श्रीशिवमहापुराणम् ५ उमासंहिता

श्रीशिवमहापुराणम् ५ उमासंहिता

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहिता

५.१. प्रथमोऽध्यायः । ऋष्णोपमन्युसंवादे स्वगतिवर्णनम् ।

यो धत्ते भुवनानि सत्त्वगुणवान्स्रष्टा रजःसंश्रयः संहर्त्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः । सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥ १॥ ऋषय ऊचुः । सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते । चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ॥ २॥ अथोमासंहितान्तःस्थनानाख्यानसमन्वितम् । ब्रूहि शम्भोश्चरित्रं वै साम्बस्य परमात्मनः ॥ ३॥ सूत उवाच । महर्षयः शौनकाद्याः श‍ृणुत प्रेमतः शुभम् । शाङ्करं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ॥ ४॥ इतीदृशं पुण्यप्रश्नं पृष्टवान् मुनिसत्तमः । व्यासः सनत्कुमारं वै शैवं सच्चरितं जगौ ॥ ५॥ सनत्कुमार उवाच । वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा । तदुच्यते मया व्यास चरितं हि महेशितुः ॥ ६॥ पुरा पुत्रार्थमगमत्कैलासं शङ्करालयम् । वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ॥ ७॥ अत्रोपमन्युं सन्दृष्ट्वा तपन्तं श‍ृङ्ग उत्तमे । प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ॥ ८॥ श्रीकृष्ण उवाच । उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते । पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ॥ ९॥ ब्रूहि शङ्करमाहात्म्यं सदानन्दकरं मुने । यच्छ्रुत्वा भक्तितः कुर्यां तप ऐश्वरमुत्तमम् ॥ १०॥ सनत्कुमार उवाच । इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः । प्रत्युवाच प्रसन्नात्मा ह्युपमन्युः स्मरन् शिवम् ॥ ११॥ उपमन्युरुवाच । श‍ृणु कृष्ण महाशैव महिमानं महेशितुः । यमद्राक्षमहं शम्भोर्भक्तिवर्धनमुत्तमम् ॥ १२॥ तपःस्थोऽहं समद्राक्षं शङ्करं च तदायुधान् । परिवारं समस्तं च विष्ण्वादीनमरादिकान् ॥ १३॥ त्रिभिरंशैः शोभमानमजस्रसुखमव्ययम् । एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ॥ १४॥ द्विसहस्रमयूखानां ज्योतिषातिविराजितम् । सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ॥ १५॥ यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् । नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ॥ १६॥ महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् । निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ॥ १७॥ तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्ययम् । गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ॥ १८॥ यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः । विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ॥ १९॥ दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् । पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ॥ २०॥ यौवनाश्वो हतो येन मान्धाता सबलः पुरा । चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ॥ २१॥ दर्पाविष्टो हैहयश्च निःक्षिप्तो लवणासुरः । शत्रुघ्नं नृपतिं युद्धे समाहूय समन्ततः ॥ २२॥ तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत् । तच्छूलमिति तीक्ष्णाग्रं सन्त्रासजननं महत् ॥ २३॥ त्रिशिखां भृकुटीं कृत्वा तर्जयन्तमिव स्थितम् । विधूम्रानलसङ्काशं बालसूर्यमिवोदितम् ॥ २४॥ सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् । परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम् ॥ २५॥ कल्पान्तदहनाकारं तथा पुरुषविग्रहम् । यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ॥ २६॥ रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा । त्रिःसप्तकृत्वो स क्षत्रं ददाह हृषितो मुनिः ॥ २७॥ सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् । द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ॥ २८॥ द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् । कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ॥ २९॥ वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वमनुत्तमम् । महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ॥ ३०॥ शक्तिं खङ्गं च पाशं च महादीप्तं समाङ्कुशम् । गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ॥ ३१॥ तथा च लोकपालानामस्त्राण्येतानि यानि च । अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ॥ ३२॥ सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः । विमानं दिव्यमास्थाय हंसयुक्तं मनोऽनुगम् ॥ ३३॥ वामपार्श्वे तु तस्यैव शङ्खचक्रगदाधरः । वैनतेयं समास्थाय तथा नारायणः स्थितः ॥ ३४॥ स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा । शक्राद्या देवताश्चैव सर्व एव समं ययुः ॥ ३५॥ स्कन्दः शक्तिं समादाय मयूरस्थः सघण्टकः । देव्याः समीपे सन्तस्थौ द्वितीय इव पावकः ॥ ३६॥ नन्दी शूलं समादाय भवाग्रे समवस्थितः । सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः ॥ ३७॥ तेऽभिवाद्य महेशानं परिवार्य समन्ततः । अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ॥ ३८॥ यत्किञ्चित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा । तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ॥ ३९॥ सुमहद्धैर्यमालम्ब्य प्राञ्जलिर्विविधैः स्तवैः । परमानन्दसम्मग्नोऽभूवं कृष्णाहमध्वरे ॥ ४०॥ सम्मुखे शङ्करं दृष्ट्वा बाष्पगद्गदया गिरा । अपूजयं सुविधिवदहं श्रद्धासमन्वितः ॥ ४१॥ भगवानथ सुप्रीतः शङ्करः परमेश्वरः । वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव ॥ ४२॥ न विचालयितुं शक्यो मया विप्र पुनः पुनः । परीक्षितोऽसि भद्रं ते भवान्भक्त्यान्वितो दृढः ॥ ४३॥ तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत । दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ॥ ४४॥ स चाहं तद्वचः श्रुत्वा शम्भोः सत्प्रेमसंयुतम् । देवं तं प्राञ्जलिर्भूत्वाब्रुवं भक्तानुकम्पिनम् ॥ ४५॥ उपमन्युरुवाच । भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि । तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ॥ ४६॥ प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् । सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ॥ ४७॥ ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो । तव भक्तेषु सख्यं स्यादन्योऽन्येषु सदा भवेत् ॥ ४८॥ एवमुक्तो मया शम्भुर्विहस्य परमेश्वरः । कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ॥ ४९॥ श्रीशिव उवाच । उपमन्यो मुने तात वर्जितस्त्वं भविष्यसि । जरामरणजैर्दोषैः सर्वकामान्वितो भव ॥ ५०॥ मुनीनां पूजनीयश्च यशोधनसमन्वितः । शीलरूपगुणैश्वर्यं मत्प्रसादात्पदे पदे ॥ ५१॥ क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः । तत्र ते भविता नित्यं यत्र यत्रेच्छसे मुने ॥ ५२॥ अमृतात्मकं तत्क्षीरं यावत्संयाम्यते ततः । इमं वैवस्वतं कल्पं पश्यसे बन्धुभिः सह ॥ ५३॥ त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि । सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ॥ ५४॥ मद्भक्तिः सुस्थिरा चास्तु सदा दास्यामि दर्शनम् । स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ॥ ५५॥ यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि । सर्वं प्रपूर्णतां यातु चिन्तितं नात्र संशयः ॥ ५६॥ उपमन्युरुवाच । एवमुक्त्वा स भगवान् सुर्यकोटिसमप्रभः । महेशानो वरान् दत्त्वा तत्रैवान्तरधीयत ॥ ५७॥ एवं दृष्टो मया कृष्ण परिवारसमन्वितः । शङ्करः परमेशानो भुक्तिमुक्तिप्रदायकः ॥ ५८॥ शम्भुना परमेशेन यदुक्तं तेन धीमता । तदवाप्तं च मे सर्वं देवदेव समाधिना ॥ ५९॥ प्रत्यक्षं चैव तै जातान् गन्धर्वाप्सरसस्तथा । ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान् ॥ ६०॥ पश्य वृक्षान्मनोरम्यान् स्निग्धपत्रान्सुगन्धिनः । सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलान्वितान् ॥ ६१॥ सर्वमेतन्महाबाहो शङ्करस्य महात्मनः । प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम् ॥ ६२॥ ममास्ति त्वखिलं ज्ञानं प्रसादात् शूलपाणिनः । भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ॥ ६३॥ तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः । यं न पश्यन्त्यनाराध्य कोऽन्यो धन्यतरो मया ॥ ६४॥ षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् । एवं ध्यायन्ति विद्वांसो महत्परममक्षरम् ॥ ६५॥ सर्वं तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः । स एव भगवान् देवः प्रधानपुरुषेश्वरः ॥ ६६॥ यो निजाद्दक्षिणात्पार्श्वाद् ब्रह्माणं लोककारणम् । वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ॥ ६७॥ कल्पान्ते चैव सम्प्राप्तेऽसृजद् रुद्रं हृदः प्रभुः । ततः समहरत्कृत्स्नं जगत्स्थावरजङ्गमम् ॥ ६८॥ युगान्ते सर्वभूतानि संवर्तक इवानलः । कालो भूत्वा महादेवो ग्रसमानः स तिष्ठति ॥ ६९॥ सर्वज्ञः सर्वभूतात्मा सवर्भूतभवोद्भवः । आस्ते सर्वगतो देवो दृश्यः सर्वैश्च दैवतैः ॥ ७०॥ अतस्त्वं पुत्रलाभाय समाराधय शङ्करम् । शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ॥ ७१॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ॥ ५.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२. द्वितीयोऽध्यायः । सनत्कुमारव्याससंवादे उपमन्यूपदेशः ।

सनत्कुमार उवाच । इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः । जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ॥ १॥ श्रीकृष्ण उवाच । उपमन्यो मुने तात कृपां कुरु ममोपरि । ये ये शिवं समाराध्य कामानापुश्च तान्वद ॥ २॥ सनत्कुमार उवाच । इत्याकर्ण्योपमन्युः स मुनिः शैववरो महान् । कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ॥ ३॥ उपमन्युरुवाच । यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि । तांस्तान् भक्तान् प्रवक्ष्यामि श‍ृणु त्वं वै यदूद्वह ॥ ४॥ शर्वात्सर्वामरैश्वर्यं हिरण्यकशिपुः पुरा । वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ॥ ५॥ तस्याथ पुत्रप्रवरो नन्दनो नाम विश्रुतः । स च शर्ववरादिन्द्रं वर्षायुतमयोधयत् ॥ ६॥ विष्णुचक्रं च तद् घोरं वज्रमाखण्डलस्य च । शीर्णं पुराभवत्कृष्ण तदङ्गेषु महाहवे ॥ ७॥ न शस्त्राणि वहन्त्यङ्गे धर्मतस्तस्य धीमतः । ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ॥ ८॥ अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा । देवदत्तवरा जघ्नुरसुरेन्द्रान् सुरा भृशम् ॥ ९॥ तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरतामदात् । शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ॥ १०॥ तथा पुत्रसहस्राणामयुतं च ददौ शिवः । मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ॥ ११॥ कुशद्वीपे शुभं राज्यमददाद्भगवान् भवः । स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ॥ १२॥ धात्रा सृष्टः शतमखो दैत्यो वर्षशतं पुरा । तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ॥ १३॥ याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः । आराध्य स महादेवं प्राप्तवान् ज्ञानमुत्तमम् ॥ १४॥ वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः । सोऽपि शङ्करमाराध्य त्रिकालज्ञानमाप्तवान् ॥ १५॥ इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् । लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ॥ १६॥ आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्दिनः । शर्वं समकपालेन देवैरिष्ट्वाः प्रवर्तिताः ॥ १७॥ अत्रेर्भार्या चानसूया त्रीणि वर्षशतानि च । मुशलेषु निराहारा सुप्त्वा शर्वात्ततः सुतान् ॥ १८॥ दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा । गङ्गां प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९॥ विकर्णश्च महादेवं तथा भक्तसुखावहम् । प्रसाद्य महतीं सिद्धिमाप्तवान् मधुसूदन ॥ २०॥ चित्रसेनो नृपः शम्भुं प्रसाद्य दृढभक्तिमान् । समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ॥ २१॥ श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् । जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ॥ २२॥ चित्राङ्गदो नृपसुतः सीमन्तिन्याः पतिर्हरे । शिवानुग्रहतो मग्नो यमुनायां मृतो न हि ॥ २३॥ स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः । आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ॥ २४॥ सीमन्तिनी प्रिया तस्य सोमव्रतपरायणा । शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ॥ २५॥ तत्प्रभावाद् व्रते तस्मिन्नेको द्विजसुतः पुरा । कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ॥ २६॥ चञ्चुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा । श्रुत्वा धर्मकथां शम्भोर्भक्त्या प्राप परां गतिम् ॥ २७॥ स्वस्त्र्यनुग्रहतः पापी बिन्दुगो चञ्चुकापतिः । श्रुत्वा शिवपुराणं स सद्गतिं प्राप शाङ्करीम् ॥ २८॥ पिङ्गला गणिका ख्याता मदराह्वो द्विजाधमः । शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ॥ २९॥ महानन्दाभिधा कश्चिद्वेश्या शिवपदारता । दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ॥ ३०॥ कैकेयी द्विजबाला च सादराह्वा शिवव्रता । परमं हि सुखं प्राप शिवेशव्रतधारणात् ॥ ३१॥ विमर्षणश्च नृपतिः शिवभक्तिं विधाय वै । गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ॥ ३२॥ दुर्जनश्च नृपः पापी बहुस्त्रीलम्पटः खलः । शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ॥ ३३॥ सस्त्रीकः शम्बरो नाम्ना शङ्करश्च शिवव्रती । चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ॥ ३४॥ सौमिनी नाम चाण्डाली सम्पूज्याज्ञानतो हि सा । लेभे शैवीं गतिं कृष्ण शङ्करानुग्रहात्परात् ॥ ३५॥ महाकालाभिधो व्याधः किरातः परहिंसकः । समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ॥ ३६॥ दुर्वासा मुनिशार्दूलः शिवानुग्रहतः पुरा । तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम् ॥ ३७॥ कौशिकश्च समाराध्य शङ्करं लोक शङ्करम् । ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ॥ ३८॥ शिवमभ्यर्च्य सद्भक्त्या विरञ्चिः शैवसत्तमः । अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ॥ ३९॥ मार्कण्डेयो मुनिवरश्चिरञ्जीवी महाप्रभुः । शिवभक्तवरः श्रीमान् शिवानुग्रहतो हरे ॥ ४०॥ देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा । शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ॥ ४१॥ बलिपुत्रो महाशैवः शिवानुग्रहतो वशी । बाणो बभूव ब्रह्माण्डनायकः सकलेश्वरः ॥ ४२॥ हरिः शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः । शिवानुग्रहतोऽभूवंस्तथा रामो हि शाङ्करः ॥ ४३॥ कणादो भार्गवश्चैव गुरुर्गौतम एव च । शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वराः ॥ ४४॥ शाकल्यः शंसितात्मा च नववर्षशतान्यपि । भवमाराधयामास मनोयज्ञेन माधव ॥ ४५॥ तुतोष भगवानाह ग्रन्थकर्ता भविष्यसि । वत्साक्षया च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति ॥ ४६॥ अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् । भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता सुतस्ततः ॥ ४७॥ इत्येवं शङ्करात्प्राप वरं मुनिवरः स वै । त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ॥ ४८॥ सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे । इह तेन तपस्तप्तं षष्टिवर्षशतानि च ॥ ४९॥ तमाह भगवान् रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ । ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ ५०॥ एवंविधो महादेवः पुण्यपूर्वतरैस्ततः । समर्चितः शुभान् कामान् प्रददाति यथेप्सितान् ॥ ५१॥ एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः । ये सन्ति तान्न शक्नोमि ह्यपि वर्षशतैरपि ॥ ५२॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ॥ ५.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३. तृतीयोऽध्यायः । कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनम् ।

सनत्कुमार उवाच । एतच्छ्रुत्वा वचस्तस्य सोऽब्रवीत्तं महामुनिम् । विस्मयं परमं गत्वोपमन्युं शान्तमानसम् ॥ १॥ वासुदेव उवाच । धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती । यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ॥ २॥ दर्शनं मुनिशार्दूल दद्यात्स भगवान् शिवः । अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ ॥ ३॥ उपमन्युरुवाच । अचिरेणैव कालेन महादेवं न संशयः । तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ॥ ४॥ षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् । सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ॥ ५॥ पूज्योऽसि दैवतैः सर्वैः श्लाघनीयः सदा गुणैः । जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ॥ ६॥ तेन जपप्रभावेण सत्यं द्रक्ष्यसि शङ्करम् । आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ॥ ७॥ जपो नमः शिवायेति मन्त्रराजमिमं हरे । सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ॥ ८॥ सनत्कुमार उवाच । एवं कथयतस्तस्य महादेवाश्रिताः कथाः । दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ॥ ९॥ नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः । मन्त्रमध्यापितं शार्वमाथर्वशिरसं महत् ॥ १०॥ दण्डी मुण्डी च सद्योऽसौ बभूव सुसमाहितः । पादाङ्गुष्ठोद्धृततनुस्तेपे चोर्ध्वभुजस्तथा ॥ ११॥ सम्प्राप्ते षोडशे मासि सन्तुष्टः परमेश्वरः । पार्वत्या सहितः शम्भुर्ददौ कृष्णाय दर्शनम् ॥ १२॥ पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् । ब्रह्माद्यैः स्तूयमानं तु पूजितं सिद्धकोटिभिः ॥ १३॥ दिव्यमाल्याम्बरधरं भक्तिनम्रैः सुरासुरैः । प्रणतं च विशेषेण नानाभूषणभूषितम् ॥ १४॥ सर्वाश्चर्यमयं कान्तं महेशमजमव्ययम् । नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ॥ १५॥ श्रीकृष्णः प्राञ्जलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः । ईदृशं शङ्करं प्रीतः प्रणनाम महोत्सवः ॥ १६॥ नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा । सहस्रनाम्ना देवेशं तुष्टाव नतकन्धरः ॥ १७॥ ततो देवाः सगन्धर्वा विद्याधरमहोरगाः । मुमुचुः पुष्पवृष्टिं च साधुवादान् मनोनुगान् ॥ १८॥ पार्वत्याश्च मुखं दृष्ट्वा भगवान् भक्तवत्सलः । उवाच केशवं तुष्टो रुद्रश्चाथ महेश्वरः ॥ १९॥ श्रीमहादेव उवाच । कृष्ण जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् । वृणीष्व त्वं वरान् मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ॥ २०॥ सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा कृष्णः प्राञ्जलिरादरात् । प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ॥ २१॥ श्रीकृष्ण उवाच । देवदेव महादेव याचेऽहं ह्युत्तमान् वरान् । त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान् महेश्वर ॥ २२॥ तव धर्मे मतिर्नित्यं यशश्चाप्रचलं महत् । त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ॥ २३॥ स्त्रीणां मम दशाद्यानां पुत्राः शम्भो भवन्तु वै । वध्याश्च रिपवः सर्वे सङ्ग्रामे बलदर्पिताः ॥ २४॥ अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो । योगिनामपि सर्वेषां भवेयमतिवल्लभः ॥ २५॥ इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते । सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ॥ २६॥ सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा तमाह भगवान् भवः । सर्वं भविष्यतीत्येवं पुनः तं प्राह शूलधृक् ॥ २७॥ साम्बो नाम महावीर्यः पुत्रस्ते भविता बली । घोरसंवर्तकादित्यः शप्तो मुनिभिरेव च ॥ २८॥ मानुषो भवितासीति स ते पुत्रो भविष्यति । यद्यच्च प्रार्थितं किञ्चित्तत्तत्सर्वं लभस्व वै ॥ २९॥ सनत्कुमार उवाच । एवं लब्ध्वा वरान् सर्वान् श्रीकृष्णः परमेश्वरात् ॥ नानाविधाभिर्बह्वीभिः स्तुतिभिः समतोषयत् ॥ ३०॥ तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला । वासुदेवं महात्मानं शम्भुभक्तं तपस्विनम् ॥ ३१॥ पार्वत्युवाच । वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ । गृहाण मत्तश्च वरान् मनोज्ञान् भुवि दुर्लभान् ॥ ३२॥ सनत्कुमार उवाच । इत्याकर्ण्य वचस्तस्याः पार्वत्याः स यदूद्वहः । उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा ॥ ३३॥ श्रीकृष्ण उवाच । देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे । तपसानेन सत्येन ब्राह्मणान् प्रति मास्मभूत् ॥ ३४॥ द्वेषः कदाचिद्भद्रं तु पूजयेयं द्विजान् सदा । तुष्टौ च मातापितरौ भवेतां मम सर्वदा ॥ ३५॥ सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः । कुले प्रभृतिरुचिता ममास्तु तव दर्शनात् ॥ ३६॥ तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु । यतीनामतिथीनां च सहस्राण्यथ सर्वदा ॥ ३७॥ भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् । बान्धवैः सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः ॥ ३८॥ देवि भार्यासहस्राणां भवेयं प्राणवल्लभः । अक्षीणा काम्यता तासु प्रसादात्तव शाङ्करि ॥ ३९॥ आसां च पितरो लोके भवेयुः सत्यवादिनः । इत्याद्याः सुवराः सन्तु प्रसादात्तव पार्वति ॥ ४०॥ सनत्कुमार उवाच । तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता । एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा ॥ ४१॥ तस्मिंस्तांश्च वरान् दत्त्वा पार्वतीपरमेश्वरौ । तत्रैवान्तश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ॥ ४२॥ कृष्णः कृतार्थमात्मानममन्यत मुनीश्वर । उपमन्योर्मुनेराशु प्रापाश्रममनुत्तमम् ॥ ४३॥ प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः । तथा वृत्तं च तस्मै तत् समाचष्टोपमन्यवे ॥ ४४॥ स च तं प्राह कोऽन्यः स्याच्छर्वाद्देवाज्जनार्दन । महादानपतिर्लोके क्रोधे वातीव दुःसहः ॥ ४५॥ ज्ञाने तपसि वा शौर्ये स्थैर्ये वा पद एव च । श‍ृणु शम्भोस्तु गोविन्द देवैश्वर्यं महायशाः ॥ ४६॥ तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छम्भोस्तु भक्तिमान् । पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः ॥ ४७॥ उपमन्युरुवाच । भगवान् शङ्करः पूर्वं ब्रह्मलोके महात्मना । स्तुतो नामसहस्रेण तण्डिना ब्रह्मयोगिना ॥ ४८॥ साङ्ख्याः पठन्ति तद्गीतं विस्तीर्णं च निघण्टुवत् । दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम् ॥ ४९॥ स्मरन्नित्यं शङ्करं त्वं गच्छ कृष्ण गृहं सुखी । भविष्यसि सदा तात शिवभक्तगणाग्रणीः ॥ ५०॥ इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् । मनसा संस्मरन् शम्भुं केशवो द्वारकां ययौ ॥ ५१॥ सनत्कुमार उवाच । एवं कृष्णः समाराध्य शङ्करं लोकशङ्करम् । कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा ॥ ५२॥ तथा दाशरथी रामः शिवमाराध्य भक्तितः । कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत् ॥ ५३॥ तपस्तप्त्वातिविपुलं पुरा रामो गिरौ मुने । शिवाद्धनुः शरं चापं ज्ञानं वै परमुत्तमम् ॥ ५४॥ रावणं सगणं हत्वा सेतुं बद्ध्वाम्भसां निधौ । सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम् ॥ ५५॥ तथा च भार्गवो रामो ह्याराध्य तपसा विभुम् । निरीक्ष्य दुःखितः शर्वात्पितरं क्षत्रियैर्हतम् ॥ ५६॥ तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् । त्रिःसप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात् ॥ ५७॥ अजेयश्चामरश्चैव सोऽद्यापि तपसां निधिः । लिङ्गार्चनरतो नित्यं दृश्यते सिद्धचारणैः ॥ ५८॥ महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति । कल्पान्ते पुनरेवासावृषिस्थानमवाप्स्यति ॥ ५९॥ असितस्यानुजः पूर्वं पीडया कृतवांस्तपः । मूलग्राहेण विश्वस्य देवलो नाम तापसः ॥ ६०॥ पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् । अधर्म्यं धर्ममलभल्लिङ्गमारध्य कामदम् ॥ ६१॥ चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले । वसिष्ठशापाद् गृत्समदो दण्डकारण्य एकलः ॥ ६२॥ हृदये संस्मन् भक्त्या प्रणवेन युतं शिवम् । तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत् ॥ ६३॥ अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः । शङ्करेण कृतः प्रीत्या नित्यं लम्बोदरानुगः ॥ ६४॥ गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् । कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत् ॥ ६५॥ चतुष्पादं सरस्वत्याः पारगत्वं च शाश्वतम् । न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः ॥ ६६॥ वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् । पराशराय च ददौ जरामृत्युविवर्जितम् ॥ ६७॥ माण्डव्यः शङ्करेणैव जीवं दत्त्वा विसर्जितः । वर्षाणां दश लक्षाणि शूलाग्रादवरोपितः ॥ ६८॥ दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि । पुत्रं तु गालवं यश्च पूर्वमासीद् गृहाश्रमी ॥ ६९॥ गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् । भार्यामुवाच यः कश्चिदवश्यं निर्धनो यतः ॥ ७०॥ स तु वाच्यो भवत्या च न दृश्यन्त इति प्रियः । अतिथेरागतस्यापि किं दास्यामि गृहे वसन् ॥ ७१॥ कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः । तामुवाच स भर्ता ते क्व गतश्चेति तं च सा ॥ ७२॥ प्राह भर्ता मदीयस्तु साम्प्रतं न च दृश्यते । स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा ॥ ७३॥ गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः । विश्वामित्त्राभ्यनुज्ञातस्तत्पुत्रो गालवस्तथा ॥ ७४॥ गृहमागत्य मातुः स श्रुत्वा शापं सुदारुणम् । आराध्य शङ्करं देवं पूजां कृत्वा तु शाम्भवीम् ॥ ७५॥ गृहादसौ विनिष्क्रान्तः सस्मरन् शङ्करं हृदा । अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम् ॥ ७६॥ महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः । धनवान् पुत्रवांश्चैव मृतोऽहं जीवितः पुनः ॥ ७७॥ इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् । वक्तुं शम्भोश्च गुणान् शेषस्यापि न मुखानि स्युः ॥ ७८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ५.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४. चतुर्थोऽध्यायः । शिवमायाप्रभाववर्णनम् ।

मुनय ऊचुः । तात तात महाभाग धन्यस्त्वं हि महामते । अद्भुतेयं कथा शम्भोः श्राविता परभक्तिदा ॥ १॥ पुनर्ब्रूहि कथां शम्भोर्व्यासप्रश्नानुसारतः । सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ॥ २॥ सूत उवाच । एवमेव गुरुर्व्यासः पृष्टवान् मेऽजसम्भवम् । सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ॥ ३॥ व्यास उवाच । सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कथा । शङ्करस्य महेशस्य नानालीलाविहारिणः ॥ ४॥ पुनर्ब्रूहि महादेवमहिमानं विशेषतः । श्रद्धा च महती श्रोतुं मम तात प्रवर्धते ॥ ५॥ महिम्ना येन शम्भोस्तु ये ये लोके विमोहिताः । मायया ज्ञानमाहृत्य नानालीलाविहारिणः ॥ ६॥ सनत्कुमार उवाच । श‍ृणु व्यास महाबुद्धे शाङ्करीं सुखदां कथाम् । यस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ॥ ७॥ शिवः सर्वेश्वरो देवः सर्वात्मा सर्वदर्शनः । महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत् ॥ ८॥ शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका । सर्वभूतात्मभूताख्या त्रिलिङ्गालिङ्गरूपिणी ॥ ९॥ देवानां योनयश्चाष्टौ मानुषी नवमी च या । तिरश्चां योनयः पञ्च भवन्त्येवं चतुर्दश ॥ १०॥ भूता वा वर्तमाना वा भविष्याश्चैव सर्वशः । शिवात्सर्वे प्रवर्तन्ते लीयन्ते वृद्धिमागताः ॥ ११॥ ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम् । गन्धर्वाणां मनुष्याणामन्येषां वापि सर्वशः ॥ १२॥ बन्धुर्मित्रमथाचार्यो रक्षन्नेतार्थवान् गुरुः । कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः ॥ १३॥ शिवः सर्वमयः पुंसां स्वयं वेद्यः परात्परः । वक्तुं न शक्यते यश्च परं चानुपरं च यत् ॥ १४॥ तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने । तदधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ १५॥ कामेन स्वसहायेन प्रबलेन मनोभुवा । सर्वः प्रधर्षितो वीरो विष्ण्वादिप्रबलोऽपि हि ॥ १६॥ शिवमायाप्रभावेणाभूद्धरिः काममोहितः । परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ॥ १७॥ इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः । पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ॥ १८॥ पावकोऽपि जगच्छ्रेष्ठो मोहितः शिवमायया । कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ॥ १९॥ जगत्प्राणोऽपि गर्वेण मोहितः शिवमायया । कामेन निर्जितो व्यास चक्रेऽन्यस्त्रीरतिं पुरा ॥ २०॥ चण्डरश्मिस्तु मार्तण्डो मोहितः शिवमायया । कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ॥ २१॥ चन्द्रश्च मोहितः शम्भोर्मायया कामसङ्कुलः । गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ॥ २२॥ पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ । मोहितौ तावपि मुनी शिवमायाविमोहितौ ॥ २३॥ उर्वशीं तरुणीं दृष्ट्वा कामुकौ सम्बभूवतुः । मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ॥ २४॥ ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसम्भवः । अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ॥ २५॥ दक्षश्च मोहितः शम्भोर्मायया ब्रह्मणः सुतः । भ्रातृभिः स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ॥ २६॥ ब्रह्मा च बहुवारं हि मोहितः शिवमायया । अभवद्भोक्तुकामश्च स्वसुतायां परासु च ॥ २७॥ च्यवनोऽपि महायोगी मोहितः शिवमायया । सुकन्यया विजह्रे स कामासक्तो बभूव ह ॥ २८॥ कश्यपः शिवमायातो मोहितः कामसङ्कुलः । ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा ॥ २९॥ गरुडः शाण्डिलीं कन्यां नेतुकामः सुमोहितः । विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह ॥ ३०॥ विभाण्डको मुनिर्नारीं दृष्ट्वा कामवशं गतः । ऋष्यश‍ृङ्गसुतस्तस्य मृग्यां जातः शिवाज्ञया ॥ ३१॥ गौतमश्च मुनिः शम्भोर्मायामोहितमानसः । दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया ॥ ३२॥ रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः । तस्माच्च कलशाज्जातो द्रोणः शस्त्रभृतां वरः ॥ ३३॥ पराशरो महायोगी मोहितः शिवमायया । मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया ॥ ३४॥ विश्वामित्रो बभूवाथ मोहितः शिवमायया । रेमे मेनकया व्यास वने कामवशं गतः ॥ ३५॥ वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः । पुनः शिवप्रसादाच्च ब्राह्मणोऽभूत्स एव वै ॥ ३६॥ रावणो वैश्रवाः कामी बभूव शिवमायया । सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च ॥ ३७॥ बृहस्पतिर्मुनिवरो मोहितः शिवमायया । भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत् ॥ ३८॥ इति मायाप्रभावो हि शङ्करस्य महात्मनः । वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि ॥ ३९॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थोऽध्यायः ॥ ५.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.५. पञ्चमोऽध्यायः । महापातकवर्णनम् ।

व्यास उवाच । ये पापनिरता जीवा महानरकहेतवः । भगवंस्तान् समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ॥ १॥ सनत्कुमार उवाच । ये पापनिरता जीवा महानरकहेतवः । ते समासेन कथ्यन्ते सावधानतया श‍ृणु ॥ २॥ परस्त्रीद्रव्यसङ्कल्पश्चेतसानिष्टचिन्तनम् । अकार्याभिनिवेशश्च चतुर्धा कर्म मानसम् ॥ ३॥ अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् । परोक्षतश्च पैशुन्यं चतुर्धा कर्म वाचिकम् ॥ ४॥ अभक्ष्यभक्षणं हिंसा मिथ्याकार्यनिवेशनम् । परस्वानामुपादानं चतुर्धा कर्म कायिकम् ॥ ५॥ इत्येतद् द्वादशविधं कर्म प्रोक्तं त्रिसाधनम् । अस्य भेदान् पुनर्वक्ष्ये येषां फलमनन्तकम् ॥ ६॥ ये द्विषन्ति महादेवं संसारार्णवतारकम् । सुमहत्पातकं तेषां निरयार्णवगामिनाम् ॥ ७॥ ये शिवज्ञानवक्तारं निन्दन्ति च तपस्विनम् । गुरून् पितॄनथोन्मत्तास्ते यान्ति निरयार्णवम् ॥ ८॥ शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् । देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ॥ ९॥ हरन्ति ये च सम्मूढाश्शिवज्ञानस्य पुस्तकम् । महान्ति पातकान्याहुरनन्तफलदानि षट् ॥ १०॥ नाभिनन्दन्ति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् । न नमन्त्यर्चितं दृष्ट्वा शिवलिङ्गं स्तुवन्ति न ॥ ११॥ यथेष्टचेष्टा निःशङ्काः सन्तिष्ठन्ते रमन्ति च । उपचारविनिर्मुक्ताः शिवाग्रे गुरुसन्निधौ ॥ १२॥ स्थानसंस्कारपूजां च ये न कुर्वन्ति पर्वसु । विधिवद्वा गुरूणां च कर्मयोगव्यवस्थिताः ॥ १३॥ ये त्यजन्ति शिवाचारं शिवभक्तान्द्विषन्ति च । असम्पूज्य शिवज्ञानं येऽधीयन्ते लिखन्ति च ॥ १४॥ अन्यायतः प्रयच्छन्ति श‍ृण्वन्त्युच्चारयन्ति च । विक्रीडन्ति च लोभेन कुज्ञाननियमेन च ॥ १५॥ असंस्कृतप्रदेशेषु यथेष्टं स्वापयन्ति च । शिवज्ञानकथाक्षेपं यः कृत्वान्यत्प्रभाषते ॥ १६॥ न ब्रवीति च यः सत्यं न प्रदानं करोति च । अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति श‍ृणोति च ॥ १७॥ गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति । न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ॥ १८॥ नाभिनन्दति तद्वाक्यमुत्तरं च प्रयच्छति । गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ॥ १९॥ गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा । वैरिभिः परिभूतं वा यः सन्त्यजति पापकृत् ॥ २०॥ तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति च । एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ॥ २१॥ एतानि खलु सर्वाणि कर्माणि मुनिसत्तम । सुमहत्पातकान्याहुः शिवनिन्दासमानि च ॥ २२॥ ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः । महापातकिनस्त्वेते तत्संयोगी च पञ्चमः ॥ २३॥ क्रोधाल्लोभाद्भयाद् द्वेषाद्ब्राह्मणस्य वधे तु यः । मर्मान्तिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ॥ २४॥ ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च । निर्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ॥ २५॥ यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् । उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ २६॥ मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् । गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ॥ २७॥ गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् । यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥ २८॥ देवद्विजगवां भूमिं प्रदत्तां हरते तु यः । प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ २९॥ देवद्विजस्वहरणमन्यायेनार्जितं तु यत् । ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ॥ ३०॥ अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् । यदि त्यजति यो मूढः सुरापानस्य तत्समम् ॥ ३१॥ यत्किञ्चिद्धि व्रतं गृह्य नियमं यजनं तथा । सन्त्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ॥ ३२॥ पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् । आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ॥ ३३॥ वने निरपराधानां प्राणिनां चापघातनम् । द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ॥ ३४॥ गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते । इति पापानि घोराणि ब्रह्महत्यासमानि च ॥ ३५॥ दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् । गोभूरजतवस्त्राणामौषधीनां रसस्य च ॥ ३६॥ चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम् । विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ॥ ३७॥ हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् । कन्यानां वरयोग्यानामदानं सदृशे वरे ॥ ३८॥ पुत्रमित्रकलत्रेषु गमनं भगिनीषु च । कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ॥ ३९॥ सवर्णायाश्च गमनं गुरुभार्यासमं स्मृतम् । महापापानि चोक्तानि श‍ृणु त्वमुपपातकम् ॥ ४०॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महापातकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.६. षष्ठोऽध्यायः । पापभेदवर्णनम् ।

सनत्कुमार उवाच । द्विजद्रव्यापहरणमपि दायव्यतिक्रमः । अतिमानोऽतिकोपश्च दाम्भिकत्वं कृतघ्नता ॥ १॥ अत्यन्तविषयासक्तिः कार्पण्यं साधुमत्सरम् । परदाराभिगमनं साधुकन्यासु दूषणम् ॥ २॥ परिवित्तिः परिवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ३॥ शिवाश्रमतरूणां च पुष्पारामविनाशनम् । यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ॥ ४॥ सभृत्यपरिवारस्य पशुधान्यधनस्य च । कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ॥ ५॥ यज्ञारामतडागानां दारापत्यस्य विक्रयम् । तीर्थयात्रोपवासानां व्रतोपनयकर्मिणाम् ॥ ६॥ स्त्रीधनान्युपजीवन्ति स्त्रीभिरत्यन्तनिर्जिताः । अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ॥ ७॥ कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् । निन्दिताच्च धनादानं पण्यानां कूटजीवनम् ॥ ८॥ विषमारणमन्त्राणां सततं वृषवाहनम् । उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ॥ ९॥ जिह्वाकामोपभोगार्थं यस्यारम्भः सुकर्मसु । मूलेनाध्यापको नित्यं वेदज्ञानादिकं च यत् ॥ १०॥ ब्राह्म्यादिव्रतसन्त्यागश्चान्याचारनिषेवणम् । असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ॥ ११॥ देवाग्निगुरुसाधूनां निन्दा या ब्राह्मणस्य च । प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ॥ १२॥ उत्सन्नपितृदेवेज्याः स्वकर्मत्यागिनश्च ये । दुःशीला नास्तिकाः पापाः सदा वासत्यवादिनः ॥ १३॥ पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु । रजस्वलाया योनौ च मैथुनं यः समाचरेत् ॥ १४॥ स्त्रीपुत्रमित्रसम्प्राप्ते आशाच्छेदकराश्च ये । जनस्याप्रियवक्तारः क्रूराः समयभेदिनः ॥ १५॥ भेत्ता तडागकूपानां विक्रतारो रसस्य च । एकपङ्क्तिस्थितानां च पाकभेदं करोति यः ॥ १६॥ इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः । युक्ता एभिस्तथान्येऽपि श‍ृणु तांस्तु ब्रवीमि ते ॥ १७॥ ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् । विनाशयन्ति कार्याणि ते नरा नारकाः स्मृताः ॥ १८॥ परस्त्रियाभितप्यन्ते ये परद्रव्यसूचकाः । परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ॥ १९॥ द्विजदुःखकरा ये च प्रहारं चोद्धरन्ति ये । सेवन्ते तु द्विजाः शूद्रां सुरां बध्नन्ति कामतः ॥ २०॥ ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः । वृत्त्यर्थं येऽपि कुर्वन्ति दानयज्ञादिकाः क्रियाः ॥ २१॥ गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च । त्यजन्ति ये पुरीषाद्यानारामायतनेषु च ॥ २२॥ लज्जाश्रमप्रासादेषु मद्यपानरताश्च ये । कृतकेलिभुजङ्गाश्च रन्ध्रान्वेषणतत्पराः ॥ २३॥ वंशेष्टकाशिलाकाष्ठैः श‍ृङ्गैः शङ्कुभिरेव च । ये मार्गमनुरुन्धन्ति परसीमां हरन्ति ये ॥ २४॥ कूटशासनकर्तारः कूटकर्मक्रियारताः । कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः ॥ २५॥ धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी । निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः ॥ २६॥ मिथ्या प्रवदतो वाच आकर्णयति यः शनैः । स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ॥ २७॥ ये भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् । भृत्यानतिथिबन्धूंश्च त्यक्त्वाश्नन्ति बुभुक्षितान् ॥ २८॥ यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति । वृथापाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः ॥ २९॥ नियमान् स्वयमादाय ये त्यजन्त्यजितेन्द्रियाः । प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः ॥ ३०॥ ये ताडयन्ति गां क्रूरा दमयन्ते मुहुर्मुहुः । दुर्बलान्ये न पुष्णन्ति सततं ये त्यजन्ति च ॥ ३१॥ पीडयन्त्यतिभारेणासहन्तं वाहयन्ति च । योजयन्त्यकृताहारान्न विमुञ्चन्ति संयतान् ॥ ३२॥ ये भारक्षतरोगार्तान् गोवृषांश्च क्षुधातुरान् । न पालयन्ति यत्नेन गोघ्नास्ते नारकाः स्मृताः ॥ ३३॥ वृषाणां वृषणान्ये च पापिष्ठा गालयन्ति च । वाहयन्ति च गां वन्ध्यां महानारकिनो नराः ॥ ३४॥ आशया समनुप्राप्तान् क्षुत्तृष्णाश्रमकर्शितान् । अतिथींश्च तथानाथान् स्वतन्त्रान् गृहमागतान् ॥ ३५॥ अन्नाभिलाषान् दीनान्वा बालवृद्धकृशातुरान् । नानुकम्पन्ति ये मूढास्ते यान्ति नरकार्णवम् ॥ ३६॥ गृहेष्वर्था निवर्तन्ते श्मशानादपि बान्धवाः । सुकृतं दुष्कृतं चैव गच्छन्तमनुगच्छति ॥ ३७॥ अजाविको माहिषिकः सामुद्रो वृषलीपतिः । शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः ॥ ३८॥ शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः । भृतकाः कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः ॥ ३९॥ यश्चोचितमतिक्रम्य स्वेच्छयैवाहरेत्करम् । नरके पच्यते सोऽपि योऽपि दण्डरुचिर्नरः ॥ ४०॥ उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते । यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ४१॥ ये द्विजाः परिगृह्णन्ति नृपस्यान्यायवर्तिनः । ते प्रयान्ति तु घोरेषु नरकेषु न संशयः ॥ ४२॥ अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति । प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा ॥ ४३॥ पारदारिकचौराणां चण्डानां विद्यते त्वघम् । परदाररतस्यापि राज्ञो भवति नित्यशः ॥ ४४॥ अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् । अविचार्य नृपस्तस्माद् घातयन्नरकं व्रजेत् ॥ ४५॥ घृततैलान्नपानानि मधुमांससुरासवम् । गुडेक्षुशाकदुग्धानि दधिमूलफलानि च ॥ ४६॥ तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् । उपानत्छत्रशकटमासनं च कमण्डलुम् ॥ ४७॥ ताम्रसीसत्रपुः शस्त्रं शङ्खाद्यं च जलोद्भवम् । वाद्यं च वैणवं चान्यद्गृहोपस्करणानि च ॥ ४८॥ और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च । स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरन्ति च ॥ ४९॥ एवमादीनि चान्यानि द्रव्याणि विविधानि च । नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च ॥ ५०॥ तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् । अपहृत्य नरा यान्ति नरकं नात्र संशयः ॥ ५१॥ एवमाद्यैर्नरः पापैरुत्क्रान्तिसमनन्तरम् । शरीरयातनार्थाय सर्वाकारमवाप्नुयात् ॥ ५२॥ यमलोकं व्रजन्त्येते शरीरेण यमाज्ञया । यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः ॥ ५३॥ देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् । धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ॥ ५४॥ नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् । प्रायश्चित्तैर्गुरुः शास्ता न बुधैरिष्यते यमः ॥ ५५॥ पारदारिकचौराणामन्यायव्यवहारिणाम् । नृपतिः शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट् ॥ ५६॥ तस्मात् कृतस्य पापस्य प्रायश्चित्तं समाचरेत् । नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ॥ ५७॥ यः करोति स्वयं कर्म कारयेच्चानुमोदयेत् । कायेन मनसा वाचा तस्य पापगतिः फलम् ॥ ५८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.७. सप्तमोऽध्यायः । नरकलोकमार्गयमदूतस्वरूपवर्णनम् ।

सनत्कुमार उवाच । अथ पापैर्नरा यान्ति यमलोकं चतुर्विधैः । सन्त्रासजननं घोरं विवशाः सर्वदेहिनः ॥ १॥ गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः । स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजन्तुषु ॥ २॥ शुभाशुभफलं चात्र देहिनां संविचार्यते । चित्रगुप्तादिभिः सर्वैः वसिष्ठप्रमुखैस्तथा ॥ ३॥ न केचित्प्राणिनः सन्ति ये न यान्ति यमक्षयम् । अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्यताम् ॥ ४॥ तत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः । ते नरा यान्ति सौम्येन पूर्वं यमनिकेतनम् ॥ ५॥ ये पुनः पापकर्माणः पापा दानविवर्जिताः । ते घोरेण पथा यान्ति दक्षिणेन यमालयम् ॥ ६॥ षडशीतिसहस्राणि योजनानामतीत्य तत् । वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥ ७॥ समीपस्थमिवाभाति नराणां पुण्यकर्मणाम् । पापिनामतिदूरस्थं यथा रौद्रेण गच्छताम् ॥ ८॥ तीक्ष्णकण्टकयुक्तेन शर्कराविचितेन च । क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च ॥ ९॥ क्वचित्पङ्केन महता जलौकाभिश्च सङ्कुलैः । लोहसूचीनिभैर्दर्भैः सम्पन्नेन पथा क्वचित् ॥ १०॥ तटप्रायातिविषमैः पर्वतैर्वृक्षसङ्कुलैः । प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ ११॥ क्वचिद्विषमगर्तैश्च क्वचिल्लोष्ठैः सुदुष्करैः । सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ १२॥ अनेकशाखाविततैर्व्याप्तं वंशवनैः क्वचित् । कष्टेन तमसा मार्गेणानालम्बेन कुत्रचित् ॥ १३॥ अयः श‍ृङ्गाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः । क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ १४॥ क्वचिद्वालुकया व्याप्तमाकण्ठान्तः प्रवेशया । क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ॥ १५॥ क्वचित् सिहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः । क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा ॥ १६॥ मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पैर्विषोल्बणैः । मत्तमातङ्गयूथैश्च बलोन्मत्तैः प्रमाथिभिः ॥ १७॥ पन्थानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः । तीक्ष्णश‍ृङ्गैश्च महिषैः सर्वभूतैश्च श्वापदैः ॥ १८॥ डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः । व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति हि ॥ १९॥ महाधूलिविमिश्रेण महाचण्डेन वायुना । महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २०॥ क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च । महता बाणवर्षेण विध्यमानाश्च सर्वतः ॥ २१॥ पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः । प्रदीप्ताङ्गारवर्षेण दह्यमानाश्च सन्ति हि ॥ २२॥ महता पांसुवर्षेण पूर्यमाणा रुदन्ति च । महामेघरवैर्घोरैस्त्रस्यन्ते च मुहुर्मुहुः ॥ २३॥ निशितायुधवर्षेण भिद्यमानाश्च सर्वतः । महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २४॥ महीशीतेन मरुता रूक्षेण परुषेण च । समन्ताद् बाध्यमानाश्च शुष्यन्ते सङ्कुचन्ति च ॥ २५॥ इत्थं मार्गेण रौद्रेण पाथेयरहितेन च । निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २६॥ विषमेणैव महता निर्जनापाश्रयेण च । तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च ॥ २७॥ नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः । यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ॥ २८॥ एकाकिनः पराधीना मित्रबन्धुविवर्जिताः । शोचन्तः स्वानि कर्माणि रुदन्तश्च मुहुर्मुहुः ॥ २९॥ प्रेता भूत्वा विवस्त्राश्च शुष्ककण्ठौष्ठतालुकाः । असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ॥ ३०॥ बद्धाः श‍ृङ्खलया केचिदुत्ता नपादका नराः । कृष्यन्ते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ॥ ३१॥ उरसाधोमुखाश्चान्ये घृष्यमाणाः सुदुःखिताः । केशपाशनिबन्धेन सङ्कृष्यन्ते च रज्जुना ॥ ३२॥ ललाटे चाङ्कुशेनान्ये भिन्ना दुष्यन्ति देहिनः । उत्तानाः कण्टकपथा क्वचिदङ्गारवर्त्मना ॥ ३३॥ पश्चाद् बाहुनिबद्धाश्च जठरेण प्रपीडिताः । पूरिताः श‍ृङ्खलाभिश्च हस्तयोश्च सुकीलिताः ॥ ३४॥ ग्रीवापाशेन कृष्यन्ते प्रयान्त्यन्ये सुदुःखिताः । जिह्वाङ्कुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ॥ ३५॥ नासाभेदेन रज्ज्वा च त्वाकृष्यन्ते तथापरे । भिन्नाः कपोलयो रज्ज्वा कृष्यन्तेऽन्ये तथौष्ठयोः ॥ ३६॥ छिन्नाग्रपादहस्ताश्च छिन्नकर्णोष्ठनासिकाः । सञ्छिन्नशिश्नवृषणाः छिन्नभिन्नाङ्गसन्धयः ॥ ३७॥ आभिद्यमानाः कुन्तैश्च भिद्यमानाश्च सायकैः । इतश्चेतश्च धावन्तः क्रन्दमाना निराश्रयाः ॥ ३८॥ मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः । कण्टकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ॥ ३९॥ भिन्दिपालैर्विभिद्यन्ते स्रवतः पूयशोणितम् । शकृता कृमिदिग्धाश्च नीयन्ते विवशा नराः ॥ ४०॥ याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः । छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ॥ ४१॥ दानहीनाः प्रयान्त्येवं प्रार्थयन्तः सुखं नराः । गृहीतदानपाथेयाः सुखं यान्ति यमालयम् ॥ ४२॥ एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा । प्रज्ञापितास्ततो दूतैर्निवेश्यन्ते यमाग्रतः ॥ ४३॥ तत्र ये शुभकर्माणस्तांस्तु सम्मानयेद्यमः । स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ॥ ४४॥ धन्या यूयं महात्मानो निगमोदितकारिणः । यैश्च दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ ४५॥ दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् । स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम् ॥ ४६॥ तत्र भुक्त्वा महाभोगानन्ते पुण्यस्य सङ्क्षयात् । यत्किञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ ॥ ४७॥ धर्मात्मानो नरा ये च मित्रभूता इवात्मनः । सौम्यं मुखं प्रपश्यन्ति धर्मराजनमेव च ॥ ४८॥ ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ४९॥ ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् । अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ ५०॥ सर्वायुधोद्धृतकरं सर्वदण्डेन तर्जयन् । महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥ ५१॥ रक्तमाल्याम्बरधरं महामेरुमिवोच्छ्रितम् । प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥ ५२॥ ग्रसन्तमिव शैलेन्द्रमुद्गिरन्तमिवानलम् । मृत्युश्चैव समीपस्थः कालानलसमप्रभः ॥ ५३॥ कालश्चाञ्जनसङ्काशः कृतान्तश्च भयानकः । मारी चोग्रमहामारी कालरात्रिश्च दारुणा ॥ ५४॥ विविधा व्याधयः कुष्ठा नानारूपा भयावहाः । शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः ॥ ५५॥ वज्रतुण्डधरा रौद्राः क्षुरतूणधनुर्द्धराः । नानायुधधराः सर्वे महावीरा भयङ्कराः ॥ ५६॥ असङ्ख्याता महावीराः कालाञ्जनसमप्रभाः । सर्वायुधोद्यतकरा यमदूता भयानकाः ॥ ५७॥ अनेन परिचारेण वृतं तं घोरदर्शनम् । यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं च भीषणम् ॥ ५८॥ निर्भर्त्सयति चात्यन्तं यमस्तान्पापकर्मणः । चित्रगुप्तश्च भगवान् धर्मवाक्यैः प्रबोधयेत् ॥ ५९॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ५.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.८. अष्टमोऽध्यायः । नरकलोकवर्णनम् ।

चित्रगुप्त उवाच । भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः । गर्विता रूपवीर्येण परदारावमर्दकाः ॥ १॥ यत् स्वयं क्रियते कर्म तदिदं भुज्यते पुनः । तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २॥ इदानीं किं प्रलप्यध्वं पीड्यमानाः स्वकर्मभिः । भुज्यन्तां स्वानि कर्माणि नास्ति दोषो हि कस्यचित् ॥ ३॥ सनत्कुमार उवाच । एवं ते पृथिवीपालाः सम्प्राप्तास्तत्समीपतः । स्वकीयैः कर्मभिघौरैर्दुष्कर्मबलदर्पिणः ॥ ४॥ तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः । संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥ ५॥ चित्रगुप्त उवाच । भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः । अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६॥ राज्यभोगेन मोहेन बलादन्यायतः प्रजाः । यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥ ७॥ क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् । तत्सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ ८॥ पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः । यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥ ९॥ सनत्कुमार उवाच । एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते । स्वानि कर्माणि शोचन्ति तूष्णीं तिष्ठन्ति पार्थिवाः ॥ १०॥ इति कर्म समुद्दिश्य नृपाणां धर्मराड् यमः । तत्पापपङ्कशुद्ध्यर्थमिदं दूतान् ब्रवीति च ॥ ११॥ यमराज उवाच । भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीन्बलात् । नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥ १२॥ सनत्कुमार उवाच । ततः शीघ्रं समादाय नृपान् सङ्गृह्य पादयोः । भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥ १३॥ सर्वप्रायेण महतातीव तप्ते शिलातले । आस्फालयन्ति तरसा वज्रेणेव महाद्रुमान् ॥ १४॥ ततः स रक्तं श्रोत्रेण स्रवते जर्जरीकृतः । निःसंज्ञः स तदा देही निश्चेष्टः सम्प्रजायते ॥ १५॥ ततः स वायुना स्पृष्टः स तैरुज्जीवितः पुनः । ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ १६॥ अष्टाविंशतिसङ्ख्याभिः क्षित्यधः सप्तकोटयः । सप्तमस्य तलस्यान्ते घोरे तमसि संस्थितः ॥ १७॥ घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता । अतिघोरा महाघोरा घोररूपा च पञ्चमी ॥ १८॥ षष्ठी तलातलाख्या च सप्तमी च भयानका । अष्टमी कालरात्रिश्च नवमी च भयोत्कटा ॥ १९॥ दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः । चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ॥ २०॥ पद्मा पद्मावती भीता भीमा भीषणनायिका । कराला विकराला च वज्रा विंशतिमा स्मृता ॥ २१॥ त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा । समा भीमबलाभोग्रा दीप्तप्रायेति चाष्टमी ॥ २२॥ इति ते नामतः प्रोक्ता घोरा नरककोटयः । अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः ॥ २३॥ तासां क्रमेण विज्ञेयाः पञ्च पञ्चैव नायकाः । प्रत्येकं सर्वकोटीनां नामतः सन्निबोधत ॥ २४॥ रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः । महारौरवपीडाभिर्महान्तोऽपि रुदन्ति च ॥ २५॥ ततः शीतं तथा चोष्णं पञ्चाद्या नायकाः स्मृताः । सुघोरः सुमहातीक्ष्णस्तथा सञ्जीवनः स्मृतः ॥ २६॥ महातमो विलोमश्च विलोपश्चापि कण्टकः । तीव्रवेगः करालश्च विकरालः प्रकम्पनः ॥ २७॥ महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः । सूचीमुखः सुनेतिश्च खादकः सुप्रपीडनः ॥ २८॥ कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः । अङ्गारराशिभवनं मेदोऽसृक्प्रहितस्ततः ॥ २९॥ तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः । तप्तजन्तुः पङ्कलेपः प्रतिमांसस्त्रपूद्भवः ॥ ३०॥ उच्छ्वासः सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः । दुरिष्टः सुमहावादः प्रवाहः सुप्रतापनः ॥ ३१॥ ततो मेघो वृषः शाल्मः सिंहव्याघ्रगजाननाः । श्वसूकराजमहिषघूककोकवृकाननाः ॥ ३२॥ ग्राहकुम्भीननक्राख्याः सर्पकूर्माख्यवायसाः । गृध्रोलूकहलौकाख्याः शार्दूलक्रथकर्कटाः ॥ ३३॥ मण्डूकः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः । कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ॥ ३४॥ अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभः श्वभोजनः । लालाभक्षान्त्रभक्षौ च सर्वभक्षः सुदारुणः ॥ ३५॥ कण्टकः सुविशालश्च विकटः कटपूतनः । अम्बरीषः कटाहश्च कष्टा वैतरणी नदी ॥ ३६॥ सुतप्तलोहशयन एकपादः प्रपूरणः । असितालवनं घोरमस्थिभङ्गः सुपूरणः ॥ ३७॥ विलातसोऽसुयन्त्रोपि कूटपाशः प्रमर्दनः । महाचूरर्णोऽसुचूर्णोऽपि तप्तलोहमयं तथा ॥ ३८॥ पर्वतः क्षुरधारा च तथा यमलपर्वतः । मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ॥ ३९॥ मुसलोलूखलं यन्त्रं शिलाशकटलाङ्गलम् । तालपत्रासिगहनं महाशकटमण्डपम् ॥ ४०॥ सम्मोहमस्थिभङ्गश्च तप्तश्चलमयोगुडम् । बहुदुःखं महाक्लेशः कश्मलं समलं मलात् ॥ ४१॥ हालाहलो विरूपश्च स्वरूपश्च यमानुगः । एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ॥ ४२॥ अष्टाविंशतिरित्येते क्रमशः पञ्चपञ्चकम् । कोटीनामानुपूर्व्येण पञ्च पञ्चैव नायकाः ॥ ४३॥ रौरवाय प्रबोध्यन्ते नरकाणां शतं स्मृतम् । चत्वारिंशच्च तत्प्रोक्तं महानरकमण्डलम् ॥ ४४॥ इति ते व्यास सम्प्रोक्ता नरकस्य स्थितिर्मया । प्रसङ्ख्यानाच्च वैराग्यं श‍ृणु पापगतिं च ताम् ॥ ४५॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥ ५.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.९. नवमोऽध्यायः । नरकगतिवर्णनम् ।

सनत्कुमार उवाच । एषु पापाः प्रपच्यन्ते शोष्यन्ते नरकाग्निषु । यातनाभिर्विचित्राभिरास्वकर्मक्षयाद् भृशम् ॥ १॥ स्वमलप्रक्षयाद्यद्वदग्नौ धास्यन्ति धातवः । तत्र पापक्षयात्पापा नराः कर्मानुरूपतः ॥ २॥ सुगाढं हस्तयोर्बद्ध्वा ततः श‍ृङ्खलया नराः । महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिङ्करैः ॥ ३॥ ततस्ते सर्वयत्नेन क्षिप्ता दोलन्ति किङ्करैः । दोम्यन्तश्चातिवेगेन विसंज्ञा यान्ति योजनम् ॥ ४॥ अन्तरिक्षस्थितानां च लोहभारशतं पुनः । पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ५॥ तेन भारेण महता प्रभृशं ताडिता नराः । ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ॥ ६॥ ततोऽङ्कुशैरग्निवर्णैर्लोहदण्डैश्च दारुणैः । हन्यन्ते किङ्करैघोरैः समन्तात्पापकर्मिणः ॥ ७॥ ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः । समन्ततः प्रलिप्यन्ते तीव्रेण तु पुनः पुनः ॥ ८॥ द्रुतेनात्यन्तलिप्तेन कृत्ताङ्गा जर्जरीकृताः । पुनर्विदार्य चाङ्गानि शिरसः प्रभृति क्रमात् ॥ ९॥ वृन्ताकवत्प्रपच्यन्ते तप्तलोहकटाहकैः । विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः ॥ १०॥ मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति ते पुनः । भक्ष्यन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ॥ ११॥ श्वभिर्देंशैर्वृकैर्व्याघ्रै रौद्रैश्च विकृताननैः । पच्यन्ते मत्स्यवच्चापि प्रदीप्ताङ्गारराशिषु ॥ १२॥ भिन्नाः शूलैः सुतीक्ष्णैश्च नराः पापेन कर्मणा । तैलयन्त्रेषु चाक्रम्य घोरैः कर्मभिरात्मनः ॥ १३॥ तिला इव प्रपीड्यन्ते चक्राख्ये जनपिण्डकाः । भ्रज्यन्ते चातपे तप्तलोहभाण्डेष्वनेकधा ॥ १४॥ तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः । बहुधा पच्यते जिह्वा प्रपीड्योरसि पादयोः ॥ १५॥ यातनाश्च महत्योऽत्र शरीरस्याति सर्वतः । निःशेषनरकेष्वेवं क्रमन्ति क्रमशो नराः ॥ १६॥ नरकेषु च सर्वेषु विचित्रा यमयातनाः । याम्यैश्च दीयते व्यास सर्वाङ्गेषु सुकष्टदाः ॥ १७॥ ज्वलदङ्गारमादाय मुखमापूर्य ताड्यते । ततः क्षारेण दीप्तेन ताम्रेण च पुनःपुनः ॥ १८॥ घृतेनात्यन्ततप्तेन तदा तैलेन तन्मुखम् । इतस्ततः पीडयित्वा भृशमापूर्य हन्यते ॥ १९॥ विष्ठाभिः कृमिभिश्चापि पूर्यमाणाः क्वचित् क्वचित् । परिष्वजन्ति चात्युग्रां प्रदीप्तां लोहशाल्मलीम् ॥ २०॥ हन्यन्ते पृष्ठदेशे च पुनर्दीप्तैर्महाघनैः । दन्तुरेणादिकुण्ठेन क्रकचेन बलीसया ॥ २१॥ शिरःप्रभृति पीड्यन्ते घोरैः कर्मभिरात्मजैः । खाद्यन्ते च स्वमांसानि पीयते शोणितं स्वकम् ॥ २२॥ अन्नं पानं न दत्तं यैः सर्वदा स्वात्मपोषकैः । इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः ॥ २३॥ असितालवने घोरे छिद्यन्ते खण्डशस्ततः । सूचीभिर्भिन्नसर्वाङ्गाः तप्तशूलाग्ररोपिताः ॥ २४॥ सञ्चाल्यमाना बहुशः क्लिश्यन्ते न म्रियन्ति च । तथा च तच्छरीराणि सुखदुःखसहानि च ॥ २५॥ देहादुत्पाट्य मांसानि भिद्यन्ते स्वैश्च मुद्गरैः । दन्तुराकृतिभिर्घोरैर्यमदूतैर्बलोत्कटैः ॥ २६॥ निरुच्छ्वासे निरुच्छ्वासास्तिष्ठन्ति नरके चिरम् । उत्ताड्यन्ते तथोच्छ्वासे वालुकासदने नराः ॥ २७॥ रौरवे रोदमानाश्च पीड्यन्ते विविधैर्वधैः । महारौरवपीडाभिर्महान्तोऽपि रुदन्ति च ॥ २८॥ पत्सु वक्त्रे गुदे मुण्डे नेत्रयोश्चैव मस्तके । निहन्यन्ते घनैस्तीक्ष्णैः सुतप्तैर्लोहशङ्कुभिः ॥ २९॥ सुतप्तवालुकायां तु प्रयोज्यन्ते मुहुर्मुहुः । जन्तुपङ्के भृशं तप्ते क्षिप्ताः क्रन्दन्ति विस्वरम् ॥ ३०॥ कुम्भीपाकेषु पच्यन्ते तप्ततैलेषु वै मुने । पापिनः क्रूरकर्माणोऽसह्येषु सर्वथा पुनः ॥ ३१॥ लालाभक्षेषु पापास्ते पात्यन्ते दुःखदेषु वै । नानास्थानेषु च तथा नरकेषु पुनःपुनः ॥ ३२॥ सूचीमुखे महाक्लेशे नरके पात्यते नरः । पापी पुण्यविहीनश्च ताड्यते यमकिङ्करैः ॥ ३३॥ लोहकुम्भे विनिःक्षिप्ताः श्वसन्तश्च शनैः शनैः । महाग्निना प्रपच्यन्ते स्वपापैरेव मानवाः ॥ ३४॥ दृढं रज्ज्वादिभिर्बद्ध्वा प्रपीड्यन्ते शिलासु च । क्षिप्यन्ते चान्धकूपेषु दश्यन्ते भ्रमरैर्भृशम् ॥ ३५॥ कृमिभिर्भिन्नसर्वाङ्गाः शतशो जर्जरीकृताः । सुतीक्ष्णक्षारकूपेषु क्षिप्यन्ते तदनन्तरम् ॥ ३६॥ महाज्वालेऽत्र नरके पापाः क्रन्दन्ति दुःखिताः । इतश्चेतश्च धावन्ति दह्यमानास्तदर्चिषा ॥ ३७॥ पृष्ठे चानीय तुण्डाभ्यां विन्यस्तस्कन्धयोजिते । तयोर्मध्येन वाकृष्य बाहुपृष्ठेन गाढतः ॥ ३८॥ बद्धाः परस्परं सर्वे सुभृशं पाशरज्जुभिः । बद्धपिण्डास्तु दृश्यन्ते महाज्वाले तु यातनाः ॥ ३९॥ रज्जुभिर्वेष्टिताश्चैव प्रलिप्ताः कर्दमेन च । करीषतुषवह्नौ च पच्यन्ते न म्रियन्ति च ॥ ४०॥ सुतीक्ष्णचरितास्ते हि कर्कशासु शिलासु च । आस्फाल्य शतशः पापाः पच्यन्ते तृणवत्ततः ॥ ४१॥ शरीराभ्यन्तरगतैः प्रभूतैः कृमिभिर्नराः । भक्ष्यन्ते तीक्ष्णवदनैरात्मदेहक्षयाद् भृशम् ॥ ४२॥ कृमीणां निचये क्षिप्ताः पूयमांसास्थिराशिषु । तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यां निपीडिताः ॥ ४३॥ तप्तेन वज्रलेपेन शरीरमनुलिप्यते । अधोमुखोर्ध्वपादश्च तातप्यन्ते स्म वह्निना ॥ ४४॥ वदनान्तःप्रविन्यस्तां सुप्रतप्तामयोगदाम् । ते खादन्ति पराधीनास्तैस्ताड्यन्ते च मुद्गरैः ॥ ४५॥ इत्थं व्यास कुकर्माणो नरकेषु पचन्ति हि । वर्णयामि विवर्णत्वं तेषां तत्त्वाय कर्मिणाम् ॥ ४६॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यतो नरकगतिवर्णनं नाम नवमोऽध्यायः ॥ ५.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१०. दशमोऽध्यायः । नरकगतिभोगवर्णनम् ।

सनत्कुमार उवाच । मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्यं च गच्छति । जिह्वार्धकोशविस्तीर्णहलैस्तीक्ष्णैः प्रपीड्यते ॥ १॥ निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् । विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य हन्यते ॥ २॥ ये शिवायतनारामवापीकूपतडागकान् । विद्रवन्ति द्विजस्थानं नरास्तत्र रमन्ति च ॥ ३॥ कामायोद्वर्तनाभ्यङ्ग स्नानपानाम्बुभोजनम् । क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धताः ॥ ४॥ पेचिरे विविधैर्धोरैरिक्षुयन्त्रादिपीडनैः । निरयाग्निषु पच्यन्ते यावदाभूतसम्प्लवम् ॥ ५॥ तेन तेनैव रूपेण ताड्यन्ते पारदारिकाः । गाढमालिङ्ग्य ते नारीं सुतप्तां लोहनिर्मिताम् ॥ ६॥ पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समन्ततः । दुश्चारिणीं स्त्रियं गाढमालिङ्गन्ति रुदन्ति च ॥ ७॥ ये श‍ृण्वन्ति सतां निन्दां तेषां कर्णप्रपूरणम् । अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः ॥ ८॥ त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः । सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः ॥ ९॥ क्रमादापूर्य कर्णांस्तु नरकेषु च यातनाः । अनुक्रमेण सर्वेषु भवन्त्येताः समन्ततः ॥ १०॥ सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः । भवन्ति घोराः प्रत्येकं शरीरेण कृतेन च ॥ ११॥ स्पर्शदोषेण ये मूढाः स्पृशन्ति च परस्त्रियम् । तेषां करोऽग्निवर्णाभिः पांसुभिः पूर्यते भृशम् ॥ १२॥ तेषां क्षारादिभिः सर्वैः शरीरमनुलिप्यते । यातनाश्च महाकष्टाः सर्वेषु नरकेषु च ॥ १३॥ कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नराः । वक्त्राणि तेषां सान्तानि कीर्यन्ते शङ्कुभिर्दृढम् ॥ १४॥ यैरिन्द्रियैर्नरा ये च विकुर्वन्ति परस्त्रियम् । इन्द्रियाणि च तेषां वै विकुर्वन्ति तथैव च ॥ १५॥ परदारांश्च पश्यन्ति लुब्धाः स्तब्धेन चक्षुषा । सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम् ॥ १६॥ क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः । भवन्ति मुनिशार्दूल सत्यं सत्यं न संशयः ॥ १७॥ देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुञ्जते । लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्यते ॥ १८॥ ये देवारामपुष्पाणि लोभात्सङ्गृह्य पाणिना । जिघ्रन्ति च नरा भूयः शिरसा धारयन्ति च ॥ १९॥ आपूर्यते शिरस्तेषां तप्तैर्लोहस्य शङ्कुभिः । नासिका चातिबहुलैस्ततः क्षारादिभिर्भृशम् ॥ २०॥ ये निन्दन्ति महात्मानं वाचकं धर्मदेशिकम् । देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम् ॥ २१॥ तेषामुरसि कण्ठे च जिह्वायां दन्तसन्धिषु । तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु ॥ २२॥ अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशङ्कवः । आखिद्यन्ते च बहुशः स्थानेष्वेतेषु मुद्गरैः ॥ २३॥ ततः क्षारेण दीप्तेन पूर्यते हि समन्ततः । यातनाश्च महत्यो वै शरीरस्याति सर्वतः ॥ २४॥ अशेषनरकेष्वेव क्रमन्ति क्रमशः पुनः । ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ २५॥ शिवोपकरणं गां च ज्ञानादिलिखितं च यत् । हस्तपादादिभिस्तेषामापूर्यन्ते समन्ततः ॥ २६॥ नरकेषु च सर्वेषु विचित्रा बहुयातनाः । भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः ॥ २७॥ शिवायतनपर्यन्ते देवारामेषु कुत्रचित् । समुत्सृजन्ति ये पापाः पुरीषं मूत्रमेव च ॥ २८॥ तेषां शिश्नं सवृषणं चूर्ण्यते लोहमुद्गरैः । सूचीभिरग्निवर्णाभिस्तथा त्वापूर्यते पुनः ॥ २९॥ ततः क्षारेण महता तीव्रेण च पुनः पुनः । द्रुतेन पूर्यते गाढं गुदे शिश्ने च देहिनः ॥ ३०॥ मनः सर्वेन्द्रियाणां च यस्माद्दुःखं प्रजायते । धने सत्यपि ये दानं न प्रयच्छन्ति तृष्णया ॥ ३१॥ अतिथिं चावमन्यन्ते काले प्राप्ते गृहाश्रमे । तस्मात्ते दुष्कृतं प्राप्य गच्छन्ति निरयेऽशुचौ ॥ ३२॥ येऽन्नं दत्त्वा हि भुञ्जन्ति न श्वभ्यः सह वायसैः । तेषां च विवृतं वक्त्रं कीलकद्वयताडितम् ॥ ३३॥ कृमिभिः प्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः । उपद्रवैर्बहुविधैरुग्रैरन्तः प्रपीड्यते ॥ ३४॥ श्यामश्च शबलश्चैव यममार्गानुरोधकौ । यौ स्तस्ताभ्यां प्रयच्छामि तौ गृह्णीतामिमं बलिम् ॥ ३५॥ ये वा वरुणवायव्या याम्या नैरृत्यवायसाः । वायसाः पुण्यकर्माणस्ते प्रगृह्णन्तु मे बलिम् ॥ ३६॥ शिवामभ्यर्च्य यत्नेन हुत्वाग्नौ विधिपूर्वकम् । शैवैर्मन्त्रैर्बलिं ये च ददन्ते न च ते यमम् ॥ ३७॥ पश्यन्ति त्रिदिवं यान्ति तस्माद्दद्याद्दिनेदिने । मण्डलं चतुरस्रं तु कृत्वा गन्धादिवासितम् ॥ ३८॥ धन्वन्तर्यर्थमीशान्यां प्राच्यामिन्द्राय निःक्षिपेत् । याम्यां यमाय वारुण्यां सुदक्षोमाय दक्षिणे ॥ ३९॥ पितृभ्यस्तु विनिःक्षिप्य प्राच्यामर्यमणं ततः । धातुश्चैव विधातुश्च द्वारदेशे विनिःक्षिपेत् ॥ ४०॥ श्वभ्यश्च श्वपतिभ्यश्च वयोभ्यो विक्षिपेद्भुवि । देवैः पितृमनुष्यैश्च प्रेतैर्भूतैः सगुह्यकैः ॥ ४१॥ वयोभिः कृमिकीटैश्च गृहस्थश्चोपजीव्यते । स्वाहाकारः स्वधाकारो वषट्कारस्तृतीयकः ॥ ४२॥ हन्तकारस्तथैवान्यो धेन्वाः स्तनचतुष्टयम् । स्वाहाकारं स्तनं देवाः स्वधां च पितरस्तथा ॥ ४३॥ वषट्कारं तथैवान्ये देवा भूतेश्वरास्तथा । हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् ॥ ४४॥ यस्त्वेतां मानवो धेनुं श्रद्धया ह्यनुपूर्विकाम् । करोति सततं काले साग्नित्वायोपकल्प्यते ॥ ४५॥ यस्तां जहाति वास्वस्थस्तामिस्रे स तु मज्जति । तस्माद्दत्त्वा बलिं तेभ्यो द्वारस्थश्चिन्तयेत्क्षणम् ॥ ४६॥ क्षुधार्तमतिथिं सम्यगेकग्रामनिवासिनम् । भोजयेत्तं शुभान्नेन यथाशक्त्यात्मभोजनात् ॥ ४७॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ४८॥ ततोऽन्नं प्रियमेवाश्नन्नरः श‍ृङ्खलवान् पुनः । जिह्वावेगेन विद्धोऽत्र चिरं कालं स तिष्ठति ॥ ४९॥ यतस्तम्मांसमुद्धृत्य तिलमात्रप्रमाणतः । खादितुं दीयते तेषां भित्त्वा चैव तु शोणितम् ॥ ५०॥ निःशेषतः कशाभिस्तु पीड्यते क्रमशः पुनः । बुभुक्षयातिकष्टं हि तथाचातिपिपासया ॥ ५१॥ एवमाद्या महाघोराः यातनाः पापकर्मणाम् । अन्ते यत्प्रतिपन्नं हि तत्सङ्क्षेपेण संश‍ृणु ॥ ५२॥ यः करोति महापापं धर्मं चरति वै लघु । धर्मं गुरुतरं वापि तथावस्थे तयोः श‍ृणु ॥ ५३॥ सुकृतस्य फलं नोक्तं गुरुपापप्रभावतः । न मिनोति सुखं तत्र भोगैर्बहुभिरन्वितः ॥ ५४॥ तथोद्विग्नोऽतिसन्तप्तो न भक्ष्यैर्मन्यते सुखम् । अभावादग्रतोऽन्यस्य प्रतिकल्यं दिने दिने ॥ ५५॥ पुमान्यो गुरुधर्मापि सोपवासो यथा गृही । वित्तवान्न विजानाति पीडां नियमसंस्थितः ॥ ५६॥ तानि पापानि घोराणि सन्ति यैश्च नरो भुवि । शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५७॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकगतिभोगवर्णनं नाम दशमोऽध्यायः ॥ ५.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.११. एकादशोऽध्यायः । अन्नदानमाहात्म्यवर्णनम् ।

व्यास उवाच । कृतपापा नरा यान्ति दुःखेन महतान्विताः । यममार्गे सुखं यैश्च तान्धर्मान्वद मे प्रभो ॥ १॥ सनत्कुमार उवाच । अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः । शुभाशुभमथो वक्ष्ये तान्धर्मान् सुखदायकान् ॥ २॥ अत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः । सुखेन ते नरा यान्ति यममार्गं भयावहम् ॥ ३॥ यः प्रदद्याद् द्विजेन्द्राणामुपानत्काष्ठपादुके । स नरोऽश्वेन महता सुखं याति यमालयम् ॥ ४॥ छत्रदानेन गच्छन्ति यथा छत्रेण देहिनः । शिबिकायाः प्रदानेन तद्रथेन सुखं व्रजेत् ॥ ५॥ शय्यासनप्रदानेन सुखं याति सुविश्रमम् । आरामच्छायाकर्तारो मार्गे वा वृक्षरोपकाः । व्रजन्ति यमलोकं च आतपेऽति गतक्लमाः ॥ ६॥ यान्ति पुष्पकयानेन पुष्पारामकरा नराः । देवायतनकर्तारः क्रीडन्ति च गृहोदरे ॥ ७॥ कर्तारश्च तथा ये च यतीनामाश्रमस्य च । अनाथमण्डपानां तु क्रीडन्ति च गृहोदरे ॥ ८॥ देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः । पूज्यमाना नरा यान्ति कामुकेन यथासुखम् ॥ ९॥ द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदायिनः । प्रतिश्रयप्रदानेन सुखं यान्ति निरामयाः ॥ १०॥ विश्राम्यमाणा गच्छन्ति गुरुशुश्रूषका नराः । आतोद्यविप्रदातारः सुखं यान्ति स्वके गृहे ॥ ११॥ सर्वकामसमृद्धेन यथा गच्छन्ति गोप्रदाः । अत्र दत्तान्नपानानि तान्याप्नोति नरः पथि ॥ १२॥ पादशौचप्रदानेन सजलेन पथा व्रजेत् । पादाभ्यङ्गं च यः कुर्यादश्वपृष्ठेन गच्छति ॥ १३॥ पादशौचं तथाभ्यङ्गं दीपमन्नं प्रतिश्रयम् । यो ददाति सदा व्यास नोपसर्पति तं यमः ॥ १४॥ हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् । रौप्यानडुत्प्रदानेन यमलोकं सुखेन सः ॥ १५॥ इत्येवमादिभिर्दानैः सुखं यान्ति यमालयम् । स्वर्गे तु विविधान्भोगान् प्राप्नुवन्ति सदा नराः ॥ १६॥ सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सद्यः प्रीतिकरं हृद्यं बलबुद्धिविवर्धनम् ॥ १७॥ नान्नदानसमं दानं विद्यते मुनिसत्तम । अन्नाद्भवन्ति भूतानि तदभावे म्रियन्ति च ॥ १८॥ रक्तं मांसं वसा शुक्रं क्रमादन्नात्प्रवर्धते । शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् ॥ १९॥ हेमरत्नाश्वनागेन्द्रैर्नारीस्रक्चन्दनादिभिः । समस्तैरपि सम्प्राप्तैर्न रमन्ति बुभुक्षिताः ॥ २०॥ गर्भस्था जायमानाश्च बालवृद्धाश्च मध्यमाः । आहारमभिकाङ्क्षन्ति देवदानवराक्षसाः ॥ २१॥ क्षुधा निःशेषरोगाणां व्याधिः श्रेष्ठतमः स्मृतः । स चान्नौषधिलेपेन नश्यतीह न संशयः ॥ २२॥ नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः । नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ २३॥ अन्त एव महत्पुण्यमन्नदाने प्रकीर्तितम् । तथा क्षुधाग्निना तप्ता म्रियन्ते सर्वदेहिनः ॥ २४॥ अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः । तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ॥ २५॥ यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसञ्चयम् । अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः ॥ २६॥ त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च । अन्नदानप्रदः सर्वमिहामुत्र च तल्लभेत् ॥ २७॥ धर्मार्थकाममोक्षाणां देहः परमसाधनम् । तस्मादन्नेन पानेन पालयेद्देहमात्मनः ॥ २८॥ अन्नमेव प्रशंसन्ति सर्वमन्ने प्रतिष्ठितम् । अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ २९॥ अन्नेन धार्यते सर्वं विश्वं जगदिदं मुने । अन्नमूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः ॥ ३०॥ दातव्यं भिक्षवे चान्नं ब्राह्मणाय महात्मने । कुटुम्बं पीडयित्वापि ह्यात्मनो भूतिमिच्छता ॥ ३१॥ विददाति निधिश्रेष्ठं यो दद्यादन्नमर्थिने । ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ॥ ३२॥ अर्चयेद्भूतिमन्विच्छन्काले द्विजमुपस्थितम् । श्रान्तमध्वनि वृत्त्यर्थं गृहस्थो गृहमागतम् ॥ ३३॥ अन्नदः पूजयेद् व्यास सुशीलस्तु विमत्सरः । क्रोधमुत्पतितं हित्वा दिवि चेह महत्सुखम् ॥ ३४॥ नाभिनिन्देदधिगतं न प्रणुद्यात्कथञ्चन । अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति ॥ ३५॥ श्रान्तायादृष्टपूर्वाय ह्यन्नमध्वनि वर्तते । यो दद्यादपरिक्लिष्टः स समृद्धिमवाप्नुयात ॥ ३६॥ पितॄन् देवांस्तथा विप्रानतिथींश्च महामुने । यो नरः प्रीणयत्यन्नैः तस्य पुण्यफलं महत् ॥ ३७॥ अन्नं पानं च शूद्रेऽपि ब्राह्मणे च विशिष्यते । न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च ॥ ३८॥ भिक्षितो ब्राह्मणेनेह दद्यादन्नं च यः पुमान् । स याति परमं स्वर्गं यावदाभूतसम्प्लवम् ॥ ३९॥ अन्नदस्य च वृक्षाश्च सर्वकामफलान्विताः । भवन्तीह यथा विप्रा हर्षयुक्तास्त्रिविष्टपे ॥ ४०॥ अन्नदानेन ये लोकाः स्वर्गे विरचिता मुने । अन्नदातुर्महादिव्यास्तान् श‍ृणुष्व महामुने ॥ ४१॥ भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् । नानासंस्थानरूपाणि नानाकामान्वितानि च ॥ ४२॥ सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः । हेमवाप्यः शुभाः कूपा दीर्घिकाश्चैव सर्वशः ॥ ४३॥ घोषयन्ति च पानानि शुभान्यथ सहस्रशः । भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ ४४॥ क्षीरं स्रवन्त्यः सरितस्तथैवाज्यस्य पर्वताः । प्रासादाः पाण्डुराभासाः शय्याश्च कनकोज्ज्वलाः ॥ ४५॥ तानन्नदाश्च गच्छन्ति तस्मादन्नप्रदो भवेत् । यदीच्छेदात्मनो भव्यमिह लोके परत्र च ॥ ४६॥ एते लोकाः पुण्यकृतामन्नदानां महाप्रभाः । तस्मादन्नं विशेषेण दातव्यं मानवैर्ध्रुवम् ॥ ४७॥ अन्नं प्रजापतिः साक्षादन्नं विष्णुः स्वयं हरः । तस्मादन्नसमं दानं न भूतं न भविष्यति ॥ ४८॥ कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् । विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ ४९॥ अन्नपानाश्वगोवस्त्रशय्याच्छत्रासनानि च । प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ॥ ५०॥ एवं दानविशेषेण धर्मराजपुरं नरः । यस्माद्याति विमानेन तस्माद्दानं समाचरेत् ॥ ५१॥ एतदाख्यानमनघमन्नदानप्रभावतः । यः पठेत्पाठयेदन्यान्स समृद्धः प्रजायते ॥ ५२॥ श‍ृणुयाच्छ्रावयेच्छ्राद्धे ब्राह्मणान्यो महामुने । अक्षय्यमन्नदानं च पितॄणामुपतिष्ठति ॥ ५३॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां अन्नदानमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ५.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१२. द्वादशोऽध्यायः । तपोमाहात्म्यवर्णनम् ।

सनत्कुमार उवाच । पानीयदानं परमं दानानामुत्तमं सदा । सर्वेषां जीवपुञ्जानां तर्पणं जीवनं स्मृतम् ॥ १॥ प्रपादानमतः कुर्यात् सुस्नेहादनिवारितम् । जलाश्रयविनिर्माणं महानन्दकरं भवेत् ॥ २॥ इह लोके परे वापि सत्यं सत्यं न संशयः । तस्माद्वापीश्च कूपांश्च तडागान् कारयेन्नरः ॥ ३॥ अर्धं पापस्य हरति पुरुषस्य विकर्मणः । कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः ॥ ४॥ सर्वं तारयते वंशं यस्य खाते जलाशये । गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ५॥ निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् । सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते ॥ ६॥ तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता । त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ७॥ अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् । कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ॥ ८॥ धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तडागः सुकृतो येन तस्य पुण्यमनन्तकम् ॥ ९॥ चतुर्विधानां भूतानां तडागः परमाश्रयः । तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ १०॥ देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ११॥ प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति । अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः ॥ १२॥ शरत्काले तु सलिलं तडागे यस्य तिष्ठति । गोसहस्रफलं तस्य भवेन्नैवात्र संशयः ॥ १३॥ हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १४॥ वसन्ते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति । अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः ॥ १५॥ मुने व्यासाथ वृक्षाणां रोपणे च गुणान् श‍ृणु । प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम् ॥ १६॥ अतीतानागतान् सर्वान् पितृवंशांस्तु तारयेत् । कान्तारे वृक्षरोपी यस्तस्माद् वृक्षांस्तु रोपयेत् ॥ १७॥ तत्र पुत्रा भवन्त्येते पादपा नात्र संशयः । परं लोकं गतः सोऽपि लोकानाप्नोति चाक्षयान् ॥ १८॥ पुष्पैः सुरगणान् सर्वान् फलैश्चापि तथा पितॄन् । छायया चातिथीन् सर्वान् पूजयन्ति महीरुहाः ॥ १९॥ किन्नरोरगरक्षांसि देवगन्धर्वमानवाः । तथैवर्षिगणाश्चैव संश्रयन्ति महीरुहान् ॥ २०॥ पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् । इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः ॥ २१॥ तडागकृद् वृक्षरोपी चेष्टयज्ञश्च यो द्विजः । एते स्वर्गान्न हीयन्ते ये चान्ये सत्यवादिनः ॥ २२॥ सत्यमेव परं ब्रह्म सत्यमेव परं तपः । सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥ २३॥ सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् । सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ॥ २४॥ तपो यज्ञश्च पुण्यं च देवर्षिपितृपूजने । आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम् ॥ २५॥ सत्यं यज्ञस्तपो दानं मन्त्रा देवी सरस्वती । ब्रह्मचर्यं तथा सत्यमोङ्कारः सत्यमेव च ॥ २६॥ सत्येन वायुरभ्येति सत्येन तपते रविः । सत्येनाग्निर्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २७॥ पालनं सर्ववेदानां सर्वतीर्थावगाहनम् । सत्येन वहते लोके सर्वमाप्नोत्यसंशयम् ॥ २८॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते ॥ २९॥ सत्येन देवाः पितरो मानवोरगराक्षसाः । प्रीयन्ते सत्यतः सर्वे लोकाश्च सचराचराः ॥ ३०॥ सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् । सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत् ॥ ३१॥ मुनयः सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् । सत्यधर्मरताः सिद्धाः ततः स्वर्गं च ते गताः ॥ ३२॥ अप्सरोगणसंविष्टैर्विमानैः परिमातृभिः । वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥ ३३॥ अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे । स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम् ॥ ३४॥ आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः । अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ ३५॥ वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः । नौ भान्त्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत् ॥ ३६॥ व्यास उवाच । तपसो मे फलं ब्रूहि पुनरेव विशेषतः । सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन ॥ ३७॥ सनत्कुमार उवाच । प्रवक्ष्यामि तपोऽध्यायं सर्वकामार्थसाधकम् । सुदुश्चरं द्विजातीनां तन्मे निगदतः श‍ृणु ॥ ३८॥ तपो हि परमं प्रोक्तं तपसा विद्यते फलम् । तपोरता हि ये नित्यं मोदन्ते सह दैवतैः ॥ ३९॥ तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः । तपसा प्राप्यते कामस्तपः सर्वार्थसाधनम् ॥ ४०॥ तपसा मोक्षमाप्नोति तपसा विन्दते महत् । ज्ञानविज्ञानसम्पत्तिः सौभाग्यं रूपमेव च ॥ ४१॥ नानाविधानि वस्तूनि तपसा लभते नरः । तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ४२॥ नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन । नातप्ततपसां प्राप्यः शङ्करः परमेश्वरः ॥ ४३॥ यत्कार्यं किञ्चिदास्थाय पुरुषस्तपते तपः । तत्सर्वं समवाप्नोति परत्रेह च मानवः ॥ ४४॥ सुरापः परदारी च ब्रह्महा गुरुतल्पगः । तपसा तरते सर्वं सर्वतश्च विमुञ्चति ॥ ४५॥ अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः । ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ४६॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । तपसा दिवि मोदन्ते समेता दैवतैः सह ॥ ४७॥ तपसा लभ्यते राज्यं स च शक्रः सुरेश्वरः । तपसापालयत्सर्वमहन्यहनि वृत्रहा ॥ ४८॥ सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ । तपसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा ॥ ४९॥ न चास्ति तत्सुखं लोके यद्विना तपसा किल । तपसैव सुखं सर्वमिति वेदविदो विदुः ॥ ५०॥ ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च । सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम् ॥ ५१॥ तपसा सृज्यते विश्वं ब्रह्मा विश्वं विना श्रमम् । पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ॥ ५२॥ विश्वामित्रो गाधिसुतस्तपसैव महामुने । क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवे त्विदम् ॥ ५३॥ इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् । श‍ृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम् ॥ ५४॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ ५.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१३. त्रयोदशोऽध्यायः । पुराणमाहात्म्यवर्णनम् ।

सनत्कुमार उवाच । तपस्तपति योऽरण्ये वन्यमूलफलाशनः । योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने ॥ १॥ श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः । तदध्यापनतश्चापि द्विगुणं फलमश्नुते ॥ २॥ जगद्यथा निरालोकं जायतेऽशशिभास्करम् । विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा ॥ ३॥ तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः । सम्बोधयति लोकं तं तस्मात् पूज्यः पुराणगः ॥ ४॥ सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् । पतनात् त्रायते यस्मात् तस्मात्पात्रमुदाहृतम् ॥ ५॥ मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन । पुराणज्ञः सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः ॥ ६॥ धनं धान्यं हिरण्यं च वासांसि विविधानि च । देयं पुराणविज्ञाय परत्रेह च शर्मणे ॥ ७॥ यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः । पात्राय शुभवस्तूनि स याति परमां गतिम् ॥ ८॥ महीं गां वा स्यन्दनांश्च गजानश्वांश्च शोभनान् । यः प्रयच्छति पात्राय तस्य पुण्यफलं श‍ृणु ॥ ९॥ अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि । अश्वमेधमखस्यापि स फलं लभते पुमान् ॥ १०॥ महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् । स तारयति वै वंश्यान्दश पूर्वान् दशापरान् ॥ ११॥ इह भुक्त्वाखिलान् कामानन्ते दिव्यशरीरवान् । विमानेन च दिव्येन शिवलोकं स गच्छति ॥ १२॥ न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि । बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ॥ १३॥ शम्भोरायतने यस्तु कारयेद्धर्मपुस्तकम् । विष्णोरर्कस्य कस्यापि श‍ृणु तस्यापि तत्फलम् ॥ १४॥ राजसूयाश्वमेधानां फलमाप्नोति मानवः । सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति ॥ १५॥ स्थित्वा कल्पशतान्यत्र राजा भवति भूतले । भुङ्क्ते निष्कण्टकं भोगान्नात्र कार्या विचारणा ॥ १६॥ अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत् ॥ १७॥ इतिहासपुराणाभ्यां शम्भोरायतने शुभे । नान्यत्प्रीतिकरं शम्भोस्तथान्येषां दिवौकसाम् ॥ १८॥ तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् । तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १९॥ पुराणश्रवणात् शम्भोर्निष्पापो जायते नरः । भुक्त्वा भोगान् सुविपुलान् शिवलोकमवाप्नुयात् ॥ २०॥ राजसूयेन यत्पुण्यमग्निष्टोमशतेन च । तत्पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ २१॥ सर्वतीर्थावगाहेन गवां कोटिप्रदानतः । तत् फलं लभते शम्भोः कथाश्रवणतो मुने ॥ २२॥ ये श‍ृण्वन्ति कथां शम्भोः सदा भुवनपावनीम् । ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ २३॥ श‍ृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् । पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ २४॥ गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः । कथां पौराणिकीं शैवीं भक्त्या श‍ृण्वन्तु ते सदा ॥ २५॥ कथां पौराणिकीं श्रोतुं यद्यशक्तः सदा भवेत् । नियतात्मा प्रतिदिनं श‍ृणुयाद्वा मुहूर्तकम् ॥ २६॥ यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् । पुण्यमासादिषु मुने श‍ृणुयाच्छाङ्करीं कथाम् ॥ २७॥ शैवीं कथां हि श‍ृण्वानः पुरुषो हि मुनीश्वर । स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २८॥ कथां शैवीं मुहूर्तं वा तदर्धं वा क्षणं च वा । ये श‍ृण्वन्ति नरा भक्त्या न तेषां दुर्गतिर्भवेत् ॥ २९॥ यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने । शम्भोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ ३०॥ विशेषतः कलौ व्यास पुराणश्रवणादृते । परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः ॥ ३१॥ पुराणश्रवणं शम्भोर्नामसङ्कीर्तनं तथा । कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः ॥ ३२॥ कलौ दुर्मेधसां पुंसां धर्माचारोज्झितात्मनाम् । हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ ३३॥ एकोऽजरामरः स्याद्वै पिबन्नेवामृतं पुमान् । शम्भोः कथामृतापानात् कुलमेवाजरामरम् ॥ ३४॥ या गतिः पुण्यशीलानां यज्विनां च तपस्विनाम् । सा गतिः सहसा तात पुराणश्रवणात्खलु ॥ ३५॥ ज्ञानावाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः । अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च ॥ ३६॥ पापं सङ्क्षीयते नित्यं धर्मश्चैव विवर्धते । पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते ॥ ३७॥ अतएव पुराणानि श्रोतव्यानि प्रयत्नतः । धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा ॥ ३८॥ यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया । तत्फलं समवाप्नोति पुराणश्रवणान्नरः ॥ ३९॥ न भवेयुः पुराणानि धर्ममार्गेक्षणानि तु । यद्यत्र यद् व्रती स्थाता कोऽत्र पारत्रिकीं कथाम् ॥ ४०॥ षड्विंशति पुराणानां मध्येऽप्येकं श‍ृणोति यः । पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः ॥ ४१॥ अन्यो न दृष्टः सुखदो हि मार्गः पुराणमार्गो हि सदा वरिष्ठः । शास्त्रं विना सर्वमिदं न भाति सूर्येण हीना इव जीवलोकाः ॥ ४२॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ५.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१४. चतुर्दशोऽध्यायः । सामान्यदानवर्णनम् ।

सनत्कुमार उवाच । शस्तानि घोरदानानि महादानानि नित्यशः । पात्रेभ्यस्तु प्रदेयानि आत्मानं तारयन्ति च ॥ १॥ हिरण्यदानं गोदानं भूमिदानं द्विजोत्तम । गृह्णन्तो वै पवित्राणि तारयन्ति स्वमेव तम् ॥ २॥ सुवर्णदानं गोदानं पृथिवीदानमेव च । एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते ॥ ३॥ तुलादानानि शस्तानि गावः पृथ्वी सरस्वती । द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती ॥ ४॥ नित्य ह्यनुडुहो गावच्छत्रं वस्त्रमुपानहौ । देयानि याचमानेभ्यः पानमन्नं तथैव च ॥ ५॥ सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते । अर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ॥ ६॥ कनकं च तिला नागाः कन्या दासी गृहं रथः । मणयः कपिला गावो महादानानि वै दश ॥ ७॥ गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा । वदान्यांस्तारयेत्सद्यो ह्यात्मानं च न संशयः ॥ ८॥ सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा । देवतास्तं प्रयच्छन्ति समन्तादिति मे श्रुतम् ॥ ९॥ अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः । तस्मात् सुवर्णं दत्त्वा च दत्ताः स्युः सर्वदेवताः ॥ १०॥ पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् । सौवर्णं च विशेषेण यत्कृतं पृथुना पुरा ॥ ११॥ दीयमानां प्रपश्यन्ति पृथ्वीं रुक्मसमन्विताम् । सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ॥ १२॥ अथान्यच्च प्रवक्ष्यामि दानं सर्वोत्तमं मुने । कान्तारं यन्न पश्यन्ति यमस्य बहुदुःखदम् ॥ १३॥ कुर्यात् कान्तारदानं हि विधिना शुद्धमानसः । न्यायार्जितेन द्रव्येण वित्तशाठ्यविवर्जितः ॥ १४॥ तिलप्रस्थमयीं कृत्वा धेनुं सर्वगुणान्विताम् । धेनुवत्सं सुवर्णं च सुदिव्यं सर्वलक्षणम् ॥ १५॥ पद्ममष्टदलं कृत्वा कुङ्कुमाक्ताक्षतैः शुभैः । पूजयेत्तत्र रुद्रादीन्सर्वान्देवान्सुभक्तितः ॥ १६॥ एवं सम्पूज्य तां दद्याद् ब्राह्मणाय स्वशक्तितः । सरत्नां सहिरण्यां च सर्वाभरणभूषिताम् ॥ १७॥ ततो नक्तं समश्नीयाद्दीपान् दद्यात्तु विस्तरात् । कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ॥ १८॥ एवं यः कुरुते सम्यग्विधानेन स्वशक्तितः । यममार्गभयं घोरं नरकं च न पश्यति ॥ १९॥ कृत्वा पापान्यशेषाणि सबन्धुः ससुहृज्जनः । दिवि सङ्क्रीडते व्यास यावदिन्द्राश्चतुर्दश ॥ २०॥ विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् । न तेन सदृशं व्यास परं दानं प्रकीर्तितम् ॥ २१॥ प्रयच्छते यः कपिलां सवत्सां स्वर्णश‍ृङ्गिकाम् । कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम् ॥ २२॥ तैस्तैर्गुणैः कामदुघा भूत्वा सा गौरुपैति तम् । प्रदातारं नरं व्यास परत्रेह च जन्मनि ॥ २३॥ यद्यदिष्टतमं लोके तदस्ति दयितं गृहे । तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ॥ २४॥ तुलापुरुषदानं हि दानानां दानमुत्तमम् । तुलासंरोहणं कार्यं यदीच्छेच्छ्रेय आत्मनः ॥ २५॥ यत्कृत्वा मुच्यते पापैर्वधबन्धकृतोद्भवैः । तुलादानं महत्पुण्यं सर्वपापक्षयङ्करम् ॥ २६॥ कृत्वा पापान्यशेषाणि तुलादानं करोति यः । सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम् ॥ २७॥ पापं कृतं यद्दिवसे निशायां द्विसन्ध्ययोर्मध्यदिने निशान्ते । कालत्रये कायमनोवचोभिः तुलापुमान्वै तदपाकरोति ॥ २८॥ बालेन वृद्धेन मया हि यूना विजानता ज्ञानपरेण पापम् । तत्सर्वमेवाशु कृतं मदीयं तुलापुमान् वै हरतु स्मरारिः ॥ २९॥ पात्रे प्रयुक्तं द्रविणं मयाद्य प्रमाणपूर्णं निहितं तुलायाम् । तेनैव सार्धं तु ममावशेषं कृताकृतं यत्सुकृतं समेतु ॥ ३०॥ सनत्कुमार उवाच । एवमुच्चार्य तं दद्यात् द्विजेभ्यः सर्वदा हितः । नैकस्यापि प्रदातव्यं न निस्तारस्ततो भवेत् ॥ ३१॥ ददात्येवं तु यो व्यास तुलापुरुषमुत्तमम् । हत्वा पापं दिव्यं तिष्ठेद्यावदिन्द्राश्चतुर्दश ॥ ३२॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्दशोऽध्यायः ॥ ५.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१५. पञ्चदशोऽध्यायः । पाताललोकवर्णनम् ।

व्यास उवाच । येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् । दानानां तन्ममाख्याहि मानुषाणां हितार्थतः ॥ १॥ सनत्कुमार उवाच । श‍ृणु काले प्रदत्ताद्वै फलं विन्दन्ति मानवाः । एकस्मादपि सर्वेषां दानानां तद्वदामि ते ॥ २॥ दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः । दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै ॥ ३॥ ब्रह्माण्डे सकले दत्ते यत्फलं लभते नरः । तदेकभावादाप्नोति सप्तलोकाधिपो भवेत् ॥ ४॥ यावच्चन्द्रदिवाकरौ नभसि वा यावत् स्थिरा मेदिनी तावत्सोऽपि नरः स्वबान्धवयुतः स्वर्गौकसामोकसि । सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडते पश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम् ॥ ५॥ व्यास उवाच । भगवन् ब्रहि ब्रह्माण्डं यत्प्रमाणं यदात्मकम् । यदाधारं यथाभूतं येन मे प्रत्ययो भवेत् ॥ ६॥ सनत्कुमार उवाच । मुने श‍ृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् । ब्रह्माण्डं तत्तु सङ्क्षेपाच्छ्रुत्वा पापात्प्रमुच्यते ॥ ७॥ यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् । तस्मात्सञ्जायते ब्रह्मा द्विधाभूताद्धि कालतः ॥ ८॥ ब्रह्माण्डं सृजति ब्रह्मा चतुर्दशभवात्मकम् । तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः ॥ ९॥ पातालानि तु सप्तैव भुवनानि तथोर्ध्वतः । उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च ॥ १०॥ तस्याधारः स्थितो नागः स च विष्णुः प्रकीर्तितः । ब्रह्मणो वचसां हेतोर्बिभर्ति सकलं त्विदम् ॥ ११॥ शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः । योऽनन्तः पठ्यते सिद्धैर्देवर्षिगणपूजितः ॥ १२॥ शिरः सहस्रयुक्तः स सर्वा विद्योतयन्दिशः । फणामणिसहस्रेण स्वस्तिकामलभूषणः ॥ १३॥ मदाघूर्णितनेत्रोऽसौ साग्निः श्वेत इवाचलः । स्रग्वी किरीटी ह्याभाति यः सदैवैककुण्डलः ॥ १४॥ साभ्रगङ्गाप्रवाहेण श्वेतशैलोपशोभितः । नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः ॥ १५॥ लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम् । योऽर्च्यते नागकन्याभिः स्वर्णवर्णाभिरादरात् ॥ १६॥ सङ्कर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः । कल्पान्ते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः । दग्ध्वा जगत्त्रयं शान्ता भवन्तीत्यनुशुश्रुमः ॥ १७॥ आस्ते पातालमूलस्थः सशेषः क्षितिमण्डलम् । बिभ्रत्स्वपृष्ठे भूतेशः शेषोऽशेषगुणार्चितः ॥ १८॥ तस्य वीर्यप्रभावश्च साकाङ्क्षैस्त्रिदशैरपि । न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा ॥ १९॥ आस्ते कुसुममालेव फणामणिशिखारुणा । यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति ॥ २०॥ यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः । तदा चलति भूरेषा साद्रितोयाधिकानना ॥ २१॥ दशसाहस्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव सुतलं च रसातलम् ॥ २२॥ तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् । भूमेरधः सप्तलोका इमे ज्ञेया विचक्षणैः ॥ २३॥ उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः । रत्नवन्तोऽथ प्रासादा भूमयो हेमसम्भवाः ॥ २४॥ तेषु दानवदैतेया नागानां जातयस्तथा । निवसन्ति महानागा राक्षसा दैत्यसम्भवाः ॥ २५॥ प्राह स्वर्गसदोमध्ये पातालानीति नारदः । स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि ॥ २६॥ नानाभूषणभूषाश्च मणयो यत्र सुप्रभाः । आह्लादकारिणः शुभ्राः पातालं केन तत्समम् ॥ २७॥ पाताले कस्य न प्रीतिरितश्चेतश्च शोभिते । देत्यदानवकन्याभिर्विमुक्तस्याभिजायते ॥ २८॥ दिवार्करश्मयो यत्र न भवन्ति विधोर्निशि । न शीतमातपो यत्र मणितेजोऽत्र केवलम् ॥ २९॥ भक्ष्यभोज्यान्नपानानि भुज्यन्ते मुदितैर्भृशम् । यत्र न ज्ञायते कालो गतोऽपि मुनिसत्तम ॥ ३०॥ पुंस्कोकिलरुतं यत्र पद्मानि कमलाकराः । नद्यः सरांसि रम्याणि मनोज्ञान्यम्बराणि च ॥ ३१॥ भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् । वीणावेणुमृदङ्गानां स्वना गेयानि च द्विज ॥ ३२॥ दैत्योरगैश्च भुज्यन्ते पाताले वै सुखानि च । तपसा समवाप्नोति दानवैः सिद्धमानवैः ॥ ३३॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने पाताललोकवर्णनं नाम पञ्चदशोऽध्यायः ॥ ५.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१६. षोडशोऽध्यायः । नरकोद्धारवर्णनम् ।

सनत्कुमार उवाच । तेषां मूर्धोपरिष्टाद्वै नरकांस्तान् श्रुणुष्व च । मत्तो मुनिवरश्रेष्ठ पच्यन्ते यत्र पापिनः ॥ १॥ रौरवः शूकरो रोधस्तालो विवसनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽपि विलोहितः ॥ २॥ वैतरणी पूयवहा कृमिशः कृमिभोजनः । असिपत्रवनं घोरं लालाभक्षश्च दारुणः ॥ ३॥ तथा पूयवहः प्रायो वन्हिज्वालो ह्यधःशिराः । सन्दंशः कालसूत्रश्च तमश्चावीचिरोधनः ॥ ४॥ श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली । इत्याद्या बहवस्तत्र नरका दुःखदायकाः ॥ ५॥ पच्यन्ते तेषु पुरुषाः पापकर्मरतास्तु ये । क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया श‍ृणु ॥ ६॥ कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः । सदानृतं वदेद्यस्तु स नरो याति रौरवम् ॥ ७॥ भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः । सुरापो ब्रह्महन्ता च परद्रव्यापहारकः ॥ ८॥ यस्तत्सङ्गी स वै याति मृतो व्यास गुरोर्वधात् । तप्तकुम्भे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा ॥ ९॥ साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी । तप्तलोहेषु पच्यन्ते यश्च भक्तं परित्यजेत् ॥ १०॥ अवमन्ता गुरूणां यः पश्चाद्भोक्ता नराधमः । देवदूषयिता चैव देवविक्रयिकश्च यः ॥ ११॥ अगम्यगामी यश्चान्ते याति सप्तबलं द्विज । चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा ॥ १२॥ देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः । स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टिकृत् ॥ १३॥ पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः । लालाभक्षं स यात्यज्ञो यः शास्त्रकूटकृन्नरः ॥ १४॥ यश्चान्त्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः । अयाज्ययाजकश्चैव तथैवाभक्ष्यभक्षकः ॥ १५॥ रुधिरौघे पतन्त्येते सोमविक्रयिणश्च ये । मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम् ॥ १६॥ नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये । ते कृम्यं यान्त्यशौचाश्च कुलटाजीविनश्च ये ॥ १७॥ असिपत्रवनं याति वृक्षच्छेदी वृथैव यः । क्षुरभ्रका मृगव्याधा वह्निज्वाले पतन्ति ते ॥ १८॥ भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च । यात्यन्ते द्विज तत्रैव यः श्वपाकेषु वह्निदः ॥ १९॥ व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये । सन्दंशयातनामध्ये पतन्ति भृशदारुणे ॥ ५.१६.२०॥ वीर्यं स्वप्नेषु स्कन्देयुर्ये नरा ब्रह्मचारिणः । पुत्रा नाध्यापिता यैश्च ते पतन्ति श्वभोजने ॥ २१॥ एते चान्ये च नरकाः शतशोऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२॥ तथैव पापान्येतानि तथान्यानि सहस्रशः । भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥ २३॥ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरये तु पतन्ति ते ॥ २४॥ अधःशिरोभिर्दृश्यन्ते नारका दिवि दैवतैः । देवानधोमुखान् सर्वानधः पश्यन्ति नारकाः ॥ २५॥ स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २६॥ यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २७॥ गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा । प्रायश्चित्तानि कालेय मनुः स्वायम्भुवोऽब्रवीत् ॥ २८॥ यानि तेषामशेषाणां कर्माण्युक्तानि तेषु वै । प्रायश्चित्तमशेषेण हरानुस्मरणं परम् ॥ २९॥ प्रायश्चित्तं तु तस्यैकं यस्य पुंसः प्रजायते । कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम् ॥ ३०॥ माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन् । प्रातर्निशि च सन्ध्यायां क्षीणपापो भवेन्नरः ॥ ३१॥ मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसङ्क्षयम् । शिवस्य स्मरणादेव तस्य शम्भोरुमापतेः ॥ ३२॥ पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च । भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम ॥ ३३॥ महेश्वरे मतिर्यस्य जपहोमार्चनादिषु । यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम् ॥ ३४॥ पुमान्न नरकं याति यः स्मरेद् भक्तितो मुने । अहर्निशं शिवं तस्मात् स क्षीणाशेषपातकः ॥ ३५॥ नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम । ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च ॥ ३६॥ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तत्स्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ॥ ३७॥ मनसः परिणामोऽयं सुखदुःखोपलक्षणः । ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते ॥ ३८॥ ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् । परविज्ञानतः किञ्चित् विद्यते न परं मुने ॥ ३९॥ एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् । अत ऊर्ध्वं प्रवक्ष्यामि साम्प्रतं मण्डलं भुवः ॥ ४०॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः ॥ ५.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१७. सप्तदशोऽध्यायः । जम्बूद्वीपवर्षवर्णनम् ।

सनत्कुमार उवाच । पाराशर्य सुसङ्क्षेपाच्छृणु त्वं वदतो मम । मण्डलं च भुवः सम्यक् सप्तद्वीपादिसंयुतम् ॥ १॥ जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रौञ्चश्च शाककः । पुष्करः सप्तमः सर्वे समुद्रैः सप्तभिर्वृताः ॥ २॥ लवणेक्षुरसौ सर्पिर्दधिदुग्धजलाशयाः । जम्बुद्वीपः समस्तानामेतेषां मध्यतः स्थितः ॥ ३॥ तस्यापि मेरुः कालेय मध्ये कनकपर्वतः । प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ॥ ४॥ चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः । भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ॥ ५॥ मूले षोडशसाहस्त्र कर्णिकाकारसंस्थितः । हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ॥ ६॥ नीलः श्वेतश्च श‍ृङ्गी च उत्तरे वर्षपर्वताः । दशसाहस्रिका ह्येते रत्नवन्तोऽरुणप्रभाः ॥ ७॥ सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते । भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ॥ ८॥ हरिवर्षं ततोऽन्यद्वै मेरोर्दक्षिणतो मुने । रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम् ॥ ९॥ उत्तरे कुरवश्चैव यथा वै भारतं तथा । नवसाहस्रमेकैकमेतेषां मुनिसत्तम ॥ १०॥ इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः । मेरोश्चतुर्दिशं तत्र नवसाहस्रमुच्छ्रितम् ॥ ११॥ इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः । विष्कम्भा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ॥ १२॥ पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ॥ १३॥ कदम्बो जम्बुवृक्षश्च पिप्पलो वट एव च । एकादशशतायामाः पादपा गिरिकेतवः ॥ १४॥ जम्बूद्वीपस्य नाम्नो वै हेतुं श‍ृणु महामुने । विराजन्ते महावृक्षास्तत्स्वभावं वदामि ते ॥ १५॥ महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १६॥ रसेन तेषां विख्याता तत्र जम्बूनदीति वै । परितो वर्तते तत्र पीयते तन्निवासिभिः ॥ १७॥ न स्वेदो न च दौर्गन्ध्यं न जरा चेन्द्रियग्रहः । तस्यास्तटे स्थितानां तु जनानां तन्न जायते ॥ १८॥ तीरमृत्स्नां च सम्प्राप्य सुखवायुविशोषिताम् । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १९॥ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ॥ २०॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः । विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २१॥ अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् । सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ॥ २२॥ शीताञ्जनः कुरुङ्गश्च कुररो माल्यवांस्तथा । एकैकप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ २३॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधः कपिलाद्याश्च दक्षिणे केसराचलाः ॥ २४॥ सिनीवासः कुसुम्भश्च कपिलो नारदस्तथा । नागादयश्च गिरयः पश्चिमे केसराचलाः ॥ २५॥ शङ्खचूडोऽथ ऋषभो हंसो नाम महीधरः । कालञ्जराद्याश्च तथा उत्तरे केसराचलाः ॥ २६॥ मेरोरुपरि मध्ये हि शातकौम्भं विधेः पुरम् । चतुर्दशसहस्राणि योजनानि च सङ्ख्यया ॥ २७॥ अष्टानां लोकपालानां परितस्तदनुक्रमात् । यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः ॥ २८॥ तस्यां च ब्रह्मणः पुर्यां प्लावयित्वेन्दुमण्डलम् । विष्णुपादविनिष्क्रान्ता गङ्गा पतति वै नदी ॥ २९॥ सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् । सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ ३०॥ सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे । सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत् ॥ ३१॥ गिरीनतीत्य सकलांश्चतुर्दिक्षु महाम्बुधिम् । सा ययौ प्रयता भूता गङ्गा त्रिपथगामिनी ॥ ३२॥ सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ । तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३३॥ भारतः केतुमालश्च भद्राश्वः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः ॥ ३४॥ जठरं देवकूटश्च आयामे दक्षिणोत्तरे । गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ ॥ ३५॥ पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः । दक्षिणोत्तरमायातौ कर्णिकान्तर्व्यवस्थितौ ॥ ३६॥ जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ । केसराः पर्वता एते श्वेताद्याः सुमनोरमाः ॥ ३७॥ शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः । सुरम्याणि तथा तासु काननानि पुराणि च ॥ ३८॥ सर्वेषां चैव देवानां यक्षगन्धर्वरक्षसाम् । क्रीडन्ति देवदैतेयाः शैलप्रायेष्वहर्निशम् ॥ ३९॥ धर्मिणामालया ह्येते भौमाः स्वर्गाः प्रकीर्तिताः । न तेषु पापकर्तारो यान्ति पश्यन्ति कुत्रचित् ॥ ४०॥ यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने । न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम् ॥ ४१॥ स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः । दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ४२॥ कृतत्रेतादिकाश्चैव भौमान्यम्भांसि सर्वतः । न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना ॥ ४३॥ सप्तस्वेतेषु नद्यश्च सुजाताः स्वर्णवालुकाः । शतशः सन्ति क्षुद्राश्च तासु क्रीडेच्छुभो जनः ॥ ४४॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१८. अष्टादशोऽध्यायः । सप्तद्वीपवर्णनम् ।

सनत्कुमार उवाच । वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे । उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ॥ १॥ नवयोजनसाहस्रो विस्तारोऽस्य महामुने । स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः ॥ २॥ अतः सम्प्राप्यते पुम्भिः स्वर्गो नरक एव च । भारतस्यापि वर्षस्य नव भेदान् ब्रवीमि ते ॥ ३॥ इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ४॥ अयं तु नवमस्तेषां द्वीपः सागरसम्भृतः । योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ॥ ५॥ पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः । पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः ॥ ६॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः । इज्यायुद्धपणासेवा वर्तयन्तो व्यवस्थिताः ॥ ७॥ महेन्द्रो मलयः सह्यः सुदामा चर्क्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ ८॥ वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने । सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि ॥ ९॥ नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः । विन्ध्योद्भवा महानद्यः सर्वपापहराः शुभाः ॥ १०॥ गोदावरीभीमरथीतापीप्रमुखनिम्नगाः । गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः ॥ ११॥ सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा । कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥ १२॥ त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । ऋषिकुल्या कुमार्याद्याः शुक्तिमत्पादसम्भवाः ॥ १३॥ नानाजनपदास्तेषु मण्डलेषु वसन्ति वै । आसां पिबन्ति पानीयं सरःसु विविधेषु च ॥ १४॥ चत्वारि भारते वर्षे युगान्यासन् महामुने । कृतादीनि न चान्येषु द्वीपेषु प्रभवन्ति हि ॥ १५॥ दानानि चात्र दीयन्ते सुकृतैश्चात्र याज्ञिकैः । तपस्तपन्ति यतयः परलोकार्थमादरात् ॥ १६॥ यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने । अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः ॥ १७॥ कदाचिल्लभते मर्त्यः सहस्रैर्मुनिसत्तम । अत्र जन्मसहस्राणां मानुष्यं पुण्यसञ्चयैः ॥ १८॥ स्वर्गापवर्गास्पदमार्गभूते धन्यास्तु ते भारतभूमिभागे । गायन्ति देवाः किल गीतकानि भवन्ति भूयः पुरुषाः सुरास्ते ॥ १९॥ विहृत्य शम्भोः परमात्मरूपे । फलानि सर्वाणि तु कर्मजानि यास्याम्यहं तत्तनुतां हि तस्य ॥ २०॥ आप्स्यन्ति धन्याः खलु ते मनुष्याः सुखैर्युताः कर्मणि सन्निविष्टाः । जनुर्हि येषां खलु भारतेऽस्ति ते स्वर्गमोक्षोभयलाभवन्तः ॥ २१॥ लक्षयोजनविस्तारः समस्तपरिमण्डलः । जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः ॥ २२॥ संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् । ततो हि द्विगुणो ब्रह्मन् प्लक्षद्वीपः प्रकीर्तितः ॥ २३॥ गोमन्तश्चैव चन्द्रश्च नारदो दर्दुरस्तथा । सोमकः सुमनाः शैलो वैभ्राजश्चैव सत्तमः ॥ २४॥ वर्षाचलेषु रम्येषु सहिताः सततं प्रजाः । वसन्ति देवगन्धर्वा वर्षेष्वेतेषु नित्यशः ॥ २५॥ नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् । दश वर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २६॥ अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा । अमृता सुकृता चैव सप्तैवात्र च निम्नगाः ॥ २७॥ क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः । ताः पिबन्ति सुसंहृष्टा नदीर्जनपदास्तु ते ॥ २८॥ न तत्रापि युगावस्था यथा स्थानेषु सप्तसु । त्रेतायुगसमः कालः सर्वदैव महामुने ॥ २९॥ विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम । कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः ॥ ३०॥ प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम । इज्यते तत्र भगवान् शङ्करो लोकशङ्करः ॥ ३१॥ हरिश्च भगवान् ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः । सङ्क्षेपेण तथा भूयः शाल्मलिं त्वं निशामय ॥ ३२॥ सप्तवर्षाणि तत्रैव तेषां नामानि मे श‍ृणु । श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥ ३३॥ वैकलो मानसश्चैव सुप्रभः सप्तमो मुने । शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः ॥ ३४॥ द्विगुणेन समुद्रेण सततं संवृतः स्थितः । वर्षाभिव्यञ्जका नद्यस्तासां नामानि मे श‍ृणु ॥ ३५॥ शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना । निवृत्तिः सप्तमी तासां पुण्यतोयाः सुशीतलाः ॥ ३६॥ सप्तैव तानि वर्षाणि चतुर्वर्णैर्युतानि च । भगवन्तं सदा शम्भुं यजन्ते विविधैर्मखैः ॥ ३७॥ देवानां तत्र सान्निध्यमतीव सुमनोरमे । एष द्वीपः समुद्रेण सुरोदेन समावृतः ॥ ३८॥ द्विगुणेन कुशद्वीपः समन्ताद् बाह्यतः स्थितः । वसन्ति तत्र दैतेया मनुजैः सह दानवाः ॥ ३९॥ तथैव देवगन्धर्वा यक्षाः किम्पुरुषादयः । वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः ॥ ४०॥ तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्दनम् । यजन्ति च तथेशानं सर्वकामफलप्रदम् ॥ ४१॥ कुशेशयो हरिश्चैव द्युतिमान् पुष्पवांस्तथा । मणिद्रुमो हेमशैलः सप्तमो मन्दराचलः ॥ ४२॥ नद्यश्च सप्त तासां तु नामानि श‍ृणु तत्त्वतः । धूतपापा शिवा चैव पवित्रा सम्मितिस्तथा ॥ ४३॥ विद्या दम्भा मही चान्या सर्वपापहरास्त्विमाः । अन्याः सहस्रशः सन्ति शुभापो हेमवालुकाः ॥ ४४॥ कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः । क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् ॥ ४५॥ द्विगुणेन समुद्रेण दधिमण्डेन चावृतः । वर्षाचला महाबुद्धे तेषां नामानि मे श‍ृणु ॥ ४६॥ क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः । दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः ॥ ४७॥ निवसन्ति निरातङ्का वर्षशैलेषु तेषु वै । सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः ॥ ४८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः । सन्ति तत्र महानद्यः सप्तान्यास्तु सहस्रशः ॥ ४९॥ गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । शान्तिश्च पुण्डरीका च याः पिबन्ति पयः शुभम् ॥ ५०॥ भगवान् पूज्यते तत्र योगरुद्रस्वरूपवान् । दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ ५१॥ द्विगुणेनाद्रयः सप्त तेषां नामानि मे श‍ृणु । पूर्वे तत्रोदयगिरिर्जलधारः परे यतः ॥ ५२॥ पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी । शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः ॥ ५३॥ तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ ५४॥ सुकुमारी कुमारी च नलिनी वेणुका तथा । इक्षुश्च रेणुका चैव गभस्तिः सप्तमी तथा ॥ ५५॥ अन्याः सहस्रशस्तत्र क्षुद्रनद्यो महामुने । महीधरास्तथा सन्ति शतशोऽथ सहस्रशः ॥ ५६॥ धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः । वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम् ॥ ५७॥ शाकद्वीपे तु वै सूर्यः प्रीत्या जनपदैः सदा । यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ ५८॥ क्षीरोदेनावृतः सोऽपि द्विगुणेन समन्ततः । क्षीराब्धिः सर्वतो व्यास पुष्कराख्येन संवृतः ॥ ५९॥ द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः । योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥ ६०॥ तानि चैव तु लक्षाणि सर्वतो वलयाकृतिः । पुष्करद्वीपवलयं मध्येन विभजन्निव ॥ ६१॥ तेनैव वलयाकारा द्वीपवर्षसमाकृतिः । दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ ६२॥ निरामया वीतशोका रागद्वेषविवर्जिताः । अधर्मो न मतस्तेषां न बन्धवधकौ मुने ॥ ६३॥ सत्यानृते न तस्यास्तां सदैव वसतिः सदा । तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः ॥ ६४॥ वर्षश्चायं तु कालेय भौमः स्वर्गोपमोपमः । सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ ६५॥ पुष्करे धातकीखण्डे महावीते महामुने । न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ ६६॥ तस्मिन्निवसते ब्रह्मा पूज्यमानः सुरासुरैः । स्वादूदकेनाम्बुधिना पुष्करः परिवेष्टितः ॥ ६७॥ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः ॥ ६८॥ उक्तातिरिक्तता तेषां समुद्रेषु समानि वै । पयांसि सर्वदाल्पत्वं जायन्ते न कदाचन ॥ ६९॥ स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तम । तथेन्दुवृद्धौ सलिलमूर्ध्वगं भवति ध्रुवम् ॥ ७०॥ उदयास्तमने त्विन्दोर्वर्धन्त्यापो ह्रसन्ति च । अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः ॥ ७१॥ अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम् । समुद्राणां मुनिश्रेष्ठ सर्वेषां कथितं तव ॥ ७२॥ भोजनं पुष्करद्वीपे प्रजाः सर्वाः सदैव हि । खण्डस्य कुर्वते विप्र तत्र स्वयमुपस्थितम् ॥ ७३॥ स्वादूदकस्य पुरतो नास्ति लोकस्य संस्थितिः । सौवर्णी द्विगुणा भूमिः सर्वजन्तुविवर्जिता ॥ ७४॥ लोकालोकस्ततः शैलः सहस्राण्यचलो हि सः । उच्छ्रयेण हि तावन्ति योजनायुतविस्तृतः ॥ ७५॥ तमश्चाण्डकटाहेन सेयमुर्वी महामुने । पञ्चाशत्कोटिविस्तारा सद्वीपा समहीधरा ॥ ७६॥ आधारभूता सर्वेषां सर्वभूतगुणाधिका । सेयं धात्री च कालेय सर्वेषां जगतामिला ॥ ७७॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तद्वीपवर्णनं नामाष्टादशोऽध्यायः ॥ ५.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.१९. एकोनविशोऽध्यायः । लोकवर्णनम् ।

सनत्कुमार उवाच । रविचन्द्रमसोर्यावन्मयूखा भासयन्ति हि । तावत्प्रमाणा पृथिवी भूलोकः स तु गीयते ॥ १॥ भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् । योजनानां सहस्राणि सदैव परिसङ्ख्यया ॥ २॥ शशिनस्तु प्रमाणाय जगतः परिचक्षते । रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसङ्ख्यया ॥ ३॥ ग्रहाणां मण्डलं कृत्स्नं विधोरुपरि संस्थितम् । सनक्षत्रं सहस्राणि दशैव परितोपरि ॥ ४॥ बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम् । बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः ॥ ५॥ सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् । ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ॥ ६॥ मेढीभूतः स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । भूर्भुवः स्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक् ॥ ७॥ एकयोजनकोटिस्तु यत्र ते कल्पवासिनः । ध्रुवादूर्ध्वं महर्लोकः सप्तैते ब्रह्मणः सुताः ॥ ८॥ सनकश्च सनन्दश्च तृतीयश्च सनातनः । कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ॥ ९॥ उपरिष्टात्ततः शुक्रो द्विलक्षाभ्यन्तरे स्थितः । द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ॥ १०॥ द्विलक्षयोजनं तस्मादूर्ध्वं भौमः स्थितो मुने । द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरुः ॥ ११॥ द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः । एते सप्त ग्रहाः प्रोक्ताः स्व स्व राशौ व्यवस्थिता ॥ १२॥ रुद्रलक्षैर्योजनतः सप्तोर्ध्वमृषयः स्थिताः । विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ॥ १३॥ चतुर्गुणोत्तरे चार्धे जनलोकात्तपः स्मृतम् । वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ॥ १४॥ षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः । ब्रह्मलोकः स विज्ञेयो वसन्त्यमलचेतसः ॥ १५॥ सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः । यद्गामिनोऽथ भूलोकान्निवसन्ति हि मानवाः ॥ १६॥ भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः । स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ॥ १७॥ विश्वेदेवास्तथा रुद्राः साध्या नागाः खगादयः । नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ॥ १८॥ एते सप्त महालोकाः कालेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ॥ १९॥ दधिवृक्षफलं यद्वद् वृत्तिश्चोर्ध्वमधस्तथा । एतदण्डकटाहेन सर्वतो वै समावृतम् ॥ २०॥ दशगुणेन पयसा सर्वतस्तत्समावृतम् । वह्निना वायुना चापि नभसा तमसा तथा ॥ २१॥ भूतादिनापि महता दिग्गुणोत्तरवेष्टितः । महान्तं च समावृत्य प्रधानं पुरुषः स्थितः ॥ २२॥ अनन्तस्य न तस्यास्ति सङ्ख्यापि परमात्मनः । तेनानन्त इति ख्यातः प्रमाणं नास्ति वै यतः ॥ २३॥ हेतुभूतः समस्तस्य प्रकृतिः सा परा मुने । अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २४॥ ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः । दारुण्यग्निस्तिले तैलं पयःसु च यथा घृतम् ॥ २५॥ तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः । आदिबीजात्प्रसुवते ततस्तेभ्यः परेऽण्डजाः ॥ २६॥ तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः । महदादियोविशेषान्तास्तद्भवन्ति सुरादयः ॥ २७॥ बीजाद् वृक्षप्ररोहेण यथा नापचयस्तरोः । सूर्यकान्तमणेः सूर्याद्यद्वद्वह्निः प्रजायते ॥ २८॥ तद्वत्सञ्जायते सृष्टिः शिवस्तत्रः न कामयेत् । शिवशक्तिसमायोगे देवाद्याः प्रभवन्ति हि ॥ २९॥ तथा स्वकर्मणैकेन प्ररोहमुपयान्ति वै । ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ॥ ३०॥ तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति । कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ॥ ३१॥ व्यास उवाच । सनत्कुमार सर्वज्ञ छिन्धि मे संशयं महत् । सन्ति लोका हि ब्रह्माण्डादुपरिष्टान्न वा मुने ॥ ३२॥ सनत्कुमार उवाच । ब्रह्माण्डादुपरिष्टाच्च सन्ति लोका मुनीश्वर । तान् श‍ृणु त्वं विशेषेण वच्मि तेऽहं समागतः ॥ ३३॥ विधिलोकात्परो लोको वैकुण्ठ इति विश्रुतः । विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ॥ ३४॥ तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः । सेनानीः शम्भुतनयो राजते यत्र सुप्रभः ॥ ३५॥ ततः परमुमालोको महादिव्यो विराजते । यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ॥ ३६॥ परात्परा हि प्रकृती रजःसत्त्वतमोमयी । निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ॥ ३७॥ तस्योपरिष्टाद्विज्ञेयः शिवलोकः सनातनः । अविनाशी महादिव्यो महाशोभान्वितः सदा ॥ ३८॥ विराजते परं ब्रह्म यत्र शम्भुर्महेश्वरः । त्रिदेवजनकः स्वामी सर्वेषां त्रिगुणात्परः ॥ ३९॥ तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः । गोमातरः सुशीलाख्यास्तत्र सन्ति शिवप्रिया ॥ ४०॥ तत्पालः कृष्णनामा हि राजते शङ्कराज्ञया । प्रतिष्ठितः शिवेनैव शक्त्या स्वच्छन्दचारिणा ॥ ४१॥ शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः । तथानिर्वचनीयश्च नानावस्तुविराजितः ॥ ४२॥ शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः । विष्णुब्रह्महरैः सेव्यः परमात्मा निरञ्जनः ॥ ४३॥ इति ते कथिता तात सर्वब्रह्माण्डसंस्थितिः । तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि ॥ ४४॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनं नामैकोनविंशोऽध्यायः ॥ ५.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२०. विंशोऽध्यायः । मनुविशेषकथनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम । यद् गत्वा न निवर्तन्ते शिवभक्तियुता नराः ॥ १॥ सनत्कुमार उवाच । पराशरसुत व्यास श‍ृणु प्रीत्या शुभां गतिम् । व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम् ॥ २॥ ये शिवं शुद्धकर्माणः सुशुद्धतपसान्विताः । समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम् ॥ ३॥ नातप्ततपसो यान्ति शिवलोकमनामयम् । शिवानुग्रहसद्धेतुस्तप एव महामुने ॥ ४॥ तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः । ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः ॥ ५॥ सुदुर्द्धरं दुराराध्यं सुदूरं दुरतिक्रमम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ६॥ सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा । देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम् ॥ ७॥ येन येन हि भावेन स्थित्वा यत्क्रियते तपः । ततः सम्प्राप्यतेऽसौ तैरिह लोके न संशयः ॥ ८॥ सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् । विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम् ॥ ९॥ सात्त्विकं दैवतानां हि यतीनामूर्ध्वरेतसाम् । राजसं दानवानां हि मनुष्याणां तथैव च । तामसं राक्षसानां हि नराणां क्रूरकर्मणाम् ॥ १०॥ त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः । जपो ध्यानं तु देवानामर्चनं भक्तितः शुभम् ॥ ११॥ सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् । इह लोके परे चैव मनोऽभिप्रेतसाधनम् ॥ १२॥ कामनाफलमुद्दिश्य राजसं तप उच्यते । निजदेहं सुसम्पीड्य देहशोषकदुःसहैः ॥ १३॥ तपस्तामसमुद्दिष्टं मनोऽभिप्रेतसाधनम् ॥ १४॥ उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला । स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम् ॥ १५॥ व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दानं क्षान्तिर्दमो दया ॥ १६॥ वापीकूपतडागादेः प्रासादस्य च कल्पना । कृच्छ्रं चान्द्रायणं यज्ञः सुतीर्थान्याश्रमाः पुनः ॥ १७॥ धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् । सुधर्मः परमो व्यास शिवभक्तेश्च कारणम् ॥ १८॥ सङ्क्रान्तिविषुवद्योगो नादमुक्ते नियुज्यताम् । ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा ॥ १९॥ रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः । नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम् ॥ २०॥ तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम् । पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम् ॥ २१॥ काष्ठावस्था मृतावस्था हरिता वेति कीर्तिताः । नानोपलब्धयो ह्येताः सर्वपापप्रणाशनाः ॥ २२॥ नारी शय्या तथा पानं वस्त्रधूपविलेपनम् । ताम्बूलभक्षणं पञ्च राजैश्वर्यविभूतयः ॥ २३॥ हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः । पाण्डित्यं वेदशास्त्राणां गीतनृत्यविभूषणम् ॥ २४॥ शङ्खवीणामृदङ्गाश्च गजेन्द्रः छ्त्रचामरे । भोगरूपाणि चैतानि एभिः सक्तोऽनुरज्यते ॥ २५॥ आदर्शवन्मुने स्नेहैस्तिलवत्स निपीड्यते । अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः ॥ २६॥ जानन्नपीह संसारे भ्रमते घटियन्त्रवत् । सर्वयोनिषु दुःखार्तः स्थावरेषु चरेषु च ॥ २७॥ एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त । कालान्तरवशाद्याति मानुष्यमतिदुर्लभम् ॥ २८॥ व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् । विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ॥ २९॥ मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् । नाचरत्यात्मनः श्रेयः स मृतः शोचते चिरम् ॥ ३०॥ देवासुराणां सर्वेषां मानुष्यं चातिदुर्लभम् । तत्सम्प्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥ ३१॥ स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः । दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम् ॥ ३२॥ सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् । सम्प्राप्य धर्मतो व्यास तद्यत्नादनुपालयेत् ॥ ३३॥ धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् । यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः ॥ ३४॥ मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् । नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः ॥ ३५॥ द्वीपानामेव सर्वेषां कर्मभूरियमुच्यते । इतः स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः ॥ ३६॥ देशेऽस्मिन् भारते वर्षे प्राप्य मानुष्यमध्रुवम् । न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वञ्चितः ॥ ३७॥ कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता । इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते ॥ ३८॥ यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत् । अस्वस्थश्चोदितोऽप्यन्यैर्न किञ्चित्कर्तुमुत्सहेत् ॥ ३९॥ अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् । ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ॥ ४०॥ आयुषः खण्डखण्डानि निपतन्ति तदग्रतः । अहोरात्रोपदेशेन किमर्थं नावबुध्यते ॥ ४१॥ यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति । आकस्मिके हि मरणे धृतिं विन्दति कस्तथा ॥ ४२॥ परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् । न ददाति कदा कस्मात्पाथेयार्थमिदं धनम् ॥ ४३॥ गृहीतदानपाथेयः सुखं याति यमालयम् । अन्यथा क्लिश्यते जन्तुः पाथेयरहिते पथि ॥ ४४॥ येषां कालेय पुण्यानि परिपूर्णानि सर्वतः । गच्छतां स्वर्गदेशं हि तेषां लाभः पदे पदे ॥ ४५॥ इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् । पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत् ॥ ४६॥ ये मनागपि देवेशं प्रपन्नाः शरणं शिवम् । तेऽपि घोरं न पश्यन्ति यमं न नरकं तथा ॥ ४७॥ किन्तु पापैर्महामोहैः किञ्चित्काले शिवाज्ञया । वसन्ति तत्र मानुष्यास्ततो यान्ति शिवास्पदम् ॥ ४८॥ ये पुनः सर्वभावेन प्रतिपन्ना महेश्वरम् । न ते लिम्पन्ति पापेन पद्मपत्रमिवाम्भसा ॥ ४९॥ उक्तं शिवेति यैर्नाम तथा हर हरेति च । न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम ॥ ५०॥ परलोकस्य पाथेयं मोक्षोपायमनामयम् । पुण्यसङ्घैकनिलयं शिव इत्यक्षरद्वयम् ॥ ५१॥ शिवनामैव संसारमहारोगैकशामकम् । नान्यत्संसाररोगस्य शामकं दृश्यते मया ॥ ५२॥ ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः । शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ॥ ५३॥ तस्माद्विवर्धयेद्भक्तिमीश्वरे सततं बुधः । शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विन्दति ॥ ५४॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ॥ ५.२०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२१. एकविंशोऽध्यायः । रणफलवर्णनम् ।

व्यास उवाच । ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद् ब्राह्मणो भवेत् । ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः ॥ १॥ पद्भ्यां शूद्रः समुत्पन्न इति तस्य मुखात् श्रुतिः । किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद ॥ २॥ सनत्कुमार उवाच । दुष्कृतेन तु कालेय स्थानाद् भ्रश्यन्ति मानवाः । श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥ ३॥ यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते । ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते ॥ ४॥ अधर्मसेवनान्मूढस्तथैव परिवर्तते । जन्मान्तरसहस्राणि तमस्याविशते यतः ॥ ५॥ तस्मात्प्राप्य परं स्थानं प्रमाद्येन्न तु नाशयेत् । स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः ॥ ६॥ ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते । भोज्याभोज्यं न जानाति स पुमान् क्षत्रियो भवेत् ॥ ७॥ कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते । तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥ ८॥ शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् । यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा ॥ ९॥ कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् । यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि ॥ १०॥ अग्निहोत्रमुपादाय शेषान्नकृतभोजनः । स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥ ११॥ क्षत्रियो जायते यज्ञैः संस्कृतैरात्तदक्षिणैः । अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा ॥ १२॥ आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् । ऋतुकालाभिगामी च स्वभार्यां धर्मतत्परः ॥ १३॥ सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति । गोब्राह्मणात्मनोऽर्थं हि सङ्ग्रामाभिहतो भवेत् ॥ १४॥ तेनाग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत् । विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ॥ १५॥ स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः । प्राप्यते विपुलः स्वर्गो देवानामपि वल्लभः ॥ १६॥ ब्राह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः । ब्राह्मण्यात्सकलं प्राप्य मोक्षं चापि मुनीश्वर ॥ १७॥ तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः । साधनं सर्ववर्गस्य रक्षेद् ब्राह्मण्यमुत्तमम् ॥ १८॥ व्यास उवाच । सङ्ग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम । एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर ॥ १९॥ सनत्कुमार उवाच । अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् ॥ २०॥ इति तत्त्वविदः प्राहुर्यज्ञकर्मविदः सदा । तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् ॥ २१॥ धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च । यः शूरो वाञ्छते युद्धं विमृदन् परवाहिनीम् ॥ २२॥ तस्य धर्मार्थकामाश्च यज्ञश्चैव सदक्षिणः । परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति ॥ २३॥ विष्णुलोके स जायेत यश्च युद्धेऽपराजितः । अश्वमेधानवाप्नोति चतुरो न मृतः स चेत् ॥ २४॥ यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनीमुखे । सम्मुखो वर्तते शूरः स स्वर्गान्न निवर्तते ॥ २५॥ राजा वा राजपुत्रो वा सेनापतिरथापि वा । हतः क्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत् ॥ २६॥ यावन्ति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे । तावतो लभते लोकान् सर्वकामदुघाऽक्षयान् ॥ २७॥ वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा । सर्वदा भवति व्यास इह लोके परत्र च ॥ २८॥ गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च । ये मृतास्ते सुखं यान्ति यथा सुकृतिनस्तथा ॥ २९॥ यः कश्चिद् ब्राह्मणं हत्वा पश्चात्प्राणान् परित्यजेत् । तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते ॥ ३०॥ क्रव्यादैर्दन्तिभिश्चैव हतस्य गतिरुत्तमा । द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया ॥ ३१॥ शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि । आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः ॥ ३२॥ युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् । सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥ ३३॥ भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् । यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् ॥ ३४॥ आततायिनमायान्तमपि वेदान्तङगं द्विजम् । जिघांसन्तं जिघांसेत्तु न तेन ब्रह्महा भवेत् ॥ ३५॥ हन्तव्योऽपि न हन्तव्यः पानीयं यश्च याचते । रणे हत्वातुरा व्यास स नरो ब्रह्महा भवेत् ॥ ३६॥ व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम् । धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत् ॥ ३७॥ एवं विचार्य सद्धीमान् भवेत्प्रीत्याः रणप्रियः । स जन्मनः फलं प्राप्य परत्रेह प्रमोदते ॥ ३८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ॥ ५.२१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२२. द्वाविंशोऽध्यायः । देहोत्पत्तिवर्णनम् ।

व्यास उवाच । विधिं तात वदेदानीं जीवजन्म विधानतः । गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ॥ १॥ सनत्कुमार उवाच । श‍ृणु व्यास समासेन शास्त्रसारमशेषतः । वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबन्धकृत् ॥ २॥ पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम् । अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि ॥ ३॥ जलस्याधः स चाग्निर्हि स्थितोऽग्निं धमते शनैः । वायुना धम्यमानोऽग्निरत्युष्णं कुरुते जलम् ॥ ४॥ तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः । द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः ॥ ५॥ मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत् । रसस्तु देहे सरति स पुष्टस्तेन जायते ॥ ६॥ कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः । मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ॥ ७॥ हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समन्ततः । ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ॥ ८॥ तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयेत् रसम् । रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ॥ ९॥ पुनः प्रयान्ति सम्पूर्णाः ताश्च देहं समन्ततः । ततः स नाडीमध्यस्थः शरीरेणात्मना रसः ॥ १०॥ पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः । त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते ॥ ११॥ रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः । स्नायुतश्च तथास्थीनि नखा मज्जास्थिसम्भवाः ॥ १२॥ मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम् । इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः ॥ १३॥ शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य सम्भवः । ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् ॥ १४॥ तदा तद् वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् । विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ॥ १५॥ संवृतः प्रविशेद्योनिं कर्मभिः स्वैर्नियोजितः । तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् ॥ १६॥ पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् । बुद्बुदः सप्तरात्रेण मांसपेशी भवेत् पुनः ॥ १७॥ ग्रीवा शिरश्च स्कन्धौ च पृष्ठवंशस्तथोदरम् । पाणिपादं तथा पार्श्वे कटिर्गात्रं तथैव च ॥ १८॥ द्विमासाभ्यन्तरेणैव क्रमशः शम्भवेदिह । त्रिभिर्मासैः प्रजायन्ते सर्वे ह्यङ्कुरसन्धयः ॥ १९॥ मासैश्चतुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम् । मुखं नासा च कर्णौ मासैः पञ्चभिरेव च ॥ ५.२२.२०॥ दन्तपङ्क्तिस्तथा गुह्यं जायन्ते च नखाः पुनः । कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यन्तरेण तु ॥ २१॥ पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते । सन्धयो ये च गात्रेषु मासैर्जायन्ति सप्तभिः ॥ २२॥ अङ्गप्रत्यङ्गसम्पूर्णः परिपक्वः स तिष्ठति । उदरे मातुराच्छन्नो जरायौ मुनिसत्तम ॥ २३॥ मातुराहारचौर्येण षड्विधेन रसेन तु । नाभिनालनिबद्धेन वर्द्धते स दिने दिने ॥ २४॥ ततः स्मृतिं लभेज्जीवः सम्पूर्णेऽस्मिन् शरीरके । सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ॥ २५॥ मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायोनिसहस्राणि मया दृष्टानि जायता ॥ २६॥ अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च । श्रेयोऽमुना करिष्यामि येन गर्भे न सम्भवः ॥ २७॥ गर्भस्थश्चिन्तयन्नेवमहं गर्भाद्विनिःसृतः । अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ॥ २८॥ एवं स गर्भदुःखेन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयन् ॥ २९॥ यथा गिरिवराक्रान्तः कश्चिद्दुःखेन तिष्ठति । तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥ ३०॥ पतितः सागरे यद्वद्दुःखमास्ते समाकुलः । गर्भोदकेन सिक्ताङ्गः सर्वदाकुलितस्तदा ॥ ३१॥ लोहकुम्भे यथा न्यस्तः पच्यते कश्चिदग्निना । गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ॥ ३२॥ सूचीभिरग्निवर्णाभिर्निर्भिन्नस्य निरन्तरम् । यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ॥ ३३॥ गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् । देहिनां दुःखबहुलं सुघोरमतिसङ्कटम् ॥ ३४॥ इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् । केवलं धर्मबुध्दीनां सप्तमासैर्भवः सदा ॥ ३५॥ गर्भात्सुदुर्लभं दुःखं योनियन्त्रनिपीडनात् । भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ॥ ३६॥ इक्षुवत्पीड्यमानस्य यन्त्रेणैव समन्ततः । शिरसा ताड्यमानस्य पापमुद्गरकेण च ॥ ३७॥ यन्त्रेण पीडिता यद्वन्निःसाराः स्स्युस्तिलाः क्षणात् । तथा शरीरं निस्सारं योनियन्त्रनिपीडनात् ॥ ३८॥ अस्थिपादतुलास्तम्भं स्नायुबन्धेन यन्त्रितम् । रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ॥ ३९॥ केशरोमनखच्छन्नं रोगायतनमातुरम् । वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ॥ ४०॥ ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम् । भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ॥ ४१॥ संवर्तिताङ्गप्रत्यङ्गं जरायुपरिवेष्टितम् । सङ्कटेनाविविक्तेन योनिमार्गेण निर्गतम् ॥ ४२॥ विण्मूत्ररक्तसिक्ताङ्गं विकोशिकसमुद्भवम् । अस्थिपञ्जरविख्यातमस्मिन् ज्ञेयं कलेवरम् ॥ ४३॥ शतत्रयं षष्ट्यधिकं पञ्च पेशीशतानि च । सार्धाभिस्तिसृभिश्छन्नं समन्ताद्रोमकोटिभिः ॥ ४४॥ शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्या हि ताः स्मृताः । एतावतीभिर्नाडीभिः कोटिभिस्तत्समन्ततः ॥ ४५॥ अस्वेदमधुभिर्याभिरन्तस्थः स्रवते बहिः । द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ॥ ४६॥ पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् । वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ॥ ४७॥ पञ्चार्द्धं तु तुला ज्ञेया पलानि दश मेदसः । पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ॥ ४८॥ शुक्रोऽर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् । मांसस्य चैकपिण्डेन पलसाहस्रमुच्यते ॥ ४९॥ रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणतः । अञ्जलयश्च चत्वारश्चत्वारो मुनिसत्तम ॥ ५०॥ इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः । अविशुद्धं विशुद्धस्य कर्मबन्धाद्विनिर्मितम् ॥ ५१॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ॥ ५.२२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२३. त्रयोविंशोऽध्यायः । देहाशुचित्वबाल्याद्यवस्थादुःखवर्णनम् ।

सनत्कुमार उवाच । श‍ृणु व्यास महाबुद्धे देहस्याशुचितां मुने । महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ॥ १॥ शुक्रशोणितसंयोगाद्देहः सञ्जायते यतः । नित्यं विण्मूत्रसम्पूर्णस्तेनायमशुचिः स्मृतः ॥ २॥ यथान्तर्विष्ठया पूर्णः शुचिमान्न बहिर्घटः । शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ॥ ३॥ सम्प्राप्याति पवित्राणि पञ्चगव्यं हवींषि च । अशुचित्वं क्षणाद्यान्ति किमन्यदशुचिस्ततः ॥ ४॥ हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च । अशुचित्वं प्रयान्त्याशु किमन्यदशुचिस्ततः ॥ ५॥ हे जनाः किन्न पश्यन्ति यन्निर्याति दिने दिने । स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ॥ ६॥ देहः सशोध्यमानोऽपि पञ्चगव्यकुशाम्बुभिः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ७॥ स्रोतांसि यस्य सततं प्रभवन्ति गिरेरिव । कफमूत्रपुरीषाद्यैः स देहः शुध्यते कथम् ॥ ८॥ सर्वाशुचिनिधानस्य शरीरस्य न विद्यते । शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ॥ ९॥ सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः । तथाप्यशुचिभाण्डस्य न विभ्रश्यति किं करः ॥ १०॥ कायः सुगन्धधूपाद्यैर्यत्नेनापि सुसंस्कृतः । न जहाति स्वभावं स श्वपुच्छमिव नामितम् ॥ ११॥ यथा जात्यैव कृष्णोर्थः शुक्लः स्स्यान्नह्युपायतः । संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ॥ १२॥ जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि स्वकं मलम् । न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ॥ १३॥ अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् । शीघ्रं पश्यन् स्वकं दोषं कायस्य न विरज्यते ॥ १४॥ स्वदेहस्य विगन्धेन न विरज्येत यो नरः । विरागकारणं तस्य किमेतदुपदिश्यते ॥ १५॥ सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् । तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ १६॥ गन्धलेपापनोदार्थ शौचं देहस्य कीर्तितम् । द्वयस्यापगमाच्छुद्धिः शुद्धस्पर्शाद्विशुध्यति ॥ १७॥ गङ्गातोयेन सर्वेण मृद्भारैः पर्वतोपमैः । आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ॥ १८॥ तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति । श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ॥ १९॥ अन्तर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् । न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ॥ २०॥ सर्वेण गाङ्गेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः । आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः ॥ २१॥ प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महान्तम् । प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत् ॥ २२॥ गङ्गादितीर्थेषु वसन्ति मत्स्या देवालये पक्षिगणाश्च नित्यम् । भावोज्झितास्ते न फलं लभन्ते तीर्थावगाहाच्च तथैव दानात् ॥ २३॥ भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु । अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ॥ २४॥ मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु । अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ॥ २५॥ पश्यध्वमस्य भावस्य महाभाग्यमशेषतः । परिष्वक्तोऽपि यन्नार्या भावहीनं न कामयेत् ॥ २६॥ नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च । यदि चिन्तां समाधत्ते चित्ते कामादिषु त्रिषु ॥ २७॥ गृह्यते तेन भावेन नरो भावाद्विमुच्यते । भावतः शुचि शुद्धात्मा स्वर्गं मोक्षं च विन्दति ॥ २८॥ भावेनैकात्मशुद्धात्मा दहन् जुह्वन् स्तुवन् मृतः । ज्ञानावाप्तेरवाप्याशु लोकान् सुबहुयाजिनाम् ॥ २९॥ ज्ञानामलाम्भसा पुंसां सद्वैराग्यमृदा पुनः । अविद्यारागविण्मूत्रलेपगन्धविशोधनम् ॥ ३०॥ एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् । त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम् ॥ ३१॥ ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलो भवेत् । देहभोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः ॥ ३२॥ सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते । संसारङ्कदलीसारदृढग्राह्यवतिष्ठते ॥ ३३॥ एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् । पुंसामज्ञानदोषेण नानाकर्मवशेन च ॥ ३४॥ श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । ममेति परमं दुःखं न ममेति परं सुखम् ॥ ३५॥ बहवोऽपीह राजानः परं लोकमितो गताः । निर्ममत्वसमेतास्तु बद्धाः शतसहस्रशः ॥ ३६॥ गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति । सम्मूर्छितेन दुःखेन योनियन्त्रनिपीडनात् ॥ ३७॥ बाह्येन वायुना वास्य मोहसङ्गेन देहिनः । स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ॥ ३८॥ तेन ज्वरेण महता सम्मोहश्च प्रजायते । सम्मूढस्य स्मृतिभ्रंशः शीघ्रं सञ्जायते पुनः ॥ ३९॥ स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नो पूर्वकर्मणः । रतिः सञ्जायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥ ४०॥ रक्तो मूढश्च लोकोऽयं न कार्ये सम्प्रवर्तते । न चात्मानं विजानाति न परं न च दैवतम् ॥ ४१॥ न श‍ृणोति परं श्रेयः सति कर्णेऽपि सन्मुने । न पश्यति परं श्रेयः सति चक्षुषि तत्क्षमे ॥ ४२॥ समे पथि शनैर्गच्छन् स्खलतीव पदे पदे । सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥ ४३॥ संसारे क्लिश्यते तेन गर्भलोभवशानुगः । गर्भस्मृतेन पापेन समुज्झितमतिः पुमान् ॥ ४४॥ इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु । तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम् ॥ ४५॥ ये सत्यस्मिन् शिवे ज्ञाने सर्वकामार्थसाधने । न कुर्वन्त्यात्मनः श्रेयस्तदेव महदद्भुतम् ॥ ४६॥ अव्यक्तेन्द्रियवृत्तित्वाद् बाल्ये दुःखं महत्पुनः । इच्छन्नपि न शक्नोति वक्तुं कर्तुं प्रतिक्रियाम् ॥ ४७॥ दन्तोत्थाने महद्दुःखमल्पेन व्याधिना तथा । बालरोगैश्च विविधैः पीडा बालग्रहैरपि ॥ ४८॥ क्वचित्क्षुत्तृट्परीताङ्गः क्वचित्तिष्ठति संरटन् । विण्मूत्रभक्षणाद्यं च मोहाद् बालः समाचरेत् ॥ ४९॥ कौमारे कर्णपीडायां मातापित्रोश्च साधनैः । अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते ॥ ५०॥ बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः । न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ ५१॥ प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात् । तदप्राप्ते तु सततं कुतः सौख्यं तु यौवने ॥ ५२॥ ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च । नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम् ॥ ५३॥ न रात्रौ विन्दते निद्रां कामाग्निपरिवेदितः । दिवापि च कुतः सौख्यमर्थोपार्जनचिन्तया ॥ ५४॥ स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः । ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ॥ ५५॥ कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च । कण्डूयनाभितापेन यद्भवेत् स्त्रीषु तद्विदः ॥ ५६॥ यादृशं मन्यते सौख्यं गण्डे पूतिविनिर्गमात् । तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ॥ ५७॥ विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम् । तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा ॥ ५८॥ नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु च । नाणुमात्रं सुखं तासु कथितं पञ्चचूडया ॥ ५९॥ सम्माननावमानाभ्यां वियोगेनेष्टसङ्गमात् । यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम् ॥ ६०॥ वलीपलितखालित्यैः शिथिलिकृतविग्रहम् । सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम् ॥ ६१॥ स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा । तदेव जरया ग्रस्तमनयोरपि न प्रियम् ॥ ६२॥ अपूर्ववत्स्वमात्मानं जरया परिवर्तितम् । यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः ॥ ६३॥ जराभिभूतः पुरुषः पुत्रीपुत्रादिबान्धवैः । असक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते ॥ ६४॥ धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः । अशक्तः साधितुं तस्माद्युवा धर्मं समाचरेत् ॥ ६५॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहाशुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२४. चतुर्विंशोऽध्यायः । स्त्रीस्वभाववर्णनम् ।

व्यास उवाच । कुत्सितं योषिदर्थं यत्सम्प्रोक्तं पञ्चचूडया । तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने ॥ १॥ सनत्कुमार उवाच । स्त्रीणां स्वभावं वक्ष्यामि श‍ृणु विप्र यथातथम् । यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ॥ २॥ स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने । तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ॥ ३॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥ ४॥ लोकान् परिचरन् धीमान् देवर्षिर्नारदः पुरा । ददर्शाप्सरसं बालां पञ्चचूडामनुत्तमाम् ॥ ५॥ पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः । संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥ ६॥ एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा । विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ॥ ७॥ नारद उवाच । न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन । स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ॥ ८॥ सनत्कुमार उवाच । एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा । प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ॥ ९॥ पञ्चचूडोवाच । मुने श‍ृणु न शक्या स्त्री सती वै निन्दितुं स्त्रिया । विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ॥ १०॥ न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् । इत्युक्त्वा साभवत्तूष्णीं पञ्चचूडाप्सरोवरा ॥ ११॥ अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् । प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ॥ १२॥ नारद उवाच । मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते । इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ॥ १३॥ सनत्कुमार उवाच । इत्युक्ता सा कृतमती रभसा चारुहासिनी । स्त्रीदोषान् शाश्वतान्सत्यान् भाषितुं सम्प्रचक्रमे ॥ १४॥ पञ्चचूडोवाच । कुलीना नाथवन्त्यश्च रूपवन्त्यश्च योषितः । मर्यादाषु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ १५॥ न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति हि । स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ॥ १६॥ समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् । पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥ १७॥ असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो । पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥ १८॥ स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १९॥ अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ २०॥ नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः । सुरूपं वा कुरूपं वा पुमांसमुपभुञ्जते ॥ २१॥ न भयादथ वाक्रोशान्नार्थहेतोः कथञ्चन । न ज्ञातिकुलसम्बन्धात् स्त्रियस्तिष्ठन्ति भर्तृषु ॥ २२॥ यौवने वर्तमानानामिष्टाभरणवाससाम् । नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ २३॥ या हि शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः । अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ॥ २४॥ पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः । स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ॥ २५॥ यदि पुंसां गतिर्ब्रह्मन् कथञ्चिन्नोपपद्यते । अप्यन्योऽन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥ २६॥ अलाभात्पुरुषाणां च भयात्परिजनस्य च । वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ॥ २७॥ चलस्वभाव दुश्चेष्टा दुर्गाह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात् ॥ २८॥ नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ २९॥ इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः ॥ ३०॥ सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् । योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम् ॥ ३१॥ कायानामपि दातारं कर्त्तारं मानसान्त्वयोः । रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ ३२॥ न कामभोगात्परमान्नालङ्कारार्थसञ्चयात् । तथा हितं न मन्यन्ते यथा रतिपरिग्रहात् ॥ ३३॥ अन्तकः शमनो मृत्युः पातालं वडवामुखम् । क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ ३४॥ यतश्च भूतानि महान्ति पञ्च यतश्च लोको विहितो विधात्रा । यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद ॥ ३५॥ सनत्कुमार उवाच । इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः । तथ्यं मत्वा ततस्तद्वै विरक्तोऽभूद्धि तासु च ॥ ३६॥ इत्युक्तः स्त्रीस्वभावस्ते पञ्चचूडोक्त आदरात् । वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि ॥ ३७॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥ ५.२४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२५. पञ्चविंशोऽध्यायः । कालज्ञानवर्णनम् ।

व्यास उवाच । सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने । स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ॥ १॥ सनत्कुमार उवाच । इदमेव पुरापृच्छत् पार्वती परमेश्वरम् । श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ॥ २॥ पार्वत्युवाच । भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् । यथार्चनं तु ते देव यैर्मन्त्रैश्च यथाविधि ॥ ३॥ अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो । मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ॥ ४॥ सर्वं कथय मे नाथ यद्यहं तव वल्लभा । इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ॥ ५॥ ईश्वर उवाच । सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये । येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥ ६॥ अहः पक्षं तथा मासमृतुं चायनवत्सरौ । स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरन्तर्गतैस्तथा ॥ ७॥ तत्तेऽहं सम्प्रवक्ष्यामि श‍ृणु तत्त्वेन सुन्दरि । लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ॥ ८॥ अकस्मात्पाण्डुरं देहमूर्ध्वरागं समन्ततः । तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ ९॥ मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत् । तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ १०॥ रौरवानुगतं भद्रे ध्वनिं नाकर्णयेद् द्रुतम् । षण्मासाभ्यन्तरे मृत्युर्ज्ञातव्यः कालवेदिभिः ॥ ११॥ रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति । कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ॥ १२॥ वामहस्तो यदा देवि सप्ताहं स्पन्दते प्रिये । जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १३॥ उन्मीलयन्ति गात्राणि तालुकं शुष्यते यदा । जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १४॥ नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् । वक्त्रं कण्ठं च शुष्येत षण्मासान्ते गतायुषः ॥ १५॥ स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यन्ति भामिनि । षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत् ॥ १६॥ अम्बुतैलघृतस्थं तु दर्पणे वरवर्णिनि । न पश्यति यदात्मानं विकृतं पलमेव च ॥ १७॥ षण्मासायुः स विज्ञेयः कालचक्रं विजानता । अन्यच्च श‍ृणु देवेशि येन मृत्युर्विबुद्ध्यते ॥ १८॥ शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् । अथवा छायया हीनो मासमेकं न जीवति ॥ १९॥ आङ्गिकानि मयोक्तानि मृत्युचिह्नानि पार्वति । बाह्यस्थानि ब्रुवे भद्रे चिह्नानि श‍ृणु साम्प्रतम् ॥ २०॥ रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम् । दृश्यते पाटलाकारं मासार्धेन विपद्यते ॥ २१॥ अरुन्धतीं महायानमिन्दुं लक्षणवर्जितम् । अदृष्टतारको योऽसौ मासमेकं स जीवति ॥ २२॥ दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम् । उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम् ॥ २३॥ रात्रौ धनुर्यदा पश्येन्मध्याह्ने चोल्कपातनम् । वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः ॥ २४॥ ऋषयः स्वर्गपन्थाश्च दृश्यन्ते नैव चाम्बरे । षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ॥ २५॥ अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च । दिक्चक्रं भ्रान्तवत्पश्येत्षण्मासान्म्रियते स्फुटम् ॥ २६॥ नीलाभिर्मक्षिकाभिश्च ह्यकस्माद् वेष्ट्यते पुमान् । मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ॥ २७॥ गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति । शीघ्रं तु म्रियते जन्तुर्मासैकेन न संशयः ॥ २८॥ एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः । मानुषाणां हितार्थाय सङ्क्षेपेण वदाम्यहम् ॥ २९॥ हस्तयोरुभयोर्देवि यथा कालं विजानते । वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ॥ ३०॥ एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुन्दरि । शुचिर्भूत्वा स्मरन्देवं सुस्नातः संयतेन्द्रियः ॥ ३१॥ हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् । गन्धैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ॥ ३२॥ कनिष्ठामादितः कृत्वा यावदङ्गुष्ठकं प्रिये । पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ॥ ३३॥ प्रतिपदादि विन्यस्य तिथिं प्रतिपदादितः । सम्पुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ॥ ३४॥ स्मरेन्नवात्मकं मन्त्रं यावदष्टोत्तरं शतम् । निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ॥ ३५॥ तस्मिन्पर्वणि सा रेखा दृश्यते भृङ्गसन्निभा । तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ॥ ३६॥ अधुना नादजं वक्ष्ये सङ्क्षेपात्काललक्षणम् । गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ॥ ३७॥ आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः । क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ॥ ३८॥ मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् । अब्दं युगं तथा कल्पं महाकल्पं तथैव च ॥ ३९॥ एवं स हरते कालः परिपाट्या सदाशिवः । वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ॥ ४०॥ दिनानि पञ्च चारभ्य पञ्चविंशद्दिनावधि । वामाचारगतौ नादः प्रमाणं कथितं तव ॥ ४१॥ भूतरन्ध्रं दिशश्चैव ध्वजश्च वरवर्णिनि । वामचारगतौ नादः प्रमाणं कालवेदिनः ॥ ४२॥ ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि । प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ॥ ४३॥ भूतसङ्ख्या यदा प्राणान्वहन्ते च इडादयः । वर्षस्याभ्यन्तरे तस्य जीवितं हि न संशयः ॥ ४४॥ दशघस्रप्रवाहेण ह्यब्दमानं स जीवति । पञ्चदशप्रवाहेण ह्यब्दमेकं गतायुषम् ॥ ४५॥ विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा । पञ्चविंशद्दिनमितं वहते वामनाडिका ॥ ४६॥ जीवितं तु तदा तस्य त्रिमासं हि गतायुषः । षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ॥ ४७॥ सप्तविंशद्दिनमितं वहते त्वत्यविश्रमा । मासमेकं समाख्यातं जीवितं वामगोचरे ॥ ४८॥ एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः । सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ॥ ४९॥ चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः । तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः ॥ ५०॥ षड्दिनान्यादितः कृत्वा सङ्ख्यायाश्च यथाविधि । एतदन्तर्गते चैव वामरन्ध्रे प्रकाशितम् ॥ ५१॥ षड्दिनानि यदा रूढं द्विवर्षं च स जीवति । मासानष्टौ विजानीयाद्दिनान्यष्टौ च तानि तु ॥ ५२॥ प्राणाः सप्तदशे चैव विद्धि वर्षं न संशयः । सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ॥ ५३॥ अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति । चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधि ॥ ५४॥ यदा नवदिनं प्राणा वहन्त्येव त्रिमासकम् । मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः ॥ ५५॥ पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम् । अवान्तरदिना ये तु तेन मासेन कथ्यते ॥ ५६॥ एकादशप्रवाहेण वर्षमेकं स जीवति । मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ॥ ५७॥ द्वादशेन प्रवाहेण वर्षमेकं स जीवति । मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ॥ ५८॥ नाडी यदा च वहति त्रयोदशदिनावधि । संवत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ॥ ५९॥ चतुर्विशद्दिनं शेषं जीवितं च न संशयः । प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ॥ ६०॥ संवत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः । चतुर्विंशद्दिनान्येव जीवितं च न संशयः ॥ ६१॥ पञ्चदशप्रवाहेण नव मासान्स जीवति । चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ॥ ६२॥ षोडशाहप्रवाहेण दशमासान्स जीवति । चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ॥ ६३॥ सप्तदशप्रवाहेण नवमासैर्गतायुषम् । अष्टादश दिनान्यत्र कथितं साधकेश्वरि ॥ ६४॥ वामचारं यदा देवि ह्यष्टादशदिनावधिः । जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ॥ ६५॥ चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय । प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ॥ ६६॥ चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे । चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति ॥ ६७॥ दिनान्यत्र दशाष्टौ स संहरन्त्येव चारतः । अवान्तरदिने यस्तु सङ्क्षेपात्ते प्रकीर्तिताः ॥ ६८॥ वामचारः समाख्यातो दक्षिणं श‍ृणु साम्प्रतम् । अष्टाविंशप्रवाहेण तिथिमानेन जीवति ॥ ६९॥ प्रवाहेण दशाहेन तत्संस्थेन विपद्यते । त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते ॥ ७०॥ एकत्रिंशद्यदा देवि वहते च निरन्तरम् । दिनत्रयं तदा तस्य जीवितं हि न संशयः ॥ ७१॥ द्वात्रिंशत्प्राणसङ्ख्या च यदा हि वहते रविः । तदा तु जीवितं तस्य द्विदिनं हि न संशयः ॥ ७२॥ दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते । एकभागगतो वायुप्रवाहो मुखमण्डले ॥ ७३॥ धावमानप्रवाहेण दिनमेकं स जीवति । चक्रमेतत्परासोर्हि पुराविद्भिरुदाहृतम् ॥ ७४॥ एतत्ते कथितं देवि कालचक्रं गतायुषः । लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ॥ ७५॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालज्ञानवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ५.२५॥ ५.२६ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२६. षड्विंशोऽध्यायः । कालवञ्चनवर्णनम् ।

देव्युवाच । कथितं तु त्वया देव कालज्ञानं यथार्थतः । कालस्य वञ्चनं ब्रूहि यथा तत्त्वेन योगिनः ॥ १॥ कालस्तु सन्निकृष्टो हि वर्तते सर्वजन्तुषु । यथा चास्य न मृत्युश्च वञ्चते कालमागतम् ॥ २॥ तथा कथय मे देव प्रीतिं कृत्वा ममोपरि । योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद ॥ ३॥ शङ्कर उवाच । श‍ृणु देवि प्रवक्ष्यामि पृष्टोऽहं यत्त्वया शिवे । समासेन च सर्वेषां मानुषाणां हितार्थतः ॥ ४॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । एतेषां हि समायोगः शरीरं पाञ्चभौतिकम् ॥ ५॥ आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः । आकाशे तु विलीयन्ते सम्भवन्ति पुनस्ततः ॥ ६॥ वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे । तस्या न स्थिरता चास्ति सन्निपातस्य सुन्दरि ॥ ७॥ ज्ञानिनोऽपि तथा तत्र तपोमन्त्रबलादपि । ते सर्वे सुविजानन्ति सर्वमेतन्न संशयः ॥ ८॥ देव्युवाच । खं तेन यन्नश्यति घोररूपः कालः करालस्त्रिदिवैकनाथः । दग्धस्त्वया त्वं पुनरेव तुष्टः स्तोत्रैः स्तुतः स्वां प्रकृतिं स लेभे ॥ ९॥ त्वया स चोक्तः कथया जनाना- मदृष्टरूपः प्रचरिष्यसीति । दृष्टस्त्वया तत्र महाप्रभावः प्रभोर्वरात्ते पुनरुत्थितश्च ॥ ५.२६.१०॥ तदद्य भोः काल इहास्थि किञ्चित् निहन्यते येन वदस्व तन्मे । त्वं योगिवर्यः प्रभुरात्मतन्त्रः परोपकारात्ततनुर्महेश ॥ ११॥ शङ्कर उवाच । न हन्यते देववरैस्तु दैत्यैः सयक्षरक्षोरगमानुषैश्च । ये योगिनो ध्यानपराः सदेहा भवन्ति ते घ्नन्ति सुखेन कालम् ॥ १२॥ सनत्कुमार उवाच । एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य सत्यं त्वं मे वद कथमसौ हन्यते येन कालः । शम्भुस्तामाह सद्यो हिमकरवदने योगिनो ये क्षिपन्ति कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ताः ॥ १३॥ शङ्कर उवाच । पञ्चभूतात्मको देहः सदा युक्तस्तु तद्गुणैः । उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः ॥ १४॥ आकाशाज्जायते वायुर्वायोस्तेजश्च जायते । तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत् ॥ १५॥ पृथिव्यादीनि भूतानि गच्छन्ति क्रमशः परम् । धरा पञ्चगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः ॥ १६॥ त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च । शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम् ॥ १७॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते ॥ १८॥ तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते । एवं जानीहि देवेशि पञ्चभूतानि तत्त्वतः ॥ १९॥ तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः । चिन्तनीयाः प्रयत्नेन देवि कालजिगीषुणा ॥ ५.२६.२०॥ देव्युवाच । कथं जेजीयते कालो योगिभिर्योगवित्प्रभो । ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे ॥ २१॥ शङ्कर उवाच । श‍ृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया । परज्ञानप्रकथनं न देयं यस्य कस्यचित् ॥ २२॥ श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते । अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि ॥ २३॥ सुश्वासेन सुशय्यायां योगं युञ्जीत योगवित् । दीपं विनान्धकारे तु प्रजाः सुप्तेषु धारयेत् ॥ २४॥ तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम् । तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः ॥ २५॥ सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि । सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून् ॥ २६॥ यश्चोपलक्षयेन्नित्यमाकारं घटिकाद्वयम् । जित्वा मृत्युं तथा कामं स्वेच्छया पर्यटेदिह ॥ २७॥ सर्वज्ञः सर्वदर्शी च सर्वसिद्धिमवाप्नुयात् । यथा नदति खेऽब्दो हि प्रावृडद्भिः सुसंयतः ॥ २८॥ तं श्रुत्वा मुच्यते योगी सद्यः संसारबन्धनात् । ततः स योगिभिर्न्नित्यं सूक्ष्मात्सूक्ष्मतरो भवेत् ॥ २९॥ एष ते कथितो देवि शब्दब्रह्मविधिक्रमः । पलालमिव धान्यार्थी त्यजेद्बन्धमशेषतः ॥ ५.२६.३०॥ शब्दब्रह्म त्विदं प्राप्य ये केचिदन्यकाङ्क्षिणः । घ्नन्ति ते मुष्टिनाकाशं कामयन्ते क्षुधां तृषाम् ॥ ३१॥ ज्ञात्वा परमिदं ब्रह्म सुखदं मुक्तिकारणम् । अबाह्यमक्षरं चैव सर्वोपाधिविवर्जितम् ॥ ३२॥ मोहिताः कालपाशेन मृत्युपाशवशङ्गताः । शब्दब्रह्म न जानन्ति पापिनस्ते कुबुद्धयः ॥ ३३॥ तावद् भ्रमन्ति संसारे यावद्धाम न विन्दते । विदिते तु परे तत्त्वे मुच्यते जन्मबन्धनात् ॥ ३४॥ निद्रालस्यं महाविघ्नं जित्वा शत्रुं प्रयत्नतः । सुखासने स्थितो नित्यं शब्दब्रह्माभ्यसन्निति ॥ ३५॥ शतवृद्धः पुमांल्लब्ध्वा यावदायुः समभ्यसेत् । मृत्युञ्जयवपुस्तम्भ आरोग्यं वायुवर्द्धनम् ॥ ३६॥ प्रत्ययो दृश्यते वृद्धे किं पुनस्तरुणे जने । न चोङ्कारो न मन्त्रोऽपि नैव बीजं न चाक्षरम् ॥ ३७॥ अनाहतमनुच्चार्यं शब्दब्रह्म शिवं परम् । ध्यायन्ते देवि सततं सुधियो यत्नतः प्रिये ॥ ३८॥ तस्माच्छब्दा नव प्रोक्ताः प्राणविद्भिस्तु लक्षिताः । तान् प्रवक्ष्यामि यत्नेन नादसिद्धिमनुक्रमात् ॥ ३९॥ घोषं कांस्यं तथा श‍ृङ्गं घण्टां वीणादिवंशजान् । दुन्दुभिं शङ्खशब्दं तु नवमं मेघगर्जितम् ॥ ५.२६.४०॥ नव शब्दान् परित्यज्य तुङ्कारं तु समभ्यसेत् । ध्यायन्नेवं सदा योगी पुण्यैः पापैर्न लिप्यते ॥ ४१॥ न श‍ृणोति यदा श‍ृण्वन्योगाभ्यासेन देविके । म्रियतेऽभ्यसमानस्तु योगी तिष्ठेद्दिवानिशम् ॥ ४२॥ तस्मादुत्पद्यते शब्दो मृत्युजित्सप्तभिर्दिनैः । स वै नवविधो देवि तं ब्रवीमि यथार्थतः ॥ ४३॥ प्रथमं नदते घोषमात्मशुद्धिकरं परम् । सर्वव्याधिहरं नादं वश्याकर्षणमुत्तमम् ॥ ४४॥ द्वितीयं नदते कांस्यं स्तम्भयेत् प्राणिनां गतिम् । विषं भूतग्रहान् सर्वान् बध्नीयान्नात्र संशयः ॥ ४५॥ तृतीयं नदते श‍ृङ्गमभिचारि नियोजयेत् । विद्विडुच्चाटने शत्रोर्मारणे च प्रयोजयेत् ॥ ४६॥ घण्टानादं चतुर्थं तु वदते परमेश्वरः । आकर्षः सर्वदेवानां किं पुनर्मानुषा भुवि ॥ ४७॥ यक्षगन्धर्वकन्याश्च तस्याकृष्टा ददन्ति हि । यथेप्सितां महासिद्धिं योगिने कामतोऽपि वा ॥ ४८॥ वीणा तु पञ्चमो नादः श्रूयते योगिभिः सदा । तस्मादुत्पद्यते देवि दूरादर्शनमेव हि ॥ ४९॥ ध्यायतो वंशनादं तु सर्वतत्त्वं प्रजायते । दुन्दुभिं ध्यायमानस्तु जरामृत्युविवर्जितः ॥ ५.२६.५०॥ शङ्खशब्देन देवेशि कामरूपं प्रपद्यते । योगिनो मेघनादेन न विपत्सङ्गमो भवेत् ॥ ५१॥ यश्चैकमनसा नित्यं तुङ्कारं ब्रह्मरूपिणम् । किमसाध्यं न तस्यास्ति यथामति वरानने ॥ ५२॥ सर्वज्ञः सर्वदर्शी च कामरूपी व्रजत्यसौ । न विकारैः प्रयुज्येत शिव एव न संशयः ॥ ५३॥ एतत्ते परमेशानि शब्दब्रह्मस्वरूपकम् । नवधा सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ५४॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवञ्चनवर्णनं नाम षड्विंशोऽध्यायः ॥ ५.२६॥ ५.२७ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२७. सप्तविंशोऽध्यायः । कालवञ्चनशिवप्राप्तिवर्णनम् ।

देव्युवाच । वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् । तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ॥ १॥ शङ्कर उवाच । पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया । कालं जिगाय यः सम्यग्वायोर्लिङ्गं यथा भवेत् ॥ २॥ तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः । स जयत्यागतं कालं मासार्धेनैव सुन्दरि ॥ ३॥ हृत्स्थो वायुः सदा वह्नेर्दीपकः सोऽनुपावकः । स बाह्याभ्यन्तरो व्यापी वायुः सर्वगतो महान् ॥ ४॥ ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते । येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ॥ ५॥ धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया । योगी योगरतः सम्यग्धारणाध्यानतत्परः ॥ ६॥ लोहकारो यथा भस्त्रामापूर्यमुखतो मुने । साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ॥ ७॥ देवः सहस्रको नेत्रपादहस्तसहस्रकः । पृथवीं हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशाङ्गुलम् ॥ ८॥ गायत्रीं शिरसा सार्द्धं जपेद् व्याहृतिपूर्विकाम् । त्रिवारमायतप्राणाः प्राणायामः स उच्यते ॥ ९॥ गतागता निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते योगध्यानपरायणाः ॥ ५.२७.१०॥ शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद् द्विजः । तदाप्नोति फलं देवि प्राणानां धारणैकया ॥ ११॥ यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् । सर्वं पापं निहन्त्याशु ब्रह्मलोकं स गच्छति ॥ १२॥ योऽतन्द्रितः सदैकान्ते प्रणायामपरो भवेत् । जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ॥ १३॥ सिद्धस्य भजते रूपं कान्तिं मेधां पराक्रमम् । शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ॥ १४॥ एतत्कथितमशेषं वायोः सिद्धिं यदाप्नुते योगी । यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ॥ १५॥ स्थित्वा सुखासने स्वे शेते जनवचनहीने तु । शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ॥ १६॥ वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतन्द्रितो योगी । दीपैर्हीनध्वान्ते पश्येन्न्यूनमसंशयं लोके ॥ १७॥ नेत्रे करशाखाभिः किञ्चित्सम्पीड्य यत्नतो योगी । तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमे९कभावोऽपि ॥ १८॥ ततस्तु तमसि ध्यायन्पश्यति ज्योतिरैश्वरम् । श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ॥ १९॥ भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम् । तं विदित्वा तु कामाङ्गी क्रीडते कामरूपधृक् ॥ ५.२७.२०॥ कारणप्रशमावेशं परकायप्रवेशनम् । अणिमादिगुणावाप्तिर्मनसा चावलोकनम् ॥ २१॥ दूरश्रवणविज्ञानमदृश्यं बहुरूपधृक् । सतताभ्यासयोगेन खेचरत्वं प्रजायते ॥ २२॥ श्रुताध्ययनसम्पन्ना नानाशास्त्रविशारदाः । ज्ञानिनोऽपि विमुह्यन्ते पूर्वकर्मवशानुगाः ॥ २३॥ पश्यन्तोऽपि न पश्यन्ति श‍ृण्वाना बधिरा यथा । यथान्धा मानुषा लोके मूढाः पापविमोहिताः ॥ २४॥ वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते प्रायणाय ॥ २५॥ एष ते कथितः सम्यक्तेजसो विधिरुत्तमः । कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ॥ २६॥ पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते । सावधानतया देवि श‍ृणुष्वैकाग्रमानसा ॥ २७॥ तुरीया देवि भूतानां योगिनां ध्यानिनां तथा । सुखासने यथास्थानं योगी नियतमानसः ॥ २८॥ समुन्नतशरीरोऽपि स बद्ध्वा करसम्पुटम् । चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैः शनैः ॥ २९॥ प्रस्रवन्ति क्षणादापस्तालुस्था जीवदायिकाः । ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम् ॥ ३०॥ पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् । दिव्यकायो महातेजाः पिपासाक्षुद्विवर्जितः ॥ ३१॥ बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णः सुश्रुतिस्तु दूरात् । आकुञ्चिताकुण्डलिकृष्णकेशो गन्धर्वविद्याधरतुल्यवर्णः ॥ ३२॥ जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम् । एवं चरन् खेचरतां प्रयाति यथेष्टचारी सुखितः सदैव ॥ ३३॥ पुनरन्यत्प्रवक्ष्यामि विधानं यत्सुरैरपि । गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ॥ ३४॥ समाकुञ्च्याभ्यसेद्योगी रसनां तालुकं प्रति । किञ्चित्कालान्तरेणैव क्रमात्प्राप्नोति लम्बिकाम् ॥ ३५॥ ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् । पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ॥ ३६॥ रेफाग्रं लम्बकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दो- स्तेनाकृष्टा सुधेयं पतति परपदे देवतानन्दकारी । सारं संसारतारं कृतकलुषतरं कालतारं सतारं येनेदं प्लाविताङ्गं स भवति न मृतः क्षुत्पिपासाविहीनः ॥ ३७॥ एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्यान्नित्यं कुतोऽन्तः सकलमपि जगद्यत्सुखप्रापणाय । स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ॥ ३८॥ तस्मान्मन्त्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण । भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम् ॥ ३९॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवञ्चनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥ ५.२७॥ ५.२८ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२८. अष्टाविंशोऽध्यायः । छायापुरुषदर्शनवर्णनम् ।

देव्युवाच । देवदेव महादेव कथितं कालवञ्चनम् । शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम् ॥ १॥ कथितं ते समासेन छायिकं ज्ञानमुत्तमम् । विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥ २॥ शङ्कर उवाच । श‍ृणु देवि प्रवक्ष्यामि छायापुरुषलक्षणम् । यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ॥ ३॥ सूर्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि । शुक्लाम्बरधरः स्त्रग्वी गन्धधूपादिवासितः ॥ ४॥ संस्मरेन्मे महामन्त्रं सर्वकामफलप्रदम् । नवात्मकं पिण्डभूतं स्वां छायां सन्निरीक्षयेत् ॥ ५॥ दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् । स पश्यत्येकभावस्तु शिवं परमकारणम् ॥ ६॥ ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् । ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७॥ शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः । समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा ॥ ८॥ शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत् । रक्ते बन्धं विजानीयात्पीते विद्विषमादिशेत् ॥ ९॥ विवाहो बन्धुनाशः स्याद्द्वितुण्डे चैव क्षुद्भयम् । विकटौ नश्यते भार्या विजङ्घे धनमेव हि ॥ ५.२८.१०॥ पादाभावे विदेशः स्यादित्येतत्कथितं मया । तद्विचार्यं प्रयत्त्नेन पुरुषेण महेश्वरि ॥ ११॥ सम्यक्तं पुरुषं दृष्ट्वा सन्निवेश्यात्मनात्मनि । जपेन्नवात्मकं मन्त्रं हृदयं मे महेश्वरि ॥ १२॥ वत्सरे विगते मन्त्री तन्नास्ति यन्न साधयेत् । अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ॥ १३॥ पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् । प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ॥ १४॥ अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली । सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ॥ १५॥ ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः । जननी सर्वविद्यानां गुप्तविद्येति गीयते ॥ १६॥ खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता । दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ॥ १७॥ अवर्णा वर्णसंयुक्ता प्रोच्यते बिन्दुमालिनी । तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ॥ १८॥ सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम् । सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा ॥ १९॥ प्राप्नोत्यत्र न सन्देहः सत्यं वै कथितं मया । सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ॥ ५.२८.२०॥ सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान् । किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते ॥ २१॥ तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः । अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते ॥ २२॥ संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते । अभ्यासः सततं कार्यो धीमता मोक्षकारणम् ॥ २३॥ इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम् । किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते ॥ २४॥ सूत उवाच । इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम् । प्रसन्नोऽभूदति व्यासः पाराशर्यो मुनीश्वराः ॥ २५॥ सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम् । व्यासः परमसन्तुष्टः प्रणनाम मुहुर्मुहुः ॥ २६॥ ततस्तुष्टाव तं व्यासः कालेयः स मुनीश्वरः । सनत्कुमारं मुनयः सुरविज्ञानसागरम् ॥ २७॥ व्यास उवाच । कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् । नमस्तेऽस्तु नमस्तेऽस्तु धन्यस्त्वं ब्रह्मवित्तमः ॥ २८॥ सूत उवाच । इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् । तूष्णीं बभूव सुप्रीतः परमानन्दनिर्भरः ॥ २९॥ ब्रह्मपुत्रस्तमामन्त्र्य पूजितस्तेन शौनकः । ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ॥ ५.२८.३०॥ इति मे वर्णितो विप्राः सुखदः परमार्थयुक् । सनत्कुमारकालेयसंवादो ज्ञानवर्धनः ॥ ३१॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥ ५.२८॥ ५.२९ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.२९. एकोनत्रिंशोऽध्यायः । आदिसर्गवर्णनम् ।

शौनक उवाच । श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् । सनत्कुमारकालेयसंवादं परमार्थदम् ॥ १॥ अतोऽहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः । समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ॥ २॥ सूत उवाच । मुने श‍ृणु कथां दिव्यां सर्वपापप्रणाशिनीम् । कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ॥ ३॥ यश्चैनां पाठयेत्तां च श‍ृणुयाद्वाप्यभीक्ष्णशः । स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ ४॥ प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् । प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ॥ ५॥ स्रष्टारं सर्वभूतानां नारायणपरायणम् । तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ॥ ६॥ यस्मादकल्पयत्कल्पाः समग्राः शुचयो यतः । भवन्ति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ॥ ७॥ तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च । नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ॥ ८॥ ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः । तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ॥ ९॥ सोऽपि स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ ५.२९.१०॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ११॥ हिरण्यवर्णमभवत्तदण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति विश्रुतः ॥ १२॥ हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् । तदण्डमकरोद् द्वैधं दिवं भूमिं च निर्ममे ॥ १३॥ अधोऽधोर्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश । तयोः शकलयोर्मध्य आकाशममृजत्प्रभुः ॥ १४॥ अप्सु परिप्लवां पृथ्वीं दिशश्च दशधा दधे । तत्र काले मनो वाचं कामक्रोधावथो रतिम् ॥ १५॥ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं तु महातेजाः सोऽसृजत्सप्त मानसान् ॥ १६॥ सप्त बह्माण इत्येते पुराणे निश्चयं गताः । ततोऽसृजत्पुनर्ब्रह्मा रुद्रान् क्रोधसमुद्भवान् ॥ १७॥ सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् । सप्त चैते प्रजायन्ते पश्चाद्रुद्राश्च सर्वतः ॥ १८॥ अतः सनत्कुमारस्तु तेजः सङ्क्षिप्य तिष्ठति । तेषां सप्त महावंशा दिव्या देवर्षिपूजिताः ॥ १९॥ प्रजायन्ते क्रियावन्तो महर्षिभिरलङ्कृताः । विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ ५.२९.२०॥ पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ २१॥ पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम । मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः । प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥ २२॥ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥ २३॥ सृज्यमानाः प्रजाश्चैव नावर्धन्त यदा तदा । द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत् ॥ २४॥ ससृजेऽथ प्रजाः सर्वा महिम्ना व्याप्य विश्वतः । विराजमसृजद्विष्णुः स सृष्टः पुरुषं विराट् ॥ २५॥ द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च । स वैराजः प्रजाः सर्वाः ससर्ज पुरुषः प्रभुः ॥ २६॥ नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः । आयुष्मान् कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः ॥ २७॥ इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम । आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम् ॥ २८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां आदिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ ५.२९॥ ५.३० ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३०. त्रिंशोऽध्यायः । सर्गवर्णनम् १ ।

सूत उवाच । संसृष्टासु प्रजास्वेव आपवोऽथ प्रजापतिः । लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १॥ आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः । धर्मेणैव महात्मा स शतरूपाप्यजायत ॥ २॥ सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् । भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३॥ स वै स्वायम्भुवो जज्ञे पुरुषो मनुरुच्यते । तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ ४॥ वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥ ५॥ काम्या नाम महाभागा कर्दमस्य प्रजापतेः । काम्यापुत्रास्त्रयस्त्वासन्संराट्साक्षिरविट्प्रभुः ॥ ६॥ उत्तानपादोऽजनयत्पुत्रान् शक्रसमान् प्रभुः । ध्रुवं च तनयं दिव्यमात्मानन्दसुवर्चसम् ॥ ७॥ धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता । उत्पन्ना चापि धर्मेण ध्रुवस्य जननी तथा ॥ ८॥ ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने । तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥ ९॥ तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः । अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ ५.३०.१०॥ तस्मात् पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् । पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥ ११॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् । रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥ १२॥ अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः । मनोरजायन्त दश नड्वलायां महौजसः ॥ १३॥ कन्यायां हि मुनिश्रेष्ठ वैराजस्य प्रजापतेः । पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥ १४॥ अग्निष्टोमोऽतिरात्रश्चातिमन्युः सुयशा दश । पूरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् ॥ १५॥ अङ्गं सुमनसं ख्यातिं सृतिमङ्गिरसं गयम् । अङ्गात्सुनीथा भार्या वै वेनमेकमसूयत ॥ १६॥ अपचारेण वेनस्य कोपस्तेषां महानभूत् । हुङ्कारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः ॥ १७॥ अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया । सारस्वतास्तदा तस्य ममन्थुर्दक्षिणं करम् ॥ १८॥ वेनस्य पाणौ मथिते सम्बभूव ततः पृथुः । स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥ १९॥ अवतारः स विष्णोर्हि प्रजापालनहेतवे । धर्मसंरक्षणार्थाय दुष्टानां दण्डहेतवे ॥ ५.३०.२०॥ पृथुर्वैन्यस्तदा पृथ्वीमरक्षत्क्षत्रपूर्वजः । राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २१॥ तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ । तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥ २२॥ सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुररक्षसाम् । मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥ २३॥ पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ । विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥ २४॥ शिखण्डिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् । प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः ॥ २५॥ समुद्रतनया तेन धर्मतः सुविवाहिता । रेजेऽधिकतरं राजा कृतदारो महाप्रभुः ॥ २६॥ समुद्रतनयायास्तु दश प्राचीनबर्हिषः । बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥ २७॥ सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः । अपृथग्धर्माचरणास्तेऽतप्यन्त महत्तपः ॥ २८॥ दशवर्षसहस्राणि समुद्रसलिलेशयाः । रुद्रगीतं जपन्तश्च शिवध्यानपरायणाः ॥ २९॥ तपश्चरत्सु पृथ्व्यामभवंश्च महीरुहाः । अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ॥ ५.३०.३०॥ तान् दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः । चुक्रुधुर्मुनिशार्दूल दग्धुकामास्तपोबलाः ॥ ३१॥ प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ । वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ॥ ३२॥ वृक्षक्षयं ततो दृष्ट्वा किञ्चिच्छेषेषु शाखिषु । उपगम्याब्रवीदेतान् राजा सोमः प्रतापवान् ॥ ३३॥ सोम उवाच । कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ॥ ३४॥ भविष्यं जानता सा तु धृता गर्भेण वै मया । भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ ३५॥ अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः । सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः ॥ ३६॥ युष्माकं तेजसार्धेन मम चानेन तेजसा । ब्रह्मतेजोमयो भूपः प्रजाः संवर्धयिष्यति ॥ ३७॥ ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । भार्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ॥ ३८॥ तेभ्यस्तस्यास्तु सञ्जज्ञे दक्षो नाम प्रजापतिः । सोऽपि जज्ञे महातेजाः सोमस्यांशेन वै मुने ॥ ३९॥ अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः । संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ॥ ५.३०.४०॥ वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः । उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥ ४१॥ हर्यश्वानयुतं तस्यां सुतान् पुण्यानजीजनत् । ते विरक्ता बभूवुश्च नारदस्योपदेशतः ॥ ४२॥ तच्छुत्वा स पुनर्दक्षः सुबलाश्वानजीजनत् । नामतस्तनयांस्तस्यां सहस्रपरिसङ्ख्यया ॥ ४३॥ तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः । नागमन् पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ॥ ४४॥ तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुःसहं ददौ । कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ ४५॥ सान्त्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः । महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ॥ ४६॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ ४७॥ द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम । शिष्टाः सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ॥ ४८॥ ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः । बहवस्तनयाः ख्यातास्तैः सर्वैः पूरितं जगत् ॥ ४९॥ ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसम्भवाः । सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ ५.३०.५०॥ शौनक उवाच । अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा । कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ॥ ५१॥ एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि । चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ॥ ५२॥ सूत उवाच । उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते । कल्पे कल्पे भवन्त्येते सर्वे दक्षादयो मुने ॥ ५३॥ इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् । प्रजावानायुषा पूर्णः स्वर्गलोके महीयते ॥ ५४॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥ ५.३०॥ ५.३१ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३१. एकत्रिंशोऽध्यायः । सर्गवर्णनम् २ ।

शौनक उवाच । देवानां दानवानां च गन्धर्वोरगरक्षसाम् । सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ॥ १॥ सूत उवाच । यदा न ववृधे सा तु वीरणस्य प्रजापतिः । सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ॥ २॥ स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः । ताः श‍ृणु त्वं महाप्राज्ञ कथयामि समासतः ॥ ३॥ तस्यां पुत्रसहस्राणि वीरिण्यां पञ्च वीर्यवान् । आश्रित्य जनयामास दक्ष एव प्रजापतिः ॥ ४॥ एतान् सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः । सत्रे स तु समुत्पन्नो नारदः परमेष्ठिनः ॥ ५॥ श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति । दक्षस्यैव दुहितृषु तस्मात्तानब्रवीत्तु सः ॥ ६॥ अजानन्तः कथं सृष्टिं बालिशा वै करिष्यथ । दिशं काञ्चिदजानन्तस्तस्माद्विज्ञाय तां भुवम् ॥ ७॥ इत्युक्ताः प्रययुः सर्वे आशां विज्ञातुमोजसा । तदन्तं न हि सम्प्राप्य न निवृत्ताः पितुर्गृहम् ॥ ८॥ तज्ज्ञात्वा जनयामास पुनः पञ्चशतान् सुतान् । तानुवाच पुनः सोऽपि नारदः सर्वदर्शनः ॥ ९॥ नारद उवाच । भुवो मानमजानन्तः कथं सृष्टिं करिष्यथ । सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ॥ ५.३१.१०॥ सूत उवाच । तेऽपि तद्वचनं श्रुत्वा निर्याताः सर्वतोदिशम् । सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ॥ ११॥ अनन्तं पुष्करं प्राप्य गतास्तेऽपि पराभवम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १२॥ तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः । प्रयातो नश्यति मुने तन्न कार्यं विपश्चिता ॥ १३॥ तांश्चापि नष्टान् विज्ञाय पुत्रान्दक्षः प्रजापतिः । स च क्रोधाद्ददौ शापं नारदाय महात्मने ॥ १४॥ कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय । तव सान्निध्यतो लोके भवेच्च कलहः सदा ॥ १५॥ सान्त्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः । कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम् ॥ १६॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १७॥ द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा । द्वे कृशाश्वाय विदुषे तासां नामानि मे श‍ृणु ॥ १८॥ अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती । सङ्कल्पा च मुहूर्ता च सन्ध्या विश्वा च वै मुने ॥ १९॥ धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे श‍ृणु । विश्वेदेवास्तु विश्वायाः साध्यान्साध्या व्यजायत ॥ ५.३१.२०॥ मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा । भानोस्तु भानवः सर्वे मुहूर्तायां मुहूर्तजाः ॥ २१॥ लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा । पृथिवीविषमस्तस्यामरुन्धत्यामजायत ॥ २२॥ सङ्कल्पायास्तु सत्यात्मा जज्ञे सङ्कल्प एव हि । अयादयो वसोः पुत्रा अष्टौ तान् श‍ृणु शौनक ॥ २३॥ अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवाऽष्टौ च नामतः ॥ २४॥ अयस्य पुत्रो वैतण्डः श्रमः शान्तो मुनिस्तथा । ध्रुवस्य पुत्रो भगवान् कालो लोकभावनः ॥ २५॥ सोमस्य भगवान् वर्चा वर्चस्वी येन जायते । धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ॥ २६॥ मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा । अनिलस्य शिवा भार्या यस्याः पुत्राः पुरोजवः ॥ २७॥ अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु । अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते ॥ २८॥ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः । अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥ २९॥ प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः । द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ ॥ ५.३१.३०॥ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नं समन्ताद्व्यचरत्तदा ॥ ३१॥ प्रभासस्य तु सा भार्या वसूनामष्टमस्य च । विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः ॥ ३२॥ कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः । भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥ ३३॥ यः सर्वासां विमानानि देवतानां चकार ह । मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ३४॥ रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः । अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ॥ ३५॥ सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः । तत्रैकादशमुख्यास्तु तन्नामानि मुने श‍ृणु ॥ ३६॥ अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् । हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ ३७॥ वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ३८॥ शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । श‍ृणु कश्यपपत्नीनां नामानि मुनिसत्तम ॥ ३९॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकत्रिंशोऽध्यायः ॥ ५.३१॥ ५.३२ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३२. द्वात्रिंशोऽध्यायः । कश्यपवंशवर्णनम् १ ।

सूत उवाच । अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च । सुरभिर्विनता चैव ताम्रा क्रोधवशा खशा ॥ १॥ कद्रूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे श‍ृणु । पूर्वमन्वन्तरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ॥ २॥ तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे । उपस्थिते सुयशसश्चाक्षुषस्यान्तरे मनोः ॥ ३॥ हिताय सर्वलोकानां समागम्य परस्परम् । आगच्छत द्रुतं देवा अदितिं च प्रविश्य वै ॥ ४॥ मन्वन्तरे प्रसूयामः सतां श्रेयो भविष्यति । एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ ५॥ मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया । तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ॥ ६॥ अर्यमा चैव धाता च त्वष्टा पूषा तथैव च । विवस्वान् सविता चैव मित्रावरुण एव च ॥ ७॥ अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः । चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ॥ ८॥ पुरैव तस्यान्तरे तु आदित्या द्वादश स्मृताः । इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ॥ ९॥ सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः । तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ ५.३२.१०॥ अरिष्टनेमिपत्नीनामपत्यानीह षोडश । बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ११॥ कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः । भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ॥ १२॥ स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा । स्वधासूत पितॄन् वेदमथर्वाङ्गिरसं सती ॥ १३॥ एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ॥ १४॥ यथा सूर्यस्य नित्यं हि उदयास्तमयाविह । एवं देवानिकास्ते च सम्भवन्ति युगे युगे ॥ १५॥ दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥ १६॥ सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः । हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ १७॥ अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् । प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः ॥ १८॥ अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा । ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ॥ १९॥ संह्रादस्य कृतिर्भार्यासूत पञ्चजनं ततः । विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद् बलिः ॥ ५.३२.२०॥ बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर । बलिरासीन्महाशैवः शिवभक्तिपरायणः ॥ २१॥ दानशील उदारश्च पुण्यकीर्तितपाः स्मृतः । तत्पुत्रो बाणनामा यः सोऽपि शैववरः सुधीः । यः सन्तोष्य शिवं सम्यग्गाणपत्यमवाप ह ॥ २२॥ सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः । कृष्णं यः समरे वीरः सुप्रसन्नं चकार ह ॥ २३॥ हिरण्याक्षसुताः पञ्च पण्डिताः सुमहाबलाः । कुकुरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ २४॥ महानादश्च विक्रान्तः कालनाभस्तथैव च । इत्युक्ता दितिपुत्राश्च दनोः पुत्रान् मुने श‍ृणु ॥ २५॥ अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः । अयोमुखः शम्बरश्च कपोलो वामनस्तथा ॥ २६॥ वैश्वानरः पुलोमा च विद्रावणमहाशिरौ । स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ॥ २७॥ एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे । एषां पुत्रीः श‍ृणु मुने प्रसङ्गाद्वच्मि तेऽनघ ॥ २८॥ स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता । उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥ २९॥ पुलोमिका पुलोमा च वैश्वानरसुते उभे । बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहा त् ॥ ५.३२.३०॥ तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः । मरीचिर्जनयामास महता तपसान्विताः ॥ ३१॥ पौलोमाः कालखञ्जाश्च दानवानां महाबलाः । अवध्या देवतानां च हिरण्यपुरवासिनः ॥ ३२॥ पितामहप्रसादेन ये हताः सव्यसाचिना । सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा ॥ ३३॥ दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः । सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥ ३४॥ राहुः शल्यो सुबलिनो बलश्चैव महाबलः । वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ॥ ३५॥ अजिको नरकश्चैव कालनाभस्तथैव च । शरमाणः शरः कल्प एते वंशविवर्धनाः ॥ ३६॥ एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः । बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः ॥ ३७॥ संह्रादस्य तु दैतेया निवातकवचाः कुले । उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ॥ ३८॥ षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः । काकी श्येनी च भासी च सुग्रीवी च शुकी तथा ॥ ३९॥ गृध्रिकाश्वी ह्युलूकी च ताम्राकन्याः प्रकीर्तिताः । काकी काकानजनयदुलूकी प्रत्युलूककान् ॥ ५.३२.४०॥ श्येनी श्येनांस्तथा भासी भासान्गृद्धी तु गृध्रकान् । शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ॥ ४१॥ अश्वानुष्ट्रान् गर्दभांश्च ताम्रा च कश्यपप्रिया । जनयामास चेत्येवं ताम्रावंशः प्रकीर्तितः ॥ ४२॥ विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा । सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥ ४३॥ सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ ४४॥ येषां प्रधाना राजानः शेषवासुकितक्षकाः । ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ ४५॥ ऐलापत्रस्तथा पद्मः कर्कोटकधनञ्जयौ । महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ॥ ४६॥ कुहरः पुष्पदन्तश्च दुर्मुखः सुमुखस्तथा । बहुशः खररोमा च पाणिरित्येवमादयः ॥ ४७॥ गणाः क्रोधवशायाश्च तस्याः सर्वे च दंष्ट्रिणः । अण्डजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ॥ ४८॥ अनायुषायाः पुत्राश्च पञ्चाशच्च महाबलाः । अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ॥ ४९॥ शशांस्तु जनयामास सुररभिर्महिषांस्तथा । इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ॥ ५.३२.५०॥ खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । अरिष्टासूत सर्पांश्च प्रभा वै मानवोत्तमान् ॥ ५१॥ एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर । येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ५२॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ५.३२॥ ५.३३ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३३. त्रयस्त्रिंशत्तमोऽध्यायः । कश्यपवंशवर्णनम् २ ।

सूत उवाच । एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः । वैवस्वते तु महति वारुणे वित ते क्रतौ ॥ १॥ जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान् सप्त मानसान् ॥ २॥ पुत्रान्वै कल्पयामास स्वयमेव पितामहः । तेषां विरोधो देवानां दानवानां महाॠषे ॥ ३॥ दितिर्विनष्टपुत्रा तु कश्यपं समुपस्थिता । स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ॥ ४॥ वरेणच्छन्दयामास सा च वव्रे वरं तदा । पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ५॥ स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः । ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ॥ ६॥ धारयामास गर्भं तु शुचिः सा वरवर्णिनी । ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ॥ ७॥ ततस्त्वाधाय सो दित्यां गर्भं तं शंसितव्रतः । जगाम कश्यपस्तप्तुं तपः संहृष्टमानसः ॥ ८॥ तस्याश्चैवान्तरं प्रेप्सुः सोऽभवत्पाकशासनः । ऊनवर्षे शते चास्या ददर्शान्तरमेव सः ॥ ९॥ अकृत्वा पादयोः शौचं दितिरर्वाक्षिरास्तदा । निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ॥ ५.३३.१०॥ एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः । वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥ ११॥ स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह । रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः । चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ॥ १२॥ ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो मुने । नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ॥ १३॥ इन्द्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च । तत्यजुर्द्दैत्यभावं ते विप्रर्षे शङ्करेच्छया ॥ १४॥ मरुतो नाम ते देवा बभूवुः सुमहाबलाः । खगा एकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ १५॥ तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः । क्रमशस्तानि राज्यानि पृथुपूर्वं श‍ृणुष्व तत् ॥ १६॥ अरिष्टः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ॥ १७॥ भूतसर्गमिमं सम्यगवोचं ते महामुने । विभागं श‍ृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ॥ १८॥ अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः । ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १९॥ द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ५.३३.२०॥ अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् । आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ २१॥ प्रजापतीनां दक्षं तु मरुतामथ वासवम् । दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ २२॥ वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् । मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ २३॥ यक्षाणां राक्षसानां च पार्थिवानां तथैव च । सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ २४॥ शैलानां हिमवन्तं च नदीनामथ सागरम् । मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥ २५॥ वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् । इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ॥ २६॥ पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ॥ २७॥ तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः । दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ॥ २८॥ पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ॥ २९॥ तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ॥ ५.३३.३०॥ तस्य विस्तारमाख्यातं पृथोर्वैन्यस्य शौनक । महर्ध्यै तदधिष्ठानं पुराणं परिकीर्तितम् ॥ ३१॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कश्यपवंशवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ५.३३॥ ५.३४ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३४. चतुस्त्रिंशोऽध्यायः । सर्वमन्वतरानुर्कार्तनम् ।

शौनक उवाच । मन्वन्तराणि सर्वाणि विस्तरेणानुकीर्तय । यावन्तो मनवश्चैव श्रोतुमिच्छामि तानहम् ॥ १॥ सूत उवाच । स्वायम्भुवो मनुश्चैव ततः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २॥ एते च मनवः षट् ते सम्प्रोक्ता मुनिपुङ्गव । वैवस्वतो मुनिश्रेष्ठ साम्प्रतं मनुरुच्यते ॥ ३॥ सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः । तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४॥ तथैव धर्मसावर्णी रुद्रसावर्णिरेव च । देवसावर्णिराख्यात इन्द्रसावर्णिरेव च ॥ ५॥ अतीता वर्तमानाश्च तथैवानागताश्च ये । कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः ॥ ६॥ मुने चतुर्दशैतानि त्रिकालानुगतानि ते । प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्ययः ॥ ७॥ ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान् देवगणांस्तथा । श‍ृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ॥ ८॥ मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ९॥ उत्तरस्यां दिशि तथा मुने सप्तर्षयस्तथा । यामा नाम तथा देवा आसन्स्वायम्भुवेऽन्तरे ॥ ५.३४.१०॥ आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः । ज्योतिष्मान्धृतिमान्हव्यः सवनः शुभ्र एव च ॥ ११॥ स्वायम्भुवस्य पुत्रास्ते मनोर्दश महात्मनः । कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ॥ १२॥ प्रथमं कथितं तात दिव्यं मन्वतरं तथा । द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ॥ १३॥ ऊर्जस्तम्भः परस्तम्भ ऋषभो वसुमांस्तथा । ज्योतिष्मान् द्युतिमांश्चैव रोचिष्मान् सप्तमस्तथा ॥ १४॥ एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा । देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ॥ १५॥ हरिघ्नः सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः । प्रथितश्च मनस्युश्च नभः सूर्यस्तथैव च ॥ १६॥ स्वारोचिषस्य पुत्रास्ते मनोर्दश महात्मनः । कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ॥ १७॥ द्वितीयमेतत्कथितं मुने मन्वन्तरं मया । तृतीयं तव वक्ष्यामि तन्निबोध यथातथम् ॥ १८॥ वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः । हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ॥ १९॥ ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे । औत्तमेया ऋषिश्रेष्ठ दश पुत्रा मनोः स्मृताः ॥ ५.३४.२०॥ इष ऊर्जित ऊर्जश्च मधुर्माधव एव च । शुचिः शुक्रवहश्चैव नभसो नभ एव च ॥ २१॥ ऋषभस्तत्र देवाश्च सत्यवेदश्रुतादयः । तत्रेन्द्रः सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ॥ २२॥ तृतीयमेतत्परमं मन्वतरमुदाहृतम् । मन्वतरं चतुर्थं ते कथयामि मुने श‍ृणु ॥ २३॥ गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः । कपीवान् सप्त ऋषयः सत्या देवगणास्तथा ॥ २४॥ तत्रेन्द्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने श‍ृणु । द्यूतिपोतः सौतपस्यस्तपः शूलश्च तापनः ॥ २५॥ तपोरतिरकल्माषो धन्वी खड्गी महानृषिः । तामसस्य स्मृता एते दश पुत्रा महाव्रताः ॥ २६॥ तामसस्यान्तरं चैव मनोर्मे कथितं तव । चतुर्थं पञ्चमं तात श‍ृणु मन्वन्तरं परम् ॥ २७॥ देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा । हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ॥ २८॥ सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे । देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ॥ २९॥ तत्रेन्द्रो विभुनामा च त्रैलोक्याधिपतिस्तथा । रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ॥ ५.३४.३०॥ अर्जुनः पङ्क्तिविन्ध्यो वा दयायास्तनयामुने । महता तपसा युक्ता मेरुपृष्ठे वसन्ति हि ॥ ३१॥ रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः । भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ॥ ३२॥ अनागताश्च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः । अनागताश्च सप्तैव स्मृता दिवि महर्षयः ॥ ३३॥ कश्यपोऽत्रिर्वसिष्टश्च विश्वामित्रोऽथ गौतमः । जमदग्नीभरद्वाजः सत्रैते ॠष्यः स्मृताः ॥ ३४॥ रामो व्यासस्तथात्रेयो दीप्तिमान्सुबहुश्रुतः । भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ३५॥ गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः । कौशिको गालवश्चैव रुरुः कश्यप एव च ॥ ३६॥ एते सप्त महात्मानो भविष्या मुनिसत्तमाः । देवाश्चानागतास्तत्र त्रयः प्रोक्ताः स्वयम्भुवा ॥ ३७॥ मारीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः । तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ ३८॥ विषांङ्गश्चावनीवांश्च सुमन्तो धृतिमान्वसुः । सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ॥ ३९॥ सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक । इहाष्टमं हि कथितं नवमं चान्तरं श‍ृणु ॥ ५.३४.४०॥ प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं श‍ृणु । मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ॥ ४१॥ ज्योतिष्मान् भार्गवश्चैव धृतिमानङ्गिरास्तथा । सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ॥ ४२॥ पुलहः सप्त इत्येते ऋषयो रौहितेऽन्तरे । देवतानां गणास्तत्र त्रय एव महामुने ॥ ४३॥ दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । धृष्टकेतुर्दीप्तकेतुः पञ्चहस्तो निराकृतिः ॥ ४४॥ पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः । प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः ॥ ४५॥ दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः । हविष्मान् पौलहश्चैव प्रकृतिश्चैव भार्गवः ॥ ४६॥ आपोमुक्तिस्तथात्रेयो वासिष्ठश्चाव्ययः स्मृतः । पौलस्त्यः प्रयतिश्चैव भामारश्चैव काश्यपः ॥ ४७॥ अङ्गिरानेनसः सत्यः सप्तैते परमर्षयः । देवतानां गणाश्चापि द्विषिमन्तश्च ये स्मृताः ॥ ४८॥ तेषामिन्द्रः स्मृतः शम्भुस्त्वयमेव महेश्वरः । अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ॥ ४९॥ शतानीको निरामित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोः सुताः ॥ ५.३४.५०॥ एकादशे तु पर्याये तृतीयस्यान्तरे मनोः । तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ॥ ५१॥ हविष्मान् कश्यपश्चापि वपुष्मांश्चैव वारुणः । आत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वङ्गिरास्तथा ॥ ५२॥ चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः । सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणाः स्मृताः ॥ ५३॥ ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः । सर्वगश्च सुशर्मा च देवानीकस्तु क्षेमकः ॥ ५४॥ दृढेषुः खण्डको दर्शः कुहुर्बाहुर्मनोः स्मृताः । सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥ ५५॥ चतुर्थस्य तु सावर्णेरृषीन्सप्त निबोध मे । द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ ५६॥ अङ्गिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा । तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ॥ ५७॥ भार्गवः सप्तमस्तेषां विज्ञेयः तपसो निधिः । पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणः सुताः ॥ ५८॥ ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी । द्वादशे चैव पर्याये भाव्ये रौच्यान्तरे मुने ॥ ५९॥ अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यवांस्तु यः । पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ॥ ५.३४.६०॥ निष्प्रपञ्चस्तथात्रेयो निर्देहः कश्यपस्तथा । सुतपाश्चैव वासिष्ठः सप्तैवैते महर्षयः ॥ ६१॥ त्रय एव गणाः प्रोक्ता देवतानां स्वयम्भुवा । दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च ॥ ६२॥ नयो धर्मो धृतोन्ध्रश्च सुनेत्रः क्षत्रवृद्धकः । निर्भयः सुतपा द्रोणो मनो रौच्यस्य ते सुताः ॥ ६३॥ मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ६४॥ देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः निर्मोकतत्त्वदर्शाद्या भविष्यन्त्युषयस्तदा ॥ ६५॥ चतुर्दशे तु पर्याये भौत्यस्यैवान्तरे मनोः । आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥ ६६॥ भार्गवोऽप्यतिवाह्यश्च शुचिराङ्गिरसस्तथा । युक्तश्चैव तथात्रेयः शुक्रो वाशिष्ठ एव च ॥ ६७॥ अजितः पुलहश्चैव ह्यन्त्याः सप्तर्षयश्च ते । पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ॥ ६८॥ एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते । अतीतानागतानां वै महर्षीणां नरैः सदा ॥ ६९॥ देवतानां गणाः प्रोक्ताः श‍ृणु पञ्च महामुने । तुरङ्गभीरुर्बुध्नश्च तनुग्रोऽनुग्र एव च ॥ ५.३४.७०॥ अतिमानी प्रवीणश्च विष्णुः सङ्क्रन्दनस्तथा । तेजस्वी सबलश्चैव भौत्यस्त्वेते मनोः सुता ॥ ७१॥ भौमस्यैवाधिकारे वै पूर्णे कल्पस्तु पूर्यते । इत्येतेऽनागतातीता मनवः कीर्तिता मया ॥ ७२॥ उक्ताः सनत्कुमारेण व्यासायामिततेजसा । पूर्णे युगसहस्रान्ते परिपाल्य स्वधर्मतः ॥ ७३॥ प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजन्ति ते । युगानि सप्रतिस्त्वेकं साग्राण्यन्तरमुच्यते ॥ ७४॥ चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः । मन्वन्तरेषु सर्वेषु संहारान्ते पुनर्भवः ॥ ७५॥ न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि । पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ॥ ७६॥ तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः । ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ॥ ७७॥ प्रविशन्ति सुरश्रेष्ठ हरिं नारायणं परम् । स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनःपुनः ॥ ७८॥ भूयोऽपि भगवान् रुद्रः संहर्ता काल एव हि । कल्पान्ते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ॥ ७१॥ इति ते कथितं सर्वं मन्वन्तरसमुद्भवम् । विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ॥ ५.३४.८०॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ५.३४॥ ५.३५ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३५. पचत्रिंशोऽध्यायः । मन्वन्तरकीर्तने वैवस्वतवर्णनम् ।

सूत उवाच । विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः । तस्य भार्याभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ॥ १॥ मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च । भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी ॥ २॥ आदित्यस्य हि तद्रूपमसहिष्णुः सुतेजसः । दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ॥ ३॥ ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः । संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ॥ ४॥ यमश्च यमुना चैव यमलौ सम्बभूवतुः । एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्यतः ॥ ५॥ संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः । असहन्ती ततश्छायामात्मनः सासृजच्छुभाम् ॥ ६॥ मायामयी तु सा संज्ञामवोचद्भक्तितः सुभे । किं करोमीह कार्यं ते कथयस्व शुचिस्मिते ॥ ७॥ संज्ञोवाच अहं यास्यामि भद्रं ते ममैव भवनं पितुः । त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ॥ ८॥ इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा । पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम् ॥ ९॥ छायोवाच । आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् । नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥ ५.३५.१०॥ सूत उवाच । इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः । पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ॥ ११॥ अगच्छद्वडवा भूत्वाच्छाद्य रूपं ततः स्वकम् । कुरुंस्तदोत्तरान् प्राप्य नृणान्येव चचार ह ॥ १२॥ संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा । जनयामास सावर्णिं मनुं वै सविता किल ॥ १३॥ संज्ञानु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः । चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ॥ १४॥ मनुस्तस्याक्षमत्तं यमस्तं नैव चक्षमे । स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ॥ १५॥ छायां सन्तर्जयामास पदा वैवस्वतो यमः । तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ॥ १६॥ चरणः पततामेष तवेति भृशरोषतः । यमस्ततः पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ॥ १७॥ भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विचेष्टितः । मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ १८॥ स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा । तस्मान्मयोद्यतः पादस्तद्भवान् क्षन्तुमर्हति ॥ १९॥ शप्तोऽहमस्मि देवेश जनन्या तपतांवर । तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ ५.३५.२०॥ सवितोवाच । असंशयं पुत्र महद्भविष्यत्यत्र कारणम् । येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ २१॥ न शक्यते तन्मिथ्या वै कर्तुं मातृवचस्तव । कृमयो मांसमादाय गमिष्यन्ति महीतले ॥ २२॥ तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि । कुरु तात न सन्देहं मनश्चाश्वास्य स्वं प्रभो ॥ २३॥ सूत उवाच । इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर । आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ॥ २४॥ सूर्य उवाच । हे प्रिये कुमते चण्डि किं त्वयाचरितं किल । किन्तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ॥ २५॥ सूत उवाच । सा रवेर्वचनं श्रुत्वा यथातथ्यं न्यवेदयत् । निर्दग्धा कामरविणा सान्त्वयामास वै तदा ॥ २६॥ तस्यास्तद् वचनं श्रुत्वा सूर्याऽगात्तवष्टुरन्तिकम् पप्रच्छ तं क्व संज्ञेति त्वष्टा सूर्यमथाब्रवीत् ॥ २७॥ त्वष्टोवाच । तवातितेजसा दग्धा इदं रूपं न शोभते । असहन्ती च तत्संज्ञा वने वसति शाद्वले ॥ २८॥ श्लाघ्या योगबलोपेता योगमासाद्य गोपते । अनुकूलस्तु देवेश सन्दिश्यात्ममयं मतम् ॥ २९॥ रूपं निवर्तयाम्यद्य तव कान्तं करोम्यहम् । सूत उवाच । तच्छ्रुत्वापगतः क्रोधो मार्तण्डस्य विवस्वतः ॥ ५.३५.३०॥ भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः । ततो विभ्राजितं रूपं तेजसा संवृतेन च ॥ ३१॥ कृतं कान्ततरं रूपं त्वष्ट्रा तच्छुशुभे तदा । ततोऽधियोगमास्थाय स्वां भार्यां हि ददर्श ह ॥ ३२॥ अधृष्यां सर्वभूतानां तेजसा नियमेन च । सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया ॥ ३३॥ मैथुनाय विचेष्टन्तीं परपुंसोऽभिशङ्कया । मुखतो नासिकायां तु शुक्रं तद्व्यदधान्मुने ॥ ३४॥ देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ । नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि ॥ ३५॥ तां तु कान्तेन रूपेण दर्शयामास भास्करः । आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात् ॥ ३६॥ पत्या तेन गृहं प्रागात्स्वं सती मुदितानना । मुमुदातेऽथ तौ प्रीत्या दम्पती पूर्वतोधिकम् ॥ ३७॥ यमस्तु कर्मणा तेन भृशं पीडितमानसः । धर्मेण रञ्जयामास धर्मराज इमा प्रजाः ॥ ३८॥ लेभे स कर्मणा तेन धर्मराजो महाद्युतिः । पितॄणामाधिपत्यं च लोकपालत्वमेव च ॥ ३९॥ मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनः । भाव्यः स कर्मणा तेन मनोः सावर्णिकेऽन्तरे ॥ ५.३५.४०॥ मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः । यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥ ४१॥ अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी । मनुरित्युच्यते लोके सावर्णिरिति चोच्यते ॥ ४२॥ य इदं जन्म देवानां श‍ृणुयाद्धारयेत्तु वा । आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः ॥ ४३॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः ॥ ५.३५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३६. षट्त्रिंशोऽध्यायः । मनुनवपुत्रवंशवर्णनम् ।

सूत उवाच । मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः । पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः ॥ १॥ इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च । नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः ॥ २॥ अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुङ्गवः ॥ ३॥ सा हि दिव्याम्बरधरा दिव्याभरणभूषिता । दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता ॥ ४॥ तामिडेत्येव होवाच मनुर्दण्डधरस्तथा । अनुगच्छस्व मामेति तमिडा प्रत्युवाच ह ॥ ५॥ धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् । इडोवाच । मित्रावरुणयोरंशैर्जातास्मि वदतां वर ॥ ६॥ तयोः सकाशं यास्यामि न मेऽधर्मे रुचिर्भवेत् । एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ॥ ७॥ गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ॥ ८॥ आगता भवतोरन्ति ब्रूतं किं करवाणि वाम् । अन्यान् पुत्रान् सृज विभो तैर्वंशस्ते भविष्यति ॥ ९॥ सूत उवाच । तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम् । मित्रावरुणनामानौ मुनी ऊचतुरादरात् ॥ १०॥ मित्रावरुणावूचतुः । अनेन तव धर्मज्ञे प्रश्रयेण दमेन च । सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ॥ ११॥ आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि । मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि ॥ १२॥ सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः । जगत्प्रियो धर्मशीलौ मनुवंशविवर्धनः ॥ १३॥ सूत उवाच । निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिके । बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥ १४॥ सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः । पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशीपतिरुन्नतः ॥ १५॥ जनयित्वा च सा तत्र पुरूरवसमादरात् । पुत्रं शिवप्रसादात्तु पुनः सुद्युम्नतां गतः ॥ १६॥ सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः । उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ॥ १७॥ उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमा । दिक्पूर्वा मुनिशार्दूल गयस्य तु गया स्मृता ॥ १८॥ प्रविष्टे तु मनौ तात दिवाकरतनुं तदा । दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीमिमाम् ॥ १९॥ इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान् । वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः ॥ २०॥ प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोऽथ ततो ददौ । तत्पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ २१॥ मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः । नरिष्यन्ताच्छकाः पुत्रा नभगस्य सुतोऽभवत् ॥ २२॥ अम्बरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् । शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥ २३॥ पुत्रः सुकन्या कन्या च या पत्नी च्यवनस्य हि । आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ॥ २४॥ आनर्तविषये यस्य पुरी नाम कुशस्थली । महादिव्या सप्तपुरीमध्ये या सप्तमी मता ॥ २५॥ तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः । तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः ॥ २६॥ ककुद्मिनस्तु सञ्जाता रेवती नाम कन्यका । महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ॥ २७॥ प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह । ब्रह्मलोके विधेः सम्यक्सर्वाधीशो जगाम ह ॥ २८॥ आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् । शुश्राव तत्र गान्धर्वं नर्तने ब्रह्मणोऽन्तिके ॥ २९॥ मुहूर्तभूतं तत्काले गतं बहुयुगं तदा । न किञ्चिद् बुबुधे राजा ककुद्मी मुनयः स तु ॥ ३०॥ तदासौ विधिमानम्य स्वाभिप्रायं कृताञ्जलिः । न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने ॥ ३१॥ तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः । ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ॥ ३२॥ ब्रह्मोवाच । श‍ृणु राजन् रैभ्यसुत ककुद्मिन् पृथिवीपते । मद्वचः प्रीतितः सत्यं प्रवक्ष्यामि विशेषतः ॥ ३३॥ कालेन संहृतास्ते वै वरा ये ते कृता हृदि । न तद्गोत्रं हि तत्रास्ति कालः सर्वस्य भक्षकः ॥ ३४॥ त्वत्पुर्यपि हता पुण्यजनैः सा राक्षसैर्नृप । अष्टाविंशद्वापरेऽद्य कृष्णेन निर्मिता पुनः ॥ ३५॥ कृता द्वारावती नाम्ना बहुद्वारा मनोरमा । भोजवृष्ण्यन्धकैर्गुप्ता वासुदेवपुरोगमैः ॥ ३६॥ तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् । बलदेवाय देहि त्वमिमां स्वतनयां नृप ॥ ३७॥ सूत उवाच । इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः । गतान् बहून्युगान् ज्ञात्वा विस्मितः कन्यया युतः ॥ ३८॥ ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः । कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ॥ ३९॥ ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः । शिवमाराधयामास स नृपस्तपसि स्थितः ॥ ४०॥ ऋषय ऊचुः । तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः । युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ॥ ४१॥ सूत उवाच । न जरा क्षुत्पिपासा वा विकारास्तत्र सन्ति वै । अपमृत्युर्न केषाञ्चिन्मुनयो ब्रह्मणोंऽतिके ॥ ४२॥ अतो न राजा सम्प्राप जरां मृत्युं च सा सुता । स युवैवागतस्तत्र सम्मन्त्र्य तनयावरम् ॥ ४३॥ गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् । विवाहं कारयामास कन्यायाः स बलेन हि ॥ ४४॥ तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभोः । कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः ॥ ४५॥ अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः । क्षत्रिया दिक्षु सर्वासु गता हृष्टाः सुधार्मिकाः ॥ ४६॥ इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् । मानवानां हि सङ्क्षेपाच्छृणुतादरतो द्विजाः ॥ ४७॥ नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः । स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः ॥ ४८॥ धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ४९॥ नृगो यो मनुपुत्रस्तु महादाता विशेषतः । नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ॥ ५०॥ गोदानव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः । कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ॥ ५१॥ तस्यैकोऽभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा । इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ॥ ५२॥ वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः । पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ५३॥ स एकदागतं गोष्ठे व्याघ्रं गा हिंसितुं बली । श्रुत्वा गोक्रन्दनं बुद्धो हन्तुं तं खड्गधृग्ययौ ॥ ५४॥ अजानन्नहनद्बभ्रोः शिरः शार्दूलशङ्कया । निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ॥ ५५॥ मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह । रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ॥ ५६॥ व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः । अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ॥ ५७॥ श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् । अकामतो विचार्येति शूद्रो भव न क्षत्रियः ॥ ५८॥ एवं शप्तस्तु गुरुणा कुलाचार्येण कोपतः । निःसृतश्च पृषध्रस्तु जगाम विपिनं महत् ॥ ५९॥ निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान् । वनाग्नौ दग्धदेहश्च जगाम परमां गतिम् ॥ ६०॥ कविः पुत्रो मनोः प्राज्ञः शिवानुग्रहतोऽभवत् । इह भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम् ॥ ६१॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ५.३६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३७. सप्तत्रिंशोऽध्यायः । मनुवंशवर्णनम् ।

सूत उवाच । पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ १॥ तेषां पुरस्तादभवन्नार्यावर्ते नृपा द्विजाः । तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत् ॥ २॥ तत्कर्म श‍ृणु तत्प्रीत्या यज्जातं वंशतो विधेः । श्राद्धकर्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ॥ ३॥ भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः । इक्ष्वाकुणा परित्यक्तः शशादो वनमाविशत् ॥ ४॥ इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत् । शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः ॥ ५॥ उत्तरापथदेशस्य रक्षितारो महीक्षितः । अयोधस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ६॥ अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः । विष्टराश्वः पृथोः पुत्रस्तस्मादिन्द्रः प्रजापतिः ॥ ७॥ इन्द्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः । जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ ८॥ युवनाश्वः सुतस्तस्य कुवलाश्वश्च तत्सुतः । स हि धुन्धुवधाद्भूतो धुन्धुमारो नृपोत्तमः ॥ ९॥ कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । बभूवाथ पिता राज्ये कुवलाश्वं न्ययोजयत् ॥ १०॥ पुत्रसङ्क्रामितश्रीको वनं राजा समाविशत् । तमुत्तङ्कोऽथ राजर्षिः प्रयान्तं प्रत्यवारयत् ॥ ११॥ उत्तङ्क उवाच । भवता रक्षणं कार्यं पृथिव्या धर्मतः श‍ृणु । त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना ॥ १२॥ भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि । ममाश्रमसमीपे तु समेषु मरुधन्वसु ॥ १३॥ समुद्रवालुकापूर्णे दानवो बलदर्पितः । देवतानामवध्यो हि महाकायो महाबलः ॥ १४॥ अन्तर्भूमिगतस्तत्र वालुकान्तर्हितः स्थितः । राक्षसस्य मधोः पुत्रो धुन्धुनामा सुदारुणः ॥ १५॥ शेते लोकविनाशाय तप आस्थाय दारुणम् । संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ॥ १६॥ यदा तदा भूश्चलति सशैलवनकानना । सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ॥ १७॥ तेन रायन्न शक्नोमि तस्मिन्न् स्थातुं स्व आश्रमे । तं मारय महाबाहो लोकानां हितकाम्यया ॥ १८॥ लोकाः स्वस्था भवन्त्वद्य तस्मिन् विनिहते त्वया । त्वं हि तस्य वधायैव समर्थः पृथिवीपते ॥ १९॥ विष्णुना च वरो दत्तो मह्य पूर्वयुगेऽनघ । तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ॥ २०॥ पालने हि महान् धर्मः प्रजानामिह दृश्यते । न तथा दृश्यतेऽरण्ये मा तेऽभूद् बुद्धिरीदृशी ॥ २१॥ ईदृशो न हि राजेन्द्र क्वचिद्धर्मः प्रविद्यते । प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ॥ २२॥ स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिवारणे ॥ २३॥ भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २४॥ इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः । कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ॥ २५॥ तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः । उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ २६॥ तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ २७॥ दिव्यैर्माल्यैश्च तं देवाः समन्तात्समवारयन् । प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ॥ २८॥ स गत्वा जयतां श्रेष्ठस्तनयैः सह पार्थिवः । समुद्रं खनयामास वालुकार्णवमध्यतः ॥ २९॥ नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः । बभूव सुमहातेजा भूयो बलसमन्वितः ॥ ३०॥ तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्गतस्तु सः । धुन्धुरासादितो ब्रह्मन् दिशमाश्रित्य पश्चि माम् ॥ ३१॥ मुखजेनाग्निना क्रोधाल्लोकान् संवर्तयन्निव । वारि सुस्राव वेगेन विधोः कधिरिवोदये ॥ ३२॥ ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् । त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ॥ ३३॥ ततः स राजा विप्रेन्द्र राक्षसं तं महाबलम् । आससाद महातेजा धुन्धुं विप्रविनाशनम् ॥ ३४॥ तस्य वारिमयं वेगमापीय स नराधिपः । वह्निबाणेन वह्निं तु शमयामास वारिणा ॥ ३५॥ तं निहत्य महाकायं बलेनोदकराक्षसम् । उत्तङ्कस्येक्षयामास कृतं कर्म नराधिपः ॥ ३६॥ उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महामुने । अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ ३७॥ धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् । पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः ॥ ३८॥ तस्य पुत्रास्त्रयः शिष्टाः दृढाश्वः श्रेष्ठ उच्यते । हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ ॥ ३९॥ धौन्धुमारिर्दृढाश्वो यो हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भोऽभूत्पुत्रो धर्मरतः सदा ॥ ४०॥ संहताश्वो निकुम्भस्य पुत्रो रणविशारदः । अक्षाश्वश्च कृताश्वश्च संहताश्वसुतौ द्विजाः ॥ ४१॥ तस्य हैमवती भार्या सतां मान्या दृषद्वती । विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ४२॥ लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् । अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ ४३॥ तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः । मान्धाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ॥ ४४॥ तस्य चैत्ररथी भार्या शशबिन्दुसुताऽभवत् । पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा ॥ ४५॥ तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा । पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च धार्मिकम् ॥ ४६॥ पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः । तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ॥ ४७॥ पाणिग्रहणमन्त्राणां विघ्रं चक्रे महात्मभिः । येन भार्या हृता पूर्वं कृतोद्वाहः परस्य वै ॥ ४८॥ बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् । जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ॥ ४९॥ अधर्मसङ्गिनं तं तु राजा त्रय्यारुणिस्त्यजन् । अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ ५०॥ पितरं सोऽब्रवीन्द् दुष्टः क्व गच्छामीति वै तदा । वस श्वपाकनिकटे राजा प्राहेति तं तदा ॥ ५१॥ स हि सत्यव्रतस्तेन श्वपाकवसथान्तिके । पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ॥ ५२॥ ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा । स शङ्करतपः कर्तुं सर्वं त्यक्त्वा वनं ययौ ॥ ५३॥ ततस्तस्य स्वविषये नावर्षत्पाकशासनः । समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ॥ ५४॥ दारांस्तस्य तु विषये विश्वामित्रो महातपाः । सन्त्यज्य सागरानूपे चचार विपुलं तपः ॥ ५५॥ तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च ॥ ५६॥ तां तु दृष्ट्वा गले बद्धं विक्रीणन्तीं स्वमात्मजम् । महर्षिपुत्रं धर्मात्मा मोचयामास तं तदा ॥ ५७॥ सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ॥ ५८॥ तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः । अभवद्गालवो नाम गलबन्धान्महातपाः ॥ ५९॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥ ५.३७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३८. अष्टात्रिंशोऽध्यायः । सत्यव्रतादिसगरपर्यन्तवंशवर्णनम् ।

सूत उवाच । सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया । विश्वामित्रकलत्रं च पोषयामास वै तदा ॥ १॥ हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ॥ २॥ तीर्थं गां चैव गात्रं च तथैवान्तःपुरं मुनिः । याज्योपाध्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ ३॥ सत्यव्रतस्य वाक्याद्वा भाविनोऽर्थस्य वै बलात् । वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ४॥ पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् । न वारयामास मुनिर्वसिष्ठः कारणेन च ॥ ५॥ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । न च सत्यव्रतस्तस्य तमुपांशुमबुद्ध्यत ॥ ६॥ तस्मिन्स परितोषाय पितुरासीन्महात्मनः । कुलस्य निष्कृतिर्विप्र कृता सा वै भवेदिति ॥ ७॥ न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । अभिषेक्ष्याम्यहं पुत्रमस्य नैवाब्रवीन्मुनिः ॥ ८॥ स तु द्वादश वर्षाणि दीक्षां तामुद्वहद् बली । अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ॥ ९॥ सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः । तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः ॥ १०॥ दाशधर्मगतो राजा तां जघान स वै मुने । स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ॥ ११॥ भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे । उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ॥ १२॥ वसिष्ठ उवाच । पातयेयमहं क्रूर तव शङ्कुमशंसयम् । यदि ते द्वाविमौ शङ्कू नस्यातां वै कृतौ पुरा ॥ १३॥ पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १४॥ त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः । विश्वामित्रस्तु दाराणामागतो भरणे कृते ॥ १५॥ तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे । छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ॥ १६॥ अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके । अभिषिच्य पितू राज्ये याजयामास तं मुनिः ॥ १७॥ मिषतां देवतानां च वसिष्ठस्य च कौशिकः । सशरीरं तदा तं तु दिवमारोहयत्प्रभुः ॥ १८॥ तस्य सत्यरथा नाम भार्या केकयवंशजा । कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ १९॥ स वै राजा हरिश्चन्द्रो त्रैशङ्कव इति स्मृतः । आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ २०॥ हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः । रोहितस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ॥ २१॥ हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । नात्यर्थे धार्मिको विप्राः स हि धर्मयुगेऽभवत् ॥ २२॥ सगरं स सुतं बाहुर्जज्ञे सह गरेण वै । और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ॥ २३॥ आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः । जिगाय पृथिवीं हत्वा तालजङ्घान्स हैहयान ॥ २४॥ शकान्बहूदकांश्चैव पारदान्सगणान्खशान् । सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ॥ २५॥ शौनक उवाच । स वै गरेण सहितः कथं जातस्तु क्षत्रियात् । जितवानेतदाचक्ष्व विस्तरेण हि सूतज ॥ २६॥ सूत उवाच । पारीक्षितेन सम्पृष्टो वैशम्पायन एव च । यदाचष्ट स्म तद्वक्ष्ये श‍ृणुष्वैकमना मुने ॥ २७॥ परीक्षितोवाच । कथं स सगरो राजा गरेण सहितो मुने । जातः स जघ्निवान्भूपानेतदाख्यातुमर्हसि ॥ २८॥ वैशम्पायन उवाच । बाहोर्व्यसनिनस्तातहृतं राज्यमभूत्किल । हैहयैस्तालजङ्घैश्च शकैः सार्धं विशाम्पते ॥ २९॥ यवनाः पारदाश्चैव काम्बोजाः पाह्लवास्तथा । बहूदकाश्च पञ्चैव गणाः प्रोक्ताश्च रक्षसाम् ॥ ३०॥ एते पञ्च गणा राजन् हैहयार्थेषु रक्षसाम् । कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात् ॥ ३१॥ हतराज्यस्ततो राजा स वै बाहुर्वनं ययौ । पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ॥ ३२॥ पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता । सपत्न्या च गरस्तस्यै दत्तः पूर्वसुतेर्ष्यया ॥ ३३॥ सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत । और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ॥ ३४॥ तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे । सिषेवे मुनिवर्यं तं स्मरन्ती शङ्करं हृदा ॥ ३५॥ एकदा खलु तद् गर्भो गरेणैव सह च्युतः । सुमुहूर्त्ते सुलग्ने च पञ्चोच्चग्रहसंयुते ॥ ३६॥ तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम । व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ३७॥ और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ३८॥ आग्नेयं तं महाभागो ह्यमरैरपि दुःसहम् । जग्राह विधिना प्रीत्या सगरोऽसौ नृपोत्तमः ॥ ३९॥ स तेनास्त्रबलेनैव बलेन च समन्वितः । हैहयान्विजघानाशु सङ्क्रुद्धोऽस्त्रबलेन च ॥ ४०॥ आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः । धर्मं संस्थापयामास सगरोऽसौ महीतले ॥ ४१॥ ततः शकाः सयवनाः काम्बोजाः पाह्लवास्तथा । हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥ ४२॥ वसिष्ठो वञ्चनां कृत्वा समयेन महाद्युतिः । सगरं वारयामास तेषां दत्वाभयं नृपम् ॥ ४३॥ सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च । धर्मं जघान तेषां वै केशान्यत्वं चकार ह ॥ ४४॥ अर्धं शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत् । यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ४५॥ पारदा मुण्डकेशाश्च पाह्नवाश्श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ४६॥ जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा । सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुरा ॥ ४७॥ स धर्मविजयी राजा विजित्वेमां वसुन्धराम् । अश्वं संस्कारयामास वाजिमेधाय पार्थिवः ॥ ४८॥ तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ॥ ४९॥ देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना । वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ५०॥ महाराजोऽथ सगरस्तद्धयान्वेषणाय च । स तं देशं तदा पुत्रैः खानयामास सर्वतः ॥ ५१॥ आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे । तमादिपुरुषं देवं कपिलं विश्वरूपिणम् ॥ ५२॥ तस्य चक्षुःसमुत्थेन वह्निना प्रतिबुध्यतः । दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः ॥ ५३॥ हर्षकेतुः सुकेतुश्च तथा धर्मरथोपरः । शूरः पञ्चजनश्चैव तस्य वंशकरा नृपाः ॥ ५४॥ प्रादाच्च तस्मै भगवान् हरिः पञ्च वरान्स्वयम् । वंशं मेधां च कीर्तिं च समुद्रं तनयं धनम् ॥ ५५॥ सागरत्वं च लेभे स कर्मणा तस्य तेन वै । तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ॥ ५६॥ आजहाराश्वमेधानां शतं स तु महायशाः । ईजे शम्भुविभूतीश्च देवतास्तत्र सुव्रताः ॥ ५७॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यन्तवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ५.३८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.३९. एकोनचत्वारिंशोऽध्यायः । वैवस्वतवंशोद्भवराजवर्णनम् ।

शौनक उवाच । सगरस्यात्मजा वीराः कथं जाता महाबलाः । विक्रान्ताः षष्टिसाहस्रा विधना केन वा वद ॥ १॥ सूत उवाच । द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे । और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ॥ २॥ षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम् । एकं वंशकरं त्वेका यथेष्टं वरशालिनी ॥ ३॥ तत्रैवागत्य तांल्लब्ध्वा पुत्रान् शूरान्बहूंस्तदा । सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक् कृतम् ॥ ४॥ ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् । घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ॥ ५॥ कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् । एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ ६॥ ततः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् । दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ ७॥ यस्तु गङ्गा सरिच्छ्रेष्ठामवातारयत प्रभुः । समुद्रमानयच्चेमां दुहितृत्वमकल्पयत् ॥ ८॥ भगीरथसुतो राजा श्रुतसेन इति श्रुतः । नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः ॥ ९॥ अम्बरीषस्तु नाभागिः सिन्धुद्वीपस्ततोऽभवत् । अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् ॥ १०॥ आयुताजित्सुतस्त्वासीद् ऋतुपर्णो महायशाः । दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ॥ ११॥ ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः । तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ १२॥ कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः । अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वशर्मणः ॥ १३॥ अनरण्यसुतो राजा विद्वान्मुण्डिद्रुहोऽभवत् । निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि ॥ १४॥ येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् । त्रयोऽपि सञ्चिता लोका बुद्ध्या सत्येन चानघ ॥ १५॥ दीर्घबाहुः सुतस्तस्य रघुस्तस्याभवत्सुतः । अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ॥ १६॥ रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः । स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ॥ १७॥ तच्चरित्रं च बहुधा पुराणेषु प्रवर्णितम् । रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ॥ १८॥ रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः । अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ १९॥ निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु । नभसः पुण्डरीकश्च क्षेमधन्वा ततः स्मृतः ॥ २०॥ क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २१॥ अहीनगोस्तु दायादः सहस्वान्नाम वीर्यवान् । वीरसेनात्मजस्तस्य यश्चेक्ष्वाकुकुलोद्भवः ॥ २२॥ वीरसेनस्य दायादः पारियात्रो बभूव ह । ततो बलाख्यस्तनयः स्थलस्तस्मादभूत्सुतः ॥ २३॥ अर्कांशसम्भवस्तस्मात्पुत्रो यक्षः प्रतापवान् । तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ॥ २४॥ हिरण्यनाभस्तत्पुत्रो योगाचार्यो बभूव ह । स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः ॥ २५॥ कौशल्यो याज्ञवल्क्योऽथ योगमध्यात्मसंज्ञकम् । यतोऽध्यगान्नृपवराद् हृदयग्रन्थिभेदनम् ॥ २६॥ तत्सुतो पुष्यनामा हि ध्रुवसंज्ञस्तदात्मजः । अग्निवर्णः सुतस्तस्य शीघ्रनामा सुतस्ततः ॥ २७॥ मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह । असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ॥ २८॥ तद्वासिभिश्च मुनिभिः कलेरन्ते स एव हि । पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥ २९॥ पृथुश्रुतश्च तत्पुत्रः सन्धिस्तस्य सुतः स्मृतः । अमर्षणः सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ॥ ३०॥ विश्वसाह्वः सुतस्तस्य तत्सुतोऽभूत्प्रसेनजित् । तक्षकस्तस्य तनयः तत्सुतो हि बृहद्बलः ॥ ३१॥ एत इक्ष्वाकुवंशीया अतीताः सम्प्रकीर्तिताः । श‍ृणुतानागतान्भूपांस्तद्वंश्यान्धर्मवित्तमान् ॥ ३२॥ बृहद्बलस्य तनयो भविता हि बृहद्रणः । बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ॥ ३३॥ वत्सवृद्धः सुतस्तस्य प्रतिव्योमा सुतस्ततः । भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ॥ ३४॥ सहदेवः सुतस्तस्य महावीरो भविष्यति । तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ॥ ३५॥ सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् । सुप्रतीकः सुतस्तस्य भविष्यति नृपोत्तमः ॥ ३६॥ मरुदेवः सुतस्तस्य सुनक्षत्रो भविष्यति । तत्सुतः पुष्करस्तस्यान्तरिक्षस्तत्सुतो द्विजाः ॥ ३७॥ सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः । बृहद्भाजः सुतस्तस्य बर्हिनामा तदात्मजः ॥ ३८॥ कृतञ्जयः सुतस्तस्य तत्सुतो हि रणञ्जयः । सञ्जयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ॥ ३९॥ शुद्धोदस्तनयस्तस्य लाङ्गलस्तु तदात्मजः । तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ॥ ४०॥ रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः । सुमित्रस्तत्सुतो भावी वंशनिष्ठान्त एव हि ॥ ४१॥ सुमित्रान्तोऽन्वयोऽयं वै इक्ष्वाकूणां भविष्यति । राज्ञां वैचित्रवीर्याणां धर्मिष्ठानां सुकर्मणाम् ॥ ४२॥ सुमित्रं प्राप्य राजानं स तद्वंशः शुभः कलौ । संस्थां प्राप्स्यति तद्ब्राह्मे वर्धिष्यति पुनः कृते ॥ ४३॥ एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः । इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ ४४॥ पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः । श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ४५॥ पठन् श‍ृण्वन्निमां सृष्टिमादित्यस्य च मानवः । प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ॥ ४६॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ५.३९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४०. चत्वारिंशोऽध्यायः । पितृप्रभाववर्णनम् ।

व्यास उवाच । इत्याकर्ण्य श्राद्धदेवसूर्यान्वयमनुत्तमम् । पर्यपृच्छन्मुनिश्रेष्ठः शौनकः सूतमादरात् ॥ १॥ शौनक उवाच । सूत सूत चिरञ्जीव व्यासशिष्य नमोऽस्तु ते । श्राविता परमा दिव्या कथा परमपावनी ॥ २॥ त्वया प्रोक्तः श्राद्धदेवः सूर्यः सद्वंशवर्धनः । संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ॥ ३॥ कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः । श्रोतुमिच्छामि तत्प्रीत्या छिन्धि मे संशयं त्विमम् ॥ ४॥ श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो । प्रीताश्च पितरो येन श्रेयसा योजयन्ति तम् ॥ ५॥ एतच्च श्रोतुमिच्छामि पितृणां सर्गमुत्तमम् । कथय त्वं विशेषेण कृपां कुरु महामते ॥ ६॥ सूत उवाच । वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक । मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ॥ ७॥ गीतं सनत्कुमारेण मार्कण्डेयाय धीमते । तत्तेऽहं सम्प्रवक्ष्यामि सर्वकामफलप्रदम् ॥ ८॥ युधिष्ठिरेण सम्पृष्टो भीष्मो धर्मभृतां वरः । शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ॥ ९॥ युधिष्ठिर उवाच । पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते । एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ॥ १०॥ सूत उवाच । युधिष्ठिरेण सम्पृष्टं प्रश्नं श्रुत्वा स धर्मवित् । भीष्मः प्रोवाच सुप्रीत्या सर्वेषां श‍ृण्वतां वचः ॥ ११॥ भीष्म उवाच । ये कुर्वन्ति नराः श्राद्धान्यपि प्रीत्या युधिष्ठिर । श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ॥ १२॥ श्राद्धानि चैव कुर्वन्ति फलकामाः सदा नराः । अभिसन्धाय पितरं पितुश्च पितरं तथा ॥ १३॥ पितुः पितामहञ्चैव त्रिषु पिण्डेषु नित्यदा । पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ॥ १४॥ पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥ १५॥ युधिष्ठिर उवाच । वर्तन्ते पितरः स्वर्गे केषाञ्चिन्नरके पुनः । प्राणिनां नियतं चापि कर्मजं फलमुच्यते ॥ १६॥ तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् । कथं शक्तास्तमाहर्त्तुं नरकस्थाः फलं पुनः ॥ १७॥ देवा अपि पितृन्स्वर्गे यजन्त इति मे श्रुतम् । एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ॥ १८॥ भीष्म उवाच । अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम । पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥ १९॥ श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः । मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ २०॥ नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् । कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ॥ २१॥ ततः पिता मे सन्तुष्टो वाचा मधुरया तदा । उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥ २२॥ त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता । तारितोऽहं तु जिज्ञासा कृता मे पुरुषोत्तम ॥ २३॥ प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः । प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥ २४॥ श‍ृणु त्वं भरतश्रेष्ठ वेदधर्मांश्च शाश्वतान् । प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ॥ २५॥ तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् । ददामि त्वं प्रतीच्छस्व त्रिषु लोकेषु दुर्लभम् ॥ २६॥ न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि । त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता पुनः ॥ २७॥ किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् । तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥ २८॥ इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः । अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद । प्रश्नं पृच्छामि वै कञ्चिद्वाच्यः स भवता स्वयम् ॥ २९॥ स मामुवाच तद् ब्रूहि यदीच्छसि वदामि ते । इत्युक्तेन मया तत्र पृष्टः प्रोवाच तं नृपः ॥ ३०॥ शन्तनुरुवाच । श‍ृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः । पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ॥ ३१॥ यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् । मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ॥ ३२॥ मार्कण्डेय उवाच । श‍ृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् । विमानं महदायान्तमन्तरेण गिरेस्तदा ॥ ३३॥ तस्मिन्विमाने पर्यक्षं ज्वलिताङ्गारवर्चसम् । महातेजः प्रज्वलन्तं निर्विशेषं मनोहरम् ॥ ३४॥ अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् । अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ॥ ३५॥ सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् । अपृच्छं चैव तमहं विद्याम त्वां कथं विभो ॥ ३६॥ स मामुवाच धर्मात्मा ते न तद्विद्यते तपः । येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणः सुतम् ॥ ३७॥ सनत्कुमारमिति मां विद्धि किं करवाणि ते । ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ॥ ३८॥ भ्रातरः सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः । वयं तु यतिधर्माणः संयम्यात्मानमात्मनि ॥ ३९॥ यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः । तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ॥ ४०॥ यद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया । एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ॥ ४१॥ इत्युक्तवन्तं तं चाहं प्रावोचं त्वं श‍ृणु प्रभो । पितॄणामादिसर्गं च कथयस्व यथातथम् ॥ ४२॥ इत्युक्तः स तु मां प्राह श‍ृणु सर्वं यथातथम् । वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ॥ ४३॥ सनत्कुमार उवाच । देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् । तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ॥ ४४॥ ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ । तस्मात्किञ्चिदजानन्तो नष्टसंज्ञाः पितामहम् ॥ ४५॥ प्रोचुस्तं प्रणताः सर्वे कुरुष्वानुग्रहं हि नः । इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि ॥ ४६॥ पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ । इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ॥ ४७॥ प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः । गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ ॥ ४८॥ अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम् । पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ॥ ४९॥ ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् । श‍ृणुध्वं निर्जराः सर्वे यूयं न ब्रह्मवादिनः ॥ ५०॥ तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः । मन्तव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ॥ ५१॥ देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः । परस्परं महाप्रीत्या सर्वकामफलप्रदाः ॥ ५२॥ सनत्कुमार उवाच । ततस्ते छिन्नसन्देहाः प्रीतिमन्तः परस्परम् । बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ॥ ५३॥ ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम् । तस्माद्भवन्तः पितरो भविष्यथ न संशयः ॥ ५४॥ पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः । श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ॥ ५५॥ समुद्रं पर्वतवनं जङ्गमाजङ्गमैर्वृतम् । श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ॥ ५६॥ तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणिताः सदा । श्राद्धे ये च प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः ॥ ५७॥ सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः । भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥ ५८॥ इति तद्वचनं सत्यं भवत्वथ दिवौकसः । पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ ५९॥ एवं ते पितरो देवा धर्मतः पुत्रतां गताः । अन्योऽन्यं पितरो वै ते प्रथिताः क्षितिमण्डले ॥ ६०॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनं नाम चत्वारिंशोऽध्यायः ॥ ५.४०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४१. एकचत्वारिंशोऽध्यायः । सप्तव्याधगतिवर्णनम् ।

सनत्कुमार उवाच । सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः । चत्वारो मूर्त्तिमन्तो वै त्रयश्चैव ह्यमूर्तयः ॥ १॥ तान्यजन्ते देवगणा आद्या विप्रादयस्तथा । आप्याययन्ति ते पूर्वं सोमं योगबलेन वै ॥ २॥ तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः । सर्वेषां राजतं पात्रमथवा रजतान्वितम् ॥ ३॥ दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितृन् । वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै ॥ ४॥ उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः । पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ॥ ५॥ यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा । स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम् ॥ ६॥ देवकार्यादपि मुने पितृकार्यं विशिष्यते । पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः ॥ ७॥ न योगेन गतिः सा तु पितृभक्तस्य या मुने । पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने ॥ ८॥ मार्कण्डेय उवाच । एवमुक्त्वाशु देवेशो देवानामपि दुर्लभम् । चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम् ॥ ९॥ श‍ृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः । योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ १०॥ वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च । खसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ॥ ११॥ कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् । पितर्युपरते सर्वे प्रवसन्तस्तदाभवन् ॥ १२॥ विनियोगाद् गुरोस्तस्य गां दोग्ध्रीं समकालयन् । समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा ॥ १३॥ तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत । क्रूरा बुद्धिः समुत्पन्ना तां गां वै हिंसितुं तदा ॥ १४॥ तां कविः खसृपश्चैव याचेते नैति वै तदा । न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः ॥ १५॥ पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः । स सर्वानब्रवीत्कोपात् पितृभक्तिसमन्वितः ॥ १६॥ यद्यशक्यं प्रकर्तव्यं पितृनुद्दिश्य साध्यताम् । प्रकुर्वन्तो हि श्राद्धं तु सर्व एव समाहिताः ॥ १७॥ एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः । पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति ॥ १८॥ एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा । पितृभ्यः कल्पयित्वा तु ह्युपायुञ्जत भारत ॥ १९॥ उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् । शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति ॥ २०॥ आर्जवात्स तु तं वत्सं प्रतिजग्राह वै द्विजः । मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम् ॥ २१॥ ततः कालेन कियता कालधर्ममुपागताः । ते सप्त भ्रातरस्तात बभूवुः स्वायुषः क्षये ॥ २२॥ ते वै क्रूरतया हैंस्त्र्यात्स्वानार्यत्वाद् गुरोस्तथा । उग्रहिंसाविहाराश्च जाताः सप्त सहोदराः ॥ २३॥ लुब्धकस्य सुतास्तावद् बलवन्तो मनस्विनः । जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ २४॥ स्वधर्मनिरताः सर्वे मृगा मोहविवर्जिताः । आसन्नुद्वेगसंविग्ना रम्ये कालञ्जरे गिरौ ॥ २५॥ तमेवार्थमनुध्याय ज्ञातिस्मरणसम्भवम् । आसन्वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥ २६॥ ते सर्वे शुभकर्माणः सद्धर्माणो वनेचराः । विधर्माचरणैर्हीना जातिस्मरणसिद्धयः ॥ २७॥ पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै । तथैव चास्थिता बुद्धिः संसारेऽपि निवर्तने ॥ २८॥ गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः । तेषां तु पतितानां च यानि स्थानानि भारत ॥ २९॥ तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप । कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः ॥ ३०॥ शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः । शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ॥ ३१॥ त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः । निःसङ्गो निर्ममश्शान्तो निर्द्वन्द्वो निष्परिग्रहः ॥ ३२॥ निवृत्तिनिर्वृतश्चैव शकुना नामतः स्मृताः । ते ब्रह्मचारिणः सर्वे शकुना धर्मचारिणः ॥ ३३॥ जातिस्मराः सुसंवृद्धाः सप्तैव ब्रह्मचारिणः । स्थिता एकत्र सद्धर्मा विकाररहिताः सदा ॥ ३४॥ विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ । तिर्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे ॥ ३५॥ तथा तु पितृकार्यार्थं कृतं श्राद्धं व्यवस्थितैः । तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम् ॥ ३६॥ पूर्वजातिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै । तथैव संस्थित ज्ञानं तस्माज्ज्ञानं समभ्यसेत् ॥ ३७॥ सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः । स्वतन्त्रश्च सुयज्ञश्च कुलीङ्गा नामतः स्मृताः ॥ ३८॥ तेषां तत्र विहङ्गानां चरतां धर्मचारिणाम् । सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने ॥ ३९॥ नीपानामीश्वरो राजा प्रभावेण समन्वितः । श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह ॥ ४०॥ स्वतन्त्रश्चक्रवाकः स स्पृहयामास तं नृपम् । दृष्ट्वा यान्तं सुखोपेतं राज्यशोभासमन्वितम् ॥ ४१॥ यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा । खिन्नोऽहमुपवासेन तपसा निश्चलेन च ॥ ४२॥ तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि । सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः ॥ ४३॥ मार्कण्डेय उवाच । ततस्तु चक्रवाकौ द्वावासतुः सहचारिणौ । आवां वै सचिवौ स्याव तव प्रियहितैषिणौ ॥ ४४॥ तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः । एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम् ॥ ४५॥ यस्मात्कर्म ब्रुवाणस्त्वं योगधर्ममवाप्य तम् । एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे ॥ ४६॥ राजा त्वं भविता तात काम्पिल्ये नगरोत्तमे । एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ ॥ ४७॥ न तानूचुस्त्रयो राज्यं चतुरः सहचारिणः । स प्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत् ॥ ४८॥ अन्तवान् भविता शापः पुनर्योगमवाप्स्यथ । सर्वसत्त्वरुतज्ञश्च स्वतन्त्रोऽयं भविष्यति ॥ ४९॥ पितृप्रसादाद्युष्माभिः सम्प्राप्तं सुकृतं भवेत् । गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः ॥ ५०॥ अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनम् । इदं च वाक्यं संरब्धं श्लोकमेकमुदाहृतम् ॥ ५१॥ पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ । इत्युक्त्वा स तु मौनोऽभूद्विहङ्गः सुमना बुधः ॥ ५२॥ मार्कण्डेय उवाच । लोकानां स्वस्तये तात शन्तनुप्रवरात्मज । इत्युक्तं तच्चरित्रं मे किं भूयः श्रोतुमिच्छसि ॥ ५३॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगतिवर्णनं नानैकचत्वारिंशोऽध्यायः ॥ ५.४१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४२. द्विचत्वारिंशोऽध्यायः । पितृप्रभाववर्णनम् ।

भीष्म उवाच । मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर । किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम ॥ १॥ मार्कण्डेय उवाच । ते धर्मयोगनिरताः सप्त मानसचारिणः । वाय्वम्बुभक्षाः सततं शरीरमुपशोषयन् ॥ २॥ स राजान्तःपुरवृतो नन्दने मघवा इव । क्रीडित्वा सुचिरं तत्र सभार्यः स्वपुरं ययौ ॥ ३॥ अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः । तं विभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ ॥ ४॥ तपः कर्तुं समारेभे यत्र ते सहचारिणः । स वै तत्र निराहारो वायुभक्षो महातपाः ॥ ५॥ ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् । बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम् ॥ ६॥ तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः । योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन् ॥ ७॥ काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः । जाताः सप्त महात्मानः सर्वे विगतकल्मषाः ॥ ८॥ स्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः । स्वतन्त्रस्त्वणुहाज्जातो ब्रह्मदत्तो महौजसः ॥ ९॥ छिद्रदर्शी सुनेत्रस्तु वेदवेदाङ्गपारगौ । जातौ श्रोत्रियदायादौ पूर्वजातिसहोषितौ ॥ १०॥ पञ्चालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह । द्विवेदः पुण्डरीकश्च छन्दोगोऽध्वर्युरेव च ॥ ११॥ ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् । अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान् ॥ १२॥ पञ्चालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे । विविशतुर्वनं तत्र गतौ परमिकां गतिम् ॥ १३॥ ब्रह्मदत्तस्य भार्या तु सन्नितिर्नाम भारत । सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु ॥ १४॥ शेषास्तु चक्रवाका वै काम्पिल्ये सहचारिणः । जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप ॥ १५॥ धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः । वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥ १६॥ ते योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि । आमन्त्र्य च मिथः शम्भोः पदाम्भोजं प्रणम्य तु ॥ १७॥ ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव च । करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि ॥ १८॥ इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम् । श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम् ॥ १९॥ प्रीतात्मा दास्यति स ते ग्रामान् भोगांश्च पुष्कलान् । एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् । योगधर्ममनुप्राप्य परां निर्वृतिमाययुः ॥ २०॥ चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् । श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥ २१॥ श्रावयामास राजानं स्लोकं तं सचिवौ च तौ । सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ॥ २२॥ चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे । तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ २३॥ प्रस्थिता दिर्घमध्वानं युयं किमवसीदथ । तच्छ्रुत्वा मोहमगमद्ब्रह्मदत्तो नराधिपः ॥ २४॥ सचिवश्चास्य पाञ्चालः पुण्डरीकश्च भारत । ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ॥ २५॥ ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् । अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् ॥ २६॥ जगाम ब्रह्मदत्तो हि सदारो वनमेव ह । प्राप्य योगं बलादेव गतिं प्राप सुदुर्लभाम् ॥ २७॥ पुण्डरीकोऽपि धर्मात्मा साङ्ख्ययोगमनुत्तमम् । प्राप्य योगगतिः सिद्धो विशुद्धस्तेन कर्मणा ॥ २८॥ क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् । योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः ॥ २९॥ शूरा ये सम्प्रपद्यन्ते अपुनर्भवकाङ्क्षिणः । पापं प्रणाशयन्त्वद्य तच्छम्भोः परमं पदम् ॥ ३०॥ शारीरे मानसे चैव पापे वाग्जे महामुने । कृते सम्यगिदं भक्त्या पठेच्छ्रद्धासमन्वितः ॥ ३१॥ मुच्यते सर्वपापेभ्यः शिवनामानुकीर्तनात् । उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै ॥ ३२॥ विलयं पापमायाति ह्यामभाण्डमिवाम्भसि । तस्मात्तत्सञ्चिते पापे समानान्तरमेव च ॥ ३३॥ जप्तव्यमेतत्पापस्य प्रशमाय महामुने । नरैः श्रद्धालुभिभूर्यः सर्वकामफलाप्तये ॥ ३४॥ पुष्ट्यर्थमिममध्यायं पठेदेनं श‍ृणोति वा । मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः ॥ ३५॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृप्रभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ५.४२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४३. त्रिचत्वारिंशोऽध्यायः । व्यासपूजनप्रकारः ।

शौनक उवाच । आचार्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना । ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥ १॥ सूत उवाच । पूजयेद्विधिवद्भक्त्याचार्यं श्रुत्वा कथां पराम् । ग्रन्थान्ते विधिवद्दद्यादाचार्याय प्रसन्नधीः ॥ २॥ ततो वक्तारमानम्य सम्पूज्य च यथाविधि । भूषणैर्हस्तकर्णानां वस्त्रैः सौम्यादिभिः सुधीः ॥ ३॥ शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् । कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥ ४॥ तत्रास्थाप्य शुभं ग्रन्थं लिखितं ललिताक्षरैः । आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥ ५॥ ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च । मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६॥ विधानसहितं सम्यक् श्रुतं हि सफलं स्मृतम् । पुराणं शौनकमुने सत्यमेवोदितं मया ॥ ७॥ तस्माद्विधानयुक्तं तु श‍ृणुयाद्भक्तितो मुने । पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥ ८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥ ५.४३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४४. चतुश्चत्वारिंशोऽध्यायः । व्यासोत्पत्तिवर्णनम् ।

मुनय ऊचुः । व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे । कृपया परया स्वामिन् कृतार्थान्नः कुरु प्रभो ॥ १॥ व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा । विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥ २॥ तस्यां जातो महायोगी कथं व्यासः पराशरात् । सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ॥ ३॥ सूत उवाच । एकदा तीर्थयात्रायां व्रजन्योगी पराशरः । यदृच्छयागतो रम्यं यमुनायास्तटं शुभम् ॥ ४॥ निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा । नयस्व यमुनापारं जलयानेन मामरम् ॥ ५॥ इत्युक्तो मुनिना तेन निषादः स्वसुतां जगौ । मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ॥ ६॥ तापसोऽयं महाभागे दृश्यन्तीगर्भसम्भवः । तितीर्षुरस्ति धर्माब्धिश्चतुराम्नायपारगः ॥ ७॥ इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् । संवाहयति नौकायामासीनं सूर्यरोचिषम् ॥ ८॥ कालयोगान्महायोगी तस्यां कामातुरोऽभवत् । दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ॥ ९॥ ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् । दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे ॥ १०॥ तमुवाच विशालाक्षी वचनं स्मितपूर्वकम् । किमिदं क्रियते कर्म वाचंयमविगर्हितम् ॥ ११॥ वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते । निषादजा त्वहं ब्रह्मन् कथं सङ्गो घटेत नौ ॥ १२॥ दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः । तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ॥ १३॥ विद्यया वपुषा वाचा कुलशीलेन चान्वितः । कामबाणवशं यातो महदाश्चर्यमत्र हि ॥ १४॥ प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह । भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ॥ १५॥ इति सञ्चिन्त्य हृदये निजगाद महामुनिम् । तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न ॥ १६॥ सूत उवाच । इति श्रुत्वा वचस्तस्या योगिराजः पराशरः । तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ॥ १७॥ पुनर्जग्राह तां बालां मुनिंः कामप्रपीडितः । कम्पमाना तु सा बाला तमुवाच दयानिधिम् ॥ १८॥ दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा । भवांस्तु परमोदारविचारो योगिसत्तमः ॥ १९॥ नावयोर्घटते सङ्गो काचकाञ्चनयोरिव । तुल्यजात्याकृतिकयोः सङ्गः सौख्यप्रदो भवेत् ॥ २०॥ इत्युक्तेन तया तेन क्षणमात्रेण कामिनी । कृता योजनगन्धा तु रम्यरूपा मनोरमा ॥ २१॥ पुनर्जग्राह तां बालां स मुनिः कामपीडितः । ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ॥ २२॥ रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ । दिवासङ्गे महान्दोषो निन्दा चापि दुरासदा ॥ २३॥ तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी । पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ॥ २४॥ तयोक्तमिदमाकर्ण्य वचनं मुनिपुङ्गवः । नीहारं कल्पयामास सद्यः पुण्यबलेन वै ॥ २५॥ नीहारे च समुत्पन्ने तमसा रात्रिसन्निभे । व्यवायचकिता बाला पुनः प्रोवाच तं मुनिम् ॥ २६॥ योगिन्नमोघवीर्यस्त्वं भुक्त्वा गन्तासि मां यदि । सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ॥ २७॥ कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति । हसिष्यन्ति तदा लोकाः पितरं किं ब्रवीम्यहम् ॥ २८॥ पराशर उवाच । रम बाले मया सार्धं स्वच्छन्दं कामजै रसैः । स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये ॥ २९॥ मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव । वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि ॥ ३०॥ सत्यवत्युवाच । जानते न पिता माता न वान्ये भुवि मानवाः । कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मां तदा ॥ ३१॥ पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् । सौगन्ध्यं सर्वदाङ्गे मे तारुण्यं च नवं नवम् ॥ ३२॥ पराशर उवाच । श‍ृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति । विष्ण्वंशसम्भवः पुत्रो भविता ते महायशाः ॥ ३३॥ किञ्चिद्वै कारणं विद्धि यतोऽहं कामपीडितः । दृष्ट्वा चाप्सरसां रूपं नामुह्यन्मे मनः क्वचित् ॥ ३४॥ मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् । न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत् ॥ ३५॥ पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत् । भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये ॥ ३६॥ इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः । वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने ॥ ३७॥ सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् । असूत सूर्यजाद्वीपे कामदेवमिवात्मजम् ॥ ३८॥ वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् । पिशङ्गीभिर्जटाभिश्च राजितो महसां चयः ॥ ३९॥ जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ ४०॥ मातर्यदा भवेत्कार्यं तव किञ्चिद् हृदीप्सितम् । संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे ॥ ४१॥ इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः । जगाम च तपः कर्तुं तीर्थं पापविशोधनम् ॥ ४२॥ सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती । स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम् ॥ ४३॥ द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् । वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः ॥ ४४॥ तीर्थराजं प्रथमतो धर्मकामार्थमोक्षदम् । नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम् ॥ ४५॥ अयोध्यां मथुरां चैव द्वारकाममरावतीम् । सरस्वतीं सिन्धुसङ्गं गङ्गासागरसङ्गमम् ॥ ४६॥ काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम् । कालञ्जरं प्रभासं च तथा बदरिकाश्रमम् ॥ ४७॥ महालयं तथोङ्कारक्षेत्रं वै पुरुषोत्तमम् । गोकर्णं भृगुकच्छं च भृगुतुङ्गं च पुष्करम् ॥ ४८॥ श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च । गत्वावगाह्य विधिना चचार परमं तपः ॥ ४९॥ एवं तीर्थान्यनेकानि नानादेशस्थितानि ह । पर्यटन्कालिकासूनुः प्रापद्वाराणसीं पुरीम् ॥ ५०॥ यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी । भक्तानाममृतं दातुं विराजेते कृपानिधी ॥ ५१॥ प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् । कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः ॥ ५२॥ दृष्ट्वा लिङ्गानि सर्वाणि विश्वेशप्रमुखानि च । स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरःसु च ॥ ५३॥ नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च । सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥ ९४॥ दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः । आदिकेशवमुख्यांश्च केशवान्परितोष्य च ॥ ५५॥ लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः । कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ॥ ५६॥ स्थापयामास पुण्यात्मा लिङ्गं व्यासेश्वराभिधम् । यद्दर्शनाद्भवेद्विप्रा नरो विद्यासु वाक्पतिः ॥ ५७॥ लिङ्गान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः । असकृच्चिन्तयामास किं लिङ्गं क्षिप्रसिद्धिदम् ॥ ५८॥ यमाराध्य महादेवं विद्याः सर्वा लभेमहि । पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात् ॥ ५९॥ श्रीमदोङ्कारनाथं वा कृत्तिवासेश्वरं किमु । केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥ ६०॥ कालेशं वृद्धकालेशं कलशेश्वरमेव वा । ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरं तु वा ॥ ६१॥ दशाश्वमेधमीशानं द्रुमचण्डेशमेव वा । दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम् ॥ ६२॥ प्रसन्नवदनेशं वा धर्मेशं तारकेश्वरम् । नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ॥ ६३॥ पर्वतेशं पशुपतिं हाटकेश्वरमेव वा । बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा ॥ ६४॥ भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा । मरुतेशं तु मोक्षेशं गङ्गेशं नर्मदेश्वरम् ॥ ६५॥ कृष्णेशं परमेशानं रत्नेश्वरमथापि वा । यामुनेशं लाङ्गलीशं श्रीमद्विश्वेश्वरं विभुम् ॥ ६६॥ अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा । व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा ॥ ६७॥ वरुणेशं विधीशं वा हरिकेशेश्वरं तु वा । भवानीशं कपर्दीशं कन्दुकेशमजेश्वरम् ॥ ६८॥ विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा । नादेशं कपिलेशं च भुवनेश्वरमेव वा ॥ ६९॥ वाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा । विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम् ॥ ७०॥ अमृतेशं सतीशं वा पार्वतीश्वरमेव वा । सिद्धेश्वरं मतङ्गेशं भूतीश्वरमथापि वा ॥ ७१॥ आषाढीशं प्रकाशेशं कोटिरुद्रेश्वरं तथा । मदालसेश्वरं चैव तिलपर्णेश्वरं किमु ॥ ७२॥ किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् । इत्यादि कोटिलिङ्गानां मध्येऽहं किमुपाश्रये ॥ ७३॥ इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान् । क्षणं विचारयामास ध्यानसुस्थिरचेतसा ॥ ७४॥ आं ज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः । सिद्धैः सम्पूजितं लिङ्गं धर्मकामार्थमोक्षदम् ॥ ७५॥ दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् । उद्घाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि ॥ ७६॥ अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् । यत्रास्ते परमं लिङ्गं मध्यमेश्वरसंज्ञकम् ॥ ७७॥ न मध्यमेश्वरादन्याल्लिङ्गं काश्यां हि विद्यते । यद्दर्शनार्थमायान्ति देवाः पर्वणि पर्वणि ॥ ७८॥ अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः । अस्याराधनतो विप्रा बहवः सिद्धिमागताः ॥ ७९॥ यः प्रधानतया काश्यां मध्ये तिष्ठति शङ्करः । स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः ॥ ८०॥ तुम्बुरुर्नाम गन्धर्वो देवर्षिर्नारदस्तथा । अमुमाराध्य सम्पन्नो गानविद्याविशारदौ ॥ ८१॥ अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत् । ब्रह्मा विष्णुश्च रुद्रश्च सृष्टिपालकहारकाः ॥ ८२॥ धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट् । खट्वाङ्गो नाम भूपालोऽनपत्योऽपत्यवानभूत् ॥ ८३॥ अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः । सदेहा कोकिलालापा लिङ्गमध्ये लयं गता ॥ ८४॥ श्रीकरो गोपिकासूनुः सेवित्वा मध्यमेश्वरम् । गाणपत्यं समालेभे शिवस्य करुणात्मनः ॥ ८५॥ भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ । विद्यापारङ्गतौ जातौ प्रसादान्मध्यमेशितुः ॥ ८६॥ अहमप्यत्र सम्पूज्य मध्यमेश्वरमीश्वरम् । पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा ध्रुवम् ॥ ८७॥ इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः । भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती ॥ ८८॥ क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् । वातभुग्जलभुक् क्वापि क्वचिन्निरशनव्रती ॥ ८९॥ इत्यादिनियमैर्योगी त्रिकालं मध्यमेश्वरम् । पूजयामास धर्मात्मा नानावृक्षोद्भवैः फलैः ॥ ९०॥ इत्थं बहुतिथे काले व्यतीते कालिकासुतः । स्नात्वा त्रिपथगातोये यावदायाति स प्रगे ॥ ९१॥ मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् । तावद्ददर्श पुण्यात्मा मध्ये लिङ्गं महेश्वरम् ॥ ९२॥ उमाभूषितवामाङ्गं व्याघ्रचर्मोत्तरीयकम् । जटाजूटचलद्गङ्गातरङ्गैश्चारुविग्रहम् ॥ ९३॥ लसच्छारदबालेन्दुचन्द्रिकाचन्द्रितालकम् । भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम् ॥ ९४॥ कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् । पञ्चवर्षाकृतिं बालं बालकोचितभूषणम् ॥ ९५॥ दधानं कोटिकन्दर्पदर्पहानिं तनुद्युतिम् । नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया ॥ ९६॥ करुणापारपाथोधिं भक्तवत्सलनामकम् । आशुतोषमुमाकान्तं प्रसादसुमुखं हरम् ॥ ९७॥ समालोक्य स्तुतिं चक्रे प्रेमगद्गदया गिरा । योगिनामप्यगम्यं तं दीनबन्धुं चिदात्मकम् ॥ ९८॥ वेदव्यास उवाच । देवदेव महाभाग शरणागतवत्सल । वाङ्मनःकर्मदुष्प्राप योगिनामप्यगोचर ॥ ९९॥ महिमानं न ते वेदा विदामासुरुमापते । त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च ॥ १००॥ त्वमाद्यः सर्वदेवानां सच्चिदानन्द ईश्वरः । नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव ॥ १०१॥ त्वमेव परमं ब्रह्म मायापाशनिवर्तकः । गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवाम्भसा ॥ १०२॥ न ते जन्म न वा शीलं न देशो न कुलं च ते । इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः काममावहेः ॥ १०३॥ न ब्रह्मा न च लक्ष्मीशो न च सेन्द्रा दिवौकसः । न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे ॥ १०४॥ त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः । त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम् ॥ १०५॥ नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे । पुराणपुरुषायाद्धा शङ्कराय परात्मने ॥ १०६॥ इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः । तावत्स बालो हृष्टात्मा वेदव्यासमभाषत ॥ १०७॥ वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते । नादेयं विद्यते किञ्चिद्भक्ताधीनो यतोऽस्म्यहम् ॥ १०८॥ तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः । प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १०९॥ सर्वान्तरात्मा भगवान् शर्वः सर्वप्रदो भवान् । याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ ११०॥ इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः । शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत् ॥ १११॥ बाल उवाच । त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ ११२॥ कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः । सेतिहासपुराणानि सम्यङ्निर्मापयाम्यहम् ॥ ११३॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् । वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि ॥ ११४॥ एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्धनम् । सर्वसम्पत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम् ॥ ११५॥ प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाङ्करम् । वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद् बृहस्पतिः ॥ ११६॥ स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ । वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्यां च वर्धयेत् ॥ ११७॥ इत्युक्त्वा स महादेवो बालो लिङ्गे न्यलीयत । व्यासोऽपि मुञ्चन्नश्रूणि शिवप्रेमाकुलोऽभवत् ॥ ११८॥ एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात् । अष्टादश पुराणानि प्रणिनाय स्वलीलया ॥ ११९॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । भविष्यं नारदीयं च मार्कण्डेयमतः परम् ॥ १२०॥ आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च । वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च ॥ १२१॥ स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् । यशस्यं पुण्यदं नॄणां श्रोतॄणां शाङ्करं यशः ॥ १२२॥ सूत उवाच । अष्टादशपुराणानां पूर्वं नामोदितं त्वया । कुरु निर्वचनं तेषामिदानीं वेदवित्तम ॥ १२३॥ व्यास उवाच । अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना । नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत् ॥ १२४॥ नन्दिकेश्वर उवाच । यत्र वक्ता स्वयं तण्डिन् ब्रह्मा साक्षाच्चतुर्मुखः ॥ तस्माद् ब्राह्मं समाख्यातं पुराणं प्रथमं मुने ॥ १२५॥ पद्मकल्पस्य माहात्म्यं तत्र यस्यामुदाहृतम् । तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम् ॥ १२६॥ पराशरकृतं यत्तु पुराणं विष्णुबोधकम् । तदेव व्यासकथितं पुत्रपित्रोरभेदतः ॥ १२७॥ यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु । शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च ॥ १२८॥ भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते । तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम् ॥ १२९॥ नारदोक्तं पुराणं तु नारदीयं प्रचक्षते । यत्र वक्ताभवत्तण्डिन् मार्कण्डेयो महामुनिः ॥ १३०॥ मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् । अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ॥ १३१॥ विवर्तनाद् ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते । लिङ्गस्य चरितोक्तत्वात्पुराणं लिङ्गमुच्यते ॥ १३२॥ वराहस्य च वाराहं पुराणं द्वादशं मुने । यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः ॥ १३३॥ तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् । कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम् ॥ १३४॥ गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् । ब्रह्माण्डचरितोक्तत्वाद् ब्रह्माण्डं परिकीर्तितम् ॥ १३५॥ सूत उवाच । अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते । ततः सर्वपुराणानां मया निर्वचनं श्रुतम् ॥ १३६॥ एवं व्यासः समुत्पन्नः सत्यवत्यां पराशरात् । पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ १३७॥ पराशरेण संयोगः पुनः शन्तनुना यथा । सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि ॥ १३८॥ सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी । महतां चरिते चैव गुणा ग्राह्या विचक्षणैः ॥ १३९॥ इदं रहस्यं परमं यः श‍ृणोति पठत्यपि । स सर्वपापनिर्मुक्त ऋषिलोके महीयते ॥ १४०॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ५.४४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४५. पञ्चचत्वारिंशोऽध्यायः । महाकालिकावतारवर्णनम् ।

मुनय ऊचुः । श्रुता शम्भोः कथा रम्या नानाख्यानसमन्विता । नानावतारसंयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ॥ १॥ इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर । चरित्रं जगदम्बाया भगवत्या मनोहरम् ॥ २॥ परब्रह्ममहेशस्य शक्तिराद्या सनातनी । उमा या समभिख्याता त्रैलोक्यजननी परा ॥ ३॥ सती हैमवती तस्या अवतारद्वयं श्रुतम् । अपरानवतारांस्त्वं ब्रूहि सूत महामते ॥ ४॥ को विरज्येत मतिमान् गुणश्रवणकर्मणि । श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन ॥ ५॥ सूत उवाच । धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा । यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ॥ ६॥ श‍ृण्वतां पृच्छतां चैव तथा वाचयतां च तत् । पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ ७॥ ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् । येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ॥ ८॥ ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् । मायागुणैर्मोहिताः स्युर्हतभाग्या न संशयः ॥ ९॥ न भजन्ति महादेवीं करुणारससागराम् । अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ॥ १०॥ गङ्गां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् । विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत् ॥ ११॥ यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम् । अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ॥ १२॥ एतत्पृष्टः पुरा मेधाः सुरथेन महात्मना । यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ॥ १३॥ स्वारोचिषेऽन्तरे पूर्वं विरथो नाम पार्थिवः । सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ॥ १४॥ दानशौण्डः सत्यवादी स्वधर्मकुशलः कृती । देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ॥ १५॥ पृथिवीं शासतस्तस्य पाकशासनतेजसः । बभूवुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः ॥ १६॥ कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः । तैः समं तुमुलं युद्धं समपद्यत दारुणम् ॥ १७॥ युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः । उज्जासितश्च कोलाया हृत्वा राज्यमशेषतः ॥ १८॥ स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमन्त्रिभिः । तत्रापि च महापक्षैर्विपक्षैः स पराजितः ॥ १९॥ दैवाच्छत्रुत्वमापन्नैरमात्यप्रमुखैर्गणैः । कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ॥ २०॥ ततः स निर्गतो राजा नगरान्मृगयाछलात् । असहायोऽश्वमारुह्य जगाम गहनं वनम् ॥ २१॥ इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् । ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ॥ २२॥ वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् । शिष्यैः प्रशिष्यैस्तच्छिष्यैः समन्तात्परिवेष्टितम् ॥ २३॥ व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते । तदाश्रमे न बाधन्ते द्विजवर्यप्रभावतः ॥ २४॥ उवास तत्र नृपतिर्महाकारुणिको बुधः । सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ॥ २५॥ एकदा स महाराजश्चिन्तामाप दुरत्ययाम् । अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ॥ २६॥ हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः । मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ॥ २७॥ मादृशश्चैत्रवंशेऽस्मिन्न कोऽप्यासीन्महीपतिः । किं करोमि क्व गच्छामि कथं राज्यं लभेय हि ॥ २८॥ अमात्या मन्त्रिणश्चैव मामका ये सनातनाः । न जाने कं च नृपतिं समासाद्याधुनासते ॥ २९॥ विनाश्य राज्यमधुना न जाने कां गतिं गताः । रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः ॥ ३०॥ मामका ये महाशूरा नृपमन्यं भजन्ति ते । पर्वताभा गजा अश्वा वातवद्वेगगामिनः ॥ ३१॥ पूर्वपूर्वार्जितः कोशः पाल्यते तैर्न वाधुना । एवं मोहवशं यातो राजा परमधार्मिकः ॥ ३२॥ एतस्मिन्नन्तरे तत्र वैश्यः कश्चित्समागतः । राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः ॥ ३३॥ दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् । इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम् ॥ ३४॥ दृग्भ्यां विमुञ्चन्नश्रूणि समाधिर्वैश्यपुङ्गवः । प्रत्युवाच महीपालं प्रणयावनतां गिरम् ॥ ३५॥ वैश्य उवाच । समाधिर्नाम वैश्योऽहं धनिवंशसमुद्भवः । पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते ॥ ३६॥ वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा । सोऽहं पुत्रप्रपौत्राणां कलत्राणां तथैव च ॥ ३७॥ भ्रातृणां भ्रातृपुत्राणां परेषां सुहृदां तथा । न वेद्मि कुशलं सम्यक् करुणासागर प्रभो ॥ ३८॥ राजोवाच । निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः । तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत् ॥ ३९॥ वैश्य उवाच । सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् । तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः ॥ ४०॥ एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम । जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिं तदा ॥ ४१॥ स वैश्यराजसहितो नरराजः प्रतापवान् । प्रणनाम महावीरः शिरसा योगिनां वरम् ॥ ४२॥ बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् । भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम् ॥ ४३॥ अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः । तथापि हृतराज्यस्य तोषो नैवाभिजायते ॥ ४४॥ अयं च वैश्यः स्वजनैर्दाराद्यैर्निष्कृतो गृहात् । तथाप्येतस्य ममता न निवृत्तिं समश्नुते ॥ ४५॥ किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः । मोहेन व्याकुलं जातं महत्येषा हि मूर्खता ॥ ४६॥ ऋषिरुवाच । महामाया जगद्धात्री शक्तिरूपा सनातनी । सा मोहयति सर्वेषां समाकृष्य मनांसि वै ॥ ४७॥ ब्रह्मादयः सुराः सर्वे यन्मायामोहिताः प्रभो । न जानन्ति परं तत्त्वं मनुष्याणां च का कथा ॥ ४८॥ सा सृजत्यखिलं विश्वं सैव पालयतीति च । सैव संहरते काले त्रिगुणा परमेश्वरी ॥ ४९॥ यस्योपरि प्रसन्ना सा वरदा कामरूपिणी । स एव मोहमत्येति नान्यथा नृपसत्तम ॥ ५०॥ राजोवाच । का सा देवी महामाया या च मोहयतेऽखिलान् । कथं जाता च सा देवी कृपया वद मे मुने ॥ ५१॥ ऋषिरुवाच । जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् । योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः ॥ ५२॥ तदा द्वावसुरौ जातौ विष्णोः कर्णमलेन वै । मधुकैटभनामानौ विख्यातौ पृथिवीतले ॥ ५३॥ प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू । दंष्ट्राकरालवदनौ भक्षयन्तौ जगन्ति वा ॥ ५४॥ तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् । हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ ॥ ५५॥ समालोक्य तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् । शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम् ॥ ५६॥ ब्रह्मोवाच । रक्ष रक्ष महामाये शरणागतवत्सले । एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके ॥ ५७॥ प्रणमामि महामायां योगनिद्रामुमां सतीम् । कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ॥ ५८॥ त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् । पालिनीं सर्वदेवानां करुणावरुणालयाम् ॥ ५९॥ त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः । सृजत्यवति संसारं काले संहरतीति च ॥ ६०॥ त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता । तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया ॥ ६१॥ विष्णुमाया त्वमेवाम्ब त्वमेव चेतना मता । त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च ॥ ६२॥ भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता । त्वं लक्ष्मीर्भवने पुंसां पुण्याचारप्रवर्तिनाम् ॥ ६३॥ त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि । त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता ॥ ६४॥ सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके । प्रबोधय जगद्योने नारायणमजं विभुम् ॥ ६५॥ ऋषिरुवाच । ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने । महाविद्या जगद्धात्री सर्वविद्याधिदेवता ॥ ६६॥ द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप । महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी ॥ ६७॥ ततोऽभवद्वियद्वाणी मा भैषीः कमलासन । कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ ॥ ६८॥ इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः । निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥ ६९॥ उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः । स ददर्श पुरो दैत्यौ मधुकैटभसंज्ञकौ ॥ ७०॥ ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः । पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा ॥ ७१॥ महामायाप्रभावेण मोहितौ दानवोत्तमौ । जजल्पतू रमाकान्तं गृहाण वरमीप्सितम् ॥ ७२॥ नारायण उवाच । मयि प्रसन्नौ यदि वां दीयतामेष मे वरः । मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम् ॥ ७३॥ ऋषिरुवाच । एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः । आवां जहि न यत्रासौ धरणी पयसाप्लुता ॥ ७४॥ तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् । चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः ॥ ७५॥ एवं ते कथितो राजन् कालिकायाः समुद्भवः । महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते ॥ ७६॥ निर्विकारादि साकारा निराकारापि देव्युमा । देवानां तापनाशार्थं प्रादुरासीद्युगे युगे ॥ ७५॥ यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः । लीलया सापि भक्तानां गुणवर्णनहेतवे ॥ ७८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ५.४५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४६. षट्चत्वारिंशोऽध्यायः । महालक्ष्म्यवतारवर्णनम् ।

ऋषिरुवाच । आसीद्रम्भासुरो नाम दैत्यवंशशिरोमणिः । तस्माज्जातो महातेजा महिषो नाम दानवः ॥ १॥ स सङ्ग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः । चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥ २॥ पराजितास्ततो देवा ब्रह्माणं शरणं ययुः । ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥ ३॥ तत्र गत्वा सुराः सर्वे नत्वा शङ्करकेशवौ । स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥ ४॥ भगवन्तौ वयं सर्वे महिषेण दुरात्मना । उज्जासिताश्च स्वर्लोकान्निर्जित्य समराङ्गणे ॥ ५॥ भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहिशं क्वचित् । कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥ ६॥ सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च । इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७॥ एतेषामपरेषां च विधेयं कर्म सोऽसुरः । स्वयं करोति पापात्मा दैत्यपक्षाभयङ्कर ॥ ८॥ तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः । वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥ ९॥ इति देववचः श्रुत्वा दामोदरसतीश्वरौ । चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥ १०॥ ततोऽतिकोपपूर्णस्य विष्णोः शम्भोश्च वक्त्रतः । तथान्येषां च देवानां शरीरान्निर्गतं महः ॥ ११॥ अतीव महसः पुञ्जं ज्वलन्तं दशदिक्षु च । अपश्यंस्त्रिदशाः सर्वे दुर्गाध्यानपरायणाः ॥ १२॥ सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् । सङ्घीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥ १३॥ शम्भुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् । याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥ १४॥ चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत । मध्यमैन्द्रेण जङ्घोरू वारुणेन बभूवतुः ॥ १५॥ भूतेजसा नितम्बोऽभूद् ब्राह्मेण चरणद्वयम् । आर्केण चरणाङ्गुल्यः कराङ्गुल्यश्च वासवात् ॥ १६॥ कुबेरतेजसा नासा रदनाश्च प्रजापतेः । पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥ १७॥ आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् । तेजसा सम्भवा पद्मालया सा परमेश्वरी ॥ १८॥ ततो निखिलदेवानां तेजोराशिसमुद्भवाम् । तामालोक्य सुराः सर्वे परं हर्षं प्रपेदिरे ॥ १९॥ निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः । सायुधां तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥ २०॥ ततः शूलं महेशानो महेशान्यै समर्पयत् । चक्रं च कृष्णो भगवान् शङ्खं पाशं च पाशभृत् ॥ २१॥ शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च । बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥ २२॥ यमो ददौ कालदण्डमक्षमालां प्रजापतिः । ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥ २३॥ कालः खड्गं ददौ तस्यै फलकं च समुज्वलम् । क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥ २४॥ चूडामणिं कुण्डले च कटकानि तथैव च । अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरौ ॥ २५॥ ग्रैवेयकमङ्गुलीषु समस्तास्वङ्गुलीयकम् । विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥ २६॥ अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् । सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥ २७॥ ददौ सिंहं च हिमवान् रत्नानि विविधानि च । सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ॥ २८॥ शेषश्च भोगिनां नेता विचित्ररचनाञ्चितम् । ददौ तस्यै नागहारं नानासन्मणिगुम्फितम् ॥ २९॥ एतैश्चान्यैः सुरैर्देवी भूषणैरायुधैस्तथा । सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः ॥ ३०॥ तस्या भीषणनादेन पूरिता च नभःस्थली । प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ॥ ३१॥ चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह । जयशब्दस्ततो देवैरकारि महिषार्दितैः ॥ ३२॥ ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् । तुष्टुवुस्ते सुराः सर्वे भक्तिगद्गदया गिरा ॥ ३३॥ लोकं सङ्क्षुब्धमालोक्य देवतापरिपन्थिनः । सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ॥ ३४॥ महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः । स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ॥ ३५॥ एतस्मिन्नन्तरे तत्र महिषासुरपालिताः । समाजग्मुर्महावीराः कोटिशो धृतहेतयः ॥ ३६॥ चिक्षुरश्चामरोदग्रौ करालोद्धतवाष्कलाः । ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ॥ ३७॥ दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः । एते चान्ये च बहवः शूरा युद्धविशारदाः ॥ ३८॥ युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः । इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ॥ ३९॥ अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः । महामायाप्रभावेण विफला अभवन् क्षणात् ॥ ४०॥ ततो जघान सा देवी चिक्षुरप्रमुखानरीन् । सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ॥ ४१॥ एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः । देवीनिःश्वाससम्भूतान्भावयामास तान्गणान् ॥ ४२॥ अताडयत्खुरैः काश्चित्काश्चिच्छृङ्गद्वयेन च । लाङ्गूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ॥ ४३॥ इत्थं देवीगणान्हत्वाभ्यधावत्सोऽसुराधिपः । सिंहं मारयितुं देव्यास्ततोऽसौ कुपितोऽभवत् ॥ ४४॥ कोपात्सोऽपि महावीर्यः खुरकुट्टितभूतलः । श‍ृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ॥ ४५॥ वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः । आकाशतो महीमध्ये निपेतुर्नृपसत्तम ॥ ४६॥ श‍ृङ्गभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ॥ लाङ्गूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ॥ ४७॥ एवं क्रुद्धं समालोक्य महिषासुरमम्बिका । विदधे तद्वधोपायं देवानामभयङ्करी ॥ ४८॥ ततः पाशं समुत्थाप्य क्षिप्त्वा तस्योपरीश्वरी । बबन्ध महिषं सोऽपि रूपं तत्याज माहिषम् ॥ ४९॥ ततः सिंहो बभूवाशु मायावी तच्छिरोऽम्बिका । यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ॥ ५०॥ सचर्मासिकरं तं च देवी बाणैरताडयत् । ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ॥ ५१॥ ततोऽस्य च करं देवी चकर्त स्वमहासिना । अधारि च पुना रूपं स्वकीयं तेन रक्षसा ॥ ५२॥ तदैव क्षोभयामास त्रैलोक्यं सचराचरम् । ततः क्रुद्धा महामाया चण्डिका मानविक्रमा ॥ ५३॥ पपौ पुनः पुनः पानं जहासोद्भ्रान्तलोचना । जगर्ज चासुरः सोऽपि बलवीर्यमदोद्धतः ॥ ५४॥ तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः । सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ॥ ५५॥ वारुणीमदसञ्जातमुखरागाकुलेन्द्रिया । प्रोवाच परमेशानी मेघगम्भीरया गिरा ॥ ५६॥ देव्युवाच । रे मूढ रे हतप्रज्ञ व्यर्थं किं कुरुषे हठम् । न मदग्रेऽसुराः केऽपि स्थास्नवो जगतीत्रये ॥ ५७॥ ऋषि रुवाच । एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी । पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साभिनत् ॥ ५८॥ ततस्तच्चरणाक्रान्तः स स्वकीयमुखात्ततः । अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ५९॥ अर्धनिष्क्रान्त एवासौ युध्यमानो महाधमः । महासिना शिरो भित्त्वा न्यपाति धरणीतले ॥ ६०॥ हा हा शब्दं समुच्चार्यावाङ्मुखास्तद्गणास्ततः । पलायन्त रणाद्भीतास्त्राहि त्राहीति वादिनः ॥ ६१॥ तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः । गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ॥ ६२॥ एवं ते कथितो राजन्महालक्ष्म्याः समुद्भवः । सरस्वत्यास्तथोत्पत्तिं श‍ृणु सुस्थेन चेतसा ॥ ६३॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ५.४६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४७. सप्तचत्वरिंशोऽध्यायः । धूम्रलोचनचण्डमुण्डरक्तबीजवधः ।

ऋषिरुवाच । आसीच्छुम्भासुरो दैत्यो निशुम्भश्च प्रतापवान् । त्रैलोक्यमोजसाक्रान्तं भ्रातृभ्यां सचराचरम् ॥ १॥ ताभ्यां प्रपीडिता देवा हिमवन्तं समाययुः । जननीं सर्वभूतानां कामदात्रीं ववन्दिरे ॥ २॥ देवा ऊचुः । जय दुर्गे महेशानि जयात्मीयजनप्रिये । त्रैलोक्यत्राणकारिण्यै शिवायै ते नमो नमः ॥ ३॥ नमो मुक्तिप्रदायिन्यै पराम्बायै नमो नमः । नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ॥ ४॥ कालिकारूपसम्पन्ने नमस्ताराकृते नमः । छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोऽस्तु ते ॥ ५॥ भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते । नमोऽस्तु बगलामुख्यै धूमावत्यै नमो नमः ॥ ६॥ नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमो नमः । अजितायै नमस्तुभ्यं विजयायै नमो नमः ॥ ७॥ जयायै मङ्गलायै ते विलासिन्यै नमो नमः । दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते ॥ ८॥ नमोऽपराजिताकारे नित्याकारे नमो नमः । शरणागतपालिन्यै रुद्राण्यै ते नमो नमः ॥ ९॥ नमो वेदान्तवेद्यायै नमस्ते परमात्मने । अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ १०॥ इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा । प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का ॥ ११॥ ततो गौरीतनोरेका प्रादुरासीत्कुमारिका । सोवाच मिषतां तेषां शिवशक्तिं परादरात् ॥ १२॥ स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः । निशुम्भशुम्भदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः ॥ १३॥ शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी । नाम्ना सा गीयते साक्षाच्छुम्भासुरनिबर्हिणी ॥ १४॥ चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च । प्रादुर्भूता यतः सा वै मातङ्गीत्युच्यते भुवि ॥ १५॥ बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः । कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम् ॥ १६॥ इत्युक्त्वा सा तदा देवी तरसान्तर्हिताभवत् । चण्डमुण्डौ तु तां देवीमद्राष्टां सेवकौ तयोः ॥ १७॥ दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम् । पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ ॥ १८॥ गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः । दृष्टा काचिन्मयापूर्वा नारी राजन्मनोहरा ॥ १९॥ हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी । समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः ॥ २०॥ कुरुते पादसंवाहं काचित्संस्कुरुते कचान् । पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात् ॥ २१॥ काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम् । नागवल्लीं ददात्येका लवङ्गैलादिसंयुताम् ॥ २२॥ पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः । भूषयत्यखिलाङ्गानि काचिद्भूषाम्बरादिभिः ॥ २३॥ कदलीस्तम्भजङ्घोरुः कीरनासाहिदोर्लता । रणन्मञ्जीरचरणा रम्यमेखलया युता ॥ २४॥ लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी । ग्रैवेयकलसद्ग्रीवा ललन्ती दाममण्डिता ॥ २५॥ अर्धचन्द्रधरा देवी मणिकुण्डलधारिणी । रम्यवेणिर्विशालाक्षी लोचनत्रयभूषिता ॥ २६॥ साक्षरा मालिकोपेता पाणिराजितकङ्कणा । स्वर्णोर्मिकाङ्गुलिर्भ्राजत्पारिहार्यलसत्करा ॥ २७॥ शुभ्रवस्त्रावृता गौरी पद्मासनविराजिता । काश्मीरबिन्दुतिलका चन्द्रालङ्कृतमस्तका ॥ २८॥ तडिद्द्युतिर्महामूल्याम्बरचोलोन्नमत्कुचा । भुजैरष्टाभिरुत्तुङ्गैर्धारयन्ती वरायुधान् ॥ २९॥ तादृशी नासुरी नागी न गन्धर्वी न दानवी । विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा ॥ ३०॥ तस्मात्सम्भोगयोग्यत्वं तस्यास्त्वय्येव शोभते । नारीरत्नं यतः सा वै पुंरत्नं च भवान्प्रभो ॥ ३१॥ इत्युक्तं चण्डमुण्डाभ्यां निशम्य स महासुरः । दूतं सुग्रीवनामानं प्रेषयामास तां प्रति ॥ ३२॥ गच्छ दूत तुषाराद्रौ तत्रास्ते कापि सुन्दरी । सा नेतव्या प्रयत्नेन कथयित्वा वचो मम ॥ ३३॥ इति विज्ञापितस्तेन सुग्रीवो दानवोत्तमः । गत्वा हिमाचलं प्राह जगदम्बां महेश्वरीम् ॥ ३४॥ दूत उवाच । देवि शुम्भासुरो दैत्यो निशुम्भस्तस्य चानुजः । विख्यातस्त्रिषु लोकेषु महाबलपराक्रमः ॥ ३५॥ चारोऽहं प्रेषितस्तेन सन्निधिं ते समागमम् । स यज्जगौ सुरेशानि तत्समाकर्णयाधुना ॥ ३६॥ इन्द्रादीन्समरे जित्वा तेषां रत्नान्यपाहरम् । देवभागं स्वयं भुञ्जे यागे दत्तं सुरादिभिः ॥ ३७॥ स्त्रीरत्नं त्वामहं मन्ये सर्वरत्नोपरिस्थितम् । सा त्वं ममानुजं मां वा भजतात्कामजै रसैः ॥ ३८॥ इति दूतोक्तमाकर्ण्य वचनं शुम्भभाषितम् । जगाद सा महामाया भूतेशप्राणवल्लभा ॥ ३९॥ देव्युवाच । सत्यं वदसि भो दूत नानृतं किञ्चिदुच्यते । परं त्वेका कृता पूर्वं प्रतिज्ञा तां निबोध मे ॥ ४०॥ यो मे दर्पं विधुनुते यो मां जयति सङ्गरे । उत्सहे तमहं कर्तुं पतिं नान्यमिति ध्रुवम् ॥ ४१॥ स त्वं कथय शुम्भाय निशुम्भाय वचो मम । यथा युक्तं भवेदेवं विदधातु तथात्र सः ॥ ४२॥ इत्थं देवीवचः श्रुत्वा सुग्रीवो नाम दानवः । राज्ञे विज्ञापयामास गत्वा तत्र सविस्तरम् ॥ ४३॥ अथ दूतोक्तमाकर्ण्य शुम्भो भैरवशासनः । धूम्राक्षं प्राह सक्रोधः सेनान्यं बलिनां वरम् ॥ ४४॥ हे धूम्राक्ष तुषाराद्रौ वर्तते कापि सुन्दरी । तामानय द्रुतं गत्वा यथा यास्यति सात्र वै ॥ ४५॥ तस्या आनयने भीतिर्न कार्यासुरसत्तम । युद्धं कार्यं प्रयत्नेन यदि सा योद्धुमिच्छति ॥ ४६॥ एवं विज्ञापितो दैत्यो धूम्रलोचनसंज्ञकः । गत्वा हिमाचलं प्राह भुवनेशीमुमांशजाम् ॥ ४७॥ भर्तुर्ममान्तिकं गच्छ नो चेत्त्वां घातयाम्यहम् । पुष्ट्यासुराणां सहितः सहस्राणां नितम्बिनि ॥ ४८॥ देव्युवाच । दैत्यराट् प्रेषितो वीर हंसि चेत्किं करोमि ते । परन्त्वसाध्यं गमनं मन्ये सङ्ग्राममन्तरा ॥ ४९॥ इत्युक्तस्तामन्वधावद्दानवो धूम्रलोचनः । हुङ्कारोच्चारणेनैव तं ददाह महेश्वरी ॥ ५०॥ ततः प्रभृति सा देवी धूमावत्युच्यते भुवि । आराधिता स्वभक्तानां शत्रुवर्गनिकर्तिनी ॥ ५१॥ धूम्राक्षे निहते देव्या वाहनेनातिकोपिना । चर्वितास्तद्गणाः सर्वेऽपलायन्तावशेषिताः ॥ ५२॥ इत्थं देव्या हतं दैत्यं श्रुत्वा शुम्भः प्रतापवान् । चकार बहुलं कोपं सन्दष्टौष्ठपुटद्वयः ॥ ५३॥ चण्डं मुण्डं रक्तबीजं प्रैषयत्क्रमतोऽसुरान् । तेऽपि चाज्ञापिता दैत्या ययुर्यत्राम्बिका स्थिता ॥ ५४॥ सिंहारूढा भगवतीमणिमादिभिराश्रिताम् । भासयन्तीं दिशो भासा दृष्ट्वोचुर्दानवर्षभाः ॥ ५५॥ हे देवि तरसा मूलं याहि शुम्भनिशुम्भयोः । अन्यथा घातयिष्यामः सगणां त्वां सवाहनाम् ॥ ५६॥ वृणीष्व तं पतिं वामे लोकपालादिभिः स्तुतम् । प्रपत्स्यसे महानन्दं देवानामपि दुर्लभम् ॥ ५७॥ इत्युक्तमाकलय्याम्बा स्मयित्वा परमेश्वरी । उदाजहार सा देवी सूनृतं रसवद्वचः ॥ ५८॥ देव्युवाच । अद्वितीयो महेशानः परब्रह्म सदाशिवः । यत्तत्त्वं न विदुर्वेदा विष्ण्वादीनां च का कथा ॥ ५९॥ तस्याहं प्रकृतिः सूक्ष्मा कथमन्यं पतिं वृणे । सिंही कामातुरा नैव जम्बुकं वृणुते क्वचित् ॥ ६०॥ करेणुर्गर्दभं नैव द्वीपिनी शशकं न वा । मृषा वदत भो दैत्यो मृत्युव्यालनियन्त्रिताः ॥ ६१॥ यूयं प्रयात पातालं युध्यध्वं शक्तिरस्ति चेत् । इति क्रोधकरं वाक्यं श्रुत्वोचुस्ते परस्परम् ॥ ६२॥ अबलां मनसि ज्ञात्वा न हन्मो भवतीं वयम् । अथो स्थिरैहि पञ्चास्ये युद्धेच्छा मानसेऽस्ति चेत् ॥ ६३॥ तेषामेवं विवदतां कलहः समवर्धत । ववृषुः समरे बाणा उभयोर्दलयोः शिताः ॥ ६४॥ एवं तैः समरं कृत्वा लीलया परमेश्वरी । जघान चण्डमुण्डाभ्यां रक्तबीजं महासुरम् ॥ ६५॥ द्वेषबुद्धिं विधायापि त्रिदशारातयोऽप्यमी । अन्ते प्रापन्परं लोकं यँल्लोकं यान्ति तज्जनाः ॥ ६६॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां धूम्रलोचनचण्डमुण्डरक्तबीजवधो नाम सप्तचत्वारिंशोऽध्यायः ॥ ५.४७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४८. अष्टचत्वारिंशोऽध्यायः । सरस्वतीप्रादुर्भाववर्णनम् ।

राजोवाच ॥ धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरं तथा । भगवन्निहतं देव्या श्रुत्वा शुम्भः सुरार्दनः ॥ १॥ किमकार्षीत्ततो ब्रह्मन्नेतन्मे ब्रूहि साम्प्रतम् । शुश्रूषवे जगद्योनेश्चरित्रं पापनाशनम् ॥ २॥ ऋषिरुवाच । हतानिमान्दैत्यवरान्महासुरो निशम्य राजन्महनीयविक्रमः । अजिज्ञपत्स्वीयगणान्दुरासदान् रणाभिधोच्चारणजातसम्मदान् ॥ ३॥ बलान्विताः सम्मिलिता ममाज्ञया जयाशया कालकवंशसम्भवाः । सकालकेयासुरमौर्यदौर्हृदाः तथा परेऽप्याशु प्रयाणयन्तु ते ॥ ४॥ निशुम्भशुम्भौ दितिजान्निदेश्य तान् रथाधिरूढौ निरयाम्बभूवतुः । बलान्यनूकाबलिनोस्तयोर्धराद् विनाशवन्तः शलभा इवोत्थिताः ॥ ५॥ प्रवादयामास मृदङ्गमर्दलं सभेरिकाडिण्डिमझर्झरानकम् । रणस्थले सञ्जहृषू रणप्रिया असुप्रियाः सङ्गरतः पराययुः ॥ ६॥ भटाश्च ते युद्धपटावृतास्तदा रणस्थलीमापुरपापविग्रहाः । गृहीतशस्त्रास्त्रचया जिगीषया परस्परं विग्रहयन्त उल्बणम् ॥ ७॥ गजाधिरूढास्तुरगाधिरोहिणो रथाधिरूढाश्च तथापरेऽसुराः । अलक्षयन्तः स्वपराञ्जनान्मुदाऽ- सुरेशसङ्गे समरेऽभिरेभिरे ॥ ८॥ ध्वनिः शतघ्नीजनितो मुहुर्मुहु- र्बभूव तेन त्रिदशाः समेजिताः । महान्धकारः समपद्यताम्बरे विलोक्यते नो रथमण्डलं रवेः ॥ ९॥ पदातयो निर्व वजुर्हि कोटिशः प्रभूतमाना विजयाभिलाषिणः । रथाश्वगा वारणगा अथापरेऽ- सुरा निरीयुः कति कोटिशो मुदा ॥ १०॥ अशुक्लशैला एव मत्तवारणा अतानिषुश्चीत्कृतिशब्दमाहवे । क्रमेलकाश्चापि गलद्गलध्वनिं वितन्वते क्षुद्रमहीधरोपमाः ॥ ११॥ हयाश्च ह्रेषन्त उदग्रभूमिजा विशालकण्ठाभरणा गतेर्विदः । पदानि दन्तावलमूर्ध्नि बिभ्रतः सुडिड्यिरे व्योमपथा यथावयः ॥ १२॥ समीक्ष्य शत्रोर्बलमित्थमापतत् चकार सज्यं धनुरम्बिका तदा । ननाद घण्टां रिपुसाददायिनीं जगर्ज सिंहोऽपि सटां विधूनयन् ॥ १३॥ ततो निशुम्भस्तुहिनाचलस्थितां विलोक्य रम्याभरणायुधां शिवाम् । गिरं बभाषे रसनिर्भरां परां विलासनीभावविचक्षणो यथा ॥ १४॥ भवादृशीनां रमणीयविग्रहे दुनोति कीर्णं खलु मालतीदलम् । कथं करालाहवमातनोष्यसे महेशि तेनैव मनोज्ञवर्ष्मणा ॥ १५॥ इतीरयित्वा वचनं महासुरो बभूव मौनी तमुवाच चण्डिका । वृथा किमात्थासुर मूढ सङ्गरं कुरुष्व नागालयमन्यथा व्रज ॥ १६॥ ततोऽतिरुष्टः समरे महारथ- श्चकार बाणावलिवृष्टिमद्भुताम् । घनाघनाः संववृषुर्यथोदकं रणस्थले प्रावृडिवागतास्तदा ॥ १७॥ शरैश्शितैः शूलपरश्वधायुधैः सभिन्दिपालैः परिघैः शरासनैः । भुशुण्डिकाप्रासक्षुरप्रसंज्ञकै- र्महासिभिः संयुयुधे मदोद्धतैः ॥ १८॥ विबभ्रमुस्तत्समरे महागजा विभिन्नकुम्भा असिताद्रिसन्निभाः । चलद्बलाकाधवला विकेतवो विसेतवः शुम्भनिशुम्भकेतवः ॥ १९॥ विभिन्नदेहा दितिजा झषोपमा विकन्धरा वाजिगणा भयङ्कराः । परासवः कालिकया कृता रणे मृगारिणा चामिषतां परेऽसुराः ॥ २०॥ विसुस्रुवू रक्तवहास्तदन्तरे सरिच्चयास्तत्र विपुप्लुवे हतैः । कचा भटानां जलनीलिकोपमा- स्तदुत्तरीयं सितफेनसन्निभम् ॥ २१॥ तुरङ्गसादी तुरगाधिरोहिणं गजस्थितानभ्यपतन्गजारुहः । रथी रथेशं खलु पत्तिरङ्घ्रिगान् समप्रतिद्वन्द्विकलिर्महानभूत् ॥ २२॥ ततो निशुम्भो हृदये व्यचिन्तयत् करालकालोऽयमुपागतोऽधुना । भवेद्दरिद्रोऽपि महाधनो महा- धनो दरिद्रो विपरीतकालतः ॥ २३॥ जडो भवेत्स्फीतमतिर्महामति- र्जडो नृशंसो बहुमन्तुसंस्तुतः । पराजयं यान्ति रणे महाबला जयन्ति सङ्ग्राममुखे च दुर्बलाः ॥ २४॥ जयोऽजयो वा परमेश्वरेच्छया भवत्यनायासत एव देहिनाम् । न कालमुल्लङ्घ्य शशाक जीवितुं महेश्वरः पद्मजनी रमापतिः ॥ २५॥ उपेत्य सङ्ग्राममुखं पलायनं न साधु वीरा हृदयेऽनुमन्वते । परन्तु युद्धे कथमेतया जयो विनाशितं मे सकलं बलं यथा ॥ २६॥ इयं हि नूनं सुरकर्म साधितुं समागता दैत्यबलं च बाधितुम् । पुराणमूर्तिः प्रकृतिः परा शिवा न लौकिकीयं वनिता कदापि वा ॥ २७॥ वधोऽपि नारीविहितोऽयशस्करः प्रगीयते युद्धरसं लिलिक्षुभिः । तथाप्यकृत्वा समरं कथं मुखं प्रदर्शयामोऽसुरराजसन्निधौ ॥ २८॥ विचारयित्वेति महारथो रथं महान्तमध्यास्य नियन्तृचोदितम् । ययौ द्रुतं यत्र महेश्वराङ्गना सुराङ्गनाप्रार्थितयौवनोद्गमा ॥ २९॥ अवोचदेनां स महेशि किं भवे- देभिर्हतैर्वेतनजीविभिर्भटैः । तवास्ति काङ्क्षा यदि योद्धुमावयो- स्तदा रणः स्याद्धृतयुद्धसत्पटैः ॥ ३०॥ उवाच कालीं प्रति कौशिकी तदा समीक्ष्यतामेष दुराग्रहोऽनयोः । करोति कालो विपदागमे मतिं विभिन्नवृत्तिं सदसत्प्रवर्तकः ॥ ३१॥ ततो निशुम्भोऽभिजघान चण्डिकां शरैः सहस्रैश्च तथैव कालिकाम् । बिभेद बाणानसुरप्रचोदितान् सहस्रखण्डं स्वशरोत्करैः शिवा ॥ ३२॥ ततः समुत्थाप्य कृपाणमुज्ज्वलं सचर्म कण्ठीरवमूर्ध्न्यताडयत् । बिभेद तं चापि महासिनाम्बिका यथा कुठारेण तरुं तरुश्छिदः ॥ ३३॥ स भिन्नखड्गो निचखान मार्गणं पराम्बिकावक्षसि सोऽपि चिच्छिदे । पुनस्त्रिशूलं हृदयेऽक्षिपत्तद- प्यचूर्णयन्मुष्टिनिपातनेन सा ॥ ३४॥ गदां समादाय पुनर्महारथो- ऽभ्यधावदम्बां मरणोन्मुखोऽसुरः । अचूर्णयत्तामपि शूलधारया पुनस्त्रिशूलं विददार सोऽन्यया ॥ ३५॥ ततोऽम्बिका भीमभुजङ्गमोपमैः सुरद्विषां शोणितचूषणोचितैः । निशुम्भमात्मीयशिलीमुखैः शितै- र्निहत्य भूमीमनयद्विषोक्षितैः ॥ ३६॥ निपातितेऽमानबलेऽसुरप्रभुः कनीयसि भ्रातरि रोषपूरितः । रथस्थितो बाहुभिरष्टभिर्वृतो जगाम यत्र प्रमदा महेशितुः ॥ ३७॥ अवादयच्छङ्खमरिन्दमं तदा धनुःस्वनं चापि चकार दुःसहम् । ननाद सिंहोऽपि सटां विधूनयन् बभूव नादत्रयनादितं नभः ॥ ३८॥ ततोऽट्टहासं जगदम्बिकाऽकरो- द्वितत्रसुस्तेन सुरारयोऽखिलाः । जयेति शब्दं जगदुस्तदा सुरा यदाम्बिकोवाच रणे स्थिरो भव ॥ ३९॥ स दैत्यराजो महतीं ज्वलच्छिखां मुमोच शक्तिं निहता च सोल्कया । बिभेद शुम्भप्रहितान् शरान् शिवा शिवेरितान्सोऽपि सहस्रधा शरान् ॥ ४०॥ त्रिशूलमुत्क्षिप्य जघान चण्डिका महासुरं तं स पपात मूर्च्छितः । विभिन्नपक्षो हरिणा यथा नगः प्रकम्पयन् द्यां वसुधां सवारिधिम् ॥ ४१॥ ततो मृषित्वा त्रिशिखोद्भवां व्यथां विधाय बाहूनयुतं महाबलः । स कालिकां सिंहयुतां महेश्वरीं जघान चक्रैरमरक्षयङ्करैः ॥ ४२॥ तदस्य चक्राणि विभिद्य लीलया त्रिशूलमुद्गूर्य जघान सासुरम् । शिवाजगत्पावनपाणिपङ्कजा- दुपात्तमृत्यू परमं पदं गतौ ॥ ४३॥ हते तस्मिन्महावीर्ये निशुम्भे भीमविक्रमे । शुम्भे च सकला दैत्या विविशुर्बलिसद्मनि ॥ ४४॥ भक्षिता अपरे कालीसिंहाद्यैरमरद्विषः । पलायितास्तथान्ये च दशदिक्षु भयाकुलाः ॥ ४५॥ बभूवुर्मार्गवाहिन्यः सरितः स्वच्छपाथसः । ववुर्वाताः सुखस्पर्शा निर्मलत्वं ययौ नभः ॥ ४६॥ पुनर्यागः समारेभे देवैर्ब्रह्मर्षिभिस्तथा । सुखिनश्चाभवन्सर्वे महेन्द्राद्या दिवौकसः ॥ ४७॥ पवित्रं परमं पुण्यमुमायाश्चरितं प्रभो । दैत्यराजवधोपेतं श्रद्धया यः समभ्यसेत् ॥ ४८॥ स भुक्त्वेहाखिलान्भोगांस्त्रिदशैरपि दुर्लभान् । परत्रोमालयं गच्छेन्महामायाप्रसादतः ॥ ४९॥ ऋषिरुवाच । एवं देवी समुत्पन्ना शुम्भासुरनिबर्हिणी । प्रोक्ता सरस्वती साक्षादुमांशाविर्भवा नृप ॥ ५०॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां निशुम्भशुम्भवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ५.४८॥ ५.४९ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.४९. एकोनपञ्चाशत्तमोऽध्यायः । उमाप्रादुर्भाववर्णनम् ।

मुनय ऊचुः । उमाया भुवनेशान्याः सूत सर्वार्थवित्तम । अवतारं समाचक्ष्व यतो जाता सरस्वती ॥ १॥ या गीयते परब्रह्ममूलप्रकृतिरीश्वरी । निराकारापि साकारा नित्या नन्दमयी सती ॥ २॥ सूत उवाच । तापसाः श‍ृणुत प्रेम्णा चरित्रं परमं महत् । यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥ ३॥ देवदानवयोर्युद्धमेकदासीत्परस्परम् । महामायाप्रभावेणामराणां विजयोऽभवत् ॥ ४॥ ततोऽवलिप्ता अमराः स्वप्रशंसां वितेनिरे । वयं धन्या वयं धन्याः किं करिष्यन्ति नोऽसुराः ॥ ५॥ ये प्रभावं समालोक्यास्माकं परमदुःसहम् । भीता नागालयं याता यात यातेति वादिनः ॥ ६॥ अहो बलमहो तेजो दैत्यवंशक्षयङ्करम् । अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ॥ ७॥ तत आविरभूत्तेजः कूटरूपं तदैव हि । अदृष्टपूर्वं तद् दृष्ट्वा विस्मिता अभवन्सुराः ॥ ८॥ किमिदं किमिदं चेति रुद्धकण्ठाः समब्रुवन । अजानन्तः परं श्यामानुभावं मानभञ्जनम् ॥ ९॥ तत आज्ञापयद्देवान् देवानामधिनायकः । यात यूयं परीक्षध्वं याथातथ्येन किन्विति ॥ ५.४९.१०॥ सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः । कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ॥ ११॥ इति पृष्टस्तदा वायुर्महसातिगरीयसा । वायुरस्मि जगत्प्राणः साभिमानोऽब्रवीदिदम् ॥ १२॥ जङ्गमाजङ्गमं सर्वमोतप्रोतमिदं जगत् । मय्येव निखिलाधारे चालयाम्यखिलं जगत् ॥ १३॥ तदोवाच महातेजः शक्तोऽसि यदि चालने । धृतमेतत्तृणं वायो चालयस्व निजेच्छया ॥ १४॥ ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः । न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ॥ १५॥ तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रंसभां प्रति । कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ॥ १६॥ सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे । न पारयामहे किञ्चिद्विधातुं क्षुद्रवस्त्वपि ॥ १७॥ ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् । न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ॥ १८॥ मघवन्तमथायान्तं दृष्ट्वा तेजोऽतिदुःसहम् । बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः ॥ १९॥ चरित्रमीदृशं यस्य तमेव शरणं श्रये । इति सञ्चिन्तयामास सहस्राक्षः पुनः पुनः ॥ ५.४९.२०॥ एतस्मिन्नन्तरे तत्र निर्व्याजकरुणातनुः । तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवाङ्गना ॥ २१॥ चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे । प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ॥ २२॥ महोमध्ये विराजन्ती भासयन्ती दिशो रुचा । बोधयन्ती सुरान्सर्वान् ब्रह्मैवाहमिति स्फुटम् ॥ २३॥ चतुर्भिर्दधती हस्तैर्वरपाशाङ्कुशाभयान् । श्रुतिभिः सेविता रम्या नवयौवनगर्विता ॥ २४॥ रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना । कोटिकन्दर्पसङ्काशा चन्द्रकोटिसमप्रभा ॥ २५॥ व्याजहार महामाया सर्वान्तर्यामिरूपिणी । साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ॥ २६॥ उमोवाच । न ब्रह्मा न सुरारातिर्न पुरारातिरीश्वरः । मदग्रे गर्वितुं किञ्चित्का कथान्यसुपर्वणाम् ॥ २७॥ परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी । अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ॥ २८॥ निराकारापि साकारा सर्वतत्त्वस्वरूपिणी । अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ॥ २९॥ कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः । कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ॥ ५.४९.३०॥ विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः । रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ॥ ३१॥ कालिकाकमलावाणीमुखाः सर्वा हि शक्तयः । मदंशादेव सञ्जातास्तथेमाः सकलाः कलाः ॥ ३२॥ मत्प्रभावाज्जिताः सर्वे युष्माभिर्दितिनन्दनाः । तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ॥ ३३॥ यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः । तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ॥ ३४॥ मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक् । लोकपालाः प्रकुर्वन्ति स्वस्वकर्माण्यनारतम् ॥ ३५॥ कदाचिद्देववर्गाणां कदाचिद्दितिजन्मनाम् । करोमि विजयं सम्यक् स्वतन्त्रा निजलीलया ॥ ३६॥ अविनाशि परं धाम मायातीतं परात्परम् । श्रुतयो वर्णयन्ते यत्तद्रूपं तु ममैव हि ॥ ३७॥ सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् । मायाशबलितं चैकं द्वितीयं तदनाश्रितम् ॥ ३८॥ एवं विज्ञाय मां देवाः स्वं स्वं गर्वं विहाय च । भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ॥ ३९॥ इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः । तुष्टुवुः परमेशानीं भक्तिसन्नतकन्धराः ॥ ५.४९.४०॥ क्षमस्व जगदीशानि प्रसीद परमेश्वरि । मैवं भूयात्कदाचिन्नो गर्वो मातर्दयां कुरु ॥ ४१॥ ततःप्रभृति ते देवा हित्वा गर्वं समाहिताः । उमामाराधयामासुर्यथापूर्वं यथाविधि ॥ ४२॥ इति वः कथितो विप्रा उमाप्रादुर्भवो मया । यस्य श्रवणमात्रेण परमं पदमश्नुते ॥ ४३॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामुमाप्रादुर्भाववर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ५.४९॥ ५.५० ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.५०. पञ्चाशत्तमोऽध्यायः । शताक्ष्याद्यवतारवर्णनम् ।

मुनय ऊचुः । श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् । अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ॥ १॥ श‍ृण्वतां त्वन्मुखाम्भोजात् कथा नाना सुधोपमाः । न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ॥ २॥ सूत उवाच । दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः । ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ॥ ३॥ देवाजेयबलं चापि सम्प्राप्य जगतीतले । करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ॥ ४॥ सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह । ब्राह्मणाश्च दुराचारा बभूवुः ससुरास्तदा ॥ ५॥ न दानं न तपोऽत्युग्रं न यागो हवनं न हि । अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ॥ ६॥ हाहाकारो महानासीत् त्रिषु लोकेषु दुःखिताः । अभवंश्च जनाःसर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ॥ ७॥ सरितः सागराश्चैव वापीकूपसरांसि च । निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ॥ ८॥ ततो दृष्ट्वा महादुःखं प्रजानां दीनचेतसाम् । त्रिदशाः शरणं याता योगमायां महेश्वरीम् ॥ ९॥ देवा ऊचुः । रक्ष रक्ष महामाये स्वकीयाः सकलाः प्रजाः । कोपं संहर नूनं त्वं लोका नङ्क्ष्यन्ति चान्यथा ॥ ५.५०.१०॥ यथा शुम्भो हतो दैत्यो निशुम्भश्च महाबलः । धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ॥ ११॥ समधुः कैटभो दैत्यो महिषासुर एव च । तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ॥ १२॥ अपराधो भवत्येव बालकानां पदे पदे । सहते को जनो लोके केवलं मातरं विना ॥ १३॥ यदा यदाभवद्दुःखं देवानां ब्रह्मणां तथा । तदा तदावतीर्याशु कुरुषे सुखिनो जनान् ॥ १४॥ इति विक्लवितं तेषां समाकर्ण्य कृपामयी । अनन्ताक्षमयं रूपं दर्शयामास साम्प्रतम् ॥ १५॥ धनुर्बाणौ तथा पद्मं नानामूलफलानि च । चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा ॥ १६॥ ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा । रुरोद नव घस्राणि नव रात्रीः समाकुला ॥ १७॥ मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः । ताभिः प्रतर्पिता लोका औषध्यः सकला अपि ॥ १८॥ अगाधतोयाः सरितो बभूवुः सागरा अपि । रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ॥ १९॥ विततार करस्थानि सुमनोभ्यः फलानि च । गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ॥ ५.५०.२०॥ सन्तुष्टा अभवन्सर्वे सदेवद्विजमानुषाः । ततो जगाद सा देवी किमन्यत्करवाणि वः ॥ २१॥ समेत्योचुस्तदा देवा भवत्या तोषिता जनाः । वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ॥ २२॥ तथास्त्विति प्रभाष्याह यात यात निजालयम् । वितरिष्यामि वो वेदानचिरेणैव कालतः ॥ २३॥ ततः प्रमुदिता देवाः स्वं स्वं धाम समाययुः । सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ॥ २४॥ ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके । तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ॥ २५॥ ततस्तेजोमयं चक्रं विधाय परितः शिवा । रक्षणार्थं देवतानां स्वयं तस्माद् बहिर्गता ॥ २६॥ ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः । ववृषुः समरे बाणान्निशितान्कङ्कटच्छिदः ॥ २७॥ एतस्मिन्नन्तरे तस्याः शरीराद् रम्यमूर्तयः । काली तारा छिन्नमस्ता श्रीविद्या भुवनेश्वरी ॥ २८॥ भैरवी बगला धूम्रा श्रीमत्त्रिपुरसुन्दरी । मातङ्गी च महाविद्या निर्गता दश सायुधाः ॥ २९॥ असङ्ख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः । चन्द्रलेखाधराः सर्वाः सर्वा विद्युत्समप्रभाः ॥ ५.५०.३०॥ ततो मातृगणैर्युद्धं प्रावर्तत भयङ्करम् । रौरवीयं हतं ताभिर्दलमक्षौहिणीशतम् ॥ ३१॥ जघान सा तदा दैत्यं दुर्गमं शूलधारया । पपात धरणीपृष्ठे खातमूलद्रुमो यथा ॥ ३२॥ इत्थं हत्वा तदा दैत्यं दुर्गमासुरनामकम् । आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ॥ ३३॥ देवा ऊचुः । अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् । मुनयः कीर्तयिष्यन्ति शताक्षीं त्वामतोऽम्बिके ॥ ३४॥ आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः । शाकम्भरीति विख्यातं तत्ते नाम भविष्यति ॥ ३५॥ दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे । दुर्गां भगवतीं भद्रां व्याहरिष्यन्ति मानवाः ॥ ३६॥ योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले । नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ॥ ३७॥ तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी । अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ ३८॥ वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् । स्तोतुं न शक्नुमो मातस्त्वत्प्रभावाबुधा वयम् ॥ ३९॥ मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीं दयाम् । वर्जयित्वा सुरेशानीं शताक्षीं मातरं विना ॥ ५.५०.४०॥ त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् । एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ॥ ४१॥ देव्युवाच । वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् । तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ॥ ४२॥ मम युष्मानपश्यन्त्याः पश्यन्त्या बालकानिव । अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ॥ ४३॥ कापि चिन्ता न कर्तव्या युष्माभिर्भक्तिशालिभिः । भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ॥ ४४॥ यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान् । संशयो नात्र कर्त्तव्यः सत्यं सत्यं ब्रवीम्यहम् ॥ ४५॥ यदा शुम्भो निशुम्भश्चापरौ दैत्यौ भविष्यतः । तदाहं नन्दभार्यायां यशोदायां यशोमयी ॥ ४६॥ योनिजं रूपमास्थाय जनिष्ये गोपगोकुले । हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ॥ ४७॥ भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः । भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ॥ ४८॥ कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा । भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ४९॥ यदा यदासुरोत्थैवं बाधा भुवि भविष्यति । तदा तदावतीर्याहं शं करिष्याम्यसंशयम् ॥ ५.५०.५०॥ या शताक्षी स्मृता देवी सैव शाकम्भरी मता । सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ॥ ५१॥ न शताक्षीसमा काचिद्दयालुर्भुवि देवता । दृष्ट्वारुदत्प्रजास्तप्ता या नवाहं महेश्वरी ॥ ५२॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५.५०॥ ५.५१ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

५.५१. एकपञ्चाशत्तमोऽध्यायः । क्रियायोगनिरूपणम् ।

मुनय ऊचुः । व्यासशिष्य महाभाग सूत पौराणिकोत्तम । अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः ॥ १॥ उमाया जगदम्बायाः क्रियायोगमनुत्तमम् । प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ॥ २॥ सूत उवाच । धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः । पराशक्तेः परं गुप्तं रहस्यं श‍ृणुतादरात् ॥ ३॥ व्यास उवाच । सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते । उमायाः श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ॥ ४॥ कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् । प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ॥ ५॥ सनत्कुमार उवाच । द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि । तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ॥ ६॥ ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च । त्रयो मार्गाः समाख्याताः श्रीमातुर्भुक्तिमुक्तिदाः ॥ ७॥ ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः । यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥ ८॥ भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् । त्रयाणामपि योगानां क्रियायोगः स उच्यते ॥ ९॥ कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते । ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः ॥ ५.५१.१०॥ प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम । क्रियायोगस्तु योगस्य परमं ध्येयसाधनम् ॥ ११॥ मायां तु प्रकृतिं विद्यान्मायावी ब्रह्म शाश्वतम् । अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १२॥ यस्तु देव्यालयं कुर्यात्पाषाणं दारवं तथा । मृन्मयं वाथ कालेय तस्य पुण्यफलं श‍ृणु । अहन्यहनि योगेन यजतो यन्महाफलम् ॥ १३॥ प्राप्नोति तत्फलं देव्या यः कारयति मन्दिरम् । सहस्रकुलमागामि व्यतीतं च सहस्रकम् । स तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ॥ १४॥ कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु । श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ॥ १५॥ नदीषु च यथा गङ्गा शोणः सर्वनदेषु च । क्षमायां च यथा पृथ्वी गाम्भीर्ये च यथोदधिः ॥ १६॥ ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते । तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ॥ १७॥ सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद् गृहम् । प्रतिष्ठां समवाप्नोति स च जन्मनि जन्मनि ॥ १८॥ वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा । गङ्गासमुद्रतीरे च नैमिषेऽमरकण्टके ॥ १९॥ श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते । मथुरायामयोध्यायां द्वारावत्यां तथैव च ॥ ५.५१.२०॥ इत्यादिपुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा । कारयन्मातुरावासं मुक्तो भवति बन्धनात् ॥ २१॥ इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति । तावद्वर्षसहस्राणि मणिद्वीपे महीयते ॥ २२॥ प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः । स उमायाः परं लोकं निर्भयो व्रजति धुवम् ॥ २३॥ देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुग्रहतारके । कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ॥ २४॥ ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले । तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ॥ २५॥ त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुङ्गव । तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ॥ २६॥ मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः । चतुर्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ॥ २७॥ विष्णोर्नाम्नां कोटिजपाद् ग्रहणे चन्द्रसूर्ययोः । यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम् ॥ २८॥ शिवनाम्नो जपादेव तस्मात्कोटिगुणोत्तरम् । श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम् ॥ २९॥ देव्याः प्रासादकरणात्पुण्यं तु समवाप्यते । स्थापिता येन सा देवी जगन्माता त्रयीमयी ॥ ५.५१.३०॥ न तस्य दुर्लभं किञ्चित् श्रीमातुः करुणावशात् । वर्धन्ते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम् ॥ ३१॥ मनसा ये चिकीर्षन्ति मूर्तिस्थापनमुत्तमम् । तेऽत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम् ॥ ३२॥ क्रियमाणं तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् । कारयिष्याम्यहं यर्हि सम्पन्मे सम्भविष्यति ॥ ३३॥ एवं तस्य कुलं सद्यो याति स्वर्गं न संशयः । महामायाप्रभावेण दुर्लभं किं जगत्त्रये ॥ ३४॥ श्रीपराम्बां जगद्योनिं केवलं ये समाश्रिताः । ते मनुष्या न मन्तव्याः साक्षाद्देवीगणाश्च ते ॥ ३५॥ ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् । उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः ॥ ३६॥ नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम् । पुष्पैर्धूपैस्तथा दीपैस्ते प्रयास्यन्त्युमालयम् ॥ ३७॥ ये देवीमण्डपं नित्यं गोमयेन मृदाथवा । उपलिम्पन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम् ॥ ३८॥ यैर्देव्या मन्दिरं रम्यं निर्मापितमनुत्तमम् । तत्कुलीनाञ्जनान्माता ह्याशिषः सम्प्रयच्छति ॥ ३९॥ मदीयाः शतवर्षाणि जीवन्तु प्रेमभाजनाः । नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम् ॥ ५.५१.४०॥ येन मूर्तिर्महादेब्या उमायाः कारिता शुभा । नरायुतं तत्कुलजं मणिद्वीपे महीयते ॥ ४१॥ स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च । यं यं प्रार्थयते कामं तं तं प्राप्नोति साधकः ॥ ४२॥ यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् । घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः ॥ ४३॥ चन्दनागुरुकर्पूरमांसीमुस्तादियुग्जलैः । एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम् ॥ ४४॥ धूपेनाष्टादशाङ्गेन दद्यादाहुतिमुत्तमाम् । नीराजनं चरेद्देव्याः साज्यकर्पूरवर्तिभिः ॥ ४५॥ कृष्णाष्टम्यां नवम्यां वामायां वा पञ्चदिक्तिथौ । पूजयेज्जगतां धात्रीं गन्धपुष्पैर्विशेषतः ॥ ४६॥ सम्पठञ्जननीसूक्तं श्रीसूक्तमथवा पठन् । देवीसूक्तमथो वापि मूलमन्त्रमथापि वा ॥ ४७॥ विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् । देवीप्रीतिकरं ज्ञेयं कमलं तु विशेषतः ॥ ४८॥ अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा । स याति परमं धाम सिद्धकोटिभिरन्वितम् ॥ ४९॥ पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम् । प्रसीद परमेशानि जगदानन्ददायिनि ॥ ५.५१.५०॥ इति वाक्यैः ‍स्तुवन्मन्त्री देवीभक्तिपरायणः । ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम् ॥ ५१॥ इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् । नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत् ॥ ५२॥ नैवेद्यं भक्षयेद्यस्तु शम्भुशक्तेः परात्मनः । स निर्धूयाखिलं पङ्कं निर्मलो मानवो भवेत् ॥ ५३॥ चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् । भवबन्धननिर्मुक्तः प्राप्नुयात्परमं पदम् ॥ ५४॥ अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः । पूजयेज्जगतां धात्रीमुमां शङ्करसंयुताम् ॥ ५५॥ कुसुमैः कुङ्कुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः । धूपैर्द्दीपैः सनैवेद्यैः स्रग्गन्धैरपरैरपि ॥ ५६॥ आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् । श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम् ॥ ५७॥ प्रत्यब्दं कुरुते योऽस्यां व्रतमान्दोलनं तथा । नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति ॥ ५८॥ माधवस्य सिते पक्षे तृतीया याक्षयाभिधा । तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः ॥ ५९॥ मल्लिकामालतीचम्पाजपाबन्धूकपङ्कजैः । कुसुमैः पूजयेद्गौरीं शङ्करेण समन्विताम् ॥ ५.५१.६०॥ कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् । निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते ॥ ६१॥ ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् । योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किञ्चन ॥ ६२॥ आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम । देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः ॥ ६३॥ रथं पृथ्वीं विजानीयाद्रथाङ्गे चन्द्रभास्करौ । वेदानश्वान्विजानीयात्सारथिं पद्मसम्भवम् ॥ ६४॥ नानामणिगणाकीर्णं पुष्पमालाविराजितम् । एवं रथं कल्पयित्वा तस्मिन् संस्थापयेच्छिवाम् ॥ ६५॥ लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका । रथमध्ये संस्थितेति भावयेन्मतिमान्नरः ॥ ६६॥ रथे प्रचलिते मन्दं जयशब्दमुदीरयेत् । पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले ॥ ६७॥ इति वाक्यैस्तोषयेच्च नानावादित्रनिःस्वनैः । सीमान्ते तु रथं नीत्वा तत्र सम्पूजयेद्रथे ॥ ६८॥ नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि । प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम् ॥ ६९॥ एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् । इह भुक्त्वाखिलान्भोगान्सोऽन्ते देवीपदं व्रजेत् ॥ ५.५१.७०॥ शुक्लायां तु तृतीयायामेवं श्रावणभाद्रयोः । यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि ॥ ७१॥ मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् । सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम् ॥ ७२॥ आश्विने धवले पक्षे नवरात्रव्रतं चरेत् । यत्कृते सकलाः कामाः सिद्ध्यन्त्येव न संशयः ॥ ७३॥ नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः । चतुरास्यो न पञ्चास्यो न षडास्यो न कोऽपरः ॥ ७४॥ नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः । हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः ॥ ७५॥ ध्रुवसन्धिसुतो धीमानयोध्याधिपतिर्नृपः । सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः ॥ ७६॥ व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम् । संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत् ॥ ७७॥ तृतीयायां च पञ्चम्यां सप्तम्यामष्टमीतिथौ । नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः ॥ ७८॥ आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः । तस्य सर्वं मनोऽभीष्टं पूरयत्यनिशं शिवा ॥ ७९॥ यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा । तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत् ॥ ५.५१.८०॥ लोहितैः करवीराद्यैः पुष्पैर्धूपैः सुगन्धितैः । पूजयेन्मङ्गलां देवीं स सर्वं मङ्गलं लभेत् ॥ ८१॥ सौभाग्याय सदा स्त्रीभिः कार्यमेतन्महाव्रतम् । विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि ॥ ८२॥ उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि । देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः ॥ ८३॥ संहितेयं महापुण्या शिवभक्तिविवर्धिनी । नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा ॥ ८४॥ य एनां श‍ृणुयाद्भक्त्या श्रावयेद्वा समाहितः । पठेद्वा पाठयेद्वापि स याति परमां गतिम् ॥ ८५॥ यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः । सम्पूजिता च विधिवत्सर्वान्कामान्स आप्नुयात् ॥ ८६॥ भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित् । पुत्रपौत्रादिसम्पत्तीर्लभत्येव न संशयः ॥ ८७॥ तस्मादियं महापुण्या रम्योमासंहिता सदा । श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः ॥ ८८॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५.५१॥ ॥ समाप्तेयं पञ्चम्युमासंहिता ॥ Proofreading by H Revathy Rajaraman / Uma Mahesh
% Text title            : shivapurANam 5 umAsaMhitA
% File name             : shivapurANam5umAsaMhitA.itx
% itxtitle              : shivapurANam 5 (umAsaMhitA)
% engtitle              : shivapurANam 5 umAsaMhitA
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members Uma Mahesh, Jayalakshmi Jayaraman, Malati Shekar, Meenakshi Premanand, Lata Murali, Sornavalli K, K C Swaminathan, Gayathri Veda
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org