श्रीशिवमहापुराणम् ७ वायवीयससंहिता
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ सप्तमी वायवीयसंहिता
अथ सप्तमी वायवीयसंहिता पूर्वखण्डः ।
७.१.१. प्रथमोऽध्यायः । विद्यावतारकथनम् ।
व्यास उवाच ।
नमः शिवाय सोमाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ १॥
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ।
स्वामित्वं च विभुत्वं च स्वभावं सम्प्रचक्षते ॥ २॥
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ।
महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ३॥
धर्मक्षेत्रे महातीर्थे गङ्गाकालिन्दिसङ्गमे ।
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ४॥
मुनयः शंसितात्मानः सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे ॥ ५॥
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ।
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ६॥
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ।
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७॥
उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः ।
मधुरश्रवणानां च मनोज्ञपदपर्वणाम् ॥ ८॥
कथानां निपुणो वक्ता कालविन्नयवित्कविः ।
आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ९॥
तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टमानसाः ।
तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ १०॥
प्रतिगृह्य स तां पूजां मुनिभिः प्रतिपादिताम् ।
उद्दिष्टमासनं भेजे नियुक्तो युक्तमात्मनः ॥ ११॥
ततस्तत्सङ्गमादेव मुनीनां भावितात्मनाम् ।
सोत्कण्ठमभवच्चित्तं श्रोतुं पौराणिकीं कथाम् ॥ १२॥
तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ।
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ १३॥
ऋषय ऊचुः ।
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ।
सम्प्राप्तोऽद्य महाभाग शैवराज महामते ॥ १४॥
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ।
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ १५॥
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ।
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ १६॥
न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते ।
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ।
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ १७॥
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ।
वेदान्तसारसर्वस्वं पुराणं श्रावयाशु नः ॥ १८॥
एवमभ्यर्थितः सूतो मुनिभिर्वेदवादिभिः ।
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ १९॥
सूत उवाच ।
पूजितोऽनुगृहीतश्च भवद्भिरिति चोदितः ।
कस्मात्सम्यङ् न विब्रूयां पुराणमृषिपूजितम् ॥ २०॥
अभिवन्द्य महादेवं देवीं स्कन्दं विनायकम् ।
नन्दिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ २१॥
वक्ष्यामि परमं पुण्यं पुराणं वेदसम्मितम् ।
शिवज्ञानार्णवं साक्षाद् भुक्तिमुक्तिफलप्रदम् ॥ २२॥
शब्दार्थन्यायसंयुक्तैरागमार्थैर्विभूषितम् ।
श्वेतकल्पप्रसङ्गेन वायुना कथितं पुरा ॥ २३॥
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ।
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ २४॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ २५॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् ।
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ २६॥
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ।
आदिकर्त्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥ २७॥
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ।
ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ २८॥
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ।
विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ २९॥
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ।
मध्यमं तनयं विष्णुं पातारं ब्रह्मणोऽपि हि ॥ ३०॥
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ।
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ३१॥
अनन्तरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ।
प्रवृत्तिः सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ३२॥
यदास्य विस्तरं शक्ता नाधिगन्तुं प्रजा भुवि ।
तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ३३॥
द्वापरान्तेषु विश्वात्मा विष्णुर्विश्वम्भरः प्रभुः ।
व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ३४॥
एवं व्यस्ताश्च वेदाश्च द्वापरे द्वापरे द्विजाः ।
निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ३५॥
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ।
अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ३६॥
सङ्क्षिप्य स पुनर्वेदांश्चतुर्द्धा कृतवान्मुनिः ।
सङ्क्षिप्तान् स पुनर्देदान् चक्रेऽष्टादशधा मुनिः ।
व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ३७॥
पुराणानां च सङ्क्षिप्तं चतुर्लक्षप्रमाणतः ।
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ३८॥
यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ३९॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ४०॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ४१॥
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ।
बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ४२॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
भविष्यं नारदीयं च मार्कण्डेयमतः परम् ॥ ४३॥
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ।
स्कान्दं च वामनं चैव कौर्मं मात्स्यं च गारुडम् ॥ ४४॥
ब्रह्माण्डं चेति पुण्योऽयं पुराणानामनुक्रमः ।
तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ४५॥
ग्रन्थो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ।
निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ४६॥
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ।
तस्माद्विमुक्तिमन्विच्छन् शिवमेव समाश्रयेत् ॥ ४७॥
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ ४८॥
यदिदं शैवमाख्यातं पुराणं वेदसम्मितम् ।
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ ४९॥
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ।
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ ५०॥
कैलासं शतरुद्रं च कोटिरुद्राख्यमेव च ।
सहस्रकोटिरुद्राख्यं वायवीयं ततः परम् ॥ ५१॥
धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ।
विद्येशं दशसाहस्रमुदितं ग्रन्थसङ्ख्यया ॥ ५२॥
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ।
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ ५३॥
रौद्रकादशकाख्यं यत् कैलासं षट्सहस्रकम् ।
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ ५४॥
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ।
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ ५५॥
चतुस्सहस्रसङ्ख्येयं वायवीयमनुत्तमम् ।
धर्मसंज्ञं पुराणं यत्तद् द्वादशसहस्रकम् ॥ ५६॥
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ।
पुराणं वेदसारं तद् भुक्तिमुक्तिफलप्रदम् ॥ ५७॥
व्यासेन तत्तु सङ्क्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ ५८॥
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ५९॥
पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ।
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ६०॥
विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ।
त्रिंशत्तथा द्विसाहस्रं सार्द्धैकशतमीरितम् ॥ ६१॥
शतरुद्रं तथा कोटिरुद्रं व्योमयुगाधिकम् ।
द्विसाहस्रं च द्विशतं तथौमं भूसहस्रकम् ॥ ६२॥
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ।
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ ६३॥
चतुस्साहस्रसङ्ख्याकमेवं सङ्ख्याविभेदतः ।
श्रुतं परमपुण्यं तु पुराणं शिवसंज्ञकम् ॥ ६४॥
चतुःसहस्रकं यत्तु वायवीयमुदीरितम् ।
तदिदं वर्त्तयिष्यामि भागद्वयसमन्वितम् ॥ ६५॥
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ।
न चैवाश्रद्दधानाय नापुराणविदे तथा ॥ ६६॥
परीक्षिताय शिष्याय धार्मिकायानसूयवे ।
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ ६७॥
पुराणसंहिता यस्य प्रसादान्मयि वर्तते ।
नमो भगवते तस्मै व्यासायामिततेजसे ॥ ६८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमोऽध्यायः ॥ ७.१.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२. द्वितीयोऽध्यायः । मुनिप्रस्ताववर्णनम् ।
सूत उवाच ।
पुरा कालेन महता कल्पेऽतीते पुनः पुनः ।
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ १॥
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ।
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ २॥
इदं परमिदं नेति विवादः सुमहानभूत् ।
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ३॥
तेऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ।
यत्रास्ते भगवान् ब्रह्मा स्तूयमानः सुरासुरैः ॥ ४॥
मेरुशृङ्गे शुभे रम्ये देवदानवसङ्कुले ।
सिद्धचारणसम्बादे यक्षगन्धर्वसेविते ॥ ५॥
विहङ्गसङ्घसङ्घुष्टेमणिविद्रुमभूषिते ।
निकुञ्जकन्दरदरीगृहानिर्झरशोभिते ॥ ६॥
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७॥
सुरसामलपानीयपूर्णरम्यसरोवरम् ।
मत्तभ्रमरसञ्छन्नरम्यपुष्पितपादपम् ॥ ८॥
तरुणादित्यसङ्काशं तत्र चारु महत्पुरम् ।
दुर्द्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ९॥
तप्तजाम्बूनदमयं प्रांशुप्राकारतोरणम् ।
निर्यूहवलभीकूटप्रतोलीशतमण्डितम् ॥ १०॥
महार्हमणिचित्राभिर्लेलिहानमिवाम्बरम् ।
महाभवनकोटीभिरनेकाभिरलङ्कृतम् ॥ ११॥
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्द्धं प्रजापतिः ।
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ १२॥
ददृशुर्मुनयो देवा देवर्षिगणसेवितम् ।
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ १३॥
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ।
दिव्यकान्तिसमायुक्तं दिव्यगन्धानुलेपनम् ॥ १४॥
दिव्यशुक्लाम्बरधरं दिव्यमालाविभूषितम् ।
सुरासुरेन्द्रयोगीन्द्रवन्द्यमानपदाम्बुजम् ॥ १५॥
सर्वलक्षणयुक्ताङ्ग्या लब्धचामरहस्तया ।
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ १६॥
तं दृष्ट्वा मुनयः सर्वे प्रसन्नवदनेक्षणाः ।
शिरस्यञ्जलिमाधाय तुष्टुवुः सुरपुङ्गवम् ॥ १७॥
मुनय ऊचुः ।
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यन्तहेतवे ।
पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ १८॥
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ।
त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ १९॥
नमो ब्रह्माण्डदेहाय ब्रह्माण्डोदरवर्तिने ।
तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ २०॥
नमोऽस्तु सर्वलोकाय सर्वलोकविधायिने ।
सर्वात्मदेहसंयोगवियोगविधिहेतवे ॥ २१॥
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ।
तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ २२॥
सूत उवाच ।
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ।
प्राह गम्भीरया वाचा मुनीन् प्रह्लादयन्निव ॥ २३॥
ब्रह्मोवाच ।
ऋषयो हे महाभागा महासत्त्वा महौजसः ।
किमर्थं सहिताः सर्वे यूयमत्र समागताः ॥ २४॥
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ।
वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयोऽब्रुवन् ॥ २५॥
मुनय ऊचुः ।
भगवन्नन्धकारेण महता वयमावृताः ।
खिन्ना विवदमानाश्च न पश्यामोऽत्र यत्परम् ॥ २६॥
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ।
त्वया ह्यविदितं नाथ नेह किञ्चन विद्यते ॥ २७॥
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ।
विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ २८॥
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ।
तत्त्वं वद महाप्राज्ञ स्वसन्देहापनुत्तये ॥ २९॥
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ।
देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ३०॥
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युच्चरन् गिरिम् ।
आनन्दक्लिन्नसर्वाङ्गः कृताञ्जलिरभाषत ॥ ३१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः ॥ ७.१.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३. तृतीयोऽध्यायः । नैमिषोपाख्यानम् ।
ब्रह्मोवाच ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ १॥
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।
सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ २॥
कारणानां च यो धाता ध्याता परमकारणम् ।
न सम्प्रसूयतेऽन्यस्मात्कुतश्चन कदाचन ॥ ३॥
सर्वैश्वर्येण सम्पन्नो नाम्ना सर्वेश्वरः स्वयम् ।
सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥ ४॥
योऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ।
तत्प्रसादान्मया लब्धं प्राजापत्यमिदं पदम् ॥ ५॥
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ।
येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ६॥
एको बहूनां जन्तूनां निष्क्रियाणां च सक्रियः ।
य एको बहुधा बीजं करोति स महेश्वरः ॥ ७॥
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते ।
य एको भागवान् रुद्रो न द्वितीयोऽस्ति कश्चन ॥ ८॥
सदा जनानां हृदये सन्निविष्टोऽपि यः परैः ।
अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ९॥
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ।
अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ १०॥
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ।
स्वाभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ११॥
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ।
तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ १२॥
ईशते तदभिध्यानाद् योजनात्तत्वभावनः ।
भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ १३॥
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ।
यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ १४॥
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित्पदं समधिगम्यते ॥ १५॥
अयमादिरनाद्यन्तः स्वभावादेव निर्मलः ।
स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ १६॥
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ।
अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ १७॥
सर्वोपरिकृतावासः सर्वावासश्च सर्ववित् ।
षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ १८॥
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ।
अनन्तानन्तसन्दोहमकरन्दमध्रुव्रतः ॥ १९॥
अखण्डजगदण्डानां पिण्डीकरणपण्डितः ।
औदार्यवीर्यगाम्भीर्यमाधुर्यमकरालयः ॥ २०॥
नैवास्य सदृशं वस्तु नाधिकं चापि किञ्चन ।
अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ २१॥
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ।
अन्तकाले पुनश्चेदं तस्मिन्प्रलयमेष्यति ॥ २२॥
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ।
अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ २३॥
व्रतानि सर्वदानानि तपांसि नियमास्तथा ।
कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ २४॥
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ।
तपोभिरुग्रैरद्यापि तस्य दर्शनकाङ्क्षिणः ॥ २५॥
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ।
भक्तैरन्तर्बहिश्चापि पूज्यः सम्भाष्य एव च ॥ २६॥
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ।
अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ २७॥
ततः परं तु यन्नित्यं ज्ञानमानन्दमव्ययम् ।
तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद् व्रतमाश्रितैः ॥ २८॥
बहुनाऽत्र किमुक्तेन गुह्याद्गुह्यतरं परम् ।
शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ २९॥
प्रसादादेव सा भक्तिः प्रसादो भक्तिसम्भवः ।
यथा चाङ्कुरतो बीजं बीजतो वा यथाङ्कुरः ॥ ३०॥
प्रसादपूर्विका एव पशोः सर्वत्र सिद्धयः ।
स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ३१॥
प्रसादसाधनं धर्मः स च वेदेन दर्शितः ।
तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ३२॥
साम्यात्प्रसादसम्पर्को धर्मस्यातिशयस्ततः ।
धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ३३॥
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ।
साम्बे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ३४॥
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ।
प्रसादात्कर्मसन्त्यागः फलतो न स्वरूपतः ॥ ३५॥
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ।
स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ३६॥
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ।
शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ३७॥
ज्ञानान्वयवशात्पुंसः संसारे दोषदर्शनम् ।
ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ३८॥
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ।
ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ३९॥
योगेन तु परा भक्तिः प्रसादस्तदनन्तरम् ।
प्रसादान्मुच्यते जन्तुर्मुक्तः शिवसमो भवेत् ॥ ४०॥
अनुग्रहप्रकारस्य क्रमोऽयमविवक्षितः ।
यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ४१॥
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ।
बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ४२॥
तिर्यग्योनिगतः कश्चिन्मुच्यते नारकोऽपरः ।
अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ४३॥
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ।
कश्चिदध्वगतस्तस्मिन् स्थित्वा स्थित्वा विमुच्यते ॥ ४४॥
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ।
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ४५॥
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ।
ध्यायन्तश्शिवमेवैकं सदारतनयाग्नयः ॥ ४६॥
तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदुपाश्रयाः ।
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥ ४७॥
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ।
सत्रान्ते मन्त्रयोगेन वायुस्तत्र गमिष्यति ॥ ४८॥
स एव भवतां श्रेयः सोपायं कथयिष्यति ।
ततो वाराणसी पुण्या पुरी परमशोभना ॥ ४९॥
गन्तव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ।
सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ५०॥
तत्राश्चर्यं महद् दृष्ट्वा मत्समीपं गमिष्यथ ।
ततो वः कथयिष्यामि मोक्षोपायं द्विजोत्तमाः ॥ ५१॥
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ।
अनेकजन्मसंसारबन्धनिर्मोक्षकारिणी ॥ ५२॥
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ।
यत्रास्य शीर्यते नेमिः स देशस्तपसः शुभः ॥ ५३॥
इत्युक्त्वा सूर्यसङ्काशं चक्रं दृष्ट्वा मनोमयम् ।
प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ५४॥
तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ।
प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ५५॥
चक्रं तदपि सङ्क्षिप्तं श्लक्ष्णं चारुशिलातले ।
विमलस्वादुपानीये निपपात वने क्वचित् ॥ ५६॥
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ।
अनेकयक्षगन्धर्वविद्याधरसमाकुलम् ॥ ५७॥
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ।
विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ५८॥
अक्रमेणाहरन्मोहाद्यज्ञवाटं हिरण्मयम् ।
मुनिभिर्यत्र सङ्क्रुद्धैः कुशवज्रैर्निपातितः ॥ ५९॥
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ।
सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ६०॥
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ।
शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ६१॥
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ।
वादजल्पबलैर्घ्नन्ति वचोभिरतिवादिनः ॥ ६२॥
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः
प्रसरदमृतकल्पस्वच्छपानीयरम्यम् ।
अतिरसफलवृक्षप्रायमव्यालसत्त्वं
तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ६३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयोऽध्यायः ॥ ७.१.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.४. चतुर्थोऽध्यायः । वायुसमागमः ।
सूत उवाच ।
तस्मिन्देशे महाभागा मुनयः शंसितव्रताः ।
अर्चयन्तो महादेवं सत्रमारेभिरे तदा ॥ १॥
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ।
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ २॥
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ।
पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ३॥
शिष्यः स्वयम्भुवो देवः सर्वप्रत्यक्षदृग्वशी ।
आज्ञायां मरुतो यस्य संस्थिताः सप्तसप्तकाः ॥ ४॥
प्रेरयञ्छश्वदङ्गानि प्राणाद्याभिः स्ववृत्तिभिः ।
सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ५॥
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ।
तिर्यक् करादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ६॥
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ।
तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिन्तकाः ॥ ७॥
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ।
पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ८॥
अभ्युत्थाय ततः सर्वे प्रणम्याम्बरसम्भवम् ।
चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ९॥
सोऽपि तत्र समासीनो मुनिभिः सम्यगर्चितः ।
प्रतिनन्द्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ १०॥
वायुरुवाच ।
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ।
कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ११॥
प्रायश्चित्तं दुरिष्टं वा न कश्चित्समजायत ।
स्तोत्रमन्त्रजपैर्देवान् पितृन् पित्र्यैश्च कर्मभिः ॥ १२॥
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ।
निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ १३॥
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ।
प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ १४॥
मुनय ऊचुः ।
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ।
अस्मच्छ्रेयोऽभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ १५॥
शृणु चेदं पुरावृत्तं तमसाक्रान्तमानसैः ।
उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ १६॥
सोऽप्यस्माननुगृह्याह शरण्यः शरणागतान् ।
सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ १७॥
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ।
भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ १८॥
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ।
यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ १९॥
तत्प्रसादेन सत्रान्ते वायुस्तत्रागमिष्यति ।
तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ २०॥
इत्यादिश्य वयं सर्वे प्रेषिताः परमेष्ठिना ।
अस्मिन्देशे महाभाग तवागमनकाङ्क्षिणः ॥ २१॥
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ।
अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किञ्चन ॥ २२॥
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ।
वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ २३॥
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ।
सर्गादि शार्वमैश्वर्यं समासादवदद् विभुः ॥ २४॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थोऽध्यायः ॥ ७.१.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.५. पञ्चमोऽध्यायः । शिवतत्त्वज्ञानवर्णनम् ।
सूत उवाच ।
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ।
प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ १॥
नैमिषीया ऊचुः ।
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ।
कथं च शिष्यभावस्ते ब्रह्मणोऽव्यक्तजन्मनः ॥ २॥
वायुरुवाच ।
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ।
तस्मिन्कल्पे चतुर्वक्त्रः स्रष्टुकामोऽतपत्तपः ॥ ३॥
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ।
दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ४॥
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ।
दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ५॥
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणोऽधिपतिं पतिम् ।
प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ६॥
ततः स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ।
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७॥
यतः श्रुत्वाऽमृतं लब्धं ब्रह्मणा परमेश्वरात् ।
ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ८॥
मुनय ऊचुः ।
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यतरं शुभम् ।
यत्र कृत्वा परां निष्ठां पुरुषः सुखमृच्छति ॥ ९॥
वायुरुवाच ।
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ।
तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ १०॥
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्त्तते ।
ज्ञानं वस्तुपरिच्छेदो वस्तु च त्रिविधं स्मृतम् ॥ ११॥
अजडं च जडं चैव नियन्तृ च तयोरपि ।
पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ १२॥
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ।
तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ १३॥
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ।
क्षराक्षरपरं यत्तत् पतिरित्यभिधीयते ॥ १४॥
मुनय ऊचुः ।
किं तच्च क्षरमित्युक्तं किं चाक्षरमुदाहृतम् ।
तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत ॥ १५॥
वायुरुवाच ।
प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते ।
ताविमौ प्रेरयत्यन्यः स परः परमेश्वरः ॥ १६॥
मुनय ऊचुः ।
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ।
अनयोः केन सम्बन्धः कोऽयं प्रेरक ईश्वरः ॥ १७॥
वायुरुवाच ।
मायाप्रकृतिरुद्दिष्टा पुरुषो माययाऽऽवृतः ।
सम्बन्धो मलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १८॥
मुनय ऊचुः ।
केयं माया समाख्याता किंरूपो मायया वृतः ।
मलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ १९॥
वायुरुवाच ।
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ।
मलश्चिच्छादको नैजो विशुद्धिः शिवता स्वतः ॥ २०॥
मुनय ऊचुः ।
आवृणोति कथं माया व्यापिनं केन हेतुना ।
किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ २१॥
वायुरुवाच ।
आवृतिर्व्यापिनोऽपि स्याद्व्यापि यस्मात्कलाद्यपि ।
हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ २२॥
मुनय ऊचुः ।
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ।
तत्किमादि किमन्तं वा किम्फलं वा किमाश्रयम् ॥ २३॥
कस्मै भोगेश्च किं भोग्यं किं वा तद्भोगसाधनम् ।
मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान् ॥ २४॥
वायुरुवाच ।
कला विद्या च रागश्च कालो नियतिरेव च ।
कलादयः समाख्याता यो भोक्ता पुरुषो भवेत् ॥ २५॥
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ।
अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ २६॥
भोगः कर्मविनाशाय भोग्यमव्यक्तमुच्यते ।
बाह्यान्तःकरणद्वारं शरीरं भोगसाधनम् ॥ २७॥
भावातिशयलब्धेन प्रसादेन मलक्षयः ।
क्षीणे चात्ममले तस्मिन् शिवसमो भवेत् ॥ २८॥
मुनय ऊचुः ।
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ।
भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ २९॥
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ।
किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ३०॥
वायुरुवाच ।
दिक्क्रियाव्यञ्जिका विद्याकलो रागः प्रवर्तकः ।
कालोऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ३१॥
अव्यक्तं कारणं यत्तत्त्रिगुणप्रभवाप्ययम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ३२॥
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ।
सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ३३॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ३४॥
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ।
राजसं तद्विपर्यासात् स्तम्भमोहौ तु तामसौ ॥ ३५॥
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ।
मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ३६॥
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ।
ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ ३७॥
प्रधानबुद्ध्यहङ्कारमनांसि च चतुष्टयम् ।
समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ३८॥
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ।
व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ३९॥
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ।
शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ४०॥
तस्मादव्यक्तमेवैकं कारणं करणानि च ।
शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ४१॥
मुनय ऊचुः ।
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ।
आत्मशब्दाभिधेयस्य वस्तुतोऽपि कुतः स्थितिः ॥ ४२॥
वायुरुवाच ।
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ।
अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ४३॥
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ।
स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ४४॥
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ।
अन्तर्यामीति वेदेषु वेदान्तेषु च गीयते ॥ ४५॥
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ।
तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ४६॥
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ।
मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ४७॥
न च स्त्री न पुमानेष नैव चापि नपुंसकः ।
नैवोर्ध्वं नापि तिर्यक् च नाधस्तान्न कुतश्चन ॥ ४८॥
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ।
सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ४९॥
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ।
अपृथग्ये तु पश्यन्ति ह्यसम्यक् तेषु दर्शनम् ॥ ५०॥
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ।
अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ५१॥
विपदां बीजभूतेन पुरुषस्तेन संयुतः ।
सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ५२॥
अद्भिराप्लावितं क्षेत्रं जनयत्यङ्कुरं यथा ।
अज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ५३॥
अत्यन्तमसुखावासाः स्मृताश्चैकान्तमृत्यवः ।
अनागता अतीताश्च तनवोऽस्य सहस्रशः ॥ ५४॥
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ।
अत्यन्तवसतिः क्वापि न केनापि च लभ्यते ॥ ५५॥
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ।
चन्द्रबिम्बवदाकाशे तरलैरभ्रसञ्चयैः ॥ ५६॥
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ।
अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ५७॥
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ।
पथि सङ्गम एवायं दारैः पुत्रैश्च बन्धुभिः ॥ ५८॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥ ५९॥
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ।
तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ६०॥
ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ।
पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ६१॥
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ।
लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ६२॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ६३॥
सूत उवाच ।
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ।
प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ६४॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमोऽध्यायः ॥ ७.१.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.६. षष्ठोऽध्यायः । शिवतत्त्वज्ञानवर्णनम् ।
मुनय ऊचुः ।
योऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ।
आभ्यां विलक्षणः कश्चित्कोऽयमस्ति तयोः पतिः ॥ १॥
वायुरुवाच ।
अस्ति कश्चिदपर्यन्तरमणीयगुणाश्रयः ।
पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ २॥
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ।
अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ३॥
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ।
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ४॥
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ।
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ५॥
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ।
अयथाकरणज्ञानमन्धस्य गमनं यथा ॥ ६॥
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ।
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७॥
पशोः पाशस्य पत्युश्च तत्त्वतोऽस्ति पदं परम् ।
ब्रह्मवित् तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ८॥
संयुक्तमेतद् द्वितयं क्षरमक्षरमेव च ।
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ९॥
भोक्ता भोग्यं प्रेरयिता मन्तव्यं त्रिविधं स्मृतम् ।
नातः परं विजानद्भिर्वेदितव्यं हि किञ्चन ॥ १०॥
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ।
यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ११॥
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ।
सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति ॥ १२॥
य एको जालवानीश ईशानीभिः स्वशक्तिभिः ।
सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ १३॥
एक एव सदा रुद्रो न द्वितीयोऽस्ति कश्चन ।
संसृज्य विश्वभुवनं गोप्ता ते सञ्चुकोच यः ॥ १४॥
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ।
तथैव विश्वतोबाहुर्विश्वतः पादसंयुतः ॥ १५॥
द्यावाभूमी च जनयन् देव एको महेश्वरः ।
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ १६॥
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ।
विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ १७॥
वेदाहमेतं पुरुषं महान्तममृतं ध्रुवम् ।
आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ १८॥
अस्मान्नास्ति परं किञ्चिदपरं परमात्मनः ।
नाणीयोऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ १९॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ २०॥
सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ २१॥
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ।
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ २२॥
अचक्षुरपि यः पश्यत्यकर्णोऽपि शृणोति यः ।
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ २३॥
अणोरणीयान्महतो महीयानयमव्ययः ।
गुहायां निहितश्चापि जन्तोरस्य महेश्वरः ॥ २४॥
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ।
धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ २५॥
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ।
निरोधं जन्मनो यस्य वदन्ति ब्रह्मवादिनः ॥ २६॥
एकोऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ।
विदधाति विचेत्यन्ते विश्वमादौ महेश्वरः ॥ २७॥
विश्वधात्रीत्यजाख्या च शैवी चित्राकृतिः परा ।
तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ २८॥
जनित्रीमनुशेतेऽन्योजुषमाणः स्वरूपिणीम् ।
तामेवाजामजोऽन्यस्तु भक्तभोगां जहाति च ॥ २९॥
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ।
एकोऽत्ति पिप्पलं स्वादु परोऽनश्नन् प्रपश्यति ॥ ३०॥
वृक्षेऽस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ।
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ३१॥
तदास्य महिमानं च वीतशोकः सुखी भवेत् ।
छन्दांसि यज्ञाः क्रतवो यद्भूतं भव्यमेव च ॥ ३२॥
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ३३॥
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ।
सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ३४॥
स्रष्टारमपि विश्वस्य चेष्टितारं च तस्य तु ।
शिवमेवेश्वरं ज्ञात्वा शान्तिमत्यन्तमृच्छति ॥ ३५॥
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ।
तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ३६॥
घृतात्परं मण्डमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ।
सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ३७॥
एष एव परो देवो विश्वकर्मा महेश्वरः ।
हृदये सन्निविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ३८॥
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ।
केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ३९॥
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ।
न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ४०॥
अजातमिममेवैकं बुद्ध्वा जन्मनि भीरवः ।
रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणं सुखम् ॥ ४१॥
द्वे अक्षरे ब्रह्मपरे त्वनन्ते समुदाहृते ।
विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ४२॥
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ।
ते उभे ईशते यस्तु सोऽन्यः खलु महेश्वरः ॥ ४३॥
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ।
सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ४४॥
दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् ।
यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ४५॥
स्वभावं वाचकान् सर्वान् वाच्यांश्च परिणामयन् ।
गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ४६॥
तं वै गुह्योपनिषदि गूढं ब्रह्म परात्परम् ।
ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ४७॥
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ४८॥
स्वभावमेके मन्यन्ते कालमेके विमोहिताः ।
देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ४९॥
येनेदमावृतं नित्यं कालकालात्मना यतः ।
तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ५०॥
तत्कर्म भूयशः कृत्वा विनिवर्त्य च भूयशः ।
तत्त्वस्य सह सत्त्वेन योगं चापि समेत्य वै ॥ ५१॥
अष्टाभिश्च त्रिभिश्चैव द्वाभ्यां चैकेन वा पुनः ।
कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम् ॥ ५२॥
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ।
तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ५३॥
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ।
स एवादिः स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ५४॥
परस्त्रिकालादकलः स एव परमेश्वरः ।
सर्ववित् त्रिगुणाधीशो ब्रह्म साक्षात् परात्परः ॥ ५५॥
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ।
देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ५६॥
कालादिभिः परो यस्मात् प्रपञ्चः परिवर्तते ।
धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ५७॥
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेश्वरेश्वरम् ॥ ५८॥
न तस्य विद्येत कार्यं कारणं च न विद्यते ।
न तत्समोऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ५९॥
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ।
ज्ञानं बलं क्रियां चैव याभ्यो विश्वमिदं कृतम् ॥ ६०॥
न तस्यास्ति पतिः कश्चिन्नैव लिङ्गं न चेशिता ।
कारणं कारणानां च स तेषामधिपाधिपः ॥ ६१॥
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ।
न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ६२॥
स एकः सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ।
सर्वभूतान्तरात्मा च धर्माध्यक्षः स कथ्यते ॥ ६३॥
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ।
एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ६४॥
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ।
एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ६५॥
साङ्ख्ययोगाधिगम्यं यत् कारणं जगतां पतिम् ।
ज्ञात्वा देवं पशुः पाशैः सर्वैरेव विमुच्यते ॥ ६६॥
विश्वकृद् विश्ववित् स्वात्मयोनिज्ञः कालकृद् गुणी ।
प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ६७॥
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ।
यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ६८॥
मुमुक्षुरस्मात् संसारात् प्रपद्ये शरणं शिवम् ।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ ६९॥
अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ॥ ७०॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ ७१॥
तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ।
आत्माश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ ७२॥
वेदान्ते परमं गुह्यं पुरा कल्पप्रचोदितम् ।
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ ७३॥
नाप्रशान्ताय दातव्यमेतज्ज्ञानमनुत्तमम् ।
न पुत्रायासुवृत्ताय नाशिष्याय च सर्वथा ॥ ७४॥
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७५॥
अतश्च सङ्क्षेपमिदं शृणुध्वं
शिवः परस्तात्प्रकृतेश्च पुंसः ।
स सर्गकाले च करोति सर्वं
संहारकाले पुनराददाति ॥ ७६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम षष्ठोऽध्यायः ॥ ७.१.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.७. सप्तमोऽध्यायः । कालमहिमवर्णनम् ।
मुनय ऊचुः ।
कालादुत्पद्यते सर्वं कालादेव विपद्यते ।
न कालनिरपेक्षं हि क्वचित्किञ्चन विद्यते ॥ १॥
यदास्यान्तर्गतं विश्वं शश्वत्संसारमण्डलम् ।
सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ २॥
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ।
यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ३॥
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ।
अतिप्रभुरिति स्वैरं वर्ततेऽतिभयङ्करः ॥ ४॥
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ।
क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ५॥
वायुरुवाच ।
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ।
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ६॥
यदलङ्घ्यमशेषस्य स्थावरस्य चरस्य च ।
नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७॥
तस्यांशांशमयी शक्तिः कालात्मनि महात्मनि ।
ततो निष्क्रम्य सङ्क्रान्ता विसृष्टाग्रेरिवायसी ॥ ८॥
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ।
शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ९॥
यतोऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ।
महती तेन कालस्य मर्यादा हि दुरत्यया ॥ १०॥
कालं प्रज्ञाविशेषेण कोऽतिवर्तितुमर्हति ।
कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ११॥
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ।
तेऽपि नैवातिवर्तन्ते कालं वेलामिवाब्धयः ॥ १२॥
ये निगृह्येन्द्रियग्रामं जयन्ति सकलं जगत् ।
न जयन्त्यपि ते कालं कालो जयति तानपि ॥ १३॥
आयुर्वेदविदो वैद्याः त्वनुष्ठितरसायनाः ।
न मृत्युमतिवर्तन्ते कालो हि दुरतिक्रमः ॥ १४॥
श्रिया रूपेण शीलेन बलेन च कुलेन च ।
अन्यच्चिन्तयते जन्तुः कालोऽन्यत्कुरुते बलात् ॥ १५॥
अप्रियैश्च प्रियैश्चैव ह्यचिन्तितसमागमैः ।
संयोजयति भूतानि वियोजयति चेश्वरः ॥ १६॥
यदैव दुःखितः कश्चित्तदैव सुखितः परः ।
दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ १७॥
यो युवा स भवेद् वृद्धो यो बलीयान्स दुर्बलः ।
यः श्रीमान्सोऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ १८॥
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ।
भवेत्कार्याय पर्याप्तं कालश्चत् प्रतिरोधकः ॥ १९॥
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ।
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ २०॥
फलन्त्यकाले न रसायनानि
सम्यक् प्रयुक्तान्यपि चौषधानि ।
तान्येव कालेन समाहृतानि
सिद्धिं प्रयान्त्याशु सुखं दिशन्ति ॥ २१॥
नाकालतोऽयं म्रियते जायते वा
नाकालतः पुष्टिमग्र्यामुपैति ।
नाकालतः सुखितं दुःखितं वा
नाकालिकं वस्तु समस्ति किञ्चित् ॥ २२॥
कालेन शीतः प्रतिवाति वातः
कालेन वृष्टिर्जलदानुपैति ।
कालेन चोष्मा प्रशमं प्रयाति
कालेन सर्वं सफलत्वमेति ॥ २३॥
कालश्च सर्वस्य भवस्य हेतुः
कालेन सस्यानि भवन्ति नित्यम् ।
कालेन सस्यानि लयं प्रयान्ति
कालेन सञ्जीवति जीवलोकः ॥ २४॥
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ।
कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ २५॥
न यस्य कालो न च बन्धमुक्ती
न यः पुमान्न प्रकृतिर्न विश्वम् ।
विचित्ररूपाय शिवाय तस्मै
नमःपरस्मै परमेश्वराय ॥ २६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमोऽध्यायः ॥ ७.१.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.८. अष्टमोऽध्यायः । कालप्रभावे त्रिदेवायुर्वर्णनम् ।
ऋषय ऊचुः ।
केन मानेन कालेऽस्मिन्नायुः सङ्ख्या प्रकल्प्यते ।
सङ्ख्यारूपस्य कालस्य कः पुनः परमोऽवधिः ॥ १॥
वायुरुवाच ।
आयुषोऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ।
सङ्ख्यारूपस्य कालस्य शान्त्यतीतकलावधि ॥ २॥
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ।
तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ३॥
काष्ठास्त्रिंशत्कला नाम कलास्त्रिंशन्मुहूर्तकः ।
मुहूर्त्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ४॥
त्रिंशत्सङ्ख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ५॥
ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ६॥
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ।
लौकिकेनैव मानेन ह्यब्दो यो मानुषः स्मृतः ॥ ७॥
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ।
दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ८॥
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ।
संवत्सरोऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ९॥
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ।
दिव्यः संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ १०॥
दिव्येनैव प्रमाणेन युगसङ्ख्या प्रवर्तते ।
चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ११॥
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ।
द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ १२॥
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १३॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १४॥
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ।
चतुर्युगसहस्रं यत्सङ्कल्प इति कथ्यते ॥ १५॥
चतुर्युगैकसप्तत्या मनोरन्तरमुच्यते ।
कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ १६॥
एतेन क्रमयोगेन कल्पमन्वन्तराणि च ।
सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ॥ १७॥
अज्ञेयत्वाच्च सर्वेषामसङ्ख्येयतया पुनः ।
शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ १८॥
कल्पो नाम दिवा प्रोक्तो ब्रह्मणोऽव्यक्तजन्मनः ।
कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ १९॥
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ।
सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ २०॥
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ।
कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ २१॥
तस्य वै दिवसे यान्ति चतुर्दश पुरन्दराः ।
शतानि मासे चत्वारि विंशत्या सहितानि च ॥ २२॥
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ।
चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ २३॥
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ।
ईश्वरस्य दिने रुद्रः सदाख्यस्य तथेश्वरः ॥ २४॥
साक्षाच्छिवस्य तत्सङ्ख्यस्तथा सोऽपि सदाशिवः ।
चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ २५॥
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ।
यत्तत्सृष्टेः समाख्यातं कालान्तरमिह द्विजाः ॥ २६॥
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ।
रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ २७॥
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ।
अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ २८॥
एषोपचारः क्रियते लोकानां हितकाम्यया ।
प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ २९॥
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।
तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतैः ॥ ३०॥
अहस्तिष्ठन्ति सर्वाणि परमेशस्य धीमतः ।
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः ॥ ३१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमोऽध्यायः ॥ ७.१.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.९. नवमोऽध्यायः । सृष्टिपालनप्रलयकर्तृत्ववर्णनम् ।
मुनय ऊचुः ।
कथं जगदिदं कृत्स्नं विधाय च निधाय च ।
आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ १॥
किं तत्प्रथमसम्भूतं केनेदमखिलं ततम् ।
केन वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ २॥
वायुरुवाच ।
शक्तिः प्रथमसम्भूता शान्त्यतीतपदोत्तरा ।
ततो माया ततोऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ३॥
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदं क्रमात् ।
ततो विद्यापदं तस्मात्प्रतिष्ठापदसम्भवः ॥ ४॥
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ।
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ५॥
आनुलोम्यात्तथैतेषां प्रातिलोम्येन संहृतिः ।
अस्मात्पञ्चपदोद्दिष्टात्परः स्रष्टा समिष्यते ॥ ६॥
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ।
अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७॥
महदादिविशेषान्तं सृजतीत्यपि सम्मतम् ।
किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ८॥
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ।
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ९॥
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ।
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ १०॥
तस्माच्छक्तः स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ।
अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ११॥
स एव जगतः कर्ता महादेवो महेश्वरः ।
पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ १२॥
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ।
सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ १३॥
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ।
न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ १४॥
यावदादिसमारम्भो यावद्यः प्रलयो महान् ।
तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ १५॥
परमित्यायुषो नाम ब्रह्मणोऽव्यक्तजन्मनः ।
तत्पराख्यं तदर्द्धं च परार्धमभिधीयते ॥ १६॥
परार्द्धद्वयकालान्ते प्रलये समुपस्थिते ।
अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ १७॥
आत्मन्यवस्थितेऽव्यक्ते विकारे प्रतिसंहृते ।
साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ १८॥
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ।
अनुद्रिक्तावनूनौ तावोतप्रोतौ परस्परम् ॥ १९॥
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ।
शान्तवातैकनीरे च न प्राज्ञायत किञ्चन ॥ २०॥
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ।
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ २१॥
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ।
प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ २२॥
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ।
अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ २३॥
विश्वोत्तरोत्तरविचित्रमनोरथस्य
यस्यैकशक्तिशकले सकलः समाप्तः ।
आत्मानमध्वपतिमध्वविदो वदन्ति
तस्मै नमः सकललोकविलक्षणाय ॥ २४॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः ॥ ७.१.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१०. दशमोऽध्यायः । ब्रह्माण्डस्थितिवर्णनम् ।
वायुरुवाच ।
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ।
बुद्ध्यादयो विशेषान्ता विकाराश्चाभवन् क्रमात् ॥ १॥
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ।
कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ २॥
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ।
ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ३॥
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ।
प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ४॥
कल्पान्तरे पुनस्तेषामस्पर्द्धाबुद्धिमोहिनाम् ।
सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ५॥
एते परस्परोत्पन्ना धारयन्ति परस्परम् ।
परस्परेण वर्द्धन्ते परस्परमनुव्रताः ॥ ६॥
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद् रुद्रः प्रशस्यते ।
नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७॥
मूर्खा निन्दन्ति तान्वाग्भिः संरम्भाभिनिवेशिनः ।
यातुधाना भवन्त्येव पिशाचाश्च न संशयः ॥ ८॥
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ।
सकलः सकलाधारः शक्तेरुत्पत्तिकारणम् ॥ ९॥
सोऽयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ।
लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ १०॥
यः सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ।
स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ११॥
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ।
सदाशिवो भवो विष्णुर्ब्रह्मा सर्वं शिवात्मकम् ॥ १२॥
प्रधानात्प्रथमं जज्ञे बुद्धिः ख्यातिर्मतिर्महान् ।
महत्तत्त्वस्य सङ्क्षोभादहङ्कारस्त्रिधाऽभवत् ॥ १३॥
अहङ्कारश्च भूतानि तन्मात्राणीन्द्रियाणि च ।
वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ १४॥
वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्तते ।
बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ १५॥
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।
तमोयुक्तादहङ्काराद्भूततन्मात्रसम्भवः ॥ १६॥
भूतानामादिभूतत्वाद् भूतादिः कथ्यते तु सः ।
भूतादेः शब्दमात्रं स्यात्तत्र चाकाशसम्भवः ॥ १७॥
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ।
वायो रूपं ततस्तेजस्तेजसो रससम्भवः ॥ १८॥
रसादापः समुत्पन्नास्ताभ्यो गन्धसमुद्भवः ।
गन्धाच्च पृथिवी जाता भूतेभ्योऽन्यच्चराचरम् ॥ १९॥
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ २०॥
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ।
तदण्डे सुप्रवृद्धोऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २१॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ २२॥
तस्येश्वरस्याप्रतिमा ज्ञानवैराग्यलक्षणा ।
धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञेऽभिमानिनः ॥ २३॥
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ।
वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ २४॥
त्रिधा विभज्य चात्मानं त्रैलोक्ये सम्प्रवर्त्तते ।
सृजते ग्रसते चैव वीक्षते च त्रिभिः स्वयम् ॥ २५॥
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकः स्मृतः ।
सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थास्स्वयम्भुवः ॥ २६॥
सत्त्वं रजश्च ब्रह्मत्वे च कालत्वे च तमो रजः ।
विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभोः ॥ २७॥
ब्रह्मत्वे सृजते लोकान् कालत्वे सङ्क्षिपत्यपि ।
पुरुषत्वेऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ २८॥
एवं त्रिधा विभिन्नत्वाद् ब्रह्मा त्रिगुण उच्यते ।
चतुर्द्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ २९॥
आदित्वादादिदेवोऽसावजातत्वादजः स्मृतः ।
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ३०॥
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ।
गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ३१॥
तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत् ।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ३२॥
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम् ।
आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ३३॥
तेजो दशगुणेनैव वायुना बहिरावृतम् ।
आकाशेनावृतो वायुः खं च भूतादिनाऽऽवृतम् ॥ ३४॥
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ।
एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ३५॥
एतदावृत्य चान्योऽन्यमष्टौ प्रकृतयः स्थिताः ।
सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ३६॥
एवं परस्परोत्पन्ना धारयन्ति परस्परम् ।
आधाराधेयभावेन विकारास्तु विकारिषु ॥ ३७॥
कूर्मोऽङ्गानि यथा पूर्वं प्रसार्य्य विनियच्छति ।
विकारांश्च तथाऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ३८॥
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ।
प्राप्ते प्रलयकाले तु प्रातिलोम्येऽनुलीयते ॥ ३९॥
गुणाः कालवशादेव भवन्ति विषमाः समाः ।
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ४०॥
तदिदं ब्रह्मणो योनिरेतदण्डं घनं महत् ।
ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ४१॥
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ।
सर्वगत्वात्प्रधानस्य तिर्य्यगूर्ध्वमधः स्थिताः ॥ ४२॥
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ।
सृष्टा प्रधानेन तथा लब्ध्वा शम्भोस्तु सन्निधिम् ॥ ४३॥
महेश्वरः परोव्यक्तादण्डमव्यक्तसम्भवम् ।
अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ४४॥
अबुद्धिपूर्वः कथितो मयैषः
प्रधानसर्गः प्रथमः प्रवृत्तः ।
आत्यन्तिकश्च प्रलयोऽन्तकाले
लीलाकृतः केवलमीश्वरस्य ॥ ४५॥
यत्तत्स्मृतं कारणमप्रमेयं
ब्रह्म प्रधानं प्रकृतेः प्रसूतिः ।
अनादिमध्यान्तमनन्तवीर्यं
शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ४६॥
उत्पादकत्वाद्रजसोऽतिरेका
ल्लोकस्य सन्तानविवृद्धिहेतून् ।
अष्टौ विकारानपि चादिकाले
सृष्ट्वा समश्नाति तथान्तकाले ॥ ४७॥
प्रकृत्यवस्थापितकारणानां
या च स्थितिर्या च पुनः प्रवृत्तिः ।
तत्सर्वमप्राकृतवैभवस्य
सङ्कल्पमात्रेण महेश्वरस्य ॥ ४८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं नाम दशमोऽध्यायः ॥ ७.१.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.११. एकादशोऽध्यायः । सृष्ट्यादिवर्णनम् ।
मुनय ऊचुः ।
मन्वन्तराणि सर्वाणि कल्पभेदांश्च सर्वशः ।
तेष्वेवान्तरसर्गं च प्रतिसर्गं च नो वद ॥ १॥
वायुरुवाच ।
कालसङ्ख्याविवृत्तस्य परार्द्धो ब्रह्मणः स्मृतः ।
तावांश्चैवास्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते ॥ २॥
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ।
चतुर्दश महाभागा मनूनां परिवृत्तयः ॥ ३॥
अनादित्वादनन्तत्वादज्ञेयत्वाच्च कृत्स्नशः ।
मन्वन्तराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ४॥
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ।
किमिहास्ति फलं तस्मान्न पृथग वक्तुमुत्सहे ॥ ५॥
य एव खलु कल्पेषु कल्पः सम्प्रति वर्तते ।
तत्र सङ्क्षिप्य वर्तन्ते सृष्टयः प्रतिसृष्टयः ॥ ६॥
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ।
अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७॥
स्वायम्भुवादयः सप्त सप्त सावर्णिकादयः ।
तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ८॥
मन्वन्तरेषु सर्वेषु सर्गसंहारवृत्तयः ।
प्रायः समा भवन्तीति तर्कः कार्यो विजानता ॥ ९॥
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ।
समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ १०॥
जगन्ति तृणवक्त्रीणि देवे दहति पावके ।
वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ११॥
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ।
तदद्भिश्चटुलाक्षेपैस्तरङ्गभुजमण्डलैः ॥ १२॥
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ।
ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ १३॥
इमं चोदाहरन्मन्त्रं श्लोकं नारायणं प्रति ।
तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ १४॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ १५॥
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ।
बद्धाञ्जलिपुटाः सिद्धा जनलोकनिवासिनः ॥ १६॥
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ।
यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ १७॥
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ।
उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ १८॥
नापश्यत्स तदा किञ्चित्स्वात्मनो व्यतिरेकि यत् ।
सविस्मय इवासीनः परां चिन्तामुपागमत् ॥ १९॥
क्व सा भगवती या तु मनोज्ञा महती मही ।
नानाविधमहाशैलनदीनगरकानना ॥ २०॥
एवं सञ्चिन्तयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ।
तदा सस्मार पितरं भगवन्तं त्रिलोचनम् ॥ २१॥
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ।
ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ २२॥
ततो भूमेः समुद्धारं कर्तुकामः प्रजापतिः ।
जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ २३॥
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ।
नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ २४॥
पीनवृत्तघनस्कन्धं पीनोन्नतकटीतटम् ।
ह्रस्ववृत्तोरुजङ्घाग्रं सुतीक्ष्णखुरमण्डलम् ॥ २५॥
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ।
वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ २६॥
उदीर्णोच्छ्वासनिःश्वासघूर्णितप्रलयार्णवम् ।
विस्फुरत्सुसटाच्छन्नकपोलस्कन्धबन्धुरम् ॥ २७॥
मणिभिर्भूषणैश्चित्रैर्महारत्नैः परिष्कृतम् ।
विराजमानं विद्युद्भिर्मेघसङ्घमिवोन्नतम् ॥ २८॥
आस्थाय विपुलं रूपं वाराहममितं विधिः ।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ २९॥
स तदा शुशुभेऽतीव सूकरो गिरिसन्निभः ।
लिङ्गाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ३०॥
ततः स सलिले मग्नां पृथिवीं पृथिवीन्धरः ।
उद्धृत्यालिङ्ग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ३१॥
तं दृष्ट्वा मुनयः सिद्धा जनलोकनिवासिनः ।
मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ३२॥
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ।
पतद्भिरिव खद्योतैः प्राशुरञ्जनपर्वतः ॥ ३३॥
ततः संस्थानमानीय वराहो महतीं महीम् ।
स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ३४॥
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन् गिरीन् ।
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ३५॥
इति सह महतीं महीं महीध्रैः
प्रलयमहाजलधेरधःस्थमध्यात् ।
उपरि च विनिवेश्य विश्वकर्मा
चरमचरं च जगत्ससर्ज भूयः ॥ ३६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्ट्यादिवर्णनं नामैकादशोऽध्यायः ॥ ७.१.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१२. द्वादशोऽध्यायः । सृष्टिवर्णनम् ।
वायुरुवाच ।
सर्गं चिन्तयतस्तस्य तदा वै बुद्धिपूर्वकम् ।
प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ १॥
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ।
अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ २॥
पञ्चधाऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ।
सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ३॥
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ।
तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ४॥
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ।
तं दृष्ट्वासाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ५॥
अप्रसन्नमना भूत्वा द्वितीयं सोऽभ्यमन्यत ।
तस्याभिधायतः सर्गं तिर्य्यक्स्रोतोऽभ्यवर्त्तत ॥ ६॥
अन्तःप्रकाशास्तिर्य्यञ्च आवृताश्च बहिः पुनः ।
पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७॥
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ।
तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ८॥
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्च स्वभावादेव संज्ञिताः ॥ ९॥
ततोऽभिध्यायतोऽव्यक्तादर्वाक्स्रोतस्तु साधकः ।
मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ १०॥
प्रकाशा बहिरन्तस्ते तमोद्रिक्ता रजोऽधिकाः ।
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ११॥
विपर्य्येण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ।
तेऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ १२॥
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।
प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ १३॥
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ १४॥
इत्येष प्रकृतेः सर्गः सम्भृतोऽबुद्धिपूर्वकः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ १५॥
तिर्य्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ।
तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ १६॥
ततोऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः ।
अष्टमोऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ १७॥
प्राकृताश्च त्रयः पूर्वे सर्गास्तेऽबुद्धिपूर्वकाः ।
बुद्धिपूर्वं प्रवर्त्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ १८॥
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ।
सनन्दं सनकं चैव विद्वांसञ्च सनातनम् ॥ १९॥
ऋभुं सनत्कुमारं च पूर्वमेव प्रजापतिः ।
सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ २०॥
ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ।
तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ २१॥
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ।
तस्यैवं तप्यमानस्य न किञ्चित्समवर्त्तत ॥ २२॥
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ २३॥
ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ।
सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिन्दत ॥ २४॥
तस्य तीव्राऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ।
मूर्च्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ २५॥
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ।
प्रसादमतुलं कर्त्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ २६॥
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ।
ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ २७॥
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ।
तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ २८॥
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ।
एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ २९॥
रोदनाद् द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ।
येरुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ३०॥
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ।
घृणी ददौ पुनः प्राणान् ब्रह्मपुत्रो महेश्वरः ॥ ३१॥
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ।
अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ३२॥
मा भैर्माभैर्महाभाग विरिञ्चे जगतां गुरो ।
मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ३३॥
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ।
हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ३४॥
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ।
उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ३५॥
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ।
को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ३६॥
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ।
स्पृशन् कराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ३७॥
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ।
एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ३८॥
तस्मात्तीव्रामिमां मूर्च्छां विधूय मदनुग्रहात् ।
प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ३९॥
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ।
नामाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ४०॥
ब्रह्मोवाच ।
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय देवाय रसायाम्बुमयात्मने ।
शर्वाय क्षितिरूपाय सदासुरभये नमः ॥ ४१॥
ईशाय वसवे तुभ्यं नमः स्पर्शमयात्मने ।
पशूनां पतये चैव पावकायातितेजसे ।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ४२॥
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ।
महाशिवाय सोमाय नमोऽस्त्वमृतमूर्तये ॥ ४३॥
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ।
प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ४४॥
भगवन् भूतभव्येश मम पुत्र महेश्वर ।
सृष्टिहेतोस्त्वमुत्पन्नो ममाङ्गेऽनङ्गनाशन ॥ ४५॥
तस्मान्महति कार्येऽस्मिन् व्यापृतस्य जगत्प्रभो ।
सहायं कुरु सर्वत्र स्रष्टुमर्हसि सुप्रजाः ॥ ४६॥
तेनैवं प्रार्थितो देवो रुद्रस्त्रिपुरमर्दनः ।
बाढमित्येव तां वाणीं प्रतिजग्राह शङ्करः ॥ ४७॥
ततः स भगवान् ब्रह्मा हृष्टं तमभिनन्द्य च ।
स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ४८॥
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सोऽसृजन्मनसैव च ।
पुरस्तादसृजद् ब्रह्मा धर्मं सङ्कल्पमेव च ॥ ४९॥
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ।
सह रुद्रेण सम्भूताः पुराणा गृहमेधिनः ॥ ५०॥
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ।
प्रजावन्तः क्रियावन्तो महर्षिभिरलङ्कृताः ॥ ५१॥
अथ देवासुरान् पितृन् मनुष्यांश्च चतुष्टयम् ।
सह रुद्रेण सिसृक्षुरम्भस्येतानि वै विधिः ॥ ५२॥
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ।
मुखादजनयद्देवान् पितॄंश्चैवोपपक्षतः ॥ ५३॥
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ।
अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ५४॥
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ।
सर्पा यक्षास्तथा भूता गन्धर्वाः सम्प्रजज्ञिरे ॥ ५५॥
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसोऽसृजत् ।
मुखतोऽजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ५६॥
पद्भ्यां चाश्वान्समातङ्गान् शरभान् गवयान् मृगान् ।
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः ॥ ५७॥
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ।
गायत्रीं च ऋचं चैव त्रिवृत्साम रथन्तरम् ॥ ५८॥
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ॥ ५९॥
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ।
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ॥ ६०॥
वैरूप्यमतिरात्रं च पश्चिमादसृजन् मुखात् ।
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ६१॥
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ६२॥
यक्षाः पिशाचा गन्धर्वास्तथैवाप्सरसां गणाः ।
नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ६३॥
अव्ययं चैव यदिदं जगत् स्थावरजङ्गमम् ।
तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ६४॥
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ।
हिंस्राहिंस्रे मृदु क्रूरे धर्माधर्मावृतानृते ॥ ६५॥
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।
महाभूतेषु नानात्वमिन्द्रियार्थेषु मुक्तिषु ॥ ६६॥
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ।
नामरूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ६७॥
वेदशब्देभ्य एवादौ निर्ममेऽसौ पितामहः ।
आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ६८॥
शर्वर्य्यन्ते प्रसूतानां तान्येवैभ्यो ददावजः ।
यथर्तावृतुलिङ्गानि नानारूपाणि पर्य्यये ॥ ६९॥
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ।
इत्येष करणोद्भूतो लोकसर्गः स्वयम्भुवः ॥ ७०॥
महदाद्यो विशेषान्तो विकारः प्रकृतेः स्वयम् ।
चन्द्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमण्डितः ॥ ७१॥
नदीभिश्च समुद्रैश्च पर्वतैश्च स मण्डितः ।
परैश्च विविधै रम्यैः स्फीतैर्जनपदैस्तथा ॥ ७२॥
तस्मिन् ब्रह्मवनेऽव्यक्तो ब्रह्मा चरति सर्ववित् ।
अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७३॥
बुद्धिस्कन्धमहाशाख इन्द्रियान्तरकोटरः ।
महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७४॥
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ।
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७५॥
द्यां मूर्द्धानं तस्य विप्रा वदन्ति
खं वै नाभिं चन्द्रसूर्यौ च नेत्रे ।
दिशः श्रोत्रे चरणौ च क्षितिं च
सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७६॥
वक्त्रात्तस्य ब्राह्मणाः सम्प्रसूताः
तद्वक्षसः क्षत्रियाः पूर्वभागात् ।
वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः
सर्वे वर्णा गात्रतः सम्प्रसूताः ॥ ७७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१३. त्रयोदशोऽध्यायः । ब्रह्मविष्णुसृष्टिकथनम् ।
ऋषय ऊचुः ।
भवता कथिता सृष्टिर्भवस्य परमात्मनः ।
चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ १॥
देवश्रेष्ठो विरूपाक्षो दीप्तः शूलधरो हरः ।
कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ २॥
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ।
यः संहरति सङ्क्रुद्धो युगान्ते समुपस्थिते ॥ ३॥
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ।
लोकसङ्कोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ४॥
योऽयं देवः स्वकादङ्गाद् ब्रह्मविष्णू पुरासृजत् ।
स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ५॥
स कथं भगवान् रुद्र आदिदेवः पुरातनः ।
पुत्रत्वमगमच्छम्भुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ६॥
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ।
सृष्टौ परस्परस्याङ्गादिति प्रागपि शुश्रुम ॥ ७॥
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ।
गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ८॥
नापृष्टं भवता किञ्चिन्नाश्रुतं च कथञ्चन ।
भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ९॥
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ।
वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ १०॥
वायुरुवाच ।
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ।
इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ११॥
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ।
यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ १२॥
त्रयस्ते कारणात्मानो जाताः साक्षान्महेश्वरात् ।
चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवः ॥ १३॥
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ।
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ १४॥
पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु ।
ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ १५॥
तथाप्यन्योऽन्यमात्सर्यादन्योऽन्यातिशयाशिनः ।
तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ १६॥
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ।
ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् ॥ १७॥
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ।
विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः ॥ १८॥
नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः ।
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ १९॥
परस्परेण जायन्ते परस्परहितैषिणः ।
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ २०॥
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ।
शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ २१॥
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ।
पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ २२॥
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ।
तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ २३॥
सर्वः सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ।
शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ २४॥
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ।
विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ २५॥
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ।
गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ।
आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ २६॥
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ।
स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ २७॥
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ।
त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ २८॥
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ।
एवं विज्ञापयामास तपसा प्राप्य शङ्करम् ॥ २९॥
भगवन् देवदेवेश विश्वेश्वर महेश्वर ।
तव वामाङ्गजो विष्णुर्दक्षिणाङ्गभवो ह्यहम् ॥ ३०॥
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ।
स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ३१॥
मद्भावान्नाधिकस्तेऽतिभावस्त्वयि महेश्वरे ।
त्वत्त एव समुत्पत्तिरावयोः सदृशी यतः ॥ ३२॥
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ।
तथा ममापि तत्सर्वं दातुमर्हसि शङ्कर ॥ ३३॥
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ।
न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ३४॥
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ।
त्वरमाणोऽथ सङ्गम्य ददर्श पुरुषोत्तमम् ॥ ३५॥
क्षीरार्णवालये शुभ्रे विमाने सूर्यसन्निभे ।
हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ३६॥
अनन्तभोगशय्यायां शयानं पङ्कजेक्षणम् ।
चतुर्भुजमुदाराङ्गं सर्वाभरणभूषितम् ॥ ३७॥
शङ्खचक्रधरं सौम्यं चन्द्रबिम्बसमाननम् ।
श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ३८॥
धरामृदुकराम्भोजस्पर्शरक्तपदाम्बुजम् ।
क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ३९॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् ।
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ४०॥
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ।
ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ४१॥
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ।
उदैक्षत महाबाहुः स्मितमीषच्चकार च ॥ ४२॥
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ।
सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ४३॥
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ।
शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ४४॥
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ।
आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ४५॥
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ।
प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ४६॥
भवोऽपि भगवानेतावनुगृह्य पिनाकधृक् ।
सादरं पश्यतोरेव तयोरन्तरधीयत ॥ ४७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशोऽध्यायः ॥ ७.१.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१४. चतुर्दशोऽध्यायः । रुद्राविर्भाववर्णनम् ।
वायुरुवाच ।
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ।
यतोऽविच्छिन्नसन्ताना ब्रह्मसृष्टिः प्रवर्तते ॥ १॥
कल्पे कल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्माण्डसम्भवः ।
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ २॥
तस्य दुःखप्रशान्त्यर्थं प्रजानां च विवृद्धये ।
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ३॥
निर्दिष्टः परमेशेन महेशो नीललोहितः ।
पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुजः ॥ ४॥
स एव भगवानीशस्तेजोराशिरनामयः ।
अनादिनिधनो धाता भूतसङ्कोचको विभुः ॥ ५॥
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ।
तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ६॥
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ।
तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७॥
सहस्रादित्यसङ्काशश्चन्द्रावयवभूषणः ।
भुजङ्गहारकेयूरवलयो मुञ्जमेखलः ॥ ८॥
जलन्धरविरिञ्चेन्द्रकपालशकलोज्ज्वलः ।
गङ्गातुङ्गतरङ्गार्द्रपिङ्गलाननमूर्द्धजः ॥ ९॥
भग्नदंष्ट्राङ्कुराक्रान्तप्रान्तकान्तधराधरः ।
सव्यश्रवणपार्श्वान्तमण्डलीकृतकुण्डलः ॥ १०॥
महावृषभनिर्याणो महाजलदनिःस्वनः ।
महानलसमप्रख्यो महाबलपराक्रमः ॥ ११॥
एवं घोरमहारूपो ब्रह्मपुत्रो महेश्वरः ।
विज्ञानं ब्रह्मणे दत्त्वा सर्गं सह करोति च ॥ १२॥
तस्माद् रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ।
प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ १३॥
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ।
स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ १४॥
कपर्दिनो निरातङ्कान्नीलग्रीवाँस्त्रिलोचनान् ।
जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ १५॥
तैस्तु सञ्छादितं सर्वं चतुर्दशविधं जगत् ।
तान्दृष्ट्वा विविधान् रुद्रान् रुद्रमाह पितामहः ॥ १६॥
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ।
अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ १७॥
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ।
नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १८॥
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ।
चरिष्यन्ति मया सार्द्धं सर्व एव हि याज्ञिकाः ॥ १९॥
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ।
सह रुद्रैः प्रजासर्गान्निवृत्तात्माध्यतिष्ठत ॥ २०॥
ततः प्रभृति देवोऽसौ न प्रसूते प्रजाः शुभाः ।
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम् ॥ २१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.१.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१५. पञ्चदशोऽध्यायः । शिवशिवास्तुतिवर्णनम् ।
वायुरुवाच ।
यदा पुनः प्रजाः सृष्टा न व्यवर्द्धन्त वेधसः ।
तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ १॥
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ।
तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ २॥
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।
प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ३॥
प्रसादेन विना तस्य न वर्द्धेरन्निमाः प्रजाः ।
एवं सञ्चिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ४॥
तदाद्या परमा शक्तिरनन्ता लोकभाविनी ।
आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ५॥
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ।
निरन्तररता नित्या नित्यमीश्वरपार्श्वगा ॥ ६॥
तया परमया शक्त्या भगवन्तं त्रियम्बकम् ।
सञ्चिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७॥
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ।
अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥ ८॥
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ।
अर्द्धनारीश्वरो भूत्वा ययौ देवः स्वयं हरः ॥ ९॥
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ।
अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ १०॥
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ।
सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ११॥
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ।
अचलं निर्गुणं शान्तमनन्तमहिमास्पदम् ॥ १२॥
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ।
सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ १३॥
प्रणम्य दण्डवद् ब्रह्मा समुत्थाय कृताञ्जलिः ।
श्रद्धाविनयसम्पन्नैः श्राव्यैः संस्कारसंयुतैः ॥ १४॥
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ।
तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ १५॥
ब्रह्मोवाच ।
जय देव महादेव जयेश्वर महेश्वर ।
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १६॥
जय प्रकृतिकल्याणि जय प्रकृतिनायिके ।
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ १७॥
जयामोघमहामाय जयामोघमनोरथ ।
जयामोघमहालील जयामोघमहाबल ॥ १८॥
जय विश्वजगन्मातर्जय विश्वजगन्मयि ।
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ १९॥
जय शाश्वतिकैश्वर्य जय शाश्वतिकालय ।
जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ २०॥
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ।
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ २१॥
जयावलोकनायत्तजगत्कारणबृंहण ।
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ २२॥
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ।
जय स्थूलात्मशक्त्येशे जय व्याप्तचराचरे ॥ २३॥
जय नानैकविन्यस्तविश्वतत्त्वसमुच्चय ।
जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥ २४॥
जयोपाश्रितसंरक्षासंविधानपटीयसि ।
जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ २५॥
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भण ।
जय विश्वबहिर्भूत निरस्तपरवैभव ॥ २६॥
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ।
जय पञ्चार्थविज्ञानसुधास्रोतःस्वरूपिणि ॥ २७॥
जयातिघोरसंसारमहारोगभिषग्वर ।
जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥ २८॥
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ।
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ २९॥
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिके ।
जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥ ३०॥
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ।
तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥ ३१॥
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ।
नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ३२॥
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ।
अर्द्धनारीश्वरं नाम शिवयोर्हर्षवर्द्धनम् ॥ ३३॥
य इदं कीर्त्तयेद्भक्त्या यस्य कस्यापि काङ्क्षया ।
स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ३४॥
सकलभुवनभूतभावनाभ्यां
जननविनाशविहीनविग्रहाभ्याम् ।
नरवरयुवतीवपुर्द्धराभ्यां
सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥ ३५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवशिवास्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१६. षोडशोऽध्यायः । देवीशक्त्युद्भवः ।
वायुरुवाच ।
अथ देवो महादेवो महाजलदनादया ।
वाचा मधुरगम्भीरशिवदश्लक्ष्णवर्णया ॥ १॥
अर्थसम्पन्नपदया राजलक्षणयुक्तया ।
अशेषविषयारम्भरक्षाविमलयदक्षया ॥ २॥
मनोहरतरोदारमधुरस्मितपूर्वया ।
सम्बभाषेसुसम्प्रीतो विश्वकर्माणमीश्वरः ॥ ३॥
ईश्वर उवाच ।
वत्स वत्स महाभाग मम पुत्र पितामह ।
ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ ४॥
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।
तपसानेन तुष्टोऽस्मि ददामि च तवेप्सितम् ॥ ५॥
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ।
ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ ६॥
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ।
परस्य परमां शक्तिं भवस्य परमात्मनः ॥ ७॥
यस्यां न खलु विद्यन्ते जन्ममृत्युजरादयः ।
या भवानी भवस्याङ्गात्समाविरभवत्किल ॥ ८॥
यस्या वाचो निवर्तन्ते मनसा चेन्द्रियैः सह ।
सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ ९॥
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ।
शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ १०॥
सर्वं जगदिदं चैषा सम्मोहयति मायया ।
ईश्वरात्सैव जाताऽभूदजाता परमार्थतः ॥ ११॥
न यस्याः परमो भावः सुराणामपि गोचरः ।
विश्वामरेश्वरी चैव विभक्ता भर्तुरङ्गतः ॥ १२॥
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ।
सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ १३॥
परमां निखिलं भासा भासयन्तीमिदं जगत् ।
प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ १४॥
ब्रह्मोवाच ।
देवि देवेन सृष्टोऽहमादौ सर्वजगन्मयि ।
प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ १५॥
मनसा निर्मिताः सर्वे देवि देवादयो मया ।
न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ १६॥
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।
संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७॥
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।
तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ १८॥
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।
तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ १९॥
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ।
चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ २०॥
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ।
एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ २१॥
शक्तिमेकां भ्रुवोर्मध्यात् ससर्जात्मसमप्रभाम् ।
तामाह प्रहसन् प्रेक्ष्य देवदेववरो हरः ॥ २२॥
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ।
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ २३॥
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताऽभवत् ।
दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ २४॥
विवेश देहं देवस्य देवश्चान्तरधीयत ।
तदाप्रभृति लोकेऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ २५॥
प्रजासृष्टिश्च विप्रेन्द्रा मैथुनेन प्रवर्तते ।
ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुङ्गवाः ॥ २६॥
एतद्वः सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ।
पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुषङ्गतः ॥ २७॥
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ।
पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ २८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशोऽध्यायः ॥ ७.१.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१७. सप्तदशोऽध्यायः । सृष्टिकथनम् ।
वायुरुवाच ।
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ।
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ १॥
स्वयमप्यर्द्धतो नारी चार्द्धेन पुरुषोऽभवत् ।
यार्द्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ २॥
विराजमसृजद्ब्रह्मा सोऽर्द्धेन पुरुषोऽभवत् ।
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥ ३॥
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ।
भर्त्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ४॥
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ।
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ५॥
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ।
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ६॥
स्वायम्भुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ।
रुचेः प्रजापतेश्चैव चाकूतिं समपादयत् ॥ ७॥
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ८॥
स्वायम्भुवसुतायां तु प्रसूत्यां लोकमातरः ।
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ९॥
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ १०॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ११॥
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १२॥
भृगुः शर्वो मरीचिश्च अङ्गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वशिष्ठश्च पावकः पितरस्तथा ॥ १३॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।
कामाद्यास्तु यशोऽन्ता ये ते त्रयोदश सूनवः ॥ १४॥
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्याः सुसुखोत्तराः ।
दुःखोत्तराश्च हिंसायामधर्मस्य च सन्ततौ ॥ १५॥
निकृत्यादय उत्पन्नाः पुत्राश्च धर्मलक्षणाः ।
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ १६॥
स एष तामसः सर्गो जज्ञे धर्मनियामकः ।
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ १७॥
भर्तृनिन्दाप्रसङ्गेन त्यक्त्वा दाक्षायिणीं तनुम् ।
दक्षं च दक्षभार्य्यां च विनिन्द्य सह बन्धुभिः ॥ १८॥
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ।
रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ १९॥
यथाऽसृजदसङ्ख्यातांस्तथा कथितमेव च ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ २०॥
देवौ धातृविधातारौ मन्वन्तरविधारिणौ ।
तयोर्वै पुत्रपौत्राद्याः शतशोऽथ सहस्रशः ॥ २१॥
स्वायम्भुवेऽन्तरे नीताः सर्वे ते भार्गवा मताः ।
मरीचेरपि सम्भूतिः पौर्णमासमसूयत ॥ २२॥
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ।
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ २३॥
स्मृतिश्चाङ्गिरसः पत्नी जनयामास वै सुतौ ।
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ २४॥
तदीयाः पुत्रपौत्राश्च येऽतीतास्ते सहस्रशः ।
प्रीत्यां पुलस्त्यभार्यायां दन्तोऽग्निरभवत्सुतः ।
पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ २५॥
तत्सन्ततीया बहवः पौलस्त्या इति विश्रुताः ।
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ॥ २६॥
कर्दमश्चासुरिश्चैव सहिष्णुश्चेति ते त्रयः ।
त्रेताग्निवर्चसः सर्वे येषां वंशः प्रतिष्ठितः ॥ २७॥
क्रतोः क्रतुसमान्भार्या सन्नतिः सुषुवे सुतान् ।
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ २८॥
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ।
अनूरोरग्रतो यान्ति परिवार्य्य दिवाकरम् ॥ २९॥
अत्रेर्भार्यानसूया च पञ्चात्रेयानसूयत ।
कन्यकां च श्रुतिं नाम माता शङ्खपदस्य च ॥ ३०॥
सत्यनेत्रश्च हव्यश्च आपोमूर्तिः शनैश्चरः ।
सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ३१॥
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ।
स्वायम्भुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ ३२॥
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ।
ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ॥ ३३॥
रजोगात्रोर्ध्वबाहू च सवनश्चानयश्च यः ।
सुतपाः शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ३४॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ।
स्वायम्भुवेऽन्तरेऽतीतान्यर्बुदानि शतानि च ॥ ३५॥
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्तितः ।
समासाद्विस्तराद्वक्तुमशक्योऽयमिति द्विजाः ॥ ३६॥
योऽसौ रुद्रात्मको वह्निब्रह्मणो मानसः सुतः ।
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ३७॥
पावकः पवमानश्च शुचिरित्येष ते त्रयः ।
निर्मन्थ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥ ३८॥
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ।
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ३९॥
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ।
एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ४०॥
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ।
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ४१॥
सर्वे रुद्रात्मकाश्चैव सर्वे रुद्रपरायणाः ।
तस्मादग्निमुखे यत्तद् हुतं स्यादेव केनचित् ॥ ४२॥
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ।
इत्येवं निश्चयोऽग्नीनामनुक्रान्तो यथातथम् ॥ ४३॥
नातिविस्तरतो विप्राः पितृन्वक्ष्याम्यतः परम् ।
यस्मात्षड् ऋतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ४४॥
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ।
युष्माद् ऋतुषु सर्वे हि जायन्ते स्थास्नुजङ्गमाः ॥ ४५॥
तस्मादेते हि पितर आर्तवा इति च श्रुतम् ।
एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥ ४६॥
आत्मैश्वर्या महात्मानस्तिष्ठन्तीहाभ्रसङ्गमात् ।
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ४७॥
अयज्वानश्च यज्वानः क्रमात्ते गृहमेधिनः ।
स्वधाऽसूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ४८॥
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ।
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ४९॥
मेना हिमवतः पत्नी मैनाकं क्रौञ्चमेव च ।
गौरीं गङ्गां च सुषुवे भवाङ्गाश्लेषपावनीम् ॥ ५०॥
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ।
मन्दरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ५१॥
स एव मन्दरः श्रीमान्मेरुपुत्रस्तपोबलात् ।
साक्षाच्छ्रीकण्ठनाथस्य शिवस्यावसथं गतः ॥ ५२॥
साऽसूता धरणी भूयस्तिस्रः कन्याश्च विश्रुताः ।
वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ५३॥
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ।
स्वायम्भुवेऽन्तरे पूर्वं कथितस्ते तदन्वयः ॥ ५४॥
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ।
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ५५॥
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ५६॥
येषां स्वायम्भुवे दक्षः पुत्रत्वमगमत्पुरा ।
त्रियम्बकस्य शापेन चाक्षुषस्यान्तरे मनोः ॥ ५७॥
इत्येते ब्रह्मपुत्राणां धर्मादीनां महात्मनाम् ।
नातिसङ्क्षेपतो विप्रा नातिविस्तरतः क्रमात् ॥ ५८॥
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ।
क्रियावन्तः प्रजावन्तो महर्द्धिभिरलङ्कृताः ॥ ५९॥
प्रजानां सन्निवेशोऽयं प्रजापतिसमुद्भवः ।
न हि शक्यः प्रसङ्ख्यातुं वर्षकोटिशतैरपि ॥ ६०॥
राज्ञामपि च यो वंशो द्विधा सोऽपि प्रवर्तते ।
सूर्यवंशः सोमवंश इति पुण्यतमः क्षितौ ॥ ६१॥
इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ।
पुण्यश्लोकाः श्रुता येऽत्र तेऽपि तद्वंशसम्भवाः ॥ ६२॥
अन्ये च राजऋषयो नानावीर्यसमन्विताः ।
किं तैः फलमनुत्क्रान्तैरुक्तपूर्वैः पुरातनैः ॥ ६३॥
किं चेश्वरकथावृत्तौ यत्र तत्रान्यकीर्तनम् ।
न सद्भिः सम्मतं मत्वा नोत्सहे बहुभाषितुम् ॥ ६४॥
प्रसङ्गादीश्वरस्यैव प्रभावद्योतनादपि ।
सर्गादयोऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ६५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ ७.१.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१८. अष्टादशोऽध्यायः । सतीदेहत्यागः ।
ऋषय ऊचुः ।
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणीं तनुम् ।
कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ १॥
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ।
निमित्तमपि किं तत्र येन स्यान्निन्दितो भवः ॥ २॥
उत्पन्नश्च कथं दक्षो ह्यभिशापाद्भवस्य तु ।
चाक्षुषस्यान्तरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ३॥
वायुरुवाव
शृण्वन्तु कथयिष्यामि दक्षस्य लघुचेतसः ।
वृत्तं पापात् प्रमादाच्च विश्वामरविदूषणम् ॥ ४॥
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ।
कदाचिद् द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ५॥
तदा देवश्च देवी च दिव्यासनगतावुभौ ।
दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ६॥
तदानीमेव दक्षोऽपि गतस्तत्र सहामरैः ।
जामातरं हरं द्रष्टुं देवीं चात्मसुतां सतीम् ॥ ७॥
तदात्मगौरवाद्देवो देव्या दक्षे समागते ।
देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ८॥
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ।
पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ९॥
ततस्तेनैव वैरेण विधिना च प्रचोदितः ।
नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ १०॥
अन्याञ्जामातरः सर्वानाहूय स यथाक्रमम् ।
शतशः पुष्कलामर्चाञ्चकार च पृथक् पृथक् ॥ ११॥
तथा तान्सङ्गतान् श्रुत्वा नारदस्य मुखात्तदा ।
ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ १२॥
अथ सन्निहितं दिव्यं विमानं विश्वतोमुखम् ।
लक्षणाढ्यं सुखारोहमतिमात्रं मनोहरम् ॥ १३॥
तप्तजाम्बूनदप्रख्यं चित्ररत्नपरिष्कृतम् ।
मुक्तामयवितानाग्न्यं स्रग्दामसमलङ्कृतम् ॥ १४॥
तप्तकञ्चननिर्व्यूहं रत्नस्तम्भशतावृतम् ।
वज्रकल्पितसोपानं विद्रुमस्तम्भतोरणम् ॥ १५॥
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ।
वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ १६॥
मणिदण्डमनोज्ञेन महावृषभलक्ष्मणा ।
अलङ्कृतपुरोभागमभ्रशुभ्रेण केतुना ॥ १७॥
रत्नकञ्चुकगुप्ताङ्गैश्चित्रवेत्रैकपाणिभिः ।
अधिष्ठितमहाद्वारमप्रधृष्यैर्गणेश्वरैः ॥ १८॥
मृदङ्गतालगीतादिवेणुवीणाविशारदैः ।
विदग्धवेषभूषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ १९॥
आरुरोह महादेवी सह प्रियसखीजनैः ।
चामारव्यजने तस्या वज्रदण्डमनोहरे ॥ २०॥
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ।
तदा चामरयोर्मध्ये देव्या वदनमाबभौ ॥ २१॥
अन्योऽन्यं युध्यतोर्मध्ये हंसयोरिव पङ्कजम् ।
छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ २२॥
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ।
तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ २३॥
उपर्यमृतभाण्डस्य मण्डलं शशिनो यथा ।
अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ २४॥
अक्षद्यूतविनोदेन रमयामास वै सतीम् ।
सुयशाः पादुके देव्याः शुभे रत्नपरिष्कृते ॥ २५॥
स्तनयोरन्तरे कृत्वा तदा देवीमसेवत ।
अन्या काञ्चनचार्वङ्गी दीप्तं जग्राह दर्पणम् ॥ २६॥
अपरा तालवृन्तं च परा ताम्बूलपेटिकाम् ।
काचित्क्रीडाशुकं चारु करेऽकुरुत भामिनी ॥ २७॥
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ।
काचिदाभरणाधारं बभार कमलेक्षणा ॥ २८॥
काचिच्च पुनरालेपं सुप्रसूनं शुभाञ्जनम् ।
अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ २९॥
आवृत्य तां महादेवीमसेवन्त समन्ततः ।
अतीव शुशुभे तासामन्तरे परमेश्वरी ॥ ३०॥
तारापरिषदो मध्ये चन्द्रलेखेव शारदी ।
ततः शङ्खसमुत्थस्य नादस्य समनन्तरम् ॥ ३१॥
प्रास्थानिको महानादः पटहः समताड्यत ।
ततो मधुरवाद्यानि सह तालोद्यतैः स्वनैः ॥ ३२॥
अनाहतानि सन्नेदुः काहलानां शतानि च ।
सायुधानां गणेशानां महेशसमतेजसाम् ॥ ३३॥
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ।
तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ३४॥
जगाम गणपः श्रीमान् सोमनन्दीश्वरार्चितः ।
देवदुन्दुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ३५॥
ननृतुर्मुनयः सर्वे मुमुदुः सिद्धयोगिनः ।
ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ३६॥
तदा देवगणैश्चान्यैः पथि सर्वत्र सङ्गताः ।
क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ३७॥
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ।
तस्या यवीयसीभ्योऽपि चक्रे पूजामसत्कृताम् ॥ ३८॥
तदा शशिमुखी देवी पितरं सदसि स्थितम् ।
अम्बिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ३९॥
देव्युवाच ।
ब्रह्मादयः पिशाचान्ता यस्याज्ञावशवर्तिनः ।
स देवः साम्प्रतं तात विधिना नार्चितः किल ॥ ४०॥
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ।
असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ४१॥
एवमुक्तोऽब्रवीदेनां दक्षः क्रोधादमर्षितः ।
त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ४२॥
तासां तु ये च भर्त्तारस्ते मे बहुमता मुदा ।
गुणैश्चाप्यधिकाः सर्वे भर्तुस्ते त्र्यम्बकादपि ॥ ४३॥
स्तब्धात्मा तामसः शर्वः त्वमिमं समुपाश्रिता ।
तेन त्वामवमन्येऽहं प्रतिकूलो हि मे भवः ॥ ४४॥
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ।
शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ४५॥
अकस्मान्मम भर्तारमजाताशेषदूषणम् ।
वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ४६॥
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ।
त एते बहुपाप्मानः सर्वे दण्ड्या इति श्रुतिः ॥ ४७॥
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ।
सहसा दारुणो दण्डस्तव दैवाद्भविष्यति ॥ ४८॥
त्वया न पूजितो यस्माद्देवदेवस्त्रियम्बकः ।
तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ४९॥
इत्युक्त्वा पितरं रुष्टा सती सन्त्यक्तसाध्वसा ।
तदीयां च तनुं त्यक्त्वा हिमवन्तं ययौ गिरिम् ॥ ५०॥
स पर्वतपरः श्रीमाँल्लब्धपुण्यफलोदयः ।
तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ५१॥
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ।
स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ५२॥
यदा गता सती दक्षं विनिन्द्य भयविह्वलम् ।
तदा तिरोहिता मन्त्रा विहतश्च ततोऽध्वरः ॥ ५३॥
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ।
दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ५४॥
यस्मादवमता दक्षमत्कृतेऽनागसा सती ।
पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ५५॥
वैवस्वतेऽन्तरे तस्मात्तव जामातरस्त्वमी ।
उत्पत्स्यन्ते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ५६॥
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ५७॥
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ।
धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ५८॥
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ।
स्वायम्भुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ५९॥
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ६०॥
भृग्वादयोऽपि जाता वै मनोर्वैवस्वतस्य तु ।
अन्तरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ६१॥
तदा दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ।
महेशः कृतवान् विघ्नं मनौ वैवस्वते सति ॥ ६२॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशोऽध्यायः ॥ ७.१.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.१९. एकोनविंशोऽध्यायः । वीरभद्रोत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ।
महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ १॥
वायुरुवाच ।
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ।
पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ २॥
देवेऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ।
सङ्क्रीडति तया सार्द्धं काले बहुतरे गते ॥ ३॥
वैवस्वतेऽन्तरे प्राप्ते दक्षः प्राचेतसः स्वयम् ।
अश्वमेधेन यज्ञेन यक्ष्यमाणोऽन्वपद्यत ॥ ४॥
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ५॥
तस्य तस्मिन्मखे देवाः सर्वे शक्रपुरोगमाः ।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ६॥
आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः ।
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७॥
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ।
विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ८॥
दृष्ट्वा देवकुलं सर्वमीश्वरेण विना गतम् ।
दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ९॥
दधीच उवाच ।
अप्यपूज्ये चैव पूजा पूज्यानां चाप्यपूजने ।
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ १०॥
असतां सम्मतिर्यत्र सतामवमतिस्तथा ।
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ११॥
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ।
पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ १२॥
दक्ष उवाच ।
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ।
एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ १३॥
दधीच उवाच ।
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ।
राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ १४॥
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ।
ब्रह्मादयः पिशाचान्ता यस्य कैङ्कर्यवादिनः ॥ १५॥
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ।
चिन्त्यते योगविद्वद्भिरृषिभिस्तत्त्वदर्शिभिः ॥ १६॥
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ।
अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ १७॥
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ।
तस्मादन्यं न पश्यामि शङ्करात्मानमध्वरे ॥ १८॥
दक्ष उवाच ।
एतन्मखेशस्य सुवर्णपात्रे
हविः समस्तं विधिमन्त्रपूतम् ।
विष्णोर्नयाम्यप्रतिमस्य भागं
प्रभोर्विभज्याहवनीयमद्य ॥ १९॥
दधीच उवाच ।
यस्मान्नाराधितो रुद्रः सर्वदेवेश्वरेश्वरः ।
तस्माद्दक्ष तवाशेषो यज्ञोऽयं न भविष्यति ॥ २०॥
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ।
निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ २१॥
निर्गतेऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ।
अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ २२॥
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ।
दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ २३॥
देव्या सञ्चोदितो देवो दक्षाध्वरजिघांसया ।
ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ २४॥
सहस्रवदनं देवं सहस्रकमलेक्षणम् ।
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ २५॥
शूलटङ्कगदाहस्तं दीप्तकार्मुकधारिणम् ।
चक्रवज्रधरं घोरं चन्द्रार्द्धकृतशेखरम् ॥ २६॥
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्द्धजम् ।
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ २७॥
विद्युज्जिह्वं प्रलम्बोष्ठं मेघसागरनिःस्वनम् ।
वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ २८॥
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ।
वरामरशिरोमालावलीकलितशेखरम् ॥ २९॥
रणन्नूपुरकेयूरमहाकनकभूषितम् ।
रत्नसञ्चयसन्दीप्तं तारहारावृतोरसम् ॥ ३०॥
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ।
प्रशस्तमत्तमातङ्गसमानगमनालसम् ॥ ३१॥
शङ्खचामरकुन्देन्दुमृणालसदृशप्रभम् ।
सतुषारमिवाद्रीन्द्रं साक्षाज्जङ्गमतां गतम् ॥ ३२॥
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ।
तेजसा चैव दीव्यन्तं युगान्त इव पावकम् ॥ ३३॥
स जानुभ्यां महीं गत्वा प्रणतः प्राञ्जलिस्ततः ।
पार्श्वतो देवदेवस्य पर्यतिष्ठद् गणेश्वरः ॥ ३४॥
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ।
आत्मनः कर्मसाक्षित्वे तेन गन्तुं सहैव तु ॥ ३५॥
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ।
भद्रया सहितं प्राह भद्रमस्त्विति शङ्करः ॥ ३६॥
स च विज्ञापयामास सह देव्या महेश्वरम् ।
आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ३७॥
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ।
वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ३८॥
महादेव उवाच ।
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ।
भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ३९॥
अहमप्यनया सार्द्धं रैभ्याश्रमसपीपतः ।
स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ४०॥
वृक्षाः कनखले ये तु गङ्गाद्वारसमीपगाः ।
सुवर्णशृङ्गस्य गिरेर्मेरुमन्दरसन्निभाः ॥ ४१॥
तस्मिन्प्रदेशे दक्षस्य युज्ञः सम्प्रति वर्तते ।
सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ४२॥
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ।
भद्रं भद्रां च सम्प्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ४३॥
आलिङ्ग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ।
सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ४४॥
देव्युवाच ।
वत्स भद्र महाभाग महाबलपराक्रम ।
मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जय ॥ ४५॥
यज्ञेश्वरमनाहूय यज्ञकर्मरतोऽभवत् ।
दक्षं वैरेण तं तस्माद्भिन्धि यज्ञं गणेश्वर ॥ ४६॥
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ।
यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ४७॥
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ।
मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गन्तुं प्रचक्रमे ॥ ४८॥
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ।
वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ४९॥
ससर्ज रोमकूपेभ्यो रोमजाख्यान् गणेश्वरान् ।
दक्षिणाद्भुजदेशात्तु शतकोटिगणेश्वरान् ॥ ५०॥
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ।
गुह्याद् गुल्फाच्छिरोमध्यात्कण्ठादास्यात्तथोदरात् ॥ ५१॥
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ।
सञ्छादितमभूत्सर्वं साकाशविवरं जगत् ॥ ५२॥
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ।
रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः ॥ ५३॥
शूलशक्तिगदाहस्ताष्टङ्कोपलशिलाधराः ।
कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ५४॥
निपेतुर्भृशमाकाशे शतशः सिंहवाहनाः ।
विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ५५॥
तैर्भद्रैर्भगवान् भद्रस्तथा परिवृतो बभौ ।
कालानलशतैर्युक्तो यथान्ते कालभैरवः ॥ ५६॥
तेषां मध्ये समारुह्य वृषेन्द्रं वृषभध्वजः ।
जगाम भगवान् भद्रः शुभ्रमभ्रं यथा भवः ॥ ५७॥
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ।
बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ५८॥
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ।
भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ५९॥
सोऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ।
बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ६०॥
दध्मौ शङ्खं सितं भद्रं भद्रस्य पुरतः शुभम् ।
भानुकम्पो महातेजा हेमरत्नैरलङ्कृतः ॥ ६१॥
देवदुन्दुभयो नेदुर्दिव्यसङ्कुलनिःस्वनाः ।
ववृषुः शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ६२॥
फुल्लानां मधुगर्भाणां पुष्पाणां गन्धबन्धवः ।
मार्गानुकूलसंवाहा ववुश्च पथि मारुताः ॥ ६३॥
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ।
ननृतुर्मुमुदुर्नेदुर्जहसुर्जगदुर्जगुः ॥ ६४॥
तदा भद्रगणान्तःस्थो बभौ भद्रः सभद्रया ।
यथा रुद्रगणान्तः स्थस्त्र्यम्बकोऽम्बिकया सह ॥ ६५॥
तत्क्षणादेव दक्षस्य यज्ञवाटं हिरण्मयम् ।
प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ६६॥
ततस्तु दक्षप्रतिपादितस्य
क्रतुप्रधानस्य गणप्रधानः ।
प्रयोगभूमिं प्रविवेश भद्रो
रुद्रो यथान्ते भुवनं दिधक्षुः ॥ ६७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशोऽध्यायः ॥ ७.१.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२०. विंशोऽध्यायः । यज्ञविध्वंसनः ।
वायुरुवाच ।
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ।
ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ १॥
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ।
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम् ॥ २॥
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।
विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ३॥
देवाङ्गनासहस्राढ्यमप्सरोगणसेवितम् ।
वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ४॥
दृष्ट्वा दक्षाध्वरं वीरो वीरभद्रः प्रतापवान् ।
सिंहनादं तदा चक्रे गम्भीरो जलदो यथा ॥ ५॥
ततः किलकिलाशब्द आकाशं पूरयन्निव ।
गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ६॥
तेन शब्देन महता ग्रस्ताः सर्वे दिवौकसः ।
दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७॥
किंस्विद्भग्नो महामेरुः किंस्वित्सन्दीर्यते मही ।
किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ८॥
मृगेन्द्राणां यथा नादं गजेन्द्रा गहने वने ।
श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ९॥
पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ।
मरुतश्च व्यघूर्णन्त चुक्षुभे मकरालयः ॥ १०॥
अग्नयो नैव दीप्यन्ते न च दीप्यति भास्करः ।
ग्रहाश्च न प्रकाशन्ते नक्षत्राणि च तारकाः ॥ ११॥
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ।
सम्प्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ १२॥
तं दृष्ट्वा भीतभीतोऽपि दक्षो दृढ इव स्थितः ।
क्रुद्धवद् वचनं प्राह को भवान् किमिहेच्छसि ॥ १३॥
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ।
वीरभद्रो महातेजा मेघगम्भीरनिःस्वनः ॥ १४॥
स्मयन्निव तमालोक्य दक्षं देवांश्च ऋत्विजः ।
अर्थगर्भमसम्भ्रान्तमवोचदुचितं वचः ॥ १५॥
वीरभद्र उवाच ।
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ।
भागाभिलिप्सया प्राप्ता भागो नः सम्प्रदीयताम् ॥ १६॥
अथ चेदध्वरेऽस्माकं न भागः परिकल्पितः ।
कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ १७॥
इत्युक्तास्ते गणेन्द्रेण देवा दक्षपुरोगमाः ।
ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ १८॥
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ।
येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ १९॥
मन्त्रोक्ता अपि ते देवाः सर्वे सम्मूढचेतसः ।
भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ २०॥
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथाऽभवत् ।
तदा ततो ययुर्मन्त्रा ब्रह्मलोकं सनातनम् ॥ २१॥
अथोवाच गणाध्यक्षो देवान् विष्णुपुरोगमान् ।
मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ २२॥
यस्मादस्मिन् मखे देवैरित्थं वयमसत्कृताः ।
तस्माद्वो जीवितैस्सार्द्धमपनेष्यामि गर्वितम् ॥ २३॥
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ।
यज्ञवाटं महाकूटं यथा तिस्रः पुरो हरः ॥ २४॥
ततो गणेश्वराः सर्वे पर्वतोदग्रविग्रहाः ।
यूपानुत्पाट्य होतॄणां कण्ठेष्वाबध्य रज्जुभिः ॥ २५॥
यज्ञपात्राणि चित्राणि भित्त्वा सञ्चूर्ण्य वारिणि ।
गृहीत्वा चैव यज्ञाङ्गं गङ्गास्रोतसि चिक्षिपुः ॥ २६॥
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ।
क्षीरनद्योऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ २७॥
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ।
रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ २८॥
वीरास्तद्भुञ्जते वक्त्रैर्विलुम्पन्ति क्षिपन्ति च ।
वज्रैश्चक्रैर्महाशूलैः शक्तिभिः पाशपट्टिशैः ॥ २९॥
मुसलैरसिभिष्टङ्कैर्भिन्दिपालैः परश्वधैः ।
उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ३०॥
बिभिदुर्बलिनो वीरा वीरभद्राङ्गसम्भवाः ।
छिन्धि भिन्धि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ३१॥
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ।
संरम्भप्रभवाः क्रूराः शब्दाः श्रवणशङ्कवः ॥ ३२॥
यत्र तत्र गणेशानां जज्ञिरे समरोचिताः ।
विवृत्तनयनाः केचिद् दष्टदंष्ट्रोष्ठतालवः ॥ ३३॥
आश्रमस्थान् समाकृष्य मारयन्ति तपोधनान् ।
स्रुवानपहरन्तश्च क्षिपन्तोऽग्निं जलेषु च ॥ ३४॥
कलशानपि भिन्दन्तश्छिन्दन्तो मणिवेदिकाः ।
गायन्तश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ।
रक्तासवं पिबन्तश्च ननृतुर्गणपुङ्गवाः ॥ ३५॥
निर्मथ्य सेन्द्रानमरान् गणेन्द्रा
वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ।
चक्रुर्बहून्यप्रतिमभावाः
सहर्षरोमाणि विचेष्टितानि ॥ ३६॥
नन्दन्ति केचित्प्रहरन्ति केचित्
धावन्ति केचित्प्रलपन्ति केचित् ॥ ३७॥
नृत्यन्ति केचिद्विहसन्ति केचित्
वल्गन्ति केचित्प्रमथा बलेन ॥ ३८॥
केचिज्जिघृक्षन्ति घनान्स तोयान्
केचिद्ग्रहीतुं रविमुत्पतन्ति ।
केचित्प्रसर्तुं पवनेन सार्द्ध-
मिच्छन्ति भीमाः प्रमथा वियत्स्थाः ॥ ३९॥
आक्षिप्य केचिच्च वरायुधानि
महाभुजङ्गानिव वैनतेयाः ।
भ्रमन्ति देवानपि विद्रवन्तः
खमण्डले पर्वतकूटकल्पाः ॥ ४०॥
उत्पाट्य चोत्पाट्य गृहाणि केचित्
सजालवातायनवेदिकानि ।
विक्षिप्य विक्षिप्य जलस्य मध्ये
कालाम्बुदाभाः प्रमथा निनेदुः ॥ ४१॥
उद्वर्तितद्वारकपाटकुड्यं
विध्वस्तशालावलभीगवाक्षम् ।
अहो बताभज्यत यज्ञवाट-
मनाप्तवद्वाक्यमिवायथार्थम् ॥ ४२॥
हा नाथ तातेति पितुः सुतेति
भ्रातर्ममाम्बेति च मातुलेति ।
उत्पाट्यमानेषु गृहेषु नार्यो ह्यनाथशब्दान्बहुशः प्रचक्रुः ॥ ४३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशोऽध्यायः ॥ ७.१.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२१. एकविंशोऽध्यायः । देवदण्डवर्णनम् ।
वायुरुवाच ।
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ।
सर्वे भयपरित्रस्ता दुद्रुवुर्भयविह्वलाः ॥ १॥
निजैरदूषितैरङ्गैर्दृष्ट्वा देवानुपद्रुतान् ।
दण्ड्यानदण्डितान् मत्वा चुकोप गणपुङ्गवः ॥ २॥
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ३॥
अमरानपि दुद्राव द्विरदानिव केसरी ।
तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ४॥
वारणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ।
ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ५॥
महासरोवरं यद्वन्मत्तो वारणयूथपः ।
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥ ६॥
बिभ्रद् व्याघ्राजिनं वासो हेमप्रवरतारकम् ।
छिन्दन् भिन्दन्नुदन् क्लिन्दन्दारयन्प्रमथन्नपि ॥ ७॥
व्यचरद्देवसङ्घेषु भद्रोऽग्निरिव कक्षगः ।
यत्र तत्र महावेगाच्चरन्तं शूलधारिणम् ॥ ८॥
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ।
भद्रकाली च सङ्क्रुद्धा युद्धवृद्धमदोद्धता ॥ ९॥
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ।
स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ १०॥
प्रभयेव युगान्ताग्निश्चलया धूमधूम्रया ।
भद्रकाली तदा युद्धे विद्रुतत्रिदशा बभौ ॥ ११॥
कल्पे शेषानलज्वाला दग्धाविश्वजगद्यथा ।
तदा सवाजिनं सूर्यं रुद्रान् रुद्रगणाग्रणीः ॥ १२॥
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ।
असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमीम् ॥ १३॥
रुद्रान् दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ।
परिघैर्निरृतिं वायुं टङ्कैष्टङ्कधरः स्वयम् ॥ १४॥
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ।
सर्वान्देवगणान्सद्यो मुनीन् शम्भोर्विरोधिनः ॥ १५॥
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ।
चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ १६॥
चिच्छेद च कुठारेण बाहुदण्डं विभावसोः ।
अग्रतो द्व्यङ्गुलां जिह्वामात्तहव्यां लुलाव च ॥ १७॥
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ।
चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ १८॥
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ।
प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ १९॥
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ।
जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ २०॥
ततश्चन्द्रमसं देवः पादाङ्गुष्ठेन लीलया ।
क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ २१॥
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ।
क्रोशन्त्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ २२॥
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ।
सा देवी कन्दुकक्रीडां चकार समराङ्गणे ॥ २३॥
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ।
पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ २४॥
अरिष्टनेमिनं सोमं धर्मं चैव प्रजापतिम् ।
बहुपुत्रं चाङ्गिरसं कृशाश्वं काश्यपं तथा ॥ २५॥
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ।
भर्त्सयन्तो भृशं वाग्भिर्निजघ्नुर्मूर्ध्नि मुष्टिभिः ॥ २६॥
धर्षिता भूतवेतालैर्दाराः सुतपरिग्रहाः ।
यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ २७॥
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ।
प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ २८॥
उत्पाटितसुरानीकं हन्यमानतपोधनम् ।
प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसञ्चयम् ॥ २९॥
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ।
शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ३०॥
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ।
विनिकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ३१॥
हतेषु तेषु देवेषु पतितेषु सहस्रशः ।
प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ३२॥
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसन्निभम् ।
दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ३३॥
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ।
भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ३४॥
आकर्णपूर्णमाकृष्टं धनुरम्बुदसन्निभम् ।
नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ३५॥
तमुपश्रुत्य सन्नादं हतोऽस्मीत्येव विह्वलम् ।
शरेणार्धेन वक्रेण स वीरोऽध्वरपूरुषम् ॥ ३६॥
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ।
मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ३७॥
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसम्भवम् ।
विष्णुः परमसङ्क्रुद्धो युद्धायाभवदुद्यतः ॥ ३८॥
तमुवाह महावेगात्स्कन्धेन नतसन्धिना ।
सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ३९॥
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ।
प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ४०॥
विष्णुना सहितान् देवान् मृगेन्द्रः क्रोष्टुकानिव ।
दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ४१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदण्डवर्णनं नामैकविंशोऽध्यायः ॥ ७.१.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२२. द्वाविंशोऽध्यायः । दक्षयज्ञविध्वंसवर्णनम् ।
वायुरुवाच
तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ।
सहस्रसूर्यसङ्काशश्चारुचीरवृषध्वजः ॥ १॥
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ।
सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ २॥
तस्यापि रथवर्यस्यासीत्स एव हि सारथिः ।
यश्चैव त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ३॥
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ।
हरेः समीपमानीय कृताञ्जलिरभाषत ॥ ४॥
भगवन् भद्र भद्राङ्ग भगवानिन्दुभूषणः ।
आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ५॥
रैभ्याश्रमसमीपस्थस्त्र्यम्बकोऽम्बिकया सह ।
सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ६॥
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ।
आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७॥
तथा रथवरे तस्मिन् स्थिते ब्रह्मणि सारथौ ।
भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ८॥
ततः शङ्खवरं दीप्तं पूर्णचन्द्रसमप्रभम् ।
प्रदध्मौ वदने कृत्वा भानुकम्पो महाबलः ॥ ९॥
तस्य शङ्खस्य तं नादं भिन्नसागरसन्निभम् ।
श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ १०॥
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ।
क्षणेन निबिडीभूताः साकाशविवरा दिशः ॥ ११॥
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ।
महता बाणवर्षेण तुतोद गणगोवृषम् ॥ १२॥
तं दृष्ट्वा विष्णुमायान्तं शतधा बाणवर्षिणम् ।
स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ १३॥
समादाय च तद्दिव्यं धनुः समरभैरवम् ।
शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ १४॥
तस्य विस्फार्य्यमाणस्य धनुषोऽभून्महास्वनः ।
तेन स्वनेन महता पृथिवीं समकम्पयत् ॥ १५॥
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ।
जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ १६॥
बाणोद्धारे भुजो ह्यस्य तूणीवदनसङ्गतः ।
प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ १७॥
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरः ।
महाभुजङ्गसन्दष्टो यथा बालभुजङ्गमः ॥ १८॥
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ।
विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ १९॥
ललाटेऽभिहतो विष्णुः पूर्वमेवावमानितः ।
चुकोप गणपेन्द्राय मृगेन्द्रायेव गोवृषः ॥ २०॥
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ।
विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ २१॥
सोऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ।
विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ २२॥
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ।
स च तं च स तं विप्राः शरैस्तावनुजघ्नतुः ॥ २३॥
तयोः परस्परं वेगाच्छरानाशु विमुञ्चतोः ।
द्वयोः समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २४॥
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ।
हाहाकारो महानासीदाकाशे खेचरेरितः ॥ २५॥
ततस्त्वनलतुण्डेन शरेणादित्यवर्चसा ।
विव्याध सुदृढं भद्रं विष्णोर्महति वक्षसि ॥ २६॥
स तु तीव्रप्रपातेन शरेण दृढमाहतः ।
महतीं रुजमासाद्य निपपात विमोहितः ॥ २७॥
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ।
सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ २८॥
स च विष्णुर्धनुर्मुक्तान्सर्वान् शर्वचमूपतिः ।
सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ २९॥
ततो विष्णुः स्वनामाङ्कं बाणमव्याहतं क्वचित् ।
ससर्ज क्रोधरक्ताक्षः तमुद्दिश्य गणेश्वरम् ।
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ ३०॥
अप्राप्तमेव भगवान् चिच्छेद शतधा पथि ।
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ ३१॥
निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ।
ततो योगबलाद्विष्णुर्देहाद्देवान् सुदारुणान् ॥ ३२॥
शङ्खचक्रगदाहस्तान् विससर्ज सहस्रशः ।
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शङ्करः ॥ ३३॥
निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ।
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ ३४॥
तस्मिन्वीरे समुत्स्रष्टुं तदानीमुद्यतोऽभवत् ।
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ ३५॥
स्मयन्निव गणेशानो व्यष्टम्भयदयत्नतः ।
स्तम्भिताङ्गस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ३६॥
इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ।
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ३७॥
अतिष्ठदलसो भूत्वा पाषाणामिव निश्चलः ।
विशरीरो यथा जीवो विशृङ्गो वा यथा वृषः ॥ ३८॥
विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ।
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिन्द्रादयः सुराः ।
समुन्नद्धा गणेन्द्रेण मृगेन्द्रेणेव गोवृषाः ॥ ३९॥
प्रगृहीतायुधा यौद्धुं क्रुद्धाः समुपतस्थिरे ।
तान्दृष्ट्वा समरे भद्रः क्षुद्रानिव हरिर्मृगान् ॥ ४०॥
साक्षाद् रुद्रतनुर्वीरो वरवीरगणावृतः ।
अट्टहासेन घोरेण व्यष्टम्भयदनिन्दितः ॥ ४१॥
तथा शतमखस्यापि सवज्रो दक्षिणः करः ।
सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ४२॥
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ।
अलसानामिवारम्भास्तादृशाः प्रतियान्त्युत ॥ ४३॥
एवं भगवता तेन व्याहताशेषवैभवात् ।
अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ४४॥
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ।
स्थितिं च चक्रिरे युद्धे वीरतेजोऽभयाकुलाः ॥ ४५॥
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ।
विव्याध निशितैर्बाणैएर्मेघो वर्षैरिवाचलान् ॥ ४६॥
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ।
शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ४७॥
अस्त्रशस्त्राण्यनेकानि स वीरो विसृजन्बभौ ।
विसृजन्सर्वभूतानि यथादौ विश्वसम्भवः ॥ ४८॥
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ४९॥
खमण्डले गणेन्द्रस्य शराः कनकभूषिताः ।
उत्पतन्तस्तडिद्रूपैरुपमानपदं ययुः ॥ ५०॥
महान्तस्ते सुरगणान् मण्डूकानिव डुण्डुभाः ।
प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ५१॥
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ।
पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ५२॥
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ।
विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ।
गां प्रवेष्टुमिवेच्छन्तः खं गन्तुमिव लिप्सवः ॥ ५३॥
अलब्धात्मनिरोधानां व्यलीयन्तः परस्परम् ।
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ५४॥
अपरे जग्मुराकाशं परे च विविशुर्जलम् ।
तथा सञ्छिन्नसर्वाङ्गैः स वीरस्त्रिदशैर्बभौ ॥ ५५॥
परिग्रस्तः प्रजावर्गो भगवानिव भैरवः ।
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाऽभवत् ॥ ५६॥
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ।
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ ५७॥
तदा त्रिदशवीराणामसृक्सलिलवाहिनी ।
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ ५८॥
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ।
रक्तार्द्रवसना श्यामा हतशुम्भेव कैशिकी ॥ ५९॥
तस्मिन्महति संवृत्ते समरे भृशदारुणे ।
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ ६०॥
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ।
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ ६१॥
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।
अहो विधिविपर्यासस्त्वश्वमेधोऽयमध्वरः ।
यजमानः स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ६२॥
धर्मादयः सदस्याश्च रक्षतो गरुडध्वजः ।
भागांश्च प्रतिगृह्णन्ति साक्षादिन्द्रादयः सुराः ॥ ६३॥
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ।
सद्य एव शिरश्छेदः साधु सम्पद्यते फलम् ॥ ६४॥
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ।
नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ६५॥
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ।
न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ६६॥
कृत्वापि सुमहत्पापं भक्त्या यजति यः शिवम् ।
मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ६७॥
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ।
वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ६८॥
ततः सनारायणकाः सरुद्राः
सलोकपालाः समरे सुरौघाः ।
गणेन्द्रचापच्युतबाणविद्धाः
प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ६९॥
चेलुः क्वचित्केचन शीर्णकेशाः
सेदुः क्वचित्केचन दीर्घगात्राः ।
पेतुः क्वचित्केचन भिन्नवक्त्रा
नेशुः क्वचित्केचन देववीराः ॥ ७०॥
केचिच्च तत्र त्रिदशा विपन्ना
विस्रस्तवस्त्राभरणास्त्रशस्त्राः ।
निपेतुरुद्भासितदीनमुद्रा
मदं च दर्पं च बलं च हित्वा ॥ ७१॥
सस्मुत्पथप्रस्थितमप्रधृष्यो
विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ।
बभौ गणेशः स गणेश्वराणां
मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७२॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.१.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२३. त्रयोविंशोऽध्यायः । गिरिशानुनयः ।
वायुरुवाच ।
इति सञ्छिन्नभिन्नाङ्गा देवा विष्णुपुरोगमाः ।
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिताः ॥ १॥
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ।
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ २॥
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ।
बबन्धुः पाणिपादेषु कन्धरेषूदरेषु च ॥ ३॥
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ।
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतोऽब्रवीत् ॥ ४॥
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ।
प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत ॥ ५॥
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ।
शमं जगाम सम्प्रीतो गणपस्तस्य गौरवात् ॥ ६॥
देवाश्च लब्धावसरा देवदेवस्य मन्त्रिणः ।
धारयन्तोऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७॥
देवा ऊचुः ।
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ।
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ८॥
कालाग्निरुद्ररूपाय कालकामाङ्गहारिणे ।
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ९॥
संसर्गादस्य पापस्य दक्षस्य क्लिष्टकर्मणः ।
शासिताः समरे वीर त्वया वयमनिन्दिताः ॥ १०॥
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ।
त्वमेव गतिरस्माकं त्राहि नः शरणागतान् ॥ ११॥
वायुरुवाच ।
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ।
आनयद्देवदेवस्य समीपममरानिह ॥ १२॥
देवोऽपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ।
सगणः सर्वगः शर्वः सर्वलोकमहेश्वरः ॥ १३॥
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ।
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ १४॥
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ।
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ १५॥
महादेव उवाच ।
मा भैष्ट त्रिदशाः सर्वे यूयं वै मामिकाः प्रजाः ।
अनुग्रहार्थमेवेह धृतो दण्डः कृपालुना ॥ १६॥
भवतां निर्ज्जराणां हि क्षान्तोऽस्माभिर्व्यतिक्रमः ।
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ १७॥
वायुरुवाच ।
इत्युक्तास्त्रिदशाः सर्वे शर्वेणामिततेजसा ।
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ १८॥
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ।
स्तुतिमारेभिरे कर्तुं शङ्करस्य दिवौकसः ॥ १९॥
देवा ऊचुः ।
त्वमेव देवाखिललोककर्ता
पाता च हर्ता परमेश्वरोऽसि ।
कविष्णुरुद्राख्यस्वरूपभेदै
रजस्तमः सत्त्वधृतात्ममूर्त्ते ॥ २०॥
सर्वमूर्त्ते नमस्तेऽस्तु विश्वभावन पावन ।
अमूर्त्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ २१॥
चन्द्रोऽगदो हि देवेश कृपातस्तव शङ्कर ।
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ २२॥
सीमन्तिनी हतधवा तव पूजनतः प्रभो ।
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ २३॥
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ।
सुदर्शनमरक्षस्त्वं नृपमण्डलभीतितः ॥ २४॥
मेदुरं तारयामास सदारं च घृणानिधिः ।
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ २५॥
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ।
सौमिनी भवबन्धाद्वै मुक्ताभूत्तव सेवनात् ॥ २६॥
विष्णुरुवाच ।
त्वं शम्भो कहरीशाश्च रजस्सत्त्वतमोगुणैः ।
कर्ता पाता तथा हर्ता जनानुग्रहकाङ्क्षया ॥ २७॥
सर्वगर्वापहारी च सर्वतेजोविलासकः ।
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ २८॥
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ।
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ २९॥
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृताञ्जलिः ।
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ३०॥
ब्रह्मोवाच ।
जय देव महादेव प्रणतार्तिविभञ्जन ।
ईदृशेष्वपराधेषु कोऽन्यस्त्वत्तः प्रसीदति ॥ ३१॥
लब्धात्मानो भविष्यन्ति ये पुरा निहता मृधे ।
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ३२॥
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ।
तदिदं भूषणं मन्ये त अङ्गीकारगौरवात् ॥ ३३॥
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ।
विलोक्य वदनं देव्या देवदेवः स्मयन्निव ॥ ३४॥
पुत्रभूतस्य वात्सल्याद् ब्रह्मणः पद्मजन्मनः ।
देवादीनां यथापूर्वमङ्गानि प्रददौ प्रभुः ॥ ३५॥
प्रमथाद्यैश्च या देव्यो दण्डिता देवमातरः ।
तासामपि यथापूर्वाण्यङ्गानि गिरिशो ददौ ॥ ३६॥
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ।
तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ३७॥
सोऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधीः ।
भीतः कृताञ्जलिः शम्भुं तुष्टाव प्रलपन्बहु ॥ ३८॥
दक्ष उवाच ।
जय देव जगन्नाथ लोकानुग्रहकारक ।
कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ३९॥
कर्त्ता भर्त्ता च हर्ता च त्वमेव जगतां प्रभुः ।
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ४०॥
त्वयैव विततं सर्वं व्याप्तं सृष्टं च नाशितम् ।
न हि त्वदधिकाः केचिदीशास्तेऽच्युतकादयः ॥ ४१॥
वायुरुवाच ।
तं तथा व्याकुलं भीतं प्रलपन्तं कृतागसम् ।
स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ४२॥
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ।
गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ४३॥
ततो ब्रह्मादयो देवा अभिवन्द्य कृताञ्जलिः ।
तुष्टुवुः प्रश्रया वाचा शङ्करं गिरिजाधिपम् ॥ ४४॥
ब्रह्मादय ऊचुः ।
जय शङ्कर देवेश दीनानाथ महाप्रभो ।
कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ४५॥
मखपाल मखाधीश मखविध्वंसकारक ।
कृपां कुरु महेशानापराधं नः क्षमस्व वै ॥ ४६॥
देवदेव परेशान भक्तप्राणप्रपोषक ।
दुष्टदण्डप्रदः स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ४७॥
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ।
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ४८॥
अद्भुतं चरितं ते हि निश्चितं कृपया तव ।
सर्वापराधः क्षन्तव्यो विभवो दीनवत्सलाः ॥ ४९॥
वायुरुवाच ।
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ।
स भक्तवत्सलः स्वामी तुतोष करुणोदधिः ॥ ५०॥
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ।
ददौ वरांश्च सुप्रीत्या शङ्करो दीनवत्सलः ॥ ५१॥
स च ततस्त्रिदशान् शरणागतान्
परमकारुणिकः परमेश्वरः ।
अनुगतस्मितलक्षणया गिरा
शमितसर्वभयः समभाषत ॥ ५२॥
शिव उवाच ।
यदिदमाग इहाचरितं सुरै-
र्विधिनियोगवशादिव यन्त्रितैः ।
शरणमेव गतानवलोक्य व-
स्तदखिलं किल विस्मृतमेव नः ॥ ५३॥
तदिह यूयमपि प्रकृतं मन-
स्यविगणय्य विमर्दमपत्रपाः ।
हरिविरिञ्चिसुरेन्द्रमुखाः
सुखं व्रजत देवपुरं प्रति सम्प्रति ॥ ५४॥
इति सुरानभिधाय सुरेश्वरो
निकृतदक्षकृतक्रतुरक्रतुः ।
स गिरिजानुचरः सपरिच्छदः
स्थित इवाम्बरतोन्तरधाद्धरः ॥ ५५॥
अथ सुरा अपि ते विगतव्यथाः
कथितभद्रसुभद्रपराक्रमाः ।
सपदि खेन सुखेन यथासुखं
ययुरनेकमुखाः मघवन्मुखाः ॥ ५६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशोऽध्यायः ॥ ७.१.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२४. चतुर्विंशोऽध्यायः । शिवमन्दरगिरिनिवासक्रीडोक्तिवर्णनम् ।
ऋषय ऊचुः ।
अन्तर्धानगतो देव्या सह सानुचरो हरः ।
क्व यातः कुत्र वा वासः किं कृत्वा विरराम ह ॥ १॥
वायुरुवाच ।
महीधरवरः श्रीमान् मन्दरश्चित्रकन्दरः ।
दयितो देवदेवस्य निवासस्तपसोऽभवत् ॥ २॥
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ।
चिरेण लब्धं तत्पादपङ्कजस्पर्शजं सुखम् ॥ ३॥
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ।
न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ४॥
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ।
पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ५॥
इदं तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ।
ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ६॥
अत एव हि देवेन देव्याः प्रियचिकीर्षया ।
अतीव रमणीयोऽयं गिरिरन्तःपुरीकृतः ॥ ७॥
मेखलाभूमयस्तस्य विमलोपलपादपाः ।
शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वन्त्यखिलं जगत् ॥ ८॥
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ।
अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ९॥
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ।
अधिराज्येन चाद्रीणामद्रीरेषोऽभिषिच्यते ॥ १०॥
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ।
चन्द्रेणाचलसाम्राज्यच्छत्रेणेव विराजते ॥ ११॥
स शैलश्चञ्चलीभूतैर्बालैश्चामरयोषिताम् ।
सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ १२॥
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ।
दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ १३॥
कूजद्विहङ्गवाचालैर्वातोद्धृतलताभुजैः ।
विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ १४॥
लताप्रतानजटिलैस्तरुभिस्तापसैरिव ।
जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ १५॥
अधोमुखैरूर्ध्वमुखैः शृङ्गैस्तिर्यङ्मुखैस्तथा ।
प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ १६॥
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ।
पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ १७॥
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ।
अजीर्णलावण्यतया जृम्भमाण इवाचलः ॥ १८॥
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ।
वमन्निव तमोऽन्तस्थं माद्यन्निव खमम्बुदैः ॥ १९॥
निवासभूमयस्तास्ता दर्पणप्रतिमोदराः ।
तिरस्कृतातपाः स्निग्धाश्रमच्छायामहीरुहाः ॥ २०॥
सरित्सरस्तडागादिसम्पर्कशिशिरानिलाः ।
तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ २१॥
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ।
रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ २२॥
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ।
रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ २३॥
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ।
दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ सम्बभूवतुः ॥ २४॥
ताभ्यां तपोबलाद्दत्तं ब्रह्मणा परमेष्ठिना ।
अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ २५॥
अयोनिजा तु या कन्या ह्यम्बिकांशसमुद्भवा ।
अजातपुंस्पर्शरतिरविलङ्घ्यपराक्रमा ॥ २६॥
तया तु नौ वधः सङ्ख्ये तस्यां कामाभिभूतयोः ।
इति चाभ्यर्थितो ब्रह्मा ताभ्यां प्राह तथास्त्विति ॥ २७॥
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ।
निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ २८॥
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ।
विनिन्द्यापि रहस्यम्बां क्रोधयित्वा यथा तथा ॥ २९॥
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ।
निशुम्भशुम्भयोर्हन्त्रीं सुरेभ्यो दातुमर्हसि ॥ ३०॥
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ।
कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ३१॥
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ।
स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ३२॥
देव्युवाच ।
ईदृशे मम वर्णेऽस्मिन्न रतिर्भवतोऽस्ति चेत् ।
एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ३३॥
अरत्या वर्तमानोऽपि कथं च रमसे मया ।
न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ३४॥
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ।
इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ३५॥
या च नाभिरता भर्तुरपि सर्वाङ्गसुन्दरी ।
सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ३६॥
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ।
तथासत्यन्यथा भूता नारी कुत्रोपयुज्यते ॥ ३७॥
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ।
वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ३८॥
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ।
ययाचेऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ३९॥
तथा प्रणयभङ्गेन भीतो भूतपतिः स्वयम् ।
पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ४०॥
ईश्वर उवाच ।
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ।
रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ४१॥
माता त्वमस्य जगतः पिताहमधिपस्तथा ।
कथं तदुपपद्येत त्वत्तो नाभिरतिर्मम ॥ ४२॥
आवयोरभिकामोऽपि किमसौ कामकारितः ।
यतः कामसमुत्तेः प्रागेव जगदुद्भवः ॥ ४३॥
पृथग्जनानां रतये कामात्मा कल्पितो मया ।
ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ४४॥
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ।
मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ४५॥
विहारोऽप्यावयोरस्य जगतस्त्राणकारणात् ।
ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवानहम् ॥ ४६॥
स चायमचिरादर्थस्तवैवाविष्करिष्यते ।
क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ४७॥
देव्युवाच ।
श्रुतपूर्वं हि भगवंस्तव चाटुवचो मया ।
येनैवमतिधीराहमपि प्रागभिवञ्चिता ॥ ४८॥
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ।
कुलाङ्गना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ४९॥
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ।
क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ५०॥
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसम्मतम् ।
अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ५१॥
शिव उवाच ।
यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ।
ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ५२॥
देव्युवाच ।
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ।
ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ५३॥
ईश्वर उवाच ।
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ।
तमाहूय महादेवि तपसा किं करिष्यसि ॥ ५४॥
देव्युवाच ।
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ।
तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ५५॥
पुरा किल सती नाम्ना दक्षस्य दुहिताऽभवम् ।
जगतां पतिमेव त्वां पतिं प्राप्तवती तथा ॥ ५६॥
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ।
गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ५७॥
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ।
न तां निर्बन्धयामास देवकार्यचिकीर्षया ॥ ५८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तिवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.१.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२५. पञ्चविंशोऽध्यायः । देवीगौरत्वप्राप्तिः ।
वायुरुवाच ।
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ।
नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ १॥
तपः कृतवती पूर्वं देशे यस्मिन्सखीजनैः ।
तमेव देशमवृणोत्तपसे प्रणयात्पुनः ॥ २॥
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ।
प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ३॥
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ।
स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ४॥
सङ्कल्प्य च महातीव्रं तपः परमदुश्चरम् ।
सदा मनसि सन्धाय भर्तुश्चरणपङ्कजम् ॥ ५॥
तमेव क्षणिके लिङ्गे ध्यात्वा बाह्यविधानतः ।
त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ६॥
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ।
प्रदास्यति ममेत्येवं नित्यं कृत्वाऽकरोत्तपः ॥ ७॥
तथा तपश्चरन्तीं तां काले बहुतिथे गते ।
दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ८॥
तथैवोपगतस्यापि तस्यातीव दुरात्मनः ।
गात्रं चित्रार्पितमिव स्तब्धं तस्याः सकाशतः ॥ ९॥
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ।
न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ १०॥
स तु विष्टब्धसर्वाङ्गो बुभुक्षापरिपीडितः ।
ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ११॥
निरीक्ष्यमाणः सततं देवीमेव तदाऽनिशम् ।
अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ १२॥
देव्याश्च हृदये नित्यं ममैवायमुपासकः ।
त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ १३॥
तस्या एव कृपायोगात्सद्यो नष्टमलत्रयः ।
बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ १४॥
न्यवर्तत बुभुक्षा च तस्याङ्गस्तम्भनं तथा ।
दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ १५॥
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ।
सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ १६॥
दुष्टानामपि सत्त्वानां तथान्येषां दुरात्मनाम् ।
स एव द्रावको भूत्वा विचचार तपोवने ॥ १७॥
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ।
देवाश्च दैत्यनिर्बन्धाद् ब्रह्माणं शरणं गताः ॥ १८॥
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ।
यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ १९॥
सोऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ।
आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ २०॥
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ।
संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ २१॥
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ।
प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ २२॥
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ।
रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ २३॥
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सहः ।
अर्घ्यं तदर्हं दत्त्वाऽस्मै स्वागताद्यैरुपाचरत् ॥ २४॥
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनन्द्य च ।
पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ २५॥
ब्रह्मोवाच ।
तीव्रेण तपसानेन देव्या किमिह साध्यते ।
तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ २६॥
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ।
भर्तारमात्मना प्राप्य प्राप्तं च तपसः फलम् ॥ २७॥
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ।
इदं तु चित्रं देवस्य विरहं सहसे कथम् ॥ २८॥
देव्युवाच ।
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ।
तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ २९॥
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ।
उत्पन्नोऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ३०॥
यदाभवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ।
तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ३१॥
तदीदृशस्य भवतो लोकयात्राविधायिनः ।
वृत्तमन्तःपुरे भर्त्रा कथयिष्ये कथं पुनः ॥ ३२॥
किमत्र बहुना देहे यश्चायं मम कालिमा ।
त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ३३॥
ब्रह्मोवाच ।
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ।
स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ३४॥
क्रीडाऽपि च जगन्मातस्तव लोकहिताय वै ।
अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ३५॥
निशुम्भशुम्भनामानौ दैत्यौ दत्तवरौ मया ।
दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ३६॥
अलं विलम्बनेनात्र त्वं क्षणेन स्थिरा भव ।
शक्तिर्विसृज्यमानाद्य तयोर्मृत्युर्भविष्यति ॥ ३७॥
ब्राह्मणाऽभ्यर्थिता चैव देवी गिरिवरात्मजा ।
त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ३८॥
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ।
काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ३९॥
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ।
शङ्खचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ४०॥
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ।
अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ४१॥
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ।
निशुम्भस्य च शुम्भस्य निहन्त्री दैत्यसिंहयोः ॥ ४२॥
ब्रह्मणाऽपि प्रहृष्टेन तस्यै परमशक्तये ।
प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ४३॥
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ।
मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ४४॥
सा चैव सम्मता शक्तिर्ब्रह्मणो विश्वकर्मणः ।
प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ४५॥
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ।
परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ४६॥
निहतौ च तया तत्र समरे दैत्यपुङ्गवौ ।
तद्बाणैः कामबाणैश्च च्छिन्नभिन्नाङ्गमानसौ ॥ ४७॥
तद्युद्धविस्तरश्चात्र न कृतोऽन्यत्र वर्णनात् ।
ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ४८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वप्राप्तिर्नाम पञ्चविंशोऽध्यायः ॥ ७.१.२५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२६. षड्विंशोऽध्यायः । व्याघ्रगतिवर्णनम् ।
वायुरुवाच ।
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ।
तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ १॥
देव्युवाच ।
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ।
अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ २॥
मय्यर्पितमना एष भजते मामनन्यधीः ।
अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ३॥
भवितव्यमनेनातो ममान्तःपुरचारिणा ।
गणेश्वरपदं चास्मै प्रीत्या दास्यति शङ्करः ॥ ४॥
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ।
प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ५॥
इत्युक्तः प्रहसन्ब्रह्मा देवीं मुग्धामिव स्मयन् ।
तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ६॥
ब्रह्मोवाच ।
पशौ देवि मृगाः क्रूराः क्व च तेऽनुग्रहः शुभः ।
आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७॥
व्याघ्रमात्रेण सन्नेष दुष्टः कोऽपि निशाचरः ।
अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ८॥
तर्पयंस्तान् यथाकामं कामरूपी चरत्यसौ ।
अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ९॥
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ।
अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ १०॥
देव्युवाच ।
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ।
तथापि मां प्रपन्नोऽभून्न त्याज्यो मामुपाश्रितः ॥ ११॥
ब्रह्मोवाच ।
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ।
भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ १२॥
पुण्यकर्मापि किं कुर्य्यात्त्वदीयाज्ञानपेक्षया ।
अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ १३॥
त्वदधीना हि सर्वेषां बन्धमोक्षव्यवस्थितिः ।
त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ १४॥
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ।
अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ १५॥
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ।
तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ १६॥
अतीताः खल्वसङ्ख्याता ब्रह्माणो हरयो भवाः ।
अनागतास्त्वसङ्ख्यातास्त्वदाज्ञानुविधायिनः ॥ १७॥
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ।
लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ १८॥
व्यत्यासोऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ।
सुकृतं दुष्कृतं चापि त्वयैव स्थापितं यतः ॥ १९॥
त्वं हि सर्वजगद्भर्तुः शिवस्य परमात्मनः ।
अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ २०॥
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ।
क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ २१॥
अतो दुष्कृतकर्मापि व्याघ्रोऽयं त्वदनुग्रहात् ।
प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ २२॥
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ।
ब्रह्मणाभ्यर्थिता गौरी तपसोऽपि न्यवर्तत ॥ २३॥
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ।
देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ २४॥
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ।
तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ २५॥
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुञ्चतः ।
तत्तच्छाखासमारूढविहगोदीरितै रुतैः ॥ २६॥
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ।
सखीभ्यः कथयन्त्वेवं सत्त्वरा भर्तृदर्शने ॥ २७॥
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ।
देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ २८॥
प्रययौ मन्दरं गौरी यत्र भर्ता महेश्वरः ।
सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ २९॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.१.२६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२७. सप्तविंशोऽध्यायः । देवीशिवमिलनवर्णनम् ।
ऋषय ऊचुः ।
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ।
कथं ददर्श भर्तारं प्रविष्टा मन्दिरं सती ॥ १॥
प्रवेशसमये तस्या भवनद्वारगोचरैः ।
गणेशैः किं कृतं देवस्तां दृष्ट्वा किं तदाकरोत् ॥ २॥
वायुरुवाच ।
प्रवक्तुमञ्जसाशक्यः तादृशः परमो रसः ।
येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ३॥
द्वाःस्थैः ससम्भ्रमैरेव देवो देव्यागमोत्सुकः ।
शङ्कमाना प्रविष्टान्तस्तं च सा समपश्यत ॥ ४॥
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ।
गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ५॥
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ।
प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ६॥
स्वाङ्के धर्तुं प्रवृत्तोऽपि सा पर्यङ्के न्यषीदत ।
पर्यङ्कतो बलाद्देवीं सोऽङ्कमारोप्य सुस्मिताम् ॥ ७॥
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ।
तया सम्भाषणायेशः पूर्वभाषितमब्रवीत् ॥ ८॥
देवदेव उवाच ।
सा दशा च व्यतीता किं तव सर्वाङ्गसुन्दरि ।
यस्यामनुनयोपायः कोऽपि कोपान्न लभ्यते ॥ ९॥
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ।
त्वत्स्वभावहृतं चित्तं सुभ्रु चिन्तावहं मम ॥ १०॥
विस्मृतः परमो भावः कथं स्वेच्छाङ्गयोगतः ।
न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ११॥
पृथग्जनवदन्योऽन्यं विप्रियस्यापि कारणम् ।
आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ १२॥
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ।
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ १३॥
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ।
आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ १४॥
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ।
वागर्थमिव चैवैतज्जगत्स्थावरजङ्गमम् ॥ १५॥
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ।
द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ १६॥
विद्याप्रत्यायिका त्वं मे वेद्योऽहं प्रत्ययात्तव ।
विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ १७॥
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ।
सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ १८॥
आज्ञैकसारमैश्वर्यं यस्मात्स्वातन्त्र्यलक्षणम् ।
आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ १९॥
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ।
देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ २०॥
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ।
ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ २१॥
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ।
इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ २२॥
शृङ्गारभावसाराणां जन्मभूमिरकृत्रिमा ।
स्वभर्त्रा ललितं तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ २३॥
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ।
तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ २४॥
देव्युवाच ।
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ।
तादृशी कन्यका लोके न भूता न भविष्यति ॥ २५॥
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ।
शुम्भस्य च निशुम्भस्य मारणे च रणे तयोः ॥ २६॥
प्रत्यक्षफलदानं च लोकाय भजते सदा ।
लोकानां रक्षणं शश्वद् ब्रह्मा विज्ञापयिष्यति ॥ २७॥
इति सम्भाषमाणाया देव्या एवाज्ञया तदा ।
व्याघ्रः सख्या समानीय पुरोऽवस्थापितस्तदा ॥ २८॥
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ।
व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ २९॥
अनेन दुष्टसङ्घेभ्यो रक्षितं मत्तपोवनम् ।
अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ३०॥
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ।
यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ३१॥
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ।
रक्षिभिः सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ३२॥
वायुरुवाच ।
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ।
प्रीतोऽस्मीत्याह तं देवः स चादृश्यत तत्क्षणात् ॥ ३३॥
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कञ्चुकम् ।
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ ३४॥
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ।
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ ३५॥
इत्थं देव्याः प्रियं कृत्वा देवश्चार्द्धेन्दुभूषणः ।
भूषयामास तं दिव्यैर्भूषणै रत्नभूषितैः ॥ ३६॥
ततः स गौरीं गिरिशो गिरीन्द्रजां
सगौरवां सर्वमनोहरां हरः ।
पर्यङ्कमारोप्य वराङ्गभूषणै-
र्विभूषयामास शशाङ्कभूषणः ॥ ३७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशिवमिलनवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.१.२७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२८. अष्टाविंशोऽध्यायः । भस्मतत्त्ववर्णनम् ।
ऋषय ऊचुः ।
देवीं समादधानेन देवेनेदं किमीरितम् ।
अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ १॥
आज्ञैकसारमैश्वर्यमाज्ञात्वमिति चोदितम् ।
तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ २॥
वायुरुवाच ।
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ।
सोमः शाक्तोऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ३॥
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ।
भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ४॥
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ५॥
विद्युदादिमयं तेजो मधुरादिमयो रसः ।
तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ६॥
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।
अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७॥
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ।
वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ८॥
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ।
यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ९॥
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ।
यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ १०॥
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ ११॥
शिवश्चोर्ध्वमधः शक्तिरूर्ध्वं शक्तिरधः शिवः ।
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किञ्चन ॥ १२॥
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ।
अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ १३॥
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ।
अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ १४॥
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितं पुनः ।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १५॥
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।
शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ १६॥
अतो मृत्युञ्जयायेत्थममृतप्लावनं सदा ।
शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ १७॥
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ।
अग्नीषोमपदं हित्वा न स भूयोऽभिजायते ॥ १८॥
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्यामृतेन यः ।
प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते ॥ १९॥
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ।
अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ २०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.१.२८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.२९. एकोनत्रिंशोऽध्यायः । वागर्थात्मकतत्त्ववर्णनम् ।
वायुरुवाच ।
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ।
षडध्ववेदनं सम्यक् समासान्न तु विस्तरात् ॥ १॥
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ।
ततो हि समये शब्दः सर्वः सर्वार्थबोधकः ॥ २॥
प्रकृतेः परिणामोऽयं द्विधा शब्दार्थभावना ।
तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ३॥
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ।
स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ४॥
सूक्ष्मा चिन्तामयी प्रोक्ता चिन्तया रहिता परा ।
या शक्तिः सा परा शक्तिः शिवतत्त्वसमाश्रया ॥ ५॥
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ।
सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ६॥
समस्तकार्यजातस्य मूलप्रकृतितां गता ।
सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ७॥
सा विभागस्वरूपैव षडध्वात्मा विजृम्भते ।
तत्र शब्दास्त्रयोऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ८॥
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ।
लयभोगाधिकाराः स्युः सर्वतत्त्वविभागतः ॥ ९॥
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ।
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ १०॥
कलाश्च ता निवृत्त्याद्याः पर्य्याप्ता इति निश्चयः ।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ११॥
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ।
अत्रान्योऽन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ १२॥
मन्त्राः सर्वे पदैर्व्याप्ता वाक्यभावात्पदानि च ।
वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ १३॥
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलम्भनात् ।
भुवनान्यपि तत्त्वौघैरुत्पत्त्यान्तर्बहिष्क्रमात् ॥ १४॥
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ।
अन्तरादुत्थितानीह भुवनानि तु कानिचित् ॥ १५॥
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ।
साङ्ख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ १६॥
शिवशास्त्रप्रसिद्धानि ततोऽन्यान्यपि कृत्स्नशः ।
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ १७॥
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ।
कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ १८॥
व्यापिकातः पराशक्तिरविभक्ता षडध्वनाम् ।
परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ १९॥
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ।
व्याप्तमेकेन तेनैव मृदा कुम्भादिकं यथा ॥ २०॥
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ।
व्यापिकाऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ २१॥
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ।
प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ २२॥
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ।
शान्त्या तदूर्ध्वम्मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ २३॥
यामाहुः परमं व्योम परप्रकृतियोगतः ।
एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ २४॥
अत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ।
अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ २५॥
स विप्रलम्भकः शुद्धेर्नालं प्रापयितुं फलम् ।
वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ २६॥
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ।
तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ २७॥
शक्तिराज्ञा परा शैवी चिद्रूपा परमेश्वरी ।
शिवोऽधितिष्ठत्यखिलं यया कारणभूतया ॥ २८॥
नात्मनो नैव मायैषा न विकारो विचारतः ।
न बन्धो नापि मुक्तिश्च बन्धमुक्तिविधायिनी ॥ २९॥
सर्वैश्वर्यपराकाष्ठा शिवस्याव्यभिचारिणी ।
समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ ३०॥
स तयैव गृही सापि तेनैव गृहिणी सदा ।
तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ ३१॥
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ।
एक एव शिवः साक्षाद् द्विधाऽसौ समवस्थितः ॥ ३२॥
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ।
अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ ३३॥
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ।
तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ ३४॥
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ।
महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ ३५॥
त्रिविधा कार्यभेदेन सा प्रसूते षडध्वनः ।
स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ ३६॥
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ ३७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थात्मकतत्त्ववर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ७.१.२९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३०. त्रिंशोऽध्यायः । शिवतत्त्वप्रश्नः ।
ऋषय ऊचुः ।
चरितानि विचित्राणि गृह्याणि गहनानि च ।
दुर्विज्ञेयानि देवैश्च मोहयन्ति मनांसि नः ॥ १॥
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ।
चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ २॥
ब्रह्मादयोऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ।
निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ३॥
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ।
अतोऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ४॥
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ।
स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ५॥
न मूर्तिश्च स्वतन्त्रस्य घटते मूलहेतुना ।
मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ६॥
सर्वत्र परमो भावोऽपरमश्चान्य उच्यते ।
परमापरमौ भावौ कथमेकत्र सङ्गतौ ॥ ७॥
निष्फलो हि स्वभावोऽस्य परमः परमात्मनः ।
स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ८॥
स्वभावो विपरीतश्चेत्स्वतन्त्रः स्वेच्छया यदि ।
न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ९॥
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ।
शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ १०॥
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ।
तस्यां मूर्तौ मूर्तिमतोः पारतन्त्र्यं हि निश्चितम् ॥ ११॥
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ।
मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ १२॥
न हि स्वेच्छाशरीरत्वं स्वातन्त्र्यायोपपद्यते ।
स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ १३॥
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ।
ब्रह्मादयः पिशाचान्ताः किं ते कर्मातिवर्तिनः ॥ १४॥
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ।
अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ १५॥
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ।
युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ १६॥
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ।
शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ १७॥
सर्वानुग्राहकं प्राहुः शिवं परमकारणम् ।
स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ १८॥
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ।
शिवनिन्दां प्रकुर्वन्तं पुत्रेति कुमतेर्हठात् ॥ १९॥
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ।
बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ २०॥
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ।
वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ २१॥
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ।
क्षणेनैकेन देवेन नेत्राग्नेरिन्धनीकृतम् ॥ २२॥
प्रजानां रतिहेतुश्च कामो रतिपतिः स्वयम् ।
क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ २३॥
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ।
सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृताः ॥ २४॥
जलन्धरासुरो दीर्णश्चक्रीकृत्य जलं पदा ।
बद्ध्वानन्तेन यो विष्णुं चिक्षेप शतयोजनम् ॥ २५॥
तमेव जलसन्धायी शूलेनैव जघान सः ।
तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिः सदा ॥ २६॥
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ।
त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ २७॥
कण्ठात्कालाङ्गनां सृष्ट्वा दारकोऽपि निपातितः ।
कौशिकीं जनयित्वा तु गौर्य्यास्त्वक्कोशगोचराम् ॥ २८॥
शुम्भः सह निशुम्भेन प्रापितो मरणं रणे ।
श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ २९॥
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ।
ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ३०॥
विहृत्य सुचिरं देव्या विहारातिप्रसङ्गतः ।
रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ३१॥
देवीं च वञ्चयंस्तस्यां स्ववीर्यमतिदुर्वहम् ।
अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ३२॥
गङ्गादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ।
तत्समाहृत्य शनकैस्तोकं स्तोकमितस्ततः ॥ ३३॥
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ।
सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ३४॥
सन्दीपयित्वा कालेन तस्य भासा दिशो दश ।
रञ्जयित्वा गिरीन्सर्वान् काञ्चनीकृत्य मेरुणा ॥ ३५॥
ततश्चिरेण कालेन सञ्जाते तत्र तेजसि ।
कुमारे सुकुमाराङ्गे कुमाराणां निदर्शने ॥ ३६॥
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ।
सह देवासुरैर्लोकैर्विस्मिते च विमोहिते ॥ ३७॥
देवोऽपि स्वयमायातः पुत्रदर्शनलालसः ।
सह देव्याङ्कमारोप्य ततोऽस्य स्मेरमाननम् ॥ ३८॥
पीतामृतमिव स्नेहविवशेनान्तरात्मना ।
देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ३९॥
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ।
अनुभूय च तत्क्रीडां सम्भाव्य च परस्परम् ॥ ४०॥
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ।
तवावतारो जगतां हितायेत्यनुशास्य च ॥ ४१॥
स्वयं देवश्च देवी च न तृप्तिमुपजग्मतुः ।
ततः शक्रेण सन्धाय बिभ्यता तारकासुरात् ॥ ४२॥
कारयित्वाऽभिषेकं च सेनापत्ये दिवौकसाम् ।
पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषः ॥ ४३॥
स्वयमन्तर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ।
तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ४४॥
छेदितं तारकस्यापि शिरः शक्रभिया सह ।
स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ४५॥
तथा रक्षोऽधिपः साक्षाद्रावणो बलगर्वितः ।
उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ४६॥
तदागोऽसहमानस्य देवदेवस्य शूलिनः ।
पदाङ्गुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ४७॥
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ।
त्वरयागत्य देवेन पादान्तं गमितोऽन्तकः ॥ ४८॥
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ।
सगलग्रहमानीतस्ततोऽस्त्येकोदकं जगत् ॥ ४९॥
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ।
अङ्गहारक्रमेणेदमसकृच्चालितं जगत् ॥ ५०॥
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ।
सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ५१॥
अनादिकर्मवैचित्र्यमपि नात्र नियामकम् ।
कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ५२॥
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ।
यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ५३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशोऽध्यायः ॥ ७.१.३०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३१. एकत्रिंशोऽध्यायः । ज्ञानोपदेशः ।
वायुरुवाच ।
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ।
जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ १॥
प्रमणमत्र वक्ष्यामि सतां मोहनिवर्तकम् ।
असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ २॥
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ।
न किञ्चिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ३॥
स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ।
अन्यथा निःस्वभावेन न किमप्यनुगृह्यते ॥ ४॥
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ।
परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ५॥
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ।
तदर्थमर्थस्वीकारे परतन्त्रः कथं शिवः ॥ ६॥
अनुग्राह्यानपेक्षोऽस्ति न हि कश्चिदनुग्रहः ।
अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७॥
एतत्पुनरनुग्राह्यं परतन्त्रं तदिष्यते ।
अनुग्रहाद् ऋते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ८॥
मूर्तात्मनोऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ।
अज्ञानाधिष्ठितं शम्भोर्न किञ्चिदिह विद्यते ॥ ९॥
येनोपलभ्यतेऽस्माभिः सकलेनापि निष्कलः ।
स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ १०॥
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ।
साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ११॥
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ।
न तावतात्रोपेक्षाधीरुपलक्षणमन्तरा ॥ १२॥
आत्मोपमोल्बणं साक्षान्मूर्तिरेव हि काचन ।
शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ १३॥
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ।
एवं शिवोऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ १४॥
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ।
नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ १५॥
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ।
मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ १६॥
लिङ्गादावपि तत्कृत्यमर्चायां च विशेषतः ।
तत्तन्मूर्त्यात्मभावेन शिवोऽस्माभिरुपास्यते ॥ १७॥
यथानुगृह्यते सोऽपि मूर्त्यात्मा पारमेष्ठिना ।
तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ १८॥
लोकानुग्रहणायैव शिवेन परमेष्ठिना ।
सदाशिवादयः सर्वे मूर्त्यात्मनोऽप्यधिष्ठिताः ॥ १९॥
आत्मनामेव भोगाय मोक्षाय च विशेषतः ।
तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ २०॥
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ।
न च कर्म शिवेऽस्तीति तस्य भोगः किमात्मकः ॥ २१॥
सर्वं शिवोऽनुगृह्णाति न निगृह्णाति किञ्चन ।
निगृह्णतां तु ये दोषाश्शिवे तेषामसम्भवात् ॥ २२॥
ये पुनर्निग्रहाः केचिद् ब्रह्मादिषु निदर्शिताः ।
तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ २३॥
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ।
श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ २४॥
सदोषा एव देवाद्या निगृहीता यथोदितम् ।
ततस्तेऽपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ २५॥
निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः ।
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ २६॥
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ।
न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ २७॥
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ।
आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ २८॥
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ।
विपरीतमसाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ २९॥
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ।
निवर्तते च सामादेरन्ते दण्डो हि साधनम् ॥ ३०॥
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ।
अतो यद्विपरीतं तदहितं सम्प्रचक्षते ॥ ३१॥
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ।
स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ३२॥
अयुक्तकारिणो लोके गर्हणीया विवेकिता ।
यदुद्वेजयते लोकं तदयुक्तं प्रचक्षते ॥ ३३॥
सर्वोऽपि निग्रहो लोके न च विद्वेषपूर्वकः ।
न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ३४॥
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ।
तस्याप्यवश्यं यत्किञ्चिन्नैर्घृण्यमनुवर्तते ॥ ३५॥
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ।
हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ३६॥
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः स निर्घृणः ।
इति निर्बन्धयन्त्येके नियमो नेति चापरे ॥ ३७॥
निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः ।
न किञ्चिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ३८॥
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ।
तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ३९॥
उपेक्षापीह दोषाय रक्ष्येषु प्रतियोगिषु ।
शक्तौ सत्यामुपेक्षातो रक्ष्यः सद्यो विपद्यते ॥ ४०॥
सर्पस्यास्यगतं पश्यन् यस्तु रक्ष्यमुपेक्षते ।
दोषाभासान्समुत्प्रेक्ष्य फलतः सोऽपि निर्घृणः ॥ ४१॥
तस्माद् घृणा गुणायैव सर्वथेति न सम्मतम् ।
सम्मतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ४२॥
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ।
तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ४३॥
अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ।
इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ४४॥
नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ।
अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ४५॥
एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ।
शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुद्ध्यति ॥ ४६॥
अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः ।
मूर्त्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ४७॥
न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ।
काष्ठस्याङ्गारता नाग्नेरेवमत्रापि योज्यताम् ।
अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ४८॥
शिवावेशवशादेव शिवत्वमुपचर्यते ।
मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ।
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ४९॥
यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ।
न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ५०॥
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ।
संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ५१॥
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ।
सर्वं हिते नियुञ्जानः सर्वानुग्रहकारकः ॥ ५२॥
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ।
तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ५३॥
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ।
स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ५४॥
यथा विकासयत्येव रविः पद्मानि भानुभिः ।
समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ५५॥
स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम् ।
न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ५६॥
सुवर्णमेव नाङ्गारं द्रावयत्यग्निसङ्गमः ।
एवं पक्वमलानेव मोचयेन्न शिवः परान् ॥ ५७॥
यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ।
विना भावनया कर्ता स्वतन्त्रः सन्ततो भवेत् ॥ ५८॥
स्वभावविमलो यद्वत्सर्वानुग्राहकः शिवः ।
स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ५९॥
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ।
कर्ममायानुबन्धोऽस्य संसारः कथ्यते बुधैः ॥ ६०॥
अनुबन्धोऽयमस्यैव न शिवस्येति हेतुमान् ।
स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ६१॥
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ।
योऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ६२॥
आत्मतायाः समत्वेऽपि बद्धा मुक्ताः परे यतः ।
बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ६३॥
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ।
केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ६४॥
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्द्धसु स्थिताः ।
मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ६५॥
आसन्नेऽपि च मायायाः परस्मात्कारणात्त्रयम् ।
तत्राप्यात्मा स्थितोऽधस्तादन्तरात्मा च मध्यतः ॥ ६६॥
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ।
वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ६७॥
अन्तरात्मपदे केचित्केचिदात्मपदे तथा ।
शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ६८॥
विद्यायां तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ।
निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्माङ्गयोनयः ॥ ६९॥
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ।
पक्ष्यादयोऽधमाः पञ्च योनयस्ताश्चतुर्दश ॥ ७०॥
उत्तराधरभावोऽपि ज्ञेयः संसारिणो मलः ।
यथाऽऽमभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७१॥
मलोऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ।
आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७२॥
पश्वात्मानस्त्रिधा भिन्ना एकद्वित्रिमलाः क्रमात् ।
अत्रोत्तरा एकमला द्विमला मध्यमा मताः ।
त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७३॥
त्रिमलानधितिष्ठन्ति द्विमलैकमलाः क्रमात् ।
इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७४॥
एकद्वित्रिमलान्सर्वाञ्छिव एकोऽधितिष्ठति ।
अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७५॥
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ।
अण्डान्ता हि महाभूमिः शतरुद्राद्यधिष्ठिता ॥ ७६॥
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ।
अङ्गुष्ठमात्रपर्यन्तैः समन्तात्सन्ततं ततम् ॥ ७७॥
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ।
अनाश्रितान्तैरध्वान्तर्वर्त्तिभिः समधिष्ठिताः ॥ ७८॥
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ।
पृथिवीपद इत्येवं देवा देवव्रतैः स्तुताः ॥ ७९॥
एवं त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ।
निदानभूतैः संसाररोगः पुंसां प्रवर्तते ॥ ८०॥
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ।
भिषगाज्ञापकः शम्भुः शिवः परमकारणम् ॥ ८१॥
अदुःखेनाऽपि शक्तोऽसौ पशून्मोचयितुं शिवः ।
कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ८२॥
दुःखमेव हि सर्वोऽपि संसार इति निश्चितम् ।
कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ८३॥
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ।
रोगार्तं तु भिषग्रोगाद्भैषजैः सुखमुद्धरेत् ॥ ८४॥
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ।
स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ८५॥
न भिषक् कारणं रोगे शिवः संसारकारणम् ।
इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ८६॥
दुःखे स्वभावसंसिद्धे कथं तत्कारणं शिवः ।
स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ८७॥
संसारकारणं यत्तु मलं मायाद्यचेतनम् ।
तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ८८॥
यथा मणिरयस्कान्तः सान्निध्यादुपकारकः ।
अयसश्चलतस्तद्वच्छिवोऽप्यस्येति सूरयः ॥ ८९॥
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ।
अधिष्ठाता ततो नित्यमज्ञातो जगतः शिवः ॥ ९०॥
न शिवेन विना किञ्चित्प्रवृत्तमिह विद्यते ।
तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ९१॥
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ।
तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ९२॥
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ।
ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ९३॥
योऽन्यथा मन्यते मोहात्स विनश्यति दुर्मतिः ।
तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ९४॥
एतस्मिन्नन्तरे व्योम्नः श्रुता वागशरीरिणी ।
सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ९५॥
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ।
मुनयो विस्मयाविष्टाः प्रणेमुः पवनं प्रभुम् ॥ ९६॥
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ।
नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ९७॥
वायुरुवाच
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ।
परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ९८॥
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ।
अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ९९॥
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ।
श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ १००॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशोऽध्यायः ॥ ७.१.३१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३२. द्वात्रिंशोऽध्यायः । श्रेष्ठानुष्ठानवर्णनम् ।
ऋषय ऊचुः ।
किं तच्छ्रेष्ठमनुष्ठानं मोक्षो येनापरोक्षितः ।
तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥ १॥
वायुरुवाच ।
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ।
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ २॥
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ।
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ३॥
तैरेव सोत्तरैः सिद्धो धर्मस्तु परमो मतः ।
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ४॥
परमोऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ।
धर्मशब्दाभिधेयेऽर्थे प्रमाणं श्रुतिरेव नः ॥ ५॥
परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ।
धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥ ६॥
अपश्वात्माधिकारत्वाद्यो धर्मः परमो मतः ।
साधारणस्ततोऽन्यस्तु सर्वेषामधिकारतः ॥ ७॥
स चायं परमो धर्मः परधर्मस्य साधनम् ।
धर्मशास्त्रादिभिः सम्यक् साङ्ग एवोपबृंहितः ॥ ८॥
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ।
इतिहासपुराणाभ्यां कथञ्चिदुपबृंहितः ॥ ९॥
शैवागमैस्तु सम्पन्नः सहाङ्गोपाङ्गविस्तरः ।
तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥ १०॥
शैवागमो हि द्विविधः श्रौतोऽश्रौतश्च संस्कृतः ।
श्रुतिसारमयः श्रौतः स्वतन्त्र इतरो मतः ॥ ११॥
स्वतन्त्रो दशधा पूर्वं तथाष्टादशधा पुनः ।
कामिकादिसमाख्याभिः सिद्धः सिद्धान्तसंज्ञितः ॥ १२॥
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ।
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ १३॥
युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा ।
तत्र तत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥ १४॥
सङ्क्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षयः ।
रुरुर्दधीचोऽगस्त्यश्च उपमन्युर्महायशाः ॥ १५॥
ते च पाशुपता ज्ञेयाः संहितानां प्रवर्तकाः ।
तत्सन्ततीया गुरवः शतशोऽथ सहस्रशः ॥ १६॥
तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ।
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद् दृढम् ॥ १७॥
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ।
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ १८॥
नामाष्टकमयो योगः शिवेन परिकल्पितः ।
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ १९॥
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ।
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ २०॥
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ।
शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ २१॥
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ।
ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ २२॥
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ २३॥
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ।
आद्यं तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥ २४॥
संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ।
उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ २५॥
पदमेव हि तं नित्यमनित्याः पदिनः स्मृताः ।
पदानां परिवृत्तौ तु मुच्यन्ते पदिनो यतः ॥ २६॥
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ।
आत्मान्तराभिधानं स्याद्यदाद्यं नामपञ्चकम् ॥ २७॥
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ।
त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ २८॥
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ।
अत्यन्तं परिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥ २९॥
अथवाशेषकल्याणगुणैकधन ईश्वरः ।
शिव इत्युच्यते सद्भिः शिवतत्त्वार्थवादिभिः ॥ ३०॥
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ।
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ ३१॥
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ।
वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ ३२॥
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ।
तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥ ३३॥
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ३४॥
मायाविक्षोभकोऽनन्तो महेश्वरसमन्वयात् ।
कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ ३५॥
रुद् दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ।
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ३६॥
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ।
व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ३७॥
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ।
पितृभावेन सर्वेषां पितामह उदीरितः ॥ ३८॥
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ।
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ३९॥
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ।
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ४०॥
दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ।
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ ४१॥
अणवो नैव जानन्ति माययैव मलावृताः ।
असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥ ४२॥
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ।
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ ४३॥
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ।
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ ४४॥
नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ।
निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः ॥ ४५॥
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ।
गुणितैरेव सोद्धातैः निरुद्धैरथापि वा ॥ ४६॥
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ।
छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ४७॥
द्वादशान्तः स्थितस्येन्दोर्नीत्वोपरि शिवौजसि ।
संहृत्य वदनं पश्चाद्यथासंस्करणं लयात् ॥ ४८॥
शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ।
अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ४९॥
द्वादशान्तःस्थितस्येन्दोः परस्ताच्छ्वेतपङ्कजे ।
समासीनं महादेवं शङ्करं भक्तवत्सलम् ॥ ५०॥
अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ।
शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ॥ ५१॥
ध्यात्वा हि मानसे देवं स्वस्थचित्तोऽथ मानवः ।
शिवनामाष्टकेनैव भावपुष्पैः समर्चयेत् ॥ ५२॥
अभ्यर्च्चनान्ते तु पुनः प्राणानायम्य मानवः ।
सम्यक् चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ५३॥
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ।
अष्टपुष्पप्रदानेन कृत्वाभ्यर्च्चनमन्तिमम् ॥ ५४॥
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ।
एवं कृत्वाचिरादेव ज्ञानं पाशुपतं शुभम् ॥ ५५॥
लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ।
योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ ५६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.१.३२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३३. त्रयस्त्रिंशोऽध्यायः । पशुपतिव्रतविधानवर्णनम् ।
ऋषय ऊचुः ।
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ।
ब्रह्मादयोऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ १॥
वायुरुवाच ।
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ।
व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ २॥
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ।
क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ॥ ३॥
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ।
अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ॥ ४॥
पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ५॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ।
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ ६॥
व्रतमेतत्करोमीति भवेत्सङ्कल्प्य दीक्षितः ।
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ७॥
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ ८॥
दिनद्वादशकं वाथ दिनषट्कमथापि वा ।
तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ ९॥
अग्निमाधाय विधिवद्विरजाहोमकारणात् ।
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ १०॥
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ ११॥
तत्त्वान्येतानि मद्देहे शुद्ध्यन्तामित्यनुस्मरन् ।
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १२॥
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ।
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १३॥
मनोबुद्धिरहङ्ख्यातिर्गुणाः प्रकृतिपूरुषौ ।
रागो विद्याकले चैव नियतिः काल एव च ॥ १४॥
माया च शुद्धिविद्या च महेश्वरसदाशिवौ ।
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १५॥
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ।
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ १६॥
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ।
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ १७॥
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ।
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ १८॥
प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ।
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ १९॥
ततश्च जटिलो मुण्डी शिखैकजट एव वा ।
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ २०॥
अपि काषायवसनश्चर्मचीराम्बरोऽथ वा ।
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ २१॥
प्रक्षाल्य चरणौ पश्चाद् द्विराचम्यात्मनस्तनुम् ।
सङ्कुलीकृत्य तद्भस्म विरजानलसम्भवम् ॥ २२॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ।
विमृज्याङ्गानि मूर्द्धादिचरणान्तानि तैः स्पृशेत् ॥ २३॥
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ।
सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ २४॥
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ।
शिवभावं समागम्य शिवयोगमथाचरेत् ॥ २५॥
कुर्यात् त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ।
भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ २६॥
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ।
पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः ॥ २७॥
पद्ममष्टदलं हैमं नवरत्नैरलङ्कृतम् ।
कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ २८॥
विभवे तदभावे तु रक्तं सितमथापि वा ।
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ २९॥
तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं कनीयसम् ।
स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ ३०॥
प्रतिष्ठाप्य विधानेन तल्लिङ्गं कृतशोधनम् ।
परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥ ३१॥
पञ्चगव्यादिभिः पूर्णैर्यथाविभवसम्भृतैः ।
स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ ३२॥
गन्धद्रव्यैः सकर्पूरैश्चन्दनाद्यैः सकुङ्कुमैः ।
सवेदिकं समालिप्य लिङ्गं भूषणभूषितम् ॥ ३३॥
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ।
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगन्धिभिः ॥ ३४॥
पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ।
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ ३५॥
धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ।
निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ ३६॥
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ।
सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ ३७॥
श्रीपत्रोत्पलपद्मानां सङ्ख्या साहस्रिकी मता ।
प्रत्येकमपरा सङ्ख्या शतमष्टोत्तरं द्विजाः ॥ ३८॥
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ।
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ ३९॥
नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ।
पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ ४०॥
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ।
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ ४१॥
ईशाने भसितं केचिदालेपनमितीदृशम् ।
न धूपमिति मन्यन्ते धूपान्तरविधानतः ।
सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ ४२॥
पौरुषे गुग्गुलं सद्ये सौम्ये सौगन्धिकं मुखे ।
ईशानेऽपि ह्युशीरादि देयाद् धूपं विशेषतः ॥ ४३॥
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ।
चन्दनागरुकाष्ठाद्यं सामान्यं सम्प्रचक्षते ॥ ४४॥
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ।
अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ ४५॥
प्रथमावरणे पूज्यौ क्रमाद्धेरम्बषण्मुखौ ।
ब्रह्माङ्गानि ततश्चैव प्रथमावरणेऽर्चिते ॥ ४६॥
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ।
तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ ४७॥
महादेवादयस्तत्र तथैकादशमूर्तयः ।
चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ ४८॥
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ।
दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ ४९॥
ब्रह्मणो मानसाः पुत्राः सर्वेऽपि ज्योतिषां गणाः ।
सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ ५०॥
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ।
योगिनो हि मखाः सर्वे पतङ्गा मातरस्तथा ॥ ५१॥
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ।
पूजनीयं शिवप्रीत्या मत्वा शम्भुविभूतिमत् ॥ ५२॥
अथावरणपूजान्ते सम्पूज्य परमेश्वरम् ।
साज्यं सव्यजनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ ५३॥
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ।
अलङ्कृत्य च भूयोऽपि नानापुष्पविभूषणैः ॥ ५४॥
नीराजनान्ते विस्तीर्य पूजाशेषं समापयेत् ।
चषकं सोपकारं च शयनं च समर्पयेत् ॥ ५५॥
चन्द्रसङ्काशहारं च शयनीयं समर्पयेत् ।
आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ ५६॥
कृत्वा च कारयित्वा च हुत्वा च प्रतिपूजनम् ।
व्योमेशस्तवं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥ ५७॥
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ।
ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ ५८॥
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिङ्गतः ।
अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ ५९॥
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ।
ततस्तत्साम्बुजं लिङ्गं सर्वोपकरणान्वितम् ॥ ६०॥
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ।
सम्पूज्य च गुरून्विप्रान् व्रतिनश्च विशेषतः ॥ ६१॥
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ।
स्वयं चानशने शक्तः फलमूलाशनोऽथ वा ॥ ६२॥
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ।
नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ ६३॥
भस्मशायी तृणेशायी चीराजिनधृतोऽथ वा ।
ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ ६४॥
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ।
अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ ६५॥
पाखण्डिपतितोदक्याः सूतकान्त्यजपूर्वकान् ।
वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ ६६॥
क्षमादानदयासत्याहिंसाशीलः सदा भवेत् ।
सन्तुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ ६७॥
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ।
पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ ६८॥
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ।
प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ ६९॥
उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ।
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ ७०॥
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च सम्पदा ।
भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ ७१॥
सामान्यमेतत्कथितं व्रतस्यास्य समासतः ।
प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ ७२॥
वैशाखे वज्रलिङ्गं तु ज्येष्ठे मारकतं शुभम् ।
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ ७३॥
मासे भाद्रपदे चैव पद्मरागमयं परम् ।
आश्विने मासि विद्याद्वै लिङ्गं गोमेदकं वरम् ॥ ७४॥
कार्तिक्यां वैद्रुमं लिङ्गं वैदूर्यं मार्गशीर्षके ।
पुष्परागमयं पौषे माघे द्युमणिजं तथा ॥ ७५॥
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययोऽथवा ।
सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ ७६॥
हैमाभावे राजतं वा ताम्रजं शैलजं तथा ।
मृण्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ ७७॥
सर्वगन्धमयं वाथ लिङ्गं कुर्याद्यथारुचि ।
व्रतावसानसमये समाचरितनित्यकः ॥ ७८॥
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ।
सम्पूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ ७९॥
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ।
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ ८०॥
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ।
अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ ८१॥
समुत्सृजामि भगवन् व्रतमेतत्त्वदाज्ञया ।
इत्युक्त्वा लिङ्गमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ ८२॥
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ।
पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥ ८३॥
यः कृत्वात्यन्तिकीं दीक्षामादेहान्तमनाकुलः ।
व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ८४॥
सोऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ।
स एव तपतां श्रेष्ठः स एव च महाव्रती ॥ ८५॥
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ।
यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ ८६॥
योऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ।
सोऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ ८७॥
घृताक्तो यश्चरेदेतद् व्रतं व्रतपरायणः ।
द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ ८८॥
कृत्यमित्येव निष्कामो यश्चरेद् व्रतमुत्तमम् ।
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ ८९॥
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ।
पापैः सुदारुणैः सद्यो मुच्यते नात्र संशयः ॥ ९०॥
रुद्राग्निर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् ।
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ ९१॥
भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसङ्गमात् ।
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ ९२॥
भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ।
भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ ९३॥
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ।
भस्मनिष्ठस्य सान्निध्याद् विद्रवन्ति न संशयः ॥ ९४॥
भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् ।
भूतिः भूतिकरी चैव रक्षा रक्षाकरी परम् ॥ ९५॥
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ।
व्रती च भस्मना स्नातः स्वयं देवो महेश्वरः ॥ ९६॥
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ।
धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ ९७॥
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ।
धनवद्भस्म सङ्गृह्य भस्मस्नानरतो भवेत् ॥ ९८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.१.३३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३४. चतुस्त्रिंशोऽध्यायः । उपमन्युतपोवर्णनम् ।
ऋषय ऊचुः ।
धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ।
तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ १॥
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ।
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ २॥
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ।
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ३॥
वायुरुवाच ।
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ।
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ४॥
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ।
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ५॥
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ।
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ६॥
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ।
सह दुग्धाब्धिना तस्मै प्रददौ शङ्करः स्वयम् ॥ ७॥
तस्य ज्ञानागमोऽप्यस्य प्रसादादेव शाङ्करात् ।
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ८॥
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ।
कुमारोमुखतो लब्धज्ञानाब्धेरिव नन्दिनः ॥ ९॥
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ।
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ १०॥
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ।
ईर्ष्यया मातुलसुतं सन्तृप्तक्षीरमुत्तमम् ॥ ११॥
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ।
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ १२॥
उपमन्युरुवाच ।
मातर्मातर्महाभागे मम देहि तपस्विनि ।
गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ १३॥
वायुरुवाच ।
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ।
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ १४॥
उपलाल्याथ सुप्रीत्या पुत्रमालिङ्ग्य सादरम् ।
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ १५॥
स्मृत्वा स्मृत्वा पुनः क्षीरमुपमन्युः स बालकः ।
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ १६॥
तद् हठं सा परिज्ञाय द्विजपत्नी तपस्विनी ।
शान्तये तद् हठस्याथ शुभोपायमरीरचत् ॥ १७॥
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ।
बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ १८॥
एह्येहि मम पुत्रेति सामपूर्वं ततः सुतम् ।
आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ १९॥
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ।
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ २०॥
दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्द्धनि ।
सम्मार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ २१॥
जनन्युवाच ।
तटिनी रत्नपूर्णास्ताः स्वर्गपातालगोचराः ।
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ २२॥
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसम्भवम् ।
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ २३॥
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ।
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ २४॥
क्षीरं तत्र कुतोऽस्माकं वने निवसतां सदा ।
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ २५॥
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ।
मिथ्यादुग्धमिदं दत्तं पिष्टमालोड्य वारिणा ॥ २६॥
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः श्रुतम् ।
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ २७॥
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ।
प्रसादेन विना शम्भोः पयस्तव न विद्यते ॥ २८॥
पादपङ्कजयोस्तस्य साम्बस्य सगणस्य च ।
भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ २९॥
अधुना वसुदोऽस्माभिर्महादेवो न पूजितः ।
सकामानां यथाकामं यथोक्तफलदायकः ॥ ३०॥
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ।
अतो दरिद्राः सञ्जाता वयं तस्मान्न ते पयः ॥ ३१॥
पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ।
तदेव लभ्यते नान्यद् विष्णुमुद्दिश्य वा प्रभुम् ॥ ३२॥
वायुरुवाच ।
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ।
बालोऽप्यनुतपन्नन्तः प्रगल्भमिदमब्रवीत् ॥ ३३॥
उपमन्युरुवाच ।
शोकेनालमितो मतः साम्बो यद्यस्ति शङ्करः ।
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ ३४॥
शृणु मातर्वचो मेऽद्य महादेवोऽस्ति चेत् क्वचित् ।
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ ३५॥
वायुरुवाच ।
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ।
प्रत्युवाच तदा माता सुप्रसन्ना मनस्विनी ॥ ३६॥
मातोवाच ।
शुभं विचारितं तात त्वया मत्प्रीतिवर्द्धनम् ।
विलम्बं मा कथास्त्वं हि भज साम्बं सदाशिवम् ॥ ३७॥
सर्वस्मादधिकोऽस्त्येव शिवः परमकारणम् ।
तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किङ्कराः ॥ ३८॥
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ।
तं विनान्यं न जानीमः शङ्करं लोकशङ्करम् ॥ ३९॥
अन्यान् देवान्न् परित्यज्य कर्मणा मनसा गिरा ।
तमेव साम्बं सगणं भज भावपुरस्सरम् ॥ ४०॥
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ।
साक्षान्नमः शिवायेति मन्त्रोऽयं वाचकः स्मृतः ॥ ४१॥
सप्तकोटिमहामन्त्राः सर्वे सप्रणवाः परे ।
तस्मिन्नेव विलीयन्ते पुनस्तस्माद्विनिर्गताः ॥ ४२॥
सप्रसादाश्च ते मन्त्राः स्वाधिकाराद्यपेक्षया ।
सर्वाधिकारस्त्वेकोऽयं मन्त्र एवेश्वराज्ञया ॥ ४३॥
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ।
क्षमते रक्षितुं तद्वन्मन्त्रोऽयमपि सर्वदा ॥ ४४॥
प्रबलश्च तथा ह्येष मन्त्रो मन्त्रान्तरादपि ।
सर्वरक्षाक्षमोऽप्येष नापरः कश्चिदिष्यते ॥ ४५॥
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ।
तस्मिन् जिह्वान्तरगते न किञ्चिदिह दुर्लभम् ॥ ४६॥
अघोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ।
तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ ४७॥
भस्मेदं तु मया लब्धं पितुरेव तवोत्तमम् ।
विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ ४८॥
मन्त्रं च ते मया दत्तं गृहाण मदनुज्ञया ।
अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ ४९॥
वायुरुवाच ।
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ।
विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ ५०॥
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ।
तमाह च तदा माता शुभं कुर्वन्तु ते सुराः ॥ ५१॥
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ।
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ ५२॥
अष्टेष्टकाभिः प्रासादं कृत्वा लिङ्गं च मृण्मयम् ।
तत्रावाह्य महादेवं साम्बं सगणमव्ययम् ॥ ५३॥
भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ।
समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ ५४॥
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ।
उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ ५५॥
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ।
सम्पीड्य राक्षसैर्भावैस्तपसो विघ्नमाचरन् ॥ ५६॥
स च तैः पीड्यमानोऽपि तपः कुर्वन्कथञ्चन ।
सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ५७॥
तन्नादश्रवणादेव तपसो विघ्नकारिणः ।
ते तं बालं समुत्सृज्य मुनयः समुपाचरन् ॥ ५८॥
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ।
चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ५९॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.१.३४॥
७.१.३४
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.१.३५. पञ्चत्रिंशोऽध्यायः । उपमन्युचरितवर्णनम् ।
वायुरुवाच ।
अथ सर्वे प्रदीप्ताङ्गा वैकुण्ठं प्रययुर्द्रुतम् ।
प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ १॥
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ।
किमिदं त्विति सञ्चिन्त्य ज्ञात्वा तत्कारणं च सः ॥ २॥
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ।
दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृताञ्जलिः ॥ ३॥
विष्णुरुवाच ।
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ।
क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ४॥
वायुरुवाच ।
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ।
शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ५॥
तच्छ्रुत्वा शम्भुवचनं स विष्णुर्देववल्लभः ।
जगामाश्वास्य तान्सर्वान् स्वलोकममरादिकान् ॥ ६॥
एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः ।
शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ७॥
अथ जगाम मुनेस्तु तपोवनं
गजवरेण सितेन सदाशिवः ।
सह सुरासुरसिद्धमहोरगै-
रमरराजतनुं स्वयमास्थितः ॥ ८॥
स वारणश्चारु तदा विभुं तं
निवीज्य वालव्यजनेन दिव्यम् ।
दधार शच्या सहितं सुरेन्द्रं
करेण वामेन सितातपत्रम् ॥ ९॥
रराज भगवान्सोमः शक्ररूपी सदाशिवः ।
तेनातपत्रेण यथा चन्द्रबिम्बेन मन्दरः ॥ १०॥
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ।
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ११॥
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ।
प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ १२॥
उपमन्युरुवाच ।
पावितश्चाश्रमः सोऽयं मम देवेश्वर स्वयम् ।
प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ १३॥
वायुरुवाच ।
एवमुक्त्वा स्थितं प्रेक्ष्य कृताञ्जलिपुटं द्विजम् ।
प्राह गम्भीरया वाचा शक्ररूपधरो हरः ॥ १४॥
शक्र उवाच ।
तुष्टोऽस्मि ते वरं ब्रूहि तपसाऽनेन सुव्रत ।
ददामि चेप्सितान्सर्वान् धौम्याग्रज महामुने ॥ १५॥
वायुरुवाच ।
एवमुक्तस्तदा तेन शक्रेण मुनिपुङ्गवः ।
वरयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ १६॥
तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ।
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ १७॥
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ १८॥
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ।
देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ १९॥
वायुरुवाच ।
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ।
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ २०॥
उपमन्युरुवाच ।
त्वयैवं कथितं सर्वं भवनिन्दारतेन वै ।
प्रसङ्गादेव देवस्य निर्गुणत्वं महात्मनः ॥ २१॥
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।
ब्रह्मविष्णुमहेशानां जनकं प्रकृतेः परम् ॥ २२॥
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।
नित्यमेकमनेकं च वरं तस्माद् वृणोम्यहम् ॥ २३॥
हेतुवादविनिर्मुक्तं साङ्ख्ययोगार्थदं परम् ।
उपासते यं तत्त्वज्ञा वरं तस्माद् वृणोम्यहम् ॥ २४॥
नास्ति शम्भोः परं तत्त्वं सर्वकारणकारणात् ।
ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ २५॥
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ।
भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ २६॥
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत् ।
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ २७॥
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ।
निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ २८॥
वायुरुवाच ।
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् ।
क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ २९॥
भस्मादाय तदा घोरमघोरास्त्राभिमन्त्रितम् ।
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ३०॥
स्मृत्वा शम्भुपदद्वन्द्वं स्वदेहं दुग्धुमुद्यतः ।
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ३१॥
एवं व्यवसिते विप्रे भगवान् भगनेत्रहा ।
वारयामास सौम्येन धारणां तस्य योगिनः ॥ ३२॥
तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियोगतः ।
जगृहे मध्यतः क्षिप्तं नन्दी शङ्करवल्लभः ॥ ३३॥
स्वं रूपमेव भगवानास्थाय परमेश्वरः ।
दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ ३४॥
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ।
दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ ३५॥
फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा ।
अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ३६॥
एवं स ददृशे देवो देव्या सार्द्धं वृषोपरि ।
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ३७॥
दिवि दुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ३८॥
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ।
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ३९॥
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ।
एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ४०॥
शिव उवाच ।
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुङ्क्ष्व सर्वदा ।
सुखी भव सदा दुःखान्निर्मुक्तो भक्तिमान्मम ॥ ४१॥
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ।
मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ ४२॥
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ।
आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ ४३॥
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ।
एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ ४४॥
पिता तव महादेवो माता वै जगदम्बिका ।
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ ४५॥
वरान्वरय सुप्रीत्या मनोऽभिलषितान्परान् ।
प्रसन्नोऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ४६॥
वायुरुवाच ।
एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम् ।
मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत् ॥ ४७॥
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ।
विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ४८॥
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ।
उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ४९॥
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ।
समृद्धिं परमां तस्मै ददौ सन्तुष्टमानसः ॥ ५०॥
अथ शम्भुः प्रसन्नात्मा दृष्ट्वा तस्य तपो महः ।
पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ ५१॥
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ।
ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ ५२॥
सोऽपि लब्ध्वा वरान्दिव्यान् कुमारत्वं च सर्वदा ।
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत् ॥ ५३॥
ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ।
ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ ५४॥
उपमन्युरुवाच ।
प्रसीद देवदेवेश प्रसीद परमेश्वर ।
स्वभक्तिं देहि परमां दिव्यामव्यभिचारिणीम् ॥ ५५॥
श्रद्धां देहि महादेव स्वसम्बन्धिषु मे सदा ।
स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ ५६॥
मुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा ।
स तुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ ५७॥
देवदेव महादेव शरणागतवत्सल ।
प्रसीद करुणासिन्धो साम्ब शङ्कर सर्वदा ॥ ५८॥
वायुरुवाच ।
एवमुक्तो महादेवः सर्वेषां च वरप्रदः ।
प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ ५९॥
शिव उवाच ।
वत्सोपमन्यो तुष्टोऽस्मि सर्वं दत्तं मया हि ते ।
दृढभक्तोऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ ६०॥
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः ।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ६१॥
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ।
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ६२॥
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ।
उपकण्ठं मम त्वं वै सानन्दं विहरिष्यसि ॥ ६३॥
एवमुक्त्वा स भगवान् सूर्यकोटिसमप्रभः ।
ईशानः स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ ६४॥
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ।
जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ ६५॥
इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.१.३५॥
समाप्तोऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥
Proofreading by Revathy Rajaraman/Uma Mahesh
०७।२
श्रीः ॥
श्रीगणेशाय नमः ॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अथ सप्तम्यां वायवीयसंहितायामुत्तरखण्डः प्रारभ्यते ।
७.२.१. प्रथमोऽध्यायः । कृष्णपुत्रप्राप्तिवर्णनम् ।
ॐ नमः समस्त
संसारचक्रभ्रमणहेतवे ।
गौरीकुचतटद्वन्द्वकुङ्कुमाङ्कितवक्षसे ॥ १॥
सूत उवाच ।
उक्त्वा भगवतो लब्धं प्रसादादुपमन्युना ।
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ २॥
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ।
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ३॥
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ।
भगवन्तमुपायान्तं समीक्ष्य समुपाविशन् ॥ ४॥
अथासौ नियमस्यान्ते भगवानम्बरोद्भवः ।
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ५॥
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ।
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ६॥
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ।
विभूतिः सकलं यस्य चराचरमिदं जगत् ॥ ७॥
इत्याकर्ण्य शुभां वाणीं ऋषयः क्षीणकल्मषाः ।
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ८॥
ऋषय ऊचुः ।
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ।
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ९॥
दृष्टोऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ।
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ १०॥
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ।
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ११॥
वायुरुवाच ।
स्वेच्छया ह्यवतीर्णोऽपि वासुदेवः सनातनः ।
निन्दयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ १२॥
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ।
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ १३॥
भस्मावदातं सर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् ।
रुद्राक्षमालाभरणं जटामण्डलमण्डितम् ॥ १४॥
तच्छिष्यभूतैर्मुनिभिः शास्त्रैर्वेदमिवावृतम् ।
शिवध्यानरतं शान्तमुपमन्युं महाद्युतिम् ॥ १५॥
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ।
बहुमानेन कृष्णोऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ।
स्तुतिं चकार सुप्रीत्या नतस्कन्धः कृताञ्जलिः ॥ १६॥
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ।
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ १७॥
ततः क्षीणमलं कृष्णमुपमन्युर्यथाविधि ।
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ १८॥
अथ पाशुपतं साक्षाद् व्रतं द्वादशमासिकम् ।
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ १९॥
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ।
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ २०॥
ततो गुरुनियोगाद् वै कृष्णः परमशक्तिमान् ।
तपश्चकार पुत्रार्थं साम्बमुद्दिश्य शङ्करम् ॥ २१॥
तपसो तेन वर्षान्ते दृष्टोऽसौ परमेश्वरः ।
श्रिया परमया युक्तः साम्बश्च सगणः शिवः ॥ २२॥
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ।
स्तुतिं चकार नत्वाऽसौ कृष्णः सम्यक् कृताञ्जलिः ॥ २३॥
साम्बेन सगणेनापि लब्धवान् युत्रमात्मनः ।
तपसा तुष्टचित्तेन दत्तं विष्णोः शिवेन वै ॥ २४॥
यस्मात्साम्बो महादेवः प्रददौ पुत्रमात्मनः ।
तस्माज्जाम्बवतीसूनुं साम्बं चक्रे स नामतः ॥ २५॥
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ।
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शङ्करात् ॥ २६॥
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ।
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ २७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमोऽध्यायः ॥ ७.२.१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
७.२.२. द्वितीयोऽध्यायः । शिवमाहात्म्यवर्णनम् ।
ऋषय ऊचुः ।
किं तत्पाशुपतं ज्ञानं कथं पशुपतिः शिवः ।
कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ १॥
एतत्सर्वं समाचक्ष्व वायो शङ्करविग्रह ।
त्वत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ २॥
सूत उवाच ।
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभञ्जनः ।
संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ३॥
वायुरुवाच ।
पुरा साक्षात् महेशेन श्रीकण्ठाख्येन मन्दरे ।
देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ४॥
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ।
पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ५॥
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ।
तथा समासतो वक्ष्ये तच्छृणुध्वमतन्द्रिताः ॥ ६॥
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ।
प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७॥
श्रीकृष्ण उवाच ।
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ।
दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ८॥
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ।
कैः पाशैस्ते निबध्यन्ते विमुच्यन्ते च ते कथम् ॥ ९॥
इति सञ्चोदितः श्रीमानुपमन्युर्महात्मना ।
प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ १०॥
उपमन्युरुवाच ।
ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥ ११॥
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ।
मलमायादिभिः पाशैः स बध्नाति पशून् पतिः ॥ १२॥
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ।
चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ १३॥
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ।
ब्रह्मादिस्तम्बपर्यन्तान् पशून् बद्ध्वा महेश्वरः ॥ १४॥
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ।
तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ १५॥
बुद्धिं प्रसूते सा बुद्धिरहङ्कारमहङ्कृतिः ।
इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ १६॥
शासनाद्देवदेवस्य शिवस्य शिवदायिनः ।
तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ १७॥
महाभूतान्यशेषाणि भावयन्त्यनुपूर्वशः ।
ब्रह्मादीनां तृणान्तानां देहिनां देहसङ्गतिम् ॥ १८॥
महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया ।
अध्यवस्यति वै बुद्धिरहङ्कारोभिमन्यते ॥ १९॥
चित्तं चेतयते चापि मनः सङ्कल्पयत्यपि ।
श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ २०॥
स्वानेव नान्यान् देवस्य दिव्येनाज्ञाबलेन वै ।
वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ २१॥
यथास्वं कर्म कुर्वन्ति नान्यत्किञ्चिद् शिवाज्ञया ।
शब्दादयोऽपि गृह्यन्ते क्रियन्ते वचनादयः ॥ २२॥
अविलङ्घ्या हि सर्वेषामाज्ञा शम्भोर्गरीयसी ।
अवकाशमशेषाणां भूतानां सम्प्रयच्छति ॥ २३॥
आकाशः परमेशस्य शासनादेव सर्वगः ।
प्राणाद्यैश्च तथा नामभेदैरन्तर्बहिर्जगत् ॥ २४॥
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ।
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ २५॥
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ।
सञ्जीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ २६॥
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ।
देवान् यात्यसुरान् हन्ति त्रिलोकमभिरक्षति ॥ २७॥
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलङ्घ्यया ।
आधिपत्यमपां नित्यं कुरुते वरुणः सदा ॥ २८॥
पाशैर्बध्नाति च यथा दण्ड्यांस्तस्यैव शासनात् ।
ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ २९॥
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ।
करोति सम्पदः शश्वत् ज्ञानं चापि सुमेधसाम् ॥ ३०॥
निग्रहं चाप्यसाधूनामीशानः शिवशासनात् ।
धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ३१॥
यामाहुस्तामसीं रौद्रीं मूर्तिमन्तकरीं हरेः ।
सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ३२॥
अन्याभिर्मूर्तिभिः स्वाभिः पाति चान्ते निहन्ति च ।
विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ३३॥
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ।
हरत्यन्ते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ३४॥
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ।
कालः करोति सकलं कालस्संहरति प्रजाः ॥ ३५॥
कालः पालयते विश्वं कालकालस्य शासनात् ।
त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ३६॥
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ।
पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ३७॥
देवैश्च पीयते चन्द्रश्चन्द्रभूषणशासनात् ।
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ३८॥
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ।
पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ३९॥
नद्यस्समुद्रा गिरयः काननानि सरांसि च ।
वेदाः साङ्गाश्च शास्त्राणि मन्त्रस्तोममखादयः ॥ ४०॥
कालाग्न्यादिशिवान्तानि भुवनानि सहाधिपैः ।
ब्रह्माण्डान्यप्यसङ्ख्यानि तेषामावरणानि च ॥ ४१॥
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ।
दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ४२॥
यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।
तत्सर्वं शङ्करस्याज्ञाबलेन समधिष्ठितम् ॥ ४३॥
आज्ञाबलात्तस्य धरा स्थितेह
धराधरा वारिधराः समुद्राः ।
ज्योतिर्गणाः शक्रमुखाश्च देवाः
स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ४४॥
उपमन्युरुवाच ।
अत्याश्चर्यमिदं कृष्ण शम्भोरमितकर्मणः ।
आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ४५॥
पुरा किल सुराः सेन्द्रा विवदन्तः परस्परम् ।
असुरान्समरे जित्वा जेताहमहमित्युत ॥ ४६॥
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ।
स्वलक्षणैर्विहीनाङ्गः स्वयं यक्ष इवाभवत् ॥ ४७॥
स तानाह सुरानेकं तृणमादाय भूतले ।
य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ४८॥
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ।
किञ्चित् क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ४९॥
न तत्तृणमुपदातुं मनसापि च शक्यते ।
यथा तथापि तच्छेत्तुं वज्रं वज्रधरोऽसृजत् ॥ ५०॥
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ।
तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ५१॥
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ।
ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ५२॥
प्रजज्ज्वाल महावह्निः प्रचण्डः पवनो ववौ ।
प्रवृद्धोऽपाम्पतिर्यद्वत्प्रलये समुपस्थिते ॥ ५३॥
एवं देवैः समारब्धं तृणमुद्दिश्य यत्नतः ।
व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ५४॥
तदाह यक्षं देवेन्द्रः को भवानित्यमर्षितः ।
ततः स पश्यतामेव तेषामन्तरधादथ ॥ ५५॥
तदन्तरे हैमवती देवी दिव्यविभूषणा ।
आविरासीन्नभोरङ्गे शोभमाना शुचिस्मिता ॥ ५६॥
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ।
प्रणम्य यक्षं पप्रच्छुः कोऽसौ यक्षो विलक्षणः ॥ ५७॥
साऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ।
तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ५८॥
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ।
न तन्नियन्ता कश्चित् स्यात्तेन सर्वं नियम्यते ॥ ५९॥
इत्युक्त्वा सा महादेवी तत्रैवान्तरधत्त वै ।
देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ६०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमाहात्म्यवर्णनं नाम द्वितीयोऽध्यायः ॥ ७.२.२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३. तृतीयोऽध्यायः । ऋष्णायोपमन्योरुपदेशवर्णनम् ।
उपमन्युरुवाच ।
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ।
मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ १॥
स शिवः सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ।
अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ २॥
ब्रह्मा विष्णुस्तथा रुद्रो महेशानः सदाशिवः ।
मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ३॥
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ।
तनूभिस्ताभिराव्याप्तमिह किञ्चिन्न विद्यते ॥ ४॥
ईशानः पुरुषोऽघोरो वामः सद्यस्तथैव च ।
ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ५॥
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ।
भोक्तारं प्रकृतेः साक्षात् क्षेत्रज्ञमधितिष्ठति ॥ ६॥
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ।
गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७॥
धर्माद्यष्टाङ्गसंयुक्तं बुद्धितत्त्वं पिनाकिनः ।
अधितिष्ठत्यघोराख्या मूर्तिरत्यन्तपूजिता ॥ ८॥
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ।
अहङ्कृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ९॥
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ।
मानसः समधिष्ठात्रीं मतिमन्तः प्रचक्षते ॥ १०॥
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ।
ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११॥
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ।
पुरुषाख्यं विदुः सर्वे पुराणार्थविशारदाः ॥ १२॥
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ।
अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३॥
रमनायाश्च पायोश्च रसस्यापां तथैव च ।
ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४॥
घ्राणस्य चैवोपस्थस्य गन्धस्य च भुवस्तथा ।
सद्योज्ञाताह्वयां मूर्तिमीश्वरीं सम्प्रचक्षते ॥ १५॥
मूर्तयः पञ्च देवस्य वन्दनीयाः प्रयत्नतः ।
श्रेयोऽर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ १६॥
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ।
तस्मिन् व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ १७॥
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ।
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ १८॥
भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।
अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ १९॥
चराचरात्मकं विश्वं धत्ते विश्वम्भरात्मिका ।
शार्वी र्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ २०॥
सञ्जीवनं समस्तस्य जगतः सलिलात्मिकाज् ।
भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ २१॥
बहिरन्तर्गता विश्वं व्याप्य तेजोमयी शुभा ।
रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ २२॥
स्पन्दयत्यनिलात्मेदं बिभर्ति स्पन्दते स्वयम् ।
औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ २३॥
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ।
मूर्तिर्भीमस्य भीमाख्या भूतवृन्दस्य भेदिका ॥ २४॥
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ।
मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृन्तनी ॥ २५॥
दीपयन्ती जगत्सर्वं दिवाकरसमाह्वया ।
ईशानाख्या महेशस्य मूर्तिर्दिवि विसर्पति ॥ २६॥
आप्याययति यो विश्वममृतांशुर्निशाकरः ।
महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ २७॥
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ।
व्यापिकेतरमूर्तीनां विश्वं तस्मात् शिवात्मकम् ॥ २८॥
वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा ।
शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ २९॥
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ।
सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ३०॥
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।
तथा सर्वस्य सम्प्रीत्या प्रीतो भवति शङ्करः ॥ ३१॥
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ।
अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ३२॥
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ।
भजस्व सर्वभावेन रुद्रं परमकारणम् ॥ ३३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ ७.२.३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
७.२.४. चतुर्थोऽध्यायः । गौरीशङ्करविभूतियोगः ।
श्रीकृष्ण उवाच ।
भगवन् परमेशस्य शर्वस्यामिततेजसः ।
मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ १॥
अथैतत् ज्ञातुमिच्छामि याथात्म्यं परमेशयोः ।
स्त्रीपुम्भावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ २॥
उपमन्युरुवाच ।
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ।
वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ३॥
शक्ति साक्षान्महादेवी महादेवश्च शक्तिमान् ।
तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ४॥
वस्तु किञ्चिदचिद्रूपं किञ्चिद्वस्तु चिदात्मकम् ।
द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ५॥
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ।
तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ६॥
अपरं च परं चैव द्वयं चिदचिदात्मकम् ।
शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७॥
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ।
ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ८॥
यथा शिवस्तथा देवी यथा देवी तथा शिवः ।
नानयोरन्तरं विद्याच्चन्द्रचन्द्रिकयोरिव ॥ ९॥
चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना ।
न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः ॥ १०॥
प्रभया हि विना यद्वद्भानुरेष न विद्यते ।
प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ११॥
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।
न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ १२॥
शक्तौ यया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ।
आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ १३॥
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ।
समानधर्मिणीमेव शिवस्य परमात्मनः ॥ १४॥
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ।
विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ १५॥
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ।
शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ १६॥
एकधा च द्विधा चैव तथा शतसहस्रधा ।
शक्तयः खलु भिद्यन्ते बहुधा व्यवहारतः ॥ १७॥
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ।
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ १८॥
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ।
तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ १९॥
नादाद्विनिःसृतो बिन्दुर्बिन्दोदेवः सदाशिवः ।
तस्मान् महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ २०॥
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ।
या सा वर्णस्वरूपेण मातृकेऽपि विजृम्भते ॥ २१॥
अथानन्तसमावेशान्माया कालमवासृजत् ।
नियतिं च कलां विद्यां कलातो रागपूरुषौ ॥ २२॥
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ।
त्रिगुणाच्च ततोऽव्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ २३॥
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ।
गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ २४॥
अभवन् महदादीनि तत्त्वानि च यथाक्रमम् ।
तेभ्यः स्युरण्डपिण्डानि त्वसङ्ख्यानि शिवाज्ञया ।
अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ २५॥
शरीरान्तरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ।
नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ २६॥
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ।
ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैन्द्रीति कथ्यते ॥ २७॥
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ।
शक्यात्मनैव तद्व्याप्तं यथा देहेऽन्तरात्मना ॥ २८॥
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजङ्गमम् ।
कला या परमा शक्तिः कथिता परमात्मनः ॥ २९॥
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ।
स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ३०॥
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिः स्वात्मशक्तिभिः ।
शक्तिमानीश्वरः शश्वत् विश्वं व्याप्याधितिष्ठति ॥ ३१॥
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ।
इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ३२॥
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ।
प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ३३॥
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ।
कल्पयत्यखिलं कार्यं क्षणात्सङ्कल्परूपिणी ॥ ३४॥
यथाशक्ति त्रयोत्थानं शक्तिप्रसवधर्मिणी ।
शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ३५॥
एवं शक्तिसमायोगात् शक्तिमानुच्यते शिवः ।
शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ३६॥
यथा न जायते पुत्रः पितरं मातरं विना ।
तथा भवं भवानीं च विना नैतच्चराचरम् ॥ ३७॥
स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥ ३८॥
परमात्मा शिवः प्रोक्तः शिवा सा च प्रकीर्तिता
शिवः सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ।
शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ३९॥
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ।
रुद्रो महेश्वरः साक्षाद् रुद्राणी रुद्रवल्लभा ॥ ४०॥
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ।
ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ४१॥
भास्करो भगवान् शम्भुः प्रभा भगवती शिवा ।
महेन्द्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ४२॥
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ।
यमस्त्रियम्बको देवस्तत्प्रिया गिरिकन्यका ॥ ४३॥
निरृतिर्भगवानीशो नैरृती नगनन्दिनी ।
वरुणो भगवान् रुद्रो वारुणी भूधरात्मजा ॥ ४४॥
बालेन्दुशेखरो वायुः शिवा शिवमनोहरा ।
यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ४५॥
चन्द्रार्धशेखरश्चन्द्रो रोहिणी रुद्रवल्लभा ।
ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ४६॥
अनन्तवलयोऽनन्तो ह्यनन्तानन्तवल्लभा ।
कालाग्निरुद्रः कालारिः काली कालान्तकप्रिया ॥ ४७॥
पुरुषाख्यो मनुः शम्भुः शतरूपा शिवप्रिया ।
दक्षः साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ४८॥
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ।
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ४९॥
मरीचिर्भगवान् रुद्रः सम्भूतिः शर्ववल्लभा ।
गङ्गाधरोऽङ्गिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ५०॥
पुलस्त्यः शशभृन्मौलिः प्रीतिः कान्ता पिनाकिनः ।
पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ५१॥
क्रतुध्वंसी क्रतुः प्रोक्तः सन्नतिर्दयिता विभोः ।
त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ५२॥
कश्यपः कालहा देवो देवमाता महेश्वरी ।
वसिष्ठो मन्मथारातिर्देवी साक्षादरुन्धती ॥ ५३॥
शङ्करः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ।
सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ५४॥
विषयी भगवानीशो विषयः परमेश्वरी ।
श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ५५॥
प्रष्टव्यं वस्तुजातं तु धत्ते शङ्करवल्लभा ।
प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ५६॥
द्रष्टव्यं वस्तुरूपं तु बिभर्ति भववल्लभा ।
द्रष्टा विश्वेश्वरो देवः शशिखण्डशिखामणिः ॥ ५७॥
रसजातं महादेवी देवो रसयिता शिवः ।
प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ५८॥
मन्तव्यवस्तुतां धत्ते सदा देवी महेश्वरी ।
मन्ता स एव विश्वात्मा महादेवो महेश्वरः ॥ ५९॥
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ।
देवः स एव भगवान् बोद्धा मुग्धेन्दुशेखरः ॥ ६०॥
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान् प्रभुः ।
प्राणस्थितिस्तु सर्वेषामम्बिका चाम्बुरूपिणी ॥ ६१॥
बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा ।
क्षेत्रज्ञत्वं तदा धत्ते भगवानन्तकान्तकः ॥ ६२॥
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ।
आकाशः शङ्करो देवः पृथिवी शङ्करप्रिया ॥ ६३॥
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ।
वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ६४॥
पुँल्लिङ्गमखिलं धत्ते भगवान् पुरशासनः ।
स्त्रिलिङ्गं चाखिलं धत्ते देवी देवमनोरमा ॥ ६५॥
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ।
अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ६६॥
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ।
सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ६७॥
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मङ्गलम् ।
तत्तदाह महाभागास्तयोस्तेजोविजृम्भितम् ॥ ६८॥
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ।
तथा तेजस्तयोरेतद् व्याप्य दीपयते जगत् ॥ ६९॥
तृणादिशिवमूर्त्यन्तं विश्वख्यातिशयक्रमः ।
सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७०॥
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ।
पूजनीयौ नमस्कार्यौ चिन्तनीयौ च सर्वदा ॥ ७१॥
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ।
कथितं हि मया तेऽद्य न तु तावदियत्तया ॥ ७२॥
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ।
महतामपि सर्वेषां मनसोऽपि बहिर्गतम् ॥ ७३॥
अन्तर्गतमनन्यानामीश्वरार्पितचेतसाम् ।
अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७४॥
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ।
अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७५॥
यतो वाचो निवर्तन्ते मनसा चेन्द्रियैः सह ।
अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७६॥
सैवेह परमं धाम सैवेह परमा गतिः ।
सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७७॥
तां प्राप्तुं प्रयतन्तेऽत्र जितश्वासा जितेन्द्रियाः ।
गर्भकारागृहद्वारं निश्छिद्रं घटितं यथा ॥ ७८॥
संसाराशीविषालीढमृतसञ्जीवनौषधम् ।
विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७९॥
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ।
सोऽपरां भूतिमुल्लङ्घ्य परां भूतिं समश्नुते ॥ ८०॥
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ।
रहस्यमपि योग्योऽसि भर्गभक्तो भवानिति ॥ ८१॥
नाशिष्येभ्योऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ।
व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ८२॥
तस्मात्त्वमतिकल्याण परेभ्यः कथयेन्न हि ।
त्वादृशेभ्योऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ८३॥
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ।
संसारसागरान् मुक्तः शिवसायुज्यमाप्नुयात् ॥ ८४॥
कीर्तनादस्य नश्यन्ति महान्त्यः पापकोटयः ।
त्रिश्चतुर्धा समभ्यस्तैर्विनश्यन्ति ततोऽधिकाः ॥ ८५॥
नश्यन्त्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ।
विद्या च वर्धते शैवी मतिः सत्ये प्रवर्तते ॥ ८६॥
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ।
यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ८७॥
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ।
प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ।
पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्लभम् ॥ ८८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो नाम चतुर्थोऽध्यायः ॥ ७.२.४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
७.२.५. पञ्चमोऽध्यायः । पशुपतित्वज्ञानयोगः ।
उपमन्युरुवाच ।
विग्रहं देवदेवस्य विश्वमेतत् चराचरम् ।
तदेवं न विजानन्ति पशवः पाशगौरवात् ॥ १॥
तमेकमेव बहुधा वदन्ति यदुनन्दन ।
अजानन्तः परं भावमविकल्पं महर्षयः ॥ २॥
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ।
केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ३॥
भूतेन्द्रियान्तःकरणप्रधानविषयात्मकम् ।
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ४॥
बृहत्त्वाद् बृंहणत्वाद्वा ब्रह्म चेत्यभिधीयते ।
उभे ते ब्रह्मणो रूपे ब्रह्मणोऽधिपतेः प्रभोः ।
विद्याविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ५॥
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ।
विद्याविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ६॥
रूपमेव न सन्देहो विश्वं तस्य वशे यतः ।
भ्रान्तिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७॥
अयथाबुद्धिरर्थेषु बहुधा भ्रान्तिरुच्यते ।
यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ८॥
विकल्परहितं तत्त्वं परमित्यभिधीयते ।
वैपरीत्यादसत् शब्दः कथ्यते वेदवादिभिः ॥ ९॥
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ।
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ १०॥
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ११॥
तयोः परः शिवः शान्तः क्षराक्षरापरः स्मृतः ।
समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ १२॥
वदन्ति मुनयः केचित् शिवं परमकारणम् ।
समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ १३॥
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ।
तयोः कारणभावेन शिवं परमकारणम् ॥ १४॥
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ।
जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ १५॥
या पिण्डेऽप्यनुवर्तेत सा जातिरिति कथ्यते ।
व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातं समाश्रयम् ॥ १६॥
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ।
यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ १७॥
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ।
प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ १८॥
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ।
कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ १९॥
एषामीशोऽधिपो धाता प्रवर्तकनिवर्तकः ।
आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ २०॥
तस्मात् प्रधानपुरुषव्यक्तकालस्वरूपवान् ।
हेतुर्नेताधिपस्तेषां धाता चोक्तो महेश्वरः ॥ २१॥
विराड् हिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ।
हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ २२॥
अन्तर्यामी परश्चेति कथ्यते कविभिः शिवः ।
प्राज्ञस्तैजसविश्वात्मेत्यपरे सम्प्रचक्षते ॥ २३॥
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ।
माता मानं च मेयं च मतिं चाहुरथापरे ॥ २४॥
कर्ता क्रिया च कार्यं च करणं कारणं परे ।
जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे सम्प्रचक्षते ॥ २५॥
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ।
तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ २६॥
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ।
स्वतन्त्रमपरे प्राहुरस्वतन्त्रं परे विदुः ॥ २७॥
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ।
रागवन्तं परे प्राहुर्वीतरागं तथा परे ॥ २८॥
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ।
निरिन्द्रियं परे प्राहुः सेन्द्रियं च तथा परे ॥ २९॥
ध्रुवमित्यपरे प्राहुस्तमध्रुवमितीतरे ।
अरूपं केचिदाहुर्वै रूपवन्तं परे विदुः ॥ ३०॥
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ।
वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ।
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ ३१॥
केचित् चिन्तामयं प्राहुश्चिन्तया रहितं परे ।
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ ३२॥
केचित् ज्ञेयमिति प्राहुरज्ञेयमिति केचन ।
परमेके तमेवाहुरपरं च तथा परे ॥ ३३॥
एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ।
नाध्यवस्यन्ति मुनयो नानाप्रत्ययकारणात् ॥ ३४॥
येः पुनः सर्वभावेन प्रपन्नाः परमेश्वरम् ।
ते हि जानन्त्ययत्नेन शिवं परमकारणम् ॥ ३५॥
यावत्पशुर्नैव पश्यत्यनीशं
कविं पुराणं भुवनस्येशितारम् ।
तावद्दुःखे वर्तते बद्धपाशः
संसारेऽस्मिञ्चक्रनेमिक्रमेण ॥ ३६॥
यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान्पुण्यपापे विधूय
निरञ्जनः परममुपैति साम्यम् ॥ ३७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमोऽध्यायः ॥ ७.२.५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.६. षष्ठोऽध्यायः । शिवतत्त्ववर्णनम् ।
उपमन्युरुवाच ।
न शिवस्याणवो बन्धः कार्यो मायेय एव वा ।
प्राकृतो वाथ बोद्धा वा ह्यहङ्कारात्मकस्तथा ॥ १॥
नैवास्य मानसो बन्धो न चैत्तो नेन्द्रियात्मकः ।
न च तन्मात्रबन्धोऽपि भूतबन्धो न कश्चन ॥ २॥
न च कालः कला चैव नाविद्या नियतिस्तथा ।
न रागो न च विद्वेषः शम्भोरमिततेजसः ॥ ३॥
न चास्त्यभिनिवेशोऽस्य कुशलाकुशलान्यपि ।
कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ४॥
आशयैर्नापि सम्बन्धः संस्कारैः कर्मणामपि ।
भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ५॥
न तस्य कारणं कर्ता नादिरन्तस्तथान्तरम् ।
न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ६॥
नास्य बन्धुरबन्धुर्वा नियन्ता प्रेरकोऽपि वा ।
न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७॥
न जन्ममरणे तस्य न काङ्क्षितमकाङ्क्षितम् ।
न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ८॥
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ।
कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ९॥
स शिवः सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ।
अप्रच्युतः स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ १०॥
शिवेनाधिष्ठितं यस्मात् जगत्स्थावरजङ्गमम् ।
सर्वरूपः स्मृतः शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ११॥
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ।
हिरण्यबाहुर्भगवान् हिरण्यपतिरीश्वरः ॥ १२॥
अम्बिकापतिरीशानः पिनाकी वृषवाहनः ।
एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिङ्गलः ॥ १३॥
बालाग्रमात्रो हृन्मध्ये विचिन्त्यो दहरान्तरे ।
हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ १४॥
योऽवसर्पत्यसौ देवो नीलग्रीवो हिरण्मयः ।
सौम्योऽघोरस्तथा मिश्रश्चाक्षारश्चामृतोऽव्ययः ॥ १५॥
स पुंविशेषः परमो भगवानन्तकान्तकः ।
चेतनाचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ १६॥
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ।
लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ १७॥
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ।
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ १८॥
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ।
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ १९॥
शुद्धा स्वाभाविकी तस्य शक्तिः सर्वातिशायिनी ।
ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मिलम् ॥ २०॥
ऐश्वर्यमप्रतिद्वन्द्वं सुखमात्यन्तिकं बलम् ।
तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ २१॥
परिपूर्णस्य सर्गाद्यैर्नात्मनोऽस्ति प्रयोजनम् ।
परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ २२॥
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।
शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥ २३॥
शम्भोः प्रणववाच्यस्य भवनात्तज्जपादपि ।
या सिद्धिः सा परा प्राप्या भवत्येव न संशयः ॥ २४॥
तस्मादेकाक्षरं देवमाहुरागमपारगाः ।
वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ २५॥
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्द्धनि ।
अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ २६॥
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ।
मकारः सामनादोऽस्य श्रुतिराथर्वणी स्मृता ॥ २७॥
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ।
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ २८॥
मकारः पुरुषो बीजं तमः संहारको हरः ।
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ २९॥
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ।
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ३०॥
यस्मात्परं नापरमस्ति किञ्चिद्-
यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक-
स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ३१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठोऽध्यायः ॥ ७.२.६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.७. सप्तमोऽध्यायः । शिवतत्त्वकथनम् ।
उपमन्युरुवच ।
शक्तिः स्वाभविकी तस्य विद्या विश्वविलक्षणा ।
एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ १॥
अनन्ताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ।
मायाद्याश्चाभवन्वह्नोर्विस्फुलिङ्गा यथा तथा ॥ २॥
सदाशिवेश्वराद्या हि विद्याविद्येश्वरादयः ।
अभवन् पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ३॥
महदादिविशेषान्तास्त्वजाद्याश्चापि मूर्तयः ।
यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ४॥
सा शक्तिः सर्वगा सूक्ष्मा प्रबोधानन्दरूपिणी ।
शक्तिमानुच्यते देवः शिवः शीतांशुभूषणः ॥ ५॥
वेद्यः शिवः शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ।
धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ६॥
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ।
शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७॥
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ।
असच्च सच्च यत्किञ्चित्तया सर्वमिदं ततम् ॥ ८॥
सा देवी मायया सर्वं ब्रह्माण्डं सचराचरम् ।
मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ९॥
अनया सह सर्वेशः सप्तविंशप्रकारया ।
विश्वं व्याप्य स्थितस्तस्मात् मुक्तिरत्र प्रवर्तते ॥ १०॥
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ।
संशयाविष्टमनसो विस्मृशन्ति यथातथम् ॥ ११॥
किं कारणं कुतो जाता जीवामः केन वा वयम् ।
कुत्रास्माकं सम्प्रतिष्ठा केन वाधिष्ठिता वयम् ॥ १२॥
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ।
अविलङ्घ्या च विश्वस्य व्यवस्था केन वा कृता ॥ १३॥
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ।
भूतानि योनिः पुरुषो योगी चैषां परोऽथवा ॥ १४॥
अचेतनत्वात्कालादेश्चेतनत्वेऽपि चात्मनः ।
सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ १५॥
तद्ध्यानयोगानुगताः प्रपश्यन् शक्तिमैश्वरीम् ।
पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ १६॥
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ।
शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुषा ॥ १७॥
यः कारणान्यशेषाणि कालात्मसहितानि च ।
अप्रमेयोऽनया शक्त्या सकलं योऽधितिष्ठति ॥ १८॥
ततः प्रसादयोगेन योगेन परमेण च ।
दृष्टेन भक्तियोगेन दिव्यां गतिमवाप्नुयुः ॥ १९॥
तस्मात्सह तथा शक्त्या हृदि पश्यन्ति ये शिवम् ।
तेषां शाश्वतिकी शान्तिर्नैतरेषामिति श्रुतिः ॥ २०॥
न हि शक्तिमतः शक्त्या विप्रयोगोऽस्ति जातुचित् ।
तस्मात् शक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ २१॥
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ।
प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ २२॥
देवो वा दानवो वापि पशुर्वा विहगोऽपि वा ।
कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ २३॥
गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा ।
वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ २४॥
पतितो वापि धर्मात्मा पण्डितो मूढ एव वा ।
प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ २५॥
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ।
प्रसीदति न सन्देहो विगृह्य विविधान् मलान् ॥ २६॥
प्रसदादेव सा भक्तिः प्रसादो भक्तिसम्भवः ।
अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ २७॥
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ।
नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ २८॥
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ।
विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ २९॥
प्रसन्ने सति देवेशे पशौ तस्मिन् प्रवर्तते ।
अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरःसरा ॥ ३०॥
तपसा विविधैः शैवैर्धर्मैः संयुज्यते नरः ।
तत्त्रयोगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ३१॥
परया च तया भक्त्या प्रसादो लभ्यते परः ।
प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ३२॥
अल्पभावोऽपि यो मर्त्यः सोऽपि जन्मत्रयात्परम् ।
न योनियन्त्रपीडायै भवेन्नैवात्र संशयः ॥ ३३॥
साङ्गानङ्गा च या सेवा सा भक्तिरिति कथ्यते ।
सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ३४॥
शिवरूपादिचिन्ता या सा सेवा मानसी स्मृता ।
जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ३५॥
सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ।
स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ३६॥
तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ।
कर्म लिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ३७॥
जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ।
शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ३८॥
श्रीकण्ठेन शिवेनोक्तं शिवायै च शिवागमः ।
शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ३९॥
तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ।
त्यजेच्च विषयासङ्गं श्रेयोऽर्थी मतिमान्नरः ॥ ४०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमोऽध्यायः ॥ ७.२.७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.८. अष्टमोऽध्यायः । शिवतत्त्वज्ञाने व्यासावतारवर्णनम् ।
कृष्ण उवाच ।
भगवन् श्रोतुमिच्छामि शिवेन परिभाषितम् ।
वेदसारं शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ १॥
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ।
अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिन्दितम् ॥ २॥
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ।
वेदात् षडङ्गादुद्धृत्य साङ्ख्याद्योगाच्च कृत्स्नशः ॥ ३॥
शतकोटिप्रमाणेन विस्तीर्णं ग्रन्थसङ्ख्यया ।
कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ४॥
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ।
तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ५॥
उपमन्युरुवाच ।
शैवं सङ्क्षिप्य वेदोक्तं शिवेन परिभाषितम् ।
स्तुतिनिन्दादिरहितं सद्यः प्रत्ययकारकम् ॥ ६॥
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ।
कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७॥
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ।
सत्कार्यकारणोपेतः स्वयमाविरभूत्प्रभुः ॥ ८॥
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ।
देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ९॥
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ।
तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ १०॥
दृष्टो रुद्रेण देवोऽसावसृजद्विश्वमीश्वरः ।
वर्णाश्रमव्यवस्थां च चकार स पृथक् पृथक् ॥ ११॥
सोमं ससर्ज यज्ञार्थे सोमाद् घौः समजायत ।
धरा च वह्निः सूर्यश्च यज्ञो विष्णुः शचीपतिः ॥ १२॥
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ।
प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ १३॥
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ।
तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ १४॥
सोऽब्रवीद्भगवान् रुद्रो ह्यहमेकः पुरातनः ।
आसं प्रथममेवाहं वर्तामि च सुरोत्तमाः ॥ १५॥
भविष्यामि च मत्तोऽन्यो व्यतिरिक्तो न कश्चन ।
अहमेव जगत् सर्वं तर्पयामि स्वतेजसा ॥ १६॥
मत्तोऽधिकः समो नास्ति मां यो वेद स मुच्यते ।
इत्युक्त्वा भगवान् रुद्रस्तत्रैवान्तरधत्त सः ॥ १७॥
अपश्यन्तस्तमीशानं स्तुवन्तश्चैव सामभिः ।
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ १८॥
भस्मसञ्छन्नसर्वाङ्गा बभूवुरमरास्तदा ।
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ १९॥
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ।
यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ २०॥
हृदि पश्यन्ति तं देवं ददृशुर्देवपुङ्गवाः ।
यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ २१॥
तामपश्यन् महेशस्य वामतो वामलोचनाम् ।
ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ २२॥
नित्यसिद्धाश्च ये वान्ये ते च दृष्टा गणेश्वराः ।
अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ २३॥
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ।
देवोऽपि देवानालोक्य घृणया वृषभध्वजः ॥ २४॥
तुष्टोऽस्मीत्याह सुप्रीतः स्वभावमधुरां गिरम् ।
अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ।
अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ २५॥
देवा ऊचुः ।
भगवन् केन मार्गेण पूजनीयोऽसि भूतले ।
कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ २६॥
ततः सस्मितमालोक्य देवीं देववरो हरः ।
स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ २७॥
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ।
शक्तिभिर्मूर्तिभिश्चाङ्गैर्ग्रहैर्देवैश्च संवृतम् ॥ २८॥
अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ।
दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ २९॥
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ।
पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ३०॥
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ३१॥
सिन्दूरवर्णाय सुमण्डलाय
सुवर्णवर्णाभरणाय तुभ्यम् ।
पद्माभनेत्राय सपङ्कजाय
ब्रह्मेन्द्रनारायणकारणाय ॥ ३२॥
सुरत्नपूर्णं ससुवर्णतोयं
सुकुङ्कुमाद्यं सकुशं सपुष्पम् ।
प्रदत्तमादाय सहेमपात्रं
प्रशस्तमर्घ्यं भगवन् प्रसीद ॥ ३३॥
नमः शिवाय शान्ताय सगणायादिहेतवे ।
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ३४॥
यः शिवं मण्डले सौरे सम्पूज्यैव समाहितः ।
प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ३५॥
प्रणमेद्वा पठेदेतान् शलोकान् श्रुतिमुखानिमान् ।
न तस्य दुर्ल्लभं किञ्चिद्भक्तश्चेन्मुच्यते दृढम् ॥ ३६॥
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ।
धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ३७॥
अथ देवान् समालोक्य मण्डलस्थो महेश्वरः ।
सर्वागमोत्तरं दत्त्वा शास्त्रमन्तरधाद्धरः ॥ ३८॥
तत्र पूजाधिकारोऽयं ब्रह्मक्षत्रविशामिति ।
ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ३९॥
अथ कालेन महता तस्मिन् शास्त्रे तिरोहिते ।
भर्तारं परिपप्रच्छ तदङ्कस्था महेश्वरी ॥ ४०॥
तया सञ्चोदितो देवो देव्या चन्द्रविभूषणः ।
अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ४१॥
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ।
मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ४२॥
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ।
स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसन्ततिम् ॥ ४३॥
ऋभुः सत्यो भार्गवश्च ह्यङ्गिराः सविता द्विजाः ।
मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुङ्गवः ॥ ४४॥
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुङ्गवः ।
शततेजाः स्वयं धर्मो नारायण इति श्रुतः ॥ ४५॥
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतञ्जयः ।
मामतेयो भरद्वाजो गौतमः कविरुत्तमः ॥ ४६॥
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ।
तृणबिन्दुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ४७॥
जातूकर्ण्यो हरिः साक्षात् कृष्णद्वैपायनो मुनिः ।
व्यासावतारान् शृण्वन्तु कल्पयोगेश्वरान् क्रमात् ॥ ४८॥
लैङ्गे व्यासावतारा हि द्वापरान्तेषु सुव्रताः ।
योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ४९॥
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ।
शिष्यास्तेषां प्रशिष्याश्च शतशोऽथ सहस्रशः ॥ ५०॥
तेषां सम्भावनाल्लोके शैवाज्ञाकरणादिभिः ।
भाग्यवन्तो विमुच्यन्ते भक्त्या चात्यन्तभाविताः ॥ ५१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमोऽध्यायः ॥ ७.२.८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.९. नवमोऽध्यायः । शिवस्य योगावतारवर्णनम् ।
कृष्ण उवाच ।
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ।
अवतारान्हि शर्वस्य शिष्यांश्च भगवन् वद ॥ १॥
उपमन्युरुवाच ।
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ।
लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ २॥
दधिवाहश्च ऋषभो मुनिरुग्रोऽत्रिरेव च ।
सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ३॥
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ।
जटामाली चाट्टहासो दारुको लाङ्गुली तथा ॥ ४॥
महाकालश्च शूली च दण्डी मुण्डीश एव च ।
सहिष्णुः सोमशर्मा च लकुलीश्वर एव च ॥ ५॥
एते वाराहकल्पेऽस्मिन् सप्तमस्यान्तरो मनोः ।
अष्टाविंशतिसङ्ख्याता योगाचार्या युगक्रमात् ॥ ६॥
शिष्याः प्रत्येकमेतेषां चत्वारः शान्तचेतसः ।
श्वेतादयश्च रुष्यान्तांस्तान् ब्रवीमि यथाक्रमम् ॥ ७॥
श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ८॥
विकोशश्च विकेशश्च विपाशः पाशनाशनः ।
सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ९॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
सुधामा विरजाश्चैव शङ्खश्चाण्डज एव च ॥ १०॥
सारस्वतश्च मेघश्च मेघवाहः सुवाहकः ।
कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ११॥
पराशराश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्राः केतुशृङ्गस्तपोधनः ॥ १२॥
लम्बोदरश्च लम्बश्च लम्बात्मा लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ १३॥
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ।
अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोऽथ श्रविष्टकः ॥ १४॥
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ १५॥
उतथ्यो वामदेवश्च महाकालो महानिलः ।
वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ १६॥
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ १७॥
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।
भल्लवी मधुपिङ्गश्च श्वेतकेतुस्तथैव च ॥ १८॥
उशिजो बृहदश्वश्च देवलः कविरेव च ।
शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ १९॥
अक्षपादः कणादश्च उलूको वत्स एव च ।
कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ २०॥
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ।
सङ्ख्या च शतमेतेषां सह द्वादशसङ्ख्यया ॥ २१॥
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ।
सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदाङ्गपारगाः ॥ २२॥
शिवाश्रमरताः सर्वे शिवज्ञानपरायणाः ।
सर्वे सङ्गविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ २३॥
सर्वद्वन्द्वसहा धीराः सर्वभूतहिते रताः ।
ऋजवो मृदवः स्वस्था जितक्रोधा जितेन्द्रियाः ॥ २४॥
रुद्राक्षमालाभरणास्त्रिपुण्ड्राङ्कितमस्तकाः ।
शिखाजटाः सर्वजटा अजटा मुण्डशीर्षकाः ॥ २५॥
फलमूलाशनप्रायाः प्राणायामपरायणाः ।
शिवाभिमानसम्पन्नाः शिवध्यानैकतत्पराः ॥ २६॥
समुन्मथितसंसारविषवृक्षाङ्कुरोद्गमाः ।
प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ २७॥
सदेशिकानिमान् मत्वा नित्यं यः शिवमर्चयेत् ।
स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ २८॥
इति श्रीशिवमहापुराणे श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमोऽध्यायः ॥ ७.२.९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१०. दशमोऽध्यायः । शिवभक्तिवर्णनम् ।
कृष्ण उवाच ।
भगवन् सर्वयोगीन्द्र गणेश्वर मुनीश्वर ।
षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ १॥
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ।
महर्षिवपुरास्थाय स्थितोऽसि परमेश्वर ॥ २॥
अन्यथा हि जगत्यस्मिन् देवो वा दानवोऽपि वा ।
त्वत्तोऽन्यः परमं भावं को जानीयात् शिवात्मकम् ॥ ३॥
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ।
शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ४॥
साक्षात्सर्वजगत्कर्तुर्भर्तुरङ्कं समाश्रिता ।
भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ५॥
उपमन्युरुवाच ।
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ।
भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ६॥
महीधरवरे दिव्ये मन्दरे चारुकन्दरे ।
देव्या सह महादेवो दिव्यो ध्यानगतोऽभवत् ॥ ७॥
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ।
फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ८॥
ततः स्वमङ्कमारोप्य देवीं देववरोहरः ।
अलङ्कृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ९॥
अथान्तःपुरचारिण्यो देव्यो दिव्यविभूषणाः ।
अन्तरङ्गा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ १०॥
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ।
चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ११॥
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ।
त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ १२॥
तदावसरमालोक्य सर्वलोकमहेश्वरी ।
भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ १३॥
देव्युवाच ।
केन वश्यो महादेवो मर्त्यानां मन्दचेतसाम् ।
आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ १४॥
ईश्वर उवाच ।
न कर्मणा न तपसा न जपैर्नासनादिभिः ।
न ज्ञानेन न चान्येन वश्योऽहं श्रद्धया विना ॥ १५॥
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ।
वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्सम्भाष्य एव च ॥ १६॥
साध्या तस्मान् मयि शद्धा मां वशीकर्तुमिच्छता ।
श्रद्धा हेतुः स्वधर्मस्य रक्षणं वर्णिनामिह ॥ १७॥
स्ववर्णाश्रमधर्मेऽथ वर्तते यस्तु मानवः ।
तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ १८॥
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ।
ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरः सरम् ॥ १९॥
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ।
नात्यन्तफलभूयिष्ठः क्लेशायाससमन्वितः ।
तेन धर्मेण महता श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ २०॥
वर्णिनो ये प्रपद्यन्ते मामनन्यसमाश्रयाः ।
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ २१॥
वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ।
तस्मिन् भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ २२॥
अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ।
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ २३॥
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ।
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ।
परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ २४॥
तस्मात् लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ।
आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ २५॥
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ।
तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ २६॥
ममावतारा हि शुभे योगाचार्यच्छलेन तु ।
सर्वान्तरेषु सन्त्यार्ये सन्ततिश्च सहस्रशः ॥ २७॥
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ।
दुर्लभं सन्ततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ २८॥
सा हानिस्तन्महच्छिद्रं स मोहस्सान्धमूकता ।
यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ २९॥
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ।
चतुष्पादः समाख्यातो मम धर्मः सनातनः ॥ ३०॥
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ।
षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ३१॥
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ।
ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ३२॥
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ।
वृत्त्यन्तरनिरोधो यो योग इत्यभिधीयते ॥ ३३॥
अश्वमेधगणात् श्रेष्ठं देवि चित्तप्रसाधनम् ।
मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ३४॥
विजितेन्द्रियवर्गस्य यमेन नियमेन च ।
पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ३५॥
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ ३६॥
योगज्ञः पतितो वापि मुच्यते नात्र संशयः ।
दया कार्याथ सततमहिंसा ज्ञानसङ्ग्रहः ॥ ३७॥
सत्यमस्तेयमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ ३८॥
ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ।
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ ३९॥
अचिरादेव विज्ञानं लब्ध्वा योगं च विन्दति ।
दग्ध्वा देहमिमं ज्ञानी क्षणात् ज्ञानाग्निना प्रिये ।
प्रसादान्मम योगज्ञः कर्मबन्धं प्रहास्यति ॥ ४०॥
पुण्यःपुण्यात्मकं कर्म मुक्तेस्तत्प्रतिबन्धकम् ।
तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ४१॥
फलकामनया कर्मकरणात्प्रतिबध्यते ।
न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ४२॥
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ।
ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ४३॥
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ।
न यजन्ति हि मां युक्ताः समलोष्टाश्मकाञ्चनाः ॥ ४४॥
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ।
ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ४५॥
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ।
ज्ञानचर्या क्रियास्वेव तेऽधिकुर्युस्तदर्हकाः ॥ ४६॥
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यन्तरं तथा ।
वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ४७॥
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ।
पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ४८॥
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ।
तदेव तु स्वसंवेद्यमाभ्यन्तरमुदाहृतम् ॥ ४९॥
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ।
मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ५०॥
लिङ्गैर्मच्छासनादिष्टैस्त्रिपुण्ड्रादिभिरङ्कितः ।
ममोपचारनिरतः कायः कायो न चेतरः ॥ ५१॥
मदर्चा कर्म विज्ञेयं बाह्ये यागादिनोच्यते ।
मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ५२॥
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ।
रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ५३॥
ध्यानं मद्रूपचिन्ताद्यं नात्माद्यर्थसमाधयः ।
ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ५४॥
बाह्ये वाभ्यन्तरे वाथ यत्र स्यान्मनसो रतिः ।
प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ५५॥
बाह्यादाभ्यन्तरं श्रेष्ठं भवेच्छतगुणाधिकम् ।
असङ्करत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ५६॥
शौचमाभ्यन्तरं विद्यान्न बाह्यं शौचमुच्यते ।
अन्तः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ५७॥
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ।
न भावरहितं देवि विप्रलम्भैककारणम् ॥ ५८॥
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ।
बहिर्वाभ्यन्तरं वाथ मया भावो हि गृह्यते ॥ ५९॥
भावैकात्मा क्रिया देवि मम धर्मः सनातनः ।
मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ६०॥
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ।
फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ६१॥
फलार्थिनोऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ।
भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ६२॥
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ।
प्रार्थयेयुः फलं पश्चाद्भक्तास्तेऽपि मम प्रियाः ॥ ६३॥
प्राक् संस्कारवशादेव ये विचिन्त्य फलाफले ।
विवशा मां प्रपद्यन्ते मम प्रियतमा मताः ॥ ६४॥
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ।
ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ६५॥
मदनुग्रहतस्तेषां भावो मयि समर्पितः ।
फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ६६॥
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ।
अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ६७॥
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ।
स्वयमभ्यर्चनं चैव मदर्थे चाङ्गचेष्टितम् ॥ ६८॥
मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रियाः ।
ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ६९॥
एवमष्टविधं चिह्नं यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स च पण्डितः ॥ ७०॥
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचोऽपि यः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७१॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७२॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमोऽध्यायः ॥ ७.२.१०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.११. एकादशोऽध्यायः । शिवज्ञानवर्णनम् ।
ईश्वर उवाच ।
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ।
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ १॥
त्रिःस्नानं चाग्निकार्यं च लिङ्गार्चनमनुक्रमम् ।
दानमीश्वरभावश्च दया सर्वत्र सर्वदा ॥ २॥
सत्यं सन्तोषमास्तिक्यमहिंसा सर्वजन्तुषु ।
ह्रीःश्रद्धाध्ययनं योगः सदाध्यापनमेव च ॥ ३॥
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ।
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ४॥
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ।
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ५॥
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ।
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ६॥
सर्वक्रियान्नसन्त्यागः श्राद्धान्नस्य च वर्जनम् ।
तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७॥
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ।
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ८॥
क्षमा शान्तिश्च सन्तोषः सत्यमस्तेयमेव च ।
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ९॥
सर्वसङ्गनिवृत्तिश्च दशैतानि विशेषतः ।
लिङ्गानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ १०॥
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ।
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ११॥
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ।
वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ १२॥
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ।
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ १३॥
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ।
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ १४॥
सदा सञ्चारितैश्चारैर्लोकवृत्तान्तवेदनम् ।
सदास्त्रधारणं चैव भस्मकञ्चुकधारणम् ॥ १५॥
राज्ञां ममाश्रमस्थानामेष धर्मस्य सङ्ग्रहः ।
गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ १६॥
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ।
उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ १७॥
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ।
ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ १८॥
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यः सनातनः ।
ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ १९॥
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ।
सा नारी नरकं याति नात्र कार्या विचारणा ॥ २०॥
अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ।
व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ २१॥
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ।
शान्तिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ २२॥
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ।
एकादश्यां च विधिवदुपवासो ममार्चनम् ॥ २३॥
इति सङ्क्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ।
ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ २४॥
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ।
शूद्राणामथ नारीणां धर्म एष सनातनः ॥ २५॥
ध्येयस्त्वयाऽहं देवेशि सदा जाप्यः षडक्षरः ।
वेदोक्तमखिलं धर्ममिति धर्मार्थसङ्ग्रहः ॥ २६॥
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ।
भावातिशयसम्पन्नाः पूर्वसंस्कारसंयुताः ॥ २७॥
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ।
पापैर्न ते विलिम्पन्ते पद्मपत्रमिवाम्भसा ॥ २८॥
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ।
मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणम् ॥ २९॥
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ।
न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ३०॥
तथेह परिपूर्णस्य साध्यं मम न विद्यते ।
तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ३१॥
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ।
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ३२॥
ममानुशासनं यद्वद् ब्रह्मादीनां प्रवर्तकम् ।
तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ३३॥
ममाज्ञाधारभावेन सद्भावातिशयेन च ।
मदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ३४॥
प्रत्ययाश्च प्रवर्तन्ते प्रशस्तफलसूचकाः ।
मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ३५॥
कम्पस्वेदोऽश्रुपातश्च कण्ठे च स्वरविक्रिया ।
आनन्दाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ३६॥
स तैर्व्यस्तैः समस्तैर्वा लिङ्गैरव्यभिचारिभिः ।
मन्दमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ३७॥
यथायोऽग्निसमावेशान्नायो भवति केवलम् ।
तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ३८॥
हस्तपादादिसाधर्म्याद् रुद्रान् मर्त्यवपुर्धरान् ।
प्राकृतानिव मन्वानो नावजानीत पण्डितः ॥ ३९॥
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ।
आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ४०॥
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ।
मत्तोऽन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ४१॥
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ।
गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ४२॥
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ।
मयि चित्तसमासङ्गो येन केनापि हेतुना ॥ ४३॥
उपमन्युरुवाच ।
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ।
हिताय जगतामुक्तो ज्ञानसारार्थसङ्ग्रहः ॥ ४४॥
विज्ञानसङ्ग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ।
सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ४५॥
ज्ञानं ज्ञेयमनुष्ठेयमधिकारोऽथ साधनम् ।
साध्यं चेति षडर्थानां सङ्ग्रहत्वेष सङ्ग्रहः ॥ ४६॥
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ।
लिङ्गार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतोऽपि यः ॥ ४७॥
साधनं शिवमन्त्राद्यं साध्यं शिवसमानता ।
षडर्थसङ्ग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ४८॥
प्रथमं कर्मयज्ञादेर्भक्त्या वित्तानुसारतः ।
बाह्येऽभ्यर्च्य शिवं पश्चादन्तर्यागरतो भवेत् ॥ ४९॥
रतिरभ्यन्तरे यस्य न बाह्ये पुण्यगौरवात् ।
न कर्म करणीयं हि बहिस्तस्य महात्मना ॥ ५०॥
ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ।
नान्तर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ५१॥
तस्मात् क्रमेण सन्त्यज्य बाह्यमाभ्यन्तरं तथा ।
ज्ञानेन ज्ञेयमालोक्य ज्ञानं चापि परित्यजेत् ॥ ५२॥
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ।
एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ५३॥
तस्मात्कर्माण्यकृत्वा वा कृत्वा वान्तर्बहिःक्रमात् ।
येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ५४॥
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ।
परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ५५॥
इहोन्नमः शिवायेति मन्त्रेणानेन सिद्धयः ।
स तस्मादधिगन्तव्यः परावरविभूतये ॥ ५६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवज्ञानवर्णनं नामैकादशोऽध्यायः ॥ ७.२.११॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१२. द्वादशोऽध्यायः । पञ्चाक्षरमाहात्म्यवर्णनम् ।
श्रीकृष्ण उवाच ।
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ।
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ १॥
उपमन्युरुवाच ।
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ।
अशक्यं विस्तराद्वक्तुं तस्मात्सङ्क्षेपतः शृणु ॥ २॥
वेदे शिवागमे चायमुभयत्र षडक्षरः ।
सर्वेषां शिवभक्तानामशेषार्थप्रसाधकः ॥ ३॥
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ।
आज्ञासिद्धमसन्दिग्धं वाक्यमेतत् शिवात्मकम् ॥ ४॥
नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम् ।
सुनिश्चितार्थं गम्भीरं वाक्यं तत्पारमेश्वरम् ॥ ५॥
मन्त्रं सुखमुखोच्चार्यमशेषार्थप्रसिद्धये ।
प्राहोन्नमः शिवायेति सर्वज्ञः सर्वदेहिनाम् ॥ ६॥
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम् ।
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७॥
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ८॥
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ।
मन्त्रे नमः शिवायेति संस्थितानि यथाक्रमम् ।
मन्त्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ९॥
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ।
वाच्यः शिवोऽप्रमेयत्वात् मन्त्रस्तद्वाचकः स्मृतः ॥ १०॥
वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः ।
यथानादिप्रवृत्तोऽयं घोरसंसारसागरः ॥ ११॥
शिवोऽपि हि तथानादिः संसारान्मोचकः स्थितः ।
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ १२॥
तद्वत्संसारदोषाणां प्रतिपक्षः शिवः स्मृतः ।
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ १३॥
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ।
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ १४॥
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ।
धर्माधर्मोपदेशश्च बन्धमोक्षौ विचारणात् ॥ १५॥
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ।
वैद्यं विना निरानन्दाः क्लिश्यन्ते रोगिणो यथा ॥ १६॥
तस्मादनादिः सर्वज्ञः परिपूर्णः सदाशिवः ।
अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ १७॥
आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः ।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे ॥ १८॥
तस्याभिधानमन्त्रोऽयमभिधेयश्च स स्मृतः ।
अभिधानाभिधेयत्वात् मन्त्रः सिद्धः परः शिवः ॥ १९॥
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ।
यदोन्नमः शिवायेति शिववाक्यं षडक्षरम् ॥ २०॥
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ।
यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः ॥ २१॥
लोकानुग्रहकर्त्ता च स मृषार्थं कथं वदेत् ।
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ २२॥
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ।
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ २३॥
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ।
अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ।
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ २४॥
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ।
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ २५॥
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ।
वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥ २६॥
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ।
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ २७॥
संस्कृतेनाऽपि किं तेन मृदुना ललितेन वा ।
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ २८॥
यच्छ्रुत्वा जायते श्रेयो रागादीनां च सङ्क्षयः ।
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ २९॥
बहुत्वेऽपि हि मन्त्राणां सर्वज्ञेन शिवेन यः ।
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ ३०॥
साङ्गानि वेदशास्त्राणि संस्थितानि षडक्षरे ।
न तेन सदृशस्तस्मान्मन्त्रोऽप्यस्त्यपरः क्वचित् ॥ ३१॥
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ।
मन्त्रः षडक्षरो भिन्नः सूत्रं वृत्त्यात्मना यथा ॥ ३२॥
शिवज्ञानानि यावन्ति विद्यास्थानानि यानि च ।
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ ३३॥
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः ।
यस्योन्नमः शिवायेति मन्त्रोऽयं हृदि संस्थितः ॥ ३४॥
तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ।
येनोन्नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ ३५॥
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ।
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ ३६॥
अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा ।
पञ्चाक्षरजपे निष्ठो मुच्यते पापपञ्जरात् ॥ ३७॥
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ।
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ३८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ ७.२.१२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१३. त्रयोदशोऽध्यायः । पञ्चाक्षरमाहात्म्यवर्णनम् ।
देव्युवाच ।
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ।
अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ १॥
क्षीणे वर्णाश्रमाचारे सङ्कटे समुपस्थिते ।
सर्वाधिकारे सन्दिग्धे निश्चिते वापि पर्यये ॥ २॥
तदोपदेशे विहते गुरुशिष्यक्रमे गते ।
केनोपायेन मुच्यन्ते भक्तास्तव महेश्वर ॥ ३॥
ईश्वर उवाच ।
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ।
भक्त्या च भावितात्मानो मुच्यन्ते कलिजा नराः ॥ ४॥
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ।
दूषितानां कृतघ्नानां निन्दकानां छलात्मनाम् ॥ ५॥
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ।
मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ६॥
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ।
पतितोऽपि विमुच्येत मद्भक्तो विद्ययाऽनया ॥ ७॥
देव्युवाच ।
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ।
कर्मायोगेन यत्कर्म कृतं च नरकाय हि ।
ततः कथं विमुच्येत पतितो विद्ययाऽनया ॥ ८॥
ईश्वर उवाच ।
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ।
रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ९॥
समन्त्रकं मां पतितः पूजयेद्यदि मोहितः ।
नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ १०॥
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ।
तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ११॥
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ।
सोऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ १२॥
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ।
पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ १३॥
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ।
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ १४॥
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ।
पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ १५॥
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ।
स ब्रह्माङ्गेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ १६॥
पतितोऽपतितो वापि मन्त्रेणानेन पूजयेत् ।
मम भक्तो जितक्रोधो सलब्धोऽलब्ध एव वा ॥ १७॥
अलब्धाल्लब्ध एवेह कोटिकोटिगुणाधिकः ।
तस्मात् लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ १८॥
लब्ध्वा सम्पूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ।
ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ १९॥
किमत्र बहुनोक्तेन भक्ताः सर्वेऽधिकारिणः ।
मम पञ्चाक्षरे मन्त्रे तस्मात् श्रेष्ठतरो हि सः ॥ २०॥
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ।
तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत् ॥ २१॥
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे ।
सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ २२॥
एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित् ।
तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ २३॥
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः ।
ततः सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ २४॥
गुणमूर्त्यात्मनां चैव ततोऽवान्तरसंहृतिः ।
तदा नारायणः शेते देवो मायामयीं तनुम् ॥ २५॥
आस्थाय भोगिपर्यङ्कशयने तोयमध्यगः ।
तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ २६॥
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ।
मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ २७॥
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ।
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ २८॥
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ।
पञ्चाक्षराणि क्रमशः प्रोक्तवान् पद्मयोनये ॥ २९॥
स पञ्चवदनैस्तानि गृह्णँल्लोकपितामहः ।
वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ३०॥
ज्ञात्वा प्रयोगं विधिवत् सिद्धमन्त्रः प्रजापतिः ।
पुत्रेभ्यः प्रददौ मन्त्रं मन्त्रार्थं च यथातथम् ॥ ३१॥
ते च लब्ध्वा मन्त्ररत्नं साक्षात् लोकपितामहात् ।
तदाज्ञप्तेन मार्गेण मदाराधनकाङ्क्षिणः ॥ ३२॥
मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः ।
मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितः सदा ॥ ३३॥
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ।
दिव्यं वर्षसहस्रं तु वायुभक्षाः समाचरन् ॥ ३४॥
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ।
ऋषिं छन्दश्च कीलं च बीजशक्तिं च दैवतम् ॥ ३५॥
न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः ।
प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ३६॥
ततस्ते मन्त्रमाहात्म्याद् ऋषयस्तपसौधिताः ।
सृष्टिं वितन्वते सम्यक् सदेवासुरमानुषीम् ॥ ३७॥
अस्याः परमविद्यायाः स्वरूपमधुनोच्यते ।
आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ३८॥
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ।
सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ३९॥
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ।
तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ४०॥
चतुर्भुजा त्रिनयना बालेन्दुकृतशेखरा ।
पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ४१॥
सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता ।
सितपद्मासनासीना नीलकुञ्चितीमूर्द्धजा ॥ ४२॥
अस्याः पञ्चविधा वर्णाः प्रस्फुरद् रश्मिमण्डलाः ।
पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ४३॥
पृथक् प्रयोज्या यद्येते बिन्दुनादविभूषिताः ।
अर्द्धचन्द्रनिभो बिन्दुर्नादो दीपशिखाकृतिः ॥ ४४॥
बीजं द्वितीयं बीजेषु मन्त्रस्यास्य वरानने ।
दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ४५॥
वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतम् ।
देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ४६॥
गौतमोऽत्रिर्वरारोहे विश्वामित्रस्तथाङ्गिराः ।
भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ४७॥
गायत्र्यनुष्टुप् त्रिष्टुप् च छन्दांसि बृहती विराट् ।
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कन्दस्तेषां च देवताः ॥ ४८॥
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ।
पूर्वादेश्चोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥ ४९॥
उदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ।
पञ्चमः स्वरितश्चैव तृतीयो निहितः स्मृतः ॥ ५०॥
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ।
नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ५१॥
नकारः शिर उच्येत मकारस्तु शिखोच्यते ।
शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ५२॥
यकारोऽस्त्रं नमः स्वाहा वषट् हुं वौषडित्यपि ।
फडित्यपि च वर्णानामन्तेऽङ्गत्वं यदा तदा ॥ ५३॥
तत्रापि मूलमन्त्रोऽयं किञ्चिद्भेदसमन्वयात् ।
तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ५४॥
तस्मादनेन मन्त्रेण मनोवाक्कायभेदतः ।
आवयोरर्चनं कुर्य्याज्जपहोमादिकं तथा ॥ ५५॥
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ।
यथाशक्ति यथासम्पद्यथायोगं यथारति ॥ ५६॥
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ।
येन केनापि वा देवि पूजा मुक्तिं नयिष्यति ॥ ५७॥
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ।
मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ५८॥
तथापि मम भक्ता ये नात्यन्तविवशाः पुनः ।
तेषां सर्वेषु शास्त्रेषु मयैव नियमः कृतः ॥ ५९॥
तत्रादौ सम्प्रवक्ष्यामि मन्त्रसङ्ग्रहणं शुभम् ।
यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ६०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.२.१३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१४. चतुर्दशोऽध्यायः । पञ्चाक्षरमहिमवर्णनम् ।
ईश्वर उवाच ।
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ।
आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ १॥
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ।
एवं चेद्दक्षिणायुक्तं मन्त्रसिद्धिर्महत्फलम् ॥ २॥
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ।
जापिनं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ३॥
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ।
वाचा च मनसा चैव कायेन द्रविणेन च ॥ ४॥
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ।
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ५॥
भूषणानि च वासांसि धान्यानि च धनानि च ।
एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ६॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ।
पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७॥
एवं सम्पूज्य विधिवद्यथाशक्ति त्ववञ्चयन् ।
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु ॥ ८॥
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ।
शुश्रूषुमनहङ्कारं स्नातं शुचिमुपोषितम् ॥ ९॥
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुम्भघृतेन वै ।
जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ १०॥
अलङ्कृत्य सुवेषं च गन्धस्रग्वस्त्रभूषणैः ।
पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ११॥
समुद्रतीरे नद्यां च गोष्ठे देवालयेऽपि वा ।
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ १२॥
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ।
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ १३॥
स्वरेणोच्चारयेत्सम्यगेकान्तेऽतिप्रसन्नधीः ।
उच्चार्योच्चारयित्वा तमावयोर्मन्त्रमुत्तमम् ॥ १४॥
शिवं चास्तु शुभं चास्तु शोभनोऽस्तु प्रियोऽस्त्विति ।
एवं दद्याद् गुरुर्मन्त्रमाज्ञां चैव ततः परम् ॥ १५॥
एवं लब्ध्वा गुरोर्मन्त्रमाज्ञां चैव समाहितः ।
सङ्कल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ १६॥
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ।
अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ १७॥
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ।
नक्ताशी संयमी यः स पौरश्चरणिकः स्मृतः ॥ १८॥
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ।
तस्य नास्ति समो लोके स सिद्धः सिद्धिदो भवेत् ॥ १९॥
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमासनम् ।
त्वया मां हृदि सञ्चिन्त्य सञ्चिन्त्य स्वगुरुं ततः ॥ २०॥
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ।
विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ २१॥
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ।
आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ २२॥
विद्यास्थानं स्वकं रूपं ऋषिं छन्दोऽधिदैवतम् ।
बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ २३॥
उत्तमं मानसं जाप्यमुपांशुं चैव मध्यमम् ।
अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ २४॥
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ।
अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ २५॥
यदुच्चनीचस्वरितैः स्पष्टास्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥ २६॥
जिह्वामात्रपरिस्पन्दादीषदुच्चारितोऽपि वा ।
अपरैरश्रुतः किञ्चिच्छ्रुतो वोपांशुरुच्यते ॥ २७॥
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः ॥ २८॥
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ।
साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ २९॥
प्राणायामसमायुक्तः सगर्भो जप उच्यते ।
आद्यन्तयोरगर्भोऽपि प्राणायामः प्रशस्यते ॥ ३०॥
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ।
मन्त्रं मन्त्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ३१॥
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ।
अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ३२॥
सगर्भादपि साहस्रं सध्यानो जप उच्यते ।
एषु पञ्चविधेष्वेकः कर्त्तव्यः शक्तितो जपः ॥ ३३॥
अङ्गुल्या जपसङ्ख्यानमेकमेवमुदाहृतम् ।
रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ३४॥
शतं स्याच्छङ्खमणिभिः प्रवालैस्तु सहस्रकम् ।
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ३५॥
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं भवेत् ॥ ३६॥
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ।
सप्तविंशतिसङ्ख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ३७॥
पञ्चविंशतिसङ्ख्यातैः कृता मुक्तिं प्रयच्छति ।
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ३८॥
अङ्गुष्ठं मोक्षदं विद्यात्तर्ज्जनीं शत्रुनाशिनीम् ।
मध्यमां धनदां शान्तिं करोत्येषा ह्यनामिका ॥ ३९॥
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ।
शतसङ्ख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ४०॥
चतुःपञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ।
इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ४१॥
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ।
अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिः सह ॥ ४२॥
अङ्गुष्ठेन विना जप्यं कृतं तदफलं यतः ।
गृहे जपं समं विद्याद् गोष्ठे शतगुणं विदुः ॥ ४३॥
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ।
अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ४४॥
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ।
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ॥ ४५॥
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ।
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ४६॥
पश्चिमं धनदं विद्यादौत्तरं शान्तिदं भवेत् ।
सूर्य्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ४७॥
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ।
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गलावृतः ॥ ४८॥
अपवित्रकरोऽशुद्धो विलपन्न जपेत् क्वचित् ।
क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृम्भणे ॥ ४९॥
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ।
आचमेत्सम्भवे तेषां स्मरेद्वा मां त्वया सह ॥ ५०॥
ज्योतींषि च प्रपश्येद्वा कुर्याद् वा प्राणसंयमम् ।
अनासनः शयानो वा गच्छन्नुत्थित एव वा ॥ ५१॥
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ।
प्रसार्य्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ५२॥
यानशय्याधिरूढो वा चिन्ताव्याकुलितोऽथवा ।
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ५३॥
किमत्र बहुनोक्तेन समासेन वचः शृणु ।
सदाचारो जपन् शुद्धं ध्यायन्भद्रं समश्नुते ॥ ५४॥
आचारः परमो धर्म आचारः परमं धनम् ।
आचारः परमा विद्या आचारः परमा गतिः ॥ ५५॥
आचारहीनः पुरुषो लोके भवति निन्दितः ।
परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ५६॥
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ।
तस्य तेन समाचारः सदाचारो न चेतरः ॥ ५७॥
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ।
सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ५८॥
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ।
न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ५९॥
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ।
तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ६०॥
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ।
न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ६१॥
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ।
पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ६२॥
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ।
अशुचेर्वा शुचेर्वापि मन्त्रोऽयं न च निष्फलः ॥ ६३॥
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ।
अनादिष्टोऽपि गुरुणा मन्त्रोऽयं न च निष्फलः ॥ ६४॥
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ।
निर्मर्यादस्य नीचस्य मन्त्रोऽयं न च निष्फलः ॥ ६५॥
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ।
सिध्यत्येव न सन्देहो नापरस्य तु कस्यचित् ॥ ६६॥
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ।
अस्यात्यन्तमवेक्ष्याः स्युर्नैष सप्तः सदोदितः ॥ ६७॥
न कदाचिन्न कस्यापि रिपुरेष महामनुः ।
सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ६८॥
सिद्धेन गुरुणादिष्टः सुसिद्ध इति कथ्यते ।
असिद्धेनापि वा दत्तः सिद्धसाध्यस्तु केवलः ॥ ६९॥
असाधितः साधितो वा सिध्यत्वेन न संशयः ।
श्रद्धातिशययुक्तस्य मयि मन्त्रे तथा गुरौ ॥ ७०॥
तस्मान्मन्त्रान्तरांस्त्यक्त्वा सापायानधिकारतः ।
आश्रयेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७१॥
मन्त्रान्तरेषु सिद्धेषु मन्त्र एष न सिध्यति ।
सिद्धे त्वस्मिन्महामन्त्रे ते च सिद्धा भवन्त्युत ॥ ७२॥
यथा देवेष्वलब्धोऽस्मि लब्धेष्वपि महेश्वरि ।
मयि लब्धे तु ते लब्धा मन्त्रेष्वेषु समो विधिः ॥ ७३॥
ये दोषाः सर्वमन्त्राणां न तेऽस्मिन् सम्भवन्त्यपि ।
अस्य मन्त्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७४॥
तथापि नैव क्षुद्रेषु फलेषु प्रतियोगिषु ।
सहसा विनियुञ्जीत तस्मादेष महाबलः ॥ ७५॥
उपमन्युरुवाच ।
एवं साक्षान्महादेव्यै महादेवेन शूलिना ।
हिताय जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७६॥
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.२.१४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१५. पञ्चदशोऽध्यायः । दीक्षाविधाने गुरुमाहात्म्यवर्णनम् ।
श्रीकृष्ण उवाच ।
भगवन्मन्त्रमाहात्म्यं भवता कथितं प्रभो ।
तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ १॥
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ।
मन्त्रसङ्ग्रहणे किञ्चित्सूचितं न तु विस्मृतम् ॥ २॥
उपमन्युरुवाच ।
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ।
संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ ३॥
सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः ।
संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ ४॥
दीयते येन विज्ञानं क्षीयते पाशबन्धनम् ।
तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ ५॥
शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे ।
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ ६॥
गुरोरालोकमात्रेण स्पर्शात्सम्भाषणादपि ।
सद्यः संज्ञा भवेज्जन्तोः पाशोपक्षयकारिणी ॥ ७॥
सा दीक्षा शाम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा ।
तीव्रा तीव्रतरा चेति पाशोपक्षयभेदतः ॥ ८॥
यया स्यान्निर्वृतिः सद्यः सैव तीव्रतरा मता ।
तीव्रा तु जीवतोऽत्यन्तं पुंसः पापविशोधिका ॥ ९॥
शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ।
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ १०॥
मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका ।
मन्दमन्दतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ११॥
शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ।
शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ १२॥
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ।
न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ १३॥
तस्मात् लिङ्गानि संवीक्ष्य शक्तिपातस्य भूयसः ।
ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत् ॥ १४॥
योऽन्यथा कुरुते मोहात् स विनश्यति दुर्मतिः ।
तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ १५॥
लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः ।
सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी ॥ १६॥
आनन्दबोधयोर्लिङ्गमन्तःकरणविक्रियाः ।
यथा स्यात्कम्परोमाञ्चस्वरनेत्राङ्गविक्रियाः ॥ १७॥
शिष्योऽपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ।
तत्सम्पर्कैः शिवार्चादौ सङ्गतैर्वाथ तद्गतैः ॥ १८॥
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ।
तस्मात् सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ १९॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ २०॥
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ।
शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ २१॥
सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः ।
तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ २२॥
श्रेयोऽर्थी यदि गुर्वाज्ञां मनसापि न लङ्घयेत् ।
गुर्वाज्ञापालको यस्मात् ज्ञानसम्पत्तिमश्नुते ॥ २३॥
गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नान्यत्कर्म समाचरेत् ।
समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ २४॥
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ।
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ २५॥
पापिनां च यथा सङ्गात्तत्पापात्पतितो भवेत् ।
यथेह वह्निसम्पर्कात् मलं त्यजति काञ्चनम् ।
तथैव गुरुसम्पर्कात् पापं त्यजति मानवः ॥ २६॥
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते
तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ २७॥
यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ।
तथायमपि सन्तुष्टो गुरुः पापं क्षणाद्दहेत् ॥ २८॥
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ २९॥
तस्य क्रोधेन दह्यन्ते ह्यायुः श्रीज्ञानसत्क्रियाः ।
तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ३०॥
यमश्च नियमाश्चैव नात्र कार्या विचारणा ।
गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ ३१॥
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ।
मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ ३२॥
श्रेयोऽर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ ३३॥
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ।
इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ ३४॥
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततोऽर्हति ।
गुरुश्चेद्गुणवान् प्राज्ञः परमानन्दभासकः ॥ ३५॥
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ।
संवित्सञ्जननं तत्त्वं परमानन्दसम्भवम् ॥ ३६॥
तत्तत्त्वं विदितं येन स एवानन्ददर्शकः ।
न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ ३७॥
अन्योऽन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ।
एतस्य नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ ३८॥
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ।
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ ३९॥
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ।
पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ ४०॥
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ।
सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ४१॥
सर्वोपायविधिज्ञोऽपि तत्त्वहीनस्तु निष्फलः ।
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ॥ ४२॥
तस्यावलोकनाद्यैश्च परानन्दोऽभिजायते ।
तस्माद्यस्यैव सम्पर्कात्प्रबोधानन्दसम्भवः ॥ ४३॥
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ।
स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ४४॥
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ।
ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ४५॥
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथञ्चन ।
यत्रानन्दः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ ४६॥
वत्सरादपि शिष्येण सोऽन्यं गुरुमुपाश्रयेत् ।
गुरुमन्यं प्रपन्नेऽपि नावमन्येत पौर्विकम् ।
गुरोर्भ्रातॄंस्तथा पुत्रान् बोधकान् प्रेरकानपि ॥ ४७॥
तत्रादावुपसङ्गम्य ब्राह्मणं वेदपारगम् ।
गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ ४८॥
सर्वाभयप्रदातारं करुणाक्रान्तमानसम् ।
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ ४९॥
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ भवेद्यथा ।
तस्मिन् प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ ५०॥
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ।
भूषणानि च वासांसि यानशय्यासनानि च ॥ ५१॥
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ ५२॥
स एव जनको माता भर्ता बन्धुर्धनं सुखम् ।
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ ५३॥
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ।
समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ ५४॥
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ।
तदा शैवो भवेद्देही न ततोऽस्ति पुनर्भवः ॥ ५५॥
गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ।
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ ५६॥
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ।
उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ ५७॥
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ।
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ ५८॥
अहिंसका दयावन्तो नित्यमुद्युक्तचेतसः ।
अमानिनो बुद्धिमन्तः त्यक्तस्पर्द्धाः प्रियंवदाः ॥ ५९॥
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ।
शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ ६०॥
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ।
शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ ६१॥
नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ।
नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ ६२॥
तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ।
अधिकारो भवत्येव कन्यायाः पितुराज्ञया ।
शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ ६३॥
तथा सङ्करजातीनां नाध्वशुद्धिर्विधीयते ।
तैऽप्यकृत्रिमभावाश्चेच्छिवे परमकारणे ॥ ६४॥
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ।
अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ ६५॥
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ।
या तु कन्या स्वपित्राद्यैः शिवधर्मे नियोजिता ॥ ६६॥
सा भक्ताय प्रदातव्या नापराय विरोधिने ।
दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ ६७॥
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ।
यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ ६८॥
कृतकृत्याभवत्पूर्वं तपसाराध्य शङ्करम् ।
यथा नारायणं देवं तपसाराध्य पाण्डवाः ॥ ६९॥
पततीँल्लब्धवती धर्मे गुरुभिर्न नियोजिता ।
अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ ७०॥
शिवधर्मे नियुक्तायाः शिवशासनगौरवात् ।
बहुनात्र किमुक्तेन योऽपि कोऽपि शिवाश्रयः ॥ ७१॥
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ।
गुरोरालोकनादेव स्पर्शात्सम्भाषणादपि ॥ ७२॥
यस्य सञ्जायते प्रज्ञा तस्य नास्ति पराजयः ।
मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ ७३॥
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ।
क्रियावान् यस्तु संस्कारः कुण्डमण्डपपूर्वकः ।
स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ ७४॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.२.१५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१६. षोडशोऽध्यायः । शिष्यसंस्कारवर्णनम् ।
उपमन्युरुवाच ।
पुण्येऽहनि शुचौ देशे बहुदोषविवर्जिते ।
देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ १॥
परीक्ष्य भूमिं विधिवद् गन्धवर्णरसादिभिः ।
शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ २॥
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ।
अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ३॥
प्रधानकुण्डं कुर्वीत यद्वा पश्चिमभागतः ।
प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ४॥
वितानध्वजमालाभिर्विविधाभिरनेकशः ।
वेदिमध्ये ततः कुर्यान्मण्डलं शुभलक्षणम् ॥ ५॥
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ।
सिन्दूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ६॥
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ।
एकहस्तस्य पद्मस्य कर्णिकाष्टाङ्गुला मता ॥ ७॥
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ।
द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ८॥
कृत्वा शोभोपशोभाढ्य मैशान्यां तस्य कल्पयेत् ।
एकहस्तं तदर्द्धं वा पुनर्वेद्यां तु मण्डलम् ॥ ९॥
व्रीहितन्दुलसिद्धार्थतिलपुष्पकुशास्तृते ।
तत्र लक्षणसंयुक्तं शिवकुम्भं प्रसाधयेत् ॥ १०॥
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ।
गन्धपुष्पाक्षताकीर्णं कुशदूर्वाङ्कुराचितम् ॥ ११॥
सितसूत्रावृतं कण्ठे नववस्त्रयुगावृतम् ।
शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ १२॥
भृङ्गारं वर्धनीं चापि शङ्खं च चक्रमेव वा ।
विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ १३॥
तस्यासनारविन्दस्य कल्पयेदुत्तरे दले ।
अग्रतश्चन्दनाम्भोभिरस्त्रराजस्य वर्धनीम् ॥ १४॥
मण्डलस्य ततः प्राच्यां मन्त्रकुम्भे च पूर्ववत् ।
कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ १५॥
अथार्णवस्य तीरे वा नद्यां गोष्ठेऽपि वा गिरौ ।
देवागरे गृहे वापि देशेऽन्यस्मिन्मनोहरे ॥ १६॥
कृत्वा पूर्वोदितं सर्वं विना वा मण्डपादिकम् ।
मण्डलं पूर्ववत्कृत्वा स्थण्डिलं च विभावसोः ॥ १७॥
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ।
सर्वमङ्गलसंयुक्तः समाचरितनैत्यकः ॥ १८॥
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ।
शिवकुम्भे तथा भूयः शिवमावाह्य पूजयेत् ॥ १९॥
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ।
अर्चयेदस्त्रवर्द्धन्यामस्त्रमीशस्य दक्षिणे ॥ २०॥
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ।
कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ २१॥
ततः शिवानले होमं कुर्याद्देशिकसत्तमः ।
प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ २२॥
आचार्यात्पादमर्द्धं वा होमस्तेषां विधीयते ।
प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ २३॥
स्वाध्यायमपरे कुर्युः स्तोत्रं मङ्गलवाचनम् ।
जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ २४॥
नृत्यं गीतं च वाद्यं च मङ्गलान्यपराणि च ।
पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ २५॥
पुण्याहं कारयित्वाथ पुनः सम्पूज्य शङ्करम् ।
प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ २६॥
प्रसीद देवदेवेश देहमाविश्य मामकम् ।
विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ २७॥
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ।
आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ २८॥
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ।
जपन्तं प्रणवं देवं ध्यायन्तं कृतमङ्गलम् ॥ २९॥
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ।
दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ३०॥
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृताञ्जलिम् ।
सम्प्रोक्ष्य प्रोक्षणीतोयैर्मूर्द्धन्यस्त्रेण मुद्रया ॥ ३१॥
पुष्पक्षेपेण सन्ताड्य बध्नीयाल्लोचनं गुरुः ।
दुकूलार्द्धेन वस्त्रेण मन्त्रितेन नवेन च ॥ ३२॥
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मण्डलम् ।
सोऽपि तेनेरितः शम्भोराचरेत् त्रिःप्रदक्षिणम् ॥ ३३॥
ततः सुवर्णसम्मिश्रं दत्त्वा पुष्पाञ्जलिं प्रभोः ।
प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दण्डवत्क्षितौ ॥ ३४॥
ततः सम्प्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ।
सन्ताड्य देशिकस्तस्य मोचयेन्नेत्रबन्धनम् ॥ ३५॥
स दृष्ट्वा मण्डलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ।
अथासीनं शिवाचार्यो मण्डलस्य तु दक्षिणे ॥ ३६॥
उपवेश्यात्मनः सव्ये शिष्यं दर्भासने गुरुः ।
आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ३७॥
शिवतेजोमयं पाणिं शिवमन्त्रमुदीरयेत् ।
शिवाभिमानसम्पन्नो न्यसेच्छिष्यस्य मस्तके ॥ ३८॥
सर्वाङ्गालम्बनं चैव कुर्यात्तेनैव देशिकः ।
शिष्योऽपि प्रणमेद्भूमौ देशिकाकृतिमीश्वरम् ॥ ३९॥
ततः शिवानले देवं समभ्यर्च्य यथाविधि ।
हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ४०॥
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ।
नमस्कृत्य महादेवं नाडीसन्धानमाचरेत् ॥ ४१॥
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ।
शिष्यदेहप्रवेशं च स्मृत्वा मन्त्रांस्तु तर्पयेत् ॥ ४२॥
सन्तर्पणाय मूलस्य तेनैवाहुतयो दश ।
देयास्तिस्रस्तथाङ्गानामङ्गैरेव यथाक्रमम् ॥ ४३॥
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ।
पुनर्दशाहुतीः कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ ४४॥
पुनः सम्पूज्य देवेशं सम्यगाचम्य देशिकः ।
हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ४५॥
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ।
कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ४६॥
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ।
रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ४७॥
प्रोक्षणं ताडनं कृत्वा शिशोः स्वात्मानमात्मनि ।
शिवात्मकमनुस्मृत्य स्फुरन्तं विस्फुलिङ्गवत् ॥ ४८॥
नाड्या यथोक्तया वायुं रेचयेन्मन्त्रतो गुरुः ।
निर्गम्य प्रविशेन्नाड्यां शिष्यस्य हृदयं तथा ॥ ४९॥
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ।
स्वतेजसापास्तमलं ज्वलन्तमनुचिन्तयेत् ॥ ५०॥
तमादाय तया नाड्या मन्त्री संहारमुद्रया ।
न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ५१॥
कुम्भकेन तथा नाड्या रेचकेन यथा पुरा ।
तस्मादादाय शिष्यस्य हृदये तं निवेशयेत् ॥ ५२॥
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ।
हुत्वाऽऽहुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ५३॥
देवस्य दक्षिणे शिष्यमुपवेश्य वरासने ।
कुशपुष्पपरिस्तीर्णे बद्धाञ्जलिरुदङ्मुखम् ॥ ५४॥
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ।
वरासनस्थितो मन्त्रैर्महामङ्गलनिःस्वनैः ॥ ५५॥
समादाय घटं पूर्णं पूर्णमेव प्रसाधितम् ।
ध्यायमानः शिवं शिष्यमभिषिञ्चेत देशिकः ॥ ५६॥
अथापनुद्य स्नानाम्बु परिधाय सिताम्बरम् ।
आचान्तोऽलङ्कृतः शिष्यः प्राञ्जलिर्मण्डपं व्रजेत् ॥ ५७॥
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ।
सम्पूज्य मण्डले देवं करन्यासं समाचरेत् ॥ ५८॥
ततस्तु भस्मना देवं ध्यायेन्मनसि देशिकः ।
समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ५९॥
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ।
सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ६०॥
ततः शिवासनं ध्यात्वा शिष्यमूर्द्धनि देशिकः ।
तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ६१॥
प्रार्थयेत्प्राञ्जलिर्देवं नित्यमत्र स्थितो भव ।
इति विज्ञाप्य तं शम्भोस्तेजसा भासुरं स्मरेत् ॥ ६२॥
सम्पूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ।
कर्णे शिष्यस्य शनकैः शिवमन्त्रमुदीरयेत् ॥ ६३॥
स तु बद्धाञ्जलिः श्रुत्वा मन्त्रं तद्गतमानसः ।
शनैस्तं व्याहरेच्छिष्यः शिवाचार्यस्य शासनात् ॥ ६४॥
ततः शाक्तं च सन्दिश्य मन्त्रं मन्त्रविचक्षणः ।
उच्चारयित्वा च सुखं तस्मै मङ्गलमादिशेत् ॥ ६५॥
ततः समासान्मन्त्रार्थं वाच्यवाचकयोगतः ।
समादिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ६६॥
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ।
भक्त्यैवमभिसन्धाय दीक्षावाक्यमुदीरयेत् ॥ ६७॥
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा ।
न त्वनभ्यर्च्य भुञ्जीय भगवन्तं त्रिलोचनम् ॥ ६८॥
स एव दद्यान्नियतो यावन्मोहविपर्ययः ।
तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ६९॥
ततः स समयो नाम भविष्यति शिवाश्रमे ।
लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७०॥
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ।
दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमन्त्रितम् ॥ ७१॥
प्रतिमा वापि देवस्य गूढदेहमथापि वा ।
पूजाहोमजपध्यानसाधनानि च सम्भवे ॥ ७२॥
सोऽपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ।
आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७३॥
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ।
रक्षयेत्पूजयेच्छम्भुं मठे वा गृह एव वा ॥ ७४॥
अतः परं शिवाचारमादिशेदस्य देशिकः ।
भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७५॥
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ।
शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७६॥
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ।
देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७७॥
इति सङ्क्षेपतः प्रोक्तः संस्कारः समयाह्वयः ।
साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः ॥ ७.२.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१७. सप्तदशोऽध्यायः । शिवदीक्षाविधानवर्णनम् ।
उपमन्युरुवाच ।
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ।
षडध्वशुद्धिं कुर्वीत सर्वबन्धविमुक्तये ॥ १॥
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ।
मन्त्रश्चेति समासेन षडध्वा परिपठ्यते ॥ २॥
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ।
व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ३॥
शिवतत्त्वादिभूम्यन्तं तत्त्वाध्वा समुदाहृतः ।
षड्विंशत्सङ्ख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ४॥
आधाराद्युन्मनान्तश्च भुवनाध्वा प्रकीर्तितः ।
विना भेदोपभेदाभ्यां षष्टिसङ्ख्यासमन्वितः ॥ ५॥
पञ्चाशद् रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ।
अनेकभेदसम्पन्नः पदाध्वा समुदाहृतः ॥ ६॥
सर्वोपमन्त्रैर्मन्त्राध्वा व्याप्तः परमविद्यया ।
यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७॥
मन्त्राध्वनि न गण्येत तथासौ मन्त्रनायकः ।
कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ८॥
न वेत्ति तत्त्वतो यः स नैवार्हत्यध्वशोधनम् ।
षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ९॥
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ।
तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ १०॥
यथावदवगम्यैव कुर्यादध्वविशोधनम् ।
कुण्डमण्डलपर्यन्तं तत्र कृत्वा यथा पुरा ॥ ११॥
द्विहस्तमानं कुर्वीत प्राच्यां कलशमण्डलम् ।
ततः स्नातः शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ १२॥
प्रविश्य मण्डलं शम्भोः पूजां पूर्ववदाचरेत् ।
तत्राढकावरैः सिद्धं तन्दुलैः पायसं प्रभोः ॥ १३॥
अर्द्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ।
पुरतः कल्पिते वाथ मण्डले वर्णिमण्डिते ॥ १४॥
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ।
तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ १५॥
नम आद्यैर्यकरान्तैः कल्पयेत्कल्पवित्तमः ।
ईशानं मध्यमे कुम्भे पुरुषं पुरतः स्थिते ॥ १६॥
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ।
रक्षां विधाय मुद्रां च बद्धा कुम्भाभिमन्त्रणम् ॥ १७॥
कृत्वा शिवानलैर्होमं प्रारभेत यथा पुरा ।
यदर्द्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ १८॥
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ।
तर्पणान्तं च मन्त्राणां कृत्वा कर्म यथा पुरा ॥ १९॥
हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ।
ऊँ कारादनु हुङ्कारं ततो मूलं फडन्तकम् ॥ २०॥
स्वाहान्तं दीपने प्राहुरङ्गानि च यथाक्रमम् ।
तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ २१॥
मन्त्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ।
त्रिगुणं त्रिगुणीकृत्य द्विजकन्याकृतं सितम् ॥ २२॥
सूत्रं सूत्रेण सम्मन्त्र्य शिखाग्रे बन्धयेच्छिशोः ।
चरणाङ्गुष्ठपर्यन्तमूर्ध्वकायस्य तिष्ठतः ॥ २३॥
लम्बयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ।
शान्तया मुद्रयादाय मूलमन्त्रेण मन्त्रवित् ॥ २४॥
हुत्वाहुतित्रयं तस्याः सान्निध्यमुपकल्पयेत् ।
हृदि सन्ताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ २५॥
चैतन्यं समुपादाय द्वादशान्ते निवेद्य च ।
सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ २६॥
अवगुण्ठ्याथ तत्सूत्रं शिष्यदेहं विचिन्तयेत् ।
मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ २७॥
विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ।
व्योमादिभूतरूपिण्यः शान्त्यतीतादयः कलाः ॥ २८॥
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ।
अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ २९॥
ततो मलादेस्तत्त्वादौ व्याप्तिं समवलोकयेत् ।
कलाव्याप्तिं मलादौ च हुत्वा सन्दीपयेत्कलाः ॥ ३०॥
शिष्यं शिरसि सन्ताड्य सूत्रं देहे यथाक्रमम् ।
शान्त्यतीतपदे सूत्रं लाञ्छयेन्मन्त्रमुच्चरन् ॥ ३१॥
एवं कृत्वा निवृत्त्यन्तं शान्त्यतीतमनुक्रमात् ।
हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ३२॥
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ।
सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ३३॥
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ।
भुक्त्वा पश्चाद् द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ३४॥
अपरे मण्डले दद्यात् पञ्चगव्यं तथा गुरुः ।
सोऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ३५॥
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ।
प्रदद्याद्दन्तपवनं यथाशास्त्रोक्तलक्षणम् ॥ ३६॥
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ।
वाचं नियम्य चासीनः शिष्यो दन्तान्विशोधयेत् ॥ ३७॥
प्रक्षाल्य दन्तपवनं त्यक्त्वाचम्य शिवं स्मरेत् ।
प्रविशेद्देशिकादिष्टः प्राञ्जलिः शिवमण्डलम् ॥ ३८॥
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ।
प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ ३९॥
अशस्ताशामुखे तस्मिन् गुरुस्तद्दोषशान्तये ।
शतमर्द्धं तदर्द्धं वा जुहुयान्मूलमन्त्रतः ॥ ४०॥
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ।
देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ ४१॥
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ।
मन्त्रितेऽन्तः शिवं ध्यायन् शयीत प्राक् शिरा निशि ॥ ४२॥
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ।
आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ ४३॥
रेखात्रयं च परितो भस्मना तिलसर्षपैः ।
कृत्वास्त्रजप्तैस्तद् बाह्ये दिगीशानां बलिं हरेत् ॥ ४४॥
शिष्योऽपि परतोऽनश्नन्कृत्वैवमधिवासनम् ।
प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ ४५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशोऽध्यायः ॥ ७.२.१७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१८. अष्टादशोऽध्यायः । षडध्वशुद्ध्यादिकथनम् ।
उपमन्युरुवाच ।
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ।
गच्छेद्बद्धाञ्जलिर्ध्यायन् शिवमण्डलपार्श्वतः ॥ १॥
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ।
नेत्रबन्धनपर्यन्तं दर्शयेत् मण्डलं गुरुः ॥ २॥
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ।
यत्रापतन्ति पुष्पाणि तस्य नामाऽस्य सन्दिशेत् ॥ ३॥
तं चोपनीय निर्माल्यमण्डलेऽस्मिन्यथा पुरा ।
पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ४॥
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशान्तये ।
शतमर्द्धं तदर्द्धं वा जुहुयान्मूलविद्यया ॥ ५॥
ततः सूत्रं शिखाबद्धं लम्बयित्वा यथा पुरा ।
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ६॥
वागीश्वरीपूजनान्तं कुर्याद्धोमपुरःसरम् ।
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७॥
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ।
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ८॥
सूत्रदेहेऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ।
कृत्वात्मानं समादाय द्वादशान्ते निवेद्य च ॥ ९॥
ततोऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ।
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ १०॥
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ।
जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ११॥
तासु सर्वासु युगपत्प्रवेशाय शिशोर्द्धिया ।
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ १२॥
गर्भनिष्पत्तये देवं सम्पूज्य प्रणिपत्य च ।
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ १३॥
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ।
आर्जवं भोगनिष्पत्तिः कुर्यात् प्रीतिं परां तथा ॥ १४॥
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ।
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ १५॥
भोक्तृत्वविषयासङ्गमलं तत्कायशोधनम् ।
कृत्वैवमेव शिष्यस्य छिन्द्यात्पाशत्रयं ततः ॥ १६॥
निकृत्या परिबद्धस्य पाशस्यात्यन्तभेदतः ।
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ १७॥
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ।
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसन्दिशेत् ॥ १८॥
पितामह त्वया नास्य यातुः शैवं परं पदम् ।
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ १९॥
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ।
समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ २०॥
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ।
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ २१॥
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ।
कुर्यान्निवृत्तः सन्धानं प्रतिष्ठां कलया सह ॥ २२॥
सन्धाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ।
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ २३॥
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ।
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ २४॥
पूर्णेन्दुमण्डलप्रख्यां कृत्वा शेषं च पूर्ववत् ।
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ २५॥
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ।
प्रतिष्ठामनुसन्धाय तस्यां चापि यथा पुरा ॥ २६॥
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ।
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ २७॥
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ।
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ २८॥
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शान्तये ।
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ २९॥
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ।
बालार्कसदृशाकारां भासयन्तीं दिशो दश ॥ ३०॥
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ।
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ३१॥
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ।
शान्त्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ३२॥
स्वात्मनो व्यापिकां तद्वद्वागीशीं च विचिन्तयेत् ।
नभोमण्डलसङ्काशां पूर्णान्तं चापि पूर्ववत् ॥ ३३॥
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ।
तस्मै समादिशेदाज्ञां शम्भोरमितकर्मणः ॥ ३४॥
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ।
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ३५॥
ततः शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ।
विलयं शान्त्यतीतायाः शक्तितत्त्वेऽथ चिन्तयेत् ॥ ३६॥
षडध्वनः परे पारे सर्वाध्वव्यापिनीं पराम् ।
कोटिसूर्यप्रतीकाशां शैवीं शक्तिं च चिन्तयेत् ॥ ३७॥
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ।
प्रक्षाल्य कर्त्तरीं पश्चात् शिवशास्त्रोक्तमार्गतः ॥ ३८॥
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ।
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ३९॥
वौषडन्तेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ।
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ४०॥
ततः स्नातं समाचान्तं कृतस्वस्त्ययनं शिशुम् ।
प्रवेश्य मण्डलाभ्यासं प्रणिपत्य च दण्डवत् ॥ ४१॥
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ।
वाचकेनैव मन्त्रेण जुहुयादाहुतित्रयम् ॥ ४२॥
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ।
पुनः सम्पूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ४३॥
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ।
तत्र शम्भुं समाराध्य मण्डलस्थं सहाम्बया ।
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्राञ्जलिर्गुरुः ॥ ४४॥
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ।
कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ४५॥
इति विज्ञाप्य देवाय नाडीसन्धानपूर्वकम् ।
पूर्णान्तं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ४६॥
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ।
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ४७॥
भूतानां ग्रन्थिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ।
भूतानि स्थितियोगेन यो जपेत्परमे शिवे ॥ ४८॥
विशोध्यास्यं तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ।
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ४९॥
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ।
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ५०॥
विद्यां गलादिनाभ्यन्तं प्रतिष्ठां तदधः क्रमात् ।
जान्वन्तं तदधो न्यस्येन्निवृत्तिं चानुचिन्तयेत् ॥ ५१॥
स्वबीजैः सूत्रमन्त्रं च न्यस्याङ्गैस्तं शिवात्मकम् ।
बुद्ध्वा तं हृदयाम्भोजे देवमावाह्य पूजयेत् ॥ ५२॥
आशास्य नित्यसान्निध्यं शिवस्वात्म्यं शिशौ गुरुः ।
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ५३॥
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ।
तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ५४॥
सर्वज्ञतां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ।
अलुप्तशक्तिं स्वातन्त्र्यमनन्तां शक्तिमेव च ॥ ५५॥
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ।
अभिषिञ्चेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ५६॥
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ।
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ५७॥
ओङ्कारपूर्विकां तत्र सम्पुटां तु नमोऽन्तगाम् ।
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ५८॥
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ।
पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ५९॥
पुनः सम्पूज्य देवेशं यन्मया समनुष्ठितम् ।
सुकृतं कुरु तत्सर्वमिति विज्ञापयेत् शिवम् ॥ ६०॥
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमण्डले ।
प्रणम्योद्वासयेत्तस्मात् मण्डलात्पावकादपि ॥ ६१॥
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ ६२॥
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेत् शिवमात्मनः ॥ ६३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशोऽध्यायः ॥ ७.२.१८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१९. एकोनविंशोऽध्यायः । साधकसंस्कारमन्त्रमाहात्म्यम् ।
उपमन्युरुवाच ।
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ।
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ १॥
सम्पूज्य मण्डले देवं स्थाप्य कुम्भे च पूर्ववत् ।
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मण्डले ॥ २॥
पूर्णान्तं पूर्ववत्कृत्वा हुत्वाऽऽहुतिशतं तथा ।
सन्तर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ३॥
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ।
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ४॥
तत्र विद्योपदेशान्तं कृत्वा विस्तरशः क्रमात् ।
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ५॥
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ।
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ६॥
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ।
साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७॥
तच्छ्रुत्वा गुरुसन्देशं क्रमशो मन्त्रसाधकः ।
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ८॥
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ९॥
नात्यन्तं करणीयं तु मुमुक्षोर्मन्त्रसाधनम् ।
कृतं तु तदिहान्यत्र तस्यापि शुभदं भवेत् ॥ १०॥
शुभेऽहनि शुभे देशे काले वा दोषवर्जिते ।
शुक्लदन्तनखः स्नातः कृतपूर्वाह्निकक्रियः ॥ ११॥
अलङ्कृत्य यथा लब्धैर्गन्धमाल्यविभूषणैः ।
सोष्णीषः सोत्तरासङ्गः सर्वशुक्लसमाहितः ॥ १२॥
देवालये गृहेऽन्यस्मिन् देशे वा सुमनोहरे ।
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ १३॥
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ।
सम्पूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ १४॥
निवेद्य पायसं तस्मै समाप्याराधनं क्रमात् ।
प्रणिपत्य च तं देवं प्राप्तानुज्ञाश्च तन्मुखात् ॥ १५॥
कोटिवारं तदर्द्धं वा तदर्द्धं वा जपेत् शिवम् ।
लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ १६॥
ततश्च पायसाक्षारलवणैकमिताशनः ।
अहिंसकः क्षमी शान्तो दान्तश्चैव सदा भवेत् ॥ १७॥
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ।
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ १८॥
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ।
शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ १९॥
अभिमन्त्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ।
साधनेऽस्मिन् विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ २०॥
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ।
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ २१॥
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ।
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ २२॥
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ।
तस्येहामुत्र दुष्प्रापं न किञ्चिदपि विद्यते ॥ २३॥
अथवाहरहर्मन्त्रं जपेदेकाग्रमानसः ।
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ २४॥
न तस्य दुर्लभं किञ्चिन्न तस्यास्त्यशुभं क्वचित् ।
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विन्दति ॥ २५॥
साधने विनियोगे च नित्ये नैमित्तिके तथा ।
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ २६॥
शुचिर्बद्धशिखः सूत्री सपवित्रकरस्तथा ।
धृतत्रिपुण्ड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ २७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशोऽध्यायः ॥ ७.२.१९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२०. विंशोऽध्यायः । विशेषादिसंस्कृतिः ।
उपमन्युरुवाच ।
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ।
आचार्यत्वेऽभिषिञ्चेत तद्योगत्वेन चान्यथा ॥ १॥
मण्डलं पूर्ववत्कृत्त्वा सम्पूज्य परमेश्वरम् ।
स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ २॥
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ।
विद्यां दक्षिणतः शान्तिमुत्तरे मध्यतः पराम् ॥ ३॥
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ।
अभिमन्त्र्य घटान्हुत्वा पूर्णान्तं च यथा पुरा ॥ ४॥
प्रवेश्य मण्डले शिष्यमनुष्णीषं च देशिकः ।
तर्पणाद्यं तु मन्त्राणां कुर्यात्पूर्वावसानकम् ॥ ५॥
ततः सम्पूज्य देवेशमनुज्ञाप्य च पूर्ववत् ।
अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ६॥
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ।
न्यस्तमन्त्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७॥
ततो निवृत्तिकुम्भादिघटानुद्धृत्य वै क्रमात् ।
मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ८॥
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ।
शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ९॥
अथालङ्कृत्य तं देवमाराध्य शिवमण्डले ।
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ १०॥
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दण्डवत् ।
शिरस्यञ्जलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ११॥
भगवंस्त्वत्प्रसादेन देशिकोऽयं मया कृतः ।
अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ १२॥
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ।
शिवं शिवागमं दिव्यं पूजयेत् शिववद्गुरुः ॥ १३॥
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ।
उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ १४॥
स तां मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ।
अधिरोप्य यथान्यायमभिवन्द्य समर्चयेत् ॥ १५॥
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ।
आचार्यपदवीं प्राप्तो राज्यं चापि यतोऽर्हति ॥ १६॥
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ।
यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ १७॥
शिष्यान् परीक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ।
संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ १८॥
एवं सर्वमनायासं शौचं क्षान्तिं दयां तथा ।
अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ १९॥
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मण्डलात् ।
शिवकुम्भानलादींश्च सदस्यानपि पूजयेत् ॥ २०॥
युगपद्वाथ संस्कारान् कुर्वीत सगणो गुरुः ।
तत्र त्रयं द्वयं वापि प्रयोगस्योपदिश्यते ॥ २१॥
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ।
कृत्वा समयसंस्कारमभिषेकं विनाऽखिलम् ॥ २२॥
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ।
तस्मिन् परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ २३॥
हुत्वा मन्त्रं तु सन्तर्प्य सन्दीप्याशास्य चेश्वरम् ।
समर्प्य मन्त्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ २४॥
अथवा मन्त्रसंस्कारमनुचिन्त्याखिलं क्रमात् ।
अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ २५॥
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ।
स सर्वोऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ २६॥
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ।
शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ २७॥
शिवेन शान्त्यतीताध्वा व्याप्तस्तदपरः परः ।
विद्यया परिशिष्टोऽध्वा ह्यात्मना निखिलः क्रमात् ॥ २८॥
दुर्लभं शाम्भवं मत्वा मन्त्रमूलं मनीषिणः ।
शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ २९॥
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ।
चातुर्विध्यमिदं कृष्ण किं भूयः श्रोतुमिच्छसि ॥ ३०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशोऽध्यायः ॥ ७.२.२०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२१. एकविंशोऽध्यायः । नित्यनैमित्तिककर्मवर्णनम् ।
कृष्ण उवाच ।
भगवन् श्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ।
शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ १॥
उपमन्युरुवाच ।
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ।
विचार्य कार्यं निर्गच्छेद् गृहादभ्युदितेऽरुणे ॥ २॥
अबाधे विजने देशे कुर्यादावश्यकं ततः ।
कृत्वा शौचं विधानेन दन्तधावनमाचरेत् ॥ ३॥
अलाभे दन्तकाष्ठानामष्टम्यादिदिनेषु च ।
अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ४॥
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ।
नद्यां वा देवखाते वा ह्रदे वाथ गृहेऽपि वा ॥ ५॥
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ।
व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ६॥
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वा वाथ विशोध्य च ।
सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७॥
मलस्नानं सुगन्धाद्यैः स्नानं दन्तविशोधनम् ।
न कुर्याद् ब्रह्मचारी च तपस्वी विधवा तथा ॥ ८॥
सोपवीतः शिखां बद्ध्वा प्रविश्य च जलान्तरम् ।
अवगाह्य समाचान्तो जले न्यस्येत् त्रिमण्डलम् ॥ ९॥
तोये मग्नः पुनर्मन्त्रं जपेच्छक्त्या शिवं स्मरेत् ।
उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ १०॥
गोशृङ्गेण सदर्भेण पालाशेन दलेन वा ।
पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ११॥
उद्यानादौ गृहे चैव वर्द्धन्या कलशेन वा ।
अवगाहनकालेऽद्भिर्मन्त्रितैरभिषेचयेत् ॥ १२॥
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ।
आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ १३॥
आग्नेयं वाथ वा मान्त्रं कुर्यात् स्नानं शिवेन वा ।
शिवचिन्तापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ १४॥
स्वसूत्रोक्तविधानेन मन्त्राचमनपूर्वकम् ।
आचरेद् ब्रह्मयज्ञान्तं कृत्वा देवादितर्पणम् ॥ १५॥
मण्डलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ।
दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ १६॥
अथवैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ।
करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ १७॥
वामहस्तगताम्भोभिर्गन्धसिद्धार्थकान्वितैः ।
कुशपुञ्जेन वाऽभ्युक्ष्य मूलमन्त्रसमन्वितैः ॥ १८॥
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ।
वामनासापुटेनैव देवं सम्भावयेत्सितम् ॥ १९॥
अर्घमादाय देहस्थं सव्यनासापुटेन च ।
कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ २०॥
तर्पयेदथ देवेभ्य ऋषिभ्यश्च विशेषतः ।
भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ २१॥
रक्तचन्दनतोयेन हस्तमात्रेण मण्डलम् ।
सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलङ्कृतम् ॥ २२॥
तत्र सम्पूजयेद्भानुं स्वकीयावरणैः सह ।
खखोल्कायेति मन्त्रेण साङ्गतः सुखसिद्धये ॥ २३॥
पुनश्च मण्डलं कृत्वा तदङ्गैः परिपूज्य च ।
तत्र स्थाप्य हेमपात्रं मागधप्रस्थसम्मितम् ॥ २४॥
पूरयेत् गन्धतोयेन रक्तचन्दनयोगिना ।
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ २५॥
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ।
जानुभ्यां धरणीं गत्वा नत्वा देवं च मण्डले ॥ २६॥
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ।
अथवाञ्जलिना तोयं सदर्भं मूलविद्यया ॥ २७॥
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ।
कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ २८॥
बुद्ध्वेशानादि सद्यान्तं पञ्चब्रह्ममयं शिवम् ।
गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९॥
आपादान्तैः शिरोवक्त्रहृद्गुह्यचरणान् क्रमात् ।
ततो मूलेन सर्वाङ्गमालभ्य वसनान्तरम् ॥ ३०॥
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ।
जलैराच्छाद्य वासोऽयद् द्विराचम्य शिवं स्मरेत् ॥ ३१॥
पुनर्न्यस्तकरो मन्त्री त्रिपुण्ड्रं भस्मना लिखेत् ।
अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ३२॥
वृत्तं वा चतुरस्रं वा बिन्दुमर्द्धेन्दुमेव वा ।
ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ३३॥
तादृशं भुजयोर्मूर्ध्नि स्तनयोरन्तरे लिखेत् ।
सर्वाङ्गोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ३४॥
तस्मात् त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ।
रुद्राक्षान्धारयेन्मूर्ध्नि कण्ठे श्रोते करे तथा ॥ ३५॥
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ।
विप्रादीनां क्रमात् श्रेष्ठं पीतं रक्तमथासितम् ॥ ३६॥
तदलाभे यथालाभं धारणीयमदूषितम् ।
तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ३७॥
नाशुचिर्द्धारयेदक्षं सदा कालेषु धारयेत् ।
इत्थं त्रिसन्ध्यमथवा द्विसन्ध्यं सकृदेव वा ॥ ३८॥
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ।
पूजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ३९॥
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ।
श्वेतादीन्नकुलीशान्तांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ४०॥
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ४१॥
संसारवैद्यः सर्वज्ञः परमात्मेति चाष्टकम् ।
अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ४२॥
जिह्वाग्रे तेजसो राशिं ध्यात्वा व्याध्यादिशान्तये ।
प्रक्षाल्य चरणौ कृत्वा करौ चन्दनचर्चितौ ।
प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ४३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशोऽध्यायः ॥ ७.२.२१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२२. द्वाविंशोऽध्यायः । शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनम् ।
उपमन्युरुवाच ।
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ।
स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ १॥
यतीनां संहृतिन्यासो वनस्थानां तथैव च ।
स एव भर्तृहीनायाः कुटुम्बिन्याः स्थितिर्भवेत् ॥ २॥
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ।
अङ्गुष्ठादिकनिष्ठान्तं स्थितिन्यास उदाहृतः ॥ ३॥
दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्तमेव च ।
उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ४॥
सबिन्दुकान्नकारादीन् वर्णान् न्यस्येदनुक्रमात् ।
अङ्गुलीषु शिवं न्यस्येत् तलयोरप्यनामयोः ॥ ५॥
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमन्त्रतः ।
निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ६॥
पञ्चभूताधिपैः सार्द्धं तत्तच्चिह्नसमन्विताः ।
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७॥
तत्तद्बीजेन सङ्ग्रन्थींस्तत्तद्बीजेषु भावयेत् ।
तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ८॥
निरुद्ध्वा प्राणवायुं च गुणसङ्ख्यानुसारतः ।
भूतग्रन्थिं ततः छिन्द्यादस्त्रेणैवास्त्रमुद्रया ॥ ९॥
नाड्याः सुषुम्णयात्मानं प्रेरितं प्राणवायुना ।
निर्गतं ब्रह्मरन्ध्रेण योजयेत् शिवतेजसा ॥ १०॥
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ।
ततश्चोपरिभावेन कलाः संहृत्य वायुना ॥ ११॥
देहं संहृत्य वै दग्धं कलाः स्पृष्ट्वा सहाधिपम् ।
प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ १२॥
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ।
अमृतप्लावनं कुर्याद् भस्मीभूतस्य वै ततः ॥ १३॥
ततो विद्यामये तस्मिन् देहे दीपशिखाकृतिम् ।
शिवान्निर्गतमात्मानं ब्रह्मरन्ध्रेण योजयेत् ॥ १४॥
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपङ्कजे ।
पुनश्चामृतवर्षेण सिञ्चेद् विद्यामयं वपुः ॥ १५॥
ततः कुर्यात् करन्यासं करशोधनपूर्वकम् ।
देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ १६॥
अङ्गन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ।
वर्णन्यासं ततः कुर्याद्धस्तपादादिसन्धिषु ॥ १७॥
षडङ्गानि ततो न्यस्य जातिषट्कयुतानि च ।
दिग्बन्धमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ १८॥
यद्वा मूर्द्धादिपञ्चाङ्गं न्यासमेव समाचरेत् ।
तथा षडङ्गन्यासं च भूतशुद्ध्यादिकं विना ॥ १९॥
एवं समासरूपेण कृत्वा देहात्मशोधनम् ।
शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ २०॥
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ।
स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ २१॥
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ।
तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ २२॥
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ।
एतेष्वेकमनेकं वा कुर्यात् पूजादिकर्मसु ॥ २३॥
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ।
इं ईं च नेत्रयोस्तद्वत् उं ऊं श्रवणयोस्तथा ॥ २४॥
ऋं ॠं कपोलयोश्चैव लृं ॡं नासापुटद्वये ।
एमैम्मोष्ठद्वयोरोमौं दन्तपङ्क्तिद्वयोः क्रमात् ॥ २५॥
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ।
कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु सन्धिषु ॥ २६॥
चवर्गं च तथा वामहस्तसन्धिषु विन्यसेत् ।
टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ २७॥
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ।
न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ २८॥
यकारादिसकारान्तान् न्यसेत्सप्तसु धातुषु ।
हङ्कारं हृदयस्यान्तः क्षकारं भ्रूयुगान्तरे ॥ २९॥
एवं वर्णान् प्रविन्यस्य पञ्चाशत् रुद्रवर्त्मना ।
अङ्गवक्त्रकलाभेदात् पञ्च ब्रह्माणि विन्यसेत् ॥ ३०॥
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ।
शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ३१॥
ततश्चोर्ध्वादिवक्त्राणि पश्चिमान्तानि कल्पयेत् ।
ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ३२॥
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ।
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ३३॥
हृत्कण्ठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ।
अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ३४॥
पश्चात् त्रयोदशकलाः पायुमेढ्रोरुजानुषु ।
जङ्घास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ३५॥
सद्यस्याऽपि कलाश्चाष्टौ पादयोरपि हस्तयोः ।
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ।
अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ३६॥
पश्चात् प्रणवविद्धीमान् प्रणवन्यासमाचरेत् ।
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ३७॥
पार्श्वोदरोरुजङ्घेषु पादयोः पृष्ठतस्तथा ।
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ३८॥
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ।
बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ३९॥
विभज्य बाहुनेत्रास्यललाटे कर्णयोरपि ।
कक्षयोः स्कन्धयोश्चैव पार्श्वयोः स्तनयोस्तथा ॥ ४०॥
कट्यां पाण्योर्गुल्फयोश्च यद्वा पञ्चाङ्गवर्त्मना ।
हंसन्यासमिमं कृत्वा न्यसेत् पञ्चाक्षरीं ततः ॥ ४१॥
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ।
नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ।
नाशिवस्तु शिवं ध्यायेन्नाशिवः प्राप्नुयात् शिवम् ॥ ४२॥
तस्मात् शैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ।
शिवोऽहमिति सञ्चिन्त्य शैवं कर्म समाचरेत् ॥ ४३॥
कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ।
ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ४४॥
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ।
जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ४५॥
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ।
कर्मयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ४६॥
कामान् कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ।
अकामो रुद्रभवने भोगान् भुक्त्वा ततश्च्युतः ॥ ४७॥
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ।
तपस्वी च पुनस्तस्मिन् भोगान् भुक्त्वा ततश्च्युतः ॥ ४८॥
जपध्यानरतो भूत्वा जायते भुवि मानवः ।
जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ४९॥
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ।
तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञोऽपि देहिनाम् ॥ ५०॥
अकामः कामसंयुक्तो बन्धायैव भविष्यति ।
तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ५१॥
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ।
हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ५२॥
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।
बहिः कर्मिकरा यद्वन्नातीव फलभागिनः ॥ ५३॥
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ।
ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ५४॥
यथेह कर्मिणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ।
ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ५५॥
नात्यन्तं प्रतिपद्यन्ते शिवयाथात्म्यवेदनात् ।
आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ५६॥
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ।
ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ५७॥
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ।
द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ५८॥
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ।
नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ५९॥
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ।
अथवा पूजयेन्नित्यं लिङ्गे वा कृतकेऽपि वा ॥ ६०॥
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ।
अथवान्तर्बहिश्चैव पूजयेत्परमेश्वरम् ।
अन्तर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ६१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.२.२२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२३. त्रयोविंशोऽध्यायः । पूजाविधान व्याख्यानवर्णनम् ।
उपमन्युरुवाच ।
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ।
शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ १॥
अङ्गमभ्यन्तरं यागमग्निकार्यावसानकम् ।
विधाय वा न वा पश्चाद् बहिर्यागं समाचरेत् ॥ २॥
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ।
ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ३॥
दक्षिणे चोत्तरे चैव नन्दीशं सुयशां तथा ।
आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ४॥
आराधनादिकैर्युक्तः सिंहयोगासनादिकम् ।
पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ५॥
तस्योपरि शिवं ध्यायेत् साम्बं सर्वमनोहरम् ।
सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥ ६॥
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ।
रक्तास्यपाणिचरणं कुन्दचन्द्रस्मिताननम् ॥ ७॥
शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् ।
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ ८॥
वरदाभयहस्तं च मृगटङ्कधरं हरम् ।
भुजङ्गहारवलयं चारुनीलगलान्तरम् ॥ ९॥
सर्वोपमानरहितं सानुगं सपरिच्छदम् ।
ततः सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम् ॥ १०॥
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥ ११॥
नीलोत्पलदलप्रख्यां चन्द्रार्द्धकृतशेखराम् ।
अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ॥ १२॥
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ १३॥
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् ।
सर्वतोऽनुगुणाकारां किञ्चिल्लज्जानताननाम् ॥ १४॥
हेमारविन्दं विलसद्दधानां दक्षिणे करे ।
दण्डवच्चापरं हस्तं न्यस्यासीनां महासने ॥ १५॥
पाशविच्छेदिकां साक्षात्सच्चिदानन्दरूपिणीम् ।
एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ १६॥
सर्वोपचारवद् भक्त्या भावपुष्पैः समर्चयेत् ।
अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ १७॥
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ।
षड्विंशकाभिधानां वा श्रीकण्ठाख्यामथापि वा ॥ १८॥
मन्त्रन्यासादिकांश्चापि कृत्वा स्वस्यां तनौ यथा ।
अस्यां मूर्तौ मूर्तिमन्तं शिवं सदसतः परम् ॥ १९॥
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्त्तयेद्धिया ।
समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ २०॥
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ।
इत्थमङ्गे स्वतन्त्रे वा योगे ध्यानमये शुभे ॥ २१॥
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ।
अथ चिन्तामयं सर्वं समाप्याराधनक्रमम् ॥ २२॥
लिङ्गे च पूजयेद्देवं स्थण्डिले वानलेऽपि वा ॥ २३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधान व्याख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ७.२.२३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२४. चतुर्विंशोऽध्यायः । शास्त्रोक्तशिवपूजनवर्णनम् ।
उपमन्युरुवाच ।
प्रोक्षयेन्मूलमन्त्रेण पूजास्थानं विशुद्धये ।
गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ १॥
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ।
अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ २॥
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ।
संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ३॥
प्रोक्षणीमर्घ्यपात्रं च पाद्यपात्रमतः परम् ।
तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ४॥
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ।
पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ५॥
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ।
फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ६॥
स्नानोदके सुगन्धादि पानीये च विशेषतः ।
शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
जातिकङ्कोलकर्पूरबहुमूलतमालकान् ॥ ८॥
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ।
एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ९॥
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ।
आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥ १०॥
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ।
प्रक्षिपेत् प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ११॥
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ।
पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ १२॥
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ।
सम्प्रोक्ष्य मूलमन्त्रेण शोधयेद्विधिवत्ततः ॥ १३॥
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ।
साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ १४॥
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ।
पूजयित्वा विधानेन द्वारपार्श्वेऽथ दक्षिणे ॥ १५॥
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ १६॥
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।
दीप्तशूलमृगीटङ्कतिग्मवेत्रधरं प्रभुम् ॥ १७॥
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।
उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ १८॥
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ।
पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ १९॥
सम्पूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ।
प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ २०॥
पुष्पहस्तो जपेत् शक्त्या मन्त्रं मन्त्रविशुद्धये ।
ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ २१॥
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ।
आधारशक्तिं कल्याणीं श्यामां ध्यायेदथो भुवि ॥ २२॥
तस्याः पुरस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ।
धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ २३॥
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ॥ २४॥
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ।
अधर्मादीनि पूर्वादीन्युत्तरान्तान्यनुक्रमात् ॥ २५॥
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ।
अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ २६॥
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ।
केसराणि च वामाद्या रुद्रा वामादिशक्तिभिः ॥ २७॥
बीजान्यपि च ता एव शक्तयोन्तर्मनोन्मनीः ।
कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ २८॥
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ।
त्रिमण्डलोपर्यात्मादितत्त्वत्रितयमासनम् ॥ २९॥
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ।
आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ३०॥
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ।
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ३१॥
पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं ततः परम् ।
धूपं दीपं च ताम्बूलं दत्त्वाथ स्नापयेत् शिवौ ॥ ३२॥
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ।
सकलीकृत्य मूलेन ब्रह्मभिश्चापरैस्तथा ॥ ३३॥
आवाहयेत्ततो देव्या शिवं परमकारणम् ।
शुद्धस्फटिकसङ्काशं देवं निश्चलमक्षरम् ॥ ३४॥
कारणं सर्वलोकानां सर्वलोकमयं परम् ।
अन्तर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ३५॥
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ३६॥
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ।
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ३७॥
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ।
पञ्चोपचारवद्भक्त्या पूजयेल्लिङ्गमुत्तमम् ॥ ३८॥
लिङ्गमूर्त्तिर्महेशस्य शिवस्य परमात्मनः ।
स्नानकाले प्रकुर्वीत जयशब्दादिमङ्गलम् ॥ ३९॥
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ।
मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ४०॥
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसम्भवैः ।
संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ४१॥
घर्षयेद्बिल्वपत्राद्यैर्लेपगन्धापनुत्तये ।
पुनः संस्नाप्य सलिलैश्चक्रवर्त्त्युपचारतः ॥ ४२॥
सुगन्धामलकं दद्याद् हरिद्रां च यथाक्रमम् ।
ततः संशोध्य सलिलैर्लिङ्गं बेरमथापि वा ॥ ४३॥
स्नापयेद्गन्धतोयेन कुशपुष्पोदकेन च ।
हिरण्यरत्नतोयैश्च मन्त्रसिद्धैर्यथाक्रमम् ॥ ४४॥
असम्भवे तु द्रव्याणां यथासम्भवसम्भृतैः ।
केवलैर्मन्त्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ४५॥
कलशेनाथ शङ्खेन वर्द्धन्या पाणिना तथा ।
सकुशेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् ॥ ४६॥
पवमानेन रुद्रेण नीलेन त्वरितेन च ।
लिङ्गसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ४७॥
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ।
स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ४८॥
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ।
न तु कश्चिद्विशेषोऽस्ति तत्र तौ सदृशौ यतः ॥ ४९॥
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ।
देव्यै प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ५०॥
अर्द्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ।
तत्र तत्रोपचाराणां लिङ्गे वान्यत्र वा क्वचित् ॥ ५१॥
कृत्वाऽभिषेकं लिङ्गस्य शुचिना च सुगन्धिना ।
सम्मृज्य वाससा दद्यादम्बरं चोपवीतकम् ॥ ५२॥
पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च भूषणम् ।
धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ५३॥
पुनश्चाचमनीयं च मुखवासं ततः परम् ।
मुकुटं च शुभं भद्रं सर्वरत्नैरलङ्कृतम् ॥ ५४॥
भूषणानि पवित्राणि माल्यानि विविधानि च ।
व्यजने चामरे छत्रं तालवृन्तं च दर्पणम् ॥ ५५॥
दत्त्वा नीराजनं कुर्यात्सर्वमङ्गलनिःस्वनैः ।
गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ५६॥
हैमे च राजते ताम्रे पात्रे वा मृण्मये शुभे ।
पद्मकैः शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ५७॥
त्रिशूलशङ्खयुग्माब्जनन्द्यावर्तैः करीषजैः ।
श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ५८॥
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ।
तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ५९॥
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ।
धेनुमुद्रां च सन्दर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ६०॥
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ।
विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ६१॥
ततस्तत्पात्रमुद्धृत्य लिङ्गादेरुपरि क्रमात् ।
त्रिःप्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ६२॥
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगन्धितम् ।
कृत्वा पुष्पाञ्जलिं पश्चादुपहारान्निवेदयेत् ॥ ६३॥
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ।
पञ्च सौगन्धिकोपेतं ताम्बूलं च निवेदयेत् ॥ ६४॥
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ।
लिङ्गादौ शिवयोश्चिन्तां कृत्वा शक्त्या जपेत् शिवम् ॥ ६५॥
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ।
विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ६६॥
अर्घ्यं पुष्पाञ्जलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ।
पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिन्तयेत् ॥ ६७॥
पाद्यादिमुखवासान्तमर्घ्याद्यं चातिसङ्कटे ।
पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरःसरम् ॥ ६८॥
तावतैव परो धर्मो भावने सुकृतो भवेत् ।
असम्पूज्य न भुञ्जीत शिवमाप्राणसञ्चरात् ॥ ६९॥
यदि पापस्तु भुञ्जीत स्वैरं तस्य न निष्कृतिः ।
प्रमादेन तु भुङ्क्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७०॥
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ।
शिवस्यायुतमभ्यस्येद् ब्रह्मचर्यपुरःसरम् ॥ ७१॥
परेद्युः शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ।
शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७२॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.२.२४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२५. पञ्चविंशोऽध्यायः । शिवशास्त्रोक्तपूजनवर्णनम् ।
उपमन्युरुवाच ।
अनुक्तं चात्र पूजायाः क्रमलोपभयादिव ।
यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ १॥
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ।
कुर्यादावरणाभ्यर्चां प्राप्ते नीराजनेऽथवा ॥ २॥
तत्रेशानादिसद्यान्तं रुद्राद्यस्त्रान्तमेव च ।
शिवस्य वा शिवायाश्च प्रथमावरणे यजेत् ॥ ३॥
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ।
पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ४॥
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ।
गर्भावरणमाख्यातं मन्त्रसङ्घातमेव वा ॥ ५॥
हृदयाद्यस्त्रपर्यन्तमथवापि समर्चयेत् ।
तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ६॥
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ।
ईशमैशेऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७॥
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ।
बहिःपद्मस्य वज्राद्यान्याब्जान्तान्यायुधान्यपि ॥ ८॥
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ।
देवं देवीं च सम्प्रेक्ष्य सर्वावरणदेवताः ॥ ९॥
बद्धाञ्जलिपुटा ध्येयाः समासीना यथासुखम् ।
सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ १०॥
पुष्पैः सम्पूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ।
गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ११॥
योगे ध्याने जपे होमे बाह्ये वाभ्यन्तरेऽपि वा ।
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ १२॥
पायसं दधिसम्मिश्रं गौडं च मधुनाप्लुतम् ।
एतेष्वेकमनेकं वा नानाव्यञ्जनसंयुतम् ॥ १३॥
गुडखण्डान्वितं दद्यान्मथितं दधि चोत्तमम् ।
भक्ष्याण्यपूपमुख्यानि स्वादुमन्ति फलानि च ॥ १४॥
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ।
मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ १५॥
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ।
गौराणि स्वर्णवर्णानि विहितानि शिवानि च ।
शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ १६॥
कर्पूरं चाथ कङ्कोलं जात्यादि च नवं शुभम् ।
आलेपनं चन्दनं स्यान्मूलकाष्ठं रजोमयम् ॥ १७॥
कस्तूरिका कुङ्कुमं च रसो मृगमदात्मकः ।
पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ १८॥
निर्गन्धान्युग्रगन्धानि दूषितान्युषितानि च ।
स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ १९॥
वासांसि च मृदून्येव तपनीयमयानि च ।
विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ २०॥
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ।
आधूपितानि पुष्पौघैर्वासितानि समन्ततः ॥ २१॥
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णकैः ।
घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ २२॥
कपिलासम्भवेनैव घृतेनातिसुगन्धिना ।
नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ २३॥
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ।
कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ २४॥
आसनानि च भद्राणि गजदन्तमयानि च ।
सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ २५॥
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ।
उच्चावचानि रम्याणि शयनानि सुखानि च ॥ २६॥
नद्यः समुद्रगामिन्या नदाद्वाम्भः समाहृतम् ।
शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ २७॥
छत्रं शशिनिभं चारु मुक्तादामविराजितम् ।
नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ २८॥
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ।
राजहंसद्वयाकारे रत्नदण्डोपशोभिते ॥ २९॥
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ।
समन्ताद्रत्नसञ्छन्नं स्रग्वरैश्चापि भूषितम् ॥ ३०॥
गम्भीरनिनदः शङ्खो हंसकुन्देन्दुसन्निभः ।
आस्यपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ३१॥
काहलानि च रम्याणि नानानादकराणि च ।
सुवर्णनिर्मितान्येव मौक्तिकालङ्कृतानि च ॥ ३२॥
भेरीमृदङ्गमुरजतिमिच्छपटहादयः ।
समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ३३॥
भाण्डान्यपि च रम्याणि पात्राण्यपि च कृत्स्नशः ।
तदाधाराणि सर्वाणि सौवर्णान्येव साधयेत् ॥ ३४॥
आलयं च महेशस्य शिवस्य परमात्मनः ।
राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ३५॥
उच्चप्राकारसम्भिन्नं भूधराकारगोपुरम् ।
अनेकरत्नसञ्च्छन्नं हेमद्वारकपाटकम् ॥ ३६॥
तप्तजाम्बूनदमयं रत्नस्तम्भशतावृतम् ।
मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ३७॥
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ।
अलङ्कृतशिरोभागमस्त्रराजेन चिह्नितम् ॥ ३८॥
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ।
प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समन्ततः ॥ ३९॥
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ।
अत्यन्तालङ्कृतप्रान्तमन्तरावरणैरिव ॥ ४०॥
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ।
वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ४१॥
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ।
अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ४२॥
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ।
वेदवेदान्ततत्त्वज्ञैः शिवशास्त्रपरायणैः ॥ ४३॥
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ।
शान्तैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ४४॥
शैवैर्माहेश्वरैश्चैव श्रीमद्भिः सेवितं द्विजैः ।
एवमन्तर्बहिर्वाथ यथाशक्तिविनिर्मितैः ॥ ४५॥
स्थाने शिलामये दान्ते दारवे चेष्टकामये ।
केवलं मृण्मये वापि पुण्यारण्येऽथवा गिरौ ॥ ४६॥
नद्यां देवालयेऽन्यत्र देशे वाथ गृहे शुभे ।
आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवञ्चयन् ।
द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्च्चयेत् ॥ ४७॥
अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्च्चयेत् ।
न तस्य प्रत्यवायोऽस्ति भाववश्यो यतः प्रभुः ॥ ४८॥
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ।
न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ४९॥
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ५०॥
भक्त्या प्रचोदितः कुर्यादल्पवित्तोऽपि मानवः ।
महाविभवसारोऽपि न कुर्याद् भक्तिवर्जितः ॥ ५१॥
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ।
न तेन फलभाक् स स्याद् भक्तिरेवात्र कारणम् ॥ ५२॥
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ।
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मिकाम् ॥ ५३॥
गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ।
शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ५४॥
शिवमन्त्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ।
दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ५५॥
भावहीनो नरः सर्वं कृत्वापि न विमुच्यते ।
भावयुक्तः पुनः सर्वमकृत्वापि विमुच्यते ॥ ५६॥
चान्द्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ।
मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ५७॥
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ।
तपन्ति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ५८॥
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ।
राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ५९॥
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ।
ऐहिकार्थं यजन्तीशं नराश्चान्येऽपि तादृशाः ॥ ६०॥
तामसं राजसं वापि सात्त्विकं भावमेव च ।
आश्रित्य भक्त्या पूजाद्यं कुर्वन् भद्रं समश्नुते ॥ ६१॥
यतः पापार्णवात् त्रातुं भक्तिर्नौरिव निर्मिता ।
तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ६२॥
अन्त्यजो वाधमो वापि मूर्खो वा पतितोऽपि वा ।
शिवं प्रपन्नश्चेत् कृष्ण पूज्यः सर्वसुरासुरैः ॥ ६३॥
तस्मात् सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ।
अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ६४॥
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ।
वेदैः शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ६५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ७.२.२५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.१६. षड्विंशोऽध्यायः । साङ्गोपाङ्गपूजाविधानवर्णनम् ।
उपमन्युरुवाच ।
ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः ।
मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ १॥
सम्पूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ।
तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ २॥
तस्मात् सर्वप्रयत्नेन पतितोऽपि यजेत् शिवम् ।
भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेद्रियः ॥ ३॥
कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ।
पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ४॥
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ।
तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ५॥
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ।
सोऽपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ६॥
तस्मात्तपांसि यज्ञाश्च सर्वे सर्वस्वदक्षिणाः ।
शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७॥
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण चेत् ।
पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ८॥
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ।
यः सकृत्पतितो वापि मूढो वा मुच्यते नरः ॥ ९॥
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ।
शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ १०॥
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ।
सब्रह्माङ्गेन वा तेन सहंसेन विमुच्यते ॥ ११॥
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ।
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ १२॥
येऽर्चयन्ति महादेवं विज्ञेयास्ते महेश्वराः ।
ज्ञानेनात्मसहायेन नार्चितो भगवान् शिवः ॥ १३॥
स चिरं संसरत्यस्मिन् संसारे दुःखसागरे ।
दुर्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ १४॥
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ।
दुर्लभं प्राप्य मानुष्यं येऽर्चयन्ति पिनाकिनम् ॥ १५॥
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ।
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ १६॥
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ।
भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ १७॥
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ।
ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये ॥ १८॥
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ।
सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ १९॥
शौर्यं वै जगति ख्यातिः शिवमर्चयतो भवेत् ।
तस्मात् सर्वं परित्यज्य शिवैकाहितमानसः ॥ २०॥
शिवपूजाविधिं कुर्याद्यदीच्छेत् शिवमात्मनः ।
त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ २१॥
त्वरितं व्याधिरभ्येति तस्मात् पूज्यः पिनाकधृक् ।
यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ २२॥
यावन्नेन्द्रियवैकल्यं तावत्पूजय शङ्करम् ।
न शिवार्चनतुल्योऽस्ति धर्मोऽन्यो भुवनत्रये ॥ २३॥
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ।
द्वारयागं ज वनिकां परिवारबलिक्रियाम् ॥ २४॥
नित्योत्सवं च कुर्वीत प्रासादे यदि पूजयेत् ।
हविर्निवेदनादूर्ध्वं स्वयं चानुचरोऽपि वा ॥ २५॥
प्रासादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ।
निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ २६॥
पुष्पं धूपं च दीपं च दद्यादन्नं जलैः सह ।
ततो दद्यात् महापीठे तिष्ठन् बलिमुदङ्मुखः ॥ २७॥
ततो निवेदितं देवे यत्तदन्नादिकं पुरा ।
तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ २८॥
हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ।
कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ २९॥
नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ।
विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ३०॥
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ।
शिरस्यारोप्य तत्पात्रं द्विजस्यालङ्कृतस्य च ॥ ३१॥
न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ।
प्रासादपरिवारेभ्यो बहिर्मङ्गलनिःस्वनैः ॥ ३२॥
नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ।
प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ३३॥
महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ।
पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ।
आदायाभ्यन्तरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ ३४॥
प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ।
आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ३५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे साङ्गोपाङ्गपूजाविधानवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.२.१६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२७. सप्तविंशोऽध्यायः । अग्निकार्यवर्णनम् ।
उपमन्युरुवाच ।
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिलेऽपि वा ।
वेद्यां वा ह्यायसे पात्रे मृण्मये वा नवे शुभे ॥ १॥
आधायाग्निं विधानेन संस्कृत्य च ततः परम् ।
तत्राराध्य महादेवं होमकर्मसमाचरेत् ॥ २॥
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ।
वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ३॥
कुण्डं विस्तारवन्निम्नं तन्मध्येऽष्टदलाम्बुजम् ।
चतुरङ्गुलमुत्सेधं तस्य द्व्यङ्गुलमेव वा ॥ ४॥
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ।
मध्ये च मध्यमाङ्गुल्या मध्यमोत्तमपर्वणोः ॥ ५॥
अङ्गुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ।
मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ६॥
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ।
अश्वत्थपत्रवद्योनिं गजाधरवदेव वा ॥ ७॥
झमेखलामध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा ।
शोभनामग्रतः किञ्चिन्निम्नामुन्मीलिकां शनैः ॥ ८॥
अग्रेण कुण्डाभिमुखीं किञ्चिदुत्सृज्य मेखलाम् ।
नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ९॥
मण्डलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ।
कुण्डं च मृण्मयं वेदिमालिम्पेद् गोमयाम्बुना ॥ १०॥
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदम्भसा ।
स्वसूत्रोक्तप्रकारेण कुण्डादौ विलिखेत्ततः ॥ ११॥
सम्प्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ।
अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ १२॥
प्रक्षाल्य क्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ।
मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ १३॥
अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ।
त्रिःप्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ १४॥
बह्निबीजं समुच्चार्य त्वादधीताग्निमासने ।
योनिमार्गेण वा तद्वदात्मनः सम्मुखेन वा ॥ १५॥
योनिप्रदेशगः सर्वं कुण्डं कुर्याद्विचक्षणः ।
स्वनाभ्यन्तःस्थितं वह्निं तद्रन्ध्नाद्विस्फुलिङ्गवत् ॥ १६॥
निर्गम्य पावके बाह्ये लीनं बिम्बाकृतिं स्मरेत् ।
आज्यसंस्कारपर्यन्तमन्वाधानपुरःसरम् ॥ १७॥
स्वसूत्रोक्तक्रमात्कुर्यात् मूलमन्त्रेण मन्त्रवित् ।
शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ १८॥
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ।
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ १९॥
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ।
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ २०॥
सम्मृज्य दर्भैस्तौ वह्नौ सन्ताप्य प्रोक्षयेत्पुनः ।
परिषिच्य स्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ २१॥
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ।
भ्रुं स्तुं ब्रुं श्रुं क्रमेणैव पुं ड्रुं द्रुं इत्यतः परम् ॥ २२॥
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ।
त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ २३॥
तस्याः शिखा दक्षिणतो ज्वलन्ती वामतः परा ।
हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता ॥ २४॥
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ।
अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ २५॥
स्वबीजानन्तरं वाच्या स्वाहान्तञ्च यथाक्रमम् ।
जिह्वामन्त्रैस्तु हुत्वाज्यं जिह्वास्त्वैकैकशः क्रमात् ॥ २६॥
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ।
सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ २७॥
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ।
तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ।
दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥ २८॥
ताः पालाश्यः परा वापि यज्ञिया द्वादशाङ्गुलाः ।
अवक्रा न स्वयं शुष्काः सत्वचो निर्व्रणाः समाः ॥ २९॥
दशाङ्गुला वा विहिताः कनिष्ठाङ्गुलिसम्मिताः ।
प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ३०॥
दूर्वापत्रसमाकारां चतुरङ्गुलमायताम् ।
दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ३१॥
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ।
सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ३२॥
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ।
होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ३३॥
स्रुवेणाज्यं समित्याद्यास्रुचा शेषात्करेण वा ।
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ३४॥
द्रव्येणैकेन वालाभे जुहुयात् श्रद्धया पुनः ।
प्रायश्चित्ताय जुहुयान्मन्त्रयित्वाहुतित्रयम् ॥ ३५॥
ततो होमावशिष्टेन घृतेनापूर्य वै स्रुचम् ।
निधाय पुष्पं तस्याग्रे स्रुवेणाधोमुखेन ताम् ॥ ३६॥
सदर्भेन समाच्छाद्य मूलेनाञ्जलिनोत्थितः ।
वौषडन्तेन जुहुयाद्धारां तु यवसम्मिताम् ॥ ३७॥
इत्थं पूर्णाहुतिं कृत्वा परिषिञ्चेच्च पूर्ववत् ।
तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ३८॥
तमप्युद्वास्य वा नाभौ यजेत्सन्धाय नित्यशः ।
अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ३९॥
वागीशीगर्भसम्भूतं संस्कृत्य विधिवद्यजेत् ।
अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ४०॥
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ।
संशोध्य प्रोक्षणीपात्रं प्रोक्ष्य तानि तदम्भसा ॥ ४१॥
प्रणीतापात्रमैशान्यां विन्यस्यापूरितं जलैः ।
आज्यसंस्कारपर्यन्तं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ४२॥
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ।
कृत्वा पृथक् पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ४३॥
त्रिपादं सप्तहस्तं च चतुःशृङ्गं द्विशीर्षकम् ।
मधुपिङ्गं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ४४॥
रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम् ।
सर्वलक्षणसम्पन्नं सोपवीतं त्रिमेखलम् ॥ ४५॥
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ।
तोमरं तालवृन्तं च घृतपात्रं तथेतरैः ॥ ४६॥
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ।
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ४७॥
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरःसरम् ।
पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ४८॥
आप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ।
आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ४९॥
रमित्यनेन बीजेन परिषिञ्चेत्ततः परम् ।
ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ५०॥
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ।
धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ५१॥
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ।
कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ५२॥
सम्पूज्य देवं देवीं च ततः पूर्णान्तमाचरेत् ।
अथवा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ५३॥
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ।
शिवाग्नेर्भस्म सङ्ग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ५४॥
वैवाहाग्निभवं वापि पक्वं शुचि सुगन्धि च ।
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ५५॥
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ।
उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ५६॥
पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रतः ।
अपक्वमतिपक्वं च सन्त्यज्य भसितं सितम् ॥ ५७॥
आदाय वा समालोड्य भस्माधारे विनिःक्षिपेत् ।
तैजसं दारवं वापि मृण्मयं शैलमेव च ॥ ५८॥
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ।
समे देशे शुभे शुद्धे धनवद्भस्म निःक्षिपेत् ॥ ५९॥
प्रस्थितो भस्म गृह्णीयात् स्वयं चानुचरोऽपि वा ।
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ।
न संस्पृशेच्च नीचाङ्गैर्नोपेक्षेत न लङ्घयेत् ॥ ६०॥
तस्माद्भसितमादाय विनियुञ्जीत मन्त्रतः ।
कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ६१॥
भस्मसङ्ग्रहणं कुर्याद्देवेऽनुद्वासिते सति ।
उद्वासने कृते यस्माच्चण्डभस्म प्रजायते ॥ ६२॥
अग्निकार्ये कृते पश्चात् शिवशास्त्रोक्तमार्गतः ।
स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ६३॥
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ।
विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ६४॥
विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ।
तत्रासनवरं कृत्वा पुष्पाद्यैर्गुरुमर्चयेत् ॥ ६५॥
ततोऽनुपूजयेत् पूज्यान् भोजयेच्च बुभुक्षितान् ।
ततः स्वयं च भुञ्जीत शुद्धमन्नं यथासुखम् ॥ ६६॥
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ।
श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ६७॥
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ।
न तु तत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ६८॥
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ।
कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ६९॥
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ।
शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७०॥
भक्ष्यभोज्याम्बरालेपपुष्पमालादिकं तथा ।
मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७१॥
ततो देवस्य देव्याश्च पादमूले शुचिः स्वपेत् ।
गृहस्थो भार्यया सार्द्धं तदन्येऽपि तु केवलाः ॥ ७२॥
प्रत्यूषसमयं बुद्ध्वा मन्त्रमाद्यमुदीरयेत् ।
प्रणम्य मनसा देवं साम्बं सगणमव्ययम् ॥ ७३॥
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ।
शङ्खादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७४॥
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगन्धिभिः ।
निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.२.२७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२८. अष्टाविंशोऽध्यायः । नित्यनैमित्तिकविधिवर्णनम् ।
उपमन्युरुवाच ।
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ।
शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ १॥
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ।
अष्टभ्यां च चतुर्दश्यां तथा पर्वणि च क्रमात् ॥ २॥
अयने विषुवे चैव ग्रहणेषु विशेषतः ।
कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ३॥
मासि मासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ।
स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ४॥
ब्रह्महत्यादिदोषाणामतीव महतामपि ।
निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ५॥
पौषे तु पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ।
माघे मघाख्ये नक्षत्रे प्रदद्याद् घृतकम्बलम् ॥ ६॥
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ।
चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७॥
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ।
ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ८॥
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ।
श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ९॥
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ।
प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ १०॥
आश्वयुज्यां ततो दद्यात्पायसं च नवौदनम् ।
अग्निकार्यं च तेनैव कुर्यात् शतभिषग्दिने ॥ ११॥
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ।
मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेत् शिवम् ॥ १२॥
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ।
आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ १३॥
आवृत्तेऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ।
दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ १४॥
उत्पाते वाशुभेऽन्यस्मिन् रोगे वा प्रबलेऽथवा ।
स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ १५॥
निमित्तानुगुणाः कार्याः पुरश्चरणपूर्विकाः ।
शिवानले च विहते पुनः सन्धानमाचरेत् ॥ १६॥
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ।
तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ १७॥
एतद्यथोत्तरं कुर्यात् नित्यनैमित्तिकेषु यः ।
दिव्यं श्रीकण्ठनाथस्य स्थानमाद्यं स गच्छति ॥ १८॥
तत्र भुक्त्वा महाभोगान् कल्पकोटिशतं नरः ।
कालान्तरे च्युतस्तस्मादौमं कौमारमेव च ॥ १९॥
सम्प्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ।
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ २०॥
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ।
श्रीकण्ठाज्ज्ञानमासाद्य तस्मात् शैवपुरं व्रजेत् ॥ २१॥
अर्द्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ।
पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ २२॥
अर्द्धार्द्धचरितो यस्तु देही देहक्षयात्परम् ।
अण्डान्तं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ २३॥
सम्प्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ।
अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ २४॥
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ।
तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ २५॥
पशुधर्मान् परित्यज्य शिवधर्मरतो भवेत् ।
तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ २६॥
भोगांश्च विविधान् भुक्त्वा विद्येश्वरपदं व्रजेत् ।
तत्र विद्येश्वरैःसार्द्धं भुक्त्वा भोगान् बहून् क्रमात् ॥ २७॥
अण्डस्यान्तर्बहिर्वाथ सकृदावर्तते पुनः ।
ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ २८॥
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ।
यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ २९॥
शिवधर्मानसौ कुर्वन्नकुर्वन् वापि मुच्यते ।
एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ३०॥
न पुनश्चक्रवर्ती स्यात् शिवधर्माधिकारवान् ।
तस्मात् शिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ३१॥
शिवधर्मे मतिं कुर्यात् श्रेयसे चेत्कृतोद्यमः ।
नात्र निर्बन्धयिष्यामो वयं कञ्चन केनचित् ॥ ३२॥
निर्बन्धेभ्योऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ।
रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ३३॥
संसारकारणं येषां न प्ररोढुमलं भवेत् ।
प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ३४॥
शिवधर्मेऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ३५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.२.२८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.२९. एकोनत्रिंशत्तमोऽध्यायः । काम्यकर्मवर्णनम् ।
श्रीकृष्ण उवाच ।
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ।
स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ १॥
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ।
काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ २॥
उपमन्युरुवाच ।
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ।
ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ३॥
किञ्चित् क्रियामयं कर्म किञ्चित् कर्म तपोमयम् ॥ ४॥
जपध्यानमयं किञ्चित् किञ्चित् सर्वमयं तथा ।
क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ५॥
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ।
शक्तिश्चाज्ञा महेशस्य शिवस्य परमात्मनः ॥ ६॥
तस्मात् काम्यानि कर्माणि कुर्यादाज्ञाधरो द्विजः ।
अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७॥
शैवैर्माहेश्वरैश्चैव कार्यमन्तर्बहिः क्रमात् ।
शिवो महेश्वरश्चेति नात्यन्तमिह भिद्यते ॥ ८॥
यथा तथा न भिद्यन्ते शैवा माहेश्वरा अपि ।
शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ९॥
माहेश्वराः समाख्याताः कर्मयज्ञरता भुवि ।
तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा बहिः ॥ १०॥
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ।
परीक्ष्य भूमिं विधिवद् गन्धवर्णरसादिभिः ॥ ११॥
मनोऽभिलषिते तत्र वितानवितताम्बरे ।
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ॥ १२॥
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ।
एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ १३॥
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ।
रत्नहेमादिभिश्चूर्णैर्यथासम्भवसम्भृतैः ॥ १४॥
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ।
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ १५॥
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ।
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ १६॥
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।
कर्णिकोपरि चाग्नेयं मण्डलं सौरमैन्दवम् ॥ १७॥
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ।
सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ १८॥
पञ्चावरणसंयुक्तं पूजयेदम्बया सह ।
शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ॥ १९॥
विद्युद्वलयसङ्काशजटामुकुटभूषितम् ।
शार्दूलचर्मवसनं किञ्चित्स्मितमुखाम्बुजम् ॥ २०॥
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥ २१॥
दिव्यायुधवरैर्युक्तं दिव्यगन्धानुलेपनम् ।
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ २२॥
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ।
त्रिलोचनारविन्दाढ्यं कृतबालेन्दुशेखरम् ॥ २३॥
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ।
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ २४॥
दंष्ट्राकरालं दुर्द्धर्षं स्फुरिताधरपल्लवम् ।
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ २५॥
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ।
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ २६॥
चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् ।
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ॥ २७॥
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ।
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ २८॥
सव्ये च नागनाराचघण्टापाशाङ्कुशोज्ज्वलम् ।
निवृत्त्या जानुसम्बद्धमानाभेश्च प्रतिष्ठया ॥ २९॥
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ३०॥
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ।
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ३१॥
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।
सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ३२॥
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ।
ऊँ काराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ३३॥
तथेच्छात्मिकया शक्त्या समारूढाङ्कमण्डलम् ।
ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ३४॥
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ।
मूर्तिं मूलेन सङ्कल्प्य सकलीकृत्य च क्रमात् ॥ ३५॥
सम्पूज्य च यथान्यायमर्घान्तं मूलविद्यया ।
मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ३६॥
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ।
पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ३७॥
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ३८॥
शान्तेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ।
पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ३९॥
पाद्यादिमुखवासान्तं कृत्वा प्रस्थापनं विना ।
पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ४०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ ७.२.२९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३०. त्रिंशोऽध्यायः । शैवानां काम्यकर्मवर्णनम् ।
तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ।
गन्धाद्यैरर्चयेत् पूर्वं देवौ हेरम्बषण्मुखौ ॥ १॥
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ।
सशक्तिकानि सद्यान्तं प्रथमावरणे यजेत् ॥ २॥
षडङ्गान्यपि तत्रैव हृदयादीन्यनुक्रमात् ।
शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ३॥
तत्र वामादिकान् रुद्रानष्टौ वामादिशक्तिभिः ।
अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ४॥
प्रथमावरणं प्रोक्तं मया ते यदुनन्दन ।
द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ५॥
अनन्तं पूर्वदिक्पत्रे तच्छक्तिं तस्य वामतः ।
सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ६॥
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ।
तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७॥
एकरुद्रं च तच्छक्तिं पश्चादीशदलेऽर्चयेत् ।
त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ८॥
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ।
तथैव मारुते पत्रे शिखण्डीशं समर्चयेत् ॥ ९॥
द्वितीयावरणे चेज्याः सर्वर्तश्चक्रवर्तिनः ।
तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ १०॥
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ।
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ११॥
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ।
अनन्तरं ततश्चैव महादेवादयः क्रमात् ।
शक्तिभिः सह सम्पूज्यास्तत्रैकादशमूर्तयः ॥ १२॥
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ १३॥
कपर्दीशश्च कथ्यन्ते तथैकादशशक्तयः ।
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ १४॥
देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ।
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ १५॥
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ।
नन्दिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ १६॥
शास्तारं वह्निदिक्पत्रे मातृर्दक्षिणदिग्दले ।
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ १७॥
ज्येष्ठां वायुदले गौरीमुत्तरे चण्डमैश्वरे ।
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ १८॥
महाकालस्योत्तरतः पिङ्गलं तु समर्चयेत् ।
शास्तृमातृसमूहस्य मध्ये भृङ्गीश्वरं ततः ॥ १९॥
मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ।
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ २०॥
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ।
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ २१॥
गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ।
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ २२॥
रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ।
शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ २३॥
एवं तृतीयावरणं वितते पूजिते सति ।
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ २४॥
भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ।
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ २५॥
चतुर्णामपि देवानां पृथगावरणान्यथ ।
तस्याङ्गानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ २६॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ।
अमोघा विद्युता चैव पूर्वादिपरितः स्थिताः ॥ २७॥
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ।
पूर्वाद्युत्तरपर्यन्ताः शक्तयश्च ततः परम् ॥ २८॥
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ २९॥
विस्तारा पूर्वदिग्भागे सुतारा दक्षिणे स्थिता ।
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ ३०॥
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ।
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ३१॥
सोममङ्गारकं चैव बुधं बुद्धिमतां वरम् ।
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ३२॥
शनैश्चरं तथा राहुं केतुं धूम्रं भयङ्करम् ।
समन्ततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ३३॥
अथवा द्वादशादित्यान् द्वितीयावरणे यजेत् ।
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ३४॥
सप्तसप्त गणांश्चैव बहिस्तस्य समन्ततः ।
ऋषीन्देवांश्च गन्धर्वान्पन्नगानप्सरोगणान् ॥ ३५॥
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ।
सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ३६॥
एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ।
ब्रह्माणमर्चयेत्पश्चात् त्रिभिरावरणैः सहः ॥ ३७॥
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ।
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ ३८॥
हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ।
कालो जात्यञ्जनप्रख्यः पुरुषः स्फटिकोपमः ॥ ३९॥
त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ।
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ ४०॥
द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ।
सनत्कुमारः सनकः सनन्दश्च सनातनः ॥ ४१॥
तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ।
अष्टौ पूर्वाश्च पूर्वादौ त्रीन् प्राक्पश्चादनुक्रमात् ॥ ४२॥
दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथाङ्गिराः ।
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ ४३॥
वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ।
तेषां भार्य्याश्च तैः सार्द्धं पूजनीया यथाक्रमम् ॥ ४४॥
प्रसूतिश्च तथाऽऽकूतिः ख्यातिः सम्भूतिरेव च ।
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ ४५॥
देवमातारुन्धती च सर्वाः खलु पतिव्रताः ।
शिवार्चनरता नित्यं श्रीमत्यः प्रियदर्शनाः ॥ ४६॥
प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ।
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ ४७॥
तृतीयावरणे पश्चाद्धर्मशास्त्रपुरःसराः ।
वैदिक्यो निखिला विद्याः पूज्या एव समन्ततः ॥ ४८॥
पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ।
अष्टधा वा चतुर्धा वा कृत्वा पूजां समन्ततः ॥ ४९॥
एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ।
दक्षिणे पश्चिमे पश्चाद् रुद्रं सावरणं यजेत् ॥ ५०॥
तस्य ब्रह्मषडङ्गानि प्रथमावरणं स्मृतम् ।
द्वितीयावरणं चैव विद्येश्वरमयं तथा ॥ ५१॥
तृतीयावरणे भेदो विद्यते स तु कथ्यते ।
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ५२॥
त्रिगुणाः सकलो देवः पुरस्ताच्छिवसंज्ञकः ।
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ५३॥
तामसः पश्चिमे चाग्निः पूज्यः संहारको हरः ।
सात्त्विकः सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ५४॥
एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ।
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुण्ठमर्चयेत् ॥ ५५॥
वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ।
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ ५६॥
सौम्ये सङ्कर्षणं पश्चाद् व्यत्यस्तौ वा यजेदिमौ ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ ५७॥
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामश्चान्यतमः कृष्णो भवानश्वमुखोऽपि च ॥ ५८॥
तृतीयावरणे चक्रं पूर्वभागे समर्चयेत् ।
नारायणाख्यां याम्येऽस्त्रं क्वचिदव्याहतं यजेत् ॥ ५९॥
पश्चिमे पाञ्चजन्यं च शार्ङ्गं धनुरथोत्तरे ।
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ ६०॥
महाविष्णुं सदाविष्णुं मूर्त्तीकृत्य समर्चयेत् ।
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ।
पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ६१॥
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ।
गणाम्बिकां च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ६२॥
एवं भान्वादिमूर्त्तीनां तच्छक्तीनामनन्तरम् ।
पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ६३॥
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ।
वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ६४॥
एवं चतुर्थावरणं पूजयित्वा विधानतः ।
आयुधानि महेशस्य पश्चाद् ब्राह्ये समर्चयेत् ॥ ६५॥
श्रीमत् त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ।
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ६६॥
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ।
अङ्कुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ६७॥
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।
पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ६८॥
सर्वावरणदेवानां बहिर्वा पञ्चमेऽथवा ।
पञ्चमे मातृभिः सार्द्धं महोक्षं पुरतो यजेत् ॥ ६९॥
ततः समन्ततः पूज्याः सर्वा वै देवयोनयः ।
खेचरा ऋषयः सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७०॥
अनन्ताद्याश्च नागेन्द्रा नागैस्तत्तत्कुलोद्भवैः ।
डाकिनी भूतवेतालप्रेतभैरवनायकाः ॥ ७१॥
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ।
नद्यः समुद्रा गिरयः काननानि सरांसि च ॥ ७२॥
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ।
नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७३॥
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ।
बहिरण्डान्यसङ्ख्यानि भुवनानि सहाधिपैः ॥ ७४॥
ब्रह्माण्डाधारका रुद्रा दशदिक्षु व्यवस्थिताः ।
यद्गौणं यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७५॥
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ।
तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७६॥
कृताञ्जलिपुटाः सर्वेऽचिन्त्याः स्मितमुखास्तथा ।
प्रीत्या सम्प्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७७॥
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ।
पुनरभ्यर्च्य देवेशं पञ्चाक्षरमुदीरयेत् ॥ ७८॥
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ।
सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७९॥
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ।
साधयित्वा यथासम्पच्छ्रद्धया विनिवेदयेत् ॥ ८०॥
ततो निवेद्य पानीयं ताम्बूलं चोपदंशकैः ।
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ८१॥
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ।
वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ८२॥
शठस्योपेक्षकस्यापि व्यङ्गं चैवानुतिष्ठतः ।
न फलन्त्येव कर्माणि काम्यानीति सतां कथा ॥ ८३॥
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वाङ्गयोगतः ।
कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ८४॥
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ।
भक्त्या मनः समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ८५॥
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ।
जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ८६॥
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ।
यथोदयं यथाश्रद्धं सदस्यानपि पूजयेत् ॥ ८७॥
तत उद्वास्य देवेशं सर्वैरावरणैः सह ।
मण्डलं गुरवे दद्याद्यागोपकरणैः सह ॥ ८८॥
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ।
अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ८९॥
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ।
समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ९०॥
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ।
न तस्मादधिकः कश्चिद्यागोऽस्ति भुवने क्वचित् ॥ ९१॥
न तदस्ति जगत्यस्मिन्नसाध्यं यदनेन तु ।
ऐहिकं वा फलं किञ्चिदामुष्मिकफलं तु वा ॥ ९२॥
इदमस्य फलं नेदमिति नैव नियम्यते ।
श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ९३॥
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ।
चिन्तामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ९४॥
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ।
लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ९५॥
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ।
महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ९६॥
तस्मादनन्यलभ्येषु शत्रुमृत्युञ्जयादिषु ।
फलेषु दृष्टादृष्टेषु कुर्य्यादेतद्विचक्षणः ॥ ९७॥
महत्स्वपि च पापेषु महारोगभयादिषु ।
दुर्भिक्षादिषु शान्त्यर्थं शान्तिं कुर्य्यादनेन तु ॥ ९८॥
बहुना किं प्रलापेन महाव्यापन्निवारकम् ।
आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ९९॥
तस्मादितः परं नास्ति परित्राणमिहात्मनः ।
इति मत्वा प्रयुञ्जानः कर्मेदं शुभमश्नुते ॥ १००॥
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ।
सोऽप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ १०१॥
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ।
अष्टाम्यां वा चतुर्दश्यां फलमर्द्धं समाप्नुयात् ॥ १०२॥
यस्त्वर्थमनुसन्धाय पर्वादिषु तथा व्रती ।
मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ १०३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकर्मवर्णनं नाम त्रिंशोऽध्यायः ॥ ७.२.३०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३१. एकत्रिंशोऽध्यायः । शिवमहास्तोत्रवर्णनम् ।
उपमन्युरुवाच ।
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ १॥
जय जय जगदेकनाथ शम्भो, प्रकृतिमनोहर नित्यचित्स्वभाव ।
अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ २॥
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ।
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ३॥
अनन्तकान्तिसम्पन्न जयासदृशविग्रह ।
अतर्क्यमहिमाधार जयानाकुलमङ्गल ॥ ४॥
निरञ्जन निराधार जय निष्कारणोदय ।
निरन्तरपरानन्द जय निर्वृतिकारण ॥ ५॥
जयातिपरमैश्वर्य जयातिकरुणास्पद ।
जय स्वतन्त्रसर्वस्व जयासदृशवैभव ॥ ६॥
जयावृतमहाविश्व जयानावृत केनचित् ।
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७॥
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ।
जयामेय जयामाय जयाभाव जयामल ॥ ८॥
महाभुज महासार महागुण महाकथ ।
महाबल महामाय महारस महारथ ॥ ९॥
नमः परमदेवाय नमः परमहेतवे ।
नमः शिवाय शान्ताय नमः शिवतराय ते ॥ १०॥
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ ११॥
अतस्त्वद्विहितामाज्ञां क्षमते कोऽतिवर्तितुम् ॥ १२॥
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ।
भवानतोऽनुगृह्यास्मै प्रार्थितं सम्प्रयच्छतु ॥ १३॥
जयाम्बिके जगन्मातर्जय सर्वजगन्मयि ।
जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ १४॥
जय वाङ्मनसातीते जयाचिद्ध्वान्तभञ्जिके ।
जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ १५॥
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ।
जय विश्वसुराराध्ये जय विश्वविजृम्भिणि ॥ १६॥
जय मङ्गलदिव्याङ्गि जय मङ्गलदीपिके ।
जय मङ्गलचारित्रे जय मङ्गलदायिनि ॥ १७॥
नमः परमकल्याणगुणसञ्चयमूर्तये ।
त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ १८॥
त्वद्विनातः फलं दातुमीश्वरोऽपि न शक्नुयात् ।
जन्मप्रभृति देवेशि जनोऽयं त्वदुपाश्रितः ॥ १९॥
अतोऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ।
पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ २०॥
वर्णब्रह्मकलादेहो देवः सकलनिष्कलः ।
शिवमूर्तिसमारूढः शान्त्यतीतः सदाशिवः ।
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ २१॥
सदाशिवाङ्कमारूढा शक्तिरिच्छा शिवाह्वया ।
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ २२॥
शिवयोर्दयितौ पुत्रौ देवौ हेरम्बषण्मुखौ ।
शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ २३॥
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ।
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ २४॥
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ।
स्वेच्छावतारं कुर्वन्तौ स्वांशभेदैरनेकशः ॥ २५॥
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ।
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ २६॥
शुद्धस्फटिकसङ्काशमीशानाख्यं सदाशिवम् ।
मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ २७॥
शिवार्चनरतं शान्तं शान्त्यतीतं खमास्थितम् ।
पञ्चाक्षरान्तिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ २८॥
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ २९॥
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ।
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ३०॥
शान्त्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ।
प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ३१॥
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३२॥
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ।
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ३३॥
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ।
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ३४॥
शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३५॥
कुङ्कुमक्षोदसङ्काशं वामाख्यं वरवेषधृक् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ३६॥
वारिमण्डलमध्यस्थं महादेवार्चने रतम् ।
तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ३७॥
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३८॥
शङ्खकुन्देन्दुधवलं सद्याख्यं सौम्यलक्षणम् ।
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ३९॥
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ।
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ४०॥
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ४१॥
शिवस्य तु शिवायाश्च हृन्मूर्त्ती शिवभाविते ।
तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ४२॥
शिवस्य च शिवायाश्च शिवामूर्त्ती शिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४३॥
शिवस्य च शिवायाश्च वर्मणी शिवभाविते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४४॥
शिवस्य च शिवायाश्च नेत्रमूर्त्ती शिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४५॥
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४६॥
वामो ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ।
बलो विकरणश्चैव बलप्रमथनः परः ॥ ४७॥
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ।
प्रार्थितं मे प्रयच्छन्तु शिवयोरेव शासनात् ॥ ४८॥
अथानन्तश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ॥ ४९॥
तथाष्टौ शक्तयस्तेषां द्वितीयावरणेऽर्चिताः ।
ते मे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ५०॥
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ।
महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ५१॥
शक्तिभिः सहिताः सर्वे तृतीयावरणे स्थिताः ।
सत्कृत्य शिवयोराज्ञां दिशन्तु फलमीप्सितम् ॥ ५२॥
वृषराजो महातेजा महामेघसमस्वनः ।
मेरुमन्दरकैलासहिमाद्रिशिखरोपमः ॥ ५३॥
सिताभ्रशिखराकारः ककुदा परिशोभितः ।
महाभोगीन्द्रकल्पेन वालेन च विराजितः ॥ ५४॥
रक्तास्यशृङ्गचरणो रक्तप्रायविलोचनः ।
पीवरोन्नतसर्वाङ्गः सुचारुगमनोज्ज्वलः ॥ ५५॥
प्रशस्तलक्षणः श्रीमान् प्रज्वलन्मणिभूषणः ।
शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ५६॥
तथा तच्चरणन्यासपावितापरविग्रहः ।
गोराजपुरुषः श्रीमान् श्रीमच्छूलवरायुधः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ५७॥
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ।
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वन्दितः ॥ ५८॥
शर्वस्यान्तःपुरद्वारि सार्धं परिजनैः स्थितः ।
सर्वेश्वरसमप्रख्यः सर्वासुरविमर्दनः ॥ ५९॥
सर्वेषां शिवधर्माणामध्यक्षत्वेऽभिषेचितः ।
शिवप्रियः शिवासक्तः श्रीमच्छूलवरायुधः ॥ ६०॥
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ।
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ ६१॥
महाकालो महाबाहुर्महादेव इवापरः ।
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ ६२॥
शिवप्रियः शिवासक्तः शिवयोरर्चकः सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ६३॥
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्णोः परा तनुः ।
महामोहात्मतनयो मधुमांसासवप्रियः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ६४॥
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चण्डविक्रमा ॥ ६५॥
एता वै मातरः सप्त सर्वलोकस्य मातरः ।
प्रार्थितं मे प्रयच्छन्तु परमेश्वरशासनात् ॥ ६६॥
मत्तमातङ्गवदनो गङ्गोमाशङ्करात्मजः ।
आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः ॥ ६७॥
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ।
शिवज्ञानमदोद्भिन्नस्त्रिदशानामविघ्नकृत् ॥ ६८॥
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ६९॥
षण्मुखः शिवसम्भूतः शक्तिवज्रधरः प्रभुः ।
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७०॥
गङ्गायाश्च गणाम्बायाः कृत्तिकानां तथैव च ।
विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७१॥
इन्द्रजिच्चन्द्रसेनानीस्तारकासुरजित्तथा ।
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७२॥
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ।
कुमारः सुकुमाराणां रूपोदाहरणं महत् ॥ ७३॥
शिवप्रियः शिवासक्तः शिवपदार्चकः सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ७४॥
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजने रता ।
तयोराज्ञां पुरस्कृत्य सा मे दिशतु काङ्क्षितम् ॥ ७५॥
त्रैलोक्यवन्दिता साक्षादुल्काकारा गणाम्बिका ।
जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणाभ्यर्थिता शिवात् ॥ ७६॥
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिःसृताः ।
दाक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७७॥
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ।
अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७८॥
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ।
सत्कृत्य शिवयोराज्ञां सा मे दिशतु काङ्क्षितम् ॥ ७९॥
चण्डः सर्वगणेशानः शम्भोर्वदनसम्भवः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ८०॥
पिङ्गलो गणपः श्रीमान् शिवासक्तः शिवप्रियः ।
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ८१॥
भृङ्गीशो नाम गणपः शिवराधनतत्परः ।
प्रयच्छतु स मे कामं पत्युराज्ञापुरःसरम् ॥ ८२॥
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः ।
भद्रकालीप्रियो नित्यं मातृणां चाभिरक्षिता ॥ ८३॥
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ।
उपेन्द्रेन्द्रयमादीनां देवानामङ्गतक्षकः ॥ ८४॥
शिवस्यानुचरः श्रीमान् शिवशासनपालकः ।
शिवयोः शासनादेव स मे दिशतु काङ्क्षितम् ॥ ८५॥
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ।
शिवयोः पूजने सक्ता स मे दिशतु काङ्क्षितम् ॥ ८६॥
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ।
शिवयोः शासनादेव सा मे दिशतु काङ्क्षितम् ॥ ८७॥
महामोटी महादेव्याः पादपूजापरायणा ।
तस्या एव नियोगेन सा मे दिशतु काङ्क्षितम् ॥ ८८॥
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ।
विष्णोर्निद्रा महामाया महामहिषमर्दिनी ॥ ८९॥
निशम्भशुम्भसंहर्त्री मधुमांसासवप्रिया ।
सत्कृत्य शासनं मातुः सा मे दिशतु काङ्क्षितम् ॥ ९०॥
रुद्रा रुद्रसमप्रख्याः प्रमथाः प्रथितौजसः ।
भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ९१॥
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ।
सशक्तयः सानुचराः सर्वलोकनमस्कृताः ॥ ९२॥
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ।
परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ९३॥
परस्परमतिस्निग्धाः परस्परनमस्कृताः ।
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ९४॥
सौम्या घोरास्तथा मिश्राश्चान्तरालद्वयात्मिकाः ।
विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ९५॥
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशन्तु वै ।
देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ९६॥
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ।
तृतीयावरणे शम्भोर्भक्त्या नित्यं समर्चितः ॥ ९७॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमण्डलः ॥ ९८॥
निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः ।
अविकारात्मकश्चाद्य एकः सामान्यविक्रियः ॥ ९९॥
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ १००॥
चतुर्थावरणे शम्भोः पूजितश्चानुगैः सह ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १०१॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
दिवाकरषडङ्गानि दीप्ताद्याश्चाष्टशक्तयः ॥ १०२॥
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ १०३॥
विस्तरा सुतरा बोधिन्याप्यायिन्यपराः पुनः ।
उषा प्रभा तथा प्राज्ञा सन्ध्या चेत्यपि शक्तयः ॥ १०४॥
सोमादिकेतुपर्यन्ता ग्रहाश्च शिवभाविताः ।
शिवयोराज्ञया नुन्ना मङ्गलं प्रदिशन्तु मे ॥ १०५॥
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ।
ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः ॥ १०६॥
ग्रामण्यश्च तथा यक्षा राक्षसाश्च सुरास्तथा ।
सप्त सप्तगणाश्चैते सप्तच्छन्दोमया हयाः ॥ १०७॥
वालखिल्यादयश्चैव सर्वे शिवपदार्चकाः ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १०८॥
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ।
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ १०९॥
निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः ।
अविकारात्मको देवस्ततः साधारणः पुरः ॥ ११०॥
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ १११॥
चतुर्थावरणे शम्भोः पूजितश्च सहानुगैः ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ११२॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः ॥ ११३॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ११४॥
एकादश सपत्नीका धर्मः सङ्कल्प एव च ।
शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ११५॥
शिवाज्ञावशगाः सर्वे दिशन्तु मम मङ्गलम् ।
चत्वारश्च तथा वेदाः सेतिहासपुराणकाः ॥ ११६॥
धर्मशास्त्राणि विद्याभिर्वैदिकीभिः समन्विताः ।
परस्पराविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ११७॥
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ।
अथ रुद्रो महादेवः शम्भोर्मूर्तिर्गरीयसी ॥ ११८॥
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान् प्रभुः ।
शिवाभिमानसम्पन्नो निर्गुणस्त्रिगुणात्मकः ॥ ११९॥
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ।
अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ १२०॥
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
ब्रह्मणोऽपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ १२१॥
जनकस्तनयश्चापि विष्णोरपि नियामकः ।
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ १२२॥
अण्डस्यान्तर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १२३॥
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ।
तस्य ब्रह्म षडङ्गानि विद्येशानां तथाष्टकम् ॥ १२४॥
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ।
शिवो भवो हरश्चैव मृडश्चैव तथापरः ।
शिवस्याज्ञां पुरस्कृत्य मङ्गलं प्रदिशन्तु मे ॥ १२५॥
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ।
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ १२६॥
निर्गुणः सत्त्वबहुलस्तथैव गुणकेवलः ।
अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ १२७॥
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
दक्षिणाङ्गभवेनापि स्पर्धमानः स्वयम्भुवा ॥ १२८॥
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ।
अण्डस्यान्तर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ १२९॥
असुरान्तकरश्चक्री शक्रस्यापि तथानुजः ।
प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ १३०॥
भूभारनिग्रहार्थाय स्वेच्छयावातरत् क्षितौ ।
अप्रमेयबलो मायी मायया मोहयन् जगत् ॥ १३१॥
मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ।
वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ १३२॥
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ॥ १३३॥
वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ।
सङ्कर्षणः समाख्याताश्चतस्रो मूर्तयो हरेः ॥ १३४॥
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ १३५॥
चक्रं नारायणस्यास्त्रं पाञ्चजन्यं च शार्ङ्गकम् ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३६॥
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ।
शिवयोः शासनादेता मङ्गलं प्रदिशन्तु मे ॥ १३७॥
इन्द्रोऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ।
वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ १३८॥
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३९॥
त्रिशूलमथ वज्रं च तथा परशुसायकौ ।
खड्गपाशाङ्कुशाश्चैव पिनाकश्चायुधोत्तमः ॥ १४०॥
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ।
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वन्तु मे सदा ॥ १४१॥
वृषरूपधरो देवः सौरभेयो महाबलः ।
वडवाख्यानलस्पर्द्धी पञ्चगोमातृभिर्वृतः ॥ १४२॥
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ १४३॥
नन्दा सुनन्दा सुरभिः सुशीला सुमनास्तथा ।
पञ्च गोमातरस्त्वेताः शिवलोके व्यवस्थिताः ॥ १४४॥
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ।
शिवयोः शासनादेव दिशन्तु मम वाञ्छितम् ॥ १४५॥
क्षेत्रपालो महातेजा नीलजीमूतसन्निभः ।
दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ १४६॥
रक्तोर्ध्वमूर्धजः श्रीमान् भृकुटीकुटिलेक्षणः ।
रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ १४७॥
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ।
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ १४८॥
क्षेत्रे क्षेत्रे समासीनः स्थितो यो रक्षकः सताम् ।
शिवप्रणामपरमः शिवसद्भावभावितः ॥ १४९॥
शिवाश्रितान् विशेषेण रक्षन् पुत्रानिवौरसान् ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ १५०॥
तालजङ्घादयस्तस्य प्रथमावरणेऽर्चिताः ।
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ १५१॥
भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः ।
तेऽपि मामनुगृह्णन्तु शिवशासनगौरवात् ॥ १५२॥
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ।
साध्या नागाश्च ये देवा जनलोकनिवासिनः ॥ १५३॥
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ।
सप्तर्षयस्तथान्ये वै वैमानिकगुणैः सह ॥ १५४॥
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ।
शिवयोराज्ञया मह्यं दिशन्तु समकाङ्क्षितम् ॥ १५५॥
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ।
सिद्धा विद्याधराद्याश्च येऽपि चान्ये नभश्चराः ॥ १५६॥
असुरा राक्षसाश्चैव पातालतलवासिनः ।
अनन्ताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ १५७॥
कूष्माण्डाः प्रेतवेताला ग्रहा भूतगणाः परे ।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ १५८॥
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ १५९॥
गिरयश्च सुमेर्वाद्याः काननानि समन्ततः ।
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ १६०॥
भुवनान्यपि सर्वाणि भुवनानामधीश्वराः ।
अण्डान्यावरणैः सार्धमासाश्च दश दिग्गजाः ॥ १६१॥
वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः ।
ब्रह्माण्डधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ १६२॥
यच्च किञ्चिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ।
सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ १६३॥
अथ विद्या परा शैवी पशुपाशविमोचिनी ।
पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ १६४॥
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ।
शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसम्मितम् ॥ १६५॥
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ।
शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ १६६॥
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६७॥
श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः ।
तत्सन्ततीया गुरवो विशेषाद् गुरवो मम ॥ १६८॥
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६९॥
लौकिका ब्राह्मणाः सर्वे क्षत्रियाश्च विशः क्रमात् ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १७०॥
साङ्ख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ।
सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ १७१॥
शिष्टाः सर्वे विशिष्टाश्च शिवशासनयन्त्रिताः ।
कर्मेदमनुमन्यन्तां ममाभिप्रेतसाधकम् ॥ १७२॥
शैवाः सिद्धान्तमार्गस्थाः शैवाः पाशुपतास्तथा ।
शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ १७३॥
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ।
सर्वे ममानुगृह्णन्तु शंसन्तु सफलक्रियाम् ॥ १७४॥
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ।
अविरोधेन वर्तन्तां मन्त्रं श्रेयोऽर्थिनो मम ॥ १७५॥
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ।
पाषण्डाश्चातिपापाश्च वर्तन्तां दूरतो मम ॥ १७६॥
बहुभिः किं स्तुतैरत्र येऽपि केऽपि चिदास्तिकाः ।
सर्वे मामनुगृह्णन्तु सन्तः शंसन्तु मङ्गलम् ॥ १७७॥
नमः शिवाय साम्बाय ससुतायादिहेतवे ।
पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ १७८॥
इत्युक्त्वा दण्डवद् भूमौ प्रणिपत्य शिवं शिवाम् ।
जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ १७९॥
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ।
कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ १८०॥
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयङ्गमम् ।
सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ १८१॥
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ।
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ १८२॥
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ।
शरणागतघाती च मित्रविश्रम्भघातकः ॥ १८३॥
दुष्टपापसमाचारो मातृहा पितृहापि वा ।
स्तवेनानेन जप्तेन तत्तत्पापात् प्रमुच्यते ॥ १८४॥
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ।
यदि सङ्कीर्तयेदेतन्न ततोऽनर्थभाग्भवेत् ॥ १८५॥
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ।
स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ १८६॥
असम्पूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ।
सम्पूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ १८७॥
आस्तामियं फलावाप्तिरस्मिन् सङ्कीर्तिते सति ।
सार्धमम्बिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ १८८॥
तस्मान्नभसि सम्पूज्य देवदेवं सहोमया ।
कृताञ्जलिपुटस्तिष्ठन् स्तोत्रमेतदुदीरयेत् ॥ १८९॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशोऽध्यायः ॥ ७.२.३१॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३२. द्वात्रिंशोऽध्यायः । ऐहिकसिद्धिकर्मवर्णनम् ।
उपमन्युरुवाच ।
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ।
क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ १॥
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ।
पूजाहोमजपध्यानतपोदानमयं महत् ॥ २॥
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ।
दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ३॥
सिद्धमन्त्रोऽप्यदृष्टेन प्रबलेन तु केनचित् ।
प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ४॥
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ।
परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ५॥
योऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ।
न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ६॥
अविस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ।
स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७॥
नापराधोऽस्ति देवस्य कर्मण्यपि तु निष्फले ।
यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ८॥
साधकः सिद्धमन्त्रश्च निरस्तप्रतिबन्धकः ।
विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ९॥
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ।
रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ १०॥
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ।
सदा भस्मानुलिप्ताङ्गः सुवेषश्च शुचिर्भवेत् ॥ ११॥
इत्थमाचारवान्भूत्वा स्वानुकूले शुभेऽहनि ।
पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलङ्कृते ॥ १२॥
आलिप्य शकृता भूमिं हस्तमानावरां यथा ।
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ १३॥
तप्तजाम्बूनदमयमष्टपत्रं सकेसरम् ।
मध्ये कर्णिकया युक्तं सर्वरत्नैरलङ्कृतम् ॥ १४॥
स्वाकारसदृशेनैव नालेन च समन्वितम् ।
तादृशे स्वर्णनिर्माणे कन्दे सम्यग्विधानतः ॥ १५॥
तत्राणिमादिकं सर्वं सङ्कल्प्य मनसा पुनः ।
रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ।
लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥ १६॥
तत्रावाह्य यजेद्देवं साम्बं सगणमव्ययम् ।
तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ १७॥
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ।
शार्दूलचर्मवसना किञ्चिद्विहसितानना ॥ १८॥
वरदाभयहस्ता च मृगटङ्कधरा तथा ।
अथवाष्टभुजा चिन्त्या चिन्तकस्य यथारुचि ॥ १९॥
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ।
वामे पाशाङ्कुशौ तद्वत्खेटं नागं च बिभ्रती ॥ २०॥
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ।
तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ २१॥
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ।
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ २२॥
पश्चिमं पूर्णचन्द्राभं सौम्यमिन्दुकलाधरम् ।
तदङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा ॥ २३॥
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ।
मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ २४॥
मूर्तिमन्तमथावाह्य यजेत्परमकारणम् ।
स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ २५॥
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ।
पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलङ्कृतम् ॥ २६॥
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ।
सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ २७॥
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ।
तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ २८॥
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ।
दुकूलाद्येन वस्त्रेण समाच्छाद्य समन्ततः ॥ २९॥
सर्वत्र मन्त्रं विन्यस्य तत्तन्मन्त्रपुरः सरम् ।
स्नानकाले तु सम्प्राप्ते सर्वमङ्गलनिःस्वनैः ॥ ३०॥
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ।
ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ३१॥
गन्धपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ।
उद्धृत्योद्धृत्य मन्त्रेण तैस्तैः स्नाप्य महेश्वरम् ॥ ३२॥
गन्धपुष्पादिदीपांश्च पूजाकर्म समाचरेत् ।
पलावरः स्यादालेप एकादशपलोत्तरः ॥ ३३॥
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ।
नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ३४॥
कमलानि च रक्तानि श्वेतान्यपि च शम्भवे ।
कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ३५॥
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ।
पञ्च ब्रह्मषडङ्गानि पूज्यान्यावरणानि च ॥ ३६॥
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ।
पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ३७॥
पञ्चसौगन्धिकोपेतं ताम्बूलं च सुसंस्कृतम् ।
सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ३८॥
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ।
दर्शनीयानि देयानि गानवाद्यादिभिः सह ॥ ३९॥
जपश्च मूलमन्त्रस्य लक्षः परमसङ्ख्यया ।
एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ४०॥
दशसङ्ख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ।
घोररूपश्शिवश्चिन्त्यो मारणोच्चाटनादिषु ॥ ४१॥
शिवलिङ्गे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ।
चिन्त्यः सौम्यतनुः शम्भुः कार्ये शान्तिकपौष्टिके ॥ ४२॥
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिसु कर्मसु ।
तदन्यत्र तु सौवर्णौ शान्तिकाद्येषु कृत्स्नशः ॥ ४३॥
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ।
चरुणा सघृतेनैव केवलं पयसापि वा ॥ ४४॥
जुहुयान्मृत्युविजये तिलै रोगोपशान्तये ।
घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ४५॥
समृद्धिकामो जुहुयान्महादारिद्र्यशान्तये ।
जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ४६॥
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ।
तैलेनोच्चाटनं कुर्यात्स्तम्भनं मधुना पुनः ॥ ४७॥
स्तम्भनं सर्षपेणापि लशुनेन तु पातनम् ।
ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ४८॥
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ।
विद्वेषणं च तैलेन कुर्याल्लाङ्गलकस्य तु ॥ ४९॥
बन्धनं रोहिबीजेन सेनास्तम्भनमेव च ।
रक्तसर्षपसम्मिश्रैर्होमद्रव्यैरशेषतः ॥ ५०॥
हस्तयन्त्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ।
कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ५१॥
सर्षपैस्तैलसम्मिश्रैर्जुहुयादाभिचारिके ।
ज्वरोपशान्तिदं क्षीरं सौभाग्यफलदं तथा ॥ ५२॥
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ।
क्षीरेण तन्दुलैश्चैव चरुणा केवलेन वा ॥ ५३॥
शान्तिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ।
द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ५४॥
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ।
बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ५५॥
समिधः शान्तिकार्येषु पालाशखदिरादिकाः ।
करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ५६॥
प्रशान्तः शान्तिकं कुर्यात्पौष्टिकं च विशेषतः ।
निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ५७॥
अतीव दुरवस्थायां प्रतीकारान्तरं न चेत् ।
आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ५८॥
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ।
यद्यास्तिकः सुधर्मिष्ठो मान्यो वा योऽपि कोऽपि वा ॥ ५९॥
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ।
मनसा कर्मणा वाचा योऽपि कोऽपि शिवाश्रितः ॥ ६०॥
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ।
कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ६१॥
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ।
न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ६२॥
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ।
पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ६३॥
बाणलिङ्गेऽपि वा कुर्यान्निर्धनो धनवानपि ।
स्वयम्भूतेऽथ वा लिङ्गे आर्षके वैदिकेऽपि वा ॥ ६४॥
अभावे हेमरत्नानामशक्तौ च तदर्जने ।
मनसैवाचरेदेतद् द्रव्यैर्वा प्रतिरूपकैः ॥ ६५॥
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ।
सोऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ६६॥
कर्मण्यनुष्ठितेऽप्यस्मिन्फलं यत्र न दृश्यते ।
द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ६७॥
पूजोपयुक्तं यद् द्रव्यं हेमरत्नाद्यनुत्तमम् ।
तत्सर्वं गुरवे दद्याद् दक्षिणां च ततः पृथक् ॥ ६८॥
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ।
अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ६९॥
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ।
सोऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७०॥
स्वयं गृह्णाति यो लोभात्पूजाङ्गद्रव्यमुत्तमम् ।
काङ्क्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७१॥
अर्चितं यत्तु तल्लिङ्गं गृह्णीयाद्वा न वा स्वयम् ।
गृह्णीयाद्यदि तन्नित्यं स्वयं वान्योऽपि वार्चयेत् ॥ ७२॥
यथोक्तमेव कर्मैतदाचरेद्योऽनपायतः ।
फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७३॥
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमाम् ।
अपि शत्रुभिराक्रान्तो व्याधिभिर्वाप्यनेकशः ॥ ७४॥
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ।
पूजायतेऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७५॥
कामायते विरूपोऽपि वृद्धोऽपि तरुणायते ।
शत्रुर्मित्रायते सद्यो विरोधी किङ्करायते ॥ ७६॥
विषायते यदमृतं विषमप्यमृतायते ।
स्थलायते समुद्रोऽपि स्थलमप्यर्णवायते ॥ ७७॥
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ।
पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७८॥
वनायते यदुद्यानं तदुद्यानायते वनम् ।
सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७९॥
स्त्रियोऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ।
स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ८०॥
स्वैराचारायते मेधा वज्रसूचीयते मनः ।
महावातायते शक्तिर्बलं मत्तगजायते ॥ ८१॥
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ।
शत्रुपक्षायतेऽरीणां सर्व एव सुहृज्जनः ॥ ८२॥
शत्रवः कुणपायन्ते जीवन्तोऽपि सबान्धवाः ।
आपन्नोऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ८३॥
रसायनायते नित्यमपथ्यमपि सेवितम् ।
अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ८४॥
अनागतादिकं सर्वं करस्थामलकायते ।
यादृच्छिकफलायन्ते सिद्धयोऽप्यणिमादयः ॥ ८५॥
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ।
अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ८६॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.२.३२॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३३. त्रयस्त्रिंशोऽध्यायः । आमुष्मिककर्मविधिवर्णनम् ।
उपमन्युरुवाच ।
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ।
नैतेन सदृशं किञ्चित्कर्मास्ति भुवनत्रये ॥ १॥
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ।
ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ २॥
इन्द्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ।
विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ३॥
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ।
नन्दीश्वरमहाकालभृङ्गीशाद्यैर्गणेश्वरैः ॥ ४॥
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ।
सिद्धैर्यक्षैश्च गन्धर्वै रक्षोभूतपिशाचकैः ॥ ५॥
स्वं स्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ।
अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ६॥
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ।
रुद्रो रुद्रत्वमापन्न इन्द्रश्चेन्द्रत्वमागतः ॥ ७॥
गणेशश्च गणेशत्वमनेन विधिना गतः ।
सितचन्दनतोयेन लिङ्गं स्नाप्य शिवं शिवाम् ।
श्वेतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च ॥ ८॥
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ।
विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ९॥
मध्ये केसरजालास्य स्थाप्य लिङ्गं कनीयसम् ।
अङ्गुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ १०॥
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ।
अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ११॥
उत्तरे चन्दनं दद्याद्धरितालं तु पूर्वतः ।
सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ १२॥
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ।
वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ १३॥
पायसं घृतसम्मिश्रं घृतदीपांश्च दापयेत् ।
सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ १४॥
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ।
सर्वोपहारसम्मिश्रं ततो लिङ्गं निवेदयेत् ॥ १५॥
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ।
एवं योऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ १६॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
एतद् व्रतोत्तमं गुह्यं शिवलिङ्गमहाव्रतम् ॥ १७॥
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ।
देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ १८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.२.३३॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३४. चतुस्त्रिंशोऽध्यायः । हरिविधिमोहवर्णनम् ।
उपमन्युरुवाच ।
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ।
सा सर्वा लभ्येत सद्यो लिङ्गबेरप्रतिष्ठया ॥ १॥
सर्वो लिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् ।
तस्मात्प्रतिष्ठिते लिङ्गे भवेत्सर्वं पतिष्ठितम् ॥ २॥
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ।
लिङ्गप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ३॥
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ।
पर्तिष्ठितं शिवेनापि लिङ्गं वैश्वेश्वरं यतः ॥ ४॥
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ।
स्थापयेत्परमेशस्य लिङ्गं बेरमथापि वा ॥ ५॥
श्रीकृष्ण उवाच ।
किमिदं लिङ्गमाख्यातं कथं लिङ्गी महेश्वरः ।
कथं च लिङ्गभावोऽस्य कस्मादस्मिञ्छिवोऽर्च्यते ॥ ६॥
उपमन्युरुवाच ।
अव्यक्तं लिङ्गमाख्यातं त्रिगुणप्रभवाप्ययम् ।
अनाद्यनन्तं विश्वस्य यदुपादानकारणम् ॥ ७॥
तदेव मूलप्रकृतिर्माया च गगनात्मिका ।
तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ८॥
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ।
ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ९॥
भूतानि चेन्द्रियैर्जाता लीयन्तेऽत्र शिवाज्ञया ।
अत एव शिवो लिङ्गो लिङ्गमाज्ञापयेद्यतः ॥ १०॥
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ।
ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ११॥
अनेन लिङ्गता तस्य भवेन्नान्येन केनचित् ।
लिङ्गं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ १२॥
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ।
लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः ॥ १३॥
तयोः सम्पूजनादेव स च सा च समर्चितौ ।
न तयोर्लिङ्गदेहत्वं विद्यते परमार्थतः ॥ १४॥
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ।
तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ १५॥
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ।
न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ १६॥
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ।
पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ १७॥
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ।
यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ १८॥
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ।
मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ १९॥
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ।
स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ २०॥
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ।
तमाह चान्तः सङ्क्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ २१॥
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ।
इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ २२॥
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ।
वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ २३॥
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ।
त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ २४॥
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ।
इत्युक्ते सति सोऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ २५॥
अहमेवादिकर्तास्य हर्ता च परिपालकः ।
भवानपि ममैवाङ्गादवतीर्णः पुराव्ययात् ॥ २६॥
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ।
सृजस्यवसि चान्ते तत्पुनः प्रतिसृजस्यपि ॥ २७॥
विस्मृतोऽसि जगन्नाथं नारायणमनामयम् ।
तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ २८॥
तवापराधो नास्त्यत्र भ्रान्तोऽसि मम मायया ।
मत्प्रसादादियं भ्रान्तिरपैष्यति तवाचिरात् ॥ २९॥
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ।
कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ३०॥
एवमेव विवादोऽभूद् ब्रह्मविष्ण्वोः परस्परम् ।
अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ३१॥
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ।
तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ३२॥
मध्ये समाविरभवल्लिङ्गमैश्वरमद्भुतम् ।
ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ३३॥
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ।
तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ३४॥
विसृज्य युद्धं किं त्वेतदित्यचिन्तयतां तदा ।
न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ३५॥
तदा समुद्यतौ स्यातां तस्याद्यन्तं परीक्षितुम् ॥ ३६॥
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ।
मनोऽनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ३७॥
नारायणोऽपि विश्वात्मा नीलाञ्जनचयोपमम् ।
वाराहममितं रूपमास्थाय गतवानधः ॥ ३८॥
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ।
नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः ॥ ३९॥
तावत्कालं गतश्चोर्ध्वं तस्यान्तं ज्ञातुमिच्छया ।
श्रान्तोऽत्यन्तमदृष्ट्वान्तं पापताधः पितामहः ॥ ४०॥
तथैव भगवान् विष्णुः श्रान्तः संविग्नलोचनः ।
क्लेशेन महता तूर्णमधस्तादुत्थितोऽभवत् ॥ ४१॥
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ।
मायया मोहितौ शम्भोः कृत्याकृत्यं न जग्मतुः ॥ ४२॥
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ।
प्रणिपत्य किमात्मेदमित्यचिन्तयतां तदा ॥ ४३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.२.३४॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३५. पञ्चत्रिंशोऽध्यायः । हरिविधिमोहनिवारणम् ।
उपमन्युरुवाच ।
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ।
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ १॥
तदप्यविदितं तावद् ब्रह्मणा विष्णुना तथा ।
रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ २॥
तदा विभक्तमभवच्चतुर्द्धैकं तदक्षरम् ।
अ उ मेति त्रिमात्राभिः परस्ताच्चार्द्धमात्रया ॥ ३॥
तत्राकारः श्रितो भागे ज्वलल्लिङ्गस्य दक्षिणे ।
उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ४॥
अर्धमात्रात्मको नादः श्रूयते लिङ्गमूर्धनि ।
विभक्तेऽपि तदा तस्मिन् प्रणवे परमाक्षरे ॥ ५॥
विभावार्थं च तौ देवौ न किञ्चिदवजग्मतुः ।
वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ६॥
तत्राकारो ऋगभवदुकारो यजुरव्ययः ।
मकारः साम सञ्जातो नादस्त्वाथर्वणी श्रुतिः ॥ ७॥
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ।
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ८॥
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ।
कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ९॥
लिङ्गभागेष्वधोभागं बीजाख्यं कारणत्रये ।
चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ १०॥
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ।
अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ११॥
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ।
स्थितिं लोकेष्वन्तरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ १२॥
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ।
मध्यं तु लिङ्गभागेषु योनिं च त्रिषु हेतुषु ॥ १३॥
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ।
ततोपस्थापयामास सामार्थं दशधात्मनः ॥ १४॥
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ।
संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ १५॥
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ।
लिङ्गभागेषु पीठोर्द्ध्वं बीजिनं कारणत्रये ॥ १६॥
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ।
अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ १७॥
ततो महेश्वरं साक्षात् मूर्तिष्वपि सदाशिवम् ।
क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ १८॥
भूतानुग्रहणं चैव मुच्यन्ते येन जन्तवः ।
लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ १९॥
तदूर्ध्वमुन्मनालोकात् सोमलोकमलौकिकम् ।
सोमः सहोमया यत्र नित्यं निवसतीश्वरः ॥ २०॥
तदूर्ध्वमुन्मनालोकाद्यं प्राप्तो न निवर्तते ।
शान्तिं च शान्त्यतीतां च व्यापिकां चै कलास्वपि ॥ २१॥
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ।
मूर्द्धानमपि लिङ्गस्य नादभागेष्वनुत्तमम् ॥ २२॥
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ।
तत्तेष्वपि तदा बिन्दोर्नादात् शक्तेस्ततः परात् ॥ २३॥
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ।
कारणेषु त्रयातीतान् मायाविक्षोभकारणात् ॥ २४॥
अनन्तात् शुद्धविद्यायाः परस्ताच्च महेश्वरात् ।
सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ २५॥
सर्वमन्त्रतनोर्देवात् शक्तित्रयसमन्वितात् ।
पञ्चवक्त्राद्दशभुजात् साक्षात् सकलनिष्कलात् ॥ २६॥
तस्मादपि पराद्बिन्दोरर्धेदोश्च ततः परात् ।
ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ २७॥
ततः परात् सुषुम्नेशाद् ब्रह्मरन्ध्रेश्वरादपि ।
ततः परस्मात् शक्तेश्च परस्तात् शिवतत्त्वतः ॥ २८॥
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ।
कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ २९॥
परमाकाशमध्यस्थं परमात्मोपरि स्थितम् ।
सर्वैश्वर्येण सम्पन्नं सर्वेश्वरमनीश्वरम् ॥ ३०॥
ऐश्वर्याच्चापि मायेयादशुद्धान् मानुषादिकात् ।
अपराच्च परात्त्याज्यादविशुद्धाध्वगोचरात् ॥ ३१॥
तत्परात् शुद्धविद्याद्यादुन्मनान्तात्परात्परात् ।
परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ३२॥
अपारमपराधीनं निरस्तातिशयं स्थिरम् ।
इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ३३॥
यस्माद् गरीयसी तस्माद्विश्वं व्याप्तमथर्वणा ।
ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ३४॥
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ।
यजुर्वेदोऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ३५॥
भोग्यात्मना परिणता विद्या वेद्या यतो मयि ।
साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ३६॥
ममार्थेन शिवेनेदं तामसेनाभिधीयते ।
अथर्वाह तुरीयाख्यं तुरीयातीतमेव च ॥ ३७॥
मयाभिधीयते तस्मादध्वातीतपदोऽस्म्यहम् ।
अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ३८॥
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ।
अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ३९॥
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ।
द्वयोः प्रमापको नादो नादान्तश्च मदात्मकः ॥ ४०॥
तस्मात् ममार्थस्वातन्त्र्यात् प्रधानः परमेश्वरः ।
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ॥ ४१॥
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ।
सर्वार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ४२॥
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ।
शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ४३॥
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ।
चिन्तया रहितो रुद्रो वाचो यन्मनसा सह ॥ ४४॥
अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः ।
एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ४५॥
एकाक्षरादुकाराख्याद् विद्या विष्णुरुदीर्यते ।
एकाक्षरान्मकाराख्यात् शिवो रुद्र उदाहृतः ॥ ४६॥
दक्षिणाङ्गान् महेशस्य जातो ब्रह्मात्मसंज्ञकः ।
वामाङ्गादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ४७॥
हृदयान्नीलरुद्रोऽभूच्छिवस्य शिवसंज्ञकः ।
सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ४८॥
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ४९॥
तस्मात्त्रयस्ते कथ्यन्ते जगतः कारणानि च ।
कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ५०॥
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ।
युवयोः प्रतिबोधाय मध्ये लिङ्गमुपस्थितम् ॥ ५१॥
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ।
ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ५२॥
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्थं वदत्स्वपि ।
स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ५३॥
तयोस्तत्र प्रबोधाय तमोपनयनाय च ।
लिङ्गेऽपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ५४॥
तद् दृष्ट्वा मुद्रितं लिङ्गे प्रसादाल्लिङ्गिनस्तदा ।
प्रशान्तमनसौ देवौ प्रबुद्धौ सम्बभूवतुः ॥ ५५॥
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ।
ततः परतरं धाम धामवन्तं च पूरुषम् ॥ ५६॥
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ।
पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ५७॥
अकुतोभयमत्यन्तमवृद्धिक्षयमव्ययम् ।
वाह्यमाभ्यन्तरं व्याप्तं बाह्याभ्यन्तरवर्जितम् ॥ ५८॥
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ।
अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ५९॥
प्रकाशैकरसं शान्तं प्रसन्नं सततोदितम् ।
सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ६०॥
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ।
रचयित्वाञ्जलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ६१॥
ब्रह्मोवाच ।
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ।
ईदृशीं भ्रान्तिमापन्न इति कोऽत्रापराध्यति ॥ ६२॥
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ।
निर्भयः कोऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ६३॥
आवयोर्देवदेवस्य विवादोऽपि हि शोभनः ।
पादप्रणामफलदो नाथस्य भवतो यतः ॥ ६४॥
विष्णुरुवाच ।
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ।
प्रभोरग्रे विधेयानां तूष्णीम्भावो व्यतिक्रमः ॥ ६५॥
किमत्र सङ्घटेत्कृत्यमित्येवावसरोचितम् ।
अजानन्नपि यत्किञ्चित् प्रलप्य त्वां नतोऽस्म्यहम् ॥ ६६॥
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ।
मोहितोऽहङ्कृतश्चापि पुनरेवास्मि शासितः ॥ ६७॥
विज्ञापितैः किं बहुभिर्भीतोऽस्मि भृशमीश्वर ।
यतोऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ६८॥
त्वामुशन्ति महादेवं भीतानामार्तिनाशनम् ।
अतो व्यतिक्रमं मेऽद्य क्षन्तुमर्हसि शङ्कर ॥ ६९॥
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ।
प्रीतोऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७०॥
ईश्वर उवाच ।
वत्स वत्स विधे विष्णो मायया मम मोहितौ ।
युवां प्रभुत्वेऽहङ्कृत्य बुद्धवैरौ परस्परम् ॥ ७१॥
विवादं युद्धपर्यन्तं कृत्वा नोपरतौ किल ।
ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७२॥
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ।
तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७३॥
एवं निवारितावद्यलिङ्गाविर्भावलीलया ।
तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७४॥
यथास्वं कर्म कुर्यातां भवन्तौ वीतमत्सरौ ।
पुरा ममाज्ञया सार्द्धं समस्तज्ञानसंहिताः ॥ ७५॥
युवाभ्यां हि मया दत्ताः कारणत्वप्रसिद्धये ।
मन्त्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७६॥
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ।
ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७७॥
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ।
एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७८॥
मन्त्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ।
तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७९॥
महार्थं मन्त्ररत्नं च तथैव सकलाः कलाः ।
दण्डवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ८०॥
अतिष्ठतां वीतभयावानन्दास्तिमितौ तदा ।
एतस्मिन्नन्तरे चित्रमिन्द्रजालवदैश्वरम् ॥ ८१॥
लिङ्गं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ।
ततो विलप्य हाहेति सद्यःप्रणयभङ्गतः ॥ ८२॥
किमद्भुतमिदं वृत्तमिति चोक्त्वा परस्परम् ।
अचिन्त्यवैभवं शम्भोर्विचिन्त्य च गतव्यथौ ॥ ८३॥
अभ्युपेत्य परां मैत्रीमालिङ्ग्य च परस्परम् ।
जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुङ्गवौ ॥ ८४॥
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ।
ऋषयश्च नरा नागा नार्यश्चापि विधानतः ।
लिङ्गप्रतिष्ठां कुर्वन्ति लिङ्गे तं पूजयन्ति च ॥ ८५॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.२.३५॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३६. षट्त्रिंशोऽध्यायः । प्रतिष्ठाविधिवर्णनम् ।
श्रीकृष्ण उवाच ।
भगवन् श्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ।
लिङ्गस्यापि च बेरस्य शिवेन विहितं यथा ॥ १॥
उपमन्युरुवाच ।
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ।
शिवशास्त्रोक्तमार्गेण कुर्याल्लिङ्गं प्रमाणवत् ॥ २॥
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ।
दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ३॥
तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् ।
स्थानशुद्ध्यादिकं कृत्वा लिङ्गं स्नानालयं नयेत् ॥ ४॥
शलाकया काञ्चनया कुङ्कुमादिरसाक्तया ।
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ५॥
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ।
लिङ्गं पिण्डिकया सार्द्धं पञ्चगव्यैश्च शोधयेत् ॥ ६॥
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ।
नीत्वाधिवासयेत्तत्र लिङ्गं पिण्डिकया सह ॥ ७॥
अधिवासालये शुद्धे सर्वशोभासमन्विते ।
सतोरणे सावरणे दर्भमालासमावृते ॥ ८॥
दिग्गजाष्टकसम्पन्ने दिक्पालाष्टघटान्विते ।
अष्टमङ्गलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ९॥
तैजसं दारवं वापि कृत्वा पद्मासनाङ्कितम् ।
विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ १०॥
द्वारपालान् समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ।
सुभद्रश्च विभद्रश्च सुनन्दश्च विनन्दकः ॥ ११॥
स्नापयित्वा समभ्यर्च्य लिङ्गं वेदिकया सह ।
सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्य समन्ततः ॥ १२॥
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ।
प्राक् शिरस्कमधः सूत्रं पिण्डिकां चास्य पश्चिमे ॥ १३॥
सर्वमङ्गलसंयुक्तं लिङ्गं तत्राधिवासयेत् ।
पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ १४॥
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ।
सम्पूज्योत्सवमार्गेण शयनालयमानयेत् ॥ १५॥
तत्रापि शयनस्थानं कुर्यात् मण्डलमध्यतः ।
शुद्धैर्जलैः स्नापयित्वा लिङ्गमभ्यर्चयेत्क्रमात् ॥ १६॥
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ।
शिवकुम्भं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ १७॥
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ।
तस्य पश्चिमतश्चापि चण्डिकापद्ममालिखेत् ॥ १८॥
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ।
प्रकल्प्य शयनं तस्मिन् हेमपुष्पं विनिक्षिपेत् ॥ १९॥
तत्र लिङ्गं समानीय सर्वमङ्गलनिःस्वनैः ।
रक्तेन वस्त्रयुग्मेन सकूर्चेन समन्ततः ॥ २०॥
सह पिण्डिकयावेष्ट्य शाययेच्च यथा पुरा ।
पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ २१॥
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्द्धनीम् ।
परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ २२॥
ते चाष्टमूर्त्तयः कल्प्याः पूर्वादिपरितः स्थिताः ।
चत्वारश्चाथ वा दिक्षु स्वध्येतारः सजापकाः ॥ २३॥
जुहुयुस्ते विरञ्च्याद्याश्चतस्रो मूर्तयः स्मृताः ।
देशिकः प्रथमं तेषामैशान्यां पश्चिमेऽथ वा ॥ २४॥
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ।
आचार्यात् पादमर्द्धं वा जुहुयुश्चापरे द्विजाः ॥ २५॥
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ।
पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ २६॥
मूर्ध्नि मूलेन लिङ्गस्य शिवहस्तं प्रविन्यसेत् ।
शतमर्द्धं तदर्द्धं वा क्रमाद् द्रव्यैश्च सप्तभिः ॥ २७॥
हुत्वा हुत्वा स्पृशेल्लिङ्गं वेदिकां च पुनः पुनः ।
पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ २८॥
आचार्यात् पादमर्द्धं वा होतृणां स्थपतेरपि ।
तदर्द्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ २९॥
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ।
मृदम्भसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ३०॥
शोधितां चन्दनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ।
करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ३१॥
हरितालादिधातूंश्च बीजगन्धौषधैरपि ।
शिवशास्त्रोक्तविधिना क्षिपेद् ब्रह्मशिलोपरि ॥ ३२॥
प्रतिलिङ्गं तु संस्थाप्य क्षीरवृक्षसमुद्भवम् ।
स्थितं बुद्ध्वा तदुत्सृज्य लिङ्गं ब्रह्मशिलापरि ॥ ३३॥
प्रागुदक्प्रवरां किञ्चित् स्थापयेन्मूलविद्यया ।
पिण्डिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ३४॥
बन्धनं बन्धकद्रव्यैः कृत्वा स्थानं विशोध्य च ।
दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ३५॥
यथायोग्यं निषेकादि लिङ्गस्य पुरतस्तदा ।
आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ३६॥
महापूजामथारभ्य सम्पूज्य कलशान्दश ।
शिवमन्त्रमनुस्मृत्य शिवकुम्भजलान्तरे ॥ ३७॥
अङ्गुष्ठानामिकायोगादादाय तमुदीरयेत् ।
न्यसेदीशानभागस्य मध्ये लिङ्गस्य मन्त्रवित् ॥ ३८॥
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ।
लिङ्गमूले शिवजलैस्ततो लिङ्गं निषेचयेत् ॥ ३९॥
वर्द्धन्या पिण्डिकां लिङ्गं विद्येशकलशैः पुनः ।
अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ४०॥
कृत्वा पञ्चकलान्यासं दीप्तं लिङ्गमनुस्मरेत् ।
आवाहयेत् शिवौ साक्षात् प्राञ्जलिः प्रागुदङ्मुखः ॥ ४१॥
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ।
अलङ्कृतं सहायान्तं देव्या देवमनुस्मरन् ।
सर्वाभरणशोभाढ्यं सर्वमङ्गलनिःस्वनैः ॥ ४२॥
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ।
आनन्दक्लिन्नसर्वाङ्गैर्विन्यस्ताञ्जलिमस्तकैः ॥ ४३॥
स्तुवद्भिरेव नृत्यद्भिर्नमद्भिरभितो वृतम् ।
ततः पञ्चोपचारैश्च कृत्वा पूजां समापयेत् ॥ ४४॥
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ।
प्रतिष्ठां लिङ्गवत्कुर्यात् प्रतिमास्वपि सर्वतः ॥ ४५॥
लक्षणोद्धारसमये कार्यं नयनमोचनम् ।
जलाधिवासे शयने शाययेत्तांस्त्वधोमुखीम् ॥ ४६॥
कुम्भोदशायितां मन्त्रैर्हृदि तां सन्नियोजयेत् ।
कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ४७॥
शक्तः कृतालयः पश्चात् प्रतिष्ठाविधिमाचरेत् ।
अशक्तश्चेत्प्रतिष्ठाप्य लिङ्गं बेरमथापि वा ॥ ४८॥
शक्तेरनुगुणं पश्चात् प्रकुर्वीत शिवालयम् ।
गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ४९॥
कृत्वा कनीयसं बेरं लिङ्गं वा लक्षणान्वितम् ।
अयने चोत्तरे प्राप्ते शुक्लपक्षे शुभे दिने ॥ ५०॥
वेदीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ।
विकीर्य पत्रपुष्पाद्यैर्मध्ये कुम्भं निधाय च ॥ ५१॥
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ।
पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ५२॥
न्यस्य सम्पूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ।
विशोध्य लिङ्गं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ५३॥
स्थापयेत्पुष्पसञ्छन्नमुत्तरस्थे वरासने ।
निधाय पुष्पं शिरसि प्रोक्षयेत् प्रोक्षणीजलैः ॥ ५४॥
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ।
कुम्भैरीशानविद्यान्तैः स्नापयेन्मूलविद्यया ॥ ५५॥
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ।
नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ५६॥
एकमेवाथ वा कुम्भं मूर्तिमन्त्रसमन्वितम् ।
न्यस्य पद्मान्तरे सर्वं शेषं पूर्ववदाचरेत् ॥ ५७॥
अत्यन्तोपहतं लिङ्गं विशोध्य स्थापयेत्पुनः ।
सम्प्रोक्षयेदुपहतं मनागुपहतं यजेत् ॥ ५८॥
लिङ्गानि बाणसंज्ञानि स्थापनीयानि वा न वा ।
तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ५९॥
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ।
स्वयमुद्भूतलिङ्गे च दिव्ये चार्षे तथैव च ॥ ६०॥
अपीठे पीठमावेश्य कृत्वा सम्प्रोक्षणं विधिम् ।
यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ६१॥
दग्धं श्लथं क्षताङ्गं च क्षिपेल्लिङ्गं जलाशये ।
सन्धानयोग्यं सन्धाय प्रतिष्ठाविधिमाचरेत् ॥ ६२॥
बेराद्वा विकलाल्लिङ्गाद्देवपूजापुरःसरम् ।
उद्वास्य हृदि सन्धानं त्यागं वा युक्तमाचरेत् ॥ ६३॥
एकाहपूजाविहतौ कुर्याद् द्विगुणमर्चनम् ।
द्विरात्रे च महापूजां सम्प्रोक्षणमतः परम् ॥ ६४॥
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ।
प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्सम्प्रोक्षणक्रमः ॥ ६५॥
सम्प्रोक्षणे तु लिङ्गादेर्देवमुद्वास्य पूर्ववत् ।
अष्टपञ्चक्रमेणैव स्नापयित्वा मृदम्भसा ॥ ६६॥
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ।
प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ६७॥
सपुष्पं सकुशं पाणिं न्यस्य लिङ्गस्य मस्तके ।
पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥ ६८॥
ततो मूलेन मूर्द्धादिपीठान्तं संस्पृशेदपि ।
पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ६९॥
अलब्धे स्थापिते लिङ्गे शिवस्थाने जलेऽथ वा ।
वह्नौ रवौ तथा व्योम्नि भगवन्तं शिवं यजेत् ॥ ७०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ७.२.३६॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३७. सप्तत्रिंशोऽध्यायः । योगगतिवर्णनम् ।
श्रीकृष्ण उवाच ।
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य सङ्ग्रहात् ।
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ १॥
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ।
साधिकारं च साङ्गं च सविधिं सप्रयोजनम् ॥ २॥
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ।
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ३॥
तच्च तत्कारणं चैव तत्कालकरणानि च ।
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ४॥
उपमन्युरुवाच ।
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ।
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ५॥
निरुद्धवृत्त्यन्तरस्य शिवे चित्तस्य निश्चला ।
या वृत्तिः सा समासेन योगः स खलु पञ्चधा ॥ ६॥
मन्त्रयोगः स्पर्शयोगो भावयोगस्तथापरः ।
अभावयोगः सर्वेभ्यो महायोगः परो मतः ॥ ७॥
मन्त्राभ्यासवशेनैव मन्त्रवाच्यार्थगोचरः ।
अव्याक्षेपा मनोवृत्तिर्मन्त्रयोग उदाहृतः ॥ ८॥
प्राणायाममुखा सैव स्पर्शेयोगोऽभिधीयते ।
स मन्त्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ९॥
विलीनावयवं विश्वं रूपं सम्भाव्यते यतः ।
अभावयोगः सम्प्रोक्तोऽनाभासाद्वस्तुनः सतः ॥ १०॥
शिवस्वभाव एवैकश्चिन्त्यते निरुपाधिकः ।
यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ११॥
दृष्टे तथानुश्रविके विरक्तं विषये मनः ।
यस्य तस्याधिकारोऽस्ति योगे नान्यस्य कस्यचित् ॥ १२॥
विषयद्वयदोषाणां गुणानामीश्वरस्य च ।
दर्शनादेव सततं विरक्तं जायते मनः ॥ १३॥
अष्टाङ्गो वा षडङ्गो वा सर्वयोगः समासतः ।
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ १४॥
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ।
समाधिरिति योगाङ्गान्यष्टावुक्तानि सूरिभिः ॥ १५॥
आसनं प्राणसंरोधः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिर्योगस्य षडङ्गानि समासतः ॥ १६॥
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ।
शिवागमेषु चान्येषु विशेषात् कामिकादिषु ॥ १७॥
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ।
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ १८॥
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ।
इति पञ्च प्रभेदः स्यान्नियमः स्वांशभेदतः ॥ १९॥
स्वस्तिकं पद्ममध्येन्दुं वीरं योगं प्रसाधितम् ।
पर्यङ्कं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ २०॥
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ।
तद्रोचकं पूरकं च कुम्भकं च त्रिधोच्यते ॥ २१॥
नासिकापुटमङ्गुल्या पीड्यैकमपरेण तु ।
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ २२॥
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ।
नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ २३॥
न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णं कुम्भवत्तिष्ठेदचलः स तु कुम्भकः ॥ २४॥
रेचकाद्यं त्रयमिदं न द्रुतं न विलम्बितम् ।
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ २५॥
रेचकादिषु योऽभ्यासो नाडीशोधनपूर्वकः ।
स्वेच्छोत्क्रमणपर्यन्तः प्रोक्तो योगानुशासने ॥ २६॥
कन्यकादिक्रमवशात् प्राणायामनिरोधनम् ।
तच्चतुर्द्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ २७॥
कन्यकस्तु चतुर्द्धा स्यात्स च द्वादशमात्रकः ।
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ २८॥
उत्तमस्तु त्रिरुद्धातः षड्विंशन् मात्रकः परः ।
स्वेदकम्पादिजनकः प्राणायामस्तदुत्तरः ॥ २९॥
आनन्दोद्भवरोमाञ्चनेत्राश्रूणां विमोचनम् ।
जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ३०॥
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
अङ्गुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ३१॥
मात्रा क्रमेण विज्ञेयाश्चोद्घातक्रमयोगतः ।
नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ३२॥
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ।
जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ३३॥
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः ।
तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ३४॥
प्राणस्य विजयादेव जीयन्ते देहवायवः ।
प्राणोऽपानः समानश्च ह्युदानो व्यान एव च ॥ ३५॥
नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणोऽभिधीयते ॥ ३६॥
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ।
व्यानो व्यान शयत्यङ्गान्यशेषाणि विवर्धयन् ॥ ३७॥
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ।
समं नयति सर्वाङ्गं समानस्तेन गीयते ॥ ३८॥
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ।
कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृम्भणे ॥ ३९॥
न जहाति मृतं चापि सर्वव्यापी धनञ्जयः ।
क्रमेणाभ्यस्यमानोऽयं प्राणायामः प्रमाणवान् ॥ ४०॥
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ।
प्राणे तु विजिते सम्यक् तच्चिह्नान्युपलक्षयेत् ॥ ४१॥
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ।
बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ४२॥
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ४३॥
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ।
तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ४४॥
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ।
इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ४५॥
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ।
मनःपूर्वाणीन्द्रियाणि स्वर्गं नरकमेव च ॥ ४६॥
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ।
तस्मात्सुखार्थी मतिमान् ज्ञानवैराग्यमास्थितः ॥ ४७॥
इन्द्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ।
धारणा नाम चित्तस्य स्थानबन्धः समासतः ॥ ४८॥
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ।
कालं कं चावधीकृत्य स्थानेऽवस्थापितं मनः ॥ ४९॥
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ।
मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ५०॥
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ।
ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ॥ ५१॥
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ।
ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ५२॥
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ।
सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः ॥ ५३॥
परो ध्येयोऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ।
तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ५४॥
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ।
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ५५॥
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ।
इत्येतद् द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ५६॥
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ५७॥
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ।
निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ५८॥
जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् ।
जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ५९॥
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ।
ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ६०॥
समाधिर्नाम योगाङ्गमन्तिमं परिकीर्तितम् ।
समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ६१॥
यदर्थमात्रनिर्भासं स्तिमितोदधिवत्स्थितम् ।
स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ६२॥
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ।
निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ६३॥
न शृणोति न चाघ्राति न जल्पति न पश्यति ।
न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥ ६४॥
न वाभिमन्यते किञ्चिद् बध्यते न च काष्ठवत् ।
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ६५॥
यथा दीपो निवातस्थः स्पन्दते न कदाचन ।
तथा समाधिनिष्ठोऽपि तस्मान्न विचलेत्सुधीः ॥ ६६॥
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ।
तदन्तराया नश्यन्ति विज्ञाः सर्वे शनैःशनैः ॥ ६७॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ७.२.३७॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३८. अष्टत्रिंशोऽध्यायः । योगगतौ विघ्नोत्पत्तिवर्णनम् ।
उपमन्युरुवाच ।
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ।
अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥ १॥
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ।
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ २॥
आलस्यमलसत्त्वं तु योगिनां देहचेतसोः ।
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ३॥
प्रमादो नाम योगस्य साधना नाम भावना ।
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ४॥
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ।
अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ५॥
विपर्यस्ता मतिर्या सा भ्रान्तिरित्यभिधीयते ।
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ६॥
आधिभौतिकमङ्गोत्थं यच्च दुःखं पुरा कृतैः ।
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७॥
इच्छाविघातजं क्षोभं दौर्मनस्यं प्रचक्षते ।
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ८॥
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ।
उपसर्गाः प्रवर्तन्ते दिव्यास्ते सिद्धिसूचकाः ॥ ९॥
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ।
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ १०॥
सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते ।
प्रतिभा कथ्यते योऽर्थे प्रतिभासो यथातथम् ॥ ११॥
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ।
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ १२॥
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ।
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ १३॥
स्पर्शनाधिगमस्तद्वद् वेदना नाम विश्रुता ।
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ १४॥
सन्तिष्ठन्ते च रत्नानि प्रयच्छन्ति बहूनि च ।
स्वच्छन्दमधुरा वाणी विविधा स्यात्प्रवर्तते ॥ १५॥
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ।
सिध्यन्ति प्रणिपत्यैनं दिशन्ति सुरयोषितः ॥ १६॥
योगसिद्ध्यैकदेशेऽपि दृष्टे मोक्षे भवेन्मतिः ।
दृष्टमेतन्मया यद्वत् तद्वन्मोक्षो भवेदिति ॥ १७॥
कृशता स्थूलता बाल्यं वार्द्धक्यं चैव यौवनम् ।
नानाजातिस्वरूपं च चतुर्णां देहधारणम् ॥ १८॥
पार्थिवांशं विना नित्यं सुरभिर्गन्धसङ्ग्रहः ।
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ १९॥
जले निवसनं चैव भूम्यामेवं विनिर्गमः ।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ २०॥
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ।
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ २१॥
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ।
रसादिकं भवेच्चान्यत् त्रयाणां देहधारणम् ॥ २२॥
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ।
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ २३॥
शरीरादग्निनिर्माणं तत्तापभयवर्ज्जनम् ।
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ २४॥
स्थापनं वानलस्याऽप्सु पाणौ पावकधारणम् ।
दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ।
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ २५॥
एतच्चतुर्विंशतिधा तैजसं परिचक्षते ।
मनोजवत्वं भूतानां क्षणादन्तः प्रवेशनम् ॥ २६॥
पर्वतादिमहाभारधारणं चाप्रयत्नतः ।
गुरुत्वं च लघुत्वं च पाणावनिलधारणम् ॥ २७॥
अङ्गुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ।
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तेजसैः ॥ २८॥
द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ।
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ २९॥
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ।
आकाशलङ्घनं चैव स्वदेहे तन्निवेशनम् ॥ ३०॥
आकाशपिण्डीकरणमशरीरत्वमेव च ।
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ३१॥
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ३२॥
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ।
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ३३॥
संसारदर्शनं चैव भोगैरैन्द्रैः समन्वितम् ।
एतच्चान्द्रमसैश्वर्यं मानसं गुणतोऽधिकम् ॥ ३४॥
छेदनं ताडनं चैव बन्धनं मोचनं तथा ।
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ ३५॥
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ।
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ३६॥
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ।
सर्गः सङ्कल्पमात्रेण त्राणं संहरणं तथा ॥ ३७॥
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ।
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ३८॥
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ।
चतुःषष्टिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ३९॥
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ।
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ।
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ४०॥
तत्पौरुषं च गौणं च गाणेशं पदमैश्वरम् ।
विष्णुना तत्पदं किञ्चिज्ज्ञातुमन्यैर्न शक्यते ॥ ४१॥
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ।
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु ॥ ४२॥
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ।
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ४३॥
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ।
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ४४॥
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ।
यथाकामं गुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ४५॥
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ।
शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ।
विजने जन्तुरहिते निःशब्दे बाधवर्जिते ॥ ४६॥
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ।
मुक्तपुष्पसमाकीर्णे वितानादिविचित्रिते ॥ ४७॥
कुशपुष्पसमित्तोयफलमूलसमन्विते ।
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचयेऽपि वा ॥ ४८॥
न दंशमशकाकीर्णे सर्पश्वापदसङ्कुले ।
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ४९॥
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ।
नदीनदसमुद्राणां तीरे रथ्यान्तरेऽपि वा ॥ ५०॥
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निन्दिते ।
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ५१॥
न च्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ।
न चातिचिन्ताकुलितो न चातिक्षुत्पिपासितः ॥ ५२॥
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ।
युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ५३॥
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ।
आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ५४॥
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ।
अभिवन्द्य स्वगुर्वन्तानभिवाद्याननुक्रमात् ॥ ५५॥
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छ्लिष्टलोचनः ।
किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ॥ ५६॥
दन्ताग्रसंस्थितां जिह्वामचलां सन्निवेश्य च ।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ५७॥
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ।
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ५८॥
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ५९॥
सम्भृतप्राणसञ्चारः पाषाण इव निश्चलः ।
स्वदेहायतनस्यान्तर्विचिन्त्य शिवमम्बया ॥ ६०॥
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ।
मूले नासाग्रतो नाभौ कण्ठे वा तालुरन्ध्रयोः ॥ ६१॥
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ।
परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ६२॥
तत्र सावरणं वापि निरावरणमेव वा ।
द्विदले षोडशारे वा द्वादशारे यथाविधि ॥ ६३॥
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ।
भ्रुवोरन्तरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ६४॥
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ।
विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ६५॥
षोडशारस्य पत्राणि स्वराः षोडश तानि वै ।
पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ६६॥
ककारादिठकारान्ता वर्णाः पर्णान्यनुक्रमात् ।
भानुवर्णस्य पद्मस्य ध्येयं तधृदयान्तरे ॥ ६७॥
वर्णाः पर्णानि पक्षस्य नाभेरुपरि पृष्ठतः ।
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ।
अधो दलस्याम्बुजस्य एतस्य च दलानि षट् ॥ ६८॥
विधूमाङ्गारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ।
मूलाधारारविन्दस्य हेमाभस्य यथाक्रमम् ।
वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ ६९॥
एतेष्वथारविन्देषु यत्रैवाभिरतं मनः ।
तत्रैव देवं देवीं च चिन्तयेद्धीरया धिया ॥ ७०॥
अङ्गुष्ठमात्रममलं दीप्यमानं समन्ततः ।
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ ७१॥
इन्दुरेखासमाकारं तारारूपमथापि वा ।
नीवारशूकसदृशं बिससुत्राभमेव वा ॥ ७२॥
कदम्बगोलकाकारं तुषारकणिकोपमम् ।
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ ७३॥
तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिन्तयेत् ।
सदाशिवान्ता ब्रह्माद्या भवाद्याश्चाष्टमूर्तयः ॥ ७४॥
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ।
घोरा मिश्राः प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ ७५॥
फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ।
घोराश्चेच्चिन्तिताः कुर्युः पापरोगपरिक्षयम् ॥ ७६॥
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ।
सौम्ये मुक्तिर्विशेषेण शान्तिः प्रज्ञा प्रसिध्यति ॥ ७७॥
सिध्यन्ति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७८॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ७.२.३८॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.३९. एकोनचत्वारिंशोऽध्यायः । शैवयोगवर्णनम् ।
उपमन्युरुवाच ।
श्रीकण्ठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ।
प्रसिध्यन्तीति मत्वैके तं वै ध्यायन्ति योगिनः ॥ १॥
स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ।
स्थूले तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ २॥
शिवे तु चिन्तिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ।
मूर्त्यन्तरेषु ध्यातेषु शिवरूपं विचिन्तयेत् ॥ ३॥
लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ।
ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ ४॥
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ।
बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ ५॥
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ।
तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ६॥
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ।
यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ७॥
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ।
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ८॥
निराकारश्रयत्वेन साकाराश्रयतस्तथा ।
तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ९॥
अन्ते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ।
प्राणायामेन सिध्यन्ति देव्याः शान्त्यादयः क्रमात् ॥ १०॥
शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च ततः परम् ।
शमः सर्वापदां चैव शान्तिरित्यभिधीयते ॥ ११॥
तमसोऽन्तर्बहिर्नाशः प्रशान्तिः परिगीयते ।
बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ १२॥
स्वस्थता या तु सा बुद्धेः प्रसादः परिकीर्तितः ।
कारणानि च सर्वाणि सबाह्याभ्यन्तराणि च ॥ १३॥
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ।
ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ।
एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ १४॥
ज्ञानवैराग्यसम्पन्नो नित्यमव्यग्रमानसः ।
श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ १५॥
ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ॥ १६॥
योगाभ्यासस्तथाल्पोऽपि यथा पापं विनाशयेत् ।
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ १७॥
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ १८॥
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलम्बनम् ।
ध्येयमित्युच्यते सद्भिस्तच्च साम्बः स्वयं शिवः ॥ १९॥
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ।
शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ २०॥
यस्मात्सौख्यं च मोक्षं च ध्यानादुभयमाप्नुयात् ।
तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ २१॥
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ।
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ २२॥
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ।
योगाभ्यासेन युक्तस्य योगिनस्वेव सिध्यति ॥ २३॥
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ।
पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ २४॥
यथा वह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ।
तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ २५॥
अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत्तमः ।
योगाभ्यासस्तथाल्पोऽपि महापापं विनाशयेत् ॥ २६॥
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ।
यद्भवेत् सुमहच्छ्रेयस्तस्यान्तो नैव विद्यते ॥ २७॥
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ।
नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ २८॥
तीर्थानि तोयपूर्णानि देवान्पाषाणमृण्मयान् ।
योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारणात् ॥ २९॥
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ।
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ३०॥
यथेहान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ।
तथान्तर्ध्याननिरताः प्रियाश्शम्भोर्न कर्मिणः ॥ ३१॥
बहिष्करा यथा लोके नातीव फलभोगिनः ।
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ३२॥
यद्यन्तरा विपद्यन्ते ज्ञानयोगार्थमुद्यतः ।
योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ३३॥
अनुभूय सुखं तत्र स जातो योगिनां कुले ।
ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ३४॥
जिज्ञासुरपि योगस्य यां गतिं लभते नरः ।
न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ३५॥
द्विजानां वेदविदुषां कोटिं सम्पूज्य यत्फलम् ।
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ३६॥
यज्ञाग्निहोत्रदानेषु तीर्थहोमेषु यत्फलम् ।
योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ३७॥
ये चापवादं कुर्वन्ति विमूढाः शिवयोगिनाम् ।
श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ३८॥
सति श्रोतरि वक्ता स्यादपवादस्य योगिनाम् ।
तस्माच्छ्रोता च पापीयान्दण्ड्यः सुमहतां मतः ।
ये पुनः सततं भक्त्या भजन्ति शवयोगिनः ॥ ३९॥
ते विदन्ति महाभोगानन्ते योगं च शाङ्करम् ।
भोगार्थिभिर्नरैस्तस्मात्सम्पूज्याः शिवयोगिनः ॥ ४०॥
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ।
योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ४१॥
वज्रतन्दुलवज्ज्ञेयं तथा पापेन योगिनः ।
न लिप्यन्ते च तापौघैः पद्मपत्रं यथाम्भसा ॥ ४२॥
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ।
सोऽपि देशो भवेत्पूतः स पूत इति किं पुनः ॥ ४३॥
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ।
सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ४४॥
सिद्धयोगफलो योगी लोकानां हितकाम्यया ।
भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ४५॥
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ।
त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ४६॥
यस्त्वासन्नां मृतिं मर्त्यो दृष्ट्वारिष्टं च भूयसा ।
स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ४७॥
स तत्र निवसन्नेव यदि धीरमना नरः ।
प्राणान् विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ४८॥
कृत्वाप्यनशनं चैव हुत्वा चाङ्गं शिवानले ।
क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ४९॥
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ।
सद्य एव विमुच्येत नात्र कार्या विचारणा ॥ ५०॥
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ।
म्रियते यदि सोऽप्येवं मुच्यते नात्र संशयः ॥ ५१॥
यथा हि मरणं श्रेष्ठमुशन्त्यनशनादिभिः ।
शास्त्रविश्रम्भधीरेण मनसा क्रियते यतः ॥ ५२॥
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ।
यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ५३॥
शिवनिन्दारतं हन्तुमशक्तो यः स्वयं मृतः ।
सद्य एव प्रमुच्येत त्रिःसप्तकुलसंयुतः ॥ ५४॥
शिवार्थे यस्त्यजेत्प्राणान् शिवभक्तार्थमेव वा ।
न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ५५॥
तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमण्डलात् ।
एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ५६॥
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ।
पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ५७॥
नैवाशौचं प्रपद्येत तत्पुत्रादिर्विशेषतः ।
शिवचारार्थमथवा शिवविद्यार्थमेव वा ।
खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ ५८॥
क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ।
अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ ५९॥
कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ।
धनं तस्य भजेच्छैवः शैवी चेत्तस्य सन्ततिः ।
नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ६०॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ७.२.३९॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.४०. चत्वारिंशोऽध्यायः । नैमिषर्षियात्रावर्णनम् ।
सूत उवाच ।
इति स विजितमन्योर्यादवेनोपमन्यो-
रधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ।
प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा
सपदि वियति वायुः सायमन्तर्हितोऽभूत् ॥ १॥
ततः प्रभातसमये नैमिषीयास्तपोधनाः ।
सत्रान्तेऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ २॥
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ।
प्रसन्ना स्वादुसलिला प्रावर्तत नदी शुभा ॥ ३॥
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ।
समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ४॥
अथ सन्तर्प्य देवादींस्तदीयैः सलिलैः शिवैः ।
स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ५॥
तदा ते हिमवत्पादात्पन्ततीं दक्षिणामुखीम् ।
दृष्ट्वा भागीरथीं तत्र स्नात्वा तत्तीरतो ययुः ॥ ६॥
ततो वाराणसीं प्राप्य मुदिताः सर्व एव ते ।
तदोत्तरप्रवाहायां गङ्गायामवगाह्य च ॥ ७॥
अविमुक्तेश्वरं लिङ्गं दृष्ट्वाभ्यर्च्य विधानतः ।
प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ८॥
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ।
आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ९॥
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ।
मुनयोऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ १०॥
तथा विलीयमानेषु तपस्विषु महात्मसु ।
सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ११॥
तद् दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ।
किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ १२॥
प्रागेवैषां तु गमनात्पवनो लोकपावनः ।
दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ १३॥
शुद्धां बुद्धिं ततस्तेषां साम्बे सानुचरे शिवे ।
समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ १४॥
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ।
स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ १५॥
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ।
परस्परं स्पर्द्धितयोर्गाने विवदमानयोः ॥ १६॥
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ।
गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ १७॥
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ।
मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ १८॥
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ।
साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ १९॥
त्यक्त्वा परस्परस्पर्द्धां मैत्रीं च परमां गतः ।
सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ २०॥
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ।
भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ २१॥
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ।
प्रणम्यावसरं शम्भोः पप्रच्छुः परमादरात् ॥ २२॥
स चावसर एवायमितोऽन्तर्गम्यतामिति ।
वदन्ययावन्यपरस्त्वरया परया युतः ॥ २३॥
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ।
तेन ते विविशुर्वेश्म पिण्डीभूयाण्डजन्मनः ॥ २४॥
प्रविश्य दूरतो देवं प्रणम्य भुवि दण्डवत् ।
समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ २५॥
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ।
वृत्तान्तं वो मया ज्ञातं वायुरेवाह नो यतः ॥ २६॥
भवद्भिः किं कृतं पश्चान्मारुतेऽन्तर्हिते सति ।
इत्युक्तवति देवेशे मुनयोऽवभृथात्परम् ॥ २७॥
गङ्गातीर्थेऽस्य गमनं यात्रां वाराणसीं प्रति ।
दर्शनं तत्र लिङ्गानां स्थापितानां सुरेश्वरैः ॥ २८॥
अविमुक्तेश्वरस्यापि लिङ्गस्याभ्यर्चनं सकृत् ।
आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ २९॥
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ।
याथात्म्यवेदनं तस्य चिन्तितस्यापि चात्मभिः ॥ ३०॥
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ।
मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ३१॥
कम्पयित्वा शिरः किञ्चित्प्राह गम्भीरया गिरा ।
प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ३२॥
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ।
प्रसादाभिमुखो भूत इति भूतार्थसूचितम् ॥ ३३॥
वाराणस्यां तु युष्माभिर्यद् दृष्टं दिवि दीप्तिमत् ।
तल्लिङ्गसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ३४॥
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ।
मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ३५॥
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ।
स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ३६॥
तत्र वः काल एवैष दैवादुपनतः स्वयम् ।
प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ३७॥
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ।
प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नन्दिनः ॥ ३८॥
पुरा सनत्कुमारोऽपि दृष्ट्वापि परमेश्वरम् ।
अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ३९॥
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ।
ततोऽपराधात्क्रुद्धेन महोष्ट्रो नन्दिना कृतः ॥ ४०॥
अथ कालेन महता तदर्थे शोचता मया ।
उपास्य देवं देवीं च नन्दिनं चानुनीय वै ॥ ४१॥
कथञ्चिद् दुष्टता तस्य प्रयत्नेन निवारिता ।
प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ४२॥
तदाह च महादेवः स्मयन्निव गणाधिपम् ।
अवज्ञाय हि मामेव तथाहङ्कृतवान्मुनिः ॥ ४३॥
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ।
ब्रह्मणः पूर्वजः पुत्रो मां मूढमिव संस्मरन् ॥ ४४॥
मयैव शिष्यस्ते दत्तो मम ज्ञानप्रवर्तकः ।
धर्माध्यक्षाभिषेकं च तव निर्वर्त्तयिष्यति ॥ ४५॥
स एवं व्याहृतो भूयः सर्वभूतगणाग्रणीः ।
यत्पुराज्ञापनं मूर्ध्ना प्राप्य प्रतिगृहीतवान् ॥ ४६॥
तथा सनत्कुमारोऽपि मेरौ मदनुशासनात् ।
प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ४७॥
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ।
तत्प्रसादार्थमचिरान्नन्दी तत्रागमिष्यति ॥ ४८॥
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ।
कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ४९॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः ॥ ७.२.४०॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशङ्कराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
७.२.४१. एकचत्वारिंशोऽध्यायः । श्रीशिवमहापुराणमाहात्म्यवर्णनम् ।
सूत उवाच ।
तत्र स्कन्दसरो नाम सरः सागरसन्निभम् ।
अमृतस्वादुशिशिरस्वच्छागाधलघूदकम् ॥ १॥
समन्ततः सङ्घटितं स्फटिकोपलसञ्चयैः ।
सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ २॥
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ।
तरङ्गैरभ्रसङ्काशैराकाशमिव भूमिगम् ॥ ३॥
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ।
सोपानमार्गौ रुचिरैः शोभमानाष्टदिङ्मुखम् ॥ ४॥
तत्रावतीर्णैश्च यथा तत्रोत्तीर्णैश्च भूयसा ।
स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ५॥
जटाशिखायनैर्मुण्डैस्त्रिपुण्ड्रकृतमण्डनैः ।
विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ६॥
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ।
कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ७॥
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ।
आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ८॥
अन्तर्जलशिलारूढैर्नीचानां स्पर्शशङ्कया ।
आचारवद्भिर्मुनिभिः कृतभस्माङ्गधूसरैः ॥ ९॥
इतस्ततोऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ।
तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ १०॥
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ।
निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ११॥
स्थाने स्थाने कृतानेकबलिपुष्पसमीरणैः ।
सौरार्घ्यपूर्वं कुर्वद्भिः स्थण्डलेभ्यर्चनादिकम् ॥ १२॥
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ।
क्वचिच्च तृषयायातमृगीमृगतुरङ्गमम् ॥ १३॥
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ।
क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ १४॥
क्वचित्कारण्डवरवैः क्वचित्सारसकूजितैः ।
क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ १५॥
स्नानपानादिकरणैः स्वसम्पद्द्रुमजीविभिः ।
प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ १६॥
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ।
आतपोपहतान् सर्वान्नामन्त्रयदिवानिशम् ॥ १७॥
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ।
वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ १८॥
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ।
तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ १९॥
उपास्यमानं मुनिभिर्योगीन्द्रैरपि पूजितम् ।
ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ २०॥
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ।
तुमुलः शुश्रुवे तावद्दिवि दुन्दुभिनिःस्वनः ॥ २१॥
ददृशे तत्क्षणे तस्मिन् विमानं भानुसन्निभम् ।
गणेश्वरैरसङ्ख्येयैः संवृतं च समन्ततः ॥ २२॥
अप्सरोगणसङ्कीर्णं रुद्रकन्याभिरावृतम् ।
मृदङ्गमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ २३॥
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ।
मुनिभिः सिद्धगन्धर्वैर्यक्षचारणकिन्नरैः ॥ २४॥
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ।
वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ २५॥
कृतगोपुरसत्कारं केतुना मान्यहेतुना ।
तस्य मध्ये विमानस्य चामरद्वितयान्तरे ॥ २६॥
छत्त्रस्य मणिदण्डस्य चन्द्रस्येव शुचेरधः ।
दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ २७॥
श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ।
प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ २८॥
अविलङ्घ्य जगत्कर्तुराज्ञापनमिवागतम् ।
सर्वानुग्रहणं शम्भोः साक्षादिव पुरःस्थितम् ॥ २९॥
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ।
विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ ३०॥
विश्वस्यापि विधातॄणां निग्रहानुग्रहक्षमम् ।
चतुर्बाहुमुदाराङ्गं चन्द्ररेखाविभूषितम् ॥ ३१॥
कण्ठे नागेन मौलौ च शशाङ्केनाप्यलङ्कृतम् ।
सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ ३२॥
समाप्तमिव निर्वाणं सर्वज्ञमिव सङ्गतम् ।
दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ ३३॥
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ।
अथ तत्रान्तरे तस्मिन्विमाने चावनिं गते ॥ ३४॥
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ।
षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ।
आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकाङ्क्षया ॥ ३५॥
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नन्दी
छित्त्वा पाशान्दृष्टिपातेन सद्यः ।
शैवं धर्मं चैश्वरं ज्ञानयोगं
दत्त्वा भूयो देवपार्श्वं जगाम ॥ ३६॥
सनत्कुमारेण च तत्समस्तं
व्यासाय साक्षाद्गुरवे ममोक्तम् ।
व्यासेन चोक्तं महितेन मह्यं
मया च तद्वः कथितं समासात् ॥ ३७॥
नावेदविद्भ्यः कथनीयमेतत्
पुराणरत्नं पुरशासनस्य ।
नाभक्तशिष्याय च नास्तिकेभ्यो
दत्तं हि मोहान्निरयं ददाति ॥ ३८॥
मार्गेण सेवानुगतेन यैस्तद्
दत्तं गृहीतं पठितं श्रुतं वा ।
तेभ्यः सुखं धर्ममुखं त्रिवर्गं
निर्वाणमन्ते नियतं ददाति ॥ ३९॥
परस्परस्योपकृतं भवद्भि
र्मया च पौराणिकमार्गयोगात् ।
अतो गमिष्येऽहमवाप्तकामः
समस्तमेवास्तु शिवं सदा नः ॥ ४०॥
सूते कृताशिषि गते मुनयः सुवृत्ता
यागे च पर्यवसिते महति प्रयोगे ।
काले कलौ च विषयैः कलुषायमाणे
वाराणसीपरिसरे वसतिं विनेतुः ॥ ४१॥
अथ च ते पशुपाशमुमुक्षया-
खिलतया कृतपाशुपतव्रताः ।
अधिकृताखिलबोधसमाधयः
परमनिर्वृतिमापुरनिन्दिताः ॥ ४२॥
व्यास उवाच ।
एतच्छिवपुराणं हि समाप्तं हितमादरात् ।
पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ ४३॥
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ।
अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ४४॥
एतच्छ्रुत्या ह्येकवारं भवेत् पापं हि भस्मसात् ।
अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ ४५॥
पुनः श्रुते च सद्भक्तिर्मुक्तिः स्याच्च श्रुतेः पुनः ।
तस्मात् पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ ४६॥
पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ।
परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ ४७॥
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ।
सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ ४८॥
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ।
इहभुक्त्वाखिलान् भोगानन्ते मुक्तिंलभेच्च सः ॥ ४९॥
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ।
भुक्तिमुक्तिप्रदं ब्रह्मसम्मितं भक्तिवर्धनम् ॥ ५०॥
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ।
सगणः ससुतः साम्बः शं करोतु स शङ्करः ॥ ५१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ७.२.४१॥
समाप्तोऽयं श्रीशिवमहापुराणग्रन्थः ।
ॐ ।