयोऽपि कलौ विभो ॥ ४०॥
कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवाङ्घ्रयः ।
पुनःसत्ये समायाते परिपूर्णो भविष्यसि ॥ ४१॥
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित् ।
युगव्यवस्थया स त्वं भविष्यसि यथा तथा ॥ ४२॥
इत्येवं वचनं सत्यं ममास्तु सुखदं तव ।
याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ॥ ४३॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्याः सन्तुष्टोऽभूद् वृषः स वै ।
तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ॥ ४४॥
धर्म उवाच ।
धन्यासि पतिभक्तासि स्वस्ति तेऽस्तु पतिव्रते ।
वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ॥ ४५॥
युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ।
रूपवान् गुणवान्वाग्मी सन्ततस्थिरयौवनः ॥ ४६॥
चिरञ्जीवी स भवतु मार्कण्डेयात्परश्शुभे ।
कुबेराद्धनवांश्चैव शक्रादैश्वर्यवानपि ॥ ४७॥
शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः ।
बुद्ध्या बृहस्पतिसमः समत्वेन विधेः समः ॥ ४८॥
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।
तथा च सुभगे देवि त्वं भव स्थिरयौवना ॥ ४९॥
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।
स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥ ५०॥
गृहा भवन्तु ते साध्वि सर्वसम्पत्समन्विताः ।
प्रकाशवन्तः सततं कुबेरभवनाधिकाः ॥ ५१॥
वसिष्ठ उवाच ।
इत्येवमुक्त्वा सन्तस्थौ धर्मः स गिरिसत्तम ।
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥ ५२॥
धर्मस्तथाशिषो दत्त्वा जगाम निजमन्दिरम् ।
प्रशशंस च तां प्रीत्या पद्मां संसदि संसदि ॥ ५३॥
सा रेमे स्वामिना सार्धं यूना रहसि सन्ततम् ।
पश्चाद्बभूवुः सत्पुत्रास्तद्भर्तुरधिका गुणैः ॥ ५४॥
बभूव सकला सम्पद्दम्पत्योः सुखवर्धिनी ।
सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ॥ ५५॥
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।
दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ॥ ५६॥
बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ।
कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ॥ ५७॥
सप्ताहे समतीते तु दुर्लभेऽतिशुभे क्षणे ।
लग्नाधिपे च लग्नस्थे चन्द्रे स्वत्नयान्विते ॥ ५८॥
मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।
मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ॥ ५९॥
सर्वसद्ग्रहसंसृष्टेऽसद्ग्रहदृष्टिवर्जिते ।
सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ॥ ६०॥
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।
कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ॥ ६१॥
ब्रह्मोवाच ।
इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ।
विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ॥ ६२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ २.३.३५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३६. षट्त्रिंशोऽध्यायः । हिमालयस्य शिवाय कालीप्रदाननिश्चयवर्णनम् ।
ब्रह्मोवाच ।
वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः ।
विस्मितो भार्यया शैलानुवाच स गिरीश्वरः ॥ १॥
हिमालय उवाच ।
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ।
मैनाक विन्ध्य शैलेन्द्राः सर्वे शृणुत मद्वचः ॥ २॥
वसिष्ठो हि वदत्येवं किं मे कार्यं विचार्यते ।
यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ॥ ३॥
ब्रह्मोवाच ।
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ।
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ॥ ४॥
शैला ऊचुः ।
अधुना किं विमर्शेन कृतं कार्यं तथैव हि ।
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ॥ ५॥
प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिणी ।
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ॥ ६॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा वचस्तेषां मेर्वादीनां हिमाचलः ।
सुप्रसन्नतरोऽभूद् वै जहास गिरिजा हृदि ॥ ७॥
अरुन्धती च तां मेनां बोधयामास कारणात् ।
नानावाक्यसमूहेनेतिहासैर्विविधैरपि ॥ ८॥
अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ।
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ॥ ९॥
अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च तान् ।
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मा गतभ्रमः ॥ १०॥
हिमाचल उवाच ।
सप्तर्षयो महाभागा वचः शृणुत मामकम् ।
विस्मयो मे गतः सर्वः शिवयोश्चरितं श्रुतम् ॥ ११॥
मदीयं च शरीरं वै पत्नी मेना सुता सुताः ।
ऋद्धिः सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ॥ १२॥
ब्रह्मोवाच ।
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ।
भूषयित्वा तदङ्गानि ऋष्युत्सङ्गे न्यवेशयत् ॥ १३॥
उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा ।
अयं भागो मया तस्मै दातव्य इति निश्चितम् ॥ १४॥
ऋषय ऊचुः ।
शङ्करो भिक्षुकस्तेऽथ स्वयं दाता भवान् गिरे ।
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ॥ १५॥
हिमवन् शिखराणान्ते यद्धेतोः सदृशी गतिः ।
धन्यस्त्वं सर्वशैलानामधिपः सर्वतो वरः ॥ १६॥
ब्रह्मोवाच ।
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ।
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ॥ १७॥
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।
शुक्लपक्षे यथा चन्द्रो वर्धन्तां त्वद्गुणास्तथा ॥ १८॥
इत्युक्त्वा मुनयः सर्वे दत्त्वा ते गिरये मुदा ।
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ॥ १९॥
अरुन्धती तदा तत्र मेनां सा सुमुखी मुदा ।
गुणैश्च लोभयामास शिवस्य परमा सती ॥ २०॥
हरिद्राकुङ्कुमैः शैलश्मश्रूणि प्रत्यमार्जयत् ।
लौकिकाचारमाधाय मङ्गलायनमुत्तमम् ॥ २१॥
ततश्च ते चतुर्थेऽह्नि सन्धार्य लग्नमुत्तमम् ।
परस्परं च सन्तुष्य सञ्जग्मुः शिवसन्निधिम् ॥ २२॥
तत्र गत्वा शिवं नत्वा स्तुत्वा विविधसूक्तिभिः ।
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ॥ २३॥
ऋषय ऊचुः ।
देवदेव महादेव परमेश महाप्रभो ।
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ॥ २४॥
बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ।
सेतिहासं महेशान प्रबुद्धोऽसौ न संशयः ॥ २५॥
वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ।
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ॥ २६॥
गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ।
विवाहय यथा रीतिः पार्वतीमात्मजन्मने ॥ २७॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः ।
प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ॥ २८॥
महेश उवाच ।
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ।
यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ॥ २९॥
ब्रह्मोवाच ।
तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ।
प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ॥ ३०॥
ऋषय ऊचुः ।
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ।
ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ॥ ३१॥
तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ।
सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ॥ ३२॥
एतांश्चान्यान्प्रभो सर्वानानयस्वेह सादरम् ।
सर्वं संसाधयिष्यन्ति त्वत्कार्यं ते न संशयः ॥ ३३॥
ब्रह्मोवाच ।
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ।
स्वधाम प्रययुः सर्वे शंसन्तः शङ्करीं गतिम् ॥ ३४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिवचनं नाम षट्त्रिंशोऽध्यायः ॥ २.३.३६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३७. सप्तत्रिंशोऽध्यायः । पार्वतीविवाहसम्भारसङ्ग्रहवर्णनम् ।
नारद उवाच ।
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ।
किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १॥
ब्रह्मोवाच ।
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ।
सारुन्धतीषु हिमवान् यदकार्षीद् ब्रवीमि ते ॥ २॥
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ।
महामनाः स मुमुदे हिमवान् पर्वतेश्वरः ॥ ३॥
तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्नपत्रिकाम् ।
लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४॥
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ।
नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५॥
ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ।
ददुः शिवाय तत्पत्रं तिलकं संविधाय च ॥ ६॥
सम्मानिता विशेषेण प्रभुणा च यथोचितम् ।
सर्वे ते प्रीतिमनस आजग्मुः शैलसन्निधिम् ॥ ७॥
सम्मानितान्विशेषेण महेशेनागतान् जनान् ।
दृष्ट्वा सुहर्षितान् शैलो मुमोदातीव चेतसि ॥ ८॥
ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ।
नानादेशस्थितानां च निखिलानां सुखास्पदम् ॥ ९॥
ततः स कारयामास स्वन्नसङ्ग्रहमादरात् ।
नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ १०॥
तण्डुलानां बहून् शैलान् पृथुकानां तथैव च ।
गुडानां शर्कराणां च लवणानां तथैव च ॥ ११॥
क्षीराणां च घृतानां च दध्नां वापीश्चकार सः ।
यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२॥
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ।
अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३॥
बह्वीर्हैयङ्गवानां च ह्यासवानां तथैव च ।
नाना पक्वान्नसङ्घांश्च महास्वादुरसाँस्तथा ॥ १४॥
नाना व्यञ्जनवस्तूनि गणदेवहितानि च ।
अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १९॥
मणिरत्नप्रकाराणि सुवर्णरजतानि च ।
द्रव्याण्येतानि चान्यानि सङ्गृह्य विधिपूर्वकम् ॥ १६॥
मङ्गलं कर्तुमारेभे गिरिर्मङ्गलकृद्दिने ।
संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७॥
ता मङ्गलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ।
पुरद्विजस्त्रियो हृष्टा लोकाचारं प्रचक्रिरे ॥ १८॥
सोत्सवं विविधं तत्र सुमङ्गलपुरस्सरम् ।
हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमङ्गलम् ॥ १९॥
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ।
एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ २०॥
आजग्मुः सस्त्रियो हृष्टाः ससुताः सपरिच्छदाः ।
तदेव शृणु देवर्षे गिर्यागमनमादृतः ॥ २१॥
वर्णयामि समासेन शिवप्रीतिविवृद्धये ।
देवालयगिरिर्यो हि दिव्यरूपधरो महान् ॥ २२॥
नानारत्नपरिभ्राजत्समाजः सपरिच्छदः ।
नानामणिमहारत्नसारमादाय यत्नतः ॥ २३॥
सुवेषालङ्कृतः श्रीमान् जगाम स हिमालयम् ।
मन्दरः सर्वशोभाढ्यः सनारीतनयो गिरिः ॥ २४॥
सूपायनानि सङ्गृह्य जगाम विविधानि च ।
अस्ताचलोऽपि दिव्यात्मा सोपायन उदारधीः ॥ २५॥
बहुशोभासमायुक्त आजगाम मुदान्वितः ।
उदयाचल आदाय सद्रत्नानि मणीनपि ॥ २६॥
अत्युत्कृष्टपरीवार आजगाम महासुखी ।
मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७॥
सुदिव्यरचनायुक्त आययौ बहुसद्बलः ।
सद्यो दर्दुरनामा च मुदितः सकलत्रकः ॥ २८॥
बहुशोभान्वितस्तात ययौ हिमगिरेर्गृहम् ।
निषदोऽपि प्रहृष्टात्मा सपरिच्छद आययौ ॥ २९॥
ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ।
आजगाम महाभाग्यो भूधरो गन्धमादनः ॥ ३०॥
करवीरस्तथैवापि महाविभवसंयुतः ।
महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥ ३१॥
सगणः ससुतस्त्रीको बहुशोभासमन्वितः ।
पारियात्रो हि हृष्टात्मा मणिरत्नाकरैर्युतः ॥ ३२॥
सगणः सपरीवार आययौ हिमभूधरम् ।
क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ।
आजगाम गिरिश्रेष्ठः समुपायन आदृतः । ३३॥
पुरुषोत्तमशैलोऽपि सपरिच्छद आदृतः ।
महोपायनमादायाजगाम हिमभूधरम् ॥ ३४॥
नीलः सलीलः ससुतः सस्त्रीको द्रव्यसंयुतः ।
आजगाम हिमागस्य गृहमानन्दसंयुतः ॥ ३५॥
त्रिकूटश्चित्रकूटोऽपि वेङ्कटः श्रीगिरिस्तथा ।
गोकामुखी नारदश्च हिमगेहमुपागमत् ॥ ३६॥
विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ।
आजगाम प्रहृष्टात्मा सदारतनयः शुभः ॥ ३७॥
कालञ्जरो महाशैलो बहुहर्षसमन्वितः ।
बहुभिः स्वगणैः प्रीत्याजगाम हिमभूधरम् ॥ ३८॥
कैलासस्तु महाशैलो महाहर्षसमन्वितः ।
आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥ ३९॥
अन्येऽपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ।
इहापि येऽचलाः सर्वे आययुस्ते हिमालयम् ॥ ४०॥
निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ।
आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥ ४१॥
तदा सर्वे समायाताः शोणभद्रादयः खलु ।
बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति ॥ ४२॥
नद्यः सर्वाः समायाता नानालङ्कारसंयुताः ।
दिव्यरूपधराः प्रीत्या विवाहश्शिवयोरिति ॥ ४३॥
गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ।
आययौ हिमशैलं वै विवाहश्शिवयोरिति ॥ ४४॥
गङ्गा तु सुमहाप्रीत्या नानालङ्कारसंयुता ।
दिव्यरूपाययौ प्रीत्या विवाहश्शिवयोरिति ॥ ४५॥
नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ।
महाप्रीत्याजगामाशु विवाहश्शिवयोरिति ॥ ४६॥
आगतैस्तैस्ततः सर्वैः सर्वतो हिमभूधरम् ।
सङ्कुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥ ४७॥
महोत्सवा लसत्केतुध्वजातोरणकाधिका ।
वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥ ४८॥
हिमालयोऽपि सुप्रीत्यादरेण विविधेन च ।
तेषां चकार सम्मानं तासां चैव यथायथम् ॥ ४९॥
सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ।
सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥ ५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे लग्नपत्रसम्प्रेषणसामग्रीसङ्ग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ २.३.३७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३८. अष्टत्रिंशोऽध्यायः । विवाहमण्डपादिरचनावर्णनम् ।
ब्रह्मोवाच ।
अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम ।
स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १॥
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ।
द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ॥ २॥
प्राङ्गणं रचयामास रम्भास्तम्भसमन्वितम् ।
पट्टसूत्रैः सन्निबद्धं रसालपल्लवान्वितम् ॥ ३॥
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ।
शोभितं मङ्गलद्रव्यैश्चतुर्दिक्षु स्थितैः शुभैः ॥ ४॥
तथैव सर्वं परया मुदान्वित-
श्चक्रे गिरीन्द्रः स्वसुतार्थमेव ।
गर्गं पुरस्कृत्य महाप्रभावं
प्रस्तावयोग्यं च सुमङ्गलं हि ॥ ५॥
आहूय विश्वकर्माणं कारयामास सादरम् ।
मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६॥
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ।
अनेकलक्षणोपेतं नानाश्चर्यसमन्वितम् ॥ ७॥
स्थावरं जङ्गमं सर्वं सदृशं तैर्मनोहरम् ।
सर्वतोऽद्भुतसर्वस्वं नानावस्तुचमत्कृतम् ॥ ८॥
जङ्गमं विजितं तत्र स्थावरेण विशेषतः ।
जङ्गमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९॥
पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ।
जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥ १०॥
क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपङ्क्तयः ।
क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥ ११॥
क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ।
मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा ॥ १२॥
तथा तेनैव विधिना द्वारपाला मनोहराः ।
हस्तैर्धनूंषि चोद्धृत्य स्थावरा जङ्गमोपमाः ॥ १३॥
द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता ।
सर्वलक्षणसंयुक्तागता साक्षात्पयोर्णवात् ॥ १४॥
गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ।
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः ॥ १५॥
रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ।
वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥ १६॥
एवं विमोहनार्थं तु कृतं वै विश्वकर्मणा ।
देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥ १७॥
महाद्वारि स्थितो नन्दी कृत्रिमश्च कृतो मुने ।
शुद्धस्फटिकसङ्काशो यथा नन्दी तथैव सः ॥ १८॥
तस्योपरि महादिव्यं पुष्पकं रत्नभूषितम् ।
राजितं पल्लवैः शुभ्रैश्चामरैश्च सुशोभितम् ॥ १९॥
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ।
चतुर्दन्तौ षष्टिवर्षौ भेदमानौ महाप्रभौ ॥ २०॥
तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ।
चामरालङ्कृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥ २१॥
दंशिता वररत्नाढ्या लोकपालास्तथैव च ।
सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥ २२॥
तथा हि ऋषयःसर्वे भृग्वाद्याश्च तपोधनाः ।
अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥ २३॥
विष्णुश्च पार्षदैः सर्वैर्गरुडाख्यैः समन्वितः ।
कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥ २४॥
तथैवाहं सुतैर्वेदैस्सिद्धैश्च परिवारितः ।
कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥ २५॥
ऐरावतगजारूढः शक्रः स्वदलसंयुतः ।
कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसन्निभः ॥ २६॥
किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ।
हिमागप्रेरितेनाशु क्लृप्तःसुरसमाजकः ॥ २७॥
एवम्भूतः कृतस्तेन मण्डपो दिव्यरूपवान् ।
अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥ २८॥
अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ।
निवासार्थं सुरादीनां तत्तल्लोकान् हि यत्नतः ॥ २९॥
तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ।
रचिताःसुखदा दिव्यास्तेषां वै विश्वकर्मणा ॥ ३०॥
तथा स सत्यलोकं वै विरेचे क्षणतोऽद्भुतम् ।
दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥ ३१॥
तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ।
विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥ ३२॥
अमरेशगृहं दिव्यं तथैवाद्भुतमुत्तमम् ।
विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥ ३३॥
गृहाणि लोकपालानां विरेचे सुन्दराणि च ।
तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥ ३४॥
अन्येषाममराणां च सर्वेषां क्रमशस्तथा ।
सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५॥
विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ।
विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥ ३६॥
तथैव चित्रं परमं महोज्ज्वलं
महाप्रभं देववरैः सुपूजितम् ।
गिरीशचिह्नं शिवलोकसंस्थितं
सुशोभितं शम्भुगृहं चकार ॥ ३७॥
एवम्भूता कृता तेन रचना विश्वकर्मणा ।
विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥ ३८॥
एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ।
पर्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥ ३९॥
इति प्रोक्तमशेषेण वृत्तान्तं प्रमुदावहम् ।
हिमालयस्य देवर्षे किं भूयः श्रोतुमिच्छसि ॥ ४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ २.३.३८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.३९. एकोनचत्वारिंशोऽध्यायः । शिववरयात्रावर्णनम् ।
नारद उवाच ।
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ।
अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥ १॥
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।
वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ॥ २॥
किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।
तां श्रावय कथां दिव्यां शङ्करस्य परात्मनः ॥ ३॥
ब्रह्मोवाच ।
शृणु वत्स महाप्राज्ञ शाङ्करं परमं यशः ।
यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ ४॥
अथ शम्भुर्गृहीत्वा तां मुदा मङ्गलपत्रिकाम् ।
विजहास प्रहृष्टात्मा मानं तेषां व्यधाद्विभुः ॥ ५॥
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ।
तज्जनान्यापयामास बहुसम्मान्य चादृतः ॥ ६॥
उवाच मुनिवर्गांस्तान्कार्यं सम्यक् कृतं शुभम् ।
आगन्तव्यं विवाहे मे विवाहः स्वीकृतो मया ॥ ७॥
इत्याकर्ण्य वचः शम्भोः प्रहृष्टास्ते प्रणम्य तम् ।
परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिं परम् ॥ ८॥
अथ देवेश्वरः शम्भुः सामरस्तवां मुने द्रुतम् ।
लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥ ९॥
त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिं परम् ।
प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ॥ १०॥
अस्तौस्सुजयशब्दानि समुच्चार्य मुहुर्मुहुः ।
निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने ॥ ११॥
ततः शम्भुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ।
उवाच मुनिवर्य त्वां प्रीणयन् शुभया गिरा ॥ १२॥
शिव उवाच ।
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ।
ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ॥ १३॥
कृतं महत्तपो देव्या पार्वत्या तव शासनात् ।
तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ॥ १४॥
करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ।
सप्तर्षिभिः साधितं च तल्लग्नं शोधितं च तैः ॥ १५॥
अद्यतःसप्तमे चाह्नि तद्भविष्यति नारद ।
महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ॥ १६॥
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तस्य शङ्करस्य परात्मनः ।
प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ॥ १७॥
नारद उवाच ।
भवतस्तु व्रतमिदं भक्तवश्यो भवान्मतः ।
सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ॥ १८॥
कार्यं मत्सदृशं किञ्चित्कथनीयं त्वया विभो ।
मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ॥ १९॥
ब्रह्मोवाच ।
इत्युक्तस्तु त्वया शम्भुः शङ्करो भक्तवत्सलः ।
प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ॥ २०॥
शिव उवाच ।
विष्णुप्रभृतिदेवांश्च मुनीन् सिद्धानपि ध्रुवम् ।
त्वं निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ॥ २१॥
सर्व आयान्तु सोत्साहाः सर्वशोभासमन्विताः ।
सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ॥ २२॥
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ।
ते स्वकीया न मन्तव्या मया देवादयः खलु ॥ २३॥
ब्रह्मोवाच ।
इतीशाज्ञां ततो धृत्वा भवान् शङ्करवल्लभः ।
सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ॥ २४॥
शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान् ।
तद् हूत्यात्तत्र सन्तस्थौ तदाज्ञां प्राप्य नारद ॥ २५॥
शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ।
स्वगणैःसोत्सवैः सर्वैर्नृत्यद्भिः सर्वतो दिशम् ॥ २६॥
एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम् ।
आजगामाच्युतः शीघ्रं कैलासं सपरिच्छदः ॥ २७॥
शिवं प्रणम्य सद्भक्त्या सदारः सदलो मुदा ।
तदाज्ञां प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ॥ २८॥
तथाहं स्वगणैराशु कैलासमगमं मुदा ।
प्रभुं प्रणम्यातिष्ठं वै सानन्दः स्वगणान्वितः ॥ २९॥
इन्द्रादयो लोकपाला आययुः सपरिच्छदाः ।
तथैवालङ्कृतास्सर्वे सोत्सवास्सकलत्रकाः ॥ ३०॥
तथैवं मुनयो नागास्सिद्धा उपसुरास्तथा ।
आययुश्चापरेऽपीह सोत्सवाः सुनिमन्त्रिताः ॥ ३१॥
महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ।
सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ॥ ३२॥
अथोत्सवो महानासीत्कैलासे परमोऽद्भुतः ।
नृत्यादिकं तदा चक्रुर्यथायोग्यं सुरस्त्रियः ॥ ३३॥
एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ।
यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ॥ ३४॥
शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ।
शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ॥ ३५॥
मातरः सप्त तास्तत्र शिवभूषाविधिं परम् ।
चक्रिरे च मुदा युक्ता यथायोग्यं तथा पुनः ॥ ३६॥
तस्य स्वाभाविको वेषो भूषाविधिरभूत्तदा ।
तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभोः ॥ ३७॥
चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ।
लोचनं सुन्दरं ह्यासीत्तृतीयं तिलकं शुभम् ॥ ३८॥
कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ।
कुण्डलेऽभवतां तस्य नानारत्नान्विते मुने ॥ ३९॥
अन्याङ्गसंस्थिताः सर्पाः तदङ्गाभरणानि च ।
बभूवुरतिरम्याणि नानारत्नमयानि च ॥ ४०॥
विभूतिरङ्गरागोऽभूच्चन्दनादिसमुद्भवः ।
तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ॥ ४१॥
ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ।
ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान् स्वतः ॥ ४२॥
ततश्च सर्वे सुरपक्षदानवा
नागाः पतङ्गाप्सरसो महर्षयः ।
समेत्य सर्वे शिवसन्निधिं तदा
महोत्सवाः प्रोचुरहो मुदान्विताः ॥ ४३॥
सर्व ऊचुः ।
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ।
गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ॥ ४४॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ।
प्रणम्य शङ्करं भक्त्या विज्ञानप्रीतमानसः ॥ ४५॥
विष्णुरुवाच ।
देव देव महादेव शरणागतवत्सल ।
कार्यकर्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो ॥ ४६॥
गृह्योक्तविधिना शम्भो स्वविवाहस्य शङ्कर ।
गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ॥ ४७॥
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ।
स एव हि तथा लोके सर्वः सुख्यातिमाप्नुयात् ॥ ४८॥
मण्डपस्थापनं नान्दीमुखं तत्कुलधर्मतः ।
कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ॥ ४९॥
ब्रह्मोवाच ।
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ।
लौकिकाचारनिरतो विधिना तच्चकार सः ॥ ५०॥
अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ।
अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ॥ ५१॥
कश्यपोऽत्रिर्वसिष्ठश्च गौतमो भागुरिर्गुरुः ।
कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः ॥ ५२॥
मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ।
अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ॥ ५३॥
दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ।
पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ॥ ५४॥
एते चान्ये च बहव आगताश्शिवसन्निधिम् ।
मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥ ५५॥
वेदोक्तविधिना सर्वे वेदवेदाङ्गपारगाः ।
रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमङ्गलम् ॥ ५६॥
ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ।
मङ्गलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ॥ ५७॥
ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ।
मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये ॥ ५८॥
ततश्शिवः सुसन्तुष्टः कृत्वा सर्वं यथोचितम् ।
लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ॥ ५९॥
अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ।
निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ॥ ६०॥
बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ।
देवैः सह द्विजैश्चैव नानास्वीकारकः प्रभुः ॥ ६१॥
तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ।
सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ॥ ६२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रणदेवागमनशिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ २.३.३९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४०. चत्वारिंशोऽध्यायः । हिमगिरिगृहेशिवस्यागमनवर्णनम् ।
ब्रह्मोवाच ।
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ।
आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥ १॥
शिव उवाच ।
अपि यूयं सह मया सङ्गच्छध्वं गिरेः पुरम् ।
कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ॥ २॥
ब्रह्मोवाच ।
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ।
स्वं स्वं बलमुपादाय तान् कथञ्चिद्वदाम्यहम् ॥ ३॥
अभ्यगाच्छङ्खकर्णश्च गणकोट्या गणेश्वरः ।
शिवेन सार्धं सङ्गन्तुं हिमाचलपुरं प्रति ॥ ४॥
दशकोट्या केकराक्षो गणानां स महोत्सवः ।
अष्टकोट्या च विकृतो गणानां गणनायकः ॥ ५॥
चतुष्कोट्या विशाखश्च गणानां गणनायकः ।
पारिजातश्च नवभिः कोटिभिर्गणपुङ्गवः ॥ ६॥
षष्टिः सर्वान्तकः श्रीमान् तथैव विकृताननः ।
गणानां दुन्दुभोऽष्टाभिः कोटिभिर्गणनायकः ॥ ७॥
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ।
षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ॥ ८॥
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ।
विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥ ९॥
सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ।
तथा सनादको वीरो गणेशो मुनिसत्तम ॥ १०॥
आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ।
महाकेशः सहस्रेण कोटीनां गणपो ययौ ॥ ११॥
कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने ।
अष्टाभिः कोटिभिर्वीरः समगाच्चन्द्रतापनः ॥ १२॥
कालश्च कालकश्चैव महाकालः शतेन वै ।
कोटीनां गणनाथो हि तथैवाग्निकनामकः ॥ १३॥
कोट्यग्निमुख एवागाद् गणानां गणनायकः ।
आदित्यमूर्धा कोट्या च तथा चैव घनावहः ॥ १४॥
सन्नाहः शतकोट्या हि कुमुदो गणपस्तथा ।
अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ॥ १५॥
सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ।
काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ॥ १६॥
महाबलश्च नवभिर्मधुपिङ्गश्च कोकिलः ।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ १७॥
सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ।
ययौ नवतिकोट्या तु गणेशानोऽहिरोमकः ॥ १८॥
यज्वाक्षः शतमन्युश्च मेघमन्युश्च नारद ।
तावत्कोट्या ययुः सर्वे गणेशा हि पृथक् पृथक् ॥ १९॥
काष्ठाङ्गुष्ठश्चतुः षष्ट्या कोटीनां गणनायकः ।
विरूपाक्षः सुकेशश्च वृषभश्च सनातनः ॥ २०॥
तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ।
संवर्तकस्तथा चैत्रो लकुलीशः स्वयम्प्रभुः ॥ २१॥
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।
देवो भृङ्गिरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २२॥
अशनिर्भानुकश्चैव चतुःषष्ट्या सहस्रशः ।
ययुः शिवविवाहार्थं शिवेन सहसोत्सवाः ॥ २३॥
भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ।
वीरभद्रश्चतुःषष्ट्या रोमजानान्त्रिकोटिभिः ॥ २४॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ।
तत्र जग्मुश्च नन्द्याद्या गणपाः शङ्करोत्सवे ॥ २५॥
क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ।
उद्वाहः शङ्करस्येत्याययौ प्रीत्या महोत्सवः ॥ २६॥
एते चान्ये च गणपा असङ्ख्याता महाबलाः ।
तत्र जग्मुर्महाप्रीत्या सोत्साहाः शङ्करोत्सवे ॥ २७॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८॥
रुद्राक्षाभरणाः सर्वे तथा सद्भस्मधारिणः ।
हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २९॥
ब्रह्मविष्ण्विन्द्रसङ्काशा अणिमादिगुणैर्युताः ।
सूर्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ॥ ३०॥
पृथिवीचारिणः केचित् केचित्पातालचारिणः ।
केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१॥
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।
आययुः स्वगणाः शम्भोः प्रीत्या वै शङ्करोत्सवे ॥ ३२॥
इत्थं देवैर्गणैश्चान्यैः सहितः शङ्करः प्रभुः ।
ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ॥ ३३॥
यदा जगाम सर्वेशो विवाहार्थं सुरादिभिः ।
तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर ॥ ३४॥
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता ।
तत्राजगाम सुप्रीत्या परेषां सुभयावहा ॥ ३५॥
प्रेतासनसमारूढा सर्पाभरणभूषिता ।
पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ॥ ३६॥
स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना ।
कुतूहलं प्रकुर्वन्ती जातहर्षा महाबला ॥ ३७॥
तत्र भूतगणा दिव्या विरूपाः कोटिशो मुने ।
विराजन्ते स्म बहुशः तथा नानाविधास्तदा ॥ ३८॥
तैः समेताग्रतश्चण्डी जगाम विकृतानना ।
कुतूहलान्विता प्रीता प्रीत्युपद्रवकारिणी ॥ ३९॥
चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा ।
कोट्येकादशसङ्ख्याका रौद्ररुद्रप्रियाश्च ते ॥ ४०॥
तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम् ।
भेरीझङ्कारशब्देन शङ्खानां निनदेन च ॥ ४१॥
तथा दुन्दुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् ।
कुर्वञ्जगन्मङ्गलं च नाशयेन्मङ्गलेतरत् ॥ ४२॥
गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः ।
अन्वयुः सर्वसिद्धाश्च लोकपालादिका मुने ॥ ४३॥
मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ।
शुशुभे ध्रियमाणेन छत्रेण महता मुने ॥ ४४॥
चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ।
पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ॥ ४५॥
तथाहमप्यशोभं वै व्रजन्मार्गे विराजितः ।
वेदैर्मूर्तिधरैः शास्त्रैः पुराणैरागमैस्तथा ॥ ४६॥
सनकादिमहासिद्धैः सप्रजापतिभिः सुतैः ।
परिवारैः संयुतो हि शिवसेवनतत्परः ॥ ४७॥
स्वसैन्यमध्यगः शक्र ऐरावतगजस्थितः ।
नानाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ॥ ४८॥
तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ।
विरेजुरतिसोत्कण्ठाः शिवस्योद्वाहनं प्रति ॥ ४९॥
शाकिन्यो यातुधानाश्च वेतालाब्रह्मराक्षसाः ।
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥ ५०॥
तुम्बुरुर्नारदो हाहहूहूश्चेत्यादयो वराः ।
गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ॥ ५१॥
जगतो मातरः सर्वा देवकन्याश्च सर्वशः ।
गायत्री चैव सावित्री लक्ष्मीरन्याः सुरस्त्रियः ॥ ५२॥
एताश्चान्याश्च देवानां पत्नयो भवमातरः ।
उद्वाहः शङ्करस्येति जग्मुः सर्वा मुदान्विताः ॥ ५३॥
शुद्धस्फटिकसङ्काशो वृषभः सर्वसुन्दरः ।
यो धर्म उच्यते वेदैः शास्त्रैः सिद्धैर्महर्षिभिः ॥ ५४॥
तमारूढो महादेवो वृषभं धर्मवत्सलः ।
शुशुभेऽतीव देवर्षिसेवितः सकलैर्व्रजन् ॥ ५५॥
एभिः समेतैः सफलैर्महर्षिभि-
र्बभौ महेशो बहुशोऽत्यलङ्कृतः ।
हिमालयाह्वस्य धरस्य संव्रजन्
पाणिग्रहार्थं सदनं शिवायाः ॥ ५६॥
इत्युक्तं शम्भुचरितं गमनं परमोत्सवम् ।
हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद ॥ ५७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं नाम चत्वारिंशोऽध्यायः ॥ २.३.४०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४१. एकचत्वारिंशोऽध्यायः । विवाहमण्डपं दृष्ट्वादेवानां मोहवर्णनम् ।
ब्रह्मोवाच ।
ततः सम्मन्त्र्य च मिथः प्राप्याज्ञां शाङ्करीं हरिः ।
मुने त्वां प्रेषयामास प्रथमं कुधरालयम् ॥ १॥
अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ।
हरिणा नोदितः प्रीत्या हिमाचलगृहं प्रति ॥ २॥
त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ।
कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ॥ ३॥
श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ।
अवलोकपरः सोऽभूच्चरितं विश्वकर्मणः ॥ ४॥
प्रविष्टो मण्डपं तस्य हिमाद्रे रत्नचित्रितम् ।
सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ॥ ५॥
सहस्रस्तम्भसंयुक्तं विचित्रं परमाद्भुतम् ।
वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ॥ ६॥
तदावोचश्च स मुने नारद त्वं नगेश्वरम् ।
विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ॥ ७॥
आगतास्ते किमधुना देवा विष्णुपुरोगमाः ।
तथा महर्षयः सर्वे सिद्धा उपसुरास्तथा ॥ ८॥
महादेवो वृषारूढो गणैश्च परिवारितः ।
आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ॥ ९॥
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा तव विस्मितचेतसः ।
उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ॥ १०॥
हिमवानुवाच ।
हे नारद महाप्राज्ञागतो नैवाधुना शिवः ।
विवाहार्थं च पार्वत्याः सगणः सवरातकः ॥ ११॥
विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ।
विस्मयं त्यज देवर्षे स्वस्थो भव शिवं स्मर ॥ १२॥
भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ।
मैनाकादिधरैः सार्धं गच्छ त्वं शङ्करान्तिकम् ॥ १३॥
एभिस्समेतो गिरिभिर्महामते
सम्प्रार्थ्य शीघ्रं शिवमत्र चानय ।
देवैः समेतं च महर्षिसङ्घैः
सुरासुरैरर्चितपादपल्लवम् ॥ १४॥
ब्रह्मोवाच ।
तथेति चोक्त्वागम आशु हि त्वं
तदैव तैः शैलसुतादिभिश्च ।
तत्रत्यकृत्यं सुविधाय भुक्त्वा
महामनास्त्वं शिवसन्निधानम् ॥ १५॥
तत्र दृष्टो महादेवो देवादिपरिवारितः ।
नमस्कृतस्त्वया दीप्तः शैलैस्तैर्भक्तितश्च वै ॥ १६॥
तदा मया विष्णुना च सर्वे देवाः सवासवाः ।
पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ॥ १७॥
विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः ।
मैनाकसह्यमेर्वाद्यान्नानालङ्कारसंयुतान् ॥ १८॥
देवा ऊचुः ।
हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे ।
सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ॥ १९॥
एते कस्मात्समायाताः पर्वता इह सत्तमाः ।
मैनाकसह्यमेर्वाद्याः सुप्रतापाः स्वलङ्कृताः ॥ २०॥
कन्यां दास्यति शैलोऽसौ शम्भवे वा न नारद ।
हिमालयगृहे तात किं भवत्यद्य तद्वद ॥ २१॥
इति सन्दिग्धमनसामस्माकं च दिवौकसाम् ।
वद त्वं पृच्छमानानां सन्देहं हर सुव्रत ॥ २२॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् ।
अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ॥ २३॥
एकान्तमाश्रित्य च मां हि विष्णु-
मभाषथा वाक्यमिदं मुने त्वम् ।
शचीपतिं सर्वसुरेश्वरं वै
पक्षच्छिदं पूर्वरिपुं धराणाम् ॥ २४॥
नारद उवाच ।
त्वष्ट्रा कृतं तद्विकृतं विचित्रं
विमोहनं सर्वदिवौकसां हि ।
येनैव सर्वान्स विमोहितुं सुरान्
समिच्छति प्रेमत एव युक्त्या ॥ २५॥
पुरा कृतं तस्य विमोहनं त्वया
सुविस्मृतं तत् सकलं शचीपते ।
तस्मादसौ त्वां विजिगीषुरेव
गृहे ध्रुवं तस्य गिरेर्महात्मनः ॥ २६॥
अहं विमोहितस्तेन प्रतिरूपेण भास्वता ।
तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ॥ २७॥
किं बहूक्तेन देवेश सर्वदेवगणाः कृताः ।
कृत्रिमाश्चित्ररूपेण न किञ्चिदवशेषितम् ॥ २८॥
विमोहनार्थं सर्वेषां देवानां च विशेषतः ।
कृता माया चित्रमयी परिहासविकारिणी ॥ २९॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तस्य देवेन्द्रो वाक्यमब्रवीत् ।
विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ॥ ३०॥
देवेन्द्र उवाच ।
देवदेव रमानाथ त्वष्टा मां निहनिष्यति ।
पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ॥ ३१॥
ब्रह्मोवाच ।
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ।
उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ॥ ३२॥
विष्णुरुवाच ।
निवातकवचैः पूर्वं मोहितोऽसि शचीपते ।
महाविद्याबलेनैव दानवैः पूर्ववैरिभिः ॥ ३३॥
पर्वतो हिमवानेष तथान्येऽखिलपर्वताः ।
विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव ॥ ३४॥
तेऽनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी ।
जेतुमिच्छन्ति ये मूढा न भेतव्यमरावपि ॥ ३५॥
ईश्वरो नो हि सर्वेषां शङ्करो भक्तवत्सलः ।
सर्वथा कुशलं शक्र करिष्यति न संशयः ॥ ३६॥
ब्रह्मोवाच ।
एवं संवदमानं तं शक्रं विकृतमानसम् ।
हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ॥ ३७॥
ईश्वर उवाच ।
हे हरे हे सुरेशान किं ब्रूथोऽद्य परस्परम् ।
इत्युक्त्वा तौ महेशानो मुने त्वां प्रत्युवाच सः ॥ ३८॥
किं नु वक्ति महाशैलो यथार्थं वद नारद ।
वृत्तान्तं सकलं ब्रूहि न गोप्यं कर्तुमर्हसि ॥ ३९॥
ददाति वा नैव ददाति शैलः
सुतां स्वकीयां वद तच्च शीघ्रम् ।
किं ते दृष्टं किं कृतन्तत्र गत्वा
प्रीत्या सर्वं तद्वदाश्वद्य तात ॥ ४०॥
ब्रह्मोवाच ।
हत्युक्तः शम्भुना तत्र मुने त्वं देवदर्शनः ।
सर्वं रहस्यवोचो वै यद् दृष्टं तत्र मण्डपे ॥ ४१॥
नारद उवाच ।
देवदेव महादेव शृणु मद्वचनं शुभम् ।
नास्ति विघ्नभयं नाथ विवाहे किञ्चिदेव हि ॥ ४२॥
अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् ।
त्वामानयितुमायाता इमे शैला न संशयः ॥ ४३॥
किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता ।
कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ॥ ४४॥
विचित्रं मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया ।
विश्वकर्मा महामायी नानाश्चर्यमयं विभो ॥ ४५॥
सर्वदेवसमाजश्च कृतस्तत्र विमोहनः ।
तं दृष्ट्वा विस्मयं प्राप्तोऽहं तन्मायाविमोहितः ॥ ४६॥
ब्रह्मोवाच ।
तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः ।
हर्यादीन्प्रहसन् शम्भुरुवाच सकलान्सुरान् ॥ ४७॥
ईश्वर उवाच ।
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः ।
मायया मम किं कार्यं वद विष्णो यथातथम् ॥ ४८॥
हे ब्रह्मन् शक्र मुनयः सुरा ब्रूत यथार्थतः ।
मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ॥ ४९॥
केनाप्युपायेन फलं हि साध्य-
मित्युच्यते पण्डितैर्न्यायविद्भिः ।
तस्मात्सर्वैर्गम्यतां शीघ्रमेव
कार्यार्थिभिर्विष्णुपुरोगमैश्च ॥ ५०॥
ब्रह्मोवाच ।
एवं संवदमानोऽसौ देवैः शम्भुरभूत्तदा ।
कृतः स्मरेणेव वशी वशं वा प्राकृतो नरः ॥ ५१॥
अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा ।
ऋषयश्च महात्मानो ययुर्मोहभ्रमावहम् ॥ ५२॥
पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः ।
हिमाद्रेश्च तदा जग्मुर्मन्दिरं परमाद्भुतम् ॥ ५३॥
अथ विष्ण्वादिसंयुक्तो मुदितैःस्वबलैर्युतः ।
आजगामोपहैमागपुरं प्रमुदितो हरः ॥ ५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.३.४१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४२. द्विचत्वारिंशोऽध्यायः । देवगिरिमिलापवर्णनम् ।
ब्रह्मोवाच ।
अथाकर्ण्य गिरीशश्च निजपुर्युपकण्ठतः ।
प्राप्तमीशं सर्वगं वै मुमुदेऽति हिमालयः ॥ १॥
अथ सम्भृतसम्भारः सम्भाषां कर्तुमीश्वरम् ।
शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ॥ २॥
स्वयं जगाम सद्भक्त्या प्राणेप्सुं द्रष्टुमीश्वरम् ।
भक्त्युद्रुतमनाः शैलः प्रशंसन् स्वविधिं मुदा ॥ ३॥
देवसेनां तदा दृष्ट्वा हिमवान्विस्मयं गतः ।
जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ॥ ४॥
देवा हि तद्बलं दृष्ट्वा विस्मयं परमं गताः ।
आनन्दं परमं प्रापुर्देवाश्च गिरयस्तथा ॥ ५॥
पर्वतानां महासेना देवानां च तथा मुने ।
मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ॥ ६॥
परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ।
कृतकृत्यं तथात्मानं मेनिरे परया मुदा ॥ ७॥
अथेश्वरं पुरो दृष्ट्वा प्रणनाम हिमालयः ।
सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ॥ ८॥
वृषभस्थं प्रसन्नास्यं नानाभरणभूषितम् ।
दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ॥ ९॥
सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ।
सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ॥ १०॥
भूषाभूताहियुक्ताङ्गमद्भुतावयवप्रभम् ।
दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ॥ ११॥
वामस्थिताच्युतं दक्षभागस्थितविधिं प्रभुम् ।
पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ॥ १२॥
नानाविधसुराद्यैश्च संस्तुतं लोकशङ्करम् ।
स्वहेत्वात्ततनुं ब्रह्म सर्वेशं वरदायकम् ॥ १३॥
सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम् ।
प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम् ॥ १४॥
प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् ।
विनतातनयारूढं नानाभूषणभूषितम् ॥ १५॥
प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह ।
चतुर्मुखं महाशोभं स्वपरीवारसंयुतम् ॥ १६॥
एतौ सुरेश्वरौ दृष्ट्वा शिवस्यातिप्रियौ सदा ।
प्रणनाम गिरीशश्च सपरीवार आदरात् ॥ १७॥
तथा शिवस्य पृष्ठे च पार्श्वयोः सुविराजितान् ।
देवादीन्प्रणनामासौ दृष्ट्वा गिरिवरेश्वरः ॥ १८॥
शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः ।
शेषहर्यात्मभूः शीघ्रं मुनिभिर्निर्जरादिभिः ॥ १९॥
सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह ।
गिरेः पुरं समुदिताः शशंसुर्बहु नारद ॥ २०॥
रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् ।
जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका ॥ २१॥
कारयित्वा विशेषेण चतुष्कं तोरणैर्युतम् ।
स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा ॥ २२॥
स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा ।
हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट् ॥ २३॥
कर्तुमैच्छद्वराचारं महोत्सवपुरस्सरम् ।
महाहर्षयुतः सर्वबन्धुयुग्घिमशैलराट् ॥ २४॥
अथ ते गिरिपुत्राश्च तत्र गत्वा प्रणम्य तम् ।
सस्ववर्गं प्रार्थनान्तामूचुः शैलेश्वरस्य वै ॥ २५॥
ततस्ते स्वालयं जग्मुः शैलपुत्रास्तदाज्ञया ।
शैलराजाय सञ्चख्युः ते चायान्तीति हर्षिताः ॥ २६॥
अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः ।
मुने विष्ण्वादयः सर्वे सेश्वरा मुमुदुर्भृशम् ॥ २७॥
कृत्वा सुवेषं सर्वेऽपि निर्जरा मुनयो गणाः ।
गमनं चक्रुरन्येऽपि प्रभुणा गिरिराड्गृहम् ॥ २८॥
तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् ।
प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम् ॥ २९॥
अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा ।
मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता ॥ ३०॥
त्वां प्रणम्य मुने मेना प्राह विस्मितमानसा ।
द्रष्टुकामा प्रभो रूपं शङ्करस्य मदापहम् ॥ ३१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ २.३.४२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४३. त्रिचत्वारिंशोऽध्यायः । मेनामोहनाय शिवकृताद्भुतलीलावर्णनम् ।
मेनोवाच ।
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ।
कीदृशं शिवरूपं हि यदर्थे तप उत्तमम् ॥ १॥
ब्रह्मोवाच ।
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ।
त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥ २॥
शिवोऽपि च तदा तस्यां ज्ञात्वाहङ्कारमात्मनः ।
प्राह विष्णुं च मां तात लीलां कृत्वाद्भुतां प्रभुः ॥ ३॥
शिव उवाच ।
मदाज्ञया युवां तातौ सदेवौ च पृथक्पृथक् ।
गच्छतं हि गिरिद्वारं वयं पश्चाद् व्रजेमहि ॥ ४॥
ब्रह्मोवाच ।
इत्याकर्ण्य हरिः सर्वानाहूयोवाच तन्मयाः ।
सुराः सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥ ५॥
स्थितां शिरोगृहे मेनां मुने विश्वेश्वरस्त्वया ।
तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ॥ ६॥
एतस्मिन् समये मेना सेनां च परमां शुभाम् ।
निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताभवत् ॥ ७॥
प्रथमं चैव गन्धर्वाः सुन्दराः सुभगास्तदा ।
आयाताः शुभवस्त्राढ्या नानालङ्कारभूषिताः ॥ ८॥
नानावाहनसंयुक्ता नानावाद्यपरायणाः ।
पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥ ९॥
अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ।
मेना प्रहर्षिता ह्यासीच्छिवोऽयमिति चाब्रवीत् ॥ १०॥
शिवस्य गणका एते न शिवोऽयं शिवापतिः ।
इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥ ११॥
एवं श्रुत्वा तदा मेना विचारे तत्पराभवत् ।
इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥ १२॥
एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ।
तेषां सेना तया दृष्टा शोभादि द्विगुणीकृता ॥ १३॥
तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ।
अयं रुद्रः शिवास्वामी मेना प्राहेति हर्षिता ॥ १४॥
नायं रुद्रः शिवास्वामी सेवकोऽयं शिवस्य वै ।
इत्यवोचोऽगपत्न्यै त्वं तावद्वह्निः स आगतः ॥ १५॥
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ १६॥
तावद्यमः समायातः ततोऽपि द्विगुणप्रभः ।
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ १७॥
नेति त्वमब्रवीस्तां वै तावन्निरृतिरागतः ।
बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥ १८॥
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।
नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥ १९॥
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २०॥
तावद्वायुः समायातः ततोऽपि द्विगुणप्रभः ।
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ २१॥
नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ।
ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥ २२॥
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।
नेति त्वमब्रवीस्तां वै तावदीशान आगतः ॥ २३॥
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २४॥
तावदिन्द्रः समायातः ततोऽपि द्विगुणप्रभः ।
सर्वामरवरो नानादिव्यभास्त्रिदिवेश्वरः ॥ २५॥
तं दृष्ट्वा शङ्करः सोऽयमिति सा प्राह मेनका ।
शक्रः सुरपतिश्चायं स नेति त्वं तदाब्रवीः ॥ २६॥
तावच्चन्द्रः समायातः शोभां तद्द्विगुणां दधत् ।
दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥ २७॥
तावत्सूर्यः समायातः शोभां तद्द्विगुणां दधत् ।
दृष्ट्वा तं प्राह सा सोऽयं तां तु नेति त्वमब्रवीः ॥ २८॥
तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ।
तेजसो राशयः सर्वे स्वशिष्यगणसंयुताः ॥ २९॥
तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ ३०॥
तावद्ब्रह्मा समायातः तेजसां राशिरुत्तमः ।
सर्षिवर्यसुतः साक्षाद्धर्मपुञ्ज इव स्तुतः ॥ ३१॥
दृष्ट्वा मां तं तदा मेना महाहर्षवती मुने ।
सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ॥ ३२॥
एतस्मिन्नन्तरे तत्र विष्णुर्देवः समागतः ।
सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ॥ ३३॥
कोटिकन्दर्पलावण्यः पीताम्बरधरः स्वराट् ।
राजीवलोचनः शान्तः पक्षीन्द्रवरवाहनः ॥ ३४॥
शङ्खादिलक्षणैर्युक्तो मुकुटादिविभूषितः ।
श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेयप्रभान्वितः ॥ ३५॥
तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत् ।
सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ॥ ३६॥
अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत् ।
नायं शिवापतिरयं किन्त्वयं केशवो हरिः ॥ ३७॥
शङ्कराखिलकार्यस्य ह्यधिकारी च तत्प्रियः ।
अतोऽधिको वरो ज्ञेयः स शिवः पार्वतीपतिः ॥ ३८॥
तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ।
स एवाखिलब्रह्माण्डपतिः सर्वेश्वरः स्वराट् ॥ ३९॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ।
महाधनां भाग्यवतीं कुलत्रयसुखावहाम् ॥ ४०॥
उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ।
स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः ॥ ४१॥
मेनोवाच ।
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ।
धन्यो गिरीश्वरोऽप्यद्य सर्वं धन्यतमं मम ॥ ४२॥
ये ये दृष्ट्वा मया देवा नायकाः सुप्रभान्विताः ।
एतेषां यः पतिः सोऽत्र पतिरस्या भविष्यति ॥ ४३॥
अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ।
वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात् ॥ ४४॥
ब्रह्मोवाच ।
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ।
तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः ॥ ४५॥
अद्भुतात्मागणास्तात मेनागर्वापहारकाः ।
आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ॥ ४६॥
तमागतमभिप्रेत्य नारद त्वं मुने तदा ।
मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ॥ ४७॥
नारद उवाच ।
अयं स शङ्करः साक्षाद् दृश्यतां सुन्दरि त्वया ।
यदर्थे शिवया तप्तं तपोऽति विपिने महत् ॥ ४८॥
ब्रह्मोवाच ।
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ।
अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम् ॥ ४९॥
तावदेवं समायाता रुद्रसेना महाद्भुता ।
भूतप्रेतादिसंयुक्ता नानागणसमन्विता ॥ ५०॥
वात्यारूपधराः केचित्पताकामर्मरस्वनाः ।
वक्रतुण्डास्तत्र केचिद्विरूपाश्चापरे तथा ॥ ५१॥
करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ।
दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः ॥ ५२॥
विरुद्धवाहनाः केचिच्छृङ्गनादनिनादिनः ।
डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः ॥ ५३॥
अमुखाः विमुखाः केचित्केचिद् बहुमुखा गणाः ।
अकरा विकराः केचित्केचिद् बहुकरा गणाः ॥ ५४॥
अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ।
अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ॥ ५५॥
इत्यादिविकृताकारा अनेके प्रबला गणाः ।
असङ्ख्यातास्तथा तात महावीरा भयङ्कराः ॥ ५६॥
अङ्गुल्या दर्शयंस्त्वं तां मुने रुद्रगणांस्ततः ।
हरस्य सेवकान्पश्य हरं चापि वरानने ॥ ५७॥
असङ्ख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने ।
तत्क्षणादभवत्सा वै मेनका त्राससङ्कुला ॥ ५८॥
तन्मध्ये शङ्करं चैव निर्गुणं गुणवत्तरम् ।
वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ॥ ५९॥
कपर्दिनं चन्द्रमौलिं दशहस्तं कपालिनम् ।
व्याघ्रचर्मोत्तरीयं च पिनाकवरपाणिनम् ॥ ६०॥
शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ।
गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ॥ ६१॥
चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ।
शिवोऽयमिति चाङ्गुल्या दर्शयंस्तां त्वमब्रवीः ॥ ६२॥
त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ।
सा पपात द्रुतं भूमौ मेना दुःखभरा सती ॥ ६३॥
किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे ।
इत्युक्त्वा मूर्च्छिता तत्र मेनका साभवत्क्षणात् ॥ ६४॥
अथ प्रयत्नैर्विविधैः सखीभिरुपसेविता ।
लेभे संज्ञां शनैर्मेना गिरीश्वरप्रिया तदा ॥ ६५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.३.४३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४४. चतुश्चत्वारिंशोऽध्यायः । मेनाप्रबोधवर्णनम् ।
ब्रह्मोवाच ।
संज्ञां लब्ध्वा ततः सा च मेना शैलप्रिया सती ।
विललापातिसङ्क्षुब्धा तिरस्कारमथाकरोत् ॥ १॥
तत्र तावत्स्वपुत्रांश्च निनिन्द स्खलिता मुहुः ।
प्रथमं सा ततः पुत्रीं कथयामास दुर्वचः ॥ २॥
मेनोवाच ।
मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ।
पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥ ३॥
ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ।
मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४॥
पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ।
तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥ ५॥
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ।
कुलादिकं विनष्टं मे विहितं जीवितं मम ॥ ६॥
क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ।
तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥ ७॥
केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ।
इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥ ८॥
किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ।
हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥ ९॥
हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ।
हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥ १०॥
हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ।
सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥ ११॥
तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ।
प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥ १२॥
सिंहसेवां तथा मुक्त्वा शृगालः सेवितस्त्वया ।
ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥ १३॥
गृहे यज्ञविभूतिं हि दूरीकृत्य सुमङ्गलाम् ।
गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमङ्गलम् ॥ १४॥
सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ।
कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥ १५॥
धिक्त्वां च तव बुद्धिं च धिग्रूपं चरितं तव ।
धिक् चोपदेशकर्तारं धिक्सख्यावपि ते तथा ॥ १६॥
आवां च धिक्तथा पुत्रि यौ ते जन्मप्रवर्तकौ ।
धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च कुबुद्धिदान् ॥ १७॥
धिक्कुलं धिक् क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ।
गृहं तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥ १८॥
पर्वतानामयं राजा नायातु निकटे मम ।
सप्तर्षयः स्वयं नैव दर्शयन्तु मुखं मम ॥ १९॥
साधितं किं च सर्वैस्तु मिलित्वा घातितं कुलम् ।
बन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥ २०॥
अथो न वा मृता चाहं पुत्रिका न मृता कथम् ।
राक्षसाद्यैः कथं नो वा भक्षिता गगने पुनः ॥ २१॥
छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ।
त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥ २२॥
ब्रह्मोवाच ।
इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ।
व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ ॥ २३॥
हाहाकारो महानासीत्तस्मिन्काले मुनीश्वर ।
सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥ २४॥
पुरा देवमुने चाहमागतस्तु स्वयं तदा ।
मां दृष्ट्वा त्वं वचस्तां वै प्रावोच ऋषिसत्तम ॥ २५॥
नारद उवाच ।
यथार्थं सुन्दरं रूपं न ज्ञातं ते शिवस्य वै ।
लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥ २६॥
तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ।
कार्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥ २७॥
ब्रह्मोवाच ।
तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत् ।
उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान् ॥ २८॥
इत्युक्ते तु तया देवा इन्द्राद्याः सकलाः क्रमात् ।
समागत्य च दिक्पाला वचनं चेदमब्रुवन् ॥ २९॥
देवा ऊचुः ।
हे मेने पितृकन्ये हि शृण्वस्मद्वचनं मुदा ।
अयं वै परमः साक्षाच्छिवः परसुखावहः ॥ ३०॥
कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुस्सहम् ।
दर्शनं दत्तवान् शम्भुर्वरं सद्भक्तवत्सलः ॥ ३१॥
ब्रह्मोवाच ।
अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः ।
न देया तु मया कन्या गिरिशायोग्ररूपिणे ॥ ३२॥
किमर्थं तु भवन्तश्च सर्वे देवाः प्रवञ्चिताः ।
रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यताः ॥ ३३॥
इत्युक्ते च तया तत्र ऋषयःसप्त एव हि ।
ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ॥ ३४॥
सप्तर्षय ऊचुः ।
कार्यं साधयितुं प्राप्ताः पितृकन्ये गिरिप्रिये ।
विरुद्धं चात्र युक्तार्थे कथं मन्यामहे वयम् ॥ ३५॥
अयं वै परमो लाभो दर्शनं शङ्करस्य यत् ।
दानपात्रं स ते भूत्वागतस्तव च मन्दिरम् ॥ ३६॥
ब्रह्मोवाच ।
इत्युक्ता तैस्ततो मेना मुनिवाक्यं मृषाकरोत् ।
प्रत्युवाच च रुष्टा सा तानृषीन् ज्ञानदुर्बला ॥ ३७॥
मेनोवाच ।
शस्त्राद्यैर्घातयिष्येऽहं न दास्ये शङ्कराय ताम् ।
दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ॥ ३८॥
ब्रह्मोवाच ।
इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला ।
हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ॥ ३९॥
ततो हिमालयस्तत्राजगामातिसमाकुलः ।
ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वं च दर्शयन् ॥ ४०॥
हिमालय उवाच ।
शृणु मेने वचो मेऽद्य विकलासि कथं प्रिये ।
के के समागता गेहं कथं चैतान्विनिन्दसि ॥ ४१॥
शङ्करं त्वं च जानासि रूपं दृष्ट्वासि विह्वला ।
विकटं तस्य शम्भोस्तु नानारूपाभिधस्य हि ॥ ४२॥
स शङ्करो मया ज्ञातः सर्वेषां प्रतिपालकः ।
पूज्यानां पूज्य एवासौ कर्तानुग्रहनिग्रहौ ॥ ४३॥
हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे ।
उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ॥ ४४॥
यद्वै द्वारगतः शम्भुः पुरा विकटरूपधृक् ।
नानालीलां च कृतवान् चेतयामि च तामिमाम् ॥ ४५॥
तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया ।
अङ्गीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये ॥ ४६॥
ब्रह्मोवाच ।
इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने ।
तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ॥ ४७॥
मेनोवाच ।
मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि ।
गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ॥ ४८॥
अधः पातय निःशङ्कं दास्ये तां न हराय हि ।
तथैनामथवा नाथ गत्वा वै सागरे सुताम् ॥ ४९॥
निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव ।
यदि दास्यसि पुत्रीं त्वं रुद्राय विकटात्मने ॥
तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् । ५०॥
ब्रह्मोवाच ।
इत्युक्ते च तदा तत्र वचने मेनया हठात् ।
उवाच वचनं रम्यं पार्वती स्वयमागता ॥ ५१॥
पार्वत्युवाच ।
मातस्ते विपरीता हि बुद्धिर्जाताशुभावहा ।
धर्मावलम्बनात्त्वं हि कथं धर्मं जहासि वै ॥ ५२॥
अयं रुद्रोऽपरः साक्षात्सर्वप्रभव ईश्वरः ।
शम्भुः सुरूपः सुखदः सर्वश्रुतिषु वर्णितः । ५३॥
महेशः शङ्करश्चायं सर्वदेवप्रभुः स्वराट् ।
नानारूपाभिधो मातर्हरिर्ब्रह्मादिसेवितः ॥ ५४॥
अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः ।
निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ॥ ५५॥
यदर्थे देवताः सर्वा आयाता किङ्करीकृताः ।
द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ॥ ५६॥
उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु ।
देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् । ५७॥
देहि मां परमेशाय शङ्कराय जनन्यहो ।
स्वीकुरु त्वमिमं मातर्विनयं मे ब्रवीमि ते ॥ ५८॥
चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् ।
भागं लभेत्कथं सैंहं शृगालः परवञ्चकः ॥ ५९॥
मनसा वचसा मातः कर्मणा च हरः स्वयम् ।
मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ॥ ६०॥
ब्रह्मोवाच ।
इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया ।
सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ॥ ६१॥
मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा ।
ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ॥ ६२॥
ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने ।
तद्धस्तात्तां परिच्छिद्य निन्युर्दूरतरं ततः ॥ ६३॥
तान्वै तथाविधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः ।
उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः ॥ ६४॥
मेनोवाच ।
किमेनां हि करिष्येऽहं दुष्टाग्रहवतीं शिवाम् ।
दास्याम्यस्यै गरं तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ॥ ६५॥
छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः ।
निमज्जयिष्ये वा सिन्धौ स्वसुतां पार्वतीं खलु ॥ ६६॥
अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् ।
न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ॥ ६७॥
वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया ।
कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ॥ ६८॥
न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि ।
नो सुरूपं न चातुर्यं न गृहं वास्य किञ्चन ॥ ६९॥
न वस्त्रं नाप्यलङ्काराः सहायाः केऽपि तस्य न ।
वाहनं न शुभं ह्यस्य न वयो न धनं तथा ॥ ७०॥
न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः ।
किं विलोक्य मया पुत्री देयास्मै स्यात्सुमङ्गला ॥ ७१॥
ब्रह्मोवाच ।
इत्यादि सुविलप्याथ बहुशो मेनका तदा ।
रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ॥ ७२॥
अथाहं द्रुतमागत्याकथयं मेनकां च ताम् ।
शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ॥ ७३॥
ब्रह्मोवाच ।
श्रोतव्यं प्रीतितो मेने मदीयं वचनं शुभम् ।
यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ॥ ७४॥
शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च ।
न त्वं जानासि तद्रूपं कथं दुःखं समीहसे ॥ ७५॥
अनेकरूपनामा च नानालीलाकरः प्रभुः ।
सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ॥ ७६॥
इति विज्ञाय मेने त्वं शिवां देहि शिवाय वै ।
कुहठं त्यज कुज्ञानं सर्वकार्यविनाशनम् ॥ ७७॥
ब्रह्मोवाच ।
इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः ।
लज्जां किञ्चिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ॥ ७८॥
मेनोवाच ।
किमर्थं तु भवान्ब्रह्मन् रूपमस्या महावरम् ।
व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ॥ ७९॥
न वक्तव्यं च भवता शिवाय प्रतिदीयताम् ।
न दास्येऽहं शिवायैनां स्वसुतां प्राणवल्लभाम् ॥ ८०॥
ब्रह्मोवाच ।
इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने ।
समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ॥ ८१॥
सिद्धा ऊचुः ।
अयं वै परमः साक्षाच्छिवः परसुखावहः ।
कृपया च भवत्पुत्र्यै दर्शनं दत्तवान्प्रभुः ॥ ८२॥
ब्रह्मोवाच ।
अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः ।
न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ॥ ८३॥
किमर्थं तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः ।
रूपमस्याः परं नाम व्यर्थीकर्तुं समुद्यताः ॥ ८४॥
इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् ।
सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः ॥ ८५॥
एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत् ।
द्रुतं शिवप्रियो विष्णुः समागत्याब्रवीदिदम् ॥ ८६॥
विष्णुरुवाच ।
पितॄणां च प्रिया पुत्री मानसी गुणसंयुता ।
पत्नी हिमवतः साक्षाद्ब्रह्मणः कुलमुत्तमम् ॥ ८७॥
सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् ।
धर्मस्याधारभूतासि कथं धर्मं जहासि हि ॥ ८८॥
देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा ।
विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ॥ ८९॥
शिवं त्वं न च जानासि निर्गुणः सगुणः स हि ।
विरूपः ससुरूपो हि सर्वसेव्यः सतां गतिः ॥ ९०॥
तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी ।
तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥ ९१॥
ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः ।
अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ॥ ९२॥
ततो वेदास्तथा देवा यत्किञ्चिद्दृश्यते जगत् ।
स्थावरं जङ्गमं चैव तत्सर्वं शकरादभूत् ॥ ९३॥
तद्रूपं वर्णितं केन ज्ञायते केन वा पुनः ।
मया च ब्रह्मणा यस्य ह्यन्तो लब्धश्च नैव हि ॥ ९४॥
आब्रह्मस्तम्बपर्यन्तं यत्किञ्चिद् दृश्यते जगत् ।
तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ॥ ९५॥
स एवेदृक्सुरूपेणावतीर्णो निजलीलया ।
शिवातपःप्रभावाद्धि तव द्वारि समागतः ॥ ९६॥
तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवं भज ।
भविष्यति महानन्दः क्लेशो यास्यति सङ्क्षयम् ॥ ९७॥
ब्रह्मोवाच ।
एवं प्रबोधितायास्तु मेनकाया अभून्मुने ।
तस्यास्तु कोमलं किञ्चिन्मनो विष्णुप्रबोधितम् ॥ ९८॥
परं हठं न तत्याज कन्यां दातुं हराय न ।
स्वीचकार तदा मेना शिवमायाविमोहिता ॥ ९९॥
उवाच च हरिं मेना किञ्चिद्बुद्धा गिरिप्रिया ।
श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा ॥ १००॥
यदि रम्यतनुः सः स्यात्तदा देया मया सुता ।
नान्यथा कोटिशो यत्नैर्वच्मि सत्यं दृढं वचः ॥ १०१॥
ब्रह्मोवाच ।
इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता ।
शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ॥ १०२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनाप्रबोधवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ २.३.४४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४५. पञ्चचत्वारिंशोऽध्यायः । दिव्यस्वरूपेण शिवाविर्भावस्थितिवर्णनम् ।
ब्रह्मोवाच ।
एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ।
अनुकूलयितुं शम्भुमयास्तन्निकटे मुने ॥ १॥
तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ।
स्तोत्रैर्नानाविधैः स्तुत्वा देवकार्यचिकीर्षया ॥ २॥
श्रुत्वा त्वद्वचनं प्रीत्या शम्भुना धृतमद्भुतम् ।
स्वरूपमुत्तमं दिव्यं कृपालुत्वं च दर्शितम् ॥ ३॥
तद् दृष्ट्वा सुन्दरं शम्भुं स्वरूपं मन्मथाधिकम् ।
अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥ ४॥
स्तोत्रैर्नानाविधैः स्तुत्वा परमानन्दसंयुतः ।
आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥ ५॥
तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसङ्कुलः ।
हर्षयंस्तां शैलपत्नीं मेनां त्वं वाक्यमब्रवीः ॥ ६॥
नारद उवाच ।
मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ।
कृता शिवेन तेनैव सुकृपा करुणात्मना ॥ ७॥
ब्रह्मोवाच ।
श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ।
ददर्श शिवरूपं तत्परमानन्ददायकम् ॥ ८॥
कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ।
विचित्रवसनं चात्र नानाभूषणभूषितम् ॥ ९॥
सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ।
गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम् ॥ १०॥
सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यैः सेवितं तथा ।
सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम् ॥ ११॥
सर्वथा रमणीयं च भूषितस्य विभूषणैः ।
वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥ १२॥
गङ्गा च यमुना चैव विधत्तः स्म सुचामरे ।
सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्तनम् ॥ १३॥
मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ।
स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥ १४॥
तथा जयेति भाषन्तो नानारूपा गणास्तदा ।
स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥ १५॥
सिद्धाश्चोपसुराः सर्वे मुनयश्च महासुखाः ।
ययुः शिवेन सुप्रीताः सकलाश्चापरे तथा ॥ १६॥
एवं देवादयः सर्वे कुतूहलसमन्विताः ।
परं ब्रह्म गृणन्तस्ते स्वपत्नीभिरलङ्कृताः ॥ १७॥
विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ।
गायन्तोऽप्यग्रतस्तस्य परमं शाङ्करं यशः ॥ १८॥
इत्थं महोत्सवस्तत्र बभूव मुनिसत्तम ।
नानाविधो महेशे हि शैलद्वारि च गच्छति ॥ १९॥
तस्मिंश्च समये तत्र सुषमा या परात्मनः ।
वर्णितुं तां विशेषेण कः शक्नोति मुनीश्वर ॥ २०॥
तथाविधं च तं दृष्ट्वा मेना चित्रगता इव ।
क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥ २१॥
मेनोवाच ।
धन्या पुत्री मदीया च यया तप्तं महत्तपः ।
यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे ॥ २२॥
मया कृता पुरा या वै शिवनिन्दा दुरत्यया ।
तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥ २३॥
ब्रह्मोवाच ।
इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ।
साञ्जलिः प्रणता शैलप्रिया लज्जापराभवत् ॥ २४॥
तावत्स्त्रियः समाजग्मुर्हित्वा कामाननेकशः ।
वह्व्यस्ताः पुरवासिन्यः शिवदर्शनलालसाः ॥ २५॥
मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ।
द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥ २६॥
काचित्तु स्वामिनःसेवां सखीयुक्ता विहाय च ।
सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥ २७॥
काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात् ।
अतृप्तं शङ्करं द्रष्टुं ययौ दर्शनलालसा ॥ २८॥
रशनां बध्नती काचित्तयैव सहिता ययौ ।
वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः ॥ २९॥
भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया ।
द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला ॥ ३०॥
काचिद्धस्ते शलाकां च धृत्वाञ्जनकरा प्रिया ।
अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम् ॥ ३१॥
काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः ।
श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता ॥ ३२॥
इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः ।
दृष्ट्वा तु शाङ्करं रूपं मोहं प्राप्तास्तदाभवन् ॥ ३३॥
ततस्ताः प्रेमसंविग्नाः शिवदर्शनहर्षिताः ।
निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन् ॥ ३४॥
पुरवासिन्य ऊचुः ।
नेत्राणि सफलान्यासन् हिमवत्पुरवासिनाम् ।
यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः ॥ ३५॥
तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः ।
येन दृष्टः शिवः साक्षात्सर्वपापप्रणाशकः ॥ ३६॥
पार्वत्या साधितं सर्वं शिवार्थे यत्तपः कृतम् ।
धन्येयं कृतकृत्येयं शिवा प्राप्य शिवं पतिम् ॥ ३७॥
यदीदं युगलं ब्रह्मा न युञ्ज्याच्छिवयोर्मुदा ।
तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात् ॥ ३८॥
सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् ।
सर्वेषां सार्थता जाता सर्वकार्यसमुद्भवा ॥ ३९॥
विना तु तपसा शम्भोर्दर्शनं दुर्लभं नृणाम् ।
दर्शनाच्छङ्करस्यैव सर्वे याताः कृतार्थताम् ॥ ४०॥
लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनं पुरा ।
तथासौ पार्वती देवी हरं प्राप्य सुभूषिता ॥ ४१॥
ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती ।
तथासौ पार्वती देवी हरं प्राप्य सुभूषिता ॥ ४२॥
वयं धन्याः स्त्रियः सर्वाः पुरुषाः सकला वराः ।
ये ये पश्यन्ति सर्वेशं शङ्करं गिरिजापतिम् ॥ ४३॥
ब्रह्मोवाच ।
इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि ।
शिवं समर्चयामासुर्लाजान्ववृषुरादरात् ॥ ४४॥
तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः ।
वर्णयन्त्योऽधिकं भाग्यं मेनायाश्च गिरेरपि ॥ ४५॥
कथास्तथाविधाः शृण्वंस्तद्वामावर्णिताः शुभाः ।
प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा ॥ ४६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ २.३.४५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४६. षट्चत्शरिंशोऽध्यायः । मण्डपद्वारे वरागमनवर्णनम् ।
ब्रह्मोवाच ।
अथ शम्भुः प्रसन्नात्मा सदूतं स्वगणैःसुरैः ।
सर्वैरन्यैर्गिरेर्धाम जगाम सकुतूहलम् ॥ १॥
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।
तत उत्थाय स्वगृहाभ्यन्तरं सा जगाम ह ॥ २॥
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।
सर्वर्षिस्त्रीगणैस्साकमगच्छद् द्वारमादरात् ॥ ३॥
तत्रागतं महेशानं शङ्करं गिरिजावरम् ।
ददर्श प्रीतितो मेना सेवितं सकलैः सुरैः ॥ ४॥
चारुचम्पकवर्णाभं पञ्चवक्त्रं त्रिलोचनम् ।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥ ५॥
मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ।
सत्कण्ठाभरणं चारुवलयाङ्गदभूषितम् ॥ ६॥
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥ ७॥
चन्दनागरुकस्तूरीचारुकुङ्कुमभूषितम् ।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥ ८॥
सर्वस्वप्रभयाच्छन्नमतीव सुमनोहरम् ।
अतीव तरुणं रम्यं भूषिताङ्गैश्च भूषितम् ॥ ९॥
कामिनीकान्तमव्यग्रं कोटिचन्द्राननाम्बुजम् ।
कोटिस्मराधिकतनुच्छविं सर्वाङ्गसुन्दरम् ॥ १०॥
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।
दृष्ट्वा जामातरं मेना जहौ शोकं मुदान्विता ॥ ११॥
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥ १२॥
नीराजनं चकारासौ प्रफुल्लवदना सती ।
अवलोकपरा तत्र मेना जामातरं मुदा ॥ १३॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥ १४॥
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।
ततोऽधिकं प्रपश्यामि सौन्दर्यं परमेशितुः ॥ १५॥
महेशस्य सुलावण्यमनिर्वाच्यं च सम्प्रति ।
एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥ १६॥
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः ॥ १७॥
न दृष्टो वर इत्येवमस्माभिर्दानगोचरः ।
धन्या हि गिरिजादेवीमूचुः काश्चन कन्यकाः ॥ १८॥
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः ।
दृष्ट्वा शङ्कररूपं च प्रहृष्टाः सर्वदेवताः ॥ १९॥
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।
नानाप्रकारशिल्पेन वादयामासुरादरात् ॥ २०॥
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।
मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ॥ २१॥
परपृच्छां चकारासौ मुदिता स्वगृहं ययौ ।
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥ २२॥
एतस्मिन्नन्तरे दुर्गां शैलान्तः पुरचारिकाः ।
बहिर्जग्मुः समादाय पूजितुं कुलदेवताम् ॥ २३॥
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।
सुनीलाञ्जनवर्णाभां स्वाङ्गैश्च प्रतिभूषिताम् ॥ २४॥
त्रिनेत्रादृतनेत्रां तामन्यवारितलोचनाम् ।
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥ २५॥
सुचारुकबरीभारां चारुपत्रकशोभिताम् ।
कस्तूरीबिन्दुभिस्सार्धं सिन्दूरबिन्दुशोभिताम् ॥ २६॥
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।
रत्नकेयूरवलयां रत्नकङ्कणमण्डिताम् ॥ २७॥
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ।
मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ॥ २८॥
मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ।
रत्नदर्पणहस्तां च क्रीडापद्मविभूषिताम् ॥ २९॥
चन्दनागुरुकस्तूरीकुङ्कुमेनातिचर्चिताम् ।
क्वणन्मञ्जीरपादां च रक्ताङ्घ्रितलराजिताम् ॥ ३०॥
प्रणेमुः शिरसा देवीं भक्तियुक्ताः समेनकाम् ।
सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ॥ ३१॥
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ।
शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ॥ ३२॥
शिवः सर्वं विसस्मार शिवासंन्यस्तलोचनः ।
पुलकाञ्चितसर्वाङ्गो हर्षाद्गौरीविलोचनः ॥ ३३॥
अथ काली बहिः पुर्या गत्वा पूज्य कुलाम्बिकाम् ।
विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ॥ ३४॥
शङ्करोऽपि सुरैः सार्धं हरिणा ब्रह्मणा तथा ।
हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ॥ ३५॥
तत्र सर्वे सुखं तस्थुः सेवन्तः शङ्करं यथा ।
सम्मानिता गिरीशेन नानाविधसुसम्पदा ॥ ३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥ २.३.४६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४७. सप्तचत्वारिंशोऽध्यायः । शिवस्यहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनम् ।
ब्रह्मोवाच ।
ततः शैलवरः सोऽपि प्रीत्या दुर्गोपवीतकम् ।
कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥ १॥
अथ विष्ण्वादयो देवा मुनयः सकुतूहलम् ।
हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः ॥ २॥
श्रुत्याचारं भवाचारं विधाय च यथार्थतः ।
शिवामलङ्कृतां चक्रुः शिवदत्तविभूषणैः ॥ ३॥
प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ।
नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥ ४॥
अहताम्बरयुग्मेन शोभिता वरवर्णिनी ।
विरराज महाशैलदुहिता शङ्करप्रिया ॥ ५॥
कञ्चुकी परमा दिव्या नानारत्नान्विताद्भुता ।
विधृता च तया देव्या विलसन्त्यधिकं मुने ॥ ६॥
सा बभार तथा हारं दिव्यरत्नसमन्वितम् ।
वलयानि महार्हाणि शुद्धचामीकराणि च ॥ ७॥
स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ।
शुशुभेऽति महाशैलकन्यका त्रिजगत्प्रसूः ॥ ८॥
तदोत्सवो महानासीदुभयत्र मुदावहः ।
दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥ ९॥
अन्येषां द्रव्यदानं च बभूव विविधं महत् ।
गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥ १०॥
अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ।
मुनयश्च महाप्रीत्या निखिलाः सोत्सवा मुदा ॥ ११॥
सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ।
सम्प्राप्य हिमगिर्याज्ञां स्वं स्वं स्थानं समाश्रिताः ॥ १२॥
एतस्मिन्नन्तरे तत्र ज्योतिः शास्त्रविशारदः ।
हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥ १३॥
गर्ग उवाच ।
हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ।
पाणिग्रहार्थं शम्भुं चानय त्वं निजमन्दिरम् ॥ १४॥
ब्रह्मोवाच ।
अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ।
निवेदितं च गर्गेण मुमुदेऽतीव चेतसि ॥ १५॥
महीधरान्द्विजांश्चैव परानपि मुदा गिरिः ।
प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥ १६॥
ते पर्वता द्विजाश्चैव सर्वमङ्गलपाणयः ।
सञ्जग्मुः सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥ १७॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ।
महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥ १८॥
श्रुत्वा वादित्रनिर्घोषं सर्वे शङ्करसेवकाः ।
उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥ १९॥
परस्परं समूचुस्ते हर्षनिर्भरमानसाः ।
अत्रागच्छन्ति गिरयः शिवानयनकाम्यया ॥ २०॥
पाणिग्रहणकालो हि नूनं सद्यः समागतः ।
महद्भाग्यं हि सर्वेषां सम्प्राप्तमिह मन्महे ॥ २१॥
धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् ।
द्रक्ष्यामः परमप्रीत्या जगतां मङ्गलालयम् ॥ २२॥
ब्रह्मोवाच ।
एवं यावदभूत्तेषां संवादस्तत्र चादरात् ।
तावत्सर्वे समायाताः पर्वतेन्द्रस्य मन्त्रिणः ॥ २३॥
ते गत्वा प्रार्थयाञ्चक्रुः शिवं विष्ण्वादिकानपि ।
कन्यादानोचितः कालो वर्तते गम्यतामिति ॥ २४॥
ते तच्छ्रुत्वा सुराः सर्वे मुने विष्ण्वादयोऽखिलाः ।
मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम् ॥ २५॥
शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ।
गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥ २६॥
अथ स्नानं कृतं तेन मङ्गलद्रव्यसंयुतम् ।
शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा ॥ २७॥
स्नातः सुवाससा युक्तः सर्वैस्तैः परिवारितः ।
आरोपितो वृषस्कन्धे लोकपालैः सुसेवितः ॥ २८॥
पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ।
वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥ २९॥
हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ।
शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥ ३०॥
बभौ छत्रेण महता ध्रियमाणो हि मूर्धनि ।
चामरैर्वीज्यमानोऽसौ सवितानो महेश्वरः ॥ ३१॥
अहं विष्णुस्तथा चेन्द्रो लोकपालास्तथैव च ।
अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥ ३२॥
ततः शङ्खाश्च भेर्यश्च पटहानकगोमुखाः ।
पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥ ३३॥
तथैव गायकाः सर्वे जगुः परममङ्गलम् ।
नर्तक्यो ननृतुः सर्वा नानातालसमन्विताः ॥ ३४॥
एभिस्समेतो जगदेकबन्धु-
र्ययौ तदानीं परमेशवर्चसा ।
सुसेव्यमानः सकलैः सुरेश्वरै-
र्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥ ३५॥
सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम् ।
संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः ॥ ३६॥
वृषादुत्तारयामासुर्महेशं पर्वतोत्तमाः ।
निन्युर्गृहान्तरं प्रीत्या महोत्सवपुरस्सरम् ॥ ३७॥
हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ।
प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत् ॥ ३८॥
सर्वान्सुरान्मुनीनन्यान् प्रणम्य समहोत्सवः ।
सम्मानमकरोत्तेषां प्रशंसन्स्वविधिं मुदा ॥ ३९॥
सोऽगःसाच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् ।
सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥ ४०॥
प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ।
सर्वान्विष्णुं च मामीशं विशिष्टांश्च विशेषतः ॥ ४१॥
सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ।
अन्याभिश्च पुरन्ध्रीभिश्चक्रे नीराजनं मुदा ॥ ४२॥
पुरोधसा कृत्यविदा शङ्कराय महात्मने ।
मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥ ४३॥
मया स नोदितस्तत्र पुरोधाः कृतवांस्तदा ।
सुमङ्गलं च यत्कर्म प्रस्तावसदृशं मुने ॥ ४४॥
अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ।
यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥ ४५॥
वेदिकोपरि तन्वङ्गी संस्थिता सुविराजिता ।
तत्र नीतो महादेवो विष्णुना च मया सह ॥ ४६॥
लग्नं निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ।
कन्यादानोचितं तत्र बभूवुः परमोत्सवाः ॥ ४७॥
तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ।
यावच्छेषा घटी तावत्कृतं प्रणवभाषणम् ॥ ४८॥
पुण्याहं प्रवदन् गर्गः समादध्रेऽञ्जलिं मुदा ।
पार्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥ ४९॥
तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ।
परमोदारया तत्र पार्वत्या रुचिरास्यया ॥ ५०॥
विलोकयन्ती तं शम्भुं यस्यार्थे परमं तपः ।
कृतं पुरा महाप्रीत्या विरराज शिवाति सा ॥ ५१॥
मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ।
समानर्च शिवां शम्भुः लौकिकाचारसंरतः ॥ ५२॥
एवं परस्परं तौ वै पार्वतीपरमेश्वरौ ।
अर्चयन्तौ तदानीं च शुशुभाते जगन्मयौ ॥ ५३॥
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ।
तदा नीराजितौ लक्ष्म्यादिभिः स्त्रीभिर्विशेषतः ॥ ५४॥
तथापरा वै द्विजयोषितश्च
नीराजयामासुरथो पुरस्त्रियः ।
शिवां च शम्भुञ्च विलोकयन्त्योऽ-
वापुर्मुदं ताः सकला महोत्सवम् ॥ ५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ २.३.४७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४८. अष्टचत्वारिंशोऽध्यायः । शिवाशिवयोर्विवाहविधिकथनम् ।
ब्रह्मोवाच ।
एतस्मिन्नन्तरे तत्र गर्गाचार्यप्रणोदितः ।
हिमवान्मेनया सार्धं कन्यां दातुं प्रचक्रमे ॥ १॥
हैमं कलशमादाय मेना चार्धाङ्गमाश्रिता ।
हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ॥ २॥
पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः ।
तं वरं वरयामास वस्त्रचन्दनभूषणैः ॥ ३॥
ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने ।
प्रयोगो भण्यतां तावदस्मिन्समय आगते ॥ ४॥
तथेति चोक्ता ते सर्वे कालज्ञा द्विजसत्तमाः ।
तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ॥ ५॥
ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा ।
सूतीकृतपरेशेन विहसन् शम्भुमब्रवीत् ॥ ६॥
स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा ।
नाम वेदं तथा शाखां माकार्षीः समयात्ययम् ॥ ७॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य हिमाद्रेः शङ्करस्तदा ।
सुमुखो विमुखः सद्योऽप्यशोच्यः शोच्यतां गतः ॥ ८॥
एवंविधः सुरवरैर्मुनिभिस्तदानीं
गन्धर्वयक्षगणसिद्धगणैस्तथैव ।
दृष्टो निरुत्तरमुखो भगवान्महेशोऽ-
कार्षीस्सुहास्यमथ तत्र स नारद त्वम् ॥ ९॥
वीणामवादयंस्त्वं हि ब्रह्मविज्ञोऽथ नारद ।
शिवेन प्रेरितस्तत्र मनसा शम्भुमानसः ॥ १०॥
तदा निवारितो धीमान् पर्वतेन्द्रेण वै हठात् ।
विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा ॥ ११॥
न निवृत्तोऽभवस्त्वं हि स यदा शङ्करेच्छया ।
इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥ १२॥
सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध ।
प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ॥ १३॥
नारद उवाच ।
त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन ।
वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ॥ १४॥
त्वया पृष्ठो हरः साक्षात्स्वगोत्रकथनं प्रति ।
समयेऽस्मिंस्तदत्यन्तमुपहासकरं वचः ॥ १५॥
अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत ।
विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ॥ १६॥
यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता ।
स एव शङ्करस्तेद्य दृष्टः कालीतपोबलात् ॥ १७॥
अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः ।
निराकारो निर्विकारी मायाधीशः परात्परः ॥ १८॥
अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः ।
तदिच्छया हि सगुणः सुतनुर्बहुनामभृत् ॥ १९॥
सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः ।
पार्वतीतपसा सोऽद्य जामाता ते न संशयः ॥ २०॥
लीलाविहारिणा तेन मोहितं सचराचरम् ।
नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ॥ २१॥
लिङ्गाकृतेर्महेशस्य केन दृष्टं न मस्तकम् ।
विष्णुर्गत्वा हि पातालं तदैनं नाप विस्मितः ॥ २२॥
किं बहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया ।
तदधीनास्त्रयो लोका हरिब्रह्मादयोऽपि च ॥ २३॥
तस्मात्त्वया शिवातात सुविचार्य प्रयत्नतः ।
न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ॥ २४॥
ब्रह्मोवाच ।
इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः ।
प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन् गिरा ॥ २५॥
नारद उवाच ।
शृणु तात महाशैल शिवाजनक मद्वचः ।
तच्छ्रुत्वा तनयां देवीं देहि त्वं शङ्कराय हि ॥ २६॥
सगुणस्य महेशस्य लीलया रूपधारिणः ।
गोत्रं कुलं विजानीहि नादमेव हि केवलम् ॥ २७॥
शिवो नादमयः सत्यं नादः शिवमयस्तथा ।
उभयोरन्तरं नास्ति नादस्य च शिवस्य च ॥ २८॥
सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः ।
शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततः स हि ॥ २९॥
अतो हि वादिता वीणा प्रेरितेन मयाद्य वै ।
सर्वेश्वरेण मनसा शङ्करेण हिमालय ॥ ३०॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः ।
हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ॥ ३१॥
अथ विष्णुप्रभृतयः सुराश्च मुनयस्तथा ।
साधु साध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ॥ ३२॥
महेश्वरस्य गाम्भीर्यं ज्ञात्वा सर्वे विचक्षणाः ।
सविस्मया महामोदान्विताः प्रोचुः परस्परम् ॥ ३३॥
यस्याज्ञया जगदिदं च विशालमेव
जातं परात्परतरो निजबोधरूपः ।
शर्वः स्वतन्त्रगतिकृत्परभावगम्यः
सोऽसौ त्रिलोकपतिरद्य च नः सुदृष्टः ॥ ३४॥
अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसम्भ्रमाः ।
ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ॥ ३५॥
पर्वता ऊचुः ।
कन्यादाने स्थीयतां चाद्य शैल-
नाथोक्त्या किं कार्यनाशस्तवैव ।
सत्यं ब्रूमो नात्र कार्यो विमर्शः
तस्मात्कन्या दीयतामीश्वराय ॥ ३६॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तेषां सुहृदां स हिमालयः ।
स्वकन्यादानमकरोच्छिवाय विधिनोदितः ॥ ३७॥
इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।
भार्यार्थं परिगृह्णीष्व प्रसीद सकलेश्वर ॥ ३८॥
तस्मै रुद्राय महते मन्त्रेणानेन दत्तवान् ।
हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ॥ ३९॥
इत्थं शिवाकरं शैलं शिवहस्ते निधाय च ।
मुमोदातीव मनसि तीर्णकाममहार्णवः ॥ ४०॥
वेदमन्त्रेण गिरिशो गिरिजाकरपङ्कजम् ।
जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ॥ ४१॥
क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं मुने ।
पपाठ शङ्करः प्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ४२॥
महोत्सवो महानासीत्सर्वत्र प्रमुदावहः ।
बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ॥ ४३॥
साधुशब्दं नमः शब्दं चक्रुः सर्वेऽतिहर्षिताः ।
गन्धर्वाः सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ॥ ४४॥
हिमाचलस्य पौरा हि मुमुदुश्चाति चेतसि ।
मङ्गलं महदासीद्वै महोत्सवपुरस्सरम् ॥ ४५॥
अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः ।
हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ॥ ४६॥
अथ शैलवरः सोऽदात्सुप्रसन्नो हिमाचलः ।
शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम् ॥ ४७॥
ततो बन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः ।
ददुः शिवाय सद्द्रव्यं नानाविधिविधानतः ॥ ४८॥
हिमालयस्तुष्टमनाः पार्वतीशिवप्रीतये ।
नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ॥ ४९॥
यौतुकानि ददौ तस्मै रत्नानि विविधानि च ।
चारुरत्नविकाराणि पात्राणि विविधानि च ॥ ५०॥
गवां लक्षं हयानां च सज्जितानां शतं तथा ।
दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ॥ ५१॥
नागानां शतलक्षं हि रथानां च तथा मुने ।
सुवर्णजटितानां च रत्नसारविनिर्मितम् ॥ ५२॥
इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् ।
शिवाय परमेशाय विधिनाप कृतार्थताम् ॥ ५३॥
अथ शैलवरो माध्यन्दिनोक्तस्तोत्रतो मुदा ।
तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः ॥ ५४॥
ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा ।
शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ॥ ५५॥
देवाभिधानमुच्चार्य पर्युक्षणविधिं व्यधुः ।
महोत्सवस्तदा चासीन्महानन्दकरो मुने ॥ ५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ २.३.४८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.४९. एकोनपञ्चाशत्तमोऽध्यायः । विवाहसंस्कारकथनं विधिमोहवर्णनञ्च ।
ब्रह्मोवाच ।
अथो ममाज्ञया विप्रैः संस्थाप्यानलमीश्वरः ।
होमं चकार तत्रैवमङ्के संस्थाप्य पार्वतीम् ॥ १॥
ऋग्यजुस्साममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः ।
लाजाञ्जलिं ददौ कालीभ्राता मैनाकसंज्ञकः ॥ २॥
अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा ।
वह्निप्रदक्षिणां तात लोकाचारं विधाय च ॥ ३॥
तत्राद्भुतमलञ्चक्रे चरितं गिरिजापतिः ।
तदेव शृणु देवर्षे तवस्नेहाद् ब्रवीम्यहम् ॥ ४॥
तस्मिन्नवसरे चाहं शिवमायाविमोहितः ।
अपश्यं चरणे देव्या नखेन्दुं च मनोहरम् ॥ ५॥
दर्शनात्तस्य च तदाभूवं देवमुने ह्यहम् ।
मदनेन समाविष्टोऽतीव क्षुभितमानसः ॥ ६॥
मुहुर्मुहुरपश्यं वै तदङ्गं स्मरमोहितः ।
ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्भुवि ॥ ७॥
रेतसा क्षरता तेन लज्जितोऽहं पितामहः ।
मुने व्यमर्दं तच्छिन्नं चरणाभ्यां हि गोपयन् ॥ ८॥
तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद ।
हन्तुमैच्छत्तदा शीघ्रं मां विधिं काममोहितम् ॥ ९॥
हाहाकारो महानासीत्तत्र सर्वत्र नारद ।
जनाश्चकम्पिरे सर्वे भयमायाति विश्वभृत् ॥ १०॥
ततस्तं तुष्टुवुः शम्भुं विष्ण्वाद्या निर्जरा मुने ।
सकोपम्प्रज्वलन्तं च तेजसा हन्तुमुद्यतम् ॥ ११॥
देवा ऊचुः ।
देवदेव जगद्व्यापिन् परमेश सदाशिव ।
जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२॥
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ।
निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३॥
आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः ।
यतोऽव्ययः स नैतानि तत्सत्यम्ब्रह्म चिद्भवान् । १४॥
तवैव चरणाम्भोजं मुक्तिकामा दृढव्रताः ।
विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ १५॥
त्वं ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् ।
आनन्दमात्रमव्यग्रमविकारमनात्मकम् ॥ १६॥
विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ।
तदपेक्षतयात्मेशोऽनपेक्षः सर्वदा विभुः ॥ १७॥
एकस्त्वमेव सदसद् द्वयमद्वयमेव च ।
स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १८॥
अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ।
तस्माद् भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९॥
धन्या वयं महेशान तव दर्शनमात्रतः ।
दृढभक्तजनानन्दप्रदः शम्भो दयां कुरु ॥ २०॥
त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ।
विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१॥
योऽयं ब्रह्मास्ति रजसा विश्वमूर्तिः पितामहः ।
त्वत्प्रसादात्प्रभो विष्णुः सत्त्वेन पुरुषोत्तमः ॥ २२॥
कालाग्निरुद्रस्तमसा परमात्मा गुणैः परः ।
सदा शिवो महेशानःसर्वव्यापी महेश्वरः ॥ २३॥
व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च ।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४॥
महादेव परेशान करुणाकर शङ्कर ।
प्रसीद देवदेवेश प्रसीद पुरुषोत्तम । २५॥
वासांसि सागराः सप्त दिशश्चैव महाभुजाः ।
द्यौर्मूर्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६॥
चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो ।
नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७॥
कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ।
वाचामगोचरोऽसि त्वं मनसा चापि शङ्कर ॥ २८॥
पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ।
त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९॥
अनिर्देश्याय नित्याय विद्युज्ज्वालाय रूपिणे ।
अग्निवर्णाय देवाय शङ्कराय नमो नमः ॥ ३०॥
विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ।
रूपमास्थाय लोकेऽस्मिन् संस्थिताय नमो नमः ॥ ३१॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः ।
ब्रह्मणे मे ददौ शीघ्रमभयं भक्तवत्सलः ॥ ३२॥
अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा ।
अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम् ॥ ३३॥
मम तद्रेतसा तात मर्दितेन मुहुर्मुहुः ।
अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः ॥ ३४॥
ऋषयो बहवो जाता बालखिल्याः सहस्रशः ।
कणकैस्तैश्च वीर्यस्य प्रज्वलद्भिः स्वतेजसा ॥ ३५॥
अथ ते ऋषयः सर्वे उपतस्थुस्तदा मुने ।
ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन् ॥ ३६॥
ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि ।
बालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा ॥ ३७॥
नारद उवाच ।
गच्छध्वं सङ्गता यूयं पर्वतं गन्धमादनम् ।
न स्थातव्यं भवद्भिश्च न हि वोऽत्र प्रयोजनम् ॥ ३८॥
तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः ।
सूर्यशिष्याः शिवस्यैवाज्ञया मे कथितं त्विदम् ॥ ३९॥
ब्रह्मोवाच ।
इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् ।
सत्वरं प्रययुर्नत्वा शङ्करं गन्धमादनम् ॥ ४०॥
विष्ण्वादिभिस्तदाभूवं श्वासितोऽहं मुनीश्वर ।
निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः ॥ ४१॥
अस्तवं चापि सर्वेशं शङ्करं भक्तवत्सलम् ।
सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम् ॥ ४२॥
देवदेव महादेव करुणासागर प्रभो ।
त्वमेव कर्ता सर्वस्य भर्ता हर्ता च सर्वथा ॥ ४३॥
त्वदिच्छया हि सकलं स्थितं हि सचराचरम् ।
तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः ॥ ४४॥
इत्येवमुक्त्वा सोऽहं वै प्रणामं च कृताञ्जलिः ।
अन्येऽपि तुष्टुवुः सर्वे विष्ण्वाद्यास्तं महेश्वरम् ॥ ४५॥
अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा ।
विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः ॥ ४६॥
ददौ सोऽतिवरं मह्यमभयं प्रीतमानसः ।
सर्वे सुखमतीवापुरत्यामोदमहं मुने ॥ ४७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे विधिमोहवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ २.३.४९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५०. पञ्चाशत्तमोऽध्यायः । विवाहमहोत्सवे स्त्रीविनोदवर्णनम् ।
ब्रह्मोवाच ।
ततश्चाहं मुनिगणैः शेषकृत्यं शिवाज्ञया ।
अकार्षं नारद प्रीत्या शिवाशिवविवाहतः ॥ १॥
तयोः शिरोऽभिषेकश्च बभूवादरतस्ततः ।
ध्रुवस्य दर्शनं विप्राः कारयामासुरादरात ॥ २॥
हृदयालम्भनं कर्म बभूव तदनन्तरम् ।
स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः ॥ ३॥
शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ।
तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह ॥ ४॥
ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।
लेभाते परमां शोभां भक्तचित्तमुदावहाम् ॥ ५॥
ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ।
चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने ॥ ६॥
इत्थं निवृत्ते विधिवद्यज्ञे वैवाहिके शिवः ।
ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः ॥ ७॥
गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ।
महादानानि च प्रीत्या यानि मङ्गलदानि वै ॥ ८॥
ततः शतसुवर्णं च विप्रेभ्यः स ददौ पृथक् ।
बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः ॥ ९॥
तदानीममराः सर्वे परे जीवाश्चराचराः ।
मुमुदुश्चेतसातीव बभूवाति जयध्वनिः ॥ १०॥
मङ्गलध्वनिगानं च बभूव बहु सर्वतः ।
वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्धनः ॥ ११॥
हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ।
गिरिमामन्त्र्य सुप्रीत्या स्वस्थानं प्रययुर्द्रुतम् ॥ १२॥
तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ।
शिवाशिवौ समानीय ययुः कुहवरालयम् ॥ १३॥
लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ।
महोत्साहो बभूवाथ सर्वतः प्रमुदावहः ॥ १४॥
अथ तास्तौ समानीय दम्पती जनशङ्करौ ।
वासालयं महादिव्यं भवाचारं व्यधुर्मुदा ॥ १५॥
अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ।
निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम् ॥ १६॥
कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।
सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः ॥ १७॥
वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ।
प्रशंसन्त्यः स्वभाग्यानि पश्यन्त्यः परमेश्वरम् ॥ १८॥
महासुरूपवेषं च सर्वलावण्यसंयुतम् ।
नवीनयौवनस्थं च कामनीचित्तमोहनम् ॥ १९॥
ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ।
सुसूक्ष्मवासो बिभ्राणं नानारत्नविभूषितम् ॥ २०॥
तदानीं दिव्यनार्यश्च षोडशारं समाययुः ।
तौ दम्पती च सन्द्रष्टुं महादरपुरस्सरम् ॥ २१॥
सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ।
अदितिश्च शची चैव लोपामुद्राप्यरुन्धती ॥ २२॥
अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ।
शतरूपा च संज्ञा च रतिरेताः सुरस्त्रियः ॥ २३॥
देवकन्या नागकन्या मुनिकन्या मनोहराः ।
तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः ॥ २४॥
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ।
तमूचुः क्रमतो देव्यः सुहासं मधुरं वचः ॥ २५॥
सरस्वत्युवाच ।
प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ।
दृष्ट्वा प्रियास्यं चन्द्राभं सन्तापं त्यज कामुक ॥ २६॥
कालं गमय कालेश सतीसंश्लेषपूर्वकम् ।
विश्लेषस्ते न भविता सर्वकालं समाश्रिता ॥ २७॥
लक्ष्मीरुवाच ।
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ।
तिष्ठ तां प्रति का लज्जा प्राणा यान्ति यया विना ॥ २८॥
सावित्र्युवाच ।
भोजयित्वा सतीं शम्भो शीघ्रं त्वं भुङ्क्ष्व मा खिदः ।
तदाचम्य सकर्पूरं ताम्बूलं देहि सादरम् ॥ २९॥
जाह्नव्युवाच ।
स्वर्णकान्तिकरां धृत्वा केशान्मार्जय योषितः ।
कामिन्याः स्वामिसौभाग्यसुखं नातः परं भवेत् ॥ ३०॥
अदितिरुवाच ।
भोजनान्ते शिवे शम्भुं मुखशुद्ध्यर्थमादरात् ।
जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम् ॥ ३१॥
शच्युवाच ।
कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ।
यो बभ्रामानिशं मोहात् का लज्जा ते प्रियां प्रति ॥ ३२॥
लोपामुद्रोवाच ।
व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ।
दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि ॥ ३३॥
अरुन्धत्युवाच ।
मया दत्तां सतीम्मेनां तुभ्यं दातुमनीप्सिता ।
विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि ॥ ३४॥
अहल्योवाच ।
वृद्धावस्थां परित्यज्य ह्यतीव तरुणो भव ।
येन मेनानुमन्येत त्वां सुतार्पितमानसा ॥ ३५॥
तुलस्युवाच ।
सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ।
कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ॥ ३६॥
स्वाहोवाच ।
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ।
विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता ॥ ३७॥
रोहिण्युवाच ।
कामं पूरय पार्वत्याः कामशास्त्रविशारद ।
कुरु पारं स्वयं कामी कामिनीकामसागरम् ॥ ३८॥
वसुन्धरोवाच ।
जानासि भावं भावज्ञ कामार्तानां च योषिताम् ।
न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम् ॥ ३९॥
शतरूपोवाच ।
भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ।
येन तुष्टिर्भवेच्छम्भो तत्कर्तुमुचितं स्त्रियाः ॥ ४०॥
संज्ञोवाच ।
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ।
रत्नप्रदीपं ताम्बूलं तल्पं निर्माय निर्जने ॥ ४१॥
ब्रह्मोवाच ।
स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ।
निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः ॥ ४२॥
शङ्कर उवाच ।
देव्यो न ब्रूत वचनमेवम्भूतं ममान्तिकम् ।
जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ॥ ४३॥
ब्रह्मोवाच ।
शङ्करस्य वचः श्रुत्वा लज्जिताः सुरयोषितः ।
बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ॥ ४४॥
भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ।
सकर्पूरं च ताम्बूलं बुभुजे भार्यया सह ॥ ४५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ २.३.५०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५१. एकपञ्चाशत्तमोऽध्यायः । शिवाज्ञयाकामसञ्जीवनप्रकारकथनम् ।
ब्रह्मोवाच ।
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ।
सुप्रसन्ना च तं प्राह शङ्करं दीनवत्सलम् ॥ १॥
रतिरुवाच ।
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ।
किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ॥ २॥
जीवयात्र पतिं मे हि कामव्यापारमात्मनि ।
कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥ ३॥
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ।
अहमेका महेशान दुःखिनी स्वपतिं विना ॥ ४॥
सनाथां कुरु मां देव प्रसन्नो भव शङ्कर ।
स्वोक्तं सत्यं विधेहि त्वं दीनबन्धो पर प्रभो ॥ ५॥
त्वां विना कः समर्थोऽत्र त्रैलोक्ये सचराचरे ।
नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥ ६॥
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्दप्रदायिनी ।
सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥ ७॥
जीविते मम नाथे हि पार्वत्या प्रियया सह ।
सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥ ८॥
सर्वं कर्तुं समर्थोऽसि यतस्त्वं परमेश्वरः ।
किं बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥ ९॥
ब्रह्मोवाच ।
तदित्युक्त्वा कामभस्म ददौ सग्रन्थिबन्धनम् ।
रुदोद पुरतः शम्भोर्नाथ नाथेत्युदीर्य च ॥ १०॥
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ।
रुरुदुः सकला देव्यः प्रोचुर्दीनतरं वचः ॥ ११॥
देव्य ऊचुः ।
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥
कामं जीवय सोत्साहां रतिं कुरु नमोऽस्तु ते ॥ १२॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः ।
कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥ १३॥
सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ।
तद्रूपवेषचिह्नात्मा सुन्दरोऽद्भुतमूर्तिमान् ॥ १४॥
तद्रूपश्च तदाकारं सस्मितं सधनुशरम् ।
दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ॥ १५॥
कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ।
प्राणनाथप्रदं पत्या जीवितेन पुनः पुनः ॥ १६॥
कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ।
प्रसन्नोऽभवदत्यन्तमुवाच करुणार्द्रधीः ॥ १७॥
शङ्कर उवाच ।
प्रसन्नोऽहं तव स्तुत्या सनारीकस्य चित्तज ।
स्वयम्भव वरं ब्रूहि वाञ्छितं तद् ददामि ते ॥ १८॥
ब्रह्मोवाच ।
इति शम्भुवचः श्रुत्वा महानन्दः स्मरस्ततः ।
उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा ॥ १९॥
काम उवाच ।
देवदेव महादेव करुणासागर प्रभो ।
यदि प्रसन्नः सर्वेश ममानन्दकरो भव ॥ २०॥
क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ।
स्वजनेषु परां प्रीतिं भक्तिं देहि स्वपादयोः ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरः ।
ओमित्युक्त्वाब्रवीत्तं वै विहसन्करुणानिधिः ॥ २२॥
ईश्वर उवाच ।
हे कामाहं प्रसन्नोऽस्मि भयं त्यज महामते ।
गच्छ विष्णुसमीपं च बहिःस्थाने स्थितो भव ॥ २३॥
ब्रह्मोवाच ।
तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ।
बहिर्गत्वा हरिन्देवान् प्रणम्य समुपास्त सः ॥ २४॥
कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ।
विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ॥ २५॥
देवा ऊचुः ।
धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ।
जीवयामास सत्त्वांशकृपादृष्ट्याखिलेश्वरः ॥ २६॥
सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ।
काले रक्षा विवाहश्च निषेकः केन वार्यते ॥ २७॥
ब्रह्मोवाच ।
इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ।
सन्तस्थुस्तत्र विष्ण्वाद्याः सर्वे लब्धमनोरथाः ॥ २८॥
सोऽपि प्रमुदितस्तत्र समुवास शिवाज्ञया ।
जयशब्दो नमः शब्दः साधुशब्दो बभूव ह ॥ २९॥
ततः शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ।
मिष्टान्नं भोजयामास तं च सा च मुदान्विता ॥ ३०॥
अथ शम्भुर्भवाचारी तत्र कृत्यं विधाय तत् ।
मेनामामन्त्र्य शैलं च जनवासं जगाम सः ॥ ३१॥
महोत्सवस्तदा चासीद् वेदध्वनिरभून्मुने ।
वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ॥ ३२॥
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।
हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ॥ ३३॥
जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ।
वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ॥ ३४॥
अथ विष्णुरहं शक्रः सर्वे देवाश्च सर्षयः ।
सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ॥ ३५॥
देवा ऊचुः ।
जय शम्भोऽखिलाधार जय नाम महेश्वर ।
जय रुद्र महादेव जय विश्वम्भर प्रभो ॥ ३६॥
जय कालीपते स्वामिन् जयानन्दप्रवर्धक ।
जय त्र्यम्बक सर्वेश जय मायापते विभो ॥ ३७॥
जय निर्गुण निष्काम कारणातीत सर्वग ।
जय लीलाखिलाधार धृतरूप नमोऽस्तु ते ॥ ३८॥
जय स्वभक्तसत्कामप्रदेश करुणाकर ।
जय सानन्दसद्रूप जय मायागुणाकृते ॥ ३९॥
जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ।
जयाविकार मायेश वाङ्मनोऽतीतविग्रह ॥ ४०॥
ब्रह्मोवाच ।
इति स्तुत्वा महेशानं गिरिजानायकं प्रभुम् ।
सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ॥ ४१॥
अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ।
ददौ मानवरं तेषां सर्वेषां तत्र नारद ॥ ४२॥
विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञां परमेशितुः ।
अतिहृष्टाः प्रसन्नास्याः स्वस्थानं जग्मुरादृताः ॥ ४३॥
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसञ्जीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ २.३.५१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५२. द्विपञ्चाशत्तमोऽध्यायः । हिमालयगृहेवरपक्षीयभोजनवर्णनम् ।
ब्रह्मोवाच ।
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ।
प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ॥ १॥
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ।
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥ २॥
अथ शैलः सुरान् सर्वानन्यानपि च सेश्वरान् ।
भोजनायाह्वयामास पुत्रैः शैलैः परैरपि ॥ ३॥
शैलाह्वानमथाकर्ण्य स प्रभुः साच्युतो मुने ।
सर्वैःसुरादिभिस्तत्र भोजनाय ययौ मुदा ॥ ४॥
गिरिः प्रभुं च सर्वांस्तान् सुसत्कृत्य यथाविधि ।
मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥ ५॥
नानासुभोज्यवस्तूनि परिवेष्य च तत्पुनः ।
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः ॥ ६॥
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ।
सदाशिवं पुरस्कृत्य बुभुजुः सकलाश्च ते ॥ ७॥
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ।
पङ्क्तिभूताश्च बुभुजुर्विहसन्तः पृथक्पृथक् ॥ ८॥
नन्दिभृङ्गिवीरभद्रवीरभद्रगणाः पृथक् ।
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥ ९॥
देवाः सेन्द्रा लोकपाला नानाशोभासमन्विताः ।
बुभुजुस्ते महाभागा नानाहास्यरसैस्सह ॥ १०॥
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा ।
बुभुजुः प्रीतितः सर्वे पृथक् पङ्क्तिगतास्तदा ॥ ११॥
तथा चण्डीगणाः सर्वे बुभुजुः कृतभोजनाः ।
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा ॥ १२॥
एवं ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ।
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्याः स्वं स्वमाश्रमम् ॥ १३॥
मेनाज्ञया स्त्रियः साध्व्यः शिवं सम्प्रार्थ्य भक्तितः ।
गेहे निवासयामासुर्वासाख्ये परमोत्सवे ॥ १४॥
रत्नसिंहासने शम्भुः मेनादत्ते मनोहरे ।
सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम् ॥ १५॥
रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ।
रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम् ॥ १६॥
रत्नदर्पणशोभाढ्यं मण्डितं श्वेतचामरैः ।
मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत् ॥ १७॥
अनौपम्यं महादिव्यं विचित्रं सुमनोहरम् ।
चित्ताह्लादकरं नानारचनारचितस्थलम् ॥ १८॥
शिवदत्तवरस्यैव प्रभावमतुलं परम् ।
दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ॥ १९॥
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ।
चन्दनागरुसंयुक्तं पुष्पशय्यासमन्वितम् ॥ २०॥
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा ।
रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ॥ २१॥
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ।
कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ॥ २२॥
कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ।
कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ॥ २३॥
एतादृशं गृहं सर्वं दृष्ट्वाश्चर्यं महेश्वरः ।
प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ॥ २४॥
तत्रातिरमणीये च रत्नपर्यङ्क उत्तमे ।
अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ॥ २५॥
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ।
सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ॥ २६॥
एवं कुर्वति शैलेशे स्वपिति प्रेष्ठ ईश्वरे ।
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥ २७॥
अथ प्रभातकाले च धृत्युत्साहपरायणाः ।
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥ २८॥
सर्वे सुराःसमुत्तस्थुर्विष्ण्वाद्याः सुमुदान्विताः ।
स्वेष्टं संस्मृत्य देवेशं सज्जीभूताः ससम्भ्रमाः ॥ २९॥
स्ववाहनानि सज्जानि कैलासं गन्तुमुत्सुकाः ।
कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ॥ ३०॥
वासगेहमथागत्य धर्मो नारायणाज्ञया ।
उवाच शङ्करं योगी योगीशं समयोचितम् ॥ ३१॥
धर्म उवाच ।
उत्तिष्ठोत्तिष्ठ भद्रं ते भव नः प्रमथाधिप ।
जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ॥ ३२॥
ब्रह्मोवाच ।
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ।
ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ॥ ३३॥
उवाच विहसन् धर्मं त्वमग्रे गच्छ तत्र ह ।
अहमप्यागमिष्यामि द्रुतमेव न संशयः ॥ ३४॥
ब्रह्मोवाच ।
इत्युक्तः शङ्करेणाथ जनावासं जगाम सः ।
स्वयं गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः ॥ ३५॥
तज्ज्ञात्वा स्त्रीगणः सोऽसौ तत्रागच्छन्महोत्सवः ।
चक्रे मङ्गलगानं हि पश्यन् शम्भुपदद्वयम् ॥ ३६॥
अथ शम्भुर्भवाचारी प्रातःकृत्यं विधाय च ।
मेनामामन्त्र्य कुध्रं च जनावासं जगाम सः ॥ ३७॥
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।
वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ॥ ३८॥
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।
हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ॥ ३९॥
जयशब्दो बभूवाथ नमः शब्दस्तथैव च ।
वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ॥ ४०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ २.३.५२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५३. त्रिपञ्चाशत्तमोऽध्यायः । वधूवरयोः यात्राप्रस्थानवर्णनम् ।
ब्रह्मोवाच ।
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ।
कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १॥
ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ।
पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २॥
तत्र प्रभुं प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ।
कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैः सह ॥ ३॥
विलोकनेन ते शम्भो कृतार्थोऽहं न संशयः ।
धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैः सह ॥ ४॥
ब्रह्मोवाच ।
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ।
प्रभुं निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५॥
अथ ते मनसा गत्वा शिव संयुतमादरात् ।
प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६॥
देवा ऊचुः ।
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ।
त्वत्समो न त्रिलोकेषु कोऽपि पुण्यतमो जनः ॥ ७॥
यस्य द्वारि महेशानः परब्रह्म सतां गतिः ।
समागतः सदासैश्च कृपया भक्तवत्सलः ॥ ८॥
जनावासोऽतिरम्यश्च सम्मानो विविधः कृतः ।
भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९॥
चित्रं न खलु तत्रास्ति यत्र देवी शिवाम्बिका ।
परिपूर्णमशेषं च वयं धन्या यदागताः ॥ १०॥
ब्रह्मोवाच ।
इत्थं परस्परं तत्र प्रशंसाभवदुत्तमा ।
उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११॥
अभून्मङ्गलगानं च ननर्ताप्सरसाङ्गणः ।
नुतिं चक्रुर्मागधाद्या द्रव्यदानमभूद् बहु ॥ १२॥
तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ।
भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३॥
भोजनार्थं प्रभुं प्रीत्यानयामास यथोचितम् ।
परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४॥
प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ।
सर्वेषाममराणां च मुनीनां च यथार्थतः ॥ १५॥
परेषां च गतानां च गिरीशो मण्डपान्तरे ।
आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६॥
सुरसैर्विविधान्नैश्च तर्पयामास तान् गिरिः ।
बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७॥
तदानीं पुरनार्यश्च गालीदानं व्यधुर्मुदा ।
मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८॥
ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ।
स्वस्थानं प्रययुः सर्वे मुदितास्तृप्तिमागताः ॥ १९॥
इत्थं तृतीये घस्त्रेऽपि मानितास्तेऽभवन्मुने ।
गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ २०॥
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।
बभूव विधिवद्येन विना खण्डित एव सः ॥ २१॥
उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ।
बहुदानं सुगानं च नर्तनं विविधं तथा ॥ २२॥
पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ।
विज्ञप्तिं चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३॥
तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ।
कियद्दिनानि तिष्ठन्तु कृपां कुर्वन्तु मां सुराः ॥ २४॥
इत्युक्त्वा स्नेहतस्ताँश्च प्रभुं विष्णुं च मां परान् ।
वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २५॥
इत्थं व्यतीयुर्दिवसा बहवो वसतां च तत् ।
सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततः सुराः ॥ २६॥
ते तं सम्बोधयामासुर्मेनां च समयोचितम् ।
शिवतत्त्वं परं प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७॥
अङ्गीकृतं गिरीशेन तत्तद्बोधनतो मुने ।
यात्रार्थमगमच्छम्भुः शैलेशं सामरादिकः ॥ २८॥
यात्रां कुर्वति देवेशे स्वशैलं सामरे शिवे ।
उच्चैः रुदोद सा मेना तमुवाच कृपानिधिम् ॥ २९॥
मेनोवाच ।
कृपानिधे कृपां कृत्वा शिवां सम्पालयिष्यसि ।
सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥ ३०॥
त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ।
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुं विना ॥ ३१॥
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ।
त्वन्निन्दया भवेन्मौना मृत्युञ्जय मृता इव ॥ ३२॥
ब्रह्मोवाच ।
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतां तदा ।
अत्युच्चै रोदनं कृत्वा मूर्च्छामाप तयोः पुरः ॥ ३३॥
अथ मेनां बोधयित्वा तामामन्त्र्य गिरिं तथा ।
चकार यात्रां देवैश्च महोत्सवपुरस्सरम् ॥ ३४॥
अथ ते निर्जराः सर्वे प्रभुणा स्वगणैः सह ।
यात्रां प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥ ३५॥
हिमाचलपुरीबाह्योपवने हर्षिताः सुराः ।
सेश्वराः सोत्सवास्तस्थुः पर्यैषन्त शिवागमम् ॥ ३६॥
इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर ।
आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥ ३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ २.३.५३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५४. चतुःपञ्चाशत्तमोऽध्यायः । पतिव्रताधर्मवर्णनम् ।
ब्रह्मोवाच ।
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ।
कारय स्वात्मजादेव्या यात्रामद्योचितां गिरे ॥ १॥
इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहं परम् ।
विषण्णोऽभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥ २॥
कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ।
तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥ ३॥
शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ।
मेना संयापयामास कर्तुमासीत्समुद्यता ॥ ४॥
श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ।
उत्सवं विविधं तत्र सा मेना क्षितिभृत्प्रिया ॥ ५॥
गिरिजां भूषयामास नानारत्नांशुकैर्वरैः ।
द्वादशाभरणैश्चैव शृङ्गारैर्नृपसम्मितैः ॥ ६॥
मेनामनोगतिं बुद्ध्वा साध्व्येका द्विजकामिनी ।
गिरिजां शिक्षयामास पातिव्रत्यव्रतं परम् ॥ ७॥
द्विजपत्न्युवाच ।
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्धनम् ।
इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ॥ ८॥
धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ।
पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥ ९॥
सेवते या पतिं प्रेम्णा परमेश्वरवच्छिवे ।
इह भुक्त्वाखिलान् भोगानन्ते पत्या शिवां गतिम् ॥ १०॥
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ।
शाण्डिल्या शतरूपानसूया लक्ष्मीः स्वधा सती ॥ ११॥
संज्ञा च सुमतिः श्रद्धा मेना स्वाहा तथैव च ।
अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तारजाद्भयात् ॥ १२॥
पातिव्रत्यवृषेणैव ता गताः सर्वपूज्यताम् ।
ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥ १३॥
सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ।
दीनानुग्रहकर्ता च सर्वसेव्यः सतां गतिः ॥ १४॥
महान्पतिव्रताधर्मः श्रुतिस्मृतिषु नोदितः ।
यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥ १५॥
भुञ्ज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ।
तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥ १६॥
स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ।
सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥ १७॥
अनलङ्कृतमात्मानं दर्शयेन्न क्वचिच्छिवे ।
कार्यार्थं प्रोषिते तस्मिन् भवेन्मण्डनवर्जिता ॥ १८॥
पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ।
आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥
हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु । १९॥
आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।
सत्वरं साञ्जलिः प्रीत्या सुप्रणम्य वदेदिति ॥ २०॥
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।
तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥ २१॥
चिरं तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ।
आदाय तत्त्वं यत्किञ्चित्कस्मैचिन्नार्पयेत्क्वचित् ॥ २२॥
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।
प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥ २३॥
न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ।
दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥ २४॥
तीर्थार्थिनी तु या नारी पतिपादोदकं पिबेत् ।
तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५॥
भुञ्ज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ।
महाप्रसाद इत्युक्त्वा पतिदत्तं पतिव्रता ॥ २६॥
अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ २७॥
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
भवेत्सा सर्वदा देवी पतिव्रतपरायणा ॥ २८॥
कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ।
अन्यथा तत्फलं नास्ति परत्र नरकं व्रजेत् ॥ २९॥
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ।
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥ ३०॥
क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव च ।
सुखितं दुःखितं वापि पतिमेकं न लङ्घयेत् ॥ ३१॥
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ॥ ३२॥
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ।
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥ ३३॥
हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम् ।
कूर्पासकं च ताम्बूलं माङ्गल्याभरणादिकम् ॥ ३४॥
केशसंस्कारकबरीकरकर्णादिभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥ ३५॥
न रजक्या न बन्धक्या तथा श्रमणया न च ।
न च दुर्भगया क्वापि सखित्वं कारयेत् क्वचित् ॥ ३६॥
पतिविद्वेषिणीं नारीं न सा सम्भाषयेत् क्वचित् ।
नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ॥ ३७॥
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।
न यन्त्रके न देहल्यां सती च प्रवसेत् क्वचित् ॥ ३८॥
विना व्यवायसमयं प्रागल्भ्यं नाचरेत् क्वचित् ।
यत्र यत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ॥ ३९॥
हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ।
पतिव्रता भवेद्देवी सदा पतिहितैषिणी ॥ ४०॥
एकरूपा भवेत्पुण्या सम्पत्सु च विपत्सु च ।
विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्यधारिणी ॥ ४१॥
सर्पिर्लवणतैलादिक्षयेऽपि च पतिव्रता ।
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ॥ ४२॥
विधेर्विष्णोर्हराद्वापि पतिरेकोऽधिको मतः ।
पतिव्रताया देवेशि स्वपतिश्शिव एव च ॥ ४३॥
व्रतोपवासनियमं पतिमुल्लङ्घ्य याचरेत् ।
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ ४४॥
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ।
सरमा जायते ग्रामे शृगाली निर्जने वने ॥ ४५॥
उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ।
न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ॥ ४६॥
अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ।
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ॥ ४७॥
बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ।
ताम्बूलैर्वसनैश्चापि पादसंवाहनादिभिः ॥ ४८॥
तथैव चाटुवचनैः खेदसन्नोदनैः परैः ।
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ॥ ४९॥
मितं ददाति जनको मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं पूजयेत्सदा ॥ ५०॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ॥ ५१॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।
उलूकी जायते क्रूरा वृक्षकोटरशायिनी ॥ ५२॥
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।
कटाक्षयति यान्यं वै केकराक्षी तु सा भवेत् ॥ ५३॥
या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ।
ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ॥ ५४॥
या तुं कृत्य प्रियं ब्रूयान् मूका सा जायते खलु ।
या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनः पुनः ॥ ५५॥
दृष्टिं विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ।
काणा च विमुखी चापि कुरूपापि च जायते ॥ ५६॥
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ।
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा ॥ ५७॥
सा धन्या जननी लोके स धन्यो जनकः पिता ।
धन्यःस च पतिर्यस्य गृहे देवी पतिव्रता ॥ ५८॥
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।
पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुञ्जते ॥ ५९॥
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।
पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिता ॥ ६०॥
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।
तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ॥ ६१॥
विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ।
सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥ ६२॥
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ।
अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः ॥ ६३॥
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ।
भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये ॥ ६४॥
गृहे गृहे न किं नार्यो रूपलावण्यगर्विताः ।
परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ ६५॥
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ।
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥ ६६॥
गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ।
ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ॥ ६७॥
यथा गङ्गावगाहेन शरीरं पावनं भवेत् ।
तथा पतिव्रतां दृष्ट्वा सकलं पावनं भवेत् ॥ ६८॥
न गङ्गाया तया भेदो या नारी पतिदेवता ।
उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ॥ ६९॥
तारः पतिः श्रुतिर्नारी क्षमा सा स स्वयं तपः ।
फलं पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥ ७०॥
एवं पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ।
तद्भेदान् शृणु सुप्रीत्या सावधानतयाद्य मे ॥ ७१॥
चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ।
उत्तमादिविभेदेन स्मरतां पापहारिकाः ॥ ७२॥
उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका ।
ब्रुवे तासां लक्षणानि सावधानतया शृणु ॥ ७३॥
स्वप्नेऽपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ।
नान्यं परपतिं भद्रे उत्तमा सा प्रकीर्तिता ॥ ७४॥
या पितृभ्रातृसुतवत् परं पश्यति सद्धिया ।
मध्यमा सा हि कथिता शैलजे वै पतिव्रता ॥ ७५॥
बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ।
निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ॥ ७६॥
पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ।
पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ॥ ७७॥
चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ।
पावनाः सर्वलोकानामिहामुत्रापि हर्षिताः ॥ ७८॥
पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ।
जीवितो विप्र एको हि मृतो वाराहशापतः ॥ ७९॥
एवं ज्ञात्वा शिवे नित्यं कर्तव्यं पतिसेवनम् ।
त्वया शैलात्मजे प्रीत्या सर्वकामप्रदं सदा ॥ ८०॥
जगदम्बा महेशी त्वं शिवः साक्षात्पतिस्तव ।
तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ॥ ८१॥
त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ।
तथापि कथितं मेऽद्य जगदाचारतः शिवे ॥ ८२॥
ब्रह्मोवाच ।
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ।
शिवां मुदमतिप्राप पार्वती शङ्करप्रिया ॥ ८३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ २.३.५४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे
२.३.५५. पञ्चपञ्चाशत्तमोऽध्यायः । शिवयोः कैलासगमनवर्णनम् ।
ब्रह्मोवाच ।
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतं च तत् ।
प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ॥ १॥
तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ।
धृतिं धृत्वाहूय कालीं विश्लेषविरहाकुला ॥ २॥
अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ।
पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥ ३॥
शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता ।
मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥ ४॥
सर्वाश्च रुरुदुर्नार्यः सर्वमासीदचेतनम् ।
स्वयं रुरोद योगीशो गच्छन्कोऽन्य परः प्रभुः ॥ ५॥
एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ।
स सर्वतनयैस्तत्र सचिवैश्च द्विजैः परैः ॥ ६॥
स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ।
क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥ ७॥
ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ।
सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८॥
ननाम पार्वती भक्त्या मातरं पितरं गुरुम् ।
महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ॥ ९॥
पार्वत्या रोदनेनैव रुरुदुः सर्वयोषितः ।
नितरां जननी मेना यामयो भ्रातरस्तथा ॥ १०॥
पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ।
भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥ ११॥
तदा विप्राः समागत्य बोधयामासुरादरात् ।
लग्नं निवेदयामासुर्यात्रायाः सुखदं परम् ॥ १२॥
ततो हिमालयो मेनां धृत्वा धैर्यं विवेकतः ।
शिबिकामानयामास शिवारोहणहेतवे ॥ १३॥
शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ।
आशिषं प्रददुः सर्वाः पिता माता द्विजास्तथा ॥ १४॥
महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ।
नानाद्रव्यसमूहं च परेषां दुर्लभं शुभम् ॥ १५॥
शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा ।
द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥ १६॥
हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ।
प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥ १७॥
प्रीत्याभिरेभिरे सर्वे महोत्सवपुरस्सरम् ।
प्रभुं प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥ १८॥
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ।
लीलया त्वां च देवेशि सदा प्राणप्रिया मम ॥ १९॥
ब्रह्मोवाच ।
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ।
शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥ २०॥
पार्वत्युवाच ।
सर्वं स्मरामि प्राणेश मौनीभूतो भवेति च ।
प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥ २१॥
ब्रह्मोवाच ।
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ।
मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः ॥ २२॥
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ।
भोजयामास देवांश्च नारायणपुरोगमान् ॥ २३॥
तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ।
भोजयामास सुरसमन्नं बहुविधं प्रभुः ॥ २४॥
ततो भुक्त्वा च ते देवा नानारत्नविभूषिताः ।
सस्त्रीकाः सगणाः सर्वे प्रणेमुश्चन्द्रशेखरम् ॥ २५॥
संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ।
प्रशंसन्तो विवाहं च स्वधामानि ययुस्ततः ॥ २६॥
नारायणं मुने मां च प्रणनाम शिवःस्वयम् ।
लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥ २७॥
मयाश्लिष्याशिषं दत्त्वा शिवस्य पुनरग्रतः ।
मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥ २८॥
तमामन्त्र्य मया विष्णुः साञ्जलिः शिवयोर्मुदा ।
प्रशंसंस्तद्विवाहं च जगाम स्वालयं परम् ॥ २९॥
शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन् मुदा ।
सर्वे गणाः सुखं प्रापुरतीव स्वभजन् शिवौ ॥ ३०॥
इत्येवं कथितस्तात शिवोद्वाहः सुमङ्गलः ।
शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥ ३१॥
य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ।
श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥ ३२॥
इदमाख्यानमाख्यातमद्भुतं मङ्गलायनम् ।
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३३॥
यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरं परम् ।
सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥ ३४॥
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ।
सर्वदुःस्वप्नशमनं बुद्धिप्रज्ञादिसाधनम् ॥ ३५॥
शिवोत्सवेषु सर्वेषु पठितव्यं प्रयत्नतः ।
शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥ ३६॥
पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ।
शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥ ३७॥
शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ।
सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥ ३८॥
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ २.३.५५॥
॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां तृतीयः पार्वतीखण्डः समाप्तः ॥ २.३॥