श्रीशिवमहापुराणम् ३ शतरुद्रसंहिता
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ तृतीयायां शतरुद्रसंहितायां
३.१. प्रथमोऽध्यायः । शिवस्य पञ्चब्रह्मावतारवर्णनम् ।
वन्दे महानन्दमनन्तलीलम्महेश्वरं सर्वविभुं महान्तम् ।
गौरीप्रियं कार्तिकविघ्नराजसमुद्भवं शङ्करमादिदेवम् ॥ १॥
शौनक उवाच ।
व्यासशिष्य महाभाग सूत ज्ञानदयानिधे ।
वद शम्भ्ववतारांश्च यैरकार्षीत्सतां शिवम् ॥ १॥
सूत उवाच ।
मुने शौनक सद्भक्त्या दत्तचित्तो जितेन्द्रियः ।
अवताराञ्छिवस्याहं वच्मि ते मुनये शृणु ॥ २॥
एतत्पृष्टः पुरा नन्दी शिवमूर्तिस्सतां गतिः ।
सनत्कुमारेण मुने तमुवाच शिवं स्मरन् ॥ ३॥
नन्दीश्वर उवाच ।
असङ्ख्याता हि कल्पेषु विभोः सर्वेश्वरस्य वै ।
अवतारास्तथापीह वच्म्यहं तान्यथामति ॥ ४॥
एकोनविंशकः कल्पो विज्ञेयः श्वेतलोहितः ।
सद्योजातावतारस्तु प्रथमः परिकीर्तितः ॥ ५॥
तस्मिंस्तत्परमं ब्रह्म ध्यायतो ब्रह्मणस्तथा ।
उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः ॥ ६॥
तं दृष्ट्वा पुरुषं ब्रह्मा ब्रह्मरूपिणमीश्वरम् ।
ज्ञात्वा ध्यात्वा स हृदये ववन्दे प्रयताञ्जलिः ॥ ७॥
सद्योजातं शिवं बुद्ध्वा जहर्ष भुवनेश्वरः ।
मुहुर्मुहुश्च सद्बुद्ध्या परं तं समचिन्तयत् ॥ ८॥
ततोऽस्य ध्यायतः श्वेताः प्रादुर्भूता यशस्विनः ।
कुमाराः परविज्ञानपरब्रह्मस्वरूपिणः ॥ ९॥
सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ ।
शिष्यास्तस्य महात्मानो यैस्तद्ब्रह्म समावृतम् ॥ १०॥
सद्योजातश्च वै शम्भुर्ददौ ज्ञानं च वेधसे ।
सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ॥ ११॥
ततो विंशतिमः कल्पो रक्तो नाम प्रकीर्तितः ।
ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ॥ १२॥
ध्यायतः पुत्रकामस्य प्रादुर्भूतो विधेः सुतः ।
रक्तमाल्याम्बरधरो रक्ताक्षो रक्तभूषणः ॥ १३॥
स तं दृष्ट्वा महात्मानं कुमारं ध्यानमाश्रितः ।
वामदेवं शिवं ज्ञात्वा प्रणनाम कृताञ्जलिः ॥ १४॥
ततस्तस्य सुता ह्यासंश्चत्वारो रक्तवाससः ।
विरजाश्च विवाहश्च विशोको विश्वभावनः ॥ १५॥
वामदेवः स वै शम्भुर्ददौ ज्ञानं च वेधसे ।
सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ॥ १६॥
एकविंशतिमः कल्पः पीतवासा इति स्मृतः ।
ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ॥ १७॥
ध्यायतः पुत्रकामस्य विधेर्जातः कुमारकः ।
पीतवस्त्रादिकप्रौढो महातेजा महाभुजः ॥ १८॥
तं दृष्ट्वा ध्यानसंयुक्तं ज्ञात्वा तत्पुरुषं शिवम् ।
प्रणनाम ततो बुद्ध्या गायत्रीं शाङ्करीं विधिः ॥ १९॥
जपित्वा तु महादेवीं सर्वलोकनमस्कृताम् ।
प्रसन्नस्तु महादेवो ध्यानयुक्तेन चेतसा ॥ २०॥
ततोऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः ।
पीतवस्त्रा हि सकला योगमार्गप्रवर्तकाः ॥ २१॥
ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयम्भुवः ।
पुनरन्यः प्रवृत्तस्तु कल्पो नाम्ना शिवस्तु स ॥ २२॥
एकार्णवे संव्यतीते दिव्यवर्षसहस्रके ।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २३॥
ततोऽपश्यन्महातेजाः प्रादुर्भूतं कुमारकम् ।
कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥ २४॥
धृतकृष्णाम्बरोष्णीषं कृष्णयज्ञोपवीतिनम् ।
कृष्णेन मौलिनायुक्तं कृष्णस्नानानुलेपनम् ॥ २५॥
स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम् ।
ववन्दे देवदेवेशमद्भुतं कृष्णपिङ्गलम् ॥ २६॥
अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिन्तयत् ।
तुष्टाव वाग्भिरिष्टाभिर्भक्तवत्सलमव्ययम् ॥ २७॥
अथास्य पार्श्वतः कृष्णाः कृष्णस्नानानुलेपनाः ।
चत्वारस्तु महात्मानः सम्बभूवुः कुमारकाः ॥ २८॥
कृष्ण कृष्णशिखश्चैव कृष्णास्यः कृष्णकण्ठधृक् ।
इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः ॥ २९॥
एवम्भूता महात्मानो ब्रह्मणः सृष्टिहेतवे ।
योगं प्रवर्तयामासुर्घोराख्यं महदद्भुतम् ॥ ३०॥
अथान्यो ब्रह्मणः कल्पः प्रावर्तत मुनीश्वराः ।
विश्वरूप इति ख्यातो नामतः परमाद्भुतः ॥ ३१॥
ब्रह्मणः पुत्रकामस्य ध्यायतो मनसा शिवम् ।
प्रादुर्भूता महानादा विश्वरूपा सरस्वती ॥ ३२॥
तथाविधः स भगवानीशानः परमेश्वरः ।
शुद्धस्फटिकसङ्काशः सर्वाभरणभूषितः ॥ ३३॥
तं दृष्ट्वा प्रणनामासौ ब्रह्मेशानमजं विभुम् ।
सर्वगं सर्वदं सर्वं सुरूपं रूपवर्जितम् ॥ ३४॥
ईशानोऽपि तथादिश्य सन्मार्गं ब्रह्मणे विभुः ।
सशक्तिः कल्पयाञ्चक्रे स बालांश्चतुरः शुभान् ॥ ३५॥
जटी मुण्डी शिखण्डी च अर्धमुण्डश्च जज्ञिरे ।
योगेनादिश्य सद्धर्मं कृत्वा योगगतिं गताः ॥ ३६॥
एवं सङ्क्षेपतः प्रोक्तः सद्यादीनां समुद्भवः ।
सनत्कुमार सर्वज्ञ लोकानां हितकाम्यया ॥ ३७॥
अथ तेषां महाप्राज्ञ व्यवहारं यथायथम् ।
त्रिलोकहितकारं हि सर्वं ब्रह्माण्डसंस्थितम् ॥ ३८॥
ईशानः पुरुषोऽघोरो वामसंज्ञस्तथैव च ।
ब्रह्मसंज्ञा महेशस्य मूर्तयः पञ्च विश्रुताः ॥ ३९॥
ईशानः शिवरूपश्च गरीयान्प्रथमः स्मृतः ।
भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ४०॥
शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ।
गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति ॥ ४१॥
धर्माय स्वाङ्गसंयुक्तं बुद्धितत्त्वं पिनाकिनः ।
अघोराख्यस्वरूपो यस्तिष्ठत्यन्तस्तृतीयकः ॥ ४२॥
वामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ।
अहङ्कृतेरधिष्ठानो बहुकार्यकरः सदा ॥ ४३॥
ईशानाह्वस्वरूपो हि शङ्करस्येश्वरः सदा ।
श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च ॥ ४४॥
त्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ।
पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते ॥ ४५॥
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ।
अघोराख्यमधिष्ठानं रूपं प्राहुर्मनीषिणः ॥ ४६॥
रशनायाश्च पायोश्च रसस्यापां तथैव च ।
ईश्वरं वामदेवाख्यं स्वरूपं शाङ्करं स्मृतम् ॥ ४७॥
घ्राणस्य चैवोपस्थस्य गन्धस्य च भुवस्तथा ।
सद्योजाताह्वयं रूपमीश्वरं शाङ्करं विदुः ॥ ४८॥
इमे स्वरूपाः शम्भोर्हि वन्दनीयाः प्रयत्नतः ।
श्रेयोऽर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ४९॥
यः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम् ।
स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवस्य पञ्चब्रह्मावतारवर्णनं नाम प्रथमोऽध्यायः ॥ ३.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२. द्वितीयोऽध्यायः । शिवाष्टमूर्त्तिवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु तात महेशस्यावतारान्परमान्प्रभो ।
सर्वकार्यकराँल्लोके सर्वस्य सुखदां मुने ॥ १॥
तस्य शम्भोः परेशस्य मूर्त्यष्टकमयं जगत् ।
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ २॥
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ।
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ३॥
भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।
अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि ॥ ४॥
धत्ते चराचरं विश्वं रूपं विश्वम्भरात्मकम् ।
शङ्करस्य महेशस्य शास्त्रस्यैवेति निश्चयः ॥ ५॥
सञ्जीवनं समस्तस्य जगतः सलिलात्मकम् ।
भव इत्युच्यते रूपं भवस्य परमात्मनः ॥ ६॥
बहिरन्तर्जगद्विश्वं बिभर्ति स्पन्दते स्वयम् ।
उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभोः ॥ ७॥
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।
रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ॥ ८॥
सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ।
रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ॥ ९॥
सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ।
ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ॥ १०॥
आप्याययति यो विश्वममृतांशुर्निशाकरः ।
महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ॥ ११॥
आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ।
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ १२॥
शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ।
तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात् ॥ १३॥
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।
तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शङ्करः ॥ १४॥
क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ।
अष्टमूर्तेरनिष्टं तत्कृतमेव न संशयः ॥ १५॥
अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ।
भजस्व सर्वभावेन रुद्रं परमकारणम् ॥ १६॥
इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ।
सर्वोपकारनिरताः सेव्याः श्रेयोऽर्थिभिर्नरैः ॥ १७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ३.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३. तृतीयोऽध्यायः । शिवस्यार्द्धनारीश्वरावतारवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ।
अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम् ॥ १॥
यदा सृष्टाः प्रजाः सर्वाः न व्यवर्द्धन्त वेधसा ।
तदा चिन्ताकुलोऽभूत्स तेन दुःखेन दुखितः ॥ २॥
नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ।
तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ३॥
नारीणां कुलमीशानान्निर्गतं न पुरा यतः ।
ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः ॥ ४॥
प्रभावेण विना शम्भोर्न जायेरन्निमाः प्रजाः ।
एवं सञ्चिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे ॥ ५॥
शिवया परया शक्त्या संयुक्तं परमेश्वरम् ।
सञ्चिन्त्य हृदये प्रीत्या तेपे स परमं तपः ॥ ६॥
तीव्रेण तपसा तस्य संयुक्तस्य स्वयम्भुवः ।
अचिरेणैव कालेन तुतोष स शिवो द्रुतम् ॥ ७॥
ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम् ।
अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः ॥ ८॥
तं दृष्ट्वा शङ्करं देवं शक्त्या परमयान्वितम् ।
प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः ॥ ९॥
अथ देवो महादेवो वाचा मेघगभीरया ।
सम्भवाय सुसम्प्रीतो विश्वकर्ता महेश्वरः ॥ १०॥
ईश्वर उवाच ।
वत्स वत्स महाभाग मम पुत्र पितामह ।
ज्ञातवानस्मि सर्वं तत्तत्त्वतस्ते मनोरथम् ॥ ११॥
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।
तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम् ॥ १२॥
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ।
पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः ॥ १३॥
तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम् ।
प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः ॥ १४॥
ब्रह्मोवाच ।
देवदेवेन सृष्टोऽहमादौ त्वत्पतिना शिवे ।
प्रजाः सर्वा नियुक्ताश्च शम्भुना परमात्मना ॥ १५॥
मनसा निर्मिताः सर्वे शिवे देवादयो मया ।
न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनःपुनः ॥ १६॥
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।
संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७॥
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।
तेन नारीकुलं स्रष्टुं मम शक्तिर्न विद्यते ॥ १८॥
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।
तस्मात्त्वां परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ॥ १९॥
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ।
चराचरजगद्वृद्धिहेतोर्मातः शिवप्रिये ॥ २०॥
अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ।
देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते ॥ २१॥
चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ।
दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके ॥ २२॥
एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ।
तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ ॥ २३॥
तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ।
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ २४॥
तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ।
कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम् ॥ २५॥
शिव उवाच ।
तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ।
प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम् ॥ २६॥
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ।
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताऽभवत् ॥ २७॥
दत्त्वैवमतुलां शक्तिं ब्रह्मणे सा शिवा मुने ।`
विवेश देहं शम्भोर्हि शम्भुश्चान्तर्दधे प्रभुः ॥ २८॥
तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ।
आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी ॥ २९॥
एतत्ते कथितं तात शिवरूपं महोत्तमम् ।
अर्द्धनारीनरार्द्धं हि महामङ्गलदं सताम् ॥ ३०॥
एतदाख्यानमनघं यः पठेच्छृणुयादपि ।
स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम् ॥ ३१॥
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीश्वरावतारवर्णनं नाम तृतीयोऽध्यायः ॥ ३.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.४. चतुर्थोऽध्यायः । ऋषभचरित्रवर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ चरितं शाङ्करं मुदा ।
रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ॥ १॥
शिव उवाच ।
सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ।
कल्पेश्वरोऽथ भगवान्सर्वलोकप्रकाशनः ॥ २॥
मनोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति ।
तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ॥ ३॥
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च ।
उत्पत्स्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ॥ ४॥
युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ।
द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयम्प्रभुः ॥ ५॥
तदाहं ब्राह्मणार्थाय कलौ तस्मिन्युगान्तिके ।
भविष्यामि शिवायुक्तः श्वेतो नाम महामुनिः ॥ ६॥
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे ।
तदा शिष्याः शिखायुक्ता भविष्यन्ति विधे मम ॥ ७॥
श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ॥ ८॥
ततो भक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ।
जन्ममृत्युजराहीनाः परब्रह्मसमाधयः ॥ ९॥
द्रष्टुं शक्यो नरैर्नाहमृते ध्यानात्पितामह ।
दानधर्मादिभिर्वत्स साधनैः कर्महेतुभिः ॥ १०॥
द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ।
यदा तदा भविष्यामि सुतारो नामतः कलौ ॥ ११॥
तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ।
दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ॥ १२॥
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ।
ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ॥ १३॥
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ।
तदाप्यहं भविष्यामि दमनस्तु युगान्तिके ॥ १४॥
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ।
विशोकश्च विशेषश्च विपापः पापनाशनः ॥ १५॥
शिष्यैः साहायं व्यासस्य करिष्ये चतुरानन ।
निवृत्तिमार्गं सुदृढं वर्त्तयिष्ये कलाविह ॥ १६॥
चतुर्थे द्वापरे चैव यदा व्यासोंऽगिरा स्मृतः ।
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ॥ १७॥
तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।
भविष्यन्ति महात्मानस्तन्नामानि ब्रुवे विधे ॥ १८॥
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ।
शिष्यैः साहायं व्यासस्य करिष्येऽहं तदा विधे ॥ १९॥
पञ्चमे द्वापरे चैव व्यासस्तु सविता स्मृतः ।
तदा योगी भविष्यामि कङ्को नाम महातपाः ॥ २०॥
तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।
भविष्यन्ति महात्मानस्तन्नामानि शृणुष्व मे ॥ २१॥
सनकः सनातनश्चैव प्रभुर्यश्च सनन्दनः ।
विभुः सनत्कुमारश्च निर्मलो निरहङ्कृतिः ॥ २२॥
तत्रापि कङ्कनामाहं साहाय्यं सवितुर्विधे ।
व्यासस्य हि करिष्यामि निवृत्तिपथवर्द्धकः ॥ २३॥
परिवर्त्ते पुनः षष्ठे द्वापरे लोककारकः ।
कर्ता वेदविभागस्य मृत्युर्व्यासो भविष्यति ॥ २४॥
तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।
व्यासस्य सुसहायार्थं निवृत्तिपथवर्द्धनः ॥ २५॥
तत्रापि शिष्याश्चत्वारो भविष्यन्ति दृढव्रताः ।
सुधामा विरजाश्चैव सञ्जयो विजयस्तथा ॥ २६॥
सप्तमे परिवर्त्ते तु यदा व्यासः शतक्रतुः ।
तदाप्यहं भविष्यामि जैगीषव्यो विभुर्विधे ॥ २७॥
योगं सन्द्रढयिष्यामि महायोगविचक्षणः ।
काश्यां गुहान्तरे संस्थो दिव्यदेशे कुशास्तरिः ॥ २८॥
साहाय्यं च करिष्यामि व्यासस्य हि शतक्रतोः ।
उद्धरिष्यामि भक्तांश्च संसारभयतो विधे ॥ २९॥
तत्रापि मम चत्वारो भविष्यन्ति सुता युगे ।
सारस्वतश्च योगीशो मेघवाहः सुवाहनः ॥ ३०॥
अष्टमे परिवर्त्ते हि वसिष्ठो मुनिसत्तमः ।
कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ॥ ३१॥
तत्राप्यहं भविष्यामि नामतो दधिवाहनः ।
व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ॥ ३२॥
कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ।
चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ॥ ३३॥
नवमे परिवर्त्ते तु तस्मिन्नेव युगे विधे ।
भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ॥ ३४॥
व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ।
तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ॥ ३५॥
पराशरश्च गर्गश्च भार्गवो गिरिशस्तथा ।
चत्वारस्तत्र शिष्या मे भविष्यन्ति सुयोगिनः ॥ ३६॥
तैः साकं द्रढयिष्यामि योगमार्गं प्रजापते ।
करिष्यामि सहायं वै वेदव्यासस्य सन्मुने ॥ ३७॥
तेन रूपेण भक्तानां बहूनां दुःखिनां विधे ।
उद्धारं भवतोऽहं वै करिष्यामि दयाकरः ॥ ३८॥
सोऽवतारो विधे मे हि ऋषभाख्यः सुयोगकृत् ।
सारस्वतव्यासमनःकर्त्ता नानोतिकारकः ॥ ३९॥
अवतारेण मे येन भद्रायुर्नृपबालकः ।
जीवितो हि मृतः क्ष्वेडदोषतो जनकोज्झितः ॥ ४०॥
प्राप्तेऽथ षोडशे वर्षे तस्य राजशिशोः पुनः ।
ययौ तद्वेश्म सहसा ऋषभः स मदात्मकः ॥ ४१॥
पूजितस्तेन स मुनिः सद्रूपश्च कृपानिधिः ।
उपादिदेश तद्धर्मान् राजयोगान्प्रजापते ॥ ४२॥
ततः स कवचं दिव्यं शङ्खं खङ्गं च भास्वरम् ।
ददौ तस्मै प्रसन्नात्मा सर्वशत्रुविनाशनम् ॥ ४३॥
तदङ्ग भस्मनामृश्य कृपया दीनवत्सलः ।
स द्वादशसहस्रस्य गजानां च बलं ददौ ॥ ४४॥
इति भद्रायुषं सम्यगनुश्वास्य समातृकम् ।
ययौ स्वैरगतिस्ताभ्यां पूजितस्त्वृषभः प्रभुः ॥ ४५॥
भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ।
राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ॥ ४६॥
इत्थम्प्रभावं ऋषभोऽवतारः शङ्करस्य मे ।
सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ॥ ४७॥
ऋषभस्य चरित्रं हि परमं पावनं महत् ।
स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ॥ ४८॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामृषभचरित्रवर्णनं नाम चतुर्थोऽध्यायः ॥ ३.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.५. पञ्चमोऽध्यायः । एकोनविंशतिशिवावतारवर्णनम् ।
शिव उवाच ।
दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनिः ।
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे ॥ १॥
तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसम्मिताः ।
बलबन्धुर्नरामित्रः केतुशृङ्गस्तपोधनः ॥ २॥
एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ।
गङ्गाद्वारे कलौ नाम्ना तपोऽहं भविता तदा ॥ ३॥
लम्बोदरश्च लम्बाक्षः केशलम्बः प्रलम्बकः ।
तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ॥ ४॥
द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ।
तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ॥ ५॥
हेमकञ्चुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः ।
व्यासस्यैव सहायार्थं निवृत्तिपथरोपणः ॥ ६॥
सर्वज्ञः समबुद्धिश्च साध्यः शर्वः सुयोगिनः ।
तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने ॥ ७॥
त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा ।
व्यासस्तदाहं भविता बलिर्नाम महामुनिः ॥ ८॥
वालखिल्याश्रमे गन्धमादने पर्वतोत्तमे ।
सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः ॥ ९॥
यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे ।
वंश आङ्गिरसे तत्र भविताहं च गौतमः ॥ १०॥
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ।
अत्रिर्दवशदश्चैव श्रवणोऽथ श्रविष्कटः ॥ ११॥
व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ।
तदाऽहं भविता वेदशिरा वेदशिरस्तथा ॥ १२॥
महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ।
हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ॥ १३॥
तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १४॥
व्यासो युगे षोडशे तु यदा देवो भविष्यति ।
तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ॥ १५॥
तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम् ।
तत्रापि योगिनः पुत्र भविष्यन्त्यम्बुसम्मिताः ॥ १६॥
काश्यपोऽप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ।
तेऽपि तेनैव मार्गेण गमिष्यन्ति शिवालयम् ॥ १७॥
परिवर्त्ते सप्तदशे व्यासो देवकृतञ्जयः ।
गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे ॥ १८॥
महालये महोत्तुङ्गे शिवक्षेत्रं हिमालयम् ।
उतथ्यो वामदेवश्च महायोगो महाबलः ॥ १९॥
परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतञ्जयः ।
शिखण्डीनामतोऽहं तद्धिमवच्छिखरे शुभे ॥ २०॥
सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः ।
शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम् ॥ २१॥
वाचःश्रवा रुचीकश्च श्यावास्यश्च यतीश्वरः ।
एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः ॥ २२॥
एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः ।
तदाप्यहं भविष्यामि जटी माली च नामतः ॥ २३॥
हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः ।
हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा ॥ २४॥
परिवर्त्ते विंशतिमे भविता व्यास गौतमः ।
तत्राट्टहासनामाहमट्टहासप्रिया नराः ॥ २५॥
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ।
देवमानुषयक्षेन्द्रसिद्धचारणसेवितः ॥ २६॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ।
सुमन्तुर्बर्बरिर्विद्वान् कबन्धः कुशिकन्धरः ॥ २७॥
एकविंशे युगे तस्मिन् व्यासो वाचः श्रवा यदा ।
तदाहं दारुको नाम तस्माद्दारुवनं शुभम् ॥ २८॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ।
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ॥ २९॥
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ।
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ॥ ३०॥
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः ।
द्रक्ष्यन्ति मां कलौ तस्मिन्भवं चैव हलायुधम् ॥ ३१॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः ।
भल्लवी मधुपिङ्गश्च श्वेतकेतुस्तथैव च ॥ ३२॥
परिवर्त्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ।
श्वेतो नाम तदाऽहं वै गिरौ कालञ्जरे शुभे ॥ ३३॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।
उशिको बृहदश्वश्च देवलः कविरेव च ॥ ३४॥
परिवर्त्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ।
शूली नाम महायोगी तद्युगे नैमिषे तदा ॥ ३५॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ३६॥
पञ्चविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ।
तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥ ३७॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥ ३८॥
व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ।
पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥ ३९॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ ४०॥
सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ।
प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ॥ ४१॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ॥ ४२॥
अष्टाविंशे द्वापरे तु पराशरसुतो हरिः ।
यदा भविष्यामि व्यासो नाम्ना द्वैपायनः प्रमुः ॥ ४३॥
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ।
वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति ॥ ४४॥
तदाप्यहं भविष्यामि योगात्मा योगमायया ।
लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ॥ ४५॥
श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम् ।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ ४६॥
दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना ।
भविष्यामि तदा ब्रह्मन् लङ्कुली नाम नामतः ॥ ४७॥
कायावतार इत्येवं सिद्धक्षेत्रं परं तदा ।
भविष्यति सुविख्यातं यावद् भूमिर्धरिष्यति ॥ ४८॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥ ४९॥
योगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ।
प्राप्य माहेश्वरं योगं गमिष्यन्ति शिवं पुरम् ॥ ५०॥
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना ।
योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः ॥ ५१॥
व्यासाश्चैवाष्टविंशत्का द्वापरे द्वापरे विभो ।
योगेश्वरावताराश्च प्रारम्भे च कलौ कलौ ॥ ५२॥
योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः ।
महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्ययाः ॥ ५३॥
एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः ।
रुद्राक्षमालाभरणास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ ५४॥
शिष्या धर्मरताः सर्वे वेदवेदाङ्गपारगाः ।
लिङ्गार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ॥ ५५॥
भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ।
सङ्ख्यया द्वादशाधिक्यशतं च गणिता बुधैः ॥ ५६॥
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ।
मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ॥ ५७॥
तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् ।
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥ ५८॥
इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ।
पुनः सम्प्रेक्ष्य देवेशस्तत्रैवान्तरधीयत ॥ ५९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्याने एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ॥ ३.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.६. षष्ठोऽध्यायः । नन्दिकेशावतारवर्णनम् ।
अथ नन्दीश्वरावतारमाह ।
सनत्कुमार उवाच ।
भवान्कथमनुप्राप्तो महादेवांशजः शिवम् ।
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ॥ १॥
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ सावधानतया शृणु ।
यथाऽहं च शिवं प्राप्तो महादेवांशजो मुने ॥ २॥
प्रजाकामः शिलादोऽभूदुक्तः पितृभिरादरात् ।
तदुद्धर्तुमना भक्त्या समुद्धारमभीप्सुभिः ॥ ३॥
अधोदृष्टिः सुधर्मात्मा शिलादो नाम वीर्यवान् ।
तस्यासीन्मुनिकैर्वृत्तिः शिवलोके च सोऽगमत् ॥ ४॥
शक्रमुद्दिश्य स मुनिस्तपस्तेपे सुदुःसहम् ।
निश्चलात्मा शिलादाख्यो बहुकालं दृढव्रतः ॥ ५॥
तपतस्तस्य तपसा सन्तुष्टोऽभूच्छतक्रतुः ।
जगाम च वरं दातुं सर्वदेवप्रभुस्तदा ॥ ६॥
शिलादमाह सुप्रीत्या शक्रस्तुष्टोऽस्मि तेऽनघ ।
तेन त्वं मुनिशार्दूल वरयस्व वरानिति ॥ ७॥
ततः प्रणम्य देवेशं स्तुत्वा स्तुतिभिरादरात् ।
शिलादो मुनिशार्दूलस्तमाह सुकृताञ्जलिः ॥ ८॥
शिलाद उवाच ।
शतक्रतो सुरेशान सन्तुष्टो यदि मे प्रभो ।
अयोनिजं मुत्युहीनं पुत्रमिच्छामि सुव्रतम् ॥ ९॥
शक्र उवाच ।
पुत्रं दास्यामि पुत्रार्थिन्योनिजं मृत्युसंयुतम् ।
अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै ॥ १०॥
न दास्यामि सुतं तेऽहं मृत्युहीनमयोनिजम् ।
हरिर्विधिश्च भगवान्किमुतान्यो महामुने ॥ ११॥
तावपि त्रिपुरार्यङ्गसम्भवौ मरणान्वितौ ।
तयोरप्यायुषां मानं कथितं निगमे पृथक् ॥ १२॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ।
परित्यजाशां विप्रेन्द्र गृहाणात्मक्षमं सुतम् ॥ १३॥
किन्तु देवेश्वरो रुद्रः प्रसीदति महेश्वरः ।
सुदुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः ॥ १४॥
अहं च विष्णुर्भगवान् द्रुहिणश्च महामुने ।
अयोनिजं मृत्युहीनं पुत्रं दातुं न शक्नुमः ॥ १५॥
आराधय महादेवं तत्पुत्रविनिकाम्यया ।
सर्वेश्वरो महाशक्तः स ते पुत्रं प्रदास्यति ॥ १६॥
नन्दीश्वर उवाच ।
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी ।
देवैर्वृतः सुरेशानः स्वलोकं समगान्मुने ॥ १७॥
गते तस्मिंश्च वरदे सहस्राक्षे शिलाशनः ।
आराधयन्महादेवं तपसाऽतोषयद्भवम् ॥ १८॥
अथ तस्यैवमनिशं तत्परस्य द्विजस्त वै ।
दिव्यं वर्षसहस्रं तु गतं क्षणमिवाद्भुतम् ॥ १९॥
वल्मीकेन वृताङ्गश्च लक्षकोटगणैर्मुनिः ।
वज्रसूचीमुखैश्चान्यै रक्तभुग्भिश्च सर्वतः ॥ २०॥
निर्मांसरुधिरत्वग्वै बिले तस्मिन्नवस्थितः ।
अस्थिशेषोऽभवत्पश्चाच्छिलादो मुनिसत्तमः ॥ २१॥
तुष्टः प्रभुस्तदा तस्मै दर्शयामास स्वां तनुम् ।
दिव्यां दिव्यगुणैर्युक्तामलभ्यां वामबुद्धिभिः ॥ २२॥
दिव्यवर्षसहस्रेण तप्यमानाय शूलधृक् ।
सर्वदेवाधिपस्तस्मै वरदोऽस्मीत्यभाषत ॥ २३॥
महासमाधिसंलीनः स शिलादो महामुनिः ।
नाशृणोत्तद्गिरं शम्भोर्भक्त्यधीनतरस्य वै ॥ २४॥
यदा स्पृष्टो मुनिस्तेन करेण त्रिपुरारिणा ।
तदैव मुनिशार्दूल उत्ससर्ज तपःक्रमम् ॥ २५॥
अथोन्मील्य मुनिर्नेत्रे सोमं शम्भुं विलोकयन् ।
द्रुतं प्रणम्य समुदा पादयोर्न्यपतन्मुने ॥ २६॥
हर्षगद्गदया वाचा नतस्कन्धः कृताञ्जलिः ।
प्रसन्नात्मा शिलादः स तुष्टाव परमेश्वरम् ॥ २७॥
ततः प्रसन्नो भगवान्देवदेवस्त्रिलोचनः ।
वरदोऽस्मीति तं प्राह शिलादं मुनिपुङ्गवम् ॥ २८॥
तपसानेन किं कार्यं भवते हि महामते ।
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम् ॥ २९॥
ततः प्रणम्य देवेशं तच्छ्रुत्वा च शिलाशनः ।
हर्षगद्गदया वाचोवाच सोमविभूषणम् ॥ ३०॥
शिलाद उवाच ।
महेश यदि तुष्टोऽसि यदि वा वरदश्च मे ।
इच्छामि त्वत्समं पुत्रं मृत्युहीनमयोनिजम् ॥ ३१॥
नन्दीश्वर उवाच ।
एवमुक्तस्ततो देवस्त्र्यम्बकस्तेन शङ्करः ।
प्रत्युवाच प्रसन्नात्मा शिलादं मुनिसत्तमम् ॥ ३२॥
॥ शिव उवाच ।
पूर्वमाराधितो विप्र ब्रह्मणाऽहं तपोधन ।
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः ॥ ३३॥
तव पुत्रो भविष्यामि नन्दी नाम्ना त्वयोनिजः ।
पिता भविष्यसि मम पितुर्वै जगतां मुने ॥ ३४॥
नन्दीश्वर उवाच ।
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्यास्थितं घृणी ।
सोमस्तूर्णं तमादिश्य तत्रैवान्तर्दधे हरः ॥ ३५॥
गते तस्मिन्महादेवे स शिलादो महामुनिः ।
स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः ॥ ३६॥
कियता चैव कालेन तदासौ जनकः स मे ।
यज्ञाङ्गणं चकर्षाशु यज्ञार्थं यज्ञवित्तमः ॥ ३७॥
ततः क्षणादहं शम्भोस्तनुजस्तस्य चाज्ञया ।
स जातः पूर्वमेवाहं युगान्ताग्निसमप्रभः ॥ ३८॥
अवर्षंस्तदा पुष्करावर्तकाद्या
जगुः खेचराः किन्नराः सिद्धसाध्याः ।
शिलादात्मजत्वं गते मय्यृषीन्द्राः
समन्ताच्च वृष्टिं व्यधुः कौसुमीं ते ॥ ३९॥
अथ ब्रह्मादयो देवा देवपत्न्यश्च सर्वशः ।
तत्राजग्मुश्च सुप्रीत्या हरिश्चैव शिवोऽम्बिका ॥ ४०॥
तदोत्सवो महानासीन्ननृतुश्चाप्सरोगणाः ।
आदृत्य मां तथालिङ्ग्य तुष्टुवुर्हर्षिताश्च ते ॥ ४१॥
सुप्रशस्य शिलादं तं स्तुत्वा च सुस्तवैः शिवौ ।
सर्वे जग्मुश्च धामानि शिवावप्यखिलेश्वरौ ॥ ४२॥
शिलादोऽपि च मां दृष्ट्वा कालसूर्यानलप्रभम् ।
त्र्यक्षं चतुर्भुजं बालं जटामुकुटधारिणम् ॥ ४३॥
त्रिशूलाद्यायुधं दीप्तं सर्वथा रुद्ररूपिणम् ।
महानन्दभरः प्रीत्या प्रणम्यं प्रणनाम च ॥ ४४॥
शिलाद उवाच ।
त्वयाहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ।
तस्मात्त्वां देवमानन्दं नमामि जगदीश्वरम् ॥ ४५॥
नन्दीश्वर उवाच ।
मया सह पिता हृष्टः सुप्रणम्य महेश्वरम् ।
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः ॥ ४६॥
यदा गतोऽहमुटजं शिलादस्य महामुने ।
तदाहं तादृशं रूपं त्यक्त्वा मानुष्यमास्थितः ॥ ४७॥
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ।
विललापातिदुःखार्त्तः स्वजनैश्च समावृतः ॥ ४८॥
जातकर्मादिकान्येव सर्वाण्यपि चकार मे ।
शालङ्कायनपुत्रो वै शिलादः पुत्रवत्सलः ॥ ४९॥
वेदानध्यापयामास साङ्गोपाङ्गानशेषतः ।
शास्त्राण्यन्यान्यपि तथा पञ्चवर्षे पिता च माम् ॥ ५०॥
सम्पूर्णे सप्तमे वर्षे मित्रावरुणसंज्ञकौ ।
मुनी तस्याश्रमं प्राप्तौ द्रष्टुं मां चाज्ञया विभोः ॥ ५१॥
सत्कृतौ मुनिना तेन सूपविष्टो महामुनी ।
ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः ॥ ५२॥
मित्रावरुणावूचतुः ।
तात नन्दी तवाल्पायुः सर्वशास्त्रार्थपारगः ।
न दृष्टमेव चापश्यं ह्यायुर्वर्षादतः परम् ॥ ५३॥
विप्रयोरित्युक्तवतोः शिलादः पुत्रवत्सलः ।
तमालिङ्ग्य च दुःखार्तो रुरोदातीव विस्वरम् ॥ ५४॥
मृतवत्पतितं दृष्ट्वा पितरं च पितामहम् ।
प्रत्यवोचत्प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम् ॥ ५५॥
केन त्वं तात दुःखेन वेपमानश्च रोदिषि ।
दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छामि तत्त्वतः ॥ ५६॥
पितोवाच ।
तवाल्पमृत्युदुःखेन दुःखितोऽतीव पुत्रक ।
को मे दुःखं हरतु वै शरणं तं प्रयामि हि ॥ ५७॥
पुत्र उवाच ।
देवो वा दानवो वापि यमः कालोऽथवापि हि ।
ऋध्येयुर्यद्यपि ह्येते मामन्येऽपि जनास्तथा ॥ ५८॥
अथापि चाल्पमृत्युर्मे न भविष्यति मा तुदः ।
सत्यं ब्रवीमि जनक शपथं ते करोम्यहम् ॥ ५९॥
पितोवाच ।
किं तपः किं परिज्ञानं को योगश्च प्रभुश्च ते ।
येन त्वं दारुणं दुःखं वञ्चयिष्यसि पुत्र मे ॥ ६०॥
॥ पुत्र उवाच ।
न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया ।
महादेवस्य भजनान्मृत्युं जेष्यामि नान्यथा ॥ ६१॥
नन्दीश्वर उवाच ।
इत्युक्त्वाहं पितुः पादौ प्रणम्य शिरसा मुने ।
प्रदक्षिणीकृत्य च तमगच्छं वनमुत्तमम् ॥ ६२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेशावतारवर्णनं नाम षष्ठोऽध्यायः ॥ ३.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.७. सप्तमोऽध्यायः । नन्दिकेश्वरावताराभिषेक विवाहवर्णनम् ।
॥ नन्दिकेश्वर उवाच ।
तत्र गत्वा मुनेऽहं वै स्थित्वैकान्तस्थले सुधीः ।
अतपं तप उग्रं सन्मुनीनामपि दुष्करम् ॥ १॥
हृत्पुण्डरीकसुषिरे ध्यात्वा देवं त्रियम्बकम् ।
त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदाशिवम् ॥ २॥
रुद्रजाप्यमकार्षं वै परमध्यानमास्थितः ।
सरितश्चोत्तरे पुण्ये ह्येकचित्तः समाहितः ॥ ३॥
तस्मिञ्जाप्येऽथ सम्प्रीतः स्थितं मां परमेश्वरः ।
तुष्टोऽब्रवीन्महादेवः सोमः सोमार्द्धभूषणः ॥ ४॥
शिव उवाच ।
शैलादे वरदोऽहं ते तपसानेन तोषितः ।
साधु तप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम् ॥ ५॥
स एवमुक्तो देवेन शिरसा पादयोर्नतः ।
अस्तवं परमेशानं जराशोकविनाशनम् ॥ ६॥
अथ मां नन्दिनं शम्भुर्भक्त्या परामया युतम् ।
अश्रुपूर्णेक्षणं सम्यक् पादयोः शिरसा नतम् ॥ ७॥
उत्थाप्य परमेशानः पस्पर्श परमार्तिहा ।
कराभ्यां सम्मुखाभ्यां तु सङ्गृह्य वृषभध्वजः ॥ ८॥
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ।
उवाच मां कृपादृष्ट्या समीक्ष्य जगतां पतिः ॥ ९॥
वत्स नन्दिन् महाप्राज्ञ मृत्योर्भीतिः कुतस्तव ।
मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः ॥ १०॥
अमरो जरया त्यक्तोऽदुःखी गणपतिः सदा ।
अव्ययश्चाक्षयश्चेष्टः सपिता ससुहृज्जनः ॥ ११॥
मद्बलः पार्श्वगो नित्यं ममेष्टो भवितानिशम् ।
न जरा जन्म मृत्युर्वै मत्प्रसादाद्भविष्यति ॥ १२॥
नन्दीश्वर उवाच ।
एवमुक्त्वा शिरोमालां कुशेशयमयीं निजाम् ।
समुन्मुच्य बबन्धाशु मम कण्ठे कृपानिधिः ॥ १३॥
तयाहं मालया विप्र शुभया कण्ठसक्तया ।
त्र्यक्षो दशभुजश्चासं द्वितीय इव शङ्करः ॥ १४॥
तत एव समादाय हस्तेन परमेश्वरः ।
उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम् ॥ १५॥
ततो जटाश्रितं वारि गृहीत्वा हारनिर्मलम् ।
उक्त्वा नदी भवेतीह विससर्ज वृषध्वजः ॥ १६॥
ततः पञ्चमिता नद्यः प्रावर्तन्त शुभावहाः ।
सुतोयाश्च महावेगा दिव्यरूपा च सुन्दरीः ॥ १७॥
जटोदका त्रिस्रोताश्च वृषध्वनिरितीव हि ।
स्वर्णोदका जम्बुनदी पञ्च नद्यः प्रकीर्तिताः ॥ १८॥
एतत्पञ्चनदं नाम शिवपृष्ठतमं शुभम् ।
जपेश्वरसमीपे तु पवित्रं परमं मुने ॥ १९॥
यः पञ्चनदमासाद्य स्नात्वा जप्त्वेश्वरेश्वरम् ।
पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ॥ २०॥
अथ शम्भुरुवाचोमामभिषिञ्चामि नन्दिनम् ।
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये ॥ २१॥
उमोवाच ।
दातुमर्हसि देवेश नन्दिने परमेश्वर ।
महाप्रियतमो नाथ शैलादिस्तनयो मम ॥ २२॥
नन्दीश्वर उवाच ।
ततः स शङ्करः स्वीयान्सस्मार गणपान्वरान् ।
स्वतन्त्रः परमेशानः सर्वदो भक्तवत्सलः ॥ २३॥
स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ।
असङ्ख्याता महामोदाः शङ्कराकृतयोऽखिलाः ॥ २४॥
ते गणेशाः शिवं देवीं प्रणम्याहुः शुभं वचः ।
ते प्रणम्य करौ बद्ध्वा नतस्कन्धा महाबलाः ॥ २५॥
गणेशा ऊचुः ।
किमर्थं च स्मृता देव ह्याज्ञापय महाप्रभो ।
किङ्करान्नः समायातांस्त्रिपुरार्दन कामद ॥ २६॥
किं सागरान् शोषयामो यमं वा सह किङ्करैः ।
हन्मो मृत्युं महामृत्युं विशेषं वृद्धपद्मजम् ॥ २७॥
बद्ध्वेन्द्रं सह देवैश्च विष्णुं वा पार्षदैः सह ।
आनयामः सुसङ्क्रुद्धान्दैत्यान्वा दानवैः सह ॥ २८॥
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥ २९॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य वचस्तेषां गणानां वीरवादिनाम् ।
उवाच तान्स प्रशंस्य गणेशान्परमेश्वरः ॥ ३०॥
शिव उवाच ।
नन्दीश्वरोऽयं पुत्रो मे सर्वेषामीश्वरेश्वरः ।
प्रियो गणाग्रणीः सर्वैः क्रियतां वचनं मम ॥ ३१॥
सर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिं पतिम् ।
अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ॥ ३२॥
नन्दीश्वर उवाच ।
एवमुक्ताः शङ्करेण गणपाः सर्व एव ते ।
एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ॥ ३३॥
ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ।
मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ॥ ३४॥
पितामहोऽपि भगवन्नियोगाच्छङ्करस्य वै ।
चकार नन्दिनः सर्वमभिषेकं समाहितः ॥ ३५॥
ततो विष्णुस्ततः शक्रो लोकपालास्तथैव च ।
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ ३६॥
स्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ।
शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ॥ ३७॥
प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ।
ततो गणाधिपाः सर्व ततो देवास्ततोऽसुराः ॥ ३८॥
एवं स्तुतश्चाभिषिक्तो देवैः सब्रह्मकैस्तदा ।
नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ॥ ३९॥
उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ।
महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ॥ ४०॥
मरुतां च सुता देवी सुयशास्तु मनोहरा ।
पत्नी सा मेऽभवद्दिव्या मनोनयननन्दिनी ॥ ४१॥
लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ।
चामरैश्चामरासक्तहस्ताग्रैः स्त्रीगणैर्युतम् ॥ ४२॥
सिंहासनं च परमं तया चाधिष्ठितं मया ।
अलङ्कृतो महालक्ष्म्या मुकुटाद्यैः सुभूषणैः ॥ ४३॥
लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ।
वृषेन्द्रश्च शितो नागस्सिंहः सिंहध्वजस्तथा ॥ ४४॥
रथश्च हेमहारश्च चन्द्रबिम्बसमः शुभः ।
अन्यान्यपि च वस्तूनि लब्धानि हि मया मुने ॥ ४५॥
एवं कृतविवाहोऽहं तया पत्न्या महामुने ।
पादौ ववन्दे शम्भोश्च शिवाया ब्रह्मणो हरेः ॥ ४६॥
तथाविधं त्रिलोकेशः सपत्नीकं च मां प्रभुः ।
प्रोवाच परया प्रीत्या स शिवो भक्तवत्सलः ॥ ४७॥
ईश्वर उवाच ।
शृणु सत्पुत्र तातस्त्वं सुयशेयं तव प्रिया ।
ददामि ते वरं प्रीत्या यत्ते मनसि वाञ्छितम् ॥ ४८॥
सदाऽहं तव नन्दीश सन्तुष्टोऽस्मि गणेश्वर ।
देव्या च सहितो वत्स शृणु मे परमं वचः ॥ ४९॥
सदेष्टश्च विशिष्टश्च परमैश्वर्यसंयुतः ।
महायोगी महेष्वासः सपिता सपितामहः ॥ ५०॥
अजेयः सर्वजेता च सदा पूज्यो महाबलः ।
अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥ ५१॥
अयं च ते पिता पुत्र परमैश्वर्यसंयुतः ।
भविष्यति गणाध्यक्षो मम भक्तो महाबलः ॥ ५२॥
पितामहोऽपि ते वत्स तथास्तु नियमा इमे ।
मत्समीपं गमिष्यन्ति मया दत्तवरास्तथा ॥ ५३॥
नन्दीश्वर उवाच ।
ततो देवी महाभागा नन्दिनं वरदाब्रवीत् ।
वरं ब्रूहीति मां पुत्र सर्वान्कामान्यथेप्सितान् ॥ ५४॥
तच्छ्रुत्वा वचनं देव्याः प्रावोचत्साञ्जलिस्तदा ।
भक्तिर्भवतु मे देवि पादयोस्ते सदा वरा ॥ ५५॥
श्रुत्वा मम वचो देवी ह्येवमस्त्विति साब्रवीत् ।
सुयशां तां च सुप्रीत्या नन्दिप्रियतमां शिवाम् ॥ ५६॥
देव्युवाच ।
वत्से वरं यथेष्टं हि त्रिनेत्रा जन्मवर्जिता ।
पुत्रपौत्रैस्तु भक्तिर्मे तथा च भर्तुरेव हि ॥ ५७॥
नन्द्युवाच ।
तदा ब्रह्मा च विष्णुश्च सर्वे देवगणाश्च वै ।
ताभ्यां वरान्ददुः प्रीत्या सुप्रसन्नाः शिवाज्ञया ॥ ५८॥
सान्वयं मां गृहीत्वेशस्ततः सम्बन्धिबान्धवैः ।
आरुह्य वृषमीशानो गतो देव्या निजं गृहम् ॥ ५९॥
विष्ण्वादयः सुराः सर्वे प्रशंसन्तो ह्यमी तदा ।
स्वधामानि ययुः प्रीत्या संस्तुवन्तः शिवं शिवम् ॥ ६०॥
इति ते कथितो वत्स स्वावतारो महामुने ।
सदानन्दकरः पुंसां शिवभक्तिप्रवर्द्धनः ॥ ६१॥
य इदं नन्दिनो जन्म वरदानं तथा मम ।
अभिषेकं विवाहं च शृणुयाच्छ्रावयेत्तथा ॥ ६२॥
पठेद्वा पाठयेद्वापि श्रद्धावान्भक्तिसंयुतः ।
इह सर्वसुखं भुक्त्वा परत्र लभते गतिम् ॥ ६३॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेश्वरावताराभिषेक विवाहवर्णनं नाम सप्तमोऽध्यायः ॥ ३.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.८. अष्टमोऽध्यायः । भैरवावतारवर्णनम् ।
अथ भैरवावतारमाह ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ शृणु त्वं भैरवीं कथाम् ।
यस्याः श्रवणमात्रेण शैवी भक्तिर्दृढा भवेत् ॥ १॥
भैरवः पूर्णरूपो हि शङ्करस्य परात्मनः ।
मूढास्तं वै न जानन्ति मोहिताः शिवमायया ॥ २॥
सनत्कुमार नो वेत्ति महिमानं महेशितुः ।
चतुर्भुजोऽपि विष्णुर्वै चतुर्वक्त्रोऽपि वै विधिः ॥ ३॥
चित्रमत्र न किञ्चिद्वै दुर्ज्ञेया खलु शाम्भवी ।
तया सम्मोहिताः सर्वे नार्चयन्त्यपि तं परम् ॥ ४॥
वेदयेद्यदि वात्मानं स एव परमेश्वरः ।
तदा विदन्ति ते सर्वे स्वेच्छया न हि केऽपि तम् ॥ ५॥
सर्वगोऽपि महेशानो नेक्ष्यते मूढबुद्धिभिः ।
देववद् बुध्यते लोके योऽतीतो मनसां गिराम् ॥ ६॥
अत्रेतिहासं वक्ष्येऽहं परमर्षे पुरातनम् ।
शृणु तं श्रद्धया तात परमं ज्ञानकारणम् ॥ ७॥
मेरुशृङ्गेऽद्भुते रम्ये स्थितं ब्रह्माणमीश्वरम् ।
जग्मुर्देवर्षयः सर्वे सुतत्त्वं ज्ञातुमिच्छया ॥ ८॥
तत्रागत्य विधिं नत्वा पप्रच्छुस्ते महादरात् ।
कृताञ्जलिपुटाः सर्वे नतस्कन्धा मुनीश्वराः ॥ ९॥
देवर्षय ऊचुः ।
देवदेव प्रजानाथ सृष्टिकृल्लोकनायक ।
तत्त्वतो वद चास्मभ्यं किमेकं तत्त्वमव्ययम् ॥ १०॥
नन्दीश्वर उवाच ।
स मायया महेशस्य मोहितः पद्मसम्भवः ।
अविज्ञाय परं भावं सम्भावं प्रत्युवाच ह ॥ ११॥
ब्रह्मोवाच ।
हे सुरा ऋषयः सर्वे सुमत्या शृणुतादरात् ।
वच्म्यहं परमं तत्त्वमव्ययं वै यथार्थतः ॥ १२॥
जगद्योनिरहं धाता स्वयम्भूरज ईश्वरः ।
अनादिभागहं ब्रह्म ह्येक आत्मा निरञ्जनः ॥ १३॥
प्रवर्तको हि जगतामहमेव निवर्त्तकः ।
संवर्तको मदधिको नान्यः कश्चित्सुरोत्तमाः ॥ १४॥
नन्दीश्वर उवाच ।
तस्यैवं वदतो धातुर्विष्णुस्तत्र स्थितो मुने ।
प्रोवाच प्रहसन्वाक्यं सङ्क्रुद्धो मोहितोऽजया ॥ १५॥
न चैतदुचिता ब्रह्मन्योगयुक्तस्य मूर्खता ।
अविज्ञाय परं तत्त्वं वृथैतत्ते निगद्यते ॥ १६॥
कर्ताऽहं सर्वलोकानां परमात्मा परः पुमान् ।
यज्ञो नारायणो देवो मायाधीशः परागतिः ॥ १७॥
ममाज्ञया त्वया ब्रह्मन् सृष्टिरेषा विधीयते ।
जगतां जीवनं नैव मामनादृत्य चेश्वरम् ॥ १८॥
एवं विप्रकृतौ मोहात्परस्परजयैषिणौ ।
प्रोचतुर्निगमांश्चात्र प्रमाणे सर्वथा तनौ ॥ १९॥
प्रष्टव्यास्ते विशेषेण स्थिता मूर्तिधराश्च ते ।
पप्रच्छतुः प्रमाणज्ञानित्युक्त्वा चतुरोऽपि तान् ॥ २०॥
विधिविष्णू ऊचतुः ।
वेदाः प्रमाणं सर्वत्र प्रतिष्ठां परमामिताः ।
यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम् ॥ २१॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः ।
अवदंस्तत्त्वतः सर्वे परेशं संस्मरतो प्रभुम् ॥ २२॥
यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू ।
तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ॥ २३॥
नन्दीश्वर उवाच ।
श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः ।
युष्मदुक्तं प्रमाणं नौ किं तत्त्वं सम्यगुच्यताम् ॥ २४॥
ऋग्वेद उवाच ।
यदन्तः स्थानि भूतानि यतः सर्वं प्रवर्त्तते ।
यदाहुः परमं तत्त्वं स रुद्रस्त्वेक एव हि ॥ २५॥
यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ।
येन प्रमाणं खलु नः स एकः सर्वदृक् शिवः ॥ २६॥
सामवेद उवाच ।
येनेदं भ्रम्यते विश्वं योगिभिर्यो विचिन्त्यते ।
यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः ॥ २७॥
अथर्वणवेद उवाच ।
यं प्रपश्यन्ति देवेशं भक्त्यनुग्रहिणो जनाः ।
तमाहुरेकं कैवल्यं शङ्करं दुःखतः परम् ॥ २८॥
नन्दीश्वर उवाच ।
श्रुत्युक्तमिदमाकर्ण्यातीव मायाविमोहितौ ।
स्मित्वाहतुर्विधिहरी निगमांस्तान्विचेतनौ ॥ २९॥
विधिहरी ऊचतुः ।
हे वेदाः किमिदं यूयं भाषन्ते गतचेतनाः ।
किं जातं वोऽद्य सर्वं हि नष्टं सुवयुनं परम् ॥ ३०॥
कथं प्रमथनाथोऽसौ रममाणो निरन्तरम् ।
दिगम्बरः पीतवर्णो शिवया धूलिधूसरः ॥ ३१॥
विरूपवेषो जटिलो वृषगो व्यालभूषणः ।
परं ब्रह्मत्वमापन्नः क्व च तत्सङ्गवर्जितम् ॥ ३२॥
इत्युदीरितमाकर्ण्य प्रणवः सर्वगस्तयोः ।
अमूर्तो मूर्तिमान्प्रीत्या जृम्भमाण उवाच तौ ॥ ३३॥
प्रणव उवाच ।
न हीशो भगवान् शक्त्या ह्यात्मनो व्यतिरिक्तया ।
कदाचिद्रमते रुद्रो लीलारूपधरो हरः ॥ ३४॥
असौ हि परमेशानः स्वयञ्ज्योतिः सनातनः ।
आनन्दरूपा तस्यैषा शक्तिर्नागन्तुकी शिवा ॥ ३५॥
नन्दीश्वर उवाच ।
इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ।
नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३६॥
प्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ।
पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम् ॥ ३७॥
ज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ।
विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने ॥ ३८॥
प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ।
आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम् ॥ ३९॥
विधिः सम्भावयेद्यावत्तावत्स त्रिविलोचनः ।
दृष्टः क्षणेन च महापुरुषो नीललोहितः ॥ ४०॥
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ।
हिरण्यगर्भस्तं दृष्ट्वा विहसन्प्राह मोहितः ॥ ४१६॥
ब्रह्मोवाच ।
नीललोहित जाने त्वां मा भैषीश्चन्द्रशेखर ।
भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्भवान् ॥ ४२॥
रोदनाद् रुद्रनामापि योजितोऽसि मया पुरा ।
मामेव शरणं याहि पुत्र रक्षां करोमि ते ॥ ४३॥
॥ नन्दीश्वर उवाच ।
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम् ।
चुकोपातीव च तदा कुर्वन्निव लयम्मुने ॥ ४४॥
स कोपतः समुत्पाद्य पुरुषं भैरवं क्वचित् ।
प्रज्वलन्तं सुमहसा प्रीत्या च परमेश्वरः ॥ ४५॥
ईश्वर उवाच ।
प्राक् च पङ्कजजन्मासौ शास्यस्ते कालभैरव ।
कालवद्राजसे साक्षात्कालराजस्ततो भवान् ॥ ४६॥
विश्वं भर्त्तुं समर्थोऽसि भीषणाद्भैरवः स्मृतः ।
त्वत्तो भेष्यति कालोऽपि ततस्त्वं कालभैरवः ॥ ४७॥
आमर्दयिष्यति भवान्रुष्टो दुष्टात्मनो यतः ।
आमर्दक इति ख्यातिं ततः सर्वत्र यास्यसि ॥ ४८॥
यतः पापानि भक्तानां भक्षयिष्यसि तत्क्षणात् ।
पापभक्षण इत्येव तव नाम भविष्यति ॥ ४९॥
या मे मुक्तिपुरी काशी सर्वाभ्योऽपि गरीयसी ।
आधिपत्यं च तस्यास्ते कालराज सदैव हि ॥ ५०॥
तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ।
शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति ॥ ५१॥
नन्दीश्वर उवाच ।
एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ।
वामाङ्गुलिनखाग्रेण चकर्त च विधेश्शिरः ॥ ५२॥
यदङ्गमपराध्नोति कार्यं तस्यैव शासनम् ।
अतो येन कृता निन्दा तच्छिन्नं पञ्चमं शिरः ॥ ५३॥
अथ छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ।
शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम् ॥ ५४॥
भीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ।
इत्थं तौ गतगर्वौ हि सञ्जातौ तत्क्षणान्मुने ॥ ५५॥
परब्रह्म शिवः साक्षात्सच्चिदानन्दलक्षणः ।
परमात्मा गुणातीत इति ज्ञानमवापतुः ॥ ५६॥
सनत्कुमार सर्वज्ञ शृणु मे परमं शुभम् ।
यावद्गर्वो भवेत्तावज्ज्ञानगुप्तिर्विशेषतः ॥ ५७॥
त्यक्त्वाभिमानं पुरुषो जानाति परमेश्वरम् ।
गर्विणं हन्ति विश्वेशो जातो गर्वापहारकः ॥ ५८॥
अथ विष्णुविधी ज्ञात्वा विगर्वौ परमेश्वरः ।
प्रसन्नोऽभून्महादेवोऽकरोत्तावभयौ प्रभुः ॥ ५९॥
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ।
प्राह स्वां मूर्तिमपरां भैरवन्तं कपर्द्दिनम् ॥ ६०॥
महादेव उवाच ।
त्वया मान्यो विष्णुरसौ तथा शतधृतिः स्वयम् ।
कपालं वैधसं वापि नीललोहित धारय ॥ ६१॥
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शय ।
चर त्वं सततं भिक्षां कपालव्रतमाश्रितः ॥ ६२॥
इत्युक्त्वा पश्यतस्तस्य तेजोरूपः शिवोऽब्रवीत् ।
उत्पाद्य चैकां कन्यां तु ब्रह्महत्याभिविश्रुताम् ॥ ६३॥
यावद्वाराणसीं दिव्यां पुरीमेषां गमिष्यति ।
तावत्त्वं भीषणं कालमनुगच्छोग्ररूपिणम् ॥ ६४॥
सर्वत्र ते प्रवेशोऽस्ति त्यक्त्वा वाराणसीं पुरीम् ।
वाराणसीं यदा गच्छेत्तन्मुक्तो भव तत्क्षणात् ॥ ६५॥
नन्दीश्वर उवाच ।
नियोज्य तामिति तदा ब्रह्महत्यां च तां प्रभुः ।
महाद्भुतश्च स शिवोऽप्यन्तर्धानमगात्ततः ॥ ६६॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भैरवावतारवर्णनं नामाष्टमोऽध्यायः ॥ ३.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.९. नवमोऽध्यायः । भैरवावतारलीलावर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ।
शृणु प्रीत्या महादोषसंहर्त्रीं भक्तिवर्द्धिनीम् ॥ १॥
तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ।
स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम् ॥ २॥
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ।
नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा ॥ ३॥
प्रतितीर्थं भ्रमन् नापि विमुक्तो ब्रह्महत्यया ।
अतः कामारिमहिमा सर्वोऽपि ह्यवगम्यताम् ॥ ४॥
प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ।
कापालिको ययौ स्वैरी नारायणनिकेतनम् ॥ ५॥
अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ।
महादेवांशसम्भूतं पूर्णाकारं च भैरवम् ॥ ६॥
पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ।
देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः ॥ ७॥
अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ।
शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवैः ॥ ८॥
सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ।
क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा ॥ ९॥
विष्णुरुवाच ।
प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ।
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥ १०॥
अयं धाता विधाता च लोकानां प्रभुरीश्वरः ।
अनादिः शरणः शान्तः पुरः षड्विंशसम्मितः ॥ ११॥
सर्वज्ञः सर्वयोगीशः सर्वभूतैकनायकः ।
सर्वभूतान्तरात्माऽयं सर्वेषां सर्वदः सदा ॥ १२॥
ये विनिद्रा विनिःश्वासाः शान्ताः ध्यानपरायणाः ।
धिया पश्यन्ति हृदये सोऽयं पद्मे समीक्षताम् ॥ १३॥
यं विदुर्वेदतत्त्वज्ञा योगिनो यतमानसाः ।
अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः ॥ १४॥
अहो विचित्रं देवस्य चेष्टितं परमेष्ठिनः ।
यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत् ॥ १५॥
तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ।
सोऽयमायाति भगवांस्त्र्यम्बकः शशिभूषणः ॥ १६॥
पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ।
यद् दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः ॥ १७॥
धिग्धिक्पदं तु देवानां परं दृष्ट्वा न शङ्करम् ।
लभ्यते यत्र निर्वाणं सर्वदुःखान्तकृत्तु यत् ॥ १८॥
देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ।
दृष्ट्वापि सर्वे देवेशं यन्मुक्तिं न लभामहे ॥ १९॥
नन्दीश्वर उवाच ।
एवमुक्त्वा हृषीकेशः सम्प्रहृष्टतनूरुहः ।
प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥ २०॥
विष्णुरुवाच ।
किमिदं देवदेवेन सर्वज्ञेन त्वया विभो ।
क्रियते जगतां धात्रा सर्वपापहराव्यय ॥ २१॥
क्रीडेयं तव देवेश त्रिलोचन महामते ।
किं कारणं विरूपाक्ष चेष्टितं ते स्मरार्दन ॥ २२॥
किमर्थं भगवञ्छम्भो भिक्षां चरसि शक्तिप ।
संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद ॥ २३॥
नन्दीश्वर उवाच ।
एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ।
प्रत्युवाचाद्भुतोतिः स विष्णुं हि विहसन्प्रभुः ॥ २४॥
भैरव उवाच ।
ब्रह्मणस्तु शिरश्छिन्नमङ्गुल्याग्रनखेन ह ।
तदघं प्रतिहन्तुं हि चराम्येतद् व्रतं शुभम् ॥ २५॥
नन्दीश्वर उवाच ।
एवमुक्तो महेशेन भैरवेण रमापतिः ।
स्मृत्वा किञ्चिन्नतशिराः पुनरेवमजिज्ञपत् ॥ २६॥
विष्णुरुवाच ।
यथेच्छसि तथा क्रीड सर्वविघ्नापनोदक ।
मायया मां महादेव नाच्छादयितुमर्हसि ॥ २७॥
नाभीकमलकोशात्तु कोटिशः कमलासनाः ।
कल्पे कल्पे पुरा ह्यान्सस्त्वन्नियोगबलाद्विभो ॥ २८॥
त्यज मायामिमां देव दुस्तरामकृतात्मभिः ।
ब्रह्मादयो महादेव मायया तव मोहिताः ॥ २९॥
यथावदनुगच्छामि चेष्टितं ते शिवापते ।
तवैवानुग्रहाच्छम्भो सर्वेश्वर सताङ्गते ॥ ३०॥
संहारकाले सम्प्राप्ते सदेवान्निखिलान्मुनीन् ।
लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥ ३१॥
तदा कृते महादेव पापं ब्रह्मवधादिकम् ।
पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान् ॥ ३२॥
अतीत ब्रह्मणां ह्यस्थ्नां स्रक्कण्ठे तव भासते ।
तथाप्यनुगता शम्भो ब्रह्महत्या तवानघ ॥ ३३॥
कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ।
आधारं जगतामीश तस्य पापं विलीयते ॥ ३४॥
यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ।
तथैव तव यो भक्तः पापं तस्य व्रजेत्क्षयम् ॥ ३५॥
यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम् ।
ब्रह्महत्याकृतमपि पापं तस्य व्रजेत्क्षयम् ॥ ३६॥
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ।
अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥ ३७॥
परमात्मन्परं धाम स्वेच्छाभिधृतविग्रह ।
कुतूहलं तवेशेदं कृपणाधीनतेश्वर ॥ ३८॥
अद्य धन्योऽस्मि देवेश यन्न पश्यन्ति योगिनः ।
पश्यामि तं जगन्मूर्त्तिं परमेश्वरमव्ययम् ॥ ३९॥
अद्य मे परमो लाभस्त्वद्य मे मङ्गलं परम् ।
तं दृष्ट्वामृततृप्तस्य तृणं स्वर्गापवर्गकम् ॥ ४०॥
इत्थं वदति गोविन्दे विमला पद्मया तया ।
मनोरथवती नाम भिक्षा पात्रे समर्पिता ॥ ४१॥
भिक्षाटनाय देवोऽपि निरगात्परया मुदा ।
अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः ॥ ४२॥
दृष्ट्वानुयायिनीं तां तु समाहूय जनार्दनः ।
सम्प्रार्थयद् ब्रह्महत्यां विमुञ्च त्वं त्रिशूलिनम् ॥ ४३॥
ब्रह्महत्योवाच ।
अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ।
आत्मानं पावयिष्यामि त्वपुनर्भवदर्शनम् ॥ ४४॥
नन्दीश्वर उवाच ।
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ।
तमूचेऽथ हरिं शम्भुः स्मेरास्यो भैरवो वचः ॥ ४५॥
भैरव उवाच ।
त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ।
स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥ ४६॥
वरं वृणीष्व गोविन्द वरदोऽस्मि तवानघ ।
अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥ ४७॥
नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः ।
यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥ ४८॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य वचः शम्भोर्भैरवस्य परात्मनः ।
सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥ ४९॥
विष्णुरुवाच ।
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।
पश्यामि त्वान्देवदेव मनोवाणीपथातिगम् ॥ ५०॥
अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ।
अयत्त्ननिधिलाभोऽयं वीक्षणं हर ते सताम् ॥ ५१॥
अवियोगोऽस्तु मे देव त्वदङ्घ्रियुगलेन वै ।
एष एव वरः शम्भो नान्यं कश्चिद् वृणे वरम् ॥ ५२॥
श्रीभैरव उवाच ।
एवं भवतु ते तात यत्त्वयोक्तं महामते ।
सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥ ५३॥
नन्दीश्वर उवाच ।
अनुगृह्येति दैत्यारिं केन्द्राद्रिभुवने चरन् ।
भेजेऽविमुक्तनगरीं नाम्ना वाराणसीं पुरीम् ॥ ५४॥
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ।
हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा ॥ ५५॥
कपालं ब्राह्मणः सद्यो भैरवस्य कराम्बुजात् ।
पपात भुवि तत्तीर्थमभूत्कापालमोचनम् ॥ ५६॥
कपालं ब्रह्मणो रुद्रः सर्वेषामेव पश्यताम् ।
हस्तात्पतन्तमालोक्य ननर्त परया मुदा ॥ ५७॥
विधेः कपालं नामुञ्चत्करमत्यन्तदुस्सहम् ।
परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥ ५८॥
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ।
सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका ॥ ५९॥
कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम् ।
इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति ॥ ६०॥
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥ ६१॥
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ।
तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ॥ ६२॥
कृष्णाष्टम्यां तु मार्गस्य मासस्य परमेश्वरः ।
आविर्बभूव सल्लीलो भैरवात्मा सतां प्रियः ॥ ६३॥
मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ।
उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥ ६४॥
अन्यत्रापि नरो भक्त्या तद् व्रतं यः करिष्यति ।
सजागरं महापापैर्मुक्तो यास्यति सद्गतिम् ॥ ६५॥
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ।
तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ ६६॥
कालभैरवभक्तानां पातकानि करोति यः ।
स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥ ६७॥
विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ।
ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥ ६८॥
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ।
तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥ ६९॥
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ।
भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी ॥ ७०॥
श्रुत्वाख्यानमिदं पुण्यं ब्रह्महत्यापनोदकम् ।
भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ॥ ७१॥
बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदं पराम् ।
प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात् ॥ ७२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ॥ ३.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१०. दशमोऽध्यायः । नृसिंहचरितवर्णनम् ।
नन्दीश्वर उवाच ।
विध्वंसी दक्षयज्ञस्य वीरभद्राह्वयः प्रभोः ।
अवतारश्च विज्ञेयः शिवस्य परमात्मनः ॥ १॥
सतीचरित्रे कथितं चरितं तस्य कृत्स्नशः ।
श्रुतं त्वयापि बहुधा नातः प्रोक्तं सुविस्तरात् ॥ २॥
अतः परं मुनिश्रेष्ठ भवत्स्नेहाद् ब्रवीमि तत् ।
शार्दूलाख्यावतारं च शङ्करस्य प्रभोः शृणु ॥ ३॥
सदाशिवेन देवानां हितार्थं रूपमद्भुतम् ।
शारभं च धृतं दिव्यं ज्वलज्ज्वालासमप्रभम् ॥ ४॥
शिवावतारा अमिताः सद्भक्तहितकारकाः ।
सङ्ख्या न शक्यते कर्तुं तेषां च मुनिसत्तमाः ॥ ५॥
आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ।
आसाराणां च वृद्धेन बहुकल्पैः कदापि हि ॥ ६॥
सङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ।
न वै शिवावताराणां सत्यं जानीहि मद्वचः ॥ ७॥
तथापि च यथाबुद्ध्या कथयामि यथाश्रुतम् ।
चरित्रं शारभं दिव्यं परमैश्वर्यसूचकम् ॥ ८॥
जयश्च विजयश्चैव भवद्भिः शापितौ यदा ।
तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने ॥ ९॥
हिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ।
देवर्षिपार्षदौ जातौ तौ द्वावपि दितेः सुतौ ॥ १०॥
पृथ्व्युद्धारे विधात्रा व प्रार्थितो हि पुरा प्रभुः ।
हिरण्याक्षं जघानासौ विष्णुर्वाराहरूपधृक् ॥ ११॥
तं श्रुत्वा भ्रातरं वीरं निहतं प्राणसन्निभम् ।
चुकोप हरयेऽतीव हिरण्यकशिपुर्मुने ॥ १२॥
वर्षाणामयुतं तप्त्वा ब्रह्मणो वरमाप सः ।
न कश्चिन्मारयेन्मां वै त्वत्सृष्टाविति तुष्टतः ॥ १३॥
शोणिताख्यपुरं गत्वा देवानाहूय सर्वतः ।
त्रिलोकीं स्ववशे कृत्वा चक्रे राज्यमकण्टकम् ॥ १४॥
देवर्षिकदनं चक्रे सर्वधर्मविलोपकः ।
द्विजपीडाकरः पापी हिरण्यकशिपुर्मुने ॥ १५॥
प्रह्लादेन स्वपुत्रेण हरिभक्तेन दैत्यराट् ।
यदा विद्वेषमकरोद्धरिर्वैरी विशेषतः ॥ १६॥
सभास्तम्भात्तदा विष्णुरभूदाविर्द्रुतं मने ।
सन्ध्यायां क्रोधमापन्नो नृसिंहवपुषा ततः ॥ १७॥
सर्वथा मुनिशार्दूल करालं नृहरेर्वपुः ।
प्रजज्वालातिभयदं त्रासयन्दैत्यसत्तमान् ॥ १८॥
नृसिंहेन तदा दैत्या निहताश्चैव तत्क्षणम् ।
हिरण्यकशिपुश्चाथ युद्धं चक्रे सुदारुणम् ॥ १९॥
महायुद्धं तयोरासीन्मुहूर्त्तं मुनिसत्तमाः ।
विकरालं च भयदं सर्वेषां रोमहर्षणम् ॥ २०॥
सायं चकर्ष देवेशो देहल्यां दैत्यपुङ्गवम् ।
व्योम्नि देवेषु पश्यत्सु नृसिंहश्च रमेश्वरः ॥ २१॥
अथोत्सङ्गे च तं कृत्वा नखैस्तदुदरं द्रुतम् ।
विदार्य मारयामास पश्यतां त्रिदिवौकसाम् ॥ २२॥
हते हिरण्यकशिपौ नृसिंहेनैव विष्णुना ।
जगत्स्वास्थ्यं तदा लेभे न वै देवा विशेषतः ॥ २३॥
देवदुन्दुभयो नेदुः प्रह्लादो विस्मयं गतः ।
लक्ष्मीश्च विस्मयं प्राप्ता रूपं दृष्ट्वाऽद्भुतं हरेः ॥ २४॥
हतो यद्यपि दैत्येन्द्रस्तथापि न परं सुखम् ।
ययुर्देवा नृसिंहस्य ज्वाला सा न निवर्तिता ॥ २५॥
तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ।
देवाश्च दुःखमापन्नाः किं भविष्यति वा पुनः ॥ २६॥
इत्येवं च वदन्तस्ते भयादू दूरमुपस्थिताः ।
नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः ॥ २७॥
प्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ।
सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा ॥ २८॥
उरसाऽऽलिङ्गयामास तं नृसिंहः कृपानिधिः ।
हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता ॥ २९॥
तथापि न निवृता रुड्ज्वाला नरहरेर्यदा ।
दुःखं प्राप्तास्ततो देवाः शङ्कर शरणं ययुः ॥ ३०॥
तत्र गत्वा सुराः सर्वे ब्रह्माद्या मुनयस्तथा ।
शङ्करं स्तवयामासुर्लोकानां सुखहेतवे ॥ ३१॥
देवा ऊचुः ।
देवदेव महादेव शरणागतवत्सल ।
पाहि नः शरणापन्नान्सर्वान्देवाञ्जगन्ति च ॥ ३२॥
नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ।
पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम् ॥ ३३॥
समुद्रो मथितश्चैव रत्नानां च विभागशः ।
कृते देवैस्तदा शम्भो गृहीतं गरलं त्वया ॥ ३४॥
रक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ।
विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः ॥ ३५॥
प्रसिद्धं च यदा यस्य दुःखं च जायते प्रभो ।
तदा त्वन्नाममात्रेण सर्वं दुःखं विलीयते ॥ ३६॥
इदानीं नृहरिज्वालापीडितान्नः सदाशिव ।
तां त्वं शमयितुं देव शक्तोऽसीति सुनिश्चितम् ॥ ३७॥
नन्दीश्वर उवाच ।
इति स्तुतस्तदा देवैः शङ्करो भक्तवत्सलः ।
प्रत्युवाच प्रसन्नात्माऽभयं दत्त्वा परं प्रभुः ॥ ३८॥
शङ्कर उवाच ।
स्वस्थानं गच्छत सुराः सर्वे ब्रह्मादयोऽभयाः ।
शमयिष्यामि यद्दुःखं सर्वथा हि व्रतं मम ॥ ३९॥
गतो मच्छरणं यस्तु तस्य दुःखं क्षयं गतम् ।
मत्प्रियः शरणापन्नः प्राणेभ्योऽपि न संशयः ॥ ४०॥
नन्दीश्वर उवाच ।
इति श्रुत्वा तदा देवा ह्यानन्दम्परमं गताः ।
यथागतं तथा जग्मुः स्मरन्तः शङ्करं मुदा ॥ ४१॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शार्दूलावतारे नृसिंहचरितवर्णनं नाम दशमोऽध्यायः ॥ ३.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.११. एकादशोऽध्यायः । शरभावतारवर्णनम् १ ।
नन्दीश्वर उवाच ।
एवमभ्यर्थितो देवैर्मतिं चक्रे कृपालयः ।
महातेजो नृसिंहाख्यं संहर्त्तुं परमेश्वरः ॥ १॥
तदूर्ध्वं स्मृतवान् रुद्रो वीरभद्रं महाबलम् ।
आत्मनो भैरवं रूपं प्राह प्रलयकारकम् ॥ २॥
आजगाम ततः सद्यो गणानामग्रणीर्हसन् ।
साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः ॥ ३॥
नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ।
माद्यद्भिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः ॥ ४॥
क्रीडद्भिश्च महावीरैर्ब्रह्माद्यैः कन्दुकैरिव ।
अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः ॥ ५॥
कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ।
अशस्त्रो हि जटाजूटी ज्वलद् बालेन्दुमण्डितः ॥ ६॥
बालेन्दुवलयाकारतीक्ष्णदंष्ट्राङ्कुरद्वयः ।
आखण्डलधनुःखण्डसन्निभभ्रूलतान्वितः ॥ ७॥
महाप्रचण्डहुङ्कारबधिरीकृतदिङ्मुखः ।
नीलमेघाञ्जनश्यामो भीषणः श्मश्रुलोऽद्भुतः ॥ ८॥
वाद्यखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ।
वीरभद्रोऽपि भगवान्वीरशक्तिविजृम्भितः ॥ ९॥
स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ।
आज्ञापय जगत्स्वामिन् प्रसादः क्रियतां मयि ॥ १०॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य महेशानो वीरभद्रोक्तमादरात् ।
विलोक्य वचनं प्रीत्या प्रोवाच खलदण्डधृक् ॥ ११॥
शङ्कर उवाच ।
अकाले भयमुत्पन्नं देवानामपि भैरवम् ।
ज्वलितः स नृसिंहाग्निः शमयैनं दुरासदम् ॥ १२॥
सान्त्वयन् बोधयादौ तं तेन किन्नोपशाम्यति ।
ततो मत्परमं भावं भैरवं सम्प्रदर्शय ॥ १३॥
सूक्ष्मं संहृत्य सूक्ष्मेण स्थूलं स्थूलेन तेजसा ।
वशमानय वन्हिं त्वं वीरभद्र ममाज्ञया ॥ १४॥
नन्दीश्वर उवाच ।
इत्यादिष्टो गणाध्यक्षो प्रशान्तं वपुरास्थितः ।
जगाम रंहसा तत्र यत्रास्ते नरकेसरी ॥ १५॥
ततः सम्बोधयामास वीरभद्रो हरो हरिम् ।
उवाच वाक्यमीशानः पितापुत्रमिवौरसम् ॥ १६॥
वीरभद्र उवाच ।
जगत्सुखाय भगवन्नवतीर्णोऽसि माधव ।
स्थित्यर्थं त्वं प्रयुक्तोऽसि परेशः परमेष्ठिना ॥ १७॥
जन्तुचक्रं भगवता प्रच्छन्नं मत्स्यरूपिणा ।
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा ॥ १८॥
बिभर्षि कूर्मरूपेण वाराहेणोद्धृता मही ।
अनेन हरिरूपेण हिरण्यकशिपुर्हतः ॥ १९॥
वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ।
त्वमेव सर्वभूतानां प्रभवः प्रभुरव्ययः ॥ २०॥
यदा यदा हि लोकस्य दुःखं किञ्चित्प्रजायते ।
तदा तदावतीर्णस्त्वं करिष्यसि निरामयम् ॥ २१॥
नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ।
त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः ॥ २२॥
यदर्थमवतारोऽयं निहतः स हि दानवः ।
हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः ॥ २३॥
अतीव घोरं भगवन्नरसिंहवपुस्तव ।
उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ॥ २४॥
नन्दीश्वर उवाच ।
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ।
ततोऽधिकं महाघोरं कोपं चक्रे महामदः ॥ २५॥
उवाच च महाघोरं कठिनं वचनं तदा ।
वीरभद्रं महावीरं दंष्ट्राभिर्भीषयन्मुने ॥ २६॥
नृसिंह उवाच ।
आगतोऽसि यतस्तत्र गच्छ त्वं मा हितं वद ।
इदानीं संहरिष्यामि जगदेतच्चराचरम् ॥ २७॥
संहर्तुर्न हि संहारः स्वतो वा परतोऽपि वा ।
शासिनं मम सर्वत्र शास्ता कोऽपि न विद्यते ॥ २८॥
मत्प्रसादेन सकलमभयं हि प्रवर्तते ।
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ॥ २९॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम् ॥ ३०॥
देवताः परमार्थज्ञं मामेव परमं विदुः ।
मदंशाः शक्तिसम्पन्ना ब्रह्मशक्रादयः सुराः ॥ ३१॥
मन्नाभिकमलाज्जातः पुरा ब्रह्मा जगत्करः ।
सर्वाधिकः स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः ॥ ३२॥
इदं तु मत्परं तेजः किं पुनः श्रोतुमिच्छसि ।
अतो मां शरणं प्राप्य गच्छ त्वं विगतज्वरः ॥ ३३॥
अवेहि परमं भावमिदम्भूतं गणेश्वर ।
मामकं सकलं विश्वं सदेवासुरमानुषम् ॥ ३४॥
कालोऽस्म्यहं लोकविनाशहेतु-
र्लोकान्समाहर्तुमहं प्रवृत्तः ।
मृत्योर्मृत्युं विद्धि मां वीरभद्र
जीवन्त्येते मत्प्रसादेन देवाः ॥ ३५॥
नन्दीश्वर उवाच ।
साहङ्कारं वचः श्रुत्वा हरेरमितविक्रमः ।
विहस्योवाच सावज्ञं ततो विस्फुरिताधरः ॥ ३६॥
वीरभद्र उवाच ।
किन्न जानासि विश्वेशं संहर्तारं पिनाकिनम् ।
असद्वादो विवादश्च विनाशस्त्वयि केवलः ॥ ३७॥
तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम् ।
कृतानि येन केनैव कथाशेषो भविष्यति ॥ ३८॥
दोषं तं वद येन त्वमवस्थामीदृशीं गतः ।
तेन संहारदक्षेण दक्षिणाशेषमेष्यसि ॥ ३९॥
प्रकृतिस्त्वं पुमान्रुद्रस्त्वयि वीर्यं समाहितम् ।
त्वन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ ४०॥
जगत्त्रयीसर्जनार्थं शङ्करं नीललोहितम् ।
ललाटेऽचिन्तयत्सोऽयं तपस्युग्रे च संस्थितः ॥ ४१॥
तल्ललाटादभूच्छम्भुः सृष्ट्यर्थे तेन भूषणम् ।
अतोऽहं देवदेवस्य तस्य भैरवरूपिणः ॥ ४२॥
त्वत्संहारे नियुक्तोऽस्मि विनयेन बलेन च ।
देवदेवेन रुद्रेण सकलप्रभुणा हरे ॥ ४३॥
एकं रक्षो विदार्यैव तच्छक्तिकलया युतः ।
अहङ्कारावलेपेन गर्जसि त्वमतन्द्रितः ॥ ४४॥
उपकारो हि साधूनां सुखाय किल सम्मतः ।
उपकारो ह्यसाधूनामपकाराय केवलम् ॥ ४५॥
यन्नृसिंह महेशानं पुनर्भूतं तु मन्यसे ।
तर्ह्यज्ञानी महागर्वी विकारी सर्वथा भवान् ॥ ४६॥
न त्वं स्रष्टा न संहर्ता भर्तापि न नृसिंहक ।
परतन्त्रो विमूढात्मा न स्वतन्त्रो हि कुत्रचित् ॥ ४७॥
कुलालचक्रवच्छक्त्या प्रेरितोऽसि पिनाकिना ।
नानावतारकर्ता त्वं तदधीनः सदा हरे ॥ ४८॥
अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ।
हरहारलतामध्ये दग्धं कश्चिन्न बध्यते ॥ ४९॥
विस्मृतिः किं तदंशेन दंष्ट्रोत्पातनपीडितम् ।
वाराहविघ्नहस्तेऽद्य याक्रोशन्तारकारिणा ॥ ५०॥
दग्धोऽसि पश्य शूलाग्नेर्विष्वक्सेनच्छलाद्भवान् ।
दक्षयज्ञे शिरश्छिन्नं मया तेजःस्वरूपिणा ॥ ५१॥
अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ।
छिन्नं न सज्जितं भूयो हरे तद्विस्मृतं त्वया ॥ ५२॥
निर्जितस्त्वं दधीचेन सङ्ग्रामे समरुद्गणः ।
कण्डूयमाने शिरसि कथं तद्विस्मृतं त्वया ॥ ५३॥
चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ।
कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम् ॥ ५४॥
ये मया सकला लोका गृहीतास्त्वं पयोनिधौ ।
निद्रापरवशः शेषे स कथं सात्त्विको भवान् ॥ ५५॥
त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ।
शक्तिमानभितस्त्वं च ह्यनलात्त्वं विमोहितः ॥ ५६॥
तत्तेजसो हि माहात्म्यं पुमान्द्रष्टुं न हि क्षमः ।
अस्थूला ये प्रपश्यन्ति तद्विष्णोः परमं पदम् ॥ ५७॥
द्यावापृथिव्या इन्द्राग्नेर्यमस्य वरुणस्य च ।
ध्वान्तोदरे शशाङ्के च जनित्वा परमेश्वरः ॥ ५८॥
कालोऽसि त्वं महाकालः कालकालो महेश्वरः ।
अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि ॥ ५९॥
स्थिरोऽद्य त्वक्षरो वीरो वीरो विश्वावकः प्रभुः ।
उपहन्ता ज्वरं भीमो मृगः पक्षी हिरण्मयः ॥ ६०॥
शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ।
नान्ये च केवलं शम्भुः सर्वशास्ता न संशयः ॥ ६१॥
इत्थं सर्वं समालोक्य संहारात्मानमात्मना ।
न विनष्टं त्वमात्मानं कुरु हे नृहरेऽबुध ॥ ६२॥
नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ।
वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति ॥ ६३॥
नन्दीश्वर उवाच ।
इत्युक्त्वा वीरभद्रोऽपि विररामाकुतोभयः ।
दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः ॥ ६४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नामैकादशोऽध्यायः ॥ ३.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१२. द्वादशोऽध्यायः । शरभावतारवर्णनम् २ ।
सनत्कुमार उवाच ।
नन्दीश्वर महाप्राज्ञ विज्ञातं तदनन्तरम् ।
ममोपरि कृपां कृत्वा प्रीत्या त्वं तद्वदाधुना ॥ १॥
नन्दीश्वर उवाच ।
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ।
निनदन्ननुवेगेन तं ग्रहीतुं प्रचक्रमे ॥ २॥
अत्रान्तरे महाघोरं प्रत्यक्षभयकारणम् ।
गगनव्यापि दुर्धर्षं शैवतेजः समुद्भवम् ॥ ३॥
वीरभद्रस्य तद्रूमदृश्यं तु ततः क्षणात् ।
तद्वै हिरण्मयं सौम्यं न सौरं नाग्निसम्भवम् ॥ ४॥
न तडिच्चन्द्रसदृशमनौपम्यं महेश्वरम् ।
तदा तेजांसि सर्वाणि तस्मिंल्लीनानि शङ्करे ॥ ५॥
न तद्व्योमं महत्तेजो व्यक्तान्तश्चाभवत्ततः ।
रुद्रसाधारणं चैव चिह्नितं विकृताकृति ॥ ६॥
ततस्संहाररूपेण सुव्यक्तं परमेश्वरः ।
पश्यतां सर्वदेवानां जयशब्दादिमङ्गलैः ॥ ७॥
सहस्रबाहुर्जटिलश्चन्द्रार्द्धकृतशेखरः ।
समृद्धोग्रशरीरेण पक्षाभ्यां चञ्चुना द्विजः ॥ ८॥
अतितीक्ष्णो महादंष्ट्रो वज्रतुल्यनखायुधः ।
कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसन्निभः ॥ ९॥
युगान्तोद्यतजीमूतभीमगम्भीरनिःस्वनः ।
महाकुपितकृत्याग्निव्यावृत्तनयनत्रयः ॥ १०॥
स्पष्टदंष्ट्राधरोष्ठश्च हुङ्कारैः संयुतो हरः ।
ईदृग्विधस्वरूपश्च ह्युग्र आविर्बभूव ह ॥ ११॥
हरिस्तद्दर्शनादेव विनष्टबलविक्रमः ।
बिभ्रद्धामसहस्रांशोरधः खद्योतविभ्रमम् ॥ १२॥
अथ विभ्रम्य पक्षाभ्यां नाभिपादान्विदारयन् ।
पादान्बबन्ध पुच्छेन बाहुभ्यां बाहुमण्डलम् ॥ १३॥
भिन्दन्नुरसि बाहुभ्यां निजग्राह हरो हरिम् ।
ततो जगाम गगनं देवैस्सह महर्षिभिः ॥ १४॥
सहसैवाभयाद्विष्णुं स हि श्येन इवोरगम् ।
उत्क्षिप्योत्क्षिप्य सङ्गृह्य निपात्य च निपात्य च ॥ १५॥
उड्डीयोड्डीय भगवान्पक्षघातविमोहितम् ।
हरीं हरस्तं वृषभं विवेशानन्त ईश्वरः ॥ १६॥
अनुयान्तं सुराः सर्वे नमोवाक्येन तुष्टुवुः ।
प्रणेमुः सादरं प्रीत्या ब्रह्माद्याश्च मुनीश्वराः ॥ १७॥
नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ।
तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः ॥ १८॥
नाम्नामष्टशतेनैव स्तुत्वा तं मृडमेव च ।
पुनश्च प्रार्थयामास नृसिंहः शरभेश्वरम् ॥ १९॥
यदा यदा ममाज्ञेयं मतिः स्याद्गर्वदूषिता ।
तदा तदाऽपनेतव्या त्वयैव परमेश्वर ॥ २०॥
नन्दीश्वर उवाच ।
एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी ।
नत्वाशक्तोऽभवद्विष्णुर्जीवितान्तपराजितः ॥ २१॥
तद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम् ।
शक्तियुक्तं तदीयाङ्गं वीरभद्रः क्षणात्ततः ॥ २२॥
नन्दीश्वर उवाच ।
अथ ब्रह्मादयो देवाः शारभं रूपमास्थितम् ।
तुष्टुवुः शङ्करं देवं सर्वलोकैकशङ्करम् ॥ २३॥
॥ देवा ऊचुः ।
ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ।
दितिजाद्याः सम्प्रसूताः त्वत्तः सर्वे महेश्वर ॥ २४॥
ब्रह्मविष्णुमहेन्द्रांश्च सूर्याद्यानसुरान्सुरान् ।
त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः ॥ २५॥
यतो हरसि संसारं हर इत्युच्यते बुधैः ।
निगृहीतो हरिर्यस्माद्धर इत्युच्यते बुधैः ॥ २६॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।
अतोऽस्मान्पाहि भगवन् सुरान् दानैरभीप्सितैः ॥ २७॥
त्वं महापुरुषः शम्भुः सर्वेशः सुरनायकः ।
निःस्वात्मा निर्विकारात्मा परब्रह्म सतां गतिः ॥ २८॥
दीनबन्धुर्दयासिन्धुरद्भुतोतिः परात्मदृक् ।
प्राज्ञो विराट् विभुः सत्यः सच्चिदानन्दलक्षणः ॥ २९॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य वचः शम्भुर्देवानां परमेश्वरः ।
उवाच तान् सुरान्देवामहर्षींश्च पुरातनान् ॥ ३०॥
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
एक एव तदा विष्णुः शिवे लीनो न चान्यथा ॥ ३१॥
एको विष्णुर्नृसिंहात्मा सदर्पश्च महाबलः ।
जगत्संहारकरणे प्रवृत्तो नरकेसरी ॥ ३२॥
प्रार्थनीयो नमस्तस्मै मद्भक्तैः सिद्धिकारिभिः ।
मद्भक्तप्रवरश्चैव मद्भक्तवरदायकः ॥ ३३॥
नन्दीश्वर उवाच ।
एतावदुक्त्वा भगवान् पक्षिराजो महाबलः ।
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ॥ ३४॥
वीरभद्रोऽपि भगवान्गणाध्यक्षो महाबलः ।
नृसिंहकृत्तिं निष्कृष्य समादाय ययौ गिरिम् ॥ ३५॥
नृसिंहकृत्तिवसनस्तदाप्रभृति शङ्करः ।
तद्वक्त्रं मुण्डमालायां नायकत्वेन कल्पितम् ॥ ३६॥
ततो देवा निरातङ्काः कीर्तयन्तः कथामिमाम् ।
विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम् ॥ ३७॥
य इदं परमाख्यानं पुण्यं वेदरसान्वितम् ।
पठति शृणुयाच्चैव सर्वान्कामानवाप्नुयात् ॥ ३८॥
धन्यं यशस्यमायुष्यमारोग्यम्पुष्टिवर्द्धनम् ।
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३९॥
दुःखप्रशमनं वाञ्छासिद्धिदं मङ्गलालयम् ।
अपमृत्युहरं बुद्धिप्रदं शत्रुविनाशनम् ॥ ४०॥
इदं तु शरभाकारं परं रूपं पिनाकिनः ।
प्रकाशनीयं भक्तेषु शङ्करस्य चरेषु वै ॥ ४१॥
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः ।
नवधाभक्तिदं दिव्यमन्तःकरणबुद्धिदम् ॥ ४२॥
शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ।
पठेत्प्रतिष्ठाकाले तु शिवसन्निधिकारणम् ॥ ४३॥
चौरव्याघ्रनृसिंहात्मकृतराजभयेषु च ।
अन्येषूत्पातभूकम्पदस्य्वादिपांसुवृष्टिषु ॥ ४४॥
उल्कापाते महावाते विनावृष्ट्यतिवृष्टिषु ।
पठेद्यः प्रयतो विद्वान् शिवभक्तो दृढव्रतः ॥ ४५॥
यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ।
रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत् ॥ ४६॥
रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ।
ततः सायुज्यमाप्नोति शिवस्य कृपया मुने ॥ ४७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ३.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१३. त्रयोदशोऽध्यायः । गृहपत्यवतारवर्णनम् १ ।
नन्दीश्वर उवाच ।
शृणु ब्रह्मसुत प्रीत्या चरितं शशिमौलिनः ।
सोऽवतीर्णो यथा प्रीत्या विश्वानरगृहे शिवः ॥ १॥
नाम्ना गृहपतिः सोऽभूदग्निलोकपतिर्मुने ।
अग्निरूपस्तैजसश्च सर्वात्मा परमः प्रभुः ॥ २॥
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ।
पुरारिभक्तः पुण्यात्माभवद्विश्वानरो मुनिः ॥ ३॥
ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतः सदा ।
शाण्डिल्यगोत्रः शुचिमान्ब्रह्मतेजोनिधिर्वशी ॥ ४॥
विज्ञाताखिलशास्त्रार्थः सदाचाररतः सदा ।
शैवाचारप्रवीणोऽति लौकिकाचारविद्वरः ॥ ५॥
चित्ते विचार्य गृहिणीगुणान्विश्वानरः शुभान् ।
उदुवाह विधानेन स्वोचितां कुलकन्यकाम् ॥ ६॥
अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ।
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ॥ ७॥
एवं बहुतिथे काले गते तस्याग्रजन्मनः ।
भार्या शुचिष्मती नाम भर्तारं प्राह सुव्रता ॥ ८॥
नाथ भोगा मया सर्वे भुक्ता वै त्वत्प्रसादतः ।
स्त्रीणां समुचिता ये स्युः त्वां समेत्य मुदावहाः ॥ ९॥
एवं मे प्रार्थितं नाथ चिराय हृदि संस्थितम् ।
गृहस्थानां समुचितं त्वमेतद्दातुमर्हसि ॥ १०॥
विश्वानर उवाच ।
किमदेयं हि सुश्रोणि तव प्रियहितैषिणी ।
तत्प्रार्थय महाभागे प्रयच्छाम्यविलम्बितम् ॥ ११॥
महेशितुः प्रसादेन मम किञ्चिन्न दुर्लभम् ।
इहामुत्र च कल्याणि सर्वकल्याणकारिणः ॥ १२॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य वचः पत्युस्तस्य सा पतिदेवता ।
उवाच हृष्टवदना करौ बद्ध्वा विनीतिका ॥ १३॥
शुचिष्मत्युवाच ।
वरयोग्यास्मि चेन्नाथ यदि देयो वरो मम ।
महेशसदृशं पुत्रं देहि नान्यं वरं वृणे ॥ १४॥
नन्दीश्वर उवाच ।
इति तस्या वचः श्रुत्वा ब्राह्मणः स शुचिव्रतः ।
क्षणं समाधिमाधाय हृद्येतत्समचिन्तयत् ॥ १५॥
अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ।
मनोरथपथाद्दूरमस्तु वा स हि सर्वकृत् ॥ १६॥
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ।
व्याहृतं कोऽन्यथा कर्तुमुत्सहेत भवेदिदम् ॥ १७॥
इति सञ्चिन्त्य स मुनिर्विश्वानर उदारधीः ।
ततः प्रोवाच तां पत्नीमेकपत्नीव्रते स्थितः ॥ १८॥
नन्दीश्वर उवाच ।
इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः ।
यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधितिष्ठति ॥ १९॥
प्राप्य वाराणसीं तूर्णं दृष्ट्वा तां मणिकर्णिकाम् ।
तत्याज तापत्रितयमपि जन्मशतार्जितम् ॥ २०॥
दृष्ट्वा सर्वाणि लिङ्गानि विश्वेशप्रमुखानि च ।
स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥ २१॥
नत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ।
सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥ २२॥
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।
आदिकेशवमुख्यांश्च केशवं परितोष्य च ॥ २३॥
लोलार्कमुखसूर्यांश्च प्रणम्य स पुनः पुनः ।
कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः ॥ २४॥
सहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ।
महापूजोपचारैश्च लिङ्गान्यभ्यर्च्य भक्तितः ॥ २५॥
असकृच्चिन्तयामास किं लिङ्गं क्षिप्रसिद्धिदम् ।
यत्र निश्चलतामेति तपस्तनयकाम्यया ॥ २६॥
क्षणं विचार्य स मुनिरिति विश्वानरः सुधीः ।
क्षिप्रं पुत्रप्रदं लिङ्गं वीरेशं प्रशशंस ह ॥ २७॥
असङ्ख्याताः सहस्राणि सिद्धाः सिद्धिं गतास्ततः ।
सिद्धलिङ्गमिति ख्यातं तस्माद्वीरेश्वरं परम् ॥ २८॥
वीरेश्वरं महालिङ्गमब्दमभ्यर्च्य भक्तितः ।
आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः ॥ २९॥
अहमप्यत्र वीरेशं समाराध्य त्रिकालतः ।
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ॥ ३०॥
नन्दीश्वर उवाच ।
इति कृत्वा मतिं धिरो विप्रो विश्वानरः कृती ।
चन्द्रकूपजले स्नात्वा जग्राह नियमं व्रती ॥ ३१॥
एकाहारोऽभवन्मासं मासं नक्ताशनोऽभवत् ।
अयाचिताशनो मासं मासं त्यक्ताशनः पुनः ॥ ३२॥
पयोव्रतोऽभवन्मासं मासं शाकफलाशनः ।
मासं मुष्टितिलाहारो मासं पानीयभोजनः ॥ ३३॥
पञ्चगव्याशनो मासं मासं चान्द्रायणव्रती ।
मासं कुशाग्रजलभुग्मासं श्वसनभक्षणः ॥ ३४॥
एवमब्दमितं कालं तताप स तपोऽद्भुतम् ।
त्रिकालमर्चयद्भक्त्या वीरेशं लिङ्गमुत्तमम् ॥ ३५॥
अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ।
प्रत्यूष एव वीरेशं यावदायाति स द्विजः ॥ ३६॥
तावद्विलोकयाञ्चक्रे मध्ये लिङ्गं तपोधनः ।
विभूतिभूषणं बालमष्टवर्षाकृतिं शिशुम् ॥ ३७॥
आकर्णायतनेत्रं च सुरक्तदशनच्छदम् ।
चारुपिङ्गजटामौलिं नग्न प्रहसिताननम् ॥ ३८॥
शैशवोचितनेपथ्यधारिणं चितिधारिणम् ।
पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया ॥ ३९॥
तमालोक्य मुदं प्राप्य रोमकञ्चुकितो मुनिः ।
प्रोच्चचार हृदालापान्नमोऽस्त्विति पुनः पुनः ॥ ४०॥
अभिलाषप्रदैः पद्यैरष्टभिर्बालरूपिणम् ।
तुष्टाव परमानन्दं शम्भुं विश्वानरः कृती ॥ ४१॥
विश्वानर उवाच ।
एकं ब्रह्मैवाद्वितीयं समस्तं
सत्यं सत्यं नेह नानास्ति किञ्चित् ।
एको रुद्रो न द्वितीयोऽवतस्थे
तस्मादेकं त्वां प्रपद्ये महेशम् ॥ ४२॥
कर्ता हर्त्ता त्वं हि सर्वस्य शम्भो
नानारूपेष्वेकरूपोऽप्यरूपः ।
यद्वत्प्रत्यग्धर्म एकोऽप्यनेक-
स्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ ४३॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं
नैरः पूरस्तन्मृगाख्ये मरीचौ ।
यद्यत्सद्वद्विष्वगेव प्रपञ्चो
यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥ ४४॥
तोये शैत्यं दाहकत्वं च वह्नौ
तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्येऽपि सर्पि-
र्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४५॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्र-
स्यघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ।
व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः
कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ ४६॥
नो वेद त्वामीश साक्षाद्धि वेदो
नो वा विष्णुर्नो विधाताखिलस्य ।
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा
भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ४७॥
नो ते गोत्रं नेश जन्मापि नाख्या
नो वा रूपं नैव शीलं न देशः ।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः
सर्वान्कामान्पूरयेस्त्वं भजे त्वाम् ॥ ४८॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे
त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवा त्वं च बाल-
स्तत्त्वं यत्किं नान्यतस्त्वां नतोऽहम् ॥ ४९॥
नन्दीश्वर उवाच ।
स्तुत्वेति विप्रो निपपात भूमौ
सम्बद्धपाणिर्भवतीह यावत् ।
तावत्स बालोऽखिलवृद्धवृद्धः
प्रोवाच भूदेवमतीव हृष्टः ॥ ५०॥
बाल उवाच ।
विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै ।
तोषितः सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ॥ ५१॥
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यब्रवीन्मुनिश्रेष्ठः शङ्करं बालरूपिणम् ॥ ५२॥
विश्वानर उवाच ।
महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ।
सर्वान्तरात्मा भगवान् शर्वः सर्वप्रदो भवान् ॥ ५३॥
याच्ञां प्रति नियुक्तं मां किं ब्रूषे दैन्यकारिणीम् ।
इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ॥ ५४॥
नन्दीश्वर उवाच ।
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ।
शुचिः शुचिव्रतस्याथ शुचिं स्मित्वाब्रवीच्छिशुः ॥ ५५॥
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥ ५६॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ ५७॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
अब्दत्रिकालपठनात्कामदं शिवसन्निधौ ॥ ५८॥
एतत्स्तोत्रप्रपठनं पुत्रपौत्रधनप्रदम् ।
सर्वशान्तिकरं चापि सर्वापत्तिविनाशनम् ॥ ५९॥
स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः ।
सर्वस्तोत्रसमं ह्येतत्सर्वकामप्रदं सदा ॥ ६०॥
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ।
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ॥ ६१॥
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥ ६२॥
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ।
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ॥ ६३॥
नन्दीश्वर उवाच ।
इत्युक्त्वान्तर्दधे शम्भुर्बालरूपः सतां गतिः ।
सोऽपि विश्वानरो विप्रो हृष्टात्मा स्वगृहं ययौ ॥ ६४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम त्रयोदशोऽध्यायः ॥ ३.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१४. चतुर्दशोऽध्यायः । गृहपत्यवतारवर्णनम् २ ।
नन्दीश्वर उवाच ।
स विप्रो गृहमागत्य महाहर्षसमन्वितः ।
प्रियायै कथयामास तद्वृत्तान्तमशेषतः ॥ १॥
तच्छ्रुत्वा विप्रपत्नी सा मुदं प्राप शुचिष्मती ।
अतीव प्रेमसंयुक्ता प्रशशंस विधिं निजम् ॥ २॥
अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह ।
विधिवद् विहिते तेन गर्भाधानाख्यकर्मणि ॥ ३॥
ततः पुंसवनं तेन स्पन्दनात्प्राग्विपश्चिता ।
गृह्योक्तविधिना सम्यक् कृतं पुंस्त्वविवृद्धये ॥ ४॥
सीमन्तोऽथाष्टमे मासे गर्भरूपसमृद्धिकृत् ।
सुखप्रसवसिद्धौ च तेनाकरि क्रियाविदा ॥ ५॥
अथातः शुभतारासु ताराधिपवराननः ।
केन्द्रे गुरौ शुभे लग्ने सुग्रहेषु युगेषु च ॥ ६॥
अरिष्टदीपनिर्वाणः सर्वारिष्टविनाशकृत् ।
तनयो नाम तस्यां तु शुचिष्मत्यां बभूव ह ॥ ७॥
शर्वः समस्तसुखदो भूर्भुवःस्वर्न्निवासिनाम् ।
गन्धवाहनवाहाश्च दिग्वधूर्मुखवाससः ॥ ८॥
इष्टगन्धप्रसूनौघैर्ववृषुस्ते घनाघनाः ।
देवदुन्दुभयो नेदुः प्रसेदुः सर्वतो दिशः ॥ ९॥
परितः सरितः स्वच्छा भूतानां मानसैः सह ।
तमोऽताम्यत्तु नितरां रजोऽपि विरजोऽभवत् ॥ १०॥
सत्त्वाः सत्त्वसमायुक्ताः सुधावृष्टिर्बभूव वै ।
कल्याणी सर्वथा वाणी प्राणिनः प्रियवत्यभूत् ॥ ११॥
रम्भामुख्या अप्सरसो मङ्गलद्रव्यपाणयः ।
विद्याधर्यश्च किन्नर्यस्तथामर्यः सहस्रशः ॥ १२॥
गन्धर्वोरगयक्षाणां सुमानियः शुभस्वराः ।
गायन्त्यो मङ्गलं गीतं तत्राजग्मुरनेकशः ॥ १३॥
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।
वसिष्ठः कश्यपोऽगस्त्यो विभाण्डो माण्डवीसुतः ॥ १४॥
लोमशो रोमचरणो भरद्वाजोऽथ गौतमः ।
भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ॥ १५॥
आपस्तम्बो याज्ञवल्क्यो दक्षवाल्मीकिमुद्गलाः ।
शातातपश्च लिखितः शिलादः शङ्ख उञ्छभुक् ॥ १६॥
जमदग्निश्च संवर्तो मतङ्गो भरतोंऽशुमान् ।
व्यासः कात्यायनः कुत्सः शौनकः सुश्रुतः शुकः ॥ १७॥
ऋष्यशृङ्गोऽथ दुर्वासाः शुचिर्नारदतुम्बुरु ।
उत्तङ्को वामदेवश्च पवनोऽसितदेवलौ ॥ १८॥
सालङ्कायनहारीतौ विश्वामित्रोऽथ भार्गवः ।
मृकण्डः सह पुत्रेण पर्वतो दारुकस्तथा ॥ १९॥
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः ।
तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम् ॥ २०॥
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ।
नन्दिभृङ्गिसमायुक्तो गौर्या सह वृषध्वजः ॥ २१॥
महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः ।
रत्नान्यादाय बहुशः ससरित्का महाब्धयः ॥ २२॥
स्थावरा जङ्गमं रूपं धृत्वायाताः सहस्रशः ।
महामहोत्सवे तस्मिन् बभूवाकालकौमुदी ॥ २३॥
जातकर्म स्वयं तस्य कृतवान्विधिरानतः ।
श्रुतिं विचार्य तद्रूपं नाम्ना गृहपतिस्त्वयम् ॥ २४॥
इति नाम ददौ तस्मै देयमेकादशेऽहनि ।
नामकर्मविधानेन तदर्थं श्रुतिमुच्चरन् ॥ २५॥
चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च ।
समयाद्धं समारुह्य सर्वेषां च पितामहः ॥ २६॥
कृत्वा बालोचितां रक्षां लौकिकीं गतिमाश्रितः ।
आरुह्य यानं स्वं धाम हरोऽपि हरिणा ययौ ॥ २७॥
अहो रूपमहो तेजस्त्वहो सर्वाङ्गलक्षणम् ।
अहो शुचिष्मतीभाग्यमाविरासीत्स्वयं हरः ॥ २८॥
अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो ।
स्वयमाविरभूद् रुद्रो यतो रुद्रस्तदर्चितः ॥ २९॥
इति स्तुवन्तस्तेऽन्योऽन्यं सम्प्रहृष्टतनूरुहः ।
विश्वानरं समापृच्छ्य जग्मुः सर्वे यथागतम् ॥ ३०॥
अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः ।
पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी ॥ ३१॥
अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा ।
अपुत्रस्य तपश्छिन्नं नो पवित्रत्यपुत्रतः ॥ ३२॥
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ।
न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित् ॥ ३३॥
निष्क्रमोऽथ चतुर्थेऽस्य मासि पित्रा कृतो गृहात् ।
अन्नप्राशनमब्दार्द्धे चूडाब्दे चार्थवत्कृता ॥ ३४॥
कर्णवेधं ततः कृत्वा श्रवणर्क्षे स कर्मवित् ।
ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतं ददौ ॥ ३५॥
उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः ।
त्र्यब्दं वेदान्स विधिनाध्यैष्ट साङ्गपदक्रमान् ॥ ३६॥
विद्याजातं समस्तं च साक्षिमात्रं गुरोर्मुखात् ।
विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ ३७॥
ततोऽथ नवमे वर्षे पित्रोः शुश्रूषणे रतम् ।
वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ॥ ३८॥
विश्वानरोटजं प्राप्य देवर्षिस्तं तु कौतुकी ।
अपृच्छत्कुशलं तत्र गृहीतार्घासनः क्रमात् ॥ ३९॥
ततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ।
विश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ॥ ४०॥
नन्दीश्वर उवाच ।
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ।
प्रणम्य नारदं श्रीमान् भक्त्या प्रह्व उपाविशत ॥ ४१॥
नारद उवाच ।
वैश्वानर समभ्येहि ममोत्सङ्गे निषीद भोः ।
लक्षणानि परीक्षेऽहं पाणिं दर्शय दक्षिणम् ॥ ४२॥
ततो दृष्ट्वा तु सर्वं हि तालुजिह्वादि नारदः ।
विश्वानरं समवदच्छिवप्रेरणया सुधीः ॥ ४३॥
नारद उवाच ।
विश्वानर मुने वच्मि शृणु पुत्राङ्कमादरात् ।
सर्वाङ्गस्वङ्कवान्पुत्रो महालक्षणवानयम् ॥ ४४॥
किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ।
सम्पूर्णनिर्मलकलं पालयेद्विधुवद्विधिः ॥ ४५॥
तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः ।
गुणोऽपि दोषतां याति वक्रीभूते विधातरि ॥ ४६॥
शङ्केऽस्य द्वादशे वर्षे प्रत्यूहो विद्युदग्नितः ।
इत्युक्त्वा नारदोऽगच्छद्देवलोकं यथागतम् ॥ ४७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारोपाख्याने गृहपत्यवतारवर्णनं नाम चतुर्दशोऽध्यायः ॥ ३.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१५. पञ्चदशोऽध्यायः । गृहपत्यवतारवर्णनम् ३ ।
नन्दीश्वर उवाच ।
विश्वानरः सपत्नीकः तच्छ्रुत्वा नारदेरितम् ।
तदेवं मन्यमानोऽभूद्वज्रपातं सुदारुणम् ॥ १॥
हा हतोऽस्मीति वचसा हृदयं समताडयत् ।
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥ २॥
शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुस्सहम् ।
अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ॥ ३॥
श्रुत्वार्तनादमिति विश्वनरोऽपि मोहं
हित्वोत्थितः किमिति किं त्विति किं किमेतत् ।
उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः
प्राणोऽन्तरात्मनिलयस्सकलेन्द्रियेशः ॥ ४॥
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ।
स्मित्वोवाच गृहपतिः सबालः शङ्करांशजः ॥ ५॥
गृहपतिरुवाच ।
हे मातस्तात किं जातं कारणं तद्वदाधुना ।
किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक् कुतो हि वाम् ॥ ६॥
न मां कृतवपुस्त्राणं भवच्चरणरेणुभिः ।
कालः कलयितुं शक्तो वराकी चञ्चलाल्पिका ॥ ७॥
प्रतिज्ञां शृणुतां तातौ यदि वां तनयो ह्यहम् ।
करिष्येऽहं तथा येन मृत्युस्त्रस्तो भविष्यति ॥ ८॥
मृत्युञ्जयं समाराध्य सर्वज्ञं सर्वदं सताम् ।
जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम् ॥ ९॥
नन्दीश्वर उवाच ।
इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती ।
अकालामृतवर्षौघैर्गततापौ तदोचतुः ॥ १०॥
द्विजदम्पती ऊचतुः ।
पुनर्ब्रूहि पुनर्ब्रूहि कीदृक् कीदृक् पुनर्वद ।
कालः कलयितुं नालं वराकी चञ्चलास्ति का ॥ ११॥
आवयोस्तापनाशाय महोपायस्त्वयेरितः ।
मृत्युञ्जयाख्यदेवस्य समाराधनलक्षणः ॥ १२॥
तद्वच्च शरणं शम्भोर्नातः परतरं हि तत् ।
मनोरथपथातीतकारिणः पापहारिणः ॥ १३॥
किं न श्रुतं त्वया तात श्वेतकेतुं यथा पुरा ।
पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ॥ १४॥
शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ।
शिवो निजजनं चक्रे नन्दिनं विश्वनन्दिनम् ॥ १५॥
क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ।
पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ॥ १६॥
जलन्धरं महादर्पं हृतत्रैलोक्यसम्पदम् ।
रुचिराङ्गुष्ठरेखोत्थचक्रेण निजघान यः ॥ १७॥
य एकेषुनिपातोत्थज्वलनैस्त्रिपुरम्पुरा ।
त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना ॥ १८॥
कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ।
निनायानङ्गपदवीं वीक्ष्यमाणेष्वजादिषु ॥ १९॥
तं ब्रह्माद्यैककर्तारं मेघवाहनमच्युतम् ।
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ॥ २०॥
नन्दीश्वर उवाच ।
पित्रोरनुज्ञां प्राप्येति प्रणम्य चरणौ तयोः ।
प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ ॥ २१॥
सम्प्राप्य काशीं दुष्प्रापां ब्रह्मनारायणादिभिः ।
महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम् ॥ २२॥
स्वर्धुन्या हारयष्ट्येव राजितां कण्ठभूमिषु ।
विचित्रगुणशालिन्या हरपत्न्या विराजिताम् ॥ २३॥
तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ।
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं प्रभुम् ॥ २४॥
साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितः सुधीः ।
त्रैलोक्यप्राणसन्त्राणकारिणं प्रणनाम ह ॥ २५॥
आलोक्यालोक्य तल्लिङ्गं तुतोष हृदये मुहुः ।
परमानन्दकन्दाढ्यं स्फुटमेतन्न संशयः ॥ २६॥
अहो न मत्तो धन्योऽस्ति त्रैलोक्ये सचराचरे ।
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥ २७॥
मम भाग्योदयायैव नारदेन महर्षिणा ।
पुरागत्य तथोक्तं यत्कृतकृत्योऽस्म्यहं ततः ॥ २८॥
नन्दीश्वर उवाच ।
इत्यानन्दामृतरसैर्विधाय स हि पारणम् ।
ततः शुभेऽह्नि संस्थाप्य लिङ्गं सर्वहितप्रदम् ॥ २९॥
जग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ।
अष्टोत्तरशतैः कुम्भैः पूर्णैर्गङ्गाऽम्भसा शुभैः ॥ ३०॥
संस्नाप्य वाससा पूतैः पूतात्मा प्रत्यहं शिवम् ।
नीलोत्पलमयीं मालां समर्पयति सोऽन्वहम् ॥ ३१॥
अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ।
स पक्षे वाथ वा मासे कन्दमूलफलाशनः ॥ ३२॥
शीर्णपर्णाशनैर्धीरः षण्मासं सम्बभूव सः ।
षण्मासं वायुभक्षोऽभूत्षण्मासं जलबिन्दुभुक् ॥ ३३॥
एवं वर्षद्वयं तस्य व्यतिक्रान्तं महात्मनः ।
शिवैकमनसो विप्रास्तप्यमानस्य नारद ॥ ३४॥
जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ।
सत्यं करिष्यन्निव तमभ्यगात्कुलिशायुधः ॥ ३५॥
उवाच च वरं ब्रूहि दद्मि त्वन्मनसि स्थितम् ।
अहं शतक्रतुर्विप्र प्रसन्नोऽस्मि शुभव्रतैः ॥ ३६॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य महेन्द्रस्य वाक्यं मुनिकुमारकः ।
उवाच मधुरं धीरः कीर्तयन्मधुराक्षरम् ॥ ३७॥
गृहपतिरुवाच ।
मघवन् वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ।
नाहं वृणे वरं त्वत्तः शङ्करो वरदोऽस्ति मे ॥ ३८॥
इन्द्र उवाच ।
न मत्तः शङ्करस्त्वन्यो देवदेवोऽस्म्यहं शिशो ।
विहाय बालिशत्वं त्वं वरं याचस्व मा चिरम् ॥ ३९॥
गृहपतिरुवाच ।
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ।
न प्रार्थये पशुपतेरन्यं देवान्तरं स्फुटम् ॥ ४०॥
नन्दीश्वर उवाच ।
इति तस्य वचः श्रुत्वा क्रोधसंरक्तलोचनः ।
उद्यम्य कुलिशं घोरं भीषयामास बालकम् ॥ ४१॥
स दृष्ट्वा बालको वज्रं विद्युज्ज्वालासमाकुलम् ।
स्मरन्नारदवाक्यं च मुमूर्च्छ भयविह्वलः ॥ ४२॥
अथ गौरीपतिः शम्भुराविरासीत्तमोनुदः ।
उत्तिष्ठोत्तिष्ठ भद्रं ते स्पर्शैः सञ्जीवयन्निव ॥ ४३॥
उन्मील्य नेत्रकमले सुप्ते इव दिनक्षये ।
अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम् ॥ ४४॥
भाले लोचनमालोक्य कण्ठेकालं वृषध्वजम् ।
वामाङ्गसन्निविष्टाद्रितनयं चन्द्रशेखरम् ॥ ४५॥
कपर्देन विराजन्तं त्रिशूलाजगवायुधम् ।
स्फुरत्कर्पूरगौराङ्गं परिणद्धगजाजिनम् ॥ ४६॥
परिज्ञाय महादेवं गुरुवाक्यत आगमात् ।
हर्षबाष्पाकुलासन्नकण्ठरोमाञ्चकञ्चुकः ॥ ४७॥
क्षणं च गिरिवत्तस्थौ चित्रकृत्रिमपुत्रकः ।
यथा तथा सुसम्पन्नो विस्मृत्यात्मानमेव च ॥ ४८॥
न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तुमेव च ।
यदा स न शशाकालं तदा स्मित्वाह शङ्करः ॥ ४९॥
ईश्वर उवाच ।
शिशो गृहपते शक्राद्वज्रोद्यतकरादहो ।
ज्ञातं भीतोऽसि मा भैषीर्जिज्ञासा ते मया कृता ॥ ५०॥
मम भक्तस्य नो शक्रो न वज्रं चान्तकोऽपि च ।
प्रभवेदिन्द्ररूपेण मयैव त्वं बिभीषितः ॥ ५१॥
वरं ददामि ते भद्र त्वमग्निपदभाग्भव ।
सर्वेषामेव देवानां वरदस्त्वं भविष्यसि ॥ ५२॥
सर्वेषामेव भूतानां त्वमग्नेऽन्तश्चरो भव ।
धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि ॥ ५३॥
त्वयेदं स्थापितं लिङ्गं तव नाम्ना भविष्यति ।
अग्नीश्वर इति ख्यातं सर्वतेजोविबृंहणम् ॥ ५४॥
अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निभिः ।
अग्निमान्द्यभयं नैव नाकालमरणं क्वचित् ॥ ५५॥
अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ।
अन्यत्रापि मृतो दैवाद्वह्निलोके महीयते ॥ ५६॥
नन्दीश्वर उवाच ।
इत्युक्त्वानीय तद्बन्धून्पित्रोश्च परिपश्यतोः ।
दिक्पतित्वेऽभिषिच्याग्निं तत्र लिङ्गे शिवोऽविशत् ॥ ५७॥
इत्थमग्न्यवतारस्ते वर्णितो मे जनार्दनः ।
नाम्ना गृहपतिस्तात शङ्करस्य परात्मनः ॥ ५८॥
चित्रहोत्रपुरी रम्या सुखदार्चिष्मती वरा ।
जातवेदसि ये भक्ता ते तत्र निवसन्ति वै ॥ ५९॥
अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेन्द्रियाः ।
स्त्रियो वा सत्त्वसम्पन्नास्ते सर्वेऽप्यग्नितेजसः ॥ ६०॥
अग्निहोत्ररता विप्राः स्थापिता ब्रह्मचारिणः ।
पश्चाग्निवर्त्तिनोऽप्येवमग्निलोकेऽग्निवर्चसः ॥ ६१॥
शीते शीतापनुत्त्यै यस्त्वेधोभारान्प्रयच्छति ।
कुर्यादग्नीष्टिकां वाथ स वसेदग्निसन्निधौ ॥ ६२॥
अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः ।
अशक्तः प्रेरयेदन्यं सोऽग्निलोके महीयते ॥ ६३॥
अग्निरेको द्विजातीनां निःश्रेयसकरः परः ।
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ॥ ६४॥
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ।
पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः ॥ ६५॥
अन्तरात्मा ह्ययं साक्षान्निश्चयो ह्याशुशुक्षणिः ।
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ॥ ६६॥
तैजसी शाम्भवी मूर्तिः प्रत्यक्षा दहनात्मिका ।
कर्त्री हर्त्री पालयित्री विनैतां किं विलोक्यते ॥ ६७॥
चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः ।
अन्धे तमोमये लोके विनैनं कः प्रकाशनः ॥ ६८॥
धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ।
एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः ॥ ६९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम पञ्चदशोऽध्यायः ॥ ३.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१६. षोडशोऽध्यायः । यक्षेश्वरावतारवर्णनम् ।
नन्दीश्वर उवाच ।
यक्षेश्वरावतारं च शृणु शम्भोर्मुनीश्वर ।
गर्विणं गर्वहन्तारं सतां भक्तिविवर्द्धनम् ॥ १॥
पुरा देवाश्च दैत्याश्च पीयूषार्थं महाबलाः ।
क्षीरोदधिं ममन्थुस्ते सुकृतस्वार्थसन्धयः ॥ २॥
मथ्यमानेऽमृते पूर्वं क्षीराब्धेः सुरदानवैः ।
अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ॥ ३॥
तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ।
विद्रुत्य तरसा तात शम्भोस्ते शरणं ययुः ॥ ४॥
दृष्ट्वा तं शङ्करं सर्वे सर्वदेवशिखामणिम् ।
प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ॥ ५॥
ततः प्रसन्नो भगवान् शङ्करो भक्तवत्सलः ।
पपौ विषं महाघोरं सुरासुरगणार्दनम् ॥ ६॥
पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ।
रेजे तेनाति स विभुर्नीलकण्ठो बभूव ह ॥ ७॥
ततः सुरासुरगणा ममन्थुः पुनरेव तम् ।
विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः ॥ ८॥
ततो बहूनि रत्नानि निस्सृतानि ततो मुने ।
अमृतं च पदार्थं हि सुरदानवयोर्मुने ॥ ९॥
तं पपुः केवलं देवा नासुराः कृपया हरेः ।
ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम् ॥ १०॥
द्वन्द्वयुद्धं बभूवाथ देवदानवयोर्मुने ।
तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः ॥ ११॥
जगाम सदनं शम्भोः शरण भयविह्वलः ।
सुप्रणम्य च तुष्टाव पाहि पाहीति संवदन् ॥ १२॥
ततः सतामभयदः शङ्करो भक्तवत्सलः ।
दध्रे शिरसि चन्द्रं स विभुः शरणमागतम् ॥ १३॥
अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ।
शङ्करं सकलाधीशं वाग्भिरिष्टाभिरादरात् ॥ १४॥
शम्भुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ।
पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले ॥ १५॥
ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ।
पीत्वामृतं सुराः सर्वे जय प्रापुर्महाबलाः ॥ १६॥
विष्णुप्रभृतयः सर्वे बभूवुश्चातिगर्विताः ।
बलानि चाङ्कुरन्तोऽन्तः शिवमायाविमोहिताः ॥ १७॥
ततः स शङ्करो देवः सर्वाधीशोऽथ गर्वहा ।
यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने ॥ १८॥
सर्वान् दृष्ट्वाच्युतमुखान्देवान्यक्षपतिः स वै ।
महागर्वाढ्यमनसा महेशः प्राह गर्वहा ॥ १९॥
यक्षेश्वर उवाच ।
किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ।
किमु काष्ठाखिलं ब्रुत कारणं मेऽनु पृच्छते ॥ २०॥
देवा ऊचुः ।
अभूदत्र महान्देव रणः परमदारुणः ।
असुरा नाशिताः सर्वेऽवशिष्टा विद्रुता गताः ॥ २१॥
वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ।
अग्रेऽस्माकं कियन्तस्ते दैत्याः क्षुद्रबलाः सदा ॥ २२॥
नन्दीश्वर उवाच ।
इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ।
गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ॥ २३॥
यक्षेश्वर उवाच ।
हे सुरा निखिला यूयं मद्वचः शृणुतादरात् ।
यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ॥ २४॥
गर्वमेनं न कुरुत कर्ता हर्तापरः प्रभुः ।
विस्मृताश्च महेशानं कथयध्वं वृथा बलाः ॥ २५॥
युष्माकं चेत्स हि मदो जानतां स्वबलं महत् ।
मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैः सुराः ॥ २६॥
नन्दीश्वर उवाच ।
इत्युक्त्वैकं तृणं तेषां निचिक्षेप पुरस्ततः ।
जह्रे सर्वमदं यक्षरूप ईशः सतां गतिः ॥ २७॥
अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ।
कृत्वा स्वपौरुषं तत्र स्वायुधानि विचिक्षिपुः ॥ २८॥
तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ।
शिवप्रभावतस्तेषां मूढगर्वापहारिणः ॥ २९॥
अथासीत्तु नभोवाणी देवविस्मयहारिणी ।
यक्षोऽयं शङ्करो देवाः सर्वगर्वापहारकः ॥ ३०॥
कर्ता हर्ता तथा भर्तायमेव परमेश्वरः ।
एतद्बलेन बलिनो जीवाः सर्वेऽन्यथा न हि ॥ ३१॥
अस्य मायाप्रभावाद् वै मोहिताः स्वप्रभुं शिवम् ।
मदतो बुबुधुर्नैवाद्यापि बोधतनुं प्रभुम् ॥ ३२॥
नन्दीश्वर उवाच ।
इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ।
यक्षेश्वरं प्रणेमुश्च तुष्टुवुश्च तमीश्वरम् ॥ ३३॥
देवा ऊचुः ।
देवदेव महादेव सर्वगर्वापहारक ।
यक्षेश्वर महालील माया तेऽत्यद्भुता प्रभो ॥ ३४॥
मोहिता माययाद्यापि तव यक्षस्वरूपिणः ।
सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः ॥ ३५॥
इदानीं ज्ञानमायातं तवैव कृपया प्रभो ।
कर्ता हर्ता च भर्ता च त्वमेवान्यो न शङ्कर ॥ ३६॥
त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ।
निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ॥ ३७॥
यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ।
कृतो मन्यामहे तत्तेऽनुग्रहो हि कृपालुना ॥ ३८॥
अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ।
विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ॥ ३९॥
इत्थं स वर्णितः शम्भोरवतारः सुखावहः ।
यक्षेश्वराख्यः सुखदः सतां तुष्टोऽभयङ्करः ॥ ४०॥
इदमाख्यानममलं सर्वगर्वापहारकम् ।
सतां सुशान्तिदं नित्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ ४१॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ।
सर्वकामानवाप्नोति ततश्च लभते गतिम् ॥ ४२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोऽध्यायः ॥ ३.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१७. सप्तदशोऽध्यायः । शिवदशावतारवर्णनम् ।
शृण्वथो गिरिशस्याद्यावतारान् दशसङ्ख्यकान् ।
महाकालमुखान् भक्त्योपासनाकाण्डसेवितान् ॥ १॥
तत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदः सताम् ।
शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा ॥ २॥
तारनामा द्वितीयश्च ताराशक्तिस्तथैव सा ।
भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ ॥ ३॥
भुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ।
भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम् ॥ ४॥
श्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ।
चतुर्थो भक्तसुखदो भुक्तिमुक्तिफलप्रदः ॥ ५॥
पञ्चमो भैरवः ख्यातः सर्वदा भक्तकामदः ।
भैरवी गिरिजा तत्र सदुपासककामदा ॥ ६॥
छिन्नमस्तकनामासौ शिवः षष्ठः प्रकीर्तितः ।
भक्तकामप्रदा चैव गिरिजा छिन्नमस्तका ॥ ७॥
धूमवान् सप्तमः शम्भुः सर्वकामफलप्रदः ।
धूमवती शिवा तत्र सदुपासककामदा ॥ ८॥
शिवावतारः सुखदो ह्यष्टमो बगलामुखः ।
शक्तिस्तत्र महानन्दा विख्याता बगलामुखी ॥ ९॥
शिवावतारो मातङ्गो नवमः परिकीर्तितः ।
मातङ्गी तत्र शर्वाणी सर्वकामफलप्रदा ॥ १०॥
दशमः कमलः शम्भुर्भुक्तिमुक्तिफलप्रदः ।
कमला गिरिजा तत्र स्वभक्तपरिपालिनी ॥ ११॥
एते दशमिताः शैवा अवताराः सुखप्रदाः ।
भुक्तिमुक्तिप्रदाश्चैव भक्तानां सर्वदा सताम् ॥ १२॥
एते दशावतारा हि शङ्करस्य महात्मनः ।
नानासुखप्रदा नित्यं सेवतां निर्विकारतः ॥ १३॥
एतद्दशावताराणां माहात्म्यं वर्णितं मुने ।
सर्वकामप्रदं ज्ञेयं तन्त्रशास्त्रादिगर्भितम् ॥ १४॥
एतासामादिशक्तीनामद्भुतो महिमा मुने ।
सर्वकामप्रदो ज्ञेयस्तत्रंशास्त्रादिगर्भितः ॥ १५॥
शत्रुमारणकार्यादौ तत्तच्छक्तिः परा मता ।
खलदण्डकरी नित्यं ब्रह्मतेजोविवर्द्धिनी ॥ १६॥
इत्युक्तास्ते मया ब्रह्मन्नवतारा महेशितुः ।
सशक्तिका दशमिता महाकालमुखाः शुभाः ॥ १७॥
शैवपर्वेसु सर्वेषु योऽधीते भक्तितत्परः ।
एतदाख्यानममलं सोऽतिशम्भुप्रियो भवेत् ॥ १८॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।
धनाधिपो हि वैश्यः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १९॥
शाङ्करा निजधर्मस्थाः शृण्वन्तश्चरितं त्विदम् ।
सुखिनः स्युर्विशेषेण शिवभक्ता भवन्तु च ॥ २०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवदशावतारवर्णनं नाम सप्तदशोऽध्यायः ॥ ३.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१८. अष्टादशोऽध्यायः । एकादशावतारवर्णनम् ।
नन्दीश्वर उवाच ।
एकादशवतारान्वै शृण्वथो शाङ्करान्वरान् ।
यान् श्रुत्वा न हि बाध्येत बाधासत्यादिसम्भवा ॥ १॥
पुरा सर्वे सुराः शक्रमुखा दैत्यपराजिताः ।
त्यक्त्वामरावतीं भीत्यापलायन्त निजां पुरीम् ॥ २॥
दैत्यप्रपीडिता देवा जग्मुस्ते कश्यपान्तिकम् ।
बध्वा करान्नतस्कन्धाः प्रणेमुस्तं सुविह्वलम् ॥ ३॥
सुनुत्वा तं सुराः सर्वे कृत्वा विज्ञप्तिमादरात् ।
सर्वं निवेदयामासुः स्वदुःखं तत्पराजयम् ॥ ४॥
ततः स कश्यपस्तात तत्पिता शिवसक्तधीः ।
तदाकर्ण्यामराकं वै दुःखितोऽभून्न चाधिकम् ॥ ५॥
तानाश्वास्य मुनिः सोऽथ धैर्यमाधाय शान्तधीः ।
काशीं जगाम सुप्रीत्या विश्वेश्वरपुरीं मुने ॥ ६॥
गङ्गाम्भसि ततः स्नात्वा कृत्वा तं विधिमादरात् ।
विश्वेश्वरं समानर्च साम्बं सर्वेश्वरं प्रभुम् ॥ ७॥
शिवलिङ्गं सुसंस्थाप्य चकार विपुलं तपः ।
शम्भुमुद्दिश्य सुप्रीत्या देवानां हितकाम्यया ॥ ८॥
महान्कालो व्यतीयाय तपतस्तस्य वै मुने ।
शिवपादाम्बुजासक्तमनसो धैर्यशालिनः ॥ ९॥
अथ प्रादुरभूच्छम्भुर्वरं दातुं तदर्षये ।
स्वपदासक्तमनसे दीनबन्धुः सतां गतिः ॥ १०॥
वरं ब्रूहीति चोवाच सुप्रसन्नो महेश्वरः ।
कश्यपं मुनिशार्दूलं स्वभक्तं भक्तवत्सलः ॥ ११॥
दृष्ट्वाथ तं महेशानं स प्रणम्य कृताञ्जलिः ।
तुष्टाव कश्यपो हृष्टो देवतातः प्रसन्नधीः ॥ १२॥
कश्यप उवाच ।
देवदेव महेशान शरणागतवत्सल ।
सर्वेश्वः परमात्मा त्वं ध्यानगम्योऽद्वयोऽव्ययः ॥ १३॥
बलनिग्रहकर्ता त्वं महेश्वर सतां गतिः ।
दीनबन्धुर्दयासिन्धुर्भक्तरक्षणदक्षधीः ॥ १४॥
एते सुरास्त्वदीया हि त्वद्भक्ताश्च विशेषतः ।
दैत्यैः पराजिताश्चाथ पाहि तान्दुःखितान् प्रभो ॥ १५॥
असमर्थो रमेशोऽपि दुःखदस्ते मुहुर्मुहुः ।
अतः सुरा मच्छरणा वेदयन्तोऽसुखं च तत् ॥ १६॥
तदर्थं देवदेवेश देवदुःखविनाशक ।
तत्पूरितुं तपोनिष्ठां प्रसन्नार्थं तवासदम् ॥ १७॥
शरणं ते प्रपन्नोऽस्मि सर्वथाहं महेश्वर ।
कामं मे पूरय स्वामिन्देवदुःखं विनाशय ॥ १८॥
पुत्रदुःखैश्च देवेश दुःखितोऽहं विशेषतः ।
सुखिनं कुरु मामीश सहायस्त्वं दिवौकसाम् ॥ १९॥
भूत्वा मम सुतो नाथ देवा यक्षाः पराजिताः ।
दैत्यैर्महाबलैः शम्भो सुरानन्दप्रदो भव ॥ २०॥
सदैवास्तु महेशान सर्वलेखसहायकः ।
यथा दैत्यकृता बाधा न बाधेत सुरान्प्रभो ॥ २१॥
नन्दीश्वर उवाच ।
इत्युक्तस्य तु सर्वेशस्तथेति प्रोच्य शङ्करः ।
पश्यतस्तस्य भगवांस्तत्रैवान्तर्दधे हरः ॥ २२॥
कश्यपोऽपि महाहृष्टः स्वस्थानमगमद् द्रुतम् ।
देवेभ्यः कथयामास सर्ववृत्तान्तमादरात् ॥ २३॥
ततः स शङ्करः शर्वः सत्यं कर्तुं स्वकं वचः ।
सुरभ्यां कश्यपाज्जज्ञे एकादशस्वरूपवान् ॥ २४॥
महोत्सवस्तदासीद् वै सर्वं शिवमयं त्वभूत् ।
आसन्हृष्टाः सुराश्चाथ मुनिना कश्यपेन च ॥ २५॥
कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः ।
शास्ताजपादहिर्बुध्न्यश्शम्भुश्चण्डो भवस्तथा ॥ २६॥
एकादशैते रुद्रास्तु सुरभीतनयाः स्मृताः ।
देवकार्यार्थमुत्पन्नाः शिवरूपाः सुखास्पदम् ॥ २७॥
ते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ।
दैत्यान् जघ्नुश्च सङ्ग्रामे देवसाहाय्यकारिणः ॥ २८॥
तद्रुद्रकृपया देवा दैत्यान् जित्वा च निर्भयाः ।
चक्रुः स्वराज्यं सर्वे ते शक्राद्याः स्वस्थमानसाः ॥ २९॥
अद्यापि ते महारुद्राः सर्वे शिवस्वरूपकाः ।
देवानां रक्षणार्थाय विराजन्ते सदा दिवि ॥ ३०॥
ऐशान्यां पुरि ते वासं चक्रिरे भक्तवत्सलाः ।
विरमन्ते सदा तत्र नानालीलाविशारदाः ॥ ३१॥
तेषामनुचरा रुद्राः कोटिशः परिकीर्तिताः ।
सर्वत्र संस्थितास्तत्र त्रिलोकेष्वभिभागशः ॥ ३२॥
इति ते वर्णितास्तातावताराः शङ्करस्य वै ।
एकादशमिता रुद्राः सर्वलोकसुखावहाः ॥ ३३॥
इदमाख्यानममलं सर्वपापप्रणाशकम् ।
धन्यं यशस्यमायुष्यं सर्वकामप्रदायकम् ॥ ३४॥
य इदं शृणुयात्तात श्रावयेद्वै समाहितः ।
इह सर्वसुखं भुक्त्वा ततो मुक्तिं लभेत सः ॥ ३५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां एकादशावतारवर्णनं नामाष्टादशोऽध्यायः ॥ ३.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.१९. एकोनविंशोऽध्यायः । दुर्वासश्चरितवर्णनम् ।
नन्दीश्वर उवाच ।
अथान्यच्चरितं शम्भोः शृणु प्रीत्या महामुने ।
यथा बभूव दुर्वासाः शङ्करो धर्महेतवे ॥ १॥
ब्रह्मपुत्रो बभूवातितपस्वी ब्रह्मवित्प्रभुः ।
अनसूयापतिर्धीमान्ब्रह्माज्ञाप्रतिपालकः ॥ २॥
सुनिर्देशाद् ब्रह्मणो हि सस्त्रीकः पुत्रकाम्यया ।
स त्र्यक्षकुलनामानं ययौ च तपसे गिरिम् ॥ ३॥
प्राणानायम्य विधिवन्निर्विन्ध्यातटिनीतटे ।
तपश्चचार सुमहद् अद्वन्द्वोऽब्दशतं मुनिः ॥ ४॥
य एक ईश्वरः कश्चिदविकारी महाप्रभुः ।
स मे पुत्रवरं दद्यादिति निश्चितमानसः ॥ ५॥
बहुकालो व्यतीयाय तस्मिंस्तपति सत्तपः ।
आविर्बभूव तस्मात्तु शुचिर्ज्वाला महीयसी ॥ ६॥
तयासन्निखिला लोका दग्धप्राया मुनीश्वराः ।
तथा सुरर्षयः सर्वे पीडिता वासवादयः ॥ ७॥
अथ सर्वे वासवाद्या सुराश्च मुनयो मुने ।
ब्रह्मस्थानं ययुः शीघ्रं तज्ज्वालातिप्रपीडिताः ॥ ८॥
नत्वा नुत्वा विधिं देवाः तत्स्वदुःखं न्यवेदयन् ।
ब्रह्मा सह सुरैस्तात विष्णुलोकं ययावरम् ॥ ९॥
तत्र गत्वा रमानाथं नत्वा नुत्वा विधिः सुरैः ।
स्वदुःखं तत्समाचख्यौ विष्णवेऽनन्तकं मुने ॥ १०॥
विष्णुश्च विधिना देवै रुद्रस्थानं ययौ द्रुतम् ।
हरं प्रणम्य तत्रैत्य तुष्टाव परमेश्वरम् ॥ ११॥
स्तुत्वा बहुतया विष्णुः स्वदुःखं च न्यवेदयत् ।
शर्वं ज्वालासमुद्भूतमत्रेश्च तपसः परम् ॥ १२॥
अथ तत्र समेतास्तु ब्रह्मविष्णुमहेश्वराः ।
मुने सम्मन्त्रयाञ्चक्रुरन्योऽन्यं जगतां हितम् ॥ १३॥
तदा ब्रह्मादयो देवास्त्रयस्ते वरदर्षभाः ।
जग्मुस्तदाश्रमं शीघ्रं वरं दातुं तदर्षये ॥ १४॥
स्वचिह्नचिह्नितांस्तान्स दृष्ट्वात्रिर्मुनिसत्तमः ।
प्रणनाम च तुष्टाव वाग्भिरिष्टाभिरादरात् ॥ १५॥
ततः स विस्मितो विप्रस्तानुवाच कृताञ्जलिः ।
ब्रह्मपुत्रो विनीतात्मा ब्रह्मविष्णुहराभिधान् ॥ १६॥
अत्रिरुवाच ।
हे ब्रह्मन् हे हरे रुद्र पूज्यास्त्रिजगतां मताः ।
प्रभवश्चेश्वराः सृष्टिरक्षासंहारकारकाः ॥ १७॥
एक एव मया ध्यात ईश्वरः पुत्रहेतवे ।
यः कश्चिदीश्वरः ख्यातो जगतां स्वस्त्रिया सह ॥ १८॥
यूयं त्रयस्सुराः कस्मादागता वरदर्षभाः ।
एतन्मे संशयं छित्त्वा ततो दत्तेप्सितं वरम् ॥ १९॥
इति श्रुत्वा वचस्तस्य प्रत्यूचुस्ते सुरास्त्रयः ।
यादृक्कृतस्ते सङ्कल्पस्तथैवाभून्मुनीश्वर ॥ २०॥
वयं त्रयो भवेशानाः समाना वरदर्षभाः ।
अस्मदंशभवास्तस्माद्भविष्यन्ति सुतास्त्रयः ॥ २१॥
विदिता भुवने सर्वे पित्रोः कीर्तिविवर्द्धनाः ।
इत्युक्त्वा त्रयो देवाः स्वधामानि ययुर्मुदा ॥ २२॥
वरं लब्ध्वा मुनिः सोऽथ जगाम स्वाश्रमं मुदा ।
युतोऽनुसूयया प्रीतो ब्रह्मानन्दप्रदो मुने ॥ २३॥
अथ ब्रह्मा हरिः शम्भुरवतेरुः स्त्रियां ततः ।
पुत्ररूपैः प्रसन्नास्ते नानालीलाप्रकाशकाः ॥ २४॥
विधेरंशाद्विधुर्जज्ञेऽनसूयायां मुनीश्वरात् ।
आविर्बभूवोदधितः क्षिप्तो देवैः स एव हि ॥ २५॥
विष्णोरंशात् स्त्रियां तस्यामत्रेर्दत्तो व्यजायत ।
संन्यासपद्धतिर्येन वर्द्धिता परमा मुने ॥ २६॥
दुर्वासा मुनिशार्दूलः शिवांशान्मुनिसत्तम ।
जज्ञे तस्यां स्त्रियामत्रेर्वरधर्मप्रवर्तकः ॥ २७॥
भूत्वा रुद्रश्च दुर्वासा ब्रह्मतेजोविवर्द्धनः ।
चक्रे धर्मपरीक्षां च बहूनां स दयापरः ॥ २८॥
सूर्यवंशे समुत्पन्नो योऽम्बरीषो नृपोऽभवत् ।
तत्परीक्षामकार्षीत्स तां शृणु त्वं मुनीश्वर ॥ २९॥
सोऽम्बरीषो नृपवरः सप्तद्वीपरसापतिः ।
नियमं हि चकारासावेकादश्यां व्रते दृढम् ॥ ३०॥
एकादश्या व्रतं कृत्वा द्वादश्यां चैव पारणाम् ।
करिष्यामीति सुदृढसङ्कल्पस्तु नराधिपः ॥ ३१॥
ज्ञात्वा तन्नियमं तस्य दुर्वासा मुनिसत्तमः ।
तदन्तिकं गतः शिष्यैर्बहुभिः शङ्करांशजः ॥ ३२॥
पारणे द्वादशीं स्वल्पां ज्ञात्वा यावत्स भोजनम् ।
कर्त्तुं व्यवसितस्तावदागतं स न्यमन्त्रयत् ॥ ३३॥
ततः स्नानार्थमगमद्दुर्वासाः शिष्यसंयुतः ।
विलम्बं कृतवांस्तत्र परीक्षार्थं मुनिर्बहु ॥ ३४॥
धर्मविघ्नं तदा ज्ञात्वा स नृपः शास्त्रशासनात् ।
जलं प्राश्यास्थितस्तत्र तदागमनकाङ्क्षया ॥ ३५॥
एतस्मिन्नन्तरे तत्र दुर्वासा मुनिरागतः ।
कृताशनं नृपं ज्ञात्वा परीक्षार्थं धृताकृतिः ॥ ३६॥
चुक्रोधाति नृपे तस्मिन्परीक्षार्थं वृषस्य सः ।
प्रोवाच वचनं तूग्रं स मुनिः शङ्करांशजः ॥ ३७॥
दुर्वासा उवाच ।
मां निमन्त्र्य नृपाभोज्य जलं पीतं त्वयाधम ।
दर्शयामि फलं तस्य दुष्टदण्डधरो ह्यहम् ॥ ३८॥
इत्युक्त्वा क्रोधताम्राक्षो नृपं दग्धुं समुद्यतः ।
समुत्तस्थौ द्रुतं चक्रं तत्स्थं रक्षार्थमैश्वरम् ॥ ३९॥
प्रजज्वालाति तं चक्रं मुनिं दग्धुं सुदर्शनम् ।
शिवरूपं तमज्ञात्वा शिवमायाविमोहितम् ॥ ४०॥
एतस्मिन्नन्तरे व्योमवाण्युवाचाशरीरिणी ।
अम्बरीषं महात्मानं ब्रह्मभक्तं च वैष्णवम् ॥ ४१॥
व्योमवाण्युवाच ।
सुदर्शनमिदं चक्रं हरये शम्भुनार्पितम् ।
शान्तं कुरु प्रज्वलितमद्य दुर्वाससे नृप ॥ ४२॥
दुर्वासायं शिवः साक्षात्स चक्रं हरयेऽर्पितम् ।
एवं साधारणमुनिं न जानीहि नृपोत्तम ॥ ४३॥
तव धर्मपरीक्षार्थमागतोऽयं मुनीश्वरः ।
शरणं याहि तस्याशु भविष्यत्यन्यथा लयः ॥ ४४॥
नन्दीश्वर उवाच ।
इत्युक्त्वा च नभोवाणी विरराम मुनीश्वर ।
अस्तावीत्स हरांशं तमम्बरीषोऽपि चादरात् ॥ ४५॥
अम्बरीष उवाच ।
यद्यस्ति दत्तमिष्टं च स्वधर्मो वा स्वनुष्ठितः ।
कुलं नो विप्रदैवं चेद्धरेरस्त्रं प्रशाम्यतु ॥ ४६॥
यदि नो भगवान्प्रीतो मद्भक्तो भक्तवत्सलः ।
सुदर्शनमिदं चास्त्रं प्रशाम्यतु विशेषतः ॥ ४७॥
नन्दीश्वर उवाच ।
इति स्तुवति रुद्राग्रे शैवं चक्रं सुदर्शनम् ।
अशाम्यत्सर्वथा ज्ञात्वा तं शिवांशं सुलब्धधीः ॥ ४८॥
अथाम्बरीषः स नृपः प्रणनाम च तं मुनिम् ।
शिवावतारं संज्ञाय स्वपरीक्षार्थमागतम् ॥ ४९॥
सुप्रसन्नो बभूवाथ स मुनिः शङ्करांशजः ।
भुक्त्वा तस्मै वरं दत्त्वा स्वाभीष्टं स्वालयं ययौ ॥ ५०॥
अम्बरीषपरीक्षायां दुर्वासश्चरितं मुने ।
प्रोक्तामन्यच्चरित्रं त्वं शृणु तस्य मुनीश्वर ॥ ५१॥
पुनर्दाशरथेश्चक्रे परीक्षां नियमेन वै ।
मुनिरूपेण कालेन यः कृतो नियमो मुने ॥ ५२॥
तदैव मुनिना तेन सौमित्रिः प्रेषितो हठात् ।
तं तत्याज द्रुतं रामो बन्धुं पणवशान्मुने ॥ ५३॥
सा कथा विदिता लोके मुनिभिर्बहुधोदिता ।
नातो मे विस्तरात्प्रोक्ता ज्ञाता यत्सर्वथा बुधैः ॥ ५४॥
नियमं सुदृढं दृष्ट्वा सुप्रसन्नोऽभवन्मुनिः ।
दुर्वासाः सप्रसन्नात्मा वरं तस्मै प्रदत्तवान् ॥ ५५॥
श्रीकृष्णनियमस्यापि परीक्षां स चकार ह ।
तां शृणु त्वं मुनिश्रेष्ठ कथयामि कथां च ताम् ॥ ५६॥
ब्रह्मप्रार्थनया विष्णुर्वसुदेवसुतोऽभवत् ।
धराभारावतारार्थं साधूनां रक्षणाय च ॥ ५७॥
हत्वा दुष्टान्महापापान् ब्रह्मद्रोहकरान्खलान् ।
ररक्ष निखिलान्साधून्ब्राह्मणान्कृष्णनामभाक् ॥ ५८॥
ब्रह्मभक्तिं चकाराति स कृष्णो वसुदेवजः ।
नित्यं हि भोजयामास सुरसान्ब्राह्मणान्बहून् ॥ ५९॥
ब्रह्मभक्तो विशेषेण कृष्णश्चेति प्रथामगात् ।
सन्द्रष्टुकामः स मुनिः कृष्णान्तिकमगान्मुने ॥ ६०॥
रुक्मिणीसहितं कृष्णं सन्नं कृत्वा रथे स्वयम् ।
संयोज्य संस्थितो वाहं सुप्रसन्न उवाह तम् ॥ ६१॥
मुनी रथात्समुत्तीर्य दृष्ट्वा तां दृढतां पराम् ।
तस्मै भूत्वा सुप्रसन्नो वज्राङ्गत्ववरं ददौ ॥ ६२॥
द्युनद्यामेकदा स्नानं कुर्वन्नग्नो बभूव ह ।
लज्जितोऽभून्मुनिश्रेष्ठो दुर्वासाः कौतुकी मुने ॥ ६३॥
तज्ज्ञात्वा द्रौपदी स्नानं कुर्वती तत्र चादरात् ।
तल्लज्जां छादयामास भिन्नस्वाञ्चलदानतः ॥ ६४॥
तदादाय प्रवाहेनागतं स्वनिकटं मुनिः ।
तेनाच्छाद्य स्वगुह्यं च तस्यै तुष्टो बभूव सः ॥ ६५॥
द्रौपद्यै च वरं प्रादात्तदञ्चलविवर्द्धनम् ।
पाण्डवान्सुखिनश्चक्रे द्रौपदी तद्वरात्पुनः ॥ ६६॥
हंसडिम्भौ नृपौ कौचित्स्वावमानकरौ खलौ ।
दत्त्वा निदेशं च हरेर्नाशयामास स प्रभुः ॥ ६७॥
ब्रह्मतेजो विशेषेण स्थापयामास भूतले ।
संन्यासपद्धतिं चैव यथाशास्त्रविधिक्रमम् ॥ ६८॥
बहूनुद्धारयामास सूपदेशं विबोध्य च ।
ज्ञानं दत्त्वा विशेषेण बहून्मुक्तांश्चकार सः ॥ ६९॥
इत्थं चक्रे स दुर्वासा विचित्रं चरितं बहु ।
धन्यं यशस्यमायुष्यं शृण्वतः सर्वकामदम् ॥ ७०॥
य इदं शृणुयाद्भक्त्या दुर्वासश्चरितं मुदा ।
श्रावयेद्वा परान् यश्च स सुखीह परत्र च ॥ ७१॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां दुर्वासश्चरितवर्णनं नामैकोनविंशोऽध्यायः ॥ ३.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२०. विंशोऽध्यायः । हनुमदवतारचरित्रवर्णनम् ।
नन्दीश्वर उवाच ।
अतः परं शृणु प्रीत्या हनुमच्चरितं मुने ।
यथा चकाराशु हरो लीलास्तद्रूपतो वराः ॥ १॥
चकार सुहितं प्रीत्या रामस्य परमेश्वरः ।
तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम् ॥ २॥
एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः ।
ददर्श मोहिनीरूपं विष्णोः स हि वसेद्गुणः ॥ ३॥
चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा ।
स्वं वीर्यं पातयामास रामकार्यार्थमीश्वरः ॥ ४॥
तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते ।
प्रेरिता मनसा तेन रामकार्यार्थमादरात् ॥ ५॥
तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः ।
कर्णद्वारा तथाञ्जन्यां रामकार्यार्थमाहितम् ॥ ६॥
ततश्च समये तस्माद्धनूमानिति नामभाक् ।
शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ॥ ७॥
हनूमान्स कपीशानः शिशुरेव महाबलः ।
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलं प्रगे ॥ ८॥
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।
शिवावतारं च प्राप वरान्दत्तान् सुरर्षभिः ॥ ९॥
स्वजनन्यन्तिकं प्रागादथ सोऽतिप्रहर्षितः ।
हनूमान्सर्वमाचख्यौ तस्यै तद् वृत्तमादरात् ॥ १०॥
तदाज्ञया ततो धीरः सर्वविद्यामयत्नतः ।
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदन्तिकम् ॥ ११॥
सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ ।
मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः ॥ १२॥
ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः ।
ऋष्यमूकगिरौ तेन न्यवसत्स हनूमता ॥ १३॥
ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरः सुधीः ।
सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः ॥ १४॥
तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना ।
कारयामास रामेण तस्य सख्यं सुखावहम् ॥ १५॥
घातयामास रामश्च वालिनं कपिकुञ्जरम् ।
भ्रातृपत्न्याश्च भोक्तारं पापिनं वीरमानिनम् ॥ १६॥
ततो रामाज्ञया तात हनूमान्वानरेश्वरः ।
स सीतान्वेषणं चक्रे बहुभिर्वानरैः सुधीः ॥ १७॥
ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः ।
द्रुतमुल्लङ्घ्य सिन्धुं तमनिस्तीर्यं परैः स वै ॥ १८॥
चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् ।
अभिज्ञानं ददौ प्रीत्या सीतायै स्वप्रभोर्वरम् ॥ १९॥
सीताशोकं जहाराशु स वीरः कपिनायकः ।
श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम् ॥ २०॥
तदभिज्ञानमादाय निवृत्तो रामसन्निधिम् ।
रावणाराममाहत्य जघान बहुराक्षसान् ॥ २१॥
तदैव रावणसुतं हत्वा सबहुराक्षसम् ।
स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः ॥ २२॥
यदा दग्धो रावणेनावगुण्ठ्य वसनानि च ।
तैलाभ्यक्तानि सुदृढं महाबलवता मुने ॥ २३॥
उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः ।
ददाह लङ्कां निखिलां कृत्वा व्याजं तमेव हि ॥ २४॥
दग्ध्वा लङ्कां वञ्चयित्वा विभीषणगृहं ततः ।
अपतद्वारिधौ वीरस्ततः स कपिकुञ्जरः ॥ २५॥
स्वपुच्छं तत्र निर्वाप्य प्राप तस्य परन्तटम् ।
अखिन्नः स ययौ रामसन्निधिं गिरिशांशजः ॥ २६॥
अविलम्बेन सुजवो हनूमान् कपिसत्तमः ।
रामोपकण्ठमागत्य ददौ सीताशिरोमणिम् ॥ २७॥
ततस्तदाज्ञया वीरः सिन्धौ सेतुमबन्धयत् ।
वानरैः स समानीय बहून् गिरिवरान् बली ॥ २८॥
गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ।
शिवलिङ्गं समानर्च प्रतिष्ठाप्य जयेप्सया ॥ २९॥
तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ।
लङ्कामावृत्य कपिभी रणं चक्रे स राक्षसैः ॥ ३०॥
जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः ।
शक्तिक्षतं लक्ष्मणं च सञ्जीविन्या ह्यजीवयत् ॥ ३१॥
सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः ।
सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः ॥ ३२॥
रावणं परिवाराढ्यं नाशयामास विश्रमः ।
सुखीचकार देवान्स महाबलग्रहः कपिः ॥ ३३॥
महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् ।
तत्स्थानादानयामास स्वस्थानं परिपाल्य च ॥ ३४॥
रामकार्यं चकाराशु सर्वथा कपिपुङ्गवः ।
असुरान्नमयामास नानालीलां चकार च ॥ ३५॥
स्थापयामास भूलोके रामभक्तिं कपीश्वरः ।
स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः ॥ ३६॥
लक्ष्मणप्राणदाता च सर्वदेवमदापहः ।
रुद्रावतारो भगवान्भक्तोद्धारकरः स वै ॥ ३७॥
हनुमान्स महावीरो रामकार्यकरः सदा ।
रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः ॥ ३८॥
इति ते कथितं तात हनुमच्चरितं वरम् ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ ३९॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्कामान् अन्ते मोक्षं लभेत्परम् ॥ ४०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां हनुमदवतारचरित्रवर्णनं नाम विंशोऽध्यायः ॥ ३.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२१. एकविंशोऽध्यायः । महेशावतारवर्णनम् ।
नन्दीश्वर उवाच ।
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ।
शङ्करस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ॥ १॥
एकदा मुनिशार्दूल गिरिजाशङ्करावुभौ ।
विहर्तुकामौ सञ्जातौ स्वेच्छया परमेश्वरौ ॥ २॥
भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ।
नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ॥ ३॥
चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ।
बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ॥ ४॥
अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ।
आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा ॥ ५॥
तां देवीं भैरवः सोऽथ नारीदृष्ट्या विलोक्य च ।
निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ॥ ६॥
नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ।
क्रुद्धाभवच्छिवा देवी तं शशाप तदाऽम्बिका ॥ ७॥
शिवोवाच ।
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ।
अतो भव धरायां हि मानुषस्त्वं च भैरव ॥ ८॥
नन्दीश्वर उवाच ।
इत्थं यदाभवच्छप्तो भैरवः शिवया मुने ।
हाहाकारो महानासीद्दुःखमाप स लीलया ॥ ९॥
ततश्च शङ्करः शीघ्रं तमागत्य मुनीश्वर ।
आश्वासयद्भैरवं हि नानानुनयकोविदः ॥ १०॥
तच्छापाद्भैरवः सोऽथ क्षिताववतरन्मुने ।
मनुष्ययोन्यां वैतालसंज्ञकः शङ्ककरेच्छया ॥ ११॥
तत्स्नेहतः शिवः सोऽपि क्षिताववतरद्विभुः ।
शिवया सह सल्लीलो लौकिकीं गतिमाश्रितः ॥ १२॥
महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ।
सुलीलां चक्रतुः प्रीत्या नानालीलाविशारदौ ॥ १३॥
इति ते कथितं तात महेशचरितं वरम् ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोऽध्यायः ॥ ३.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२२. द्वाविंशोऽध्यायः । विष्णूपद्रववृषावतारवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु ब्रह्मसुत प्राज्ञ वृषेशाख्यं मुनीश्वर ।
शिवावतारं सल्लीलं हरिगर्वहरं वरम् ॥ १॥
पुरा देवासुराः सर्वे जरामृत्युभयार्दिताः ।
परस्परं च सन्धाय रत्नान्यादित्सवोऽभवन् ॥ २॥
ततः सुरासुराः सर्वे क्षीरोदं सागरोत्तमम् ।
उद्यता मथितुं तं च बभूवुर्मुनिनन्दन ॥ ३॥
आसन् शुचिस्मिताः सर्वे केनेदं मन्थनं भवेत् ।
स्वकार्यसिद्धये तस्य ब्रह्मन्निति सुरासुराः ॥ ४॥
तदा नभोगता वाणी मेघगम्भीरनिःस्वना ।
उवाच देवान्दैत्यांश्चश्वासयन्तीश्वराज्ञया ॥ ५॥
नभोवाण्युवाच ।
हे देवा असुराश्चैव मन्थध्वं क्षीरसागरम् ।
भवतां बलबुद्धिर्हि भविष्यति न संशयः ॥ ६॥
मन्दरं चैव मन्थानं रज्जुं कुरुत वासुकिम् ।
मिथः सर्वे मिलित्वा तु मन्थनं कुरुतादरात् ॥ ७॥
नन्दीश्वर उवाच ।
नभोगतां तदा वाणीं निशम्याथ सुरासुराः ।
उद्योगं चक्रिरे सर्वे तत्कर्तुं मुनिसत्तम ॥ ८॥
सुसन्धायाखिलास्ते वै मन्दरं पर्वतोत्तमम् ।
कनकाभं च सरलं नानाशोभार्चितं ययुः ॥ ९॥
सुप्रसाद्य गिरीशं तं तदाज्ञप्ताः सुरासुराः ।
बलादुत्पाटयामासुर्नेतुकामाः पयोऽर्णवम् ॥ १०॥
भुजैरुत्पाट्य ते सर्वे जग्मुः क्षीरार्णवं मुने ।
अशक्ता अभवंस्तत्र तमानेतुं हतौजसः ॥ ११॥
तद्भुजैः स परिभ्रष्टः पतितो मन्दरो गिरिः ।
सहसातिगुरुः सद्यो देवदैत्योपरि ध्रुवम् ॥ १२॥
एवं भग्नोद्यमा भग्नाः सम्बभूवुः सुरासुराः ।
चेतनाः प्राप्य च ततस्तुष्टुवुर्जगदीश्वरम् ॥ १३॥
तदिच्छयोद्यताः सर्वे पुनरुत्थाप्य तं गिरिम् ।
निचिक्षिपुर्जले नीत्वा क्षीरोदस्योत्तरे तटे ॥ १४॥
ततः सुरासुरगणा रज्जुं कृत्वा च वासुकिम् ।
रत्नान्यादातुकामास्ते ममन्थुः क्षीरसागरम् ॥ १५॥
क्षीरोदे मथ्यमाने तु श्रीः स्वर्लोकमहेश्वरी ।
समुद्भूता समुद्राच्च भृगुपुत्री हरिप्रिया ॥ १६॥
धन्वन्तरिः शशाङ्कश्च पारिजातो महाद्रुमः ।
उच्चैःश्रवाश्च तुरगो गज ऐरावतस्तथा ॥ १७॥
सुरा हरिधनुः शङ्खो गावः कामदुघास्ततः ।
कौस्तुभाख्यो मणिश्चैव तथा पीयूषमेव च ॥ १८॥
पुनश्च मथ्यमाने तु कालकूटं महाविषम् ।
युगान्तानलभं जातं सुरासुरभयावहम् ॥ १९॥
पीयूषजन्मकाले तु बिन्दवो ये बहिर्गताः ।
तेभ्यः कान्ताः समुद्भूता बह्वयो ह्यद्भुतदर्शनाः ॥ २०॥
शरत्पूर्णेन्दुवदनास्तडित्सूर्यानलप्रभाः ।
हारकेयूरकटकैर्दिव्यरत्नैरलङ्कृताः ॥ २१॥
लावण्यामृततोयेन ताः सिञ्चन्त्यो दिशो दश ।
जगदुन्मादयन्त्येव भ्रूभङ्गायतवीक्षणाः ॥ २२॥
कोटिशस्ताः समुत्पन्नास्त्वमृतात्कामनिस्सृताः ।
ततोऽमृतं समुत्पन्नं जरामृत्युनिवारणम् ॥ २३॥
लक्ष्मीं शङ्खं कौस्तुभं च खड्गं जग्राह केशवः ।
जग्राहार्को हयं दिव्यमुच्चैःश्रवसमादरात् ॥ २४॥
पारिजातं तरुवरमैरावतमिभेश्वरम् ।
शचीपतिश्च जग्राह निर्जरेशो महादरात् ॥ २५॥
कालकूटं शशाङ्कं च देवत्राणाय शङ्करः ।
स्वकण्ठे धृतवान् शम्भुः स्वेच्छया भक्तवत्सलः ॥ २६॥
दैत्याः सुराख्यां रमणीमीश्वराजविमोहिताः ।
जगृहुः सकला व्यास सर्वे धन्वन्तरिं जनाः ॥ २७॥
जगृहुर्मुनयः सर्वे कामधेनुं मुनीश्वराः ।
सामान्यतस्त्रियस्ताश्च स्थिता आसन्विमोहिकाः ॥ २८॥
अमृतार्थं महायुद्धं सम्बभूव जयैषिणाम् ।
सुराणामसुराणां च मिथः सङ्क्षुब्धचेतसाम् ॥ २९॥
हृतं सोमं च दैतेयैर्बलाद्देवान्विजित्य च ।
बलिप्रभृतिभिर्व्यास युगान्ताग्न्यर्कसुप्रभैः ॥ ३०॥
देवाः शङ्करमापन्ना विह्वलाः शिवमायया ।
सर्वे शक्रादयस्तात दैतेयैरर्दिता बलात् ॥ ३१॥
ततस्तदमृतं यत्नात्स्त्रीस्वरूपेण मायया ।
शिवाज्ञया रमेशेन दैत्येभ्यश्च हृतं मुने ॥ ३२॥
अपाययत्सुरांस्तांश्च मोहिनी स्त्रीस्वरूपधृक् ।
मोहयित्वासुरान्सर्वान्हरिर्मायाविनां वरः ॥ ३३॥
गत्वा निकटमेतस्या ऊचिरे दैत्यपुङ्गवाः ।
पाययस्व सुधामेतां माभूद्भेदोऽत्र पङ्क्तिषु ॥ ३४॥
एतदुक्त्वा ददुस्तस्मै विष्णवे छलरूपिणे ।
ते दैत्या दानवाः सर्वे शिवमायाविमोहिताः ॥ ३५॥
एतस्मिन्नन्तरे दृष्ट्वा स्त्रियो दानवपुङ्गवाः ।
अनयन्नमृतोद्भूता यथास्थानं यथासुखम् ॥ ३६॥
तासां पुराणि दिव्यानि स्वर्गाच्छतगुणान्यपि ।
घोरैर्यन्त्रैः सुगुप्तानि मयमायाकृतानि च ॥ ३७॥
सुरक्षितानि सर्वाणि कृत्वा युद्धाय निर्ययुः ।
अस्पृष्टवक्षसो दैत्याः कृत्वा समयमेव हि ॥ ३८॥
न स्पृशामः स्त्रियश्चेमा यदि देवैर्विनिर्जिताः ।
इत्युक्त्वा ते महावीरा दैत्याः सर्वे युयुत्सवः ॥ ३९॥
सिंहनादं ततश्चक्रुः शङ्खान्दध्मुः पृथक्पृथक् ।
पूरयन्त इवाकाशं तर्पयन्तो बलाहकान् ॥ ४०॥
युद्धं बभूव देवानामसुरैः सह भीकरम् ।
देवासुराख्यमतुलं प्रसिद्धं भुवनत्रये ॥ ४१॥
जयं प्रापुः सुराः सर्वे विष्णुना परिरक्षिताः ।
दैत्याः पलायितास्तत्र हताः सामरविष्णुना ॥ ४२॥
दैत्याः सम्मोहिता देवैर्विष्णुना च महात्मना ।
हतावशिष्टाः पातालं विविशुर्विवराणि च ॥ ४३॥
अनुवव्राज तान्विष्णुश्चक्रपाणिर्महाबलः ।
पातालं परमं गत्वा संस्थितान्भीतभीतवत् ॥ ४४॥
एतस्मिन्नन्तरे विष्णुर्ददर्शामृतसम्भवाः ।
कान्ताः पूर्णेन्दुवदना दिव्यलावण्यगर्विताः ॥ ४५॥
सम्मोहितः कामबाणैर्लेभे तत्रैव निर्वृतिम् ।
ताभिश्च वरनारीभिः क्रीडमानो बभूव ह ॥ ४६॥
ताभ्यः पुत्रानजनयद्विष्णुर्वरपराक्रमान् ।
महीं सर्वां कम्पयन्तो नानायुद्धविशारदान् ॥ ४७॥
ततो वै हरिपुत्रास्ते महाबलपराक्रमाः ।
महोपद्रवमाचेरुः स्वर्गे भुवि च दुःखदम् ॥ ४८॥
लोकोपद्रवमालक्ष्य निर्जरा मुनयोऽथ वै ।
चक्रुर्निवेदननं तेषां ब्रह्मणे प्रणिपत्य च ॥ ४९॥
तच्छ्रुत्वादाय तान्ब्रह्मा ययौ कैलासपर्वतम् ।
तत्र दृष्ट्वा शिवं देवं प्रणनाम पुनः पुनः ॥ ५०॥
तुष्टाव विविधैः स्तोत्रैर्नतस्कन्धः कृताञ्जलिः ।
जय देव महादेव सर्वस्वामिन्निति ब्रुवन् ॥ ५१॥
ब्रह्मोवाच ।
देवदेव महादेव लोकान् रक्षाखिलान्प्रभो ।
उपद्रुतान्विष्णुपुत्रैः पातालस्थैर्विकारिभिः ॥ ५२॥
नारीष्वमृतभूतासु संसक्तात्मा हरिर्विभो ।
पाताले तिष्ठतीदानीं रमते हि विकारवान् ॥ ५३॥
नन्दीश्वर उवाच ।
इत्थं बहुस्तुतः शम्भुर्ब्रह्मणा सर्षिनिर्जरैः ।
लोकसंरक्षणार्थाय विष्णोरानयनाय च ॥ ५४॥
ततः स भगवान् शम्भुः कृपासिन्धुर्महेश्वरः ।
तदुपद्रवमाज्ञाय वृषरूपो बभूव ह ॥ ५५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां विष्णूपद्रववृषावतारवर्णनं नाम द्वाविंशोऽध्यायः ॥ ३.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२३. त्रयोविंशोऽध्यायः । वृषेश्वरसंज्ञकशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
ततो वृषभरूपेण गर्जमानः पिनाकधृक् ।
प्रविष्टो विवरं तत्र निनदन्भैरवान् रवान् ॥ १॥
निपेतुस्तस्य निनदैः पुराणि नगराणि च ।
प्रकम्पो हि बभूवाथ सर्वेषां पुरवासिनाम् ॥ २॥
ततो वृषो हरेः पुत्रान्सङ्ग्रामोद्यतकार्मुकान् ।
शिवमायाविमूढात्ममहाबलपराक्रमान् ॥ ३॥
हरिपुत्रास्ततस्तेऽथ प्राकुप्यन्मुनिसत्तम ।
प्रदुद्रुवुः प्रगर्ज्योच्चैर्वीराः शङ्करसम्मुखम् ॥ ४॥
आयातांस्तान्हरेः पुत्रान् रुद्रो वृषभरूपधृक् ।
प्राकुप्यद्विष्णुपुत्रांश्च खुरैः शृङ्गैर्व्यदारयत् ॥ ५॥
विदारिताङ्गा रुद्रेण सर्वे हरिसुताश्च ते ।
नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ॥ ६॥
हतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ।
निष्क्रम्याथ प्रगर्ज्योच्चैर्ययौ शीघ्रं हरान्तिकम् ॥ ७॥
दृष्ट्वा रुद्रं प्रव्रजन्तं हतविष्णुसुतं वृषम् ।
शरैः सन्ताडयामास दिव्यैरस्त्रैश्च केशवः ॥ ८॥
ततः क्रुद्धो महादेवो वृषरूपी मदाबलः ।
अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ॥ ९॥
अथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ।
विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ॥ १०॥
तत उत्प्लुत्य तरसा खुरैः शृङ्गैर्व्यदारयत् ।
विष्णुं क्रोधाकुलं मूढमजानन्तं निजं हरिम् ॥ ११॥
ततः स शिथिलात्मा हि व्यथिताङ्गो बभूव ह ।
तत्प्रहारमसह्याशु हरिर्मायाविमोहितः ॥ १२॥
गतगर्वो हरिश्चैव विचेता गतचेतनः ।
ज्ञातवान् परमेशानं विहरन्तं वृषात्मना ॥ १३॥
अथ विज्ञाय गौरीशमागतं वृषरूपतः ।
प्राह गम्भीरया वाचा नतस्कन्धः कृताञ्जलिः ॥ १४॥
हरिरुवाच ।
देवदेव महादेव करुणासागर प्रभो ।
मायया ते महेशान मोहितोऽहं विमूढधीः ॥ १५॥
कृतं युद्धं त्वयेशेन स्वनाथेन मया प्रभो ।
कृपां कृत्वा मयि स्वामिन्सोऽपराधो हि सह्यताम् ॥ १६॥
नन्दीश्वर उवाच ।
तस्य तद्वचनं श्रुत्वा हरेर्दीनतया मुने ।
भगवान् शङ्करः प्राह रमेशं भक्तवत्सलः ॥ १७॥
हे विष्णो हे महाबुद्धे कथं मां ज्ञातवान्न हि ।
युद्धं कृतं कृतस्तेऽद्य ज्ञानं सर्वं च विस्मृतम् ॥ १८॥
आत्मानं किन्न जानासि मदधीनपराक्रमम् ।
त्वया नात्र रतिः कार्या निवर्तस्व कुचारतः ॥ १९॥
कामाधीनं कथं ज्ञानं स्त्रीषु सक्तो विहारकृत् ।
नोचितं तव देवेश स्मरणं विश्वतारणम् ॥ २०॥
तच्छुत्वा शम्भुवचनं विज्ञानप्रदमादरात् ।
व्रीड्यन्स्वमनसा विष्णुः प्राह वाचं महेश्वरम् ॥ २१॥
विष्णुरुवाच ।
ममात्र विद्यते चक्रं तद् गृहीत्वेतदादरात् ।
गमिष्यामि स्वलोकं तं त्वदाज्ञापरिपालकः ॥ २२॥
नन्दीश्वर उवाच ।
तदाकर्ण्य महेशानो वचनं वैष्णवं हरः ।
प्रत्युवाच वृषात्मा हि वृषरक्षः पुनर्हरिम् ॥ २३॥
न विलम्बः प्रकर्त्तव्यो गन्तव्यमित आशु ते ।
मच्छासनाद्धरे लोके चक्रमत्रैव तिष्ठताम् ॥ २४॥
सन्तानादित्यसंस्थानाच्छिवत्ववचनादपि ।
अहं घोरतरं तस्माच्चक्रमन्यद्ददामि ते ॥ २५॥
एतदुक्त्वा हरोऽलेखीद्दिव्यं कालानलप्रभम् ।
परं चक्रं प्रदीप्तं हि सर्वदुष्टविनाशनम् ॥ २६॥
विष्णवे प्रददौ चक्रं घोरार्कायुतसुप्रभम् ।
सर्वामरमुनीन्द्राणां रक्षकाय महात्मने ॥ २७॥
लब्ध्वा सुदर्शनं चान्यञ्चक्रं परमदीप्तिमत् ।
उवाच विबुधांस्तत्र विष्णुर्बुद्धिमतां वरः ॥ २८॥
सर्वदेववरा यूयं मद्वाक्यं शृणुतादरात् ।
कर्तव्यं तत्तथा शीघ्रं ततः शं वो भविष्यति ॥ २९॥
दिव्या वराङ्गनास्सन्ति पाताले यौवनान्विताः ।
ताभिः सार्द्धं महाक्रीडां यः करोतु करोतु सः ॥ ३०॥
तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ।
प्रवेष्टुकामाः पातालं बभूवुर्विष्णुना सह ॥ ३१॥
विचारमथ विज्ञाय तं तदा भगवान्हरः ।
क्रोधाच्छापं ददौ घोरं देवयोन्यष्टकस्य च ॥ ३२॥
हर उवाच ।
वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ।
इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात् ॥ ३३॥
श्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ।
प्रत्याख्यातास्तु रुद्रेण देवाः स्वगृहमाययुः ॥ ३४॥
एवं स्त्रीलः परो विष्णुः शिवेन प्रतिशासितः ।
स्वर्लोकमगमद् व्यास स्वास्थ्यं प्राप जगच्च तत् ॥ ३५॥
वृषेश्वरोऽपि भगवान् शङ्करो भक्तवत्सलः ।
इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम् ॥ ३६॥
वृषेश्वरावतारस्तु वर्णितः शङ्करस्य च ।
विष्णुमोहहरः शर्वः त्रैलोक्यसुखकारकः ॥ ३७॥
पवित्रमिदमाख्यानं शत्रुबाधाहरं परम् ।
स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३८॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ।
तथा पठिति यो हीदं पाठयेत् सुधियो नरान् ।
स भुक्त्वा सकलान् कामान् अन्ते मोक्षमवाप्नुयात् ॥ ३९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ३.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२४. चतुर्विंशोऽध्यायः । पिप्पलादावतारवर्णनम् ।
नन्दीश्वर उवाच ।
पिप्पलादाख्यमपरमवतारं महेशितुः ।
शृणु प्राज्ञ महाप्रीत्या भक्तिवर्धनमुत्तमम् ॥ १॥
यः पुरा गदितो विप्रो दधीचिर्मुनिसत्तमः ।
महाशैवः सुप्रतापी च्यावनिर्भृगुवंशजः ॥ २॥
क्षुवेण सह सङ्ग्रामे येन विष्णुः पराजितः ।
सनिर्जरोऽथ संशप्तो महेश्वरसहायिना ॥ ३॥
तस्य पत्नी महाभागा सुवर्चा नाम नामतः ।
महापतिव्रता साध्वी यया शप्ता दिवौकसः ॥ ४॥
तस्मात्तस्यां महादेवो नानालीलाविशारदः ।
प्रादुर्बभूव तेजस्वी पिप्पलादेति नामतः ॥ ५॥
सूत उवाच ।
इत्याकर्ण्य मुनिश्रेष्ठो नन्दीश्वरवचोऽद्भुतम् ।
सनत्कुमारः प्रोवाच नतस्कन्धः कृताञ्जलिः ॥ ६॥
सनत्कुमार उवाच ।
नन्दीश्वर महाप्राज्ञ साक्षाद् रुद्रस्वरूपधृक् ।
धन्यस्त्वं सद्गुरुस्तात श्रावितेयं कथाद्भुता ॥ ७॥
क्षुवेण सह सङ्ग्रामे श्रुतो विष्णुपराजयः ।
ब्रह्मणा मे पुरा तात तच्छापश्च शिलादज ॥ ८॥
अधुना श्रोतुमिच्छामि देवशापं सुवर्चया ।
दत्तं पश्चात् पिप्पलादचरितं मङ्गलायनम् ॥ ९॥
सूत उवाच ।
इति श्रुत्वाथ शैलादिर्विधिपुत्रवचः शुभम् ।
प्रत्युवाच प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम् ॥ १०॥
नन्दीश्वर उवाच ।
एकदा निर्जराः सर्वे वासवाद्या मुनीश्वर ।
वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः ॥ ११॥
स्वानि स्वानि वरास्त्राणि दधीचस्याश्रमेऽखिलाः ।
निःक्षिप्य सहसा सद्योऽभवन् देवाः पराजिताः ॥ १२॥
तदा सर्वे सुराः सेन्द्रा वध्यमानास्तथर्षयः ।
ब्रह्मलोकं गताः शीघ्रं प्रोचुः स्वं व्यसनं च तत् ॥ १३॥
तच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ।
सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम् ॥ १४॥
भवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ।
वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान् ॥ १५॥
अथ प्रयत्नः क्रियतां भवेदस्य वधो यथा ।
तत्रोपायं शृणु प्राज्ञ धर्महेतोर्वदामि ते ॥ १६॥
महामुनिर्दधीचिर्यः स तपस्वी जितेन्द्रियः ।
लेभे शिवं समाराध्य वज्रास्थित्ववरं पुरा ॥ १७॥
तस्यास्थीन्येव याचध्वं स दास्यति न संशयः ।
निर्माय तैर्दण्डवज्रं वृत्रं जहि न संशयः ॥ १८॥
नन्दीश्वर उवाच ।
तच्छ्रुत्वा ब्रह्मवचनं शक्रो गुरुसमन्वितः ।
आगच्छत्सामरः सद्यो दधीच्याश्रममुत्तमम् ॥ १९॥
दृष्ट्वा तत्र मुनिं शक्रः सुवर्चान्वितमादरात् ।
ननाम साञ्जलिर्नम्रः सगुरुः सामरश्च तम् ॥ २०॥
तदभिप्रायमाज्ञाय स मुनिर्बुधसत्तमः ।
स्वपत्नीं प्रेषयामास सुवर्चां स्वाश्रमान्तरम् ॥ २१॥
ततस्स देवराजश्च सामरः स्वार्थसाधकः ।
अर्थशास्त्रपरो भूत्वा मुनीशं वाक्यमब्रवीत् ॥ २२॥
शक्र उवाच ।
त्वष्ट्रा विप्रकृताः सर्वे वयं देवास्तथर्षयः ।
शरण्यं त्वां महाशैवं दातारं शरणं गताः ॥ २३॥
स्वास्थीनि देहि नो विप्र महावज्रमयानि हि ।
अस्थ्ना ते स्वपविं कृत्वा हनिष्यामि सुरद्रुहम् ॥ २४॥
इत्युक्तस्तेन स मुनिः परोपकरणे रतः ।
ध्यात्वा शिवं स्वनाथं हि विससर्ज कलेवरम् ॥ २५॥
ब्रह्मलोकं गतः सद्यः स मुनिर्ध्वस्तबन्धनः ।
पुष्पवृष्टिरभूत्तत्र सर्वे विस्मयमागताः ॥ २६॥
अथ गां सुरभिं शक्र आहूयाशु ह्यलेहयत् ।
अस्त्रनिर्मितये त्वाष्ट्रं निर्दिदेश तदस्थिभिः ॥ २७॥
विश्वकर्मा तदाज्ञप्तश्चक्लृपेऽस्त्राणि कृत्स्नशः ।
तदस्थिभिर्वज्रमयैः सुदृढैः शिववर्चसा ॥ २८॥
तस्य वंशोद्भवैर्वज्रं शरो ब्रह्मशिरस्तथा ।
अन्यास्थिभिर्बहूनि स्वपराण्यस्त्राणि निर्ममे ॥ २९॥
तमिन्द्रो वज्रमुद्यम्य वर्द्धितः शिववर्चसा ।
वृत्रमभ्यद्रवत्क्रुद्धो मुने रुद्र इवान्तकम् ॥ ३०॥
ततः शक्रः सुसन्नद्धस्तेन वज्रेण स द्रुतम् ।
उच्चकर्त शिरो वार्त्रं गिरिशृङ्गमिवौजसा ॥ ३१॥
तदा समुत्सवस्तात बभूव त्रिदिवौकसाम् ।
तुष्टुवुर्निर्जराः शक्रं पेतुः कुसुमवृष्टयः ॥ ३२॥
इति ते कथितं तात प्रसङ्गाच्चरितं त्विदम् ।
पिप्पलादावतारं मे शृणु शम्भोर्महादरात् ॥ ३३॥
सुवर्चा सा मुनेः पत्नी दधीचस्य महात्मनः ।
ययौ स्वमाश्रमाभ्यन्तस्तदाज्ञप्ता पतिव्रता ॥ ३४॥
आगत्य तत्र सा दृष्ट्वा न पतिं स्वं तपस्विनी ।
गृहकार्यं च सा कृत्वाखिलं पतिनिदेशतः ॥ ३५॥
आजगाम पुनस्तत्र पश्यन्ती बह्वशोभनम् ।
देवांश्च तान्मुनिश्रेष्ठ सुवर्चा विस्मिताभवत् ॥ ३६॥
ज्ञात्वा च तत्सर्वमिदं सुराणां
कृत्यं तदानीं च चुकोप साध्वी ।
ददौ तदा शापमतीव रुष्टा
तेषां सुवर्चा ऋषिवर्यभार्या ॥ ३७॥
सुवर्चोवाच ।
अहो सुरा द्रुष्टतराश्च सर्वे
स्वकार्यदक्षा ह्यबुधाश्च लुब्धाः ।
तस्माच्च सर्वे पशवो भवन्तु
सेन्द्राश्च मेऽद्यप्रभृतीत्युवाच ॥ ३८॥
एवं शापं ददौ तेषां सुराणां सा तपस्विनी ।
सशक्राणां च सर्वेषां सुवर्चा मुनिकामिनी ॥ ३९॥
अनुगन्तुं पतेर्लोकमथेच्छत्सा पतिव्रता ।
चितां चक्रे समेधोभिः सुपवित्रैर्मनस्विनी ॥ ४०॥
ततो नभोगिरा प्राह सुवर्चां तां मुनिप्रियाम् ।
आश्वासयन्ती गिरिशप्रेरिता सुखदायिनी ॥ ४१॥
आकाशवाण्युवाच ।
साहसं न कुरु प्राज्ञे शृणु मे परमं वचः ।
मुनितेजस्त्वदुदरे तदुत्पादय यत्नतः ॥ ४२॥
ततः स्वाभीष्टचरणं देवि कर्तुं त्वमर्हसि ।
सगर्भा न दहेद् गात्रमिति ब्रह्मनिदेशनम् ॥ ४३॥
नन्दीश्वर उवाच ।
इत्युक्त्वा सा नभोवाणी विरराम मुनीश्वर ।
तां श्रुत्वा सा मुनेः पत्नी विस्मिताभूत्क्षणं च सा ॥ ४४॥
सुवर्चा सा महासाध्वी पतिलोकमभीप्सती ।
उपविश्याश्मना भूयः सोदरं विददार ह ॥ ४५॥
निर्गतो जठरात्तस्या गर्भो मुनिवरस्य सः ।
महादिव्यतनुर्दीप्तो भासयंश्च दिशो दश ॥ ४६॥
साक्षाद् रुद्रावतारोऽसौ दधीचिवरतेजसः ।
प्रादुर्भूतः स्वयं तात स्वलीलाकरणे क्षमः ॥ ४७॥
तं दृष्ट्वा स्वसुतं दिव्यं स्वरूपं मुनिकामिनी ।
सुवर्चाज्ञाय मनसा साक्षाद् रुद्रावतारकम् ॥ ४८॥
प्रहृष्टाभून्महासाध्वी प्रणम्याशु नुनाव सा ।
स्वहृदि स्थापयामास तत्स्वरूपं मुनीश्वर ॥ ४९॥
सुवर्चा तनयं तं च प्रहस्य विमलेक्षणा ।
जननी प्राह सुप्रीत्या पतिलोकमभीप्सती ॥ ५०॥
सुवर्चोवाच ।
हे तात परमेशान चिरं तिष्ठास्य सन्निधौ ।
अश्वत्थस्य महाभाग सर्वेषां सुखदो भवेः ॥ ५१॥
मामाज्ञापय सुप्रीत्या पतिलोकाय चाधुना ।
तत्रस्थाहं च पतिना त्वां ध्याये रुद्ररूपिणम् ॥ ५२॥
नन्दीश्वर उवाच ।
इत्येवं सा बभाषेऽथ सुवर्चा तनयं प्रति ।
पतिमन्वगमत्साध्वी परमेण समाधिना ॥ ५३॥
एवं दधीचपत्नी सा पतिना सङ्गता मुने ।
शिवलोकं समासाद्य सिषेवे शङ्करं मुदा ॥ ५४॥
एतस्मिन्नन्तरे देवाः सेन्द्राश्च मुनिभिः सह ।
तत्राजग्मुस्त्वरा तात आहूता इव हर्षिताः ॥ ५५॥
हरिर्ब्रह्मा च सुप्रीत्यावतीर्णं शङ्करं भुवि ।
सुवर्चायां दधीचाद्वा ययतुः स्वगणैः सह ॥ ५६॥
तत्र दृष्ट्वावतीर्णं तं मुनिपुत्रत्वमागतम् ।
रुद्रं सर्वे प्रणेमुश्च तुष्टुवुर्बद्धपाणयः ॥ ५७॥
तदोत्सवो महानासीद्देवानां मुनिसत्तम ।
नेदुर्दुन्दुभयस्तत्र नर्तक्यो ननृतुर्मुदा ॥ ५८॥
जगुर्गन्धर्वपुत्राश्च किन्नरा वाद्यवादकाः ।
वादयामासुरमराः पुष्पवृष्टिं च चक्रिरे ॥ ५९॥
दधीचेः पिप्पलपितुर्विलसन्तं सुतं च तम् ।
संस्कृत्य विधिवत्सर्वे विष्ण्वाद्यास्तुष्टुवुः पुनः ॥ ६०॥
पिप्पलादेति तन्नाम चक्रे ब्रह्मा प्रसन्नधीः ।
प्रसन्नो भव देवेश इत्यूचे हरिणा सुरैः ॥ ६१॥
इत्युक्त्वा तमनुज्ञाय ब्रह्मा विष्णुः सुरास्तथा ।
स्वं स्वं धाम ययुः सर्वे विधाय च महोत्सवम् ॥ ६२॥
अथ रुद्रः पिप्पलादोऽश्वत्थमूले महाप्रभुः ।
तताप सुचिरं कालं लोकानां हितकाम्यया ॥ ६३॥
इत्थं सुतपतस्तस्य पिप्पलादस्य सम्मुखे ।
महाकालो व्यतीयाय लोकचर्यानुसारिणः ॥ ६४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ३.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२५. पञ्चविंशोऽध्यायः । पिप्पलादावतारचरितवर्णनम् ।
नन्दीश्वर उवाच ।
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ।
महालीलां चकारेशस्तामहो सन्मुने शृणु ॥ १॥
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।
ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ॥ २॥
तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ।
जगाम भुवनाचारी लोकतत्त्वविचक्षणः ॥ ३॥
राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ ४॥
स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ।
मौनी बभूव नृपतिः किञ्चिन्निर्वक्तुमक्षमः ॥ ५॥
मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ।
अन्यथा भस्मसात्सर्वं करिष्येऽहं त्वया सह ॥ ६॥
अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ।
तेजसा पिप्पलादस्य दाधीचस्य महामुने ॥ ७॥
अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ।
कन्यामलङ्कृतां पद्मां वृद्धाय मुनये ददौ ॥ ८॥
पद्मां विवाह्य स मुनिः शिवांशाम्भूपतेः सुताम् ।
पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ॥ ९॥
तत्र गत्वा मुनिवरो वयसा जर्जरोऽधिकः ।
उवास नार्या स तया तपस्वी नातिलम्पटः ॥ १०॥
अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ ११॥
इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ।
रेमे तया युवत्या च युवाभूय स्वलीलया ॥ १२॥
दश पुत्रा महात्मानो बभूवुः सुतपस्विनः ।
मुनेः पितुः समाः सर्वे पद्मायाः सुखवर्द्धनाः ॥ १३॥
एवं लीलावतारो हि शङ्करस्य महाप्रभोः ।
पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ॥ १४॥
येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ।
दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ॥ १५॥
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ।
तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ॥ १६॥
अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ।
तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ॥ १७॥
इति तद्भयतस्तात विकृतोऽपि शनैश्चरः ।
तेषां न कुरुते पीडां कदाचिद् ग्रहसत्तमः ॥ १८॥
इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ।
कथितं सुचरित्रं ते सर्वकामफलप्रदम् ॥ १९॥
गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ।
शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ॥ २०॥
पिप्पलादस्य चरितं पद्माचरितसंयुतम् ।
यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ॥ २१॥
शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ।
यः पठेच्छृणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥ २२॥
धन्यो मुनिवरो ज्ञानी महाशैवः सतां प्रियः ।
अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ॥ २३॥
इदमाख्यानमनघं स्वर्ग्यं कुग्रहदोषहृत् ।
सर्वकामप्रदं तात शिवभक्तिविवर्द्धनम् ॥ २४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ३.२५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२६. षड्विंशोऽध्यायः । वैश्यनाथाह्वयशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।
अवतारं परानन्दं वैश्यनाथाह्वयं मुने ॥ १॥
नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ।
बभूव वारवनिता शिवभक्ता सुसुन्दरी ॥ २॥
महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला ।
नानारत्नपरिच्छिन्नशृङ्गाररसनिर्भरा ॥ ३॥
सर्वसङ्गीतविद्यासु निपुणातिमनोहरा ।
तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च ॥ ४॥
समानर्च सदा साम्बं सा वेश्या शङ्करं मुदा ।
शिवनामजपासक्ता भस्मरुद्राक्षभूषणा ॥ ५॥
शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् ।
ननर्त परया भक्त्या गायन्ती शिवसद्यशः ॥ ६॥
रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् ।
करतालैश्च गीतैश्च सदा नर्तयति स्म सा ॥ ७॥
नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा ।
वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता ॥ ८॥
रुद्राक्षैः कृतकेयूरकर्णाभरणमण्डना ।
मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत् ॥ ९॥
शिखासम्बद्धरुद्राक्षः कुक्कुटः कपिना सह ।
नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन् ॥ १०॥
एवं सा कुर्वती वेश्या कौतुकं परमादरात् ।
शिवभक्तिरता नित्यं महानन्दभराभवत् ॥ ११॥
शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम ।
बहुकालो व्यतीयाय तस्याः परमसौख्यतः ॥ १२॥
एकदा च गृहे तस्या वैश्यो भूत्वा शिवः स्वयम् ।
परीक्षितुं च तद्भावमाजगाम शुभो व्रती ॥ १३॥
त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती ।
शिवनामजपासक्तो जटिलः शैववेषभृत् ॥ १४॥
स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकङ्कणम् ।
महारत्नपरिस्तीर्णं राजते परकौतुकी ॥ १५॥
तमागतं सुसम्पूज्य सा वेश्या परया मुदा ।
स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत् ॥ १६॥
तत्प्रकोष्ठे वरं वीक्ष्य कङ्कणं सुमनोहरम् ।
तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता ॥ १७॥
महानन्दोवाच ।
महारत्नमयश्चायं कङ्कणस्त्वत्करे स्थितः ।
मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः ॥ १८॥
नन्दीश्वर उवाच ।
इति तां नवरत्नाढ्ये सस्पृहां करभूषणे ।
वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥ १९॥
वैश्यनाथ उवाच ।
अस्मिन् रत्नवरे दिव्ये सस्पृहं यदि ते मनः ।
त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम् ॥ २०॥
वेश्योवाच ।
वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ।
अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥ २१॥
यद्येतदखिलं चित्तं गृह्णाति करभूषणम् ।
दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम् ॥ २२॥
वैश्य उवाच ।
तथास्तु यदि ते सत्यं वचनं वीरवल्लभे ।
ददामि रत्नवलयं त्रिरात्रं भव मे वधूः ॥ २३॥
एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ।
त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥ २४॥
वेश्योवाच ।
दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ।
सहधर्मं चरामीति सत्यं सत्यं न संशयः ॥ २५॥
नन्दीश्वर उवाच ।
इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ ।
प्रमाणीकृत्य सुप्रीत्या सा तद् हृदयमस्पृशत् ॥ २६॥
अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकङ्कणम् ।
लिङ्गं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत् ॥ २७॥
वैश्यनाथ उवाच ।
इदं रत्नमयं लिङ्गं शैवं मत्प्राणदवल्लभम् ।
रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः ॥ २८॥
नन्दीश्वर उवाच ।
एवमस्त्विति सा प्रोच्य लिङ्गमादाय रत्नजम् ।
नाट्यमण्डपिकामध्ये निधाय प्राविशद् गृहम् ॥ २९॥
सा तेन सङ्गता रात्रौ वैश्येन विटधर्मिणा ।
सुखं सुष्वाप पर्यङ्के मृदुतल्पोपशोभिते ॥ ३०॥
ततो निशीथसमये मुने वैश्यपतीच्छया ।
अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे ॥ ३१॥
महाप्रज्वलितो वह्निः सुसमीरसहायवान् ।
नाट्यमण्डपिकां तात तामेव सहसावृणोत् ॥ ३२॥
मण्डपे दह्यमाने तु सहसोत्थाय सम्भ्रमात् ।
मर्कटं मोचयामास सा वेश्या तत्र बन्धनात् ॥ ३३॥
स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ।
भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून् ॥ ३४॥
स्तम्भेन सह निर्दग्धं तल्लिङ्गं शकलीकृतम् ।
दृष्ट्वा वेश्या स वैश्यश्च दुरन्तं दुःखमापतुः ॥ ३५॥
दृष्ट्वा ह्यात्मसमं लिङ्गं दग्धं वैश्यपतिस्तदा ।
ज्ञातुं तद्भावमन्तःस्थं मरणाय मतिं दधे ॥ ३६॥
निविश्येऽतितरां खेदाद्वैश्यस्तामाह दुःखिताम् ।
नानालीलो महेशानः कौतुकान्नरदेहवान् ॥ ३७॥
वैश्यपतिरुवाच ।
शिवलिङ्गे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे ।
सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे ॥ ३८॥
चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु ।
शिवे मनः समावेश्य प्रवेक्ष्यामि हुताशनम् ॥ ३९॥
यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ।
तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून् ॥ ४०॥
नन्दीश्वर उवाच ।
तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता ।
स्वभृत्यैः कारयामास चितां स्वभवनाद् बहिः ॥ ४१॥
ततः स वैश्यः शिव एक एव
प्रदक्षिणीकृत्य समिद्धमग्निम् ।
विवेश पश्यत्सु नरेषु धीरः
सुकौतुकी सङ्गतिभावमिच्छुः ॥ ४२॥
दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता ।
अनुतापं च युवती प्रपेदे मुनिसत्तम ॥ ४३॥
अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् ।
सर्वान्बन्धुजनान्वीक्ष्य बभाषे करुणं वचः ॥ ४४॥
महानन्दोवाच ।
रत्नकङ्कणमादाय मया सत्यमुदाहृतम् ।
दिनत्रयमहं पत्नी वैश्यस्यामुष्य सम्मता ॥ ४५॥
कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती ।
तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥ ४६॥
स्वधर्मचारिणीत्युक्तमाचार्यैः सत्यवादिभिः ।
एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु ॥ ४७॥
सत्याश्रयः परो धर्मः सत्येन परमा गतिः ।
सत्येन स्वर्गमोक्षौ च सत्ये सर्वं प्रतिष्ठितम् ॥ ४८॥
नन्दीश्वर उवाच ।
इति सा दृढनिर्बन्धा वार्यमाणापि बन्धुभिः ।
सत्यलोपभिया नारी प्राणांस्त्यक्तुं मनो दधे ॥ ४९॥
सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् ।
तमग्निं त्रिःपरिक्रम्य प्रवेशाभिमुखी ह्यभूत् ॥ ५०॥
तां पतन्तीं समिद्धेऽग्नौ स्वपदार्पितमानसाम् ।
वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः ॥ ५१॥
सा तं विलोक्याखिलदेवदेवं
त्रिलोचनं चन्द्रकलावतंसम् ।
शशाङ्कसूर्यानलकोटिभासं
स्तब्धेव भीतेव तथैव तस्थौ ॥ ५२॥
तां विह्वलां सुवित्रस्तां वेपमानां जडीकृताम् ।
समाश्वास्य गलद्बाष्पां करौ धृत्वाब्रवीद्वचः ॥ ५३॥
शिव उवाच ।
सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् ।
परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥ ५४॥
माययाग्निं समुद्दीप्य दग्धं ते नाट्यमण्डपम् ।
दग्धं कृत्वा रत्नलिङ्गं प्रविष्टोऽहं हुताशनम् ॥ ५५॥
सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा ।
अतस्ते सम्प्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥ ५६॥
यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते ।
त्वद्भक्त्याहं प्रसन्नोऽस्मि तवादेयं न विद्यते ॥ ५७॥
नन्दीश्वर उवाच ।
इति ब्रुवति गौरीशे शङ्करे भक्तवत्सले ।
महानन्दा च सा वेश्या शङ्करं प्रत्यभाषत ॥ ५८॥
वेश्योवाच ।
न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ।
तव पादाम्बुजस्पर्शादन्यत्किञ्चिन्न कामये ॥ ५९॥
ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ।
सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः ॥ ६०॥
सर्वानेतान्मया सार्धं निनीयात्मपरं पदम् ।
पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते ॥ ६१॥
नन्दीश्वर उवाच ।
ततः स तस्या वचनं प्रतिनन्द्य महेश्वरः ।
ताः सर्वाश्च तया सार्धं निनाय स्वं परं पदम् ॥ ६२॥
वैश्यनाथावतारस्ते वर्णितः परमो मया ।
महानन्दासुखकरो भक्तानन्दप्रदः सदा ॥ ६३॥
इदं चरित्रं परमं पवित्रं
सतां च सर्वप्रदमाशु दिव्यम् ।
शिवावतारस्य विशाम्पतेर्महा-
नन्दामहासौख्यकरं विचित्रम् ॥ ६४॥
इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
च्यवते न स्वधर्मात्स परत्र लभते गतिम् ॥ ६५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां वैश्यनाथाह्वयशिवावतारवर्णनं नाम षड्विंशोऽध्यायः ॥ ३.२६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२७. सप्तविंशोऽध्यायः । द्विजेशाख्यशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।
द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥ १॥
यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ।
यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥ २॥
तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः ।
द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥ ३॥
ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ।
प्राप्तसिंहासनस्तात भद्रायुः सम्बभूव ह ॥ ४॥
चन्द्राङ्गदस्य तनया सीमन्तिन्याः शुभाङ्गजा ।
पत्नी तस्याभवद् ब्रह्मन्सुसाध्वी कीर्तिमालिनी ॥ ५॥
स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् ।
प्राविशत्संविहारार्थं वसन्तसमये मुने ॥ ६॥
अथ तस्मिन्वने रम्ये विजहार स भूपतिः ।
शरणागतपालिन्या तया स्वप्रियया सह ॥ ७॥
अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ।
लीलां चकार तत्रैव शिवया सह शङ्करः ॥ ८॥
शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती ।
व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया ॥ ९॥
अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ।
अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥ १०॥
अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ।
ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥ ११॥
अथ तौ मुनिशार्दूल स्वमायाद्विजदम्पती ।
भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥ १२॥
द्विजदम्पती ऊचतुः ।
पाहि पाहि महाराज नावुभौ धर्मवित्तम ।
एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥ १३॥
एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ।
यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥ १४॥
नन्दीश्वर उवाच ।
इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ।
अति शीघ्रं महावीरः स यावद्धनुराददे ॥ १५॥
तावदभ्येत्य शार्दूलः त्वरमाणोऽतिमायिकः ।
स तस्य द्विजवर्यस्य मध्ये जग्राह तां वधूम् ॥ १६॥
हे नाथ नाथ हे कान्त हा शम्भो हा जगद्गुरो ।
इति रोरूयमानां तां व्याघ्रो जग्रास भीषणः ॥ १७॥
तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ।
न स तैर्विव्यथे किञ्चिद्गिरीन्द्र इव वृष्टिभिः ॥ १८॥
स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः ।
बलादाकृष्य तां नारीमपाक्रमत सत्वरः ॥ १९॥
व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोऽतिविस्मितः ।
लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः ॥ २०॥
रुदित्वा चिरकालं च स विप्रो माययेश्वरः ।
भद्रायुषं महीपालं प्रोवाच मदहारकः ॥ २१॥
द्विजेश्वर उवाच ।
राजन् क्व ते महास्त्राणि क्व ते त्राणं महद्धनुः ।
क्व ते द्वादशसाहस्रमहानागयुतं बलम् ॥ २२॥
किं ते खड्गेन शङ्खेन किं ते मन्त्रास्त्रविद्यया ।
किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा ॥ २३॥
तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ।
यस्त्वं वनौकसां घातं न निवारयितुं क्षमः ॥ २४॥
क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् ।
तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥ २५॥
आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः ।
प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमाः ॥ २६॥
आर्तत्राणविहीनानां जीवितान्मरणं वरम् ।
धनिनां दानहीनानां गार्हस्थ्याद्भिक्षुता वरम् ॥ २७॥
वरं विषाशनं प्राज्ञैर्वरमग्निप्रवेशनम् ।
कृपणानामनाथानां दीनानामपरक्षणात् ॥ २८॥
नन्दीश्वर उवाच ।
इत्थं विलपितं तस्य स्ववीर्यस्य च गर्हणम् ।
निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत् ॥ २९॥
अहो मे पौरुषं नष्टमद्य दैवविपर्ययात् ।
अद्य कीर्तिश्च मे नष्टा पातकं प्राप्तमुत्कटम् ॥ ३०॥
धर्मः कुलोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ।
नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति ॥ ३१॥
अद्य चैनं द्विजन्मानं हतदारं शुचार्दितम् ।
हतशोकं करिष्यामि दत्त्वा प्राणानतिप्रियान् ॥ ३२॥
इति निश्चित्य मनसा स भद्रायुर्नृपोत्तमः ।
पतित्वा पादयोस्तस्य बभाषे परिसान्त्वयन् ॥ ३३॥
भद्रायुरुवाच ।
कृपां कृत्वा मयि ब्रह्मन् क्षत्रबन्धौ हतौजसि ।
शोकन्त्यज महाप्राज्ञ दास्याम्यद्य तु वाञ्छितम् ॥ ३४॥
इदं राज्यमियं राज्ञी ममेदं च कलेवरम् ।
त्वदधीनमिदं सर्वं किन्तेऽभिलषितं वरम् ॥ ३५॥
ब्राह्मण उवाच ।
किमादर्शेन चान्धस्य किं गृहेर्भैक्ष्यजीविनः ।
किं पुस्तकेन मूढस्य निस्त्रीकस्य धनेन किम् ॥ ३६॥
अतोऽहं हतपत्नीको भुक्तभोगो न कर्हिचित् ।
इमान्तवाग्रमहिषीं कामये दीयतामिति ॥ ३७॥
भद्रायुरुवाच
दाता रसान्तवित्तस्य राज्यस्य गजवाजिनाम् ।
आत्मदेहस्य कस्यापि कलत्रस्य न कर्हिचित् ॥ ३८॥
परदारोपभोगेन यत्पापं समुपार्जितम् ।
न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ॥ ३९॥
ब्राह्मण उवाच ।
आस्तां ब्रह्मवधं घोरमपि मद्यनिषेवणम् ।
तपसा विधमिष्यामि किं पुनः पारदारिकम् ॥ ४०॥
तस्मात्प्रयच्छ भार्यां स्वामियां कामो न मेऽपरः ।
अरक्षणाद्भयार्तानां गन्तासि निरयं ध्रुवम् ॥ ४१॥
नन्दीश्वर उवाच ।
इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः ।
अरक्षणान्महापापं पत्नीदानं ततो वरम् ॥ ४२॥
अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्बिषः ।
सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च विदिता भवेत् ॥ ४३॥
इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ।
तमाहूय द्विजं चक्रे पत्नीदानं सहोदकम् ॥ ४४॥
स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ।
तमग्निं त्रिः परिक्रम्य शिवं दध्यौ समाहितः ॥ ४५॥
तमथाग्निं पतिष्यन्तं स्वपदासक्तचेतसम् ।
प्रत्यषेधत विश्वेशः प्रादुर्भूतो द्विजेश्वरः ॥ ४६॥
तमीश्वरं पञ्चमुखं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ।
प्रलम्बपिङ्गांशुजटाकलापं मध्याह्नसद्भास्करकोटितेजसम् ॥ ४७॥
मृणालगौरं गजचर्मवाससं गङ्गातरङ्गोक्षितमौलिदेशकम् ।
नागेन्द्रहारावलिकण्ठभूषणं किरीटकाञ्च्यङ्गदकङ्कणोज्ज्वलम् ॥ ४८॥
शूलासिखट्वाङ्गकुठारचर्म-
मृगाभयाष्टाङ्गपिनाकहस्तम् ।
वृषोपरिस्थं शितिकण्ठभूषणं
प्रोद्भूतमग्रे स नृपो ददर्श ॥ ४९॥
ततोऽम्बराद् द्रुतं पेतुर्दिव्याः कुसुमवृष्टयः ।
प्रणेदुर्देवतूर्य्याणि देव्यश्च ननृतुर्जगुः ॥ ५०॥
तत्राजग्मुः स्तूयमाना हरिर्ब्रह्मा तथासुराः ।
इन्द्रादयो नारदाद्या मुनयश्चापरेऽपि च ॥ ५१॥
तदोत्सवो महानासीत्तत्र भक्तिप्रवर्धनः ।
सति पश्यति भूपाले भक्तिनम्रीकृताञ्जलौ ॥ ५२॥
तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धबाष्पाम्बुविलिप्तगात्रः ।
प्रहृष्टरोमा स हि गद्गदाक्षरस्तुष्टाव गीर्भिर्मुकुलीकृताञ्जलिः ॥ ५३॥
ततस्स भगवान् राज्ञा संस्तुतः परमेश्वरः ।
प्रसन्नः सह पार्वत्या तमुवाच दयानिधिः ॥ ५४॥
राजंस्ते परितुष्टोऽहं भक्त्या त्वद्धर्मतोऽधिकम् ।
वरं ब्रूहि सपत्नीकम्प्रयच्छामि न संशयः ॥ ५५॥
तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ।
व्याघ्रेण या परिग्रस्ता साक्षाद्देवी शिवा हि सा ॥ ५६॥
व्याघ्रो मायामयो यस्ते शरैरक्षत विग्रहः ।
धीरतान् द्रष्टुकामस्ते पत्नीं याचितवानहम् ॥ ५७॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य प्रभोर्वाक्यं स भद्रायुर्महीपतिः ।
पुनः प्रणम्य संस्तूय स्वामिनं नतकोऽब्रवीत् ॥ ५८॥
भद्रायुरुवाच ।
एक एव वरो नाथ यद्भवान्परमेश्वरः ।
भवतापप्रतप्तस्य मम प्रत्यक्षतां गतः ॥ ५९॥
यद्ददासि पुनर्नाथ वरं स्वकृपया प्रभो ।
वृणेऽहं परमं त्वत्तो वरं हि वरदर्षभात् ॥ ६०॥
वज्रबाहुः पिता मे हि सपत्नीको महेश्वर ।
सपत्नीकस्त्वहं नाथ सदा त्वत्पादसेवकः ॥ ६१॥
वैश्यः पद्माकरो नाम तत्पुत्रः सनयाभिधः ।
सर्वानेतान्महेशान सदा त्वं पार्श्वगान्कुरु ॥ ६२॥
नन्दीश्वर उवाच ।
अथ राज्ञी च तत्पत्नी प्रमत्ता कीर्तिमालिनी ।
भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ॥ ६३॥
राज्ञ्युवाच ।
चन्द्राङ्गदो मम पिता माता सीमन्तिनी च मे ।
तयोर्याचे महादेव त्वत्पाश्वे सन्निधिं मुदा ॥ ६४॥
नन्दीश्वर उवाच ।
एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ।
तयोः कामवरान्दत्त्वा क्षणादन्तर्हितोऽभवत् ॥ ६५॥
भद्रायुरपि सुप्रीत्या प्रसादं प्राप्य शूलिनः ।
सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून् ॥ ६६॥
कृत्वा वर्षायुतं राज्यमव्याहतपराक्रमः ।
राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम् ॥ ६७॥
चन्द्राङ्गदोऽपि राजेन्द्रो राज्ञी सीमन्तिनी च सा ।
भक्त्या सम्पूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥ ६८॥
द्विजेश्वरावतारस्ते वर्णितः परमो मया ।
महेश्वरस्य भद्रायुपरमानन्ददः प्रभो ॥ ६९॥
इदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ।
द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठन् शम्भुपदं प्रयाति ॥ ७०॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
न श्चोतति स्वधर्मात्स परत्र लभते गतिम् ॥ ७१॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं नाम सप्तविंशोऽध्यायः ॥ ३.२७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२८. अष्टाविंशोऽध्यायः । यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः ।
अवतारं परानन्दं यतिनाथाह्वयं मुने ॥ १॥
अर्बुदाचलसंज्ञे तु पर्वते भिल्लवंशजः ।
आहुकश्च तदभ्याशे वसति स्म मुनीश्वर ॥ २॥
तत्पत्नी ह्याहुका नाम बभूव किल सुव्रता ।
उभावपि महाशैवावास्तां तौ शिवपूजकौ ॥ ३॥
कस्मिंश्चित्समये भिल्लः शिवभक्तिरतः सदा ।
आहारार्थं स्वपत्न्याश्च सुदूरं स गतो मुने ॥ ४॥
एतस्मिन्नन्तरे तत्र गेहे भिल्लस्य शङ्करः ।
भूत्वा यतिवपुः सायं परीक्षार्थं समाययौ ॥ ५॥
तस्मिन्नवसरे तत्राजगाम स गृहाधिपः ।
पूजनं च यतीशस्य चकार प्रेमतः सुधीः ॥ ६॥
तद्भावस्य परीक्षार्थं यतिरूपः स शङ्करः ।
महालीलातरः प्रीत्या भीतः प्रोवाच दीनगीः ॥ ७॥
यतिनाथ उवाच ।
अद्य स्थलं निवासार्थं देहि मे प्रातरेव हि ।
यास्यामि सर्वथा भिल्ल स्वस्ति स्यात्तव सर्वदा ॥ ८॥
भिल्ल उवाच ।
सत्यं प्रोक्तं त्वया स्वामिन् शृणु मद्वचनं च ते ।
अति स्वल्पं स्थलं मे हि स्यान्निवासः कथं तव ॥ ९॥
नन्दीश्वर उवाच ।
इत्युक्तः स यतिस्तेन गमनाय मतिं दधे ।
तावद्भिल्ल्या वचः प्रोक्तं स्वामिनं संविचार्य वै ॥ १०॥
भिल्ल्युवाच ।
स्वामिन्देहि यतेः स्थानं विमुखं कुरु मातिथिम् ।
गृहधर्मं विचार्य त्वमन्यथा धर्मसङ्क्षयः ॥ ११॥
स्थीयतां ते गृहाभ्यन्तः सुखेन यतिना सह ।
अहं बहिः स्थितिं कुर्यामायुधानि बृहन्त्यपि ॥ १२॥
नन्दीश्वर उवाच ।
तस्यास्तद्वचनं श्रुत्वा भिल्ल्या धर्मान्वितं शिवम् ।
स्वपत्न्या मनसा तेन भिल्लेन च विचारितम् ॥ १३॥
स्त्रियं बहिश्च निष्कास्य कथं स्थेयं मया गृहे ।
यतेरन्यत्र गमनमधर्मकरमात्मनः ॥ १४॥
द्वयमप्युचितं नैव सर्वथा गृहमेधिनः ।
यद्भावि तद्भवेदेव मया स्थेयं गृहाद् बहिः ॥ १५॥
इत्याग्रहं तदा कृत्वा गृहान्तः स्थाप्य तौ मुदा ।
स्वायुधानि च संस्थाप्य भिल्लोऽतिष्ठद् गृहाद् बहिः ॥ १६॥
रात्रौ तं पशवः क्रूराः हिंसकाः समपीडयन् ।
तेनापि च यथाशक्ति कृतो यत्नो महांस्तदा ॥ १७॥
एवं यत्नं प्रकुर्वाणः स भिल्लो बलवानपि ।
प्रारब्धात्प्रेरितैर्हिंस्रैर्बलादासीच्च भक्षितः ॥ १८॥
प्रातरुत्थाय स यतिर्दृष्ट्वा हिंस्रैश्च भक्षितम् ।
भिल्लं वनेचरं तं वै दुःखितोऽभूदतीव हि ॥ १९॥
दुखितं तं यतिं दृष्ट्वा भिल्ली सा दुःखितापि हि ।
धैर्यात्स्वदुःखं संहृत्य वचनं चेदमब्रवीत् ॥ २०॥
भिल्ल्युवाच ।
किमर्थं क्रियते दुःखं भद्रं जातं यतेऽधुना ।
धन्योऽयं कृतकृत्यश्च यज्जातो मृत्युरीदृशः ॥ २१॥
अहं चैनं गमिष्यामि भस्म भूत्वानले यते ।
चितां कारय सुप्रीत्या स्त्रीणां धर्मः सनातनः ॥ २२॥
इति तद्वचनं श्रुत्वा हितं मत्वा स्वयं यतिः ।
चितां व्यरचयत्सा हि प्रविवेश स्वधर्मतः ॥ २३॥
एतस्मिन्नन्तरे साक्षात्पुरः प्रादुरभूच्छिवः ।
धन्ये धन्ये इति प्रीत्या प्रशंसस्तां हरोऽब्रवीत् ॥ २४॥
हर उवाच ।
वरं ब्रूहि प्रसन्नोऽस्मि त्वदाचरणतोऽनघे ।
तवादेयं न वै किञ्चिद् वश्योऽहं ते विशेषतः ॥ २५॥
नन्दीश्वर उवाच ।
तच्छुत्वा शम्भुवचनं परमानन्ददायकम् ।
सुखं प्राप्तं विशेषेण न किञ्चित्स्मरणं ययौ ॥ २६॥
तस्यास्तद्गतिमालक्ष्य सुप्रसन्नो हरोऽभवत् ।
उवाच च पुनः शम्भुर्वरं ब्रूहीति तां प्रभुः ॥ २७॥
शिव उवाच ।
अयं यतिश्च मद्रूपो हंसरूपो भविष्यति ।
परजन्मनि वां प्रीत्या संयोगं कारयिष्यति ॥ २८॥
भिल्लश्च वीरसेनस्य नैषधे नगरे वरे ।
महान्पुत्रो नलो नाम भविष्यति न संशयः ॥ २९॥
त्वं सुता भीमराजस्य वैदर्भे नगरेऽनघे ।
दमयन्ती च विख्याता भविष्यसि गुणान्विता ॥ ३०॥
युवां चोभौ मिलित्वा च राजभोगं सुविस्तरम् ।
भुक्त्वा मुक्तिं च योगीन्द्रैर्लप्स्येथे दुर्लभां ध्रुवम् ॥ ३१॥
नन्दीश्वर उवाच ।
इत्युक्त्वा च स्वयं शम्भुर्लिङ्गरूपोऽभवत्तदा ।
तस्मान्न चलितो धर्मादचलेश इति स्मृतः ॥ ३२॥
स भिल्ल आहुकश्चापि वीरसेनसुतोऽभवत् ।
नैषधे नगरे तात नलनामा महानृपः ॥ ३३॥
आहुका सा महाभिल्ली भीमस्य तनयाभवत् ।
वैदर्भे नगरे राज्ञो दमयन्तीति विश्रुता ॥ ३४॥
यतिनाथाह्वयः सोऽपि हंसरूपोऽभवच्छिवः ।
विवाहं कारयामास दमयन्त्या नलेन वै ॥ ३५॥
पूर्वसत्काररूपेण महापुण्येन शङ्करः ।
हंसरूपं विधायैव ताभ्यां सुखमदात्प्रभुः ॥ ३६॥
शिवो हंसावतारो हि नानावार्ताविचक्षणः ।
दमयन्त्या नलस्यापि परमानन्ददायकः ॥ ३७॥
इदं चरितं परमं पवित्रं शिवावतारस्य पवित्रकीर्तेः ।
यतीशसंज्ञस्य महाद्भुतं हि हंसाह्वयस्यापि विमुक्तिदं हि ॥ ३८॥
यतीशब्रह्महंसाख्यावतारचरितं शुभम् ।
शृणुयाच्छ्रावयेद्यो हि स लभेत परां गतिम् ॥ ३९॥
इदमाख्यानमनघं सर्वकामफलप्रदम् ।
स्वर्ग्यं यशस्यमायुष्यं भक्तिवर्धनमुत्तमम् ॥ ४०॥
श्रुत्वैतच्चरितं शम्भोर्यतिहंसस्वरूपयोः ।
इह सर्वसुखं भुक्त्वा सोऽन्ते शिवपुरं व्रजेत् ॥ ४१॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनं नामाष्टाविंशोऽध्यायः ॥ ३.२८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.२९. एकोनत्रिंशोऽध्यायः । कृष्णदर्शनशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ।
नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम् ॥ १॥
इक्ष्वाकुप्रमुखा आसन् श्राद्धदेवसुताश्च ये ।
नभगस्तत्र नवमो नाभागस्तत्सुतः स्मृतः ॥ २॥
अम्बरीषः सुतस्तस्य विष्णुभक्तो बभूव सः ।
यस्योपरि प्रसन्नोऽभूद्दुर्वासा ब्रह्मभक्तितः ॥ ३॥
पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ।
तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः ॥ ४॥
नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धिमान् ।
चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः ॥ ५॥
एतस्मिन्समये ते वै इक्ष्वाकुप्रमुखाः सुताः ।
तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ॥ ६॥
स्वं स्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ।
अविषादं महाभागाः पित्रादेशात्सुबुद्धयः ॥ ७॥
स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ।
नभगोऽधीत्य सर्वाश्च साङ्गोपाङ्गाः श्रुतीः क्रमात् ॥ ८॥
भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ।
दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने ॥ ९॥
नभग उवाच ।
भ्रातरोऽभक्तकं मह्यं दायं कृत्वा यथातथम् ।
सर्वे विभक्ताः सुप्रीत्या स्वदायार्थागताय च ॥ १०॥
तदा विस्मृतमस्माभिरिदानीं पितरं तव ।
विभजामो वयं भागं तं गृहाण न संशयः ॥ ११॥
तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ।
तदोपकण्ठमागत्य पितरं समभाषत ॥ १२॥
नभग उवाच ।
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ।
पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले ॥ १३॥
तत आगत्य मे पृष्टा दायदानार्थमादरात् ।
ते त्वामूचुर्विभागं मे तदर्थमहमागतः ॥ १४॥
नन्दीश्वर उवाच ।
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः ।
आश्वास्य श्राद्धदेवः स सत्यधर्मरतं मुने ॥ १५॥
मनुरुवाच ।
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ।
न ह्यहं परमं दायं सर्वथा भोगसाधनम् ॥ १६॥
तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ।
तव वै जीवनोपायं वदामि शृणु तत्त्वतः ॥ १७॥
सत्रमाङ्गिरसा विप्राः कुर्वन्त्यद्य सुमेधसः ।
तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति ॥ १८॥
तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ।
सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत् ॥ १९॥
तत्कर्मणि समाप्ते हि स्वर्यान्तो ब्राह्मणाश्च ते ।
धनं दास्यन्ति ते तुष्टाः स्वसत्रपरिशेषितम् ॥ २०॥
नन्दीश्वर उवाच ।
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ।
जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ॥ २१॥
तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ।
सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतः सुधीः ॥ २२॥
समाप्ते कर्मणि ततो विप्रा आङ्गिरसाश्च ते ।
तस्मै दत्त्वा ययुः स्वर्गं स्वं स्वं सत्रावशेषितम् ॥ २३॥
तत्तदा स्वीकरिष्यन्तं सुसत्रपरिशेषितम् ।
विज्ञाय गिरिशः सद्य आविर्भूतः सदूतिकृत् ॥ २४॥
सर्वाङ्गसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ।
भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ॥ २५॥
अथो स शङ्करः शम्भुः परीक्षाकर ईश्वरः ।
उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम् ॥ २६॥
ईश्वर उवाच ।
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ।
प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः ॥ २७॥
नन्दीश्वर उवाच ।
तच्छ्रुत्वा तद्वचस्तात मानवो नभगः कविः ।
प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम् ॥ २८॥
नभग उवाच ।
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ।
कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शन ॥ २९॥
नन्दीश्वर उवाच ।
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ।
प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः ॥ ३०॥
कृष्णदर्शन उवाच ।
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ।
याहि तं पृच्छ स ब्रूयात्तत्प्रमाणं तु सत्यतः ॥ ३१॥
नन्दीश्वर उवाच ।
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ।
आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने ॥ ३२॥
पुत्रोदितं समाकर्ण्य श्राद्धदेवः स वै मनुः ।
स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम् ॥ ३३॥
मनुरुवाच ।
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ।
तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः ॥ ३४॥
अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ।
इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया ॥ ३५॥
स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ।
यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः ॥ ३६॥
अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ।
तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः ॥ ३७॥
क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ।
सर्वप्रभुः स एवेशो यज्ञाधीशोऽखिलेश्वरः ॥ ३८॥
विष्णुब्रह्मादयो देवाः सिद्धाः सर्वर्षयोऽपि हि ।
तदनुग्रहतस्तात समर्थाः सर्वकर्मणि ॥ ३९॥
किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ।
प्रसादय महादेवं सर्वथा सकलेश्वरम् ॥ ४०॥
नन्दीश्वर उवाच ।
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ।
प्रेषयामास निकटं शम्भोः सोऽपि समेत्य तम् ॥ ४१॥
नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ।
प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः ॥ ४२॥
नभग उवाच ।
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ।
इत्याह मे पिता नूनं किमुताध्वरशेषितम् ॥ ४३॥
अजानता मया नाथ यदुक्तं तद्वचो भ्रमात् ।
अपराधं त्वं क्षमस्व शिरसा त्वां प्रसादये ॥ ४४॥
इत्युक्त्वा नभगः सोऽतिदीनधीस्तु कृताञ्जलिः ।
तुष्टाव तं महेशानं कृष्णदर्शनमानतः ॥ ४५॥
श्राद्धदेवोऽपि शुद्धात्मा नतकः साञ्जलिः सुधीः ।
तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयन् ॥ ४६॥
एतस्मिन्नन्तरे तत्र विष्णुब्रह्मादयः सुराः ।
वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि ॥ ४७॥
महोत्सवं प्रकुर्वन्तः सुकृताञ्जलयोऽखिलाः ।
तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक् ॥ ४८॥
अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान् ।
उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः ॥ ४९॥
कृष्णदर्शन उवाच ।
यत्ते पितावदद्धर्म्यं वाक्यं तत्तु तथैव हि ।
त्वयापि सत्यमुक्तं तत् साधुस्त्वं नात्र संशयः ॥ ५०॥
अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ।
ददामि कृपया ते हि ज्ञानं ब्रह्म सनातनम् ॥ ५१॥
महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ।
गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना ॥ ५२॥
इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ।
सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम ॥ ५३॥
नन्दीश्वर उवाच ।
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ।
सर्वेषां पश्यतां तेषां तत्रैवान्तर्दधे हरः ॥ ५४॥
विष्णुर्ब्रह्मापि देवाद्याः सर्वे ते मुनिसत्तम ।
स्वं स्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा ॥ ५५॥
सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ।
भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुरं ययौ ॥ ५६॥
इत्थं ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ।
कृष्णदर्शननामा वै नभगानन्ददायकः ॥ ५७॥
इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ।
पठतां शृण्वतां वापि सर्वकामफलप्रदम् ॥ ५८॥
य एतच्चरितं प्रातः सायं च स्मरते सुधीः ।
कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम् ॥ ५९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ३.२९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३०. त्रिंशोऽध्यायः । अवधूतेश्वरशिवावतारचरित्रवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु त्वं ब्रह्मपुत्राद्यावतारं परमेशितुः ।
अवधूतेश्वराह्वं वै शक्रगर्वापहारकम् ॥ १॥
शक्रः पुरा हि सगुरुः सर्वदेवसमन्वितः ।
दर्शनं कर्तुमीशस्य कैलासमगमन्मुने ॥ २॥
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शङ्करस्तयोः ।
परीक्षितुं च तद्भावं स्वदर्शनरतात्मनोः ॥ ३॥
अवधूतस्वरूपोऽभून्नानालीलाकरः प्रभुः ।
दिगम्बरो महाभीमो ज्वलदग्निसमप्रभः ॥ ४॥
सोऽवधूतस्वरूपो हि मार्गमारुद्ध्य सद्गतिः ।
लम्बमानपटः शम्भुरतिष्ठच्छोभिताकृतिः ॥ ५॥
अथ तौ गुरुशक्रौ च गच्छन्तौ शिव सन्निधिम् ।
अद्राष्टां पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ६॥
अथ शक्रो मुनेऽपृच्छत्स्वाधिकारेण दुर्मदः ।
पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शङ्करम् ॥ ७॥
शक्र उवाच ।
कस्त्वं दिगम्बराकारावधूतः कुत आगतः ।
किन्नाम तव विख्यातं तत्त्वतो वद मेऽचिरम् ॥ ८॥
स्वस्थाने संस्थितः शम्भुः किं वान्यत्र गतोऽधुना ।
दर्शनार्थं हि तस्याहं गच्छामि सगुरुः सुरैः ॥ ९॥
नन्दीश्वर उवाच ।
शक्रेणेत्थं स पृष्टश्च किञ्चिन्नोवाच पूरुषः ।
लीलागृहीतदेहः स शङ्करो मदहा प्रभुः ॥ १०॥
शक्रः पुनरपृच्छत्तं नोवाच स दिगम्बरः ।
अविज्ञातगतिः शम्भुर्महाकौतुककारकः ॥ ११॥
पुनः पुरन्दरोऽपृच्छ्त् त्रैलोक्याधिपतिः स्वराट् ।
तूष्णीमास महायोगी महालीलाकरः स वै ॥ १२॥
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ।
नोवाच किञ्चिद्भगवान् शक्रदर्पजिघांसया ॥ १३॥
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ।
उवाच वचनं क्रोधात्तं निर्भर्त्स्य जटाधरम् ॥ १४॥
इन्द्र उवाच ।
पृच्छमानोऽपि रे मूढ नोत्तरं दत्तवानसि ।
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५॥
इत्युदीर्य ततो वज्री सन्निरीक्ष्य क्रुधा हि तम् ।
हन्तुं दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६॥
वज्रहस्तं च तं दृष्ट्वा शक्रं शीघ्रं सदाशिवः ।
चकार स्तम्भनं तस्य वज्रपातस्य शङ्करः ॥ १७॥
ततः स पुरुषः क्रुद्धः करालाक्षो भयङ्करः ।
द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८॥
बाहुप्रतिष्टम्भभुवा मन्युनान्तः शचीपतिः ।
समदह्यत भोगीव मन्त्ररुद्धपराक्रमः ॥ १९॥
दृष्ट्वा बृहस्पतिस्त्वेनं प्रज्वलन्तं स्वतेजसा ।
पुरुषं तं धियामास प्रणनाम हरं द्रुतम् ॥ २०॥
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ।
दण्डवत्कौ पुनर्नत्वा प्रभुं तुष्टाव भक्तितः ॥ २१॥
गुरुरुवाच ।
देवदेव महादेव शरणागतवत्सल ।
प्रसन्नो भव गौरीश सर्वेश्वर नमोऽस्तु ते ॥ २२॥
मायया मोहिताः सर्वे ब्रह्मविष्ण्वादयोऽपि ते ।
त्वां न जानन्ति तत्त्वेन जानन्ति त्वदनुग्रहात् ॥ २३॥
नन्दीश्वर उवाच ।
बृहस्पतिरिति स्तुत्वा स तदा शङ्करं प्रभुम् ।
पादयोः पातयामास तस्येशस्य पुरन्दरम् ॥ २४॥
ततस्तात सुराचार्यः कृताञ्जलिरुदारधीः ।
बृहस्पतिरुवाचेदं प्रश्रयावनतः सुधीः ॥ २५॥
बृहस्पतिरुवाच ।
दीनानाथ महादेव प्रणतं तव पादयोः ।
समुद्धर च मां तत्त्वं क्रोधं न प्रणयं कुरु ॥ २६॥
तुष्टो भव महादेव पाहीन्द्रं शरणागतम् ।
वह्निरेष समायाति भालनेत्रसमुद्भवः ॥ २७॥
नन्दीश्वर उवाच ।
इत्याकर्ण्य गुरोर्वाक्यमवधूताकृतिः प्रभुः ।
उवाच करुणासिन्धुर्विहसन् स सदूतिकृत् ॥ २८॥
अवधूत उवाच ।
क्रोधाच्च निस्सृतं तेजो धारयामि स्वनेत्रतः ।
कथं हि कञ्चुकीं सर्पः सन्धत्ते चोज्झितां पुनः ॥ २९॥
नन्दीश्वर उवाच ।
इति श्रुत्वा वचस्तस्य शङ्करस्य बृहस्पतिः ।
उवाच साञ्जलिर्भूयो भयव्याकुलमानसः ॥ ३०॥
बृहस्पतिरुवाच ।
हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ।
भक्तवत्सलनामेति स्वं सत्यं कुरु शङ्कर ॥ ३१॥
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ।
उद्धर्ता सर्वभक्तानां समुद्धर पुरन्दरम् ॥ ३२॥
नन्दीश्वर उवाच ।
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ।
प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्तिहा ॥ ३३॥
रुद्र उवाच ।
प्रीतस्तेऽहं सुराचार्य ददामि वरमुत्तमम् ।
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥ ३४॥
समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरासहः ।
एनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ ३५॥
नन्दीश्वर उवाच ।
इत्युक्त्वा स करे धृत्वा स्वतेजोऽनलमद्भुतम् ।
भालनेत्रसमुद्भूतं प्राक्षिपल्लवणाम्भसि ॥ ३६॥
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ।
क्षिप्तं च लवणाम्भोधौ सद्यो बालो बभूव ह ॥ ३७॥
स जलन्धरनामाभूत्सिन्धुपुत्रोऽसुरेश्वरः ।
तं जघान महेशानो देवप्रार्थनया प्रभुः ॥ ३८॥
इत्थं कृत्वा सुचरितं शङ्करो लोकशङ्करः ।
अवधूतस्वरूपेण ततश्चान्तर्हितोऽभवत् ॥ ३९॥
बभूवुः सकला देवाः सुखिनश्चातिनिर्भयाः ।
गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥ ४०॥
यदर्थे गमनोद्युक्तौ दर्शनं प्राप्य तस्य तौ ।
कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥ ४१॥
अवधूतेश्वराह्वोऽवतारस्ते कथितो मया ।
परमेशस्य परमानन्ददः खलदण्डदः ॥ ४२॥
इदमाख्यानमनघं यशस्यं स्वर्ग्यमेव च ।
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामफलप्रदम् ॥ ४३॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
इह सर्वसुखं भुक्त्वा सोऽन्ते शिवगतिं लभेत् ॥ ४४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे अवधूतेश्वरशिवावतारचरित्रवर्णनं नाम त्रिंशोऽध्यायः ॥ ३.३०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३१. एकत्रिंशोऽध्यायः । भिक्षुवर्याह्वशिवावतार चरित्रवर्णनम् ।
नन्दीश्वर उवाच ।
अथ वक्ष्ये मुनिश्रेष्ठ शम्भोः शृण्ववतारकम् ।
स्वभक्तदयया विप्र नारीसन्देहभञ्जकम् ॥ १॥
आसीत्सत्यरथो नाम्ना विदर्भविषये नृपः ।
धर्मात्मा सत्यशीलश्च महाशैवजनप्रियः ॥ २॥
तस्य राज्ञः सुधर्मेण महीं पालयतो मुने ।
महान्कालो व्यतीयाय सुखेन शिवधर्मतः ॥ ३॥
कदाचित्तस्य राज्ञस्तु शाल्वैश्च पुररोधिभिः ।
महान् रणो बभूवाथ बहुसैन्यैर्बलोद्धतैः ॥ ४॥
स विदर्भनृपः कृत्वा सार्धं तैर्दारुणं रणम् ।
प्रनष्टोरुबलः शाल्वैर्निहतो दैवयोगतः ॥ ५॥
तस्मिन्नृपे हते युद्धे शाल्वैस्तु भयविह्वलाः ।
सैनिका हतशेषाश्च मन्त्रिभिः सह दुद्रुवुः ॥ ६॥
अथ तस्य महाराज्ञी रात्रौ स्वपुरतो मुने ।
संरुद्धा रिपुभिर्यत्नादन्तर्वत्नी बहिर्ययौ ॥ ७॥
निर्गता शोकसन्तप्ता सा राजमहिषी शनैः ।
प्राचीं दिशं ययौ दूरं स्मरन्तीशपदाम्बुजम् ॥ ८॥
अथ प्रभाते सा राज्ञी ददर्श विमलं सरः ।
अतीता दूरमध्वानं दयया शङ्करस्य हि ॥ ९॥
तत्रागत्य प्रिया राज्ञः सन्तप्ता सुकुमारिणी ।
निवासार्थं सरस्तीरे छायावृक्षमुपाश्रयत् ॥ १०॥
तत्र दैववशाद्राज्ञी मुहूर्त्ते सद्गुणान्विते ।
असूत तनयं दिव्यं सर्वलक्षणलक्षितम् ॥ ११॥
अथ तज्जननी दैवात्तृषिताति नृपाङ्गना ।
सरोऽवतीर्णा पानार्थं ग्रस्ता ग्राहेण पाथसि ॥ १२॥
स सुतो जातमात्रस्तु क्षुत्पिपासार्दितो भृशम् ।
रुरोद च सरस्तीरे विनष्टपितृमातृकः ॥ १३॥
तस्मिन्वने क्रन्दमाने जातमात्रे सुते मुने ।
कृपान्वितो महेशोऽभूदन्तर्यामी स रक्षकः ॥ १४॥
प्रेरिता मनसा काचिदीशेन त्रासहारिणा ।
अकस्मादागता तत्र भ्रमन्ती भैक्ष्यजीविनी ॥ १५॥
सा त्वेकहायनं बालं वहन्ती विधवा निजम् ।
अनाथमेकं क्रन्दन्तं शिशुं तत्र ददर्श ह ॥ १६॥
सा दृष्ट्वा तत्र तं बालं वने निर्मनुजे मुने ।
विस्मिताति द्विजस्त्री सा चिचिन्त हृदये बहु ॥ १७॥
अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना ।
असम्भाव्यमकथ्यं च सर्वथा मनसा गिरा ॥ १८॥
अच्छिन्ननाभिनालोऽयं रसायां केवलं शिशुः ।
शेते मातृविहीनश्च क्रन्दंस्तेजस्विनां वरः ॥ १९॥
अस्य पित्रादयः केऽपि न सन्तीह सहायिनः ।
कारणं किं बभूवाथ ह्यहो दैवबलं महत् ॥ २०॥
न जाने कस्य पुत्रोऽयमस्य ज्ञातात्र कोऽपि न ।
यतः पृच्छाम्यस्य जन्म जाता च करुणा मयि ॥ २१॥
इच्छाम्येनं पोषितुं हि बालमौरसपुत्रवत् ।
संस्प्रष्टुं नोत्सहेऽज्ञात्वा कुलजन्मादि चास्य वै ॥ २२॥
नन्दीश्वर उवाच ।
इति सञ्चिन्त्यमानायां तस्यां विप्रवरस्त्रियाम् ।
कृपां चकार महतीं शङ्करो भक्तवत्सलः ॥ २३॥
दध्रे भिक्षुस्वरूपं हि महालीलो महेश्वरः ।
सर्वथा भक्तसुखदो निरुपाधिः स्वयं सदा ॥ २४॥
तत्राजगाम सहसा स भिक्षुः परमेश्वरः ।
यत्रास्ति सन्देहवती द्विजस्त्री ज्ञातुमिच्छती ॥ २५॥
भिक्षुवर्यस्वरूपोऽसावविज्ञातगतिः प्रभुः ।
तामाह विप्रवनितां विहस्य करुणानिधिः ॥ २६॥
भिक्षुवर्य उवाच ।
सन्देहं कुरु नो चित्ते विप्रभामिनि मा खिद ।
रक्षैनं बालकं प्रीत्या सुपवित्रं स्वपुत्रकम् ॥ २७॥
अनेन शिशुना श्रेयः प्राप्स्यसे न चिरात्परम् ।
पुष्णीहि सर्वथा ह्येनं महातेजस्विनं शिशुम् ॥ २८॥
नन्दीश्वर उवाच ।
इत्युक्तवन्तं तं भिक्षुस्वरूपं करुणानिधिम् ।
सा विप्रवनिता शम्भुं प्रीत्या पप्रच्छ सादरम् ॥ २९॥
विप्रवनितोवाच ।
त्वदाज्ञयैनं बालं हि रक्षिष्यामि स्वपुत्रवत् ।
पोक्ष्यामि नात्र सन्देहो मद्भाग्यात्त्वमिहागतः ॥ ३०॥
तथापि ज्ञातुमिच्छामि विशेषेण तु तत्त्वतः ।
कोऽयं कस्य सुतश्चायं कस्त्वमत्र समागतः ॥ ३१॥
मुहुर्मम समायाति ज्ञानं भिक्षुवर प्रभो ।
त्वं शिवः करुणासिन्धुस्त्वद्भक्तोऽयं शिशुः पुरा ॥ ३२॥
केनचित्कर्मदोषेण सम्प्राप्तोऽयं दशामिमाम् ।
तद्भुक्त्वा परमं श्रेयः प्राप्स्यते त्वदनुग्रहात् ॥ ३३॥
त्वन्माययैव साहं वै मार्गभ्रष्टा विमोहिता ।
आगता प्रेषिता त्वत्तो ह्यस्य रक्षणहेतुतः ॥ ३४॥
नन्दीश्वर उवाच ।
इति तद्दर्शनप्राप्तविज्ञानां विप्रकामिनीम् ।
ज्ञातुकामां विशेषेण प्रोचे भिक्षुतनुः शिवः ॥ ३५॥
भिक्षुवर्य उवाच ।
शृणु प्रीत्या विप्रपत्नि बालस्यास्य पुरेहितम् ।
सर्वमन्यस्य सुप्रीत्या वक्ष्यते तत्त्वतोऽनघे ॥ ३६॥
सुतो विदर्भराजस्य शिवभक्तस्य धीमतः ।
अयं सत्यरथस्यैव स्वधर्मनिरतस्य हि ॥ ३७॥
शृणु सत्यरथो राजा हतः शाल्वे रणे परैः ।
तत्पत्नी निशि सुव्यग्रा निर्ययौ स्वगृहाद् द्रुतम् ॥ ३८॥
असूत तनयं चैनं समायाता प्रगेऽत्र हि ।
सरोऽवतीर्णा तृषया ग्रस्ता ग्राहेण दैवतः ॥ ३९॥
नन्दीश्वर उवाच ।
इति तस्य समुत्पत्तिं तत्पितुः सङ्गरे मृतिम् ।
तन्मातृमरणं ग्राहात्सर्वं तस्यै न्यवेदयत् ॥ ४०॥
अथ सा ब्राह्मणी चैव विस्मिताति मुनीश्वर ।
पुनः पप्रच्छ तं भिक्षुं ज्ञानिनं सिद्धरूपकम् ॥ ४१॥
ब्राह्मण्युवाच ।
स राजोऽस्य पिता भिक्षो वरभोगान्तरैव हि ।
कस्माच्छाल्वैः स्वरिपुभिः स्वल्पेहैश्च विघातितः ॥ ४२॥
कस्मादस्य शिशोर्माता ग्राहेणाशु सुभक्षिता ।
यस्मादनाथोऽयं जातो विबन्धुश्चैव जन्मतः ॥ ४३॥
कस्मात्सुतो ममापीह सुदरिद्रो हि भिक्षुकः ।
भवेत्कथं सुखं भिक्षो पुत्रयोरनयोर्वद ॥ ४४॥
नन्दीश्वर उवाच ।
इति तस्या वचः श्रुत्वा स भिक्षुः परमेश्वरः ।
विप्रपत्न्याः प्रसन्नात्मा प्रोवाच विहसँश्च ताम् ॥ ४५॥
भिक्षुवर्य उवाच ।
विप्रपत्नि विशेषेण सर्वप्रश्नान्वदामि ते ।
शृणु त्वं सावधानेन चरित्रमिदमुत्तमम् ॥ ४६॥
अमुष्य बालस्य पिता स विदर्भमहीपतिः ।
पूर्वजन्मनि पाण्ड्योऽसौ बभूव नृपसत्तमः ॥ ४७॥
स शैवनृपतिर्धर्मात्पालयन्निखिलां महीम् ।
स्वप्रजां रञ्जयामास सर्वोपद्रवनाशनः ॥ ४८॥
कदाचित्स हि सर्वेशं प्रदोषे पर्यपूजयत् ।
त्रयोदश्यां निराहारो दिवानक्तव्रती शिवम् ॥ ४९॥
तस्य पूजयतः शम्भुं प्रदोषे गिरिशं रते ।
महान् शब्दो बभूवाथ विकटः सर्वथा पुरे ॥ ५०॥
तमाकर्ण्य रवं सोऽथ राजा त्यक्तशिवार्चनः ।
रिप्वागमनशङ्कातो निर्ययौ भवनाद् बहिः ॥ ५१॥
एतस्मिन्नेव काले तु तस्यामात्यो महाबली ।
गृहीतशत्रुसामन्तो राजान्तिकमुपाययौ ॥ ५२॥
तं दृष्ट्वा शत्रुसामन्तं महाक्रोधेन विह्वलः ।
अविचार्य वृषन्तस्य शिरश्छेदमकारयत् ॥ ५३॥
असमाप्येशपूजां तामशुचिर्नष्टधीर्नृपः ।
रात्रौ चकार सुप्रीत्या भोजनं नष्टमङ्गलः ॥ ५४॥
विदर्भे सोऽभवद्राजा जन्मनीह शिवव्रती ।
शिवार्चनान्तरायेण परैर्भोगान्तरे हतः ॥ ५५॥
तत्पिता यः पूर्वभवे सोऽस्मिञ्जन्मनि तत्सुतः ।
अयमेव हतैश्वर्यः शिवपूजाव्यतिक्रमात् ॥ ५६॥
अस्य माता पूर्वभवे सपत्नीं छद्मनाहरत् ।
भक्षिता तेन पापेन ग्राहेणास्मिन् भवे हि सा ॥ ५७॥
एषा प्रवृत्तिरेतेषां भवत्यै परिकीर्तिता ।
अनर्चितशिवा भक्त्या प्राप्नुवन्ति दरिद्रताम् ॥ ५८॥
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः ॥ ५९॥
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ।
तद्दोषपरिहारार्थं शरणं शङ्करं व्रज ॥ ६०॥
एताभ्यां खलु बालाभ्यां शिवपूजा विधीयताम् ।
उपवीतानन्तरं हि शिवः श्रेयः करिष्यति ॥ ६१॥
नन्दीश्वर उवाच ।
इति तामुपदिश्याथ भिक्षुवर्यतनुः शिवः ।
स्वरूपं दर्शयामास परमं भक्तवत्सलः ॥ ६२॥
अथ सा विप्रवनिता ज्ञात्वा तं शङ्करं प्रभुम् ।
सुप्रणम्य हि तुष्टाव प्रेम्णा गद्गदया गिरा ॥ ६३॥
ततः स भगवान् शम्भुर्धृतभिक्षुतनुर्द्रुतम् ।
पश्यन्त्या विप्रपन्त्यास्तु तत्रैवान्तरधीयत ॥ ६४॥
अथ तस्मिन् गते भिक्षौ विश्रब्धा ब्राह्मणी च सा ।
तमर्भकं समादाय सस्वपुत्रा गृहं ययौ ॥ ६५॥
एकचक्राह्वये रम्ये ग्राम्ये कृतनिकेतना ।
स्वपुत्रं राजपुत्रं च वरान्नैश्च व्यवर्धयत् ॥ ६६॥
ब्राह्मणैः कृतसंस्कारौ कृतोपनयनौ च तौ ।
ववृधाते स्वगेहे च शिवपूजनतत्परौ ॥ ६७॥
तौ शाण्डिल्यमुनेस्तात निदेशान्नियमस्थितौ ।
प्रदोषे चक्रतुः शम्भोः पूजां कृत्वा व्रतं शुभम् ॥ ६८॥
कदाचिद् द्विजपुत्रेण विनासौ राजनन्दनः ।
नद्यां स्नातुं गतः प्राप निधानकलशं वरम् ॥ ६९॥
एवं पूजयतोः शम्भुं राजद्विजकुमारयोः ।
सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ॥ ७०॥
एवमर्चयतोः शम्भुं भूयोऽपि परया मुदा ।
सम्वत्सरो व्यतीयाय तस्मिन्नेव तयोर्गृहे ॥ ७१॥
सम्वत्सरे व्यतिक्रान्ते स राजतनयो मुने ।
गत्वा वनान्ते विप्रेण शिवस्यानुग्रहाद्विभोः ॥ ७२॥
अकस्मादागतां तत्र दत्तां तज्जनकेन ह ।
विवाह्य गन्धर्वसुतां चक्रे राज्यमकण्टकम् ॥ ७३॥
या विप्रवनिता पूर्वं तमपुष्णात्स्वपुत्रवत् ।
सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ॥ ७४॥
इत्थमाराध्य देवेशं धर्मगुप्ताह्वयः स वै ।
विदर्भविषये राज्ञ्या तया भोगं चकार ह ॥ ७४॥
भिक्षुवर्यावतारस्ते वर्णितश्च मयाधुना ।
शिवस्य धर्मगुप्ताह्वनृपबालसुखप्रदः ॥ ७६॥
एतदाख्यानमनघं पवित्रं पावनं महत् ।
धर्मार्थकाममोक्षाणां साधनं सर्वकामदम् ॥ ७७॥
य एतच्छृणुयान्नित्यं श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्कामान् सोऽन्ते शिवपुरं व्रजेत् ॥ ७८॥
इति श्री शिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भिक्षुवर्याह्वशिवावतार चरित्रवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३.३१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३२. द्वात्रिंशोऽध्यायः । नन्दीश्वर उवाच ।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।
सुरेश्वरावतारस्ते धौम्याग्रजहितावहम् ॥ १॥
व्याघ्रपादसुतो धीमानुपमन्युः सतां प्रियः ।
जन्मान्तरेण संसिद्धः प्राप्तो मुनिकुमारताम् ॥ २॥
उवास मातुलगृहे स मात्रा शिशुरेव हि ।
उपमन्युर्व्याघ्रपादिः स्याद्दरिद्रश्च दैवतः ॥ ३॥
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ।
ययाचे मातरं प्रीत्या बहुशो दुग्धलालसः ॥ ४॥
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ।
सान्तः प्रविश्याथ तदा शुभोपायमरीरचत् ॥ ५॥
उञ्छवृत्त्यर्जितान्बीजान्पिष्ट्वालोड्य जलेन तान् ।
उपलाल्य सुतं तस्मै सा ददौ कृत्रिमं पयः ॥ ६॥
पीत्वा च कृत्रिमं दुग्धं मात्रा दत्तं स बालकः ।
नैतत्क्षीरमिति प्राह मातरं चारुदत्पुनः ॥ ७॥
श्रुत्वा सुतस्य रुदितं प्राह सा दुःखिता सुतम् ।
सम्मार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलाकृतिः ॥ ८॥
मातोवाच ।
क्षीरमत्र कुतोऽस्माकं वने निवसतां सदा ।
प्रसादेन विना शम्भोः पयः प्राप्तिर्भवेन्न हि ॥ ९॥
पूर्वजन्मनि यत्कृत्यं शिवमुद्दिश्य हे सुत ।
तदेव लभ्यते नूनं नात्र कार्या विचारणा ॥ १०॥
इति मातृवचः श्रुत्वा व्याघ्रपादिः स बालकः ।
प्रत्युवाच विशोकात्मा मातरं मातृवत्सलः ॥ ११॥
शोकेनालमिमं मातः शम्भुर्यद्यस्ति शङ्करः ।
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ १२॥
शृणु मातर्वचो मेऽद्य महादेवोऽस्ति चेत्क्वचित् ।
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ १३॥
नन्दीश्वर उवाच ।
इत्युक्त्वा स शिशुः प्रीत्या शिवं मेऽस्त्वित्युदीर्य च ।
विसृज्य तां सुप्रणम्य तपः कर्तुं प्रचक्रमे ॥ १४॥
हिमवत्पर्वतगतः वायुभक्षः समाहितः ।
अष्टेष्टकाभिः प्रासादं कृत्वा लिङ्गं च मृन्मयम् ॥ १५॥
तत्रावाह्य शिवं साम्बं भक्त्या पञ्चाक्षरेण ह ।
पत्रपुष्पादिभिर्वन्यैः समानर्च शिशुः स वै ॥ १६॥
ध्यात्वा शिवं च तं साम्बं जपन्पञ्चाक्षरं मनुम् ।
समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ १७॥
तपसा तस्य बालस्य ह्युपमन्योर्महात्मनः ।
चराचरं च भुवनं प्रदीपितमभून्मुने ॥ १८॥
एतस्मिन्नन्तरे शम्भुर्विष्ण्वाद्यैः प्रार्थितः प्रभुः ।
परीक्षितुं च तद्भक्तिं शक्ररूपोऽभवत्तदा ॥ १९॥
शिवा शचीस्वरूपाभूद्गणाः सर्वेऽभवन्सुराः ।
ऐरावतगजो नन्दी सर्वमेव च तन्मयम् ॥ २०॥
ततः साम्बः शिवः शक्रस्वरूपः सगणो द्रुतम् ।
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ २१॥
परीक्षितुं च तद्भक्तिं शक्ररूपधरो हरः ।
प्राह गम्भीरया वाचा बालकं तं मुनीश्वर ॥ २२॥
सुरेश्वर उवाच ।
तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ।
ददामि चेच्छितान्कामान् सर्वान्नात्रास्ति संशयः ॥ २३॥
एवमुक्तः स वै तेन शक्ररूपेण शम्भुना ।
वरयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ २४॥
तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ।
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ २५॥
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ २६॥
रुद्रेण निर्गुणेनालं किं ते कार्यं भविष्यति ।
देवजातिबहिर्भूतो यः पिशाचत्वमागतः ॥ २७॥
नन्दीश्वर उवाच ।
तच्छ्रुत्वा स मुनेः पुत्रो जपन्पञ्चाक्षरं मनुम् ।
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ २८॥
उपमन्युरुवाच ।
त्वयैवं कथितं सर्वं भवनिन्दारतेन वै ।
प्रसङ्गाद्देवदेवस्य निर्गुणत्वं पिशाचता ॥ २९॥
त्वं न जानासि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।
ब्रह्मविष्णुमहेशानां जनकं प्रकृतेः परम् ॥ ३०॥
सदसद् वयक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।
नित्यमेकमनेकं च वरं तस्माद् वृणोम्यहम् ॥ ३१॥
हेतुवादविनिर्मुक्तं साङ्ख्ययोगार्थदं परम् ।
यमुशन्ति हि तत्त्वज्ञा वरं तस्माद् वृणोम्यहम् ॥ ३२॥
नास्ति शम्भोः परं तत्त्वं सर्वकारणकारणत् ।
ब्रह्मविष्ण्वादिदेवानां श्रेष्ठो गुणपराद्विभोः ॥ ३३॥
नाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ।
नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे ॥ ३४॥
बहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ।
न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम् ॥ ३५॥
मद्भावं शृणु गोत्रारे मयाद्यानुमितं त्विदम् ।
भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ ३६॥
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत् ।
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ ३७॥
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ।
निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम् ॥ ३८॥
नन्दीश्वर उवाच ।
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् ।
क्षीरे वाच्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ ३९॥
भस्मादाय तदाधारादघोस्त्राभिमन्त्रितम् ।
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ४०॥
स्मृत्वा स्वेष्टपदद्वन्द्वं स्वदेहं दग्धुमुद्यतः ।
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ४१॥
एवं व्यवसिते विप्रे भगवान् शक्ररूपवान् ।
वारयामास सौम्येन धारणां तस्य योगिनः ॥ ४२॥
तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियोगतः ।
जगृहे मध्यतः क्षिप्तं नन्दी शङ्करवल्लभम् ॥ ४३॥
स्वरूपमेव भगवानास्थाय परमेश्वरः ।
दर्शयामास विप्राय बालेन्दुकृतशेखरम् ॥ ४४॥
क्षीरार्णवसहस्रं च दध्यादेरर्णवं तथा ।
भक्ष्यभोज्यार्णवं तस्मै दर्शयामास स प्रभुः ॥ ४५॥
एवं स ददृशे शम्भुर्देव्या सार्धं वृषोपरि ।
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ४६॥
दिवि दुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ४७॥
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ।
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ४८॥
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ।
एह्येहीति समाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ४९॥
शिव उवाच ।
वत्सोपमन्यो तुष्टोऽस्मि त्वदाचरणतो वरात् ।
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितोऽधुना ॥ ५०॥
भक्ष्यभोगान्यथाकामं बान्धवैर्भुङ्क्ष्व सर्वदा ।
सुखी भव सदा दुःखनिर्मुक्तो भक्तिमान्मम ॥ ५१॥
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ।
मया पुत्रीकृतो ह्यद्य कुमारत्वं सनातनम् ॥ ५२॥
दुग्धदध्याज्यमधुनामर्णवाश्च सहस्रशः ।
भक्ष्यभोज्यादिवस्तूनामर्णवाश्चाखिलास्तथा ॥ ५३॥
तुभ्यं दत्ता मया प्रीत्या त्वं गृह्णीष्व महामुने ।
अमरत्वं तथा दत्तं गाणपत्यं च शाश्वतम् ॥ ५४॥
पिताहं ते महादेवो माता ते जगदम्बिका ।
वरान्वरय सुप्रीत्या मनोऽभिलषितान्परान् ॥ ५५॥
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः ।
यशस्वी वरतेजस्वी दिव्यज्ञानी महाप्रभुः ॥ ५६॥
अथ शम्भुः प्रसन्नात्मा स्मृत्वा तस्य तपो महत् ।
पुनर्दश वरान्दिव्यान्मुनये ह्यूपमन्यवे ॥ ५७॥
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ।
ददौ तस्मै प्रवक्तृत्वं पाटवं च निजं पदम्म् ॥ ५८॥
एवं दत्त्वा महादेवः कराभ्यामुपगृह्य तम् ।
मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत् ॥ ५९॥
देवी च शृण्वती प्रीत्या मूर्ध्नि देशे कराम्बुजम् ।
विन्यस्य प्रददौ तस्मै कुमारपदमक्षयम् ॥ ६०॥
क्षीराब्धिमपि साकारं क्षीरस्वादुकरोदधिः ।
उपास्थाय ददौ तस्मै पिण्डीभूतमनश्वरम् ॥ ६१॥
योगैश्वर्यं सदा तुष्टं ब्रह्मविद्यामनश्वराम् ।
समृद्धिं परमां तस्मै ददौ सन्तुष्टमानसः ॥ ६२॥
सोऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ।
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत् ॥ ६३॥
ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ।
ययाचे स वरं प्रीत्या देवदेवान्महेश्वरात् ॥ ६४॥
उपमन्युरुवाच ।
प्रसीद देवदेवेश प्रसीद परमेश्वर ।
स्वभक्तिं देहि परमां दिव्यामव्यभिचारिणीम् ॥ ६५॥
श्रद्धां देहि महादेव स्वसम्बन्धिषु मे सदा ।
स्वदास्यं परमं स्नेहं स्वसान्निध्यं च सर्वदा ॥ ६६॥
नन्दीश्वर उवाच ।
एवमुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा ।
तुष्टाव स महादेवमुपमन्युर्द्विजोत्तमः ॥ ६७॥
एवमुक्तः शिवस्तेन सर्वेषां शृण्वतां प्रभुः ।
प्रत्युवाच प्रसन्नात्मोपमन्युं सकलेश्वरः ॥ ६८॥
शिव उवाच ।
वत्सोपमन्यो धन्यस्त्वं मम भक्तो विशेषतः ।
सर्वं दत्तं मया ते हि यद् वृतं भवतानघ ॥ ६९॥
अजरश्चामरश्च त्वं सर्वदा दुःखवर्जितः ।
सर्वपूज्यो निर्विकारी भक्तानां प्रवरो भव ॥ ७०॥
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ।
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ७१॥
सान्निध्यं चाश्रये नित्यं करिष्यामि मुने तव ।
तिष्ठ वत्स यथाकामं नोत्कण्ठां च करिष्यसि ॥ ७२॥
नन्दीश्वर उवाच ।
एवमुक्त्वा स भगवांस्तस्मै दत्त्वा वरान्वरान् ।
साम्बश्च सगणः सद्यस्तत्रैवान्तर्दधे प्रभुः ॥ ७३॥
उपमन्युः प्रसन्नात्मा प्राप्य शम्भोर्वरान्वरान् ।
जगाम जननीस्थानं मात्रे सर्वमवर्णयत् ॥ ७४॥
तच्छ्रुत्वा तस्य जननी महाहर्षमवाप सा ।
सर्वपूज्योऽभवत्सोऽपि सुखं प्रापाधिकं सदा ॥ ७५॥
इत्थं ते वर्णितस्तात शिवस्य परमात्मनः ।
सुरेश्वरावतारो हि सर्वदा सुखदः सताम् ॥ ७६॥
इदमाख्यानमनघं सर्वकामफलप्रदम् ।
स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ७७॥
य एतच्छृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
इह सर्वसुखं भुक्त्वा सोऽन्ते शिवगतिं लभेत् ॥ ७८॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुरेश्वराख्यशिवावतार चरित्रवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३.३२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३३. त्रयोत्रिंशोऽध्यायः । ब्रह्मचारिशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार सुप्रीत्या शिवस्य परमात्मनः ।
अवतारं शृणु विभोर्जटिलाह्वं सुपावनम् ॥ १॥
पुरा सती दक्षकन्या त्यक्त्वा देहं पितुर्मखे ।
स्वपित्रानादृता जज्ञे मेनायां हिमभूधरात् ॥ २॥
सा गत्वा गहनेऽरण्ये तेपे सुविमलं तपः ।
शङ्करं पतिमिच्छन्ती सखीभ्यां संयुता शिवा ॥ ३॥
तत्तपः सुपरीक्षार्थं सप्तर्षीन्प्रैषयच्छिवः ।
तपःस्थानं तु पार्वत्या नानालीलाविशारदः ॥ ४॥
ते गत्वा तत्र मुनयः परीक्षां चक्रुरादरात् ।
तस्याः सुयत्नतो नैव समर्था ह्यभवंश्च ते ॥ ५॥
तत्रागत्य शिवं नत्वा वृत्तान्तं च निवेद्य तत् ।
तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ६॥
गतेषु तेषु मुनिषु स्वस्थानं शङ्करः स्वयम् ।
परीक्षितुं शिवावृत्तमैच्छत्सूतिकरः प्रभुः ॥ ७॥
सुप्रसन्नस्तपस्वीच्छाशमनादयमीश्वरः ।
ब्रह्मचर्यस्वरूपोऽभूत्तदाद्भुततरः प्रभुः ॥ ८॥
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ।
प्रज्वलन्मनसा हृष्टो दण्डी छत्री महोज्जलः ॥ ९॥
धृत्वैवं जाटिलं रूपं जगाम गिरिजावनम् ।
अतिप्रीतियुतः शम्भुः शङ्करो भक्तवत्सलः ॥ १०॥
तत्रापश्यत् स्थितां देवीं सखीभिः परिवारिताम् ।
वेदिकोपरि शुद्धान्तां शिवामिव विधोः कलाम् ॥ ११॥
शम्भुर्निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ।
उपकण्ठं ययौ प्रीत्या चोत्सुकी भक्तवत्सलः ॥ १२॥
आगतं सा तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ।
अङ्गेषु लोमशं शान्तं दण्डचर्मसमन्वितम् ॥ १३॥
ब्रह्मचर्यधरं वृद्धं जटिलं सकमण्डलुम् ।
अपूजयत्परप्रीत्या सर्वपूजोपहारकैः ॥ १४॥
ततः सा पार्वती देवी पूजितं परया मुदा ।
कुशलं पर्यपृच्छत्तं ब्रह्मचारिणमादरात् ॥ १५॥
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ।
इद्ं वनं भासयसि वद वेदविदां वर ॥ १६॥
नन्दीश्वर उवाच ।
इति पृष्टस्तु पार्वत्या ब्रह्मचारी स वै द्विजः ।
प्रत्युवाच द्रुतं प्रीत्या शिवाभावपरीक्षया ॥ १७॥
ब्रह्मचार्युवाच ।
अहमिच्छाभिगामी च ब्रह्मचारी द्विजोऽस्मि वै ।
तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ १८॥
नन्दीश्वर उवाच ।
इत्युक्त्वा ब्रह्मचारी स शङ्करो भक्तवत्सलः ।
तस्थिवानुपकण्ठं स गोपायन् रूपमात्मनः ॥ १९॥
ब्रह्मचार्युवाच ।
किं ब्रवीमि महादेवि कथनीयं न विद्यते ।
महानर्थकरं वृत्तं दृश्यते विकृतं महत् ॥ २०॥
नवे वयसि सद्भोगसाधने सुखकारणे ।
महोपचारसद्भोगैर्वृथैव त्वं तपस्यसि ॥ २१॥
का त्वं कस्यासि तनया किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः ॥ २२॥
नन्दीश्वर उवाच ।
इति तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी ।
उवाच वचनं प्रीत्या ब्रह्मचारिणमुत्तमम् ॥ २३॥
पार्वत्युवाच ।
शृणु विप्र ब्रह्मचारिन् मद्वृत्तमखिलं मुने ।
जन्म मे भारते वर्षे साम्प्रतं हिमवद्गृहे ॥ २४॥
पूर्वं दक्षगृहे जन्म सती शङ्करकामिनी ।
योगेन त्यक्तदेहाहं तातेन पतिनिन्दिना ॥ २५॥
अत्र जन्मनि सम्प्राप्तः सुपुण्येन शिवो द्विज ।
मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह ॥ २६॥
प्रयाते शङ्करे तापाद् व्रीडिताहं पितुर्गृहात् ।
आगच्छमत्र तपसे गुरुवाक्येन संयता ॥ २७॥
मनसा वचसा साक्षात्कर्मणा पतिभावतः ।
सत्यं ब्रवीमि नोऽसत्यं संवृतः शङ्करो मया ॥ २८॥
जानामि दुर्लभं वस्तु कथं प्राप्यं मया भवेत् ।
तथापि मनसौत्सुक्यात्तप्यते मे तपोऽधुना ॥ २९॥
हित्वेन्द्रप्रमुखान्देवान्विष्णुं ब्रह्माणमप्यहम् ।
पतिं पिनाकपाणिं वै प्राप्तुमिच्छामि सत्यतः ॥ ३०॥
नन्दीश्वर उवाच ।
इत्येवं वचनं श्रुत्वा पार्वत्या हि सुनिश्चितम् ।
मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ३१॥
जटिल उवाच ।
हिमाचलसुते देवि का बुद्धिः स्वीकृता त्वया ।
रुद्रार्थं विबुधान्हित्वा करोषि विपुलं तपः ॥ ३२॥
जानाम्यहं च तं रुद्रं शृणु त्वं प्रवदामि ते ।
वृषध्वजः स रुद्रो हि विकृतात्मा जटाधरः ॥ ३३॥
एकाकी च सदा नित्यं विरागी च विशेषतः ।
तस्मात्त्वं तेन रुद्रेण मनो योक्तुं न चार्हसि ॥ ३४॥
सर्वं विरुद्धं रूपादि तव देवि हरस्य च ।
मह्यं न रोचते ह्येतद्यदीच्छसि तथा कुरु ॥ ३५॥
नन्दीश्वर उवाच ।
इत्युक्त्वा च पुना रुद्रो ब्रह्मचारिस्वरूपवान् ।
निनिन्द बहुधात्मानं तदग्रे तां परीक्षितुम् ॥ ३६॥
तच्छ्रुत्वा पार्वती देवी विप्रवाक्यं दुरासदम् ।
प्रत्युवाच महाक्रुद्धा शिवनिन्दापरं च तम् ॥ ३७॥
एतावद्धि मया ज्ञातं कश्चिद् धन्यो भविष्यति ।
परन्तु सकलं ज्ञातमवध्यो दृश्यतेऽधुना ॥ ३८॥
ब्रह्मचारिस्वरूपेण कश्चित्त्वं धूर्त आगतः ।
शिवनिन्दा कृता मूढ त्वया मन्युरभून्मम ॥ ३९॥
शिवं त्वं च न जानासि शिवात्त्वं हि बहिर्मुखः ।
त्वत्पूजा च कृता यन्मे तस्मात्तापयुताभवम् ॥ ४०॥
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।
आजन्मसञ्चितं पुण्यं तस्य भस्मीभवत्युत ॥ ४१॥
शिवविद्वेषिणं स्पृष्ट्वा प्रायश्चित्तं समाचरेत् ॥ ४२॥
रे रे दुष्ट त्वया प्रोक्तमहं जानामि शङ्करम् ।
निश्चयेन न विज्ञातः शिव एव परः प्रभुः ॥ ४३॥
यथा तथा भवेद्रुद्रो मायया बहुरूपवान् ।
ममाभीष्टप्रदोऽत्यन्तं निर्विकारः सतां प्रियः ॥ ४४॥
नन्दीश्वर उवाच ।
इत्युक्त्वा तं शिवा देवी शिवतत्त्वं जगाद सा ।
यत्र ब्रह्मतया रुद्रः कथ्यते निर्गुणोऽव्ययः ॥ ४५॥
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।
पुनर्वचनमादातुं यावदेव प्रचक्रमे ॥ ४६॥
प्रोवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ।
शिवासक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी ॥ ४७॥
गिरिजोवाच ।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।
पुनर्वक्तुमनाश्चायं शिवनिन्दां करिष्यति ॥ ४८॥
न केवलं भवेत्पापं निन्दाकर्तुः शिवस्य हि ।
यो वै शृणोति तन्निन्दां पापभाक्स भवेदिह ॥ ४९॥
शिवनिन्दाकरो वध्यः सर्वथा शिवकिङ्करैः ।
ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ॥ ५०॥
अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ।
ब्राह्मणत्वादवध्यश्च त्याज्योऽदृश्यश्च सर्वथा ॥ ५१॥
स्थलमेतद् द्रुतं हित्वा यास्यामोऽन्यत्र मा चिरम् ।
यथा सम्भाषणं न स्यादनेनाविदुषा पुनः ॥ ९२॥
नन्दीश्वर उवाच ।
इत्युक्त्वा चोमया यावत्पदमुत्क्षिप्यते मुने ।
असौ तावच्छिवः साक्षादाललम्बे पटं स्वयम् ॥ ५३॥
कृत्वा स्वरूपं दिव्यं च शिवाध्यानं यथा तथा ।
दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ॥ ५४॥
शिव उवाच ।
कुत्र त्वं यासि मां हित्वा न त्वं त्याज्या मया शिवे ।
मया परीक्षितासि त्वं दृढभक्तासि मेऽनघे ॥ ५५॥
ब्रह्मचारिस्वरूपेण भावमिच्छुस्त्वदीयकम् ।
तवोपकण्ठमागत्य प्रावोचं विविधं वचः ॥ ५६॥
प्रसन्नोऽस्मि दृढं भक्त्या शिवे तव विशेषतः ।
चित्तेप्सितं वरं ब्रूहि नादेयं विद्यते तव ॥ ५७॥
अद्यप्रभृति ते दासस्तपोभिः प्रेमनिर्भरे ।
कृतोऽस्मि तव सौन्दर्यात्क्षण एको युगायते ॥ ५८॥
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।
एहि प्रिये त्वया साकं द्रुतं यामि स्वकं गिरिम् ॥ ५९॥
इत्युक्तवति देवेशे शिवातिमुदमाप सा ।
तपोदुःखं तु यत्सर्वं तज्जहौ द्रुतमेव हि ॥ ६०॥
ततः प्रहृष्टा सा दृष्ट्वा दिव्यरूपं शिवस्य तत् ।
प्रत्युवाच प्रभुं प्रीत्या लज्जयाधोमुखी शिवा ॥ ६१॥
शिवोवाच ।
यदि प्रसन्नो देवेश करोषि च कृपां मयि ।
पतिर्मे भव देवेश इत्युक्तः शिवया शिवः ॥ ६२॥
नन्दीश्वर उवाच
गृहीत्वा विधिवत्पाणिं कैलासं स तया ययौ ।
पतिं तं गिरिजा प्राप्य देवकार्यं चकार सा ॥ ६३॥
इति प्रोक्तस्तु ते तात ब्रह्मचारिस्वरूपकः ।
शिवावतारो हि मया शिवाभावपरीक्षकः ॥ ६४॥
इदमाख्यानमनघं परमं व्याहृतं मया ।
य एतच्छृणुयात्प्रीत्या स सुखी गतिमाप्नुयात् ॥ ६५॥
इति श्री शिवमहापुराणे तृतीयायां शतरुद्रसंहितायां ब्रह्मचारिशिवावतारवर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३.३३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३४. चतुस्त्रिंशोऽध्यायः । सुनर्तकनटाह्वशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।
अवतारं शृणु विभोः सुनर्तकनटाह्वयम् ॥ १॥
यदा हि कालिका देवी पार्वती हिमवत्सुता ।
तेपे तपः सुविमलं वनं गत्वा शिवाप्तये ॥ २॥
तदा शिवः प्रसन्नोऽभूत्तस्याः सुतपसो मुने ।
तद्वृत्तसुपरीक्षार्थं वरं दातुं मुदा ययौ ॥ ३॥
स्वरूपं दर्शयामास तस्यै सुप्रीतमानसः ।
वरं ब्रूहीति चोवाच तां शिवां शङ्करो मुने ॥ ४॥
तच्छ्रुत्वा शम्भुवचनं दृष्ट्वा तद्रूपमुत्तमम् ।
सुजहर्ष शिवातीव प्राह तं सुप्रणम्य सा ॥ ५॥
पार्वत्युवाच ।
यदि प्रसन्नो देवेश मह्यं देयो वरो यदि ।
पतिर्भव ममेशान कृपां कुरु ममोपरि ॥ ६॥
पितुर्गृहे मया सम्यग्गम्यते त्वदनुज्ञया ।
गन्तव्यं भवता नाथ मत्पितुः पार्श्वतः प्रभो ॥ ७॥
याचस्व मां ततो भिक्षुः ख्यापयंश्च यशः शुभम् ।
पितुर्मे सफलं सर्वं कुरु प्रीत्या गृहाश्रमम् ॥ ८॥
ततो यथोक्तविधिना कर्तुमर्हसि भो प्रभो ।
विवाहं त्वं महेशान देवानां कार्यसिद्धये ॥ ९॥
कामं मे पूरय विभो निर्विकारो भवान्सदा ।
भक्तवत्सलनामा हि तव भक्तास्म्यहं सदा ॥ १०॥
नन्दीश्वर उवाच ।
इत्युक्तः स तया शम्भुर्महेशो भक्तवत्सलः ।
तथास्त्विति वचः प्रोच्यान्तर्हितः स्वगिरिं ययौ ॥ ११॥
पार्वत्यपि ततः प्रीत्या स्वसखीभ्यां समन्विता ।
जगाम स्वपितुर्गेहं रूपं कृत्वा तु सार्थकम् ॥ १२॥
पार्वत्यागमनं श्रुत्वा मेनया स हिमाचलः ।
परिवारयुतो द्रष्टुं स्वसुतां तां ययौ मुदा ॥ १३॥
दृष्ट्वा तां सुप्रसन्नास्यामानयामासतुर्गृहम् ।
कारयामासतुः प्रीत्या महानन्दौ महोत्सवम् ॥ १४॥
धनं ददौ द्विजादिभ्यो मेना गिरिवरस्तथा ।
मङ्गलं कारयामास सवेदध्वनिमादरात् ॥ १५॥
ततः स्वकन्यया सार्धमुवास प्राङ्गणे मुदा ।
मेना च हिमवाञ्छैलः स्नातुं गङ्गां जगाम सः ॥ १६॥
एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः ।
सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ ॥ १७॥
शृङ्गं वामे करे धृत्वा दक्षिणे डमरुं तथा ।
पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः ॥ १८॥
ततस्तु नटरूपोऽसौ मेनकाप्राङ्गणे मुदा ।
चक्रे स नृत्यं विविधं गानं चाति मनोहरम् ॥ १९॥
शृङ्गञ्च डमरुं तत्र वादयामास सुध्वनिम् ।
महोतिं विविधां प्रीत्या स चकार मनोहराम् ॥ २०॥
तं द्रष्टुं नागराः सर्वे पुरुषाश्च स्त्रियस्तथा ।
आजग्मुः सहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥ २१॥
श्रुत्वा सुगीतं तं दृष्ट्वा सुनृत्यं च मनोहरम् ।
सहसा मुमुहुः सर्वे मेनापि च तदा मुने ॥ २२॥
ततो मेनाशु रत्नानि स्वर्णपात्रस्थितानि च ।
तस्मै दातुं ययौ प्रीत्या तदूतिप्रीतमानसा ॥ २३॥
तानि न स्वीचकारासौ भिक्षां काङ्क्षे शिवां च ताम् ।
पुनः सुनृत्यं गानं च कौतुकात्कर्तुमुद्यतः ॥ २४॥
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ।
भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥ २५॥
एतस्मिन्नन्तरे तत्र गङ्गातो गिरिराड् ययौ ।
ददर्श पुरतो भिक्षुं प्राङ्गणस्थं नराकृतिम् ॥ २६॥
श्रुत्वा मेनामुखाद् वृत्तं तत्सर्वं सुचुकोप सः ।
आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम् ॥ २७॥
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ।
न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम ॥ २८॥
ततः स भिक्षुकस्तात नानालीलाविशारदः ।
दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ २९॥
शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् ।
ततो ब्रह्मस्वरूपं च सूर्यरूपं ततः क्षणात् ॥ ३०॥
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ।
पार्वतीसहितं रम्यं विहसन्तं सुतेजसम् ॥ ३१॥
एवं सुबहुरूपाणि तस्य तत्र ददर्श सः ।
सुविस्मितो बभूवाशु परमानन्दसम्प्लुतः ॥ ३२॥
अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ।
भिक्षां ययाचे दुर्गां तां नान्यज्जग्राह किञ्चन ॥ ३३॥
ततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ।
स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः ॥ ३४॥
तदा बभूव सुज्ञानं मेनाशैलेशयोरपि ।
आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः ॥ ३५॥
अस्मै देया स्वकन्येयं पार्वती सुतपस्विनी ।
एवं विचार्य च तयोः शिवे भक्तिरभूत्परा ॥ ३६॥
अतो रुद्रो महोतीश्च कृत्वा भक्तमुदावहम् ।
विवाहं कृतवान्प्रीत्या पार्वत्या स विधानतः ॥ ३७॥
इति प्रोक्तस्तु ते तात सुनर्तकनटाह्वयः ।
शिवावतारो हि मया शिवावाक्यप्रपूरकः ॥ ३८॥
इदमाख्यानमनघं परमं व्याहृतं मया ।
य एतच्छृणुयात्प्रीत्या स सुखी गतिमाप्नुयात् ॥ ३९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुनर्तकनटाह्वशिवावतारवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३.३४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३५. पञ्चत्रिंशोऽध्यायः । साधुद्विजशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।
अवतारं शृणु विभोः साधुवेषद्विजाह्वयम् ॥ १॥
मेनाहिमालयोर्भक्तिं शिवे ज्ञात्वा महोत्तमाम् ।
चिन्तामापुः सुराः सर्वे मन्त्रयामासुरादरात् ॥ २॥
एकान्तभक्त्या शैलश्चेत्कन्यां दास्यति शम्भवे ।
ध्रुवं निर्वाणतां सद्यः सम्प्राप्स्यति शिवस्य वै ॥ ३॥
अनन्तरत्नाधारोऽसौ चेत्प्रयास्यति मोक्षताम् ।
रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ४॥
स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ।
कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति ॥ ५॥
महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ।
तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ॥ ६॥
इत्यालोच्य सुराः सर्वे जग्मुर्गुरुगृहं मुने ।
चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ॥ ७॥
देवा ऊचुः ।
गुरो हिमालयगृहं गच्छास्मत्कार्यसिद्धये ।
कृत्वा निन्दां महेशस्य गिरिभक्तिं निवारय ॥ ८॥
स्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ।
लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ॥ ९॥
इति देववचः श्रुत्वा प्रोवाच च विचार्य तान् ॥ १०॥
गुरुरुवाच ।
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।
सम्पादयेत्स्वाभिमतमहं तत्कर्तुमक्षमः ॥ ११॥
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।
तस्मै वृत्तं कथय स्वं स वः कार्यं करिष्यति ॥ १२॥
नन्दीश्वर उवाच ।
तच्छ्रुत्वा ते समालोच्य जग्मुर्विधिसभां सुराः ।
सर्वं निवेदयामासुस्तद्वृत्तं पुरतो विधेः ॥ १३॥
अवोचत्तान्विधिः श्रुत्वा तद्वचः सुविचिन्त्य वै ।
नाहं करिष्ये तन्निन्दां दुःखदां कहरां सदा ॥ १४॥
सुरा गच्छत कैलासं सन्तोषयत शङ्करम् ।
प्रस्थापयत तं देवं हिमालयगृहं प्रति ॥ १५॥
स गच्छेदथ शैलेशमात्मनिन्दां करोतु वै ।
परनिन्दा विनाशाय स्वनिन्दा यशसे मता ॥ १६॥
नन्दीश्वर उवाच ।
ततस्ते प्रययुः शीघ्रं कैलासं निखिलाः सुराः ।
सुप्रणम्य शिवं भक्त्या तद्वृत्तं निखिला जगुः ॥ १७॥
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।
देवान्सुयापयामास तानाश्वास्य विहस्य सः ॥ १८॥
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।
गन्तुमैच्छच्छैलमूलं मायेशो न विकारवान् ॥ १९॥
दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ।
करे स्फटिकमालां च शालग्रामं गले दधत् ॥ २०॥
जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः ।
हिमाचलं जगामाशु बन्धुवर्गैः सर्मन्वितम् ॥ २१॥
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।
ननाम दण्डवद्भूमौ साष्टाङ्गं विधिपूर्वकम् ॥ २२॥
ततः पप्रच्छ शैलेशस्तं द्विजं को भवानिति ।
उवाच शीघ्रं विप्रेन्द्रः स योग्यद्रिं महादरात् ॥ २३॥
साधुद्विज उवाच ।
साधुद्विजाह्वः शैलाहं वैष्णवः परमार्थदृक् ।
परोपकारी सर्वज्ञः सर्वगामी गुरोर्बलात् ॥ २४॥
मया ज्ञातं स्वविज्ञानात्स्वस्थाने शैलसत्तम ।
तच्छृणु प्रीतितो वच्मि हित्वा दम्भं तवान्तिकम् ॥ २५॥
शङ्कराय सुतां दातुं त्वमिच्छसि निजोद्भवाम् ।
इमां पद्मासमां रम्यामज्ञातकुलशीलिने ॥ २६॥
इयं मतिस्ते शैलेन्द्र न युक्ता मङ्गलप्रदा ।
निबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ २७॥
पश्य शैलाधिपत्वं च न तस्यैकोऽस्ति बान्धवः ।
बान्धवान्स्वान्प्रयत्नेन पृच्छ मेनां च स्वप्रियाम् ॥ २८॥
सर्वान्सम्पृच्छ यत्नेन मेनादीन्पार्वतीं विना ।
रोगिणे नौषधं शैल कुपथ्यं रोचते सदा ॥ २९॥
न ते पात्रानुरूपश्च पार्वतीदानकर्मणि ।
महाजनः स्मेरमुखः श्रुतिमात्राद्भविष्यति ॥ ३०॥
निराश्रयः सदासङ्गो विरूपो निर्गुणोऽव्ययः ।
स्मशानवासी विकटो व्यालग्राही दिगम्बरः ॥ ३१॥
विभूतिभूषणो व्यालवरावेष्टितमस्तकः ।
सर्वाश्रमपरिभ्रष्टस्त्वविज्ञातगतिस्सदा ॥ ३२॥
ब्रह्मोवाच ।
इत्याद्युक्त्वा वचस्तथ्यं शिवनिन्दापरं स हि ।
जगाम स्वालयं शीघ्रं नानालीलाकरः शिवः ॥ ३३॥
तच्छ्रुत्वा विप्रवचनमभूतां च तनू तयोः ।
विपरीतानर्थपरे किं करिष्यावहे ध्रुवम् ॥ ३४॥
ततो रुद्रो महोतिं च कृत्वा भक्तमुदावहाम् ।
विवाहयित्वा गिरिजां देवकार्यं चकार सः ॥ ३५॥
इति प्रोक्तस्तु ते तात साधुवेषो द्विजाह्वयः ।
शिवावतारो हि मया देवकार्यकरः प्रभो ॥ ३६॥
इदमाख्यानमनघं स्वर्ग्यमायुष्यमुत्तमम् ।
यः पठेच्छृणुयाद्वापि स सुखी गतिमाप्नुयात् ॥ ३७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां साधुद्विजशिवावतारवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ३.३५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३६. षट्त्रिंशोऽध्यायः । अश्वत्थामशिवावतारवर्णनम् ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।
अवतारं शृणु विभोरश्वत्थामाह्वयं परम् ॥ १॥
बृहस्पतेर्महाबुद्धेर्देवर्षेरंशतो मुने ।
भरद्वाजात्समुत्पन्नो द्रोणोऽयोनिज आत्मवान् ॥ २॥
धनुर्भृतां वरः शूरो विप्रर्षिः सर्वशास्त्रवित् ।
बृहत्कीर्तिर्महातेजा यः सर्वास्त्रविदुत्तमः ॥ ३॥
धनुर्वेदे च वेदे च निष्णातं यं विदुर्बुधाः ।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ ४॥
कौरवाणां स आचर्य आसीत्स्वबलतो द्विज ।
महारथिषु विख्यातः षट्सु कौरवमध्यतः ॥ ५॥
साहाय्यार्थं कौरवाणां स तेपे विपुलं तपः ।
शिवमुद्दिश्य पुत्रार्थं द्रोणाचार्यो द्विजोत्तमः ॥ ६॥
ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ।
आविर्बभूव पुरतो द्रोणस्य मुनिसत्तम ॥ ७॥
तं दृष्ट्वा स द्विजो द्रोणस्तुष्टावाशु प्रणम्य तम् ।
महाप्रसन्नहृदयो नतकः सुकृताञ्जलिः ॥ ८॥
तस्य स्तुत्या च तपसा सन्तुष्टः शङ्करः प्रभुः ।
वरं ब्रूहीति चोवाच द्रोणं तं भक्तवत्सलः ॥ ९॥
तच्छ्रुत्वा शम्भुवचनं द्रोणः प्राहाथ सन्नतः ।
स्वांशजं तनयं देहि सर्वाजेयं महाबलम् ॥ १०॥
तच्छ्रुत्वा द्रोणवचनं शम्भुः प्रोचे तथास्त्विति ।
अभूदन्तर्हितस्तात कौतुकी सुखकृन्मुने ॥ ११॥
द्रोणोऽपगच्छत्स्वं धाम महाहृष्टो गतभ्रमः ।
स्वपत्न्यै कथयामास तद्वृतं सकलं मुदा ॥ १२॥
अथावसरमासाद्य रुद्रः सर्वान्तकः प्रभुः ।
स्वांशेन तनयो जज्ञे द्रोणस्य स महाबलः ॥ १३॥
अश्वत्थामेति विख्यातः स बभूव क्षितौ मुने ।
प्रवीरः कञ्जपत्राक्षः शत्रुपक्षक्षयङ्करः ॥ १४॥
यो भारते रणे ख्यातः पितुराज्ञामवाप्य च ।
सहायकृद् बभूवात कौरवाणां महाबलः ॥ १५॥
यमाश्रित्य महावीरं कौरवाः सुमहाबलाः ।
भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ॥ १६॥
यद्भयात्पाण्डवाः सर्वे कौरवाञ्जेतुमक्षमाः ।
आसन्नष्टा महावीरा अपि सर्वे च कोविदाः ॥ १७॥
कृष्णोपदेशतः शम्भोस्तपः कृत्वातिदारुणम् ।
प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ॥ १८॥
अश्वत्थामा महावीरो महादेवांशजो मुने ।
तथापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ॥ १९॥
विनाश्य पाण्डवसुतान् शिक्षितानपि यत्नतः ।
कृष्णादिभिर्महावीरैरनिवार्यबलः परैः ॥ २०॥
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ।
रथेनाच्युतवन्तं हि दृष्ट्वा स च पराद्रवत् ॥ २१॥
अस्त्रं ब्रह्मशिरो नाम तदुपर्यसृजत्स हि ।
ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ॥ २२॥
प्राणापदमभिप्रेक्ष्य सोऽर्जुनः क्लेशसंयुतः ।
उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ॥ २३॥
अर्जुन उवाच ।
किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ।
सर्वतोमुखमायाति तेजश्चेदं सुदुस्सहम् ॥ २४॥
नन्दीश्वर उवाच ।
श्रुत्वार्जुनवचश्चेदं स कृष्णः शैवसत्तमः ।
दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ॥ २५॥
श्रीकृष्ण उवाच ।
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं महोल्बणम् ।
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ॥ २६॥
शिवं स्मर द्रुतं शम्भुं स्वप्रभुं भक्तरक्षकम् ।
येन दत्तं हि ते स्वास्त्रं सर्वकार्यकरं परम् ॥ २७॥
जह्यस्त्रतेज उन्नद्धं त्वं तच्छैवास्त्रतेजसा ।
इत्युक्त्वा च स्वयं कृष्णः शिवं दध्यौ तदर्थकः ॥ २८॥
तच्छ्रुत्वा कृष्णवचनं पार्थः स्मृत्वा शिवं हृदि ।
स्पृष्ट्वापस्तं प्रणम्याशु चिक्षेपास्त्रं ततो मुने ॥ २९॥
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।
शैवास्त्रतेजसा सद्यः समशाम्यन्महामुने ॥ ३०॥
मा मंस्था ह्येतदाश्चर्यं सर्वचित्रमये शिवे ।
यः स्वशक्त्याखिलं विश्वं सृजत्यवति हन्त्यजः ॥ ३१॥
अश्वत्थामा ततो ज्ञात्वा वृत्तमेतच्छिवांशजः ।
शैवं न विव्यथे किञ्चिच्छिवेच्छातुष्टधीर्मुने ॥ ३२॥
अथ द्रौणिरिदं विश्वं कृत्स्नं कर्तुमपाण्डवम् ।
उत्तरागर्भगं बालं नाशितुं मन आदधे ॥ ३३॥
ब्रह्मास्त्रमनिवार्यं तदन्यैरस्त्रैर्महाप्रभम् ।
उत्तरागर्भमुद्दिश्य चिक्षेप स महाप्रभुः ॥ ३४॥
ततश्च सोत्तरा जिष्णुवधूर्विकलमानसा ।
कृष्णं तुष्टाव लक्ष्मीशं दह्यमाना तदस्त्रतः ॥ ३५॥
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ।
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ३६॥
स्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ।
सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ॥ ३७॥
स्वरूपं शङ्करादेशात्कृतं शैववरेण ह ।
कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ॥ ३८॥
ततः स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ।
अपातयत्तदङ्घ्र्योस्तु तुष्टये तस्य शैवराट् ॥ ३९॥
अथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ।
नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ॥ ४०॥
इत्थं महेश्वरस्तात चक्रे लीलां परां प्रभुः ।
अवतीर्य क्षितौ द्रौणिरूपेण मुनिसत्तम ॥ ४१॥
शिवावतारोऽश्वत्थामा महाबलपराक्रमः ।
त्रैलोक्यसुखदोऽद्यापि वर्तते जाह्नवीतटे ॥ ४२॥
अश्वत्थामावतारस्ते वर्णितः शङ्करप्रभोः ।
सर्वसिद्धिकरश्चापि भक्ताभीष्टफलप्रदः ॥ ४३॥
य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ।
स सिद्धिं प्राप्नुयादिष्टामन्ते शिवपुरं व्रजेत् ॥ ४४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामश्वत्थामशिवावतारवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३.३६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३७. सप्तत्रिंशोऽध्यायः । व्यासोपदेशवर्णनम् ।
नन्दीश्वर उवाच ।
शृणु प्राज्ञ किराताख्यमवतारं पिनाकिनः ।
मूकं च हतवान्प्रीतो योऽर्जुनाय वरं ददौ ॥ १॥
सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते ।
द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ॥ २॥
तत्रैव सूर्यदत्तां वै स्थालीं चाश्रित्य ते तदा ।
कालं च वाहयामासुः सुखेन किल पाण्डवाः ॥ ३॥
छलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ।
सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ॥ ४॥
छात्रैः स्वैर्वायुतैः सार्धं ययाचे तत्र तान्मुदा ।
भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ॥ ५॥
स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ।
दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः ॥ ६॥
अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ।
दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः ॥ ७॥
द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ।
शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत् ॥ ८॥
दुर्वासाश्च तदा शिष्यांस्तृप्तान् ज्ञात्वा ययौ पुनः ।
पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा ॥ ९॥
अथ ते पाण्डवाः कृष्णं पप्रच्छुः किं भविष्यति ।
बलवान् शत्रुरुत्पन्नः किं कार्यं तद्वद प्रभो ॥ १०॥
नन्दीश्वर उवाच ।
इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ।
स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत् ॥ ११॥
श्रीकृष्ण उवाच ।
श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ।
मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम् ॥ १२॥
द्वारकां च मया गत्वा शत्रूणां विजिगीषया ।
विचार्य चोपदेशांश्च ह्युपमन्योर्महात्मनः ॥ १३॥
मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ।
बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः ॥ १४॥
इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ।
तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम् ॥ १५॥
इदानीं सेव्यते देवो भुक्तिमुक्तिफलप्रदः ।
यूयं सेवत तं शम्भुमपि सर्वसुखावहम् ॥ १६॥
नन्दीश्वर उवाच ।
इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ।
द्वारकामगमच्छीघ्रं स्मरन् शिवपदाम्बुजम् ॥ १७॥
पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ।
गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च ॥ १८॥
सोऽपि सर्वं च तत्रत्यं दुर्योधनगुणोदयम् ।
समीचीनं च तज्ज्ञात्वा पुनः प्राप प्रभून्प्रति ॥ १९॥
तदुक्तं ते निशम्यैवं दुःखं प्रापुर्मुनीश्वर ।
परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः ॥ २०॥
किं कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि ।
समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः ॥ २१॥
नन्दीश्वर उवाच ।
एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ।
रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः ॥ २२॥
पञ्चाक्षरं जपन्मन्त्रं शिवप्रेमसमाकुलः ।
तेजसां च स्वयंराशिः साक्षाद्धर्म इवापरः ॥ २३॥
तं दृष्ट्वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ।
दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम् ॥ २४॥
तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः ।
स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः ॥ २५॥
तपश्चैव सुसन्तप्तं दानानि विविधानि च ।
तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो ॥ २६॥
दुःखं च दूरतो जातं दर्शनात्ते पितामह ।
दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः ॥ २७॥
श्रीमतां दर्शने जाते दुःखं चैव गमिष्यति ।
कदाचिन्न गतं तत्र निश्चयोऽयं विचारितः ॥ २८॥
महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ।
यदि दुःखं न गच्छेत्तु दैवमेवात्र कारणम् ॥ २९॥
निश्चयेनैव गच्छेत्तु दारिद्यं दुःखकारणम् ।
महतां च स्वभावोऽयं कल्पवृक्षसमो मतः ॥ ३०॥
तद्गुणानेव गणयन्महतो वस्तुमात्रतः ।
आश्रयस्य वशादेव पुंसो वै जायते प्रभो ॥ ३१॥
लघुत्वं च महत्त्वं च नात्र कार्या विचारणा ।
उत्तमानां स्वभावोऽयं यद्दीनप्रतिपालनम् ॥ ३२॥
रङ्कस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ।
पुरोऽस्य परयत्नो वै सुजनानां च सेवनम् ॥ ३३॥
अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ।
एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभं तदा ॥ ३४॥
त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ।
दिशोपदेशं येनाशु दुःखं नष्टं भवेच्च नः ॥ ३५॥
नन्दीश्वर उवाच ।
इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ।
प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम् ॥ ३६॥
हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ।
धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम् ॥ ३७॥
सुजनानां स्वभावोऽयं प्राणान्तेऽपि सुशोभनः ।
धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम् ॥ ३८॥
अस्माकं चैव यूयं च ते चापि समतां गताः ।
तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः ॥ ३९॥
धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ।
धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम् ॥ ४०॥
तस्य यूयं च ते चापि पुत्रा एव न संशयः ।
पितर्यपरते बाला अनुकम्प्या महात्मनः ॥ ४१॥
पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ।
अनर्थो नैव जायेत यच्चैवं च कृतं तदा ॥ ४२॥
अतः परं च यज्जातं तज्जातं नान्यथा भवेत् ।
अयं दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ॥ ४३॥
तस्मादन्ते च तस्यैवाशुभं हि भविता ध्रुवम् ।
यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ॥ ४४॥
तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ।
भविष्यति शुभं वो हि नात्र कार्या विचारणा ॥ ४५॥
नन्दीश्वर उवाच ।
इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः ।
युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः ॥ ४६॥
पाण्डवा ऊचुः ।
सत्यमुक्तं त्वया नाथ दुष्टैर्दुःखं निरन्तरम् ।
दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः ॥ ४७॥
तन्नाशयाशुभं मेंऽद्य किञ्चिद्देयं शुभं विभो ।
कृष्णेन कथितं पूर्वमाराध्यः शङ्करः सदा ॥ ४८॥
प्रमादश्च कृतोऽस्माभिस्तद्वचः शिथिलीकृतम् ।
स देवमार्गस्तु पुनरिदानीमुपदिश्यताम् ॥ ४९॥
नन्दीश्वर उवाच ।
इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ।
उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ५०॥
व्यास उवाच ।
श्रूयतां वचनं मेऽद्य पाण्डवा धर्मबुद्धयः ।
सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ॥ ५१॥
भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ।
सर्वदुःखं भवत्येव शिवासेवात एव हि ॥ ५२॥
नन्दीश्वर उवाच ।
अथ पञ्चसु तेष्वेव विचार्य शिवपूजने ।
अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ॥ ५३॥
तपःस्थानं विचार्यैवं ततः स मुनिसत्तमः ।
पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ॥ ५४॥
व्यास उवाच ।
श्रूयतां पाण्डवाः सर्वे कथयामि हितं सदा ।
शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सतां गतिम् ॥ ५५॥
ब्रह्मादित्रिपरार्द्धान्तं यत्किञ्चिद् दृश्यते जगत् ।
तत्सर्वं शिवरूपं च पूज्यं ध्येयं च तत्पुनः ॥ ५६॥
सर्वेषां चैव सेव्योऽसौ शङ्करः सर्वदुःखहा ।
शिवः स्वल्पेन कालेन सम्प्रसीदति भक्तितः ॥ ५७॥
सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ।
भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम् ॥ ५८॥
तस्मात्सेव्यः सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ।
पुरुषः शङ्करः साक्षाद् दृष्टहन्ता सतां गतिः ॥ ५९॥
परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ।
क्षत्रियस्य पराख्यस्य चेदमेव समाहितम् ॥ ६०॥
अतोऽर्जुनश्च प्रथमं शक्रविद्यां जपेद् दृढः ।
करिष्यति परीक्षां प्राक् सन्तुष्टस्तद्भविष्यति ॥ ६१॥
सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ।
पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति ॥ ६२॥
नन्दीश्वर उवाच ।
इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ।
स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः ॥ ६३॥
पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ।
प्रत्युवाच च तं व्यासो धनञ्जयमुदारधीः ॥ ६४॥
व्यास उवाच ।
इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ।
जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु ॥ ६५॥
अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ।
इत्याशिषं ददौ तस्मै ततः प्रोवाच तान्मुनिः ॥ ६६॥
धर्ममास्थाय सर्वे वै तिष्ठन्तु नृपसत्तमाः ।
सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा ॥ ६७॥
नन्दीश्वर उवाच ।
इति दत्त्वाशिषं तेभ्यः पाण्डवेभ्यो मुनीश्वरः ।
स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात् ॥ ६८॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णन प्रसङ्गेऽर्जुनाय व्यासोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३.३७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३८. अष्टत्रिंशोऽध्यायः । किरातावतारवर्णनप्रसङ्गेऽर्जुनतपोवर्णनम् ।
नन्दीश्वर उवाच ।
अर्जुनोऽपि तदा तत्र दीप्यमानो व्यदृश्यत ।
मन्त्रेण शिवरूपेण तेजश्चातुलमावहन् ॥ १॥
ते सर्वे चार्जुनं दृष्ट्वा पाण्डवा निश्चयं गताः ।
जयोऽस्माकं ध्रुवं जातं तेजश्च विपुलं यतः ॥ २॥
इदं कार्यं त्वया साध्यं नान्येन च कदाचन ।
व्यासस्य वचनाद्भाति सफलं कुरु जीवितम् ॥ ३॥
इति प्रोच्यार्जुनं ते वै विरहौत्सुक्यकातराः ।
अनिच्छन्तोऽपि तत्रैव प्रेषयामासुरादरात् ॥ ४॥
द्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ।
प्रेषयन्ती शुभं वाक्यं तदोवाच पतिव्रता ॥ ५॥
द्रौपद्युवाच ।
व्यासोपदिष्टं यद्राजंस्त्वया कार्यं प्रयत्नतः ।
शुभप्रदोऽस्तु ते पन्थाः शकरः शं करोतु वै ॥ ६॥
ते सर्वे चावसंस्तत्र विसृज्यार्जुनमादरात् ।
अत्यन्तदुःखमापन्ना मिलित्वा पञ्च एव च ॥ ७॥
स्थितास्तत्र वदन्ति स्म श्रूयतामृषिसत्तम ।
दुःखेऽपि प्रियसङ्गो वै न दुःखाय प्रजायते ॥ ८॥
वियोगे द्विगुणं तस्य दुःखं भवति नित्यशः ।
तत्र धैर्यधरस्यापि कथं धैर्यं भवेदिह ॥ ९॥
नन्दीश्वर उवाच ।
कुर्वत्स्वेव तदा दुःखम्पाण्डवेषु मुनीश्वरः ।
कृपासिन्धुश्च स व्यास ऋषिवर्यः समागत ॥ १०॥
तं तदा पाण्डवास्ते वै नत्वा सम्पूज्य चादरात् ।
दत्त्वासनं हि दुःखाढ्याः करौ बध्वा वचोऽब्रुवन् ॥ ११॥
पाण्डवा ऊचुः ।
श्रूयतामृषभश्रेष्ठ दुःखदग्धा वयं प्रभो ।
दर्शनं तेऽद्य सम्प्राप्य ह्यानन्दं प्राप्नुमो मुने ॥ १२॥
कियत्कालं वसात्रैव दुःखनाशाय नः प्रभो ।
दर्शनात्तव विप्रर्षे सर्वं दुःखं विलीयते ॥ १३॥
नन्दीश्वर उवाच ।
इत्युक्तः स ऋषिश्रेष्ठो न्यवसत्तत्सुखाय वै ।
कथाभिर्विविधाभिश्च तद्दुःखं नोदयंस्तदा ॥ १४॥
वार्तायां क्रियमाणायां तेन व्यासेन सन्मुने ।
सुप्रणम्य विनीतात्मा धर्मराजोऽब्रवीदिदम् ॥ १५॥
धर्मराज उवाच ।
शृणु त्वं हि ऋषिश्रेष्ठ दुःखशान्तिर्मता मम ।
पृच्छामि त्वां महाप्राज्ञ कथनीयं त्वया प्रभो ॥ १६॥
ईदृशं चैव दुःखं च पुरा प्राप्तश्च कश्चन ।
वयमेव परं दुःखं प्राप्ता वै नैव कश्चन ॥ १७॥
व्यास उवाच ।
राज्ञस्तु नलनाम्नो वै निषधाधिपतेः पुरा ।
भवद्दुःखाधिकं दुःखं जातं तस्य महात्मनः ॥ १८॥
हरिश्चन्द्रस्य नृपतेर्जातं दुःखं महत्तरम् ।
अकथ्यं तद्विशेषेण परशोकावहं तथा ॥ १९॥
दुःखं तथैव विज्ञेयं रामस्याप्यथ पाण्डव ।
यच्छ्रुत्वा स्त्रीनराणां च भवेन्मोहो महत्तरः ॥ २०॥
तस्माद्वर्णयितुं नैव शक्यते हि मया पुनः ।
शरीरं दुःखराशिं च मत्वा त्याज्यं त्वयाधुना ॥ २१॥
येनेदं च धृतं तेन व्याप्तमेव न संशयः ।
प्रथमं मातृगर्भे वै जन्म दुःखस्य कारणम् ॥ २२॥
कौमारेऽपि महादुःखं बाललीलानुसारि यत् ।
ततोऽपि यौवने कामान्भुञ्जानो दुःखरूपिणः ॥ २३॥
गतागतैर्दिनानां हि कार्यभारैरनेकशः ।
आयुश्च क्षीयते नित्यं न जानाति ह तत्पुनः ॥ २४॥
अन्ते च मरणं चैव महादुःखमतः परम् ।
नानानरकपीडाश्च भुज्यन्तेऽज्ञैर्नरैस्तदा ॥ २५॥
तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ।
येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च ॥ २६॥
नन्दीश्वर उवाच ।
एवं विविधवार्ताभिः कालनिर्यापणन्तदा ।
चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः ॥ २७॥
अर्जुनोऽपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ।
यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः ॥ २८॥
मनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ।
तत्र गत्वा च गङ्गायाः समीपं सुन्दरं स्थलम् ॥ २९॥
अशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ।
तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम् ॥ ३०॥
यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ।
इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत् ॥ ३१॥
पुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ।
तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम् ॥ ३२॥
त्रिकालं चैव सुस्नातः पूजनं विविधं तदा ।
चकारोपासनं तत्र हरस्य च पुनः पुनः ॥ ३३॥
तस्यैव शिरसस्तेजो निस्सृतं तच्चरास्तदा ।
दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम् ॥ ३४॥
पुनस्ते च विचार्यैवं कथनीयं विडौजसे ।
इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा ॥ ३५॥
चरा ऊचुः ।
देवो वाथ ऋषिश्चैव सूर्यो वाथ विभावसुः ।
तपश्चरति देवेश न जानीमो वने च तम् ॥ ३६॥
तस्यैव तेजसा दग्धा आगतास्तव सन्निधौ ।
निवेदितञ्चरित्रं तत्क्रियतामुचितं तु यत् ॥ ३७॥
नन्दीश्वर उवाच ।
इत्युक्तस्तैश्चरैः सर्वं ज्ञात्वा पुत्रचिकीर्षितम् ।
स गोत्रपान्विसृज्यैव तत्र गन्तुं मनो दधे ॥ ३८॥
स वृद्धब्राह्मणो भूत्वा ब्रह्मचारी शचीपतिः ।
जगाम तत्र विप्रेन्द्र परीक्षार्थं हि तस्य वै ॥ ३९॥
तमागतं तदा दृष्ट्वाकार्षीत्पूजां च पाण्डवः ।
स्थितोऽग्रे च स्तुतिं कृत्वा क्वायातोऽसि वदाधुना ॥ ४०॥
इत्युक्तस्तेन देवेशो धैर्यार्थं तस्य प्रीतितः ।
परीक्षागर्भितं वाक्यं पाण्डवन्तं ततोऽब्रवीत् ॥ ४१॥
ब्राह्मण उवाच ।
नवे वयसि वै तात किन्तपस्यसि साम्प्रतम् ।
मुक्त्यर्थं वा जयार्थं किं सर्वथैतत्तपस्तव ॥ ४२॥
नन्दीश्वर उवाच ।
इति पृष्टस्तदा तेन सर्वं संवेदितं पुनः ।
तच्छ्रुत्वा स पुनर्वाक्यमुवाच ब्राह्मणस्तदा ॥ ४३॥
ब्राह्मण उवाच ।
युक्तं न क्रियते वीर सुखं प्राप्तुं च यत्तपः ।
क्षात्रधर्मेण क्रियते मुक्त्यर्थं कुरुसत्तम ॥ ४४॥
इन्द्रस्तु सुखदाता वै मुक्तिदाता भवेन्न हि ।
तस्मात्त्वं सर्वथा श्रेष्ठ कर्तुमर्हसि सत्तपः ।
नन्दीश्वर उवाच ।
इदं तद्वचनं श्रुत्वा क्रोधं चक्रेऽर्जुनस्तदा ।
प्रत्युवाच विनीतात्मा तदनादृत्य सुव्रतः ॥ ४६॥
अर्जुन उवाच ।
राज्यार्थं न च मुक्त्यर्थ किमर्थं भाषसे त्विदम् ।
व्यासस्य वचनेनैव क्रियते तप ईदृशम् ॥ ४७॥
इतो गच्छ ब्रह्मचारिन्मां पातयितुमिच्छसि ।
प्रयोजनं किमत्रास्ति तव वै ब्रह्मचारिणः ॥ ४८॥
नन्दीश्वर उवाच ।
इत्युक्तः स प्रसन्नोऽभूत्सुन्दरं रूपमद्भुतम् ।
स्वोपस्करणसंयुक्तं दर्शयामास वै निजम् ॥ ४९॥
शक्ररूपं तदा दृष्ट्वा लज्जितश्चार्जुनस्तदा ।
स इन्द्रस्तं समाश्वास्य पुनरेव वचोऽब्रवीत् ॥ ५०॥
इन्द्र उवाच ।
वरं वृणीष्व हे तात धनञ्जय महामते ।
यदिच्छसि मनोऽभीष्टं नादेयं विद्यते तव ॥ ५१॥
तच्छ्रुत्वा शक्रवचनं प्रत्युवाचार्जुनस्तदा ।
विजयं देहि मे तात शत्रुक्लिष्टस्य सर्वथा ॥ ५२॥
शक्र उवाच ।
बलिष्ठाः शत्रवस्ते च दुर्योधनपुरःसराः ।
द्रोणो भीमश्च कर्णश्च सर्वे ते दुर्जया ध्रुवम् ॥ ५३॥
अश्वत्थामा द्रोणपुत्रो रौद्रोंऽशो दुर्जयोऽति सः ।
मयासाध्या भवेयुस्ते सर्वथा स्वहितं शृणु ॥ ५४॥
एतद्वीर जयं कर्तुं न शक्तः कश्चनाधुना ।
वर्तते हि शिवो वर्यस्तस्माच्छम्भोर्जपोऽधुना ॥ ५५॥
शङ्करः सर्वलोकेशश्चराचरपतिः स्वराट् ।
सर्वं कर्तुं समर्थोऽस्ति भुक्तिमुक्तिफलप्रदः ॥ ५६॥
अहम्मन्ये च ब्रह्माद्या विष्णुः सर्ववरप्रदः ।
अन्ये जिगीषवो ये च ते सर्वे शिवपूजकाः ॥ ५७॥
अद्यप्रभृति तन्मन्त्रं हित्वा भक्त्या शिवं भज ।
पार्थिवेन विधानेन ध्यानेनैव शिवस्य च ॥ ५८॥
उपचारैरनेकैश्च सर्वभावेन भारत ।
सिद्धिः स्यादचला तेऽद्य नात्र कार्या विचारणा ॥ ५९॥
नन्दीश्वर उवाच ।
इत्युक्त्वा च चरान्सर्वान्समाहूयाब्रवीदिदम् ।
सावधानेन वै स्थेयमेतत्संरक्षणे सदा ॥ ६०॥
प्रबोध्य स्वचरानिन्द्रोऽर्जुनसंरक्षणादिकम् ।
वात्सल्यपूर्णहृदयः पुनरूचे कपिध्वजम् ॥ ६१॥
इन्द्र उवाच ।
राज्यं त्वया प्रमादाद्वै न कर्तव्यं कदाचन ।
श्रेयसे भद्र विद्येयं भवेत्तव परन्तप ॥ ६२॥
धैर्यं धार्यं साधकेन सर्वथा रक्षकः शिवः ।
सम्पत्तीश्च फलं तुभ्यं दास्यते नात्र संशयः ॥ ६३॥
नन्दीश्वर उवाच ।
इति दत्त्वा वरं तस्य भारतस्य सुरेश्वरः ।
स्मरञ्छिवपदाम्भोजं जगाम भवनं स्वकम् ॥ ६४॥
अर्जुनोऽपि महावीरः सुप्रणम्य सुरेश्वरम् ।
तपस्तेपे संयतात्मा शिवमुद्दिश्य तद्विधम् ॥ ६५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसङ्गेऽर्जुनतपोवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३.३८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.३९. एकोनचत्वारिंशोऽध्यायः । किरातावतारवर्णने मूकदैत्यवधः ।
नन्दीश्वर उवाच ।
स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा ।
ध्यानं शिवस्य सद्भक्त्या व्यासोक्तं यत्तथाकरोत् ॥ १॥
एकपादतलेनैव तिष्ठन्मुनिवरो यथा ।
सूर्ये दृष्टिं निबध्यैकां मन्त्रमावर्तयन् स्थितः ॥ २॥
तपस्तेपेति सम्प्रीत्या संस्मरन्मनसा शिवम् ।
पञ्चाक्षरं मनुं शम्भोर्जपन्सर्वोत्तमोत्तमम् ॥ ३॥
तपसस्तेज एवासीद्यथा देवा विसिस्मियुः ।
पुनश्चैव शिवं याताः प्रत्यूचुस्ते समाहिताः ॥ ४॥
देवा ऊचुः ।
नरेणैकेन सर्वेश त्वदर्थे तप आहितम् ।
यदिच्छति नरः सोऽयं किन्न यच्छति तत्प्रभो ॥ ५॥
नन्दीश्वर उवाच ।
इत्युक्त्वा तु स्तुतिं चक्रुर्विविधां ते तदा सुराः ।
तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ॥ ६॥
शिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारधीः ।
सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ॥ ७॥
शिव उवाच ।
स्वस्थानं गच्छत सुराः सर्वे सत्यं न संशयः ।
सर्वथाहं करिष्यामि कार्यं वो नात्र संशय ॥ ८॥
नन्दीश्वर उवाच ।
तच्छ्रुत्वा शम्भुवचनं निश्चयं परमं गताः ।
परावृत्य गताः सर्वे स्वस्थानं ते हि निर्जराः ॥ ९॥
एतस्मिन्नन्तरे दैत्यो मूकनामागतस्तदा ।
सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ॥ १०॥
दुर्योधनेन विप्रेन्द्र मायिना चार्जुनं तदा ।
यत्रार्जुनः स्थितश्चासीत्तेन मार्गेण वै तदा ॥ ११॥
शृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ।
शब्दं च विविधं कुर्वन्नतिवेगेन संयुतः ॥ १२॥
अर्जुनोऽपि च तं दृष्ट्वा मूकनामासुरं तदा ।
स्मृत्वा शिवपदाम्भोजं विचारे तत्परोऽभवत् ॥ १३॥
अर्जुन उवाच ।
कोऽयं वा कुत आयाति क्रूरकर्मा च दृश्यते ।
ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ॥ १४॥
ममैवं मन आयाति शत्रुरेव न संशयः ।
मया विनिहताः पूर्वमनेके दैत्यदानवाः ॥ १५॥
तदीयः कश्चिदायाति वैरं साधयितुं पुनः ।
अथवा च सखा कश्चिद् दुर्योधनहितावहः ॥ १६॥
यस्मिन्दृष्टे प्रसीदेत्स्वं मनः स हितकृद् ध्रुवम् ।
यस्मिन्दृष्टे तदेव स्यादाकुलं शत्रुरेव सः ॥ १७॥
आचारः कुलमाख्याति वपुराख्याति भोजनम् ।
वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥ १८॥
आकारेण तथा गत्या चेष्टया भाषितैरपि ।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ॥ १९॥
उज्ज्वलं सरसं चैव वक्रमारक्तकं तथा ।
नेत्रं चतुर्विधं प्रोक्तं तस्य भावं पृथग्बुधाः ॥ २०॥
उज्ज्वलं मित्रसंयोगे सरसं पुत्रदर्शने ।
वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने ॥ २१॥
अस्मिन्मम तु सर्वाणि कलुषानीन्द्रियाणि च ।
अयं शत्रुर्भवेदेव मारणीयो न संशयः ॥ २२॥
गुरोश्च वचनं मेऽद्य वर्तते दुःखदस्त्वया ।
हन्तव्यः सर्वथा राजन्नात्र कार्या विचारणा ॥ २३॥
एतदर्थं त्वायुधानि मम चैव न संशयः ।
विचार्येति च तत्रैव बाणं संस्थाय संस्थितः ॥ २४॥
एतस्मिन्नन्तरे तत्र रक्षार्थं ह्यर्जुनस्य वै ।
तद्भक्तेश्च परीक्षार्थं शङ्करो भक्तवत्सलः ॥ २५॥
विदग्धभिल्लरूपं हि गणैः सार्धं महाद्भुतम् ।
तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ॥ २६॥
बद्धकच्छश्च वल्लीभिर्बद्धेवा केशान् हरस्तदा ।
शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ॥ २७॥
बाणानां तूणकं पृष्ठे धृत्वा वै स जगाम ह ।
गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ॥ २८॥
शब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ।
सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ॥ २९॥
वनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ।
पर्वताद्याश्च तैः शब्दैस्ते सर्वे व्याकुलास्तदा ॥ ३०॥
अहो किन्नु भवेदेष शिवः शुभकरस्त्विह ।
मया चैव श्रुतं पूर्वं कृष्णेन कथितं पुनः ॥ ३१॥
व्यासेन कथितं चैव स्मृत्वा देवैस्तथा पुनः ।
शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ॥ ३२॥
मुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ।
तन्नामस्मरणात्पुंसां कल्याणं जायते ध्रुवम् ॥ ३३॥
भजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत् ।
यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ॥ ३४॥
भावितद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ।
प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ॥ ३५॥
अथवा बहु चाल्पं हि भोग्यं निस्तीर्य शङ्करः ।
कदाचिदिच्छया तस्य दूरीकुर्यान्न संशयः ॥ ३६॥
विषं चैवामृतं कुर्यादमृतं विषमेव वा ।
यदिच्छति करोत्येव समर्थः किन्निषिध्यते ॥ ३७॥
इत्थं विचार्यमाणेऽपि भक्तैरन्यैः पुरातनैः ।
भाविभिश्च सदा भक्तैरिहानीय मनः स्थिरम् ॥ ३८॥
लक्ष्मीर्गच्छेच्चावतिष्ठेन्मरणं निकटे पुरः ।
निन्दां वाथ प्रकुर्वन्तु स्तुतिं वा दुःखसङ्क्षयम् ॥ ३९॥
जायते पुण्यपापाभ्यां शङ्करः सुखदः सदा ।
कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः ॥ ४०॥
अन्ते च सुखदः प्रोक्तो दयालुत्वान्न संशयः ।
यथा चैव सुवर्णं च शोधितं शुद्धतां व्रजेत् ॥ ४१॥
एवं चैव मया पूर्वं श्रुतं मुनिमुखात्तथा ।
अतस्तद्भजनेनैव लप्स्येऽहं सुखमुत्तमम् ॥ ४२॥
इत्येवं तु विचारं स करोति यावदेव हि ।
तावच्च सूकरः प्राप्तो बाणसम्मोचनावधिः ॥ ४३॥
शिवोऽपि पृष्ठतो लग्नो ह्यायातः शूकरस्य हि ।
तयोर्मध्ये तदा सोऽयं दृश्यते शृङ्गमद्भुतम् ॥ ४४॥
तस्य प्रोक्तं च माहात्म्यं शिवः शीघ्रतरं गतः ।
अर्जुनस्य च रक्षार्थं शङ्करो भक्तवत्सलः ॥ ४५॥
एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ।
शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा ॥ ४६॥
शिवस्य पुच्छतो गत्वा मुखान्निस्सृत्य शीघ्रतः ।
भूमौ विलीनः संयातस्तस्य वै पुच्छतो गतः ॥ ४७॥
पपात पार्श्वतश्चैव बाणश्चैवार्जुनस्य च ।
सूकरस्तत्क्षणं दैत्यो मृतो भूमौ पपात ह ॥ ४८॥
देवा हर्षं परं प्रापुः पुष्पवृष्टिं च चक्रिरे ।
जयपूर्वं स्तुतिकराः प्रणम्य च पुनः पुनः ॥ ४९॥
शिवस्तुष्टमना आसीदर्जुनः सुखमागतः ।
दैत्यस्य च तदा दृष्ट्वा क्रूरं रूपं च तौ तदा ॥ ५०॥
अर्जुनस्तु विशेषेण सुखिना प्राह चेतसा ।
अहो दैत्यवरश्चायं रूपं तु परमाद्भुतम् ॥ ५१॥
कृत्वागतो मद्वधार्थं शिवेनाहं सुरक्षितः ।
ईश्वरेण ममाद्यैव बुद्धिर्दत्ता न संशयः ॥ ५२॥
विचार्येत्यर्जुनस्तत्र जगौ शिव शिवेति च ।
प्रणनाम शिवं भूयस्तुष्टाव च पुनः पुनः ॥ ५३॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने मूकदैत्यवधो नामैकोनचत्वारिंशोऽध्यायः ॥ ३.३९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.४०. चत्वारिंशोऽध्यायः । किरातावतारवर्णने भिल्लार्जुनसंवादः ।
नन्दीश्वर उवाच ।
सनत्कुमार सर्वज्ञ शृणु लीलां परात्मनः ।
भक्तवात्सल्यसंयुक्तां तद् दृढत्वविदर्भिताम् ॥ १॥
शिवोऽप्यथ स्वभृत्यं वै प्रेषयामास स द्रुतम् ।
बाणार्थं च तदा तत्रार्जुनोऽपि समगात्ततः ॥ २॥
एकस्मिन् समये प्राप्तौ बाणार्थं तद्गणार्जुनौ ।
अर्जुनस्तं पराभर्त्स्य स्वबाणं चाग्रहीत्तदा ॥ ३॥
गणः प्रोवाच तं तत्र किमर्थं गृह्यते शरः ।
बाणश्चैवास्मदीयो वै मुच्यतां ऋषिसत्तम ॥ ४॥
इत्युक्तस्तेन भिल्लस्य गणेन मुनिसत्तम ।
सोऽर्जुनः शङ्करं स्मृत्वा वचनं च तमब्रवीत् ॥ ५॥
अर्जुन उवाच ।
अज्ञात्वा किं च वदसि मूर्खोऽसि त्वं वनेचर ।
बाणश्च मोचितो मेऽद्य त्वदीयश्च कथं पुनः ॥ ६॥
रेखारूपं च पिच्छानि मन्नामाङ्कित एव च ।
त्वदीयश्च कथं जातः स्वभावो दुस्त्यजस्तव ॥ ७॥
नन्दीश्वर उवाच ।
इत्येवं तद्वचः श्रुत्वा विहस्य स गणेश्वरः ।
अर्जुनं ऋषिरूपं तं भिल्लो वाक्यमुपाददे ॥ ८॥
तापस श्रूयतां रे त्वं न तपः क्रियते त्वया ।
वेषतश्च तपस्वी त्वं न यथार्थं छलायते ॥ ९॥
तपस्वी च कथं मिथ्या भाषणं कुरुते नरः ।
नैकाकिनं च मां त्वं च जानीहि वाहिनीपतिम् ॥ १०॥
बहुभिर्वनभिल्लैश्च युक्तः स्वामी स आसते ।
समर्थः सर्वथा कर्तुं विग्रहानुग्रहौ पुनः ॥ ११॥
वर्तते तस्य बाणोऽयं यो नीतश्च त्वयाधुना ।
अयं बाणश्च ते पार्श्वे न स्थास्यति कदाचन ॥ १२॥
तपःफलं कथं त्वं च हातुमिच्छसि तापस ।
चौर्याच्छलादर्द्यमानाद् विस्मयात्सत्यभञ्जनात् ॥ १३॥
तपसा क्षीयते सत्यमेतदेव मया श्रुतम् ।
तस्माच्च तपसस्तेऽद्य भविष्यति फलं कुतः ॥ १४॥
तस्मादमुक्तबाणो हि कृतघ्नस्त्वं भविष्यसि ।
ममैव स्वामिना बाणस्तवार्थे मोचितो ध्रुवम् ॥ १५॥
शत्रुश्च मारितस्तेन पुनर्बाणश्च रक्षितः ।
अत्यन्तं च कृतघ्नोऽसि तपोऽशुभकरस्तथा ॥ १६॥
सत्यं न भाषसे त्वं च किमतः सिद्धिमिच्छसि ।
प्रयोजनं चेद् बाणेन स्वामी च याच्यतां मम ॥ १७॥
ईदृशांश्च बहून्बाणांस्तदा दातुं क्षमः स्वयम् ।
राजा च वर्तते मेऽद्य किं त्वेवं याच्यते त्वया ॥ १८॥
उपकारं परित्यज्य ह्यपकारं समीहसे ।
नैतद्युक्तं त्वयाद्यैव क्रियते त्यज चापलम् ॥ १९॥
नन्दीश्वर उवाच ।
इत्येवं वचनं तस्य श्रुत्वा पार्थोऽर्जुनस्तदा ।
क्रोधं कृत्वा शिवं स्मृत्वा मितं वाक्यमथाब्रवीत् ॥ २०॥
अर्जुन उवाच ।
शृणु भिल्ल प्रवक्ष्यामि न सत्यं तव भाषणम् ।
यथा जातिस्तथा त्वां च जानामि हि वनेचर ॥ २१॥
अहं राजा भवान् चौरः कथं युद्धप्रयुक्तता ।
युद्धं मे सबलैः कार्यं नाधमैर्हि कदाचन ॥ २२॥
तस्मात्ते च तथा स्वामी भविष्यति भवादृशः ।
दातारश्च वयं प्रोक्ताश्चौरा यूयं वनेचराः ॥ २३॥
कथं याच्यो मया भिल्लराज एवं च साम्प्रतम् ।
त्वमेव याचसे नैव बाणं मां किं वनेचर ॥ २४॥
ददामि ते तथा बाणान् सन्ति मे बहवो ध्रुवम् ।
राजा च ग्रहणं चैव न दास्यति तथा भवेत् ॥ २५॥
किं पुनश्च तथा बाणान्प्रयच्छामि वनेचर ।
यदि मे या चिकीर्षा स्यात्कथं नागम्यतेऽधुना ॥ २६॥
यथागच्छत्तु ते भर्ता किमर्थं भाषतेऽधुना ।
आगत्य च मया सार्धं जित्वा युद्धे च मां पुनः ॥ २७॥
नीत्वा बाणमिमं भिल्लस्वामी ते वाहिनीपतिः ।
निजालयं सुखं यातु विलम्बः क्रियते कथम् ॥ २८॥
नन्दीश्वर उवाच ।
महेश्वरकृपाप्राप्तसद्बलस्यार्जुनस्य हि ।
इत्येतद्वचनं श्रुत्वा भिल्लो वाक्यमथाब्रवीत् ॥ २९॥
भिल्ल उवाच ।
अज्ञोऽसि त्वं ऋषिर्नासि मरणं त्वीहसे कथम् ।
देहि बाणं सुखं तिष्ठ त्वन्यथा क्लेशभाग्भवेः ॥ ३०॥
नन्दीश्वर उवाच ।
इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ।
गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ॥ ३१॥
अर्जुन उवाच ।
मद्वाक्यं तत्त्वतो भिल्ल शृणु त्वं च वनेचर ।
आगमिष्यति ते स्वामी दर्शयिष्ये फलं तदा ॥ ३२॥
न शोभते त्वया युद्धं करिष्ये स्वामिना तव ।
उपहासकरं ज्ञेयं युद्धं सिंहशृगालयोः ॥ ३३॥
श्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ।
गच्छस्व स्वामिनं भिल्ल यथेच्छसि तथा कुरु ॥ ३४॥
नन्दीश्वर उवाच ।
इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ।
शिवावतारो यत्रास्ते किरातो वाहिनीपतिः ॥ ३५॥
अथार्जुनस्य वचनं भिल्लनाथाय विस्तरात् ।
सर्वं निवेदयामास तस्यै भिल्लपरात्मने ॥ ३६॥
स किरातेश्वरः श्रुत्वा तद्वचो हर्षमागतः ।
आजगाम स्वसैन्येन शङ्करो भिल्लरूपधृक् ॥ ३७॥
अर्जुनश्च तदा सेनां किरातस्य च पाण्डवः ।
दृष्ट्वा गृहीत्वा सशरं धनुः सम्मुख आययौ ॥ ३८॥
अथो किरातश्च पुनः प्रेषयामास तं चरम् ।
तन्मुखेन जगौ वाक्यं भारताय महात्मने ॥ ३९॥
किरात उवाच ।
पश्य सैन्यं तपस्विस्त्वं मुञ्च बाणं व्रजाधुना ।
मरणं स्वल्पकार्यार्थं कथमिच्छसि साम्प्रतम् ॥ ४०॥
भ्रातरस्तव दुःखार्ताः कलत्रं च ततः परम् ।
पृथिवी हस्ततस्तेऽद्य यास्यतीति मतिर्मम ॥ ४१॥
नन्दीश्वर उवाच ।
इत्युक्तं परमेशेन पार्थदार्ढ्यपरीक्षया ।
सर्वथार्जुनरक्षार्थं धृतरूपेण शम्भुना ॥ ४२॥
इत्युक्तस्तु तदागत्य स गणः शाङ्करश्च तत् ।
विस्तराद् वृत्तमखिलमर्जुनाय न्यवेदयत् ॥ ४३॥
तच्छ्रुत्वा तु पुनः प्राह प्रार्थस्तं दूतमागतम् ।
वाहिनीपतये वाच्यं विपरीतं भविष्यति ॥ ४४॥
यद्यहं चैव ते बाणं यच्छामि च मदीयकम् ।
कुलस्य दूषणं चाहं भविष्यामि न संशयः ॥ ४५॥
भ्रातरश्चैव दुःखार्ताः भवन्तु च तथा ध्रुवम् ।
विद्याश्च निष्फला मे स्युस्तस्मादागच्छ वै ध्रुवम् ॥ ४६॥
सिंहश्चैव शृगालाद्वा भीतो नैव मया श्रुतः ।
तथा वनेचराद्राजा न बिभेति कदाचन ॥ ४७॥
नन्दीश्वर उवाच ।
इत्युक्तस्तं पुनर्गत्वा स्वामिनं पाण्डवेन सः ।
सर्वं निवेदयामास तदुक्तं हि विशेषतः ॥ ४८॥
अथ सोऽपि किराताह्वो महादेवः ससैन्यकः ।
तच्छ्रुत्वा सैन्यसंयुक्तो ह्यर्जुनं चागमत्तदा ॥ ४९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने भिल्लार्जुनसंवादो नाम चत्वारिंशोऽध्यायः ॥ ३.४०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.४१. एकचत्वारिंशोऽध्यायः । किरातेश्वरावतारवर्णनम् ।
तमागतं ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः ।
गत्वा तत्रार्जुनस्तेन युद्धं चक्रे सुदारुणम् ॥ १॥
गणैश्च विविधैस्तीक्ष्णैरायुधैस्तं न्यपीडयत् ।
तैस्तदा पीडितः पार्थः सस्मार स्वामिनं शिवम् ॥ २॥
अर्जुनश्च तदा तेषां बाणावलिमथाच्छिनत् ।
यदायुद्धं च तैः क्षिप्तं ततः शर्वं परामृशत् ॥ ३॥
पीडितास्ते गणास्तेन ययुश्चैव दिशो दश ।
गणेशा वारितास्ते च नाजग्मुः स्वामिनं प्रति ॥ ४॥
शिवश्चैवार्जुनश्चैव युयुधाते परस्परम् ।
नानाविधैश्चायुधैर्हि महाबलपराक्रमौ ॥ ५॥
शिवोऽपि मनसा नूनं दयां कृत्वार्जुनं ह्यगात् ।
अर्जुनश्च दृढं तत्र प्रहारं कृतवांस्तदा ॥ ६॥
आयुधानि शिवः सो वै ह्यर्जुनस्याच्छिनत्तदा ।
कवचानि च सर्वाणि शरीरं केवलं स्थितम् ॥ ७॥
तदार्जुनः शिवं स्मृत्वा मल्लयुद्धं चकार सः ।
वाहिनीपतिना तेन भयात्क्लिष्टोऽपि धैर्यवान् ॥ ८॥
तद्युद्धेन मही सर्वा चकम्पे ससमुद्रका ।
देवा दुःखं समापन्नाः किं भविष्यति वा पुनः ॥ ९॥
एतस्मित्रन्तरे देवः शिवो गगनमास्थितः ।
युद्धं चकार तत्रस्थः सोऽर्जुनश्च तथाकरोत् ॥ १०॥
उड्डीयोड्डीय तौ युद्धं चक्रतुर्देवपार्थिवौ ।
देवाश्च विस्मयं प्रापू रणं दृष्ट्वा तदाद्भुतम् ॥ ११॥
अथार्जुनोत्तरं ज्ञात्वा स्मृत्वा शिवपदाम्बुजम् ।
दधार पादयोस्तं वै तद्ध्यानादाप्तसद्बलः ॥ १२॥
धृत्वा पादौ तदा तस्य भ्रामयामास सोऽर्जुनः ।
विजहास महादेवो भक्तवत्सल ऊतिकृत् ॥ १३॥
दातुं स्वदासतां तस्मै भक्तवश्यतया मुने ।
शिवेनैव कृतं ह्येतच्चरितं नान्यथा भवेत् ॥ १४॥
पश्चाद्विहस्य तत्रैव शङ्करो रूपमद्भुतम् ।
दर्शयामास सहसा भक्तवश्यतया शुभम् ॥ १५॥
यथोक्तं वेदशास्त्रेषु पुराणे पुरुषोत्तम ।
व्यासोपदिष्टं ध्यानाय तस्य यत्सर्वसिद्धिदम् ॥ १६॥
तद्दृष्ट्वा सुन्दरं रूपं ध्यानप्राप्तं शिवस्य तु ।
बभूव विस्मितोऽतीव ह्यर्जुनो लज्जितः स्वयम् ॥ १७॥
अहो शिवश्शिवः सोऽयं यो मे प्रभुतया वृतः ।
त्रिलोकेशः स्वयं साक्षाद् हा कृतं किं मयाधुना ॥ १८॥
प्रभोर्बलवती माया मायिनामपि मोहिनी ।
किं कृतं रूपमाच्छाद्य प्रभुणा छलितो ह्यहम् ॥ १९॥
धियेति संविचार्यैवं साञ्जलिर्नतमस्तकः ।
प्रणनाम प्रभुं प्रीत्या तदोवाच स खिन्नधीः ॥ २०॥
अर्जुन उवाच ।
देवदेव महादेव करुणाकर शङ्कर ।
ममापराधंः सर्वेश क्षन्तव्यश्च त्वया पुनः ॥ २१॥
किं कृतं रूपमाच्छाद्य च्छलितोऽस्मि त्वयाधुना ।
धिङ् मां समरकर्तारं स्वामिना भवता प्रभो ॥ २२॥
नन्दीश्वर उवाच ।
इत्येवं पाण्डवः सोऽथ पश्चात्तापमवाप सः ।
पादयोर्निपपाताशु शङ्करस्य महाप्रभोः ॥ २३॥
अथेश्वरः प्रसन्नात्मा प्रत्युवाचार्जुनं च तम् ।
समाश्वास्येति बहुशो महेशो भक्तवत्सलः ॥ २४॥
शङ्कर उवाच ।
न खिद्य पार्थ भक्तोऽसि मम त्वं हि विशेषतः ।
परीक्षार्थं मया तेऽद्य कृतमेवं शुचं जहि ॥ २५॥
नन्दीश्वर उवाच ।
इत्युक्त्वा तं स्वहस्ताभ्यामुत्थाप्य प्रभुरर्जुनम् ।
विलज्जं कारयामास गणैश्च स्वामिनो गुणैः ॥ २६॥
पुनः शिवोऽर्जुनं प्राह पाण्डवं वीरसम्मतम् ।
हर्षयन् सर्वथा प्रीत्या शङ्करो भक्तवत्सलः ॥ २७॥
शिव उवाच ।
हे पार्थ पाण्डवश्रेष्ठ प्रसन्नोऽस्मि वरं वृणु ।
प्रहारैस्ताडनैस्तेऽद्य पूजनम्मानितम्मया ॥ २८॥
इच्छया च कृतं मेऽद्य नापराधस्तवाधुना ।
नादेयं विद्यते तुभ्यं यदिच्छसि वृणीष्व तत् ॥ २९॥
ते शत्रुषु यशोराज्यस्थापनाय शुभं कृतम् ।
एतद्दुःखं न कर्तव्यं वैक्लव्यं च त्यजाखिलम् ॥ ३०॥
नन्दीश्वर उवाच ।
इत्युक्तस्त्वर्जुनस्तेन प्रभुणा शङ्करेण सः ।
उवाच शङ्करं भक्त्या सावधानतया स्थितः ॥ ३१॥
अर्जुन उवाच ।
भक्तप्रियस्य शम्भोस्ते सुप्रभो किं समीहितम् ।
वर्णनीयं मया देव कृपालुस्त्वं सदाशिव ॥ ३२॥
इत्युक्त्वा संस्तुतिं तस्य शङ्करस्य महाप्रभोः ।
चकार पाण्डवः सोऽथ सद्भक्तिं वेदसम्मताम् ॥ ३३॥
अर्जुन उवाच ।
नमस्ते देवदेवाय नमः कैलासवासिने ।
सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः ॥ ३४॥
कपर्दिने नमस्तुभ्यन्त्रिनेत्राय नमोऽस्तु ते ।
मनः प्रसन्नरूपाय सहस्रवदनाय च ॥ ३५॥
नीलकण्ठ नमस्तेऽस्तु सद्योजाताय वै नमः ।
वृषध्वज नमस्तेऽस्तु वामाङ्गगिरिजाय च ॥ ३६॥
दशदोष नमस्तुभ्यं नमस्ते परमात्मने ।
डमरूकपालहस्ताय नमस्ते मुण्डमालिने ॥ ३७॥
शुद्धस्फटिकसङ्काशशुद्धकर्पूरवर्ष्मणे ।
पिनाकपाणये तुभ्यं त्रिशूलवरधारिणे ॥ ३८॥
व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे ।
नागाङ्गाय नमस्तुभ्यं गङ्गाधर नमोऽस्तु ते ॥ ३९॥
सुपादाय नमस्तेऽस्तु आरक्तचरणाय च ।
नन्द्यादिगणसेव्याय गणेशाय च ते नमः ॥ ४०॥
नमो गणेशरूपाय कार्तिकेयानुगाय च ।
भक्तिदाय च भक्तानां मुक्तिदाय नमो नमः ॥ ४१॥
अगुणाय नमस्तेऽस्तु सगुणाय नमो नमः ।
अरूपाय सरूपाय सकलायाकलाय च ॥ ४२॥
नमः किरातरूपाय मदनुग्रहकारिणे ।
युद्धप्रियाय वीराणां नानालीलानुकारिणे ॥ ४३॥
यत्किञ्चित् दृश्यते रूपं तत्तेजस्तावकं स्मृतम् ।
चिद्रूपस्त्वं त्रिलोकेषु रमसेऽन्वयभेदतः ॥ ४४॥
गुणानां ते न सङ्ख्यास्ति यथा भूरजसामिह ।
आकाशे तारकाणां हि कणानां वृष्ट्यपामपि ॥ ४५॥
न ते गुणांस्तु सङ्ख्यातुं वेदा वै सम्भवन्ति हि ।
मन्दबुद्धिरहं नाथ वर्णयामि कथम्पुनः ॥ ४६॥
सोऽसि योऽसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि ।
दासोऽहं ते महेशान स्वामी त्वं मे महेश्वर ॥ ४७॥
नन्दीश्वर उवाच ।
इति श्रुत्वा वचस्तस्य पुनः प्रोवाच शङ्करः ।
सुप्रसन्नतरो भूत्वा विहसन्प्रभुरर्जुनम् ॥ ४८॥
शङ्कर उवाच ।
वचसा किम्बहूक्तेन शृणुष्व वचनं मम ।
शीघ्रं वृणु वरं पुत्र सर्वं तच्च ददामि ते ॥ ४९॥
नन्दीश्वर उवाच ।
इत्युक्तश्चार्जुनस्तेन प्रणिपत्य सदाशिवम् ।
साञ्जलिर्नतकः प्रेम्णा प्रोवाच गद्गदाक्षरम् ॥ ५०॥
अर्जुन उवाच ।
किं ब्रूयां त्वं च सर्वेषामन्तर्यामितया स्थितः ।
तथापि वर्णितं मेऽद्य श्रूयतां च त्वया विभो ॥ ५१॥
शत्रूणां सङ्कटं यच्च तद्गतन्दर्शनात्तव ।
ऐहिकीं च परां सिद्धिं प्राप्नुयां वै तथा कुरु ॥ ५२॥
नन्दीश्वर उवाच ।
इत्युक्त्वा तं नमस्कृत्य शङ्करं भक्तवत्सलम् ।
नतस्कन्धोऽर्जुनस्तत्र बद्धाञ्जलिरुपस्थितः ॥ ५३॥
शिवोऽपि च तथाभूतं ज्ञात्वा पाण्डवमर्जुनम् ।
निजभक्तवरं स्वामी महातुष्टो बभूव ह ॥ ५४॥
अस्त्रं पाशुपतं स्वीयन्दुर्जयं सर्वदाखिलैः ।
ददौ तस्मै महेशानो वचनं चेदमब्रवीत् ॥ ५५॥
शिव उवाच ।
स्वं महास्त्रं मया दत्त दुर्जयस्त्वं भविष्यति ।
अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि ॥ ५६॥
कृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ।
स वै ममात्मभूतश्च मद्भक्तः कार्यकारकः ॥ ५७॥
मत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ।
धीर्म्मान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा ॥ ५८॥
नन्दीश्वर उवाच ।
इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ।
पूजितो ह्यर्जुनेनाशु शङ्करोऽन्तरधीयत ॥ ५९॥
अथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ।
जगाम स्वाश्रमं मुख्यं स्मरन्भक्त्या गुरुं शिवम् ॥ ६०॥
सर्वे ते भ्रातरः प्रीतास्तन्वः प्राणमिवागतम् ।
मिलित्वा तं सुखं प्रापुर्द्रौपदी चातिसुव्रता ॥ ६१॥
शिवं परं च सन्तुष्टं पाण्डवाः सर्व एव हि ।
नातृप्यन्सर्ववृत्तान्तं श्रुत्वा हर्षमुपागताः ॥ ६२॥
आश्रमे पुष्पवृष्टिश्च चन्दनेन समन्विता ।
पपात सुकरार्थं च तेषां चैव महात्मनाम् ॥ ६३॥
धन्यं च शङ्करं चैव नमस्कृत्य शिवम्मुदा ।
अवधिं चागतं ज्ञात्वा जयश्चैव भविष्यति ॥ ६४॥
एतस्मिन्नन्तरे कृष्णः श्रुत्वार्जुनमथागतम् ।
मेलनाय समायातः श्रुत्वा सुखमुपागतः ॥ ६५॥
अतश्चैव मयाख्यातः शङ्करः सर्वदुःखहा ।
स सेव्यते मया नित्यं भवद्भिरपि सेव्यताम् ॥ ६६॥
इत्युक्तस्ते किराताह्वोऽवतारः शङ्करस्य वै ।
तं श्रुत्वा श्रावयन्वापि सर्वान्कामानवाप्नुयात् ॥ ६७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातेश्वरावतारवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ३.४१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
तृतीयायां शतरुद्रसंहितायां
३.४२. द्विचत्वारिंशोऽध्यायः । द्वादशज्योतिर्लिङ्गावतारवर्णनम् ।
नन्दीश्वर उवाच ।
अवतारान् शृणु विभोर्द्वादशप्रमितान्परान् ।
ज्योतिर्लिङ्गस्वरूपान्वै नानोतिकारकान्मुने ॥ १॥
सौराष्ट्रे सोमनाथश्च श्रीशैले मल्लिकार्जुनः ।
उज्जयिन्यां महाकाल ओङ्कारे चामरेश्वरः ॥ २॥
केदारो हिमवत्पृष्टे डाकिन्याम्भीमशङ्करः ।
वाराणस्यां च विश्वेशस्त्र्यम्बको गौतमीतटे ॥ ३॥
वैद्यनाथश्चिताभूमौ नागेशो दारुकावने ।
सेतुबन्धे च रामेशो घुश्मेशश्च शिवालये ॥ ४॥
अवतारद्वादशकमेतच्छम्भोः परात्मनः ।
सर्वानन्दकरं पुंसां दर्शनात्स्पर्शनान्मुने ॥ ५॥
तत्राद्यः सोमनाथो हि चन्द्रदुःखक्षयङ्करः ।
क्षयकुष्ठादिरोगाणां नाशकः पूजनान्मुने ॥ ६॥
शिवावतारः सोमेशो लिङ्गरूपेण संस्थितः ।
सौराष्ट्रे शुभदेशे च शशिना पूजितः पुरा ॥ ७॥
चन्द्रकुण्डं च तत्रैव सर्वपापविनाशकम् ।
तत्र स्नात्वा नरो धीमान्सर्वरोगैः प्रमुच्यते ॥ ८॥
सोमेश्वरं महालिङ्गं शिवस्य परमात्मकम् ।
दृष्ट्वा प्रमुच्यते पापाद्भुक्तिं मुक्तिं च विन्दति ॥ ९॥
मल्लिकार्जुनसंज्ञश्चावतारः शकरस्य वै ।
द्वितीयः श्रीगिरौ तात भक्ताभीष्टफलप्रदः ॥ १०॥
संस्तुतो लिङ्गरूपेण सुतदर्शनहेतुतः ।
गतस्तत्र महाप्रीत्या स शिवः स्वगिरेर्मुने ॥ ११॥
ज्योतिर्लिङ्गं द्वितीयं तद्दर्शनात्पूजनान्मुने ।
महासुखकरं चान्ते मुक्तिदं नात्र संशयः ॥ १२॥
महाकालाभिधस्तातावतारः शङ्करस्य वै ।
उज्जयिन्यां नगर्यां च बभूव स्वजनावनः ॥ १३॥
दूषणाख्यासुरं यस्तु वेदधर्मप्रमर्दकम् ।
उज्जयिन्यां गतं विप्रद्वेषिणं सर्वनाशनम् ॥ १४॥
वेदविप्रसुतध्यातो हुङ्कारेणैव स द्रुतम् ।
भस्मसात्कृतवांस्तं च रत्नमाल निवासिनम् ॥ १५॥
तं हत्वा स महाकालो ज्योतिर्लिङ्गस्वरूपतः ।
देवैः स प्रार्थितोऽतिष्ठत्स्वभक्तपरिपालकः ॥ १६॥
महाकालाह्वयं लिङ्गं दृष्ट्वाभ्यर्च्य प्रयत्नतः ।
सर्वान्कामानवाप्नोति लभते परतो गतिम् ॥ १७॥
ओङ्कारः परमेशानो धृतः शम्भोः परात्मनः ।
अवतारश्चतुर्थो हि भक्ताभीष्टफलप्रदः ॥ १८॥
विधिना स्थापितो भक्त्या स्वलिङ्गात्पार्थिवान्मुने ।
प्रादुर्भूतो महादेवो विन्ध्यकामप्रपूरकः ॥ १९॥
देवैः सम्प्रार्थितस्तत्र द्विधारूपेण संस्थितः ।
भुक्तिमुक्तिप्रदो लिङ्गरूपो वै भक्तवत्सलः ॥ २०॥
प्रणवे चैव चोङ्कारनामासील्लिङ्गमुत्तमम् ।
परमेश्वरनामासीत्पार्थिवश्च मुनीश्वर ॥ २१॥
भक्ताभीष्टप्रदो ज्ञेयो योऽपि दृष्टोऽर्चितो मुने ।
ज्योतिर्लिङ्गे महादिव्ये वर्णिते ते महामुने ॥ २२॥
केदारेशोऽवतारस्तु पञ्चमः परमश्शिवः ।
ज्योतिर्लिङ्गस्वरूपेण केदारे संस्थितः स च ॥ २३॥
नरनारायणाख्यौ याववतारौ हरेर्मुने ।
तत्प्रार्थितः शिवस्तत्स्थैः केदारे हिमभूधरे ॥ २४॥
ताभ्यां च पूजितो नित्यं केदारेश्वरसंज्ञकः ।
भक्ताभीष्टप्रदः शम्भुर्दर्शनादर्चनादपि ॥ २५॥
अस्य खण्डस्य स स्वामी सर्वेशोऽपि विशेषतः ।
सर्वकामप्रदस्तात सोऽवतारः शिवस्य वै ॥ २६॥
भीमशङ्करसंज्ञस्तु षष्ठः शम्भोर्महाप्रभोः ।
अवतारो महालीलो भीमासुरविनाशनः ॥ २७॥
सुदक्षिणाभिधं भक्तं कामरूपेश्वरं नृपम् ।
यो ररक्षाद्भुतं हत्वासुरं तं भक्तदुःखदम् ॥ २८॥
भीमशङ्करनामा स डाकिन्यां संस्थितः स्वयम् ।
ज्योतिर्लिङ्गस्वरूपेण प्रार्थितस्तेन शङ्करः ॥ २९॥
विश्वेश्वरावतारस्तु काश्यां जातो हि सप्तमः ।
सर्वब्रह्माण्डरूपश्च भुक्तिमुक्तिप्रदो मुने ॥ ३०॥
पूजितः सर्वदेवैश्च भक्त्या विष्ण्वादिभिः सदा ।
कैलासपतिना चापि भैरवेणापि नित्यशः ॥ ३१॥
ज्योतिर्लिङ्गस्वरूपेण संस्थितस्तत्र मुक्तिदः ।
स्वयं सिद्धस्वरूपो हि तथा स्वपुरि स प्रभुः ॥ ३२॥
काशीविश्वेशयोर्भक्त्या तन्नामजपकारकाः ।
निर्लिप्ताः कर्मभिर्नित्यं केवल्यपदभागिनः ॥ ३३॥
त्र्यम्बकाख्योऽवतारो यः सोऽष्टमो गौतमीतटे ।
प्रार्थितो गौतमेनाविर्बभूव शशिमौलिनः ॥ ३४॥
गौतमस्य प्रार्थनया ज्योतिर्लिङ्गस्वरूपतः ।
स्थितस्तत्राचलः प्रीत्या तन्मुनेः प्रीतिकाम्यया ॥ ३५॥
तस्य सन्दर्शनात्स्पर्शादर्चनाच्च महेशितुः ।
सर्वे कामाः प्रसिध्यन्ति ततो मुक्तिर्भवेदहो ॥ ३६॥
शिवानुग्रहतस्तत्र गङ्गा नाम्ना तु गौतमी ।
संस्थिता गौतमप्रीत्या पावनी शङ्करप्रिया ॥ ३७॥
वैद्यनाथावतारो हि नवमस्तत्र कीर्तितः ।
आविर्भूतो रावणार्थं बहुलीलाकरः प्रभुः ॥ ३८॥
तदानयनरूपं हि व्याजं कृत्वा महेश्वरः ।
ज्योतिर्लिङ्गस्वरूपेण चिताभूमौ प्रतिष्ठितः ॥ ३९॥
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोऽभूज्जगत्त्रये ।
दर्शनात्पूजनाद्भक्त्या भुक्तिमुक्तिप्रदः स हि ॥ ४०॥
वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ।
पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने ॥ ४१॥
नागेश्वरावतारस्तु दशमः परिकीर्तितः ।
आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदः सदा ॥ ४२॥
हत्वा दारुकनामानं राक्षसं धर्मघातकम् ।
स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम् ॥ ४३॥
लोकानामुपकारार्थं ज्योतिर्लिङ्गस्वरूपधृक् ।
सन्तस्थौ साम्बिकः शम्भुर्बहुलीलाकरः परः ॥ ४४॥
तद् दृष्ट्वा शिवलिङ्गं तु मुने नागेश्वराभिधम् ।
विनश्यन्ति द्रुतं चार्च्य महापातकराशयः ॥ ४५॥
रामेश्वरावतारस्तु शिवस्यैकादशः स्मृतः ।
रामचन्द्रप्रियकरो रामसंस्थापितो मुने ॥ ४६॥
ददौ जयवरं प्रीत्या यो रामाय सुतोषितः ।
आविर्भूतः य लिङ्गस्तु शङ्करो भक्तवत्सलः ॥ ४७॥
रामेण प्रार्थितोऽत्यर्थं ज्योतिर्लिङ्गस्वरूपतः ।
सन्तस्थौ सेतुबन्धे च रामसंसेवितो मुने ॥ ४८॥
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः ॥ ४९॥
तं च गङ्गाजलेनैव स्नापयिष्यति यो नरः ।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ॥ ५०॥
इह भुक्त्वाखिलान्भोगान्देवतादुर्ल्लभानपि ।
अतः प्राप्य परं ज्ञानं कैवल्यं मोक्षमाप्नुयात् ॥ ५१॥
घुश्मेश्वरावतारस्तु द्वादशः शङ्करस्य हि ।
नानालीलाकरो घुश्मानन्ददो भक्तवत्सलः ॥ ५२॥
दक्षिणस्यां दिशि मुने देवशैलसमीपतः ।
आविर्बभूव सरसि घुश्माप्रियकरः प्रभुः ॥ ५३॥
सुदेहामारितं घुश्मापुत्रं साकल्यतो मुने ।
तुष्टस्तद्भक्तितः शम्भुर्योऽरक्षद्भक्तवत्सलः ॥ ५४॥
तत्प्रार्थितः स वै शम्भुस्तडागे तत्र कामदाः ।
ज्योतिर्लिङ्गस्वरूपेण तस्थौ घुश्मेश्वराभिधः ॥ ५५॥
तं दृष्ट्वा शिवलिङ्गं तु समभ्यर्च्य च भक्तितः ।
इह सर्वसुखं भुक्त्वा ततो मुक्तिं च विन्दति ॥ ५६॥
इति ते हि समाख्याता ज्योतिर्लिङ्गावली मया ।
द्वादशप्रमिता दिव्या भुक्तिमुक्तिप्रदायिनी ॥ ५७॥
एतां ज्योतिर्लिङ्गकथां यः पठेच्छृणुयादपि ।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ॥ ५८॥
शतरुद्राभिधा चेयं वर्णिता संहिता मया ।
शतावतारसत्कीर्तिः सर्वकामफलप्रदा ॥ ५९॥
इमां यः पठते नित्यं शृणुयाद्वा समाहितः ।
सर्वान्कामानवाप्नोति ततो मुक्तिं लभेद् ध्रुवम् ॥ ६०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सनत्कुमारनन्दीश्वरसंवादे द्वादशज्योतिर्लिङ्गावतारवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ३.४२॥
॥ समाप्तेयं तृतीया शतरुद्रसंहिता ॥