श्रीशिवमहापुराणम् ५ उमासंहिता
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहिता
५.१. प्रथमोऽध्यायः । ऋष्णोपमन्युसंवादे स्वगतिवर्णनम् ।
यो धत्ते भुवनानि सत्त्वगुणवान्स्रष्टा रजःसंश्रयः
संहर्त्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ।
सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं
नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥ १॥
ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते ।
चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ॥ २॥
अथोमासंहितान्तःस्थनानाख्यानसमन्वितम् ।
ब्रूहि शम्भोश्चरित्रं वै साम्बस्य परमात्मनः ॥ ३॥
सूत उवाच ।
महर्षयः शौनकाद्याः शृणुत प्रेमतः शुभम् ।
शाङ्करं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ॥ ४॥
इतीदृशं पुण्यप्रश्नं पृष्टवान् मुनिसत्तमः ।
व्यासः सनत्कुमारं वै शैवं सच्चरितं जगौ ॥ ५॥
सनत्कुमार उवाच ।
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ।
तदुच्यते मया व्यास चरितं हि महेशितुः ॥ ६॥
पुरा पुत्रार्थमगमत्कैलासं शङ्करालयम् ।
वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ॥ ७॥
अत्रोपमन्युं सन्दृष्ट्वा तपन्तं शृङ्ग उत्तमे ।
प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ॥ ८॥
श्रीकृष्ण उवाच ।
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ।
पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ॥ ९॥
ब्रूहि शङ्करमाहात्म्यं सदानन्दकरं मुने ।
यच्छ्रुत्वा भक्तितः कुर्यां तप ऐश्वरमुत्तमम् ॥ १०॥
सनत्कुमार उवाच ।
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ।
प्रत्युवाच प्रसन्नात्मा ह्युपमन्युः स्मरन् शिवम् ॥ ११॥
उपमन्युरुवाच ।
शृणु कृष्ण महाशैव महिमानं महेशितुः ।
यमद्राक्षमहं शम्भोर्भक्तिवर्धनमुत्तमम् ॥ १२॥
तपःस्थोऽहं समद्राक्षं शङ्करं च तदायुधान् ।
परिवारं समस्तं च विष्ण्वादीनमरादिकान् ॥ १३॥
त्रिभिरंशैः शोभमानमजस्रसुखमव्ययम् ।
एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ॥ १४॥
द्विसहस्रमयूखानां ज्योतिषातिविराजितम् ।
सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ॥ १५॥
यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ।
नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ॥ १६॥
महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ।
निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ॥ १७॥
तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्ययम् ।
गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ॥ १८॥
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ।
विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ॥ १९॥
दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ।
पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ॥ २०॥
यौवनाश्वो हतो येन मान्धाता सबलः पुरा ।
चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ॥ २१॥
दर्पाविष्टो हैहयश्च निःक्षिप्तो लवणासुरः ।
शत्रुघ्नं नृपतिं युद्धे समाहूय समन्ततः ॥ २२॥
तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत् ।
तच्छूलमिति तीक्ष्णाग्रं सन्त्रासजननं महत् ॥ २३॥
त्रिशिखां भृकुटीं कृत्वा तर्जयन्तमिव स्थितम् ।
विधूम्रानलसङ्काशं बालसूर्यमिवोदितम् ॥ २४॥
सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ।
परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम् ॥ २५॥
कल्पान्तदहनाकारं तथा पुरुषविग्रहम् ।
यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ॥ २६॥
रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ।
त्रिःसप्तकृत्वो स क्षत्रं ददाह हृषितो मुनिः ॥ २७॥
सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ।
द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ॥ २८॥
द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ।
कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ॥ २९॥
वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वमनुत्तमम् ।
महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ॥ ३०॥
शक्तिं खङ्गं च पाशं च महादीप्तं समाङ्कुशम् ।
गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ॥ ३१॥
तथा च लोकपालानामस्त्राण्येतानि यानि च ।
अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ॥ ३२॥
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।
विमानं दिव्यमास्थाय हंसयुक्तं मनोऽनुगम् ॥ ३३॥
वामपार्श्वे तु तस्यैव शङ्खचक्रगदाधरः ।
वैनतेयं समास्थाय तथा नारायणः स्थितः ॥ ३४॥
स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।
शक्राद्या देवताश्चैव सर्व एव समं ययुः ॥ ३५॥
स्कन्दः शक्तिं समादाय मयूरस्थः सघण्टकः ।
देव्याः समीपे सन्तस्थौ द्वितीय इव पावकः ॥ ३६॥
नन्दी शूलं समादाय भवाग्रे समवस्थितः ।
सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः ॥ ३७॥
तेऽभिवाद्य महेशानं परिवार्य समन्ततः ।
अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ॥ ३८॥
यत्किञ्चित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ।
तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ॥ ३९॥
सुमहद्धैर्यमालम्ब्य प्राञ्जलिर्विविधैः स्तवैः ।
परमानन्दसम्मग्नोऽभूवं कृष्णाहमध्वरे ॥ ४०॥
सम्मुखे शङ्करं दृष्ट्वा बाष्पगद्गदया गिरा ।
अपूजयं सुविधिवदहं श्रद्धासमन्वितः ॥ ४१॥
भगवानथ सुप्रीतः शङ्करः परमेश्वरः ।
वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव ॥ ४२॥
न विचालयितुं शक्यो मया विप्र पुनः पुनः ।
परीक्षितोऽसि भद्रं ते भवान्भक्त्यान्वितो दृढः ॥ ४३॥
तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ।
दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ॥ ४४॥
स चाहं तद्वचः श्रुत्वा शम्भोः सत्प्रेमसंयुतम् ।
देवं तं प्राञ्जलिर्भूत्वाब्रुवं भक्तानुकम्पिनम् ॥ ४५॥
उपमन्युरुवाच ।
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ।
तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ॥ ४६॥
प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ।
सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ॥ ४७॥
ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ।
तव भक्तेषु सख्यं स्यादन्योऽन्येषु सदा भवेत् ॥ ४८॥
एवमुक्तो मया शम्भुर्विहस्य परमेश्वरः ।
कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ॥ ४९॥
श्रीशिव उवाच ।
उपमन्यो मुने तात वर्जितस्त्वं भविष्यसि ।
जरामरणजैर्दोषैः सर्वकामान्वितो भव ॥ ५०॥
मुनीनां पूजनीयश्च यशोधनसमन्वितः ।
शीलरूपगुणैश्वर्यं मत्प्रसादात्पदे पदे ॥ ५१॥
क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ।
तत्र ते भविता नित्यं यत्र यत्रेच्छसे मुने ॥ ५२॥
अमृतात्मकं तत्क्षीरं यावत्संयाम्यते ततः ।
इमं वैवस्वतं कल्पं पश्यसे बन्धुभिः सह ॥ ५३॥
त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ।
सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ॥ ५४॥
मद्भक्तिः सुस्थिरा चास्तु सदा दास्यामि दर्शनम् ।
स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ॥ ५५॥
यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ।
सर्वं प्रपूर्णतां यातु चिन्तितं नात्र संशयः ॥ ५६॥
उपमन्युरुवाच ।
एवमुक्त्वा स भगवान् सुर्यकोटिसमप्रभः ।
महेशानो वरान् दत्त्वा तत्रैवान्तरधीयत ॥ ५७॥
एवं दृष्टो मया कृष्ण परिवारसमन्वितः ।
शङ्करः परमेशानो भुक्तिमुक्तिप्रदायकः ॥ ५८॥
शम्भुना परमेशेन यदुक्तं तेन धीमता ।
तदवाप्तं च मे सर्वं देवदेव समाधिना ॥ ५९॥
प्रत्यक्षं चैव तै जातान् गन्धर्वाप्सरसस्तथा ।
ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान् ॥ ६०॥
पश्य वृक्षान्मनोरम्यान् स्निग्धपत्रान्सुगन्धिनः ।
सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलान्वितान् ॥ ६१॥
सर्वमेतन्महाबाहो शङ्करस्य महात्मनः ।
प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम् ॥ ६२॥
ममास्ति त्वखिलं ज्ञानं प्रसादात् शूलपाणिनः ।
भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ॥ ६३॥
तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ।
यं न पश्यन्त्यनाराध्य कोऽन्यो धन्यतरो मया ॥ ६४॥
षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ।
एवं ध्यायन्ति विद्वांसो महत्परममक्षरम् ॥ ६५॥
सर्वं तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ।
स एव भगवान् देवः प्रधानपुरुषेश्वरः ॥ ६६॥
यो निजाद्दक्षिणात्पार्श्वाद् ब्रह्माणं लोककारणम् ।
वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ॥ ६७॥
कल्पान्ते चैव सम्प्राप्तेऽसृजद् रुद्रं हृदः प्रभुः ।
ततः समहरत्कृत्स्नं जगत्स्थावरजङ्गमम् ॥ ६८॥
युगान्ते सर्वभूतानि संवर्तक इवानलः ।
कालो भूत्वा महादेवो ग्रसमानः स तिष्ठति ॥ ६९॥
सर्वज्ञः सर्वभूतात्मा सवर्भूतभवोद्भवः ।
आस्ते सर्वगतो देवो दृश्यः सर्वैश्च दैवतैः ॥ ७०॥
अतस्त्वं पुत्रलाभाय समाराधय शङ्करम् ।
शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ॥ ७१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ॥ ५.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२. द्वितीयोऽध्यायः । सनत्कुमारव्याससंवादे उपमन्यूपदेशः ।
सनत्कुमार उवाच ।
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ।
जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ॥ १॥
श्रीकृष्ण उवाच ।
उपमन्यो मुने तात कृपां कुरु ममोपरि ।
ये ये शिवं समाराध्य कामानापुश्च तान्वद ॥ २॥
सनत्कुमार उवाच ।
इत्याकर्ण्योपमन्युः स मुनिः शैववरो महान् ।
कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ॥ ३॥
उपमन्युरुवाच ।
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ।
तांस्तान् भक्तान् प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ॥ ४॥
शर्वात्सर्वामरैश्वर्यं हिरण्यकशिपुः पुरा ।
वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ॥ ५॥
तस्याथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ।
स च शर्ववरादिन्द्रं वर्षायुतमयोधयत् ॥ ६॥
विष्णुचक्रं च तद् घोरं वज्रमाखण्डलस्य च ।
शीर्णं पुराभवत्कृष्ण तदङ्गेषु महाहवे ॥ ७॥
न शस्त्राणि वहन्त्यङ्गे धर्मतस्तस्य धीमतः ।
ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ॥ ८॥
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।
देवदत्तवरा जघ्नुरसुरेन्द्रान् सुरा भृशम् ॥ ९॥
तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरतामदात् ।
शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ॥ १०॥
तथा पुत्रसहस्राणामयुतं च ददौ शिवः ।
मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ॥ ११॥
कुशद्वीपे शुभं राज्यमददाद्भगवान् भवः ।
स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ॥ १२॥
धात्रा सृष्टः शतमखो दैत्यो वर्षशतं पुरा ।
तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ॥ १३॥
याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः ।
आराध्य स महादेवं प्राप्तवान् ज्ञानमुत्तमम् ॥ १४॥
वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः ।
सोऽपि शङ्करमाराध्य त्रिकालज्ञानमाप्तवान् ॥ १५॥
इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ।
लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ॥ १६॥
आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्दिनः ।
शर्वं समकपालेन देवैरिष्ट्वाः प्रवर्तिताः ॥ १७॥
अत्रेर्भार्या चानसूया त्रीणि वर्षशतानि च ।
मुशलेषु निराहारा सुप्त्वा शर्वात्ततः सुतान् ॥ १८॥
दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ।
गङ्गां प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९॥
विकर्णश्च महादेवं तथा भक्तसुखावहम् ।
प्रसाद्य महतीं सिद्धिमाप्तवान् मधुसूदन ॥ २०॥
चित्रसेनो नृपः शम्भुं प्रसाद्य दृढभक्तिमान् ।
समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ॥ २१॥
श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ।
जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ॥ २२॥
चित्राङ्गदो नृपसुतः सीमन्तिन्याः पतिर्हरे ।
शिवानुग्रहतो मग्नो यमुनायां मृतो न हि ॥ २३॥
स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ।
आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ॥ २४॥
सीमन्तिनी प्रिया तस्य सोमव्रतपरायणा ।
शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ॥ २५॥
तत्प्रभावाद् व्रते तस्मिन्नेको द्विजसुतः पुरा ।
कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ॥ २६॥
चञ्चुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ।
श्रुत्वा धर्मकथां शम्भोर्भक्त्या प्राप परां गतिम् ॥ २७॥
स्वस्त्र्यनुग्रहतः पापी बिन्दुगो चञ्चुकापतिः ।
श्रुत्वा शिवपुराणं स सद्गतिं प्राप शाङ्करीम् ॥ २८॥
पिङ्गला गणिका ख्याता मदराह्वो द्विजाधमः ।
शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ॥ २९॥
महानन्दाभिधा कश्चिद्वेश्या शिवपदारता ।
दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ॥ ३०॥
कैकेयी द्विजबाला च सादराह्वा शिवव्रता ।
परमं हि सुखं प्राप शिवेशव्रतधारणात् ॥ ३१॥
विमर्षणश्च नृपतिः शिवभक्तिं विधाय वै ।
गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ॥ ३२॥
दुर्जनश्च नृपः पापी बहुस्त्रीलम्पटः खलः ।
शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ॥ ३३॥
सस्त्रीकः शम्बरो नाम्ना शङ्करश्च शिवव्रती ।
चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ॥ ३४॥
सौमिनी नाम चाण्डाली सम्पूज्याज्ञानतो हि सा ।
लेभे शैवीं गतिं कृष्ण शङ्करानुग्रहात्परात् ॥ ३५॥
महाकालाभिधो व्याधः किरातः परहिंसकः ।
समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ॥ ३६॥
दुर्वासा मुनिशार्दूलः शिवानुग्रहतः पुरा ।
तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम् ॥ ३७॥
कौशिकश्च समाराध्य शङ्करं लोक शङ्करम् ।
ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ॥ ३८॥
शिवमभ्यर्च्य सद्भक्त्या विरञ्चिः शैवसत्तमः ।
अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ॥ ३९॥
मार्कण्डेयो मुनिवरश्चिरञ्जीवी महाप्रभुः ।
शिवभक्तवरः श्रीमान् शिवानुग्रहतो हरे ॥ ४०॥
देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा ।
शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ॥ ४१॥
बलिपुत्रो महाशैवः शिवानुग्रहतो वशी ।
बाणो बभूव ब्रह्माण्डनायकः सकलेश्वरः ॥ ४२॥
हरिः शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः ।
शिवानुग्रहतोऽभूवंस्तथा रामो हि शाङ्करः ॥ ४३॥
कणादो भार्गवश्चैव गुरुर्गौतम एव च ।
शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वराः ॥ ४४॥
शाकल्यः शंसितात्मा च नववर्षशतान्यपि ।
भवमाराधयामास मनोयज्ञेन माधव ॥ ४५॥
तुतोष भगवानाह ग्रन्थकर्ता भविष्यसि ।
वत्साक्षया च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति ॥ ४६॥
अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ।
भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता सुतस्ततः ॥ ४७॥
इत्येवं शङ्करात्प्राप वरं मुनिवरः स वै ।
त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ॥ ४८॥
सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे ।
इह तेन तपस्तप्तं षष्टिवर्षशतानि च ॥ ४९॥
तमाह भगवान् रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ ।
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ ५०॥
एवंविधो महादेवः पुण्यपूर्वतरैस्ततः ।
समर्चितः शुभान् कामान् प्रददाति यथेप्सितान् ॥ ५१॥
एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः ।
ये सन्ति तान्न शक्नोमि ह्यपि वर्षशतैरपि ॥ ५२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ॥ ५.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३. तृतीयोऽध्यायः । कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनम् ।
सनत्कुमार उवाच ।
एतच्छ्रुत्वा वचस्तस्य सोऽब्रवीत्तं महामुनिम् ।
विस्मयं परमं गत्वोपमन्युं शान्तमानसम् ॥ १॥
वासुदेव उवाच ।
धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती ।
यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ॥ २॥
दर्शनं मुनिशार्दूल दद्यात्स भगवान् शिवः ।
अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ ॥ ३॥
उपमन्युरुवाच ।
अचिरेणैव कालेन महादेवं न संशयः ।
तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ॥ ४॥
षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् ।
सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ॥ ५॥
पूज्योऽसि दैवतैः सर्वैः श्लाघनीयः सदा गुणैः ।
जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ॥ ६॥
तेन जपप्रभावेण सत्यं द्रक्ष्यसि शङ्करम् ।
आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ॥ ७॥
जपो नमः शिवायेति मन्त्रराजमिमं हरे ।
सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ॥ ८॥
सनत्कुमार उवाच ।
एवं कथयतस्तस्य महादेवाश्रिताः कथाः ।
दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ॥ ९॥
नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ।
मन्त्रमध्यापितं शार्वमाथर्वशिरसं महत् ॥ १०॥
दण्डी मुण्डी च सद्योऽसौ बभूव सुसमाहितः ।
पादाङ्गुष्ठोद्धृततनुस्तेपे चोर्ध्वभुजस्तथा ॥ ११॥
सम्प्राप्ते षोडशे मासि सन्तुष्टः परमेश्वरः ।
पार्वत्या सहितः शम्भुर्ददौ कृष्णाय दर्शनम् ॥ १२॥
पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् ।
ब्रह्माद्यैः स्तूयमानं तु पूजितं सिद्धकोटिभिः ॥ १३॥
दिव्यमाल्याम्बरधरं भक्तिनम्रैः सुरासुरैः ।
प्रणतं च विशेषेण नानाभूषणभूषितम् ॥ १४॥
सर्वाश्चर्यमयं कान्तं महेशमजमव्ययम् ।
नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ॥ १५॥
श्रीकृष्णः प्राञ्जलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
ईदृशं शङ्करं प्रीतः प्रणनाम महोत्सवः ॥ १६॥
नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा ।
सहस्रनाम्ना देवेशं तुष्टाव नतकन्धरः ॥ १७॥
ततो देवाः सगन्धर्वा विद्याधरमहोरगाः ।
मुमुचुः पुष्पवृष्टिं च साधुवादान् मनोनुगान् ॥ १८॥
पार्वत्याश्च मुखं दृष्ट्वा भगवान् भक्तवत्सलः ।
उवाच केशवं तुष्टो रुद्रश्चाथ महेश्वरः ॥ १९॥
श्रीमहादेव उवाच ।
कृष्ण जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् ।
वृणीष्व त्वं वरान् मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ॥ २०॥
सनत्कुमार उवाच ।
तस्य तद्वचनं श्रुत्वा कृष्णः प्राञ्जलिरादरात् ।
प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ॥ २१॥
श्रीकृष्ण उवाच ।
देवदेव महादेव याचेऽहं ह्युत्तमान् वरान् ।
त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान् महेश्वर ॥ २२॥
तव धर्मे मतिर्नित्यं यशश्चाप्रचलं महत् ।
त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ॥ २३॥
स्त्रीणां मम दशाद्यानां पुत्राः शम्भो भवन्तु वै ।
वध्याश्च रिपवः सर्वे सङ्ग्रामे बलदर्पिताः ॥ २४॥
अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो ।
योगिनामपि सर्वेषां भवेयमतिवल्लभः ॥ २५॥
इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते ।
सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ॥ २६॥
सनत्कुमार उवाच ।
तस्य तद्वचनं श्रुत्वा तमाह भगवान् भवः ।
सर्वं भविष्यतीत्येवं पुनः तं प्राह शूलधृक् ॥ २७॥
साम्बो नाम महावीर्यः पुत्रस्ते भविता बली ।
घोरसंवर्तकादित्यः शप्तो मुनिभिरेव च ॥ २८॥
मानुषो भवितासीति स ते पुत्रो भविष्यति ।
यद्यच्च प्रार्थितं किञ्चित्तत्तत्सर्वं लभस्व वै ॥ २९॥
सनत्कुमार उवाच ।
एवं लब्ध्वा वरान् सर्वान् श्रीकृष्णः परमेश्वरात् ॥
नानाविधाभिर्बह्वीभिः स्तुतिभिः समतोषयत् ॥ ३०॥
तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला ।
वासुदेवं महात्मानं शम्भुभक्तं तपस्विनम् ॥ ३१॥
पार्वत्युवाच ।
वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ ।
गृहाण मत्तश्च वरान् मनोज्ञान् भुवि दुर्लभान् ॥ ३२॥
सनत्कुमार उवाच ।
इत्याकर्ण्य वचस्तस्याः पार्वत्याः स यदूद्वहः ।
उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा ॥ ३३॥
श्रीकृष्ण उवाच ।
देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे ।
तपसानेन सत्येन ब्राह्मणान् प्रति मास्मभूत् ॥ ३४॥
द्वेषः कदाचिद्भद्रं तु पूजयेयं द्विजान् सदा ।
तुष्टौ च मातापितरौ भवेतां मम सर्वदा ॥ ३५॥
सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः ।
कुले प्रभृतिरुचिता ममास्तु तव दर्शनात् ॥ ३६॥
तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु ।
यतीनामतिथीनां च सहस्राण्यथ सर्वदा ॥ ३७॥
भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् ।
बान्धवैः सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः ॥ ३८॥
देवि भार्यासहस्राणां भवेयं प्राणवल्लभः ।
अक्षीणा काम्यता तासु प्रसादात्तव शाङ्करि ॥ ३९॥
आसां च पितरो लोके भवेयुः सत्यवादिनः ।
इत्याद्याः सुवराः सन्तु प्रसादात्तव पार्वति ॥ ४०॥
सनत्कुमार उवाच ।
तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता ।
एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा ॥ ४१॥
तस्मिंस्तांश्च वरान् दत्त्वा पार्वतीपरमेश्वरौ ।
तत्रैवान्तश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ॥ ४२॥
कृष्णः कृतार्थमात्मानममन्यत मुनीश्वर ।
उपमन्योर्मुनेराशु प्रापाश्रममनुत्तमम् ॥ ४३॥
प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः ।
तथा वृत्तं च तस्मै तत् समाचष्टोपमन्यवे ॥ ४४॥
स च तं प्राह कोऽन्यः स्याच्छर्वाद्देवाज्जनार्दन ।
महादानपतिर्लोके क्रोधे वातीव दुःसहः ॥ ४५॥
ज्ञाने तपसि वा शौर्ये स्थैर्ये वा पद एव च ।
शृणु शम्भोस्तु गोविन्द देवैश्वर्यं महायशाः ॥ ४६॥
तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छम्भोस्तु भक्तिमान् ।
पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः ॥ ४७॥
उपमन्युरुवाच ।
भगवान् शङ्करः पूर्वं ब्रह्मलोके महात्मना ।
स्तुतो नामसहस्रेण तण्डिना ब्रह्मयोगिना ॥ ४८॥
साङ्ख्याः पठन्ति तद्गीतं विस्तीर्णं च निघण्टुवत् ।
दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम् ॥ ४९॥
स्मरन्नित्यं शङ्करं त्वं गच्छ कृष्ण गृहं सुखी ।
भविष्यसि सदा तात शिवभक्तगणाग्रणीः ॥ ५०॥
इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् ।
मनसा संस्मरन् शम्भुं केशवो द्वारकां ययौ ॥ ५१॥
सनत्कुमार उवाच ।
एवं कृष्णः समाराध्य शङ्करं लोकशङ्करम् ।
कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा ॥ ५२॥
तथा दाशरथी रामः शिवमाराध्य भक्तितः ।
कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत् ॥ ५३॥
तपस्तप्त्वातिविपुलं पुरा रामो गिरौ मुने ।
शिवाद्धनुः शरं चापं ज्ञानं वै परमुत्तमम् ॥ ५४॥
रावणं सगणं हत्वा सेतुं बद्ध्वाम्भसां निधौ ।
सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम् ॥ ५५॥
तथा च भार्गवो रामो ह्याराध्य तपसा विभुम् ।
निरीक्ष्य दुःखितः शर्वात्पितरं क्षत्रियैर्हतम् ॥ ५६॥
तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् ।
त्रिःसप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात् ॥ ५७॥
अजेयश्चामरश्चैव सोऽद्यापि तपसां निधिः ।
लिङ्गार्चनरतो नित्यं दृश्यते सिद्धचारणैः ॥ ५८॥
महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति ।
कल्पान्ते पुनरेवासावृषिस्थानमवाप्स्यति ॥ ५९॥
असितस्यानुजः पूर्वं पीडया कृतवांस्तपः ।
मूलग्राहेण विश्वस्य देवलो नाम तापसः ॥ ६०॥
पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् ।
अधर्म्यं धर्ममलभल्लिङ्गमारध्य कामदम् ॥ ६१॥
चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले ।
वसिष्ठशापाद् गृत्समदो दण्डकारण्य एकलः ॥ ६२॥
हृदये संस्मन् भक्त्या प्रणवेन युतं शिवम् ।
तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत् ॥ ६३॥
अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः ।
शङ्करेण कृतः प्रीत्या नित्यं लम्बोदरानुगः ॥ ६४॥
गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् ।
कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत् ॥ ६५॥
चतुष्पादं सरस्वत्याः पारगत्वं च शाश्वतम् ।
न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः ॥ ६६॥
वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् ।
पराशराय च ददौ जरामृत्युविवर्जितम् ॥ ६७॥
माण्डव्यः शङ्करेणैव जीवं दत्त्वा विसर्जितः ।
वर्षाणां दश लक्षाणि शूलाग्रादवरोपितः ॥ ६८॥
दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि ।
पुत्रं तु गालवं यश्च पूर्वमासीद् गृहाश्रमी ॥ ६९॥
गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् ।
भार्यामुवाच यः कश्चिदवश्यं निर्धनो यतः ॥ ७०॥
स तु वाच्यो भवत्या च न दृश्यन्त इति प्रियः ।
अतिथेरागतस्यापि किं दास्यामि गृहे वसन् ॥ ७१॥
कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः ।
तामुवाच स भर्ता ते क्व गतश्चेति तं च सा ॥ ७२॥
प्राह भर्ता मदीयस्तु साम्प्रतं न च दृश्यते ।
स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा ॥ ७३॥
गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः ।
विश्वामित्त्राभ्यनुज्ञातस्तत्पुत्रो गालवस्तथा ॥ ७४॥
गृहमागत्य मातुः स श्रुत्वा शापं सुदारुणम् ।
आराध्य शङ्करं देवं पूजां कृत्वा तु शाम्भवीम् ॥ ७५॥
गृहादसौ विनिष्क्रान्तः सस्मरन् शङ्करं हृदा ।
अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम् ॥ ७६॥
महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः ।
धनवान् पुत्रवांश्चैव मृतोऽहं जीवितः पुनः ॥ ७७॥
इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् ।
वक्तुं शम्भोश्च गुणान् शेषस्यापि न मुखानि स्युः ॥ ७८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ५.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४. चतुर्थोऽध्यायः । शिवमायाप्रभाववर्णनम् ।
मुनय ऊचुः ।
तात तात महाभाग धन्यस्त्वं हि महामते ।
अद्भुतेयं कथा शम्भोः श्राविता परभक्तिदा ॥ १॥
पुनर्ब्रूहि कथां शम्भोर्व्यासप्रश्नानुसारतः ।
सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ॥ २॥
सूत उवाच ।
एवमेव गुरुर्व्यासः पृष्टवान् मेऽजसम्भवम् ।
सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ॥ ३॥
व्यास उवाच ।
सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कथा ।
शङ्करस्य महेशस्य नानालीलाविहारिणः ॥ ४॥
पुनर्ब्रूहि महादेवमहिमानं विशेषतः ।
श्रद्धा च महती श्रोतुं मम तात प्रवर्धते ॥ ५॥
महिम्ना येन शम्भोस्तु ये ये लोके विमोहिताः ।
मायया ज्ञानमाहृत्य नानालीलाविहारिणः ॥ ६॥
सनत्कुमार उवाच ।
शृणु व्यास महाबुद्धे शाङ्करीं सुखदां कथाम् ।
यस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ॥ ७॥
शिवः सर्वेश्वरो देवः सर्वात्मा सर्वदर्शनः ।
महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत् ॥ ८॥
शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ।
सर्वभूतात्मभूताख्या त्रिलिङ्गालिङ्गरूपिणी ॥ ९॥
देवानां योनयश्चाष्टौ मानुषी नवमी च या ।
तिरश्चां योनयः पञ्च भवन्त्येवं चतुर्दश ॥ १०॥
भूता वा वर्तमाना वा भविष्याश्चैव सर्वशः ।
शिवात्सर्वे प्रवर्तन्ते लीयन्ते वृद्धिमागताः ॥ ११॥
ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम् ।
गन्धर्वाणां मनुष्याणामन्येषां वापि सर्वशः ॥ १२॥
बन्धुर्मित्रमथाचार्यो रक्षन्नेतार्थवान् गुरुः ।
कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः ॥ १३॥
शिवः सर्वमयः पुंसां स्वयं वेद्यः परात्परः ।
वक्तुं न शक्यते यश्च परं चानुपरं च यत् ॥ १४॥
तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने ।
तदधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ १५॥
कामेन स्वसहायेन प्रबलेन मनोभुवा ।
सर्वः प्रधर्षितो वीरो विष्ण्वादिप्रबलोऽपि हि ॥ १६॥
शिवमायाप्रभावेणाभूद्धरिः काममोहितः ।
परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ॥ १७॥
इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ।
पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ॥ १८॥
पावकोऽपि जगच्छ्रेष्ठो मोहितः शिवमायया ।
कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ॥ १९॥
जगत्प्राणोऽपि गर्वेण मोहितः शिवमायया ।
कामेन निर्जितो व्यास चक्रेऽन्यस्त्रीरतिं पुरा ॥ २०॥
चण्डरश्मिस्तु मार्तण्डो मोहितः शिवमायया ।
कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ॥ २१॥
चन्द्रश्च मोहितः शम्भोर्मायया कामसङ्कुलः ।
गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ॥ २२॥
पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ।
मोहितौ तावपि मुनी शिवमायाविमोहितौ ॥ २३॥
उर्वशीं तरुणीं दृष्ट्वा कामुकौ सम्बभूवतुः ।
मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ॥ २४॥
ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसम्भवः ।
अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ॥ २५॥
दक्षश्च मोहितः शम्भोर्मायया ब्रह्मणः सुतः ।
भ्रातृभिः स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ॥ २६॥
ब्रह्मा च बहुवारं हि मोहितः शिवमायया ।
अभवद्भोक्तुकामश्च स्वसुतायां परासु च ॥ २७॥
च्यवनोऽपि महायोगी मोहितः शिवमायया ।
सुकन्यया विजह्रे स कामासक्तो बभूव ह ॥ २८॥
कश्यपः शिवमायातो मोहितः कामसङ्कुलः ।
ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा ॥ २९॥
गरुडः शाण्डिलीं कन्यां नेतुकामः सुमोहितः ।
विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह ॥ ३०॥
विभाण्डको मुनिर्नारीं दृष्ट्वा कामवशं गतः ।
ऋष्यशृङ्गसुतस्तस्य मृग्यां जातः शिवाज्ञया ॥ ३१॥
गौतमश्च मुनिः शम्भोर्मायामोहितमानसः ।
दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया ॥ ३२॥
रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः ।
तस्माच्च कलशाज्जातो द्रोणः शस्त्रभृतां वरः ॥ ३३॥
पराशरो महायोगी मोहितः शिवमायया ।
मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया ॥ ३४॥
विश्वामित्रो बभूवाथ मोहितः शिवमायया ।
रेमे मेनकया व्यास वने कामवशं गतः ॥ ३५॥
वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः ।
पुनः शिवप्रसादाच्च ब्राह्मणोऽभूत्स एव वै ॥ ३६॥
रावणो वैश्रवाः कामी बभूव शिवमायया ।
सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च ॥ ३७॥
बृहस्पतिर्मुनिवरो मोहितः शिवमायया ।
भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत् ॥ ३८॥
इति मायाप्रभावो हि शङ्करस्य महात्मनः ।
वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि ॥ ३९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थोऽध्यायः ॥ ५.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.५. पञ्चमोऽध्यायः । महापातकवर्णनम् ।
व्यास उवाच ।
ये पापनिरता जीवा महानरकहेतवः ।
भगवंस्तान् समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ॥ १॥
सनत्कुमार उवाच ।
ये पापनिरता जीवा महानरकहेतवः ।
ते समासेन कथ्यन्ते सावधानतया शृणु ॥ २॥
परस्त्रीद्रव्यसङ्कल्पश्चेतसानिष्टचिन्तनम् ।
अकार्याभिनिवेशश्च चतुर्धा कर्म मानसम् ॥ ३॥
अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ।
परोक्षतश्च पैशुन्यं चतुर्धा कर्म वाचिकम् ॥ ४॥
अभक्ष्यभक्षणं हिंसा मिथ्याकार्यनिवेशनम् ।
परस्वानामुपादानं चतुर्धा कर्म कायिकम् ॥ ५॥
इत्येतद् द्वादशविधं कर्म प्रोक्तं त्रिसाधनम् ।
अस्य भेदान् पुनर्वक्ष्ये येषां फलमनन्तकम् ॥ ६॥
ये द्विषन्ति महादेवं संसारार्णवतारकम् ।
सुमहत्पातकं तेषां निरयार्णवगामिनाम् ॥ ७॥
ये शिवज्ञानवक्तारं निन्दन्ति च तपस्विनम् ।
गुरून् पितॄनथोन्मत्तास्ते यान्ति निरयार्णवम् ॥ ८॥
शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।
देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ॥ ९॥
हरन्ति ये च सम्मूढाश्शिवज्ञानस्य पुस्तकम् ।
महान्ति पातकान्याहुरनन्तफलदानि षट् ॥ १०॥
नाभिनन्दन्ति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ।
न नमन्त्यर्चितं दृष्ट्वा शिवलिङ्गं स्तुवन्ति न ॥ ११॥
यथेष्टचेष्टा निःशङ्काः सन्तिष्ठन्ते रमन्ति च ।
उपचारविनिर्मुक्ताः शिवाग्रे गुरुसन्निधौ ॥ १२॥
स्थानसंस्कारपूजां च ये न कुर्वन्ति पर्वसु ।
विधिवद्वा गुरूणां च कर्मयोगव्यवस्थिताः ॥ १३॥
ये त्यजन्ति शिवाचारं शिवभक्तान्द्विषन्ति च ।
असम्पूज्य शिवज्ञानं येऽधीयन्ते लिखन्ति च ॥ १४॥
अन्यायतः प्रयच्छन्ति शृण्वन्त्युच्चारयन्ति च ।
विक्रीडन्ति च लोभेन कुज्ञाननियमेन च ॥ १५॥
असंस्कृतप्रदेशेषु यथेष्टं स्वापयन्ति च ।
शिवज्ञानकथाक्षेपं यः कृत्वान्यत्प्रभाषते ॥ १६॥
न ब्रवीति च यः सत्यं न प्रदानं करोति च ।
अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ॥ १७॥
गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति ।
न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ॥ १८॥
नाभिनन्दति तद्वाक्यमुत्तरं च प्रयच्छति ।
गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ॥ १९॥
गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा ।
वैरिभिः परिभूतं वा यः सन्त्यजति पापकृत् ॥ २०॥
तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति च ।
एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ॥ २१॥
एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ।
सुमहत्पातकान्याहुः शिवनिन्दासमानि च ॥ २२॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
महापातकिनस्त्वेते तत्संयोगी च पञ्चमः ॥ २३॥
क्रोधाल्लोभाद्भयाद् द्वेषाद्ब्राह्मणस्य वधे तु यः ।
मर्मान्तिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ॥ २४॥
ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ।
निर्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ॥ २५॥
यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ।
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ २६॥
मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ।
गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ॥ २७॥
गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ।
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥ २८॥
देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ।
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ २९॥
देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ।
ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ॥ ३०॥
अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ।
यदि त्यजति यो मूढः सुरापानस्य तत्समम् ॥ ३१॥
यत्किञ्चिद्धि व्रतं गृह्य नियमं यजनं तथा ।
सन्त्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ॥ ३२॥
पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ।
आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ॥ ३३॥
वने निरपराधानां प्राणिनां चापघातनम् ।
द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ॥ ३४॥
गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ।
इति पापानि घोराणि ब्रह्महत्यासमानि च ॥ ३५॥
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ।
गोभूरजतवस्त्राणामौषधीनां रसस्य च ॥ ३६॥
चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम् ।
विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ॥ ३७॥
हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ।
कन्यानां वरयोग्यानामदानं सदृशे वरे ॥ ३८॥
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।
कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ॥ ३९॥
सवर्णायाश्च गमनं गुरुभार्यासमं स्मृतम् ।
महापापानि चोक्तानि शृणु त्वमुपपातकम् ॥ ४०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महापातकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.६. षष्ठोऽध्यायः । पापभेदवर्णनम् ।
सनत्कुमार उवाच ।
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ।
अतिमानोऽतिकोपश्च दाम्भिकत्वं कृतघ्नता ॥ १॥
अत्यन्तविषयासक्तिः कार्पण्यं साधुमत्सरम् ।
परदाराभिगमनं साधुकन्यासु दूषणम् ॥ २॥
परिवित्तिः परिवेत्ता यया च परिविद्यते ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ३॥
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ।
यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ॥ ४॥
सभृत्यपरिवारस्य पशुधान्यधनस्य च ।
कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ॥ ५॥
यज्ञारामतडागानां दारापत्यस्य विक्रयम् ।
तीर्थयात्रोपवासानां व्रतोपनयकर्मिणाम् ॥ ६॥
स्त्रीधनान्युपजीवन्ति स्त्रीभिरत्यन्तनिर्जिताः ।
अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ॥ ७॥
कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ।
निन्दिताच्च धनादानं पण्यानां कूटजीवनम् ॥ ८॥
विषमारणमन्त्राणां सततं वृषवाहनम् ।
उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ॥ ९॥
जिह्वाकामोपभोगार्थं यस्यारम्भः सुकर्मसु ।
मूलेनाध्यापको नित्यं वेदज्ञानादिकं च यत् ॥ १०॥
ब्राह्म्यादिव्रतसन्त्यागश्चान्याचारनिषेवणम् ।
असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ॥ ११॥
देवाग्निगुरुसाधूनां निन्दा या ब्राह्मणस्य च ।
प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ॥ १२॥
उत्सन्नपितृदेवेज्याः स्वकर्मत्यागिनश्च ये ।
दुःशीला नास्तिकाः पापाः सदा वासत्यवादिनः ॥ १३॥
पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ।
रजस्वलाया योनौ च मैथुनं यः समाचरेत् ॥ १४॥
स्त्रीपुत्रमित्रसम्प्राप्ते आशाच्छेदकराश्च ये ।
जनस्याप्रियवक्तारः क्रूराः समयभेदिनः ॥ १५॥
भेत्ता तडागकूपानां विक्रतारो रसस्य च ।
एकपङ्क्तिस्थितानां च पाकभेदं करोति यः ॥ १६॥
इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ।
युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते ॥ १७॥
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।
विनाशयन्ति कार्याणि ते नरा नारकाः स्मृताः ॥ १८॥
परस्त्रियाभितप्यन्ते ये परद्रव्यसूचकाः ।
परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ॥ १९॥
द्विजदुःखकरा ये च प्रहारं चोद्धरन्ति ये ।
सेवन्ते तु द्विजाः शूद्रां सुरां बध्नन्ति कामतः ॥ २०॥
ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः ।
वृत्त्यर्थं येऽपि कुर्वन्ति दानयज्ञादिकाः क्रियाः ॥ २१॥
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च ।
त्यजन्ति ये पुरीषाद्यानारामायतनेषु च ॥ २२॥
लज्जाश्रमप्रासादेषु मद्यपानरताश्च ये ।
कृतकेलिभुजङ्गाश्च रन्ध्रान्वेषणतत्पराः ॥ २३॥
वंशेष्टकाशिलाकाष्ठैः शृङ्गैः शङ्कुभिरेव च ।
ये मार्गमनुरुन्धन्ति परसीमां हरन्ति ये ॥ २४॥
कूटशासनकर्तारः कूटकर्मक्रियारताः ।
कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः ॥ २५॥
धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी ।
निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः ॥ २६॥
मिथ्या प्रवदतो वाच आकर्णयति यः शनैः ।
स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ॥ २७॥
ये भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ।
भृत्यानतिथिबन्धूंश्च त्यक्त्वाश्नन्ति बुभुक्षितान् ॥ २८॥
यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति ।
वृथापाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः ॥ २९॥
नियमान् स्वयमादाय ये त्यजन्त्यजितेन्द्रियाः ।
प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः ॥ ३०॥
ये ताडयन्ति गां क्रूरा दमयन्ते मुहुर्मुहुः ।
दुर्बलान्ये न पुष्णन्ति सततं ये त्यजन्ति च ॥ ३१॥
पीडयन्त्यतिभारेणासहन्तं वाहयन्ति च ।
योजयन्त्यकृताहारान्न विमुञ्चन्ति संयतान् ॥ ३२॥
ये भारक्षतरोगार्तान् गोवृषांश्च क्षुधातुरान् ।
न पालयन्ति यत्नेन गोघ्नास्ते नारकाः स्मृताः ॥ ३३॥
वृषाणां वृषणान्ये च पापिष्ठा गालयन्ति च ।
वाहयन्ति च गां वन्ध्यां महानारकिनो नराः ॥ ३४॥
आशया समनुप्राप्तान् क्षुत्तृष्णाश्रमकर्शितान् ।
अतिथींश्च तथानाथान् स्वतन्त्रान् गृहमागतान् ॥ ३५॥
अन्नाभिलाषान् दीनान्वा बालवृद्धकृशातुरान् ।
नानुकम्पन्ति ये मूढास्ते यान्ति नरकार्णवम् ॥ ३६॥
गृहेष्वर्था निवर्तन्ते श्मशानादपि बान्धवाः ।
सुकृतं दुष्कृतं चैव गच्छन्तमनुगच्छति ॥ ३७॥
अजाविको माहिषिकः सामुद्रो वृषलीपतिः ।
शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः ॥ ३८॥
शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः ।
भृतकाः कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः ॥ ३९॥
यश्चोचितमतिक्रम्य स्वेच्छयैवाहरेत्करम् ।
नरके पच्यते सोऽपि योऽपि दण्डरुचिर्नरः ॥ ४०॥
उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते ।
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ४१॥
ये द्विजाः परिगृह्णन्ति नृपस्यान्यायवर्तिनः ।
ते प्रयान्ति तु घोरेषु नरकेषु न संशयः ॥ ४२॥
अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति ।
प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा ॥ ४३॥
पारदारिकचौराणां चण्डानां विद्यते त्वघम् ।
परदाररतस्यापि राज्ञो भवति नित्यशः ॥ ४४॥
अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् ।
अविचार्य नृपस्तस्माद् घातयन्नरकं व्रजेत् ॥ ४५॥
घृततैलान्नपानानि मधुमांससुरासवम् ।
गुडेक्षुशाकदुग्धानि दधिमूलफलानि च ॥ ४६॥
तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् ।
उपानत्छत्रशकटमासनं च कमण्डलुम् ॥ ४७॥
ताम्रसीसत्रपुः शस्त्रं शङ्खाद्यं च जलोद्भवम् ।
वाद्यं च वैणवं चान्यद्गृहोपस्करणानि च ॥ ४८॥
और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च ।
स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरन्ति च ॥ ४९॥
एवमादीनि चान्यानि द्रव्याणि विविधानि च ।
नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च ॥ ५०॥
तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् ।
अपहृत्य नरा यान्ति नरकं नात्र संशयः ॥ ५१॥
एवमाद्यैर्नरः पापैरुत्क्रान्तिसमनन्तरम् ।
शरीरयातनार्थाय सर्वाकारमवाप्नुयात् ॥ ५२॥
यमलोकं व्रजन्त्येते शरीरेण यमाज्ञया ।
यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः ॥ ५३॥
देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् ।
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ॥ ५४॥
नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ।
प्रायश्चित्तैर्गुरुः शास्ता न बुधैरिष्यते यमः ॥ ५५॥
पारदारिकचौराणामन्यायव्यवहारिणाम् ।
नृपतिः शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट् ॥ ५६॥
तस्मात् कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ॥ ५७॥
यः करोति स्वयं कर्म कारयेच्चानुमोदयेत् ।
कायेन मनसा वाचा तस्य पापगतिः फलम् ॥ ५८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.७. सप्तमोऽध्यायः । नरकलोकमार्गयमदूतस्वरूपवर्णनम् ।
सनत्कुमार उवाच ।
अथ पापैर्नरा यान्ति यमलोकं चतुर्विधैः ।
सन्त्रासजननं घोरं विवशाः सर्वदेहिनः ॥ १॥
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।
स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजन्तुषु ॥ २॥
शुभाशुभफलं चात्र देहिनां संविचार्यते ।
चित्रगुप्तादिभिः सर्वैः वसिष्ठप्रमुखैस्तथा ॥ ३॥
न केचित्प्राणिनः सन्ति ये न यान्ति यमक्षयम् ।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्यताम् ॥ ४॥
तत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः ।
ते नरा यान्ति सौम्येन पूर्वं यमनिकेतनम् ॥ ५॥
ये पुनः पापकर्माणः पापा दानविवर्जिताः ।
ते घोरेण पथा यान्ति दक्षिणेन यमालयम् ॥ ६॥
षडशीतिसहस्राणि योजनानामतीत्य तत् ।
वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥ ७॥
समीपस्थमिवाभाति नराणां पुण्यकर्मणाम् ।
पापिनामतिदूरस्थं यथा रौद्रेण गच्छताम् ॥ ८॥
तीक्ष्णकण्टकयुक्तेन शर्कराविचितेन च ।
क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च ॥ ९॥
क्वचित्पङ्केन महता जलौकाभिश्च सङ्कुलैः ।
लोहसूचीनिभैर्दर्भैः सम्पन्नेन पथा क्वचित् ॥ १०॥
तटप्रायातिविषमैः पर्वतैर्वृक्षसङ्कुलैः ।
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ ११॥
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्ठैः सुदुष्करैः ।
सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ १२॥
अनेकशाखाविततैर्व्याप्तं वंशवनैः क्वचित् ।
कष्टेन तमसा मार्गेणानालम्बेन कुत्रचित् ॥ १३॥
अयः शृङ्गाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ।
क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ १४॥
क्वचिद्वालुकया व्याप्तमाकण्ठान्तः प्रवेशया ।
क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ॥ १५॥
क्वचित् सिहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ।
क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा ॥ १६॥
मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पैर्विषोल्बणैः ।
मत्तमातङ्गयूथैश्च बलोन्मत्तैः प्रमाथिभिः ॥ १७॥
पन्थानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः ।
तीक्ष्णशृङ्गैश्च महिषैः सर्वभूतैश्च श्वापदैः ॥ १८॥
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति हि ॥ १९॥
महाधूलिविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २०॥
क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ।
महता बाणवर्षेण विध्यमानाश्च सर्वतः ॥ २१॥
पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ।
प्रदीप्ताङ्गारवर्षेण दह्यमानाश्च सन्ति हि ॥ २२॥
महता पांसुवर्षेण पूर्यमाणा रुदन्ति च ।
महामेघरवैर्घोरैस्त्रस्यन्ते च मुहुर्मुहुः ॥ २३॥
निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ।
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २४॥
महीशीतेन मरुता रूक्षेण परुषेण च ।
समन्ताद् बाध्यमानाश्च शुष्यन्ते सङ्कुचन्ति च ॥ २५॥
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।
निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २६॥
विषमेणैव महता निर्जनापाश्रयेण च ।
तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च ॥ २७॥
नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ।
यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ॥ २८॥
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ।
शोचन्तः स्वानि कर्माणि रुदन्तश्च मुहुर्मुहुः ॥ २९॥
प्रेता भूत्वा विवस्त्राश्च शुष्ककण्ठौष्ठतालुकाः ।
असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ॥ ३०॥
बद्धाः शृङ्खलया केचिदुत्ता नपादका नराः ।
कृष्यन्ते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ॥ ३१॥
उरसाधोमुखाश्चान्ये घृष्यमाणाः सुदुःखिताः ।
केशपाशनिबन्धेन सङ्कृष्यन्ते च रज्जुना ॥ ३२॥
ललाटे चाङ्कुशेनान्ये भिन्ना दुष्यन्ति देहिनः ।
उत्तानाः कण्टकपथा क्वचिदङ्गारवर्त्मना ॥ ३३॥
पश्चाद् बाहुनिबद्धाश्च जठरेण प्रपीडिताः ।
पूरिताः शृङ्खलाभिश्च हस्तयोश्च सुकीलिताः ॥ ३४॥
ग्रीवापाशेन कृष्यन्ते प्रयान्त्यन्ये सुदुःखिताः ।
जिह्वाङ्कुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ॥ ३५॥
नासाभेदेन रज्ज्वा च त्वाकृष्यन्ते तथापरे ।
भिन्नाः कपोलयो रज्ज्वा कृष्यन्तेऽन्ये तथौष्ठयोः ॥ ३६॥
छिन्नाग्रपादहस्ताश्च छिन्नकर्णोष्ठनासिकाः ।
सञ्छिन्नशिश्नवृषणाः छिन्नभिन्नाङ्गसन्धयः ॥ ३७॥
आभिद्यमानाः कुन्तैश्च भिद्यमानाश्च सायकैः ।
इतश्चेतश्च धावन्तः क्रन्दमाना निराश्रयाः ॥ ३८॥
मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ।
कण्टकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ॥ ३९॥
भिन्दिपालैर्विभिद्यन्ते स्रवतः पूयशोणितम् ।
शकृता कृमिदिग्धाश्च नीयन्ते विवशा नराः ॥ ४०॥
याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ।
छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ॥ ४१॥
दानहीनाः प्रयान्त्येवं प्रार्थयन्तः सुखं नराः ।
गृहीतदानपाथेयाः सुखं यान्ति यमालयम् ॥ ४२॥
एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ।
प्रज्ञापितास्ततो दूतैर्निवेश्यन्ते यमाग्रतः ॥ ४३॥
तत्र ये शुभकर्माणस्तांस्तु सम्मानयेद्यमः ।
स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ॥ ४४॥
धन्या यूयं महात्मानो निगमोदितकारिणः ।
यैश्च दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ ४५॥
दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ।
स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम् ॥ ४६॥
तत्र भुक्त्वा महाभोगानन्ते पुण्यस्य सङ्क्षयात् ।
यत्किञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ ॥ ४७॥
धर्मात्मानो नरा ये च मित्रभूता इवात्मनः ।
सौम्यं मुखं प्रपश्यन्ति धर्मराजनमेव च ॥ ४८॥
ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम् ।
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ४९॥
ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ।
अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ ५०॥
सर्वायुधोद्धृतकरं सर्वदण्डेन तर्जयन् ।
महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥ ५१॥
रक्तमाल्याम्बरधरं महामेरुमिवोच्छ्रितम् ।
प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥ ५२॥
ग्रसन्तमिव शैलेन्द्रमुद्गिरन्तमिवानलम् ।
मृत्युश्चैव समीपस्थः कालानलसमप्रभः ॥ ५३॥
कालश्चाञ्जनसङ्काशः कृतान्तश्च भयानकः ।
मारी चोग्रमहामारी कालरात्रिश्च दारुणा ॥ ५४॥
विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ।
शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः ॥ ५५॥
वज्रतुण्डधरा रौद्राः क्षुरतूणधनुर्द्धराः ।
नानायुधधराः सर्वे महावीरा भयङ्कराः ॥ ५६॥
असङ्ख्याता महावीराः कालाञ्जनसमप्रभाः ।
सर्वायुधोद्यतकरा यमदूता भयानकाः ॥ ५७॥
अनेन परिचारेण वृतं तं घोरदर्शनम् ।
यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं च भीषणम् ॥ ५८॥
निर्भर्त्सयति चात्यन्तं यमस्तान्पापकर्मणः ।
चित्रगुप्तश्च भगवान् धर्मवाक्यैः प्रबोधयेत् ॥ ५९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ५.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.८. अष्टमोऽध्यायः । नरकलोकवर्णनम् ।
चित्रगुप्त उवाच ।
भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः ।
गर्विता रूपवीर्येण परदारावमर्दकाः ॥ १॥
यत् स्वयं क्रियते कर्म तदिदं भुज्यते पुनः ।
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २॥
इदानीं किं प्रलप्यध्वं पीड्यमानाः स्वकर्मभिः ।
भुज्यन्तां स्वानि कर्माणि नास्ति दोषो हि कस्यचित् ॥ ३॥
सनत्कुमार उवाच ।
एवं ते पृथिवीपालाः सम्प्राप्तास्तत्समीपतः ।
स्वकीयैः कर्मभिघौरैर्दुष्कर्मबलदर्पिणः ॥ ४॥
तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ।
संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥ ५॥
चित्रगुप्त उवाच ।
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६॥
राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ।
यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥ ७॥
क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ।
तत्सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ ८॥
पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ।
यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥ ९॥
सनत्कुमार उवाच ।
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ।
स्वानि कर्माणि शोचन्ति तूष्णीं तिष्ठन्ति पार्थिवाः ॥ १०॥
इति कर्म समुद्दिश्य नृपाणां धर्मराड् यमः ।
तत्पापपङ्कशुद्ध्यर्थमिदं दूतान् ब्रवीति च ॥ ११॥
यमराज उवाच ।
भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीन्बलात् ।
नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥ १२॥
सनत्कुमार उवाच ।
ततः शीघ्रं समादाय नृपान् सङ्गृह्य पादयोः ।
भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥ १३॥
सर्वप्रायेण महतातीव तप्ते शिलातले ।
आस्फालयन्ति तरसा वज्रेणेव महाद्रुमान् ॥ १४॥
ततः स रक्तं श्रोत्रेण स्रवते जर्जरीकृतः ।
निःसंज्ञः स तदा देही निश्चेष्टः सम्प्रजायते ॥ १५॥
ततः स वायुना स्पृष्टः स तैरुज्जीवितः पुनः ।
ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ १६॥
अष्टाविंशतिसङ्ख्याभिः क्षित्यधः सप्तकोटयः ।
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थितः ॥ १७॥
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ।
अतिघोरा महाघोरा घोररूपा च पञ्चमी ॥ १८॥
षष्ठी तलातलाख्या च सप्तमी च भयानका ।
अष्टमी कालरात्रिश्च नवमी च भयोत्कटा ॥ १९॥
दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः ।
चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ॥ २०॥
पद्मा पद्मावती भीता भीमा भीषणनायिका ।
कराला विकराला च वज्रा विंशतिमा स्मृता ॥ २१॥
त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा ।
समा भीमबलाभोग्रा दीप्तप्रायेति चाष्टमी ॥ २२॥
इति ते नामतः प्रोक्ता घोरा नरककोटयः ।
अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः ॥ २३॥
तासां क्रमेण विज्ञेयाः पञ्च पञ्चैव नायकाः ।
प्रत्येकं सर्वकोटीनां नामतः सन्निबोधत ॥ २४॥
रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः ।
महारौरवपीडाभिर्महान्तोऽपि रुदन्ति च ॥ २५॥
ततः शीतं तथा चोष्णं पञ्चाद्या नायकाः स्मृताः ।
सुघोरः सुमहातीक्ष्णस्तथा सञ्जीवनः स्मृतः ॥ २६॥
महातमो विलोमश्च विलोपश्चापि कण्टकः ।
तीव्रवेगः करालश्च विकरालः प्रकम्पनः ॥ २७॥
महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः ।
सूचीमुखः सुनेतिश्च खादकः सुप्रपीडनः ॥ २८॥
कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः ।
अङ्गारराशिभवनं मेदोऽसृक्प्रहितस्ततः ॥ २९॥
तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः ।
तप्तजन्तुः पङ्कलेपः प्रतिमांसस्त्रपूद्भवः ॥ ३०॥
उच्छ्वासः सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः ।
दुरिष्टः सुमहावादः प्रवाहः सुप्रतापनः ॥ ३१॥
ततो मेघो वृषः शाल्मः सिंहव्याघ्रगजाननाः ।
श्वसूकराजमहिषघूककोकवृकाननाः ॥ ३२॥
ग्राहकुम्भीननक्राख्याः सर्पकूर्माख्यवायसाः ।
गृध्रोलूकहलौकाख्याः शार्दूलक्रथकर्कटाः ॥ ३३॥
मण्डूकः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः ।
कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ॥ ३४॥
अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभः श्वभोजनः ।
लालाभक्षान्त्रभक्षौ च सर्वभक्षः सुदारुणः ॥ ३५॥
कण्टकः सुविशालश्च विकटः कटपूतनः ।
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी ॥ ३६॥
सुतप्तलोहशयन एकपादः प्रपूरणः ।
असितालवनं घोरमस्थिभङ्गः सुपूरणः ॥ ३७॥
विलातसोऽसुयन्त्रोपि कूटपाशः प्रमर्दनः ।
महाचूरर्णोऽसुचूर्णोऽपि तप्तलोहमयं तथा ॥ ३८॥
पर्वतः क्षुरधारा च तथा यमलपर्वतः ।
मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ॥ ३९॥
मुसलोलूखलं यन्त्रं शिलाशकटलाङ्गलम् ।
तालपत्रासिगहनं महाशकटमण्डपम् ॥ ४०॥
सम्मोहमस्थिभङ्गश्च तप्तश्चलमयोगुडम् ।
बहुदुःखं महाक्लेशः कश्मलं समलं मलात् ॥ ४१॥
हालाहलो विरूपश्च स्वरूपश्च यमानुगः ।
एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ॥ ४२॥
अष्टाविंशतिरित्येते क्रमशः पञ्चपञ्चकम् ।
कोटीनामानुपूर्व्येण पञ्च पञ्चैव नायकाः ॥ ४३॥
रौरवाय प्रबोध्यन्ते नरकाणां शतं स्मृतम् ।
चत्वारिंशच्च तत्प्रोक्तं महानरकमण्डलम् ॥ ४४॥
इति ते व्यास सम्प्रोक्ता नरकस्य स्थितिर्मया ।
प्रसङ्ख्यानाच्च वैराग्यं शृणु पापगतिं च ताम् ॥ ४५॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥ ५.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.९. नवमोऽध्यायः । नरकगतिवर्णनम् ।
सनत्कुमार उवाच ।
एषु पापाः प्रपच्यन्ते शोष्यन्ते नरकाग्निषु ।
यातनाभिर्विचित्राभिरास्वकर्मक्षयाद् भृशम् ॥ १॥
स्वमलप्रक्षयाद्यद्वदग्नौ धास्यन्ति धातवः ।
तत्र पापक्षयात्पापा नराः कर्मानुरूपतः ॥ २॥
सुगाढं हस्तयोर्बद्ध्वा ततः शृङ्खलया नराः ।
महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिङ्करैः ॥ ३॥
ततस्ते सर्वयत्नेन क्षिप्ता दोलन्ति किङ्करैः ।
दोम्यन्तश्चातिवेगेन विसंज्ञा यान्ति योजनम् ॥ ४॥
अन्तरिक्षस्थितानां च लोहभारशतं पुनः ।
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ५॥
तेन भारेण महता प्रभृशं ताडिता नराः ।
ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ॥ ६॥
ततोऽङ्कुशैरग्निवर्णैर्लोहदण्डैश्च दारुणैः ।
हन्यन्ते किङ्करैघोरैः समन्तात्पापकर्मिणः ॥ ७॥
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।
समन्ततः प्रलिप्यन्ते तीव्रेण तु पुनः पुनः ॥ ८॥
द्रुतेनात्यन्तलिप्तेन कृत्ताङ्गा जर्जरीकृताः ।
पुनर्विदार्य चाङ्गानि शिरसः प्रभृति क्रमात् ॥ ९॥
वृन्ताकवत्प्रपच्यन्ते तप्तलोहकटाहकैः ।
विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः ॥ १०॥
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति ते पुनः ।
भक्ष्यन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ॥ ११॥
श्वभिर्देंशैर्वृकैर्व्याघ्रै रौद्रैश्च विकृताननैः ।
पच्यन्ते मत्स्यवच्चापि प्रदीप्ताङ्गारराशिषु ॥ १२॥
भिन्नाः शूलैः सुतीक्ष्णैश्च नराः पापेन कर्मणा ।
तैलयन्त्रेषु चाक्रम्य घोरैः कर्मभिरात्मनः ॥ १३॥
तिला इव प्रपीड्यन्ते चक्राख्ये जनपिण्डकाः ।
भ्रज्यन्ते चातपे तप्तलोहभाण्डेष्वनेकधा ॥ १४॥
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः ।
बहुधा पच्यते जिह्वा प्रपीड्योरसि पादयोः ॥ १५॥
यातनाश्च महत्योऽत्र शरीरस्याति सर्वतः ।
निःशेषनरकेष्वेवं क्रमन्ति क्रमशो नराः ॥ १६॥
नरकेषु च सर्वेषु विचित्रा यमयातनाः ।
याम्यैश्च दीयते व्यास सर्वाङ्गेषु सुकष्टदाः ॥ १७॥
ज्वलदङ्गारमादाय मुखमापूर्य ताड्यते ।
ततः क्षारेण दीप्तेन ताम्रेण च पुनःपुनः ॥ १८॥
घृतेनात्यन्ततप्तेन तदा तैलेन तन्मुखम् ।
इतस्ततः पीडयित्वा भृशमापूर्य हन्यते ॥ १९॥
विष्ठाभिः कृमिभिश्चापि पूर्यमाणाः क्वचित् क्वचित् ।
परिष्वजन्ति चात्युग्रां प्रदीप्तां लोहशाल्मलीम् ॥ २०॥
हन्यन्ते पृष्ठदेशे च पुनर्दीप्तैर्महाघनैः ।
दन्तुरेणादिकुण्ठेन क्रकचेन बलीसया ॥ २१॥
शिरःप्रभृति पीड्यन्ते घोरैः कर्मभिरात्मजैः ।
खाद्यन्ते च स्वमांसानि पीयते शोणितं स्वकम् ॥ २२॥
अन्नं पानं न दत्तं यैः सर्वदा स्वात्मपोषकैः ।
इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः ॥ २३॥
असितालवने घोरे छिद्यन्ते खण्डशस्ततः ।
सूचीभिर्भिन्नसर्वाङ्गाः तप्तशूलाग्ररोपिताः ॥ २४॥
सञ्चाल्यमाना बहुशः क्लिश्यन्ते न म्रियन्ति च ।
तथा च तच्छरीराणि सुखदुःखसहानि च ॥ २५॥
देहादुत्पाट्य मांसानि भिद्यन्ते स्वैश्च मुद्गरैः ।
दन्तुराकृतिभिर्घोरैर्यमदूतैर्बलोत्कटैः ॥ २६॥
निरुच्छ्वासे निरुच्छ्वासास्तिष्ठन्ति नरके चिरम् ।
उत्ताड्यन्ते तथोच्छ्वासे वालुकासदने नराः ॥ २७॥
रौरवे रोदमानाश्च पीड्यन्ते विविधैर्वधैः ।
महारौरवपीडाभिर्महान्तोऽपि रुदन्ति च ॥ २८॥
पत्सु वक्त्रे गुदे मुण्डे नेत्रयोश्चैव मस्तके ।
निहन्यन्ते घनैस्तीक्ष्णैः सुतप्तैर्लोहशङ्कुभिः ॥ २९॥
सुतप्तवालुकायां तु प्रयोज्यन्ते मुहुर्मुहुः ।
जन्तुपङ्के भृशं तप्ते क्षिप्ताः क्रन्दन्ति विस्वरम् ॥ ३०॥
कुम्भीपाकेषु पच्यन्ते तप्ततैलेषु वै मुने ।
पापिनः क्रूरकर्माणोऽसह्येषु सर्वथा पुनः ॥ ३१॥
लालाभक्षेषु पापास्ते पात्यन्ते दुःखदेषु वै ।
नानास्थानेषु च तथा नरकेषु पुनःपुनः ॥ ३२॥
सूचीमुखे महाक्लेशे नरके पात्यते नरः ।
पापी पुण्यविहीनश्च ताड्यते यमकिङ्करैः ॥ ३३॥
लोहकुम्भे विनिःक्षिप्ताः श्वसन्तश्च शनैः शनैः ।
महाग्निना प्रपच्यन्ते स्वपापैरेव मानवाः ॥ ३४॥
दृढं रज्ज्वादिभिर्बद्ध्वा प्रपीड्यन्ते शिलासु च ।
क्षिप्यन्ते चान्धकूपेषु दश्यन्ते भ्रमरैर्भृशम् ॥ ३५॥
कृमिभिर्भिन्नसर्वाङ्गाः शतशो जर्जरीकृताः ।
सुतीक्ष्णक्षारकूपेषु क्षिप्यन्ते तदनन्तरम् ॥ ३६॥
महाज्वालेऽत्र नरके पापाः क्रन्दन्ति दुःखिताः ।
इतश्चेतश्च धावन्ति दह्यमानास्तदर्चिषा ॥ ३७॥
पृष्ठे चानीय तुण्डाभ्यां विन्यस्तस्कन्धयोजिते ।
तयोर्मध्येन वाकृष्य बाहुपृष्ठेन गाढतः ॥ ३८॥
बद्धाः परस्परं सर्वे सुभृशं पाशरज्जुभिः ।
बद्धपिण्डास्तु दृश्यन्ते महाज्वाले तु यातनाः ॥ ३९॥
रज्जुभिर्वेष्टिताश्चैव प्रलिप्ताः कर्दमेन च ।
करीषतुषवह्नौ च पच्यन्ते न म्रियन्ति च ॥ ४०॥
सुतीक्ष्णचरितास्ते हि कर्कशासु शिलासु च ।
आस्फाल्य शतशः पापाः पच्यन्ते तृणवत्ततः ॥ ४१॥
शरीराभ्यन्तरगतैः प्रभूतैः कृमिभिर्नराः ।
भक्ष्यन्ते तीक्ष्णवदनैरात्मदेहक्षयाद् भृशम् ॥ ४२॥
कृमीणां निचये क्षिप्ताः पूयमांसास्थिराशिषु ।
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यां निपीडिताः ॥ ४३॥
तप्तेन वज्रलेपेन शरीरमनुलिप्यते ।
अधोमुखोर्ध्वपादश्च तातप्यन्ते स्म वह्निना ॥ ४४॥
वदनान्तःप्रविन्यस्तां सुप्रतप्तामयोगदाम् ।
ते खादन्ति पराधीनास्तैस्ताड्यन्ते च मुद्गरैः ॥ ४५॥
इत्थं व्यास कुकर्माणो नरकेषु पचन्ति हि ।
वर्णयामि विवर्णत्वं तेषां तत्त्वाय कर्मिणाम् ॥ ४६॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यतो नरकगतिवर्णनं नाम नवमोऽध्यायः ॥ ५.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१०. दशमोऽध्यायः । नरकगतिभोगवर्णनम् ।
सनत्कुमार उवाच ।
मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्यं च गच्छति ।
जिह्वार्धकोशविस्तीर्णहलैस्तीक्ष्णैः प्रपीड्यते ॥ १॥
निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् ।
विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य हन्यते ॥ २॥
ये शिवायतनारामवापीकूपतडागकान् ।
विद्रवन्ति द्विजस्थानं नरास्तत्र रमन्ति च ॥ ३॥
कामायोद्वर्तनाभ्यङ्ग स्नानपानाम्बुभोजनम् ।
क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धताः ॥ ४॥
पेचिरे विविधैर्धोरैरिक्षुयन्त्रादिपीडनैः ।
निरयाग्निषु पच्यन्ते यावदाभूतसम्प्लवम् ॥ ५॥
तेन तेनैव रूपेण ताड्यन्ते पारदारिकाः ।
गाढमालिङ्ग्य ते नारीं सुतप्तां लोहनिर्मिताम् ॥ ६॥
पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समन्ततः ।
दुश्चारिणीं स्त्रियं गाढमालिङ्गन्ति रुदन्ति च ॥ ७॥
ये शृण्वन्ति सतां निन्दां तेषां कर्णप्रपूरणम् ।
अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः ॥ ८॥
त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः ।
सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः ॥ ९॥
क्रमादापूर्य कर्णांस्तु नरकेषु च यातनाः ।
अनुक्रमेण सर्वेषु भवन्त्येताः समन्ततः ॥ १०॥
सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः ।
भवन्ति घोराः प्रत्येकं शरीरेण कृतेन च ॥ ११॥
स्पर्शदोषेण ये मूढाः स्पृशन्ति च परस्त्रियम् ।
तेषां करोऽग्निवर्णाभिः पांसुभिः पूर्यते भृशम् ॥ १२॥
तेषां क्षारादिभिः सर्वैः शरीरमनुलिप्यते ।
यातनाश्च महाकष्टाः सर्वेषु नरकेषु च ॥ १३॥
कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नराः ।
वक्त्राणि तेषां सान्तानि कीर्यन्ते शङ्कुभिर्दृढम् ॥ १४॥
यैरिन्द्रियैर्नरा ये च विकुर्वन्ति परस्त्रियम् ।
इन्द्रियाणि च तेषां वै विकुर्वन्ति तथैव च ॥ १५॥
परदारांश्च पश्यन्ति लुब्धाः स्तब्धेन चक्षुषा ।
सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम् ॥ १६॥
क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः ।
भवन्ति मुनिशार्दूल सत्यं सत्यं न संशयः ॥ १७॥
देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुञ्जते ।
लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्यते ॥ १८॥
ये देवारामपुष्पाणि लोभात्सङ्गृह्य पाणिना ।
जिघ्रन्ति च नरा भूयः शिरसा धारयन्ति च ॥ १९॥
आपूर्यते शिरस्तेषां तप्तैर्लोहस्य शङ्कुभिः ।
नासिका चातिबहुलैस्ततः क्षारादिभिर्भृशम् ॥ २०॥
ये निन्दन्ति महात्मानं वाचकं धर्मदेशिकम् ।
देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम् ॥ २१॥
तेषामुरसि कण्ठे च जिह्वायां दन्तसन्धिषु ।
तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु ॥ २२॥
अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशङ्कवः ।
आखिद्यन्ते च बहुशः स्थानेष्वेतेषु मुद्गरैः ॥ २३॥
ततः क्षारेण दीप्तेन पूर्यते हि समन्ततः ।
यातनाश्च महत्यो वै शरीरस्याति सर्वतः ॥ २४॥
अशेषनरकेष्वेव क्रमन्ति क्रमशः पुनः ।
ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ २५॥
शिवोपकरणं गां च ज्ञानादिलिखितं च यत् ।
हस्तपादादिभिस्तेषामापूर्यन्ते समन्ततः ॥ २६॥
नरकेषु च सर्वेषु विचित्रा बहुयातनाः ।
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः ॥ २७॥
शिवायतनपर्यन्ते देवारामेषु कुत्रचित् ।
समुत्सृजन्ति ये पापाः पुरीषं मूत्रमेव च ॥ २८॥
तेषां शिश्नं सवृषणं चूर्ण्यते लोहमुद्गरैः ।
सूचीभिरग्निवर्णाभिस्तथा त्वापूर्यते पुनः ॥ २९॥
ततः क्षारेण महता तीव्रेण च पुनः पुनः ।
द्रुतेन पूर्यते गाढं गुदे शिश्ने च देहिनः ॥ ३०॥
मनः सर्वेन्द्रियाणां च यस्माद्दुःखं प्रजायते ।
धने सत्यपि ये दानं न प्रयच्छन्ति तृष्णया ॥ ३१॥
अतिथिं चावमन्यन्ते काले प्राप्ते गृहाश्रमे ।
तस्मात्ते दुष्कृतं प्राप्य गच्छन्ति निरयेऽशुचौ ॥ ३२॥
येऽन्नं दत्त्वा हि भुञ्जन्ति न श्वभ्यः सह वायसैः ।
तेषां च विवृतं वक्त्रं कीलकद्वयताडितम् ॥ ३३॥
कृमिभिः प्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ।
उपद्रवैर्बहुविधैरुग्रैरन्तः प्रपीड्यते ॥ ३४॥
श्यामश्च शबलश्चैव यममार्गानुरोधकौ ।
यौ स्तस्ताभ्यां प्रयच्छामि तौ गृह्णीतामिमं बलिम् ॥ ३५॥
ये वा वरुणवायव्या याम्या नैरृत्यवायसाः ।
वायसाः पुण्यकर्माणस्ते प्रगृह्णन्तु मे बलिम् ॥ ३६॥
शिवामभ्यर्च्य यत्नेन हुत्वाग्नौ विधिपूर्वकम् ।
शैवैर्मन्त्रैर्बलिं ये च ददन्ते न च ते यमम् ॥ ३७॥
पश्यन्ति त्रिदिवं यान्ति तस्माद्दद्याद्दिनेदिने ।
मण्डलं चतुरस्रं तु कृत्वा गन्धादिवासितम् ॥ ३८॥
धन्वन्तर्यर्थमीशान्यां प्राच्यामिन्द्राय निःक्षिपेत् ।
याम्यां यमाय वारुण्यां सुदक्षोमाय दक्षिणे ॥ ३९॥
पितृभ्यस्तु विनिःक्षिप्य प्राच्यामर्यमणं ततः ।
धातुश्चैव विधातुश्च द्वारदेशे विनिःक्षिपेत् ॥ ४०॥
श्वभ्यश्च श्वपतिभ्यश्च वयोभ्यो विक्षिपेद्भुवि ।
देवैः पितृमनुष्यैश्च प्रेतैर्भूतैः सगुह्यकैः ॥ ४१॥
वयोभिः कृमिकीटैश्च गृहस्थश्चोपजीव्यते ।
स्वाहाकारः स्वधाकारो वषट्कारस्तृतीयकः ॥ ४२॥
हन्तकारस्तथैवान्यो धेन्वाः स्तनचतुष्टयम् ।
स्वाहाकारं स्तनं देवाः स्वधां च पितरस्तथा ॥ ४३॥
वषट्कारं तथैवान्ये देवा भूतेश्वरास्तथा ।
हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् ॥ ४४॥
यस्त्वेतां मानवो धेनुं श्रद्धया ह्यनुपूर्विकाम् ।
करोति सततं काले साग्नित्वायोपकल्प्यते ॥ ४५॥
यस्तां जहाति वास्वस्थस्तामिस्रे स तु मज्जति ।
तस्माद्दत्त्वा बलिं तेभ्यो द्वारस्थश्चिन्तयेत्क्षणम् ॥ ४६॥
क्षुधार्तमतिथिं सम्यगेकग्रामनिवासिनम् ।
भोजयेत्तं शुभान्नेन यथाशक्त्यात्मभोजनात् ॥ ४७॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ४८॥
ततोऽन्नं प्रियमेवाश्नन्नरः शृङ्खलवान् पुनः ।
जिह्वावेगेन विद्धोऽत्र चिरं कालं स तिष्ठति ॥ ४९॥
यतस्तम्मांसमुद्धृत्य तिलमात्रप्रमाणतः ।
खादितुं दीयते तेषां भित्त्वा चैव तु शोणितम् ॥ ५०॥
निःशेषतः कशाभिस्तु पीड्यते क्रमशः पुनः ।
बुभुक्षयातिकष्टं हि तथाचातिपिपासया ॥ ५१॥
एवमाद्या महाघोराः यातनाः पापकर्मणाम् ।
अन्ते यत्प्रतिपन्नं हि तत्सङ्क्षेपेण संशृणु ॥ ५२॥
यः करोति महापापं धर्मं चरति वै लघु ।
धर्मं गुरुतरं वापि तथावस्थे तयोः शृणु ॥ ५३॥
सुकृतस्य फलं नोक्तं गुरुपापप्रभावतः ।
न मिनोति सुखं तत्र भोगैर्बहुभिरन्वितः ॥ ५४॥
तथोद्विग्नोऽतिसन्तप्तो न भक्ष्यैर्मन्यते सुखम् ।
अभावादग्रतोऽन्यस्य प्रतिकल्यं दिने दिने ॥ ५५॥
पुमान्यो गुरुधर्मापि सोपवासो यथा गृही ।
वित्तवान्न विजानाति पीडां नियमसंस्थितः ॥ ५६॥
तानि पापानि घोराणि सन्ति यैश्च नरो भुवि ।
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५७॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकगतिभोगवर्णनं नाम दशमोऽध्यायः ॥ ५.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.११. एकादशोऽध्यायः । अन्नदानमाहात्म्यवर्णनम् ।
व्यास उवाच ।
कृतपापा नरा यान्ति दुःखेन महतान्विताः ।
यममार्गे सुखं यैश्च तान्धर्मान्वद मे प्रभो ॥ १॥
सनत्कुमार उवाच ।
अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः ।
शुभाशुभमथो वक्ष्ये तान्धर्मान् सुखदायकान् ॥ २॥
अत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः ।
सुखेन ते नरा यान्ति यममार्गं भयावहम् ॥ ३॥
यः प्रदद्याद् द्विजेन्द्राणामुपानत्काष्ठपादुके ।
स नरोऽश्वेन महता सुखं याति यमालयम् ॥ ४॥
छत्रदानेन गच्छन्ति यथा छत्रेण देहिनः ।
शिबिकायाः प्रदानेन तद्रथेन सुखं व्रजेत् ॥ ५॥
शय्यासनप्रदानेन सुखं याति सुविश्रमम् ।
आरामच्छायाकर्तारो मार्गे वा वृक्षरोपकाः ।
व्रजन्ति यमलोकं च आतपेऽति गतक्लमाः ॥ ६॥
यान्ति पुष्पकयानेन पुष्पारामकरा नराः ।
देवायतनकर्तारः क्रीडन्ति च गृहोदरे ॥ ७॥
कर्तारश्च तथा ये च यतीनामाश्रमस्य च ।
अनाथमण्डपानां तु क्रीडन्ति च गृहोदरे ॥ ८॥
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।
पूज्यमाना नरा यान्ति कामुकेन यथासुखम् ॥ ९॥
द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदायिनः ।
प्रतिश्रयप्रदानेन सुखं यान्ति निरामयाः ॥ १०॥
विश्राम्यमाणा गच्छन्ति गुरुशुश्रूषका नराः ।
आतोद्यविप्रदातारः सुखं यान्ति स्वके गृहे ॥ ११॥
सर्वकामसमृद्धेन यथा गच्छन्ति गोप्रदाः ।
अत्र दत्तान्नपानानि तान्याप्नोति नरः पथि ॥ १२॥
पादशौचप्रदानेन सजलेन पथा व्रजेत् ।
पादाभ्यङ्गं च यः कुर्यादश्वपृष्ठेन गच्छति ॥ १३॥
पादशौचं तथाभ्यङ्गं दीपमन्नं प्रतिश्रयम् ।
यो ददाति सदा व्यास नोपसर्पति तं यमः ॥ १४॥
हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ।
रौप्यानडुत्प्रदानेन यमलोकं सुखेन सः ॥ १५॥
इत्येवमादिभिर्दानैः सुखं यान्ति यमालयम् ।
स्वर्गे तु विविधान्भोगान् प्राप्नुवन्ति सदा नराः ॥ १६॥
सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।
सद्यः प्रीतिकरं हृद्यं बलबुद्धिविवर्धनम् ॥ १७॥
नान्नदानसमं दानं विद्यते मुनिसत्तम ।
अन्नाद्भवन्ति भूतानि तदभावे म्रियन्ति च ॥ १८॥
रक्तं मांसं वसा शुक्रं क्रमादन्नात्प्रवर्धते ।
शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् ॥ १९॥
हेमरत्नाश्वनागेन्द्रैर्नारीस्रक्चन्दनादिभिः ।
समस्तैरपि सम्प्राप्तैर्न रमन्ति बुभुक्षिताः ॥ २०॥
गर्भस्था जायमानाश्च बालवृद्धाश्च मध्यमाः ।
आहारमभिकाङ्क्षन्ति देवदानवराक्षसाः ॥ २१॥
क्षुधा निःशेषरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।
स चान्नौषधिलेपेन नश्यतीह न संशयः ॥ २२॥
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ।
नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ २३॥
अन्त एव महत्पुण्यमन्नदाने प्रकीर्तितम् ।
तथा क्षुधाग्निना तप्ता म्रियन्ते सर्वदेहिनः ॥ २४॥
अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।
तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ॥ २५॥
यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसञ्चयम् ।
अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः ॥ २६॥
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ।
अन्नदानप्रदः सर्वमिहामुत्र च तल्लभेत् ॥ २७॥
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ।
तस्मादन्नेन पानेन पालयेद्देहमात्मनः ॥ २८॥
अन्नमेव प्रशंसन्ति सर्वमन्ने प्रतिष्ठितम् ।
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ २९॥
अन्नेन धार्यते सर्वं विश्वं जगदिदं मुने ।
अन्नमूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः ॥ ३०॥
दातव्यं भिक्षवे चान्नं ब्राह्मणाय महात्मने ।
कुटुम्बं पीडयित्वापि ह्यात्मनो भूतिमिच्छता ॥ ३१॥
विददाति निधिश्रेष्ठं यो दद्यादन्नमर्थिने ।
ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ॥ ३२॥
अर्चयेद्भूतिमन्विच्छन्काले द्विजमुपस्थितम् ।
श्रान्तमध्वनि वृत्त्यर्थं गृहस्थो गृहमागतम् ॥ ३३॥
अन्नदः पूजयेद् व्यास सुशीलस्तु विमत्सरः ।
क्रोधमुत्पतितं हित्वा दिवि चेह महत्सुखम् ॥ ३४॥
नाभिनिन्देदधिगतं न प्रणुद्यात्कथञ्चन ।
अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति ॥ ३५॥
श्रान्तायादृष्टपूर्वाय ह्यन्नमध्वनि वर्तते ।
यो दद्यादपरिक्लिष्टः स समृद्धिमवाप्नुयात ॥ ३६॥
पितॄन् देवांस्तथा विप्रानतिथींश्च महामुने ।
यो नरः प्रीणयत्यन्नैः तस्य पुण्यफलं महत् ॥ ३७॥
अन्नं पानं च शूद्रेऽपि ब्राह्मणे च विशिष्यते ।
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च ॥ ३८॥
भिक्षितो ब्राह्मणेनेह दद्यादन्नं च यः पुमान् ।
स याति परमं स्वर्गं यावदाभूतसम्प्लवम् ॥ ३९॥
अन्नदस्य च वृक्षाश्च सर्वकामफलान्विताः ।
भवन्तीह यथा विप्रा हर्षयुक्तास्त्रिविष्टपे ॥ ४०॥
अन्नदानेन ये लोकाः स्वर्गे विरचिता मुने ।
अन्नदातुर्महादिव्यास्तान् शृणुष्व महामुने ॥ ४१॥
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ।
नानासंस्थानरूपाणि नानाकामान्वितानि च ॥ ४२॥
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।
हेमवाप्यः शुभाः कूपा दीर्घिकाश्चैव सर्वशः ॥ ४३॥
घोषयन्ति च पानानि शुभान्यथ सहस्रशः ।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ ४४॥
क्षीरं स्रवन्त्यः सरितस्तथैवाज्यस्य पर्वताः ।
प्रासादाः पाण्डुराभासाः शय्याश्च कनकोज्ज्वलाः ॥ ४५॥
तानन्नदाश्च गच्छन्ति तस्मादन्नप्रदो भवेत् ।
यदीच्छेदात्मनो भव्यमिह लोके परत्र च ॥ ४६॥
एते लोकाः पुण्यकृतामन्नदानां महाप्रभाः ।
तस्मादन्नं विशेषेण दातव्यं मानवैर्ध्रुवम् ॥ ४७॥
अन्नं प्रजापतिः साक्षादन्नं विष्णुः स्वयं हरः ।
तस्मादन्नसमं दानं न भूतं न भविष्यति ॥ ४८॥
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ।
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ ४९॥
अन्नपानाश्वगोवस्त्रशय्याच्छत्रासनानि च ।
प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ॥ ५०॥
एवं दानविशेषेण धर्मराजपुरं नरः ।
यस्माद्याति विमानेन तस्माद्दानं समाचरेत् ॥ ५१॥
एतदाख्यानमनघमन्नदानप्रभावतः ।
यः पठेत्पाठयेदन्यान्स समृद्धः प्रजायते ॥ ५२॥
शृणुयाच्छ्रावयेच्छ्राद्धे ब्राह्मणान्यो महामुने ।
अक्षय्यमन्नदानं च पितॄणामुपतिष्ठति ॥ ५३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां अन्नदानमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ५.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१२. द्वादशोऽध्यायः । तपोमाहात्म्यवर्णनम् ।
सनत्कुमार उवाच ।
पानीयदानं परमं दानानामुत्तमं सदा ।
सर्वेषां जीवपुञ्जानां तर्पणं जीवनं स्मृतम् ॥ १॥
प्रपादानमतः कुर्यात् सुस्नेहादनिवारितम् ।
जलाश्रयविनिर्माणं महानन्दकरं भवेत् ॥ २॥
इह लोके परे वापि सत्यं सत्यं न संशयः ।
तस्माद्वापीश्च कूपांश्च तडागान् कारयेन्नरः ॥ ३॥
अर्धं पापस्य हरति पुरुषस्य विकर्मणः ।
कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः ॥ ४॥
सर्वं तारयते वंशं यस्य खाते जलाशये ।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ५॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।
सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते ॥ ६॥
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता ।
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ७॥
अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् ।
कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ॥ ८॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तडागः सुकृतो येन तस्य पुण्यमनन्तकम् ॥ ९॥
चतुर्विधानां भूतानां तडागः परमाश्रयः ।
तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ १०॥
देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ११॥
प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः ॥ १२॥
शरत्काले तु सलिलं तडागे यस्य तिष्ठति ।
गोसहस्रफलं तस्य भवेन्नैवात्र संशयः ॥ १३॥
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति ।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १४॥
वसन्ते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति ।
अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः ॥ १५॥
मुने व्यासाथ वृक्षाणां रोपणे च गुणान् शृणु ।
प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम् ॥ १६॥
अतीतानागतान् सर्वान् पितृवंशांस्तु तारयेत् ।
कान्तारे वृक्षरोपी यस्तस्माद् वृक्षांस्तु रोपयेत् ॥ १७॥
तत्र पुत्रा भवन्त्येते पादपा नात्र संशयः ।
परं लोकं गतः सोऽपि लोकानाप्नोति चाक्षयान् ॥ १८॥
पुष्पैः सुरगणान् सर्वान् फलैश्चापि तथा पितॄन् ।
छायया चातिथीन् सर्वान् पूजयन्ति महीरुहाः ॥ १९॥
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।
तथैवर्षिगणाश्चैव संश्रयन्ति महीरुहान् ॥ २०॥
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।
इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः ॥ २१॥
तडागकृद् वृक्षरोपी चेष्टयज्ञश्च यो द्विजः ।
एते स्वर्गान्न हीयन्ते ये चान्ये सत्यवादिनः ॥ २२॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥ २३॥
सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् ।
सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ॥ २४॥
तपो यज्ञश्च पुण्यं च देवर्षिपितृपूजने ।
आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम् ॥ २५॥
सत्यं यज्ञस्तपो दानं मन्त्रा देवी सरस्वती ।
ब्रह्मचर्यं तथा सत्यमोङ्कारः सत्यमेव च ॥ २६॥
सत्येन वायुरभ्येति सत्येन तपते रविः ।
सत्येनाग्निर्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २७॥
पालनं सर्ववेदानां सर्वतीर्थावगाहनम् ।
सत्येन वहते लोके सर्वमाप्नोत्यसंशयम् ॥ २८॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते ॥ २९॥
सत्येन देवाः पितरो मानवोरगराक्षसाः ।
प्रीयन्ते सत्यतः सर्वे लोकाश्च सचराचराः ॥ ३०॥
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ।
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत् ॥ ३१॥
मुनयः सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् ।
सत्यधर्मरताः सिद्धाः ततः स्वर्गं च ते गताः ॥ ३२॥
अप्सरोगणसंविष्टैर्विमानैः परिमातृभिः ।
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥ ३३॥
अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे ।
स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम् ॥ ३४॥
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ ३५॥
वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः ।
नौ भान्त्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत् ॥ ३६॥
व्यास उवाच ।
तपसो मे फलं ब्रूहि पुनरेव विशेषतः ।
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन ॥ ३७॥
सनत्कुमार उवाच ।
प्रवक्ष्यामि तपोऽध्यायं सर्वकामार्थसाधकम् ।
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३८॥
तपो हि परमं प्रोक्तं तपसा विद्यते फलम् ।
तपोरता हि ये नित्यं मोदन्ते सह दैवतैः ॥ ३९॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
तपसा प्राप्यते कामस्तपः सर्वार्थसाधनम् ॥ ४०॥
तपसा मोक्षमाप्नोति तपसा विन्दते महत् ।
ज्ञानविज्ञानसम्पत्तिः सौभाग्यं रूपमेव च ॥ ४१॥
नानाविधानि वस्तूनि तपसा लभते नरः ।
तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ४२॥
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ।
नातप्ततपसां प्राप्यः शङ्करः परमेश्वरः ॥ ४३॥
यत्कार्यं किञ्चिदास्थाय पुरुषस्तपते तपः ।
तत्सर्वं समवाप्नोति परत्रेह च मानवः ॥ ४४॥
सुरापः परदारी च ब्रह्महा गुरुतल्पगः ।
तपसा तरते सर्वं सर्वतश्च विमुञ्चति ॥ ४५॥
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः ।
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ४६॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥ ४७॥
तपसा लभ्यते राज्यं स च शक्रः सुरेश्वरः ।
तपसापालयत्सर्वमहन्यहनि वृत्रहा ॥ ४८॥
सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ।
तपसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा ॥ ४९॥
न चास्ति तत्सुखं लोके यद्विना तपसा किल ।
तपसैव सुखं सर्वमिति वेदविदो विदुः ॥ ५०॥
ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च ।
सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम् ॥ ५१॥
तपसा सृज्यते विश्वं ब्रह्मा विश्वं विना श्रमम् ।
पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ॥ ५२॥
विश्वामित्रो गाधिसुतस्तपसैव महामुने ।
क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवे त्विदम् ॥ ५३॥
इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् ।
शृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम् ॥ ५४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ ५.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१३. त्रयोदशोऽध्यायः । पुराणमाहात्म्यवर्णनम् ।
सनत्कुमार उवाच ।
तपस्तपति योऽरण्ये वन्यमूलफलाशनः ।
योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने ॥ १॥
श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः ।
तदध्यापनतश्चापि द्विगुणं फलमश्नुते ॥ २॥
जगद्यथा निरालोकं जायतेऽशशिभास्करम् ।
विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा ॥ ३॥
तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः ।
सम्बोधयति लोकं तं तस्मात् पूज्यः पुराणगः ॥ ४॥
सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् ।
पतनात् त्रायते यस्मात् तस्मात्पात्रमुदाहृतम् ॥ ५॥
मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन ।
पुराणज्ञः सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः ॥ ६॥
धनं धान्यं हिरण्यं च वासांसि विविधानि च ।
देयं पुराणविज्ञाय परत्रेह च शर्मणे ॥ ७॥
यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः ।
पात्राय शुभवस्तूनि स याति परमां गतिम् ॥ ८॥
महीं गां वा स्यन्दनांश्च गजानश्वांश्च शोभनान् ।
यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु ॥ ९॥
अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि ।
अश्वमेधमखस्यापि स फलं लभते पुमान् ॥ १०॥
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ।
स तारयति वै वंश्यान्दश पूर्वान् दशापरान् ॥ ११॥
इह भुक्त्वाखिलान् कामानन्ते दिव्यशरीरवान् ।
विमानेन च दिव्येन शिवलोकं स गच्छति ॥ १२॥
न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ।
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ॥ १३॥
शम्भोरायतने यस्तु कारयेद्धर्मपुस्तकम् ।
विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम् ॥ १४॥
राजसूयाश्वमेधानां फलमाप्नोति मानवः ।
सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति ॥ १५॥
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ।
भुङ्क्ते निष्कण्टकं भोगान्नात्र कार्या विचारणा ॥ १६॥
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ।
तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत् ॥ १७॥
इतिहासपुराणाभ्यां शम्भोरायतने शुभे ।
नान्यत्प्रीतिकरं शम्भोस्तथान्येषां दिवौकसाम् ॥ १८॥
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।
तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १९॥
पुराणश्रवणात् शम्भोर्निष्पापो जायते नरः ।
भुक्त्वा भोगान् सुविपुलान् शिवलोकमवाप्नुयात् ॥ २०॥
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ।
तत्पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ २१॥
सर्वतीर्थावगाहेन गवां कोटिप्रदानतः ।
तत् फलं लभते शम्भोः कथाश्रवणतो मुने ॥ २२॥
ये शृण्वन्ति कथां शम्भोः सदा भुवनपावनीम् ।
ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ २३॥
शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ २४॥
गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः ।
कथां पौराणिकीं शैवीं भक्त्या शृण्वन्तु ते सदा ॥ २५॥
कथां पौराणिकीं श्रोतुं यद्यशक्तः सदा भवेत् ।
नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २६॥
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ।
पुण्यमासादिषु मुने शृणुयाच्छाङ्करीं कथाम् ॥ २७॥
शैवीं कथां हि शृण्वानः पुरुषो हि मुनीश्वर ।
स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २८॥
कथां शैवीं मुहूर्तं वा तदर्धं वा क्षणं च वा ।
ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिर्भवेत् ॥ २९॥
यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ।
शम्भोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ ३०॥
विशेषतः कलौ व्यास पुराणश्रवणादृते ।
परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः ॥ ३१॥
पुराणश्रवणं शम्भोर्नामसङ्कीर्तनं तथा ।
कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः ॥ ३२॥
कलौ दुर्मेधसां पुंसां धर्माचारोज्झितात्मनाम् ।
हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ ३३॥
एकोऽजरामरः स्याद्वै पिबन्नेवामृतं पुमान् ।
शम्भोः कथामृतापानात् कुलमेवाजरामरम् ॥ ३४॥
या गतिः पुण्यशीलानां यज्विनां च तपस्विनाम् ।
सा गतिः सहसा तात पुराणश्रवणात्खलु ॥ ३५॥
ज्ञानावाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः ।
अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च ॥ ३६॥
पापं सङ्क्षीयते नित्यं धर्मश्चैव विवर्धते ।
पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते ॥ ३७॥
अतएव पुराणानि श्रोतव्यानि प्रयत्नतः ।
धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा ॥ ३८॥
यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया ।
तत्फलं समवाप्नोति पुराणश्रवणान्नरः ॥ ३९॥
न भवेयुः पुराणानि धर्ममार्गेक्षणानि तु ।
यद्यत्र यद् व्रती स्थाता कोऽत्र पारत्रिकीं कथाम् ॥ ४०॥
षड्विंशति पुराणानां मध्येऽप्येकं शृणोति यः ।
पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः ॥ ४१॥
अन्यो न दृष्टः सुखदो हि मार्गः
पुराणमार्गो हि सदा वरिष्ठः ।
शास्त्रं विना सर्वमिदं न भाति
सूर्येण हीना इव जीवलोकाः ॥ ४२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ५.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१४. चतुर्दशोऽध्यायः । सामान्यदानवर्णनम् ।
सनत्कुमार उवाच ।
शस्तानि घोरदानानि महादानानि नित्यशः ।
पात्रेभ्यस्तु प्रदेयानि आत्मानं तारयन्ति च ॥ १॥
हिरण्यदानं गोदानं भूमिदानं द्विजोत्तम ।
गृह्णन्तो वै पवित्राणि तारयन्ति स्वमेव तम् ॥ २॥
सुवर्णदानं गोदानं पृथिवीदानमेव च ।
एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते ॥ ३॥
तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ।
द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती ॥ ४॥
नित्य ह्यनुडुहो गावच्छत्रं वस्त्रमुपानहौ ।
देयानि याचमानेभ्यः पानमन्नं तथैव च ॥ ५॥
सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ।
अर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ॥ ६॥
कनकं च तिला नागाः कन्या दासी गृहं रथः ।
मणयः कपिला गावो महादानानि वै दश ॥ ७॥
गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा ।
वदान्यांस्तारयेत्सद्यो ह्यात्मानं च न संशयः ॥ ८॥
सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा ।
देवतास्तं प्रयच्छन्ति समन्तादिति मे श्रुतम् ॥ ९॥
अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः ।
तस्मात् सुवर्णं दत्त्वा च दत्ताः स्युः सर्वदेवताः ॥ १०॥
पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् ।
सौवर्णं च विशेषेण यत्कृतं पृथुना पुरा ॥ ११॥
दीयमानां प्रपश्यन्ति पृथ्वीं रुक्मसमन्विताम् ।
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ॥ १२॥
अथान्यच्च प्रवक्ष्यामि दानं सर्वोत्तमं मुने ।
कान्तारं यन्न पश्यन्ति यमस्य बहुदुःखदम् ॥ १३॥
कुर्यात् कान्तारदानं हि विधिना शुद्धमानसः ।
न्यायार्जितेन द्रव्येण वित्तशाठ्यविवर्जितः ॥ १४॥
तिलप्रस्थमयीं कृत्वा धेनुं सर्वगुणान्विताम् ।
धेनुवत्सं सुवर्णं च सुदिव्यं सर्वलक्षणम् ॥ १५॥
पद्ममष्टदलं कृत्वा कुङ्कुमाक्ताक्षतैः शुभैः ।
पूजयेत्तत्र रुद्रादीन्सर्वान्देवान्सुभक्तितः ॥ १६॥
एवं सम्पूज्य तां दद्याद् ब्राह्मणाय स्वशक्तितः ।
सरत्नां सहिरण्यां च सर्वाभरणभूषिताम् ॥ १७॥
ततो नक्तं समश्नीयाद्दीपान् दद्यात्तु विस्तरात् ।
कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ॥ १८॥
एवं यः कुरुते सम्यग्विधानेन स्वशक्तितः ।
यममार्गभयं घोरं नरकं च न पश्यति ॥ १९॥
कृत्वा पापान्यशेषाणि सबन्धुः ससुहृज्जनः ।
दिवि सङ्क्रीडते व्यास यावदिन्द्राश्चतुर्दश ॥ २०॥
विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ।
न तेन सदृशं व्यास परं दानं प्रकीर्तितम् ॥ २१॥
प्रयच्छते यः कपिलां सवत्सां स्वर्णशृङ्गिकाम् ।
कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम् ॥ २२॥
तैस्तैर्गुणैः कामदुघा भूत्वा सा गौरुपैति तम् ।
प्रदातारं नरं व्यास परत्रेह च जन्मनि ॥ २३॥
यद्यदिष्टतमं लोके तदस्ति दयितं गृहे ।
तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ॥ २४॥
तुलापुरुषदानं हि दानानां दानमुत्तमम् ।
तुलासंरोहणं कार्यं यदीच्छेच्छ्रेय आत्मनः ॥ २५॥
यत्कृत्वा मुच्यते पापैर्वधबन्धकृतोद्भवैः ।
तुलादानं महत्पुण्यं सर्वपापक्षयङ्करम् ॥ २६॥
कृत्वा पापान्यशेषाणि तुलादानं करोति यः ।
सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम् ॥ २७॥
पापं कृतं यद्दिवसे निशायां
द्विसन्ध्ययोर्मध्यदिने निशान्ते ।
कालत्रये कायमनोवचोभिः
तुलापुमान्वै तदपाकरोति ॥ २८॥
बालेन वृद्धेन मया हि यूना
विजानता ज्ञानपरेण पापम् ।
तत्सर्वमेवाशु कृतं मदीयं
तुलापुमान् वै हरतु स्मरारिः ॥ २९॥
पात्रे प्रयुक्तं द्रविणं मयाद्य
प्रमाणपूर्णं निहितं तुलायाम् ।
तेनैव सार्धं तु ममावशेषं
कृताकृतं यत्सुकृतं समेतु ॥ ३०॥
सनत्कुमार उवाच ।
एवमुच्चार्य तं दद्यात् द्विजेभ्यः सर्वदा हितः ।
नैकस्यापि प्रदातव्यं न निस्तारस्ततो भवेत् ॥ ३१॥
ददात्येवं तु यो व्यास तुलापुरुषमुत्तमम् ।
हत्वा पापं दिव्यं तिष्ठेद्यावदिन्द्राश्चतुर्दश ॥ ३२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्दशोऽध्यायः ॥ ५.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१५. पञ्चदशोऽध्यायः । पाताललोकवर्णनम् ।
व्यास उवाच ।
येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् ।
दानानां तन्ममाख्याहि मानुषाणां हितार्थतः ॥ १॥
सनत्कुमार उवाच ।
शृणु काले प्रदत्ताद्वै फलं विन्दन्ति मानवाः ।
एकस्मादपि सर्वेषां दानानां तद्वदामि ते ॥ २॥
दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः ।
दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै ॥ ३॥
ब्रह्माण्डे सकले दत्ते यत्फलं लभते नरः ।
तदेकभावादाप्नोति सप्तलोकाधिपो भवेत् ॥ ४॥
यावच्चन्द्रदिवाकरौ नभसि वा यावत् स्थिरा मेदिनी
तावत्सोऽपि नरः स्वबान्धवयुतः स्वर्गौकसामोकसि ।
सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडते
पश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम् ॥ ५॥
व्यास उवाच ।
भगवन् ब्रहि ब्रह्माण्डं यत्प्रमाणं यदात्मकम् ।
यदाधारं यथाभूतं येन मे प्रत्ययो भवेत् ॥ ६॥
सनत्कुमार उवाच ।
मुने शृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् ।
ब्रह्माण्डं तत्तु सङ्क्षेपाच्छ्रुत्वा पापात्प्रमुच्यते ॥ ७॥
यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् ।
तस्मात्सञ्जायते ब्रह्मा द्विधाभूताद्धि कालतः ॥ ८॥
ब्रह्माण्डं सृजति ब्रह्मा चतुर्दशभवात्मकम् ।
तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः ॥ ९॥
पातालानि तु सप्तैव भुवनानि तथोर्ध्वतः ।
उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च ॥ १०॥
तस्याधारः स्थितो नागः स च विष्णुः प्रकीर्तितः ।
ब्रह्मणो वचसां हेतोर्बिभर्ति सकलं त्विदम् ॥ ११॥
शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः ।
योऽनन्तः पठ्यते सिद्धैर्देवर्षिगणपूजितः ॥ १२॥
शिरः सहस्रयुक्तः स सर्वा विद्योतयन्दिशः ।
फणामणिसहस्रेण स्वस्तिकामलभूषणः ॥ १३॥
मदाघूर्णितनेत्रोऽसौ साग्निः श्वेत इवाचलः ।
स्रग्वी किरीटी ह्याभाति यः सदैवैककुण्डलः ॥ १४॥
साभ्रगङ्गाप्रवाहेण श्वेतशैलोपशोभितः ।
नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः ॥ १५॥
लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम् ।
योऽर्च्यते नागकन्याभिः स्वर्णवर्णाभिरादरात् ॥ १६॥
सङ्कर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः ।
कल्पान्ते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः ।
दग्ध्वा जगत्त्रयं शान्ता भवन्तीत्यनुशुश्रुमः ॥ १७॥
आस्ते पातालमूलस्थः सशेषः क्षितिमण्डलम् ।
बिभ्रत्स्वपृष्ठे भूतेशः शेषोऽशेषगुणार्चितः ॥ १८॥
तस्य वीर्यप्रभावश्च साकाङ्क्षैस्त्रिदशैरपि ।
न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा ॥ १९॥
आस्ते कुसुममालेव फणामणिशिखारुणा ।
यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति ॥ २०॥
यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ।
तदा चलति भूरेषा साद्रितोयाधिकानना ॥ २१॥
दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव सुतलं च रसातलम् ॥ २२॥
तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् ।
भूमेरधः सप्तलोका इमे ज्ञेया विचक्षणैः ॥ २३॥
उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः ।
रत्नवन्तोऽथ प्रासादा भूमयो हेमसम्भवाः ॥ २४॥
तेषु दानवदैतेया नागानां जातयस्तथा ।
निवसन्ति महानागा राक्षसा दैत्यसम्भवाः ॥ २५॥
प्राह स्वर्गसदोमध्ये पातालानीति नारदः ।
स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि ॥ २६॥
नानाभूषणभूषाश्च मणयो यत्र सुप्रभाः ।
आह्लादकारिणः शुभ्राः पातालं केन तत्समम् ॥ २७॥
पाताले कस्य न प्रीतिरितश्चेतश्च शोभिते ।
देत्यदानवकन्याभिर्विमुक्तस्याभिजायते ॥ २८॥
दिवार्करश्मयो यत्र न भवन्ति विधोर्निशि ।
न शीतमातपो यत्र मणितेजोऽत्र केवलम् ॥ २९॥
भक्ष्यभोज्यान्नपानानि भुज्यन्ते मुदितैर्भृशम् ।
यत्र न ज्ञायते कालो गतोऽपि मुनिसत्तम ॥ ३०॥
पुंस्कोकिलरुतं यत्र पद्मानि कमलाकराः ।
नद्यः सरांसि रम्याणि मनोज्ञान्यम्बराणि च ॥ ३१॥
भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् ।
वीणावेणुमृदङ्गानां स्वना गेयानि च द्विज ॥ ३२॥
दैत्योरगैश्च भुज्यन्ते पाताले वै सुखानि च ।
तपसा समवाप्नोति दानवैः सिद्धमानवैः ॥ ३३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने पाताललोकवर्णनं नाम पञ्चदशोऽध्यायः ॥ ५.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१६. षोडशोऽध्यायः । नरकोद्धारवर्णनम् ।
सनत्कुमार उवाच ।
तेषां मूर्धोपरिष्टाद्वै नरकांस्तान् श्रुणुष्व च ।
मत्तो मुनिवरश्रेष्ठ पच्यन्ते यत्र पापिनः ॥ १॥
रौरवः शूकरो रोधस्तालो विवसनस्तथा ।
महाज्वालस्तप्तकुम्भो लवणोऽपि विलोहितः ॥ २॥
वैतरणी पूयवहा कृमिशः कृमिभोजनः ।
असिपत्रवनं घोरं लालाभक्षश्च दारुणः ॥ ३॥
तथा पूयवहः प्रायो वन्हिज्वालो ह्यधःशिराः ।
सन्दंशः कालसूत्रश्च तमश्चावीचिरोधनः ॥ ४॥
श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ।
इत्याद्या बहवस्तत्र नरका दुःखदायकाः ॥ ५॥
पच्यन्ते तेषु पुरुषाः पापकर्मरतास्तु ये ।
क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु ॥ ६॥
कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ।
सदानृतं वदेद्यस्तु स नरो याति रौरवम् ॥ ७॥
भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ।
सुरापो ब्रह्महन्ता च परद्रव्यापहारकः ॥ ८॥
यस्तत्सङ्गी स वै याति मृतो व्यास गुरोर्वधात् ।
तप्तकुम्भे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा ॥ ९॥
साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ।
तप्तलोहेषु पच्यन्ते यश्च भक्तं परित्यजेत् ॥ १०॥
अवमन्ता गुरूणां यः पश्चाद्भोक्ता नराधमः ।
देवदूषयिता चैव देवविक्रयिकश्च यः ॥ ११॥
अगम्यगामी यश्चान्ते याति सप्तबलं द्विज ।
चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा ॥ १२॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।
स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टिकृत् ॥ १३॥
पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः ।
लालाभक्षं स यात्यज्ञो यः शास्त्रकूटकृन्नरः ॥ १४॥
यश्चान्त्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ।
अयाज्ययाजकश्चैव तथैवाभक्ष्यभक्षकः ॥ १५॥
रुधिरौघे पतन्त्येते सोमविक्रयिणश्च ये ।
मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम् ॥ १६॥
नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ।
ते कृम्यं यान्त्यशौचाश्च कुलटाजीविनश्च ये ॥ १७॥
असिपत्रवनं याति वृक्षच्छेदी वृथैव यः ।
क्षुरभ्रका मृगव्याधा वह्निज्वाले पतन्ति ते ॥ १८॥
भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ।
यात्यन्ते द्विज तत्रैव यः श्वपाकेषु वह्निदः ॥ १९॥
व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये ।
सन्दंशयातनामध्ये पतन्ति भृशदारुणे ॥ ५.१६.२०॥
वीर्यं स्वप्नेषु स्कन्देयुर्ये नरा ब्रह्मचारिणः ।
पुत्रा नाध्यापिता यैश्च ते पतन्ति श्वभोजने ॥ २१॥
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२॥
तथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥ २३॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरये तु पतन्ति ते ॥ २४॥
अधःशिरोभिर्दृश्यन्ते नारका दिवि दैवतैः ।
देवानधोमुखान् सर्वानधः पश्यन्ति नारकाः ॥ २५॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २६॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २७॥
गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा ।
प्रायश्चित्तानि कालेय मनुः स्वायम्भुवोऽब्रवीत् ॥ २८॥
यानि तेषामशेषाणां कर्माण्युक्तानि तेषु वै ।
प्रायश्चित्तमशेषेण हरानुस्मरणं परम् ॥ २९॥
प्रायश्चित्तं तु तस्यैकं यस्य पुंसः प्रजायते ।
कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम् ॥ ३०॥
माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन् ।
प्रातर्निशि च सन्ध्यायां क्षीणपापो भवेन्नरः ॥ ३१॥
मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसङ्क्षयम् ।
शिवस्य स्मरणादेव तस्य शम्भोरुमापतेः ॥ ३२॥
पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च ।
भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम ॥ ३३॥
महेश्वरे मतिर्यस्य जपहोमार्चनादिषु ।
यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम् ॥ ३४॥
पुमान्न नरकं याति यः स्मरेद् भक्तितो मुने ।
अहर्निशं शिवं तस्मात् स क्षीणाशेषपातकः ॥ ३५॥
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ।
ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च ॥ ३६॥
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तत्स्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ॥ ३७॥
मनसः परिणामोऽयं सुखदुःखोपलक्षणः ।
ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते ॥ ३८॥
ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् ।
परविज्ञानतः किञ्चित् विद्यते न परं मुने ॥ ३९॥
एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् ।
अत ऊर्ध्वं प्रवक्ष्यामि साम्प्रतं मण्डलं भुवः ॥ ४०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः ॥ ५.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१७. सप्तदशोऽध्यायः । जम्बूद्वीपवर्षवर्णनम् ।
सनत्कुमार उवाच ।
पाराशर्य सुसङ्क्षेपाच्छृणु त्वं वदतो मम ।
मण्डलं च भुवः सम्यक् सप्तद्वीपादिसंयुतम् ॥ १॥
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रौञ्चश्च शाककः ।
पुष्करः सप्तमः सर्वे समुद्रैः सप्तभिर्वृताः ॥ २॥
लवणेक्षुरसौ सर्पिर्दधिदुग्धजलाशयाः ।
जम्बुद्वीपः समस्तानामेतेषां मध्यतः स्थितः ॥ ३॥
तस्यापि मेरुः कालेय मध्ये कनकपर्वतः ।
प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ॥ ४॥
चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ॥ ५॥
मूले षोडशसाहस्त्र कर्णिकाकारसंस्थितः ।
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ॥ ६॥
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।
दशसाहस्रिका ह्येते रत्नवन्तोऽरुणप्रभाः ॥ ७॥
सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते ।
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ॥ ८॥
हरिवर्षं ततोऽन्यद्वै मेरोर्दक्षिणतो मुने ।
रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम् ॥ ९॥
उत्तरे कुरवश्चैव यथा वै भारतं तथा ।
नवसाहस्रमेकैकमेतेषां मुनिसत्तम ॥ १०॥
इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।
मेरोश्चतुर्दिशं तत्र नवसाहस्रमुच्छ्रितम् ॥ ११॥
इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः ।
विष्कम्भा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ॥ १२॥
पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ॥ १३॥
कदम्बो जम्बुवृक्षश्च पिप्पलो वट एव च ।
एकादशशतायामाः पादपा गिरिकेतवः ॥ १४॥
जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने ।
विराजन्ते महावृक्षास्तत्स्वभावं वदामि ते ॥ १५॥
महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १६॥
रसेन तेषां विख्याता तत्र जम्बूनदीति वै ।
परितो वर्तते तत्र पीयते तन्निवासिभिः ॥ १७॥
न स्वेदो न च दौर्गन्ध्यं न जरा चेन्द्रियग्रहः ।
तस्यास्तटे स्थितानां तु जनानां तन्न जायते ॥ १८॥
तीरमृत्स्नां च सम्प्राप्य सुखवायुविशोषिताम् ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १९॥
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ॥ २०॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।
विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २१॥
अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् ।
सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ॥ २२॥
शीताञ्जनः कुरुङ्गश्च कुररो माल्यवांस्तथा ।
एकैकप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ २३॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषधः कपिलाद्याश्च दक्षिणे केसराचलाः ॥ २४॥
सिनीवासः कुसुम्भश्च कपिलो नारदस्तथा ।
नागादयश्च गिरयः पश्चिमे केसराचलाः ॥ २५॥
शङ्खचूडोऽथ ऋषभो हंसो नाम महीधरः ।
कालञ्जराद्याश्च तथा उत्तरे केसराचलाः ॥ २६॥
मेरोरुपरि मध्ये हि शातकौम्भं विधेः पुरम् ।
चतुर्दशसहस्राणि योजनानि च सङ्ख्यया ॥ २७॥
अष्टानां लोकपालानां परितस्तदनुक्रमात् ।
यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः ॥ २८॥
तस्यां च ब्रह्मणः पुर्यां प्लावयित्वेन्दुमण्डलम् ।
विष्णुपादविनिष्क्रान्ता गङ्गा पतति वै नदी ॥ २९॥
सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ।
सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ ३०॥
सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे ।
सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत् ॥ ३१॥
गिरीनतीत्य सकलांश्चतुर्दिक्षु महाम्बुधिम् ।
सा ययौ प्रयता भूता गङ्गा त्रिपथगामिनी ॥ ३२॥
सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ ।
तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३३॥
भारतः केतुमालश्च भद्राश्वः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः ॥ ३४॥
जठरं देवकूटश्च आयामे दक्षिणोत्तरे ।
गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ ॥ ३५॥
पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः ।
दक्षिणोत्तरमायातौ कर्णिकान्तर्व्यवस्थितौ ॥ ३६॥
जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ ।
केसराः पर्वता एते श्वेताद्याः सुमनोरमाः ॥ ३७॥
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ।
सुरम्याणि तथा तासु काननानि पुराणि च ॥ ३८॥
सर्वेषां चैव देवानां यक्षगन्धर्वरक्षसाम् ।
क्रीडन्ति देवदैतेयाः शैलप्रायेष्वहर्निशम् ॥ ३९॥
धर्मिणामालया ह्येते भौमाः स्वर्गाः प्रकीर्तिताः ।
न तेषु पापकर्तारो यान्ति पश्यन्ति कुत्रचित् ॥ ४०॥
यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने ।
न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम् ॥ ४१॥
स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ।
दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ४२॥
कृतत्रेतादिकाश्चैव भौमान्यम्भांसि सर्वतः ।
न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना ॥ ४३॥
सप्तस्वेतेषु नद्यश्च सुजाताः स्वर्णवालुकाः ।
शतशः सन्ति क्षुद्राश्च तासु क्रीडेच्छुभो जनः ॥ ४४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१८. अष्टादशोऽध्यायः । सप्तद्वीपवर्णनम् ।
सनत्कुमार उवाच ।
वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे ।
उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ॥ १॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ।
स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः ॥ २॥
अतः सम्प्राप्यते पुम्भिः स्वर्गो नरक एव च ।
भारतस्यापि वर्षस्य नव भेदान् ब्रवीमि ते ॥ ३॥
इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ४॥
अयं तु नवमस्तेषां द्वीपः सागरसम्भृतः ।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ॥ ५॥
पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः ।
पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः ॥ ६॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः ।
इज्यायुद्धपणासेवा वर्तयन्तो व्यवस्थिताः ॥ ७॥
महेन्द्रो मलयः सह्यः सुदामा चर्क्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ ८॥
वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने ।
सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि ॥ ९॥
नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः ।
विन्ध्योद्भवा महानद्यः सर्वपापहराः शुभाः ॥ १०॥
गोदावरीभीमरथीतापीप्रमुखनिम्नगाः ।
गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः ॥ ११॥
सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा ।
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥ १२॥
त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्या कुमार्याद्याः शुक्तिमत्पादसम्भवाः ॥ १३॥
नानाजनपदास्तेषु मण्डलेषु वसन्ति वै ।
आसां पिबन्ति पानीयं सरःसु विविधेषु च ॥ १४॥
चत्वारि भारते वर्षे युगान्यासन् महामुने ।
कृतादीनि न चान्येषु द्वीपेषु प्रभवन्ति हि ॥ १५॥
दानानि चात्र दीयन्ते सुकृतैश्चात्र याज्ञिकैः ।
तपस्तपन्ति यतयः परलोकार्थमादरात् ॥ १६॥
यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने ।
अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः ॥ १७॥
कदाचिल्लभते मर्त्यः सहस्रैर्मुनिसत्तम ।
अत्र जन्मसहस्राणां मानुष्यं पुण्यसञ्चयैः ॥ १८॥
स्वर्गापवर्गास्पदमार्गभूते
धन्यास्तु ते भारतभूमिभागे ।
गायन्ति देवाः किल गीतकानि
भवन्ति भूयः पुरुषाः सुरास्ते ॥ १९॥
विहृत्य शम्भोः परमात्मरूपे ।
फलानि सर्वाणि तु कर्मजानि
यास्याम्यहं तत्तनुतां हि तस्य ॥ २०॥
आप्स्यन्ति धन्याः खलु ते मनुष्याः
सुखैर्युताः कर्मणि सन्निविष्टाः ।
जनुर्हि येषां खलु भारतेऽस्ति
ते स्वर्गमोक्षोभयलाभवन्तः ॥ २१॥
लक्षयोजनविस्तारः समस्तपरिमण्डलः ।
जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः ॥ २२॥
संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् ।
ततो हि द्विगुणो ब्रह्मन् प्लक्षद्वीपः प्रकीर्तितः ॥ २३॥
गोमन्तश्चैव चन्द्रश्च नारदो दर्दुरस्तथा ।
सोमकः सुमनाः शैलो वैभ्राजश्चैव सत्तमः ॥ २४॥
वर्षाचलेषु रम्येषु सहिताः सततं प्रजाः ।
वसन्ति देवगन्धर्वा वर्षेष्वेतेषु नित्यशः ॥ २५॥
नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् ।
दश वर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २६॥
अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा ।
अमृता सुकृता चैव सप्तैवात्र च निम्नगाः ॥ २७॥
क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ।
ताः पिबन्ति सुसंहृष्टा नदीर्जनपदास्तु ते ॥ २८॥
न तत्रापि युगावस्था यथा स्थानेषु सप्तसु ।
त्रेतायुगसमः कालः सर्वदैव महामुने ॥ २९॥
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ।
कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः ॥ ३०॥
प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम ।
इज्यते तत्र भगवान् शङ्करो लोकशङ्करः ॥ ३१॥
हरिश्च भगवान् ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः ।
सङ्क्षेपेण तथा भूयः शाल्मलिं त्वं निशामय ॥ ३२॥
सप्तवर्षाणि तत्रैव तेषां नामानि मे शृणु ।
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥ ३३॥
वैकलो मानसश्चैव सुप्रभः सप्तमो मुने ।
शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः ॥ ३४॥
द्विगुणेन समुद्रेण सततं संवृतः स्थितः ।
वर्षाभिव्यञ्जका नद्यस्तासां नामानि मे शृणु ॥ ३५॥
शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ।
निवृत्तिः सप्तमी तासां पुण्यतोयाः सुशीतलाः ॥ ३६॥
सप्तैव तानि वर्षाणि चतुर्वर्णैर्युतानि च ।
भगवन्तं सदा शम्भुं यजन्ते विविधैर्मखैः ॥ ३७॥
देवानां तत्र सान्निध्यमतीव सुमनोरमे ।
एष द्वीपः समुद्रेण सुरोदेन समावृतः ॥ ३८॥
द्विगुणेन कुशद्वीपः समन्ताद् बाह्यतः स्थितः ।
वसन्ति तत्र दैतेया मनुजैः सह दानवाः ॥ ३९॥
तथैव देवगन्धर्वा यक्षाः किम्पुरुषादयः ।
वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः ॥ ४०॥
तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्दनम् ।
यजन्ति च तथेशानं सर्वकामफलप्रदम् ॥ ४१॥
कुशेशयो हरिश्चैव द्युतिमान् पुष्पवांस्तथा ।
मणिद्रुमो हेमशैलः सप्तमो मन्दराचलः ॥ ४२॥
नद्यश्च सप्त तासां तु नामानि शृणु तत्त्वतः ।
धूतपापा शिवा चैव पवित्रा सम्मितिस्तथा ॥ ४३॥
विद्या दम्भा मही चान्या सर्वपापहरास्त्विमाः ।
अन्याः सहस्रशः सन्ति शुभापो हेमवालुकाः ॥ ४४॥
कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः ।
क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् ॥ ४५॥
द्विगुणेन समुद्रेण दधिमण्डेन चावृतः ।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ ४६॥
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ।
दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः ॥ ४७॥
निवसन्ति निरातङ्का वर्षशैलेषु तेषु वै ।
सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः ॥ ४८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ।
सन्ति तत्र महानद्यः सप्तान्यास्तु सहस्रशः ॥ ४९॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
शान्तिश्च पुण्डरीका च याः पिबन्ति पयः शुभम् ॥ ५०॥
भगवान् पूज्यते तत्र योगरुद्रस्वरूपवान् ।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ ५१॥
द्विगुणेनाद्रयः सप्त तेषां नामानि मे शृणु ।
पूर्वे तत्रोदयगिरिर्जलधारः परे यतः ॥ ५२॥
पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी ।
शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः ॥ ५३॥
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ ५४॥
सुकुमारी कुमारी च नलिनी वेणुका तथा ।
इक्षुश्च रेणुका चैव गभस्तिः सप्तमी तथा ॥ ५५॥
अन्याः सहस्रशस्तत्र क्षुद्रनद्यो महामुने ।
महीधरास्तथा सन्ति शतशोऽथ सहस्रशः ॥ ५६॥
धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः ।
वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम् ॥ ५७॥
शाकद्वीपे तु वै सूर्यः प्रीत्या जनपदैः सदा ।
यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ ५८॥
क्षीरोदेनावृतः सोऽपि द्विगुणेन समन्ततः ।
क्षीराब्धिः सर्वतो व्यास पुष्कराख्येन संवृतः ॥ ५९॥
द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः ।
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥ ६०॥
तानि चैव तु लक्षाणि सर्वतो वलयाकृतिः ।
पुष्करद्वीपवलयं मध्येन विभजन्निव ॥ ६१॥
तेनैव वलयाकारा द्वीपवर्षसमाकृतिः ।
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ ६२॥
निरामया वीतशोका रागद्वेषविवर्जिताः ।
अधर्मो न मतस्तेषां न बन्धवधकौ मुने ॥ ६३॥
सत्यानृते न तस्यास्तां सदैव वसतिः सदा ।
तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः ॥ ६४॥
वर्षश्चायं तु कालेय भौमः स्वर्गोपमोपमः ।
सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ ६५॥
पुष्करे धातकीखण्डे महावीते महामुने ।
न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ ६६॥
तस्मिन्निवसते ब्रह्मा पूज्यमानः सुरासुरैः ।
स्वादूदकेनाम्बुधिना पुष्करः परिवेष्टितः ॥ ६७॥
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः ॥ ६८॥
उक्तातिरिक्तता तेषां समुद्रेषु समानि वै ।
पयांसि सर्वदाल्पत्वं जायन्ते न कदाचन ॥ ६९॥
स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तम ।
तथेन्दुवृद्धौ सलिलमूर्ध्वगं भवति ध्रुवम् ॥ ७०॥
उदयास्तमने त्विन्दोर्वर्धन्त्यापो ह्रसन्ति च ।
अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः ॥ ७१॥
अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम् ।
समुद्राणां मुनिश्रेष्ठ सर्वेषां कथितं तव ॥ ७२॥
भोजनं पुष्करद्वीपे प्रजाः सर्वाः सदैव हि ।
खण्डस्य कुर्वते विप्र तत्र स्वयमुपस्थितम् ॥ ७३॥
स्वादूदकस्य पुरतो नास्ति लोकस्य संस्थितिः ।
सौवर्णी द्विगुणा भूमिः सर्वजन्तुविवर्जिता ॥ ७४॥
लोकालोकस्ततः शैलः सहस्राण्यचलो हि सः ।
उच्छ्रयेण हि तावन्ति योजनायुतविस्तृतः ॥ ७५॥
तमश्चाण्डकटाहेन सेयमुर्वी महामुने ।
पञ्चाशत्कोटिविस्तारा सद्वीपा समहीधरा ॥ ७६॥
आधारभूता सर्वेषां सर्वभूतगुणाधिका ।
सेयं धात्री च कालेय सर्वेषां जगतामिला ॥ ७७॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तद्वीपवर्णनं नामाष्टादशोऽध्यायः ॥ ५.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.१९. एकोनविशोऽध्यायः । लोकवर्णनम् ।
सनत्कुमार उवाच ।
रविचन्द्रमसोर्यावन्मयूखा भासयन्ति हि ।
तावत्प्रमाणा पृथिवी भूलोकः स तु गीयते ॥ १॥
भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ।
योजनानां सहस्राणि सदैव परिसङ्ख्यया ॥ २॥
शशिनस्तु प्रमाणाय जगतः परिचक्षते ।
रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसङ्ख्यया ॥ ३॥
ग्रहाणां मण्डलं कृत्स्नं विधोरुपरि संस्थितम् ।
सनक्षत्रं सहस्राणि दशैव परितोपरि ॥ ४॥
बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम् ।
बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः ॥ ५॥
सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ।
ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ॥ ६॥
मेढीभूतः स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।
भूर्भुवः स्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक् ॥ ७॥
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ।
ध्रुवादूर्ध्वं महर्लोकः सप्तैते ब्रह्मणः सुताः ॥ ८॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ॥ ९॥
उपरिष्टात्ततः शुक्रो द्विलक्षाभ्यन्तरे स्थितः ।
द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ॥ १०॥
द्विलक्षयोजनं तस्मादूर्ध्वं भौमः स्थितो मुने ।
द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरुः ॥ ११॥
द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ।
एते सप्त ग्रहाः प्रोक्ताः स्व स्व राशौ व्यवस्थिता ॥ १२॥
रुद्रलक्षैर्योजनतः सप्तोर्ध्वमृषयः स्थिताः ।
विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ॥ १३॥
चतुर्गुणोत्तरे चार्धे जनलोकात्तपः स्मृतम् ।
वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ॥ १४॥
षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ।
ब्रह्मलोकः स विज्ञेयो वसन्त्यमलचेतसः ॥ १५॥
सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः ।
यद्गामिनोऽथ भूलोकान्निवसन्ति हि मानवाः ॥ १६॥
भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ।
स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ॥ १७॥
विश्वेदेवास्तथा रुद्राः साध्या नागाः खगादयः ।
नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ॥ १८॥
एते सप्त महालोकाः कालेय कथितास्तव ।
पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ॥ १९॥
दधिवृक्षफलं यद्वद् वृत्तिश्चोर्ध्वमधस्तथा ।
एतदण्डकटाहेन सर्वतो वै समावृतम् ॥ २०॥
दशगुणेन पयसा सर्वतस्तत्समावृतम् ।
वह्निना वायुना चापि नभसा तमसा तथा ॥ २१॥
भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ।
महान्तं च समावृत्य प्रधानं पुरुषः स्थितः ॥ २२॥
अनन्तस्य न तस्यास्ति सङ्ख्यापि परमात्मनः ।
तेनानन्त इति ख्यातः प्रमाणं नास्ति वै यतः ॥ २३॥
हेतुभूतः समस्तस्य प्रकृतिः सा परा मुने ।
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २४॥
ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ।
दारुण्यग्निस्तिले तैलं पयःसु च यथा घृतम् ॥ २५॥
तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ।
आदिबीजात्प्रसुवते ततस्तेभ्यः परेऽण्डजाः ॥ २६॥
तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ।
महदादियोविशेषान्तास्तद्भवन्ति सुरादयः ॥ २७॥
बीजाद् वृक्षप्ररोहेण यथा नापचयस्तरोः ।
सूर्यकान्तमणेः सूर्याद्यद्वद्वह्निः प्रजायते ॥ २८॥
तद्वत्सञ्जायते सृष्टिः शिवस्तत्रः न कामयेत् ।
शिवशक्तिसमायोगे देवाद्याः प्रभवन्ति हि ॥ २९॥
तथा स्वकर्मणैकेन प्ररोहमुपयान्ति वै ।
ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ॥ ३०॥
तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ।
कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ॥ ३१॥
व्यास उवाच ।
सनत्कुमार सर्वज्ञ छिन्धि मे संशयं महत् ।
सन्ति लोका हि ब्रह्माण्डादुपरिष्टान्न वा मुने ॥ ३२॥
सनत्कुमार उवाच ।
ब्रह्माण्डादुपरिष्टाच्च सन्ति लोका मुनीश्वर ।
तान् शृणु त्वं विशेषेण वच्मि तेऽहं समागतः ॥ ३३॥
विधिलोकात्परो लोको वैकुण्ठ इति विश्रुतः ।
विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ॥ ३४॥
तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ।
सेनानीः शम्भुतनयो राजते यत्र सुप्रभः ॥ ३५॥
ततः परमुमालोको महादिव्यो विराजते ।
यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ॥ ३६॥
परात्परा हि प्रकृती रजःसत्त्वतमोमयी ।
निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ॥ ३७॥
तस्योपरिष्टाद्विज्ञेयः शिवलोकः सनातनः ।
अविनाशी महादिव्यो महाशोभान्वितः सदा ॥ ३८॥
विराजते परं ब्रह्म यत्र शम्भुर्महेश्वरः ।
त्रिदेवजनकः स्वामी सर्वेषां त्रिगुणात्परः ॥ ३९॥
तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ।
गोमातरः सुशीलाख्यास्तत्र सन्ति शिवप्रिया ॥ ४०॥
तत्पालः कृष्णनामा हि राजते शङ्कराज्ञया ।
प्रतिष्ठितः शिवेनैव शक्त्या स्वच्छन्दचारिणा ॥ ४१॥
शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ।
तथानिर्वचनीयश्च नानावस्तुविराजितः ॥ ४२॥
शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ।
विष्णुब्रह्महरैः सेव्यः परमात्मा निरञ्जनः ॥ ४३॥
इति ते कथिता तात सर्वब्रह्माण्डसंस्थितिः ।
तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि ॥ ४४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनं नामैकोनविंशोऽध्यायः ॥ ५.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२०. विंशोऽध्यायः । मनुविशेषकथनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम ।
यद् गत्वा न निवर्तन्ते शिवभक्तियुता नराः ॥ १॥
सनत्कुमार उवाच ।
पराशरसुत व्यास शृणु प्रीत्या शुभां गतिम् ।
व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम् ॥ २॥
ये शिवं शुद्धकर्माणः सुशुद्धतपसान्विताः ।
समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम् ॥ ३॥
नातप्ततपसो यान्ति शिवलोकमनामयम् ।
शिवानुग्रहसद्धेतुस्तप एव महामुने ॥ ४॥
तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः ।
ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः ॥ ५॥
सुदुर्द्धरं दुराराध्यं सुदूरं दुरतिक्रमम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ६॥
सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा ।
देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम् ॥ ७॥
येन येन हि भावेन स्थित्वा यत्क्रियते तपः ।
ततः सम्प्राप्यतेऽसौ तैरिह लोके न संशयः ॥ ८॥
सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ।
विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम् ॥ ९॥
सात्त्विकं दैवतानां हि यतीनामूर्ध्वरेतसाम् ।
राजसं दानवानां हि मनुष्याणां तथैव च ।
तामसं राक्षसानां हि नराणां क्रूरकर्मणाम् ॥ १०॥
त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।
जपो ध्यानं तु देवानामर्चनं भक्तितः शुभम् ॥ ११॥
सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् ।
इह लोके परे चैव मनोऽभिप्रेतसाधनम् ॥ १२॥
कामनाफलमुद्दिश्य राजसं तप उच्यते ।
निजदेहं सुसम्पीड्य देहशोषकदुःसहैः ॥ १३॥
तपस्तामसमुद्दिष्टं मनोऽभिप्रेतसाधनम् ॥ १४॥
उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला ।
स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम् ॥ १५॥
व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दानं क्षान्तिर्दमो दया ॥ १६॥
वापीकूपतडागादेः प्रासादस्य च कल्पना ।
कृच्छ्रं चान्द्रायणं यज्ञः सुतीर्थान्याश्रमाः पुनः ॥ १७॥
धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् ।
सुधर्मः परमो व्यास शिवभक्तेश्च कारणम् ॥ १८॥
सङ्क्रान्तिविषुवद्योगो नादमुक्ते नियुज्यताम् ।
ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा ॥ १९॥
रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः ।
नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम् ॥ २०॥
तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम् ।
पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम् ॥ २१॥
काष्ठावस्था मृतावस्था हरिता वेति कीर्तिताः ।
नानोपलब्धयो ह्येताः सर्वपापप्रणाशनाः ॥ २२॥
नारी शय्या तथा पानं वस्त्रधूपविलेपनम् ।
ताम्बूलभक्षणं पञ्च राजैश्वर्यविभूतयः ॥ २३॥
हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः ।
पाण्डित्यं वेदशास्त्राणां गीतनृत्यविभूषणम् ॥ २४॥
शङ्खवीणामृदङ्गाश्च गजेन्द्रः छ्त्रचामरे ।
भोगरूपाणि चैतानि एभिः सक्तोऽनुरज्यते ॥ २५॥
आदर्शवन्मुने स्नेहैस्तिलवत्स निपीड्यते ।
अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः ॥ २६॥
जानन्नपीह संसारे भ्रमते घटियन्त्रवत् ।
सर्वयोनिषु दुःखार्तः स्थावरेषु चरेषु च ॥ २७॥
एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त ।
कालान्तरवशाद्याति मानुष्यमतिदुर्लभम् ॥ २८॥
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ।
विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ॥ २९॥
मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् ।
नाचरत्यात्मनः श्रेयः स मृतः शोचते चिरम् ॥ ३०॥
देवासुराणां सर्वेषां मानुष्यं चातिदुर्लभम् ।
तत्सम्प्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥ ३१॥
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः ।
दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम् ॥ ३२॥
सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् ।
सम्प्राप्य धर्मतो व्यास तद्यत्नादनुपालयेत् ॥ ३३॥
धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।
यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः ॥ ३४॥
मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् ।
नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः ॥ ३५॥
द्वीपानामेव सर्वेषां कर्मभूरियमुच्यते ।
इतः स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः ॥ ३६॥
देशेऽस्मिन् भारते वर्षे प्राप्य मानुष्यमध्रुवम् ।
न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वञ्चितः ॥ ३७॥
कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता ।
इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते ॥ ३८॥
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत् ।
अस्वस्थश्चोदितोऽप्यन्यैर्न किञ्चित्कर्तुमुत्सहेत् ॥ ३९॥
अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् ।
ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ॥ ४०॥
आयुषः खण्डखण्डानि निपतन्ति तदग्रतः ।
अहोरात्रोपदेशेन किमर्थं नावबुध्यते ॥ ४१॥
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ।
आकस्मिके हि मरणे धृतिं विन्दति कस्तथा ॥ ४२॥
परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् ।
न ददाति कदा कस्मात्पाथेयार्थमिदं धनम् ॥ ४३॥
गृहीतदानपाथेयः सुखं याति यमालयम् ।
अन्यथा क्लिश्यते जन्तुः पाथेयरहिते पथि ॥ ४४॥
येषां कालेय पुण्यानि परिपूर्णानि सर्वतः ।
गच्छतां स्वर्गदेशं हि तेषां लाभः पदे पदे ॥ ४५॥
इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।
पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत् ॥ ४६॥
ये मनागपि देवेशं प्रपन्नाः शरणं शिवम् ।
तेऽपि घोरं न पश्यन्ति यमं न नरकं तथा ॥ ४७॥
किन्तु पापैर्महामोहैः किञ्चित्काले शिवाज्ञया ।
वसन्ति तत्र मानुष्यास्ततो यान्ति शिवास्पदम् ॥ ४८॥
ये पुनः सर्वभावेन प्रतिपन्ना महेश्वरम् ।
न ते लिम्पन्ति पापेन पद्मपत्रमिवाम्भसा ॥ ४९॥
उक्तं शिवेति यैर्नाम तथा हर हरेति च ।
न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम ॥ ५०॥
परलोकस्य पाथेयं मोक्षोपायमनामयम् ।
पुण्यसङ्घैकनिलयं शिव इत्यक्षरद्वयम् ॥ ५१॥
शिवनामैव संसारमहारोगैकशामकम् ।
नान्यत्संसाररोगस्य शामकं दृश्यते मया ॥ ५२॥
ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः ।
शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ॥ ५३॥
तस्माद्विवर्धयेद्भक्तिमीश्वरे सततं बुधः ।
शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विन्दति ॥ ५४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ॥ ५.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२१. एकविंशोऽध्यायः । रणफलवर्णनम् ।
व्यास उवाच ।
ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद् ब्राह्मणो भवेत् ।
ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः ॥ १॥
पद्भ्यां शूद्रः समुत्पन्न इति तस्य मुखात् श्रुतिः ।
किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद ॥ २॥
सनत्कुमार उवाच ।
दुष्कृतेन तु कालेय स्थानाद् भ्रश्यन्ति मानवाः ।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥ ३॥
यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते ।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते ॥ ४॥
अधर्मसेवनान्मूढस्तथैव परिवर्तते ।
जन्मान्तरसहस्राणि तमस्याविशते यतः ॥ ५॥
तस्मात्प्राप्य परं स्थानं प्रमाद्येन्न तु नाशयेत् ।
स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः ॥ ६॥
ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते ।
भोज्याभोज्यं न जानाति स पुमान् क्षत्रियो भवेत् ॥ ७॥
कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते ।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥ ८॥
शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् ।
यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा ॥ ९॥
कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् ।
यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि ॥ १०॥
अग्निहोत्रमुपादाय शेषान्नकृतभोजनः ।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥ ११॥
क्षत्रियो जायते यज्ञैः संस्कृतैरात्तदक्षिणैः ।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा ॥ १२॥
आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् ।
ऋतुकालाभिगामी च स्वभार्यां धर्मतत्परः ॥ १३॥
सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति ।
गोब्राह्मणात्मनोऽर्थं हि सङ्ग्रामाभिहतो भवेत् ॥ १४॥
तेनाग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत् ।
विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ॥ १५॥
स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः ।
प्राप्यते विपुलः स्वर्गो देवानामपि वल्लभः ॥ १६॥
ब्राह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ।
ब्राह्मण्यात्सकलं प्राप्य मोक्षं चापि मुनीश्वर ॥ १७॥
तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः ।
साधनं सर्ववर्गस्य रक्षेद् ब्राह्मण्यमुत्तमम् ॥ १८॥
व्यास उवाच ।
सङ्ग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम ।
एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर ॥ १९॥
सनत्कुमार उवाच ।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् ॥ २०॥
इति तत्त्वविदः प्राहुर्यज्ञकर्मविदः सदा ।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् ॥ २१॥
धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।
यः शूरो वाञ्छते युद्धं विमृदन् परवाहिनीम् ॥ २२॥
तस्य धर्मार्थकामाश्च यज्ञश्चैव सदक्षिणः ।
परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति ॥ २३॥
विष्णुलोके स जायेत यश्च युद्धेऽपराजितः ।
अश्वमेधानवाप्नोति चतुरो न मृतः स चेत् ॥ २४॥
यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनीमुखे ।
सम्मुखो वर्तते शूरः स स्वर्गान्न निवर्तते ॥ २५॥
राजा वा राजपुत्रो वा सेनापतिरथापि वा ।
हतः क्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत् ॥ २६॥
यावन्ति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे ।
तावतो लभते लोकान् सर्वकामदुघाऽक्षयान् ॥ २७॥
वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा ।
सर्वदा भवति व्यास इह लोके परत्र च ॥ २८॥
गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च ।
ये मृतास्ते सुखं यान्ति यथा सुकृतिनस्तथा ॥ २९॥
यः कश्चिद् ब्राह्मणं हत्वा पश्चात्प्राणान् परित्यजेत् ।
तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते ॥ ३०॥
क्रव्यादैर्दन्तिभिश्चैव हतस्य गतिरुत्तमा ।
द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया ॥ ३१॥
शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि ।
आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः ॥ ३२॥
युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् ।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥ ३३॥
भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् ।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् ॥ ३४॥
आततायिनमायान्तमपि वेदान्तङगं द्विजम् ।
जिघांसन्तं जिघांसेत्तु न तेन ब्रह्महा भवेत् ॥ ३५॥
हन्तव्योऽपि न हन्तव्यः पानीयं यश्च याचते ।
रणे हत्वातुरा व्यास स नरो ब्रह्महा भवेत् ॥ ३६॥
व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम् ।
धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत् ॥ ३७॥
एवं विचार्य सद्धीमान् भवेत्प्रीत्याः रणप्रियः ।
स जन्मनः फलं प्राप्य परत्रेह प्रमोदते ॥ ३८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ॥ ५.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२२. द्वाविंशोऽध्यायः । देहोत्पत्तिवर्णनम् ।
व्यास उवाच ।
विधिं तात वदेदानीं जीवजन्म विधानतः ।
गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ॥ १॥
सनत्कुमार उवाच ।
शृणु व्यास समासेन शास्त्रसारमशेषतः ।
वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबन्धकृत् ॥ २॥
पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम् ।
अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि ॥ ३॥
जलस्याधः स चाग्निर्हि स्थितोऽग्निं धमते शनैः ।
वायुना धम्यमानोऽग्निरत्युष्णं कुरुते जलम् ॥ ४॥
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः ।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः ॥ ५॥
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत् ।
रसस्तु देहे सरति स पुष्टस्तेन जायते ॥ ६॥
कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ।
मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ॥ ७॥
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समन्ततः ।
ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ॥ ८॥
तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयेत् रसम् ।
रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ॥ ९॥
पुनः प्रयान्ति सम्पूर्णाः ताश्च देहं समन्ततः ।
ततः स नाडीमध्यस्थः शरीरेणात्मना रसः ॥ १०॥
पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ।
त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते ॥ ११॥
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः ।
स्नायुतश्च तथास्थीनि नखा मज्जास्थिसम्भवाः ॥ १२॥
मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम् ।
इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः ॥ १३॥
शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य सम्भवः ।
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् ॥ १४॥
तदा तद् वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ।
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ॥ १५॥
संवृतः प्रविशेद्योनिं कर्मभिः स्वैर्नियोजितः ।
तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् ॥ १६॥
पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् ।
बुद्बुदः सप्तरात्रेण मांसपेशी भवेत् पुनः ॥ १७॥
ग्रीवा शिरश्च स्कन्धौ च पृष्ठवंशस्तथोदरम् ।
पाणिपादं तथा पार्श्वे कटिर्गात्रं तथैव च ॥ १८॥
द्विमासाभ्यन्तरेणैव क्रमशः शम्भवेदिह ।
त्रिभिर्मासैः प्रजायन्ते सर्वे ह्यङ्कुरसन्धयः ॥ १९॥
मासैश्चतुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम् ।
मुखं नासा च कर्णौ मासैः पञ्चभिरेव च ॥ ५.२२.२०॥
दन्तपङ्क्तिस्तथा गुह्यं जायन्ते च नखाः पुनः ।
कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यन्तरेण तु ॥ २१॥
पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते ।
सन्धयो ये च गात्रेषु मासैर्जायन्ति सप्तभिः ॥ २२॥
अङ्गप्रत्यङ्गसम्पूर्णः परिपक्वः स तिष्ठति ।
उदरे मातुराच्छन्नो जरायौ मुनिसत्तम ॥ २३॥
मातुराहारचौर्येण षड्विधेन रसेन तु ।
नाभिनालनिबद्धेन वर्द्धते स दिने दिने ॥ २४॥
ततः स्मृतिं लभेज्जीवः सम्पूर्णेऽस्मिन् शरीरके ।
सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ॥ २५॥
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनिसहस्राणि मया दृष्टानि जायता ॥ २६॥
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ।
श्रेयोऽमुना करिष्यामि येन गर्भे न सम्भवः ॥ २७॥
गर्भस्थश्चिन्तयन्नेवमहं गर्भाद्विनिःसृतः ।
अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ॥ २८॥
एवं स गर्भदुःखेन महता परिपीडितः ।
जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयन् ॥ २९॥
यथा गिरिवराक्रान्तः कश्चिद्दुःखेन तिष्ठति ।
तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥ ३०॥
पतितः सागरे यद्वद्दुःखमास्ते समाकुलः ।
गर्भोदकेन सिक्ताङ्गः सर्वदाकुलितस्तदा ॥ ३१॥
लोहकुम्भे यथा न्यस्तः पच्यते कश्चिदग्निना ।
गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ॥ ३२॥
सूचीभिरग्निवर्णाभिर्निर्भिन्नस्य निरन्तरम् ।
यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ॥ ३३॥
गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ।
देहिनां दुःखबहुलं सुघोरमतिसङ्कटम् ॥ ३४॥
इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ।
केवलं धर्मबुध्दीनां सप्तमासैर्भवः सदा ॥ ३५॥
गर्भात्सुदुर्लभं दुःखं योनियन्त्रनिपीडनात् ।
भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ॥ ३६॥
इक्षुवत्पीड्यमानस्य यन्त्रेणैव समन्ततः ।
शिरसा ताड्यमानस्य पापमुद्गरकेण च ॥ ३७॥
यन्त्रेण पीडिता यद्वन्निःसाराः स्स्युस्तिलाः क्षणात् ।
तथा शरीरं निस्सारं योनियन्त्रनिपीडनात् ॥ ३८॥
अस्थिपादतुलास्तम्भं स्नायुबन्धेन यन्त्रितम् ।
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ॥ ३९॥
केशरोमनखच्छन्नं रोगायतनमातुरम् ।
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ॥ ४०॥
ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम् ।
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ॥ ४१॥
संवर्तिताङ्गप्रत्यङ्गं जरायुपरिवेष्टितम् ।
सङ्कटेनाविविक्तेन योनिमार्गेण निर्गतम् ॥ ४२॥
विण्मूत्ररक्तसिक्ताङ्गं विकोशिकसमुद्भवम् ।
अस्थिपञ्जरविख्यातमस्मिन् ज्ञेयं कलेवरम् ॥ ४३॥
शतत्रयं षष्ट्यधिकं पञ्च पेशीशतानि च ।
सार्धाभिस्तिसृभिश्छन्नं समन्ताद्रोमकोटिभिः ॥ ४४॥
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्या हि ताः स्मृताः ।
एतावतीभिर्नाडीभिः कोटिभिस्तत्समन्ततः ॥ ४५॥
अस्वेदमधुभिर्याभिरन्तस्थः स्रवते बहिः ।
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ॥ ४६॥
पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ।
वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ॥ ४७॥
पञ्चार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ।
पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ॥ ४८॥
शुक्रोऽर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ।
मांसस्य चैकपिण्डेन पलसाहस्रमुच्यते ॥ ४९॥
रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणतः ।
अञ्जलयश्च चत्वारश्चत्वारो मुनिसत्तम ॥ ५०॥
इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ।
अविशुद्धं विशुद्धस्य कर्मबन्धाद्विनिर्मितम् ॥ ५१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ॥ ५.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२३. त्रयोविंशोऽध्यायः । देहाशुचित्वबाल्याद्यवस्थादुःखवर्णनम् ।
सनत्कुमार उवाच ।
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ।
महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ॥ १॥
शुक्रशोणितसंयोगाद्देहः सञ्जायते यतः ।
नित्यं विण्मूत्रसम्पूर्णस्तेनायमशुचिः स्मृतः ॥ २॥
यथान्तर्विष्ठया पूर्णः शुचिमान्न बहिर्घटः ।
शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ॥ ३॥
सम्प्राप्याति पवित्राणि पञ्चगव्यं हवींषि च ।
अशुचित्वं क्षणाद्यान्ति किमन्यदशुचिस्ततः ॥ ४॥
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ।
अशुचित्वं प्रयान्त्याशु किमन्यदशुचिस्ततः ॥ ५॥
हे जनाः किन्न पश्यन्ति यन्निर्याति दिने दिने ।
स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ॥ ६॥
देहः सशोध्यमानोऽपि पञ्चगव्यकुशाम्बुभिः ।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ७॥
स्रोतांसि यस्य सततं प्रभवन्ति गिरेरिव ।
कफमूत्रपुरीषाद्यैः स देहः शुध्यते कथम् ॥ ८॥
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।
शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ॥ ९॥
सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ।
तथाप्यशुचिभाण्डस्य न विभ्रश्यति किं करः ॥ १०॥
कायः सुगन्धधूपाद्यैर्यत्नेनापि सुसंस्कृतः ।
न जहाति स्वभावं स श्वपुच्छमिव नामितम् ॥ ११॥
यथा जात्यैव कृष्णोर्थः शुक्लः स्स्यान्नह्युपायतः ।
संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ॥ १२॥
जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि स्वकं मलम् ।
न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ॥ १३॥
अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ।
शीघ्रं पश्यन् स्वकं दोषं कायस्य न विरज्यते ॥ १४॥
स्वदेहस्य विगन्धेन न विरज्येत यो नरः ।
विरागकारणं तस्य किमेतदुपदिश्यते ॥ १५॥
सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ।
तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ १६॥
गन्धलेपापनोदार्थ शौचं देहस्य कीर्तितम् ।
द्वयस्यापगमाच्छुद्धिः शुद्धस्पर्शाद्विशुध्यति ॥ १७॥
गङ्गातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ।
आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ॥ १८॥
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ।
श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ॥ १९॥
अन्तर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ।
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ॥ २०॥
सर्वेण गाङ्गेन जलेन सम्यङ्
मृत्पर्वतेनाप्यथ भावदुष्टः ।
आजन्मनः स्नानपरो मनुष्यो
न शुध्यतीत्येव वयं वदामः ॥ २१॥
प्रज्वाल्य वह्निं घृततैलसिक्तं
प्रदक्षिणावर्तशिखं महान्तम् ।
प्रविश्य दग्धस्त्वपि भावदुष्टो
न धर्ममाप्नोति फलं न चान्यत् ॥ २२॥
गङ्गादितीर्थेषु वसन्ति मत्स्या
देवालये पक्षिगणाश्च नित्यम् ।
भावोज्झितास्ते न फलं लभन्ते
तीर्थावगाहाच्च तथैव दानात् ॥ २३॥
भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ॥ २४॥
मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ।
अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ॥ २५॥
पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ।
परिष्वक्तोऽपि यन्नार्या भावहीनं न कामयेत् ॥ २६॥
नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ।
यदि चिन्तां समाधत्ते चित्ते कामादिषु त्रिषु ॥ २७॥
गृह्यते तेन भावेन नरो भावाद्विमुच्यते ।
भावतः शुचि शुद्धात्मा स्वर्गं मोक्षं च विन्दति ॥ २८॥
भावेनैकात्मशुद्धात्मा दहन् जुह्वन् स्तुवन् मृतः ।
ज्ञानावाप्तेरवाप्याशु लोकान् सुबहुयाजिनाम् ॥ २९॥
ज्ञानामलाम्भसा पुंसां सद्वैराग्यमृदा पुनः ।
अविद्यारागविण्मूत्रलेपगन्धविशोधनम् ॥ ३०॥
एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ।
त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम् ॥ ३१॥
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलो भवेत् ।
देहभोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः ॥ ३२॥
सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ।
संसारङ्कदलीसारदृढग्राह्यवतिष्ठते ॥ ३३॥
एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् ।
पुंसामज्ञानदोषेण नानाकर्मवशेन च ॥ ३४॥
श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
ममेति परमं दुःखं न ममेति परं सुखम् ॥ ३५॥
बहवोऽपीह राजानः परं लोकमितो गताः ।
निर्ममत्वसमेतास्तु बद्धाः शतसहस्रशः ॥ ३६॥
गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ।
सम्मूर्छितेन दुःखेन योनियन्त्रनिपीडनात् ॥ ३७॥
बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ।
स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ॥ ३८॥
तेन ज्वरेण महता सम्मोहश्च प्रजायते ।
सम्मूढस्य स्मृतिभ्रंशः शीघ्रं सञ्जायते पुनः ॥ ३९॥
स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नो पूर्वकर्मणः ।
रतिः सञ्जायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥ ४०॥
रक्तो मूढश्च लोकोऽयं न कार्ये सम्प्रवर्तते ।
न चात्मानं विजानाति न परं न च दैवतम् ॥ ४१॥
न शृणोति परं श्रेयः सति कर्णेऽपि सन्मुने ।
न पश्यति परं श्रेयः सति चक्षुषि तत्क्षमे ॥ ४२॥
समे पथि शनैर्गच्छन् स्खलतीव पदे पदे ।
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥ ४३॥
संसारे क्लिश्यते तेन गर्भलोभवशानुगः ।
गर्भस्मृतेन पापेन समुज्झितमतिः पुमान् ॥ ४४॥
इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ।
तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम् ॥ ४५॥
ये सत्यस्मिन् शिवे ज्ञाने सर्वकामार्थसाधने ।
न कुर्वन्त्यात्मनः श्रेयस्तदेव महदद्भुतम् ॥ ४६॥
अव्यक्तेन्द्रियवृत्तित्वाद् बाल्ये दुःखं महत्पुनः ।
इच्छन्नपि न शक्नोति वक्तुं कर्तुं प्रतिक्रियाम् ॥ ४७॥
दन्तोत्थाने महद्दुःखमल्पेन व्याधिना तथा ।
बालरोगैश्च विविधैः पीडा बालग्रहैरपि ॥ ४८॥
क्वचित्क्षुत्तृट्परीताङ्गः क्वचित्तिष्ठति संरटन् ।
विण्मूत्रभक्षणाद्यं च मोहाद् बालः समाचरेत् ॥ ४९॥
कौमारे कर्णपीडायां मातापित्रोश्च साधनैः ।
अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते ॥ ५०॥
बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः ।
न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ ५१॥
प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात् ।
तदप्राप्ते तु सततं कुतः सौख्यं तु यौवने ॥ ५२॥
ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ।
नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम् ॥ ५३॥
न रात्रौ विन्दते निद्रां कामाग्निपरिवेदितः ।
दिवापि च कुतः सौख्यमर्थोपार्जनचिन्तया ॥ ५४॥
स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ।
ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ॥ ५५॥
कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ।
कण्डूयनाभितापेन यद्भवेत् स्त्रीषु तद्विदः ॥ ५६॥
यादृशं मन्यते सौख्यं गण्डे पूतिविनिर्गमात् ।
तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ॥ ५७॥
विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम् ।
तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा ॥ ५८॥
नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु च ।
नाणुमात्रं सुखं तासु कथितं पञ्चचूडया ॥ ५९॥
सम्माननावमानाभ्यां वियोगेनेष्टसङ्गमात् ।
यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम् ॥ ६०॥
वलीपलितखालित्यैः शिथिलिकृतविग्रहम् ।
सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम् ॥ ६१॥
स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा ।
तदेव जरया ग्रस्तमनयोरपि न प्रियम् ॥ ६२॥
अपूर्ववत्स्वमात्मानं जरया परिवर्तितम् ।
यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः ॥ ६३॥
जराभिभूतः पुरुषः पुत्रीपुत्रादिबान्धवैः ।
असक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते ॥ ६४॥
धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः ।
अशक्तः साधितुं तस्माद्युवा धर्मं समाचरेत् ॥ ६५॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहाशुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२४. चतुर्विंशोऽध्यायः । स्त्रीस्वभाववर्णनम् ।
व्यास उवाच ।
कुत्सितं योषिदर्थं यत्सम्प्रोक्तं पञ्चचूडया ।
तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने ॥ १॥
सनत्कुमार उवाच ।
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ।
यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ॥ २॥
स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने ।
तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ॥ ३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥ ४॥
लोकान् परिचरन् धीमान् देवर्षिर्नारदः पुरा ।
ददर्शाप्सरसं बालां पञ्चचूडामनुत्तमाम् ॥ ५॥
पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः ।
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥ ६॥
एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा ।
विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ॥ ७॥
नारद उवाच ।
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ॥ ८॥
सनत्कुमार उवाच ।
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।
प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ॥ ९॥
पञ्चचूडोवाच ।
मुने शृणु न शक्या स्त्री सती वै निन्दितुं स्त्रिया ।
विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ॥ १०॥
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ।
इत्युक्त्वा साभवत्तूष्णीं पञ्चचूडाप्सरोवरा ॥ ११॥
अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ।
प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ॥ १२॥
नारद उवाच ।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ।
इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ॥ १३॥
सनत्कुमार उवाच ।
इत्युक्ता सा कृतमती रभसा चारुहासिनी ।
स्त्रीदोषान् शाश्वतान्सत्यान् भाषितुं सम्प्रचक्रमे ॥ १४॥
पञ्चचूडोवाच ।
कुलीना नाथवन्त्यश्च रूपवन्त्यश्च योषितः ।
मर्यादाषु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ १५॥
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति हि ।
स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ॥ १६॥
समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ।
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥ १७॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥ १८॥
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १९॥
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ २०॥
नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ।
सुरूपं वा कुरूपं वा पुमांसमुपभुञ्जते ॥ २१॥
न भयादथ वाक्रोशान्नार्थहेतोः कथञ्चन ।
न ज्ञातिकुलसम्बन्धात् स्त्रियस्तिष्ठन्ति भर्तृषु ॥ २२॥
यौवने वर्तमानानामिष्टाभरणवाससाम् ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ २३॥
या हि शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ॥ २४॥
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ॥ २५॥
यदि पुंसां गतिर्ब्रह्मन् कथञ्चिन्नोपपद्यते ।
अप्यन्योऽन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥ २६॥
अलाभात्पुरुषाणां च भयात्परिजनस्य च ।
वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ॥ २७॥
चलस्वभाव दुश्चेष्टा दुर्गाह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात् ॥ २८॥
नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ २९॥
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः ॥ ३०॥
सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् ।
योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम् ॥ ३१॥
कायानामपि दातारं कर्त्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ ३२॥
न कामभोगात्परमान्नालङ्कारार्थसञ्चयात् ।
तथा हितं न मन्यन्ते यथा रतिपरिग्रहात् ॥ ३३॥
अन्तकः शमनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ ३४॥
यतश्च भूतानि महान्ति पञ्च
यतश्च लोको विहितो विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मिताः
सदैव दोषः प्रमदासु नारद ॥ ३५॥
सनत्कुमार उवाच ।
इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः ।
तथ्यं मत्वा ततस्तद्वै विरक्तोऽभूद्धि तासु च ॥ ३६॥
इत्युक्तः स्त्रीस्वभावस्ते पञ्चचूडोक्त आदरात् ।
वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि ॥ ३७॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥ ५.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२५. पञ्चविंशोऽध्यायः । कालज्ञानवर्णनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने ।
स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ॥ १॥
सनत्कुमार उवाच ।
इदमेव पुरापृच्छत् पार्वती परमेश्वरम् ।
श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ॥ २॥
पार्वत्युवाच ।
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ।
यथार्चनं तु ते देव यैर्मन्त्रैश्च यथाविधि ॥ ३॥
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ।
मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ॥ ४॥
सर्वं कथय मे नाथ यद्यहं तव वल्लभा ।
इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ॥ ५॥
ईश्वर उवाच ।
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ।
येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥ ६॥
अहः पक्षं तथा मासमृतुं चायनवत्सरौ ।
स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरन्तर्गतैस्तथा ॥ ७॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।
लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ॥ ८॥
अकस्मात्पाण्डुरं देहमूर्ध्वरागं समन्ततः ।
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ ९॥
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत् ।
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ १०॥
रौरवानुगतं भद्रे ध्वनिं नाकर्णयेद् द्रुतम् ।
षण्मासाभ्यन्तरे मृत्युर्ज्ञातव्यः कालवेदिभिः ॥ ११॥
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ।
कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ॥ १२॥
वामहस्तो यदा देवि सप्ताहं स्पन्दते प्रिये ।
जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १३॥
उन्मीलयन्ति गात्राणि तालुकं शुष्यते यदा ।
जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १४॥
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ।
वक्त्रं कण्ठं च शुष्येत षण्मासान्ते गतायुषः ॥ १५॥
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यन्ति भामिनि ।
षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत् ॥ १६॥
अम्बुतैलघृतस्थं तु दर्पणे वरवर्णिनि ।
न पश्यति यदात्मानं विकृतं पलमेव च ॥ १७॥
षण्मासायुः स विज्ञेयः कालचक्रं विजानता ।
अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते ॥ १८॥
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ।
अथवा छायया हीनो मासमेकं न जीवति ॥ १९॥
आङ्गिकानि मयोक्तानि मृत्युचिह्नानि पार्वति ।
बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु साम्प्रतम् ॥ २०॥
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम् ।
दृश्यते पाटलाकारं मासार्धेन विपद्यते ॥ २१॥
अरुन्धतीं महायानमिन्दुं लक्षणवर्जितम् ।
अदृष्टतारको योऽसौ मासमेकं स जीवति ॥ २२॥
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम् ।
उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम् ॥ २३॥
रात्रौ धनुर्यदा पश्येन्मध्याह्ने चोल्कपातनम् ।
वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः ॥ २४॥
ऋषयः स्वर्गपन्थाश्च दृश्यन्ते नैव चाम्बरे ।
षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ॥ २५॥
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ।
दिक्चक्रं भ्रान्तवत्पश्येत्षण्मासान्म्रियते स्फुटम् ॥ २६॥
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद् वेष्ट्यते पुमान् ।
मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ॥ २७॥
गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ।
शीघ्रं तु म्रियते जन्तुर्मासैकेन न संशयः ॥ २८॥
एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ।
मानुषाणां हितार्थाय सङ्क्षेपेण वदाम्यहम् ॥ २९॥
हस्तयोरुभयोर्देवि यथा कालं विजानते ।
वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ॥ ३०॥
एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुन्दरि ।
शुचिर्भूत्वा स्मरन्देवं सुस्नातः संयतेन्द्रियः ॥ ३१॥
हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ।
गन्धैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ॥ ३२॥
कनिष्ठामादितः कृत्वा यावदङ्गुष्ठकं प्रिये ।
पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ॥ ३३॥
प्रतिपदादि विन्यस्य तिथिं प्रतिपदादितः ।
सम्पुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ॥ ३४॥
स्मरेन्नवात्मकं मन्त्रं यावदष्टोत्तरं शतम् ।
निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ॥ ३५॥
तस्मिन्पर्वणि सा रेखा दृश्यते भृङ्गसन्निभा ।
तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ॥ ३६॥
अधुना नादजं वक्ष्ये सङ्क्षेपात्काललक्षणम् ।
गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ॥ ३७॥
आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ।
क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ॥ ३८॥
मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ।
अब्दं युगं तथा कल्पं महाकल्पं तथैव च ॥ ३९॥
एवं स हरते कालः परिपाट्या सदाशिवः ।
वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ॥ ४०॥
दिनानि पञ्च चारभ्य पञ्चविंशद्दिनावधि ।
वामाचारगतौ नादः प्रमाणं कथितं तव ॥ ४१॥
भूतरन्ध्रं दिशश्चैव ध्वजश्च वरवर्णिनि ।
वामचारगतौ नादः प्रमाणं कालवेदिनः ॥ ४२॥
ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ।
प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ॥ ४३॥
भूतसङ्ख्या यदा प्राणान्वहन्ते च इडादयः ।
वर्षस्याभ्यन्तरे तस्य जीवितं हि न संशयः ॥ ४४॥
दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ।
पञ्चदशप्रवाहेण ह्यब्दमेकं गतायुषम् ॥ ४५॥
विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ।
पञ्चविंशद्दिनमितं वहते वामनाडिका ॥ ४६॥
जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ।
षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ॥ ४७॥
सप्तविंशद्दिनमितं वहते त्वत्यविश्रमा ।
मासमेकं समाख्यातं जीवितं वामगोचरे ॥ ४८॥
एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ।
सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ॥ ४९॥
चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ।
तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः ॥ ५०॥
षड्दिनान्यादितः कृत्वा सङ्ख्यायाश्च यथाविधि ।
एतदन्तर्गते चैव वामरन्ध्रे प्रकाशितम् ॥ ५१॥
षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ।
मासानष्टौ विजानीयाद्दिनान्यष्टौ च तानि तु ॥ ५२॥
प्राणाः सप्तदशे चैव विद्धि वर्षं न संशयः ।
सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ॥ ५३॥
अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ।
चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधि ॥ ५४॥
यदा नवदिनं प्राणा वहन्त्येव त्रिमासकम् ।
मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः ॥ ५५॥
पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम् ।
अवान्तरदिना ये तु तेन मासेन कथ्यते ॥ ५६॥
एकादशप्रवाहेण वर्षमेकं स जीवति ।
मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ॥ ५७॥
द्वादशेन प्रवाहेण वर्षमेकं स जीवति ।
मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ॥ ५८॥
नाडी यदा च वहति त्रयोदशदिनावधि ।
संवत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ॥ ५९॥
चतुर्विशद्दिनं शेषं जीवितं च न संशयः ।
प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ॥ ६०॥
संवत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ।
चतुर्विंशद्दिनान्येव जीवितं च न संशयः ॥ ६१॥
पञ्चदशप्रवाहेण नव मासान्स जीवति ।
चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ॥ ६२॥
षोडशाहप्रवाहेण दशमासान्स जीवति ।
चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ॥ ६३॥
सप्तदशप्रवाहेण नवमासैर्गतायुषम् ।
अष्टादश दिनान्यत्र कथितं साधकेश्वरि ॥ ६४॥
वामचारं यदा देवि ह्यष्टादशदिनावधिः ।
जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ॥ ६५॥
चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ।
प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ॥ ६६॥
चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ।
चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति ॥ ६७॥
दिनान्यत्र दशाष्टौ स संहरन्त्येव चारतः ।
अवान्तरदिने यस्तु सङ्क्षेपात्ते प्रकीर्तिताः ॥ ६८॥
वामचारः समाख्यातो दक्षिणं शृणु साम्प्रतम् ।
अष्टाविंशप्रवाहेण तिथिमानेन जीवति ॥ ६९॥
प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ।
त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते ॥ ७०॥
एकत्रिंशद्यदा देवि वहते च निरन्तरम् ।
दिनत्रयं तदा तस्य जीवितं हि न संशयः ॥ ७१॥
द्वात्रिंशत्प्राणसङ्ख्या च यदा हि वहते रविः ।
तदा तु जीवितं तस्य द्विदिनं हि न संशयः ॥ ७२॥
दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते ।
एकभागगतो वायुप्रवाहो मुखमण्डले ॥ ७३॥
धावमानप्रवाहेण दिनमेकं स जीवति ।
चक्रमेतत्परासोर्हि पुराविद्भिरुदाहृतम् ॥ ७४॥
एतत्ते कथितं देवि कालचक्रं गतायुषः ।
लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ॥ ७५॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालज्ञानवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ५.२५॥
५.२६
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२६. षड्विंशोऽध्यायः । कालवञ्चनवर्णनम् ।
देव्युवाच ।
कथितं तु त्वया देव कालज्ञानं यथार्थतः ।
कालस्य वञ्चनं ब्रूहि यथा तत्त्वेन योगिनः ॥ १॥
कालस्तु सन्निकृष्टो हि वर्तते सर्वजन्तुषु ।
यथा चास्य न मृत्युश्च वञ्चते कालमागतम् ॥ २॥
तथा कथय मे देव प्रीतिं कृत्वा ममोपरि ।
योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद ॥ ३॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि पृष्टोऽहं यत्त्वया शिवे ।
समासेन च सर्वेषां मानुषाणां हितार्थतः ॥ ४॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
एतेषां हि समायोगः शरीरं पाञ्चभौतिकम् ॥ ५॥
आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः ।
आकाशे तु विलीयन्ते सम्भवन्ति पुनस्ततः ॥ ६॥
वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे ।
तस्या न स्थिरता चास्ति सन्निपातस्य सुन्दरि ॥ ७॥
ज्ञानिनोऽपि तथा तत्र तपोमन्त्रबलादपि ।
ते सर्वे सुविजानन्ति सर्वमेतन्न संशयः ॥ ८॥
देव्युवाच ।
खं तेन यन्नश्यति घोररूपः
कालः करालस्त्रिदिवैकनाथः ।
दग्धस्त्वया त्वं पुनरेव तुष्टः
स्तोत्रैः स्तुतः स्वां प्रकृतिं स लेभे ॥ ९॥
त्वया स चोक्तः कथया जनाना-
मदृष्टरूपः प्रचरिष्यसीति ।
दृष्टस्त्वया तत्र महाप्रभावः
प्रभोर्वरात्ते पुनरुत्थितश्च ॥ ५.२६.१०॥
तदद्य भोः काल इहास्थि किञ्चित्
निहन्यते येन वदस्व तन्मे ।
त्वं योगिवर्यः प्रभुरात्मतन्त्रः
परोपकारात्ततनुर्महेश ॥ ११॥
शङ्कर उवाच ।
न हन्यते देववरैस्तु दैत्यैः
सयक्षरक्षोरगमानुषैश्च ।
ये योगिनो ध्यानपराः सदेहा
भवन्ति ते घ्नन्ति सुखेन कालम् ॥ १२॥
सनत्कुमार उवाच ।
एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य
सत्यं त्वं मे वद कथमसौ हन्यते येन कालः ।
शम्भुस्तामाह सद्यो हिमकरवदने योगिनो ये क्षिपन्ति
कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ताः ॥ १३॥
शङ्कर उवाच ।
पञ्चभूतात्मको देहः सदा युक्तस्तु तद्गुणैः ।
उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः ॥ १४॥
आकाशाज्जायते वायुर्वायोस्तेजश्च जायते ।
तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत् ॥ १५॥
पृथिव्यादीनि भूतानि गच्छन्ति क्रमशः परम् ।
धरा पञ्चगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः ॥ १६॥
त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च ।
शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम् ॥ १७॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते ॥ १८॥
तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते ।
एवं जानीहि देवेशि पञ्चभूतानि तत्त्वतः ॥ १९॥
तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः ।
चिन्तनीयाः प्रयत्नेन देवि कालजिगीषुणा ॥ ५.२६.२०॥
देव्युवाच ।
कथं जेजीयते कालो योगिभिर्योगवित्प्रभो ।
ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे ॥ २१॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया ।
परज्ञानप्रकथनं न देयं यस्य कस्यचित् ॥ २२॥
श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते ।
अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि ॥ २३॥
सुश्वासेन सुशय्यायां योगं युञ्जीत योगवित् ।
दीपं विनान्धकारे तु प्रजाः सुप्तेषु धारयेत् ॥ २४॥
तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम् ।
तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः ॥ २५॥
सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि ।
सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून् ॥ २६॥
यश्चोपलक्षयेन्नित्यमाकारं घटिकाद्वयम् ।
जित्वा मृत्युं तथा कामं स्वेच्छया पर्यटेदिह ॥ २७॥
सर्वज्ञः सर्वदर्शी च सर्वसिद्धिमवाप्नुयात् ।
यथा नदति खेऽब्दो हि प्रावृडद्भिः सुसंयतः ॥ २८॥
तं श्रुत्वा मुच्यते योगी सद्यः संसारबन्धनात् ।
ततः स योगिभिर्न्नित्यं सूक्ष्मात्सूक्ष्मतरो भवेत् ॥ २९॥
एष ते कथितो देवि शब्दब्रह्मविधिक्रमः ।
पलालमिव धान्यार्थी त्यजेद्बन्धमशेषतः ॥ ५.२६.३०॥
शब्दब्रह्म त्विदं प्राप्य ये केचिदन्यकाङ्क्षिणः ।
घ्नन्ति ते मुष्टिनाकाशं कामयन्ते क्षुधां तृषाम् ॥ ३१॥
ज्ञात्वा परमिदं ब्रह्म सुखदं मुक्तिकारणम् ।
अबाह्यमक्षरं चैव सर्वोपाधिविवर्जितम् ॥ ३२॥
मोहिताः कालपाशेन मृत्युपाशवशङ्गताः ।
शब्दब्रह्म न जानन्ति पापिनस्ते कुबुद्धयः ॥ ३३॥
तावद् भ्रमन्ति संसारे यावद्धाम न विन्दते ।
विदिते तु परे तत्त्वे मुच्यते जन्मबन्धनात् ॥ ३४॥
निद्रालस्यं महाविघ्नं जित्वा शत्रुं प्रयत्नतः ।
सुखासने स्थितो नित्यं शब्दब्रह्माभ्यसन्निति ॥ ३५॥
शतवृद्धः पुमांल्लब्ध्वा यावदायुः समभ्यसेत् ।
मृत्युञ्जयवपुस्तम्भ आरोग्यं वायुवर्द्धनम् ॥ ३६॥
प्रत्ययो दृश्यते वृद्धे किं पुनस्तरुणे जने ।
न चोङ्कारो न मन्त्रोऽपि नैव बीजं न चाक्षरम् ॥ ३७॥
अनाहतमनुच्चार्यं शब्दब्रह्म शिवं परम् ।
ध्यायन्ते देवि सततं सुधियो यत्नतः प्रिये ॥ ३८॥
तस्माच्छब्दा नव प्रोक्ताः प्राणविद्भिस्तु लक्षिताः ।
तान् प्रवक्ष्यामि यत्नेन नादसिद्धिमनुक्रमात् ॥ ३९॥
घोषं कांस्यं तथा शृङ्गं घण्टां वीणादिवंशजान् ।
दुन्दुभिं शङ्खशब्दं तु नवमं मेघगर्जितम् ॥ ५.२६.४०॥
नव शब्दान् परित्यज्य तुङ्कारं तु समभ्यसेत् ।
ध्यायन्नेवं सदा योगी पुण्यैः पापैर्न लिप्यते ॥ ४१॥
न शृणोति यदा शृण्वन्योगाभ्यासेन देविके ।
म्रियतेऽभ्यसमानस्तु योगी तिष्ठेद्दिवानिशम् ॥ ४२॥
तस्मादुत्पद्यते शब्दो मृत्युजित्सप्तभिर्दिनैः ।
स वै नवविधो देवि तं ब्रवीमि यथार्थतः ॥ ४३॥
प्रथमं नदते घोषमात्मशुद्धिकरं परम् ।
सर्वव्याधिहरं नादं वश्याकर्षणमुत्तमम् ॥ ४४॥
द्वितीयं नदते कांस्यं स्तम्भयेत् प्राणिनां गतिम् ।
विषं भूतग्रहान् सर्वान् बध्नीयान्नात्र संशयः ॥ ४५॥
तृतीयं नदते शृङ्गमभिचारि नियोजयेत् ।
विद्विडुच्चाटने शत्रोर्मारणे च प्रयोजयेत् ॥ ४६॥
घण्टानादं चतुर्थं तु वदते परमेश्वरः ।
आकर्षः सर्वदेवानां किं पुनर्मानुषा भुवि ॥ ४७॥
यक्षगन्धर्वकन्याश्च तस्याकृष्टा ददन्ति हि ।
यथेप्सितां महासिद्धिं योगिने कामतोऽपि वा ॥ ४८॥
वीणा तु पञ्चमो नादः श्रूयते योगिभिः सदा ।
तस्मादुत्पद्यते देवि दूरादर्शनमेव हि ॥ ४९॥
ध्यायतो वंशनादं तु सर्वतत्त्वं प्रजायते ।
दुन्दुभिं ध्यायमानस्तु जरामृत्युविवर्जितः ॥ ५.२६.५०॥
शङ्खशब्देन देवेशि कामरूपं प्रपद्यते ।
योगिनो मेघनादेन न विपत्सङ्गमो भवेत् ॥ ५१॥
यश्चैकमनसा नित्यं तुङ्कारं ब्रह्मरूपिणम् ।
किमसाध्यं न तस्यास्ति यथामति वरानने ॥ ५२॥
सर्वज्ञः सर्वदर्शी च कामरूपी व्रजत्यसौ ।
न विकारैः प्रयुज्येत शिव एव न संशयः ॥ ५३॥
एतत्ते परमेशानि शब्दब्रह्मस्वरूपकम् ।
नवधा सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ५४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवञ्चनवर्णनं नाम षड्विंशोऽध्यायः ॥ ५.२६॥
५.२७
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२७. सप्तविंशोऽध्यायः । कालवञ्चनशिवप्राप्तिवर्णनम् ।
देव्युवाच ।
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ।
तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ॥ १॥
शङ्कर उवाच ।
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ।
कालं जिगाय यः सम्यग्वायोर्लिङ्गं यथा भवेत् ॥ २॥
तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ।
स जयत्यागतं कालं मासार्धेनैव सुन्दरि ॥ ३॥
हृत्स्थो वायुः सदा वह्नेर्दीपकः सोऽनुपावकः ।
स बाह्याभ्यन्तरो व्यापी वायुः सर्वगतो महान् ॥ ४॥
ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ।
येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ॥ ५॥
धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ।
योगी योगरतः सम्यग्धारणाध्यानतत्परः ॥ ६॥
लोहकारो यथा भस्त्रामापूर्यमुखतो मुने ।
साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ॥ ७॥
देवः सहस्रको नेत्रपादहस्तसहस्रकः ।
पृथवीं हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशाङ्गुलम् ॥ ८॥
गायत्रीं शिरसा सार्द्धं जपेद् व्याहृतिपूर्विकाम् ।
त्रिवारमायतप्राणाः प्राणायामः स उच्यते ॥ ९॥
गतागता निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते योगध्यानपरायणाः ॥ ५.२७.१०॥
शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद् द्विजः ।
तदाप्नोति फलं देवि प्राणानां धारणैकया ॥ ११॥
यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ।
सर्वं पापं निहन्त्याशु ब्रह्मलोकं स गच्छति ॥ १२॥
योऽतन्द्रितः सदैकान्ते प्रणायामपरो भवेत् ।
जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ॥ १३॥
सिद्धस्य भजते रूपं कान्तिं मेधां पराक्रमम् ।
शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ॥ १४॥
एतत्कथितमशेषं वायोः सिद्धिं यदाप्नुते योगी ।
यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ॥ १५॥
स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ।
शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ॥ १६॥
वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतन्द्रितो योगी ।
दीपैर्हीनध्वान्ते पश्येन्न्यूनमसंशयं लोके ॥ १७॥
नेत्रे करशाखाभिः किञ्चित्सम्पीड्य यत्नतो योगी ।
तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमे९कभावोऽपि ॥ १८॥
ततस्तु तमसि ध्यायन्पश्यति ज्योतिरैश्वरम् ।
श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ॥ १९॥
भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम् ।
तं विदित्वा तु कामाङ्गी क्रीडते कामरूपधृक् ॥ ५.२७.२०॥
कारणप्रशमावेशं परकायप्रवेशनम् ।
अणिमादिगुणावाप्तिर्मनसा चावलोकनम् ॥ २१॥
दूरश्रवणविज्ञानमदृश्यं बहुरूपधृक् ।
सतताभ्यासयोगेन खेचरत्वं प्रजायते ॥ २२॥
श्रुताध्ययनसम्पन्ना नानाशास्त्रविशारदाः ।
ज्ञानिनोऽपि विमुह्यन्ते पूर्वकर्मवशानुगाः ॥ २३॥
पश्यन्तोऽपि न पश्यन्ति शृण्वाना बधिरा यथा ।
यथान्धा मानुषा लोके मूढाः पापविमोहिताः ॥ २४॥
वेदाहमेतं पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वातिमृत्युमेति
नान्यः पन्था विद्यते प्रायणाय ॥ २५॥
एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ।
कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ॥ २६॥
पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ।
सावधानतया देवि शृणुष्वैकाग्रमानसा ॥ २७॥
तुरीया देवि भूतानां योगिनां ध्यानिनां तथा ।
सुखासने यथास्थानं योगी नियतमानसः ॥ २८॥
समुन्नतशरीरोऽपि स बद्ध्वा करसम्पुटम् ।
चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैः शनैः ॥ २९॥
प्रस्रवन्ति क्षणादापस्तालुस्था जीवदायिकाः ।
ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम् ॥ ३०॥
पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ।
दिव्यकायो महातेजाः पिपासाक्षुद्विवर्जितः ॥ ३१॥
बलेन नागस्तुरगो जवेन
दृष्ट्या सुपर्णः सुश्रुतिस्तु दूरात् ।
आकुञ्चिताकुण्डलिकृष्णकेशो
गन्धर्वविद्याधरतुल्यवर्णः ॥ ३२॥
जीवेन्नरो वर्षशतं सुराणां
सुमेधसा वाक्पतिना समत्वम् ।
एवं चरन् खेचरतां प्रयाति
यथेष्टचारी सुखितः सदैव ॥ ३३॥
पुनरन्यत्प्रवक्ष्यामि विधानं यत्सुरैरपि ।
गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ॥ ३४॥
समाकुञ्च्याभ्यसेद्योगी रसनां तालुकं प्रति ।
किञ्चित्कालान्तरेणैव क्रमात्प्राप्नोति लम्बिकाम् ॥ ३५॥
ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ।
पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ॥ ३६॥
रेफाग्रं लम्बकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दो-
स्तेनाकृष्टा सुधेयं पतति परपदे देवतानन्दकारी ।
सारं संसारतारं कृतकलुषतरं कालतारं सतारं
येनेदं प्लाविताङ्गं स भवति न मृतः क्षुत्पिपासाविहीनः ॥ ३७॥
एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा
धैर्यान्नित्यं कुतोऽन्तः सकलमपि जगद्यत्सुखप्रापणाय ।
स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं
स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ॥ ३८॥
तस्मान्मन्त्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता
धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ।
भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां
तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम् ॥ ३९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवञ्चनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥ ५.२७॥
५.२८
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२८. अष्टाविंशोऽध्यायः । छायापुरुषदर्शनवर्णनम् ।
देव्युवाच ।
देवदेव महादेव कथितं कालवञ्चनम् ।
शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम् ॥ १॥
कथितं ते समासेन छायिकं ज्ञानमुत्तमम् ।
विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥ २॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि छायापुरुषलक्षणम् ।
यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ॥ ३॥
सूर्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ।
शुक्लाम्बरधरः स्त्रग्वी गन्धधूपादिवासितः ॥ ४॥
संस्मरेन्मे महामन्त्रं सर्वकामफलप्रदम् ।
नवात्मकं पिण्डभूतं स्वां छायां सन्निरीक्षयेत् ॥ ५॥
दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ।
स पश्यत्येकभावस्तु शिवं परमकारणम् ॥ ६॥
ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७॥
शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः ।
समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा ॥ ८॥
शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत् ।
रक्ते बन्धं विजानीयात्पीते विद्विषमादिशेत् ॥ ९॥
विवाहो बन्धुनाशः स्याद्द्वितुण्डे चैव क्षुद्भयम् ।
विकटौ नश्यते भार्या विजङ्घे धनमेव हि ॥ ५.२८.१०॥
पादाभावे विदेशः स्यादित्येतत्कथितं मया ।
तद्विचार्यं प्रयत्त्नेन पुरुषेण महेश्वरि ॥ ११॥
सम्यक्तं पुरुषं दृष्ट्वा सन्निवेश्यात्मनात्मनि ।
जपेन्नवात्मकं मन्त्रं हृदयं मे महेश्वरि ॥ १२॥
वत्सरे विगते मन्त्री तन्नास्ति यन्न साधयेत् ।
अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ॥ १३॥
पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ।
प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ॥ १४॥
अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ।
सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ॥ १५॥
ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ।
जननी सर्वविद्यानां गुप्तविद्येति गीयते ॥ १६॥
खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ।
दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ॥ १७॥
अवर्णा वर्णसंयुक्ता प्रोच्यते बिन्दुमालिनी ।
तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ॥ १८॥
सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम् ।
सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा ॥ १९॥
प्राप्नोत्यत्र न सन्देहः सत्यं वै कथितं मया ।
सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ॥ ५.२८.२०॥
सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान् ।
किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते ॥ २१॥
तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः ।
अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते ॥ २२॥
संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते ।
अभ्यासः सततं कार्यो धीमता मोक्षकारणम् ॥ २३॥
इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम् ।
किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते ॥ २४॥
सूत उवाच ।
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम् ।
प्रसन्नोऽभूदति व्यासः पाराशर्यो मुनीश्वराः ॥ २५॥
सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम् ।
व्यासः परमसन्तुष्टः प्रणनाम मुहुर्मुहुः ॥ २६॥
ततस्तुष्टाव तं व्यासः कालेयः स मुनीश्वरः ।
सनत्कुमारं मुनयः सुरविज्ञानसागरम् ॥ २७॥
व्यास उवाच ।
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ।
नमस्तेऽस्तु नमस्तेऽस्तु धन्यस्त्वं ब्रह्मवित्तमः ॥ २८॥
सूत उवाच ।
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ।
तूष्णीं बभूव सुप्रीतः परमानन्दनिर्भरः ॥ २९॥
ब्रह्मपुत्रस्तमामन्त्र्य पूजितस्तेन शौनकः ।
ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ॥ ५.२८.३०॥
इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ।
सनत्कुमारकालेयसंवादो ज्ञानवर्धनः ॥ ३१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥ ५.२८॥
५.२९
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.२९. एकोनत्रिंशोऽध्यायः । आदिसर्गवर्णनम् ।
शौनक उवाच ।
श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ।
सनत्कुमारकालेयसंवादं परमार्थदम् ॥ १॥
अतोऽहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ।
समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ॥ २॥
सूत उवाच ।
मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ॥ ३॥
यश्चैनां पाठयेत्तां च शृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ ४॥
प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ।
प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ॥ ५॥
स्रष्टारं सर्वभूतानां नारायणपरायणम् ।
तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ॥ ६॥
यस्मादकल्पयत्कल्पाः समग्राः शुचयो यतः ।
भवन्ति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ॥ ७॥
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ।
नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ॥ ८॥
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ।
तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ॥ ९॥
सोऽपि स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ ५.२९.१०॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ११॥
हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति विश्रुतः ॥ १२॥
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।
तदण्डमकरोद् द्वैधं दिवं भूमिं च निर्ममे ॥ १३॥
अधोऽधोर्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ।
तयोः शकलयोर्मध्य आकाशममृजत्प्रभुः ॥ १४॥
अप्सु परिप्लवां पृथ्वीं दिशश्च दशधा दधे ।
तत्र काले मनो वाचं कामक्रोधावथो रतिम् ॥ १५॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं तु महातेजाः सोऽसृजत्सप्त मानसान् ॥ १६॥
सप्त बह्माण इत्येते पुराणे निश्चयं गताः ।
ततोऽसृजत्पुनर्ब्रह्मा रुद्रान् क्रोधसमुद्भवान् ॥ १७॥
सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् ।
सप्त चैते प्रजायन्ते पश्चाद्रुद्राश्च सर्वतः ॥ १८॥
अतः सनत्कुमारस्तु तेजः सङ्क्षिप्य तिष्ठति ।
तेषां सप्त महावंशा दिव्या देवर्षिपूजिताः ॥ १९॥
प्रजायन्ते क्रियावन्तो महर्षिभिरलङ्कृताः ।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ ५.२९.२०॥
पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ २१॥
पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम ।
मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ।
प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥ २२॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥ २३॥
सृज्यमानाः प्रजाश्चैव नावर्धन्त यदा तदा ।
द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत् ॥ २४॥
ससृजेऽथ प्रजाः सर्वा महिम्ना व्याप्य विश्वतः ।
विराजमसृजद्विष्णुः स सृष्टः पुरुषं विराट् ॥ २५॥
द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च ।
स वैराजः प्रजाः सर्वाः ससर्ज पुरुषः प्रभुः ॥ २६॥
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः ।
आयुष्मान् कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः ॥ २७॥
इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम ।
आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम् ॥ २८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां आदिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ ५.२९॥
५.३०
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३०. त्रिंशोऽध्यायः । सर्गवर्णनम् १ ।
सूत उवाच ।
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १॥
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव महात्मा स शतरूपाप्यजायत ॥ २॥
सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३॥
स वै स्वायम्भुवो जज्ञे पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ ४॥
वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥ ५॥
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्त्रयस्त्वासन्संराट्साक्षिरविट्प्रभुः ॥ ६॥
उत्तानपादोऽजनयत्पुत्रान् शक्रसमान् प्रभुः ।
ध्रुवं च तनयं दिव्यमात्मानन्दसुवर्चसम् ॥ ७॥
धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ।
उत्पन्ना चापि धर्मेण ध्रुवस्य जननी तथा ॥ ८॥
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ।
तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥ ९॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ ५.३०.१०॥
तस्मात् पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ।
पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥ ११॥
रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् ।
रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥ १२॥
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ।
मनोरजायन्त दश नड्वलायां महौजसः ॥ १३॥
कन्यायां हि मुनिश्रेष्ठ वैराजस्य प्रजापतेः ।
पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥ १४॥
अग्निष्टोमोऽतिरात्रश्चातिमन्युः सुयशा दश ।
पूरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् ॥ १५॥
अङ्गं सुमनसं ख्यातिं सृतिमङ्गिरसं गयम् ।
अङ्गात्सुनीथा भार्या वै वेनमेकमसूयत ॥ १६॥
अपचारेण वेनस्य कोपस्तेषां महानभूत् ।
हुङ्कारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः ॥ १७॥
अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया ।
सारस्वतास्तदा तस्य ममन्थुर्दक्षिणं करम् ॥ १८॥
वेनस्य पाणौ मथिते सम्बभूव ततः पृथुः ।
स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥ १९॥
अवतारः स विष्णोर्हि प्रजापालनहेतवे ।
धर्मसंरक्षणार्थाय दुष्टानां दण्डहेतवे ॥ ५.३०.२०॥
पृथुर्वैन्यस्तदा पृथ्वीमरक्षत्क्षत्रपूर्वजः ।
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २१॥
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥ २२॥
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुररक्षसाम् ।
मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥ २३॥
पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ।
विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥ २४॥
शिखण्डिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ।
प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः ॥ २५॥
समुद्रतनया तेन धर्मतः सुविवाहिता ।
रेजेऽधिकतरं राजा कृतदारो महाप्रभुः ॥ २६॥
समुद्रतनयायास्तु दश प्राचीनबर्हिषः ।
बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥ २७॥
सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ।
अपृथग्धर्माचरणास्तेऽतप्यन्त महत्तपः ॥ २८॥
दशवर्षसहस्राणि समुद्रसलिलेशयाः ।
रुद्रगीतं जपन्तश्च शिवध्यानपरायणाः ॥ २९॥
तपश्चरत्सु पृथ्व्यामभवंश्च महीरुहाः ।
अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ॥ ५.३०.३०॥
तान् दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ।
चुक्रुधुर्मुनिशार्दूल दग्धुकामास्तपोबलाः ॥ ३१॥
प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ।
वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ॥ ३२॥
वृक्षक्षयं ततो दृष्ट्वा किञ्चिच्छेषेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रतापवान् ॥ ३३॥
सोम उवाच ।
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ॥ ३४॥
भविष्यं जानता सा तु धृता गर्भेण वै मया ।
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ ३५॥
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ।
सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः ॥ ३६॥
युष्माकं तेजसार्धेन मम चानेन तेजसा ।
ब्रह्मतेजोमयो भूपः प्रजाः संवर्धयिष्यति ॥ ३७॥
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
भार्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ॥ ३८॥
तेभ्यस्तस्यास्तु सञ्जज्ञे दक्षो नाम प्रजापतिः ।
सोऽपि जज्ञे महातेजाः सोमस्यांशेन वै मुने ॥ ३९॥
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ॥ ५.३०.४०॥
वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ।
उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥ ४१॥
हर्यश्वानयुतं तस्यां सुतान् पुण्यानजीजनत् ।
ते विरक्ता बभूवुश्च नारदस्योपदेशतः ॥ ४२॥
तच्छुत्वा स पुनर्दक्षः सुबलाश्वानजीजनत् ।
नामतस्तनयांस्तस्यां सहस्रपरिसङ्ख्यया ॥ ४३॥
तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ।
नागमन् पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ॥ ४४॥
तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुःसहं ददौ ।
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ ४५॥
सान्त्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ।
महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ॥ ४६॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ ४७॥
द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ।
शिष्टाः सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ॥ ४८॥
ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ।
बहवस्तनयाः ख्यातास्तैः सर्वैः पूरितं जगत् ॥ ४९॥
ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ ५.३०.५०॥
शौनक उवाच ।
अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा ।
कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ॥ ५१॥
एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ।
चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ॥ ५२॥
सूत उवाच ।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ।
कल्पे कल्पे भवन्त्येते सर्वे दक्षादयो मुने ॥ ५३॥
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।
प्रजावानायुषा पूर्णः स्वर्गलोके महीयते ॥ ५४॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥ ५.३०॥
५.३१
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३१. एकत्रिंशोऽध्यायः । सर्गवर्णनम् २ ।
शौनक उवाच ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ॥ १॥
सूत उवाच ।
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ।
सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ॥ २॥
स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ।
ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः ॥ ३॥
तस्यां पुत्रसहस्राणि वीरिण्यां पञ्च वीर्यवान् ।
आश्रित्य जनयामास दक्ष एव प्रजापतिः ॥ ४॥
एतान् सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः ।
सत्रे स तु समुत्पन्नो नारदः परमेष्ठिनः ॥ ५॥
श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ।
दक्षस्यैव दुहितृषु तस्मात्तानब्रवीत्तु सः ॥ ६॥
अजानन्तः कथं सृष्टिं बालिशा वै करिष्यथ ।
दिशं काञ्चिदजानन्तस्तस्माद्विज्ञाय तां भुवम् ॥ ७॥
इत्युक्ताः प्रययुः सर्वे आशां विज्ञातुमोजसा ।
तदन्तं न हि सम्प्राप्य न निवृत्ताः पितुर्गृहम् ॥ ८॥
तज्ज्ञात्वा जनयामास पुनः पञ्चशतान् सुतान् ।
तानुवाच पुनः सोऽपि नारदः सर्वदर्शनः ॥ ९॥
नारद उवाच ।
भुवो मानमजानन्तः कथं सृष्टिं करिष्यथ ।
सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ॥ ५.३१.१०॥
सूत उवाच ।
तेऽपि तद्वचनं श्रुत्वा निर्याताः सर्वतोदिशम् ।
सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ॥ ११॥
अनन्तं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १२॥
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयातो नश्यति मुने तन्न कार्यं विपश्चिता ॥ १३॥
तांश्चापि नष्टान् विज्ञाय पुत्रान्दक्षः प्रजापतिः ।
स च क्रोधाद्ददौ शापं नारदाय महात्मने ॥ १४॥
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ।
तव सान्निध्यतो लोके भवेच्च कलहः सदा ॥ १५॥
सान्त्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः ।
कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम् ॥ १६॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १७॥
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १८॥
अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती ।
सङ्कल्पा च मुहूर्ता च सन्ध्या विश्वा च वै मुने ॥ १९॥
धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वायाः साध्यान्साध्या व्यजायत ॥ ५.३१.२०॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ।
भानोस्तु भानवः सर्वे मुहूर्तायां मुहूर्तजाः ॥ २१॥
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवीविषमस्तस्यामरुन्धत्यामजायत ॥ २२॥
सङ्कल्पायास्तु सत्यात्मा जज्ञे सङ्कल्प एव हि ।
अयादयो वसोः पुत्रा अष्टौ तान् शृणु शौनक ॥ २३॥
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवाऽष्टौ च नामतः ॥ २४॥
अयस्य पुत्रो वैतण्डः श्रमः शान्तो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकभावनः ॥ २५॥
सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ॥ २६॥
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ।
अनिलस्य शिवा भार्या यस्याः पुत्राः पुरोजवः ॥ २७॥
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ।
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते ॥ २८॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ।
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥ २९॥
प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः ।
द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ ॥ ५.३१.३०॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नं समन्ताद्व्यचरत्तदा ॥ ३१॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ।
विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः ॥ ३२॥
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥ ३३॥
यः सर्वासां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ३४॥
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ॥ ३५॥
सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः ।
तत्रैकादशमुख्यास्तु तन्नामानि मुने शृणु ॥ ३६॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ ३७॥
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ३८॥
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
शृणु कश्यपपत्नीनां नामानि मुनिसत्तम ॥ ३९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकत्रिंशोऽध्यायः ॥ ५.३१॥
५.३२
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३२. द्वात्रिंशोऽध्यायः । कश्यपवंशवर्णनम् १ ।
सूत उवाच ।
अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च ।
सुरभिर्विनता चैव ताम्रा क्रोधवशा खशा ॥ १॥
कद्रूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु ।
पूर्वमन्वन्तरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ॥ २॥
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ।
उपस्थिते सुयशसश्चाक्षुषस्यान्तरे मनोः ॥ ३॥
हिताय सर्वलोकानां समागम्य परस्परम् ।
आगच्छत द्रुतं देवा अदितिं च प्रविश्य वै ॥ ४॥
मन्वन्तरे प्रसूयामः सतां श्रेयो भविष्यति ।
एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ ५॥
मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया ।
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ॥ ६॥
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ।
विवस्वान् सविता चैव मित्रावरुण एव च ॥ ७॥
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ।
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ॥ ८॥
पुरैव तस्यान्तरे तु आदित्या द्वादश स्मृताः ।
इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ॥ ९॥
सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।
तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ ५.३२.१०॥
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ११॥
कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः ।
भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ॥ १२॥
स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ।
स्वधासूत पितॄन् वेदमथर्वाङ्गिरसं सती ॥ १३॥
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ॥ १४॥
यथा सूर्यस्य नित्यं हि उदयास्तमयाविह ।
एवं देवानिकास्ते च सम्भवन्ति युगे युगे ॥ १५॥
दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥ १६॥
सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः ।
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ १७॥
अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् ।
प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः ॥ १८॥
अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा ।
ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ॥ १९॥
संह्रादस्य कृतिर्भार्यासूत पञ्चजनं ततः ।
विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद् बलिः ॥ ५.३२.२०॥
बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर ।
बलिरासीन्महाशैवः शिवभक्तिपरायणः ॥ २१॥
दानशील उदारश्च पुण्यकीर्तितपाः स्मृतः ।
तत्पुत्रो बाणनामा यः सोऽपि शैववरः सुधीः ।
यः सन्तोष्य शिवं सम्यग्गाणपत्यमवाप ह ॥ २२॥
सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः ।
कृष्णं यः समरे वीरः सुप्रसन्नं चकार ह ॥ २३॥
हिरण्याक्षसुताः पञ्च पण्डिताः सुमहाबलाः ।
कुकुरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ २४॥
महानादश्च विक्रान्तः कालनाभस्तथैव च ।
इत्युक्ता दितिपुत्राश्च दनोः पुत्रान् मुने शृणु ॥ २५॥
अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ।
अयोमुखः शम्बरश्च कपोलो वामनस्तथा ॥ २६॥
वैश्वानरः पुलोमा च विद्रावणमहाशिरौ ।
स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ॥ २७॥
एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे ।
एषां पुत्रीः शृणु मुने प्रसङ्गाद्वच्मि तेऽनघ ॥ २८॥
स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ।
उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥ २९॥
पुलोमिका पुलोमा च वैश्वानरसुते उभे ।
बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहा त् ॥ ५.३२.३०॥
तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ।
मरीचिर्जनयामास महता तपसान्विताः ॥ ३१॥
पौलोमाः कालखञ्जाश्च दानवानां महाबलाः ।
अवध्या देवतानां च हिरण्यपुरवासिनः ॥ ३२॥
पितामहप्रसादेन ये हताः सव्यसाचिना ।
सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा ॥ ३३॥
दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।
सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥ ३४॥
राहुः शल्यो सुबलिनो बलश्चैव महाबलः ।
वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ॥ ३५॥
अजिको नरकश्चैव कालनाभस्तथैव च ।
शरमाणः शरः कल्प एते वंशविवर्धनाः ॥ ३६॥
एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः ।
बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः ॥ ३७॥
संह्रादस्य तु दैतेया निवातकवचाः कुले ।
उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ॥ ३८॥
षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः ।
काकी श्येनी च भासी च सुग्रीवी च शुकी तथा ॥ ३९॥
गृध्रिकाश्वी ह्युलूकी च ताम्राकन्याः प्रकीर्तिताः ।
काकी काकानजनयदुलूकी प्रत्युलूककान् ॥ ५.३२.४०॥
श्येनी श्येनांस्तथा भासी भासान्गृद्धी तु गृध्रकान् ।
शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ॥ ४१॥
अश्वानुष्ट्रान् गर्दभांश्च ताम्रा च कश्यपप्रिया ।
जनयामास चेत्येवं ताम्रावंशः प्रकीर्तितः ॥ ४२॥
विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा ।
सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥ ४३॥
सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ।
अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ ४४॥
येषां प्रधाना राजानः शेषवासुकितक्षकाः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ ४५॥
ऐलापत्रस्तथा पद्मः कर्कोटकधनञ्जयौ ।
महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ॥ ४६॥
कुहरः पुष्पदन्तश्च दुर्मुखः सुमुखस्तथा ।
बहुशः खररोमा च पाणिरित्येवमादयः ॥ ४७॥
गणाः क्रोधवशायाश्च तस्याः सर्वे च दंष्ट्रिणः ।
अण्डजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ॥ ४८॥
अनायुषायाः पुत्राश्च पञ्चाशच्च महाबलाः ।
अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ॥ ४९॥
शशांस्तु जनयामास सुररभिर्महिषांस्तथा ।
इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ॥ ५.३२.५०॥
खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।
अरिष्टासूत सर्पांश्च प्रभा वै मानवोत्तमान् ॥ ५१॥
एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर ।
येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ५२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ५.३२॥
५.३३
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३३. त्रयस्त्रिंशत्तमोऽध्यायः । कश्यपवंशवर्णनम् २ ।
सूत उवाच ।
एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ।
वैवस्वते तु महति वारुणे वित ते क्रतौ ॥ १॥
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।
पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान् सप्त मानसान् ॥ २॥
पुत्रान्वै कल्पयामास स्वयमेव पितामहः ।
तेषां विरोधो देवानां दानवानां महाॠषे ॥ ३॥
दितिर्विनष्टपुत्रा तु कश्यपं समुपस्थिता ।
स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ॥ ४॥
वरेणच्छन्दयामास सा च वव्रे वरं तदा ।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ५॥
स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ।
ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ॥ ६॥
धारयामास गर्भं तु शुचिः सा वरवर्णिनी ।
ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ॥ ७॥
ततस्त्वाधाय सो दित्यां गर्भं तं शंसितव्रतः ।
जगाम कश्यपस्तप्तुं तपः संहृष्टमानसः ॥ ८॥
तस्याश्चैवान्तरं प्रेप्सुः सोऽभवत्पाकशासनः ।
ऊनवर्षे शते चास्या ददर्शान्तरमेव सः ॥ ९॥
अकृत्वा पादयोः शौचं दितिरर्वाक्षिरास्तदा ।
निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ॥ ५.३३.१०॥
एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।
वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥ ११॥
स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः ।
चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ॥ १२॥
ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो मुने ।
नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ॥ १३॥
इन्द्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ।
तत्यजुर्द्दैत्यभावं ते विप्रर्षे शङ्करेच्छया ॥ १४॥
मरुतो नाम ते देवा बभूवुः सुमहाबलाः ।
खगा एकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ १५॥
तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ।
क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत् ॥ १६॥
अरिष्टः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ॥ १७॥
भूतसर्गमिमं सम्यगवोचं ते महामुने ।
विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ॥ १८॥
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १९॥
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ५.३३.२०॥
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ २१॥
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ २२॥
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ २३॥
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ २४॥
शैलानां हिमवन्तं च नदीनामथ सागरम् ।
मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥ २५॥
वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ।
इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ॥ २६॥
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।
स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ॥ २७॥
तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ।
दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ॥ २८॥
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ॥ २९॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ॥ ५.३३.३०॥
तस्य विस्तारमाख्यातं पृथोर्वैन्यस्य शौनक ।
महर्ध्यै तदधिष्ठानं पुराणं परिकीर्तितम् ॥ ३१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कश्यपवंशवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ५.३३॥
५.३४
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३४. चतुस्त्रिंशोऽध्यायः । सर्वमन्वतरानुर्कार्तनम् ।
शौनक उवाच ।
मन्वन्तराणि सर्वाणि विस्तरेणानुकीर्तय ।
यावन्तो मनवश्चैव श्रोतुमिच्छामि तानहम् ॥ १॥
सूत उवाच ।
स्वायम्भुवो मनुश्चैव ततः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २॥
एते च मनवः षट् ते सम्प्रोक्ता मुनिपुङ्गव ।
वैवस्वतो मुनिश्रेष्ठ साम्प्रतं मनुरुच्यते ॥ ३॥
सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ।
तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४॥
तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ।
देवसावर्णिराख्यात इन्द्रसावर्णिरेव च ॥ ५॥
अतीता वर्तमानाश्च तथैवानागताश्च ये ।
कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः ॥ ६॥
मुने चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्ययः ॥ ७॥
ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान् देवगणांस्तथा ।
शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ॥ ८॥
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ९॥
उत्तरस्यां दिशि तथा मुने सप्तर्षयस्तथा ।
यामा नाम तथा देवा आसन्स्वायम्भुवेऽन्तरे ॥ ५.३४.१०॥
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान्धृतिमान्हव्यः सवनः शुभ्र एव च ॥ ११॥
स्वायम्भुवस्य पुत्रास्ते मनोर्दश महात्मनः ।
कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ॥ १२॥
प्रथमं कथितं तात दिव्यं मन्वतरं तथा ।
द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ॥ १३॥
ऊर्जस्तम्भः परस्तम्भ ऋषभो वसुमांस्तथा ।
ज्योतिष्मान् द्युतिमांश्चैव रोचिष्मान् सप्तमस्तथा ॥ १४॥
एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ॥ १५॥
हरिघ्नः सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ।
प्रथितश्च मनस्युश्च नभः सूर्यस्तथैव च ॥ १६॥
स्वारोचिषस्य पुत्रास्ते मनोर्दश महात्मनः ।
कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ॥ १७॥
द्वितीयमेतत्कथितं मुने मन्वन्तरं मया ।
तृतीयं तव वक्ष्यामि तन्निबोध यथातथम् ॥ १८॥
वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ॥ १९॥
ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे ।
औत्तमेया ऋषिश्रेष्ठ दश पुत्रा मनोः स्मृताः ॥ ५.३४.२०॥
इष ऊर्जित ऊर्जश्च मधुर्माधव एव च ।
शुचिः शुक्रवहश्चैव नभसो नभ एव च ॥ २१॥
ऋषभस्तत्र देवाश्च सत्यवेदश्रुतादयः ।
तत्रेन्द्रः सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ॥ २२॥
तृतीयमेतत्परमं मन्वतरमुदाहृतम् ।
मन्वतरं चतुर्थं ते कथयामि मुने शृणु ॥ २३॥
गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ।
कपीवान् सप्त ऋषयः सत्या देवगणास्तथा ॥ २४॥
तत्रेन्द्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ।
द्यूतिपोतः सौतपस्यस्तपः शूलश्च तापनः ॥ २५॥
तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ।
तामसस्य स्मृता एते दश पुत्रा महाव्रताः ॥ २६॥
तामसस्यान्तरं चैव मनोर्मे कथितं तव ।
चतुर्थं पञ्चमं तात शृणु मन्वन्तरं परम् ॥ २७॥
देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा ।
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ॥ २८॥
सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे ।
देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ॥ २९॥
तत्रेन्द्रो विभुनामा च त्रैलोक्याधिपतिस्तथा ।
रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ॥ ५.३४.३०॥
अर्जुनः पङ्क्तिविन्ध्यो वा दयायास्तनयामुने ।
महता तपसा युक्ता मेरुपृष्ठे वसन्ति हि ॥ ३१॥
रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः ।
भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ॥ ३२॥
अनागताश्च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः ।
अनागताश्च सप्तैव स्मृता दिवि महर्षयः ॥ ३३॥
कश्यपोऽत्रिर्वसिष्टश्च विश्वामित्रोऽथ गौतमः ।
जमदग्नीभरद्वाजः सत्रैते ॠष्यः स्मृताः ॥ ३४॥
रामो व्यासस्तथात्रेयो दीप्तिमान्सुबहुश्रुतः ।
भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ३५॥
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।
कौशिको गालवश्चैव रुरुः कश्यप एव च ॥ ३६॥
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
देवाश्चानागतास्तत्र त्रयः प्रोक्ताः स्वयम्भुवा ॥ ३७॥
मारीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ ३८॥
विषांङ्गश्चावनीवांश्च सुमन्तो धृतिमान्वसुः ।
सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ॥ ३९॥
सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक ।
इहाष्टमं हि कथितं नवमं चान्तरं शृणु ॥ ५.३४.४०॥
प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं शृणु ।
मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ॥ ४१॥
ज्योतिष्मान् भार्गवश्चैव धृतिमानङ्गिरास्तथा ।
सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ॥ ४२॥
पुलहः सप्त इत्येते ऋषयो रौहितेऽन्तरे ।
देवतानां गणास्तत्र त्रय एव महामुने ॥ ४३॥
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
धृष्टकेतुर्दीप्तकेतुः पञ्चहस्तो निराकृतिः ॥ ४४॥
पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः ।
प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः ॥ ४५॥
दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः ।
हविष्मान् पौलहश्चैव प्रकृतिश्चैव भार्गवः ॥ ४६॥
आपोमुक्तिस्तथात्रेयो वासिष्ठश्चाव्ययः स्मृतः ।
पौलस्त्यः प्रयतिश्चैव भामारश्चैव काश्यपः ॥ ४७॥
अङ्गिरानेनसः सत्यः सप्तैते परमर्षयः ।
देवतानां गणाश्चापि द्विषिमन्तश्च ये स्मृताः ॥ ४८॥
तेषामिन्द्रः स्मृतः शम्भुस्त्वयमेव महेश्वरः ।
अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ॥ ४९॥
शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोः सुताः ॥ ५.३४.५०॥
एकादशे तु पर्याये तृतीयस्यान्तरे मनोः ।
तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ॥ ५१॥
हविष्मान् कश्यपश्चापि वपुष्मांश्चैव वारुणः ।
आत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वङ्गिरास्तथा ॥ ५२॥
चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः ।
सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणाः स्मृताः ॥ ५३॥
ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः ।
सर्वगश्च सुशर्मा च देवानीकस्तु क्षेमकः ॥ ५४॥
दृढेषुः खण्डको दर्शः कुहुर्बाहुर्मनोः स्मृताः ।
सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥ ५५॥
चतुर्थस्य तु सावर्णेरृषीन्सप्त निबोध मे ।
द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ ५६॥
अङ्गिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा ।
तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ॥ ५७॥
भार्गवः सप्तमस्तेषां विज्ञेयः तपसो निधिः ।
पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणः सुताः ॥ ५८॥
ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी ।
द्वादशे चैव पर्याये भाव्ये रौच्यान्तरे मुने ॥ ५९॥
अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यवांस्तु यः ।
पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ॥ ५.३४.६०॥
निष्प्रपञ्चस्तथात्रेयो निर्देहः कश्यपस्तथा ।
सुतपाश्चैव वासिष्ठः सप्तैवैते महर्षयः ॥ ६१॥
त्रय एव गणाः प्रोक्ता देवतानां स्वयम्भुवा ।
दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च ॥ ६२॥
नयो धर्मो धृतोन्ध्रश्च सुनेत्रः क्षत्रवृद्धकः ।
निर्भयः सुतपा द्रोणो मनो रौच्यस्य ते सुताः ॥ ६३॥
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्
चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ६४॥
देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्युषयस्तदा ॥ ६५॥
चतुर्दशे तु पर्याये भौत्यस्यैवान्तरे मनोः ।
आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥ ६६॥
भार्गवोऽप्यतिवाह्यश्च शुचिराङ्गिरसस्तथा ।
युक्तश्चैव तथात्रेयः शुक्रो वाशिष्ठ एव च ॥ ६७॥
अजितः पुलहश्चैव ह्यन्त्याः सप्तर्षयश्च ते ।
पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ॥ ६८॥
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।
अतीतानागतानां वै महर्षीणां नरैः सदा ॥ ६९॥
देवतानां गणाः प्रोक्ताः शृणु पञ्च महामुने ।
तुरङ्गभीरुर्बुध्नश्च तनुग्रोऽनुग्र एव च ॥ ५.३४.७०॥
अतिमानी प्रवीणश्च विष्णुः सङ्क्रन्दनस्तथा ।
तेजस्वी सबलश्चैव भौत्यस्त्वेते मनोः सुता ॥ ७१॥
भौमस्यैवाधिकारे वै पूर्णे कल्पस्तु पूर्यते ।
इत्येतेऽनागतातीता मनवः कीर्तिता मया ॥ ७२॥
उक्ताः सनत्कुमारेण व्यासायामिततेजसा ।
पूर्णे युगसहस्रान्ते परिपाल्य स्वधर्मतः ॥ ७३॥
प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजन्ति ते ।
युगानि सप्रतिस्त्वेकं साग्राण्यन्तरमुच्यते ॥ ७४॥
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ।
मन्वन्तरेषु सर्वेषु संहारान्ते पुनर्भवः ॥ ७५॥
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ।
पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ॥ ७६॥
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।
ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ॥ ७७॥
प्रविशन्ति सुरश्रेष्ठ हरिं नारायणं परम् ।
स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनःपुनः ॥ ७८॥
भूयोऽपि भगवान् रुद्रः संहर्ता काल एव हि ।
कल्पान्ते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ॥ ७१॥
इति ते कथितं सर्वं मन्वन्तरसमुद्भवम् ।
विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ॥ ५.३४.८०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ५.३४॥
५.३५
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३५. पचत्रिंशोऽध्यायः । मन्वन्तरकीर्तने वैवस्वतवर्णनम् ।
सूत उवाच ।
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ।
तस्य भार्याभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ॥ १॥
मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ।
भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी ॥ २॥
आदित्यस्य हि तद्रूपमसहिष्णुः सुतेजसः ।
दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ॥ ३॥
ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ।
संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ॥ ४॥
यमश्च यमुना चैव यमलौ सम्बभूवतुः ।
एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्यतः ॥ ५॥
संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती ततश्छायामात्मनः सासृजच्छुभाम् ॥ ६॥
मायामयी तु सा संज्ञामवोचद्भक्तितः सुभे ।
किं करोमीह कार्यं ते कथयस्व शुचिस्मिते ॥ ७॥
संज्ञोवाच
अहं यास्यामि भद्रं ते ममैव भवनं पितुः ।
त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ॥ ८॥
इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ।
पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम् ॥ ९॥
छायोवाच ।
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ।
नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥ ५.३५.१०॥
सूत उवाच ।
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ।
पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ॥ ११॥
अगच्छद्वडवा भूत्वाच्छाद्य रूपं ततः स्वकम् ।
कुरुंस्तदोत्तरान् प्राप्य नृणान्येव चचार ह ॥ १२॥
संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ।
जनयामास सावर्णिं मनुं वै सविता किल ॥ १३॥
संज्ञानु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ॥ १४॥
मनुस्तस्याक्षमत्तं यमस्तं नैव चक्षमे ।
स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ॥ १५॥
छायां सन्तर्जयामास पदा वैवस्वतो यमः ।
तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ॥ १६॥
चरणः पततामेष तवेति भृशरोषतः ।
यमस्ततः पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ॥ १७॥
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विचेष्टितः ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ १८॥
स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा ।
तस्मान्मयोद्यतः पादस्तद्भवान् क्षन्तुमर्हति ॥ १९॥
शप्तोऽहमस्मि देवेश जनन्या तपतांवर ।
तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ ५.३५.२०॥
सवितोवाच ।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ २१॥
न शक्यते तन्मिथ्या वै कर्तुं मातृवचस्तव ।
कृमयो मांसमादाय गमिष्यन्ति महीतले ॥ २२॥
तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ।
कुरु तात न सन्देहं मनश्चाश्वास्य स्वं प्रभो ॥ २३॥
सूत उवाच ।
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ।
आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ॥ २४॥
सूर्य उवाच ।
हे प्रिये कुमते चण्डि किं त्वयाचरितं किल ।
किन्तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ॥ २५॥
सूत उवाच ।
सा रवेर्वचनं श्रुत्वा यथातथ्यं न्यवेदयत् ।
निर्दग्धा कामरविणा सान्त्वयामास वै तदा ॥ २६॥
तस्यास्तद् वचनं श्रुत्वा सूर्याऽगात्तवष्टुरन्तिकम्
पप्रच्छ तं क्व संज्ञेति त्वष्टा सूर्यमथाब्रवीत् ॥ २७॥
त्वष्टोवाच ।
तवातितेजसा दग्धा इदं रूपं न शोभते ।
असहन्ती च तत्संज्ञा वने वसति शाद्वले ॥ २८॥
श्लाघ्या योगबलोपेता योगमासाद्य गोपते ।
अनुकूलस्तु देवेश सन्दिश्यात्ममयं मतम् ॥ २९॥
रूपं निवर्तयाम्यद्य तव कान्तं करोम्यहम् ।
सूत उवाच ।
तच्छ्रुत्वापगतः क्रोधो मार्तण्डस्य विवस्वतः ॥ ५.३५.३०॥
भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः ।
ततो विभ्राजितं रूपं तेजसा संवृतेन च ॥ ३१॥
कृतं कान्ततरं रूपं त्वष्ट्रा तच्छुशुभे तदा ।
ततोऽधियोगमास्थाय स्वां भार्यां हि ददर्श ह ॥ ३२॥
अधृष्यां सर्वभूतानां तेजसा नियमेन च ।
सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया ॥ ३३॥
मैथुनाय विचेष्टन्तीं परपुंसोऽभिशङ्कया ।
मुखतो नासिकायां तु शुक्रं तद्व्यदधान्मुने ॥ ३४॥
देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ ।
नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि ॥ ३५॥
तां तु कान्तेन रूपेण दर्शयामास भास्करः ।
आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात् ॥ ३६॥
पत्या तेन गृहं प्रागात्स्वं सती मुदितानना ।
मुमुदातेऽथ तौ प्रीत्या दम्पती पूर्वतोधिकम् ॥ ३७॥
यमस्तु कर्मणा तेन भृशं पीडितमानसः ।
धर्मेण रञ्जयामास धर्मराज इमा प्रजाः ॥ ३८॥
लेभे स कर्मणा तेन धर्मराजो महाद्युतिः ।
पितॄणामाधिपत्यं च लोकपालत्वमेव च ॥ ३९॥
मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनः ।
भाव्यः स कर्मणा तेन मनोः सावर्णिकेऽन्तरे ॥ ५.३५.४०॥
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ।
यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥ ४१॥
अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी ।
मनुरित्युच्यते लोके सावर्णिरिति चोच्यते ॥ ४२॥
य इदं जन्म देवानां शृणुयाद्धारयेत्तु वा ।
आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः ॥ ४३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः ॥ ५.३५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३६. षट्त्रिंशोऽध्यायः । मनुनवपुत्रवंशवर्णनम् ।
सूत उवाच ।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ।
पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः ॥ १॥
इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः ॥ २॥
अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ।
अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुङ्गवः ॥ ३॥
सा हि दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता ॥ ४॥
तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ।
अनुगच्छस्व मामेति तमिडा प्रत्युवाच ह ॥ ५॥
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।
इडोवाच ।
मित्रावरुणयोरंशैर्जातास्मि वदतां वर ॥ ६॥
तयोः सकाशं यास्यामि न मेऽधर्मे रुचिर्भवेत् ।
एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ॥ ७॥
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ।
अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ॥ ८॥
आगता भवतोरन्ति ब्रूतं किं करवाणि वाम् ।
अन्यान् पुत्रान् सृज विभो तैर्वंशस्ते भविष्यति ॥ ९॥
सूत उवाच ।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम् ।
मित्रावरुणनामानौ मुनी ऊचतुरादरात् ॥ १०॥
मित्रावरुणावूचतुः ।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ॥ ११॥
आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ।
मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि ॥ १२॥
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ।
जगत्प्रियो धर्मशीलौ मनुवंशविवर्धनः ॥ १३॥
सूत उवाच ।
निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिके ।
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥ १४॥
सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ।
पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशीपतिरुन्नतः ॥ १५॥
जनयित्वा च सा तत्र पुरूरवसमादरात् ।
पुत्रं शिवप्रसादात्तु पुनः सुद्युम्नतां गतः ॥ १६॥
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।
उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ॥ १७॥
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमा ।
दिक्पूर्वा मुनिशार्दूल गयस्य तु गया स्मृता ॥ १८॥
प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ।
दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीमिमाम् ॥ १९॥
इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान् ।
वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः ॥ २०॥
प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोऽथ ततो ददौ ।
तत्पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ २१॥
मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ।
नरिष्यन्ताच्छकाः पुत्रा नभगस्य सुतोऽभवत् ॥ २२॥
अम्बरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ।
शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥ २३॥
पुत्रः सुकन्या कन्या च या पत्नी च्यवनस्य हि ।
आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ॥ २४॥
आनर्तविषये यस्य पुरी नाम कुशस्थली ।
महादिव्या सप्तपुरीमध्ये या सप्तमी मता ॥ २५॥
तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ।
तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः ॥ २६॥
ककुद्मिनस्तु सञ्जाता रेवती नाम कन्यका ।
महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ॥ २७॥
प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ।
ब्रह्मलोके विधेः सम्यक्सर्वाधीशो जगाम ह ॥ २८॥
आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ।
शुश्राव तत्र गान्धर्वं नर्तने ब्रह्मणोऽन्तिके ॥ २९॥
मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ।
न किञ्चिद् बुबुधे राजा ककुद्मी मुनयः स तु ॥ ३०॥
तदासौ विधिमानम्य स्वाभिप्रायं कृताञ्जलिः ।
न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने ॥ ३१॥
तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ।
ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ॥ ३२॥
ब्रह्मोवाच ।
शृणु राजन् रैभ्यसुत ककुद्मिन् पृथिवीपते ।
मद्वचः प्रीतितः सत्यं प्रवक्ष्यामि विशेषतः ॥ ३३॥
कालेन संहृतास्ते वै वरा ये ते कृता हृदि ।
न तद्गोत्रं हि तत्रास्ति कालः सर्वस्य भक्षकः ॥ ३४॥
त्वत्पुर्यपि हता पुण्यजनैः सा राक्षसैर्नृप ।
अष्टाविंशद्वापरेऽद्य कृष्णेन निर्मिता पुनः ॥ ३५॥
कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ।
भोजवृष्ण्यन्धकैर्गुप्ता वासुदेवपुरोगमैः ॥ ३६॥
तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ।
बलदेवाय देहि त्वमिमां स्वतनयां नृप ॥ ३७॥
सूत उवाच ।
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ।
गतान् बहून्युगान् ज्ञात्वा विस्मितः कन्यया युतः ॥ ३८॥
ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ।
कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ॥ ३९॥
ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ।
शिवमाराधयामास स नृपस्तपसि स्थितः ॥ ४०॥
ऋषय ऊचुः ।
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ।
युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ॥ ४१॥
सूत उवाच ।
न जरा क्षुत्पिपासा वा विकारास्तत्र सन्ति वै ।
अपमृत्युर्न केषाञ्चिन्मुनयो ब्रह्मणोंऽतिके ॥ ४२॥
अतो न राजा सम्प्राप जरां मृत्युं च सा सुता ।
स युवैवागतस्तत्र सम्मन्त्र्य तनयावरम् ॥ ४३॥
गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ।
विवाहं कारयामास कन्यायाः स बलेन हि ॥ ४४॥
तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभोः ।
कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः ॥ ४५॥
अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ।
क्षत्रिया दिक्षु सर्वासु गता हृष्टाः सुधार्मिकाः ॥ ४६॥
इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ।
मानवानां हि सङ्क्षेपाच्छृणुतादरतो द्विजाः ॥ ४७॥
नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ।
स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः ॥ ४८॥
धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ४९॥
नृगो यो मनुपुत्रस्तु महादाता विशेषतः ।
नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ॥ ५०॥
गोदानव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ।
कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ॥ ५१॥
तस्यैकोऽभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ।
इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ॥ ५२॥
वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।
पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ५३॥
स एकदागतं गोष्ठे व्याघ्रं गा हिंसितुं बली ।
श्रुत्वा गोक्रन्दनं बुद्धो हन्तुं तं खड्गधृग्ययौ ॥ ५४॥
अजानन्नहनद्बभ्रोः शिरः शार्दूलशङ्कया ।
निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ॥ ५५॥
मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ।
रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ॥ ५६॥
व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ।
अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ॥ ५७॥
श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ।
अकामतो विचार्येति शूद्रो भव न क्षत्रियः ॥ ५८॥
एवं शप्तस्तु गुरुणा कुलाचार्येण कोपतः ।
निःसृतश्च पृषध्रस्तु जगाम विपिनं महत् ॥ ५९॥
निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान् ।
वनाग्नौ दग्धदेहश्च जगाम परमां गतिम् ॥ ६०॥
कविः पुत्रो मनोः प्राज्ञः शिवानुग्रहतोऽभवत् ।
इह भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम् ॥ ६१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ५.३६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३७. सप्तत्रिंशोऽध्यायः । मनुवंशवर्णनम् ।
सूत उवाच ।
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ १॥
तेषां पुरस्तादभवन्नार्यावर्ते नृपा द्विजाः ।
तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत् ॥ २॥
तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः ।
श्राद्धकर्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ॥ ३॥
भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः ।
इक्ष्वाकुणा परित्यक्तः शशादो वनमाविशत् ॥ ४॥
इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत् ।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः ॥ ५॥
उत्तरापथदेशस्य रक्षितारो महीक्षितः ।
अयोधस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ६॥
अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ।
विष्टराश्वः पृथोः पुत्रस्तस्मादिन्द्रः प्रजापतिः ॥ ७॥
इन्द्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः ।
जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ ८॥
युवनाश्वः सुतस्तस्य कुवलाश्वश्च तत्सुतः ।
स हि धुन्धुवधाद्भूतो धुन्धुमारो नृपोत्तमः ॥ ९॥
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।
बभूवाथ पिता राज्ये कुवलाश्वं न्ययोजयत् ॥ १०॥
पुत्रसङ्क्रामितश्रीको वनं राजा समाविशत् ।
तमुत्तङ्कोऽथ राजर्षिः प्रयान्तं प्रत्यवारयत् ॥ ११॥
उत्तङ्क उवाच ।
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु ।
त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना ॥ १२॥
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ।
ममाश्रमसमीपे तु समेषु मरुधन्वसु ॥ १३॥
समुद्रवालुकापूर्णे दानवो बलदर्पितः ।
देवतानामवध्यो हि महाकायो महाबलः ॥ १४॥
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितः स्थितः ।
राक्षसस्य मधोः पुत्रो धुन्धुनामा सुदारुणः ॥ १५॥
शेते लोकविनाशाय तप आस्थाय दारुणम् ।
संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ॥ १६॥
यदा तदा भूश्चलति सशैलवनकानना ।
सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ॥ १७॥
तेन रायन्न शक्नोमि तस्मिन्न् स्थातुं स्व आश्रमे ।
तं मारय महाबाहो लोकानां हितकाम्यया ॥ १८॥
लोकाः स्वस्था भवन्त्वद्य तस्मिन् विनिहते त्वया ।
त्वं हि तस्य वधायैव समर्थः पृथिवीपते ॥ १९॥
विष्णुना च वरो दत्तो मह्य पूर्वयुगेऽनघ ।
तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ॥ २०॥
पालने हि महान् धर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये मा तेऽभूद् बुद्धिरीदृशी ॥ २१॥
ईदृशो न हि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ।
प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ॥ २२॥
स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिवारणे ॥ २३॥
भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २४॥
इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ।
कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ॥ २५॥
तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ २६॥
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ २७॥
दिव्यैर्माल्यैश्च तं देवाः समन्तात्समवारयन् ।
प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ॥ २८॥
स गत्वा जयतां श्रेष्ठस्तनयैः सह पार्थिवः ।
समुद्रं खनयामास वालुकार्णवमध्यतः ॥ २९॥
नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः ।
बभूव सुमहातेजा भूयो बलसमन्वितः ॥ ३०॥
तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्गतस्तु सः ।
धुन्धुरासादितो ब्रह्मन् दिशमाश्रित्य पश्चि माम् ॥ ३१॥
मुखजेनाग्निना क्रोधाल्लोकान् संवर्तयन्निव ।
वारि सुस्राव वेगेन विधोः कधिरिवोदये ॥ ३२॥
ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ।
त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ॥ ३३॥
ततः स राजा विप्रेन्द्र राक्षसं तं महाबलम् ।
आससाद महातेजा धुन्धुं विप्रविनाशनम् ॥ ३४॥
तस्य वारिमयं वेगमापीय स नराधिपः ।
वह्निबाणेन वह्निं तु शमयामास वारिणा ॥ ३५॥
तं निहत्य महाकायं बलेनोदकराक्षसम् ।
उत्तङ्कस्येक्षयामास कृतं कर्म नराधिपः ॥ ३६॥
उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महामुने ।
अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ ३७॥
धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः ॥ ३८॥
तस्य पुत्रास्त्रयः शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ।
हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ ॥ ३९॥
धौन्धुमारिर्दृढाश्वो यो हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत्पुत्रो धर्मरतः सदा ॥ ४०॥
संहताश्वो निकुम्भस्य पुत्रो रणविशारदः ।
अक्षाश्वश्च कृताश्वश्च संहताश्वसुतौ द्विजाः ॥ ४१॥
तस्य हैमवती भार्या सतां मान्या दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ४२॥
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ ४३॥
तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ।
मान्धाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ॥ ४४॥
तस्य चैत्ररथी भार्या शशबिन्दुसुताऽभवत् ।
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा ॥ ४५॥
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ।
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च धार्मिकम् ॥ ४६॥
पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ॥ ४७॥
पाणिग्रहणमन्त्राणां विघ्रं चक्रे महात्मभिः ।
येन भार्या हृता पूर्वं कृतोद्वाहः परस्य वै ॥ ४८॥
बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ।
जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ॥ ४९॥
अधर्मसङ्गिनं तं तु राजा त्रय्यारुणिस्त्यजन् ।
अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ ५०॥
पितरं सोऽब्रवीन्द् दुष्टः क्व गच्छामीति वै तदा ।
वस श्वपाकनिकटे राजा प्राहेति तं तदा ॥ ५१॥
स हि सत्यव्रतस्तेन श्वपाकवसथान्तिके ।
पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ॥ ५२॥
ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ।
स शङ्करतपः कर्तुं सर्वं त्यक्त्वा वनं ययौ ॥ ५३॥
ततस्तस्य स्वविषये नावर्षत्पाकशासनः ।
समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ॥ ५४॥
दारांस्तस्य तु विषये विश्वामित्रो महातपाः ।
सन्त्यज्य सागरानूपे चचार विपुलं तपः ॥ ५५॥
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च ॥ ५६॥
तां तु दृष्ट्वा गले बद्धं विक्रीणन्तीं स्वमात्मजम् ।
महर्षिपुत्रं धर्मात्मा मोचयामास तं तदा ॥ ५७॥
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ॥ ५८॥
तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ।
अभवद्गालवो नाम गलबन्धान्महातपाः ॥ ५९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥ ५.३७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३८. अष्टात्रिंशोऽध्यायः । सत्यव्रतादिसगरपर्यन्तवंशवर्णनम् ।
सूत उवाच ।
सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं च पोषयामास वै तदा ॥ १॥
हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ॥ २॥
तीर्थं गां चैव गात्रं च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ ३॥
सत्यव्रतस्य वाक्याद्वा भाविनोऽर्थस्य वै बलात् ।
वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ४॥
पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन च ॥ ५॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
न च सत्यव्रतस्तस्य तमुपांशुमबुद्ध्यत ॥ ६॥
तस्मिन्स परितोषाय पितुरासीन्महात्मनः ।
कुलस्य निष्कृतिर्विप्र कृता सा वै भवेदिति ॥ ७॥
न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्यहं पुत्रमस्य नैवाब्रवीन्मुनिः ॥ ८॥
स तु द्वादश वर्षाणि दीक्षां तामुद्वहद् बली ।
अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ॥ ९॥
सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ।
तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः ॥ १०॥
दाशधर्मगतो राजा तां जघान स वै मुने ।
स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ॥ ११॥
भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ।
उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ॥ १२॥
वसिष्ठ उवाच ।
पातयेयमहं क्रूर तव शङ्कुमशंसयम् ।
यदि ते द्वाविमौ शङ्कू नस्यातां वै कृतौ पुरा ॥ १३॥
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १४॥
त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ।
विश्वामित्रस्तु दाराणामागतो भरणे कृते ॥ १५॥
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ।
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ॥ १६॥
अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ।
अभिषिच्य पितू राज्ये याजयामास तं मुनिः ॥ १७॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं तु दिवमारोहयत्प्रभुः ॥ १८॥
तस्य सत्यरथा नाम भार्या केकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ १९॥
स वै राजा हरिश्चन्द्रो त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ २०॥
हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ।
रोहितस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ॥ २१॥
हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।
नात्यर्थे धार्मिको विप्राः स हि धर्मयुगेऽभवत् ॥ २२॥
सगरं स सुतं बाहुर्जज्ञे सह गरेण वै ।
और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ॥ २३॥
आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः ।
जिगाय पृथिवीं हत्वा तालजङ्घान्स हैहयान ॥ २४॥
शकान्बहूदकांश्चैव पारदान्सगणान्खशान् ।
सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ॥ २५॥
शौनक उवाच ।
स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ।
जितवानेतदाचक्ष्व विस्तरेण हि सूतज ॥ २६॥
सूत उवाच ।
पारीक्षितेन सम्पृष्टो वैशम्पायन एव च ।
यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने ॥ २७॥
परीक्षितोवाच ।
कथं स सगरो राजा गरेण सहितो मुने ।
जातः स जघ्निवान्भूपानेतदाख्यातुमर्हसि ॥ २८॥
वैशम्पायन उवाच ।
बाहोर्व्यसनिनस्तातहृतं राज्यमभूत्किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्धं विशाम्पते ॥ २९॥
यवनाः पारदाश्चैव काम्बोजाः पाह्लवास्तथा ।
बहूदकाश्च पञ्चैव गणाः प्रोक्ताश्च रक्षसाम् ॥ ३०॥
एते पञ्च गणा राजन् हैहयार्थेषु रक्षसाम् ।
कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात् ॥ ३१॥
हतराज्यस्ततो राजा स वै बाहुर्वनं ययौ ।
पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ॥ ३२॥
पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ।
सपत्न्या च गरस्तस्यै दत्तः पूर्वसुतेर्ष्यया ॥ ३३॥
सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ।
और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ॥ ३४॥
तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ।
सिषेवे मुनिवर्यं तं स्मरन्ती शङ्करं हृदा ॥ ३५॥
एकदा खलु तद् गर्भो गरेणैव सह च्युतः ।
सुमुहूर्त्ते सुलग्ने च पञ्चोच्चग्रहसंयुते ॥ ३६॥
तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ।
व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ३७॥
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ३८॥
आग्नेयं तं महाभागो ह्यमरैरपि दुःसहम् ।
जग्राह विधिना प्रीत्या सगरोऽसौ नृपोत्तमः ॥ ३९॥
स तेनास्त्रबलेनैव बलेन च समन्वितः ।
हैहयान्विजघानाशु सङ्क्रुद्धोऽस्त्रबलेन च ॥ ४०॥
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ।
धर्मं संस्थापयामास सगरोऽसौ महीतले ॥ ४१॥
ततः शकाः सयवनाः काम्बोजाः पाह्लवास्तथा ।
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥ ४२॥
वसिष्ठो वञ्चनां कृत्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्वाभयं नृपम् ॥ ४३॥
सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च ।
धर्मं जघान तेषां वै केशान्यत्वं चकार ह ॥ ४४॥
अर्धं शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ४५॥
पारदा मुण्डकेशाश्च पाह्नवाश्श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ४६॥
जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ।
सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुरा ॥ ४७॥
स धर्मविजयी राजा विजित्वेमां वसुन्धराम् ।
अश्वं संस्कारयामास वाजिमेधाय पार्थिवः ॥ ४८॥
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ॥ ४९॥
देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ५०॥
महाराजोऽथ सगरस्तद्धयान्वेषणाय च ।
स तं देशं तदा पुत्रैः खानयामास सर्वतः ॥ ५१॥
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ।
तमादिपुरुषं देवं कपिलं विश्वरूपिणम् ॥ ५२॥
तस्य चक्षुःसमुत्थेन वह्निना प्रतिबुध्यतः ।
दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः ॥ ५३॥
हर्षकेतुः सुकेतुश्च तथा धर्मरथोपरः ।
शूरः पञ्चजनश्चैव तस्य वंशकरा नृपाः ॥ ५४॥
प्रादाच्च तस्मै भगवान् हरिः पञ्च वरान्स्वयम् ।
वंशं मेधां च कीर्तिं च समुद्रं तनयं धनम् ॥ ५५॥
सागरत्वं च लेभे स कर्मणा तस्य तेन वै ।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ॥ ५६॥
आजहाराश्वमेधानां शतं स तु महायशाः ।
ईजे शम्भुविभूतीश्च देवतास्तत्र सुव्रताः ॥ ५७॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यन्तवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ५.३८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.३९. एकोनचत्वारिंशोऽध्यायः । वैवस्वतवंशोद्भवराजवर्णनम् ।
शौनक उवाच ।
सगरस्यात्मजा वीराः कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधना केन वा वद ॥ १॥
सूत उवाच ।
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे ।
और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ॥ २॥
षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम् ।
एकं वंशकरं त्वेका यथेष्टं वरशालिनी ॥ ३॥
तत्रैवागत्य तांल्लब्ध्वा पुत्रान् शूरान्बहूंस्तदा ।
सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक् कृतम् ॥ ४॥
ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ।
घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ॥ ५॥
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ।
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ ६॥
ततः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ ७॥
यस्तु गङ्गा सरिच्छ्रेष्ठामवातारयत प्रभुः ।
समुद्रमानयच्चेमां दुहितृत्वमकल्पयत् ॥ ८॥
भगीरथसुतो राजा श्रुतसेन इति श्रुतः ।
नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः ॥ ९॥
अम्बरीषस्तु नाभागिः सिन्धुद्वीपस्ततोऽभवत् ।
अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् ॥ १०॥
आयुताजित्सुतस्त्वासीद् ऋतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ॥ ११॥
ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ।
तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ १२॥
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वशर्मणः ॥ १३॥
अनरण्यसुतो राजा विद्वान्मुण्डिद्रुहोऽभवत् ।
निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि ॥ १४॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽपि सञ्चिता लोका बुद्ध्या सत्येन चानघ ॥ १५॥
दीर्घबाहुः सुतस्तस्य रघुस्तस्याभवत्सुतः ।
अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ॥ १६॥
रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ।
स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ॥ १७॥
तच्चरित्रं च बहुधा पुराणेषु प्रवर्णितम् ।
रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ॥ १८॥
रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ १९॥
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभसः पुण्डरीकश्च क्षेमधन्वा ततः स्मृतः ॥ २०॥
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २१॥
अहीनगोस्तु दायादः सहस्वान्नाम वीर्यवान् ।
वीरसेनात्मजस्तस्य यश्चेक्ष्वाकुकुलोद्भवः ॥ २२॥
वीरसेनस्य दायादः पारियात्रो बभूव ह ।
ततो बलाख्यस्तनयः स्थलस्तस्मादभूत्सुतः ॥ २३॥
अर्कांशसम्भवस्तस्मात्पुत्रो यक्षः प्रतापवान् ।
तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ॥ २४॥
हिरण्यनाभस्तत्पुत्रो योगाचार्यो बभूव ह ।
स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः ॥ २५॥
कौशल्यो याज्ञवल्क्योऽथ योगमध्यात्मसंज्ञकम् ।
यतोऽध्यगान्नृपवराद् हृदयग्रन्थिभेदनम् ॥ २६॥
तत्सुतो पुष्यनामा हि ध्रुवसंज्ञस्तदात्मजः ।
अग्निवर्णः सुतस्तस्य शीघ्रनामा सुतस्ततः ॥ २७॥
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह ।
असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ॥ २८॥
तद्वासिभिश्च मुनिभिः कलेरन्ते स एव हि ।
पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥ २९॥
पृथुश्रुतश्च तत्पुत्रः सन्धिस्तस्य सुतः स्मृतः ।
अमर्षणः सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ॥ ३०॥
विश्वसाह्वः सुतस्तस्य तत्सुतोऽभूत्प्रसेनजित् ।
तक्षकस्तस्य तनयः तत्सुतो हि बृहद्बलः ॥ ३१॥
एत इक्ष्वाकुवंशीया अतीताः सम्प्रकीर्तिताः ।
शृणुतानागतान्भूपांस्तद्वंश्यान्धर्मवित्तमान् ॥ ३२॥
बृहद्बलस्य तनयो भविता हि बृहद्रणः ।
बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ॥ ३३॥
वत्सवृद्धः सुतस्तस्य प्रतिव्योमा सुतस्ततः ।
भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ॥ ३४॥
सहदेवः सुतस्तस्य महावीरो भविष्यति ।
तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ॥ ३५॥
सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ।
सुप्रतीकः सुतस्तस्य भविष्यति नृपोत्तमः ॥ ३६॥
मरुदेवः सुतस्तस्य सुनक्षत्रो भविष्यति ।
तत्सुतः पुष्करस्तस्यान्तरिक्षस्तत्सुतो द्विजाः ॥ ३७॥
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ।
बृहद्भाजः सुतस्तस्य बर्हिनामा तदात्मजः ॥ ३८॥
कृतञ्जयः सुतस्तस्य तत्सुतो हि रणञ्जयः ।
सञ्जयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ॥ ३९॥
शुद्धोदस्तनयस्तस्य लाङ्गलस्तु तदात्मजः ।
तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ॥ ४०॥
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ।
सुमित्रस्तत्सुतो भावी वंशनिष्ठान्त एव हि ॥ ४१॥
सुमित्रान्तोऽन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ।
राज्ञां वैचित्रवीर्याणां धर्मिष्ठानां सुकर्मणाम् ॥ ४२॥
सुमित्रं प्राप्य राजानं स तद्वंशः शुभः कलौ ।
संस्थां प्राप्स्यति तद्ब्राह्मे वर्धिष्यति पुनः कृते ॥ ४३॥
एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ ४४॥
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ४५॥
पठन् शृण्वन्निमां सृष्टिमादित्यस्य च मानवः ।
प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ॥ ४६॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ५.३९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४०. चत्वारिंशोऽध्यायः । पितृप्रभाववर्णनम् ।
व्यास उवाच ।
इत्याकर्ण्य श्राद्धदेवसूर्यान्वयमनुत्तमम् ।
पर्यपृच्छन्मुनिश्रेष्ठः शौनकः सूतमादरात् ॥ १॥
शौनक उवाच ।
सूत सूत चिरञ्जीव व्यासशिष्य नमोऽस्तु ते ।
श्राविता परमा दिव्या कथा परमपावनी ॥ २॥
त्वया प्रोक्तः श्राद्धदेवः सूर्यः सद्वंशवर्धनः ।
संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ॥ ३॥
कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।
श्रोतुमिच्छामि तत्प्रीत्या छिन्धि मे संशयं त्विमम् ॥ ४॥
श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ।
प्रीताश्च पितरो येन श्रेयसा योजयन्ति तम् ॥ ५॥
एतच्च श्रोतुमिच्छामि पितृणां सर्गमुत्तमम् ।
कथय त्वं विशेषेण कृपां कुरु महामते ॥ ६॥
सूत उवाच ।
वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ।
मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ॥ ७॥
गीतं सनत्कुमारेण मार्कण्डेयाय धीमते ।
तत्तेऽहं सम्प्रवक्ष्यामि सर्वकामफलप्रदम् ॥ ८॥
युधिष्ठिरेण सम्पृष्टो भीष्मो धर्मभृतां वरः ।
शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ॥ ९॥
युधिष्ठिर उवाच ।
पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ।
एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ॥ १०॥
सूत उवाच ।
युधिष्ठिरेण सम्पृष्टं प्रश्नं श्रुत्वा स धर्मवित् ।
भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः ॥ ११॥
भीष्म उवाच ।
ये कुर्वन्ति नराः श्राद्धान्यपि प्रीत्या युधिष्ठिर ।
श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ॥ १२॥
श्राद्धानि चैव कुर्वन्ति फलकामाः सदा नराः ।
अभिसन्धाय पितरं पितुश्च पितरं तथा ॥ १३॥
पितुः पितामहञ्चैव त्रिषु पिण्डेषु नित्यदा ।
पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ॥ १४॥
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥ १५॥
युधिष्ठिर उवाच ।
वर्तन्ते पितरः स्वर्गे केषाञ्चिन्नरके पुनः ।
प्राणिनां नियतं चापि कर्मजं फलमुच्यते ॥ १६॥
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ।
कथं शक्तास्तमाहर्त्तुं नरकस्थाः फलं पुनः ॥ १७॥
देवा अपि पितृन्स्वर्गे यजन्त इति मे श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ॥ १८॥
भीष्म उवाच ।
अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ।
पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥ १९॥
श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।
मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ २०॥
नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ।
कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ॥ २१॥
ततः पिता मे सन्तुष्टो वाचा मधुरया तदा ।
उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥ २२॥
त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ।
तारितोऽहं तु जिज्ञासा कृता मे पुरुषोत्तम ॥ २३॥
प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ।
प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥ २४॥
शृणु त्वं भरतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ।
प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ॥ २५॥
तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ।
ददामि त्वं प्रतीच्छस्व त्रिषु लोकेषु दुर्लभम् ॥ २६॥
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता पुनः ॥ २७॥
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।
तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥ २८॥
इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ।
अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद ।
प्रश्नं पृच्छामि वै कञ्चिद्वाच्यः स भवता स्वयम् ॥ २९॥
स मामुवाच तद् ब्रूहि यदीच्छसि वदामि ते ।
इत्युक्तेन मया तत्र पृष्टः प्रोवाच तं नृपः ॥ ३०॥
शन्तनुरुवाच ।
शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ।
पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ॥ ३१॥
यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ।
मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ॥ ३२॥
मार्कण्डेय उवाच ।
शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ।
विमानं महदायान्तमन्तरेण गिरेस्तदा ॥ ३३॥
तस्मिन्विमाने पर्यक्षं ज्वलिताङ्गारवर्चसम् ।
महातेजः प्रज्वलन्तं निर्विशेषं मनोहरम् ॥ ३४॥
अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ।
अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ॥ ३५॥
सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ।
अपृच्छं चैव तमहं विद्याम त्वां कथं विभो ॥ ३६॥
स मामुवाच धर्मात्मा ते न तद्विद्यते तपः ।
येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणः सुतम् ॥ ३७॥
सनत्कुमारमिति मां विद्धि किं करवाणि ते ।
ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ॥ ३८॥
भ्रातरः सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ।
वयं तु यतिधर्माणः संयम्यात्मानमात्मनि ॥ ३९॥
यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ।
तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ॥ ४०॥
यद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया ।
एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ॥ ४१॥
इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ।
पितॄणामादिसर्गं च कथयस्व यथातथम् ॥ ४२॥
इत्युक्तः स तु मां प्राह शृणु सर्वं यथातथम् ।
वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ॥ ४३॥
सनत्कुमार उवाच ।
देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ।
तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ॥ ४४॥
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ।
तस्मात्किञ्चिदजानन्तो नष्टसंज्ञाः पितामहम् ॥ ४५॥
प्रोचुस्तं प्रणताः सर्वे कुरुष्वानुग्रहं हि नः ।
इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि ॥ ४६॥
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ।
इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ॥ ४७॥
प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः ।
गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ ॥ ४८॥
अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम् ।
पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ॥ ४९॥
ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ।
शृणुध्वं निर्जराः सर्वे यूयं न ब्रह्मवादिनः ॥ ५०॥
तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ।
मन्तव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ॥ ५१॥
देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ।
परस्परं महाप्रीत्या सर्वकामफलप्रदाः ॥ ५२॥
सनत्कुमार उवाच ।
ततस्ते छिन्नसन्देहाः प्रीतिमन्तः परस्परम् ।
बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ॥ ५३॥
ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम् ।
तस्माद्भवन्तः पितरो भविष्यथ न संशयः ॥ ५४॥
पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ।
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ॥ ५५॥
समुद्रं पर्वतवनं जङ्गमाजङ्गमैर्वृतम् ।
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ॥ ५६॥
तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणिताः सदा ।
श्राद्धे ये च प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः ॥ ५७॥
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ।
भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥ ५८॥
इति तद्वचनं सत्यं भवत्वथ दिवौकसः ।
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ ५९॥
एवं ते पितरो देवा धर्मतः पुत्रतां गताः ।
अन्योऽन्यं पितरो वै ते प्रथिताः क्षितिमण्डले ॥ ६०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनं नाम चत्वारिंशोऽध्यायः ॥ ५.४०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४१. एकचत्वारिंशोऽध्यायः । सप्तव्याधगतिवर्णनम् ।
सनत्कुमार उवाच ।
सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्त्तिमन्तो वै त्रयश्चैव ह्यमूर्तयः ॥ १॥
तान्यजन्ते देवगणा आद्या विप्रादयस्तथा ।
आप्याययन्ति ते पूर्वं सोमं योगबलेन वै ॥ २॥
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।
सर्वेषां राजतं पात्रमथवा रजतान्वितम् ॥ ३॥
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितृन् ।
वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै ॥ ४॥
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ।
पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ॥ ५॥
यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ।
स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम् ॥ ६॥
देवकार्यादपि मुने पितृकार्यं विशिष्यते ।
पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः ॥ ७॥
न योगेन गतिः सा तु पितृभक्तस्य या मुने ।
पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने ॥ ८॥
मार्कण्डेय उवाच ।
एवमुक्त्वाशु देवेशो देवानामपि दुर्लभम् ।
चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम् ॥ ९॥
शृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः ।
योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ १०॥
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
खसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ॥ ११॥
कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् ।
पितर्युपरते सर्वे प्रवसन्तस्तदाभवन् ॥ १२॥
विनियोगाद् गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।
समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा ॥ १३॥
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।
क्रूरा बुद्धिः समुत्पन्ना तां गां वै हिंसितुं तदा ॥ १४॥
तां कविः खसृपश्चैव याचेते नैति वै तदा ।
न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः ॥ १५॥
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।
स सर्वानब्रवीत्कोपात् पितृभक्तिसमन्वितः ॥ १६॥
यद्यशक्यं प्रकर्तव्यं पितृनुद्दिश्य साध्यताम् ।
प्रकुर्वन्तो हि श्राद्धं तु सर्व एव समाहिताः ॥ १७॥
एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः ।
पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति ॥ १८॥
एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा ।
पितृभ्यः कल्पयित्वा तु ह्युपायुञ्जत भारत ॥ १९॥
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।
शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति ॥ २०॥
आर्जवात्स तु तं वत्सं प्रतिजग्राह वै द्विजः ।
मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम् ॥ २१॥
ततः कालेन कियता कालधर्ममुपागताः ।
ते सप्त भ्रातरस्तात बभूवुः स्वायुषः क्षये ॥ २२॥
ते वै क्रूरतया हैंस्त्र्यात्स्वानार्यत्वाद् गुरोस्तथा ।
उग्रहिंसाविहाराश्च जाताः सप्त सहोदराः ॥ २३॥
लुब्धकस्य सुतास्तावद् बलवन्तो मनस्विनः ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ २४॥
स्वधर्मनिरताः सर्वे मृगा मोहविवर्जिताः ।
आसन्नुद्वेगसंविग्ना रम्ये कालञ्जरे गिरौ ॥ २५॥
तमेवार्थमनुध्याय ज्ञातिस्मरणसम्भवम् ।
आसन्वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥ २६॥
ते सर्वे शुभकर्माणः सद्धर्माणो वनेचराः ।
विधर्माचरणैर्हीना जातिस्मरणसिद्धयः ॥ २७॥
पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै ।
तथैव चास्थिता बुद्धिः संसारेऽपि निवर्तने ॥ २८॥
गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः ।
तेषां तु पतितानां च यानि स्थानानि भारत ॥ २९॥
तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ।
कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः ॥ ३०॥
शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ।
शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ॥ ३१॥
त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः ।
निःसङ्गो निर्ममश्शान्तो निर्द्वन्द्वो निष्परिग्रहः ॥ ३२॥
निवृत्तिनिर्वृतश्चैव शकुना नामतः स्मृताः ।
ते ब्रह्मचारिणः सर्वे शकुना धर्मचारिणः ॥ ३३॥
जातिस्मराः सुसंवृद्धाः सप्तैव ब्रह्मचारिणः ।
स्थिता एकत्र सद्धर्मा विकाररहिताः सदा ॥ ३४॥
विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ ।
तिर्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे ॥ ३५॥
तथा तु पितृकार्यार्थं कृतं श्राद्धं व्यवस्थितैः ।
तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम् ॥ ३६॥
पूर्वजातिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ।
तथैव संस्थित ज्ञानं तस्माज्ज्ञानं समभ्यसेत् ॥ ३७॥
सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः ।
स्वतन्त्रश्च सुयज्ञश्च कुलीङ्गा नामतः स्मृताः ॥ ३८॥
तेषां तत्र विहङ्गानां चरतां धर्मचारिणाम् ।
सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने ॥ ३९॥
नीपानामीश्वरो राजा प्रभावेण समन्वितः ।
श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह ॥ ४०॥
स्वतन्त्रश्चक्रवाकः स स्पृहयामास तं नृपम् ।
दृष्ट्वा यान्तं सुखोपेतं राज्यशोभासमन्वितम् ॥ ४१॥
यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा ।
खिन्नोऽहमुपवासेन तपसा निश्चलेन च ॥ ४२॥
तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि ।
सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः ॥ ४३॥
मार्कण्डेय उवाच ।
ततस्तु चक्रवाकौ द्वावासतुः सहचारिणौ ।
आवां वै सचिवौ स्याव तव प्रियहितैषिणौ ॥ ४४॥
तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः ।
एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम् ॥ ४५॥
यस्मात्कर्म ब्रुवाणस्त्वं योगधर्ममवाप्य तम् ।
एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे ॥ ४६॥
राजा त्वं भविता तात काम्पिल्ये नगरोत्तमे ।
एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ ॥ ४७॥
न तानूचुस्त्रयो राज्यं चतुरः सहचारिणः ।
स प्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत् ॥ ४८॥
अन्तवान् भविता शापः पुनर्योगमवाप्स्यथ ।
सर्वसत्त्वरुतज्ञश्च स्वतन्त्रोऽयं भविष्यति ॥ ४९॥
पितृप्रसादाद्युष्माभिः सम्प्राप्तं सुकृतं भवेत् ।
गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः ॥ ५०॥
अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनम् ।
इदं च वाक्यं संरब्धं श्लोकमेकमुदाहृतम् ॥ ५१॥
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ ।
इत्युक्त्वा स तु मौनोऽभूद्विहङ्गः सुमना बुधः ॥ ५२॥
मार्कण्डेय उवाच ।
लोकानां स्वस्तये तात शन्तनुप्रवरात्मज ।
इत्युक्तं तच्चरित्रं मे किं भूयः श्रोतुमिच्छसि ॥ ५३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगतिवर्णनं नानैकचत्वारिंशोऽध्यायः ॥ ५.४१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४२. द्विचत्वारिंशोऽध्यायः । पितृप्रभाववर्णनम् ।
भीष्म उवाच ।
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ।
किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम ॥ १॥
मार्कण्डेय उवाच ।
ते धर्मयोगनिरताः सप्त मानसचारिणः ।
वाय्वम्बुभक्षाः सततं शरीरमुपशोषयन् ॥ २॥
स राजान्तःपुरवृतो नन्दने मघवा इव ।
क्रीडित्वा सुचिरं तत्र सभार्यः स्वपुरं ययौ ॥ ३॥
अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः ।
तं विभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ ॥ ४॥
तपः कर्तुं समारेभे यत्र ते सहचारिणः ।
स वै तत्र निराहारो वायुभक्षो महातपाः ॥ ५॥
ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ।
बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम् ॥ ६॥
तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ।
योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन् ॥ ७॥
काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।
जाताः सप्त महात्मानः सर्वे विगतकल्मषाः ॥ ८॥
स्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ।
स्वतन्त्रस्त्वणुहाज्जातो ब्रह्मदत्तो महौजसः ॥ ९॥
छिद्रदर्शी सुनेत्रस्तु वेदवेदाङ्गपारगौ ।
जातौ श्रोत्रियदायादौ पूर्वजातिसहोषितौ ॥ १०॥
पञ्चालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ।
द्विवेदः पुण्डरीकश्च छन्दोगोऽध्वर्युरेव च ॥ ११॥
ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ।
अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान् ॥ १२॥
पञ्चालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ।
विविशतुर्वनं तत्र गतौ परमिकां गतिम् ॥ १३॥
ब्रह्मदत्तस्य भार्या तु सन्नितिर्नाम भारत ।
सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु ॥ १४॥
शेषास्तु चक्रवाका वै काम्पिल्ये सहचारिणः ।
जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप ॥ १५॥
धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ।
वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥ १६॥
ते योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि ।
आमन्त्र्य च मिथः शम्भोः पदाम्भोजं प्रणम्य तु ॥ १७॥
ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव च ।
करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि ॥ १८॥
इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम् ।
श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम् ॥ १९॥
प्रीतात्मा दास्यति स ते ग्रामान् भोगांश्च पुष्कलान् ।
एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् ।
योगधर्ममनुप्राप्य परां निर्वृतिमाययुः ॥ २०॥
चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् ।
श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥ २१॥
श्रावयामास राजानं स्लोकं तं सचिवौ च तौ ।
सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ॥ २२॥
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ।
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ २३॥
प्रस्थिता दिर्घमध्वानं युयं किमवसीदथ ।
तच्छ्रुत्वा मोहमगमद्ब्रह्मदत्तो नराधिपः ॥ २४॥
सचिवश्चास्य पाञ्चालः पुण्डरीकश्च भारत ।
ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ॥ २५॥
ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ।
अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् ॥ २६॥
जगाम ब्रह्मदत्तो हि सदारो वनमेव ह ।
प्राप्य योगं बलादेव गतिं प्राप सुदुर्लभाम् ॥ २७॥
पुण्डरीकोऽपि धर्मात्मा साङ्ख्ययोगमनुत्तमम् ।
प्राप्य योगगतिः सिद्धो विशुद्धस्तेन कर्मणा ॥ २८॥
क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् ।
योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः ॥ २९॥
शूरा ये सम्प्रपद्यन्ते अपुनर्भवकाङ्क्षिणः ।
पापं प्रणाशयन्त्वद्य तच्छम्भोः परमं पदम् ॥ ३०॥
शारीरे मानसे चैव पापे वाग्जे महामुने ।
कृते सम्यगिदं भक्त्या पठेच्छ्रद्धासमन्वितः ॥ ३१॥
मुच्यते सर्वपापेभ्यः शिवनामानुकीर्तनात् ।
उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै ॥ ३२॥
विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ।
तस्मात्तत्सञ्चिते पापे समानान्तरमेव च ॥ ३३॥
जप्तव्यमेतत्पापस्य प्रशमाय महामुने ।
नरैः श्रद्धालुभिभूर्यः सर्वकामफलाप्तये ॥ ३४॥
पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ।
मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः ॥ ३५॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृप्रभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ५.४२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४३. त्रिचत्वारिंशोऽध्यायः । व्यासपूजनप्रकारः ।
शौनक उवाच ।
आचार्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ।
ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥ १॥
सूत उवाच ।
पूजयेद्विधिवद्भक्त्याचार्यं श्रुत्वा कथां पराम् ।
ग्रन्थान्ते विधिवद्दद्यादाचार्याय प्रसन्नधीः ॥ २॥
ततो वक्तारमानम्य सम्पूज्य च यथाविधि ।
भूषणैर्हस्तकर्णानां वस्त्रैः सौम्यादिभिः सुधीः ॥ ३॥
शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ।
कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥ ४॥
तत्रास्थाप्य शुभं ग्रन्थं लिखितं ललिताक्षरैः ।
आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥ ५॥
ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ।
मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६॥
विधानसहितं सम्यक् श्रुतं हि सफलं स्मृतम् ।
पुराणं शौनकमुने सत्यमेवोदितं मया ॥ ७॥
तस्माद्विधानयुक्तं तु शृणुयाद्भक्तितो मुने ।
पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥ ८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥ ५.४३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४४. चतुश्चत्वारिंशोऽध्यायः । व्यासोत्पत्तिवर्णनम् ।
मुनय ऊचुः ।
व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे ।
कृपया परया स्वामिन् कृतार्थान्नः कुरु प्रभो ॥ १॥
व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ।
विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥ २॥
तस्यां जातो महायोगी कथं व्यासः पराशरात् ।
सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ॥ ३॥
सूत उवाच ।
एकदा तीर्थयात्रायां व्रजन्योगी पराशरः ।
यदृच्छयागतो रम्यं यमुनायास्तटं शुभम् ॥ ४॥
निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा ।
नयस्व यमुनापारं जलयानेन मामरम् ॥ ५॥
इत्युक्तो मुनिना तेन निषादः स्वसुतां जगौ ।
मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ॥ ६॥
तापसोऽयं महाभागे दृश्यन्तीगर्भसम्भवः ।
तितीर्षुरस्ति धर्माब्धिश्चतुराम्नायपारगः ॥ ७॥
इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् ।
संवाहयति नौकायामासीनं सूर्यरोचिषम् ॥ ८॥
कालयोगान्महायोगी तस्यां कामातुरोऽभवत् ।
दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ॥ ९॥
ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् ।
दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे ॥ १०॥
तमुवाच विशालाक्षी वचनं स्मितपूर्वकम् ।
किमिदं क्रियते कर्म वाचंयमविगर्हितम् ॥ ११॥
वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते ।
निषादजा त्वहं ब्रह्मन् कथं सङ्गो घटेत नौ ॥ १२॥
दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः ।
तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ॥ १३॥
विद्यया वपुषा वाचा कुलशीलेन चान्वितः ।
कामबाणवशं यातो महदाश्चर्यमत्र हि ॥ १४॥
प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह ।
भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ॥ १५॥
इति सञ्चिन्त्य हृदये निजगाद महामुनिम् ।
तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न ॥ १६॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्या योगिराजः पराशरः ।
तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ॥ १७॥
पुनर्जग्राह तां बालां मुनिंः कामप्रपीडितः ।
कम्पमाना तु सा बाला तमुवाच दयानिधिम् ॥ १८॥
दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा ।
भवांस्तु परमोदारविचारो योगिसत्तमः ॥ १९॥
नावयोर्घटते सङ्गो काचकाञ्चनयोरिव ।
तुल्यजात्याकृतिकयोः सङ्गः सौख्यप्रदो भवेत् ॥ २०॥
इत्युक्तेन तया तेन क्षणमात्रेण कामिनी ।
कृता योजनगन्धा तु रम्यरूपा मनोरमा ॥ २१॥
पुनर्जग्राह तां बालां स मुनिः कामपीडितः ।
ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ॥ २२॥
रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ ।
दिवासङ्गे महान्दोषो निन्दा चापि दुरासदा ॥ २३॥
तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी ।
पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ॥ २४॥
तयोक्तमिदमाकर्ण्य वचनं मुनिपुङ्गवः ।
नीहारं कल्पयामास सद्यः पुण्यबलेन वै ॥ २५॥
नीहारे च समुत्पन्ने तमसा रात्रिसन्निभे ।
व्यवायचकिता बाला पुनः प्रोवाच तं मुनिम् ॥ २६॥
योगिन्नमोघवीर्यस्त्वं भुक्त्वा गन्तासि मां यदि ।
सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ॥ २७॥
कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति ।
हसिष्यन्ति तदा लोकाः पितरं किं ब्रवीम्यहम् ॥ २८॥
पराशर उवाच ।
रम बाले मया सार्धं स्वच्छन्दं कामजै रसैः ।
स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये ॥ २९॥
मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव ।
वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि ॥ ३०॥
सत्यवत्युवाच ।
जानते न पिता माता न वान्ये भुवि मानवाः ।
कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मां तदा ॥ ३१॥
पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् ।
सौगन्ध्यं सर्वदाङ्गे मे तारुण्यं च नवं नवम् ॥ ३२॥
पराशर उवाच ।
शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति ।
विष्ण्वंशसम्भवः पुत्रो भविता ते महायशाः ॥ ३३॥
किञ्चिद्वै कारणं विद्धि यतोऽहं कामपीडितः ।
दृष्ट्वा चाप्सरसां रूपं नामुह्यन्मे मनः क्वचित् ॥ ३४॥
मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् ।
न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत् ॥ ३५॥
पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत् ।
भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये ॥ ३६॥
इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः ।
वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने ॥ ३७॥
सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् ।
असूत सूर्यजाद्वीपे कामदेवमिवात्मजम् ॥ ३८॥
वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् ।
पिशङ्गीभिर्जटाभिश्च राजितो महसां चयः ॥ ३९॥
जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत ।
गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ ४०॥
मातर्यदा भवेत्कार्यं तव किञ्चिद् हृदीप्सितम् ।
संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे ॥ ४१॥
इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः ।
जगाम च तपः कर्तुं तीर्थं पापविशोधनम् ॥ ४२॥
सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती ।
स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम् ॥ ४३॥
द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् ।
वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः ॥ ४४॥
तीर्थराजं प्रथमतो धर्मकामार्थमोक्षदम् ।
नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम् ॥ ४५॥
अयोध्यां मथुरां चैव द्वारकाममरावतीम् ।
सरस्वतीं सिन्धुसङ्गं गङ्गासागरसङ्गमम् ॥ ४६॥
काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम् ।
कालञ्जरं प्रभासं च तथा बदरिकाश्रमम् ॥ ४७॥
महालयं तथोङ्कारक्षेत्रं वै पुरुषोत्तमम् ।
गोकर्णं भृगुकच्छं च भृगुतुङ्गं च पुष्करम् ॥ ४८॥
श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च ।
गत्वावगाह्य विधिना चचार परमं तपः ॥ ४९॥
एवं तीर्थान्यनेकानि नानादेशस्थितानि ह ।
पर्यटन्कालिकासूनुः प्रापद्वाराणसीं पुरीम् ॥ ५०॥
यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी ।
भक्तानाममृतं दातुं विराजेते कृपानिधी ॥ ५१॥
प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् ।
कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः ॥ ५२॥
दृष्ट्वा लिङ्गानि सर्वाणि विश्वेशप्रमुखानि च ।
स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरःसु च ॥ ५३॥
नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ।
सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥ ९४॥
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।
आदिकेशवमुख्यांश्च केशवान्परितोष्य च ॥ ५५॥
लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः ।
कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ॥ ५६॥
स्थापयामास पुण्यात्मा लिङ्गं व्यासेश्वराभिधम् ।
यद्दर्शनाद्भवेद्विप्रा नरो विद्यासु वाक्पतिः ॥ ५७॥
लिङ्गान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः ।
असकृच्चिन्तयामास किं लिङ्गं क्षिप्रसिद्धिदम् ॥ ५८॥
यमाराध्य महादेवं विद्याः सर्वा लभेमहि ।
पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात् ॥ ५९॥
श्रीमदोङ्कारनाथं वा कृत्तिवासेश्वरं किमु ।
केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥ ६०॥
कालेशं वृद्धकालेशं कलशेश्वरमेव वा ।
ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरं तु वा ॥ ६१॥
दशाश्वमेधमीशानं द्रुमचण्डेशमेव वा ।
दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम् ॥ ६२॥
प्रसन्नवदनेशं वा धर्मेशं तारकेश्वरम् ।
नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ॥ ६३॥
पर्वतेशं पशुपतिं हाटकेश्वरमेव वा ।
बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा ॥ ६४॥
भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ।
मरुतेशं तु मोक्षेशं गङ्गेशं नर्मदेश्वरम् ॥ ६५॥
कृष्णेशं परमेशानं रत्नेश्वरमथापि वा ।
यामुनेशं लाङ्गलीशं श्रीमद्विश्वेश्वरं विभुम् ॥ ६६॥
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा ।
व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा ॥ ६७॥
वरुणेशं विधीशं वा हरिकेशेश्वरं तु वा ।
भवानीशं कपर्दीशं कन्दुकेशमजेश्वरम् ॥ ६८॥
विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा ।
नादेशं कपिलेशं च भुवनेश्वरमेव वा ॥ ६९॥
वाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा ।
विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम् ॥ ७०॥
अमृतेशं सतीशं वा पार्वतीश्वरमेव वा ।
सिद्धेश्वरं मतङ्गेशं भूतीश्वरमथापि वा ॥ ७१॥
आषाढीशं प्रकाशेशं कोटिरुद्रेश्वरं तथा ।
मदालसेश्वरं चैव तिलपर्णेश्वरं किमु ॥ ७२॥
किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् ।
इत्यादि कोटिलिङ्गानां मध्येऽहं किमुपाश्रये ॥ ७३॥
इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान् ।
क्षणं विचारयामास ध्यानसुस्थिरचेतसा ॥ ७४॥
आं ज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः ।
सिद्धैः सम्पूजितं लिङ्गं धर्मकामार्थमोक्षदम् ॥ ७५॥
दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् ।
उद्घाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि ॥ ७६॥
अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् ।
यत्रास्ते परमं लिङ्गं मध्यमेश्वरसंज्ञकम् ॥ ७७॥
न मध्यमेश्वरादन्याल्लिङ्गं काश्यां हि विद्यते ।
यद्दर्शनार्थमायान्ति देवाः पर्वणि पर्वणि ॥ ७८॥
अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः ।
अस्याराधनतो विप्रा बहवः सिद्धिमागताः ॥ ७९॥
यः प्रधानतया काश्यां मध्ये तिष्ठति शङ्करः ।
स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः ॥ ८०॥
तुम्बुरुर्नाम गन्धर्वो देवर्षिर्नारदस्तथा ।
अमुमाराध्य सम्पन्नो गानविद्याविशारदौ ॥ ८१॥
अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत् ।
ब्रह्मा विष्णुश्च रुद्रश्च सृष्टिपालकहारकाः ॥ ८२॥
धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट् ।
खट्वाङ्गो नाम भूपालोऽनपत्योऽपत्यवानभूत् ॥ ८३॥
अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः ।
सदेहा कोकिलालापा लिङ्गमध्ये लयं गता ॥ ८४॥
श्रीकरो गोपिकासूनुः सेवित्वा मध्यमेश्वरम् ।
गाणपत्यं समालेभे शिवस्य करुणात्मनः ॥ ८५॥
भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ ।
विद्यापारङ्गतौ जातौ प्रसादान्मध्यमेशितुः ॥ ८६॥
अहमप्यत्र सम्पूज्य मध्यमेश्वरमीश्वरम् ।
पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा ध्रुवम् ॥ ८७॥
इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः ।
भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती ॥ ८८॥
क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् ।
वातभुग्जलभुक् क्वापि क्वचिन्निरशनव्रती ॥ ८९॥
इत्यादिनियमैर्योगी त्रिकालं मध्यमेश्वरम् ।
पूजयामास धर्मात्मा नानावृक्षोद्भवैः फलैः ॥ ९०॥
इत्थं बहुतिथे काले व्यतीते कालिकासुतः ।
स्नात्वा त्रिपथगातोये यावदायाति स प्रगे ॥ ९१॥
मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् ।
तावद्ददर्श पुण्यात्मा मध्ये लिङ्गं महेश्वरम् ॥ ९२॥
उमाभूषितवामाङ्गं व्याघ्रचर्मोत्तरीयकम् ।
जटाजूटचलद्गङ्गातरङ्गैश्चारुविग्रहम् ॥ ९३॥
लसच्छारदबालेन्दुचन्द्रिकाचन्द्रितालकम् ।
भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम् ॥ ९४॥
कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् ।
पञ्चवर्षाकृतिं बालं बालकोचितभूषणम् ॥ ९५॥
दधानं कोटिकन्दर्पदर्पहानिं तनुद्युतिम् ।
नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया ॥ ९६॥
करुणापारपाथोधिं भक्तवत्सलनामकम् ।
आशुतोषमुमाकान्तं प्रसादसुमुखं हरम् ॥ ९७॥
समालोक्य स्तुतिं चक्रे प्रेमगद्गदया गिरा ।
योगिनामप्यगम्यं तं दीनबन्धुं चिदात्मकम् ॥ ९८॥
वेदव्यास उवाच ।
देवदेव महाभाग शरणागतवत्सल ।
वाङ्मनःकर्मदुष्प्राप योगिनामप्यगोचर ॥ ९९॥
महिमानं न ते वेदा विदामासुरुमापते ।
त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च ॥ १००॥
त्वमाद्यः सर्वदेवानां सच्चिदानन्द ईश्वरः ।
नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव ॥ १०१॥
त्वमेव परमं ब्रह्म मायापाशनिवर्तकः ।
गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवाम्भसा ॥ १०२॥
न ते जन्म न वा शीलं न देशो न कुलं च ते ।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः काममावहेः ॥ १०३॥
न ब्रह्मा न च लक्ष्मीशो न च सेन्द्रा दिवौकसः ।
न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे ॥ १०४॥
त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः ।
त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम् ॥ १०५॥
नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे ।
पुराणपुरुषायाद्धा शङ्कराय परात्मने ॥ १०६॥
इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः ।
तावत्स बालो हृष्टात्मा वेदव्यासमभाषत ॥ १०७॥
वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते ।
नादेयं विद्यते किञ्चिद्भक्ताधीनो यतोऽस्म्यहम् ॥ १०८॥
तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः ।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १०९॥
सर्वान्तरात्मा भगवान् शर्वः सर्वप्रदो भवान् ।
याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ ११०॥
इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः ।
शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत् ॥ १११॥
बाल उवाच ।
त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ ११२॥
कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः ।
सेतिहासपुराणानि सम्यङ्निर्मापयाम्यहम् ॥ ११३॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि ॥ ११४॥
एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्धनम् ।
सर्वसम्पत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम् ॥ ११५॥
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाङ्करम् ।
वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद् बृहस्पतिः ॥ ११६॥
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ।
वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्यां च वर्धयेत् ॥ ११७॥
इत्युक्त्वा स महादेवो बालो लिङ्गे न्यलीयत ।
व्यासोऽपि मुञ्चन्नश्रूणि शिवप्रेमाकुलोऽभवत् ॥ ११८॥
एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात् ।
अष्टादश पुराणानि प्रणिनाय स्वलीलया ॥ ११९॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
भविष्यं नारदीयं च मार्कण्डेयमतः परम् ॥ १२०॥
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ।
वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च ॥ १२१॥
स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् ।
यशस्यं पुण्यदं नॄणां श्रोतॄणां शाङ्करं यशः ॥ १२२॥
सूत उवाच ।
अष्टादशपुराणानां पूर्वं नामोदितं त्वया ।
कुरु निर्वचनं तेषामिदानीं वेदवित्तम ॥ १२३॥
व्यास उवाच ।
अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना ।
नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत् ॥ १२४॥
नन्दिकेश्वर उवाच ।
यत्र वक्ता स्वयं तण्डिन् ब्रह्मा साक्षाच्चतुर्मुखः ॥
तस्माद् ब्राह्मं समाख्यातं पुराणं प्रथमं मुने ॥ १२५॥
पद्मकल्पस्य माहात्म्यं तत्र यस्यामुदाहृतम् ।
तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम् ॥ १२६॥
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।
तदेव व्यासकथितं पुत्रपित्रोरभेदतः ॥ १२७॥
यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु ।
शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च ॥ १२८॥
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम् ॥ १२९॥
नारदोक्तं पुराणं तु नारदीयं प्रचक्षते ।
यत्र वक्ताभवत्तण्डिन् मार्कण्डेयो महामुनिः ॥ १३०॥
मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् ।
अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ॥ १३१॥
विवर्तनाद् ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते ।
लिङ्गस्य चरितोक्तत्वात्पुराणं लिङ्गमुच्यते ॥ १३२॥
वराहस्य च वाराहं पुराणं द्वादशं मुने ।
यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः ॥ १३३॥
तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ।
कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम् ॥ १३४॥
गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ।
ब्रह्माण्डचरितोक्तत्वाद् ब्रह्माण्डं परिकीर्तितम् ॥ १३५॥
सूत उवाच ।
अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते ।
ततः सर्वपुराणानां मया निर्वचनं श्रुतम् ॥ १३६॥
एवं व्यासः समुत्पन्नः सत्यवत्यां पराशरात् ।
पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ १३७॥
पराशरेण संयोगः पुनः शन्तनुना यथा ।
सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि ॥ १३८॥
सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी ।
महतां चरिते चैव गुणा ग्राह्या विचक्षणैः ॥ १३९॥
इदं रहस्यं परमं यः शृणोति पठत्यपि ।
स सर्वपापनिर्मुक्त ऋषिलोके महीयते ॥ १४०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ५.४४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४५. पञ्चचत्वारिंशोऽध्यायः । महाकालिकावतारवर्णनम् ।
मुनय ऊचुः ।
श्रुता शम्भोः कथा रम्या नानाख्यानसमन्विता ।
नानावतारसंयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ॥ १॥
इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर ।
चरित्रं जगदम्बाया भगवत्या मनोहरम् ॥ २॥
परब्रह्ममहेशस्य शक्तिराद्या सनातनी ।
उमा या समभिख्याता त्रैलोक्यजननी परा ॥ ३॥
सती हैमवती तस्या अवतारद्वयं श्रुतम् ।
अपरानवतारांस्त्वं ब्रूहि सूत महामते ॥ ४॥
को विरज्येत मतिमान् गुणश्रवणकर्मणि ।
श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन ॥ ५॥
सूत उवाच ।
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ।
यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ॥ ६॥
शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ ७॥
ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ।
येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ॥ ८॥
ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ।
मायागुणैर्मोहिताः स्युर्हतभाग्या न संशयः ॥ ९॥
न भजन्ति महादेवीं करुणारससागराम् ।
अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ॥ १०॥
गङ्गां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ।
विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत् ॥ ११॥
यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम् ।
अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ॥ १२॥
एतत्पृष्टः पुरा मेधाः सुरथेन महात्मना ।
यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ॥ १३॥
स्वारोचिषेऽन्तरे पूर्वं विरथो नाम पार्थिवः ।
सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ॥ १४॥
दानशौण्डः सत्यवादी स्वधर्मकुशलः कृती ।
देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ॥ १५॥
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
बभूवुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः ॥ १६॥
कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।
तैः समं तुमुलं युद्धं समपद्यत दारुणम् ॥ १७॥
युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ।
उज्जासितश्च कोलाया हृत्वा राज्यमशेषतः ॥ १८॥
स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमन्त्रिभिः ।
तत्रापि च महापक्षैर्विपक्षैः स पराजितः ॥ १९॥
दैवाच्छत्रुत्वमापन्नैरमात्यप्रमुखैर्गणैः ।
कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ॥ २०॥
ततः स निर्गतो राजा नगरान्मृगयाछलात् ।
असहायोऽश्वमारुह्य जगाम गहनं वनम् ॥ २१॥
इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ।
ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ॥ २२॥
वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ।
शिष्यैः प्रशिष्यैस्तच्छिष्यैः समन्तात्परिवेष्टितम् ॥ २३॥
व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ।
तदाश्रमे न बाधन्ते द्विजवर्यप्रभावतः ॥ २४॥
उवास तत्र नृपतिर्महाकारुणिको बुधः ।
सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ॥ २५॥
एकदा स महाराजश्चिन्तामाप दुरत्ययाम् ।
अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ॥ २६॥
हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ।
मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ॥ २७॥
मादृशश्चैत्रवंशेऽस्मिन्न कोऽप्यासीन्महीपतिः ।
किं करोमि क्व गच्छामि कथं राज्यं लभेय हि ॥ २८॥
अमात्या मन्त्रिणश्चैव मामका ये सनातनाः ।
न जाने कं च नृपतिं समासाद्याधुनासते ॥ २९॥
विनाश्य राज्यमधुना न जाने कां गतिं गताः ।
रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः ॥ ३०॥
मामका ये महाशूरा नृपमन्यं भजन्ति ते ।
पर्वताभा गजा अश्वा वातवद्वेगगामिनः ॥ ३१॥
पूर्वपूर्वार्जितः कोशः पाल्यते तैर्न वाधुना ।
एवं मोहवशं यातो राजा परमधार्मिकः ॥ ३२॥
एतस्मिन्नन्तरे तत्र वैश्यः कश्चित्समागतः ।
राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः ॥ ३३॥
दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् ।
इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम् ॥ ३४॥
दृग्भ्यां विमुञ्चन्नश्रूणि समाधिर्वैश्यपुङ्गवः ।
प्रत्युवाच महीपालं प्रणयावनतां गिरम् ॥ ३५॥
वैश्य उवाच ।
समाधिर्नाम वैश्योऽहं धनिवंशसमुद्भवः ।
पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते ॥ ३६॥
वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा ।
सोऽहं पुत्रप्रपौत्राणां कलत्राणां तथैव च ॥ ३७॥
भ्रातृणां भ्रातृपुत्राणां परेषां सुहृदां तथा ।
न वेद्मि कुशलं सम्यक् करुणासागर प्रभो ॥ ३८॥
राजोवाच ।
निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः ।
तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत् ॥ ३९॥
वैश्य उवाच ।
सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् ।
तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः ॥ ४०॥
एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम ।
जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिं तदा ॥ ४१॥
स वैश्यराजसहितो नरराजः प्रतापवान् ।
प्रणनाम महावीरः शिरसा योगिनां वरम् ॥ ४२॥
बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् ।
भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम् ॥ ४३॥
अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः ।
तथापि हृतराज्यस्य तोषो नैवाभिजायते ॥ ४४॥
अयं च वैश्यः स्वजनैर्दाराद्यैर्निष्कृतो गृहात् ।
तथाप्येतस्य ममता न निवृत्तिं समश्नुते ॥ ४५॥
किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः ।
मोहेन व्याकुलं जातं महत्येषा हि मूर्खता ॥ ४६॥
ऋषिरुवाच ।
महामाया जगद्धात्री शक्तिरूपा सनातनी ।
सा मोहयति सर्वेषां समाकृष्य मनांसि वै ॥ ४७॥
ब्रह्मादयः सुराः सर्वे यन्मायामोहिताः प्रभो ।
न जानन्ति परं तत्त्वं मनुष्याणां च का कथा ॥ ४८॥
सा सृजत्यखिलं विश्वं सैव पालयतीति च ।
सैव संहरते काले त्रिगुणा परमेश्वरी ॥ ४९॥
यस्योपरि प्रसन्ना सा वरदा कामरूपिणी ।
स एव मोहमत्येति नान्यथा नृपसत्तम ॥ ५०॥
राजोवाच ।
का सा देवी महामाया या च मोहयतेऽखिलान् ।
कथं जाता च सा देवी कृपया वद मे मुने ॥ ५१॥
ऋषिरुवाच ।
जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् ।
योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः ॥ ५२॥
तदा द्वावसुरौ जातौ विष्णोः कर्णमलेन वै ।
मधुकैटभनामानौ विख्यातौ पृथिवीतले ॥ ५३॥
प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू ।
दंष्ट्राकरालवदनौ भक्षयन्तौ जगन्ति वा ॥ ५४॥
तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् ।
हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ ॥ ५५॥
समालोक्य तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् ।
शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम् ॥ ५६॥
ब्रह्मोवाच ।
रक्ष रक्ष महामाये शरणागतवत्सले ।
एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके ॥ ५७॥
प्रणमामि महामायां योगनिद्रामुमां सतीम् ।
कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ॥ ५८॥
त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ।
पालिनीं सर्वदेवानां करुणावरुणालयाम् ॥ ५९॥
त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ।
सृजत्यवति संसारं काले संहरतीति च ॥ ६०॥
त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ।
तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया ॥ ६१॥
विष्णुमाया त्वमेवाम्ब त्वमेव चेतना मता ।
त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च ॥ ६२॥
भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता ।
त्वं लक्ष्मीर्भवने पुंसां पुण्याचारप्रवर्तिनाम् ॥ ६३॥
त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि ।
त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता ॥ ६४॥
सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके ।
प्रबोधय जगद्योने नारायणमजं विभुम् ॥ ६५॥
ऋषिरुवाच ।
ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने ।
महाविद्या जगद्धात्री सर्वविद्याधिदेवता ॥ ६६॥
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ।
महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी ॥ ६७॥
ततोऽभवद्वियद्वाणी मा भैषीः कमलासन ।
कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ ॥ ६८॥
इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः ।
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥ ६९॥
उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः ।
स ददर्श पुरो दैत्यौ मधुकैटभसंज्ञकौ ॥ ७०॥
ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः ।
पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा ॥ ७१॥
महामायाप्रभावेण मोहितौ दानवोत्तमौ ।
जजल्पतू रमाकान्तं गृहाण वरमीप्सितम् ॥ ७२॥
नारायण उवाच ।
मयि प्रसन्नौ यदि वां दीयतामेष मे वरः ।
मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम् ॥ ७३॥
ऋषिरुवाच ।
एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः ।
आवां जहि न यत्रासौ धरणी पयसाप्लुता ॥ ७४॥
तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् ।
चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः ॥ ७५॥
एवं ते कथितो राजन् कालिकायाः समुद्भवः ।
महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते ॥ ७६॥
निर्विकारादि साकारा निराकारापि देव्युमा ।
देवानां तापनाशार्थं प्रादुरासीद्युगे युगे ॥ ७५॥
यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः ।
लीलया सापि भक्तानां गुणवर्णनहेतवे ॥ ७८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ५.४५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४६. षट्चत्वारिंशोऽध्यायः । महालक्ष्म्यवतारवर्णनम् ।
ऋषिरुवाच ।
आसीद्रम्भासुरो नाम दैत्यवंशशिरोमणिः ।
तस्माज्जातो महातेजा महिषो नाम दानवः ॥ १॥
स सङ्ग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ।
चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥ २॥
पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ।
ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥ ३॥
तत्र गत्वा सुराः सर्वे नत्वा शङ्करकेशवौ ।
स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥ ४॥
भगवन्तौ वयं सर्वे महिषेण दुरात्मना ।
उज्जासिताश्च स्वर्लोकान्निर्जित्य समराङ्गणे ॥ ५॥
भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहिशं क्वचित् ।
कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥ ६॥
सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ।
इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७॥
एतेषामपरेषां च विधेयं कर्म सोऽसुरः ।
स्वयं करोति पापात्मा दैत्यपक्षाभयङ्कर ॥ ८॥
तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ।
वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥ ९॥
इति देववचः श्रुत्वा दामोदरसतीश्वरौ ।
चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥ १०॥
ततोऽतिकोपपूर्णस्य विष्णोः शम्भोश्च वक्त्रतः ।
तथान्येषां च देवानां शरीरान्निर्गतं महः ॥ ११॥
अतीव महसः पुञ्जं ज्वलन्तं दशदिक्षु च ।
अपश्यंस्त्रिदशाः सर्वे दुर्गाध्यानपरायणाः ॥ १२॥
सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ।
सङ्घीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥ १३॥
शम्भुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ।
याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥ १४॥
चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत ।
मध्यमैन्द्रेण जङ्घोरू वारुणेन बभूवतुः ॥ १५॥
भूतेजसा नितम्बोऽभूद् ब्राह्मेण चरणद्वयम् ।
आर्केण चरणाङ्गुल्यः कराङ्गुल्यश्च वासवात् ॥ १६॥
कुबेरतेजसा नासा रदनाश्च प्रजापतेः ।
पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥ १७॥
आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ।
तेजसा सम्भवा पद्मालया सा परमेश्वरी ॥ १८॥
ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ।
तामालोक्य सुराः सर्वे परं हर्षं प्रपेदिरे ॥ १९॥
निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ।
सायुधां तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥ २०॥
ततः शूलं महेशानो महेशान्यै समर्पयत् ।
चक्रं च कृष्णो भगवान् शङ्खं पाशं च पाशभृत् ॥ २१॥
शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ।
बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥ २२॥
यमो ददौ कालदण्डमक्षमालां प्रजापतिः ।
ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥ २३॥
कालः खड्गं ददौ तस्यै फलकं च समुज्वलम् ।
क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥ २४॥
चूडामणिं कुण्डले च कटकानि तथैव च ।
अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरौ ॥ २५॥
ग्रैवेयकमङ्गुलीषु समस्तास्वङ्गुलीयकम् ।
विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥ २६॥
अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ।
सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥ २७॥
ददौ सिंहं च हिमवान् रत्नानि विविधानि च ।
सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ॥ २८॥
शेषश्च भोगिनां नेता विचित्ररचनाञ्चितम् ।
ददौ तस्यै नागहारं नानासन्मणिगुम्फितम् ॥ २९॥
एतैश्चान्यैः सुरैर्देवी भूषणैरायुधैस्तथा ।
सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः ॥ ३०॥
तस्या भीषणनादेन पूरिता च नभःस्थली ।
प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ॥ ३१॥
चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह ।
जयशब्दस्ततो देवैरकारि महिषार्दितैः ॥ ३२॥
ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् ।
तुष्टुवुस्ते सुराः सर्वे भक्तिगद्गदया गिरा ॥ ३३॥
लोकं सङ्क्षुब्धमालोक्य देवतापरिपन्थिनः ।
सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ॥ ३४॥
महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ॥ ३५॥
एतस्मिन्नन्तरे तत्र महिषासुरपालिताः ।
समाजग्मुर्महावीराः कोटिशो धृतहेतयः ॥ ३६॥
चिक्षुरश्चामरोदग्रौ करालोद्धतवाष्कलाः ।
ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ॥ ३७॥
दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः ।
एते चान्ये च बहवः शूरा युद्धविशारदाः ॥ ३८॥
युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः ।
इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ॥ ३९॥
अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः ।
महामायाप्रभावेण विफला अभवन् क्षणात् ॥ ४०॥
ततो जघान सा देवी चिक्षुरप्रमुखानरीन् ।
सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ॥ ४१॥
एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः ।
देवीनिःश्वाससम्भूतान्भावयामास तान्गणान् ॥ ४२॥
अताडयत्खुरैः काश्चित्काश्चिच्छृङ्गद्वयेन च ।
लाङ्गूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ॥ ४३॥
इत्थं देवीगणान्हत्वाभ्यधावत्सोऽसुराधिपः ।
सिंहं मारयितुं देव्यास्ततोऽसौ कुपितोऽभवत् ॥ ४४॥
कोपात्सोऽपि महावीर्यः खुरकुट्टितभूतलः ।
शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ॥ ४५॥
वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः ।
आकाशतो महीमध्ये निपेतुर्नृपसत्तम ॥ ४६॥
शृङ्गभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ॥
लाङ्गूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ॥ ४७॥
एवं क्रुद्धं समालोक्य महिषासुरमम्बिका ।
विदधे तद्वधोपायं देवानामभयङ्करी ॥ ४८॥
ततः पाशं समुत्थाप्य क्षिप्त्वा तस्योपरीश्वरी ।
बबन्ध महिषं सोऽपि रूपं तत्याज माहिषम् ॥ ४९॥
ततः सिंहो बभूवाशु मायावी तच्छिरोऽम्बिका ।
यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ॥ ५०॥
सचर्मासिकरं तं च देवी बाणैरताडयत् ।
ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ॥ ५१॥
ततोऽस्य च करं देवी चकर्त स्वमहासिना ।
अधारि च पुना रूपं स्वकीयं तेन रक्षसा ॥ ५२॥
तदैव क्षोभयामास त्रैलोक्यं सचराचरम् ।
ततः क्रुद्धा महामाया चण्डिका मानविक्रमा ॥ ५३॥
पपौ पुनः पुनः पानं जहासोद्भ्रान्तलोचना ।
जगर्ज चासुरः सोऽपि बलवीर्यमदोद्धतः ॥ ५४॥
तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः ।
सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ॥ ५५॥
वारुणीमदसञ्जातमुखरागाकुलेन्द्रिया ।
प्रोवाच परमेशानी मेघगम्भीरया गिरा ॥ ५६॥
देव्युवाच ।
रे मूढ रे हतप्रज्ञ व्यर्थं किं कुरुषे हठम् ।
न मदग्रेऽसुराः केऽपि स्थास्नवो जगतीत्रये ॥ ५७॥
ऋषि रुवाच ।
एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी ।
पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साभिनत् ॥ ५८॥
ततस्तच्चरणाक्रान्तः स स्वकीयमुखात्ततः ।
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ५९॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महाधमः ।
महासिना शिरो भित्त्वा न्यपाति धरणीतले ॥ ६०॥
हा हा शब्दं समुच्चार्यावाङ्मुखास्तद्गणास्ततः ।
पलायन्त रणाद्भीतास्त्राहि त्राहीति वादिनः ॥ ६१॥
तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः ।
गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ॥ ६२॥
एवं ते कथितो राजन्महालक्ष्म्याः समुद्भवः ।
सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा ॥ ६३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ५.४६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४७. सप्तचत्वरिंशोऽध्यायः । धूम्रलोचनचण्डमुण्डरक्तबीजवधः ।
ऋषिरुवाच ।
आसीच्छुम्भासुरो दैत्यो निशुम्भश्च प्रतापवान् ।
त्रैलोक्यमोजसाक्रान्तं भ्रातृभ्यां सचराचरम् ॥ १॥
ताभ्यां प्रपीडिता देवा हिमवन्तं समाययुः ।
जननीं सर्वभूतानां कामदात्रीं ववन्दिरे ॥ २॥
देवा ऊचुः ।
जय दुर्गे महेशानि जयात्मीयजनप्रिये ।
त्रैलोक्यत्राणकारिण्यै शिवायै ते नमो नमः ॥ ३॥
नमो मुक्तिप्रदायिन्यै पराम्बायै नमो नमः ।
नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ॥ ४॥
कालिकारूपसम्पन्ने नमस्ताराकृते नमः ।
छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोऽस्तु ते ॥ ५॥
भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ।
नमोऽस्तु बगलामुख्यै धूमावत्यै नमो नमः ॥ ६॥
नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमो नमः ।
अजितायै नमस्तुभ्यं विजयायै नमो नमः ॥ ७॥
जयायै मङ्गलायै ते विलासिन्यै नमो नमः ।
दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते ॥ ८॥
नमोऽपराजिताकारे नित्याकारे नमो नमः ।
शरणागतपालिन्यै रुद्राण्यै ते नमो नमः ॥ ९॥
नमो वेदान्तवेद्यायै नमस्ते परमात्मने ।
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ १०॥
इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा ।
प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का ॥ ११॥
ततो गौरीतनोरेका प्रादुरासीत्कुमारिका ।
सोवाच मिषतां तेषां शिवशक्तिं परादरात् ॥ १२॥
स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः ।
निशुम्भशुम्भदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः ॥ १३॥
शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी ।
नाम्ना सा गीयते साक्षाच्छुम्भासुरनिबर्हिणी ॥ १४॥
चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च ।
प्रादुर्भूता यतः सा वै मातङ्गीत्युच्यते भुवि ॥ १५॥
बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः ।
कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम् ॥ १६॥
इत्युक्त्वा सा तदा देवी तरसान्तर्हिताभवत् ।
चण्डमुण्डौ तु तां देवीमद्राष्टां सेवकौ तयोः ॥ १७॥
दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम् ।
पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ ॥ १८॥
गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः ।
दृष्टा काचिन्मयापूर्वा नारी राजन्मनोहरा ॥ १९॥
हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी ।
समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः ॥ २०॥
कुरुते पादसंवाहं काचित्संस्कुरुते कचान् ।
पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात् ॥ २१॥
काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम् ।
नागवल्लीं ददात्येका लवङ्गैलादिसंयुताम् ॥ २२॥
पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः ।
भूषयत्यखिलाङ्गानि काचिद्भूषाम्बरादिभिः ॥ २३॥
कदलीस्तम्भजङ्घोरुः कीरनासाहिदोर्लता ।
रणन्मञ्जीरचरणा रम्यमेखलया युता ॥ २४॥
लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी ।
ग्रैवेयकलसद्ग्रीवा ललन्ती दाममण्डिता ॥ २५॥
अर्धचन्द्रधरा देवी मणिकुण्डलधारिणी ।
रम्यवेणिर्विशालाक्षी लोचनत्रयभूषिता ॥ २६॥
साक्षरा मालिकोपेता पाणिराजितकङ्कणा ।
स्वर्णोर्मिकाङ्गुलिर्भ्राजत्पारिहार्यलसत्करा ॥ २७॥
शुभ्रवस्त्रावृता गौरी पद्मासनविराजिता ।
काश्मीरबिन्दुतिलका चन्द्रालङ्कृतमस्तका ॥ २८॥
तडिद्द्युतिर्महामूल्याम्बरचोलोन्नमत्कुचा ।
भुजैरष्टाभिरुत्तुङ्गैर्धारयन्ती वरायुधान् ॥ २९॥
तादृशी नासुरी नागी न गन्धर्वी न दानवी ।
विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा ॥ ३०॥
तस्मात्सम्भोगयोग्यत्वं तस्यास्त्वय्येव शोभते ।
नारीरत्नं यतः सा वै पुंरत्नं च भवान्प्रभो ॥ ३१॥
इत्युक्तं चण्डमुण्डाभ्यां निशम्य स महासुरः ।
दूतं सुग्रीवनामानं प्रेषयामास तां प्रति ॥ ३२॥
गच्छ दूत तुषाराद्रौ तत्रास्ते कापि सुन्दरी ।
सा नेतव्या प्रयत्नेन कथयित्वा वचो मम ॥ ३३॥
इति विज्ञापितस्तेन सुग्रीवो दानवोत्तमः ।
गत्वा हिमाचलं प्राह जगदम्बां महेश्वरीम् ॥ ३४॥
दूत उवाच ।
देवि शुम्भासुरो दैत्यो निशुम्भस्तस्य चानुजः ।
विख्यातस्त्रिषु लोकेषु महाबलपराक्रमः ॥ ३५॥
चारोऽहं प्रेषितस्तेन सन्निधिं ते समागमम् ।
स यज्जगौ सुरेशानि तत्समाकर्णयाधुना ॥ ३६॥
इन्द्रादीन्समरे जित्वा तेषां रत्नान्यपाहरम् ।
देवभागं स्वयं भुञ्जे यागे दत्तं सुरादिभिः ॥ ३७॥
स्त्रीरत्नं त्वामहं मन्ये सर्वरत्नोपरिस्थितम् ।
सा त्वं ममानुजं मां वा भजतात्कामजै रसैः ॥ ३८॥
इति दूतोक्तमाकर्ण्य वचनं शुम्भभाषितम् ।
जगाद सा महामाया भूतेशप्राणवल्लभा ॥ ३९॥
देव्युवाच ।
सत्यं वदसि भो दूत नानृतं किञ्चिदुच्यते ।
परं त्वेका कृता पूर्वं प्रतिज्ञा तां निबोध मे ॥ ४०॥
यो मे दर्पं विधुनुते यो मां जयति सङ्गरे ।
उत्सहे तमहं कर्तुं पतिं नान्यमिति ध्रुवम् ॥ ४१॥
स त्वं कथय शुम्भाय निशुम्भाय वचो मम ।
यथा युक्तं भवेदेवं विदधातु तथात्र सः ॥ ४२॥
इत्थं देवीवचः श्रुत्वा सुग्रीवो नाम दानवः ।
राज्ञे विज्ञापयामास गत्वा तत्र सविस्तरम् ॥ ४३॥
अथ दूतोक्तमाकर्ण्य शुम्भो भैरवशासनः ।
धूम्राक्षं प्राह सक्रोधः सेनान्यं बलिनां वरम् ॥ ४४॥
हे धूम्राक्ष तुषाराद्रौ वर्तते कापि सुन्दरी ।
तामानय द्रुतं गत्वा यथा यास्यति सात्र वै ॥ ४५॥
तस्या आनयने भीतिर्न कार्यासुरसत्तम ।
युद्धं कार्यं प्रयत्नेन यदि सा योद्धुमिच्छति ॥ ४६॥
एवं विज्ञापितो दैत्यो धूम्रलोचनसंज्ञकः ।
गत्वा हिमाचलं प्राह भुवनेशीमुमांशजाम् ॥ ४७॥
भर्तुर्ममान्तिकं गच्छ नो चेत्त्वां घातयाम्यहम् ।
पुष्ट्यासुराणां सहितः सहस्राणां नितम्बिनि ॥ ४८॥
देव्युवाच ।
दैत्यराट् प्रेषितो वीर हंसि चेत्किं करोमि ते ।
परन्त्वसाध्यं गमनं मन्ये सङ्ग्राममन्तरा ॥ ४९॥
इत्युक्तस्तामन्वधावद्दानवो धूम्रलोचनः ।
हुङ्कारोच्चारणेनैव तं ददाह महेश्वरी ॥ ५०॥
ततः प्रभृति सा देवी धूमावत्युच्यते भुवि ।
आराधिता स्वभक्तानां शत्रुवर्गनिकर्तिनी ॥ ५१॥
धूम्राक्षे निहते देव्या वाहनेनातिकोपिना ।
चर्वितास्तद्गणाः सर्वेऽपलायन्तावशेषिताः ॥ ५२॥
इत्थं देव्या हतं दैत्यं श्रुत्वा शुम्भः प्रतापवान् ।
चकार बहुलं कोपं सन्दष्टौष्ठपुटद्वयः ॥ ५३॥
चण्डं मुण्डं रक्तबीजं प्रैषयत्क्रमतोऽसुरान् ।
तेऽपि चाज्ञापिता दैत्या ययुर्यत्राम्बिका स्थिता ॥ ५४॥
सिंहारूढा भगवतीमणिमादिभिराश्रिताम् ।
भासयन्तीं दिशो भासा दृष्ट्वोचुर्दानवर्षभाः ॥ ५५॥
हे देवि तरसा मूलं याहि शुम्भनिशुम्भयोः ।
अन्यथा घातयिष्यामः सगणां त्वां सवाहनाम् ॥ ५६॥
वृणीष्व तं पतिं वामे लोकपालादिभिः स्तुतम् ।
प्रपत्स्यसे महानन्दं देवानामपि दुर्लभम् ॥ ५७॥
इत्युक्तमाकलय्याम्बा स्मयित्वा परमेश्वरी ।
उदाजहार सा देवी सूनृतं रसवद्वचः ॥ ५८॥
देव्युवाच ।
अद्वितीयो महेशानः परब्रह्म सदाशिवः ।
यत्तत्त्वं न विदुर्वेदा विष्ण्वादीनां च का कथा ॥ ५९॥
तस्याहं प्रकृतिः सूक्ष्मा कथमन्यं पतिं वृणे ।
सिंही कामातुरा नैव जम्बुकं वृणुते क्वचित् ॥ ६०॥
करेणुर्गर्दभं नैव द्वीपिनी शशकं न वा ।
मृषा वदत भो दैत्यो मृत्युव्यालनियन्त्रिताः ॥ ६१॥
यूयं प्रयात पातालं युध्यध्वं शक्तिरस्ति चेत् ।
इति क्रोधकरं वाक्यं श्रुत्वोचुस्ते परस्परम् ॥ ६२॥
अबलां मनसि ज्ञात्वा न हन्मो भवतीं वयम् ।
अथो स्थिरैहि पञ्चास्ये युद्धेच्छा मानसेऽस्ति चेत् ॥ ६३॥
तेषामेवं विवदतां कलहः समवर्धत ।
ववृषुः समरे बाणा उभयोर्दलयोः शिताः ॥ ६४॥
एवं तैः समरं कृत्वा लीलया परमेश्वरी ।
जघान चण्डमुण्डाभ्यां रक्तबीजं महासुरम् ॥ ६५॥
द्वेषबुद्धिं विधायापि त्रिदशारातयोऽप्यमी ।
अन्ते प्रापन्परं लोकं यँल्लोकं यान्ति तज्जनाः ॥ ६६॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां धूम्रलोचनचण्डमुण्डरक्तबीजवधो नाम सप्तचत्वारिंशोऽध्यायः ॥ ५.४७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४८. अष्टचत्वारिंशोऽध्यायः । सरस्वतीप्रादुर्भाववर्णनम् ।
राजोवाच ॥
धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरं तथा ।
भगवन्निहतं देव्या श्रुत्वा शुम्भः सुरार्दनः ॥ १॥
किमकार्षीत्ततो ब्रह्मन्नेतन्मे ब्रूहि साम्प्रतम् ।
शुश्रूषवे जगद्योनेश्चरित्रं पापनाशनम् ॥ २॥
ऋषिरुवाच ।
हतानिमान्दैत्यवरान्महासुरो
निशम्य राजन्महनीयविक्रमः ।
अजिज्ञपत्स्वीयगणान्दुरासदान्
रणाभिधोच्चारणजातसम्मदान् ॥ ३॥
बलान्विताः सम्मिलिता ममाज्ञया
जयाशया कालकवंशसम्भवाः ।
सकालकेयासुरमौर्यदौर्हृदाः
तथा परेऽप्याशु प्रयाणयन्तु ते ॥ ४॥
निशुम्भशुम्भौ दितिजान्निदेश्य तान्
रथाधिरूढौ निरयाम्बभूवतुः ।
बलान्यनूकाबलिनोस्तयोर्धराद्
विनाशवन्तः शलभा इवोत्थिताः ॥ ५॥
प्रवादयामास मृदङ्गमर्दलं
सभेरिकाडिण्डिमझर्झरानकम् ।
रणस्थले सञ्जहृषू रणप्रिया
असुप्रियाः सङ्गरतः पराययुः ॥ ६॥
भटाश्च ते युद्धपटावृतास्तदा
रणस्थलीमापुरपापविग्रहाः ।
गृहीतशस्त्रास्त्रचया जिगीषया
परस्परं विग्रहयन्त उल्बणम् ॥ ७॥
गजाधिरूढास्तुरगाधिरोहिणो
रथाधिरूढाश्च तथापरेऽसुराः ।
अलक्षयन्तः स्वपराञ्जनान्मुदाऽ-
सुरेशसङ्गे समरेऽभिरेभिरे ॥ ८॥
ध्वनिः शतघ्नीजनितो मुहुर्मुहु-
र्बभूव तेन त्रिदशाः समेजिताः ।
महान्धकारः समपद्यताम्बरे
विलोक्यते नो रथमण्डलं रवेः ॥ ९॥
पदातयो निर्व वजुर्हि कोटिशः
प्रभूतमाना विजयाभिलाषिणः ।
रथाश्वगा वारणगा अथापरेऽ-
सुरा निरीयुः कति कोटिशो मुदा ॥ १०॥
अशुक्लशैला एव मत्तवारणा
अतानिषुश्चीत्कृतिशब्दमाहवे ।
क्रमेलकाश्चापि गलद्गलध्वनिं
वितन्वते क्षुद्रमहीधरोपमाः ॥ ११॥
हयाश्च ह्रेषन्त उदग्रभूमिजा
विशालकण्ठाभरणा गतेर्विदः ।
पदानि दन्तावलमूर्ध्नि बिभ्रतः
सुडिड्यिरे व्योमपथा यथावयः ॥ १२॥
समीक्ष्य शत्रोर्बलमित्थमापतत्
चकार सज्यं धनुरम्बिका तदा ।
ननाद घण्टां रिपुसाददायिनीं
जगर्ज सिंहोऽपि सटां विधूनयन् ॥ १३॥
ततो निशुम्भस्तुहिनाचलस्थितां
विलोक्य रम्याभरणायुधां शिवाम् ।
गिरं बभाषे रसनिर्भरां परां
विलासनीभावविचक्षणो यथा ॥ १४॥
भवादृशीनां रमणीयविग्रहे
दुनोति कीर्णं खलु मालतीदलम् ।
कथं करालाहवमातनोष्यसे
महेशि तेनैव मनोज्ञवर्ष्मणा ॥ १५॥
इतीरयित्वा वचनं महासुरो
बभूव मौनी तमुवाच चण्डिका ।
वृथा किमात्थासुर मूढ सङ्गरं
कुरुष्व नागालयमन्यथा व्रज ॥ १६॥
ततोऽतिरुष्टः समरे महारथ-
श्चकार बाणावलिवृष्टिमद्भुताम् ।
घनाघनाः संववृषुर्यथोदकं
रणस्थले प्रावृडिवागतास्तदा ॥ १७॥
शरैश्शितैः शूलपरश्वधायुधैः
सभिन्दिपालैः परिघैः शरासनैः ।
भुशुण्डिकाप्रासक्षुरप्रसंज्ञकै-
र्महासिभिः संयुयुधे मदोद्धतैः ॥ १८॥
विबभ्रमुस्तत्समरे महागजा
विभिन्नकुम्भा असिताद्रिसन्निभाः ।
चलद्बलाकाधवला विकेतवो
विसेतवः शुम्भनिशुम्भकेतवः ॥ १९॥
विभिन्नदेहा दितिजा झषोपमा
विकन्धरा वाजिगणा भयङ्कराः ।
परासवः कालिकया कृता रणे
मृगारिणा चामिषतां परेऽसुराः ॥ २०॥
विसुस्रुवू रक्तवहास्तदन्तरे
सरिच्चयास्तत्र विपुप्लुवे हतैः ।
कचा भटानां जलनीलिकोपमा-
स्तदुत्तरीयं सितफेनसन्निभम् ॥ २१॥
तुरङ्गसादी तुरगाधिरोहिणं
गजस्थितानभ्यपतन्गजारुहः ।
रथी रथेशं खलु पत्तिरङ्घ्रिगान्
समप्रतिद्वन्द्विकलिर्महानभूत् ॥ २२॥
ततो निशुम्भो हृदये व्यचिन्तयत्
करालकालोऽयमुपागतोऽधुना ।
भवेद्दरिद्रोऽपि महाधनो महा-
धनो दरिद्रो विपरीतकालतः ॥ २३॥
जडो भवेत्स्फीतमतिर्महामति-
र्जडो नृशंसो बहुमन्तुसंस्तुतः ।
पराजयं यान्ति रणे महाबला
जयन्ति सङ्ग्राममुखे च दुर्बलाः ॥ २४॥
जयोऽजयो वा परमेश्वरेच्छया
भवत्यनायासत एव देहिनाम् ।
न कालमुल्लङ्घ्य शशाक जीवितुं
महेश्वरः पद्मजनी रमापतिः ॥ २५॥
उपेत्य सङ्ग्राममुखं पलायनं
न साधु वीरा हृदयेऽनुमन्वते ।
परन्तु युद्धे कथमेतया जयो
विनाशितं मे सकलं बलं यथा ॥ २६॥
इयं हि नूनं सुरकर्म साधितुं
समागता दैत्यबलं च बाधितुम् ।
पुराणमूर्तिः प्रकृतिः परा शिवा
न लौकिकीयं वनिता कदापि वा ॥ २७॥
वधोऽपि नारीविहितोऽयशस्करः
प्रगीयते युद्धरसं लिलिक्षुभिः ।
तथाप्यकृत्वा समरं कथं मुखं
प्रदर्शयामोऽसुरराजसन्निधौ ॥ २८॥
विचारयित्वेति महारथो रथं
महान्तमध्यास्य नियन्तृचोदितम् ।
ययौ द्रुतं यत्र महेश्वराङ्गना
सुराङ्गनाप्रार्थितयौवनोद्गमा ॥ २९॥
अवोचदेनां स महेशि किं भवे-
देभिर्हतैर्वेतनजीविभिर्भटैः ।
तवास्ति काङ्क्षा यदि योद्धुमावयो-
स्तदा रणः स्याद्धृतयुद्धसत्पटैः ॥ ३०॥
उवाच कालीं प्रति कौशिकी तदा
समीक्ष्यतामेष दुराग्रहोऽनयोः ।
करोति कालो विपदागमे मतिं
विभिन्नवृत्तिं सदसत्प्रवर्तकः ॥ ३१॥
ततो निशुम्भोऽभिजघान चण्डिकां
शरैः सहस्रैश्च तथैव कालिकाम् ।
बिभेद बाणानसुरप्रचोदितान्
सहस्रखण्डं स्वशरोत्करैः शिवा ॥ ३२॥
ततः समुत्थाप्य कृपाणमुज्ज्वलं
सचर्म कण्ठीरवमूर्ध्न्यताडयत् ।
बिभेद तं चापि महासिनाम्बिका
यथा कुठारेण तरुं तरुश्छिदः ॥ ३३॥
स भिन्नखड्गो निचखान मार्गणं
पराम्बिकावक्षसि सोऽपि चिच्छिदे ।
पुनस्त्रिशूलं हृदयेऽक्षिपत्तद-
प्यचूर्णयन्मुष्टिनिपातनेन सा ॥ ३४॥
गदां समादाय पुनर्महारथो-
ऽभ्यधावदम्बां मरणोन्मुखोऽसुरः ।
अचूर्णयत्तामपि शूलधारया
पुनस्त्रिशूलं विददार सोऽन्यया ॥ ३५॥
ततोऽम्बिका भीमभुजङ्गमोपमैः
सुरद्विषां शोणितचूषणोचितैः ।
निशुम्भमात्मीयशिलीमुखैः शितै-
र्निहत्य भूमीमनयद्विषोक्षितैः ॥ ३६॥
निपातितेऽमानबलेऽसुरप्रभुः
कनीयसि भ्रातरि रोषपूरितः ।
रथस्थितो बाहुभिरष्टभिर्वृतो
जगाम यत्र प्रमदा महेशितुः ॥ ३७॥
अवादयच्छङ्खमरिन्दमं तदा
धनुःस्वनं चापि चकार दुःसहम् ।
ननाद सिंहोऽपि सटां विधूनयन्
बभूव नादत्रयनादितं नभः ॥ ३८॥
ततोऽट्टहासं जगदम्बिकाऽकरो-
द्वितत्रसुस्तेन सुरारयोऽखिलाः ।
जयेति शब्दं जगदुस्तदा सुरा
यदाम्बिकोवाच रणे स्थिरो भव ॥ ३९॥
स दैत्यराजो महतीं ज्वलच्छिखां
मुमोच शक्तिं निहता च सोल्कया ।
बिभेद शुम्भप्रहितान् शरान् शिवा
शिवेरितान्सोऽपि सहस्रधा शरान् ॥ ४०॥
त्रिशूलमुत्क्षिप्य जघान चण्डिका
महासुरं तं स पपात मूर्च्छितः ।
विभिन्नपक्षो हरिणा यथा नगः
प्रकम्पयन् द्यां वसुधां सवारिधिम् ॥ ४१॥
ततो मृषित्वा त्रिशिखोद्भवां व्यथां
विधाय बाहूनयुतं महाबलः ।
स कालिकां सिंहयुतां महेश्वरीं
जघान चक्रैरमरक्षयङ्करैः ॥ ४२॥
तदस्य चक्राणि विभिद्य लीलया
त्रिशूलमुद्गूर्य जघान सासुरम् ।
शिवाजगत्पावनपाणिपङ्कजा-
दुपात्तमृत्यू परमं पदं गतौ ॥ ४३॥
हते तस्मिन्महावीर्ये निशुम्भे भीमविक्रमे ।
शुम्भे च सकला दैत्या विविशुर्बलिसद्मनि ॥ ४४॥
भक्षिता अपरे कालीसिंहाद्यैरमरद्विषः ।
पलायितास्तथान्ये च दशदिक्षु भयाकुलाः ॥ ४५॥
बभूवुर्मार्गवाहिन्यः सरितः स्वच्छपाथसः ।
ववुर्वाताः सुखस्पर्शा निर्मलत्वं ययौ नभः ॥ ४६॥
पुनर्यागः समारेभे देवैर्ब्रह्मर्षिभिस्तथा ।
सुखिनश्चाभवन्सर्वे महेन्द्राद्या दिवौकसः ॥ ४७॥
पवित्रं परमं पुण्यमुमायाश्चरितं प्रभो ।
दैत्यराजवधोपेतं श्रद्धया यः समभ्यसेत् ॥ ४८॥
स भुक्त्वेहाखिलान्भोगांस्त्रिदशैरपि दुर्लभान् ।
परत्रोमालयं गच्छेन्महामायाप्रसादतः ॥ ४९॥
ऋषिरुवाच ।
एवं देवी समुत्पन्ना शुम्भासुरनिबर्हिणी ।
प्रोक्ता सरस्वती साक्षादुमांशाविर्भवा नृप ॥ ५०॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां निशुम्भशुम्भवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ५.४८॥
५.४९
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.४९. एकोनपञ्चाशत्तमोऽध्यायः । उमाप्रादुर्भाववर्णनम् ।
मुनय ऊचुः ।
उमाया भुवनेशान्याः सूत सर्वार्थवित्तम ।
अवतारं समाचक्ष्व यतो जाता सरस्वती ॥ १॥
या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ।
निराकारापि साकारा नित्या नन्दमयी सती ॥ २॥
सूत उवाच ।
तापसाः शृणुत प्रेम्णा चरित्रं परमं महत् ।
यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥ ३॥
देवदानवयोर्युद्धमेकदासीत्परस्परम् ।
महामायाप्रभावेणामराणां विजयोऽभवत् ॥ ४॥
ततोऽवलिप्ता अमराः स्वप्रशंसां वितेनिरे ।
वयं धन्या वयं धन्याः किं करिष्यन्ति नोऽसुराः ॥ ५॥
ये प्रभावं समालोक्यास्माकं परमदुःसहम् ।
भीता नागालयं याता यात यातेति वादिनः ॥ ६॥
अहो बलमहो तेजो दैत्यवंशक्षयङ्करम् ।
अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ॥ ७॥
तत आविरभूत्तेजः कूटरूपं तदैव हि ।
अदृष्टपूर्वं तद् दृष्ट्वा विस्मिता अभवन्सुराः ॥ ८॥
किमिदं किमिदं चेति रुद्धकण्ठाः समब्रुवन ।
अजानन्तः परं श्यामानुभावं मानभञ्जनम् ॥ ९॥
तत आज्ञापयद्देवान् देवानामधिनायकः ।
यात यूयं परीक्षध्वं याथातथ्येन किन्विति ॥ ५.४९.१०॥
सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ।
कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ॥ ११॥
इति पृष्टस्तदा वायुर्महसातिगरीयसा ।
वायुरस्मि जगत्प्राणः साभिमानोऽब्रवीदिदम् ॥ १२॥
जङ्गमाजङ्गमं सर्वमोतप्रोतमिदं जगत् ।
मय्येव निखिलाधारे चालयाम्यखिलं जगत् ॥ १३॥
तदोवाच महातेजः शक्तोऽसि यदि चालने ।
धृतमेतत्तृणं वायो चालयस्व निजेच्छया ॥ १४॥
ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ।
न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ॥ १५॥
तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रंसभां प्रति ।
कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ॥ १६॥
सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ।
न पारयामहे किञ्चिद्विधातुं क्षुद्रवस्त्वपि ॥ १७॥
ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ।
न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ॥ १८॥
मघवन्तमथायान्तं दृष्ट्वा तेजोऽतिदुःसहम् ।
बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः ॥ १९॥
चरित्रमीदृशं यस्य तमेव शरणं श्रये ।
इति सञ्चिन्तयामास सहस्राक्षः पुनः पुनः ॥ ५.४९.२०॥
एतस्मिन्नन्तरे तत्र निर्व्याजकरुणातनुः ।
तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवाङ्गना ॥ २१॥
चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ।
प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ॥ २२॥
महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ।
बोधयन्ती सुरान्सर्वान् ब्रह्मैवाहमिति स्फुटम् ॥ २३॥
चतुर्भिर्दधती हस्तैर्वरपाशाङ्कुशाभयान् ।
श्रुतिभिः सेविता रम्या नवयौवनगर्विता ॥ २४॥
रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ।
कोटिकन्दर्पसङ्काशा चन्द्रकोटिसमप्रभा ॥ २५॥
व्याजहार महामाया सर्वान्तर्यामिरूपिणी ।
साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ॥ २६॥
उमोवाच ।
न ब्रह्मा न सुरारातिर्न पुरारातिरीश्वरः ।
मदग्रे गर्वितुं किञ्चित्का कथान्यसुपर्वणाम् ॥ २७॥
परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ।
अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ॥ २८॥
निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ।
अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ॥ २९॥
कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ।
कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ॥ ५.४९.३०॥
विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ।
रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ॥ ३१॥
कालिकाकमलावाणीमुखाः सर्वा हि शक्तयः ।
मदंशादेव सञ्जातास्तथेमाः सकलाः कलाः ॥ ३२॥
मत्प्रभावाज्जिताः सर्वे युष्माभिर्दितिनन्दनाः ।
तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ॥ ३३॥
यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ।
तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ॥ ३४॥
मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक् ।
लोकपालाः प्रकुर्वन्ति स्वस्वकर्माण्यनारतम् ॥ ३५॥
कदाचिद्देववर्गाणां कदाचिद्दितिजन्मनाम् ।
करोमि विजयं सम्यक् स्वतन्त्रा निजलीलया ॥ ३६॥
अविनाशि परं धाम मायातीतं परात्परम् ।
श्रुतयो वर्णयन्ते यत्तद्रूपं तु ममैव हि ॥ ३७॥
सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ।
मायाशबलितं चैकं द्वितीयं तदनाश्रितम् ॥ ३८॥
एवं विज्ञाय मां देवाः स्वं स्वं गर्वं विहाय च ।
भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ॥ ३९॥
इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ।
तुष्टुवुः परमेशानीं भक्तिसन्नतकन्धराः ॥ ५.४९.४०॥
क्षमस्व जगदीशानि प्रसीद परमेश्वरि ।
मैवं भूयात्कदाचिन्नो गर्वो मातर्दयां कुरु ॥ ४१॥
ततःप्रभृति ते देवा हित्वा गर्वं समाहिताः ।
उमामाराधयामासुर्यथापूर्वं यथाविधि ॥ ४२॥
इति वः कथितो विप्रा उमाप्रादुर्भवो मया ।
यस्य श्रवणमात्रेण परमं पदमश्नुते ॥ ४३॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामुमाप्रादुर्भाववर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ५.४९॥
५.५०
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.५०. पञ्चाशत्तमोऽध्यायः । शताक्ष्याद्यवतारवर्णनम् ।
मुनय ऊचुः ।
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ।
अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ॥ १॥
शृण्वतां त्वन्मुखाम्भोजात् कथा नाना सुधोपमाः ।
न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ॥ २॥
सूत उवाच ।
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ।
ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ॥ ३॥
देवाजेयबलं चापि सम्प्राप्य जगतीतले ।
करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ॥ ४॥
सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ।
ब्राह्मणाश्च दुराचारा बभूवुः ससुरास्तदा ॥ ५॥
न दानं न तपोऽत्युग्रं न यागो हवनं न हि ।
अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ॥ ६॥
हाहाकारो महानासीत् त्रिषु लोकेषु दुःखिताः ।
अभवंश्च जनाःसर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ॥ ७॥
सरितः सागराश्चैव वापीकूपसरांसि च ।
निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ॥ ८॥
ततो दृष्ट्वा महादुःखं प्रजानां दीनचेतसाम् ।
त्रिदशाः शरणं याता योगमायां महेश्वरीम् ॥ ९॥
देवा ऊचुः ।
रक्ष रक्ष महामाये स्वकीयाः सकलाः प्रजाः ।
कोपं संहर नूनं त्वं लोका नङ्क्ष्यन्ति चान्यथा ॥ ५.५०.१०॥
यथा शुम्भो हतो दैत्यो निशुम्भश्च महाबलः ।
धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ॥ ११॥
समधुः कैटभो दैत्यो महिषासुर एव च ।
तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ॥ १२॥
अपराधो भवत्येव बालकानां पदे पदे ।
सहते को जनो लोके केवलं मातरं विना ॥ १३॥
यदा यदाभवद्दुःखं देवानां ब्रह्मणां तथा ।
तदा तदावतीर्याशु कुरुषे सुखिनो जनान् ॥ १४॥
इति विक्लवितं तेषां समाकर्ण्य कृपामयी ।
अनन्ताक्षमयं रूपं दर्शयामास साम्प्रतम् ॥ १५॥
धनुर्बाणौ तथा पद्मं नानामूलफलानि च ।
चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा ॥ १६॥
ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा ।
रुरोद नव घस्राणि नव रात्रीः समाकुला ॥ १७॥
मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ।
ताभिः प्रतर्पिता लोका औषध्यः सकला अपि ॥ १८॥
अगाधतोयाः सरितो बभूवुः सागरा अपि ।
रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ॥ १९॥
विततार करस्थानि सुमनोभ्यः फलानि च ।
गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ॥ ५.५०.२०॥
सन्तुष्टा अभवन्सर्वे सदेवद्विजमानुषाः ।
ततो जगाद सा देवी किमन्यत्करवाणि वः ॥ २१॥
समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ।
वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ॥ २२॥
तथास्त्विति प्रभाष्याह यात यात निजालयम् ।
वितरिष्यामि वो वेदानचिरेणैव कालतः ॥ २३॥
ततः प्रमुदिता देवाः स्वं स्वं धाम समाययुः ।
सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ॥ २४॥
ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ।
तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ॥ २५॥
ततस्तेजोमयं चक्रं विधाय परितः शिवा ।
रक्षणार्थं देवतानां स्वयं तस्माद् बहिर्गता ॥ २६॥
ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ।
ववृषुः समरे बाणान्निशितान्कङ्कटच्छिदः ॥ २७॥
एतस्मिन्नन्तरे तस्याः शरीराद् रम्यमूर्तयः ।
काली तारा छिन्नमस्ता श्रीविद्या भुवनेश्वरी ॥ २८॥
भैरवी बगला धूम्रा श्रीमत्त्रिपुरसुन्दरी ।
मातङ्गी च महाविद्या निर्गता दश सायुधाः ॥ २९॥
असङ्ख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ।
चन्द्रलेखाधराः सर्वाः सर्वा विद्युत्समप्रभाः ॥ ५.५०.३०॥
ततो मातृगणैर्युद्धं प्रावर्तत भयङ्करम् ।
रौरवीयं हतं ताभिर्दलमक्षौहिणीशतम् ॥ ३१॥
जघान सा तदा दैत्यं दुर्गमं शूलधारया ।
पपात धरणीपृष्ठे खातमूलद्रुमो यथा ॥ ३२॥
इत्थं हत्वा तदा दैत्यं दुर्गमासुरनामकम् ।
आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ॥ ३३॥
देवा ऊचुः ।
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ।
मुनयः कीर्तयिष्यन्ति शताक्षीं त्वामतोऽम्बिके ॥ ३४॥
आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ।
शाकम्भरीति विख्यातं तत्ते नाम भविष्यति ॥ ३५॥
दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ।
दुर्गां भगवतीं भद्रां व्याहरिष्यन्ति मानवाः ॥ ३६॥
योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ।
नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ॥ ३७॥
तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ।
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ ३८॥
वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ।
स्तोतुं न शक्नुमो मातस्त्वत्प्रभावाबुधा वयम् ॥ ३९॥
मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीं दयाम् ।
वर्जयित्वा सुरेशानीं शताक्षीं मातरं विना ॥ ५.५०.४०॥
त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ।
एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ॥ ४१॥
देव्युवाच ।
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ।
तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ॥ ४२॥
मम युष्मानपश्यन्त्याः पश्यन्त्या बालकानिव ।
अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ॥ ४३॥
कापि चिन्ता न कर्तव्या युष्माभिर्भक्तिशालिभिः ।
भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ॥ ४४॥
यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान् ।
संशयो नात्र कर्त्तव्यः सत्यं सत्यं ब्रवीम्यहम् ॥ ४५॥
यदा शुम्भो निशुम्भश्चापरौ दैत्यौ भविष्यतः ।
तदाहं नन्दभार्यायां यशोदायां यशोमयी ॥ ४६॥
योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ।
हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ॥ ४७॥
भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ।
भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ॥ ४८॥
कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ।
भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ४९॥
यदा यदासुरोत्थैवं बाधा भुवि भविष्यति ।
तदा तदावतीर्याहं शं करिष्याम्यसंशयम् ॥ ५.५०.५०॥
या शताक्षी स्मृता देवी सैव शाकम्भरी मता ।
सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ॥ ५१॥
न शताक्षीसमा काचिद्दयालुर्भुवि देवता ।
दृष्ट्वारुदत्प्रजास्तप्ता या नवाहं महेश्वरी ॥ ५२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५.५०॥
५.५१
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
५.५१. एकपञ्चाशत्तमोऽध्यायः । क्रियायोगनिरूपणम् ।
मुनय ऊचुः ।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।
अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः ॥ १॥
उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ।
प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ॥ २॥
सूत उवाच ।
धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ।
पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात् ॥ ३॥
व्यास उवाच ।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ।
उमायाः श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ॥ ४॥
कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ।
प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ॥ ५॥
सनत्कुमार उवाच ।
द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ।
तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ॥ ६॥
ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ।
त्रयो मार्गाः समाख्याताः श्रीमातुर्भुक्तिमुक्तिदाः ॥ ७॥
ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।
यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥ ८॥
भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ।
त्रयाणामपि योगानां क्रियायोगः स उच्यते ॥ ९॥
कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।
ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः ॥ ५.५१.१०॥
प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ।
क्रियायोगस्तु योगस्य परमं ध्येयसाधनम् ॥ ११॥
मायां तु प्रकृतिं विद्यान्मायावी ब्रह्म शाश्वतम् ।
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १२॥
यस्तु देव्यालयं कुर्यात्पाषाणं दारवं तथा ।
मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ।
अहन्यहनि योगेन यजतो यन्महाफलम् ॥ १३॥
प्राप्नोति तत्फलं देव्या यः कारयति मन्दिरम् ।
सहस्रकुलमागामि व्यतीतं च सहस्रकम् ।
स तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ॥ १४॥
कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ॥ १५॥
नदीषु च यथा गङ्गा शोणः सर्वनदेषु च ।
क्षमायां च यथा पृथ्वी गाम्भीर्ये च यथोदधिः ॥ १६॥
ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते ।
तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ॥ १७॥
सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद् गृहम् ।
प्रतिष्ठां समवाप्नोति स च जन्मनि जन्मनि ॥ १८॥
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ।
गङ्गासमुद्रतीरे च नैमिषेऽमरकण्टके ॥ १९॥
श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ।
मथुरायामयोध्यायां द्वारावत्यां तथैव च ॥ ५.५१.२०॥
इत्यादिपुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ।
कारयन्मातुरावासं मुक्तो भवति बन्धनात् ॥ २१॥
इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि मणिद्वीपे महीयते ॥ २२॥
प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ।
स उमायाः परं लोकं निर्भयो व्रजति धुवम् ॥ २३॥
देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुग्रहतारके ।
कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ॥ २४॥
ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।
तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ॥ २५॥
त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुङ्गव ।
तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ॥ २६॥
मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ।
चतुर्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ॥ २७॥
विष्णोर्नाम्नां कोटिजपाद् ग्रहणे चन्द्रसूर्ययोः ।
यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम् ॥ २८॥
शिवनाम्नो जपादेव तस्मात्कोटिगुणोत्तरम् ।
श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम् ॥ २९॥
देव्याः प्रासादकरणात्पुण्यं तु समवाप्यते ।
स्थापिता येन सा देवी जगन्माता त्रयीमयी ॥ ५.५१.३०॥
न तस्य दुर्लभं किञ्चित् श्रीमातुः करुणावशात् ।
वर्धन्ते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम् ॥ ३१॥
मनसा ये चिकीर्षन्ति मूर्तिस्थापनमुत्तमम् ।
तेऽत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम् ॥ ३२॥
क्रियमाणं तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ।
कारयिष्याम्यहं यर्हि सम्पन्मे सम्भविष्यति ॥ ३३॥
एवं तस्य कुलं सद्यो याति स्वर्गं न संशयः ।
महामायाप्रभावेण दुर्लभं किं जगत्त्रये ॥ ३४॥
श्रीपराम्बां जगद्योनिं केवलं ये समाश्रिताः ।
ते मनुष्या न मन्तव्याः साक्षाद्देवीगणाश्च ते ॥ ३५॥
ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ।
उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः ॥ ३६॥
नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम् ।
पुष्पैर्धूपैस्तथा दीपैस्ते प्रयास्यन्त्युमालयम् ॥ ३७॥
ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ।
उपलिम्पन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम् ॥ ३८॥
यैर्देव्या मन्दिरं रम्यं निर्मापितमनुत्तमम् ।
तत्कुलीनाञ्जनान्माता ह्याशिषः सम्प्रयच्छति ॥ ३९॥
मदीयाः शतवर्षाणि जीवन्तु प्रेमभाजनाः ।
नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम् ॥ ५.५१.४०॥
येन मूर्तिर्महादेब्या उमायाः कारिता शुभा ।
नरायुतं तत्कुलजं मणिद्वीपे महीयते ॥ ४१॥
स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च ।
यं यं प्रार्थयते कामं तं तं प्राप्नोति साधकः ॥ ४२॥
यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ।
घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः ॥ ४३॥
चन्दनागुरुकर्पूरमांसीमुस्तादियुग्जलैः ।
एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम् ॥ ४४॥
धूपेनाष्टादशाङ्गेन दद्यादाहुतिमुत्तमाम् ।
नीराजनं चरेद्देव्याः साज्यकर्पूरवर्तिभिः ॥ ४५॥
कृष्णाष्टम्यां नवम्यां वामायां वा पञ्चदिक्तिथौ ।
पूजयेज्जगतां धात्रीं गन्धपुष्पैर्विशेषतः ॥ ४६॥
सम्पठञ्जननीसूक्तं श्रीसूक्तमथवा पठन् ।
देवीसूक्तमथो वापि मूलमन्त्रमथापि वा ॥ ४७॥
विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ।
देवीप्रीतिकरं ज्ञेयं कमलं तु विशेषतः ॥ ४८॥
अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ।
स याति परमं धाम सिद्धकोटिभिरन्वितम् ॥ ४९॥
पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम् ।
प्रसीद परमेशानि जगदानन्ददायिनि ॥ ५.५१.५०॥
इति वाक्यैः स्तुवन्मन्त्री देवीभक्तिपरायणः ।
ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम् ॥ ५१॥
इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ।
नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत् ॥ ५२॥
नैवेद्यं भक्षयेद्यस्तु शम्भुशक्तेः परात्मनः ।
स निर्धूयाखिलं पङ्कं निर्मलो मानवो भवेत् ॥ ५३॥
चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ।
भवबन्धननिर्मुक्तः प्राप्नुयात्परमं पदम् ॥ ५४॥
अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ।
पूजयेज्जगतां धात्रीमुमां शङ्करसंयुताम् ॥ ५५॥
कुसुमैः कुङ्कुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ।
धूपैर्द्दीपैः सनैवेद्यैः स्रग्गन्धैरपरैरपि ॥ ५६॥
आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ।
श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम् ॥ ५७॥
प्रत्यब्दं कुरुते योऽस्यां व्रतमान्दोलनं तथा ।
नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति ॥ ५८॥
माधवस्य सिते पक्षे तृतीया याक्षयाभिधा ।
तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः ॥ ५९॥
मल्लिकामालतीचम्पाजपाबन्धूकपङ्कजैः ।
कुसुमैः पूजयेद्गौरीं शङ्करेण समन्विताम् ॥ ५.५१.६०॥
कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ।
निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते ॥ ६१॥
ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ।
योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किञ्चन ॥ ६२॥
आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ।
देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः ॥ ६३॥
रथं पृथ्वीं विजानीयाद्रथाङ्गे चन्द्रभास्करौ ।
वेदानश्वान्विजानीयात्सारथिं पद्मसम्भवम् ॥ ६४॥
नानामणिगणाकीर्णं पुष्पमालाविराजितम् ।
एवं रथं कल्पयित्वा तस्मिन् संस्थापयेच्छिवाम् ॥ ६५॥
लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ।
रथमध्ये संस्थितेति भावयेन्मतिमान्नरः ॥ ६६॥
रथे प्रचलिते मन्दं जयशब्दमुदीरयेत् ।
पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले ॥ ६७॥
इति वाक्यैस्तोषयेच्च नानावादित्रनिःस्वनैः ।
सीमान्ते तु रथं नीत्वा तत्र सम्पूजयेद्रथे ॥ ६८॥
नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ।
प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम् ॥ ६९॥
एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ।
इह भुक्त्वाखिलान्भोगान्सोऽन्ते देवीपदं व्रजेत् ॥ ५.५१.७०॥
शुक्लायां तु तृतीयायामेवं श्रावणभाद्रयोः ।
यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि ॥ ७१॥
मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ।
सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम् ॥ ७२॥
आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ।
यत्कृते सकलाः कामाः सिद्ध्यन्त्येव न संशयः ॥ ७३॥
नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ।
चतुरास्यो न पञ्चास्यो न षडास्यो न कोऽपरः ॥ ७४॥
नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः ।
हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः ॥ ७५॥
ध्रुवसन्धिसुतो धीमानयोध्याधिपतिर्नृपः ।
सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः ॥ ७६॥
व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम् ।
संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत् ॥ ७७॥
तृतीयायां च पञ्चम्यां सप्तम्यामष्टमीतिथौ ।
नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः ॥ ७८॥
आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ।
तस्य सर्वं मनोऽभीष्टं पूरयत्यनिशं शिवा ॥ ७९॥
यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ।
तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत् ॥ ५.५१.८०॥
लोहितैः करवीराद्यैः पुष्पैर्धूपैः सुगन्धितैः ।
पूजयेन्मङ्गलां देवीं स सर्वं मङ्गलं लभेत् ॥ ८१॥
सौभाग्याय सदा स्त्रीभिः कार्यमेतन्महाव्रतम् ।
विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि ॥ ८२॥
उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ।
देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः ॥ ८३॥
संहितेयं महापुण्या शिवभक्तिविवर्धिनी ।
नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा ॥ ८४॥
य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
पठेद्वा पाठयेद्वापि स याति परमां गतिम् ॥ ८५॥
यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ।
सम्पूजिता च विधिवत्सर्वान्कामान्स आप्नुयात् ॥ ८६॥
भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित् ।
पुत्रपौत्रादिसम्पत्तीर्लभत्येव न संशयः ॥ ८७॥
तस्मादियं महापुण्या रम्योमासंहिता सदा ।
श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः ॥ ८८॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५.५१॥
॥ समाप्तेयं पञ्चम्युमासंहिता ॥
Proofreading by H Revathy Rajaraman / Uma Mahesh