श्रीशिवमहापुराणम् २५ रुद्रसंहितायां युद्धखण्डः

श्रीशिवमहापुराणम् २५ रुद्रसंहितायां युद्धखण्डः

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१. प्रथमोऽध्यायः । त्रिपुरवर्णनम् ।

नारद उवाच । श्रुतमस्माभिरानन्दप्रदं चरितमुत्तमम् । गृहस्थस्यैव शम्भोश्च गणस्कन्दादिसत्कथम् ॥ १॥ इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् । शङ्करो हि यथा रुद्रो जघान विहरन् खलान् ॥ २॥ कथं ददाह भगवान्नगराणि सुरद्विषाम् । त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान् ॥ ३॥ एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः । देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः ॥ ४॥ ब्रह्मोवाच । एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तम । सनत्कुमारं प्रोवाच तदेव कथयाम्यहम् ॥ ५॥ सनत्कुमार उवाच । श‍ृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः । यथा ददाह त्रिपुरं बाणेनैकेन विश्वहृत् ॥ ६॥ शिवात्मजेन स्कन्देन निहते तारकासुरे । तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर ॥ ७॥ तारकाक्षस्तु तज्ज्येष्ठो विद्युन्माली च मध्यमः । कमलाक्षः कनीयांश्च सर्वे तुल्यबलाः सदा ॥ ८॥ जितेन्द्रियाः सुसन्नद्धाः संयताः सत्यवादिनः । दृढचित्ता महावीरा देवद्रोहिण एव च ॥ ९॥ ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्भुतम् । त्रयः सर्वान्सुभोगांश्च विहाय सुमनोहरान् ॥ १०॥ वसन्ते सर्वकामांश्च गीतवादित्रनिस्स्वनम् । विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः ॥ ११॥ ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् । तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात् ॥ १२॥ महाप्रतापपतिताःसर्वेऽप्यासन् सुमूर्च्छिताः । वर्षासु गतसन्त्रासा वृष्टिं मूर्द्धन्यधारयन् ॥ १३॥ शरत्काले प्रभूतं तु भोजनं तु बुभुक्षिताः । रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम् ॥ १४॥ संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि । बुभुक्षितेभ्यो दत्त्वा तु बभूवुरुपला इव ॥ १५॥ संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् । हेमन्ते गिरिमाश्रित्य धैर्येण परमेण तु ॥ १६॥ तुषारदेहसञ्छन्ना जलक्लिन्नेन वाससा । आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः ॥ १७॥ अनिर्विण्णास्ततःसर्वे क्रमशोऽवर्द्धयंस्तपः । तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः ॥ १८॥ तप उग्रं समास्थाय नियमे परमे स्थिताः । तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः ॥ १९॥ वर्षाणां शतकं चैव पदमेकं निधाय च । भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः ॥ २०॥ ते सहस्रं तु वर्षाणां वातभक्षाः सुदारुणाः । तपस्तेपुर्दुरात्मानः परं तापमुपागताः ॥ २१॥ वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा । वर्षाणां तु शतेनैव ऊर्ध्वबाहव आस्थिताः ॥ २२॥ एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे । ईदृक् ते संस्थिता दैत्या दिवारात्रमतन्द्रिता ॥ २३॥ एवं तेषां गतः कालो महान् सुतपतां मुने । ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम ॥ २४॥ प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् । सन्तुष्टस्तपसा तेषां वरं दातुं महायशाः ॥ २५॥ मुनिदेवासुरैः सार्द्धं सान्त्वपूर्वमिदं वचः । ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः ॥ २५॥ ब्रह्मोवाच । प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने । सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम् ॥ २७॥ किमर्थं सुतपस्तप्तं कथयध्वं सुरद्विषः । सर्वेषां तपसो दाता सर्वकर्तास्मि सर्वदा ॥ २८॥ सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा शनैस्ते स्वात्मनो गतम् । ऊचुः प्राञ्जलयः सर्वे प्रणिपत्य पितामहम् ॥ २९॥ दैत्या ऊचुः । यदि प्रसन्नो देवेश यदि देयो वरस्त्वया । अवध्यत्वं च सर्वेषां सर्वभूतेषु देहिनः ॥ ३०॥ स्थिरान् कुरु जगन्नाथ पान्तु नः परिपन्थिनः । जरारोगादयः सर्वे नास्मान्मृत्युरगात् क्वचित् ॥ ३१॥ अजराश्चामराः सर्वे भवाम इति नो मतम् । समृत्यवः करिष्यामः सर्वानन्यांस्त्रिलोकके ॥ ३२॥ लक्ष्म्या किं तद्विपुलया किं कार्यं हि पुरोत्तमैः । अन्यैश्च विपुलैर्भोगैः स्थानैश्वर्येण वा पुनः ॥ ३३॥ यत्रैव मृत्युना ग्रस्तो नियतं पञ्चभिर्दिनैः । व्यर्थं तस्याखिलं ब्रह्मन् निश्चितं न इतीव हि ॥ ३४॥ सनत्कुमार उवाच । इति श्रुत्वा वचस्तेषां दैत्यानां च तपस्विनाम् । प्रत्युवाच शिवं स्मृत्वा स्वप्रभुं गिरिशं विधिः ॥ ३५॥ ब्रह्मोवाच । नास्ति सर्वामरत्वं च निवर्तध्वमतोऽसुराः । अन्यं वरं वृणीध्वं वै यादृशो वो हि रोचते ॥ ३६॥ जातो हनिष्यते नूनं जन्तुः कोऽप्यसुराः क्वचित् । अजरश्चामरो लोके न भविष्यति भूतले ॥ ३७॥ ऋते तु खण्डपरशोः कालकालाद्धरेस्तथा । तौ धर्माधर्मपरमावव्यक्तौ व्यक्तरूपिणौ ॥ ३८॥ सम्पीडनाय जगतो यदि स क्रियते तपः । सफलं तद्गतं वेद्यं तस्मात्सुविहितं तपः ॥ ३९॥ तद्विचार्य स्वयं बुद्ध्या न शक्यं यत्सुरासुरैः । दुर्लभं वा सुदुस्साध्यं मृत्युं वञ्चयतानघाः ॥ ४०॥ तत्किञ्चिन्मरणे हेतुं वृणीध्वं सत्त्वमाश्रिताः । येन मृत्युर्नैव वृतो रक्षतस्तत्पृथक् पृथक् ॥ ४१॥ सनत्कुमार उवाच । एतद्विधिवचः श्रुत्वा मुहूर्त्तं ध्यानमास्थिताः । प्रोचुस्ते चिन्तयित्वाथ सर्वलोकपितामहम् ॥ ४२॥ दैत्या ऊचुः । भगवन्नास्ति नो वेश्म पराक्रमवतामपि । अधृष्याः शात्रवानां तु यन्न वत्स्यामहे सुखम् ॥ ४३॥ पुराणि त्रीणि नो देहि निर्मायात्यद्भुतानि हि । सर्वसम्पत्समृद्धान्यप्रधृष्याणि दिवौकसाम् ॥ ४४॥ वयं पुराणि त्रीण्येवं समास्थाय महीमिमाम् । चरिष्यामो हि लोकेश त्वत्प्रसादाज्जगद्गुरो ॥ ४५॥ तारकाक्षस्ततः प्राह यदभेद्यं सुरैरपि । करोति विश्वकर्मा तन्मम हेममयं पुरम् ॥ ४६॥ ययाचे कमलाक्षस्तु राजतं सुमहत्पुरम् । विद्युन्माली च संहृष्टो वज्रायसमयं महत् ॥ ४७॥ पुरेष्वेतेषु भो ब्रह्मन्नेकस्थानस्थितेषु च । मध्याह्नाभिजिते काले शीतांशौ पुष्य संस्थिते ॥ ४८॥ उपर्युपर्यदृष्टेषु व्योम्नि लीलाभ्रसंस्थिते । वर्षत्सु कालमेघेषु पुष्करावर्तनामसु ॥ ४९॥ तथा वर्षसहस्रान्ते समेष्यामः परस्परम् । एकीभावं गमिष्यन्ति पुराण्येतानि नान्यथा ॥ ५०॥ सर्वदेवमयो देवः सर्वेषां मे कुहेलया । असम्भवे रथे तिष्ठन् सर्वोपस्करणान्विते ॥ ५१॥ असम्भाव्यैककाण्डेन भिनत्तु नगराणि नः । निर्वैरः कृत्तिवासास्तु योऽस्माकमिति नित्यशः ॥ ५२॥ वन्द्यः पूज्योऽभिवाद्यश्च सोस्माकं निर्दहेत्कथम् । इति चेतसि सन्धाय तादृशो भुवि दुर्लभः ॥ ५३॥ सनत्कुमार उवाच । एतच्छ्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः । एवमस्त्विति तान् प्राह सृष्टिकर्ता स्मरन् शिवम् ॥ ५४॥ आज्ञां ददौ मयस्यापि कुरु त्वं नगरत्रयम् । काञ्चनं राजतं चैव आयसं चेति भो मय ॥ ५५॥ इत्यादिश्य मयं ब्रह्मा प्रत्यक्षं प्राविशद्दिवम् । तेषां तारकपुत्राणां पश्यतां निजधाम हि ॥ ५६॥ ततो मयश्च तपसा चक्रे धीरः पुराण्यथ । काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम् ॥ ५७॥ विद्युन्माल्यायसं चैव त्रिविधं दुर्गमुत्तमम् । स्वर्गे व्योम्नि च भूमौ च क्रमाज्ज्ञेयानि तानि वै ॥ ५८॥ दत्त्वा तेभ्योऽसुरेभ्यश्च पुराणि त्रीणि वै मयः । प्रविवेश स्वयं तत्र हितकामपरायणः ॥ ५९॥ एवं पुरत्रयं प्राप्य प्रविष्टास्तारकात्मजाः । बुभुजुः सकलान्भोगान्महाबलपराक्रमाः ॥ ६०॥ कल्पद्रुमैश्च सङ्कीर्णं गजवाजिसमाकुलम् । नानाप्रासादसङ्कीर्णं मणिजालसमावृतम् ॥ ६१॥ सूर्यमण्डलसङ्काशैर्विमानैः सर्वतोमुखैः । पद्मरागमयैश्चैव शोभितं चन्द्रसन्निभैः ॥ ६२॥ प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः । दिव्यस्त्रीजनसङ्कीर्णैर्गन्धर्वस्सिद्धचारणैः ॥ ६३॥ रुद्रालयैः प्रतिगृहमग्निहोत्रैः प्रतिष्ठितैः । द्विजोत्तमैः शास्त्रविज्ञैः शिवभक्तिरतैः सदा ॥ ६४॥ वापीकूपतडागैश्च दीर्घिकाभिःसुशोभितम् । उद्यानवनवृक्षैश्च स्वर्गच्युतगुणोत्तमैः ॥ ६५॥ नदीनदसरिन्मुख्यपुष्करैः शोभितं सदा । सर्वकामफलाद्यैश्चानेकैर्वृक्षैर्मनोहरम् ॥ ६६॥ मत्तमातङ्गयूथैश्च तुरङ्गैश्च सुशोभनैः । रथैश्च विविधाकारैः शिबिकाभिरलङ्कृतम् ॥ ६७॥ समयादिशिकैश्चैव क्रीडास्थानैः पृथक्पृथक् । वेदाध्ययनशालाभिर्विविधाभिः पृथक्पृथक् ॥ ६८॥ अदृष्टं मनसा वाचा पापान्वितनरैस्सदा । महात्मभिश्शुभाचारैः पुण्यवद्भिः प्रवीक्ष्यते ॥ ६९॥ पतिव्रताभिः सर्वत्र पावितं स्थलमुत्तमम् । पतिसेवनशीलाभिर्विमुखाभिः कुधर्मतः ॥ ७०॥ दैत्यशूरैर्महाभागैः सदारैः ससुतैर्द्विजैः । श्रौतस्मार्तार्थतत्त्वज्ञैः स्वधर्मनिरतैर्युतम् ॥ ७१॥ व्यूढोरस्कैर्वृषस्कन्धैः सामयुद्धधरैः सदा । प्रशान्तैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा ॥ ७२॥ नीलोत्पलदलप्रख्यैर्नीलकुञ्चितमूर्द्धजैः । मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः ॥ ७३॥ वरसमररतैर्युतं समन्ता- दजशिवपूजनया विशुद्धवीर्यैः । रविमरुतमहेन्द्रसन्निकाशैः सुरमथनैः सुदृढैः सुसेवितं यत् ॥ ७४॥ शास्त्रवेदपुराणेषु ये ये धर्माः प्रकीर्तिताः । शिवप्रियाःसदा देवास्ते धर्मास्तत्र सर्वतः ॥ ७५॥ एवं लब्धवरास्ते तु दैतेयास्तारकात्मजाः । शैवं मयमुपाश्रित्य निवसन्ति स्म तत्र ह ॥ ७६॥ सर्वं त्रैलोक्यमुत्सार्य प्रविश्य नगराणि ते । कुर्वन्ति स्म महद्राज्यं शिवमार्गरताः सदा ॥ ७७॥ ततो महान् गतः कालो वसतां पुण्यकर्मणाम् । यथासुखं यथाजोषं सद्राज्यं कुर्वतां मुने ॥ ७८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं नाम प्रथमोऽध्यायः ॥ २.५.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२. द्वितीयोऽध्यायः । देवस्तुति ।

व्यास उवाच । ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर । ततः किमभवद्देवाः कथं च सुखिनोऽभवन् ॥ १॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः । सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ २॥ सनत्कुमार उवाच । अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा । सम्मन्त्र्य दुःखिताः सर्वे ब्रह्माणं शरणं ययुः ॥ ३॥ नत्वा पितामहं प्रीत्या परिक्षिप्याखिलाः सुराः । दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः ॥ ४॥ देवा ऊचुः । धातस्त्रिपुरनाथेन सतारकसुतेन हि । सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः ॥ ५॥ अतस्ते शरणं याता दुःखिता हि विधे वयम् । कुरु त्वं तद्वधोपायं सुखिनः स्याम तद्यथा ॥ ६॥ सनत्कुमार उवाच । इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः । प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान् ॥ ७॥ ब्रह्मोवाच । न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः । आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति ॥ ८॥ मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति । तथापि पुण्यं वर्द्धेत नगरे त्रिपुरे पुनः ॥ ९॥ शिवं च प्रार्थयध्वं वै सर्वे देवाः सवासवाः । सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति ॥ १०॥ सनत्कुमार उवाच । इत्याकर्ण्य विधेर्वाणीं सर्वे देवाः सवासवाः । दुःखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः ॥ ११॥ प्रणम्य भक्त्या देवेशं सर्वे प्राञ्जलयस्तदा । तुष्टुवुर्विनतस्कन्धाः शङ्करं लोकशङ्करम् ॥ १२॥ देवा ऊचुः । नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने । नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥ १३॥ नमो हरस्वरूपाय भूतसंहारकारिणे । निर्गुणाय नमस्तुभ्यं शिवायामिततेजसे ॥ १४॥ अवस्थारहितायाथ निर्विकाराय वर्चसे । महाभूतात्मभूताय निर्लिप्ताय महात्मने ॥ १५॥ नमस्ते भूतपतये महाभारसहिष्णवे । तृष्णाहराय निर्वैराकृतये भूरितेजसे ॥ १६॥ महादैत्यमहारण्यनाशिने दाववह्नये । दैत्यद्रुमकुठाराय नमस्ते शूलपाणये ॥ १७॥ महादनुजनाशाय नमस्ते परमेश्वर । अम्बिकापतये तुभ्यं नमः सर्वास्त्रधारक ॥ १८॥ नमस्ते पार्वतीनाथ परमात्मन्महेश्वर । नीलकण्ठाय रुद्राय नमस्ते रुद्ररूपिणे ॥ १९॥ नमो वेदान्तवेद्याय मार्गातीताय ते नमः । नमो गुणस्वरूपाय गुणिने गुणवर्जिते ॥ २०॥ महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च । प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः ॥ २१॥ सङ्कर्षणाय देवाय नमस्ते कंसनाशिने । चाणूरमर्दिने तुभ्यं दामोदर विषादिने ॥ २२॥ हृषीकेशाच्युत विभो मृड शङ्कर ते नमः । अधोक्षज गजाराते कामारे विषभक्षण ॥ २३॥ नारायणाय देवाय नारायणपराय च । नारायणस्वरूपाय नाराणयतनूद्भव ॥ २४॥ नमस्ते सर्वरूपाय महानरकहारिणे । पापापहारिणे तुभ्यं नमो वृषभवाहन ॥ २५॥ क्षणादिकालरूपाय स्वभक्तबलदायिने । नानारूपाय रूपाय दैत्यचक्रविमर्दिने ॥ २६॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च ॥ २७॥ धर्मरूपाय सत्त्वाय नमः सत्त्वात्मने हर । वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥ २८॥ नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः । सदाचाराध्वगम्याय सदाचाराध्वगामिने ॥ २९॥ विष्टरश्रवसे तुभ्यं नमः सत्यमयाय च । सत्यप्रियाय सत्याय सत्यगम्याय ते नमः ॥ ३०॥ नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः । ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च ॥ ३१॥ तपसे ते नमस्त्वीश तपसा फलदायिने । स्तुत्याय स्तुतये नित्यं स्तुतिसम्प्रीतचेतसे ॥ ३२॥ श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च । चतुर्विधस्वरूपाय जलस्थलजरूपिणे ॥ ३३॥ सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः । देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः ॥ ३४॥ सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् । श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः ॥ ३५॥ शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह । क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान् ॥ ३६॥ वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शङ्कर । मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान् ॥ ३७॥ उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर । कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा ॥ ३८॥ भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि । पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु सम्मतः ॥ ३९॥ शालग्रामशिला च त्वं शिलासु वृषभध्वज । पूज्यरूपेषु सर्वेषु नर्मदालिङ्गमेव हि ॥ ४०॥ नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर । वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान् ॥ ४१॥ प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् । भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च ॥ ४२॥ प्रणवो बीजमन्त्राणां दारुणानां विषं भवान् । व्योमव्याप्तिमतां त्वं वै परमात्मासि चात्मनाम् ॥ ४३॥ इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् । पावनानां जलं चासि जीवनानां तथामृतम् ॥ ४४॥ लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि । नित्यकर्मसु सर्वेषु सन्ध्योपास्तिर्भवान्मतः ॥ ४५॥ क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः । पुष्यस्त्वं सर्वधिष्ण्यानाममावास्या तिथिष्वसि ॥ ४६॥ सर्वर्तुषु वसन्तस्त्वं सर्वपर्वसु सङ्क्रमः । कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः ॥ ४७॥ योगेषु च व्यतीपातःसोमवल्ली लतासु च । बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान् ॥ ४८॥ साधकानां शुचीनां त्वं प्राणायामो महेश्वर । ज्योतिर्लिङ्गेषु सर्वेषु भवान् विश्वेश्वरो मतः ॥ ४९॥ धर्मस्त्वं सर्वबन्धूनामाश्रमाणां परो भवान् । मोक्षस्त्वं सर्ववर्गेषु रुद्राणां नीललोहितः ॥ ५०॥ आदित्यानां वासुदेवो हनूमान्वानरेषु च । यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान् ॥ ५१॥ गन्धर्वाणां चित्ररथो वसूनां पावको ध्रुवम् । मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी ॥ ५२॥ ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः । अनन्तस्त्वं हि नागानां पितॄणामर्यमा भवान् ॥ ५३॥ कालः कलयतां च त्वं दैत्यानां बलिरेव च । किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत् ॥ ५४॥ एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च ॥ ५५॥ सनत्कुमार उवाच । इति स्तुत्वा सुराः सर्वे महादेवं वृषध्वजम् । स्तोत्रैर्नानाविधैर्दिव्यैः शूलिनं परमेश्वरम् ॥ ५६॥ प्रत्यूचुः प्रस्तुतं दीनाः स्वार्थं स्वार्थविचक्षणाः । वासवाद्या नतस्कन्धाः कृताञ्जलिपुटा मुने ॥ ५७॥ देवा ऊचुः । पराजिता महादेव भ्रातृभ्यां सहितेन तु । भगवंस्तारकोत्पन्नैः सर्वे देवाः सवासवाः ॥ ५८॥ त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः । विध्वस्ताः सर्वसंसिद्धाः सर्वमुत्सादितं जगत् ॥ ५९॥ यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः । प्रवर्तितो ह्यधर्मस्तैरृषीणां च निवारितः ॥ ६०॥ अवध्याः सर्वभूतानां नियतं तारकात्मजाः । तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शङ्कर ॥ ६१॥ यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः । तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत् ॥ ६२॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् । शिवः सम्भाषमाणानां प्रतिवाक्यमुवाच सः ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे देवस्तुतिर्नाम द्वितीयोऽध्यायः ॥ २.५.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३. तृतीयोऽध्यायः । त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनम् ।

शिव उवाच । अयं वै त्रिपुराध्यक्षः पुण्यवान्वर्ततेऽधुना । यत्र पुण्यं प्रवर्तेत न हन्तव्यो बुधैः क्वचित् ॥ १॥ जानामि देवकष्टं च विबुधाः सकलं महत् । दैत्यास्ते प्रबला हन्तुमशक्यास्तु सुरासुरैः ॥ २॥ पुण्यवन्तस्तु ते सर्वे समयास्तारकात्मजाः । दुस्साध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम् ॥ ३॥ मित्रद्रोहं कथं जानन्करोमि रणकर्कशः । सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयम्भुवा ॥ ४॥ ब्रह्मघ्ने च सुरापे च स्तेये भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ५॥ मम भक्तास्तु ते दैत्या मया वध्याः कथं सुराः । विचार्यतां भवद्भिश्च धर्मज्ञैरेव धर्मतः ॥ ६॥ तावत्ते नैव हन्तव्या यावद्भक्तिकृतश्च मे । तथापि विष्णवे देवा निवेद्यं कारणं त्विदम् ॥ ७॥ सनत्कुमार उवाच । इत्येवं तद्वचः श्रुत्वा देवाः शक्रपुरोगमाः । न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने ॥ ८॥ ततो विधिं पुरस्कृत्य सर्वे देवाः सवासवाः । वैकुण्ठं प्रययुः शीघ्रं सर्वे शोभासमन्वितम् ॥ ९॥ तत्र गत्वा हरिं दृष्ट्वा प्रणेमुर्जातसम्भ्रमाः । तुष्टुवुश्च महाभक्त्या कृताञ्जलिपुटाः सुराः ॥ १०॥ स्वदुःखकारणं सर्वं पूर्ववत्तदनन्तरम् । न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे ॥ ११॥ देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालयैः । ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत् ॥ १२॥ विष्णुरुवाच । इदं सत्यं वचश्चैव यत्र धर्मः सनातनः । तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः ॥ १३॥ सनत्कुमार उवाच । इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः । पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः ॥ १४॥ देवा ऊचुः । कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते । कथं भवेम सुखिनः कथं स्थास्यामहे वयम् ॥ १५॥ कथं धर्मा भविष्यन्ति त्रिपुरे जीविते सति । देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः ॥ १६॥ किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् । नो चेदकालिकी देवसंहतिः क्रियतां ध्रुवम् ॥ १७॥ सनत्कुमार उवाच । इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः । स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह ॥ १८॥ तान्वै तथाविधान्दृष्ट्वा हीनान्विनयसंयुतान् । सोऽपि नारायणः श्रीमांश्चिन्तयंश्चेतसा तथा ॥ १९॥ किं कार्यं देवकार्येषु मया देवसहायिना । शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति ॥ २०॥ इति सञ्चिन्त्य तत्काले विष्णुना प्रभविष्णुना । ततो यज्ञाः स्मृतास्तेन देवकार्यार्थमक्षयाः ॥ २१॥ तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् । आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः ॥ २२॥ ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् । प्रणम्य तुष्टुवुस्ते वै कृताञ्जलिपुटास्तदा ॥ २३॥ भगवानपि तान्दृष्ट्वा यज्ञान्प्राह सनातनान् । सनातनस्तदा सेन्द्रान्देवानालोक्य चाच्युतः ॥ २४॥ विष्णुरुवाच । अनेनैव सदा देवा यजध्वं परमेश्वरम् । पुरत्रयविनाशाय जगत्त्रयविभूतये ॥ २५॥ सनत्कुमार उवाच । अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः । प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः ॥ २६॥ एवं स्तुत्वा ततो देवा अयजन्यज्ञपूरुषम् । यज्ञोक्तेन विधानेन सम्पूर्णविधयो मुने ॥ २७॥ ततस्तस्माद्यज्ञकुण्डात्समुत्पेतुः सहस्रशः । भूतसङ्घा महाकायाः शूलशक्तिगदायुधाः ॥ २८॥ ददृशुस्ते सुरास्तान् वै भूतसङ्घान् सहस्रशः । शूलशक्तिगदाहस्तान्दण्डचापशिलायुधान् ॥ २९॥ नानाप्रहरणोपेतान् नानावेषधराँस्तथा । कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा ॥ ३०॥ दृष्ट्वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् । भूतान्यज्ञपतिः श्रीमान् रुद्राज्ञाप्रतिपालकः ॥ ३१॥ विष्णुरुवाच । भूताः श‍ृणुत मद्वाक्यं देवकार्यार्थमुद्यताः । गच्छन्तु त्रिपुरं सद्यः सर्वे हि बलवत्तराः ॥ ३२॥ गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् । पुनर्यथागता भूतागन्तुमर्हथ भूतये ॥ ३३॥ सनत्कुमार उवाच । तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते । प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम् ॥ ३४॥ गत्वा तत्प्रविशन्तश्च त्रिपुराधिपतेजसि । भस्मसादभवन्सद्यः शलभा इव पावके ॥ ३५॥ अवशिष्टाश्च ये केचित्पलायनपरायणाः । निस्सृत्यारं समायाता हरेर्निकटमाकुलाः ॥ ३६॥ तान्दृष्ट्वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः । चिन्तयामास भगवान्मनसा पुरुषोत्तमः ॥ ३७॥ किं कृत्यमधुना कार्यमिति सन्तप्तमानसः । सन्तप्तानमरान्सर्वानाज्ञाय च सवासवान् ॥ ३८॥ कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् । देवकार्यं करिष्यामीत्यासीच्चिन्तासमाकुलः ॥ ३९॥ नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः । इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत् ॥ ४०॥ दैत्याश्च ते हि धर्मिष्ठाःसर्वे त्रिपुरवासिनः । तस्मादवध्यतां प्राप्ता नान्यथासुरपुङ्गवाः ॥ ४१॥ कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयन्ति ते । मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा ॥ ४२॥ रुद्राभ्यर्चनतो देवाः सर्वे कामा भवन्ति हि । नानोपभोगसम्पत्तिर्वश्यतां याति वै भुवि ॥ ४३॥ तस्मात्तद्भोगिनो दैत्या लिङ्गार्चनपरायणाः । अनेकविधसम्पत्तेर्मोक्षस्यापि परत्र च ॥ ४४॥ ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया । दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात् ॥ ४५॥ विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः । कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम् ॥ ४६॥ यावच्च वेदधर्मास्तु यावद्वै शङ्करार्चनम् । यावच्च शुचिकृत्यानि तावन्नाशो भवेन्न हि ॥ ४७॥ तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् । त्यक्तलिङ्गार्चना दैत्या भविष्यन्ति न संशयः ॥ ४८॥ इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा । तेषां धर्मस्य दैत्यानामुपायं श्रुतिखण्डनम् ॥ ४९॥ तदैवोवाच देवान्स विष्णुर्देवसहायकृत् । शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे ॥ ५०॥ विष्णुरुवाच । हे देवाः सकला यूयं गच्छत स्वगृहान्ध्रुवम् । देवकार्यं करिष्यामि यथामति न संशयः ॥ ५१॥ तान्रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः । स्वभक्तिरहितान् ज्ञात्वा तान्करिष्यामि भस्मसात् ॥ ५२॥ सनत्कुमार उवाच । तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने । स्वस्वधामानि विश्वस्ता ययुः परममोदिताः ॥ ५३॥ ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् । तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम् ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ॥ २.५.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४. चतुर्थोऽध्यायः । सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानम् ।

सनत्कुमार उवाच । असृजच्च महातेजाः पुरुषं स्वात्मसम्भवम् । एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥ १॥ मुण्डिनं म्लानवस्त्रं च गुम्फिपात्रसमन्वितम् । दधानं पुञ्जिकां हस्ते चालयन्तं पदे पदे ॥ २॥ वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा । धर्मेति व्याहरन्तं हि वाचा विक्लवया मुनिम् ॥ ३॥ स नमस्कृत्य विष्णुं तं तत्पुरः संस्थितोऽथ वै । उवाच वचनं तत्र हरिं स प्राञ्जलिस्तदा ॥ ४॥ अरिहन्नच्युतं पूज्यं किं करोमि तदादिश । कानि नामानि मे देव स्थानं वापि वद प्रभो ॥ ५॥ इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः । प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ॥ ६॥ विष्णुरुवाच । यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते । मदङ्गज महाप्राज्ञ मद्रूपस्त्वं न संशयः ॥ ७॥ ममाङ्गाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि । मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ॥ ८॥ अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च । स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ॥ ९॥ मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् । श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् ॥ १०॥ अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा । रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥ ११॥ ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति । माया च विविधा शीघ्रं त्वदधीना भविष्यति ॥ १२॥ तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः । नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ॥ १३॥ मुण्ड्युवाच । यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो । त्वदाज्ञयाखिलं कर्म सफलं च भविष्यति ॥ १४॥ सनत्कुमार उवाच । इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा । इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ॥ १५॥ तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदाम्बुजम् । मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥ १६॥ कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः । मदाज्ञया न दोषस्ते भविष्यति महामते ॥ १७॥ धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः । अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ॥ १८॥ गन्तुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् । तमोधर्मं सम्प्रकाश्य नाशयस्व पुरत्रयम् ॥ १९॥ ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो । स्थातव्यं च स्वधर्मेण कलिर्यावत्समाव्रजेत् ॥ २०॥ प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् । शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ॥ २१॥ मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् । मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ॥ २२॥ एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना । शासनाद्देवदेवस्य हृदा त्वन्तर्दधे हरिः ॥ २३॥ ततस्समुण्डी परिपालयन्हरे- राज्ञां तथा निर्मितवांश्च शिष्यान् । यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ॥ २४॥ यथा स्वयं तथा ते च चत्वारो मुण्डिनः शुभाः । नमस्कृत्य स्थितास्तत्र हरये परमात्मने ॥ २५॥ हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् । उवाच परमप्रीतः शिवाज्ञापरिपालकः ॥ २६॥ यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया । धन्याः स्थ सद्गतिमिह सम्प्राप्स्यथ न संशयः ॥ २७॥ चत्वारो मुण्डिनस्तेऽथ धर्मं पाषण्डमाश्रिताः । हस्ते पात्रं दधानाश्च तुण्डवस्त्रस्य धारकाः ॥ २८॥ मलिनान्येव वासांसि धारयन्तो ह्यभाषिणः । धर्मो लाभः परं तत्त्वं वदन्तस्त्वतिहर्षतः ॥ २९॥ मार्जनीं ध्रियमाणाश्च वस्त्रखण्डविनिर्मिताम् । शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ॥ ३०॥ ते सर्वे च तदा देवं भगवन्तं मुदान्विताः । नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ॥ ३१॥ हरिणा च तदा हस्ते धृत्वा च गुरवेऽर्पिताः । अभ्यधायि च सुप्रीत्या तन्नामानि विशेषतः ॥ ३२॥ यथा त्वं च तथैवैते मदीया वै न संशयः । आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३॥ ऋषिर्यतिस्तथाकीर्य उपाध्याय इति स्वयम् । इमान्यपि तु नामानि प्रसिद्धानि भवन्तु वः ॥ ३४॥ ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः । अरिहन्निति तन्नाम ध्येयं पापप्रणाशनम् ॥ ३५॥ भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् । लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः ॥ ३६॥ सनत्कुमार उवाच । ततः प्रणम्य तं मायी शिष्ययुक्तःस्वयं तदा । जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा ॥ ३७॥ प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी । महामायाविना तेन ऋषिर्मायां तदाकरोत् ॥ ३८॥ नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितिं तदा । मायां प्रवर्तयामास मायिनामपि मोहिनीम् ॥ ३९॥ शिवार्चनप्रभावेण तन्माया सहसा मुने । त्रिपुरे न चचालाशु निर्विण्णोऽभूत्तदा यतिः ॥ ४०॥ अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु । नष्टोत्साहो विचेतस्को हृदयेन विदूयता ॥ ४१॥ तत्स्मृतस्त्वरितं विष्णुःसस्मार शङ्करं हृदि । प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम् ॥ ४२॥ स्मृतमात्रेण विष्णोश्च नारदः समुपस्थितः । नत्वा स्तुत्वा पुरस्तस्य स्थितोऽभूत्साञ्जलिस्तदा ॥ ४३॥ अथ तं नारदं प्राह विष्णुर्मतिमतां वरः । लोकोपकारनिरतो देवकार्यकरः सदा ॥ ४४॥ शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् । ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ॥ ४५॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः । गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः ॥ ४६॥ नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः । प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥ ४७॥ ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ । क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत् ॥ ४८॥ नारद उवाच । कश्चित्समागतश्चात्र यतिर्धर्मपरायणः । सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः ॥ ४९॥ दृष्ट्वा च बहवो धर्मा नैतेन सदृशाः पुनः । वयं सुदीक्षिताश्चात्र दृष्ट्वा धर्मं सनातनम् ॥ ५०॥ तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम । तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ॥ ५१॥ सनत्कुमार उवाच । तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् । विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः ॥ ५२॥ नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्नुमः । इत्येवं च विदित्वा वै जगाम स्वयमेव ह ॥ ५३॥ तद्रूपं च तदा दृष्ट्वा मोहितो मायया तथा । उवाच वचनं तस्मै नमस्कृत्य महात्मने ॥ ५४॥ त्रिपुराधिप उवाच । दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे । अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः ॥ ५५॥ इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् । प्रत्युवाच सुयत्नेन ऋषिः स च सनातनः ॥ ५६॥ मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम । तदा देया मया दीक्षा नान्यथा कोटियत्नतः ॥ ५७॥ इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् । उवाच वचनं शीघ्रं यतिं तं हि कृताञ्जलिः ॥ ५८॥ दैत्य उवाच । यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा । त्वदाज्ञां नोल्लङ्घयिष्ये सत्यं सत्यं न संशयः ॥ ५९॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा । दूरीकृत्य मुखाद्वस्त्रमुवाच ऋषिसत्तमः ॥ ६०॥ दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् । येन दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ॥ ६१॥ इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् । ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ॥ ६२॥ दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने । सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः ॥ ६३॥ मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद् द्रुतं तदा । महामायाविनस्तत्तु त्रिपुरं सकलं मुने ॥ ६४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्यसंवादे त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ॥ २.५.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५. पञ्चमोऽध्यायः । त्रिपुरमोहनम् ।

व्यास उवाच । दैत्यराजे दीक्षिते च मायिना तेन मोहिते । किमुवाच तदा मायी किं चकार स दैत्यपः ॥ १॥ सनत्कुमार उवाच । दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः । शिष्यैः सेवितपादाब्जो दैत्यराजानमब्रवीत् ॥ २॥ अरिहन्नुवाच । श‍ृणु दैत्यपते वाक्यं मम संज्ञानगर्भितम् । वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ॥ ३॥ अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः । स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ॥ ४॥ ब्रह्मादिस्तम्बपर्यन्तं यावद्देहनिबन्धनम् । आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता ॥ ५॥ यद् ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः । आख्या यथास्मदादीनामरिहन्नादिरुच्यते ॥ ६॥ देहो यथास्मदादीनां स्वकालेन विलीयते । ब्रह्मादिमशकान्तानां स्वकालाल्लीयते तथा ॥ ७॥ विचार्यमाणे देहेऽस्मिन्न किञ्चिदधिकं क्वचित् । आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८॥ निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् । सदृशीमेव सन्तृप्तिं प्राप्नुयान्नाधिकेतराम् ॥ ९॥ यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् । तृषितास्तु तथान्येऽपि न विशेषोऽल्पकोऽधिकः ॥ १०॥ सन्तु नार्यः सहस्राणि रूपलावण्यभूमयः । परं निधुवने काले ह्यैकेवेहोपयुज्यते ॥ ११॥ अश्वाः पराः शताःसन्तु सन्त्वनेकेऽप्यनेकधा । अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ॥ १२॥ पर्यङ्कशायिनां स्वापे सुखं यदुपजायते । तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ॥ १३॥ यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् । ब्रह्मादिकीटकान्तानां तथा मरणतो भयम् ॥ १४॥ सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते । इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ॥ १५॥ धर्मो जीवदयातुल्यो न क्वापि जगतीतले । तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १६॥ एकस्मिन् रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ॥ १७॥ अहिंसा परमो धर्मः पापमात्मप्रपीडनम् । अपराधीनता मुक्तिः स्वर्गोऽभिलषिताशनम् ॥ १८॥ पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् । तस्मान्न हिंसा कर्त्तव्या नरैर्नरकभीरुभिः ॥ १९॥ न हिंसासदृशं पापं त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ॥ २०॥ सन्ति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः । अभीतिसदृशं दानं परमेकमपीह न ॥ २१॥ इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः । विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ २२॥ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् । देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ २३॥ यानि यानीह दानानि बहु मुन्युदितानि च । जीवाभयप्रदानस्य कलां नार्हन्ति षोडशीम् ॥ २४॥ अविचिन्त्यप्रभावं हि मणिमन्त्रौषधं बलम् । तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ॥ २९॥ अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै । परितः परिपूज्यानि किमन्यैरिह पूजितैः ॥ २६॥ पञ्चकर्मेन्द्रियग्रामाः पञ्च बुद्धीन्द्रियाणि च । मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥ २७॥ इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् । सुखं स्वर्गः समाख्यातो दुःखं नरकमेव हि ॥ २८॥ सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्ज्जनम् । अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिन्तकैः ॥ २९॥ वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् । अज्ञानोपरमो मोक्षो विज्ञेयस्तत्त्वचिन्तकैः ॥ ३०॥ प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः । न हिंस्यात्सर्वभूतानि नान्या हिंसाप्रवर्तिका ॥ ३१॥ अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह । न सा प्रमाणं ज्ञातॄणां पश्वालम्भनकारिका ॥ ३२॥ वृक्षांश्छित्वा पशून् हत्वा कृत्वा रुधिरकर्द्दमम् । दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते ॥ ३३॥ इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् । श्रावयित्वाखिलान् पौरानुवाच पुनरादरात् ॥ ३४॥ दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् । बौद्धागमविनिर्दिष्टान्धर्मान्वेदपरांस्ततः ॥ ३५॥ आनन्दं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते । तत्तथैवेह मन्तव्यं मिथ्या नानात्वकल्पना ॥ ३६॥ यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः । यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ॥ ३७॥ अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतः सुखम् । शरीरमपि दातव्यमर्थिभ्योऽतः सुखेप्सुभिः ॥ ३८॥ याचमानमनोवृत्तिप्रीणने यस्य नो जनिः । तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि ॥ ३९॥ सत्वरं गत्वरो देहः सञ्चयाः सपरिक्षयाः । इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ॥ ४०॥ श्ववायसकृमीणां च प्रातर्भोज्यमिदं वपुः । भस्मान्तं तच्छरीरं च वेदे सत्यं प्रपठ्यते ॥ ४१॥ मुधा जातिविकल्पोऽयं लोकेषु परिकल्प्यते । मानुष्ये सति सामान्ये कोऽधमः कोऽथ चोत्तमः ॥ ४२॥ ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः । तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ ॥ ४३॥ मारीचेन कश्यपेन दक्षकन्याः सुलोचनाः । धर्मेण किल मार्गेण परिणीतास्त्रयोदश ॥ ४४॥ अपीदानीन्तनैर्मर्त्यैरल्पबुद्धिपराक्रमैः । अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा ॥ ४५॥ मुखबाहूरुसञ्जातं चातुर्वर्ण्यं सहोदितम् । कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ॥ ४६॥ एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् । चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ॥ ४७॥ वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते । अतो भेदो न मन्तव्यो मानुष्ये केनचित्क्वचित् ॥ ४८॥ सनत्कुमार उवाच । इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने । सशिष्यो वेदधर्मांश्च नाशयामास चादरात् ॥ ४९॥ स्त्रीधर्मं खण्डयामास पातिव्रत्यपरं महत् । जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः ॥ ५०॥ देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च । मखधर्मान् व्रतादींश्च तीर्थश्राद्धं विशेषतः ॥ ५१॥ शिवपूजां विशेषेण लिङ्गाराधनपूर्विकाम् । विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम् ॥ ५२॥ स्नानदानादिकं सर्वं पर्वकाले विशेषतः । खण्डयामास स यतिर्मायी मायाविनां वरः ॥ ५३॥ किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना । वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः ॥ ५४॥ यतिधर्माश्रयाः सर्वा मोहितास्त्रिपुराङ्गनाः । भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ॥ ५५॥ अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि । पुरुषाः सफलीचक्रुः परदारेषु मोहिताः ॥ ५६॥ अन्तः पुरचरा नार्यस्तथा राजकुमारकाः । पौराः पुराङ्गनाश्चापि सर्वे तैश्च विमोहिताः ॥ ५७॥ एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा । पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ॥ ५८॥ माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो । अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ॥ ५९॥ या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वराद्वरात् । बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ॥ ६०॥ बुद्धिमोहं तथाभूतं विष्णोर्मायाविनिर्मितम् । तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः ॥ ६१॥ नारदोऽपि तथारूपो यथा मायी तथैव सः । तथापि विकृतो नाभूत्पारमेशादनुग्रहात् ॥ ६२॥ आसीत्कुण्ठितसामर्थ्यो दैत्यराजोऽपि भो मुने । भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ॥ २.५.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.६. षष्ठोऽध्यायः । शिवस्तुतिवर्णनम् ।

व्यास उवाच । तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते । सनत्कुमार किं चासीत्तदाचक्ष्वाखिलं विभो ॥ १॥ सनत्कुमार उवाच । त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने । स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥ २॥ कृतार्थ इव लक्ष्मीशो देवैः सार्द्धमुमापतिम् । निवेदितुं तच्चरित्रं कैलासमगमद्धरिः ॥ ३॥ तस्योपकण्ठं स्थित्वाऽसौ देवैःसह रमापतिः । ततो भूरि स च ब्रह्मा परमेण समाधिना ॥ ४॥ मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा । तुष्टाव वाग्भिरिष्टाभिः शङ्करं पुरुषोत्तमः ॥ ५॥ विष्णुरुवाच । महेश्वराय देवाय नमस्ते परमात्मने । नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे ॥ ६॥ एवं कृत्वा महादेवं दण्डवत्प्रणिपत्य ह । जजाप रुद्रमन्त्रं च दक्षिणामूर्तिसम्भवम् ॥ ७॥ जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः । संस्मरन् मनसा शम्भुं स्वप्रभुं परमेश्वरम् ॥ ८॥ तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम् ॥ ९॥ देवा ऊचुः । नमःसर्वात्मने तुभ्यं शङ्करायार्तिहारिणे । रुद्राय नीलकण्ठाय चिद्रूपाय प्रचेतसे ॥ १०॥ गतिर्नः सर्वदा त्वं हि सर्वापद्विनिवारकः । त्वमेव सर्वदात्माभिर्वन्द्यो देवारिसूदन ॥ ११॥ त्वमादिस्त्वमनादिश्च स्वानन्दश्चाक्षयः प्रभुः । प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ॥ १२॥ त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि । ब्रह्मा विष्णुर्हरो भूत्वा रजःसत्त्वतमोगुणैः ॥ १३॥ तारकोऽसि जगत्यस्मिन् सर्वेषामधिपोऽव्ययः । वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ॥ १४॥ याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः । हृत्पुण्डरीकविवरे योगिनां त्वं हि संस्थितः ॥ १५॥ वदन्ति वेदास्त्वां सन्तः परब्रह्मस्वरूपिणम् । भवन्तं तत्त्वमित्यद्य तेजोराशिं परात्परम् ॥ १६॥ परमात्मानमित्याहुरस्मिन् जगति यद्विभो । त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव ॥ १७॥ दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो । अणोरल्पतरं प्राहुर्महतोऽपि महत्तरम् ॥ १८॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रवणघ्राणं त्वां नमामि च सर्वतः ॥ १९॥ सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम् । विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः ॥ २०॥ सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम् । कोटि भास्करसङ्काशं त्वां नमामि च सर्वतः ॥ २१॥ विश्वदेवमनाद्यन्तं षट्त्रिंशत्कमनीश्वरम् । प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः ॥ २२॥ प्रवर्तकं च प्रकृतेः सर्वस्य प्रपितामहम् । सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ॥ २३॥ एवं वदन्ति वरदं सर्वावासं स्वयम्भुवम् । श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ॥ २४॥ अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके । त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजङ्गमाश्च ॥ २५॥ पाह्यनन्यगतीन् शम्भो सुरान्नो देववल्लभ । नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ॥ २६॥ मायया मोहितास्तेऽद्य भवतः परमेश्वर । विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ॥ २७॥ सन्त्यक्तसर्वधर्माश्च बौद्धागमसमाश्रिताः । अस्मद्भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल ॥ २८॥ सदा त्वं कार्यकर्त्ता हि देवानां शरणप्रद । वयं ते शरणापन्ना यथेच्छसि तथा कुरु ॥ २९॥ सनत्कुमार उवाच । इति स्तुत्वा महेशानं देवास्तु पुरतः स्थिताः । कृताञ्जलिपुटा दीना आसन् सन्नतमूर्तयः ॥ ३०॥ स्तुतश्चैवं सुरेन्द्राद्यैर्विष्णोर्जाप्येन चेश्वरः । अगच्छत्तत्र सर्वेशो वृषमारुह्य हर्षितः ॥ ३१॥ विष्णुमालिङ्ग्य नन्दिशादवरुह्य प्रसन्नधीः । ददर्श सुदृशा तत्र नन्दीदत्तकरोऽखिलान् ॥ ३२॥ अथ देवान् समालोक्य कृपादृष्ट्या हरिं हरः । प्राह गम्भीरया वाचा प्रसन्नः पार्वतीपतिः ॥ ३३॥ शिव उवाच । ज्ञातं मयेदमधुना देवकार्यं सुरेश्वर । विष्णोर्मायाबलं चैव नारदस्य च धीमतः ॥ ३४॥ तेषामधर्मनिष्ठानां दैत्यानां देवसत्तम । पुरत्रयविनाशं च करिष्येऽहं न संशयः ॥ ३५॥ परन्तु ते महादैत्या मद्भक्ता दृढमानसाः । अथ वध्या मयैव स्युर्व्याजत्यक्तवृषोत्तमाः ॥ ३६॥ विष्णुर्हन्यात्परो वाथ यत्त्याजितवृषाः कृताः । दैत्या मद्भक्तिरहिताः सर्वे त्रिपुरवासिनः ॥ ३७॥ इति शम्भोस्तु वचनं श्रुत्वा सर्वे दिवौकसः । विमनस्का बभूवुस्ते हरिश्चापि मुनीश्वर ॥ ३८॥ देवान् विष्णुमुदासीनान् दृष्ट्वा च भवकृद्विधिः । कृताञ्जलिपुरः शम्भुं ब्रह्मा वचनमब्रवीत् ॥ ३९॥ ब्रह्मोवाच । न किञ्चिद्विद्यते पापं यस्मात्त्वं योगवित्तमः । परमेशः परब्रह्म सदा देवर्षिरक्षकः ॥ ४०॥ तवैव शासनात्ते वै मोहिताः प्रेरको भवान् । त्यक्तस्वधर्मत्वत्पूजाः परवध्यास्तथापि न ॥ ४१॥ अतस्त्वया महादेव सुरर्षिप्राणरक्षक । साधूनां रक्षणार्थाय हन्तव्या म्लेच्छजातयः ॥ ४२॥ राज्ञस्तस्य न तत्पापं विद्यते धर्मतस्तव । तस्माद्रक्षेद्द्विजान् साधून् कण्टकान् वै विशोधयेत् ॥ ४३॥ एवमिच्छेदिहान्यत्र राजा चेद्राज्यमात्मनः । प्रभुत्वं सर्वलोकानां तस्माद्रक्षस्व माचिरम् ॥ ४४॥ मुनीन्द्रेशास्तथा यज्ञा वेदाः शास्त्रादयोऽखिलाः । प्रजास्ते देवदेवेश ह्यहं विष्णुरपि ध्रुवम् ॥ ४५॥ देवतासार्वभौमस्त्वं सम्राट् सर्वेश्वरः प्रभो । परिवारस्तवैवैष हर्यादि सकलं जगत् ॥ ४६॥ युवराजो हरिस्तेऽज ब्रह्माहं ते पुरोहितः । राजकार्यकरः शक्रस्त्वदाज्ञापरिपालकः ॥ ४७॥ देवा अन्येऽपि सर्वेश तव शासनयन्त्रिताः । स्वस्वकार्यकरा नित्यं सत्यं सत्यं न संशयः ॥ ४८॥ सनत्कुमार उवाच । एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमेश्वरः । प्रत्युवाच प्रसन्नात्मा शङ्करः सुरपो विधिम् ॥ ४९॥ शिव उवाच । हे ब्रह्मन् यद्यहं देवराजः सम्राट् प्रकीर्त्तितः । तत्प्रकारो न मे कश्चिद् गृह्णीयां यमिह प्रभुः ॥ ५०॥ रथो नास्ति महादिव्यस्तादृक् सारथिना सह । धनुर्बाणादिकं चापि सङ्ग्रामे जयकारकम् ॥ ५१॥ यमास्थाय धनुर्बाणान् गृहीत्वा योज्य वै मनः । निहनिष्याम्यहं दैत्यान् प्रबलानपि सङ्गरे ॥ ५२॥ सनत्कुमार उवाच । अद्य सब्रह्मका देवाः सेन्द्रोपेन्द्राः प्रहर्षिताः । श्रुत्वा प्रभोस्तदा वाक्यं नत्वा प्रोचुर्महेश्वरम् ॥ ५३॥ देवा ऊचुः । वयं भवाम देवेश तत्प्रकारा महेश्वर । रथादिकाः तव स्वामिन्सन्नद्धाः सङ्गराय हि ॥ ५४॥ इत्युक्त्वा संहताः सर्वे शिवेच्छामधिगम्य ह । पृथगूचुः प्रसन्नास्ते कृताञ्जलिपुटास्सुराः ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं नाम षष्ठोऽध्यायः ॥ २.५.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.७. सप्तमोऽध्यायः । देवस्तुतिवर्णनम् ।

सनत्कुमार उवाच । एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः । अङ्गीचकार सुप्रीत्या शरण्यो भक्तवत्सलः ॥ १॥ एतस्मिन्नन्तरे देवी पुत्राभ्यां संयुता शिवा । आजगाम मुने तत्र यत्र देवान्वितो हरः ॥ २॥ अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम् । प्रणेमुरतिनम्रास्ते विस्मिता गतसम्भ्रमाः ॥ ३॥ प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् । तूष्णीमासन्नजानन्तस्तदागमनकारणम् ॥ ४॥ अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला । उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥ ५॥ देव्युवाच । क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम् । पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥ ६॥ सनत्कुमार उवाच इत्येवं लोकमात्रा च वाग्भिःसम्बोधितश्शिवः । न ययौ तृप्तिमीशानः पिबन् स्कन्दाननामृतम् ॥ ७॥ न सस्मारागतान् देवान् निजतेजोनिपीडितान् । स्कन्दमालिङ्ग्य चाघ्राय मुमोदाति महेश्वरः ॥ ८॥ जगदम्बाथ तत्रैव सम्मन्त्र्य प्रभुणा च सा । स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥ ९॥ ततः स नन्दी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या । विवेश शम्भुर्भवनं सुलीलः सुरैः समस्तैरभिवन्द्यमानः ॥ १०॥ द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः । तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलाः ॥ ११॥ किं कर्तव्यं क्व गन्तव्यं कः स्यादस्मत्सुखप्रदः । किं तु किन्त्विति सञ्जातं हा हताः स्मेति वादिनः ॥ १२॥ अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः । प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥ १३॥ पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे । ते भाग्यवन्तो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥ १४॥ तस्मिन्नेवान्तरे तेषां श्रुत्वा शब्दाननेकशः । कुम्भोदरो महातेजा दण्डेनाताडयत्सुरान् ॥ १५॥ दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः । अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥ १६॥ इन्द्रस्तु विकलोऽतीव जानुभ्यामवनीं गतः । अन्ये देवर्षयोऽतीव विकलाः पतिता भुवि ॥ १७॥ सर्वे मिलित्वा मुनयः सुराश्च सममाकुलाः । सङ्गता विधिहर्योस्तु समीपं मित्रचेतसोः ॥ १८॥ अहो विधिबलं चैतन्मुनयः कश्यपादयः । वदन्ति स्म तदा सर्वे हरिं लोकभयापहम् ॥ १९॥ अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः । कस्माद्विघ्नमिदं जातमित्यन्ये ह्यतिविस्मिताः ॥ २०॥ इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने । आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥ २१॥ विष्णुरुवाच । हे देवा मुनयः सर्वे मद्वचः श‍ृणुतादरात् । किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥ २२॥ महदाराधनं देवा न सुसाध्यं विचार्यताम् । महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥ विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् । २३॥ शिवः सर्वगणाध्यक्षः सहसा परमेश्वरः । विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥ २४॥ प्रणवं पूर्वमुच्चार्य नमः पश्चादुदाहरेत् । शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥ २५॥ कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः । नमश्च प्रणवश्चैव मन्त्रमेवं सदा बुधाः ॥ २६॥ आवर्तध्वं पुनर्यूयं यदि शम्भुकृते तदा । कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥ २७॥ इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना । तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥ २८॥ सञ्जजाप हरिश्चापि सविधिश्शिवमानसः । देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥ २९॥ मुहुः शिवेति भाषन्तो देवा धैर्यसमन्विताः । कोटिसङ्ख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥ ३०॥ एतस्मिन्नन्तरे साक्षाच्छिवः प्रादुरभूत्स्वयम् । यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत् ॥ ३१॥ श्रीशिव उवाच । हे हरे हे विधे देवा मुनयश्च शुभव्रताः । प्रसन्नोऽस्मि वरं ब्रूत जपेनानेन चेप्सितम् ॥ ३२॥ देवा ऊचुः । यदि प्रसन्नो देवेश जगदीश्वर शङ्कर । सुरान् विज्ञाय विकलान् हन्यन्तां त्रिपुराणि च ॥ ३३॥ रक्षास्मान्परमेशान दीनबन्धो कृपाकर । त्वयैव रक्षिता देवाः सदापद्भ्यो मुहुर्मुहुः ॥ ३४॥ सनत्कुमार उवाच । इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् । विहस्यान्तस्तदा ब्रह्मन्महेशः पुनरब्रवीत् ॥ ३५॥ महेश उवाच । हे हरे हे विधे देवा मुनयश्चाखिला वचः । मदीयं श‍ृणुतादृत्य नष्टं मत्वा पुरत्रयम् ॥ ३६॥ रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् । पूर्वमङ्गीकृतं सर्वमुपपादयताचिरम् ॥ ३७॥ हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् । सर्वसंराट्प्रकारं मे कर्तुमर्हसि यत्नतः ॥ ३८॥ नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत । करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने ॥ ३९॥ अयं मन्त्रो महापुण्यो मत्प्रीतिजनकः शुभः । भुक्तिमुक्तिप्रदःसर्वकामदः शैवकावहः ॥ ४०॥ धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् । अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः ॥ ४१॥ य इमं कीर्तयेन्मन्त्रं शुचिर्भूत्वा सदा नरः । श‍ृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ४२॥ सनत्कुमार उवाच । इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः । सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा ॥ ४३॥ सर्वदेवमयं दिव्यं रथं परमशोभनम् । रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया ॥ ४४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ २.५.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.८. अष्टमोऽध्यायः । रथादियुद्धप्रकारवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते । अद्भुतेयं कथा तात श्राविता परमेशितुः ॥ १॥ इदानीं रथनिर्माणं ब्रूहि देवमयं परम् । शिवार्थं यत्कृतं दिव्यं धीमता विश्वकर्मणा ॥ २॥ सूत उवाच । इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः । सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ३॥ सनत्कुमार उवाच । श‍ृणु व्यास महाप्राज्ञ रथादेर्निर्मितिं मुने । यथामति प्रवक्ष्येऽहं स्मृत्वा शिवपदाम्बुजम् ॥ ४॥ अथ देवस्य रुद्रस्य निर्मितो विश्वकर्मणा । सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ॥ ५॥ सर्वभूतमयश्चैव सौवर्णः सर्वसम्मतः । रथाङ्गं दक्षिणं सूर्यस्तद्वामं सोम एव च ॥ ६॥ दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् । अरेषु तेषु विप्रेन्द्र आदित्या द्वादशैव तु ॥ ९॥ शशिनः षोडशारास्तु कला वामस्य सुव्रत । ऋक्षाणि तु तथा तस्य वामस्यैव विभूषणम् ॥ ८॥ ऋतवो नेमयः षट् च तयोर्वै विप्रपुङ्गव । पुष्करं चान्तरिक्षं वै रथनीडश्च मन्दरः ॥ ९॥ अस्ताद्रिरुदयाद्रिस्तु तावुभौ कूबरौ स्मृतौ । अधिष्ठानं महामेरुराश्रयाः केशराचलाः ॥ १०॥ वेगः संवत्सरास्तस्य अयने चक्रसङ्गमौ । मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः ॥ ११॥ तस्य काष्ठाः स्मृता घोणाश्चाक्षदण्डाः क्षणाश्च वै । निमेषाश्चानुकर्षाश्च ईषाश्चानुलवाः स्मृताः ॥ १२॥ द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ । युगान्तकोटितौ तस्य भ्रमकामदुघौ स्मृतौ ॥ १३॥ ईषादण्डस्तथा व्यक्तं वृद्धिस्तस्यैव नड्वलः । कोणास्तस्याप्यहङ्कारो भूतानि च बलं स्मृतम् ॥ १४॥ इन्द्रियाणि च तस्यैव भूषणानि समन्ततः । श्रद्धा च गतिरस्यैव रथस्य मुनिसत्तम ॥ १५॥ तदानीं भूषणान्येव षडङ्गान्युपभूषणम् । पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः ॥ १६॥ बलाशया वराश्चैव सर्वलक्षणसंयुताः । मन्त्रा घण्टाः स्मृतास्तेषां वर्णपादास्तदाश्रमाः ॥ १७॥ अथो बन्धो ह्यनन्तस्तु सहस्रफणभूषितः । दिशः पादा रथस्यास्य तथा चोपदिशश्च ह ॥ १८॥ पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः । समुद्रास्तस्य चत्वारो रथकम्बलिनःस्मृताः ॥ १९॥ गङ्गाद्याः सरितश्रेष्ठाः सर्वाभरणभूषिताः । चामरासक्तहस्ताग्राः सर्वाः स्त्रीरूपशोभिताः ॥ २०॥ तत्र तत्र कृतस्थानाः शोभयाञ्चक्रिरे रथम् । आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम् ॥ २१॥ लोकालोकाचलस्तस्योपसोपानाः समन्ततः । विषयश्च तथा बाह्यो मानसादिस्तु शोभनः ॥ २२॥ पाशाः समन्ततस्तस्य सर्वे वर्षाचलाः स्मृताः । तलास्तस्य रथस्याऽथ सर्वे तलनिवासिनः ॥ २३॥ सारथिर्भगवान्ब्रह्मा देवा रश्मिधराः स्मृताः । प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् ॥ २४॥ अकारश्च महच्छत्रं मन्दरः पार्श्वदण्डभाक् । शैलेन्द्रः कार्मुकं तस्य ज्या भुजङ्गाधिपः स्वयम् ॥ २५॥ घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी । इषुर्विष्णुर्महातेजास्त्वग्निः शल्यं प्रकीर्तितम् ॥ २६॥ हयास्तस्य तथा प्रोक्ताश्चत्वारो निगमा मुने । ज्योतींषि भूषणं तेषामवशिष्टान्यतः परम् ॥ २७॥ अनीकं विषसम्भूतं वायवो वादकाः स्मृताः । ऋषयो व्यासमुख्याश्च वाहवाहास्तथाभवन् ॥ २८॥ स्वल्पाक्षरैः सम्ब्रवीमि किं बहूक्त्या मुनीश्वर । ब्रह्माण्डे चैव यत्किञ्चिद्वस्तुतद्वै रथे स्मृतम् ॥ २९॥ एवं सम्यक्कृतस्तेन धीमता विश्वकर्मणा । सरथादिप्रकारो हि ब्रह्मविष्ण्वाज्ञया शुभः ॥ ३०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे रथादियुद्धप्रकारवर्णनं नामाष्टमोऽध्यायः ॥ २.५.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.९. नवमोऽध्यायः । शिवयात्रावर्णनम् ।

सनत्कुमार उवाच । ईदृग्विधं महादिव्यं नानाश्चर्यमयं रथम् । सन्नह्य निगमानश्वांस्तं ब्रह्मा प्रार्पयच्छिवम् ॥ १॥ शम्भवेऽसौ निवेद्याधिरोपयामास शूलिनम् । बहुशः प्रार्थ्य देवेशं विष्ण्वादिसुरसम्मतम् ॥ २॥ ततस्तस्मिन् रथे दिव्ये रथप्राकारसंयुते । सर्वदेवमयः शम्भुरारुरोह महाप्रभुः ॥ ३॥ ऋषिभिः स्तूयमानश्च देवगन्धर्वपन्नगैः । विष्णुना ब्रह्मणा चापि लोकपालैर्बभूव ह ॥ ४॥ उपावृतश्चाप्सरसाङ्गणैर्गीतविशारदैः । शुशुभे वरदः शम्भुः स तं प्रेक्ष्य च सारथिम् ॥ ५॥ तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम् । शिरोभिः पतिता भूमौ तुरगा वेदसम्भवाः ॥ ६॥ चचाल वसुधा चेलुः सकलाश्च महीधराः । चकम्पे सहसा शेषोऽसोढा तद्भारमातुरः ॥ ७॥ अथाधः स रथस्यास्य भगवान्धरणीधरः । वृषेन्द्ररूपी चोत्थाय स्थापयामास वै क्षणम् ॥ ८॥ क्षणान्तरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् । रथारूढमहेशस्य सुतेजस्सोढुमक्षमः ॥ ९॥ अभीषुहस्तो भगवानुद्यम्य च हयांस्तदा । स्थापयामास देवस्य वचनाद्वै रथं वरम् ॥ १०॥ ततोऽसौ नोदयामास मनोमारुतरंहसः । ब्रह्मा हयान्वेदमयान्नद्धान् रथवरे स्थितः ॥ ११॥ पुराण्युद्दिश्य वै त्रीणि तेषां खस्थानि तानि हि । अधिष्ठिते महेशे तु दानवानां तरस्विनाम् ॥ १२॥ अथाह भगवान् रुद्रो देवानालोक्य शङ्करः । पशूनामाधिपत्यं मे दध्वं हन्मि ततोऽसुरान् ॥ १३॥ पृथक् पशुत्वं देवानां तथान्येषां सुरोत्तमाः । कल्पयित्वैव वध्यास्ते नान्यथा दैत्यसत्तमाः ॥ १४॥ सनत्कुमार उवाच । इति श्रुत्वा वचस्तस्य देवदेवस्य धीमतः । विषादमगमन्सर्वे पशुत्वं प्रतिशङ्किताः ॥ १५॥ तेषां भावमथ ज्ञात्वा देवदेवोऽम्बिकापतिः । विहस्य कृपया देवान् शम्भुस्तानिदमब्रवीत् ॥ १६॥ शम्भुरुवाच । मा वोऽस्तु पशुभावेऽपि पातो विबुधसत्तमाः । श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ॥ १७॥ यौ वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति । पशुत्वादिति सत्यं वः प्रतिज्ञातं समाहिताः ॥ १८॥ ये चाप्यन्ये करिष्यन्ति व्रतं पाशुपतं मम । मोक्ष्यन्ति ते न सन्देहः पशुत्वात्सुरसत्तमाः ॥ १९॥ नैष्ठिकं द्वादशाब्दं वा तदर्द्धं वर्षकत्रयम् । शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते ॥ २०॥ तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः । पशुत्वान्मोक्ष्यथ तदा यूयमत्र न संशयः ॥ २१॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य महेशस्य परात्मनः । तथेति चाब्रुवन्देवा हरिब्रह्मादयस्तथा ॥ २२॥ तस्माद्वै पशवः सर्वे देवासुरवराः प्रभोः । रुद्रः पशुपतिश्चैव पशुपाशविमोचकः ॥ २३॥ तदा पशुपतीत्येतत्तस्य नाम महेशितुः । प्रसिद्धमभवद् ह्यद्धा सर्वलोकेषु शर्मदम् ॥ २४॥ मुदा जयेति भाषन्तः सर्वे देवर्षयस्तदा । अमुदंश्चाति देवेशो ब्रह्मा विष्णुः परेऽपि च ॥ २५॥ तस्मिंश्च समये यच्च रूपं तस्य महात्मनः । जातं तद्वर्णितुं शक्यं न हि वर्षशतैरपि ॥ २६॥ एवंविधो महेशानो महेशान्यखिलेश्वरः । जगाम त्रिपुरं हन्तुं सर्वेषां सुखदायकः ॥ २७॥ तं देवदेवं त्रिपुरं निहन्तुं तदानु सर्वे तु रविप्रकाशाः । गजैर्हयैस्सिंहवरै रथैश्च वृषैर्ययुस्तेऽमरराजमुख्याः ॥ २८॥ हलैश्च शालैर्मुशलैर्भुशुण्डै- र्गिरीन्द्रकल्पैर्गिरिसन्निभाश्च । नानायुधैः संयुतबाहवस्ते ततो नु हृष्टाः प्रययुः सुरेशाः ॥ २९॥ नानायुधाढ्याः परमप्रकाशा महोत्सवाः शम्भुजयं वदन्तः । ययुः पुरस्तस्य महेश्वरस्य तदेन्द्रपद्मोद्भवविष्णुमुख्याः ॥ ३०॥ जहृषुर्मुनयः सर्वे दण्डहस्ता जटाधराः । ववृषुः पुष्पवर्षाणि खेचरास्सिद्धचारणाः ॥ ३१॥ पुरत्रयं च विप्रेन्द्र व्रजन्सर्वे गणेश्वराः । तेषां सङ्ख्या च कः कर्तुं समर्थो वच्मि कांश्चन ॥ ३२॥ गणेश्वरैर्देवगणैश्च भृङ्गी समावृतः सर्वगणेन्द्रवर्यः । जगाम योगांस्त्रिपुरं निहन्तुं विमानमारुह्य यथा महेन्द्रः ॥ ३३॥ केशो विगतवासश्च महाकेशो महाज्वरः । सोमवल्लीसवर्णश्च सोमपः सनकस्तथा ॥ ३४॥ सोमधृक् सूर्यवर्चाश्च सूर्यप्रेषणकस्तथा । सूर्याक्षः सूरिनामा च सुरः सुन्दर एव च ॥ ३५॥ प्रस्कन्दः कुन्दरश्चण्डः कम्पनश्चातिकम्पनः । इन्द्रश्चेन्द्रजवश्चैव यन्ता हिमकरस्तथा ॥ ३६॥ शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः । सतीजुहः शतास्यश्च रङ्कः कर्पूरपूतनः ॥ ३७॥ द्विशिखस्त्रिशिखश्चैव तथाहङ्कारकारकः । अजवक्त्रोऽष्टवक्त्रश्च हयवक्त्रोऽर्द्धवक्त्रकः ॥ ३८॥ इत्याद्या गणपा वीरा बहवोऽपरिमेयकाः । प्रययुः परिवार्येशं लक्ष्यलक्षणवर्जिताः ॥ ३९॥ समावृत्य महादेवं तदापुस्ते पिनाकिनम् । दग्धुं समर्था मनसा क्षणेन सचराचरम् ॥ ४०॥ दग्धुं जगत्सर्वमिदं समर्थाः किं त्वत्र दग्धुं त्रिपुरं पिनाकी । रथेन किं चात्र शरेण तस्य गणैश्च किं देवगणैश्च शम्भोः ॥ ४१॥ स एव दग्धुं त्रिपुराणि तानि देवद्विषां व्यास पिनाकपाणिः । स्वयं गतस्तत्र गणैश्च सार्द्धं निजैस्सुराणामपि सोऽद्भुतोतिः ॥ ४२॥ किं तत्र कारणं चान्यद्वच्मि ते ऋषिसत्तम । लोकेषु ख्यापनार्थं वै यशः परमलापहम् ॥ ४३॥ अन्यच्च कारणं ह्येतद्दुष्टानां प्रत्ययाय वै । सर्वेष्वपि च देवेषु यस्मान्नान्यो विशिष्यते ॥ ४४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवयात्रावर्णनं नाम नवमोऽध्यायः ॥ २.५.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१०. दशमोऽध्यायः । त्रिपुरदाहवर्णनम् ।

सनत्कुमार उवाच । अथ शम्भुर्महादेवो रथस्थः सर्वसंयुतः । त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम् ॥ १॥ शीर्षं स्थानकमास्थाय सन्धाय च शरोत्तमम् । सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम् ॥ २॥ निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च । अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ॥ ३॥ ततोऽङ्गुष्ठे गणाध्यक्षः स तुदत्यनिशं स्थितः । न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ॥ ४॥ ततोऽन्तरिक्षादश‍ृणोद्धनुर्बाणधरो हरः । मुञ्जकेशो विरूपाक्षो वाचं परमशोभनाम् ॥ ५॥ भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः । पुराणि जगदीशेश साम्प्रतं न हनिष्यति ॥ ६॥ एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् । भद्रकालीं समाहूय ततोऽन्धकनिषूदनः ॥ ७॥ तस्मिन् सम्पूजिते हर्षात्परितुष्टे पुरस्सरे । विनायके ततो व्योम्नि ददर्श भगवान्हरः ॥ ८॥ पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् । यथातथं हि युक्तानि केचिदित्थं वदन्ति ह ॥ ९॥ परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे । अन्यप्रसादतः कार्यसिद्धिर्घटति नेति हि ॥ १०॥ स स्वतन्त्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह । अलक्ष्यः सकलैः स्वामी परमात्मा निरञ्जनः ॥ ११॥ पञ्चदेवात्मकः पञ्चदेवोपास्यः परः प्रभुः । तस्योपास्यो न कोऽप्यस्ति स एवोपास्य आलयम् ॥ १२॥ अथवा लीलया तस्य सर्वं सङ्घटते मुने । चरितं देवदेवस्य वरदातुर्महेशितुः ॥ १३॥ तस्मिंस्थिते महादेवे पूजयित्वा गणाधिपम् । पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ॥ १४॥ एकीभावं मुने तत्र त्रिपुरे समुपागते । बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ॥ १५॥ ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः । जयेति वाचो मुमुचुः स्तुवन्तश्चाष्टमूर्तिकम् ॥ १६॥ अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः । समयोऽपि समायातो दैत्यानां वधकर्मणः ॥ १७॥ तेषां तारकपुत्राणां त्रिपुराणां महेश्वर । देवकार्यं कुरु विभो एकत्वमपि चागतम् ॥ १८॥ यावन्न यान्ति देवेश विप्रयोगं पुराणि वै । तावद्बाणं विमुञ्चस्व त्रिपुरं भस्मसात्कुरु ॥ १९॥ अथ सज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् । पूज्यं पाशुपतास्त्रं स त्रिपुरं समचिन्तयत् ॥ २०॥ अथ देवो महादेवो वरलीलाविशारदः । केनापि कारणेनात्र सावज्ञं तदवैक्षत ॥ २१॥ पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् । समर्थः परमेशानो जानातु च सतां गतिः ॥ २२॥ दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् । अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ॥ २३॥ इति स्तुतोऽमरैः सर्वैर्विष्ण्वादिविधिभिस्तदा । दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ॥ २४॥ मुहूर्तेऽभिजिदाख्ये तु विकृष्य धनुरद्भुतम् । कृत्वा ज्यातलनिर्घोषं नादमत्यन्तदुस्सहम् ॥ २५॥ आत्मनो नाम विश्राव्य समाभाष्य महासुरान् । मार्तण्डकोटिवपुषं काण्डमुग्रो मुमोच ह ॥ २६॥ ददाह त्रिपुरस्थांस्तान्दैत्याँस्त्रीन्विमलापहः । स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ॥ २७॥ ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् । गतानि युगपद्भूमिं त्रीणि दग्धानि भस्मशः ॥ २८॥ दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना । हाहाकारं प्रकुर्वन्तश्शिवपूजाव्यतिक्रमात् ॥ २९॥ तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् । सस्मार स्वप्रभुं देवं शङ्करं भक्तवत्सलम् ॥ ३०॥ भक्त्या परमया युक्तः प्रलपन् विविधा गिरः । महादेवं समुद्वीक्ष्य मनसा तमुवाच सः ॥ ३१॥ तारकाक्ष उवाच । भव ज्ञातोऽसि तुष्टोऽसि यद्यस्मान् सह बन्धुभिः । तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि ॥ ३२॥ दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः । त्वद्भावभाविता बुद्धिर्जाते जाते भवत्विति ॥ ३३॥ इत्येवं विब्रुवन्तस्ते दानवास्तेन वह्निना । शिवाज्ञयाद्भुतं दग्धा भस्मसादभवन्मुने ॥ ३४॥ अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना । शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः ॥ ३५॥ स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये । सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा ॥ ३६॥ भर्तृन्कण्ठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः । काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रान्ताश्च योषितः ॥ ३७॥ अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः । तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना ॥ ३८॥ अविदग्धो विनिर्मुक्तः स्थावरो जङ्गमोऽपि वा । वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम् ॥ ३९॥ अविरुद्धं तु देवानां रक्षितं शम्भुतेजसा । विपत्कालेऽपि सद्भक्तं महेशशरणागतम् ॥ ४०॥ सन्निपातो हि येषां नो विद्यते नाशकारकः । दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते ॥ ४१॥ तस्माद्यत्नः सुसम्भाव्यः सद्भिः कर्तव्य एव हि । गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत् ॥ ४२॥ न संयोगो यथा तेषां भूयात् त्रिपुरवासिनाम् । मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत् ॥ ४३॥ ये पूजयन्तस्तत्रापि दैत्या रुद्रं सबान्धवाः । गाणपत्यं ययुः सर्वे शिवपूजाविधेर्बलात् ॥ ४४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ॥ २.५.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.११. एकादशोऽध्यायः । देवस्तुतिवर्णनम् ।

व्यास उवाच । ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम । किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः ॥ १॥ मयः कुत्र गतोऽदग्धो यतयः कुत्र ते गताः । तत्सर्वं मे समाचक्ष्व यदि शम्भुकथाश्रयम् ॥ २॥ सूत उवाच । व्यासवाक्यं समाकर्ण्य भगवान्भवकृत्सुतः । सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन् ॥ ३॥ सनत्कुमार उवाच । श‍ृणु व्यास महाबुद्धे पाराशर्य्य महेशितुः । चरितं सर्वपापघ्नं लोकलीलानुसारिणः ॥ ४॥ महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसङ्कुले । दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः ॥ ५॥ न किञ्चिदब्रुवन्देवाः सेन्द्रोपेन्द्रादयस्तदा । महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससम्भ्रमाः ॥ ६॥ महाभयङ्करं रौद्रं प्रज्वलन्तं दिशो दश । कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ७॥ भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम् । बिभ्यिरे निखिला देवप्रमुखास्तस्थुरानताः ॥ ८॥ दृष्ट्वानीकं तदा भीतं देवानामृषिपुङ्गवाः । न किञ्चिदूचुः सन्तस्थुः प्रणेमुस्ते समन्ततः ॥ ९॥ अथ ब्रह्मापि सम्भीतो दृष्ट्वा रूपं च शाङ्करम् । तुष्टाव तुष्टहृदयो देवैः सह समाहितः ॥ १०॥ विष्णुना च सभीतेन देवदेवं भवं हरम् । त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम् ॥ ११॥ ब्रह्मोवाच । देवदेव महादेव भक्तानुग्रहकारक । प्रसीद परमेशान सर्वदेवहितप्रद ॥ १२॥ प्रसीद जगतां नाथ प्रसीदानन्ददायक । प्रसीद शङ्कर स्वामिन् प्रसीद परमेश्वर ॥ १३॥ ओङ्काराय नमस्तुभ्यमाकारपरतारक । प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर ॥ १४॥ नानावाच्याय देवाय प्रणतप्रिय शङ्कर । अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर ॥ १५॥ निर्विकाराय नित्याय नित्यतृप्ताय भास्वते । निरञ्जनाय दिव्याय त्रिगुणाय नमोऽस्तु ते ॥ १६॥ सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते । सदाशिवाय शान्ताय महेशाय पिनाकिने ॥ १७॥ सर्वज्ञाय शरण्याय सद्योजाताय ते नमः । वामदेवाय रुद्राय तदाप्यपुरुषाय च ॥ १८॥ अघोराय सुसेव्याय भक्ताधीनाय ते नमः । ईशानाय वरेण्याय भक्तानन्दप्रदायिने ॥ १९॥ रक्ष रक्ष महादेव भीतान्नः सकलामरान् । दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृताः ॥ २०॥ स्तुत्वैवं देवताःसर्वे नमस्कारं पृथक्पृथक् । चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम् ॥ २१॥ अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् । तुष्टाव प्रणतो भूत्वा नतस्कन्धः कृताञ्जलिः ॥ २२॥ ब्रह्मोवाच । भगवन्देवदेवेश त्रिपुरान्तक शङ्कर । त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी ॥ २३॥ सर्वदा मेऽस्तु सारथ्यं तव देवेश शङ्कर । अनुकूलो भव विभो सदा त्वं परमेश्वर ॥ २४॥ सनत्कुमार उवाच । इति स्तुत्वा विधिः शम्भुं भक्तवत्सलमानतः । विरराम नतस्कन्धः कृताञ्जलिरुदारधीः ॥ २५॥ जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् । कृताञ्जलिपुटो भूत्वा तुष्टाव च महेश्वरम् ॥ २६॥ विष्णुरुवाच । देवाधीश महेशान दीनबन्धो कृपाकर । प्रसीद परमेशान कृपां कुरु नतप्रिय ॥ २७॥ निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च । पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च ॥ २८॥ पश्चाद् गुणस्वरूपाय नतो विश्वात्मने नमः । भक्तिप्रियाय शान्ताय शिवाय परमात्मने ॥ २९॥ सदाशिवाय रुद्राय जगतां पतये नमः । त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति ॥ ३०॥ सनत्कुमार उवाच । इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः । सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम् ॥ ३१॥ देवा ऊचुः । देवनाथ महादेव करुणाकर शङ्कर । प्रसीद जगतां नाथ प्रसीद परमेश्वर ॥ ३२॥ प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा । त्वयि भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी ॥ ३३॥ सनत्कुमार उवाच । इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः । प्रत्युवाच प्रसन्नात्मा शङ्करो लोकशङ्करः ॥ ३४॥ शङ्कर उवाच । हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः । मनोऽभिलषितं ब्रूत वरं सर्वे विचारतः ॥ ३५॥ सनत्कुमारः उवाच । इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम । प्रत्यूचुः सर्वदेवाश्च प्रसन्नेनान्तरात्मना ॥ ३६॥ सर्वे देवा ऊचुः । यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया । देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नः सुरान् ॥ ३७॥ यदा दुःखं तु देवानां सम्भवेद्देवसत्तम । तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा ॥ ३८॥ सनत्कुमार उवाच । इत्युक्तो भगवान् रुद्रो ब्रह्मणा हरिणामरैः । युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरन्तरम् ॥ ३९॥ स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम् । यदभीष्टतमं लोके पठतां श‍ृण्वतां सुराः ॥ ४०॥ इत्युक्त्वा शङ्करः प्रीतो देवदुःखहरः सदा । सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ॥ २.५.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१२. द्वादशोऽध्यायः । देवस्तुतिवर्णनम् ।

सनत्कुमार उवाच । एतस्मिन्नन्तरे शम्भुं प्रसन्नं वीक्ष्य दानवः । तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात् ॥ १॥ प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् । कृताञ्जलिर्नतस्कन्धः प्रणनाम पुनस्शिवम् ॥ २॥ अथोत्थाय शिवं दृष्ट्वा प्रेम्णा गद्गदसुस्वरः । तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः ॥ ३॥ मय उवाच । देवदेव महादेव भक्तवत्सल शङ्कर । कल्पवृक्षस्वरूपोऽसि सर्वपक्षविवर्जितः ॥ ४॥ ज्योतीरूपो नमस्तेऽस्तु विश्वरूप नमोऽस्तु ते । नमः पूतात्मने तुभ्यं पावनाय नमो नमः ॥ ५॥ चित्ररूपाय नित्याय रूपातीताय ते नमः । दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः ॥ ६॥ नमः प्रणतसर्वार्तिनाशकाय शिवात्मने । कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमो नमः ॥ ७॥ भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपालवे । तपःसत्फलदात्रे ते शिवाकान्त शिवेश्वर ॥ ८॥ न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर । प्रसन्नो भव सर्वेश पाहि मां शरणागतम् ॥ ९॥ सनत्कुमार उवाच । इत्याकर्ण्य मयोक्तां हि संस्तुतिं परमेश्वरः । प्रसन्नोऽभूद् द्विजश्रेष्ठ मयं प्रोवाच चादरात् ॥ १०॥ शिव उवाच । वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम । मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः ॥ ११॥ सनत्कुमार उवाच । श्रुत्वा शिवं वचः शम्भोः स मयो दानवर्षभः । प्रत्युवाच प्रभुं नत्वा नतस्कन्धः कृताञ्जलिः ॥ १२॥ मय उवाच । देवदेव महादेव प्रसन्नो यदि मे भवान् । वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम् ॥ १३॥ स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा । उपेक्षामन्यजीवेषु खलेषु परमेश्वर ॥ १४॥ कदापि नासुरो भावो भवेन्मम महेश्वर । निर्भयः स्यां सदा नाथ मग्नस्त्वद्भजने शुभे ॥ १५॥ सनत्कुमार उवाच । इति सम्प्रार्थ्यमानस्तु शङ्करः परमेश्वरः । प्रत्युवाच मयं नाथः प्रसन्नो भक्तवत्सलः ॥ १६॥ महेश्वर उवाच । दानवर्षभ धन्यस्त्वं मद्भक्तो निर्विकारवान् । प्रदत्तास्ते वराः सर्वेऽभीप्सिता ये तवाधुना ॥ १७॥ गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि । समेतः परिवारेण निजेन मम शासनात् ॥ १८॥ निर्भयस्तत्र सन्तिष्ठ संहृष्टो भक्तिमान्सदा । कदापि नासुरो भावो भविष्यति मदाज्ञया ॥ १९॥ सनत्कुमार उवाच । इत्याज्ञां शिरसाधाय शङ्करस्य महात्मनः । तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः ॥ २०॥ एतस्मिन्नन्तरे ते वै मुण्डिनश्च समागताः । प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान् ॥ २१॥ कुत्र याम वयं देवाः कर्म किं करवामहे । आज्ञापयत नः शीघ्रं भवदादेशकारकान् ॥ २२॥ कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः । दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता ॥ २३॥ कोटिकल्पानि नरके नो वासस्तु भविष्यति । नोद्धारो भविता नूनं शिवभक्तविरोधिनाम् ॥ २४॥ परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् । तच्छान्तिं कृपया ब्रूत वयं वः शरणागताः ॥ २५॥ सनत्कुमार उवाच । तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयःसुराः । अब्रुवन्मुण्डिनस्तांस्ते स्थितानग्रे कृताञ्जलीन् ॥ २६॥ विष्ण्वादय ऊचुः । न भेतव्यं भवद्भिस्तु मुण्डिनो वै कदाचन । शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ॥ २७॥ युष्माकं भविता नैव कुगतिर्दुःखदायिनी । शिवदासा यतो यूयं देवर्षिहितकारकाः ॥ २८॥ सुरर्षिहितकृच्छम्भुः सुरर्षिहितकृत्प्रियः । सुरर्षिहितकृन्नॄणां कदापि कुगतिर्न हि ॥ २९॥ अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ । कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः ॥ ३०॥ भवद्भिर्मुण्डिनो धीरा गुप्तभावान्ममाज्ञया । तावन्मरुस्थली सेव्या कलिर्यावत्समाव्रजेत् ॥ ३१॥ आगते च कलौ यूयं स्वमतं स्थापयिष्यथ । कलौ तु मोहिता मूढाःसङ्ग्रहीष्यन्ति वो मतम् ॥ ३२॥ इत्याज्ञप्ताः सुरेशैश्च मुण्डिनस्ते मुनीश्वर । नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम् ॥ ३३॥ ततः स भगवान् रुद्रो दग्ध्वा त्रिपुरवासिनः । कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः ॥ ३४॥ स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः । कृत्वामरमहत्कार्यं ससुतोऽन्तरधादथ ॥ ३५॥ ततश्चान्तर्हिते देवे परिवारान्विते शिवे । धनुः शररथाद्यैश्च प्राकारोऽन्तर्द्धिमागमत् ॥ ३६॥ ततो ब्रह्मा हरिर्देवा मुनिगन्धर्वकिन्नराः । नागाः सर्पाश्चाप्सरसः संहृष्टाश्चाथ मानुषाः ॥ ३७॥ स्वं स्वं स्थानं मुदा जग्मुः शंसन्तः शाङ्करं यशः । स्वं स्वं स्थानमनुप्राप्य निर्वृतिं परमां ययुः ॥ ३८॥ एतत्ते कथितं सर्वं चरितं शशिमौलिनः । त्रिपुरक्षयसंसूचि परलीलान्वितं महत् ॥ ३९॥ धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् । स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि ॥ ४०॥ इदं हि परमाख्यानं यः पठेच्छृणुयात्सदा । इह भुक्त्वाखिलान्कामान् अन्ते मुक्तिमवाप्नुयात् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानन्तरदेवस्तुतिमयस्तुतिमुण्डिनिवेशनदेवस्वस्थानगमनवर्णनं नाम द्वादशोऽध्यायः ॥ २.५.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१३. त्रयोदशोऽध्यायः । जलन्धरवधोपाख्याने शक्रजीवनम् ।

व्यास उवाच । भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक । जलन्धरं महादैत्यमवधीच्छङ्करः प्रभुः ॥ १॥ तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः । विस्तारपूर्वकं श‍ृण्वन्कस्तृप्येत्तद्यशोऽमलम् ॥ २॥ सूत उवाच । इत्येवं व्याससम्पृष्टो ब्रह्मपुत्रो महामुनिः । उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ॥ ३॥ सनत्कुमार उवाच । एकदा जीवशक्रौ च भक्त्या परमया मुने । दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ॥ ४॥ अथ गुर्विन्द्रयोर्ज्ञात्वाऽऽगमनं शङ्करः प्रभुः । परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ॥ ५॥ दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिः सताम् । जटाबद्धेन शिरसातिष्ठत्संशोभिताननः ॥ ६॥ अथ तौ गुरुशक्रौ च कुर्वन्तौ गमनं मुदा । आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ७॥ महातेजस्विनं शान्तं जटासम्बद्धमस्तकम् । महाबाहुं महोरस्कं गौरं नयनभीषणम् ॥ ६॥ अथो पुरन्दरोऽपृच्छत्स्वाधिकारेण दुर्मदः । पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शङ्करम् ॥ ९॥ पुरन्दर उवाच । कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः । स्वस्थाने संस्थितः शम्भुः किं वान्यत्र गतः प्रभुः ॥ १०॥ सनत्कुमार उवाच । शक्रेणेत्थं स पृष्टस्तु किञ्चिन्नोवाच तापसः । शक्रः पुनरपृच्छद्वै नोवाच स दिगम्बरः ॥ ११॥ पुनः पुरन्दरोऽपृच्छल्लोकानामधिपेश्वरः । तूष्णीमास महायोगी लीलारूपधरः प्रभुः ॥ १२॥ इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः । नोवाच किञ्चिद्भगवान् शक्रज्ञानपरीक्षया ॥ १३॥ अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः । उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ॥ १४॥ इन्द्र उवाच । रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि । अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५॥ सनत्कुमार उवाच । इत्युदीर्य ततो वज्री सन्निरीक्ष्य क्रुधा हि तम् । हन्तुं दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६॥ पुरन्दरं वज्रहस्तं दृष्ट्वा देवस्सदाशिवः । चकार स्तम्भनं तस्य वज्रपातस्य शङ्करः ॥ १७॥ ततो रुद्रः क्रुधाविष्टः करालाक्षो भयङ्करः । द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८॥ बाहुप्रतिष्टम्भभुवा मन्युनान्तः शचीपतिः । समदह्यत भोगीव मन्त्ररुद्धपराक्रमः ॥ १९॥ दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलन्तं स्वतेजसा । पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ॥ २०॥ कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः । नत्वा च दण्डवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे ॥ २१॥ गुरुरुवाच । नमो देवाधिदेवाय महादेवाय चात्मने । महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२॥ दीननाथाय विभवे नमोऽन्धकनिषूदिने । त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३॥ विरूपाक्षाय रुद्राय बहुरूपाय शम्भवे । विरूपायातिरूपाय रूपातीताय ते नमः ॥ २४॥ यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने । नमस्ते मखरूपाय परकर्मप्रवर्तिने ॥ २५॥ कालान्तकाय कालाय कालभोगिधराय च । नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६॥ नमो ब्रह्मशिरोहन्त्रे ब्रह्मचन्द्र स्तुताय च । ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने ॥ २७॥ त्वमग्निरनिलो व्योम त्वमेवापो वसुन्धरा । त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ॥ २८॥ त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः । मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ॥ २९॥ त्वमेव सर्वलोकेशस्त्वमेव जगदात्मकः । सर्वान्वयः सर्वभिन्नस्त्वमेव प्रकृतेः परः ॥ ३०॥ त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् । सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत् ॥ ३१॥ त्वमेवासि महादेव तमसा हररूपधृक् । लीलया भुवनं सर्वं निखिलं पाञ्चभौतिकम् ॥ ३२॥ त्वद्ध्यानबलतःसूर्यस्तपते विश्वभावन । अमृतं च्यवते लोके शशी वाति समीरणः ॥ ३३॥ त्वद्ध्यानबलतो मेघाश्चाम्बु वर्षन्ति शङ्कर । त्वद्ध्यानबलतः शक्रस्त्रिलोकीं पाति पुत्रवत् ॥ ३४॥ त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः । स्वाधिकारं च कुर्वन्ति चकिता भवतो भयात् ॥ ३५॥ त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः । नाद्रियन्ते सुरान् रुद्र लोकैश्वर्यं च भुञ्जते ॥ ३६॥ त्वत्पादकमलस्यैव सेवनादगमन्पराम् । गतिं योगधनानामप्यगम्यां सर्वदुर्लभाम् ॥ ३७॥ सनत्कुमार उवाच । बृहस्पतिरिति स्तुत्वा शङ्करं लोकशङ्करम् । पादयोः पातयामास तस्येशस्य पुरन्दरम् ॥ ३८॥ पातयित्वा च देवेशमिन्द्रं नतशिरोधरम् । बृहस्पतिरुवाचेदं प्रश्रयावनतश्शिवम् ॥ ३९॥ बृहस्पतिरुवाच । दीनानाथ महादेव प्रणतं तव पादयोः । समुद्धर च शान्तं स्वं क्रोधं नयनजं कुरु ॥ ४०॥ तुष्टो भव महादेव पाहीन्द्रं शरणागतम् । अग्निरेष शमं यातु भालनेत्रसमुद्भवः ॥ ४१॥ सनत्कुमार उवाच । इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः । उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥ ४२॥ महेश्वर उवाच । क्रोधं च निस्सृतं नेत्राद्धारयामि बृहस्पते । कथं हि कञ्चुकीं सर्पः सन्धत्ते नोज्झितां पुनः ॥ ४३॥ सनत्कुमार उवाचु इति श्रुत्वा वचस्तस्य शङ्करस्य बृहस्पतिः ॥ उवाच क्लिष्टरूपश्च भयव्याकुलमानसः । ४४॥ बृहस्पतिरुवाच । हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि । भक्तवत्सलनामेति त्वं सत्यं कुरु शङ्कर ॥ ४५॥ क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि । उद्धर्तः सर्वभक्तानां समुद्धर पुरन्दरम् ॥ ४६॥ सनत्कुमार उवाच । इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् । प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा ॥ ४७॥ शिव उवाच । प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् । इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥ ४८॥ समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा । एनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ ४९॥ सनत्कुमार उवाच् । इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥ भालनेत्रात्समुद्भूतं प्राक्षिपल्लवणाम्भसि । ५०॥ ततश्चान्तर्दधे रुद्रो महालीलाकरः प्रभुः । गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥ ५१॥ यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै । कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥ ५२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽध्यायः ॥ २.५.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१४. चतुर्दशोऽध्यायः । जलन्धरवधोपाख्याने जलन्धरोत्पत्तिविवाहवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोऽस्तु ते । श्रुतेयमद्भुता मेऽद्य कथा शम्भोर्महात्मनः ॥ १॥ क्षिप्ते स्वतेजसि ब्रह्मन्भालनेत्रसमुद्भवे । लवणाम्भसि किं ताताभवत्तत्र वदाशु तत् ॥ २॥ सनत्कुमार उवाच । श‍ृणु तात महाप्राज्ञ शिवलीलां महाद्भुताम् । यच्छ्रुत्वा श्रद्धया भक्तो योगिनां गतिमाप्नुयात् ॥ ३॥ अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् । क्षिप्तं च लवणाम्भोधौ सद्यो बालत्वमाप ह ॥ ४॥ तत्र वै सिन्धुगङ्गायाः सागरस्य च सङ्गमे । रुरोदोच्चैः स वै बालः सर्वलोकभयङ्करः ॥ ५॥ रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः । स्वर्गश्च सत्यलोकश्च तत्स्वनाद् बधिरीकृतः ॥ ६॥ बालस्य रोदनेनैव सर्वे लोकाश्च तत्रसुः । सर्वतो लोकपालाश्च विह्वलीकृतमानसाः ॥ ७॥ किं बहूक्तेन विप्रेन्द्र चचाल सचराचरम् । भुवनं निखिलं तात रोदनात्तच्छिशोर्विभो ॥ ८॥ अथ ते व्याकुलाः सर्वे देवाः समुनयो द्रुतम् । पितामहं लोकगुरुं ब्रह्माणं शरणं ययुः ॥ ९॥ तत्र गत्वा च ते देवा मुनयश्च सवासवाः । प्रणम्य च सुसंस्तुत्य प्रोचुस्तं परमेष्ठिनम् ॥ १०॥ देवा ऊचुः । लोकाधीश सुराधीश भयं नः समुपस्थितम् । तन्नाशय महायोगिन् जातोऽयं ह्यद्भुतो रवः ॥ ११॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तेषां ब्रह्मा लोकपितामहः ॥ गन्तुमैच्छत्ततस्तत्र किमेतदिति विस्मितः । १२॥ ततो ब्रह्मा सुरैस्तातावतरत्सत्यलोकतः । रसां तज्ज्ञातुमिच्छन्स समुद्रमगमत्तदा ॥ १३॥ यावत्तत्रागतो ब्रह्मा सर्वलोकपितामहः । तावत्समुद्रस्योत्सङ्गे तं बालं स ददर्श ह ॥ १४॥ आगतं विधिमालोक्य देवरूप्यथ सागरः । प्रणम्य शिरसा बालं तस्योत्सङ्गे न्यवेशयत् ॥ १५॥ ततो ब्रह्माब्रवीद्वाक्यं सागरं विस्मयान्वितः । जलराशे द्रुतं ब्रूहि कस्यायं शिशुरद्भुतः ॥ १६॥ सनत्कुमार उवाच । ब्रह्मणो वाक्यमाकर्ण्य मुदितः सागरस्तदा । प्रत्युवाच प्रजेशं स नत्वा स्तुत्वा कृताञ्जलिः ॥ १७॥ समुद्र उवाच । भो भो ब्रह्मन्मया प्राप्तो बालकोऽयमजानता । प्रभवं सिन्धुगङ्गायामकस्मात्सर्वलोकप ॥ १८॥ जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्गुरो । जातकोक्तफलं सर्वं विधातर्वक्तुमर्हसि ॥ १९॥ सनत्कुमार उवाच । एवं वदति पाथोधौ स बालः सागरात्मजः । ब्रह्माणमग्रहीत्कण्ठे विधुन्वन्तं मुहुर्मुहुः ॥ २०॥ विधूननं च तस्यैवं सर्वलोककृतो विधेः । पीडितस्य च कालेय नेत्राभ्यामगमज्जलम् ॥ २१॥ कराभ्यामब्धिजातस्य तत्सुतस्य महौजसः । कथञ्चिन्मुक्तकण्ठस्तु ब्रह्मा प्रोवाच सादरम् ॥ २२॥ ब्रह्मोवाच । श‍ृणु सागर वक्ष्यामि तवास्य तनयस्य हि । जातकोक्तफलं सर्वं समाधानरतः खलु ॥ २३॥ नेत्राभ्यां विधृतं यस्मादनेनैव जलं मम । तस्माज्जलन्धरेतीह ख्यातो नाम्ना भवत्वसौ ॥ २४॥ अधुनैवैष तरुणः सर्वशास्त्रार्थपारगः । महापराक्रमो धीरो योद्धा च रणदुर्मदः ॥ २५॥ भविष्यति च गम्भीरः त्वं यथा समरे गुहः । सर्वजेता च सङ्ग्रामे सर्वसम्पद्विराजितः ॥ २६॥ दैत्यानामधिपो बालः सर्वेषां च भविष्यति । विष्णोरपि भवेज्जेता न कुतश्चित्पराभवः ॥ २७॥ अवध्यः सर्वभूतानां विना रुद्रं भविष्यति । यत एष समुद्भूतस्तत्रेदानीं गमिष्यति ॥ २८॥ पतिव्रतास्य भविता पत्नी सौभाग्यवर्द्धिनी । सर्वाङ्गसुन्दरी रम्या प्रियवाक्छीलसागरा ॥ २९॥ सनत्कुमार उवाच । इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् । आमन्त्र्य सरितां नाथं ब्रह्मान्तर्द्धानमन्वगात् ॥ ३०॥ अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा । तमात्मजं समादाय स्वगेहमगमन्मुदा ॥ ३१॥ अपोषयन्महोपायैः स्वबालं मुदितात्मकः । सर्वाङ्गसुन्दरं रम्यं महाद्भुतसुतेजसम् ॥ ३२॥ अथाम्बुधिः समाहूय कालनेमिं महासुरम् । वृन्दाभिधां सुतां तस्य तद्भार्यार्थमयाचत ॥ ३३॥ कालनेम्यसुरो वीरोऽसुराणां प्रवरः सुधीः । साधु मेनेम्बुधेर्याच्ञां स्वकर्मनिपुणो मुने ॥ ३४॥ जलन्धराय वीराय सागरप्रभवाय च । ददौ ब्रह्मविधानेन स्वसुतां प्राणवल्लभाम् ॥ ३५॥ तदोत्सवो महानासीद्विवाहे च तयोस्तदा । सुखं प्रापुर्नदा नद्योऽसुराश्चैवाखिला मुने ॥ ३६॥ समुद्रोऽति सुखं प्राप सुतं दृष्ट्वा हि सस्त्रियम् । दानं ददौ द्विजातिभ्योऽप्यन्येभ्यश्च यथाविधि ॥ ३७॥ ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः । ते हि भूमण्डलं याता निर्भयाः तमुपाश्रिताः ॥ ३८॥ ते कालनेमिप्रमुखास्ततोऽसुराः तस्मै सुतां सिन्धुसुताय दत्त्वा । बभूवुरत्यन्तमुदान्विता हि तमाश्रिता देवविनिर्जयाय ॥ ३९॥ स चापि वीरोऽम्बुधिबालकोऽसौ जलन्धराख्योऽसुरवीरवीरः । सम्प्राप्य भार्यामतिसुन्दरीं वशी चकार राज्यं हि कविप्रभावात् ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने जलन्धरोत्पत्तिविवाहवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.५.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१५. पञ्चदशोऽध्यायः । जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनम् ।

सनत्कुमार उवाच । एकदा वारिधिसुतो वृन्दापतिरुदारधीः । सभार्यः संस्थितो वीरोऽसुरैः सर्वैः समन्वितः ॥ १॥ तत्राजगाम सुप्रीतः सुवर्चास्त्वथ भार्गवः । तेजः पुञ्जो मूर्त इव भासयन्सकला दिशः ॥ २॥ तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् । प्रणेमुः प्रीतमनसः सिन्धुपुत्रोऽपि सादरम् ॥ ३॥ दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः । निषसादासने रम्ये सन्तस्थुस्तेऽपि पूर्ववत् ॥ ४॥ अथ सिन्ध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् । जलन्धरः प्रसन्नोऽभूदनष्टवरशासनः ॥ ५॥ तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् । पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ॥ ६॥ जलन्धर उवाच । केनेदं विहितं राहोः शिरश्च्छेदनकं प्रभो । तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ॥ ७॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः । स्मृत्वा शिवपदाम्भोजं प्रत्युवाच यथार्थवत् ॥ ८॥ शुक्र उवाच । जलन्धर महावीर सर्वासुरसहायक । श‍ृणु वृत्तान्तमखिलं यथावत्कथयामि ते ॥ ९॥ पुराऽभवद् बलिर्वीरो विरोचनसुतो बली । हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तम ॥ १०॥ पराजिताः सुरास्तेन रमेशं शरणं ययुः । सवासवाः स्ववृत्तान्तमाचख्युः स्वार्थसाधकाः ॥ ११॥ तदाज्ञयाऽसुरैः सार्द्धं चक्रुः सन्धिमथो सुराः । स्वकार्यसिद्धये तात छलकर्मविचक्षणाः ॥ १२॥ अथामृतार्थे सिन्धोश्च मन्थनं चक्रुरादरात् । विष्णोः सहायिनस्ते हि सुराः सर्वेऽसुरैस्सह ॥ १३॥ ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः । जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ॥ १४॥ ततः पराभवं चक्रुरसुराणां सहायतः । विष्णोः सुराः सशक्रास्तेऽमृतपानाद्बलान्विताः ॥ १५॥ शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः । राहोर्देवसभायां वै पक्षपाती हरेस्सदा ॥ १६॥ सनत्कुमार उवाच । एवं कविस्तस्य शिरश्छेदं राहोः शशंस च । अमृतार्थे समुद्रस्य मन्थनं देवकारितम् ॥ १७॥ रत्नोपहरणं चैव दैत्यानां च पराभवम् । देवैरमृतपानं च कृतं सर्वं च विस्तरात् ॥ १८॥ तदाकर्ण्य महावीरोऽम्बुधिबालः प्रतापवान् । चुक्रोध क्रोधरक्ताक्षः स्वपितुर्मन्थनं तदा ॥ १९॥ अथ दूतं समाहूय घस्मराभिधमुत्तमम् । सर्वं शशंस चरितं यदाह गुरुरात्मवान् ॥ २०॥ अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ । सम्मान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ॥ २१॥ दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः । घस्मरोऽम्बुधिबालस्य सर्वदेवसमन्वितम् ॥ २२॥ तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् । गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ॥ २३॥ घस्मर उवाच । जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः । सुप्रतापी महावीरः स्वयं कविसहायवान् ॥ २४॥ दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः । प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ॥ २५॥ अव्याहताज्ञः सर्वत्र जलन्धर उदग्रधीः । निर्जिताखिलदैत्यारिः स यदाह श‍ृणुष्व तत् ॥ २६॥ जलन्धर उवाच । कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा । नीतानि सर्वरत्नानि पितुर्मे देवताधम ॥ २७॥ उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे । ममायाहि विचार्येत्थं शरणं दैवतैः सह ॥ २८॥ अन्यथा ते भयं भूरि भविष्यति सुराधम । राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम् ॥ २९॥ सनत्कुमार उवाच । इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः । उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः ॥ ३०॥ अद्रयो मद्भयात् त्रस्ताः स्वकुक्षिस्था यतः कृताः । अन्येऽपि मद् द्विषस्तेन रक्षिता दितिजाः पुरा ॥ ३१॥ तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल । न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम् ॥ ३२॥ शङ्खोऽप्येवं पुरा दैत्यो मां द्विषन्सागरात्मजः । अभवन्मूढचित्तस्तु साधुसङ्गात्समुज्झितः ॥ ३३॥ ममानुजेन हरिणा निहतः स हि पापधीः । हिंसकः साधुसङ्घस्य पापिष्ठः सागरोदरे ॥ ३४॥ तद् गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः । अब्धिपुत्रस्य सर्वं हि सिन्धोर्मन्थनकारणम् ॥ ३५॥ सनत्कुमार उवाच । इत्थं विसर्जितो दूतो घस्मराख्यः सुबुद्धिमान् । तदेन्द्रेणागमत्तूर्णं यत्र वीरो जलन्धरः ॥ ३६॥ तदिदं वचनं दैत्यराजो हि तेन धीमता । कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा ॥ ३७॥ तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः । उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ॥ ३८॥ तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा । दितिजाः प्रत्यपद्यन्ते कोटिशः कोटिशस्तथा ॥ ३९॥ अथ शुम्भनिशुम्भाद्यैर्बलाधिपतिकोटिभिः । निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान् ॥ ४०॥ प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः । दध्मौ शङ्खं जलधिजो नेदुर्वीराश्च सर्वतः ॥ ४१॥ गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् । सर्वसैन्यं समावृत्य कुर्वाणः सिंहवद्रवम् ॥ ४२॥ पुरमावृत्य तिष्ठत्तद् दृष्ट्वा सैन्यबलं महत् । निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ॥ ४३॥ ततः समभवद्युद्धं देवदानवसेनयोः । मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ॥ ४४॥ तेऽन्योऽन्यं समधावेतां जघ्नतुश्च परस्परम् । क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ॥ ४५॥ पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः । व्यराजत रणे भूमिः सन्ध्याभ्रपटलैरिव ॥ ४६॥ तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् । विद्ययामृतजीविन्या मन्त्रितैस्तोयबिन्दुभिः ॥ ४७॥ देवानपि तथा युद्धे तत्राजीवयदङ्गिराः । दिव्यौषधैः समानीय द्रोणाद्रेः स पुनः पुनः ॥ ४८॥ दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् । जलन्धरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ ४९॥ जलन्धर उवाच । मया देवा हता युद्धे उत्तिष्ठन्ति कथं पुनः । त्वत्तः सञ्जीविनी विद्या नैवान्यत्रेति वै श्रुता ॥ ५०॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः । प्रत्युवाच प्रसन्नात्मा गुरुः शुक्रो जलन्धरम् ॥ ५१॥ शुक्र उवाच । दिव्यौषधीः समानीय द्रोणाद्रेरङ्गिराः सुरान् । जीवयत्येष वै तात सत्यं जानीहि मे वचः ॥ ५२॥ जयमिच्छसि चेत्तात श‍ृणु मे वचनं शुभम् । ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर ॥ ५३॥ सनत्कुमार उवाच । इत्युक्तः स तु दैत्येन्द्रो गुरुणा भार्गवेण ह । द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः ॥ ५४॥ भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा । प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि ॥ ५५॥ पुनरायान्महावीरस्सिन्धुपुत्रो महाहवम् । जघानास्त्रैश्च विविधैः सुरान्कृत्वा बलं महत् ॥ ५६॥ अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद् गुरुः । तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः ॥ ५७॥ ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः । आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः ॥ ५८॥ गुरुरुवाच । पलायध्वं सुराः सर्वे द्रोणो नास्ति गिरिर्महान् । ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि ॥ ५९॥ जलन्धरो महादैत्यो नायं जेतुं क्षमो यतः । रुद्रांशसम्भवो ह्येष सर्वामरविमर्दनः ॥ ६०॥ मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः । शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम् ॥ ६१॥ सनत्कुमार उवाच । श्रुत्वा तद्वचनं देवाःसुराचार्यप्रकीर्तितम् । जयाशां त्यक्तवन्तस्ते भयविह्वलितास्तथा ॥ ६२॥ दैत्यराजेन तेनातिहन्यमानाः समन्ततः । धैर्यं त्यक्त्वाऽपलायन्त दिशो दश सवासवाः ॥ ६३॥ देवान्विद्रावितान्दृष्ट्वा दैत्यः सागरनन्दनः । शङ्खभेरीजयरवैः प्रविवेशामरावतीम् ॥ ६४॥ प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः । सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः ॥ ६५॥ तदैव सर्वेष्वसुरोऽधिकारे- ष्विन्द्रादिकानां विनिवेश्य सम्यक् । शुम्भादिकान्दैत्यवरान् पृथक्पृथक् स्वयं सुवर्णाद्रिगुहां व्यगान्मुने ॥ ६६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.५.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१६. षोडशोऽध्यायः । देवयुद्धवर्णनम् ।

सनत्कुमार उवाच । पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः । भयात्प्रकम्पिताः सर्वे सहैवादुद्रुवुर्द्रुतम् ॥ १॥ वैकुण्ठं प्रययुः सर्वे पुरस्कृत्य प्रजापतिम् । तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ॥ २॥ देवा ऊचुः । हृषीकेश महाबाहो भगवन् मधुसूदन । नमस्ते देवदेवेश सर्वदैत्यविनाशक ॥ ३॥ मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः । सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे ॥ ४॥ कुर्वाणानां सुराणां च मथनायोद्यमं भृशम् । बिभ्रते मन्दरगिरिं कूर्मरूपाय ते नमः ॥ ५॥ नमस्ते भगवन्नाथ क्रतवे सूकरात्मने । वसुन्धरां जनाधारां मूर्द्धतो बिभ्रते नमः ॥ ६॥ वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे । विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ७॥ नमः परशुरामाय क्षत्रनिः क्षत्रकारिणे । मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे ॥ ८॥ रामाय लोकरामाय मर्यादापुरुषाय ते । रावणान्तकरायाशु सीतायाः पतये नमः ॥ ९॥ नमस्ते ज्ञानगूढाय कृष्णाय परमात्मने । राधाविहारशीलाय नानालीलाकराय च ॥ १०॥ नमस्ते गूढदेहाय वेदनिन्दाकराय च । योगाचार्याय जैनाय बौद्धरूपाय मापते ॥ ११॥ नमस्ते कल्किरूपाय म्लेच्छानामन्तकारिणे । अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १२॥ नमः कपिलरूपाय देवहूत्यै महात्मने । वदते साङ्ख्ययोगं च साङ्ख्याचार्याय वै प्रभो ॥ १३॥ नमः परमहंसाय ज्ञानं संवदते परम् । विधात्रे ज्ञानरूपाय येनात्मा सम्प्रसीदति ॥ १४॥ वेदव्यासाय वेदानां विभागं कुर्वते नमः । हिताय सर्वलोकानां पुराणरचनाय च ॥ १५॥ एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते । सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १६॥ आर्तिहन्त्रे स्वदासानां सुखदाय शुभाय च । पीताम्बराय हरये तार्क्ष्ययानाय ते नमः ॥ सर्वक्रियायैककर्त्रे शरण्याय नमो नमः । १७॥ दैत्यसन्तापितामर्त्यदुःखादिध्वंसवज्रक । शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १८॥ कृपासिन्धो रमानाथ पाहि नः शरणागतान् । जलन्धरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥ १९॥ सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च । पातालान्नागराजश्च धर्मराजो निराकृतः ॥ २०॥ विचरन्ति यथा मर्त्याः शोभन्ते नैव ते सुराः । शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ॥ २१॥ सनत्कुमार उवाच । इति दीनवचः श्रुत्वा देवानां मधुसूदनः । जगाद करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥ २२॥ विष्णुरुवाच । भयं त्यजत हे देवा गमिष्याम्यहमाहवम् । जलन्धरेण दैत्येन करिष्यामि पराक्रमम् ॥ २३॥ इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः । आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः ॥ २४॥ गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा । साञ्जलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ॥ २५॥ लक्ष्म्युवाच । अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा । तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ २६॥ विष्णुरुवाच । जलन्धरेण दैत्येन करिष्यामि पराक्रमम् । तैः संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः ॥ २७॥ रुद्रांशसम्भवत्वाच्च ब्रह्मणो वचनादपि । प्रीत्या च तव नैवायं मम वध्यो जलन्धरः ॥ २८॥ सनत्कुमार उवाच । इत्युक्त्वा गरुडारूढः शङ्खचक्रगदासिभृत् । विष्णुर्वेगाद्ययौ योद्धुं देवैः शक्रादिभिस्सह ॥ २९॥ द्रुतं स प्राप तत्रैव यत्र दैत्यो जलन्धरः । कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा ॥ ३०॥ अथारुणानुजजवपक्षवातप्रपीडिताः । वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ३१॥ ततो जलन्धरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान् । उद्धृत्य वचनं क्रोधाद् द्रुतं विष्णुं समभ्यगात् ॥ ३२॥ एतस्मिन्नन्तरे देवाश्चक्रुर्युद्धं प्रहर्षिताः । तेजसा च हरेः पुष्टा महाबलसमन्विताः ॥ ३३॥ युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम् । दैत्यानाज्ञापयामास समरे चातिदुर्मदान् ॥ ३४॥ जलन्धर उवाच । भो भो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम् । शक्राद्यैरमरैरद्य प्रबलैः कातरैः सदा ॥ ३५॥ मौर्यास्तु लक्षसङ्ख्याता धौम्रा हि शतसङ्ख्यकाः । असुराः कोटिसङ्ख्याताः कालकेयास्तथैव च ॥ ३६॥ कालकानां दौर्हृदानां कङ्कानां लक्षसङ्ख्यया । अन्येऽपि स्वबलैर्युक्ता विनिर्यान्तु ममाज्ञया ॥ ३७॥ सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः । नानाशस्त्रास्त्रसंयुक्ता निर्भया गतसंशयाः ॥ ३८॥ भो भो शुम्भनिशुम्भौ च देवान्समरकातरान् । क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम् ॥ ३९॥ सनत्कुमार उवाच । दैत्या जलन्धराज्ञप्ता इत्थं युद्धविशारदाः । युयुधुस्तेऽसुराः सर्वे चतुरङ्गबलान्विताः ॥ ४०॥ गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः । केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४१॥ नानायुधैः परैस्तत्र निजघ्नुस्ते बलान्विताः । देवास्तथा महावीरा हृषीकेशबलान्विताः । युयुधुस्तीक्ष्णबाणाश्च क्षिपन्तः सिंहवद्रवाः । ४२॥ केचिद्बाणैः सुतीक्ष्णैश्च केचिन्मुसलतोमरैः । केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४३॥ इत्थं सुराणां दैत्यानां सङ्ग्रामः समभून्महान् । अत्युल्बणो मुनीनां हि सिद्धानां भयकारकः ॥ ४४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवयुद्धवर्णनं नाम षोडशोऽध्यायः ॥ २.५.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१७. सप्तदशोऽध्यायः । जलन्धरोपाख्याने विष्णुजलन्धरयुद्धवर्णनम् ।

सनत्कुमार उवाच । अथ दैत्या महावीर्याः शूलैः परशुपट्टिशैः । निजघ्नुःसर्वदेवांश्च भयव्याकुलमानसान् ॥ १॥ दैत्यायुधैः समाविद्धदेहा देवाः सवासवाः । रणाद्विदुद्रुवुः सर्वे भयव्याकुलमानसाः ॥ २॥ पलायनपरान् दृष्ट्वा हृषीकेशः सुरानथ । विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ॥ ३॥ सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन् रुचा । सुशोभितकराब्जश्च रेजे भक्ताभयङ्करः ॥ ४॥ शङ्खखड्गगदाशार्ङ्गधारी क्रोधसमन्वितः । कठोरास्त्रो महावीरः सर्वयुद्धविशारदः ॥ ५॥ धनुषं शार्ङ्गनामानं विस्फूर्य्य विननाद ह । तस्य नादेन त्रैलोक्यं पूरितं महता मुने ॥ ६॥ शार्ङ्गनिस्सृतबाणैश्च दितिजानां शिरांसि वै । चकर्त्त भगवान् विष्णुः कोटिशो रुट्समाकुलः ॥ ७॥ अथारुणानुजजवपक्षवातप्रपीडिताः । वात्याविवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ८॥ ततो जलन्धरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् । चुक्रोधाति महादैत्यो देववृन्दभयङ्करः ॥ ९॥ मर्द्दयन्तं च तं दृष्ट्वा दैत्यान् प्रस्फुरिताधरः । योद्धुमभ्याययौ वीरो वेगेन हरिणा सह ॥ १०॥ स चकार महानादं देवासुरभयङ्करम् । दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः ॥ ११॥ भयंङ्करेण दैत्यस्य नादेनापूरितं तदा । जलन्धरस्य महता चकम्पे सकलं जगत् ॥ १२॥ ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् । आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥ १३॥ तयोश्च तेन युद्धेन परस्परमभून्मुने । देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः ॥ १४॥ विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुः शरान् । चिच्छेद तं च हृदये बाणेनैकेन ताडयन् ॥ १५॥ ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः । आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥ १६॥ विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्रुचा । हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः ॥ १७॥ विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव । तं विव्याध शरैस्तीक्ष्णैः शार्ङ्गं विस्फूर्य दैत्यहा ॥ १८॥ विष्णुर्जलन्धरं दैत्यं भयदेन शरेण ह । क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा ॥ १९॥ आगतं तस्य तं बाणं दृष्ट्वा दैत्यो महाबलः । छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम् ॥ २०॥ केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम् । शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह ॥ २१॥ पुनर्बाणं समाधत्त धनुषि क्रोधवेपितः । महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम् ॥ २२॥ वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः । क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह ॥ २३॥ जलन्धरोऽथ दैत्येन्द्रः कोपाच्छिन्नाधरो बली । शरेण स्वेन शार्ङ्गाख्यं धनुश्चिच्छेद वैष्णवम् ॥ २४॥ पुनर्बाणैः सुतीक्ष्णैश्च जघान मधुसूदनम् । उग्रवीर्यो महावीरो देवानां भयकारकः ॥ २५॥ स च्छिन्नधन्वा भगवान् केशवो लोकरक्षकः । जलन्धरस्य नाशाय चिक्षेप स्वगदां पराम् ॥ २६॥ सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा । अमोघगतिका शीघ्रं तस्य देहे ललाग ह ॥ २७॥ तया हतो महादैत्यो न चचालापि किञ्चन । जलन्धरो मदोन्मत्तः पुष्पमालाहतो यथा ॥ २८॥ ततो जलन्धरः क्रोधी देवत्रासकरोऽक्षिपत् । त्रिशूलमनलाकारं हरये रणदुर्म्मदः ॥ २९॥ अथ विष्णुस्तत्त्रिशूलं चिच्छेद तरसा द्रुतम् । नन्दकाख्येन खड्गेन स्मृत्वा शिवपदाम्बुजम् ॥ ३०॥ छिन्ने त्रिशूले दैत्येन्द्र उत्प्लुत्य सहसा द्रुतम् । आगत्य हृदये विष्णुं जघान दृढमुष्टिना ॥ ३१॥ सोऽपि विष्णुर्महावीरोऽविगणय्य च तद्व्यथाम । जलन्धरं च हृदये जघान दृढमुष्टिना ॥ ३२॥ ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ । बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥ ३३॥ एवं हि सुचिरं युद्धं कृत्वा तेनासुरेण वै । विस्मितोऽभून्मुनिश्रेष्ठ हृदि ग्लानिमवाप ह ॥ ३४॥ अथ प्रसन्नो भगवान्मायी मायाविदां वरः । उवाच दैत्यराजानं मेघगम्भीरया गिरा ॥ ३५॥ विष्णुरुवाच । भो भो दैत्यवरश्रेष्ठ धन्यस्त्वं रणदुर्मदः । महायुधवरैर्यत्त्वं न भीतो हि महाप्रभुः ॥ ३६॥ एभिरेवायुधैरुग्रैर्दैत्या हि बहवो हताः । महाजौ दुर्मदा वीराश्छिन्नदेहा मृतिं गताः ॥ ३७॥ युद्धेन ते महादैत्य प्रसन्नोऽस्मि महान्भवान् । न दृष्टस्त्वत्समो वीरस्त्रैलोक्ये सचराचरे ॥ ३८॥ वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् । अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥ ३९॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य विष्णोर्मायाविनो हरेः । प्रत्युवाच महाबुद्धिर्दैत्यराजो जलन्धरः ॥ ४०॥ जलन्धर उवाच । यदि भावुक तुष्टोऽसि वरमेतं ददस्व मे । मद्भगिन्या मया सार्द्धं मद्गेहे सगणो वस ॥ ४१॥ सनत्कुमार उवाच । तदाकर्ण्य वचस्तस्य महादैत्यस्य खिन्नधीः । तथास्त्विति च देवेशो जगाद भगवान् हरिः ॥ ४२॥ उवास स ततो विष्णुः सर्वदेवगणैस्सह । जलन्धरं नाम पुरमागत्य रमया सह ॥ ४३॥ अथो जलन्धरो दैत्यः स्वभगिन्या च विष्णुना । उवास स्वालयं प्राप्तो हर्षाकुलितमानसः ॥ ४४॥ जलन्धरोऽथ देवानामधिकारेषु दानवान् । स्थापयित्वा सहर्षः सन् पुनरागान्महीतलम् ॥ ४५॥ देवगन्धर्वसिद्धेषु यत्किञ्चिद्रत्नसञ्चितम् । तदात्मवशगं कृत्वाऽतिष्ठत्सागरनन्दनः ॥ ४६॥ पातालभवने दैत्यं निशुम्भं सुमहाबलम् । स्थापयित्वा स शेषादीनानयद्भूतलं बली ॥ ४७॥ देवगन्धर्वसिद्धौघान् सर्पराक्षसमानुषान् । स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥ ४८॥ एवं जलन्धरः कृत्वा देवान्स्ववशवर्तिनः । धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥ ४९॥ न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा । न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरोपाख्याने विष्णुजलन्धरयुद्धवर्णनं नाम सप्तदशोऽध्यायः ॥ २.५.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१८. अष्टादशोऽध्यायः । जलन्धरवधोपाख्याने देवर्षिजलन्धरसंवादः ।

सनत्कुमार उवाच । एवं शासति धर्मेण महीं तस्मिन्महासुरे । बभूवुर्दुःखिनो देवा भर्त्र्यभावान्मुनीश्वर ॥ १॥ दुःखितास्ते सुराः सर्वे शिवं शरणमाययुः । मनसा शङ्करं देवदेवं सर्वप्रभुं प्रभुम् ॥ २॥ तुष्टुवुर्वाग्भिरिष्टाभिर्भगवन्तं महेश्वरम् । निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम् ॥ ३॥ आहूय स महादेवो भक्तानां सर्वकामदः । नारदं प्रेरयामास देवकार्यचिकीर्षया । ४॥ अथ देवमुनिर्ज्ञानी शम्भुभक्तः सतां गतिः । शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः ॥ ५॥ व्याकुलास्ते सुराः सर्वे वासवाद्या द्रुतं मुनिम् । आगच्छन्तं समालोक्य समुत्तस्थुर्हि नारदम् ॥ ६॥ ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् । नारदाय सुराः शक्रमुखा उत्कण्ठिताननाः ॥ ७॥ सुखासीनं मुनिवरमासने सुप्रणम्य तम् । पुनः प्रोचुः सुरा दीना वासवाद्या मुनीश्वरम् ॥ ८॥ देवा ऊचुः । भो भो मुनिवरश्रेष्ठ दुःखं श‍ृणु कृपाकर । श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शङ्करप्रियः ॥ ९॥ जलन्धरेण दैत्येन सुरा विद्राविता भृशम् । स्वस्थानाद्भर्तृभावाच्च दुःखिता वयमाकुलाः ॥ १०॥ स्वस्थानादुष्णरश्मिश्च चन्द्रो निस्सारितस्तथा । वह्निश्च धर्मराजश्च लोकपालास्तथेतरे ॥ ११॥ सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः । दुःखं प्राप्ता वयं चाति शरणं त्वां समागताः ॥ १२॥ सङ्ग्रामे स हृषीकेशं स्ववशं कृतवान् बली । जलन्धरो महादैत्यः सर्वामरविमर्दकः ॥ १३॥ तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः । स लक्ष्म्या सहितो विष्णुर्यो नः सर्वार्थसाधकः ॥ १४॥ जलन्धरविनाशाय यत्नं कुरु महामते । त्वं नो दैववशात्प्राप्तः सदा सर्वार्थसाधकः ॥ १५॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तेषाममराणां स नारदः । आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः ॥ १६॥ नारद उवाच । जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः । दुःख प्राप्ताः पीडिताश्च स्थानान्निस्सारिताः खलु ॥ १७॥ स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः । अनुकूलोऽहमिह वो दुःखं प्राप्ता यतोऽमराः ॥ १८॥ सनत्कुमार उवाच । एवमुक्त्वा मुनिश्रेष्ठो द्रष्टुं दानववल्लभम् । आश्वास्य सकलान्देवाञ्जलन्धरसभां ययौ ॥ १९॥ अथागतं मुनिश्रेष्ठं दृष्ट्वा दैत्यो जलन्धरः । उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम् ॥ २०॥ स तं सम्पूज्य विधिवद्दानवेन्द्रोऽतिविस्मितः । सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम् ॥ २१॥ जलन्धर उवाच । कुत आगम्यते ब्रह्मन् किं च दृष्टं त्वया क्वचित् । यदर्थमिह आयातस्तदाज्ञापय मां मुने ॥ २२॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः । प्रत्युवाच प्रसन्नात्मा नारदो हि जलन्धरम् ॥ २३॥ नारद उवाच । सर्वदानवदैत्येन्द्र जलन्धर महामते । धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि ॥ २४॥ मदागमनहेतुं वै श‍ृणु दैत्येन्द्रसत्तम । यदर्थमिह चायातस्त्वहं वक्ष्येऽखिलं हि तत् ॥ २५॥ गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया । योजनायुतविस्तीर्णं कल्पद्रुममहावनम् ॥ २६॥ कामधेनुशताकीर्णं चिन्तामणिसुदीपितम् । सर्वरुक्ममयं दिव्यं सर्वत्राद्भुतशोभितम् ॥ २७॥ तत्रोमया सहासीनं दृष्टवानस्मि शङ्करम् । सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ॥ २८॥ तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा । क्वापीदृशी भवेद् वृद्धिस्त्रैलोक्ये वा न वेति च ॥ २९॥ तावत्तवापि दैत्येन्द्र समृद्धिः संस्मृता मया । तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ॥ ३०॥ सनत्कुमार उवाच । इति नारदतः श्रुत्वा स दैत्येन्द्रो जलन्धरः । स्वसमृद्धिं समग्रां वै दर्शयामास सादरम् ॥ ३१॥ दृष्ट्वा स नारदो ज्ञानी देवकार्यसुसाधकः । प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलन्धरम् ॥ ३२॥ नारद् उवाच । तवास्ति सुसमृद्धिर्हि वरवीराखिलाधुना । त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र सम्भवम् ॥ ३३॥ मणयो रत्नपुञ्जाश्च गजाद्याश्च समृद्धयः । ते गृहेऽद्य विभान्तीह यानि रत्नानि तान्यपि ॥ ३४॥ गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा । अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः ॥ ३५॥ कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च । हंसयुक्तविमानं च त्वयानीतं हि वेधसः ॥ ३६॥ इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले । यानि दैत्येन्द्र ते भान्ति गृहे तानि समन्ततः ॥ ३७॥ त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् । प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम् ॥ ३८॥ जायारत्नं महाश्रेष्ठं जलन्धर न ते गृहे । तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि ॥ ३९॥ यस्य गेहे सुरत्नानि सर्वाणि हि जलन्धर । जायारत्नं न चेत्तानि न शोभन्ते वृथा ध्रुवम् ॥ ४०॥ सनत्कुमार उवाच । इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः । उवाच दैत्यराजो हि मदनाकुलमानसः ॥ ४१॥ जलन्धर उवाच । भो भो नारद देवर्षे नमस्तेऽस्तु महाप्रभो । जायारत्नवरं कुत्र वर्तते तद्वदाधुना ॥ ४२॥ ब्रह्माण्डे यत्र कुत्रापि तद्रत्नं यदि वर्त्तते । तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः ॥ ४३॥ नारद उवाच । कैलासे ह्यतिरम्ये च सर्वर्द्धिसुसमाकुले । योगिरूपधरः शम्भुरस्ति तत्र दिगम्बरः ॥ ४४॥ तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता । सर्वाङ्गसुन्दरीनाम्ना पार्वतीति मनोहरा ॥ ४५॥ तदीदृशं रूपमनन्यसङ्गतं दृष्टं न कुत्रापि कुतूहलाढ्यम् । अत्यद्भुतं मोहनकृत्सुयोगिनां सुदर्शनीयं परमर्द्धिकारि ॥ ४६॥ स्वचित्ते कल्पयाम्यद्य शिवादन्यः समृद्धिमान् । जायारत्नान्विताद्वीर त्रिलोक्यां न जलन्धर ॥ ४७॥ यस्या लावण्यजलधौ निमग्नश्चतुराननः । स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते ॥ ४८॥ गतरागोऽपि हि यया मदनारिः स्वलीलया । निजतन्त्रोऽपि यतः स स्वात्मवशगः कृतः ॥ ४९॥ यथा स्त्रीरत्नसम्भोक्तुः समृद्धिस्तस्य साभवत् । तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च ॥ ५०॥ सनत्कुमार उवाच । इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः । ययौ विहायसा देवोपकारकरणोद्यतः ॥ ५१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवर्षिजलन्धरसंवादो नामाष्टादशोऽध्यायः ॥ २.५.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.१९. एकोनविंशोऽध्यायः । जलन्धरवधोपाख्याने दूतसंवादः ।

व्यास उवाच । सनत्कुमार सर्वज्ञ नारदे हि गते दिवि । दैत्यराट् किमकार्षीत्स तन्मे वद सुविस्तरात् ॥ १॥ सनत्कुमार उवाच । तमामन्त्र्य गते दैत्यं नारदे दिवि दैत्यराट् । तद्रूपश्रवणादासीदनङ्गज्वरपीडितः ॥ २॥ अथो जलन्धरो दैत्यः कालाधीनः प्रनष्टधीः । दूतमाह्वाययामास सैंहिकेयं विमोहितः ॥ ३॥ आगतं तं समालोक्य कामाक्रान्तमनाः स हि । सुसम्बोध्य समाचष्ट सिन्धुपुत्रो जलन्धरः ॥ ४॥ जलन्धर उवाच । भो भो दूतवरश्रेष्ठ सर्वकार्यप्रसाधक । सैंहिकेय महाप्राज्ञ कैलासं गच्छ पर्वतम् ॥ ५॥ तत्रास्ति योगी शम्भ्वाख्यस्तपस्वी च जटाधरः । भस्मभूषितसर्वाङ्गो विरक्तो विजितेन्द्रियः ॥ ६॥ तत्र गत्वेति वक्तव्यं योगिनं दूत शङ्करम् । जटाधरं विरक्तं तं निर्भयेन हृदा त्वया ॥ ७॥ हे योगिंस्ते दयासिन्धो जायारत्नेन किं भवेत् । भूतप्रेतपिशाचादिसेवितेन वनौकसा ॥ ८॥ मन्नाथे भुवने योगिन्नोचिता गतिरीदृशी । जायारत्नमतस्त्वं मे देहि रत्नभुजे निजम् ॥ ९॥ यानि यानि सुरत्नानि त्रैलोक्ये तानि सन्ति मे । मदधीनं जगत्सर्वं विद्धि त्वं सचराचरम् ॥ १०॥ इन्द्रस्य गजरत्नं चोच्चैःश्रवोरत्नमुत्तमम् । बलाद्गृहीतं सहसा पारिजातस्तरुस्तथा ॥ ११॥ विमानं हंससंयुक्तमङ्गणे मम तिष्ठति । रत्नभूतं महादिव्यमुत्तमं वेधसोद्भुतम् ॥ १२॥ महापद्मादिकं दिव्यं निधिरत्नं स्वदस्य च । छत्रं मे वारुणं गेहे काञ्चनस्रावि तिष्ठति ॥ १३॥ किञ्जल्किनी महामाला सर्वदाऽम्लानपङ्कजा । मत्पितुः सा ममैवास्ति पाशश्च कपतेस्तथा ॥ १४॥ मृत्योरुत्क्रान्तिदा शक्तिर्मया नीता बलाद्वरा । ददौ मह्यं शुचिर्दिव्ये शुचिशौचे च वाससी ॥ १५॥ एवं योगीन्द्र रत्नानि सर्वाणि विलसन्ति मे । अतस्त्वमपि मे देहि स्वस्त्रीरत्नं जटाधर ॥ १६॥ सनत्कुमार उवाच । इति श्रुत्वा वचस्तस्य नन्दिना स प्रवेशितः । जगामोग्रसभां राहुर्विस्मयोद्भुतलोचनः ॥ १७॥ तत्र गत्वा शिवं साक्षाद्देवदेवं महाप्रभुम् । स्वतेजोध्वस्ततमसं भस्मलेपविराजितम् ॥ १८॥ महाराजोपचारेण विलसन्तं महाद्भुतम् । सर्वाङ्गसुन्दरं दिव्यभूषणैर्भूषितं हरम् ॥ १९॥ प्रणनाम च तं गर्वात्तत्तेजः क्रान्तविग्रहः । निकटं गतवान् शम्भोः स दूतो राहुसंज्ञकः ॥ २०॥ अथो तदग्र आसीनो वक्तुकामो हि सैंहिकः । त्र्यम्बकं स तदा संज्ञाप्रेरितो वाक्यमब्रवीत् ॥ २१॥ राहुरुवाच । दैत्यपन्नगसेव्यस्य त्रैलोक्याधिपतेः सदा । दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ २२॥ जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः ॥ ऽ त्रैलोक्यस्येश्वरस्सोऽथाभवत्सर्वाधिनायकः ॥ २३॥ स दैत्यराजो बलवान्देवानामन्तकोपमः । योगिनं त्वां समुद्दिश्य स यदाह श‍ृणुष्व तत् ॥ २४॥ महादिव्यप्रभावस्य तस्य दैत्यपतेः प्रभोः । सर्वरत्नेश्वरस्य त्वमाज्ञां श‍ृणु वृषध्वज ॥ २५॥ श्मशानवासिनो नित्यमस्थिमालाधरस्य च । दिगम्बरस्य ते भार्या कथं हैमवती शुभा ॥ २६॥ अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञिता । तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ॥ २७॥ मम वश्यास्त्रयो लोका भुञ्जेऽहं मखभागकान् । यानि सन्ति त्रिलोकेऽस्मिन् रत्नानि मम सद्मनि ॥ २८॥ वयं रत्नभुजस्त्वं तु योगी खलु दिगम्बरः । स्वस्त्रीरत्नं देहि मह्यं राज्ञः सुखकराः प्रजाः ॥ २९॥ सनत्कुमार उवाच । वदत्येवं तथा राहौ भ्रूमध्याच्छूलपाणिनः । अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ॥ ३०॥ सिंहास्यप्रचलज्जिह्वः सज्ज्वालनयनो महान् । ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः ॥ ३१॥ महातनुर्महाबाहुस्तालजङ्घो भयङ्करः । अभिदुद्राव वेगेन राहुं स पुरुषो द्रुतम् ॥ ३२॥ स तं खादितुमायान्तं दृष्ट्वा राहुर्भयातुरः । अधावदातिवेगेन बहिः स च दधार तम् ॥ ३३॥ राहुरुवाच । देवदेव महेशान पाहि मां शरणागतम् । सुराऽसुरैस्सदा वन्द्यः परमैश्वर्यवान् प्रभुः ॥ ३४॥ ब्राह्मणं मां महादेव खादितुं समुपागतः । पुरुषोऽयं तवेशान सेवकोऽतिभयङ्करः ॥ ३५॥ एतस्माद्रक्ष देवेश शरणागतवत्सलः । न खादेत यथायं मां नमस्तेऽस्तु मुहुर्मुहुः ॥ ३६॥ सनत्कुमार उवाच । महादेवो वचः श्रुत्वा ब्राह्मणस्य तदा मुने । अब्रवीत्स्वगणं तं वै दीनानाथप्रियः प्रभुः ॥ ३७॥ महादेव उवाच । प्रभुं च ब्राह्मणं दूतं राह्वाख्यं शरणागतम् । शरण्या रक्षणीया हि न दण्ड्या गणसत्तम ॥ ३८॥ सनत्कुमार उवाच । इत्युक्तौ गिरिजेशेन सगणः करुणात्मना । राहुं तत्याज सहसा ब्राह्मणेति श्रुताक्षरः ॥ ३९॥ राहुं त्यक्त्वाम्बरे सोऽथ पुरुषो दीनया गिरा । शिवोपकण्ठमागत्य महादेवं व्यजिज्ञपत् ॥ ४०॥ पुरुष उवाच । देवदेव महादेव करुणाकर शङ्कर । त्याजितं मम भक्ष्यं ते शरणागतवत्सल ॥ ४१॥ क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा । किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो ॥ ४२॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य पुरुषस्य महाप्रभुः । प्रत्युवाचाद्भुतोतिः स कौतुकी स्वहितङ्करः ॥ ४३॥ महेश्वर उवाच । बुभुक्षा यदि तेऽतीव क्षुधा त्वां बाधते यदि । सम्भक्षयात्मनश्शीघ्रं मांसं त्वं हस्तपादयोः ॥ ४४॥ सनत्कुमार उवाच । स शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वकम् । हस्तपादोद्भवं मांसं शिरः शेषोऽभवद्यथा ॥ ४५॥ दृष्ट्वा शिरोऽवशेषं तु सुप्रसन्नःसदाशिवः । पुरुषं भीमकर्माणं तमुवाच सविस्मयः ॥ ४६॥ शिव उवाच । हे महागण धन्यस्त्वं मदाज्ञाप्रतिपालकः । सन्तुष्टश्चास्मि तेऽतीव कर्मणानेन सत्तम ॥ ४७॥ त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारकः सदा । महागणो महावीरः सर्वदुष्टभयङ्करः ॥ ४८॥ मत्प्रियस्त्वं मदर्चायां सदा पूज्यो हि मज्जनैः । त्वदर्चां ये न कुर्वन्ति नैव ते मत्प्रियङ्कराः ॥ ४९॥ सनत्कुमार उवाच । इति शम्भोर्वरं प्राप्य पुरुषः प्रजहर्ष सः । तदाप्रभृति देवेशद्वारे कीर्तिमुखः स्थितः ॥ ५०॥ पूजनीयो विशेषेण स गणश्शिवपूजने । नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत् ॥ ५१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने दूतसंवादो नामैकोनविंशोऽध्यायः ॥ २.५.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२०. विंशोऽध्यायः । जलन्धरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ कथा ते श्राविताद्भुता । महाप्रभोः शङ्करस्य यत्र लीला च पावनी ॥ १॥ इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममोपरि । राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने ॥ २॥ सूत उवाच । इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः । प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः ॥ ३॥ सनत्कुमार उवाच । राहुर्विमुक्तो यस्तेन सोऽपि तद्वर्वरस्थले । अतः स वर्वरो भूत इति भूमौ प्रथां गतः ॥ ४॥ ततः स मन्यमानः स्वं पुनर्जनिमथानतः । गतगर्वो जगामाथ जलन्धरपुरं शनैः ॥ ५॥ जलन्धराय सोऽभ्येत्य सर्वमीशविचेष्टितम् । कथयामास तद्व्यासाद्व्यास दैत्येश्वराय वै ॥ ६॥ जलन्धरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः । बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः ॥ ७॥ ततः कोपपराधीनमानसो दैत्यसत्तमः । उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८॥ जलन्धर उवाच । निर्गच्छन्त्वखिला दैत्याः कालनेमिमुखाः खलु । तथा शुम्भनिशुम्भाद्या वीराः स्वबलसंयुताः ॥ ९॥ कोटिर्वीरकुलोत्पन्नाः कम्बुवंश्याश्च दौर्हृदाः । कालकाः कालकेयाश्च मौर्या धौम्रास्तथैव च ॥ १०॥ इत्याज्ञाप्यासुरपतिः सिन्धुपुत्रः प्रतापवान् । निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ॥ ११॥ ततस्तस्याग्रतः शुक्रो राहुश्छिन्नशिरोऽभवत् । मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा ॥ १२॥ व्यराजत नभः पूर्णं प्रावृषीव यथा घनैः । जाता अशकुना भूरि महानिद्राविसूचकाः ॥ १३॥ तस्योद्योगं तथा दृष्ट्वा गीर्वाणास्ते सवासवाः । अलक्षितास्तदा जग्मुः कैलासं शङ्करालयम् ॥ १४॥ तत्र गत्वा शिवं दृष्ट्वा सुप्रणम्य सवासवाः । देवाः सर्वे नतस्कन्धाः करौ बद्ध्वा च तुष्टुवुः ॥ १५॥ देवा ऊचुः । देवदेव महादेव करुणाकर शङ्कर । नमस्तेऽस्तु महेशा न पाहि नः शरणागतान् ॥ १६॥ विह्वलाः वयमत्युग्रं जलन्धरकृतात्प्रभो । उपद्रवात्सदेवेन्द्राः स्थानभ्रष्टाः क्षितिस्थिताः ॥ १७॥ न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो । तस्मान्नो रक्षणार्थाय जहि सागरनन्दनम् ॥ १८॥ अस्माकं रक्षणार्थाय यत्पूर्वं गरुडध्वजः । नियोजितस्त्वया नाथ न क्षमः सोऽद्य रक्षितुम् ॥ १९॥ तदधीनो गृहे तस्य रमया सह तिष्ठति । वयं च तत्र तिष्ठामस्तदाज्ञावशगाः सुराः ॥ २०॥ अलक्षिता वयं चात्रागताः शम्भो त्वदन्तिकम् । स आयाति त्वया कर्त्तुं रणं सिन्धुसुतो बली ॥ २१॥ अतः स्वामिन् रणे त्वं तमविलम्बं जलन्धरम् । हन्तुमर्हसि सर्वज्ञ पाहि नः शरणागतान् ॥ २२॥ सनत्कुमार उवाच । इत्युक्त्वा ते सुराः सर्वे प्रभुं नत्वा सवासवाः । पादौ निरीक्ष्य सन्तस्थुर्महेशस्य विनम्रकाः ॥ २३॥ इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः । द्रुतं विष्णुं समाहूय वचनं चेदमब्रवीत् ॥ २४॥ ईश्वर उवाच । हृषीकेश महाविष्णो देवाश्चात्र समागताः । जलन्धरकृतापीडाः शरणं मेऽतिविह्वलाः ॥ २५॥ जलन्धरः कथं विष्णो सङ्गरे न हतस्त्वया । तद् गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ॥ २६॥ मया नियोजितस्त्वं हि साधुसंरक्षणाय च । निग्रहाय खलानां च स्वतन्त्रेण विहारिणा ॥ २७॥ सनत्कुमार उवाच । इत्याकर्ण्य महेशस्य वचनं गरुडध्वजः । प्रत्युवाच विनीतात्मा नतकः साञ्जलिर्हरिः ॥ २८॥ विष्णुरुवाच । तवांशसम्भवत्वाच्च भ्रातृत्वाच्च तथा श्रियः । मया न निहतः सङ्ख्ये त्वमेनं जहि दानवम् ॥ २९॥ महाबलो महावीरोऽजेयस्सर्वदिवौकसाम् । अन्येषां चापि देवेश सत्यमेतद् ब्रवीम्यहम् ॥ ३०॥ मया कृतो रणस्तेन चिरं देवान्वितेन वै । मदुपायो न प्रवृत्तस्तस्मिन्दानवपुङ्गवे ॥ ३१॥ तत्पराक्रमतस्तुष्टो वरं ब्रूहीत्यहं खलु । इति मद्वचनं श्रुत्वा स वव्रे वरमुत्तमम् ॥ ३२॥ मद्भगिन्या मया सार्द्धं मद्गेहे ससुरो वस । मदधीनो महाविष्णो इत्यहं तद्गृहं गतः ॥ ३३॥ सनत्कुमार उवाच । इति विष्णोर्वचः श्रुत्वा शकरः स महेश्वरः । विहस्योवाच सुप्रीतः सदयो भक्तवत्सलः ॥ ३४॥ महेश्वर उवाच । हे विष्णो सुरवर्य त्वं श‍ृणु मद्वाक्यमादरात् । जलन्धरं महादैत्यं हनिष्यामि न संशयः ॥ ३५॥ स्वस्थानं गच्छ निर्भीतो देवा गच्छन्त्वपि ध्रुवम् । निर्भया वीतसन्देहा हतं मत्वाऽसुराधिपम् ॥ ३६॥ सनत्कुमार उवाच । इति श्रुत्वा महेशस्य वचनं स रमापतिः । सनिर्जरो जगामाशु स्वस्थानं गतसंशयः ॥ ३७॥ एतस्मिन्नन्तरे व्यास स दैत्येन्द्रोऽतिविक्रमः । सन्नद्धैरसुरैस्सार्द्धं शैलप्रान्तं ययौ बली ॥ ३८॥ कैलासमवरुध्याथ महत्या सेनया युतः । सन्तस्थौ कालसङ्काशः कुर्वन्सिंहरवं महान् ॥ ३९॥ अथ कोलाहलं श्रुत्वा दैत्यनादसमुद्भवम् । चुक्रोधातिमहेशानो महालीलः खलान्तकः ॥ ४०॥ समादिदेश सङ्ख्याय स्वगणान्स महाबलान् । नन्द्यादिकान्महादेवो महोतिः कौतुकी हरः ॥ ४१॥ नन्दीभमुखसेनानीमुखास्सर्वे शिवाज्ञया । गणाश्च समनह्यन्त युद्धायातित्वरान्विताः ॥ ४२॥ अवतेरुर्गणाः सर्वे कैलासात्क्रोधदुर्मदाः । वल्गन्तो रणशब्दांश्च महावीरा रणाय हि ॥ ४३॥ ततः समभवद्युद्धं कैलासोपत्यकासु वै । प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसङ्कुलम् ॥ ४४॥ भेरीमृदङ्गशङ्खौघैर्निःस्वानैर्वीरहर्षणैः । गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत ॥ ४५॥ शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः । व्यराजत नभः पूर्णं मुक्ताभिरिव संवृतम् ॥ ४६॥ निहतैरिव नागाश्वैः पत्तिभिर्भूर्व्यराजत । वज्राहतैः पर्वतेन्द्रैः पूर्वमासीत्सुसंवृता ॥ ४७॥ प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा । वसासृङ्मांसपङ्काढ्या भूरगम्याभवत्तदा ॥ ४८॥ प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् । युद्धे पुनः पुनश्चैव मृतसञ्जीवनी बलात् ॥ ४९॥ दृष्ट्वा व्याकुलितांस्तांस्तु गणाः सर्वे भयार्दिताः । शशंसुर्देवदेवाय सर्वे शुक्रविचेष्टितम् ॥ ५०॥ तच्छ्रुत्वा भगवान् रुद्रश्चकार क्रोधमुल्बणम् । भयङ्करोऽतिरौद्रश्च बभूव प्रज्वलन्दिशः ॥ ५१॥ अथ रुद्रमुखात्कृत्या बभूवातीव भीषणा । तालजङ्घा दरीवक्त्रा स्तनापीडितभूरुहा ॥ ५२॥ सा युद्धभूमिं तरसा ससाद मुनिसत्तम । विचचार महाभीमा भक्षयन्ती महासुरान् ॥ ५३॥ अथ सा रणमध्ये हि जगाम गतभीर्द्रुतम् । यत्रास्ते संवृतो दैत्यवरेन्द्रैस्स हि भार्गवः ॥ ५४॥ स्वतेजसा नभो व्याप्य भूमिं कृत्वा च सा मुने । भार्गवं स्वभगे धृत्वा जगामान्तर्हिता नभः ॥ ५५॥ विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तथा । प्रम्लानवदना युद्धान्निर्जग्मुर्युद्धदुर्मदाः ॥ ५६॥ अथोऽभज्यत दैत्यानां सेना गणभयार्दिता । वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः ॥ ५७॥ भग्नां गणभयाद्दैत्यसेनां दृष्ट्वातिमर्षिताः । निशुम्भशुम्भौ सेनान्यौ कालनेमिश्च चुक्रुधुः ॥ ५८॥ त्रयस्ते वारयामासुर्गणसेनां महाबलाः । मुञ्चन्तः शरवर्षाणि प्रावृषीव बलाहकाः ॥ ५९॥ ततो दैत्यशरौघास्ते शलभानामिव व्रजाः । रुरुधुः खं दिशः सर्वा गणसेनामकम्पयन् ॥ ६०॥ गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः । वसन्तकिंशुकाभासा न प्राजानन्हि किञ्चन ॥ ६१॥ ततः प्रभग्नं स्वबलं विलोक्य नन्द्यादिलम्बोदरकार्त्तिकेयाः । त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ॥ ६२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनं नाम विंशोऽध्यायः ॥ २.५.२०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२१. एकविंशोऽध्यायः । हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम् ।

सनत्कुमार उवाच । ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान् । अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः ॥ १॥ नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा । निशुम्भः षण्मुखं देवमभ्यधावत शङ्कितः ॥ २॥ निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः । हृदि विव्याध वेगेन मूर्छितः स पपात ह ॥ ३॥ ततः शक्तिधरः क्रुद्धो बाणैः पञ्चभिरेव च । विव्याध स्यन्दने तस्य हयान्यन्तारमेव च ॥ ४॥ शरेणान्येन तीक्ष्णेन निशुम्भं देववैरिणम् । जघान तरसा वीरो जगर्ज रणदुर्मदः ॥ ५॥ असुरोऽपि निशुम्भाख्यो महावीरोऽतिवीर्यवान् । जघान कार्तिकेयं तं गर्जन्तं स्वेषुणा रणे ॥ ६॥ ततः शक्तिं कार्तिकेयो यावज्जग्राह रोषतः । तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत् ॥ ७॥ एवं बभूव तत्रैव कार्तिकेयनिशुम्भयोः । आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः ॥ ८॥ ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत । सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत् ॥ ९॥ कालनेमिश्च सङ्क्रुद्धो धनुश्चिच्छेद नन्दिनः । स्वशरासननिर्मुक्तैर्महातीक्ष्णैः शिलीमुखैः ॥ १०॥ अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् । तमपास्य च शूलेन वक्षस्यभ्यहनद् दृढम् ॥ ११॥ स शूलभिन्नहृदयो हताश्वो हतसारथिः । अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत् ॥ १२॥ अथ शुम्भो गणेशश्च रथमूषक वाहनौ । युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ १३॥ गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा । सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ १४॥ ततोऽतिक्रुद्धः शुम्भोऽपि बाणवृष्ट्या गणाधिपम् । मूषकं च त्रिभिर्विध्वा ननाद जलदस्वनः ॥ १५॥ मूषकः शरभिन्नाङ्गश्चचाल दृढवेदनः । लम्बोदरश्च पतितः पदातिरभवत्स हि ॥ १६॥ ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि । अपातयत्तदा भूमौ मूषकं चारुरोह सः ॥ १७॥ समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः । प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम् ॥ १८॥ कालनेमिर्निशुम्भश्च ह्युभौ लम्बोदरं शरैः । युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम् ॥ १९॥ तं पीड्यमानमालोक्य वीरभद्रो महाबलः । अभ्यधावत वेगेन कोटिभूतयुतस्तथा ॥ २०॥ कूष्माण्डा भैरवाश्चापि वेताला योगिनीगणाः । पिशाचा डाकिनी सङ्घा गणाश्चापि समं ययुः ॥ २१॥ ततः किलकिला शब्दैः सिंहनादैः सघर्घरैः । विनादिता डमरुकैः पृथिवी समकम्पत ॥ २२॥ ततो भूताः प्रधावन्तो भक्षयन्ति स्म दानवान् । उत्पत्य पातयन्ति स्म ननृतुश्च रणाङ्गणे ॥ २३॥ एतस्मिन्नन्तरे व्यासाभूतां नन्दी गुहश्च तौ । उत्थितावाप्तसंज्ञौ हि जगर्जतुरलं रणे ॥ २४॥ स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ । जघ्नतुश्च रणे दैत्यान्निरन्तरशरव्रजैः ॥ २५॥ छिन्नैर्भिन्नैर्हतैर्दैत्यैः पातितैर्भक्षितैस्तथा । व्याकुला साभवत्सेना विषण्णवदना तदा ॥ २६॥ एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् । वीरभद्रो गणाश्चान्ये जगर्जुःसमरेऽधिकम् ॥ २७॥ निशुम्भशुम्भौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा । कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः ॥ २८॥ प्रविध्वस्तां ततस्सेनां दृष्ट्वा सागरनन्दनः । रथेनातिपताकेन गणानभिययौ बली ॥ २९॥ ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः । जगर्जुरधिकं व्यास समरायोद्यतास्तदा ॥ ३०॥ सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः । नन्दिकार्तिकदन्त्यास्यवीरभद्रादिका मुने ॥ ३१॥ हस्त्यश्वरथसंह्रादः शङ्खभेरीरवस्तथा । अभवत्सिंहनादश्च सेनयोरुभयोस्तथा ॥ ३२॥ जलन्धरशरव्रातैर्नीहारपटलैरिव । द्यावापृथिव्योराच्छन्नमन्तरं समपद्यत ॥ ३३॥ शैलादिं पञ्चभिर्विध्वा गणेशं पञ्चभिश्शरैः । वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ ३४॥ कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् । जलन्धरं महावीरो रुद्रपुत्रो ननाद च ॥ ३५॥ स घूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः । पपात भूमौ त्वरितमुदतिष्ठन्महाबलः ॥ ३६॥ ततः क्रोधपरीतात्मा कार्तिकेयं जलन्धरः । गदया ताडयामास हृदये दैत्यपुङ्गवः ॥ ३७॥ गदाप्रभावं सफलं दर्शयन् शङ्करात्मजः । विधिदत्तवराद् व्यास स तूर्णं भूतलेऽपतत् ॥ ३८॥ तथैव नन्दी ह्यपतद्भूतले गदया हतः । महावीरोऽपि रिपुहा किञ्चिद्व्याकुलमानसः ॥ ३९॥ ततो गणेश्वरः क्रुद्धः स्मृत्वा शिवपदाम्बुजम् । सम्प्राप्यातिबलो दैत्यगदां परशुनाच्छिनत् ॥ ४०॥ वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् । सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥ ४१॥ ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम् । गणेशं पातयामास रथमन्यं समारुहत् ॥ ४२॥ अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः । विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः ॥ ४३॥ वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् । ननाद च महावीरो दैत्यराजो जलन्धरः ॥ ४४॥ वीरभद्रोऽपि सङ्क्रुद्धस्सितधारेण चेषुणा । चिच्छेद तच्छरं चैव तं विव्याध महेषुणा ॥ ४५॥ ततस्तौ सूर्यसङ्काशौ युयुधाते परस्परम् । नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ ॥ ४६॥ वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् । धनुश्चिच्छेद रथिनः पताकां चापि वेगतः ॥ ४७॥ अथो स दैत्यराजो हि पुप्लुवे परिघायुधः । वीरभद्रोपकण्ठं स द्रुतमाप महाबलः ॥ ४८॥ परिघेनातिमहता वीरभद्रं जघान ह । महाबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च ॥ ४९॥ परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः । वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु ॥ ५०॥ पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् । अपागच्छन् रणं हित्वा क्रोशमाना महेश्वरम् ॥ ५१॥ अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः । निजपार्श्वस्थितान् वीरानपृच्छद् गणसत्तमान् ॥ ५२॥ शङ्कर उवाच । किमर्थं मद्गणानां हि महाकोलाहलोऽभवत् । विचार्यतां महावीराः शान्तिः कार्या मया ध्रुवम् ॥ ५३॥ इति यावत्स देवेशो गणान्पप्रच्छ सादरम् । तावद्गणवरास्ते हि समायाताः प्रभुं प्रति ॥ ५४॥ तान्दृष्ट्वा विकलान् रुद्रः पप्रच्छ कुशलं प्रभुः । यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात् ॥ ५५॥ तच्छ्रुत्वा भगवान् रुद्रो महालीलाकरः प्रभुः । अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन् ॥ ५६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरोपाख्याने विशेषयुद्धवर्णनं नामैकविंशोऽध्यायः ॥ २.५.२१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२२. द्वाविंशोऽध्यायः । जलन्धरवधोपाख्याने जलन्धरयुद्धवर्णनम् ।

सनत्कुमार उवाच । अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः । अभ्यगाद् वृषभारूढः सङ्ग्रामं प्रहसन्निव ॥ १॥ रुद्रमायान्तमालोक्य सिंहनादैर्गणाः पुनः । निवृत्ताः सङ्गरे रौद्रा ये हि पूर्वं पराजिताः ॥ २॥ वीरशब्दं च कुर्वन्तस्तेऽप्यन्ये शाङ्करा गणाः । सोत्सवाःसायुधा दैत्यान्निजघ्नुः शरवृष्टिभिः ॥ ३॥ दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः । शाङ्करं पुरुषं दृष्ट्वा पातकानीव तद्भयात् ॥ ४॥ अथो जलन्धरो दैत्यान्निवृत्तान्प्रेक्ष्य सङ्गरे । अभ्यधावत्स चण्डीशं मुञ्चन्बाणान्सहस्रशः ॥ ५॥ निशुम्भशुम्भप्रमुखा दैत्येन्द्राश्च सहस्रशः । अभिजग्मुश्शिवं वेगाद्रोषात्सन्दष्टदच्छदाः ॥ ६॥ कालनेमिस्तथा वीरः खड्गरोमा बलाहकः । घस्मरश्च प्रचण्डश्चापरे चापि शिवं ययुः ॥ ७॥ बाणैः सञ्छादयामासुर्द्रुतं रुद्रगणांश्च ते । अङ्गानि चिच्छिदुर्वीराः शुम्भाद्या निखिला मुने ॥ ८॥ बाणान्धकारसञ्छन्नं दृष्ट्वा गणबलं हरः । तद्बाणजालमाच्छिद्य बाणैराववृते नभः ॥ ९॥ दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा । प्रचण्डबाणजालौघैरपातयत भूतले ॥ १०॥ खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् । बलाहकस्य च शिरः खट्वाङ्गेनाकरोद्द्विधा ॥ ११॥ स बध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि । महावीरं प्रचण्डं च चकर्त्त त्रिशिखेन ह ॥ १२॥ वृषभेण हताः केचित्केचिद्बाणैर्निपातिता । न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ॥ १३॥ ततः क्रोधपरीतात्मा दैत्यान् धिक् कृतवान् रणे । शुम्भादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान् ॥ १४॥ जलन्धर उवाच । किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम् ॥ १५॥ यदि वः प्रधने श्रद्धा सारो वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ १६॥ रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः । यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः ॥ १७॥ सूर्यस्य मण्डलं भित्त्वा यायाद्वै परमं पदम् । परिव्राट् परमज्ञानी रणे यः सम्मुखे हतः ॥ १८॥ मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः । अनिवार्यो यतो ह्येष उपायैर्निखिलैरपि ॥ १९॥ मृत्युर्जन्मवतां वीरा देहेन सह जायते । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ २०॥ तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा । सर्वथा परमानन्द इहामुत्राप्यसंशयः ॥ २१॥ सनत्कुमार उवाच । इत्युक्त्वा बोधयामास स्ववीरान्बहुशः स हि । धैर्यं दधुर्न ते भीत्या पलायन्तो रणाद् रुतम् ॥ २२॥ अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् । चुक्रोधाति महावीरः सिन्धुपुत्रो जलन्धरः ॥ २३॥ ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलन्धरः । आह्वापयामास रणे तीव्राशनिसमस्वनः ॥ २४॥ जलन्धर उवाच । युद्ध्यस्वाद्य मया सार्धं किमेभिर्निहतैस्तव । यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥ २५॥ सनत्कुमार उवाच । इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् । जलन्धरो महादैत्यः शम्भुमक्लिष्टकारिणम् ॥ २६॥ तानप्राप्तान्महादेवो जलन्धरशरान्द्रुतम् । निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव ॥ २७॥ ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः । जलन्धरस्य दैत्यस्य न तच्चित्रं हरे मुने ॥ २८॥ स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः । अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान् ॥ २९॥ प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः । पाराशर्य्य महालीलो द्रुतं बाणैर्द्विधाकरोत् ॥ ३०॥ तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः । अभ्युद्ययौ महावेगाद्रुद्रं तं तज्जिघांसया ॥ ३१॥ तावदेवेश्वरेणाशु बाणोघैः स जलन्धरः । अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः ॥ ३२॥ ततो जलन्धरो दैत्यो रुद्रं मत्वा बलाधिकम् । ससर्ज मायां गान्धर्वीमद्भुतां रुद्रमोहिनीम् ॥ ३३॥ तस्य मायाप्रभावात्तु गन्धर्वाप्सरसां गणाः । आविर्भूता अनेके च रुद्रमोहनहेतवे ॥ ३४॥ ततो जगुश्च ननृतुर्गन्धर्वाप्सरसां गणाः । तालवेणुमृदङ्गांश्च वादयन्ति स्म चापरे ॥ ३५॥ तद् दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः । पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ॥ ३६॥ एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलन्धरः । कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत् ॥ ३७॥ युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबलौ । दशदोर्दण्डपञ्चास्यस्त्रिनेत्रश्च जटाधरः ॥ ३८॥ महावृषभमारूढस्सर्वथा रुद्रसन्निभः । आसुर्य्या मायया व्यास स बभूव जलन्धरः ॥ ३९॥ अथ रुद्रं समायान्तमालोक्य भववल्लभा । अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥ ४०॥ यावद्ददर्श चार्वङ्गी पार्वतीं दनुजेश्वरः । तावत्स वीर्यं मुमुचे जडाङ्गश्चाभवत्तदा ॥ ४१॥ अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला । जगामान्तर्हिता वेगात्सा तदोत्तरमानसम् ॥ ४२॥ तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव । जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः ॥ ४३॥ पार्वत्यपि महाविष्णुं सस्मार मनसा तदा । तावद्ददर्श तं देवं सोपविष्टं समीपगम् ॥ ४४॥ तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया । प्रसन्नमनसोवाच प्रणमन्तं कृताञ्जलिम् ॥ ४५॥ पार्वत्युवाच । विष्णो जलन्धरो दैत्यः कृतवान्परमाद्भुतम् । तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥ ४६॥ तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः । प्रत्युवाच शिवां नत्वा साञ्जलिर्नम्रकन्धरः ॥ ४७॥ श्रीभगवानुवाच । भवत्याः कृपया देवि तद्वृत्तं विदितं मया । यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया ॥ ४८॥ सनत्कुमार उचाच तच्छ्रुत्वा विष्णुवचनं पुनरप्याह पार्वती ॥ हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन् । ४९॥ पार्वत्युवाच । तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि । तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया ॥ ५०॥ नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर । पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले ॥ ५१॥ सनत्कुमार उवाच । इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः । छल कर्त्तुं जगामाशु पुनर्जालन्धरं पुरम् ॥ ५२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहिताया पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने जलन्धरयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ २.५.२२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२३. त्रयोविंशोऽध्यायः । जलन्धरवधोपाख्याने वृन्दापातिव्रतभङ्गदेहत्यागवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ वद त्वं वदतां वर । किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम् ॥ १॥ सनत्कुमार उवाच । विष्णुर्जालन्धरं गत्वा दैत्यस्य पुटभेदनम् ॥ पातिव्रत्यस्य भङ्गाय वृन्दायाश्चाकरोन्मतिम् । २॥ वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः । स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः ॥ ३॥ अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता । हरेर्मायाप्रभावात्तु दुस्स्वप्नं सा ददर्श ह ॥ ४॥ स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह । भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरम् ॥ ५॥ कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् । दक्षिणाशां गतं मुण्डं तमसा च वृतं तदा ॥ ६॥ स्वपुरं सागरे मग्नं सहसैवात्मना सह । इत्यादि बहुदुःस्वप्नान्निशान्ते सा ददर्श ह ॥ ७॥ ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती । ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ॥ ८॥ तदनिष्टमिदं ज्ञात्वा रुदन्ती भयविह्वला । कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु ॥ ९॥ ततःसखीद्वययुता नगरोद्यानमागमत् । तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम् ॥ १०॥ ततो जलन्धरस्त्री सा निर्विण्णोद्विग्नमानसा । वनाद्वनान्तरं याता नैव वेदात्मना तदा ॥ ११॥ भ्रमती सा ततो बाला ददर्शातीव भीषणौ । राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ ॥ १२॥ तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा । ददर्श तापसं शान्तं सशिष्यं मौनमास्थितम् ॥ १३॥ ततस्तत्कण्ठमासाद्य निजां बाहुलतां भयात् । मुने मां रक्ष शरणमागतास्मीत्यभाषत ॥ १४॥ मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा । हुङ्कारेणैव तौ घोरौ चकार विमुखौ द्रुतम् ॥ १५॥ तद् हुङ्कारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ । विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि ॥ १६॥ ततस्सा मुनिनाथं तं भयान्मुक्ता कृताञ्जलिः । प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत् ॥ १७॥ वृन्दोवाच । मुनिनाथ दयासिन्धो परपीडानिवारक । रक्षिताहं त्वया घोराद्भयादस्मात्खलोद्भवात् ॥ १८॥ समर्थः सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे । किञ्चिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ॥ १९॥ जलन्धरो हि मद्भर्त्ता रुद्रं योद्धुं गतः प्रभो । स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ॥ २०॥ सनत्कुमार उवाच । मुनिस्तद्वाक्यमाकर्ण्य मौनं कपटमास्थितः । कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्ध्वमवैक्षत ॥ २१॥ तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ । ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ॥ २२॥ नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ । तस्यैव कं कबन्धं च हस्तावास्तां मुनीश्वर ॥ २३॥ शिरः कबन्धं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा । पपात मूर्च्छिता भूमौ भर्तृव्यसनदुःखिता ॥ २४॥ वृन्दोवाच । यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो । स कथं न वदस्यद्य वल्लभां मामनागसम् ॥ २५॥ येन देवाः सगन्धर्वा निर्जिता विष्णुना सह । कथं स तापसेनाद्य त्रैलोक्यविजयी हतः ॥ २६॥ नाङ्गीकृतं हि मे वाक्यं रुद्रतत्त्वमजानता । परं ब्रह्म शिवश्चेति वदन्त्या दैत्यसत्तम ॥ २७॥ ततस्त्वं हि मया ज्ञातस्तव सेवाप्रभावतः । गर्वितेन त्वया नैव कुसङ्गवशगेन हि ॥ २८॥ इत्थं प्रभाष्य बहुधा स्वधर्मस्था च तत्प्रिया । विललाप विचित्रं सा हृदयेन विदूयता ॥ २९॥ ततःसा धैर्यमालम्ब्य दुःखोच्छ्वासान्विमुञ्चती । उवाच मुनिवर्यं तं सुप्रणम्य कृताञ्जलिः ॥ ३०॥ कृपानिधे मुनिश्रेष्ठ परोपकरणादर । मयि कृत्वा कृपां साधो जीवयैनं मम प्रभुम् ॥ ३१॥ यत्त्वमस्य पुनः शक्तो जीवनाय मतो मम । अतः सञ्जीवयैनं मे प्राणनाथं मुनीश्वर ॥ ३२॥ सनत्कुमार उवाच । इत्युक्त्वा दैत्यपत्नी सा पतिव्रत्यपरायणा । पादयोः पतिता तस्य दुःखश्वासान् विमुञ्चती ॥ ३३॥ मुनिरुवाच । नायं जीवयितुं शक्तो रुद्रेण निहतो युधि । रुद्रेण निहता युद्धे न जीवन्ति कदाचन ॥ ३४॥ तथापि कृपयाविष्ट एनं सञ्जीवयाम्यहम् । रक्ष्याः शरणगाश्चेति जानन्धर्मं सनातनम् ॥ ३५॥ सनत्कुमार उवाच । इत्युक्त्वा स मुनिस्तस्या जीवयित्वा पतिं मुने । अन्तर्दधे ततो विष्णुः सर्वमायाविनां वरः ॥ ३६॥ द्रुतं स जीवितस्तेनोत्थितः सागरनन्दनः । वृन्दामालिङ्ग्य तद्वक्त्रं चुचुम्ब प्रीतमानसः ॥ ३७॥ अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा । जहौ शोकं च निखिलं स्वप्नवद् हृद्यमन्यत ॥ ३८॥ अथ प्रसन्नहृदया सा हि सञ्जातहृच्छया । रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरान् ॥ ३९॥ कदाचित्सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव हि । निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥ ४०॥ वृन्दोवाच । धिक् तदेवं हरे शीलं परदाराभिगामिनः । ज्ञातोऽसि त्वं मया सम्यङ्मायी प्रत्यक्षतापसः ॥ ४१॥ सनत्कुमार उवाच । इत्युक्त्वा क्रोधमापन्ना दर्शयन्ती स्वतेजसम् । शशाप केशवं व्यास पातिव्रत्यरता च सा ॥ ४२॥ रे महाधम दैत्यारे परधर्मविदूषक । गृह्णीष्व शठ मद्दत्तं शापं सर्वविषोल्बणम् ॥ ४३॥ यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम । तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः ॥ ४४॥ त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् । भ्रम सर्पेश्वरेणायं यस्ते शिष्यत्वमागतः४५॥ इत्युक्त्वा सा तदा वृन्दा प्रविशद्धव्यवाहनम् । विष्णुना वार्यमाणापि तत्स्थितासक्तचेतसा ॥ ४६॥ तस्मिन्नवसरे देवा ब्रह्माद्या निखिला मुने । आगताः खे समं दारैः सद्गतिं वै दिदृक्षवः ॥ ४७॥ अथ दैत्येन्द्रपत्न्यास्तु तज्ज्योतिः परमं महत् । पश्यतां सर्वदेवानामलोकमगमद्द्रुतम् ॥ ४८॥ शिवातनौ विलीनं तद्वृन्दातेजो बभूव ह । आसीज्जयजयारावः खस्थितामरपङ्क्तिषु ॥ ४९॥ एवं वृन्दा महाराज्ञी कालनेमिसुतोत्तमा । पातिव्रत्यप्रभावाच्च मुक्तिं प्राप परां मुने ॥ ५०॥ ततो हरिस्तामनुसंस्मन्मुहु- र्वृन्दाचिताभस्मरजोऽवगुण्ठितः । तत्रैव तस्थौ सुरसिद्धसङ्घकैः प्रबोध्यमानोऽपि ययौ न शान्तिम् ॥ ५१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने वृन्दापातिव्रतभङ्गदेहत्यागवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २.५.२३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२४. चतुर्विंशोऽध्यायः । जलन्धरवर्णनम् ।

व्यास उवाच । विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्भुता । ततश्च किमभूदाजौ कथं दैत्यो हतो वद ॥ १॥ सनत्कुमार उवाच । अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते । गान्धर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः ॥ २॥ अन्तर्धानगतां मायां दृष्ट्वा बुद्धो हि शङ्करः । चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः ॥ ३॥ ततः शिवो विस्मितमानसः पुन- र्जगाम युद्धाय जलन्धरं रुषा । स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरोघैःसमवाकिरद्रणे ॥ ४॥ क्षिप्तं प्रभुस्तं शरजालमुग्रं जलन्धरेणातिबलीयसा हरः । द्रुतं प्रचिच्छेदशरैर्वरैर्निजै- र्न चित्रमत्र त्रिभवप्रहन्तुः ॥ ५॥ ततो जलन्धरो दृष्ट्वा रुद्रमद्भुतविक्रमम् । चकार मायया गौरीं त्र्यम्बकं मोहयन्निव ॥ ६॥ रथोपरि गतां बद्धां रुदन्तीं पार्वतीं शिवः । निशुम्भशुम्भदैत्यैश्च वध्यमानां ददर्श सः ॥ ७॥ गौरीं तथाविधां दृष्ट्वा लौकिकीं दर्शयन् गतिम् । बभूव प्राकृत इव शिवोऽप्युद्विग्नमानसः ॥ ८॥ अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः । शिथिलाङ्गो विषण्णात्मा विस्मृत्य स्वपराक्रमम् ॥ ९॥ ततो जलन्धरो वेगात् त्रिभिर्विव्याध सायकैः । आपुङ्खमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥ १०॥ ततो रुद्रो महालीलो ज्ञाततत्त्वः क्षणात्प्रभुः । रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥ ११॥ तस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः । न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश ॥ १२॥ निशुम्भशुम्भावपि यौ विख्यातौ वीरसत्तमौ । अपि तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर ॥ १३॥ जलन्धरकृता मायान्तर्हिताभूच्च तत्क्षणम् । हाहाकारो महानासीत्सङ्ग्रामे सर्वतोमुखे ॥ १४॥ ततः शापं ददौ रुद्रस्तयोः शुम्भनिशुम्भयोः । पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोधसंयुतः ॥ १५॥ रुद्र उवाच । युवां दुष्टावतिखलावपराधकरौ मम । पार्वतीदण्डदातारौ रणादस्मात्पराङ्मुखौ ॥ १६॥ पराङ्मुखो न हन्तव्य इति वध्यौ न मे युवाम् । मम युद्धादतिक्रान्तौ गौर्य्या वध्यौ भविष्यतः ॥ १७॥ एवं वदति गौरीशे सिन्धुपुत्रो जलन्धरः । चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः ॥ १८॥ रुद्रे रणे महावेगाद्ववर्ष निशितान् शरान् । बाणान्धकारसञ्छन्नं तथा भूमितलं ह्यभूत् ॥ १९॥ यावद् रुद्रः प्रचिच्छेद तस्य बाणगणान् द्रुतम् । तावत्स परिघेणाशु जघान वृषभं बली ॥ २०॥ वृषस्तेन प्रहारेण परवृत्तो रणाङ्गणात् । रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु ॥ २१॥ अथ लोके महारुद्रः स्वीयं तेजोऽतिदुःसहम् । दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर ॥ २२॥ ततः परमसङ्क्रुद्धो रुद्रो रौद्रवपुर्धरः । प्रलयानलवद् घोरो बभूव सहसा प्रभुः ॥ २३॥ दृष्ट्वा पुरःस्थितं दैत्यं मेरुकूटमिव स्थितम् । अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत् ॥ २४॥ ब्रह्मणो वचनं रक्षन् रक्षको जगतां प्रभुः । हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत् ॥ २५॥ कोपं कृत्वा परं शूली पादाङ्गुष्ठेन लीलया । महाम्भसि चकाराशु रथाङ्गं रौद्रमद्भुतम् ॥ २६॥ कृत्वार्णवाम्भसि शितं भगवान् रथाङ्गं स्मृत्वा जगत्त्रयमनेन हतं पुरारिः । दक्षान्धकान्तकपुरत्रययज्ञहन्ता लोकत्रयान्तककरः प्रहसन्नुवाच ॥ २७॥ महारुद्र उवाच । पादेन निर्मितं चक्रं जलन्धर महाम्भसि । बलवान्यदि चोद्धर्त्तुं तिष्ठ योद्धुं न चान्यथा ॥ २८॥ सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः । प्रदहन्निव चक्षुर्भ्यां प्राहालोक्य स शङ्करम् ॥ २९॥ जलन्धर उवाच । रेखामुद्धृत्य हत्वा च सगणं त्वां हि शङ्कर । हत्वा लोकान्सुरैः सार्धं स्वभागं गरुडो यथा ॥ ३०॥ हन्तुं चराचरं सर्वं समर्थोऽहं सवासवम् । को महेश्वर मद्बाणैरभेद्यो भुवनत्रये ॥ ३१॥ बालभावेन भगवान्तपसैव विनिर्जितः । ब्रह्मा बलिष्ठः स्थाने मे मुनिभिः सुरपुङ्गवैः ॥ ३२॥ दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् । तपसा किं त्वया रुद्र निर्जितो भगवानपि ॥ ३३॥ इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः । न सेहिरे यथा नागा गन्धं पक्षिपतेरिव ॥ ३४॥ न लब्धं दिवि भूमौ च वाहनं मम शङ्कर । समस्तान्पर्वतान्प्राप्य धर्षिताश्च गणेश्वराः ॥ ३५॥ गिरीन्द्रो मन्दरः श्रीमान्नीलो मेरुः सुशोभनः । धर्षितो बाहुदण्डेन कण्ड्वा उत्सर्पणाय मे ॥ ३६॥ गङ्गा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ । अरीणां मम भृत्यैश्च जयो लब्धो दिवौकसाम् ॥ ३७॥ वडवाया मुखं बद्धं गृहीत्वा तां करेण तु । तत्क्षणादेव सकलमेकार्णवमभूत्तदा ॥ ३८॥ ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि । सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम् ॥ ३९॥ गरुडोऽपि मया बद्धो नागपाशेन विष्णुना । उर्वश्याद्या मयानीता नार्यः कारागृहान्तरम् ॥ ४०॥ मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणम् । जलन्धरं महादैत्यं सिन्धुपुत्रं महाबलम् ॥ ४१॥ सनत्कुमार उवाच । इत्युक्त्वाथ महादेवं तदा वारिधिनन्दनः । न चचाल न सस्मार निहतान्दानवान्युधि ॥ ४२॥ दुर्मदेनाविनीतेन दोर्भ्यामास्फोट्य दोर्बलात् । तिरस्कृतो महादेवो वचनैः कटुकाक्षरैः ॥ ४३॥ तच्छ्रुत्वा दैत्यवचनममङ्गलमतीरितम् । विजहास महादेवः परमं क्रोधमादधे ॥ ४४॥ सुदर्शनाख्यं यच्चक्रं पादाङ्गुष्ठविनिर्मितम् । जग्राह तत्करे रुद्रस्तेन हन्तुं समुद्यतः ॥ ४५॥ सुदर्शनाख्यं तच्चक्रं चिक्षेप भगवान्हरः । कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ४६॥ प्रदहद्रोदसी वेगात्तदासाद्य जलन्धरम् । जहार तच्छिरो वेगान्महदायतलोचनम् ॥ ४७॥ रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् । शिरश्चाप्यब्धिपुत्रस्य हाहाकारो महानभूत् ॥ ४८॥ द्विधा पपात तद्देहो ह्यञ्जनाद्रिरिवाचलः । कुलिशेन यथा वारान्निधौ गिरिवरो द्विधा ॥ ४९॥ तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् । ततःसमस्ता पृथिवी विकृताभून्मुनीश्वर ॥ ५०॥ तद्रक्तमखिलं रुद्रनियोगान्मांसमेव च । महारौरवमासाद्य रक्तकुण्डमभूदिह ॥ ५१॥ तत्तेजो निर्गतं देहाद् रुद्रे च लयमागमत् । वृन्दादेहोद्भवं यद्वद्गौर्य्यां हि विलयं गतम् ॥ ५२॥ जलन्धरं हतं दृष्ट्वा देवगन्धर्वपन्नगाः । अभवन्सुप्रसन्नाश्च साधु देवेति चाब्रुवन् ॥ ५३॥ सर्वे प्रसन्नतां याता देवसिद्धमुनीश्वराः । पुष्पवृष्टिं प्रकुर्वाणास्तद्यशो जगुरुच्चकैः ॥ ५४॥ देवाङ्गना महामोदान्ननृतुः प्रेमविह्वलाः । कलस्वराः कलपदं किन्नरैः सह सञ्जगुः ॥ ५५॥ दिशः प्रसेदुः सर्वाश्च हते वृन्दापतौ मुने । ववुः पुण्याः सुखस्पर्शा वायवस्त्रिविधा अपि ॥ ५६॥ चन्द्रमाः शीततां यातो रविस्तेपे सुतेजसा । अग्नयो जज्वलुः शान्ता बभूवाविकृतं नभः ॥ ५७॥ एवं त्रैलोक्यमखिलं स्वास्थ्यमापाधिकं मुने । हतेऽब्धितनये तस्मिन्हरेणानन्तमूर्तिना ॥ ५८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने जलन्धरवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २.५.२४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२५. पञ्चविंशोऽध्यायः । जलन्धरवधोपाख्याने देवस्तुतिवर्णनम् ।

सनत्कुमार उवाच । अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा । तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ॥ १॥ देवा ऊचुः । देवदेव महादेव शरणागतवत्सल । साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ॥ २॥ त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः । दुराराध्योऽसतां नाथ प्रसन्नः सर्वदा भव ॥ ३॥ वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः । यथामति महात्मानः सर्वे गायन्ति सद्यशः ॥ ४॥ माहात्म्यमतिगूढं ते सहस्रवदनादयः । सदा गायन्ति सुप्रीत्या पुनन्ति स्वगिरं हि ते ॥ ५॥ कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः । भक्तिगम्यः सदा त्वं वा इति वेदा ब्रुवन्ति हि ॥ ६॥ त्वं वै दीनदयालुश्च सर्वत्र व्यापकः सदा । आविर्भवसि सद्भक्त्या निर्विकारःसतां गतिः ॥ ७॥ भक्त्यैव ते महेशान बहवः सिद्धिमागताः । इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ॥ ८॥ पुरा यदुपतिर्भक्तो दाशार्हः सिद्धिमागतः । कलावती च तत्पत्नी भक्त्यैव परमां प्रभो ॥ ९॥ तथा मित्रसहो राजा मदयन्ती च तत्प्रिया । भक्त्यैव तव देवेश कैवल्यं परमं ययौ ॥ १०॥ सौमिनी नाम तनया कैकेयाग्रभुवस्तथा । तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ॥ ११॥ विमर्षणो नृपवरः सप्तजन्मावधि प्रभो । भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ॥ १२॥ चन्द्रसेनो नृपवरः त्वद्भक्त्या सर्वभोगभुक् । दुःखमुक्तः सुखं प्राप परमत्र परत्र च ॥ १३॥ गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् । परं सुखं महावीरशिष्यः प्राप परत्र वै । १४॥ त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः । धर्मगुप्तं राजपुत्रमतार्षीःसुखिनं त्विह ॥ १५॥ तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो । त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ॥ १६॥ चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् । इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ॥ १७॥ चन्द्राङ्गदो राजपुत्रः सीमन्तिन्या स्त्रिया सह । विहाय सकलं दुःखं सुखी प्राप महागतिम् ॥ १८॥ द्विजो मन्दरनामापि वेश्यागामी खलोऽधमः । त्वद्भक्तः शिव सम्पूज्य तया सह गतिं गतः ॥ १९॥ भद्रायुस्ते नृपसुतः सुखमाप गतव्यथः । त्वद्भक्तिकृपया मात्रा गतिं च परमां प्रभो ॥ २०॥ सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया । विमुक्तोऽभूदपि सदाऽभक्ष्यभोजी महेश्वर ॥ २१॥ शम्बरः शङ्करे भक्तश्चिताभस्मधरः सदा । नियमाद्भस्मनः शम्भो स्वस्त्रिया ते पुरं गतः ॥ २२॥ भद्रसेनस्य तनयस्तथा मन्त्रिसुतः प्रभो । सुधर्मशुभकर्माणो सदा रुद्राक्षधारिणौ ॥ २३॥ त्वत्कृपातश्च तौ मुक्तावास्तां भुक्त्वेह सत्सुखम् । पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ॥ २४॥ पिङ्गला च महानन्दा वेश्ये द्वे तव भक्तितः । सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ॥ २५॥ शारदा विप्रतनया बालवैधव्यमागता । तव भक्तेः प्रभावात्तु पुत्रसौभाग्यवत्यभूत् ॥ २६॥ बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया । वञ्चुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ॥ २७॥ इत्यादि बहवः सिद्धिं गता जीवास्तव प्रभो । भक्तिभावान्महेशान दीनबन्धो कृपालय ॥ २८॥ त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर । निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ॥ २९॥ नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः । वयं ब्रह्मादयः सर्वे तव दासा महेश्वर ॥ ३०॥ प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव । त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ॥ ३१॥ सनत्कुमार उवाच । इति स्तुत्वा च ते देवा ब्रह्माद्याः समुनीश्वराः । तूष्णीं बभूवुर्हि तदा शिवाङ्घ्रिद्वन्द्वचेतसः ॥ ३२॥ अथ शम्भुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम् । दत्त्वा वरान् वरान् सद्यः तत्रैवान्तर्दधे प्रभुः ॥ ३३॥ देवाःसर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः । स्वं स्वं धाम ययुः प्रीता गायन्तः शिवसद्यशः ॥ ३४॥ इदं परममाख्यानं जलन्धरविमर्दनम् । महेशचरितं पुण्यं महाघौघविनाशनम् ॥ ३५॥ देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी । सर्वसौख्यप्रदा नित्यं महेशानन्ददायिनी ॥ ३६॥ यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् । स भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवस्तुतिवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २.५.२५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२६. षड्विंशोऽध्यायः । जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनम् ।

व्यास उवाच । ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम । यच्छ्राविता महादिव्या कथेयं शाङ्करी शुभा ॥ १॥ इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने । स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ॥ २॥ सनत्कुमार उवाच । श‍ृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम । वैष्णवं चरितं शम्भुचरिताढ्यं सुनिर्मलम् ॥ ३॥ मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः । सुप्रसन्नोऽवदच्छम्भुः शरणागतवत्सलः ॥ ४॥ शम्भुरुवाच । ब्रह्मन्देववराः सर्वे भवदर्थे मया हतः । जलन्धरो मदंशोऽपि सत्यं सत्यं वदाम्यहम् ॥ ५॥ सुखमापुर्न वा ताताः सत्यं ब्रूतामराः खलु । भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ॥ ६॥ सनत्कुमार उवाच । अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः । प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥ ७॥ देवा ऊचुः । महादेव त्वया देव रक्षिताः शत्रुजाद् भयात् । किञ्चिदन्यत्समुद्भूतं तत्र किं करवामहै ॥ ८॥ वृन्दा विमोहिता नाथ विष्णुना हि प्रयत्नतः । भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ॥ ९॥ वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति मोहितः । तच्चिताभस्मसन्धारी तव मायाविमोहितः ॥ १०॥ स सिद्धमुनिसङ्घैश्च बोधितोऽस्माभिरादरात् । न बुध्यते हरिः सोऽथ तव मायाविमोहितः ॥ ११॥ कृपां कुरु महेशान विष्णुं बोधय बोधय । त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ॥ १२॥ सनत्कुमार उवाच । इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् । प्रत्युवाच महालीलः स्वच्छन्दस्तान्कृताञ्जलीन् ॥ १३॥ महेश उवाच । हे ब्रह्मन्हे सुराः सर्वे मद्वाक्यं श‍ृणुतादरात् । मोहिनी सर्वलोकानां मम माया दुरत्यया ॥ १४॥ तदधीनं जगत्सर्वं यद्देवासुरमानुषम् । तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ॥ १५॥ उमाख्या सा महादेवी त्रिदेवजननी परा । मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ॥ १६॥ गच्छध्वं शरणं देवा विष्णुमोहापनुत्तये । शरण्यां मोहिनीं मायां शिवाख्यां सर्वकामदाम् ॥ १७॥ स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् । सुप्रसन्ना यदि च सा सर्वं कार्यं करिष्यति ॥ १८॥ सनत्कुमार उवाच । इत्युक्त्वा तान्सुरान् शम्भुः पञ्चास्यो भगवान्हरः । अन्तर्दधे द्रुतं व्यास सर्वैश्च स्वगणैः सह ॥ १९॥ देवाश्च शासनाच्छम्भोर्ब्रह्माद्या हि सवासवाः । मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ॥ २०॥ देवा ऊचुः । यदुद्भवाः सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधानकारकाः । यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ॥ २१॥ पाहि त्रयोविंशगुणान् सुशब्दितान् जगत्यशेषे समधिष्ठिता परा । यद्रूपकर्माणि जगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ॥ २२॥ यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसम्भवादीन् । न प्राप्नुवन्त्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम् ॥ २३॥ कुरु कार्यं महादेवि देवानां नः परेश्वरि । विष्णुमोहं हर शिवे दुर्गे देवि नमोऽस्तु ते ॥ २४॥ जलन्धरस्य शम्भोश्च रणे कैलासवासिनः । प्रवृत्ते तद्वधार्थाय गौरीशासनतः शिवे ॥ २५॥ वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः । स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ॥ २६॥ जलन्धरो हतो युद्धे तद्भयान्मोचिता वयम् । गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ॥ २७॥ तदाज्ञया वयं सर्वे शरणं ते समागताः । त्वं हि शम्भुर्युवां देवि भक्तोद्धारपरायणौ ॥ २८॥ वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति तत्र वै । तच्चिताभस्मसन्धारी ज्ञानभ्रष्टो विमोहितः ॥ २९॥ संसिद्धसुरसङ्घैश्च बोधितोऽपि महेश्वरि । न बुध्यते हरिः सोऽथ तव मायाविमोहितः ॥ ३०॥ कृपां कुरु महादेवि हरिं बोधय बोधय । यथा स्वलोकं पायात्स सुचित्तः सुरकार्यकृत् ॥ ३१॥ इति स्तुवन्तस्ते देवाः तेजोमण्डलमास्थितम् । ददृशुर्गगने तत्र ज्वालाव्याप्तदिगन्तरम् ॥ ३२॥ तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः । अमराः शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ॥ ३३॥ आकाशवाण्युवाच । अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः । गौरी लक्ष्मीः सुरा ज्योती रजःसत्त्वतमोगुणैः ॥ ३४॥ तत्र गच्छत यूयं वै तासामन्तिक आदरात् । मदाज्ञया प्रसन्नास्ता विधास्यन्ते तदीप्सितम् ॥ ३५॥ सनत्कुमार उवाच । श‍ृण्वतामिति तां वाचमन्तर्द्धानमगान्महः । देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने ॥ ३६॥ ततः सर्वेऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात् । गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः ॥ ३७॥ तुष्टुवुश्च महाभक्त्या देवीस्ताः सकलाःसुराः । नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ॥ ३८॥ ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः । महाद्भुतैः स्वतेजोभिर्भासयन्त्यो दिगन्तरम् ॥ ३९॥ अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा । प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन् ॥ ४०॥ ततश्चैताः सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः । बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ॥ ४१॥ देव्य ऊचुः । इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति । निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥ ४२॥ सनत्कुमार उवाच । इत्युक्त्वा तास्ततो देव्योऽन्तर्हिता अभवन्मुने । रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ॥ ४३॥ ततस्तुष्टाः सुराःसर्वे ब्रह्माद्याश्च सवासवाः । तानि बीजानि सङ्गृह्य ययुर्यत्र हरिः स्थितः ॥ ४४॥ वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः । स्मृत्वा ताः संस्थितास्तत्र शिवशक्त्यंशका मुने ॥ ४५॥ निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् । धात्री च मालती चैव तुलसी च मुनीश्वर ॥ ४६॥ धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः ॥ ४७॥ विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने । उदतिष्ठत्तदा तासु रागातिशयविभ्रमः ॥ ४८॥ दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा । तं चापि तुलसी धात्री रागेणैवावलोकताम् ॥ ४९॥ यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् । तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत् ॥ ५०॥ अतः सा बर्बरीत्याख्यामवापातीव गर्हिताम् । धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ॥ ५१॥ ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु । वैकुण्ठमगमत्तुष्टः सर्वदेवैर्नमस्कृतः ॥ ५२॥ कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा । सर्वदेवप्रिया ज्ञेया विष्णोश्चैव विशेषतः ॥ ५३॥ तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने । त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ॥ ५४॥ वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः । नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ॥ ५५॥ वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहः सुबोधवान् । सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरन् शिवम् ॥ ५६॥ इत्याख्यानमघौघघ्नं सर्वकामप्रदं नृणाम् । सर्वकामविकारघ्नं सर्वविज्ञानवर्द्धनम् ॥ ५७॥ य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमान् । श‍ृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ॥ ५८॥ पठित्वा य इदं धीमानाख्यानं परमोत्तमम् । सङ्ग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः ॥ ५९॥ विप्रानां ब्रह्मविद्यादं क्षत्रियाणां जयप्रदम् । वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम् ॥ ६०॥ शम्भुभक्तिप्रदं व्यास सर्वेषां पापनाशनम् । इहलोके परत्रापि सदा सद्गतिदायकम् ॥ ६१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ॥ २.५.२६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२७. सप्तविंशोऽध्यायः । शङ्खचूडोत्पत्तिवर्णनम् ।

सनत्कुमार उवाच । अथान्यच्छम्भुचरितं प्रेमतः श‍ृणु वै मुने । यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत् ॥ १॥ शङ्खचूडाभिधो वीरो दानवो देवकण्टकः । यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ॥ २॥ तच्छम्भुचरितं दिव्यं पवित्रं पापनाशनम् । श‍ृणु व्यास सुसम्प्रीत्या वच्मि सुस्नेहतस्तव ॥ ३॥ मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः । स धर्मिष्ठःसृष्टिकर्त्ता विद्याज्ञप्तः प्रजापतिः ॥ ४॥ दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश । तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ॥ ५॥ यत्र देवादिनिखिलं चराचरमभूज्जगत् । विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके ॥ ६॥ प्रस्तुतं श‍ृणु वृत्तान्तं शम्भुलीलान्वितं च यत् । तदेव कथयाम्यद्य श‍ृणु भक्तिप्रवर्द्धनम् ॥ ७॥ तासु कश्यपपत्नीषु दनुस्त्वेका वराङ्गना । महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ॥ ८॥ आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः । तेषां नामानि नोच्यन्ते विस्तारभयतो मुने ॥ ९॥ तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः । तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ॥ १०॥ नासीत्तत्तनयो वीरस्ततश्चिन्तापरोऽभवत् । शुक्राचार्यं गुरुं कृत्वा कृष्णमन्त्रमवाप्य च ॥ ११॥ तपश्चकार परमं पुष्करे लक्षवर्षकम् । कृष्णमन्त्रं जजापैव दृढं बद्ध्वासनं चिरम् ॥ १२॥ तपः प्रकुर्वतस्तस्य मूर्ध्नो निःसृत्य प्रज्वलत् । विससार च सर्वत्र तत्तेजो हि सुदुःसहम् ॥ १३॥ तेन तप्ताः सुराः सर्वे मुनयो मनवस्तथा । सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ॥ १४॥ प्रणम्य च विधातारं दातारं सर्वसम्पदाम् । तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तान्तं विशेषतः ॥ १५॥ तदाकर्ण्य विधातापि वैकुण्ठं तैर्ययौ सह । तदेव विज्ञापयितुं निखिलेन हि विष्णवे ॥ १६॥ तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् । प्रणम्य तुष्टुवुःसर्वे करौ बद्ध्वा विनम्रकाः ॥ १७॥ देवा ऊचुः । देवदेव न जानीमो जातं किं कारणं त्विह । सन्तप्ताः सकला जातास्तेजसा केन तद्वद ॥ १८॥ तप्तात्मनां त्वमविता दीनबन्धोऽनुजीविनाम् । रक्ष रक्ष रमानाथ शरण्यः शरणागतान् ॥ १९॥ सनत्कुमार उवाच । इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् । उवाच विहसन्प्रेम्णा शरणागतवत्सलः ॥ २०॥ विष्णुरुवाच । सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः । नोपप्लवा भविष्यन्ते लयकालो न विद्यते ॥ २१॥ दानवो दम्भनामा हि मद्भक्तः कुरुते तपः । पुत्रार्थी शमयिष्यामि तमहं वरदानतः ॥ २२॥ सनत्कुमार उवाच । इत्युक्तास्ते सुराःसर्वे धैर्यमालम्ब्य वै मुने । ययुर्ब्रह्मादयः सुस्थाः स्वस्वधामानि सर्वशः ॥ २३॥ अच्युतोऽपि वरं दातुं पुष्करं सञ्जगाम ह । तपश्चरति यत्रासौ दम्भनामा हि दानवः ॥ २४॥ तत्र गत्वा वरं ब्रूहीत्युवाच परिसान्त्वयन् । गिरा सूनृतया भक्तं जपन्तं स्वमनुं हरिः ॥ २५॥ तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् । प्रणनाम महाभक्त्या तुष्टाव च पुनः पुनः ॥ २६॥ दम्भ उवाच । देवदेव नमस्तेऽस्तु पुण्डरीकविलोचन । रमानाथ त्रिलोकेश कृपां कुरु ममोपरि ॥ २७॥ स्वभक्तं तनयं देहि महाबल पराक्रमम् । त्रिलोकजयिनं वीरमजेयं च दिवौकसाम् ॥ २८॥ सनत्कुमार उवाच । इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः । निवर्त्य चोग्रतपसः ततः सोऽन्तरधान्मुने ॥ २९॥ गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः । जगाम स्वगृहं सिद्धतपाः पूर्णमनोरथः ॥ ३०॥ कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् । रराज तेजसात्यन्तं रोचयन्ती गृहान्तरम् ॥ ३१॥ सुदामा नाम गोपो यो कृष्णस्य पार्षदाग्रणीः । तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने ॥ ३२॥ असूत समये साध्वी सुप्रभं तनयं ततः । जातकं सुचकारासौ पिताऽऽहूय मुनीन्बहून् ॥ ३३॥ उत्सवः सुमहानासीत्तस्मिञ्जाते द्विजोत्तम । नाम चक्रे पिता तस्य शङ्खचूडेति सद्दिने ॥ ३४॥ पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी । शैशवेऽभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान् ॥ ३५॥ स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह । प्रियो बभूव सर्वेषां कुलजानां विशेषतः ॥ ३६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥ २.५.२७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२८. अष्टाविंशोऽध्यायः । शङ्खचूडतपःकरणविवाहवर्णनम् ।

सनत्कुमार उवाच । ततश्च शङ्खचूडोऽसौ जैगीषव्योपदेशतः । ततश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम् ॥ १॥ गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः । स एकाग्रमना भूत्वा करणानि निगृह्य च ॥ २॥ तपन्तं पुष्करे तं वै शङ्खचूडं च दानवम् । वरं दातुं जगामाशु ब्रह्मा लोकगुरुर्विभुः ॥ ३॥ वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा । स दृष्ट्वा तं ननामातिनम्रस्तुष्टाव सद्गिरा ॥ ४॥ वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम् । तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा ॥ ५॥ श्रीकृष्णकवचं दिव्यं जगन्मङ्गलमङ्गलम् । दत्तवान् शङ्खचूडाय सर्वत्र विजयप्रदम् ॥ ६॥ बदरीं सम्प्रयाहि त्वं तुलस्या सह तत्र वै । विवाहं कुरु तत्रैव सा तपस्यति कामतः ॥ ७॥ धर्मध्वजसुता सेति सन्दिदेश च तं विधिः । अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात् ॥ ८॥ ततःस शङ्खचूडो हि तपःसिद्धोऽतिपुष्करे । गले बबन्ध कवचं जगन्मङ्गलमङ्गलम् ॥ ९॥ आज्ञया ब्रह्मणः सोऽपि तपःसिद्धमनोरथः । समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम् ॥ १०॥ यदृच्छयाऽऽगतस्तत्र शङ्खचूडश्च दानवः । तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा ॥ ११॥ सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता । सकटाक्षं ददर्शासौ तमेव पुरुषं परम् ॥ १२॥ दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् । उवास तत्समीपे तु मधुरं तामुवाच सः ॥ १३॥ शङ्खचूड उवाच । का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् । मौनीभूता किङ्करं मां सम्भावितुमिहार्हसि ॥ १४॥ सनत्कुमार उवाच । इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा । १५॥ तुलस्युवाच । धर्मध्वजसुताहं च तपस्यामि तपस्विनी । तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ १६॥ नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा । निन्द्या दोषकरी माया श‍ृङ्खला ह्यनुशायिनाम् ॥ १७॥ सनत्कुमार उवाच । इत्युक्त्वा तुलसी तं च सरसं विरराम ह । दृष्ट्वा तां सस्मितां सोऽपि प्रवक्तुमुपचक्रमे ॥ १८॥ शङ्खचूड उवाच । त्वया यत्कथितं देवि न च सर्वमलीककम् । किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ १९॥ पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः । न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम ॥ २०॥ आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना । गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ २१॥ शङ्खचूडोऽहमेवास्मि देवविद्रावकारकः । मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन ॥ २२॥ दनुवंश्यो विशेषेण दम्भपुत्रश्च दानवः । सुदामा नाम गोपोऽहं पार्षदश्च हरेः पुरा ॥ २३॥ अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः । जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः ॥ २४॥ सनत्कुमार उवाच । एवमुक्त्वा शङ्खचूडो विरराम च तत्पुरः । दानवेन्द्रेण सेत्युक्ता वचनं सत्यमादरात् । सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ २५॥ तुलस्युवाच । त्वयाहमधुना सत्त्वविचारेण पराजिता । स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः ॥ २६॥ सत्क्रियोऽप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः । निन्दन्ति पितरो देवा मानवाःसकलाश्च तम् ॥ २७॥ शुध्येद्विप्रो दशाहेन जातके मृतसूतके । क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ २८॥ शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् । न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान् ॥ २९॥ न गृह्णन्तीच्छया तस्मात्पितरः पिण्डतर्पणम् । न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम् ॥ ३०॥ तस्य किं ज्ञानसुतपोजपहोमप्रपूजनैः । विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ ३१॥ विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः । कृत्वा कान्तपरीक्षां वै वृणुयात्कामिनी वरम् ॥ ३२॥ सनत्कुमार उवाच । इत्येवं प्रवदन्त्यां तु तुलस्यां तत्क्षणे विधिः । तत्राजगाम संस्रष्टा प्रोवाच वचनं ततः ॥ ३३॥ ब्रह्मोवाच । किं करोषि शङ्खचूड संवादमनया सह । गान्धर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ॥ ३४॥ त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती । विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत् ॥ ३५॥ निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् । योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ॥ ३६॥ किं त्वं परीक्षसे कान्तमीदृशं गुणिनं सति । देवानामसुराणां च दानवानां विमर्दकम् ॥ ३७॥ अनेन सार्धं सुचिरं विहारं कुरु सर्वदा । स्थाने स्थाने यथेच्छं च सर्वलोकेषु सुन्दरि ॥ ३८॥ अन्ते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः । चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि ॥ ३९॥ सनत्कुमार उवाच । इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः । गान्धर्वेण विवाहेन जगृहे तां च दानवः ॥ ४०॥ एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह । स रेमे रमया सार्धं वासगेहे मनोरमे ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः ॥ २.५.२८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.२९. एकोनत्रिंशोऽध्यायः । शङ्खचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनम् ।

सनत्कुमार उवाच । स्वगेहमागते तस्मिन् शङ्खचूडे विवाहिते । तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः ॥ १॥ स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः । सर्वेऽसुराः सम्मिलिताः समाजग्मुस्तदन्तिकम् ॥ २॥ प्रणम्य तं सविनयं संस्तुत्य विविधादरात् । स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम् ॥ ३॥ सोऽपि दम्भात्मजो दृष्ट्वाऽऽगतं कुलगुरुं च तम् । प्रणनाम महाभक्त्या साष्टाङ्गं परमादरात् ॥ ४॥ अथ शुक्रः कुलाचार्यो दृष्ट्वाशिषमनुत्तमम् । वृत्तान्तं कथयामास देवदानवयोस्तदा ॥ ५॥ स्वाभाविकं च तद्वैरमसुराणां पराभवम् । विजयं निर्जराणां च जीवसाहाय्यमेव च ॥ ६॥ ततः स सम्मतं कृत्वाऽसुरैः सर्वैः समुत्सवम् । दानवाद्यसुराणां तमधिपं विदधे गुरुः ॥ ७॥ तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् । उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः ॥ ६॥ अथ दम्भात्मजो वीरः शङ्खचूडः प्रतापवान् । राज्याभिषेकमासाद्य स रेजेऽसुरराट् तदा ॥ ९॥ स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् । रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ ॥ १०॥ गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् । विरेजे शशिवद्भानां ग्रहाणां ग्रहराडिव ॥ ११॥ आगच्छन्तं शङ्खचूडमाकर्ण्याखण्डलस्स्वराट् । निखिलैरमरैः सार्धं तेन योद्धुं समुद्यतः ॥ १२॥ तदाऽसुरैःसुराणां च सङ्ग्रामस्तुमुलो ह्यभूत् । वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः ॥ १३॥ महान्कोलाहलो जातो वीराणां गर्जतां रणे । वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी ॥ १४॥ देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः । पराजयं च सम्प्रापुरसुरा दुद्रुवुर्भयात् ॥ १५॥ पलायमानास्तान्दृष्ट्वा शङ्खचूडः स्वयं प्रभुः । युयुधे निर्जरैःसाकं सिंहनादं प्रगर्ज्य च ॥ १६॥ तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् । प्रदुद्रुवुः सुराः सर्वे तत्सुतेजो न सेहिरे ॥ १७॥ यत्र तत्र स्थिता दीना गिरीणां कन्दरासु च । तदधीना न स्वतन्त्रा निष्प्रभाः सागरा यथा ॥ १८॥ सोऽपि दम्भात्मजः शूरो दानवेन्द्रः प्रतापवान् । सुराधिकारान्सञ्जह्रे सर्वाँल्लोकान्विजित्य च ॥ १९॥ त्रैलोक्यं स्ववशं चक्रे यज्ञभागांश्च कृत्स्नशः । स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत् ॥ २०॥ कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च । कारयामास वायव्यमधिकारं स्वशक्तितः ॥ २१॥ देवानामसुराणां च दानवानां च रक्षसाम् । गन्धर्वाणां च नागानां किन्नराणां रसौकसाम् ॥ २२॥ त्रिलोकस्य परेषां च सकलानामधीश्वरः । स बभूव महावीरः शङ्खचूडो महाबली ॥ २३॥ एवं स बुभुजे राज्यं राजराजेश्वरो महान् । सर्वेषां भुवनानां च शङ्खचूडश्चिरं समाः ॥ २४॥ तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः । आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा ॥ २५॥ अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः । ओषध्यो विविधाश्चासन्सफलाःसरसाः सदा ॥ २६॥ मण्याकराश्च नितरां रत्नखन्यश्च सागराः । सदा पुष्पफला वृक्षा नद्यः सुसलिलावहाः ॥ २७॥ देवान् विनाखिला जीवाः सुखिनो निर्विकारकाः । स्वस्वधर्मास्थिताः सर्वे चतुर्वर्णाश्रमाः परे ॥ २८॥ तस्मिन् शासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् । भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः ॥ २९॥ स शङ्खचूडः प्रबलः कृष्णस्य परमः सखा । कृष्णभक्तिरतः साधुः सदा गोलोकवासिनः ॥ ३०॥ पूर्वशापप्रभावेण दानवीं योनिमाश्रितः । न दानवमतिः सोऽभूद्दानवत्वेऽपि वै मुने ॥ ३१॥ ततः सुरगणाः सर्वे हृतराज्याः पराजिताः । सम्मन्त्र्य सर्षयस्तात प्रययुर्ब्रह्मणःसभाम् ॥ ३२॥ तत्र दृष्ट्वा विधातारं नत्वा स्तुत्वा विशेषतः । ब्रह्मणे कथयामासुः सर्वं वृत्तान्तमाकुलाः ॥ ३३॥ ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि । तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम् ॥ ३४॥ ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैःसह । किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ३५॥ शङ्खचक्रगदापद्मधरं देवं चतुर्भुजम् । सनन्दनाद्यैः सिद्धैश्च सेवितं पीतवाससम् ॥ ३६॥ दृष्ट्वा विष्णुं सुराःसर्वे ब्रह्माद्याः समुनीश्वराः । प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम् ॥ ३७॥ देवा ऊचु देवदेव जगन्नाथ वैकुण्ठाधिपते प्रभो । रक्षास्मान् शरणापन्नान् श्रीहरे त्रिजगद्गुरो ॥ ३८॥ त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो । लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते ॥ ३९॥ इति स्तुत्वा सुराः सर्वे रुरुदुः पुरतो हरेः । तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत् ॥ ४०॥ विष्णुरुवाच । किमर्थमागतोऽसि त्वं वैकुण्ठं योगिदुर्लभम् । किं कष्टं ते समुद्भूतं तत् त्वं वद ममाग्रतः ॥ ४१॥ सनत्कुमार उवाच । इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः । बद्धाञ्जलिपुटो भूत्वा विनयानतकन्धरः ॥ ४२॥ वृत्तान्तं कथयामास शङ्खचूडकृतं तदा । देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः ॥ ४३॥ हरिस्तद्वचनं श्रुत्वा सर्वतः सर्वभाववित् । प्रहस्योवाच भगवांस्तद्रहस्यं विधिं प्रति ॥ ४४॥ श्रीभगवानुवाच । शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ४५॥। श‍ृणु तत् सर्ववृत्तान्तमितिहासं पुरातनम् । सन्देहो नैव कर्तव्यः शं करिष्यति शङ्करः ॥ ४६॥ सर्वोपरि च यस्यास्ति शिवलोकः परात्परः । यत्र संराजते शम्भुः परब्रह्म परेश्वरः ॥ ४७॥ प्रकृतेः पुरुषस्यापि योऽधिष्ठाता त्रिशक्तिधृक् । निर्गुणः सगुणः सोऽपि परञ्ज्योतिः स्वरूपवान् ॥ ४८॥ यस्याङ्गजास्तु वै ब्रह्मंस्त्रयःसृष्ट्यादिकारकाः । सत्त्वादिगुणसम्पन्ना विष्णुब्रह्महराभिधाः ॥ ४९॥ स एव परमात्मा हि विहरत्युमया सह । यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः ॥ ५०॥ तत्समीपे च गोलोको गोशाला शङ्करस्य वै । तस्येच्छया च मद्रूपः कृष्णो वसति तत्र ह ॥ ५१॥ तद्गवां रक्षणार्थाय तेनाज्ञप्तः सदा सुखी । तत्सम्प्राप्तसुखः सोऽपि सङ्क्रीडति विहारवित् ॥ ५२॥ तस्य नारी समाख्याता राधेति जगदम्बिका । प्रकृतेः परमा मूर्तिः पञ्चमी सुविहारिणी ॥ ५३॥ बहुगोपाश्च गोप्यश्च तत्र सन्ति तदङ्गजाः । सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः ॥ ५४॥ स एव लीलया शम्भोरिदानीं मोहितोऽनया । सम्प्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम् ॥ ५५॥ रुद्रशूलेन तन्मृत्युः कृष्णेन विहितः पुरा । ततः स्वदेहमुत्सृज्य पार्षदः स भविष्यति ॥ ५६॥ इति विज्ञाय देवेश न भयं कर्तुमर्हसि । शङ्करं शरणं याहि स सद्यः शं विधास्यति ॥ ५७॥ अहं त्वं चामराः सर्वे तिष्ठन्त्विह विसाध्वसाः ॥ ५८॥ सनत्कुमार उवाच । इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह । संस्मरन्मनसा शम्भुं सर्वेशं भक्तवत्सलम् ॥ ५९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधोपाख्याने शङ्खचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २.५.२९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३०. त्रिंशोऽध्यायः । शङ्खचूडवधे देवदेवस्तुतिः ।

सनत्कुमार उवाच । गत्वा तदैव सविधिस्तदा व्यास रमेश्वरः । शिवलोकं महादिव्यं निराधारमभौतिकम् ॥ १॥ साह्लादोऽभ्यन्तरं विष्णुर्जगाम मुदिताननः । नानारत्नपरिक्षिप्तं विलसन्तं महोज्ज्वलम् ॥ २॥ सम्प्राप्य प्रथमं द्वारं विचित्रं गणसेवितम् । शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम् ॥ ३॥ ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् । शोभितान् श्वेतवस्त्रैश्च रत्नभूषणभूषितान् ॥ ४॥ पञ्चवक्त्रत्रिनयनान्गौरसुन्दरविग्रहान् । त्रिशूलादिधरान्वीरान् भस्मरुद्राक्षशोभितान् ॥ ५॥ स ब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः । कथयामास वृत्तान्तं प्रभुसन्दर्शनार्थकम् ॥ ६॥ तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया । परं द्वारं महारम्यं विचित्रं परमप्रभम् ॥ ७॥ प्रभूपकण्ठगत्यर्थं वृत्तान्तं संन्यवेदयत् । तद् द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह ॥ ८॥ एवं पञ्चदशद्वारान्प्रविश्य कमलोद्भवः । महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह ॥ ९॥ सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना । आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यन्तरं मुदा ॥ १०॥ ददर्श गत्वा तत्रोच्चैः सभां शम्भोः समुत्प्रभाम् । तां पार्षदैः परिवृतां लसद्देहैः सुभूषिताम् ॥ ११॥ माहेश्वरस्य रूपैश्च दिग्भुजैः शुभकान्तिभिः । पञ्चवक्त्रैस्त्रिनयनैः शितिकण्ठैर्महोज्ज्वलैः ॥ १२॥ सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः । नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ॥ १३॥ मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् । अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम् ॥ १४॥ माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् । पद्मरागेन्द्ररचितामद्भुतां शङ्करेच्छया ॥ १५॥ सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः । स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ॥ १६॥ इन्द्रनीलमणिस्तम्भैर्वेष्टितां सुमनोहराम् । सुसंस्कृतां च सर्वत्र वासितां गन्धवायुना ॥ १७॥ सहस्रयोजनायामां सुपूर्णां बहुकिङ्करैः । ददर्श शङ्करं साम्बं तत्र विष्णुः सुरेश्वरः ॥ १८॥ वसन्तं मध्यदेशे च येथेन्दुतारकावृतम् । अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ १९॥ किरीटिनं कुण्डलिनं रत्नमालाविभूषितम् । भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ॥ २०॥ पुरतो गीतनृत्यञ्च पश्यन्तं सस्मितं मुदा ॥ २१॥ शान्तं प्रसन्नमनसमुमाकान्तं महोल्लसम् । देव्या प्रदत्तताम्बूलं भुक्तवन्तं सुवासितम् ॥ २२॥ गणैश्च परया भक्त्या सेवितं श्वेतचामरैः । स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकन्धरैः ॥ २३॥ गुणातीतं परेशानं त्रिदेवजनकं विभुम् । निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ॥ २४॥ अमायमजमाद्यञ्च मायाधीशं परात्परम् । प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा ॥ २५॥ एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् । विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृताञ्जली ॥ २६॥ विष्णुविधी ऊचतुः देवदेव महादेव परब्रह्माखिलेश्वर ॥ त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो । २७॥ वयं ते शरणापन्ना रक्षास्मान्दुःखितान्विभो । शङ्खचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर ॥ २८॥ अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः । अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः ॥ २९॥ पार्षदप्रवरस्तस्य सुदामा दैवयन्त्रितः । राधाशप्तो बभूवाथ शङ्खचूडश्च दानवः ॥ ३०॥ तेन निःसारिताः शम्भो पीड्यमानाः समन्ततः । हृताधिकारास्त्रिदशा विचरन्ति महीतले ॥ ३१॥ त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् । तं घातय महेशान लोकानां सुखमावह ॥ ३२॥ त्वमेव निर्गुणः सत्योऽनन्तोऽनन्तपराक्रमः । सगुणः सन्निवेशश्च प्रकृतेः पुरुषात्परः ॥ ३३॥ रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो । सत्त्वेन पालने विष्णुस्त्रिभुवावनकारकः ॥ ३४॥ तमसा प्रलये रुद्रो जगत्संहारकारकः । निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिःस्वरूपकः ॥ ३५॥ त्वं दीक्षया च गोलोके त्वं गवां परिपालकः । त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम् ॥ ३६॥ त्वं सर्वकारणं स्वामी विधिर्विष्ण्वीश्वरः परम् । निर्विकारी सदासाक्षी परमात्मा परेश्वरः ॥ ३७॥ दीनानाथसहायी च दीनानां प्रतिपालकः । दीनबन्धुस्त्रिलोकेशः शरणागतवत्सलः ॥ ३८॥ अस्मानुद्धर गौरीश प्रसीद परमेश्वर । त्वदधीना वयं नाथ यदिच्छसि तथा कुरु ॥ ३९॥ सनत्कुमार उवाच । इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा । विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ ॥ ४०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ॥ २.५.३०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३१. एकत्रिंशोऽध्यायः । शङ्खचूडवधे शिवोपदेशः ।

सनत्कुमार उवाच । अथाकर्ण्य वचः शम्भुर्हरिविध्योः सुदीनयोः । उवाच विहसन्वाण्या मेघनादगभीरया ॥ १॥ शिव उवाच । हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् । शङ्खचूडोद्भवं भद्रं सम्भविष्यत्यसंशयम् ॥ २॥ शङ्खचूडस्य वृत्तान्तं सर्वं जानामि तत्त्वतः । कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो ॥ ३॥ मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च । गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते ॥ ४॥ स्वतन्त्रोऽहमिति स्वं स मोहं मत्वा गतः पुरा । क्रीडाः समकरोद्बह्वीः स्वैरवर्तीव मोहितः ॥ ५॥ तं दृष्ट्वा मोहयत्युग्रं तस्याहं मायया स्वया । तेषां संहृत्य सद्बुद्धिं शापं दापितवान् किल ॥ ६॥ इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् । ज्ञानयुक्तास्तदा ते तु मुक्तमोहाः सुबुद्धयः ॥ ७॥ समीपमागतास्ते मे दीनीभूय प्रणम्य माम् । अकुर्वन्सुनुतिं भक्त्या करौ बध्वा विनम्रकाः ॥ ८॥ वृत्तान्तमवदन् सर्वं लज्जाकुलितमानसाः । ऊचुर्मत्पुरतो दीना रक्ष रक्षेति वै गिरः ॥ ९॥ तदा त्वहं भवस्तेषां सन्तुष्टः प्रोक्तवान् वचः । भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया ॥ १०॥ रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति । मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः ॥ ११॥ स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च । दानवस्तु भवेत्सोऽयं भारतेऽत्र न संशयः ॥ १२॥ शापोद्धारं करिष्येऽहं युवयोः समये खलु । मदुक्तमिति सन्धार्य शिरसा राधया सह ॥ १३॥ श्रीकृष्णोऽमोददत्यन्तं स्वस्थानमगमत्सुधीः । न्यष्ठातां सभयं तत्र मदाराधनतत्परौ ॥ १४॥ मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै । स सुदामाऽभवद्राधाशापतो दानवेश्वरः ॥ १५॥ शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः । क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः ॥ १६॥ मन्मायामोहितःसोऽतिदुष्टमन्त्रिसहायवान् । तद्भयं त्यजताश्वेव मयि शास्तरि वै सति ॥ १७॥ सनत्कुमार उवाच । इत्यूचिवान् शिवो यावद्धरिब्रह्मपुरः कथाम् । अभवत्तावदन्यच्च चरितं तन्मुने श‍ृणु ॥ १८॥ तस्मिन्नेवान्तरे कृष्णो राधया पार्षदैः सह । सद्गोपैराययौ शम्भुमनुकूलयितुं प्रभुम् ॥ १९॥ प्रभुं प्रणम्य सद्भक्त्या मिलित्वा हरिमादरात् । सम्मतो विधिना प्रीत्या सन्तस्थौ शिवशासनात् ॥ २०॥ ततः शम्भुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः । श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि ॥ २१॥ श्रीकृष्ण उवाच । देवदेव महादेव परब्रह्म सताङ्गते । क्षमस्व चापराधं मे प्रसीद परमेश्वर ॥ २२॥ त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर । सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर ॥ २३॥ त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः । त्वया नाथेन गौरीश सनाथाःसकला वयम् ॥ २४॥ सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः । तत्फलं प्राप्तवानस्मि शापं प्राप्तः सवामकः ॥ २५॥ पार्षदप्रवरो यो मे सुदामा नाम गोपकः । स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः ॥ २६॥ अस्मानुद्धर दुर्गेश प्रसीद परमेश्वर । शापोद्धारं कुरुष्वाद्य पाहि नः शरणागतान् ॥ २७॥ इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह । प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः ॥ २८॥ श्रीशिव उवाच । हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव । मयानुगृह्णता तात सर्वमाचरितं त्विदम् ॥ २९॥ सम्भविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् । स्थातव्यं स्वाधिकारे च सावधानतया सदा ॥ ३०॥ विहरस्व यथाकामं मां विज्ञाय परात्परम् । स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु ॥ ३१॥ वाराहे प्रवरे कल्पे तरुण्या राधया सह । शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम् ॥ ३२॥ सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः । दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत् ॥ ३३॥ शापप्रभावाद्राधाया देवशत्रुश्च दानवः । शङ्खचूडाभिधः सोऽति दैत्यपक्षी सुरद्रुहः ॥ ३४॥ तेन निःसारिता देवाः सेन्द्रा नित्यं प्रपीडिताः । हृताधिकारा विकृताः सर्वे याता दिशो दश ॥ ३५॥ ब्रह्माच्युतौ तदर्थे हीहागतौ शरणं मम । तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः ॥ ३६॥ सनत्कुमार उवाच । इत्युक्त्वा शङ्करः कृष्णं पुनः प्रोवाच सादरम् । हरिं विधिं समाभाष्य वचनं क्लेशनाशनम् ॥ ३७॥ शिव उवाच । हे हरे हे विधे प्रीत्या ममेदं वचनं श‍ृणु । गच्छतं त्वरितं तातौ देवानन्दाय निर्भयम् ॥ ३८॥ कैलासवासिनं रुद्रं मद्रूपं पूर्णमुत्तमम् । देवकार्यार्थमुद्भूतं पृथगाकृतिधारिणम् ॥ ३९॥ एतदर्थे हि मद्रूपः परिपूर्णतमः प्रभुः । कैलासे भक्तवशतः सन्तिष्ठति गिरौ हरे ॥ ४०॥ मत्तस्त्वत्तो न भेदोऽस्ति युवयोः सेव्य एव सः । चराचराणां सर्वेषां सुरादीनां च सर्वदा ॥ ४१॥ आवयोर्भेदकर्ता यः स नरो नरकं व्रजेत् । इहापि प्राप्नुयात्कष्टं पुत्रपौत्रविवर्जितः ॥ ४२॥ इत्युक्तवन्तं दुर्गेशं प्रणम्य च मुहुर्मुहुः । राधया सहितः कृष्णः स्वस्थानं सगणो ययौ ॥ ४३॥ हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ । मुहुर्मुहुः प्रणम्येशं वैकुण्ठं ययतुर्द्रुतम् ॥ ४४॥ तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ । तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम् ॥ ४५॥ तत्र दृष्ट्वा महेशानं पार्वतीवल्लभं प्रभुम् । दीनरक्षात्तदेहं च सगुणं देवनायकम् ॥ ४६॥ तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्गदया गिरा । करौ बद्ध्वा नतस्कन्धा विनयेन समन्विताः ॥ ४७॥ देवा ऊचुः । देवदेव महादेव गिरिजानाथ शङ्कर । वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान् ॥ ४८॥ शङ्खचूडं दानवेन्द्रं जहि देवनिषूदनम् । तेन विक्लाविता देवाः सङ्ग्रामे च पराजिताः ॥ ४९॥ हृताधिकाराः कुतले विचरन्ति यथा नराः । देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्भयात् ॥ ५०॥ दीनोद्धार कृपासिन्धो देवानुद्धर सङ्कटात् । शक्रं भयान्महेशान हत्वा तं दानवाधिपम् ॥ ५१॥ इति श्रुत्वा वचः शम्भुर्देवानां भक्तवत्सलः । उवाच विहसन् वाण्या मेघनादगभीरया ॥ ५२॥ श्रीशङ्कर उवाच । हे हरे हे विधे देवाः स्वस्थानं गच्छत ध्रुवम् । शङ्खचूडं वधिष्यामि सगणं नात्र संशयः ॥ ५३॥ सनत्कुमार उवाच । इत्याकर्ण्य महेशस्य वचः पीयूषसन्निभम् । ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम् ॥ ५४॥ हरिर्जगाम वैकुण्ठं सत्यलोके विधिस्तदा । प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः ॥ ५५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ॥ २.५.३१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३२. द्वात्रिंशोऽध्यायः । शङ्खचूडवधे दूतगमनम् ।

सनत्कुमार उवाच । अथेशानो महारुद्रो दुष्टकालःसतां गतिः । शङ्खचूडवधं चित्ते निश्चिकाय सुरेच्छया ॥ १॥ दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् । शीघ्रं प्रस्थापयामास शङ्खचूडान्तिके मुदा ॥ २॥ सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः । महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ३॥ गत्वा ददर्श तन्मध्ये शङ्खचूडालयं वरम् । राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम् ॥ ४॥ स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः । कथयामास वृत्तान्तं द्वारपालाय निर्भयः ॥ ५॥ अतिक्रम्य च तद् द्वारं जगामाभ्यन्तरे मुदा । अतीव सुन्दरं रम्यं विस्तीर्णं समलङ्कृतम् ॥ ६॥ स गत्वा शङ्खचूडं तं ददर्श दनुजाधिपम् । वीरमण्डलमध्यस्थं रत्नसिंहासनस्थितम् ॥ ७॥ दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः । शतकोटिभिरन्यैश्च भ्रमद्भिः शस्त्रपाणिभिः ॥ ८॥ एवम्भूतं च तं दृष्ट्वा पुष्पदन्तः सविस्मयः । उवाच रणवृत्तान्तं यदुक्तं शङ्करेण च ॥ ९॥ पुष्पदन्त उवाच । राजेन्द्र शिवदूतोऽहं पुष्पदन्ताभिधः प्रभो । यदुक्तं शङ्करेणैव तच्छृणु त्वं ब्रवीमि ते ॥ १०॥ शिव उवाच । राज्यं देहि च देवानामधिकारं हि साम्प्रतम् । नो चेत्कुरु रणं सार्द्धं परेण च मया सताम् ॥ ११॥ देवा मां शरणापन्ना देवेशं शङ्करं सताम् । अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम् ॥ १२॥ हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम् । खलदण्डधरोऽहं वै शरणागतवत्सलः ॥ १३॥ राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् । तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य्य वै ॥ १४॥ पुष्पदन्त उवाच । इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् । वितथं शम्भुवाक्यं न कदापि दनुजाधिप ॥ १५॥ अहं स्वस्वामिनं गन्तुमिच्छामि त्वरितं हरम् । गत्वा वक्ष्यामि किं शम्भुं तथा त्वं वद मामिह ॥ १६॥ सनत्कुमार उवाच । इत्थं च पुष्पदन्तस्य शिवदूतस्य सत्पतेः । आकर्ण्य वचनं राजा हसित्वा तमुवाच सः ॥ १७॥ शङ्खचूड उवाच । राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुन्धरा । रणं दास्यामि ते रुद्र देवानां पक्षपातिने ॥ १८॥ यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः । अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम् ॥ १९॥ प्रभात आगमिष्यामि वीरयात्रा विचारतः । त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम ॥ २०॥ इति श्रुत्वा शङ्खचूडवचनं सुप्रहस्य सः । उवाच दानवेन्द्रं स शम्भुदूतस्तु गर्वितम् ॥ २१॥ पुष्पदन्त उवाच अन्येषामपि राजेन्द्र गणानां शङ्करस्य च । न स्थातुं सम्मुखे योग्यः किं पुनस्तस्य सम्मुखम् ॥ २२॥ स त्वं देहि च देवानामधिकाराणि सर्वशः । त्वमरं गच्छ पातालं यदि जीवितुमिच्छसि ॥ २३॥ सामान्यममरं तं नो विद्धि दानवसत्तम । शङ्करः परमात्मा हि सर्वेषामीश्वरेश्वरः ॥ २४॥ इन्द्राद्याः सकला देवा यस्याज्ञावर्तिनः सदा । सप्रजापतयः सिद्धा मुनयश्चाप्यहीश्वराः ॥ २५॥ हरेर्विधेश्च स स्वामी निर्गुणः सगुणः स हि । यस्य भ्रूभङ्गमात्रेण सर्वेषां प्रलयो भवेत् ॥ २६॥ शिवस्य पूर्णरूपश्च लोकसंहारकारकः । सतां गतिर्दुष्टहन्ता निर्विकारः परात्परः ॥ २७॥ ब्रह्मणोऽधिपतिः सोऽपि हरेरपि महेश्वरः । अवमान्यं न वै तस्य शासनं दानवर्षभ ॥ २८॥ किं बहूक्तेन राजेन्द्र मनसा संविचार्य च । रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम् ॥ २९॥ देहि राज्यं हि देवानामधिकारांश्च सर्वशः । एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ॥ ३०॥ सन्त्कुमार उवाच । इति श्रुत्वा दानवेन्द्रः शङ्खचूडः प्रतापवान् । उवाच शिवदूतं तं भवितव्यविमोहितः ॥ ३१॥ शङ्खचूड उवाच । स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् । विना युद्धं महेशेन सत्यमेतद् ब्रवीम्यहम् ॥ ३२॥ कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम् । कालाद्भवति सर्वं हि विनश्यति च कालतः ॥ ३३॥ त्वं गच्छ शङ्करं रुद्रं मयोक्तं वद तत्त्वतः । स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो ॥ ३४॥ सनत्कुमार उवाच । इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् । यथार्थं कथयामास पुष्पदन्तश्च सन्मुने ॥ ३५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ॥ २.५.३२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३३. त्रयस्त्रिंशोऽध्यायः । शङ्खचूडवधे महादेवयुद्धयात्रावर्णनम् ।

सनत्कुमार उवाच । तस्य दूतस्य तद्वाक्यमाकर्ण्य सुरराट् ततः । सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥ १॥ रुद्र उवाच । हे वीरभद्र हे नन्दिन् क्षेत्रपालष्टभैरवाः । सर्वे गणाश्च सन्नद्धाः सायुधा बलशालिनः ॥ २॥ कुमाराभ्यां सहैवाद्य निर्गच्छन्तु ममाज्ञया । स्वसेनया भद्रकाली निर्गच्छतु रणाय च ॥ शङ्खचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥ ३॥ सनत्कुमार उवाच । इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः । सर्वे वीरगणास्तस्यानुययुः सम्प्रहर्षिताः ॥ ४॥ एतस्मिन्नन्तरे स्कन्दगणेशौ सर्वसैन्यपौ । ययतुर्मुदितौ नद्धौ सायुधौ च शिवान्तिके ॥ ५॥ वीरभद्रश्च नन्दी च महाकालः सुभद्रकः । विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ६॥ विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः । कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥ ७॥ कालङ्करो बलीभद्रः कालजिह्वः कुटीचरः । बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥ ८॥ इत्यादयो गणेशानाः सैन्यानां पतयो वराः । तेषां च गणनां वच्मि सावधानतया श‍ृणु ॥ ९॥ शङ्खकर्णः कोटिगणैर्युतः परविमर्दकः । दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १०॥ चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः । षड्भिः सर्वान्तकः श्रीमांस्तथैव विकृताननः ॥ ११॥ जालको हि द्वादशभिः कोटिभिर्गणपुङ्गवः । सप्तभिः समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२॥ पञ्चभिश्च करालाक्षः षड्भिः सन्दारको वरः । कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥ १३॥ विष्टम्भोऽष्टाभिरेवेह गणपः सर्वसत्तमः । पिप्पलश्च सहस्रेण सन्नादश्च तथाविधः ॥ १४॥ आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः । महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १५॥ कुण्डी द्वादशभिर्वीरैस्तथा पर्वतकः शुभः । कालश्च कालकश्चैव महाकालशतेन वै ॥ १६॥ अग्निकः शतकोट्या च कोट्याग्निमुख एव च । आदित्यो ह्यर्द्धकोट्या च तथा चैव घनावहः ॥ १७॥ सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा । अमोघः कोकिलश्चैव शतकोट्या सुमन्त्रकः ॥ १८॥ काकपादः कोटिषष्ट्या षष्ट्या सन्तानकस्तथा । महाबलश्च नवभिः पञ्चभिर्मधुपिङ्गलः ॥ १९॥ नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च । कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २०॥ कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा । तत्राजग्मुस्तथा वीरास्ते सर्वे सङ्गरोत्सवे ॥ २१॥ भूतकोटिसहस्रेण प्रमथैर्कोटिभिस्त्रिभिः । वीरभद्रश्चतुःषष्ट्या लोमजानां त्रिकोटिभिः ॥ २२॥ काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा । विरूपाक्षश्च भगवांश्चतुःषष्ट्या सनातनः ॥ २३॥ तालकेतुः षडास्यश्च पञ्चास्यश्च प्रतापवान् । संवर्तकस्तथा चैत्रो लङ्कुलीशः स्वयं प्रभुः ॥ २४॥ लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः । देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २५॥ अशनिर्भानुकश्चैव चतुःषष्ट्या सहस्रशः । कङ्कालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥ २६॥ एते चान्ये च गणपा असङ्ख्याता महाबलाः । युद्धार्थं निर्ययुः प्रीत्या शङ्खचूडेन निर्भयाः ॥ २७॥ सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः । चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८॥ रुद्राक्षाभरणाः सर्वे तथा सद्भस्मधारिणः । हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २९॥ ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगुणैर्वृताः । सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ॥ ३०॥ पृथिवीचारिणः केचित्केचित्पातालचारिणः । केचिद् व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१॥ किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः । ययुः शिवगणाः सर्वे युद्धार्थं दानवैः सह ॥ ३२॥ अष्टौ च भैरवा रौद्रा रुद्राश्चैकादशाशु ये । वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम् ॥ ३३॥ हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ । कुबेरश्च यमश्चैव निरृतिर्नलकूबरः ॥ ३४॥ वायुश्च वरुणश्चैव बुधश्च मङ्गलश्च वै । ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ॥ ३५॥ उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा । स्वयं शतभुजा देवी भद्रकाली महेश्वरी ॥ ३६॥ रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता । रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७॥ नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा । अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा ॥ ३८॥ बिभ्रती विकटां जिह्वां सुलीलां योजनायताम् । शङ्खचक्रगदापद्मखड्गचर्मधनुः शरान् ॥ ३९॥ खर्परं वर्तुलाकारं गम्भीरं योजनायतम् । त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम् ॥ ४०॥ मुद्गरं मुसलं वज्रं खड्गं फलकमुल्बणम् । वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ॥ ४१॥ नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा । पार्जन्यं च पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२॥ महावीरं च सौरं च कालकालं महानलम् । माहेश्वरास्त्रं याम्यं च दण्डं सम्मोहनं तथा ॥ ४३॥ समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम् । बिभ्रती च करैः सर्वैरन्यान्यपि च सा तदा ॥ ४४॥ आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः । सार्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ॥ ४५॥ भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः । वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ॥ ४६॥ तश्चैवाभिवृतः स्कन्दः प्रणम्य चन्द्रशेखरम् । पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ॥ ४७॥ अथ शम्भुः समानीय स्वसैन्यं सकलं तदा । युद्धार्थमगमद् रुद्रः शंङ्खचूडेन निर्भयः ॥ ४८॥ चन्द्रभागानदीतीरे वटमूले मनोहरे । तत्र तस्थौ महादेवो देवनिस्तारहेतवे ॥ ४९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ २.५.३३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३४. चतुस्त्रिंशोऽध्यायः । शङ्खचूडयात्रावर्णनम् ।

व्यास उवाच । विधितात महाबुद्धे मुने जीव चिरं समाः । कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ॥ १॥ शिवदूते गते तत्र शङ्खचूडश्च दानवः । किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ॥ २॥ सनत्कुमार उवाच । अथ दूते गते तत्र शङ्खचूडः प्रतापवान् । उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव ताम् ॥ ३॥ शङ्खचूड उवाच । शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः । तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ॥ ४॥ इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम् । क्रीडां चकार हर्षेण तमनादृत्य शङ्करम् ॥ ५॥ तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे । नानाकामकलाभिश्च निशि चाटुशतैरपि ॥ ६॥ ब्राह्मे मुहूर्ते चोत्थाय प्रातःकृत्यं विधाय च । नित्यकार्यं च कृत्वादौ ददौ दानमनन्तकम् ॥ ७॥ पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दानवेषु च । पुत्रे समर्प्य भार्यां च स राज्यं सर्वसम्पदम् ॥ ८॥ प्रियामाश्वासयामास स राजा रुदतीं पुनः । निषेधन्तीं च गमनं नाना वार्तां प्रकथ्य च ॥ ९॥ निजसेनापतिं वीरं समाहूय समादृतः । आदिदेश स सनद्धः सङ्ग्रामं कर्तुमुद्यतः ॥ १०॥ शङ्खचूड उवाच । अद्य सेनापते वीराः सर्वे समरशालिनः । सन्नद्धाखिलकर्माणो निर्गच्छन्तु रणाय च ॥ ११॥ दैत्याश्च दानवाः शूरा षडशीतिरुदायुधाः । कङ्कानां बलिनां शीघ्रं सेना निर्यान्तु निर्भयाः ॥ १२॥ पञ्चाशदसुराणां हि निर्गच्छन्तु कुलानि वै । कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ॥ १३॥ सन्नद्धानि च धौम्राणां कुलानि च शतं द्रुतम् । निर्गच्छन्तु रणार्थं हि शम्भुना मम शासनात् ॥ १४॥ कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा । सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ॥ १५॥ सनत्कुमार उवाच । इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः । निर्जगाम महासैन्यः सहस्रैर्बहुभिर्वृतः ॥ १६॥ तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः । महारथो महावीरो रथिनां प्रवरो रणे ॥ १७॥ त्रिलक्षाक्षौहिणीयुक्तो माण्डल्यं च चकार ह । बहिर्बभूव शिविराद्रणे वीरभयङ्करः ॥ १८॥ रत्नेन्द्रसारनिर्माणं विमानमभिरुह्य सः । गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल ॥ १९॥ पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः । सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम् ॥ २०॥ कपिलस्य ततःस्थानं पुण्यक्षेत्रे च भारते । पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे ॥ २१॥ श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे । पञ्चयोजनविस्तीर्णे दैर्घ्ये शतगुणस्तथा ॥ २२॥ शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा । पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती ॥ २३॥ लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसंयुता । सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ॥ २४॥ गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ । तत्र गत्वा शङ्खचूडः शिवसेनां ददर्श ह ॥ २५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ २.५.३४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३५. पञ्चत्रिंशोऽध्यायः । शङ्खचूडयात्रावर्णनम् ।

सनत्कुमार उवाच । तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् । दूतं कृत्वा महाविज्ञं प्रेषयामास शङ्करम् ॥ १॥ स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह । वटमूले समासीनं सूर्यकोटिसमप्रभम् ॥ २॥ कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् । शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ॥ ३॥ त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरावृतम् । भक्तमृत्युहरं शान्तं गौरीकान्तं त्रिलोचनम् ॥ ४॥ तपसां फलदातारं कर्त्तारं सर्वसम्पदाम् । आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ ५॥ विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् । विश्वेस्वरं विश्वकरं विश्वसंहारकारणम् ॥ ६॥ कारणं कारणानां च नरकार्णवतारकम् । ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ॥ ७॥ अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः । शङ्करं सकुमारं च शिरसा प्रणनाम सः ॥ ८॥ वामतो भद्रकालीं च स्कन्दं तत्पुरतः स्थितम् । लोकाशिषं ददौ तस्मै काली स्कन्दश्च शङ्करः ॥ ९॥ अथासौ शङ्खचूडस्य दूतः परमशास्त्रवित् । उवाच शङ्करं नत्वा करौ बद्ध्वा शुभं वचः ॥ १०॥ दूत उवाच । शङ्खचूडस्य दूतोऽहं त्वत्सकाशमिहागतः । वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ॥ ११॥ सनत्कुमार उवाच । इति श्रुत्वा च वचनं शङ्खचूडस्य शङ्करः । प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ॥ १२॥ महादेव उवाच । श‍ृणु दूत महाप्राज्ञ वचो मम सुखावहम् । कथनीयमिदं तस्मै निर्विवादं विचार्य च ॥ १३॥ विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् । मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ॥ १४॥ दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश । तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्द्धिनी ॥ १५॥ चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः । तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥ १६॥ तत्पुत्रो धार्मिको दम्भो दानवेन्द्रो महामतिः । तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः ॥ १७॥ पुरा त्वं पार्षदो गोपो गोपेष्वेव च धार्मिकः । अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ॥ १८॥ दानवीं योनिमायातस्तत्त्वतो न हि दानवः । निजवृत्तं पुरा ज्ञात्वा दैववैरं त्यजाधुना ॥ १९॥ द्रोहं न कुरु तैः सार्द्धं स्वपदं भुङ्क्ष्व सादरम् । नाधिकं सविकारं च कुरु राज्यं विचार्य च ॥ २०॥ देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव । निजराज्ये सुखं तिष्ठ तिष्ठन्तु स्वपदे सुराः ॥ २१॥ अलं भूतविरोधेन देवद्रोहेण किं पुनः । कुलीनाः शुद्धकर्माणः सर्वे कश्यपवंशजाः ॥ २२॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । ज्ञातिद्रोहजपापस्य कलां नार्हन्ति षोडशीम् ॥ २३॥ सनत्कुमार उवाच । इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् । प्रोवाच शङ्करः तस्मै बोधयन् ज्ञानमुत्तमम् ॥ २४॥ शिक्षितः शङ्खचूडेन स दूतस्तर्कवित्तमः । उवाच वचनं नम्रो भवितव्यविमोहितः ॥ २५॥ दूत उवाच । त्वया यत्कथितं देव नान्यथा तत्तथा वचः । तथ्यं किञ्चिद्यथार्थं च श्रूयतां मे निवेदनम् ॥ २६॥ ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् । तत्किमीशासुराणां च न सुराणां वद प्रभो ॥ २७॥ सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च । निर्णयं ब्रूहि तत्राद्य कुरु सन्देहभञ्जनम् ॥ २८॥ मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे । शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर ॥ २९॥ त्रिपुरैःसह संयुद्धं भस्मत्वकरणं कुतः । भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम् ॥ ३०॥ गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः । सुतलादि समुद्धर्तुं तद्द्वारे च गदाधरः ॥ ३१॥ सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः । शुम्भादयोऽसुराश्चैव कथं देवैर्निपातिताः ॥ ३२॥ पुरा समुद्रमथने पीयूषं भक्षितं सुरैः । क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः ॥ ३३॥ क्रीडाभाण्डमिदं विश्वं कालस्य परमात्मनः । स ददाति यदा यस्मै तस्यैश्वर्यं भवेत्तदा ॥ ३४॥ देवदानवयोर्वैरं शश्वन्नैमित्तिकं सदा । पराजयो जयस्तेषां कालाधीनः क्रमेण च ॥ ३५॥ तवानयोर्विरोधे च गमनं निष्फलं भवेत् । समसम्बन्धिनां तद्वै रोचते नेश्वरस्य ते ॥ ३६॥ सुरासुराणां सर्वेषामीश्वरस्य महात्मनः । इयं ते रहिता लज्जा स्पर्धास्माभिः सहाधुना ॥ ३७॥ यतोऽधिका चैव कीर्तिर्हानिश्चैव पराजये । तवैतद्विपरीतं च मनसा संविचार्यताम् ॥ ३८॥ सनत्कुमार उवाच । इत्येतद्वचनं श्रुत्वा सम्प्रहस्य त्रिलोचनः । यथोचितं च मधुरमुवाच दानवेश्वरम् ॥ ३९॥ महेश उवाच । वयं भक्तपराधीना न स्वतन्त्राः कदापि हि । तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः ॥ ४०॥ पुरा विधिप्रार्थनया युद्धमादौ हरेरपि । मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ॥ ४१॥ देवप्रार्थनया तेन हिरण्यकशिपोः पुरा । प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा ॥ ४२॥ त्रिपुरैः सह संयुद्धं भस्मत्वकरणं ततः । देवप्रार्थनयाकारि मयापि च पुरा श्रुतम् ॥ ४३॥ सर्वैश्वर्याः सर्वमातुर्देवप्रार्थनया पुरा । आसीच्छुम्भादिभिर्युद्धं वधस्तेषां तया कृतः ॥ ४४॥ अद्यापि त्रिदशाः सर्वे ब्रह्माणं शरणं ययुः । स सदेवो हरिर्मां च देवः शरणमागतः ॥ ४५॥ हरिब्रह्मादिकानां च प्रार्थनावशतोऽप्यहम् । सुराणामीश्वरो दूत युद्धार्थमगमं खलु ॥ ४६॥ पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः । ये ये हताश्च दैतेया न हि केऽपि त्वया समाः ॥ ४७॥ का लज्जा महती राजन् मम युद्धे त्वया सह । देवकार्यार्थमीशोऽहं विनयेन च प्रेषितः ॥ ४८॥ गच्छ त्वं शङ्खचूडं वै कथनीयं च मे वचः । स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम् ॥ ४९॥ इत्युक्त्वा शङ्करस्तत्र विरराम महेश्वरः । उत्तस्थौ शङ्खचूडस्य दूतोऽगच्छत्तदन्तिकम् ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे शिवदूतसंवादो नाम पञ्चत्रिंशोऽध्यायः ॥ २.५.३५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३६. षट्स्त्रिंशोऽध्यायः । शङ्खचूडवधे परस्परयुद्धवर्णनम् ।

सनत्कुमार उवाच । स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह । सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥ १॥ तच्छुत्वा शङ्खचूडोऽसौ दानवेन्द्रः प्रतापवान् । अङ्गीचकार सुप्रीत्या रणमेव स दानवः ॥ २॥ समारुरोह यानं च सहामात्यैश्च सत्वरः । आदिदेश स्वसैन्यं च युद्धार्थं शङ्करेण च ॥ ३॥ शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरः । स्वयमप्यखिलेशोऽपि सन्नद्धोऽभूच्च लीलया ॥ ४॥ युद्धारम्भो बभूवाशु नेदुर्वाद्यानि भूरिशः । कोलाहलश्च सञ्जातो वीरशब्दस्तथैव च ॥ ५॥ देवदानवयोर्युद्धं परस्परमभून्मुने । धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६॥ स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा । भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७॥ दम्भेन सह विष्णुश्च चकार परमं रणम् । कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८॥ कुबेरः कालकेयेन विश्वकर्मा मयेन च । भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ९॥ कालम्बिकेन वरुणश्चञ्चलेन समीरणः । बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ १०॥ जयन्तो रत्नसारेण वसवो वर्चसां गणैः । अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः ॥ ११॥ धुरन्धरेण धर्मश्च गणकाक्षेण मङ्गलः । शोभाकरेण वैश्वानः पिपिटेन च मन्मथः ॥ १२॥ गोकामुखेन चूर्णेन खड्गनाम्नासुरेण च । धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥ १३॥ द्वादशार्का पलाशेन युयुधुर्धर्मतः परे । असुरैरमराः सार्द्धं शिवसाहाय्यशालिनः ॥ १४॥ एकादश महारुद्राश्चैकादशभयङ्करैः । असुरैर्युयुधुर्वीरैर्महाबलपराक्रमैः ॥ १५॥ महामणिश्च युयुधे चोग्रचण्डादिभिः सह । राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥ १६॥ नन्दीश्वरादयः सर्वे दानवप्रवरैः सह । युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥ १७॥ वटमूले तदा शम्भुस्तस्थौ काल्याः सुतेन च । सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ॥ १८॥ रत्नसिंहासने रम्ये कोटिदानवसंयुते । उवास शङ्खचूडश्च रत्नभूषणभूषितः ॥ १९॥ महायुद्धो बभूवाथ देवासुरविमर्दनः । नानायुधानि दिव्यानि चलन्ति स्म महामृधे ॥ २०॥ गदर्ष्टिपट्टिशाश्चक्रभुशुण्डिप्रासमुद्गराः । निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥ २१॥ शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः । भिन्दिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥ २२॥ शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महोत्सवाः । वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥ २३॥ गजास्तुरङ्गा बहवः स्यन्दनाश्च पदातयः । सारोहवाहा विविधास्तत्रासन् सुविखण्डिताः ॥ २४॥ निकृत्तबाहूरुकरकटिकर्णयुगाङ्घ्रयः । सञ्छिन्नध्वजबाणासितनुत्रवरभूषणाः ॥ २५॥ समुद्धतकिरीटैश्च शिरोभिः सह कुण्डलैः । संरम्भनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ॥ २६॥ महाभुजैः साभरणैः सञ्छिन्नैः सायुधैस्तथा । अङ्गैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥ २७॥ मृधे भटाः प्रधावन्तः कबन्धान् स्वशिरोक्षिभिः । पश्यन्तस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः ॥ २८॥ वल्गन्तोऽतितरां वीरा युयुधुश्च परस्परम् । शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ॥ २९॥ केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे । व्यनदन् वीरसन्नादं सतोया इव तोयदाः ॥ ३०॥ सर्वतः शरकूटेन वीरः सरथसारथिम् । वीरं सञ्छादयामास प्रावृट्सूर्यमिवाम्बुदः ॥ ३१॥ अन्योऽन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः । आह्वयन्तो विशन्तोऽग्रे क्षिपन्तो मर्मभिर्मिथः ॥ ३२॥ सर्वतो वीरसङ्घाश्च नानाबाहुध्वजायुधाः । व्यदृश्यन्त महासङ्ख्ये कुर्वन्तः सिंहसंरवम् ॥ ३३॥ महारवान् स्वशङ्खांश्च विदध्मुर्वै पृथक् पृथक् । वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ॥ ३४॥ एवं चिरतरं कालं देवदानवयोर्महत् । बभूव युद्धं विकटं करालं वीरहर्षदम् ॥ ३५॥ महाप्रभोश्च लीलेयं शङ्करस्य परात्मनः । यया समोहितं सर्वं सदेवासुरमानुषम् ॥ ३६॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ २.५.३६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३७. सप्तत्रिंशोऽध्यायः । शङ्खचूडवधे ससैन्यशङ्खचूडयुद्धवर्णनम् ।

सनत्कुमार उवाच । तदा देवगणाः सर्वे दानवैश्च पराजिताः । दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ॥ १॥ ते परावृत्य विश्वेशं शङ्करं शरणं ययुः । त्राहि त्राहीति सर्वेशेत्यूचुर्विह्वलया गिरा ॥ २॥ दृष्ट्वा पराजयं तेषां देवादीनां स शङ्करः । सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह ॥ ३॥ निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ । बलं च स्वगणानां वै वर्द्धयामास तेजसा ॥ ४॥ शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैः सह । युयुधे निर्भयः सङ्ख्ये महावीरो हरात्मजः ॥ ५॥ कृत्वा क्रोधं वीरशब्दं देवो यस्तारकान्तकः । अक्षौहिणीनां शतकं समरे स जघान ह ॥ ६॥ रुधिरं पातयामास काली कमललोचना । तेषां शिरांसि सञ्छिद्य बभक्ष सहसा च सा ॥ ७॥ पपौ रक्तानि तेषां च दानवानां समन्ततः । युद्धं चकार विविधं सुरदानवभीषणम् ॥ ८॥ शतलक्षं गजेन्द्राणां दानवानां तथा रणे । समादायैकहस्तेन मुखे चिक्षेप लीलया ॥ ९॥ कबन्धानां सहस्रं च सन्ननर्त रणे बहु । महान् कोलाहलो जातः क्लीबानां च भयङ्करः ॥ १०॥ पुनः स्कन्दः प्रकुप्योच्चैः शरवर्षां चकार ह । पातयामास क्षणतः कोटिशोऽसुरनायकान् ॥ ११॥ दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः । भीताः प्रदुद्रुवुः सर्वे शेषा मरणतस्तदा ॥ १२॥ वृषपर्वा विप्रचित्तिर्दण्डश्चापि विकम्पनः । स्कन्देन युयुधुः सार्द्धं तेन सर्वे क्रमेण च ॥ १३॥ महामारी च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते क्षताङ्गाश्च स्कन्दशक्तिप्रपीडिताः ॥ १४॥ महामारीस्कन्दयोश्च विजयोऽभूत्तदा मुने । नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिः पपात ह ॥ १५॥ स्कन्दस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् । दानवानां क्षयकरं यथा प्रकृतिकल्पकम् ॥ १६॥ महामारीकृतं तच्चोपद्रवं क्षयहेतुकम् । चुकोपातीव सहसा सनद्धोऽभूत्स्वयं तदा ॥ १७॥ वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम् । अभयं सर्ववीराणां नानारत्नपरिच्छदम् ॥ १८॥ महावीरैः शङ्खचूडो जगाम रथमध्यतः । धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ॥ १९॥ तस्य सा शरवृष्टिश्च दुर्निवार्या भयङ्करी । महाघोरान्धकारश्च वधस्थाने बभूव ह ॥ २०॥ देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः । एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ॥ २१॥ पर्वतानां च सर्पाणां नागानां शाखिनां तथा । राजा चकार वृष्टिं च दुर्निवार्यां भयङ्करीम् ॥ २२॥ तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः । नीहारेण च सान्द्रेण संवृतो भास्करो यथा ॥ २३॥ नानाविधां स्वमायां च चकार मयदर्शिताम् । तां नाविदन् सुराः केऽपि गणाश्च मुनिसत्तम ॥ २४॥ तदैव शङ्खचूडश्च महामायी महाबलः । शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ॥ २५॥ बभञ्ज तद्रथं दिव्यं चिच्छेद रथरक्षकान् । मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ॥ २६॥ शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् । मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ॥ २७॥ पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा । रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ॥ २८॥ स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः । शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम् ॥ २९॥ सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३०॥ वह्निं निवारयामास पार्जन्येन शरेण ह । रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ ३१॥ सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् । वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ॥ ३२॥ चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि । तत्प्रहारेण सम्प्राप मूर्च्छां दीर्घतमेन च ॥ ३३॥ मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः । चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्चसः ॥ ३४॥ शक्त्या जघान तं चापि कार्तिकेयं महाबलम् । स पपात महीपृष्ठेऽमोघां कुर्वन् विधिप्रदाम् ॥ ३५॥ काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ । ज्ञानेन तं शिवश्चापि जीवयामास लीलया ॥ ३६॥ ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् । गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ॥ ३७॥ एतस्मिन्नन्तरे वीरो वीरभद्रो महाबलः । शङ्खचूडेन युयुधे समरे बलशालिना ॥ ३८॥ ववर्ष समरेऽस्त्राणि यानि यानि च दानवः । चिच्छेद लीलया वीरस्तानि तानि निजैः शरैः ॥ ३९॥ दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः । तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ॥ ४०॥ अथातीव चुकोपोच्चैः शङ्खचूडः प्रतापवान् । शक्त्या जघानोरसि तं स चकम्पे पपात कौ ॥ ४१॥ क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः । जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ॥ ४२॥ एतस्मिन्नन्तरे काली जगाम समरं पुनः । भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया ॥ ४३॥ वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः । सर्वे देवाश्च गन्धर्वा यक्षा रक्षांसि पन्नगाः ॥ ४४॥ मद्यभाण्डाश्च बहुशः शतशो वाद्यवाहकाः । पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ॥ ४५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे ससैन्यशङ्खचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ २.५.३७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३८. अष्टत्रिंशोऽध्यायः । शङ्खचूडवधे कालीयुद्धवर्णनम् ।

सनत्कुमार उवाच । सा च गत्वा हि सङ्ग्रामं सिंहनादं चकार ह । देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः ॥ १॥ अट्टाट्टहासमशिवं चकार च पुनः पुनः । तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि ॥ २॥ उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु । अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु सम्पपुः ॥ ३॥ महान् कोलाहलो जातो गणदेवदले तदा । जहृषुर्बहुगर्जन्तः सर्वे सुरगणादयः ॥ ४॥ दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ । दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ ॥ ५॥ काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् । राजा जघान तं शीघ्रं वैष्णवाङ्कितलीलया ॥ ६॥ नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् । वृद्धिं जगाम तच्छस्त्रं दृष्ट्वा वामं च दानवम् ॥ ७॥ तं दृष्ट्वा शङ्खचूडश्च प्रलयाग्निशिखोपमम् । पपात दण्डवद्भूमौ प्रणनाम पुनःपुनः ॥ ८॥ निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्वा नम्रं च दानवम् । ब्रह्मास्त्रमथ सा देवी चिक्षेप मन्त्रपूर्वकम् ॥ ९॥ तं दृष्ट्वा प्रज्ज्वलन्तं च प्रणम्य भुवि संस्थितः । ब्रह्मास्त्रेण दानवेन्द्रो विनिर्वारं चकार ह ॥ १०॥ अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा । चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मन्त्रपूर्वकम् ॥ ११॥ आहारं समरे चक्रे प्रसार्य मुखमायतम् । जगर्ज साट्टहासं च दानवा भयमाययुः ॥ १२॥ काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् । देवी दिव्यास्त्रजालेन शतखण्डं चकार सा ॥ १३॥ स च वैष्णवमस्त्रं च चिक्षेप चण्डिकोपरि । माहेश्वरेण काली च विनिर्वारं चकार सा ॥ १४॥ एवं चिरतरं युद्धमन्योऽन्यं सम्बभूव ह । प्रेक्षका अभवन् सर्वे देवाश्च दानवा अपि ॥ १५॥ अथ कुद्धा महादेवी काली कालसमा रणे । जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा ॥ १६॥ क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी । न क्षिपास्त्रमिदं देवि शङ्खचूडाय वै रुषा ॥ १७॥ मृत्युः पाशुपतान्नास्त्यमोघादपि च चण्डिके । शङ्खचूडस्य वीरस्योपायमन्यं विचारय ॥ १८॥ इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् । शतलक्षं दानवानां जघास लीलया क्षुधा ॥ १९॥ अत्तुं जगाम वेगेन शङ्खचूडं भयङ्करी । दिव्यास्त्रेण च रौद्रेण वारयामास दानवः ॥ २०॥ अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् । ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यन्तभीकरम् ॥ २१॥ सा काली तं समालोक्यायान्तं प्रज्वलितं रुषा । प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः ॥ २२॥ दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः । प्राप्तानि पूर्वतश्चक्रे शतखण्डानि तानि च ॥ २३॥ पुनरत्तुं महादेवी वेगतस्तं जगाम ह । सर्वसिद्धेश्वरः श्रीमानन्तर्धानं चकार सः ॥ २४॥ वेगेन मुष्टिना काली तमदृष्ट्वा च दानवम् । बभञ्ज च रथं तस्य जघान किल सारथिम् ॥ २५॥ अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः । भद्रकाल्यै शङ्खचूडः प्रलयाग्निशिखोपमम् ॥ २६॥ सा देवी तं तदा चक्रं वामहस्तेन लीलया । जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम् ॥ २७॥ मुष्ट्या जघान तं देवी महाकोपेन वेगतः । बभ्राम दानवेन्द्रोऽपि क्षणं मूर्च्छामवाप सः ॥ २८॥ क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान् । न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह ॥ २९॥ गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः । ऊर्ध्वं च प्रापयामास महाकोपेन वेगतः ॥ ३०॥ उत्पपात च वेगेन शङ्खचूडः प्रतापवान् । निपत्य च समुत्तस्थो प्रणम्य भद्रकालिकाम् ॥ ३१॥ रत्नेन्द्रसारनिर्माणविमानं सुमनोहरम् । आरुरोह स हृष्टात्मा न भ्रान्तोऽपि महारणे ॥ ३२॥ दानवानां हि क्षतजं सा पपौ कालिका क्षुधा । एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ३३॥ लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना । उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुङ्क्ष्व चेश्वरि ॥ ३४॥ सङ्ग्रामे दानवेन्द्रं च हन्तुं न कुरु मानसम् । अवध्योऽयं शङ्खचूडस्तव देवीति निश्चयम् ॥ ३५॥ तच्छुत्वा वचनं देवी निःसृतं व्योममण्डलात् । दानवानां बहूनां च मांसं च रुधिरं तथा ॥ ३६॥ भुक्त्वा पीत्वा भद्रकाली शङ्करान्तिकमाययौ । उवाच रणवृत्तान्तं पौर्वापर्येण सक्रमम् ॥ ३७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ २.५.३८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.३९. एकोनचत्वारिंशोऽध्यायः । शङ्खचूडसैन्यवधवर्णनम् ।

व्यास उवाच । श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् । तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम ॥ १॥ सनत्कुमार उवाच । काल्युक्तं वचनं श्रुत्वा शङ्करः परमेश्वरः । महालीलाकरः शम्भुर्जहासाश्वासयञ्च ताम् ॥ २॥ व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः । ययौ स्वयं च समरे स्वगणैः सह शङ्करः ॥ ३॥ महावृषभमारूढो वीरभद्रादिसंयुतः । भैरवैः क्षेत्रपालैश्च स्वसमानैः समन्वितः ॥ ४॥ रणं प्राप्तो महेशश्च वीररूपं विधाय च । विरराजाधिकं तत्र रुद्रो मूर्त इवान्तकः ॥ ५॥ शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य सः । ननाम परया भक्त्या शिरसा दण्डवद्भुवि ॥ ६॥ तं प्रणम्य तु योगेन विमानमारुरोह सः । तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम् ॥ ७॥ शिवदानवयोर्युद्धं शतमब्दं बभूव ह । बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा ॥ ८॥ शङ्खचूडो महावीरः शरांश्चिक्षेप दारुणान् । चिच्छेद शङ्करस्तान्वै लीलया स्वशरोत्करैः ॥ ९॥ तदङ्गेषु च शस्त्रौघैस्ताडयामास कोपतः । महारुद्रो विरूपाक्षो दुष्टदण्डः सतां गतिः ॥ १०॥ दानवो निशितं खड्गं चर्म चादाय वेगवान् । वृषं जघान शिरसि शिवस्य वरवाहनम् ॥ ११॥ ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया । खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम् ॥ १२॥ छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः । द्विधा चक्रे स्वबाणेन हरस्तां सम्मुखागताम् ॥ १३॥ कोपाध्मातः शङ्खचूडः चक्रं चिक्षेप दानवः । मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः ॥ १४॥ गदामाविध्य तरसा सञ्चिक्षेप हरं प्रति । शम्भुना सापि सहसा भिन्ना भस्मत्वमागता ॥ १५॥ ततः परशुमादाय हस्तेन दानवेश्वरः । धावति स्म हरं वेगाच्छङ्खचूडः क्रुधाकुलः ॥ १६॥ समाहृत्य स्वबाणौघैरपातयत शङ्करः । द्रुतं परशुहस्तं तं भूतले लीलयासुरम् ॥ १७॥ ततः क्षणेन सम्प्राप्य संज्ञामारुह्य सद्रथम् । धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः ॥ १८॥ आयान्तं तं निरीक्ष्यैव डमरुध्वनिमादरात् । चकार ज्यारवं चापि धनुषो दुःसहं हरः ॥ १९॥ पूरयामास ककुभः श‍ृङ्गनादेन च प्रभुः । स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा ॥ २०॥ त्याजितेभमहागर्वैर्महानादैर्वृषेश्वरः । पूरयामास सहसा खं गां वसुदिशस्तथा ॥ २१॥ महाकालः समुत्पत्य ताडयद् गां तथा नभः । कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरा रवाः ॥ २२॥ अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह । भैरवोऽपि महानादं स चकार महाहवे ॥ २३॥ महाकोलाहलो जातो रणमध्ये भयङ्करः । वीरशब्दो बभूवाथ गणमध्ये समन्ततः ॥ २४॥ सन्त्रेसुर्दानवाःसर्वे तैः शब्दैर्भयदैः खरैः । चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः ॥ २५॥ तिष्ठ तिष्ठेति दुष्टात्मन् व्याजहार यदा हरः । देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च ॥ २६॥ अथागत्य स दम्भस्य तनयः सुप्रतापवान् । शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम् ॥ २७॥ वह्निकूटप्रभायान्ती क्षेत्रपालेन सत्वरम् । निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया ॥ २८॥ पुनः प्रववृते युद्धं शिवदानवयोर्महत् । चकम्पे धरणी द्यौश्च सनगाब्धिजलाशया ॥ २९॥ दाम्भिमुक्तान् शरान् शम्भुः शरांस्तत्प्रहितान्स च । सहस्रशः शरैरुग्रैश्चिच्छेद शतशस्तदा ॥ ३०॥ ततः शम्भुस्त्रिशूलेन सङ्क्रुद्धस्तं जघान ह । तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः ॥ ३१॥ ततः क्षणेन सम्प्राप संज्ञां स च तदासुरः । आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः ॥ ३२॥ बाहूनामयुतं कृत्वा छादयामास शङ्करम् । चक्रायुतेन सहसा शङ्खचूडः प्रतापवान् ॥ ३३॥ ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः । तानि चक्राणि चिच्छेद स्वशरैरुत्तमैर्द्रुतम् ॥ ३४॥ ततो वेगेन सहसा गदामादाय दानवः । अभ्यधावत वै हन्तुं बहुसेनावृतो हरम् ॥ ३५॥ गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः । शितधारेण सङ्क्रुद्धो दुष्टगर्वापहारकः ॥ ३६॥ छिन्नायां स्वगदायां च चुकोपातीव दानवः । शूलं जग्राह तेजस्वी परेषां दुःसहं ज्वलत् ॥ ३७॥ सुदर्शनं शूलहस्तमायान्तं दानवेश्वरम् । स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः ॥ ३८॥ त्रिशूलभिन्नहृदयान्निष्क्रान्तः पुरुषः परः । तिष्ठ तिष्ठेति चोवाच शङ्खचूडस्य वीर्यवान् ॥ ३९॥ निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः । चिच्छेद च शिरो भीममसिना सोऽपतद्भुवि ॥ ४०॥ ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् । असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा ॥ ४१॥ क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः । केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे ॥ ४२॥ वीरभद्रोऽपरान् वीरान् बहून् क्रोधादनाशयत् । नन्दीश्वरो जघानान्यान् बहूनमरमर्दकान् ॥ ४३॥ एवं बहुगणा वीरास्तदा सन्नह्य कोपतः । व्यनाशयन्बहून्दैत्यानसुरान् देवमर्दकान् ॥ ४४॥ इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् । विद्रुताश्चापरे वीरा बहवो भयकातराः ॥ ४५॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडसैन्यवधवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २.५.३९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४०. चत्वारिंशोऽध्यायः । शङ्खचूडवधोपाख्यानम् ।

सनत्कुमार उवाच । स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः । तथा वीरान् प्राणसमान् चुकोपातीव दानवः ॥ १॥ उवाच वचनं शम्भुं तिष्ठाम्याजौ स्थिरो भव । किमेतैर्निहतैर्मेऽद्य सम्मुखे समरं कुरु ॥ २॥ इत्युक्त्वा दानवेन्द्रोऽसौ सन्नद्धः समरे मुने । अगच्छन्निश्चयं कृत्वाऽभिमुखं शङ्करस्य च ॥ ३॥ दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः । चकार शरवृष्टिं च तोयवृष्टिं यथा घनः ॥ ४॥ मायाश्चकार विविधा अदृश्या भयदर्शिताः । अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ॥ ५॥ तां दृष्ट्वा शङ्करस्तत्र चिक्षेपास्त्रं च लीलया । माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ॥ ६॥ तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा । दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ॥ ७॥ अथ युद्धे महेशानस्तद्वधाय महाबलः । शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ॥ ८॥ तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी । क्षिप शूलं न चेदानीं प्रार्थनां श‍ृणु शङ्कर ॥ ९॥ सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने । किमेकदानवस्येश शङ्खचूडस्य साम्प्रतम् ॥ १०॥ तथापि वेदमर्यादा न नाश्या स्वामिना त्वया । तां श‍ृणुष्व महादेव सफलं कुरु सत्यतः ॥ ११॥ यावदस्य करेऽत्युग्रं कवचं परमं हरेः । यावत्सतीत्वमस्त्येव सत्या अस्यस्य योषितः ॥ १२॥ तावदस्य जरामृत्युः शङ्खचूडस्य शङ्कर । नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ॥ १३॥ इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा । हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ॥ १४॥ वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः । शङ्खचूडोपकण्ठं च गत्वोवाच स तं तदा ॥ १५॥ वृद्धब्राह्मण उवाच । देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय साम्प्रतम् ॥ १६॥ नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् । पश्चात्त्वां कथयिष्यामि पुनः सत्यं करिष्यसि ॥ १७॥ ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः । कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ॥ १८॥ तच्छ्रुत्वा दानवेन्द्रोऽसौ ब्रह्मण्यः सत्यवाग्विभुः । तद् ददौ कवचं दिव्यं विप्राय प्राणसम्मतम् ॥ १९॥ माययेत्थं तु कवचं तस्माज्जग्राह वै हरिः । शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ २०॥ गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः । वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ॥ २१॥ एतस्मिन्नन्तरे शम्भुमीरयन् स्ववचः प्रभुः । शङ्खचूडवधार्थाय शूलं जग्राह प्रज्वलत् ॥ २२॥ तच्छूलं विजयं नाम शङ्करस्य परात्मनः । सञ्चकाशे दिशः सर्वा रोदसीं सम्प्रकाशयन् ॥ २३॥ कोटिमध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् । दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ॥ २४॥ तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रनायकम् । सुरासुराणां सर्वेषां दुःसहं च भयङ्करम् ॥ २५॥ संहर्तुं सर्वब्रह्माडमवलम्ब्य च लीलया । संस्थितं परमं तत्र एकत्रीभूय विज्वलत् ॥ २६॥ धनुः सहस्रं दीर्घेण प्रस्थेन शतहस्तकम् । जीवब्रह्मस्वरूपं च नित्यरूपमनिर्मितम् ॥ २७॥ विभ्रमद् व्योम्नि तच्छूलं शङ्खचूडोपरि क्षणात् । चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ॥ २८॥ अथ शूलं महेशस्य द्रुतमावृत्य शङ्करम् । ययौ विहायसा विप्र मनोयायि स्वकार्यकृत् ॥ २९॥ नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः । तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ॥ ३०॥ बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् । प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ॥ ३१॥ शङ्खचूडो दानवेन्द्रः शिवस्य कृपया तदा । शापमुक्तो बभूवाथ पूर्वरूपमवाप ह ॥ ३२॥ अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह । प्रशस्तं शङ्खतोयं च सर्वेषां शङ्करं विना ॥ ३३॥ विशेषेण हरेर्लक्ष्म्याः शङ्खतोयं महाप्रियम् । सम्बन्धिनां च तस्यापि न हरस्य महामुने ॥ ३४॥ तमित्थं शङ्करो हत्वा शिवलोकं जगाम सः । सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः ॥ ३५॥ हरिर्जगाम वैकुण्ठं कृष्णः स्वस्थो बभूव ह । सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥ ३६॥ जगत्स्वास्थ्यमतीवाप सर्वं निर्विघ्नमाप कम् । निर्मलं चाभवद्व्योम क्षितिः सर्वा सुमङ्गला ॥ ३७॥ इति प्रोक्तं महेशस्य चरितं प्रमुदावहम् । सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम् ॥ ३८॥ धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम् । भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम् ॥ ३९॥ य इदं श‍ृणुयान्नित्यं चरितं शशिमौलिनः । श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः ॥ ४०॥ धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः । सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः ॥ ४१॥ इदमाख्यानमतुलं सर्वोपद्रवनाशनम् । परमज्ञानजननं शिवभक्तिविवर्द्धनम् ॥ ४२॥ ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् । धनाढ्यो वैश्यजः शूद्रः श‍ृण्वन् सत्तमतामियात् ॥ ४३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शङ्खचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥ २.५.४०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४१. एकचत्वारिंशोऽध्यायः । शङ्खचूडवधोपाख्यानम् ।

व्यास उवाच । नारायणश्च भगवान् वीर्याधानं चकार ह । तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥ १॥ सनत्कुमार उवाच । नारायणो हि देवानां कार्यकर्ता सतां गतिः । शङ्खचूडस्य रूपेण रेमे तद्रामया सह ॥ २॥ तदेव श‍ृणु विष्णोश्च चरितं प्रमुदावहम् । शिवशासनकर्तुश्च मातुश्च जगतां हरेः ॥ ३॥ रणमध्ये व्योमवचः श्रुत्वा देवेन शम्भुना । प्रेरितः शङ्खचूडस्य गृहीत्वा कवचं परम् ॥ ४॥ विप्ररूपेण त्वरितं मायया निजया हरिः । जगाम शङ्खचूडस्य रूपेण तुलसीगृहम् ॥ ५॥ दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ । जयशब्दं च तत्रैव बोधयामास सुन्दरीम् ॥ ६॥ तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता । राजमार्गं गवाक्षेण ददर्श परमादरात् ॥ ७॥ ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् । द्रुतं चकार श‍ृङ्गारं ज्ञात्वाऽऽयातं निजं पतिम् ॥ ८॥ अवरुह्य रथाद्विष्णुस्तद्देव्या भवनं ययौ । शङ्खचूडस्वरूपः स मायावी देवकार्यकृत् ॥ ९॥ दृष्ट्वा तं च पुरः प्राप्तं स्वकान्तं सा मुदान्विता । तत्पादौ क्षालयामास ननाम च रुरोद च ॥ १०॥ रत्नसिंहासने रम्ये वासयामास मङ्गलम् । ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ११॥ अद्य मे सफलं जन्म जीवनं सम्बभूव ह । रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १२॥ इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा । पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ १३॥ तुलस्युवाच । असङ्ख्यविश्वसंहर्ता स देवप्रवरः प्रभुः । यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयः सदा ॥ १४॥ त्रिदेवजनकः सोऽत्र त्रिगुणात्मा च निर्गुणः । भक्तेच्छया च सगुणो हरिब्रह्माप्रवर्तकः ॥ १५॥ कुबेरस्य प्रार्थनया गुणरूपधरो हरः । कैलासवासी गणपः परब्रह्म सतां गतिः ॥ १६॥ यस्यैकपलमात्रेण कोटिब्रह्माण्डसङ्क्षयः । विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ॥ १७॥ कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो । कथं बभूव सङ्ग्रामस्तेन देवसहायिना ॥ १८॥ कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् । कथं बभूव विजयस्तव ब्रूहि तदेव मे ॥ १९॥ श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः । शङ्खचूडरूपधरस्तामुवाचामृतं वचः ॥ २०॥ श्रीभगवानुवाच । यदाहं रणभूमौ च जगाम समरप्रियः । कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ॥ २१॥ देवदानवयोर्युद्धं सम्बभूव जयैषिणोः । दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ॥ २२॥ तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः । पराजिताश्च ते देवाः शङ्करं शरणं ययुः ॥ २३॥ रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति । तेनाहं वै चिरं कालमयौत्सं बलदर्पितः ॥ २४॥ आवयोः समरः कान्ते पूर्णमब्दं बभूव ह । नाशो बभूव सर्वेषामसुराणां च कामिनि ॥ २५॥ प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः । देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ॥ २६॥ मयागतं स्वभवनं शिवलोकं शिवो गतः । सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ॥ २७॥ सनत्कुमार उवाच । इत्युक्त्वा जगतां नाथः शयनं च चकार ह । रेमे रमापतिस्तत्र रमया स तया मुदा ॥ २८॥ सा साध्वी सुखसम्भावाकर्षणस्य व्यतिक्रमात् । सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ॥ २९॥ तुलस्युवाच । को वा त्वं वद मामाशु भुक्ताहं मायया त्वया । दूरीकृतं मत्सतीत्वमथ त्वां वै शपाम्यहम् ॥ ३०॥ सनत्कुमार उवाच । तुलसीवचनं श्रुत्वा हरिः शापभयेन च । दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम् ॥ ३१॥ तद् दृष्ट्वा तुलसी रूपं ज्ञात्वा विष्णुं तु चिह्नतः । पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ॥ ३२॥ तुलस्युवाच । हे विष्णो ते दया नास्ति पाषाणसदृशं मनः । पतिधर्मस्य भङ्गेन मम स्वामी हतः खलु ॥ ३३॥ पाषाणसदृशस्त्वं च दयाहीनो यतः खलः । तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ॥ ३४॥ ये वदन्ति दयासिन्धुं त्वां भ्रान्तास्ते न संशयः । भक्तो विनापराधेन परार्थे च कथं हतः ॥ ३५॥ सनत्कुमार उवाच । इत्युक्त्वा तुलसी सा वै शङ्खचूडप्रिया सती । भृशं रुरोद शोकार्ता विललाप भृशं मुहुः ॥ ३६॥ ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः । सस्मार शङ्करं देवं येन सम्मोहितं जगत् ॥ ३७॥ ततः प्रादुर्बभूवाथ शङ्करो भक्तवत्सलः । हरिणा प्रणतश्चासीत्सन्नुतो विनयेन सः ॥ ३८॥ शोकाकुलं हरिं दृष्ट्वा विलपन्तीं च तत्प्रियाम् । नयेन बोधयामास तं तां कृपणवत्सलाम् ॥ ३९॥ शङ्कर उवाच । मा रोदीस्तुलसि त्वं हि भुङ्क्ते कर्मफलं जनः । सुखदुःखदो न कोऽप्यस्ति संसारे कर्मसागरे ॥ ४०॥ प्रस्तुतं श‍ृणु निर्दुःखं श‍ृणोति सुमना हरिः । द्वयोः सुखकरं यत्तद् ब्रवीमि सुखहेतवे ॥ ४१॥ तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् । तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ॥ ४२॥ इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च । रमस्व हरिणा नित्यं रमया सदृशी भव ॥ ४३॥ तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह । भारते पुण्यरूपा सा गण्डकीति च विश्रुता ॥ ४४॥ कियत्कालं महादेवि देवपूजनसाधने । प्रधानरूपा तुलसी भविष्यति वरेण मे ॥ ४५॥ स्वर्गे मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ । भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरि ॥ ४६॥ वृक्षाधिष्ठातृदेवी त्वं वैकुण्ठे दिव्यरूपिणी । सार्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ॥ ४७॥ नद्यधिष्ठातृदेवी या भारते बहुपुण्यदा । लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥ ४८॥ हरिर्वै शैलरूपी च गण्डकी तीरसन्निधौ । सङ्करिष्यत्यधिष्ठानं भारते तव शापतः ॥ ४९॥ तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयङ्कराः । तच्छित्त्वा कुहरे चक्रं करिष्यन्ति तदीयकम् ॥ ५०॥ शालग्रामशिला सा हि तद्भेदादतिपुण्यदा । लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति ॥ ५१॥ शालग्रामशिला विष्णोस्तुलस्यास्तव सङ्गमः । सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ॥ ५२॥ तुलसीपत्रविच्छेदं शालग्रामे करोति यः । तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ॥ ५३॥ तुलसीपत्रविच्छेदं शङ्खं हित्वा करोति यः । भार्याहीनो भवेत्सोऽपि रोगी स्यात्सप्तजन्मसु ॥ ५४॥ शालग्रामश्च तुलसी शङ्खं चैकत्र एव हि । यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ५५॥ त्वं प्रियाः शङ्खचूडस्य चैकमन्वन्तरावधि । शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तव ॥ ५६॥ सनत्कुमार उवाच । इत्युक्त्वा शङ्करस्तत्र माहात्म्यमूचिवांस्तदा । शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ॥ ५७॥ ततश्चान्तर्हितो भूत्वा मोदयित्वा हरिं च ताम् । जगाम स्वालयं शम्भुः शर्मदो हि सदा सताम् ॥ ५८॥ इति श्रुत्वा वचः शम्भोः प्रसन्ना तु तुलस्यभूत् । तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ॥ ५९॥ प्रजगाम तया सार्द्धं वैकुण्ठं कमलापतिः । सद्यस्तद्देहजाता च बभूव गण्डकी नदी ॥ ६०॥ शैलोऽभूदच्युतः सोऽपि तत्तीरे पुण्यदो नृणाम् । कुर्वन्ति तत्र कीटाश्च छिद्रं बहुविधं मुने ॥ ६१॥ जले पतन्ति यास्तत्र शिलास्तास्त्वतिपुण्यदाः । स्थलस्था पिङ्गला ज्ञेयाश्चोपतापाय चैव हि ॥ ६२॥ इत्येवं कथितं सर्वं तव प्रश्नानुसारतः । चरितं पुण्यदं शम्भोः सर्वकामप्रदं नृणाम् ॥ ६३॥ आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् । भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ ६४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.५.४१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४२. द्विचत्वारिंशोऽध्यायः । हिरण्याक्षवधः ।

नारद उवाच । शङ्खचूडवधं श्रुत्वा चरितं शशिमौलिनः । अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ॥ १॥ ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः । मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ॥ २॥ ब्रह्मोवाच । शङ्खचूडवधं श्रुत्वा व्यासः सत्यवतीसुतः । अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ॥ ३॥ सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् । सुप्रशंस्य महेशस्य चरितं मङ्गलायनम् ॥ ४॥ सनत्कुमार उवाच । श‍ृणु व्यास महेशस्य चरितं मङ्गलायनम् । यथान्धको गाणपत्यं प्राप शम्भोः परात्मनः ॥ ५॥ कृत्वा परमसङ्ग्रामं तेन पूर्वं मुनीश्वर । प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ॥ ६॥ माहात्म्यमद्भुतं शम्भोः शरणागतरक्षिणः । सुभक्तवत्सलस्यैव नानालीलाविहारिणः ॥ ७॥ माहात्म्यमेतद् वृषभध्वजस्य श्रुत्वा मुनिर्गन्धवतीसुतो हि । वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनीन्द्रम् ॥ ८॥ व्यास उवाच । को ह्यन्धको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् । जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोऽन्धकश्च ॥ ९॥ एतत्समस्तं सरहस्यमद्य प्रब्रूहि मे ब्रह्मसुत प्रसादात् । स्कन्दान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात् ॥ १०॥ गाणपत्यं कथं प्राप शम्भोः परमतेजसः । सोऽन्धको धन्य एवाति यो बभूव गणेश्वरः ॥ ११॥ ब्रह्मोवाच । व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् । महेश्वरोतीः परमाप्तलक्ष्मीः संश्रोतुकामं जनकं शुकस्य ॥ १२॥ सनत्कुमार उवाच । पुरागतो भक्तकृपाकरोऽसौ कैलासतः शैलसुतागणाढ्यः । विहर्तुकामः किल काशिकां वै स्वशैलतो निर्जरचक्रवर्ती ॥ १३॥ स राजधानीं च विधाय तस्यां चक्रे परोतीः सुखदा जनानाम् । तद्रक्षकं भैरवनामवीरं कृत्वा समं शैलजया हि बह्वीः ॥ १४॥ स एकदा मन्दरनामधेयं गतो नगं तद्वरसुप्रभावात् । तत्रापि नानागणवीरमुख्यैः शिवासमेतो विजहार भूरि ॥ १५॥ पूर्वे दिशो मन्दरशैलसंस्था कपर्द्दिनश्चण्डपराक्रमस्य । चक्रे ततो नेत्रनिमीलनं तु सा पार्वती नर्मयुतं सलीलम् ॥ १६॥ प्रवालहेमाब्जधृतप्रभाभ्यां कराम्बुजाभ्यां निमिमील नेत्रे । हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सुमहान्धकारः ॥ १७॥ तत्स्पर्शयोगाच्च महेश्वरस्य करौ च तस्याः स्खलितं मदाम्भः । शम्भोर्ललाटे क्षणवह्नितप्तो विनिर्गतो भूरि जलस्य बिन्दुः ॥ १८॥ गर्भो बभूवाथ करालवक्त्रो भयङ्करः क्रोधपरः कृतघ्नः । अन्धो विरूपी जटिलश्च कृष्णो नरेतरो वैकृतिकःसुरोमा ॥ १९॥ गायन्हसन्प्ररुदन्नृत्यमानो विलेलिहानो घनघोरघोषः । जातेन तेनाद्भुतदर्शनेन गौरीं भवोऽसौ स्मितपूर्वमाह ॥ २०॥ श्रीमहेश उवाच । निमील्य नेत्राणि कृतं च कर्म विभेषि साऽस्माद्दयिते कथं त्वम् । गौरी हरात्तद्वचनं निशम्य विहस्यमाना प्रमुमोच नेत्रे ॥ २१॥ जाते प्रकाशे सति घोररूपो जातोऽन्धकारादपि नेत्रहीनः । तादृग्विधं तं च निरीक्ष्य भूतं पप्रच्छ गौरी पुरुषं महेशम् ॥ २२॥ गौर्य्युवाच । कोऽयं विरूपो भगवन्हि जातो नावग्रतो घोरभयङ्करश्च । वदस्व सत्यं मम किं निमित्तं सृष्टोऽथ वा केन च कस्य पुत्रः ॥ २३॥ सनत्कुमार उवाच । श्रुत्वा हरस्तद्वचनं प्रियाया लीलाकरः सृष्टिकृतोऽन्धरूपम् । लीलाकरायास्त्रिजगज्जनन्या विहस्य किञ्चिद्भगवानुवाच ॥ २४॥ महेश उवाच । श‍ृण्वम्बिके ह्यद्भुतवृत्तकारे उत्पन्न एषोऽद्भुतचण्डवीर्यः । निमीलिते चक्षुषि मे भवत्या स स्वेदजो मेऽन्धकनामधेयः ॥ २५॥ त्वं चास्य कर्तास्य यथानुरूपं त्वया स सख्या दयया गणेभ्यः । स रक्षितव्यस्त्वयि तं हि वैकं विचार्य बुद्ध्या करणीयमार्ये ॥ २६॥ सनत्कुमार उवाच । गौरी ततो भृर्तृवचो निशम्य कारुण्यभावात्सहिता सखीभिः । नानाप्रकारैर्बहुभिर्ह्युपायै- श्चकार रक्षां स्वसुतस्य यद्वत् ॥ २७॥ कालेऽथ तस्मिन् शिशिरे प्रयातो हिरण्यनेत्रस्त्वथ पुत्रकामः । स्वज्येष्ठबन्धोस्तनयप्रतानं संवीक्ष्य चासीत्प्रियया नियुक्तः ॥ २८॥ अरण्यमाश्रित्य तपश्चकारा- सुरस्तदा कश्यपजः सुतार्थम् । काष्ठोपमोऽसौ जितरोषदोषः सन्दर्शनार्थं तु महेश्वरस्य ॥ २९॥ तुष्टः पिनाकी तपसास्य सम्यग् वरप्रदानाय ययौ द्विजेन्द्र । तत्स्थानमासाद्य वृषध्वजोऽसौ जगाद दैत्यप्रवरं महेशः ॥ ३०॥ महेश उवाच । हे दैत्यनाथ कुरु नेन्द्रियसङ्घपातं किमर्थमेतद्व्रतमाश्रितं ते । प्रब्रूहि कामं वरदो भवोऽहं यदिच्छसि त्वं सकलं ददामि ॥ ३१॥ सनत्कुमार उवाच । सरस्यमाकर्ण्य महेशवाक्यं ह्यतिप्रसन्नः कनकाक्षदैत्यः । कृताञ्जलिर्नम्रशिरा उवाच । स्तुत्या च नत्वा विविधं गिरीशम् ॥ ३२॥ हिरण्याक्ष उवाच । पुत्रस्तु मे चन्द्रललाट नास्ति सुवीर्यवान्दैत्यकुलानुरूपी ॥ तदर्थमेतद् व्रतमास्थितोऽहं तं देहि देवेश सुवीर्यवन्तम् ॥ ३३॥ यस्माच्च मद् भ्रातुरनन्तवीर्याः प्रह्लादपूर्वा अपि पञ्चपुत्राः । ममेह नास्तीति गतान्वयोऽहं को मामकं राज्यमिदं बुभूषेत् ॥ ३४॥ राज्यं परस्य स्वबलेन हृत्वा भुङ्क्तेऽथवा स्वं पितुरेव दृष्टम् । स प्रोच्यते पुत्र इह त्वमुत्र पुत्री स तेनापि भवेत्पितासौ ॥ ३५॥ ऊर्ध्वं गतिः पुत्रवतां निरुक्ता मनीषिभिर्धर्मभृतां वरिष्ठैः । सर्वाणि भूतानि तदर्थमेव- मतः प्रवर्तेत पशून् स्वतेजसः ॥ ३६॥ निरन्वयस्याथ न सन्ति लोकाः तदर्थमिच्छन्ति जनाः सुरेभ्यः । सदा समाराध्य सुराङ्घ्रिपङ्कजं याचन्त इत्थं सुतमेकमेव ॥ ३७॥ सनत्कुमार उवाच । एतद्भवस्तद्वचनं निशम्य कृपाकरो दैत्यनृपस्य तुष्टः । तमाह दैत्याधिप नास्ति पुत्रः त्वद्वीर्यजः किन्तु ददामि पुत्रम् ॥ ३८॥ ममात्मजं त्वन्धकनामधेयं त्वत्तुल्यवीर्यं त्वपराजितं च । वृणीष्व पुत्रं सकलं विहाय दुःखं प्रतीच्छस्व सुतं त्वमेव ॥ ३९॥ इत्येवमुक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतं प्रसन्नः । हरस्तु गौर्य्या सहितो महात्मा भूतादिनाथस्त्रिपुरारिरुग्रः ॥ ४०॥ ततो हरात्प्राप्य सुतं स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण । स्तोत्रैरनेकैरभिपूज्य रुद्रं तुष्टः स्वराज्यं गतवान्महात्मा ॥ ४१॥ ततस्तु पुत्रं गिरिशादवाप्य रसातलं चण्डपराक्रमस्तु । इमां धरित्रीमनयत्स्वदेशं दैत्यो विजित्वा त्रिदशानशेषान् ॥ ४२॥ ततस्तु देवैर्मुनिभिश्च सिद्धैः सर्वात्मकं यज्ञमयं करालम् । वाराहमाश्रित्य वपुः प्रधान- माराधितो विष्णुरनन्तवीर्यः ॥ ४३॥ घोणाप्रहारैर्विविधैर्धरित्रीं विदार्य पातालतलं प्रविश्य । तुण्डेन दैत्यान् शतशो विचूर्ण्य दंष्ट्राभिरग्र्याभिरखण्डिताभिः ॥ ४४॥ पादप्रहारैरशनिप्रकाशै- रुन्मथ्य सैन्यानि निशाचराणाम् । मार्तण्डकोटिप्रतिमेन पश्चात् सुदर्शनेनाद्भुतचण्डतेजाः ॥ ४५॥ हिरण्यनेत्रस्य शिरो ज्वलन्तं चिच्छेद दैत्यांश्च ददाह दुष्टान् । ततः प्रहृष्टो दितिजेन्द्रराज स्तमन्धकं तत्र स चाभ्यषिञ्चत् ॥ ४६॥ स्वस्थानमागत्य ततो धरित्रीं दृष्ट्राङ्कुरेणोद्धरतः प्रहृष्टः । भूमिं च पातालतलान्महात्मा पुपोष भागं त्वथ पूर्वकं तु ॥ ४७॥ देवैःसमस्तैर्मुनिभिः प्रहृष्टै- रभिष्टुतः पद्मभुवा च तेन । ययौ स्वलोकं हरिरुग्रकायो वराहरूपस्तु सुकार्यकर्ता ॥ ४८॥ हिरण्यनेत्रेऽथ हतेऽसुरेशे वराहरूपेण सुरेण सद्यः । देवाःसमस्ता मुनयश्च सर्वे परे च जीवाः सुखिनो बभूवुः ॥ ४९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ॥ २.५.४२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४३. त्रिचत्वारिंशोऽध्यायः । गणाधिपत्यप्राप्त्यन्धकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ हते तस्मिन्सुरद्रुहि । किमकार्षीत्ततस्तस्य ज्येष्ठभ्राता महासुरः ॥ १॥ कुतूहलमिति श्रोतुं ममास्तीह मुनीश्वर । तच्छ्रावय कृपां कृत्वा ब्रह्मपुत्र नमोऽस्तु ते ॥ २॥ ब्रह्मोवाच । इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः । सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ३॥ सनत्कुमार उवाच । भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपुर्व्यास पर्यतप्यद्रुषा शुचा ॥ ४॥ ततः प्रजानां कदनं विधातुं कदनप्रियान् । निर्दिदेशाऽसुरान्वीरान्हरिवैरप्रियो हि सः ॥ ५॥ अथ ते भर्तृसन्देशमादाय शिरसाऽसुराः । देवप्रजानां कदनं विदधुः कदनप्रियाः ॥ ६॥ ततो विप्रकृते लोकेऽसुरैस्तैर्दुष्टमानसैः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ ७॥ हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा करोदकादीनि तत्कलत्राद्यसान्त्वयत् ॥ ८॥ ततःस दैत्यराजेन्द्रो ह्यजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराज्यं व्यधित्सत ॥ ९॥ स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः षादाङ्गुष्ठाश्रितावनिः ॥ १०॥ तस्मिंस्तपस्तप्यमाने देवाःसर्वे बलान्विताः । दैत्यान्सर्वान्विनिर्जित्य स्वानि स्थानानि भेजिरे ॥ ११॥ तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधोलोकानतपद्विष्वगीरितः ॥ १२॥ तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुस्तत्तपोविकृताननाः ॥ १३॥ अथ विज्ञापितो देवैर्व्यास तैरात्मभूर्विधिः । परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४॥ प्रताप्य लोकानखिलांस्ततोऽसौ समागतं पद्मभवं ददर्श । वरं हि दातुं तमुवाच धाता वरं वृणीष्वेति पितामहोऽपि ॥ निशम्य वाचं मधुरां विधातु- र्वचोऽब्रवीदेवममूढबुद्धिः ॥ १५॥ हिरण्यकशिपुरुवाच । मृत्योर्भयं मे भगवन्प्रजेश पितामहाभून्न कदापि देव । शस्त्रास्त्रपाशाशनिशुष्कवृक्ष- गिरीन्द्रतोयाग्निरिपुप्रहारैः ॥ १६॥ देवैश्च दैत्यैर्मुनिभिश्च सिद्धैः त्वत्सृष्टजीवैर्बहुवाक्यतः किम् । स्वर्गे धरण्यां दिवसे निशायां नैवोर्ध्वतो नाप्यधतः प्रजेश ॥ १७॥ सनत्कुमार उवाच । तस्यैतदीदृग्वचनं निशम्य दैत्येन्द्र तुष्टोऽस्मि लभस्व सर्वम् । प्रणम्य विष्णुं मनसा तमाह दयान्वितोऽसाविति पद्मयोनिः ॥ १८॥ अलं तपस्ते परिपूर्णकामः समाः सहस्राणि च षण्णवत्यः । उत्तिष्ठ राज्यं कुरु दानवानां श्रुत्वा गिरं तत्सुमुखो बभूव ॥ १९॥ राज्याभिषिक्तः प्रपितामहेन त्रैलोक्यनाशाय मतिं चकार । उत्साद्य धर्मान् सकलान्प्रमत्तो जित्वाहवे सोऽपि सुरान्समस्तान् ॥ २०॥ ततो भयाद् इन्द्रमुखाश्च देवाः पितामहाज्ञां समवाप्य सर्वे । उपद्रुता दैत्यवरेण जाताः क्षीरोदधिं यत्र हरिस्तु शेते ॥ २१॥ आराधयामासुरतीव विष्णुं स्तुत्वा वचोभिः सुखदं हि मत्वा । निवेदयामासुरथो प्रसन्नं दुःखं स्वकीयं सकलं हि ते ते ॥ २२॥ श्रुत्वा तदीयं सकलं हि दुःखं तुष्टो रमेशः प्रददौ वरांस्तु । उत्थाय तस्माच्छयनादुपेन्द्रो निजानुरूपैर्विविधैर्वचोभिः ॥ २३॥ आश्वास्य देवानखिलान्मुनीन्वा उवाच वैश्वानरतुल्यतेजाः । दैत्यं हनिष्ये प्रसभं सुरेशाः प्रयात धामानि निजानि तुष्टाः ॥ २४॥ श्रुत्वा रमेशस्य वचः सुरेशाः शक्रादिकास्ते निखिलाः सुतुष्टाः । ययुः स्वधामानि हिरण्यनेत्रा- नुजं च मत्वा निहतं मुनीश ॥ २५॥ आश्रित्य रूपं जटिलं करालं दंष्ट्रायुधं तीक्ष्णनखं सुनासम् । सैंहं च नारं सुविदारितास्यं मार्तण्डकोटिप्रतिमं सुघोरम् ॥ २६॥ युगान्तकालाग्निसमप्रभावं जगन्मयं किं बहुभिर्वचोभिः । अस्ते रवौ सोऽपि हि गच्छतीशो गतोऽसुराणां नगरीं महात्मा ॥ २७॥ कृत्वा च युद्धं प्रबलैःस दैत्यै- र्हत्वाथ तान्दैत्यगणान्गृहीत्वा । बभ्राम तत्राद्भुतविक्रमश्च बभञ्ज तांस्तानसुरान्नृसिंहः ॥ २८॥ दृष्टः स दैत्यैरतुलप्रभाव- स्ते रेभिरे ते हि तथैव सर्वे । सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः । उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ॥ २९॥ प्रह्लाद उवाच । एष प्रविष्टो भगवाननन्तो नृसिंहमात्रो नगरं त्वदन्तः । निवृत्य युद्धाच्छरणं प्रयाहि पश्यामि सिंहस्य करालमूर्त्तिम् ॥ ३०॥ यस्मान्न योद्धा भुवनत्रयेऽपि कुरुष्व राज्यं विनमन्मृगेन्द्रम् । श्रुत्वा स्वपुत्रस्य वचो दुरात्मा तमाह भीतोऽसि किमत्र पुत्र ॥ ३१॥ उक्त्वेति पुत्रं दितिजाधिनाथो दैत्यर्षभान्वीरवरान्स राजा । गृह्णन्तु वै सिंहममुं भवन्तो वीरा विरूपभ्रुकुटीक्षणं तु ॥ ३२॥ तस्याज्ञया दैत्यवरास्ततस्ते ग्रहीतुकामा विविशुर्मृगेन्द्रम् । क्षणेन दग्धाः शलभा इवाग्निं रूपाभिलाषात्प्रविविक्षवो वै ॥ ३३॥ दैत्येषु दग्धेष्वपि दैत्यराज- श्चकार युद्धं स मृगाधिपेन । शस्त्रैः समग्रैरखिलैस्तथास्त्रैः शक्त्यर्ष्टिपाशाङ्कुशपावकाद्यैः ॥ ३४॥ संयुध्यतोरेव तयोर्जगाम ब्राह्मं दिनं व्यास हि शस्त्रपाण्योः । प्रवीरयोर्वीररवेण गर्जतोः परस्परं क्रोधसुयुक्तचेतसोः ॥ ३५॥ ततः स दैत्यः सहसा बहूंश्च कृत्वा भुजान् शस्त्रयुतान्निरीक्ष्य । नृसिंहरूपं प्रययौ मृगेन्द्र संयुध्यमानं सहसा समन्तात् ॥ ३६॥ ततः सुयुद्धं त्वतिदुःसहं तु शस्त्रैःसमस्तैश्च तथाखिलास्त्रैः । कृत्वा महादैत्यवरो नृसिंहं क्षयं गतैः शूलधरोऽभ्युपायात् ॥ ३७॥ ततो गृहीतः स मृगाधिपेन भुजैरनेकैर्गिरिसारवद्भिः । निधाय जानौ स भुजान्तरेषु नखाङ्कुरैर्दानवमर्मभिद्भिः ॥ ३८॥ नखास्त्रहृत्पद्ममसृग्विमिश्र- मुत्पाद्य जीवाद्विगतः क्षणेन । त्यक्तस्तदानीं स तु काष्ठभूतः पुनः पुनश्चूर्णितसर्वगात्रः ॥ ३९॥ तस्मिन्हते देवरिपौ प्रसन्नः प्रह्लादमामन्त्र्य कृतप्रणामम् । राज्येऽभिषिच्याद्भुतवीर्यविष्णु- स्ततः प्रयातो गतिमप्रतर्क्याम् ॥ ४०॥ ततोऽतिहृष्टाःसकलाः सुरेशाः प्रणम्य विष्णुं दिशि विप्र तस्याम् । ययुः स्वधामानि पितामहाद्याः कृतस्वकार्यं भगवन्तमीड्यम् ॥ ४१॥ प्रवर्णितं त्वन्धकजन्म रुद्राद् हिरण्यनेत्रस्य मृतिर्वराहात् । नृसिंहतस्तत्सहजस्य नाशः प्रह्लादराज्याप्तिरिति प्रसङ्गात् ॥ ४२॥ श‍ृणु त्विदानीं द्विजवर्य मत्तोऽ- न्धकप्रभावं भवकृत् प्रलब्धम् । हरेण युद्धं खलु तस्य पश्चाद् गणाधिपत्यं गिरिशस्य तस्य ॥ ४३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे गणाधिपत्यप्राप्त्यन्धकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.५.४३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४४. चतुश्चत्वारिंशोऽध्यायः । अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादः ।

सनत्कुमार उवाच । ततो हिरण्याक्षसुतः कदाचि- त्संश्रावितो नर्मयुतैर्मदान्धैः । तैर्भ्रातृभिःसम्प्रयुतो विहारे किमन्ध राज्येन तवाद्य कार्यम् ॥ १॥ हिरण्यनेत्रस्तु बभूव मूढः कलिप्रियं नेत्रविहीनमेव । यो लब्धवांस्त्वां विकृतं विरूपं घोरैस्तपोभिर्गिरिशं प्रसाद्य ॥ २॥ स त्वं न भागी खलु राज्यकस्य किमन्यजातोऽपि लभेत राज्यम् । विचार्यतां तद्भवतैव नूनं वयं तु तद्भागिन एव सत्यम् ॥ ३॥ सनत्कुमार उवाच । तेषां तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयमेव दीनः । तान् शान्तयित्वा विविधैर्वचोभिः गतस्त्वरण्यं निशि निर्जनं तु ॥ ४॥ वर्षायुतं तत्र तपश्चचार जजाप जाप्यं विधृतैकपादः । आहारहीनो नियमोर्ध्वबाहुः कर्त्तुं न शक्यं हि सुरासुरैर्यत् ॥ ५॥ प्रज्वाल्य वह्निं स्म जुहोति गात्र- मांसं सरक्तं खलु वर्षमात्रम् । तीक्ष्णेन शस्त्रेण निकृत्य देहात् समन्त्रकं प्रत्यहमेव हुत्वा ॥ ६॥ स्नाय्वस्थिशेषं कुणपं तदासौ क्षयं गतं शोणितमेव सर्वम् । यदास्य मांसानि न सन्ति देहं प्रक्षेप्तुकामस्तु हुताशनाय ॥ ७॥ ततः स दृष्टस्त्रिदशालयैर्जनैः सुविस्मितैर्भीतियुतैः समस्तैः । अथामरैः शीघ्रतरं प्रसादितो बभूव धाता नुतिभिर्नुतो हि ॥ ८॥ निवारयित्वाथ पितामहस्तं ह्युवाच तं चाद्य वरं वृणीष्व । यस्याप्तिकामस्तव सर्वलोके सुदुर्लभं दानव तं गृहाण ॥ ९॥ स पद्मयोनेस्तु वचो निशम्य प्रोवाच दीनः प्रणतस्तु दैत्यः । यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं प्रह्रादमुख्या मम सन्तु भृत्याः ॥ १०॥ अन्धस्य दिव्यं हि तथास्तु चक्षु- रिन्द्रादयो मे करदा भवन्तु । मृत्युस्तु माभून्मम देवदैत्य- गन्धर्वयक्षोरगमानुषेभ्यः ॥ ११॥ नारायणाद्वा दितिजेन्द्रशत्रोः सर्वाज्जनात्सर्वमयाच्च शर्वात् । श्रुत्वा वचस्तस्य सुदारुणं तत् सुशङ्कितः पद्मभवस्तमाह ॥ १२॥ ब्रह्मोवाच । दैत्येन्द्र सर्वं भविता तदेतद् विनाशहेतुं च गृहाण किञ्चित् । यस्मान्न जातो न जनिष्यते वा यो न प्रविष्टो मुखमन्तकस्य ॥ १३॥ अत्यन्तदीर्घं खलु जीवितं तु भवादृशाः सत्पुरुषाः त्यजन्तु । एतद्वचः सानुनयं निशम्य पितामहात्प्राह पुनः स दैत्यः ॥ १४॥ अन्धक उवाच । कालत्रये याश्च भवन्ति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः । तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित् ॥ १५॥ कायेन वाचा मनसाप्यगम्या नारी नृलोकस्य च दुर्लभा या । तां कामयानस्य ममास्तु नाशो दैत्येन्द्रभावाद्भगवान्स्वयम्भूः ॥ १६॥ वाक्यं तदाकर्ण्य स पद्मयोनिः सुविस्मितः शङ्करपादपद्मम् । सस्मार सम्प्राप्य निदेशमाशु शम्भोस्तु तं प्राह ततोऽन्धकं वै ॥ १७॥ ब्रह्मोवाच । यत्काङ्क्षसे दैत्य वरांस्तु ते वै सर्वं भवत्येव वचः सकामम् । उत्तिष्ठः दैत्येन्द्र लभस्व कामं सदैव वीरैस्तु कुरुष्व युद्धम् ॥ १८॥ श्रुत्वा तदेतद्वचनं मुनीश विधातुराशु प्रणिपत्य भक्त्या । लोकेश्वरं हाटकनेत्रपुत्रः स्नाय्वस्थिशेषस्तु तमाह देवम् ॥ १९॥ अन्धक उवाच । कथं विभो वैरिबलं प्रविश्य ह्यनेन देहेन करोमि युद्धम् । स्नाय्वस्थिशेषं कुरु मांसपुष्टं करेण पुण्येन च मां स्पृशाद्य ॥ २०॥ सनत्कुमार उवाच । श्रुत्वा वचस्तस्य स पद्मयोनिः करेण संस्पृश्य च तच्छरीरम् । गतः सुरेन्द्रैः सहितः स्वधाम सम्पूज्यमानो मुनिसिद्धसङ्घैः ॥ २१॥ संस्पृष्टमात्रः स च दैत्यराजः सम्पूर्णदेहो बलवान् बभूव । सञ्जातनेत्रः सुभगो बभूव हृष्टः स्वमेवं नगरं विवेश ॥ २२॥ उत्सृज्य राज्यं सकलं च तस्मै प्रह्लादमुख्यास्त्वथ दानवेन्द्राः । तमागतं लब्धवरं च मत्वा भृत्या बभूवुर्वशगास्तु तस्य ॥ २३॥ ततोऽन्धकः स्वर्गमगाद्विजेतुं सेनाभियुक्तः सहभृत्यवर्गः । विजित्य देवान् प्रधने समस्तान् करप्रदं वज्रधरं चकार ॥ २४॥ नागान्सुपर्णान्वरराक्षसांश्च गन्धर्वयक्षानपि मानुषांस्तु । गिरीन्द्रवृक्षान्समरेषु सर्वां- श्चतुष्पदः सिंहमुखान्विजिग्ये ॥ २५॥ त्रैलोक्यमेतद्धि चराचरं वै वशं चकारात्मनि सन्नियोज्य । ततोऽनुकूलानि सुदर्शनानि नारीसहस्राणि बहूनि गत्वा ॥ २६॥ रसातले चैव तथा धरायां त्रिविष्टपे याः प्रमदाः सुरूपाः । ताभिर्युतोऽन्येषु स पर्वतेषु रराम रम्येषु नदीतटेषु ॥ २७॥ क्रीडायमानः स तु मध्यवर्ती तासां प्रहर्षादथ दानवेन्द्रः । तत्पीतशिष्टानि पिबन्प्रवृत्त्यै दिव्यानि पेयानि सुमानुषाणि ॥ २८॥ अन्यानि दिव्यानि तु यद्रसानि फलानि पुष्पाणि सुगन्धवन्ति । सम्प्राप्य यानानि सुवाहनानि मयेन सृष्टानि गृहोत्तमानि ॥ २९॥ पुष्पार्घधूपान्नविलेपनैश्च सुशोभितान्यद्भुतदर्शनैश्च । सङ्क्रीडमानस्य गतानि तस्य वर्षायुतानीह तथान्धकस्य ॥ ३०॥ जानाति किञ्चिन्न शुभं परत्र यदात्मनः सौख्यकरं भवेद्धि । सदान्धको दैत्यवरः स मूढो मदान्धबुद्धिः कृतदुष्टसङ्गः ॥ ३१॥ ततः प्रमत्तस्तु सुतान्प्रधानान् कुतर्कवादैरभिभूय सर्वान् । चचार दैत्यैःसहितो महात्मा विनाशयन्वैदिकसर्वधर्मान् ॥ ३२॥ वेदान्द्विजान् वित्तमदाभिभूतो न मन्यते स्माप्यमरान्गुरूंश्च । रेमे तथा दैवगतो हतायुः स्वैरैरहोभिर्गमयन्वयश्च ॥ ३३॥ ततः कदाचिद्गतवान्ससैन्यो बहुप्रयाता पृथिवीतलेऽस्मिन् । अनेकसङ्ख्या अपि वर्षकोट्यः प्रहर्षितो मन्दरपर्वतं तु ॥ ३४॥ स्वर्णोपमां तत्र निरीक्ष्य शोभां बभ्राम सैन्यैः सह मानमत्तः । क्रीडार्थमासाद्य च तं गिरीन्द्रं मतिं स वासाय चकार मोहात् ॥ ३५॥ शुभं दृढं तत्र पुरं स कृत्वा मुदा स्थितो दैत्यपतिः प्रभावात् । निवेशयामास पुनः क्रमेण अत्यद्भुतं मन्दरशैलसानौ ॥ ३६॥ दुर्योधनो वैधसहस्तिसंज्ञौ तन्मन्त्रिणौ दानवसत्तमस्य । ते वै कदाचिद्गिरिसुस्थले हि नारीं सुरूपां ददृशुस्त्रयोऽपि ॥ ३७॥ ते शीघ्रगा दैत्यवरास्तु हर्षाद् द्रुतं महादैत्यपतिं समेत्य । ऊचुर्यथादृष्टमतीव प्रीत्या तथान्धकं वीरवरं हि सर्वे ॥ ३८॥ मन्त्रिण ऊचुः । गुहान्तरे ध्याननिमीलिताक्षो दैत्येन्द्र कश्चिन्मुनिरत्र दृष्टः । रूपान्वितश्चन्द्रकलार्द्धचूडः कटिस्थले बद्धगजेन्द्रकृत्तिः ॥ ३९॥ नागेन्द्रभोगावृतसर्वगात्रः कपालमालाभरणो जटालः । स शूलहस्तः शरतूणधारी महाधनुष्मान्विवृताक्षसूत्रः ॥ ४०॥ खड्गी त्रिशूली लकुटी कपर्दी चतुर्भुजो गौरतराकृतिर्हि । भस्मानुलिप्तो विलसत्सुतेजाः तपस्विवर्योऽद्भुतसर्ववेषः ॥ ४१॥ तस्याविदूरे पुरुषश्च दृष्टः स वानरो घोरमुखःकरालः । सर्वायुधो रूक्षकरश्च रक्षन् स्थितो जरद्गोवृषभश्च शुक्लः ॥ ४२॥ तस्योपविष्टस्य तपस्विनोऽपि सुचारुरूपा तरुणी मनोज्ञा । नारी शुभा पार्श्वगता हि तस्य दृष्टा च काचिद्भुवि रत्नभूता ॥ ४३॥ प्रवालमुक्तामणिहेमरत्न- वस्त्रावृता माल्यशुभोपगूढा । सा येन दृष्टा स च दृष्टिमान्स्याद् दृष्टेन चान्येन किमत्र कार्यम् ॥ ४४॥ मान्या महेशस्य च दिव्यनारी भार्या मुनेः पुण्यवतः प्रिया सा । योग्या हि द्रष्टुं भवतश्च सम्य- गानाय्य दैत्येन्द्र सुरत्नभोक्तुः ॥ ४५॥ सनत्कुमार उवाच । श्रुत्वेति तेषां वचनानि तानि कामातुरो घूर्णितसर्वगात्रः । विसर्जयामास मुनेः सकाशं दुर्योधनादीन्सहसा स दैत्यः ॥ ४६॥ आसाद्य ते तं मुनिमप्रमेयं बृहद्व्रतं मन्त्रिवरा हि तस्य । सुराजनीतिप्रवणा मुनीश प्रणम्य तं दैत्यनिदेशमाहुः ॥ ४७॥ मन्त्रिण ऊचुः । हिरण्यनेत्रस्य सुतो महात्मा दैत्याधिराजोऽन्धकनामधेयः । त्रैलोक्यनाथो भवकृन्निदेशा- दिहोपविष्टोऽद्य विहारशाली ॥ ४८॥ तन्मन्त्रिणो वै वयमङ्गवीरा- स्तवोपकण्ठं च समागताः स्म । तत्प्रेषितास्त्वां यदुवाच तद्वै श‍ृणुष्व सन्दत्तमनास्तपस्विन् ॥ ४९॥ त्वं कस्य पुत्रोऽसि किमर्थमत्र सुखोपविष्टो मुनिवर्य धीमन् । कस्येयमीदृक्तरुणी सुरूपा देया शुभा दैत्यपतेर्मुनीन्द्र ॥ ५०॥ क्वेदं शरीरं तव भस्मदिग्धं कपालमालाभरणं विरूपम् । तूणीरसत्कार्मुकबाणखड्ग- भुशुण्डिशूलाशनितोमराणि ॥ ५१॥ क्व जाह्नवी पुण्यतमा जटाग्रे क्वायं शशी वा कुणपास्थिखण्डम् । विषानलो दीर्घमुखः क्व सर्पः क्व सङ्गमः पीनपयोधरायाः ॥ ५२॥ जरद्गवारोहणमप्रशस्तं क्षमावतस्तस्य न दर्शनं च । सन्ध्याप्रणामः क्वचिदेष धर्मः क्व भोजनं लोकविरुद्धमेतत् ॥ ५३॥ प्रयच्छ नारीं मम सान्त्वपूर्वं स्त्रिया तपः किं कुरुषे विमूढ । अयुक्तमेतत्त्वयि नानुरूपं यस्मादहं रत्नपतिस्त्रिलोके ॥ ५४॥ विमुञ्च शस्त्राणि मयाद्य चोक्तः कुरुष्व पश्चात्तप एव शुद्धम् । उल्लङ्घ्य मच्छासनमप्रधृष्यं विमोक्ष्यसे सर्वमिदं शरीरम् ॥ ५५॥ मत्वान्धकं दुष्टमतिप्रधानो महेश्वरो लौकिकभावशीलः । प्रोवाच दैत्यं स्मितपूर्वमेव- माकर्ण्य सर्वं त्वथ दूतवाक्यम् ॥ ५६॥ शिव उवाच । यद्यस्मि रुद्रस्तव किं मया स्यात् किमर्थमेवं वदसीति मिथ्या । श‍ृणु प्रभावं मम दैत्यनाथ न्याय्यं न वक्तुं वचनं त्वयैवम् ॥ ५७॥ नाहं क्वचित्स्वं पितरं स्मरामि गुहान्तरे घोरमनन्यचीर्णम् । एतद् व्रतं पाशुपतं चरामि न मातरं त्वज्ञतमो विरूपः ॥ ५८॥ अमूलमेतन्मयि तु प्रसिद्धं सुदुस्त्यजं सर्वमिदं ममास्ति । भार्या ममेयं तरुणी सुरूपा सर्वंसहा सर्वगतस्य सिद्धिः ॥ ५९॥ एतर्हि यद्यद्रुचितं तवास्ति गृहाण तद्वै खलु राक्षस त्वम् । एतावदुक्त्वा विरराम शम्भुः तपस्विवेषः पुरतस्तु तेषाम् ॥ ६०॥ सनत्कुमार उवाच । गम्भीरमेतद्वचनं निशम्य ते दानवास्तं प्रणिपत्य मूर्ध्ना । जग्मुस्ततो दैत्यवरस्य सूनुं त्रैलोक्यनाशाय कृतप्रतिज्ञम् ॥ ६१॥ बभाषिरे दैत्यपतिं प्रमत्तं प्रणम्य राजानमदीनसत्त्वाः । ते तत्र सर्वे जयशब्दपूर्वं रुद्रेण यत्तत्स्मितपूर्वमुक्तम् ॥ ६२॥ मन्त्रिण उचुः निशाचरश्चञ्चलशौर्यधैर्यः क्व दानवः कृपणः सत्त्वहीनः । क्रूरः कृतघ्नश्च सदैव पापी क्व दानवः सूर्यसुताद्बिभेति ॥ ६३॥ राजस्त्वमुक्तोऽखिलदैत्यनाथ- स्तपस्विना तन्मुनिना विहस्य । मत्वा स्वबुद्ध्या तृणवत्त्रिलोकं महौजसा वीरवरेण नूनम् ॥ ६४॥ क्वाहं च शस्त्राणि च दारुणानि मृत्योश्च सन्त्रासकरं क्व युद्धम् । क्व वीरको वानरवक्त्रतुल्यो निशाचरो जरसा जर्जराङ्गः ॥ ६५॥ क्वायं स्वरूपः क्व च मन्दभाग्यो बलं त्वदीयं क्व च वीरुधो वा । शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं कर्तुं तदा ह्येहि कुरुष्व किञ्चित् ॥ ६६॥ वज्राशनेस्तुल्यमिहास्ति शस्त्रं भवादृशां नाशकरं च घोरम् । क्व ते शरीरं मृदुपद्मतुल्यं विचार्य चैवं कुरु रोचते यत् ॥ ६७॥ इत्येवमादीनि वचांसि भद्रं तपस्विनोक्तानि च दानवेश । युक्तं न ते तेन सहात्र युद्धं त्वामाह राजन्स्मयमान एव ॥ ६८॥ विवस्तुशून्यैर्बहुभिः प्रलापै- रस्माभिरुक्तैर्यदि बुध्यसे त्वम् । तपोभियुक्तेन तपस्विना वै स्मर्तासि पश्चान्मुनिवाक्यमेतत् ॥ ६९॥ सनत्कुमार उवाच । ततः स तेषां वचनं निशम्य जज्वाल रोषेण स मन्दबुद्धिः । आज्यावसिक्तस्त्विव कृष्णवर्त्मा सत्यं हितं तत्कुटिलं सुतीक्ष्णम् ॥ ७०॥ गृहीतखड्गो वरदानमत्तः प्रचण्डवातानुकृतिं च कुर्वन् । गन्तुं च तत्र स्मरबाणविद्धः समुद्यतोऽभूद्विपरीतदैवः ॥ ७१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो नाम चतुश्चत्वारिंशोऽध्यायः ॥ २.५.४४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४५. पञ्चत्वारिंशोऽध्यायः । युद्धप्रारम्भदूतसंवादवर्णनम् ।

सनत्कुमार उवाच । गतस्ततो मत्तगजेन्द्रगामी पीत्वा सुरां घूर्णितलोचनश्च । महानुभावो बहुसैन्ययुक्तः प्रचण्डवीरो वरवीरयायी ॥ १॥ ददर्श दैत्यः स्मरबाणविद्धो गुहां ततो वीरकरुद्धमार्गाम् । स्निग्धं यथा वीक्ष्य पतङ्गसंज्ञः दशाप्रदीपं च कृमिर्ह्युपेत्य ॥ २॥ तथा प्रदर्श्याशु पुनः पुनश्च सम्पीड्यमानोऽपि स वीरकेण । बभूव कामाग्निसुदग्धदेहोऽ न्धको महादैत्यपतिः स मूढः ॥ ३॥ पाषाणवृक्षाशनितोयवह्नि- भुजङ्गशस्त्रास्त्रबिभीषिकाभिः । सम्पीडितोऽसौ न पुनः प्रपीड्यः पृष्टश्च कस्त्वं समुपागतोऽसि ॥ ४॥ निशम्य तद् गां स्वमतं स तस्मै चकार युद्धं स तु वीरकेण । मुहूर्तमाश्चर्यवदप्रमेयं सङ्ख्ये जितो वीरतरेण दैत्यः ॥ ५॥ ततस्तु सङ्ग्रामशिरो विहाय क्षुत्क्षामकण्ठस्तृषितो गतोऽभूत् । चूर्णीकृते खड्गवरे च खिन्ने पलायमानो गतविस्मयः सः ॥ ६॥ चक्रुस्तदाजिं सह वीरकेण प्रह्लादमुख्या दितिजप्रधानाः । लज्जाङ्कुशाकृष्टधियो बभूवुः सुदारुणाः शस्त्रशतैरनेकैः ॥ ७॥ विरोचनस्तत्र चकार युद्धं बलिश्च बाणश्च सहस्रबाहुः । भजिः कुजम्भस्त्वथ शम्बरश्च वृत्रादयश्चाप्यथ वीर्यवन्तः ॥ ८॥ ते युद्ध्यमाना विजिताः समन्ताद् द्विधाकृता वै गणवीरकेण । शेषे हतानां बहुदानवाना- मुक्तं जयत्येव हि सिद्धसङ्घैः ॥ ९॥ भेरुण्डजानाभिनयप्रवृत्ते मेदोवसामांससुपूयमध्ये । क्रव्यादसङ्घातसमाकुले तु भयङ्करे शोणितकर्दमे तु ॥ १०॥ भग्नैस्तु दैत्यैर्भगवान् पिनाकी व्रतं महापाशुपतं सुघोरम् । प्रिये मया यत्कृतपूर्वमासी- द्दाक्षायणीं प्राह सुसान्त्वयित्वा ॥ ११॥ शिव उवाच । तस्माद्बलं यन्मम तत्प्रणष्टं मर्त्यैरमर्त्यस्य यतः प्रपातः । पुण्यक्षयाही ग्रह एव जातो दिवानिशं देवि तव प्रसङ्गात् ॥ १२॥ उत्पाद्य दिव्यं परमाद्भुतं तु पुनर्वरं घोरतरं च गत्वा । तस्माद् व्रतं घोरतरं चरामि सुनिर्भया सुन्दरि वै विशोका ॥ १३॥ सनत्कुमार उवाच । एतावदुक्त्वा वचनं महात्मा उत्पाद्य घोषं शनकैश्चकार । स तत्र गत्वा व्रतमुग्रदीप्तो गतो वनं पुण्यतमं सुघोरम् ॥ १४॥ चर्तुं हि शक्यं तु सुरासुरैर्य- न्न तादृशं वर्षसहस्रमात्रम् । सा पार्वती मन्दरपर्वतस्था प्रतीक्ष्यमाणाऽऽगमनं भवस्य ॥ १५॥ पतिव्रता शीलगुणोपपन्ना एकाकिनी नित्यमथो विभीता । गुहान्तरे दुःखपरा बभूव संरक्षिता सा सुतवीरकेण ॥ १६॥ ततः स दैत्यो वरदानमत्तः तैर्योधमुख्यैः सहितो गुहां ताम् । विभिन्नधैर्यः पुनराजगाम शिलीमुखैर्मारसमुद्भवैश्च ॥ १७॥ अत्यद्भुतं तत्र चकार युद्धं हित्वा तदा भोजनपाननिद्राः । रात्रिं दिवं पञ्चशतानि पञ्च क्रुद्धः ससैन्यैः सह वीरकेण ॥ १८॥ खड्गैः सकुन्तैः सह भिन्दिपालैः गदाभुशुण्डीभिरथो प्रकाण्डैः । शिलीमुखैरर्द्धशशीभिरुग्रै- र्वितस्तिभिः कूर्ममुखैर्ज्वलद्भिः ॥ १९॥ नाराचमुख्यैर्निशितैश्च शूलैः परश्वधैस्तोमरमुद्गरैश्च । खड्गैर्गुडैः पर्वतपादपैश्च दिव्यै रथास्त्रैरपि दैत्यसङ्घैः ॥ २०॥ नदीधितिर्भिन्नतनुः पपात द्वारं गुहायाः पिहितं समस्तम् । तैरायुधैर्दैत्यभुजप्रयुक्तै- र्गुहामुखे मूर्छित एव पश्चात् ॥ २१॥ आच्छादितं वीरकमस्त्रजालै- र्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् । अपावृतं कर्तुमशक्यमासी- न्निरीक्ष्य देवी दितिजान् सुघोरान् ॥ २२॥ भयेन सस्मार पितामहं तु देवी सखीभिः सहिता च विष्णुम् । सैन्यं च मद्वीरवरस्य सर्वं सस्मारयामास गुहान्तरस्था ॥ २३॥ ब्रह्मा तया संस्मृतमात्र एव स्त्रीरूपधारी भगवांश्च विष्णुः । इन्द्रैश्च सर्वैः सह सैन्यकैश्च स्त्रीरूपमास्थाय समागतास्ते ॥ २४॥ भूत्वा स्त्रियस्ते विविशुस्तदानीं मुनीन्द्रसङ्घाश्च महानुभावाः । सिद्धाश्च नागास्त्वथ गुह्यकाश्च गुहान्तरं पर्वतराजपुत्र्याः ॥ २५॥ यस्मात्सुराज्यासनसंस्थिताना- मन्तःपुरे सङ्गमनं विरुद्धम् । ततः सहस्राणि नितम्बिनीना- मनन्तसङ्ख्यान्यपि दर्शयन्त्यः ॥ २६॥ रूपाणि दिव्यानि महाद्भुतानि गौर्यै गुहायां तु सवीरकार्यैः । स्त्रियः प्रहृष्टा गिरिराजकन्या गुहान्तरं पर्वतराजपुत्र्याः ॥ २७॥ स्त्रीभिःसहस्रैश्च शतैरनेकै- र्नेदुश्च कल्पान्तरमेघघोषाः । भेर्यश्च सङ्ग्रामजयप्रदास्तु ध्माताःसुशङ्खाः सुनितम्बिनीभिः ॥ २८॥ मूर्छां विहायाद्भुत चण्डवीर्यः स वीरको वै पुरतः स्थितस्तु । प्रगृह्य शस्त्राणि महारथानां तैरेव शस्त्रैर्दितिजान् जघान ॥ २९॥ ब्राह्मी ततो दण्डकरा विरुद्धा गौरी तदा क्रोधपरीतचेताः । नारायणी शङ्खगदासुचक्र- धनुर्द्धरा पूरितबाहुदण्डा ॥ ३०॥ विनिर्ययौ लाङ्गलदण्डहस्ता व्योमालका काञ्चनतुल्यवर्णा । धारासहस्राकुलमुग्रवेगं बैडौजसी वज्रकरा तदानीम् ॥ ३१॥ सहस्रनेत्रा युधि सुस्थिरा च सुदुर्जया दैत्यशतैरधृष्या । वैश्वानरी शक्तिरसौम्यवक्त्रा याम्या च दण्डोद्यतपाणिरुग्रा ॥ ३२॥ सुतीक्ष्णखङ्गोद्यतपाणिरूपा समाययौ नैरृतिघोरचापा । तोयालिका वारणपाशहस्ता विनिर्गता युद्धमभीप्समाना ॥ ३३॥ प्रचण्डवातप्रभवा च देवी क्षुधावपुस्त्वङ्कुशपाणिरेव । कल्पान्तवह्निप्रतिमां गदां च पाणौ गृहीत्वा धनदोद्भवा च ॥ ३४॥ यक्षेश्वरी तीक्ष्णमुखा विरूपा नखायुधा नागभयङ्करी च । एतास्तथान्याः शतशो हि देव्यः सुनिर्गताः सङ्कुलयुद्धभूमिम् ॥ ३५॥ दृष्ट्वा च तत्सैन्यमनन्तपारं विवर्णवर्णाश्च सुविस्मिताश्च । समाकुलाः सञ्चकिता भयाद्वै देव्यो बभूवुर्हृदि दीनसत्त्वाः ॥ ३६॥ चक्रुः समाधाय मनः समस्ताः ता देववध्वो विधिशक्तिमुख्याः । सुसम्मतत्वेन गिरीशपुत्र्याः सेनापतिर्वीरसुघोरवीर्यः ॥ ३७॥ चक्रुर्महायुद्धमभूतपूर्वं निधाय बुद्धौ दितिजाः प्रधानाः । निवर्तनं मृत्युमथात्मनश्च नारीभिरन्ये वरदानसत्त्वाः ॥ ३८॥ अत्यद्भुतं तत्र चकार युद्धं गौरी तदानीं सहिता सखीभिः । कृत्वा रणे चाद्भुतबुद्धिशौण्डं सेनापतिं वीरकघोरवीर्यम् ॥ ३९॥ हिरण्यनेत्रात्मज एव भूप- श्चक्रे महाव्यूहमरं सुकर्मा । सम्भाव्य विष्णुं च निरीक्ष्य याम्यां सुदारुणं तद्गिलनामधेयम् ॥ ४०॥ मुखं करालं विधिसेवयाऽस्य तस्मिन् कृते भगवानाजगाम । कल्पान्तघोरार्कसहस्रकान्ति- कीर्णञ्च वै कुपितः कृत्तिवासाः ॥ ४१॥ गते ततो वर्षसहस्रमात्रे तमागतं प्रेक्ष्य महेश्वरं च । चक्रुर्महायुद्धमतीवमात्रं नार्यः प्रहृष्टाः सह वीरकेण ॥ ४२॥ प्रणम्य गौरी गिरिशं च मूर्ध्ना सन्दर्शयन् भर्तुरतीव शौर्यमम् । गौरी प्रयुद्धं च चकार हृष्टा हरस्ततः पर्वतराजपुत्रीम् ॥ ४३॥ कण्ठे गृहीत्वा तु गुहां प्रविष्टो रमासहस्राणि विसर्जितानि । गौरी च सम्मानशतैः प्रपूज्य गुहामुखे वीरकमेव स्थापयन् ॥ ४४॥ ततो न गौरीं गिरिशं च दृष्ट्वा- सुरेश्वरो नीतिविचक्षणो हि । द्रुतं स्वदूतं विधसाख्यमेव स प्रेषयामास शिवोपकण्ठम् ॥ ४५॥ तैस्तैः प्रहारैरपि जर्जराङ्ग- स्तस्मिन् रणे देवगणेरितैर्यः । जगाद वाक्यं तु सगर्वमुग्रं प्रविश्य शम्भुं प्रणिपत्य मूर्ध्ना ॥ ४६॥ दूत उवाच । सम्प्रेषितोऽहं विविशे गुहां तु ह्येषोऽन्धकस्त्वां समुवाच वाक्यम् । नार्या न कार्यं तव किञ्चिदस्ति- विमुञ्च नारीं तरुणीं सुरूपाम् ॥ ४७॥ प्रायो भवांस्तापसस्तज्जुषस्व क्षान्तं मया यत्कमनीयमन्तः । मुनिर्विरोधव्य इति प्रचिन्त्य न त्वं मुनिस्तापस किं तु शत्रुः ॥ ४८॥ अतीव दैत्येषु महाविरोधी युध्यस्व वेगेन मया प्रमथ्य । नयामि पातालतलानुरूपं यमक्षयं तापस धूर्त्त हि त्वाम् ॥ ४९॥ सनत्कुमार उवाच । एतद्वचो दूतमुखान्निशम्य कपालमाली तमुवाच कोपात् । ज्वलन्विषादेन महांस्त्रिनेत्रः सतां गतिर्दुष्टमदप्रहर्ता ॥ ५०॥ शिव उवाच । व्यक्तं वचस्ते तदतीव चोग्रं प्रोक्तं हि तत्त्वं त्वरितं प्रयाहि । कुरुष्व युद्धं हि मया प्रसह्य यदि प्रशक्तोऽसि बलेन हि त्वम् ॥ ५१॥ यः स्यादशक्तो भुवि तस्य कोऽर्थो दारैर्धनैर्वा सुमनोहरैश्च । आयान्तु दैत्याश्च बलेन मत्ता विचार्यमेवं तु कृतं मयैतत् ॥ ५२॥ शरीरयात्रापि कुतस्त्वशक्तेः कुर्वन्तु यद्यद्विहितं तु तेषाम् । ममापि यद्यत्करणीयमस्ति तत्तत्करिष्यामि न संशयोऽत्र ॥ ५३॥ सनत्कुमार उवाच । एतद्वचस्तद्विधसोऽपि तस्मा- च्छ्रुत्वा हरान्निर्गत एव हृष्टः । प्रागात्ततो गर्जितहुङ्कृतानि कुर्वंस्ततो दैत्यपतेः सकाशम् ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे युद्धप्रारम्भदूतसंवादवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ २.५.४५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४६. षट्चत्वारिंशोऽध्यायः । अन्धकवधोपाख्याने अन्धकयुद्धवर्णनम् ।

सनत्कुमार उवाच । तस्येङ्गितज्ञश्च स दैत्यराजो गदां गृहीत्वा त्वरितः ससैन्यः । कृत्वाथ साऽग्रे गिलनामधेयं सुदारुणं देववरैरभेद्यम् ॥ १॥ गुहामुखं प्राप्य महेश्वरस्य बिभेद शस्त्रैरशनिप्रकाशैः । अन्ये ततो वीरकमेव शस्त्रै- रवाकिरन् शैलसुतां तथान्ये ॥ २॥ द्वारं हि केचिद्रुचिरं बभञ्जुः पुष्पाणि पत्राणि विनाशयेयुः । फलानि मूलानि जलं च हृद्य- मुद्यानमार्गानपि खण्डयेयुः ॥ ३॥ विलोडयेयुर्मुदिताश्च केचि- च्छृङ्गाणि शैलस्य च भानुमन्ति । ततो हरः सस्मृतवान् स्वसैन्यं समाह्वयन् कुपितः शूलपाणिः ॥ ४॥ भूतानि चान्यानि सुदारुणानि देवान्ससैन्यान्सह विष्णुमुख्यान् । आहूतमात्रानुगणाःससैन्या रथैर्गजैर्वाजिवृषैश्च गोभिः ॥ ५॥ उष्ट्रैः खरैः पक्षिवरैश्च सिंहैः ते सर्वदेवाः सहभूतसङ्घैः । व्याघ्रैर्मृगैः सूकरसारसैश्च समीनमत्स्यैः शिशुमारमुख्यैः ॥ ६॥ अन्यैश्च नाना विधजीवसङ्घै- र्विशीर्णदंशैः स्फुटितैः श्मशानैः । भुजङ्गमैः प्रेतशतैः पिशाचै- र्दिव्यैर्विमानैः कमलाकरैश्च ॥ ७॥ नदीनदैः पर्वतवाहनैश्च समागताः प्राञ्जलयः प्रणम्य । कपर्दिनं तस्थुरदीनसत्त्वाः सेनापतिं वीरकमेव कृत्वा ॥ ८॥ विसर्जयामास रणाय देवान् विश्रान्तवाहानथ तत्पिनाकी । युद्धे स्थिरं लब्धजयं प्रधानं सम्प्रेषितास्ते तु महेश्वरेण ॥ ९॥ चक्रुर्युगान्तप्रतिमं च युद्धं मर्यादहीनं सगिलेन सर्वे । दैत्येन्द्रसैन्येन सदैव घोरं क्रोधान्निगीर्णास्त्रिदशास्तु सङ्ख्ये ॥ १०॥ तस्मिन्क्षणे युध्यमानाश्च सर्वे ब्रह्मेन्द्रविष्ण्वर्कशशाङ्कमुख्याः । आसन्निगीर्णा विधसेन तेन सैन्ये निगीर्णेऽस्ति तु वीरको हि ॥ ११॥ विहाय सङ्ग्रामशिरोगुहां तां प्रविश्य शर्वं प्रणिपत्य मूर्ध्ना । प्रोवाच दुःखाभिहतः स्मरारिं सुवीरको वाग्मिवरोऽथ वृत्तम् ॥ १२॥ निगीर्णं ते सैन्यं विघसदितिजेनाद्य भगव- न्निगीर्णोऽसौ विष्णुस्त्रिभुवनगुरुर्दैत्यदलनः । निगीर्णौ चन्द्रार्कौ द्रुहिणमघवानौ च वरदौ निगीर्णास्ते सर्वे यमवरुणवाताश्च धनदः ॥ १३॥ स्थितोऽस्म्येकः प्रह्वः किमिह करणीयं भवतु मे अजेयो दैत्येन्द्रः प्रमुदितमना दैत्यसहितः ॥ १४॥ अजेयं त्वां प्राप्तः प्रतिभयमना मारुतगतिः स्वयं विष्णुर्देवः कनककशिपुं कश्यपसुतम् । नखैस्तीक्ष्णैर्भक्त्या तदपि भगवान् शिष्टवशगः प्रवृत्तस्त्रैलोक्यं विधमतु मलं व्यात्तवदनः ॥ १५॥ वसिष्ठाद्यैः शप्तो भुवनपतिभिः सप्तमुनिभिः तथाभूते भूयस्त्वमिति सुचिरं दैत्यसहितः ॥ १६॥ ततस्तेनोक्तास्ते प्रणयवचनैरात्मनि हितैः कदास्माद्वै घोराद्भवति मम मोक्षो मुनिवराः । यतः क्रुद्धैरुक्तो विघसहरणाद्युद्धसमये ततो घोरैर्बाणैर्विदलितमुखे मुष्टिभिरलम् ॥ १७॥ बदर्याख्यारण्ये ननु हरिगृहे पुण्यवसतौ निसंस्तभ्यात्मानं विगतकलुषो यास्यसि परम् । ततस्तेषां वाक्यात्प्रतिदिनमसौ दैत्यगिलनः क्षुधार्तः सङ्ग्रामाद् भ्रमति पुनरामोदमुदितः ॥ १८॥ तमश्चेदं घोरं जगदुदितयोः सूर्यशशिनो- र्यथाशुक्रस्तुभ्यं परमरिपुरत्यन्तविकरः । हतान्देवैर्दैत्यान्पुनरमृतविद्यास्तुतिपदैः सवीर्यान्सन्हृष्टान्व्रणशतवियुक्तान्प्रकुरुते ॥ १९॥ वरं प्राणास्त्याज्यास्तव मम तु सङ्ग्रामसमये भवान्साक्षीभूतः क्षणमपि वृतः कार्यकरणे ॥ २०॥ सनत्कुमार उवाच । इतीदं सत्पुत्रात्प्रमथपतिराकर्ण्य कुपित- श्चिरं ध्यात्वा चक्रे त्रिभुवनपतिः प्रागनुपमम् । प्रगायत्सामाख्यं दिनकरकराकारवपुषा प्रहासात्तन्नाम्ना तदनु निहतं तेन च तमः ॥ २१॥ प्रकाशेऽस्मिँल्लोके पुनरपि महायुद्धमकरोद् रणे दैत्यैः सार्द्धं विकृतवदनैर्वीरकमुनिः । शिलाचूर्णं भुक्त्वा प्रवरमुनिना यस्तु जनितः स कृत्वा सण्ग्रामं पुरमपि पुरा यश्च जितवान् ॥ २२॥ महारुद्रः सद्यः स खलु दितिजेनातिगिलितः ततश्चासौ नन्दी निशितशरशूलासिसहितः । प्रधानो योधानां मुनिवरशतानामपि महान् निवासो विद्यानां शमदममहाधैर्यसहितः ॥ २३॥ निरीक्ष्यैवं पश्चाद् वृषभवरमारुह्य भगवान् कपर्दी युद्धार्थी विघसदितिजं सम्मुखमुखः । जपन्दिव्यं मन्त्रं निगलनविधानोद्गिलनकं स्थितः सज्जं कृत्वा धनुरशनिकल्पानपि शरान् ॥ २४॥ ततौ निष्कान्तोऽसौ विघसवदनाद्वीरकमुनि- र्गृहीत्वा तत्सर्वे स्वबलमतुलं विष्णुसहिताः । समुद्गीर्णाः सर्वे कमलजबलारीन्दुदिनपाः प्रहृष्टं तत्सैन्यं पुनरपि महायुद्धमकरोत् ॥ २५॥ जिते तस्मिन् शुक्रस्तदनु दितिजान्युद्धविहतान् यदा विद्यावीर्यात्पुनरपि सजीवान्प्रकुरुते । तदा बद्ध्वाऽऽनीतः पशुरिव गणैर्भूतपतये निगीर्णस्तेनासौ त्रिपुररिपुणा दानवगुरुः ॥ २६॥ विनष्टे शुक्राख्ये सुररिपुनिवासस्तदखिलो जितो ध्वस्तो भग्नो भृशमपि सुरैश्चापि दलितम् । प्रभूतैर्भूतौघैर्दितिजकुणपग्रासरसिकैः सरुण्डैर्नृत्यद्भिर्निशितशरशक्त्युद्धृतकरैः ॥ २७॥ प्रमत्तैर्वेतालैःसुदृढकरतुण्डैरपि खगै- वृकैर्नानाभेदैः शवकुणपपूर्णास्यकवलैः । विकीर्णे सङ्ग्रामे कनककशिपोर्वंशजनक श्चिरं युद्धं कृत्वा हरिहरमहेन्द्रैश्च विजितः ॥ २८॥ प्रविष्टे पाताले गिरिजलधिरन्ध्राण्यपि तथा ततः सैन्ये क्षीणे दितिजवृषभश्चान्धकवरः । प्रकोपे देवानां कदनदवरो विश्वदलनो गदाघातैर्घोरैर्विदलितमदश्चापि हरिणा ॥ २९॥ न वै यः सग्रामं त्यजति वरलब्धः किल यतः तदा ताडैर्घोरैस्त्रिदशपतिना पीडिततनुः । ततः शस्त्रास्त्रौघैस्तरुगिरिजलैश्चाशु विबुधान् जिगायोच्चैर्गर्जन्प्रमथपतिमाहूय शनकैः ॥ ३०॥ स्थितो युद्धं कुर्वन् रणपतितशस्त्रैर्बहुविधैः परिक्षीणैः सर्वैस्तदनु गिरिजारुद्रमतुदत् । तथा वृक्षैः सर्पैरशनिनिवहैः शस्त्रपटलै- र्विरूपैर्मायाभिः कपटरचनाशम्बरशतैः ॥ ३१॥ विजेतुं शैलेशं कुहकमपरं तत्र कृतवान् महासत्त्वो वीरस्त्रिपुररिपुतुल्यश्च मतिमान् । न वध्यो देवानां वरशतमनोन्मादविवशः प्रभूतैः शस्त्रास्त्रैः सपदि दितिजो जर्जरतनुः ॥ ३२॥ तदीयाद्विष्यन्दात्क्षितितलगतैरन्धकगणै- रतिव्याप्तं घोरं विकृतवदनं स्वात्मसदृशम् । दधत्कल्पान्ताग्निप्रतिमवपुषा भूतपतिना त्रिशूले नोद्भिन्नस्त्रिपुररिपुणा दारुणतरम् ॥ ३३॥ यदा सैन्यात्सैन्यं पशुपतिहतादन्यदभवद्- व्रणोत्थैरत्युष्णैः पिशितनिसृतैर्बिन्दुभिरलम् । तदा विष्णुर्योगात्प्रमथपतिमाहूय मतिमान् चकारोग्रं रूपं विकृतवदनं स्त्रैणमजितम् ॥ ३४॥ करालं संशुष्कं बहुभुजलताक्रान्तकुपितो विनिष्क्रान्तः कर्णाद्गणशिरसि शम्भोश्च भगवान् ॥ ३५॥ रणस्था सा देवी चरणयुगलालङ्कृतमही स्तुता देवैः सर्वैः तदनु भगवान् प्रेरितमतिः । क्षुधार्ता तत्सैन्यं दितिजनिसृतं तच्च रुधिरं पपौ सात्युष्णं तद्रणशिरसि सृक्कर्दममलम् ॥ ३६॥ ततस्त्वेको दैत्यस्तदपि युयुधे शुष्करुधिरः तलाघातैर्घोरैरशनिसदृशैर्जानुचरणैः । नखैर्वज्राकारैर्मुखभुजशिरोभिश्च गिरिशं स्मरन् क्षात्रं धर्मं स्वकुलविहितं शाश्वतमजम् ॥ ३७॥ रणे शान्तः पश्चात्प्रमथपतिना भिन्नहृदय- स्त्रिशूले सम्प्रोतो नभसि विधृतः स्थाणुसदृशः । अधःकायः शुष्कस्तपनकिरणैर्जीर्णतनुमान् जलासारैर्मेघैः पवनसहितैः क्लेदितवपुः ॥ ३८॥ विशीर्णस्तिग्मांशोस्तुहिनशकलाकारशकल- स्तथाभूतः प्राणांस्तदपि न जहौ दैत्यवृषभः । तदा तुष्टः शम्भुः परमकरुणावारिधिरसौ ददौ तस्मै प्रीत्या गणपतिपदं तेन विनुतः ॥ ३९॥ ततो युद्धस्यान्ते भुवनपतयः सार्थ रमणै- स्तवैर्नानाभेदैः प्रमथपतिमभ्यर्च्य विधिवत् । हरिब्रह्माद्यास्ते परमनुतिभिः तुष्टुवुरलं नतस्कन्धाः प्रीता जय जय गिरं प्रोच्य सुखिताः ॥ ४०॥ हरस्तैस्तैः सार्धं गिरिवरगुहायां प्रमुदितो विसृज्यैकानंशान् विविधबलिना पूज्यसुनगान् । चकाराज्ञां क्रीडां गिरिवरसुतां प्राप्य मुदितां तथा पुत्रं घोराद्विघसवदनान्मुक्तमनघम् ॥ ४१॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ २.५.४६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४७. सप्तचत्वारिंशोऽध्यायः । अन्धकयुद्धे शुक्रनिगीर्णनवर्णनम् ।

व्यास उवाच । तस्मिन्महति सङ्ग्रामे दारुणे लोमहर्षणे । शुक्रो दैत्यपतिर्विद्वान् भक्षितस्त्रिपुरारिणा ॥ १॥ इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात् । किं चकार महायोगी जठरस्थः पिनाकिनः ॥ २॥ न ददाह कथं शम्भोः शुक्रं तं जठरानलः । कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः ॥ ३॥ विनिष्क्रान्तः कथं धीमान् शम्भोर्जठरपञ्जरात् । कथमाराधयामास कियत्कालं स भार्गवः ॥ ४॥ कथं च लब्धवान्विद्यां तां मृत्युशमनीं पराम् । का सा विद्या परा तात यया मृत्युर्हि वार्यते ॥ ५॥ लेभेऽन्धको गाणपत्यं कथं शूलाद्विनिर्गतः । देवदेवस्य वै शम्भोर्मुनेर्लीलाविहारिणः ॥ ६॥ एतत्सर्वमशेषेण महाधीमन् कृपां कुरु । शिवलीलामृतं तात श‍ृण्वतः कथयस्व मे ॥ ७॥ ब्रह्मोवाच । इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः । सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ८॥ सनत्कुमार उवाच । श‍ृणु व्यास महाबुद्धे शिवलीलामृतं परम् । धन्यस्त्वं शैवमुख्योऽसि ममानन्दकरः स्वतः ॥ ९॥ प्रवर्तमाने समरे शङ्करान्धकयोस्तयोः । अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः ॥ १०॥ पुरा जयो बभूवापि दैत्यानां बलशालिनाम् । शिवप्रभावादभवत्प्रमथानां मुने जयः ॥ ११॥ तच्छ्रुत्वासीद्विषण्णो हि महादैत्योऽन्धकासुरः । कथं स्यान्मे जय इति विचारणपरोऽभवत् ॥ १२॥ अपसृत्य ततो युद्धादन्धकः परबुद्धिमान् । द्रुतमभ्यगमद्वीर एकलः शुक्रसन्निधिम् ॥ १३॥ प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः । बभाषेदं विचार्याथ साञ्जलिर्नीतिवित्तमः ॥ १४॥ अन्धक उवाच । भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे । पराजिता भवामो नो सर्वदा जयशालिनः ॥ १५॥ त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् । मन्यामहे हरोपेन्द्रमुखानपि हि कत्तृणान् ॥ १६॥ अस्मत्तो बिभ्यति सुराः तदा भवदनुग्रहात् । गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः ॥ १७॥ अनिर्भेद्यं पविव्यूहं विविशुर्दैत्यदानवाः । प्रमथानीकमखिलं विधूय त्वदनुग्रहात् ॥ १८॥ वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः । स्थित्वा चरामो निःशङ्कमाजावपि हि भार्गव ॥ १९॥ रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् । असुरान् शत्रुभिर्वीरैरर्दितांश्च मृतानपि ॥ २०॥ प्रथमैर्भीमविक्रान्तैः क्रान्तान्मृत्युप्रमाथिभिः । सूदितान्पतितान्पश्य हुण्डादीन्मद्गणान्वरान् ॥ २१॥ यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा । त्वया प्राप्ता वरा विद्या तस्याः कालोऽयमागतः ॥ २२॥ अद्य विद्याफलं तत्ते सर्वे पश्यन्तु भार्गव । प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः ॥ २३॥ सनत्कुमार उवाच । इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः । तदा विचारयामास दूयमानेन चेतसा ॥ २४॥ किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति । सन्निपातविधिर्जीवः सर्वथानुचितो मम ॥ २५॥ विद्येयं शङ्करात्प्राप्ता तद्गुणान् प्रति योजये । तद्रणे मर्दितान्वीरैः प्रमथैः शङ्करानुगैः ॥ २६॥ शरणागतधर्मोऽथ प्रवरः सर्वतो हृदा । विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा ॥ २७॥ किञ्चित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् । भार्गवः शिवपादाब्जं स्मृत्वा स्वस्थेन चेतसा ॥ २८॥ शुक्र उवाच । यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि । एतद्विद्योपार्जनं हि दानवार्थं कृतं मया ॥ २९॥ दुःसहं कणधूमं वै पीत्वा वर्षसहस्रकम् । विद्येयमीश्वरात्प्राप्ता बन्धूनां सुखदा सदा ॥ ३०॥ प्रमथैर्मथितान्दैत्यान् रणेऽहं विद्ययानया । उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा ॥ ३१॥ निर्व्रणान्नीरुजः स्वस्थान् सुप्त्वेव पुनरुत्थितान् । मुहूर्तेऽस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान् ॥ ३२॥ सनत्कुमार उवाच । इत्युक्त्वा सोऽधकं शुक्रो विद्यामावर्तयत्कविः । एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात् ॥ ३३॥ विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः । उत्तस्थुर्युगपद्वीराः सुप्ता इव धृतायुधाः ॥ ३४॥ सदाभ्यस्ता यथा वेदाः समये वा यथाम्बुदाः । श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि ॥ ३५॥ उज्जीवितांस्तु तान्दृष्ट्वा हुण्डादींश्च महासुरान् । विनेदुरसुराः सर्वे जलपूर्णा इवाम्बुदाः ॥ ३६॥ रणोद्यताः पुनश्चासन्गर्जन्तो विकटान् रवान् । प्रमथैः सह निर्भीता महाबलपराक्रमाः ॥ ३७॥ शुक्रेणोज्जीवितान्दृष्ट्वा प्रमथा दैत्यदानवान् । विसिष्मिरे ततः सर्वे नन्द्याद्या युद्धदुर्मदाः ॥ ३८॥ विज्ञाप्यमेवं कर्मैतद्देवेशे शङ्करेऽखिलम् । विचार्य बुद्धिमन्तश्च ह्येवं तेऽन्योन्यमब्रुवन् ॥ ३९॥ आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे । अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोऽभ्यगमन्महेशम् ॥ ४०॥ जयेति चोक्त्वा जययोनिमुग्र- मुवाच नन्दी कनकावदातम् । गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं यत् ॥ ४१॥ तद्भार्गवेणाद्य कृतं वृथा नः सञ्जीवितांस्तान्हि मृतान्विपक्षान् । आवर्त्य विद्यां मृतजीवदात्री- मेकैकमुद्दिश्य सहेलमीश ॥ ४२॥ तुहुण्डहुण्डादिककुम्भजम्भ- विपाकपाकादिमहासुरेन्द्राः । यमालयादद्य पुनर्निवृत्ता विद्रावयन्तः प्रमथांश्चरन्ति ॥ ४३॥ यदि ह्यसौ दैत्यवरान्निरस्तान् सञ्जीवयेदत्र पुनः पुनस्तान् । जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शान्तिः ॥ ४४॥ सनत्कुमार उवाच । इत्येवमुक्तः प्रमथेश्वरेण स नन्दिना वै प्रमथेश्वरेशः । उवाच देवः प्रहसंस्तदानीं तं नन्दिनं सर्वगणेशराजम् ॥ ४५॥ शिव उवाच । नन्दिन्प्रयाहि त्वरितोऽति मात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् । मध्यात्समुद्धृत्य तथानयाशु श्येनो यथा लावकमण्डजातम् ॥ ४६॥ सनत्कुमार उवाच । स एवमुक्तो वृषभध्वजेन ननाद नन्दी वृषसिंहनादः । जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ॥ ४७॥ तं रक्ष्यमाणं दितिजैः समस्तैः पाशासिवृक्षोपलशैलहस्तैः । विक्षोभ्य दैत्यान् बलवान् जहार काव्यं स नन्दी शरभो यथेभम् ॥ ४८॥ स्रस्ताम्बरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् । विमोचयिष्यन्त इवानुजग्मुः सुरारयस्सिंहरवांस्त्यजन्तः ॥ ४९॥ दम्भोलिशूलासिपरश्वधाना- मुद्दण्डचक्रोपलकम्पनानाम् । नन्दीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्रम् ॥ ५०॥ तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा । आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिपक्षः ॥ ५१॥ अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् । जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ॥ ५२॥ न किञ्चिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् । हाहारवस्तैरसुरैःसमस्तै- रुच्चैर्विमुक्तो हहहेति भूरि ॥ ५३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ २.५.४७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४८. अष्टचत्वारिंशोऽध्यायः । शुक्रनिगीर्णनम् ।

व्यास उवाच । शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः । अन्धकेशा महावीरा वद तत्त्वं महामुने ॥ १॥ सनत्कुमार उवाच । काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः । हस्तैर्विमुक्ता इव वारणेन्द्राः श‍ऋङ्गैर्विहीना इव गोवृषाश्च ॥ २॥ शिरो विहीना इव देहसङ्घा द्विजा यथा चाध्ययनेन हीनाः । निरुद्यमाः सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ॥ ३॥ पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु पक्षिणौघाः । आयूंषि हीनानि यथैव पुण्यै- र्व्रतैर्विहीनानि यथा श्रुतानि ॥ ४॥ विना यथा वैभवशक्तिमेकां भवन्ति हीनाःस्वफलैः क्रियौघाः । यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव ॥ ९॥ नन्दिना च हृते शुक्रे गिलिते च विषादिना । विषादमगमन्दैत्या यतमानरणोत्सवाः ॥ ६॥ तान् वीक्ष्य विगतोत्साहानन्धकः प्रत्यभाषत । दैत्यांस्तु हुण्डहुण्डादीन्महाधीरपराक्रमः ॥ ७॥ अन्धक उवाच । कविं विक्रम्य नयता नन्दिना वञ्चिता वयम् । तनूर्विना कृताः प्राणाः सर्वेषामद्य नो ननु ॥ ८॥ धैर्यं वीर्यं गतिः कीर्तिः सत्त्वं तेजः पराक्रमः । युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते ॥ ९॥ धिगस्मान् कुलपूज्यो यैरेकोऽपि कुलसत्तमः । गुरुः सर्वसमर्थश्च त्राता त्रातो न चापदि ॥ १०॥ तद्यूयमविलम्ब्येह युध्यध्वमरिभिः सह । वीरैस्तैः प्रमथैर्वीराः स्मृत्वा गुरुपदाम्बुजम् ॥ ११॥ गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपङ्कजौ । सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ॥ १२॥ अद्यैतान् विवशान् हत्वा सहदेवैः सवासवैः । भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ॥ १३॥ स चापि योगी योगेन यदि नाम स्वयं प्रभुः । शरीरात्तस्य निर्गच्छेदस्माकं शेषपालकः ॥ १४॥ सनत्कुमार उवाच । इत्यन्धकवचः श्रुत्वा दानवा मेघनिस्स्वनाः । प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः ॥ १५॥ सत्यायुषि न नो जातु शक्ताः स्युः प्रमथा बलात् । असत्यायुषि किं गत्वा त्यक्त्वा स्वामिनमाहवे ॥ १६॥ ये स्वामिनं विहायातो बहुमानधना जनाः । यान्ति ते यान्ति नियतमन्धतामिस्रमालयम् ॥ १७॥ अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः । इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे ॥ १८॥ किं दानैः किं तपोभिश्च किं तीर्थपरिमज्जनैः । धरातीर्थे यदि स्नानं पुनर्भवमलापहे ॥ १९॥ सम्प्रधार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा । ममन्थुः प्रमथानाजौ रणभेरीं निनाद्य च ॥ २०॥ तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः । भुशुण्डिभिन्दिपालैश्च शक्ति भल्लपरश्वधैः ॥ २१॥ खट्वाङ्गैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् । परस्परमभिघ्नन्तः प्रचक्रुः कदनं महत् ॥ २२॥ कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् । भिन्दिपालभुशुण्डीनां क्ष्वेडितानां रवोऽभवत् ॥ २३॥ रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः । ह्रेषारवैर्हयानांश्च महान्कोलाहलोऽभवत् ॥ २४॥ अतिस्वनैरवापूरि द्यावाभूम्योर्यदन्तरम् । अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ॥ २५॥ गजवाजिमहारावस्फुटशब्दग्रहाणि च । भग्नध्वजपताकानि क्षीणप्रहरणानि च ॥ २६॥ रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च । पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै ॥ २७॥ अथ ते प्रमथा वीरा नन्दिप्रभृतयस्तदा । बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने ॥ २८॥ दृष्ट्वा सैन्यं च प्रमथैर्भज्यमानमितस्ततः । दुद्राव रथमास्थाय स्वयमेवान्धको गणान् ॥ २९॥ शरासारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव । प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः ॥ ३०॥ यान्तमायान्तमालोक्य दूरस्थं निकटस्थितम् । प्रत्येकं रोमसङ्ख्याभिर्विव्याधेषुभिरन्धकः ॥ ३१॥ दृष्ट्वा सैन्यं भज्यमानमन्धकेन बलीयसा । स्कन्दो विनायको नन्दी सोमनन्द्यादयः परे ॥ ३२॥ प्रमथा प्रबला वीराः शङ्करस्य गणा निजाः । चुक्रुधुः समरं चक्रुर्विचित्रं च महाबलाः ॥ ३३॥ विनायकेन स्कन्देन नन्दिना सोमनन्दिना । वीरेण नैगमेयेन वैशाखेन बलीयसा ॥ ३४॥ इत्याद्यैस्तु गणैरुग्रैरन्धकोऽप्यन्धकीकृतः । त्रिशूलशक्तिबाणौघधारासम्पातपातिभिः ॥ ३५॥ ततः कोलाहलो जातः प्रमथासुरसैन्ययोः । तेन शब्देन महता शुक्रः शम्भूदरे स्थितः ॥ ३६॥ छिद्रान्वेषी भ्रमन्सोऽथ विनिकेतो यथानिलः । सप्तलोकान्सपातालान् रुद्रदेहे व्यलोकयत् ॥ ३७॥ ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा । भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ॥ ३८॥ स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् । न तस्य ददृशे रन्ध्रं शुचे रन्ध्रं खलो यथा ॥ ३९॥ शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । इमं मन्त्रवरं जप्त्वा शम्भोर्जठरपञ्जरात् ॥ ४०॥ निष्क्रान्तो लिङ्गमार्गेण प्रणनाम ततः शिवम् । गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः ॥ ४१॥ अथ काव्यं विनिष्क्रान्तं शुक्रमार्गेण भार्गवम् । दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः ॥ ४२॥ महेश्वर उवाच । शुक्रवन्निःसृतो यस्माल्लिङ्गान्मे भृगुनन्दन । कर्मणा तेन शुक्रस्त्वं मम पुत्रोऽसि गम्यताम् ॥ ४३॥ सनत्कुमार उवाच । इत्येवमुक्तो देवेन शुक्रोऽर्कसदृशद्युतिः । प्रणनाम शिवं भूयस्तुष्टाव विहिताञ्जलिः ॥ ४४॥ शुक्र उवाच । अनन्तपादस्त्वमनन्तमूर्ति- रनन्तमूर्द्धान्तकरः शिवश्च । अनन्तबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना ॥ ४५॥ त्वमष्टमूर्तिस्त्वमनन्तमूर्ति- स्त्वमिष्टदः सर्वसुरासुराणाम् । अनिष्टदृष्टेश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम् ॥ ४६॥ सनत्कुमार उवाच । इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया । विवेश दानवानीकं मेघमालां यथा शशी ॥ ४७॥ निगीर्णनमिति प्रोक्तं शङ्करेण कवे रणे । श‍ृणु मन्त्रं च तं जप्तो यः शम्भोः कविनोदरे ॥ ४८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ २.५.४८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.४९. एकोनपञ्चाशत्तमोऽध्यायः । अन्धकगण जीवितप्राप्तिवर्णनम् ।

सनत्कुमार उवाच । ॐ नमस्ते देवेशाय सुरासुरनमस्कृताय भूतभव्यमहादेवाय हरितपिङ्गललोचनाय बलाय बुद्धिरूपिणे वैयाघ्रवसनच्छदायारणेयाय त्रैलोक्यप्रभवे ईश्वराय हराय हरिनेत्राय युगान्तकरणायानलाय गणेशाय लोकपालाय महाभुजाय महाहस्ताय शूलिने महादंष्ट्रिणे कालाय महेश्वराय अव्ययाय कालरूपिणे नीलग्रीवाय महोदराय गणाध्यक्षाय सर्वात्मने सर्वभावनाय सर्वगाय मृत्युहन्त्रे पारियात्रसुव्रताय ब्रह्मचारिणे वेदान्तगाय तपोन्तगाय पशुपतये व्यङ्गाय शूलपाणये वृषकेतवे हरये जटिने शिखण्डिने लकुटिने महायशसे भूतेश्वराय गुहावासिने वीणापणवतालवते अमराय दर्शनीयाय बालसूर्य-निभाय श्मशानवासिने भगवते उमापतये अरिन्दमाय भगस्याक्षिपातिने पूष्णोर्दशननाशनाय क्रुरकर्तकाय पाशहस्ताय प्रलयकालाय उल्कामुखायाग्निकेतवे मुनये दीप्ताय विशाम्पतये उन्नयते जनकाय चतुर्थकाय लोकसत्तमाय वामदेवाय वाग्दाक्षिण्याय वामतो भिक्षवे भिक्षुरूपिणे जटिने स्वयं जटिलाय शक्रहस्तप्रतिस्तम्भकाय वसूनां स्तम्भकाय क्रतवे क्रतुकराय कालाय मेधाविने मधुकराय चलाय वानस्पत्याय वाजसनेति समाश्रमपूजिताय जगद्धात्रे जगत्कर्त्रे पुरुषाय शाश्वताय ध्रुवाय धर्माध्यक्षाय त्रिवर्त्मने भूतभावनाय त्रिनेत्राय बहुरूपाय सूर्यायुतसमप्रभाय देवाय सर्वतूर्यनिनादिने सर्वबाधाविमोचनाय बन्धनाय सर्वधारिणे धर्मोत्तमाय पुष्पदन्तायाविभागाय मुखाय सर्वहराय हिरण्यश्रवसे द्वारिणे भीमाय भीमपराक्रमाय ॐ नमो नमः ॥ इमं मन्त्रवरं जप्त्वा शुक्रो जठरपञ्जरात् । निष्क्रान्तो लिङ्गमार्गेण शम्भोः शुक्रमिवोत्कटम् ॥ १॥ गौर्या गृहीतः पुत्रार्थं विश्वेशेन ततः कृतः । अजरश्चामरः श्रीमान्द्वितीय इव शङ्करः ॥ २॥ त्रिभिर्वर्षसहस्रैस्तु समतीतैर्महीतले । महेश्वरात्पुनर्जातः शुक्रो वेदनिधिर्मुनिः ॥ ३॥ ददर्श शूले संशुष्कं ध्यायन्तं परमेश्वरम् । अन्धकं धैर्यसम्पन्नं दानवेशं तपस्विनम् ॥ ४॥ महादेवं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् । अमृतं शाश्वतं स्थाणुं नीलकण्ठं पिनाकिनम् ॥ ५॥ वृषभाक्षं महाज्ञेयं पुरुषं सर्वकामदम् । कामारिं कामदहनं कामरूपं कपर्दिनम् ॥ ६॥ विरूपं गिरिशं भीमं स्रग्विणं रक्तवाससम् । योगिनं कालदहनं त्रिपुरघ्नं कपालिनम् ॥ ७॥ गूढव्रतं गुप्तमन्त्रं गम्भीरं भावगोचरम् । अणिमादिगुणाधारं त्रिलोकैश्वर्यदायकम् ॥ ८॥ वीरं वीरहणं घोरं विरूपं मांसलं पटुम् । महामांसादमुन्मत्तं भैरवं वै महेश्वरम् ॥ ९॥ त्रैलोक्यद्रावणं लुब्धं लुब्धकं यज्ञसूदनम् । कृत्तिकानां सुतैर्युक्तमुन्मत्तं कृत्तिवाससम् ॥ १०॥ गजकृत्तिपरीधानं क्षुब्धं भुजगभूषणम् । दत्तालम्बं च वेतालं घोरं शाकिनिपूजितम् ॥ ११॥ अघोरं घोरदैत्यघ्नं घोरघोषं वनस्पतिम् । भस्माङ्गं जटिलं शुद्धं भेरुण्डशतसेवितम् ॥ १२॥ भूतेश्वरं भूतनाथं पञ्चभूताश्रितं खगम् । क्रोधितं निष्ठुरं चण्डं चण्डीशं चण्डिकाप्रियम् ॥ १३॥ चण्डं तुङ्गं गरुत्मन्तं नित्यमासवभोजनम् । लेलिहानं महारौद्रं मृत्युं मृत्योरगोचरम् ॥ १४॥ मृत्योर्मृत्युं महासेनं श्मशानारण्यवासिनम् । रागं विरागं रागान्धं वीतरागशतार्चितम् ॥ १५॥ सत्त्वं रजस्तमोधर्ममधर्मं वासवानुजम् । सत्यं त्वसत्यं सद्रूपमसद्रूपमहेतुकम् ॥ १६॥ अर्द्धनारीश्वरं भानुं भानुकोटिशतप्रभम् । यज्ञं यज्ञपतिं रुद्रमीशानं वरदं शिवम् ॥ १७॥ अष्टोत्तरशतं ह्येतन्मूर्तीनां परमात्मनः । शिवस्य दानवो ध्यायन् मुक्तस्तस्मान्महाभयात् ॥ १८॥ दिव्येनामृतवर्षेण सोऽभिषिक्तः कपर्द्दिना । तुष्टेन मोचितं तस्माच्छूलाग्रादवरोपितः ॥ १९॥ उक्तश्चाथ महादैत्यो महेशानेन सोऽन्धकः । असुरः सान्त्वपूर्वं यत्कृतं सर्वं महात्मना ॥ २०॥ ईश्वर उवाच । भो भो दैत्येन्द्र तुष्टोऽस्मि यमेन नियमेन च । शौर्येण तव धैर्येण वरं वरय सुव्रत ॥ २१॥ आराधितस्त्वया नित्यं सर्वनिर्धूतकल्मषः । वरदोऽहं वरार्हस्त्वं महादैत्येन्द्रसत्तम ॥ २२॥ प्राणसन्धारणादस्ति यच्च पुण्यफलं तव । त्रिभिर्वर्षसहस्रैस्तु तेनास्तु तव निर्वृतिः ॥ २३॥ सनत्कुमार उवाच । एतच्छ्रुत्वान्धकः प्राह वेपमानः कृताञ्जलिः । भूमौ जानुद्वयं कृत्वा भगवन्तमुमापतिम् ॥ २४॥ अन्धक उवाच । भगवन्यन्मयोक्तोऽसि दीनो हीनः परात्परः । हर्षगद्गदया वाचा मया पूर्वं रणाजिरे ॥ २५॥ यद्यत्कृतं विमूढत्वात्कर्म लोकेषु गर्हितम् । अजानता त्वां तत्सर्वं प्रभो मनसि मा कृथाः ॥ २६॥ पार्वत्यामपि दुष्टं यत्कामदोषात्कृतं मया । क्षम्यतां मे महादेव कृपणो दुःखितो भृशम् ॥ २७॥ दुःखितस्य दया कार्या कृपणस्य विशेषतः । दीनस्य भक्तियुक्तस्य भवता नित्यमेव हि ॥ २८॥ सोऽहं दीनो भक्तियुक्त आगतः शरणं तव । रक्षा मयि विधातव्या रचितोऽयं मयाञ्जलिः ॥ २९॥ इयं देवी जगन्माता परितुष्टा ममोपरि । क्रोधं विहाय सकलं प्रसन्ना मां निरीक्षताम् ॥ ३०॥ क्वास्याः क्रोधः क्व कृपणो दैत्योऽहं चन्द्रशेखर । तत्सोढा नाहमर्द्धेन्दुचूड शम्भो महेश्वर ॥ ३१॥ क्व भवान्परमोदारः क्व चाहं विवशीकृतः । कामक्रोधादिभिर्दोषैर्जरसा मृत्युना तथा ॥ ३२॥ अयं ते वीरकः पुत्रो युद्धशौण्डो महाबलः । कृपणं मां समालक्ष्य मा मन्युवशमन्वगाः ॥ ३३॥ तुषारहारशीतांशुशङ्खकुन्देन्दुवर्णभाक् । पश्येयं पार्वतीं नित्यं मातरं गुरुगौरवात् ॥ ३४॥ नित्यं भवद्भ्यां भक्तस्तु निर्वैरो दैवतैः सह । निवसेयं गणैः सार्द्धं शान्तात्मा योगचिन्तकः ॥ ३५॥ मा स्मरेयं पुनर्जातं विरुद्धं दानवोद्भवम् । त्वत्कृपातो महेशान देह्येतद्वरमुत्तमम् ॥ ३६॥ सनत्कुमार उवाच । एतावदुक्त्वा वचनं दैत्येन्द्रो मौनमास्थितः । ध्यायंस्त्रिलोचनं देवं पार्वतीं प्रेक्ष्य मातरम् ॥ ३७॥ ततो दृष्टस्तु रुद्रेण प्रसन्नेनैव चक्षुषा । स्मृतवान्पूर्ववृत्तान्तमात्मनो जन्म चाद्भुतम् ॥ ३८॥ तस्मिन्स्मृते च वृत्तान्ते ततः पूर्णमनोरथः । प्रणम्य मातापितरौ कृतकृत्योऽभवत्ततः ॥ ३९॥ पार्वत्या मूर्ध्न्युपाघ्रातः शङ्करेण च धीमता । तथाऽभिलषितं लेभे तुष्टाद् बालेन्दुशेखरात् ॥ ४०॥ एतद्वः सर्वमाख्यातमन्धकस्य पुरातनम् । गाणपत्यं महादेवप्रसादात्परसौख्यदम् ॥ ४१॥ मृत्युञ्जयश्च कथितो मन्त्रो मृत्युविनाशनः । पठितव्यः प्रयत्नेन सर्वकामफलप्रदः ॥ ४२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगणजीवितप्राप्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ २.५.४९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५०. पञ्चाशत्तमोऽध्यायः । मृतसञ्जीविनीविद्याप्राप्तिवर्णनम् ।

सनत्कुमार उवाच । श‍ृणु व्यास यथा प्राप्ता मृत्युप्रशमनी परा । विद्या काव्येन मुनिना शिवान्मृत्युञ्जयाभिधात् ॥ १॥ पुरासौ भृगुदायादो गत्वा वाराणसीं पुरीम् । बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम् ॥ २॥ स्थापयामास तत्रैव लिङ्गं शम्भोः परात्मनः । कूपं चकार सद्रम्यं वेदव्यास तदग्रतः ॥ ३॥ पञ्चामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः । स्नापयामास देवेशं सुगन्धस्नपनैर्बहु ॥ ४॥ सहस्रकृत्वो देवेशं चन्दनैर्यक्षकर्दमैः । समालिलिम्प सुप्रीत्या सुगन्धोद्वर्त्तनान्यनु ॥ ५॥ राजचम्पकधत्तूरैः करवीरकुशेशयैः । मालतीकर्णिकारैश्च कदम्बैर्बकुलोत्पलैः ॥ ६॥ मल्लिकाशतपत्रीभिस्सिन्धुवारैः सकिंशुकैः । बन्धूकपुष्पैः पुन्नागैर्नागकेशरकेशरैः ॥ ७॥ नवमल्लीचिबिलिकैः कुन्दैः समुचुकुन्दकैः । मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्बृकैः । ग्रन्थिपर्णैर्दमनकैः सुरम्यैश्चूतपल्लवैः ॥ ८॥ तुलसीदेवगन्धारीबृहत्पत्रीकुशाङ्कुरैः । नन्द्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ॥ ९॥ काञ्चनारैः कुरबकैर्दूर्वाङ्कुरकुरुण्टकैः । प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ॥ १०॥ पत्रैः सहस्रपत्रैश्च रम्यैर्नानाविधैः शुभैः । सावधानेन सुप्रीत्या स समानर्च शङ्करम् ॥ ११॥ गीतनृत्योपहारैश्च संस्तुतः स्तुतिभिर्बहु । नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शङ्करम् ॥ १२॥ सहस्रं पञ्चशरदामित्थं शुक्रो महेश्वरम् । नानाप्रकारविधिना महेशं स समर्चयत् ॥ १३॥ यदा देवं नानुलोके मनागपि वरोन्मुखम् । तदान्यं नियमं घोरं जग्राहातीव दुःसहम् ॥ १४॥ प्रक्षाल्य चेतसोऽत्यन्तं चाञ्चल्याख्यं महामलम् । भावनावार्भिरसकृदिन्द्रियैः सहितस्य च ॥ १५॥ निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने । प्रपपौ कणधूमौघं सहस्रं शरदां कविः ॥ १६॥ काव्यमित्थं तपो घोरं कुर्वन्तं दृढमानसम् । प्रससाद स तं वीक्ष्य भार्गवाय महेश्वरः ॥ १७॥ तस्माल्लिङ्गाद्विनिर्गत्य सहस्रार्काधिकद्युतिः । उवाच तं विरूपाक्षः साक्षाद्दाक्षायणीपतिः ॥ १८॥ महेश्वर उवाच । तपोनिधे महाभाग भृगुपुत्र महामुने । तपसानेन ते नित्यं प्रसन्नोऽहं विशेषतः ॥ १९॥ मनोऽभिलषितं सर्वं वरं वरय भार्गव । प्रीत्या दास्येऽखिलान्कामान्नादेयं विद्यते तव ॥ २०॥ सनत्कुमार उवाच । निशम्येति वचः शम्भोर्महासुखकरं वरम् । स बभूव कविस्तुष्टो निमग्नः सुखवारिधौ ॥ २१॥ उद्यदानन्दसन्दोहरोमाञ्चाचितविग्रहः । प्रणनाम मुदा शम्भुमम्भोजनयनो द्विजः ॥ २२॥ तुष्टावाष्टतनुं तुष्टः प्रफुल्लनयनाञ्चलः । मौलावञ्जलिमाधाय वदन् जय जयेति च ॥ २३॥ भार्गव उवाच । त्वं भाभिराभिरभिभूय तमःसमस्त- मस्तं नयस्यभिमतानि निशाचराणाम् । देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ २४॥ लोकेऽतिवेलमतिवेलमहामहोभि- र्निर्भासि कौ च गगनेऽखिललोकनेत्रः । विद्राविताखिलतमाःसुतमो हिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥ २५॥ त्वं पावने पथि सदा गतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह । स्तब्धप्रभञ्जनविवर्द्धि तसर्वजन्तोः सन्तोषिता हि कुलसर्वग वै नमस्ते ॥ २६॥ विश्वेकपावक नतावक पावकैक- शक्ते ऋते मृतवतामृतदिव्यकार्यम् । प्राणिष्यदो जगदहो जगदन्तरात्मं- स्त्वं पावकः प्रतिपदं शमदो नमस्ते ॥ २७॥ पानीयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्रकरोऽसि नूनम् । विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि ॥ २८॥ आकाशरूपबहिरन्तरुतावकाश- दानाद्विकस्वरमिहेश्वर विश्वमेतत् । त्वत्तः सदा सदय संश्वसिति स्वभावात् सङ्कोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ २९॥ विश्वम्भरात्मक बिभर्षि विभोऽत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोऽरिः । स त्वं विनाशय तमो तम चाहिभूष- स्तव्यात्परः परपरं प्रणतस्ततस्त्वाम् ॥ ३०॥ आत्मस्वरूप तव रूपपरम्पराभि- राभिस्ततं हर चराचररूपमेतत् । सर्वान्तरात्मनिलय प्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥ ३१॥ इत्यष्टमूर्तिभिरिमाभिरबन्धुबन्धो युक्तः करोषि खलु विश्वजनीनमूर्त्ते । एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ ३२॥ सनत्कुमार उवाच । अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः । भर्गं भूमिमिलन्मौलिः प्रणनाम पुनः पुनः ॥ ३३॥ इति स्तुतो महादेवो भार्गवेणातितेजसा । उत्थाय भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम् ॥ ३४॥ उवाच श्लक्ष्णया वाचा मेघनादगभीरया । सुप्रीत्या दशनज्योत्स्ना प्रद्योतितदिङ्गतरः ॥ ३५॥ महादेव उवाच । विप्रवर्य कवे तात मम भक्तोऽसि पावनः । अनेनात्युग्रतपसा स्वजन्याचरितेन च ॥ ३६॥ लिङ्गस्थापनपुण्येन लिङ्गस्याराधनेन च । दत्तचित्तोपहारेण शुचिना निश्चलेन च ॥ ३७॥ अविमुक्तमहाक्षेत्रपवित्राचरणेन च । त्वां दयया प्रपश्यामि तवादेयं न किञ्चन ॥ ३८॥ अनेनैव शरीरेण ममोदरदरीगतः । मद्वरेन्द्रियमार्गेण पुत्रजन्मत्वमेष्यसि ॥ ३९॥ यच्छाम्यहं वरं तेऽद्य दुष्प्राप्यं पार्षदैरपि । हरेर्हिरण्यगर्भाच्च प्रायशोऽहं जुगोप यम् ॥ ४०॥ मृतसञ्जीवनी नाम विद्या या मम निर्मला । तपोबलेन महता मयैव परिनिर्मिता ॥ ४१॥ त्वां तां तु प्रापयाम्यद्य मन्त्ररूपां महाशुचे । योग्यता तेऽस्ति विद्यायास्तस्याः शुचितपोनिधे ॥ ४२॥ यं यमुद्दिश्य नियतमेतामावर्तयिष्यसि । विद्यां विद्येश्वरश्रेष्ठां सत्यं प्राणिष्यति ध्रुवम् ॥ ४३॥ अत्यर्कमत्यग्नि च ते तेजो व्योम्नि च तारकम् । देदीप्यमानं भविता ग्रहाणां प्रवरो भव ॥ ४४॥ अपि च त्वां करिष्यन्ति यात्रां नार्यो नरोऽपि वा । तेषां त्वद् दृष्टिपातेन सर्वकार्यं प्रणश्यति ॥ ४९॥ तवोदये भविष्यन्ति विवाहादीनि सुव्रत । सर्वाणि धर्मकार्याणि फलवन्ति नृणामिह ॥ ४६॥ सर्वाश्च तिथयो नन्दास्तव संयोगतः शुभाः । तव भक्ता भविष्यन्ति बहुशुक्रा बहु प्रजाः ॥ ४७॥ त्वयेदं स्थापितं लिङ्गं शुक्रेशमिति संज्ञितम् । येऽर्चयिष्यन्ति मनुजास्तेषां सिद्धिर्भविष्यति ॥ ४८॥ आवर्षं प्रतिघस्त्रं ये नक्तव्रतपरायणाः । त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ॥ ४९॥ शुक्रेशमर्चयिष्यन्ति श‍ृणु तेषां तु यत्फलम् । अवन्ध्यशुक्रास्ते मर्त्याः पुत्रवन्तोऽतिरेतसः ॥ ५०॥ पुंस्त्वसौभाग्यसम्पन्ना भविष्यन्ति न संशयः । उपेतविद्यास्ते सर्वे जनाः स्युः सुखभागिनः ॥ ५१॥ इति दत्त्वा वरान्देवस्तत्र लिङ्गे लयं ययौ । भार्गवोऽपि निजं धाम प्राप सन्तुष्टमानसः ॥ ५२॥ इति ते कथितं व्यास यथा प्राप्ता तपोबलात् । मृत्युञ्जयाभिधा विद्या किमन्यच्छ्रोतुमिच्छसि ॥ ५३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे मृतसञ्जीविनीविद्याप्राप्तिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ २.५.५०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५१. एकपञ्चाशत्तमोऽध्यायः । ऊषा चरित्रवर्णनं शिवशिवाविहारवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ श्राविता सुकथाद्भुता । भवतानुग्रहात्प्रीत्या शम्भ्वनुग्रहनिर्भरा ॥ १॥ इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः । गाणपत्यं ददौ प्रीत्या यथा बाणासुराय वै ॥ २॥ सनत्कुमार उवाच । श‍ृणु व्यासादरात्तां वै कथां शम्भोः परात्मनः । गाणपत्यं यथा प्रीत्या ददौ बाणासुराय हि ॥ ३॥ अत्रैव सुचरित्रं च शङ्करस्य महाप्रभोः । कृष्णेन समरोप्यत्र शम्भोर्बाणानुगृह्णतः ॥ ४॥ अत्रानुरूपं श‍ृणु मे शिवलीलान्वितं परम् । इतिहासं महापुण्यं मनः श्रोत्रसुखावहम् ॥ ५॥ ब्रह्मपुत्रो मरीचिर्यो मुनिरासीन्महामतिः । मानसः सर्वपुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः ॥ ६॥ तस्य पुत्रो महात्मासीत्कश्यपो मुनिसत्तमः । सृष्टिप्रवृद्धकोऽत्यन्तं पितुर्भक्तो विधेरपि ॥ ७॥ तस्य त्रयोदशमिता दक्षकन्याः सुशीलिकाः । कश्यपस्य मुनेर्व्यास पत्न्यश्चासन्पतिव्रताः ॥ ८॥ तत्र ज्येष्ठा दितिश्चासीद्दैत्यास्तत्तनयाः स्मृताः । अन्यासां च सुता जाता देवाद्याः सचराचराः ॥ ९॥ ज्येष्ठायाः प्रथमौ पुत्रौ दितेश्चास्तां महाबलौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ १०॥ हिरण्यकशिपोः पुत्राश्चत्वारो दैत्यसत्तमाः । ह्रादानुह्रादसंह्रादप्रह्रादश्चेत्यनुक्रमात् ॥ ११॥ प्रह्रादस्तत्र हि महान्विष्णुभक्तो जितेन्द्रियः । यं नाशितुं न शक्तास्तेऽभवन्दैत्याश्च केऽपि ह ॥ १२॥ विरोचनः सुतस्तस्य महादातृवरोऽभवत् । शक्राय स्वशिरो योऽदाद्याचमानाय विप्रतः ॥ १३॥ तस्य पुत्रो बलिश्चासीन्महादानी शिवप्रियः । येन वामनरूपाय हरयेऽदायि मेदिनी ॥ १४॥ तस्यौरसः सुतो बाणः शिवभक्तो बभूव ह । मान्यो वदान्यो धीमांश्च सत्यसन्धः सहस्रदः ॥ १५॥ शोणिताख्ये पुरे स्थित्वा स राज्यमकरोत्पुरा । त्रैलोक्यं च बलाज्जित्वा तन्नाथानसुरेश्वरः ॥ १६॥ तस्य बाणासुरस्यैव शिवभक्तस्य चामराः । शङ्करस्य प्रसादेन किङ्करा इव तेऽभवन् ॥ १७॥ तस्य राज्येऽमरान्हित्वा नाभवन्दुःखिताः प्रजाः । सापत्न्याद् दुःखितास्ते हि परधर्मप्रवर्तिनः ॥ १८॥ सहस्रबाहुवाद्येन स कदाचिन्महासुरः । ताण्डवेन हि नृत्येनातोषयत्तं महेश्वरम् ॥ १९॥ तेन नृत्येन सन्तुष्टः सुप्रसन्नो बभूव ह । ददर्श कृपया दृष्ट्या शङ्करो भक्तवत्सलः ॥ २०॥ भगवान्सर्वलोकेशः शरण्यो भक्तकामदः । वरेण च्छन्दयामास बालेयं तं महासुरम् ॥ २१॥ सनत्कुमार उवाच । बालेयः स महादैत्यो बाणो भक्तवरः सुधीः । प्रणम्य शङ्करं भक्त्या नुनाव परमेश्वरम् ॥ २२॥ बाणासुर उवाच । देवदेव महादेव शरणागतवत्सल । सन्तुष्टोऽसि महेशान ममोपरि विभो यदि ॥ २३॥ मद्रक्षको भव सदा मदुपस्थः पुराधिपः । सर्वथा प्रीतिकृन्मे हि ससुतः सगणः प्रभो ॥ २४॥ सनत्कुमार उवाच । बलिपुत्रः स वै बाणो मोहितः शिवमायया । मुक्तिप्रदं महेशानं दुराराध्यमपि ध्रुवम् ॥ २५॥ स भक्तवत्सलः शम्भुर्दत्त्वा तस्मै वरांश्च तान् । तत्रोवास तथा प्रीत्या सगणः ससुतः प्रभुः ॥ २६॥ स कदाचिद् बाणपुरे चक्रे देवासुरैः सह । नदीतीरे हरः क्रीडां रम्ये शोणितकाह्वये ॥ २७॥ ननृतुर्जहसुश्चापि गन्धर्वाप्सरसस्तथा । जेपुः प्रणेमुर्मुनय आनर्चुस्तुष्टुवुश्च तम् ॥ २८॥ ववल्गुः प्रथमाःसर्वे ऋषयो जुहुवुस्तथा । आययुः सिद्धसङ्घाश्च ददृशुः शाङ्करीं रतिम् ॥ २९॥ कुतार्किका विनेशुश्च म्लेच्छाश्च परिपन्थिनः । मातरोऽभिमुखास्तस्थुर्विनेशुश्च बिभीषिकाः ॥ ३०॥ रुद्रसद्भावभक्तानां भवदोषाश्च निःसृताः । तस्मिन्दृष्टे प्रजाः सर्वाः सुप्रीतिं परमां ययुः ॥ ३१॥ ववल्गुर्मुनयः सिद्धाः स्त्रीणां दृष्ट्वा विचेष्टितम् । पुपुषुश्चापि ऋतवः स्वप्रभावं तु तत्र च ॥ ३२॥ ववुर्वाताश्च मृदवः पुष्पके सरधूसराः । चुकूजुः पक्षिसङ्घाश्च शाखिनां मधुलम्पटाः ॥ ३३॥ पुष्पभारावनद्धानां रारट्येरंश्च कोकिलाः । मधुरं कामजननं वनेषूपवनेषु च ॥ ३४॥ ततः क्रीडाविहारे तु मत्तो बालेन्दुशेखरः । अनिर्जितेन कामेन दृष्टः प्रोवाच नन्दिनम् ॥ ३५॥ चन्द्रशेखर उवाच । वामामानय गौरीं त्वं कैलासात्कृतमण्डनाम् । शीघ्रमस्माद्वनाद्गत्वा ह्युक्त्वाऽकृष्णामिहानय ॥ ३६॥ सनत्कुमार उवाच । स तथेति प्रतिज्ञाय गत्वा तत्राह पार्वतीम् । सुप्रणम्य रहोदूतः शङ्करस्य कृताञ्जलिः ॥ ३७॥ नन्दीश्वर उवाच । द्रष्टुमिच्छति देवि त्वां देवदेवो महेश्वरः । स्ववल्लभां रूपकृतां मयोक्तं तन्निदेशतः ॥ ३८॥ सनत्कुमार उवाच । ततस्तद्वचनाद्गौरी मण्डनं कर्तुमादरात् । उद्यताभून्मुनिश्रेष्ठ पतिव्रतपरायणा ॥ ३९॥ आगच्छामि प्रभुं गच्छ वद तं त्वं ममाज्ञया । आजगाम ततो नन्दी रुद्रासन्नं मनोगतिः ॥ ४०॥ पुनराह ततो रुद्रो नन्दिनं परविभ्रमः । पुनर्गच्छ ततस्तात क्षिप्रमानय पार्वतीम् ॥ ४१॥ बाढमुक्त्वा स तां गत्वा गौरीमाह सुलोचनाम् । द्रष्टुमिच्छति ते भर्ता कृतवेषां मनोरमाम् ॥ ४२॥ शङ्करो बहुधा देवि विहर्तुं सम्प्रतीक्षते । एवं पतौ सुकामार्ते गम्यतां गिरिनन्दिनि ॥ ४३॥ अप्सरोभिःसमग्राभिरन्योन्यमभिमन्त्रितम् । लब्धभावो यथा सद्यः पार्वत्या दर्शनोत्सुकः ॥ ४४॥ अयं पिनाकी कामारिः वृणुयाद्यां नितम्बिनीम् । सर्वासां दिव्यनारीणां राज्ञी भवति वै ध्रुवम् ॥ ४५॥ वीक्षणं गौरि रूपेण क्रीडयेन्मन्मथैर्गणैः । कामोऽयं हन्ति कामारिमूचुरन्योऽन्यमादृताः ॥ ४६॥ स्प्रष्टुं शक्नोति या काचिदृते दाक्षायणीं स्त्रियम् । सा गच्छेत्तत्र निःशङ्कं मोहयेत्पार्वतीपतिम् ॥ ४७॥ कूष्माण्डतनया तत्र शङ्करं स्प्रष्टुमुत्सहे । अहं गौरीसुरूपेण चित्रलेखा वचोऽब्रवीत् ॥ ४८॥ चित्रलेखोवाच । यदधान्मोहिनीरूपं केशवो मोहनेच्छया । पुरा तद्वैष्णवं योगमाश्रित्य परमार्थतः ॥ ४९॥ उर्वश्याश्च ततो दृष्ट्वा रूपस्य परिवर्तनम् । कालीरूपं घृताची तु विश्वाची चाण्डिकं वपुः ॥ ५०॥ सावित्रिरूपं रम्भा च गायत्रं मेनका तथा । सहजन्या जयारूपं वैजयं पुञ्जिकस्थली ॥ ५१॥ मातॄणामप्यनुक्तानामनुक्ताश्चाप्सरोवराः । यत्नाद्रूपाणि ताश्चक्रुः स्वविद्यासंयुता अनु ॥ ५२॥ ततस्तासां तु रूपाणि दृष्ट्वा कुम्भाण्डनन्दिनी । वैष्णवादात्मयोगाच्च विज्ञातार्था व्यडम्बयत् ॥ ५३॥ ऊषा बाणासुरसुता दिव्ययोगविशारदा । चकार रूपं पार्वत्या दिव्यमत्यद्भुतं शुभम् ॥ ५४॥ महारक्ताब्जसङ्काशं चरणं चोत्तमप्रभम् । दिव्यलक्षणसंयुक्तं मनोऽभीष्टार्थदायकम् ॥ ५५॥ तस्या रमणसङ्कल्पं विज्ञाय गिरिजा ततः । उवाच सर्वविज्ञाना सर्वान्तर्यामिनी शिवा ॥ ५६॥ गिरिजोवाच । यतो मम स्वरूपं वै धृतमूषे सखि त्वया । सकामत्वेन समये सम्प्राप्ते सति मानिनि ॥ ५७॥ अस्मिंस्तु कार्तिके मासि ऋतुधर्मास्तु माधवे । द्वादश्यां शुक्लपक्षे तु यस्तु घोरे निशागमे ॥ ५८॥ कृतोपवासां त्वां भोक्ता सुप्तामन्तःपुरे नरः । स ते भर्त्ता कृतो देवैस्तेन सार्द्धं रमिष्यसि ॥ ५९॥ आबाल्याद्विष्णुभक्तासि यतोऽनिशमतन्द्रिता । एवमस्त्विति सा प्राह मनसा लज्जितानना ॥ ६०॥ अथ सा पार्वती देवी कृतकौतुकमण्डना । रुद्रसन्निधिमागत्य चिक्रीडे तेन शम्भुना ॥ ६१॥ ततो रतान्ते भगवान् रुद्रश्चादर्शनं ययौ । सदारः सगणश्चापि सहितो दैवतैर्मुने ॥ ६२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे ऊषाचरित्रवर्णने शिवाशिवविहारवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ २.५.५१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५२. द्विपञ्चाशत्तमोऽध्यायः । ऊषा चरित्रवर्णनम् ।

सनत्कुमार उवाच । श‍ृणुष्वान्यच्चरित्रं च शिवस्य परमात्मनः । भक्तवात्सल्यसङ्गर्भि परमानन्ददायकम् ॥ १॥ पुरा बाणासुरो नाम दैवदोषाच्च गर्वितः । कृत्वा ताण्डवनृत्यं च तोषयामास शङ्करम् ॥ २॥ ज्ञात्वा सन्तुष्टमनसं पार्वतीवल्लभं शिवम् । उवाच चासुरो बाणो नतस्कन्धः कृताञ्जलिः ॥ ३॥ बाण उवाच । देवदेव महादेव सर्वदेवशिरोमणे । त्वत्प्रसादाद् बली चाहं श‍ृणु मे परमं वचः ॥ ४॥ दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ५॥ हे देव किमनेनापि सहस्रेण करोम्यहम् । बाहूनां गिरितुल्यानां विना युद्धं वृषध्वज ॥ ६॥ कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् । पुराण्याचूर्णयन्नद्रीन्भीतास्तेऽपि प्रदुद्रुवुः ॥ ७॥ मया यमः कृतो योद्धा वह्निश्च कृतको महान् । वरुणश्चापि गोपालो गवां पालयिता तथा ॥ ८॥ गजाध्यक्षः कुबेरस्तु सैरन्ध्री चापि निरृतिः । जितश्चाखण्डलो लोके करदायी सदा कृतः ॥ ९॥ युद्धस्यागमनं ब्रूहि यत्रैते बाहवो मम । शत्रुहस्तप्रयुक्तैश्च शस्त्रास्त्रैर्जर्जरीकृताः ॥ १०॥ पतन्तु शत्रुहस्ताद्वा पातयन्तु सहस्रधा । एतन्मनोरथं मे हि पूर्णं कुरु महेश्वर ॥ ११॥ सनत्कुमार उवाच । तच्छ्रुत्वा कुपितो रुद्रस्त्वट्टहासं महाद्भुतम् । कृत्वाऽब्रवीन्महामन्युर्भक्तबाधाऽपहारकः ॥ १२॥ रुद्र उवाच । धिग्धिक् त्वां सर्वतो गर्विन्सर्वदैत्यकुलाधम । बलिपुत्रस्य भक्तस्य नोचितं वच ईदृशम् ॥ १३॥ दर्पस्यास्य प्रशमनं लप्स्यसे चाशु दारुणम् । महायुद्धमकस्माद्वै बलिना मत्समेन हि ॥ १४॥ तत्र ते गिरिसङ्काशा बाहवोऽनलकाष्ठवत् । छिन्ना भूमौ पतिष्यन्ति शस्त्रास्त्रैः कदलीकृताः ॥ १५॥ यदेष मानुषशिरो मयूरसहितो ध्वजः । विद्यते तव दुष्टात्मंस्तस्य स्यात्पतनं यदा ॥ १६॥ स्थापितस्यायुधागारे विना वातकृतं भयम् । तदा युद्धं महाघोरं सम्प्राप्तमिति चेतसि ॥ १७॥ निधाय घोरं सङ्ग्रामं गच्छेथाः सर्वसैन्यवान् । साम्प्रतं गच्छ तद्वेश्म यतस्तद्विद्यते शिवः ॥ १८॥ तथा तान्स्वमहोत्पातांस्तत्र द्रष्टासि दुर्मते । इत्युक्त्वा विररामाथ गर्वहृद्भक्तवत्सलः ॥ १९॥ सनत्कुमार उवाच । तच्छ्रुत्वा रुद्रमभ्यर्च्य दिव्यैरञ्जलिकुड्मलैः । प्रणम्य च महादेवं बाणश्च स्वगृहं गतः ॥ २०॥ कुम्भाण्डाय यथावृत्तं पृष्टः प्रोवाच हर्षितः । पर्यैक्षिष्टासुरो बाणस्तं योगं ह्युत्सुकः सदा ॥ २१॥ अथ दैवात्कदाचित्स स्वयं भग्नं ध्वजं च तम् । दृष्ट्वा तत्रासुरो बाणो हृष्टो युद्धाय निर्ययौ ॥ २२॥ स स्वसैन्यं समाहूय संयुक्तः साष्टभिर्गणैः । इष्टिं साङ्ग्रामिकां कृत्वा दृष्ट्वा साङ्ग्रामिकं मधु ॥ २३॥ ककुभां मङ्गलं सर्वं सम्प्रेक्ष्य प्रस्थितोऽभवत् । महोत्साहो महावीरो बलिपुत्रो महारथः ॥ २४॥ इति हृत्कमले कृत्वा कः कस्मादागमिष्यति । योद्धा रणप्रियो यस्तु नानाशस्त्रास्त्रपारगः ॥ २५॥ यस्तु बाहुसहस्रं मे छिनत्त्वनलकाष्ठवत् । तथा शस्त्रैर्महातीक्ष्णैश्च्छिनद्मि शतशस्त्विह ॥ २६॥ एतस्मिन्नन्तरे कालः सम्प्राप्तः शङ्करेण हि । यत्र सा बाणदुहिता सुजाता कृतमङ्गला ॥ २७॥ माधवं माधवे मासि पूजयित्वा महानिशि । सुप्ता चान्तः पुरे गुप्ते स्त्रीभावमुपलम्भिता ॥ २८॥ गौर्या सम्प्रेषितेनापि व्याकृष्टा दिव्यमायया । कृष्णात्मजात्मजेनाथ रुदन्ती सा ह्यनाथवत् ॥ २९॥ स चापि तां बलाद्भुक्त्वा पार्वत्याः सखिभिः पुनः । नीतस्तु दिव्ययोगेन द्वारकां निमिषान्तरात् ॥ ३०॥ मृदिता सा तदोत्थाय रुदन्ती विविधा गिरः । सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा ॥ ३१॥ सख्या कृतात्मनो दोषं सा व्यास स्मारिता पुनः । सर्वं तत्पूर्ववृत्तान्तं ततो दृष्ट्वा च साऽभवत् ॥ ३२॥ अब्रवीच्चित्रलेखां च ततो मधुरया गिरा । ऊषा बाणस्य तनया कुम्भाण्डतनयां मुने ॥ ३३॥ ऊषोवाच । सखि यद्येष मे भर्ता पार्वत्या विहितः पुरा । केनोपायेन ते गुप्तः प्राप्यते विधिवन्मया ॥ ३४॥ कस्मिन्कुले स वा जातो मम येन हृतं मनः । इत्युषावचनं श्रुत्वा सखी प्रोवाच तां तदा ॥ ३५॥ चित्रलेखोवाच । त्वया स्वप्ने च यो दृष्टः पुरुषो देवि तं कथम् । अहं समानयिष्यामि न विज्ञातस्तु यो मम ॥ ३६॥ दैत्यकन्या तदुक्ते तु रागान्धा मरणोत्सुका । रक्षिता च तया सख्या प्रथमे दिवसे ततः ॥ ३७॥ पुनः प्रोवाच सोषां वै चित्रलेखा महामतिः । कुम्भाण्डस्य सुता बाणतनयां मुनिसत्तम ॥ ३८॥ व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । समानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ ३९॥ सनत्कुमार उवाच । इत्युक्त्वा वस्त्रपुटके देवान्दैत्यांश्च दानवान् । गन्धर्वसिद्धनागांश्च यक्षादींश्च तथालिखत् ॥ ४०॥ तथा नरांस्तेषु वृष्णीन् शूरमानकदुन्दुभिम् । व्यलिखद्रामकृष्णौ च प्रद्युम्नं नरसत्तमम् ॥ ४१॥ अनिरुद्धं विलिखितं प्राद्युम्निं वीक्ष्य लज्जिता । आसीदवाङ्मुखी चोषा हृदये हर्षपूरिता ॥ ४२॥ ऊषा प्रोवाच चौरोऽसौ मया प्राप्तस्तु यो निशि । पुरुषः सखि येनाशु चेतोरत्नं हृतं मम ॥ ४३॥ यस्य संस्पर्शनादेव मोहिताहं तथाभवम् । तमहं ज्ञातुमिच्छामि वद सर्वं च भामिनि ॥ ४४॥ कस्यायमन्वये जातो नाम किं चास्य विद्यते । इत्युक्ता साब्रवीन्नाम योगिनी तस्य चान्वयम् ॥ ४५॥ सर्वमाकर्ण्य सा तस्य कुलादि मुनिसत्तम । उत्सुका बाणतनया बभाषे सा तु कामिनी ॥ ४६॥ ऊषोवाच । उपायं रचय प्रीत्या तत्प्राप्त्यै सखि तत्क्षणात् । येनोपायेन तं कान्तं लभेयं प्राणवल्लभम् ॥ ४७॥ यं विनाहं क्षणं नैकं सखि जीवितुमुत्सहे । तमानयेह सद्यत्नात्सुखिनीं कुरु मां सखि ॥ ४८॥ सनत्कुमार उवाच । इत्युक्ता सा तया बाणात्मजया मन्त्रिकन्यका । विस्मिताऽभून्मुनिश्रेष्ठ सुविचारपराऽभवत् ॥ ४९॥ ततः सखीं समाभाष्य चित्रलेखा मनोजवा । बुद्ध्वा तं कृष्णपौत्रं सा द्वारकां गन्तुमुद्यता ॥ ५०॥ ज्येष्ठकृष्णचतुर्दश्यां तृतीये तु गतेऽहनि । आप्रभातान्मुहूर्ते तु सम्प्राप्ता द्वारकां पुरीम् ॥ ५१॥ एकेन क्षणमात्रेण नभसा दिव्ययोगिनी । ततश्चान्तःपुरोद्याने प्राद्युम्निर्ददृशे तया ॥ ५२॥ क्रीडन्नारीजनैः सार्द्धं प्रपिबन्माधवी मधु । सर्वाङ्गसुन्दरः श्यामः सुस्मितो नवयौवनः ॥ ५३॥ ततः खट्वां समारूढमन्धकारपटेन सा । आच्छादयित्वा योगेन तामसेन च माधवम् ॥ ५४॥ ततः सा मूर्ध्नि तां खट्वां गृहीत्वा निमिषान्तरात् । सम्प्राप्ता शोणितपुरं यत्र सा बाणनन्दिनी ॥ ५५॥ कामार्ता विविधान्भावाञ्चकारोन्मत्तमानसा । आनीतमथ तं दृष्ट्वा तदा भीता च साऽभवत् ॥ ५६॥ अन्तः पुरे सुगुप्ते च नवे तस्मिन्समागमे । यावत्क्रीडितुमारब्धं तावज्ज्ञातं च तत्क्षणात् ॥ ५७॥ अन्तः पुरद्वारगतैर्वेत्रजर्जरपाणिभिः । इङ्गितैरनुमानैश्च कन्यादौःशील्यमाचरन् ॥ ५८॥ स चापि दृष्टस्तैस्तत्र नरो दिव्यवपुर्धरः । तरुणो दर्शनीयस्तु साहसी समरप्रियः ॥ ५९॥ तं दृष्ट्वा सर्वमाचख्युर्बाणाय बलिसूनवे । पुरुषास्ते महावीराः कन्यान्तः पुररक्षकाः ॥ ६०॥ द्वारपाला ऊचुः । देव कश्चिन्न जानीते गुप्तश्चान्तःपुरे बलात् । स कोऽस्ति तव कन्यां वै स्वयङ्ग्राहादधर्षयत् ॥ ६१॥ दानवेन्द्र महाबाहो पश्य पश्यैनमत्र च । यद्युक्तं स्यात्तत्कुरुष्व न दुष्टा वयमित्युत ॥ ६२॥ सनत्कुमार उवाच । तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः । विस्मितोऽभून्मुनिश्रेष्ठ कन्यायाः श्रुतदूषणः ॥ ६३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे ऊषाचरित्रवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ २.५.५२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५३. त्रिपञ्चाशत्तमोऽध्यायः । ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनम् ।

सनत्कुमार उवाच । अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् । दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ॥ १॥ तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् । बाणः क्रोधपरीतात्मा युधि शौण्डो हसन्निव ॥ २॥ अहो मनुष्यो रूपाढ्यःसाहसी धैर्यवानिति । कोऽयमागतकालश्च दुष्टभाग्यो विमूढधीः ॥ ३॥ येन मे कुलचारित्रं दूषितं दुहिता हिता । तं मारयध्वं कुपिताः शीघ्रं शस्त्रैः सुदारुणैः ॥ ४॥ दुराचारं च तं बद्ध्वा घोरे कारागृहे ततः । रक्षध्वं विकटे वीरा बहुकालं विशेषतः ॥ ५॥ न जाने कोऽयमभयः को वा घोरपराक्रमः । विचार्येति महाबुद्धिः सन्दिग्धोऽभूच्छरासुरः ॥ ६॥ ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः । वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ॥ ७॥ तदादिष्टास्तु ते वीराः सर्वतोऽन्तःपुरं द्रुतम् । छादयामासुरत्युग्राश्छिन्धि भिन्दीति वादिनः ॥ ८॥ शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः । अन्तःपुरं द्वारगतं परिघं गृह्य चातुलम् ॥ ९॥ निष्क्रान्तो भवनात्तस्माद्वज्रहस्त इवान्तकः । तेन तान्किङ्करान् हत्वा पुनश्चान्तःपुरं ययौ ॥ १०॥ एवं दशसहस्राणि सैन्यानि मुनिसत्तम । जघान रोषरक्ताक्षो वर्द्धितः शिवतेजसा ॥ ११॥ लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा । कुम्भाण्डं स गृहीत्वा तु युद्धे शौण्डं समाह्वयत् ॥ १२॥ अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महाहवे । प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ॥ १३॥ ततो दशसहस्राणि तुरङ्गाणां रथोत्तमान् । युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ॥ १४॥ तद्वधाय ततः शक्तिं कालवैश्वानरोपमाम् । अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ॥ १५॥ रथोपस्थे ततो बाणस्तया शक्त्याहतो दृढम् । स साश्वस्तत्क्षणं वीरस्तत्रैवान्तरधीयत ॥ १६॥ तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् । आलोक्य ककुभः सर्वाः तस्थौ गिरिरिवाचलः ॥ १७॥ अदृश्यमानस्तु तदा कूटयोधः स दानवः । नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ॥ १८॥ छद्मना नागपाशैस्तं बबन्ध स महाबलः । बलिपुत्रो महावीरः शिवभक्तः शरासुरः ॥ १९॥ तं बद्ध्वा पञ्जरान्तःस्थं कृत्वा युद्धादुपारमत् । उवाच बाणः सङ्क्रुद्धः सूतपुत्रं महाबलम् ॥ २०॥ बाणासुर उवाच । सूतपुत्र शिरश्छिन्धि पुरुषस्यास्य वै लघु । येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ॥ २१॥ छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः । अथास्य रक्तमांसानि क्रव्यादा अपि भुञ्जताम् ॥ २२॥ अगाधे तृणसङ्कीर्णे कूपे पातकिनं जहि । किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ॥ २३॥ सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः । कुम्भाण्डस्त्वब्रवीद्वाक्यं बाणं सन्मन्त्रिसत्तमम् ॥ २४॥ कुम्भाण्ड उवाच । नैतत्कर्तुं समुचितं कर्म देव विचार्यताम् । अस्मिन् हते हतो ह्यात्मा भवेदिति मतिर्मम ॥ २५॥ अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः । वर्धितश्चन्द्रचूडस्य त्वदिष्टस्य सुतेजसा ॥ २६॥ अथ चन्द्रललाटस्य साहसेन समत्स्वयम् । इमामवस्थां प्राप्तोऽस्ति पौरुषे संव्यवस्थितः ॥ २७॥ अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः । अस्मांस्तृणोपमान् वेत्ति दष्टोऽपि भुजगैर्बलात् ॥ २८॥ सनत्कुमार उवाच । एतद्वाक्यं तु बाणाय कथयित्वा स दानवः । अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः ॥ २९॥ कुम्भाण्ड उवाच । कोऽसि कस्यासि रे वीर सत्यं वद ममाग्रतः । केन वा त्वमिहानीतो दुराचार नराधम ॥ ३०॥ दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताञ्जलिः । जितोऽस्मीति वचो दीनं कथयित्वा पुनः पुनः ॥ ३१॥ एवं कृते तु मोक्षःस्यादन्यथा बन्धनादि च । तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः ॥ ३२॥ अनिरुद्ध उवाच । रे रे दैत्याऽधमसखे करपिण्डोपजीवक । निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः ॥ ३३॥ दैन्यं पलायनं चाथ शूरस्य मरणाधिकम् । विरुद्धं चोपशल्यं च भवेदिति मतिर्मम ॥ ३४॥ क्षत्रियस्य रणे श्रेयो मरणं सम्मुखे सदा । न वीरमानिनो भूमौ दीनस्येव कृताञ्जलिः ॥ ३५॥ सनत्कुमार उवाच । इत्यादि वीरवाक्यानि बहूनि स जगाद तम् । तदाकर्ण्य स बाणोऽसौ विस्मितोऽभूच्चुकोप च ॥ ३६॥ तदोवाच नभोवाणी बाणस्याश्वासनाय हि । श‍ृण्वतां सर्ववीराणामनिरुद्धस्य मन्त्रिणः ॥ ३७॥ व्योमवाण्युवाच । भो भो बाण महावीर न क्रोधं कर्तुमर्हसि । बलिपुत्रोऽसि सुमते शिवभक्त विचार्यताम् ॥ ३८॥ शिवः सर्वेश्वरः साक्षी कर्मणां परमेश्वरः । तदधीनमिदं सर्वं जगद्वै सचराचरम् ॥ ३९॥ स एव कर्ता भर्ता च संहर्ता जगतां सदा । रजः सत्त्वतमोधारी विधिविष्णुहरात्मकः ॥ ४०॥ सर्वस्यान्तर्गतः स्वामी प्रेरकः सर्वतः परः । निर्विकार्यव्ययो नित्यो मायाधीशोऽपि निर्गुणः ॥ ४१॥ तस्येच्छयाऽबलो ज्ञेयो बली बलिवरात्मज । इति विज्ञाय मनसि स्वस्थो भव महामते ॥ ४२॥ गर्वापहारी भगवान्नानालीलाविशारदः । नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः ॥ ४३॥ सनत्कुमार उवाच । इत्याभाष्य नभोवाणी विरराम महामुने । बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान् ॥ ४४॥ किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् । तद्वाक्यं च विसस्मार विजहार विरुद्धधीः ॥ ४५॥ ततोऽनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः । प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात् ॥ ४६॥ अनिरुद्ध उवाच । शरण्ये देवि बद्धोऽस्मि दह्यमानस्तु पन्नगैः । आगच्छ मे कुरु त्राणं यशोदे चण्डरोषिणि ॥ ४७॥ शिवभक्ते महादेवि सृष्टिस्थित्यन्तकारिणी । त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम् ॥ ४८॥ सनत्कुमार उवाच । तेनेत्थं तोषिता तत्र काली भिन्नाञ्जनप्रभा । ज्येष्ठकृष्णचतुर्दश्यां सम्प्राप्तासीन्महानिशि ॥ ४९॥ गुरुभिर्मुष्टिनिर्घातैर्दारयामास पञ्जरम् । शरांस्तान्भस्मसात्कृत्वा सर्परूपान् भयानकान् ॥ ५०॥ मोचयित्वानिरुद्धं तु ततश्चान्तःपुरं ततः । प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता ॥ ५१॥ इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर । कृच्छ्रमुक्तोऽनिरुद्धोऽभूत्सुखी चैव गतव्यथः ॥ ५२॥ अथ लब्धजयो भूत्वानिरुद्धः शिवशक्तितः । प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च ॥ ५३॥ पूर्ववद्विजहारासौ तया स्वप्रियया सुखी । पीतपानः सुरक्ताक्षः स बाणसुतया ततः ॥ ५४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ २.५.५३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५४. चतुःपञ्चाशत्तमोऽध्यायः । बाणाऽसुररुद्रकृष्णादियुद्धवर्णनम् ।

व्यास उवाच । अनिरुद्धे हृते पौत्रे कृष्णस्य मुनिसत्तम । कुम्भाण्डसुतया कृष्णः किमकार्षीद्धि तद्वद ॥ १॥ सनत्कुमार उवाच । ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् । श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ॥ २॥ अपश्यतां चानिरुद्धं तद्बन्धूनां हरेस्तथा । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ ३॥ नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च । आसन्सुव्यथिताः सर्वे वृष्णयः कृष्णदेवताः ॥ ४॥ कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् । जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ॥ ५॥ प्रद्युम्नो युयुधानश्च गतःसाम्बोऽथ सारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ६॥ अक्षौहिणीभिर्द्वादशभिः समेता सर्वतो दिशम् । रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ॥ ७॥ भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् । वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ८॥ बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ॥ ९॥ आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् । कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ॥ १०॥ कृष्णशङ्करयोरासीत्प्रद्युम्नगुहयोरपि । कूष्माण्डकूपकर्णाभ्यां बलेन सह संयुगः ॥ ११॥ साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः । नन्दिना गरुडस्यापि परेषां च परैरपि ॥ १२॥ ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः । गन्धर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ॥ १३॥ प्रमथैर्विविधाकारै रेवत्यन्तैः सुदारुणम् । युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ॥ १४॥ भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता । कृष्णश्चकार समरमतुलं प्रमथैः सह ॥ १५॥ तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च । विमुखेन त्रिपादेन ज्वरेण च गुहेन च ॥ १६॥ प्रमथैर्विविधाकारैस्तेषामत्यन्तदारुणम् । युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ॥ १७॥ बिभीषिकाभिर्बह्वीभिः कोटरीभिः पदे पदे । निर्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ॥ १८॥ शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान् । द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ १९॥ एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः । चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ॥ २०॥ विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोऽत्यमर्षणः । क्रोधं चकार सुमहन्ननाद च महोल्बणम् ॥ २१॥ तच्छ्रुत्वा शङ्करगणा विनेदुर्युयुधुश्च ते । मर्दयन्प्रतियोद्धारं वर्द्धिताः शम्भुतेजसा ॥ २२॥ पृथग्विधानि चायुङ्क्त शार्ङ्गास्त्राणि पिनाकिने । प्रत्यक्षैः शमयामास शूलपाणिरविस्मितः ॥ २३॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ॥ २४॥ कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् । न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ॥ २५॥ विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परन्तपः । स्वं ज्वरं शीतलाख्यं हि व्यसृजद् वारुणं मुने ॥ २६॥ विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः । अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ॥ २७॥ महेश्वरोऽथ तं दृष्ट्वायान्तं स्वं विसृजज्ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २८॥ वैष्णवोऽथ समाक्रन्दन्माहेश्वरबलार्दितः । अलब्ध्वाऽभयमन्यत्र तुष्टाव वृषभध्वजम् ॥ २९॥ अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः । विष्णुशीतज्वरं प्राह शरणागतवत्सलः ॥ ३०॥ महेश्वर उवाच । शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ॥ ३१॥ सनत्कुमार उवाच । इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः । तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ॥ ३२॥ स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः । जघान शक्त्या प्रद्युम्नं दैत्यसङ्घात्यमर्षणः ॥ ३३॥ स्कन्दशक्तिहतस्तत्र प्रद्युम्नः प्रबलोऽपि हि । असृग्विमुञ्चन्गात्रेभ्यो बलेनापाक्रमद्रणात् ॥ ३४॥ कुम्भाण्डकूपकर्णाभ्यां नानास्त्रैश्च समाहतः । दुद्राव बलभद्रोऽपि न तस्थेऽपि रणे बली ॥ ३५॥ कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् । गरुडो नाशयत्यथाऽऽवर्तैर्मेघार्णवाम्बुभिः ॥ ३६॥ अथ क्रुद्धो महेशस्य वाहनो वृषभो बली । वेगेन महतारं वै श‍ृङ्गाभ्यां निजघान तम् ॥ ३७॥ श‍ृङ्गघातविशीर्णाङ्गो गरुडोऽतीव विस्मितः । विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ॥ ३८॥ एवं जाते चरित्रे तु भगवान्देवकीसुतः । उवाच सारथिं शीघ्रं रुद्रतेजोऽतिविस्मितः ॥ ३९॥ श्रीकृष्ण उवाच । हे सूत श‍ृणु मद्वाक्यं रथं मे वाहय द्रुतम् । महादेवसमीपस्थो यथा स्यां गदितुं वचः ॥ ४०॥ सनत्कुमार उवाच । इत्युक्तो हरिणा सूतो दारुकः स्वगुणाग्रणीः । द्रुतं तं वाहयामास रथं रुद्रसमीपतः ॥ ४१॥ अथ विज्ञापयामास नतो भूत्वा कृताञ्जलिः । श्रीकृष्णः शङ्करं भक्त्या प्रपन्नो भक्तवत्सलम् ॥ ४२॥ श्रीकृष्ण उवाच । देवदेव महादेव शरणागतवत्सल । नमामि त्वाऽनन्तशक्तिं सर्वात्मानं परेश्वरम् ॥ ४३॥ विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्तिमात्रकम् । ब्रह्मलिङ्गं परं शान्तं केवलं परमेश्वरम् ॥ ४४॥ कालो दैवं कर्म जीवः स्वभावो द्रव्यमेव च । क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥ ४५॥ बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो । तन्निबन्धं प्रपद्येह त्वामहं परमेश्वरम् ॥ ४६॥ नानाभावैर्लीलयैव स्वकृतैर्निर्जरादिकान् । नूनं बिभर्षि लोकेशो हंस्युन्मार्गान्स्वभावतः ॥ ४७॥ त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्यमलात्मानमाकाशमिव केवलम् ॥ ४८॥ त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् । ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥ ४९॥ स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो । सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥ ५०॥ यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो । स्वच्छायया सञ्चकास्ति ह्ययं परमदृग्भवान् ॥ ५१॥ गुणेनापिहितोऽपि त्वं गुणे नैव गुणान् विभो । स्वप्रदीपश्चकासि त्वं भूमन् गिरिश शङ्कर ॥ ५२॥ त्वन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ५३॥ दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ५४॥ त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः । त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५॥ निवर्त्तस्व रणाद्देव त्वच्छापो न वृथा भवेत् । आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृन्तने ॥ ५६॥ सनत्कुमार उवाच । इत्याकर्ण्य वचः शम्भुः श्रीकृष्णस्य मुनीश्वर । प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ॥ ५७॥ महेश्वर उवाच । सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् । मदाज्ञया भवान्प्राप्तो बाणदोर्दण्डकृन्तने ॥ ५८॥ किं करोमि रमानाथ भक्ताधीनः सदा हरे । पश्यतो मे कथं वीर स्याद् बाणभुजकृन्तनम् ॥ ५९॥ अतस्त्वं जृम्भणास्त्रेण मां जृम्भय मदाज्ञया । ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ॥ ६०॥ सनत्कुमार उवाच । इत्युक्तः शङ्करेणाथ शार्ङ्गपाणिः सुविस्मितः । स्वरणस्थानमागत्य मुमोद स मुनीश्वर ॥ ६१॥ जृम्भणास्त्रं मुमोचाथ सन्धाय धनुषि द्रुतम् । पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ॥ ६२॥ मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ॥ ६३॥ इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणासुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ २.५.५४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५५. पञ्चपञ्चाशत्तमोऽध्यायः । बाणभुजकृन्तनगर्वापहारवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोऽस्तु ते । अद्भुतेयं कथा तात श्राविता मे त्वया मुने ॥ १॥ जृम्भिते जृम्भणास्त्रेण हरिणा समरे हरे । हते बाणबले बाणः किमकार्षीच्च तद्वद ॥ २॥ सूत उवाच । इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः । प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः ॥ ६॥ सनत्कुमार उवाच । श‍ृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् । कृष्णशङ्करयोस्तात लोकलीलानुसारिणोः ॥ ४॥ शयिते लीलया रुद्रे सपुत्रे सगणे सति । बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट् ॥ ५॥ कुम्भाण्डसङ्गृहीताश्वो नानाशस्त्रास्त्रधृक् ततः । चकार युद्धमतुलं बलिपुत्रो महाबलः ॥ ६॥ दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः । चकार युद्धमतुलं बलिपुत्रो महाबलः ॥ ७॥ श्रीकृष्णोऽपि महावीरो गिरिशाप्तमहाबलः । उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम् ॥ ८॥ धनुष्टङ्कारयामास शार्ङ्गाख्यं निजमद्भुतम् । त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर ॥ ९॥ तेन नादेन महता धनुष्टङ्कारजेन हि । द्यावाभूम्योरन्तरं वै व्याप्तमासीदनन्तरम् ॥ १०॥ चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः । कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान् ॥ ११॥ आयातस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः । अप्राप्तानेव चिच्छेद स्वशरैः स्वधनुश्च्युतैः ॥ १२॥ पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः । तत्रसुर्वृष्णयः सर्वे कृष्णात्मानो विचेतसः ॥ १३॥ स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान् । स कृष्णायातिशूराय महागर्वो बलेः सुतः ॥ १४॥ कृष्णोऽपि तानसम्प्राप्तानच्छिनत्स्वशरैर्द्रुतम् । स्मृत्वा शिवपदाम्भोजममरारिर्महाबलः ॥ १५॥ रामादयो वृष्णयश्च स्वं स्वं योद्धारमाहवे । निजघ्नुर्बलिनःसर्वे कृत्वा क्रोधं समाकुलाः ॥ १६॥ इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि । बभूव तुमुलं युद्धं श‍ृण्वतां विस्मयावहम् ॥ १७॥ तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽति पक्षिराट् । बाणासुरबलं सर्वं पक्षाघातैरमर्दयत् ॥ १८॥ मर्दितं स्वबलं दृष्ट्वा मर्दयन्तं च तं बली । चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः ॥ १९॥ स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् । महत्पराक्रमं चक्रे वैरिणां दुःसहं स वै ॥ २०॥ चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा । कृष्णादिसर्वयदुषु गरुडे च पृथक् पृथक् ॥ २१॥ जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा । बलमेकेन च मुने परानपि तथा बली ॥ २२॥ ततः कृष्णो महावीर्यो विष्णुरूपः सुरारिहा । चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः ॥ २३॥ जघान बाणं तरसा शार्ङ्गनिःसृतसच्छरैः । अति तद्बलमत्युग्रं युगपत्स्मृतशङ्करः ॥ २४॥ चिच्छेद तद्धनुः शीघ्रं छत्रादिकमनाकुलः । हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः ॥ २५॥ बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह । कृष्णं जघान गदया सोऽपतद्धरणीतले ॥ २६॥ उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा । शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः ॥ २७॥ एवं द्वयोश्चिरं कालं बभूव सुमहान् रणः । शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली ॥ २८॥ कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान् । शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वर ॥ २९॥ ततःसुदर्शनेनाशु कृष्णो बाणभुजान्बहून् । चिच्छेद भगवान् शम्भुः शासनात्परवीरहा ॥ ३०॥ अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः । गतव्यथो बभूवाशु शङ्करस्य प्रसादतः ॥ ३१॥ गतस्मृतिर्यदा बाणः शिरश्छेत्तुं समुद्यतः । कृष्णो वीरत्वमापन्नस्तदा रुद्रः समुत्थितः ॥ ३२॥ रुद्र उवाच । भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा । तत्कृतं च त्वया विष्णो मदाज्ञाकारिणा सदा ॥ ३३॥ मा बाणस्य शिरश्छिन्धि संहरस्व सुदर्शनम् । मदाज्ञया चक्रमिमममोघं मज्जने सदा ॥ ३४॥ दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव । चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः ॥ ३५॥ दधीचे रावणे वीरे तारकादिपुरेष्वपि । विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा ॥ ३६॥ त्वं तु योगीश्वरः साक्षात्परमात्मा जनार्दन । विचार्यतां स्वमनसा सर्वभूतहिते रतः ॥ ३७॥ वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै । तन्मे वचः सदा सत्यं परितुष्टोऽस्म्यहं तव ॥ ३८॥ पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् । भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे ॥ ३९॥ तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति । अचिरेणातिकालेन गतगर्वो भविष्यसि ॥ ४०॥ मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै । निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः ॥ ४१॥ इत्युक्तः स तयोर्मैत्रीं कारयित्वा महेश्वरः । तमनुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ ॥ ४२॥ सनत्कुमार उवाच । इत्याकर्ण्य वचः शम्भोः संहृत्य च सुदर्शनम् । अक्षताङ्गस्तु विजयी तत्कृष्णोऽन्तःपुरं ययौ ॥ ४३॥ अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः । जग्राह रत्नसङ्घातं बाणदत्तमनेकशः ॥ ४४॥ तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् । प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया ॥ ४५॥ हृदा प्रणम्य गिरिशमामन्त्र्य च बलेः सुतम् । परिवारसमेतस्तु जगाम स्वपुरीं हरिः ॥ ४६॥ पथि जित्वा च वरुणं विरुद्धं तमनेकधा । द्वारकां च पुरीं प्राप्तः समुत्सवसमन्वितः ॥ ४७॥ विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च । द्वारकायां ततो गत्वा कामचारी चचार ह ॥ ४८॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणभुजकृन्तनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ २.५.५५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५६. षट्पञ्चाशत्तमोऽध्यायः । बाणासुरगणत्वप्राप्तिवर्णनम् ।

नारद उवाच । कृष्णे गते द्वारकायामनिरुद्धेन भार्यया । अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १॥ सनत्कुमार उवाच । कृष्णे गते द्वारकायामनिरुद्धेन भार्यया । दुःखितोऽभूत्ततो बाणः स्वाज्ञानं संस्मरन्हृदा ॥ २॥ ततो नन्दी शिवगणो बाणं प्रोवाच दुःखितम् । दैत्यं शोणितदिग्धाङ्गमनुतापसमन्वितम् ॥ ३॥ नन्दीश्वर उवाच । बाण शङ्करसद्भक्त मानुतापं कुरुष्व भोः । भक्तानुकम्पी शम्भुर्वै भक्तवत्सलनामधृक् ॥ ४॥ तदिच्छया च यज्जातं तज्जातमिति चेतसा । मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥ ५॥ मन आद्ये समाधाय कुरु नित्यं महोत्सवम् । भक्तानुकम्पनश्चाऽस्य शङ्करस्य पुनःपुनः ॥ ६॥ नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः । शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७॥ गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः । गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥ ८॥ संस्तुवन्विविधैः स्तोत्रैः सन्नमन्नुतितस्तथा । यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९॥ ननर्त ताण्डवं मुख्यं प्रत्यालीढादिशोभितम् । स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ १०॥ मुखवादसहस्राणि भ्रूक्षेपसहितान्यपि । शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११॥ वारीश्च विविधाकारा दर्शयित्वा शनैः शनैः । तथा शोणितधाराभिः सिञ्चयित्वा महीतलम् ॥ १२॥ रुद्रं प्रसादयामास शूलिनं चन्द्रशेखरम् । बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥ १३॥ ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः । उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४॥ रुद्र उवाच । बाण तात बलेः पुत्र सन्तुष्टो नर्तनेन ते । वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५॥ सनत्कुमार उवाच । इत्याकर्ण्य वचः शम्भोर्दैत्येन्द्रेण तदा मुने । बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६॥ बाहुयुद्धस्य चोद्धत्तिर्गाणपत्यमथाक्षयम् । उषापुत्रस्य राज्यं तु तस्मिन् शोणितकाह्वये ॥ १७॥ निर्वैरता च विबुधैर्विष्णुना च विशेषतः । न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८॥ शम्भुभक्तिर्विशेषेण निर्विकारा सदा मुने । शिवभक्तेषु च स्नेहो दया सर्वेषु जन्तुषु ॥ १९॥ इति कृत्वा वरान् शम्भोर्बलिपुत्रो महाऽसुरः । प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृताञ्जलिः ॥ २०॥ बाण उवाच । देवदेव महादेव शरणागतवत्सल । त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१॥ कृता मयि कृपातीव कृपासागर शङ्कर । गर्वोपहारितः सर्वः प्रसन्नेन मम प्रभो ॥ २२॥ त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः । ब्रह्माण्डतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३॥ नाभिर्नभोऽग्निर्वदनमम्बु रेतो दिशः श्रुतिः । द्यौः शीर्षमङ्घ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४॥ दृगर्को जठरं वार्द्धिर्भुजेन्द्रो धिषणा विधिः । प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥ २५॥ रोमाण्यौषधयो नाथ केशा जलमुचस्तव । गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥ २६॥ ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च । ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७॥ त्वमेव सर्वदोपास्यःसर्वैर्जीवैर्महेश्वर । त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९॥ विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः । सर्वात्मना प्रपन्नास्त्वां शङ्करं प्रियमीश्वरम् ॥ ३०॥ सनत्कुमार उवाच । इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः । प्रेमप्रफुल्लिताङ्गश्च प्रणम्य स महेश्वरम् ॥ ३१॥ इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः । सर्वं लभिष्यसीत्युक्त्वा तत्रैवान्तरधीयत ॥ ३२॥ ततः शम्भोः प्रसादेन महाकालत्वमागतः । रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३॥ इति किल शरनाम्ना शङ्करस्यापि वृत्तं सकलगुरुजनानां सद्गुरोः शूलपाणेः । कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिः सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणासुरगणपत्वपदप्राप्तिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ २.५.५६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५७. सप्तपञ्चाशत्तमोऽध्यायः । गजासुरवधः ।

सनत्कुमार उवाच । श‍ृणु व्यास महाप्रेम्णा चरितं शशिमौलिनः । यथाऽवधीत् त्रिशूलेन दानवेन्द्रं गजासुरम् ॥ १॥ दानवे निहते देव्या समरे महिषासुरे । देवानां च हितार्थाय पुरा देवाः सुखं ययुः ॥ २॥ तस्य पुत्रो महावीरो मुनीश्वर गजासुरः । पितुर्वधं हि संस्मृत्य कृतं देव्या सुरार्थनात् ॥ ३॥ स तद्वैरमनुस्मृत्य तपोऽर्थं गतवान् वने । समुद्दिश्य विधिं प्रीत्या तताप परमं तपः ॥ ४॥ अवध्योऽहं भविष्यामि स्त्रीपुंसैः कामनिर्जितैः । संविचार्येति मनसाऽभूत्तपोरतमानसः ॥ ५॥ स तेपे हिमवद् द्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ ६॥ जटाभारैः स वै रेजे प्रलयार्क इवांशुभिः । महिषासुरपुत्रोऽसौ गजासुर उदारधीः ॥ ७॥ तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधोलोकांस्तापयन्विष्वगीरितः ॥ ८॥ चुक्षुभुर्नद्युदन्वन्तश्चाग्नेर्मूर्द्धसमुद्भवात् । निपेतुः सग्रहास्तारा जज्ज्वलुश्च दिशो दश ॥ ९॥ तेन तप्ताः सुराः सर्वे दिवं त्यक्त्वा सवासवाः । ब्रह्मलोकं ययुर्विज्ञापयामासुश्चचाल भूः ॥ १०॥ देवा ऊचुः । विधे गजासुरतपस्तप्ता वयमथाकुलाः । न शक्नुमो दिवि स्थातुमतस्ते शरणं गताः ॥ ११॥ विधे ह्युपशमं तस्य चान्याञ्जीवयितुं कृथा । लोका नङ्क्ष्यत्यन्यथा हि सत्यं सत्यं ब्रुवामहे ॥ १२॥ इति विज्ञापितो देवैर्वासवाद्यैः स आत्मभूः । भृगुदक्षादिभिर्ब्रह्मा ययौ दैत्यवराश्रमम् ॥ १३॥ तपन्तं तपसा लोकान् यथाऽभ्रापिहितं दिवि । विलक्ष्य विस्मितः प्राह विहसन्सृष्टिकारकः ॥ १४॥ ब्रह्मोवाच । उत्तिष्ठोत्तिष्ठ दैत्येन्द्र तपः सिद्धोऽसि माहिषे । प्राप्तोऽहं वरदस्तात वरं वृणु यथेप्सितम् ॥ १५॥ सनत्कुमार उवाच । उत्थायोत्थाय दैत्येन्द्र ईक्षमाणो दृशा विभुम् । गिरा गद्गदया प्रीतोऽगृणाद्देवं स माहिषिः ॥ ३५॥ गजासुर उवाच । नमस्ते देवदेवेश यदि दास्यसि मे वरम् । अवध्योऽहं भवेयं वै स्त्रीपुंसैः कामनिर्जितैः ॥ १७॥ महाबलो महावीर्योऽजेयो देवादिभिः सदा । सर्वेषां लोकपालानां निखिलर्द्धिसुभुग्विभो ॥ १८॥ सनत्कुमार उवाच । एवं वृतः शतधृतिर्दानवेन स तेन वै । प्रादात्तत्तपसा प्रीतो वरं तस्य सुदुर्लभम् ॥ १९॥ एवं लब्धवरो दैत्यो माहिषिश्च गजासुरः । सुप्रसन्नमनाः सोऽथ स्वधाम प्रत्यपद्यत ॥ २०॥ स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः । देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ २१॥ इत्यादीन्निखिलाञ्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ २२॥ देवोद्यानश्रियाजुष्टमध्यास्ते स्म त्रिविष्टपम् । महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥ २३॥ तस्मिन्महेन्द्रस्य गृहे महाबलो महामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ २४॥ स इत्थं निर्जितककुबेकराड् विषयान्प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ २५॥ एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । काले व्यतीते महति पापबुद्धिरभूत्ततः ॥ २६॥ महिषासुरपुत्रोऽसौ सञ्चिक्लेश द्विजान्वरान् । तापसान्नितरां पृथ्व्यां दानवः सुरमर्दनः ॥ २७॥ सुरान्नरांश्च प्रमथान्सर्वाञ्चिक्लेशदुर्मतिः । धर्मान्वितान्विशेषेण पूर्ववैरमनुस्मरन् ॥ २८॥ एकस्मिन्समये तात दानवोऽसौ महाबलः । अगच्छद्राजधानीं व शङ्करस्य गजासुरः ॥ २९॥ समागतेऽसुरेन्द्रे हि महान्कलकलो मुने । त्रात त्रातेति तत्रासीदानन्दनवासिनाम् ॥ ३०॥ महिषाऽसुरपुत्रोऽसौ यदा पुर्यां समागतः । प्रमथन्प्रमथान्सर्वान्निजवीर्यमदोद्धतः ॥ ३१॥ तस्मिन्नवसरे देवाः शक्राद्यास्तत्पराजिताः । शिवस्य शरणं जग्मुर्नत्वा तुष्टुवुरादरात् ॥ ३२॥ न्यवेदयन्दानवस्य तस्य काश्यां समागमम् । क्लेशाधिक्यं तत्रत्यानां तन्नाथानां विशेषतः ॥ ३३॥ देवा ऊचुः । देवदेव महादेव तव पुर्य्यां गतोऽसुरः । कष्टं दत्ते त्वज्जनानां तं जहि त्वं कृपानिधे ॥ ३४॥ यत्र यत्र धरायां च चरणं प्रमिणोति हि । अचलां सचलां तत्र करोति निज भारतः ॥ ३५॥ ऊरुवेगेन तरवः पतन्ति शिखरैः सह । यस्य दोर्दण्डघातेन चूर्णाः स्युश्च शिलोच्चयाः ॥ ३६॥ यस्य मौलिजसङ्घर्षाद् घना व्योम त्यजन्त्यपि । नीलिमानं न चाद्यापि जह्युस्तत्केशसङ्गजम् ॥ ३७॥ यस्य निश्वाससम्भारैरुत्तरङ्गा महाब्धयः । नद्योऽप्यमन्दकल्लोला भवन्ति तिमिभिः सह ॥ ३८॥ योजनानां सहस्राणि नव यस्य समुच्छ्रयः । तावानेव हि विस्तारः तनोर्मायाविनोऽस्य हि ॥ ३९॥ यन्नेत्रयोः पिङ्गलिमा तथा तरलिमा पुनः । विद्युताः नोह्यतेऽद्यापि सोऽयं स्माऽऽयाति सत्वरम् ॥ ४०॥ यां यां दिशं समभ्येति सोऽयं दुःसह दानवः । अवध्योऽहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ॥ ४१॥ इत्येवं चेष्टितं तस्य दानवस्य निवेदितम् । रक्षस्व भक्तान्देवेश काशीरक्षणतत्पर ॥ ४२॥ सनत्कुमार उवाच । इति सम्प्रार्थितो देवैर्भक्तरक्षणतत्परः । तत्राऽऽजगाम सोरं तद्वधकामनया हरः ॥ ४३॥ आगतं तं समालोक्य शङ्करं भक्तवत्सलम् । त्रिशूलहस्तं गर्जन्तं जगर्ज स गजासुरः ॥ ४४॥ ततस्तयोर्महानासीत्समरो दारुणोऽद्भुतः । नानास्त्रशस्त्रसम्पातैर्वीरारावं प्रकुर्वतोः ॥ ४५॥ गजासुरोऽतितेजस्वी महाबलपराक्रमः । विव्याध गिरिशं बाणैस्तीक्ष्णैर्दानवघातिनम् ॥ ४६॥ अथ रुद्रो रौद्रतनुः स्वशरैरतिदारुणैः । तच्छरांश्चिच्छिदे तूर्णमप्राप्तांस्तिलशो मुने ॥ ४७॥ ततो गजासुरः क्रुद्धोऽभ्यधावत्तं महेश्वरम् । खड्गहस्तः प्रगर्ज्योच्चैर्हतोऽसीत्यद्य वै मया ॥ ४८॥ ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम् । विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ॥ ४९॥ प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः । छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ॥ ५०॥ गजासुर उवाच । देवदेव महादेव तव भक्तोऽस्मि सर्वथा । जाने त्वां त्रिदिवेशानं त्रिशूलिन्स्मरहारिणम् ॥ ५१॥ तव हस्ते मम वधो महाश्रेयस्करो मतः । अन्धकारे महेशान त्रिपुरान्तक सर्वग ॥ ५२॥ किञ्चिद्विज्ञप्तुमिच्छामि तच्छृणुष्व कृपाकर । सत्यं ब्रवीमि नासत्यं मृत्युञ्जय विचारय ॥ ५३॥ त्वमेको जगतां वन्द्यो विश्वस्योपरि संस्थितः । कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ॥ ५४॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्य शङ्करः करुणानिधिः । प्रहस्य प्रत्युवाचेशो माहिषेयं गजासुरम् ॥ ५५॥ ईश्वर उवाच । महापराक्रमनिधे दानवोत्तम सन्मते । गजासुर प्रसन्नोऽस्मि स्वानुकूलं वरं वृणु ॥ ५६॥ सनत्कुमार उवाच । इत्याकर्ण्य महेशस्य वचनं वरदस्य हि । प्रत्युवाच प्रसन्नात्मा दानवेन्द्रो गजासुरः ॥ ५७॥ गजासुर उवाच । यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे । इमां कृत्तिं महेशान त्वत्त्रिशूलाग्निपाविताम् ॥ ५८॥ स्वप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम् । दर्शनीयां महादिव्यां सर्वदैव सुखावहाम् ॥ ५९॥ इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला । सदैव निर्मला चास्तु सदैवास्त्वतिमण्डना ॥ ६०॥ महातपोनलज्वालां प्राप्यापि सुचिरं विभो । न दग्धा कृत्तिरेषा मे पुण्यगन्धनिधेस्ततः ॥ ६१॥ यदि पुण्यवती नैषा मम कृत्तिर्दिगम्बर । तदा त्वदङ्गसङ्गोस्याः कथं जातो रणाङ्गणे ॥ ६२॥ अन्यं च मे वरं देहि यदि तुष्टोऽसि शङ्कर । नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥ ६३॥ सनत्कुमार उवाच । श्रुत्वेति स वचस्तस्य शङ्करो भक्तवत्सलः । तथेत्युवाच सुप्रीतो महिषासुरजं च तम् ॥ ६४॥ पुनः प्रोवाच प्रीतात्मा दानवं तं गजासुरम् । भक्तप्रियो महेशानो भक्तिनिर्मलमानसम् ॥ ६५॥ ईश्वर उवाच । इदं पुण्यं शरीरं ते क्षेत्रेऽस्मिन्मुक्तिसाधने । मम लिङ्गं भवत्वत्र सर्वेषां मुक्तिदायकम् ॥ ६६॥ कृत्तिवासेश्वरं नाम महापातकनाशनम् । सर्वेषामेव लिङ्गानां शिरोभूतं विमुक्तिदम् ॥ ६७॥ कथयित्वेति देवेशस्तत्कृतिं परिगृह्य च । गजासुरस्य महतीं प्रावृणोद्धि दिगम्बरः ॥ ६८॥ महामहोत्सवो जातस्तस्मिन्नह्नि मुनीश्वर । हर्षमापुर्जनाः सर्वे काशीस्थाः प्रमथास्तथा ॥ ६९॥ हरिब्रह्मादयो देवा हर्षनिर्भरमानसाः । तुष्टुवुस्तं महेशानं नत्वा साञ्जलयस्ततः ॥ ७०॥ हते तस्मिन्दानवेशे माहिषे हि गजासुरे । स्वस्थानं भेजिरे देवा जगत्स्वास्थ्यमवाप च ॥ ७१॥ इत्युक्तं चरितं शम्भोर्भक्तवात्सल्यसूचकम् । स्वर्ग्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धनम् ॥ ७२॥ य इदं श‍ृणुयात्प्रीत्या श्रावयेद्वा शुचिव्रतः । स भुक्त्वा च महासौख्यं लभेतान्ते परं सुखम् ॥ ७३॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे गजासुरवधो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ २.५.५७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५८. अष्टपञ्चाशत्तमोऽध्यायः । दुन्दुभिनिर्ह्राददैत्यवधवर्णनम् ।

सनत्कुमार उवाच । श‍ृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः । यथा दुन्दुभिनिर्ह्रादमवधीद्दितिजं हरः ॥ १॥ हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले । विष्णुदेवेन कालेन प्राप दुखं महद्दितिः ॥ २॥ दैत्यो दुन्दुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः । सान्त्वयामास तां वाग्भिर्दुःखितां देवदुःखदः ॥ ३॥ अथ दैत्यः स मायावी दितिमाश्वास्य दैत्यराट् । देवाः कथं सुजेयाः स्युरित्युपायमचिन्तयत् ॥ ४॥ देवैश्च घातितो वीरो हिरण्याक्षो महासुरः । विष्णुना च सह भ्रात्रा सच्छलैर्दैत्यवैरिभिः ॥ ५॥ किं बलाश्च किमाहारा किमाधारा हि निर्जराः । मया कथं सुजेयाः स्युरित्युपायमचिन्तयत् ॥ ६॥ विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् । अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः ॥ ७॥ ब्राह्मणान्हन्तुमसकृदन्वधावत वै ततः । दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः ॥ ८॥ यतः क्रतुभुजो देवाः क्रतवो वेदसम्भवाः । ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः ॥ ९॥ निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः । गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥ १०॥ ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम् । अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः ॥ ११॥ यज्ञेषु नाशं गच्छत्सु हताहारास्ततः सुराः । निर्बलाःसुखजय्याः स्युर्निर्जितेषु सुरेष्वथ ॥ १२॥ अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः । आहरिष्यामि देवानामक्षयाः सर्वसम्पदः ॥ १३॥ निर्वेक्ष्यामि सुखान्येव राज्ये निहतकण्टके । इति निश्चित्य दुर्बुद्धिः पुनश्चिन्तितवान्खलः ॥ १४॥ द्विजाः क्व सन्ति भूयांसो ब्रह्मतेजोऽतिबृंहिता । श्रुत्यध्ययनसम्पन्नास्तपोबलसमन्विताः ॥ १५॥ भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु । तामादावुपसंहृत्य यायां तीर्थान्तरं ततः ॥ १६॥ यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च । सन्ति सर्वेऽग्रजन्मानस्ते मयाद्याः समन्ततः ॥ १७॥ इति दुन्दुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् । प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद् द्विजान् ॥ १८॥ समित्कुशान्समादातुं यत्र यान्ति द्विजोत्तमाः । अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥ १९॥ यथा कोऽपि न वेत्त्येवं तथाऽऽच्छन्नोऽभवत्पुनः । वने वनेचरो भूत्वा यादोरूपो जलाशये ॥ २०॥ अदृश्यरूपी मायावी देवानामप्यगोचरः । दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥ २१॥ प्रवेशमुटजानां च निर्गमं हि विलोकयन् । यामिन्यां व्याघ्ररूपेणाभक्षयद् ब्राह्मणान् बहून् ॥ २२॥ निःशङ्कं भक्षयत्येवं न त्यजत्यपि कीकशम् । इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः ॥ २३॥ एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे । सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत् ॥ २४॥ स च दुन्दुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः । व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे ॥ २५॥ तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे । कृतास्त्रमन्त्रविन्यासं तं क्रान्तुमशकन्न सः ॥ २६॥ अथ सर्वगतः शम्भुर्ज्ञात्वा तस्याशयं हरः । दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥ २७॥ यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः । जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः ॥ २८॥ रुद्रमायान्तमालोक्य तद्भक्तार्चितलिङ्गतः । दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥ २९॥ सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः । तावदायान्तमादाय कक्षायन्त्रे न्यपीडयत् ॥ ३०॥ पञ्चास्यस्त्वथ पञ्चास्यं मुष्ट्या मूर्द्धन्यताडयत् । भक्तवत्सलनामासौ वज्रादपि कठोरया ॥ ३१॥ स तेन मुष्टिघातेन कक्षानिष्पेषणेन च । अत्यार्तमारटद्व्याघ्रो रोदसीं पूरयन्मृतः ॥ ३२॥ तेन नादेन महता सम्प्रवेपितमानसाः । तपोधनाः समाजग्मुर्निशि शब्दानुसारतः ॥ ३३॥ तत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् । तुष्टुवुः प्रणताः सर्वे शर्वं जयजयाक्षरैः ॥ ३४॥ ब्राह्मणा ऊचुः । त्रायतां त्रायतां देव प्रत्यूहाद्दारुणादितः । अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्गुरो ॥ ३५॥ अनेनैव स्वरूपेण व्याघ्रेश इति नामतः । कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥ ३६॥ अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः । दुष्टानपास्य गौरीश भक्तेभ्यो देहि चाभयम् ॥ ३७॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः । तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ॥ ३८॥ महेश्वर उवाच । यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै । तस्योपसर्गसन्धानं पातयिष्याम्यसंशयम् ॥ ३९॥ मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिङ्गमिदं हृदि । सङ्ग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम् ॥ ४०॥ एतस्मिन्नन्तरे देवाः समाजग्मुः सवासवाः । जयेति शब्दं कुर्वन्तो महोत्सवपुरःसरम् ॥ ४१॥ प्रणम्य शङ्करं प्रेम्णा सर्वे साञ्जलयः सुराः । नतस्कन्धाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम् ॥ ४२॥ देवा ऊचुः । जय शङ्कर देवेश प्रणतार्तिहर प्रभो । एतद्दुन्दुभिनिर्ह्रादवधात् त्राता वयं सुराः ॥ ४३॥ सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल । वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो ॥ ४४॥ इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः । तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिङ्गे लयं ययौ ॥ ४५॥ सविस्मयास्ततो देवाः स्वं स्वं धाम ययुर्मुदा । तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम् ॥ ४६॥ इदं चरित्रं परमं व्याघ्रेश्वरसमुद्भवम् । श‍ृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा ॥ ४७॥ सर्वान्कामानवाप्नोति नरःस्वमनसेप्सितान् । परत्र लभते मोक्षं सर्वदुःखविवर्जितः ॥ ४८॥ इदमाख्यानमतुलं शिवलीलामृताक्षरम् । स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम् ॥ ४९॥ परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम् । परमज्ञानदं रम्यं विकारहरणं परम् ॥ ५०॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चम युद्धखण्डे दुन्दुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ २.५.५८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे

२.५.५९. एकोनषष्टितमोऽध्यायः । विदलोत्पलदैत्यवधवर्णनम् ।

सनत्कुमार उवाच । श‍ृणु व्यास सुसम्प्रीत्या चरितं परमेशितुः । यथावधीत्स्वप्रियया दैत्यमुद्दिश्य संज्ञया ॥ १॥ आस्तां पुरा महादैत्यौ विदलोत्पलसंज्ञकौ । अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः ॥ २॥ तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् । ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे ॥ ३॥ ताभ्यां पराजिता देवा विधेस्ते शरणं गताः । नत्वा तं विधिवत्सर्वे कथयामासुरादरात् ॥ ४॥ इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् । धैर्यं कुरुत संस्मृत्य सशिवां शिवमादरात् ॥ ५॥ भक्तवत्सलनामासौ सशिवाशङ्करः शिवः । शं करिष्यत्यदीर्घेण कालेन परमेश्वरः ॥ ६॥ सनत्कुमार उवाच इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्म्रन् । तेऽपि देवा मुदं प्राप्य स्वं स्वं धाम ययुस्तदा ॥ ७॥ अथ नारददेवर्षिः शिवप्रेरणया तदा । गत्वा तदीयभवनं शिवासौन्दर्यमुज्जगौ ॥ ८॥ श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ । देवीं परिजिहीर्षू तौ विषमेषुप्रपीडितौ ॥ ९॥ विचारयामासतुस्तौ कदा कुत्र शिवा च सा । भविष्यति विधेः प्राप्तोदयान्नाविति ॥ १०॥ एकस्मिन्समये शम्भुर्विजहार सुलीलया । कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया ॥ ११॥ सखीभिः सह सुप्रीत्या कौतुकाच्छिवसन्निधौ ॥ १२॥ उदञ्चन्त्यञ्चदङ्गानां लाघवं परितन्वती । निश्वासामोदमुदितभ्रमराकुलितेक्षणा ॥ १३॥ भ्रश्यद्धम्मिल्लसन्माल्यस्वपुराकृतभूमिका । स्विद्यत्कपोलपत्रालीस्रवदम्बुकणोज्ज्वला ॥ १४॥ स्फुटच्चोलांशुकपथतिर्यदङ्गप्रभावृता । उल्लसत्कन्दुकास्फालातिश्रोणितकराम्बुजा ॥ १५॥ कन्दुकानुगसद्दृष्टिनर्तितभ्रूलताञ्चला । मृडानी किल खेलन्ती ददृशे जगदम्बिका ॥ १६॥ अन्तरिक्षचराभ्यां च दितिजाभ्यां कटाक्षिता । क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना ॥ १७॥ विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतो विधेः । तृणीकृतत्रिजगतीपुरुषाभ्यां स्वदोर्बलात् ॥ १८॥ देवीं तां सञ्जिहीर्षन्तौ विषमेषुप्रपीडितौ । दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शाम्बरीम् ॥ १९॥ धृत्वा पारिषदीं मायामायातामम्बिकान्तिकम् । तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसौ ॥ २०॥ अथ दुष्टनिहन्त्रा वै सावज्ञेन हरेण तौ । विज्ञातौ च क्षणादास्तां चाञ्चल्याल्लोचनोद्भवात् ॥ २१॥ कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी । दैत्याविमाविति गणौ नेति सर्वस्वरूपिणा ॥ २२॥ अथ सा नेत्रसंज्ञां स्वस्वामिनस्तां बुबोध ह । महाकौतुकिनस्तात शङ्करस्य परेशितुः ॥ २३॥ ततो विज्ञाय संज्ञां तां सर्वज्ञार्द्धशरीरिणी । तेनैव कन्दुकेनाथ युगपन्निर्जघान तौ ॥ २४॥ महाबलौ महादेव्या कन्दुकेन समाहतौ । परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥ २५॥ वृन्तादिव फले पक्वे तालेनानिललोलिते । दम्भोलिना परिहते श‍ृङ्गे इव महागिरेः ॥ २६॥ तौ निपात्य महादैत्यावकार्यकरणोद्यतौ । ततः परिणतिं यातो लिङ्गरूपेण कन्दुकः ॥ २७॥ कन्दुकेश्वरसंज्ञं च तल्लिङ्गमभवत्तदा । ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम् ॥ २८॥ एतस्मिन्नेव समये हरिब्रह्मादयः सुराः । शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः ॥ २९॥ अथ सर्वे सुराः शम्भोर्वरान्प्राप्य तदाज्ञया । स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः ॥ ३०॥ साम्बिकं शङ्करं दृष्ट्वा कृताञ्जलिपुटाश्च ते । प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात् ॥ ३१॥ साम्बिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित् । जगाम स्वालयं प्रीतः सगणो भक्तवत्सलः ॥ ३२॥ कन्दुकेश्वरलिङ्गं च काश्यां दुष्टनिबर्हणम् । भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम् ॥ ३३॥ इदमाख्यानमतुलं श‍ृणुयाद्यो मुदान्वितः । श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः ॥ ३४॥ इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् । परत्र लभते दिव्यां गतिं वै देवदुर्लभाम् ॥ ३५॥ इति ते वर्णितं तात चरितं परमाद्भुतम् । शिवयोर्भक्तवात्सल्यसुचकं शिवदं सताम् ॥ ३६॥ ब्रह्मोवाच इत्युक्त्वामन्त्र्य तं व्यासं तन्नुतो मद्वरात्मजः । ययौ विहायसा काशीं चरितं शशिमौलिनः ॥ ३७॥ युद्धखण्डमिदं प्रोक्तं मया ते मुनिसत्तम । रौद्रीयसंहितामध्ये सर्वकामफलप्रदम् ॥ ३८॥ इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया । सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा ॥ ३९॥ इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् । सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना ॥ ४०॥ सूत उवाच इति ब्रह्मसुतः श्रुत्वा पित्रा शिवयशः परम् । शतनामाप्य शम्भोश्च कृतार्थोऽभूच्छिवानुगः ॥ ४१॥ ब्रह्मनारदसंवादः सम्पूर्णः कथितो मया । शिवः सर्वप्रधानो हिकिं भूयः श्रोतुमिच्छिसि ॥ ४२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ २.५.५९॥ ॥ इति श्रीशिवमहापुराणे द्वितीयरुद्रसंहितायां पञ्चमओ युद्धखण्डः समाप्तः ॥ २.५॥ ॥ समाप्तेयं द्वितीया रुद्रसंहिता ॥
% Text title            : Shivapuranam 2.5 rudrasaMhitA yuddhakhaNDaH
% File name             : shivapurANam2rudrasaMhitA5yuddhakhaNDaH.itx
% itxtitle              : shivapurANam 2\.5 (rudrasaMhitAyAM yuddhakhaNDaH)
% engtitle              : shivapurANam 2.5 rudrasaMhitA yuddhakhaNDaH
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org