श्रीशिवमहापुराणम् ७ वायवीयससंहिता

श्रीशिवमहापुराणम् ७ वायवीयससंहिता

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥ सप्तमी वायवीयसंहिता अथ सप्तमी वायवीयसंहिता पूर्वखण्डः ।

७.१.१. प्रथमोऽध्यायः । विद्यावतारकथनम् ।

व्यास उवाच । नमः शिवाय सोमाय सगणाय ससूनवे । प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ १॥ शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् । स्वामित्वं च विभुत्वं च स्वभावं सम्प्रचक्षते ॥ २॥ तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् । महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ३॥ धर्मक्षेत्रे महातीर्थे गङ्गाकालिन्दिसङ्गमे । प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ४॥ मुनयः शंसितात्मानः सत्यव्रतपरायणाः । महौजसो महाभागा महासत्रं वितेनिरे ॥ ५॥ तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् । साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ६॥ शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः । पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७॥ उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः । मधुरश्रवणानां च मनोज्ञपदपर्वणाम् ॥ ८॥ कथानां निपुणो वक्ता कालविन्नयवित्कविः । आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ९॥ तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टमानसाः । तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ १०॥ प्रतिगृह्य स तां पूजां मुनिभिः प्रतिपादिताम् । उद्दिष्टमासनं भेजे नियुक्तो युक्तमात्मनः ॥ ११॥ ततस्तत्सङ्गमादेव मुनीनां भावितात्मनाम् । सोत्कण्ठमभवच्चित्तं श्रोतुं पौराणिकीं कथाम् ॥ १२॥ तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः । अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ १३॥ ऋषय ऊचुः । रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् । सम्प्राप्तोऽद्य महाभाग शैवराज महामते ॥ १४॥ पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् । तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ १५॥ रत्नानामुरुसाराणां रत्नाकर इवार्णवः । यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ १६॥ न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते । त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः । अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ १७॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् । वेदान्तसारसर्वस्वं पुराणं श्रावयाशु नः ॥ १८॥ एवमभ्यर्थितः सूतो मुनिभिर्वेदवादिभिः । श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ १९॥ सूत उवाच । पूजितोऽनुगृहीतश्च भवद्भिरिति चोदितः । कस्मात्सम्यङ् न विब्रूयां पुराणमृषिपूजितम् ॥ २०॥ अभिवन्द्य महादेवं देवीं स्कन्दं विनायकम् । नन्दिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ २१॥ वक्ष्यामि परमं पुण्यं पुराणं वेदसम्मितम् । शिवज्ञानार्णवं साक्षाद् भुक्तिमुक्तिफलप्रदम् ॥ २२॥ शब्दार्थन्यायसंयुक्तैरागमार्थैर्विभूषितम् । श्वेतकल्पप्रसङ्गेन वायुना कथितं पुरा ॥ २३॥ विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा । तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ २४॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ २५॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ २६॥ अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् । आदिकर्त्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥ २७॥ स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् । ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ २८॥ तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये । विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ २९॥ पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः । मध्यमं तनयं विष्णुं पातारं ब्रह्मणोऽपि हि ॥ ३०॥ लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ३१॥ अनन्तरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः । प्रवृत्तिः सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ३२॥ यदास्य विस्तरं शक्ता नाधिगन्तुं प्रजा भुवि । तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ३३॥ द्वापरान्तेषु विश्वात्मा विष्णुर्विश्वम्भरः प्रभुः । व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ३४॥ एवं व्यस्ताश्च वेदाश्च द्वापरे द्वापरे द्विजाः । निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ३५॥ स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया । अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ३६॥ सङ्क्षिप्य स पुनर्वेदांश्चतुर्द्धा कृतवान्मुनिः । सङ्क्षिप्तान् स पुनर्देदान् चक्रेऽष्टादशधा मुनिः । व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ३७॥ पुराणानां च सङ्क्षिप्तं चतुर्लक्षप्रमाणतः । अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ३८॥ यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः । न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ३९॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ४०॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ४१॥ दशधा चाष्टधा चैतत्पुराणमुपदिश्यते । बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ४२॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । भविष्यं नारदीयं च मार्कण्डेयमतः परम् ॥ ४३॥ आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च । स्कान्दं च वामनं चैव कौर्मं मात्स्यं च गारुडम् ॥ ४४॥ ब्रह्माण्डं चेति पुण्योऽयं पुराणानामनुक्रमः । तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ४५॥ ग्रन्थो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् । निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ४६॥ तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः । तस्माद्विमुक्तिमन्विच्छन् शिवमेव समाश्रयेत् ॥ ४७॥ तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ ४८॥ यदिदं शैवमाख्यातं पुराणं वेदसम्मितम् । तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ ४९॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् । औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ ५०॥ कैलासं शतरुद्रं च कोटिरुद्राख्यमेव च । सहस्रकोटिरुद्राख्यं वायवीयं ततः परम् ॥ ५१॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः । विद्येशं दशसाहस्रमुदितं ग्रन्थसङ्ख्यया ॥ ५२॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् । प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ ५३॥ रौद्रकादशकाख्यं यत् कैलासं षट्सहस्रकम् । शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ ५४॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् । सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ ५५॥ चतुस्सहस्रसङ्ख्येयं वायवीयमनुत्तमम् । धर्मसंज्ञं पुराणं यत्तद् द्वादशसहस्रकम् ॥ ५६॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः । पुराणं वेदसारं तद् भुक्तिमुक्तिफलप्रदम् ॥ ५७॥ व्यासेन तत्तु सङ्क्षिप्तं चतुर्विंशत्सहस्रकम् । शैवं तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ ५८॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता । तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ५९॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता । सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ६०॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् । त्रिंशत्तथा द्विसाहस्रं सार्द्धैकशतमीरितम् ॥ ६१॥ शतरुद्रं तथा कोटिरुद्रं व्योमयुगाधिकम् । द्विसाहस्रं च द्विशतं तथौमं भूसहस्रकम् ॥ ६२॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् । चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ ६३॥ चतुस्साहस्रसङ्ख्याकमेवं सङ्ख्याविभेदतः । श्रुतं परमपुण्यं तु पुराणं शिवसंज्ञकम् ॥ ६४॥ चतुःसहस्रकं यत्तु वायवीयमुदीरितम् । तदिदं वर्त्तयिष्यामि भागद्वयसमन्वितम् ॥ ६५॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् । न चैवाश्रद्दधानाय नापुराणविदे तथा ॥ ६६॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे । प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ ६७॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते । नमो भगवते तस्मै व्यासायामिततेजसे ॥ ६८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमोऽध्यायः ॥ ७.१.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२. द्वितीयोऽध्यायः । मुनिप्रस्ताववर्णनम् ।

सूत उवाच । पुरा कालेन महता कल्पेऽतीते पुनः पुनः । अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ १॥ प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च । मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ २॥ इदं परमिदं नेति विवादः सुमहानभूत् । परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ३॥ तेऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् । यत्रास्ते भगवान् ब्रह्मा स्तूयमानः सुरासुरैः ॥ ४॥ मेरुश‍ृङ्गे शुभे रम्ये देवदानवसङ्कुले । सिद्धचारणसम्बादे यक्षगन्धर्वसेविते ॥ ५॥ विहङ्गसङ्घसङ्घुष्टेमणिविद्रुमभूषिते । निकुञ्जकन्दरदरीगृहानिर्झरशोभिते ॥ ६॥ तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् । दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७॥ सुरसामलपानीयपूर्णरम्यसरोवरम् । मत्तभ्रमरसञ्छन्नरम्यपुष्पितपादपम् ॥ ८॥ तरुणादित्यसङ्काशं तत्र चारु महत्पुरम् । दुर्द्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ९॥ तप्तजाम्बूनदमयं प्रांशुप्राकारतोरणम् । निर्यूहवलभीकूटप्रतोलीशतमण्डितम् ॥ १०॥ महार्हमणिचित्राभिर्लेलिहानमिवाम्बरम् । महाभवनकोटीभिरनेकाभिरलङ्कृतम् ॥ ११॥ तस्मिन्निवसति ब्रह्मा सभ्यैः सार्द्धं प्रजापतिः । तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ १२॥ ददृशुर्मुनयो देवा देवर्षिगणसेवितम् । शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ १३॥ प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् । दिव्यकान्तिसमायुक्तं दिव्यगन्धानुलेपनम् ॥ १४॥ दिव्यशुक्लाम्बरधरं दिव्यमालाविभूषितम् । सुरासुरेन्द्रयोगीन्द्रवन्द्यमानपदाम्बुजम् ॥ १५॥ सर्वलक्षणयुक्ताङ्ग्या लब्धचामरहस्तया । भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ १६॥ तं दृष्ट्वा मुनयः सर्वे प्रसन्नवदनेक्षणाः । शिरस्यञ्जलिमाधाय तुष्टुवुः सुरपुङ्गवम् ॥ १७॥ मुनय ऊचुः । नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यन्तहेतवे । पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ १८॥ नमः प्रधानदेहाय प्रधानक्षोभकारिणे । त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ १९॥ नमो ब्रह्माण्डदेहाय ब्रह्माण्डोदरवर्तिने । तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ २०॥ नमोऽस्तु सर्वलोकाय सर्वलोकविधायिने । सर्वात्मदेहसंयोगवियोगविधिहेतवे ॥ २१॥ त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् । तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ २२॥ सूत उवाच । एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः । प्राह गम्भीरया वाचा मुनीन् प्रह्लादयन्निव ॥ २३॥ ब्रह्मोवाच । ऋषयो हे महाभागा महासत्त्वा महौजसः । किमर्थं सहिताः सर्वे यूयमत्र समागताः ॥ २४॥ तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः । वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयोऽब्रुवन् ॥ २५॥ मुनय ऊचुः । भगवन्नन्धकारेण महता वयमावृताः । खिन्ना विवदमानाश्च न पश्यामोऽत्र यत्परम् ॥ २६॥ त्वं हि सर्वजगद्धाता सर्वकारणकारणम् । त्वया ह्यविदितं नाथ नेह किञ्चन विद्यते ॥ २७॥ कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः । विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ २८॥ केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् । तत्त्वं वद महाप्राज्ञ स्वसन्देहापनुत्तये ॥ २९॥ एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः । देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ३०॥ उत्थाय सुचिरं ध्यात्वा रुद्र इत्युच्चरन् गिरिम् । आनन्दक्लिन्नसर्वाङ्गः कृताञ्जलिरभाषत ॥ ३१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः ॥ ७.१.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३. तृतीयोऽध्यायः । नैमिषोपाख्यानम् ।

ब्रह्मोवाच । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ १॥ यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् । सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ २॥ कारणानां च यो धाता ध्याता परमकारणम् । न सम्प्रसूयतेऽन्यस्मात्कुतश्चन कदाचन ॥ ३॥ सर्वैश्वर्येण सम्पन्नो नाम्ना सर्वेश्वरः स्वयम् । सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥ ४॥ योऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे । तत्प्रसादान्मया लब्धं प्राजापत्यमिदं पदम् ॥ ५॥ ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति । येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ६॥ एको बहूनां जन्तूनां निष्क्रियाणां च सक्रियः । य एको बहुधा बीजं करोति स महेश्वरः ॥ ७॥ जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते । य एको भागवान् रुद्रो न द्वितीयोऽस्ति कश्चन ॥ ८॥ सदा जनानां हृदये सन्निविष्टोऽपि यः परैः । अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ९॥ यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि । अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ १०॥ न यस्य दिवसो रात्रिर्न समानो न चाधिकः । स्वाभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ११॥ यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् । तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ १२॥ ईशते तदभिध्यानाद् योजनात्तत्वभावनः । भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ १३॥ यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः । यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ १४॥ एको देवो महादेवो विज्ञेयस्तु महेश्वरः । न तस्य परमं किञ्चित्पदं समधिगम्यते ॥ १५॥ अयमादिरनाद्यन्तः स्वभावादेव निर्मलः । स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ १६॥ अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः । अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ १७॥ सर्वोपरिकृतावासः सर्वावासश्च सर्ववित् । षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ १८॥ उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः । अनन्तानन्तसन्दोहमकरन्दमध्रुव्रतः ॥ १९॥ अखण्डजगदण्डानां पिण्डीकरणपण्डितः । औदार्यवीर्यगाम्भीर्यमाधुर्यमकरालयः ॥ २०॥ नैवास्य सदृशं वस्तु नाधिकं चापि किञ्चन । अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ २१॥ अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् । अन्तकाले पुनश्चेदं तस्मिन्प्रलयमेष्यति ॥ २२॥ अस्य भूतानि वश्यानि अयं सर्वनियोजकः । अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ २३॥ व्रतानि सर्वदानानि तपांसि नियमास्तथा । कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ २४॥ हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः । तपोभिरुग्रैरद्यापि तस्य दर्शनकाङ्क्षिणः ॥ २५॥ अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः । भक्तैरन्तर्बहिश्चापि पूज्यः सम्भाष्य एव च ॥ २६॥ तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् । अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ २७॥ ततः परं तु यन्नित्यं ज्ञानमानन्दमव्ययम् । तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद् व्रतमाश्रितैः ॥ २८॥ बहुनाऽत्र किमुक्तेन गुह्याद्गुह्यतरं परम् । शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ २९॥ प्रसादादेव सा भक्तिः प्रसादो भक्तिसम्भवः । यथा चाङ्कुरतो बीजं बीजतो वा यथाङ्कुरः ॥ ३०॥ प्रसादपूर्विका एव पशोः सर्वत्र सिद्धयः । स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ३१॥ प्रसादसाधनं धर्मः स च वेदेन दर्शितः । तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ३२॥ साम्यात्प्रसादसम्पर्को धर्मस्यातिशयस्ततः । धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ३३॥ एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् । साम्बे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ३४॥ भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते । प्रसादात्कर्मसन्त्यागः फलतो न स्वरूपतः ॥ ३५॥ तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः । स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ३६॥ तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः । शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ३७॥ ज्ञानान्वयवशात्पुंसः संसारे दोषदर्शनम् । ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ३८॥ भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि । ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ३९॥ योगेन तु परा भक्तिः प्रसादस्तदनन्तरम् । प्रसादान्मुच्यते जन्तुर्मुक्तः शिवसमो भवेत् ॥ ४०॥ अनुग्रहप्रकारस्य क्रमोऽयमविवक्षितः । यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ४१॥ गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः । बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ४२॥ तिर्यग्योनिगतः कश्चिन्मुच्यते नारकोऽपरः । अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ४३॥ कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते । कश्चिदध्वगतस्तस्मिन् स्थित्वा स्थित्वा विमुच्यते ॥ ४४॥ तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते । ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ४५॥ तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः । ध्यायन्तश्शिवमेवैकं सदारतनयाग्नयः ॥ ४६॥ तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदुपाश्रयाः । सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥ ४७॥ दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् । सत्रान्ते मन्त्रयोगेन वायुस्तत्र गमिष्यति ॥ ४८॥ स एव भवतां श्रेयः सोपायं कथयिष्यति । ततो वाराणसी पुण्या पुरी परमशोभना ॥ ४९॥ गन्तव्या यत्र विश्वेशो देव्या सह पिनाकधृक् । सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ५०॥ तत्राश्चर्यं महद् दृष्ट्वा मत्समीपं गमिष्यथ । ततो वः कथयिष्यामि मोक्षोपायं द्विजोत्तमाः ॥ ५१॥ येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता । अनेकजन्मसंसारबन्धनिर्मोक्षकारिणी ॥ ५२॥ एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते नेमिः स देशस्तपसः शुभः ॥ ५३॥ इत्युक्त्वा सूर्यसङ्काशं चक्रं दृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ५४॥ तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् । प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ५५॥ चक्रं तदपि सङ्क्षिप्तं श्लक्ष्णं चारुशिलातले । विमलस्वादुपानीये निपपात वने क्वचित् ॥ ५६॥ तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् । अनेकयक्षगन्धर्वविद्याधरसमाकुलम् ॥ ५७॥ अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः । विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ५८॥ अक्रमेणाहरन्मोहाद्यज्ञवाटं हिरण्मयम् । मुनिभिर्यत्र सङ्क्रुद्धैः कुशवज्रैर्निपातितः ॥ ५९॥ विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा । सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ६०॥ ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः । शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ६१॥ यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् । वादजल्पबलैर्घ्नन्ति वचोभिरतिवादिनः ॥ ६२॥ स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्वच्छपानीयरम्यम् । अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ६३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयोऽध्यायः ॥ ७.१.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.४. चतुर्थोऽध्यायः । वायुसमागमः ।

सूत उवाच । तस्मिन्देशे महाभागा मुनयः शंसितव्रताः । अर्चयन्तो महादेवं सत्रमारेभिरे तदा ॥ १॥ तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् । विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ २॥ अथ काले गते सत्रे समाप्ते भूरिदक्षिणे । पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ३॥ शिष्यः स्वयम्भुवो देवः सर्वप्रत्यक्षदृग्वशी । आज्ञायां मरुतो यस्य संस्थिताः सप्तसप्तकाः ॥ ४॥ प्रेरयञ्छश्वदङ्गानि प्राणाद्याभिः स्ववृत्तिभिः । सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ५॥ अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः । तिर्यक् करादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ६॥ आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् । तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिन्तकाः ॥ ७॥ तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः । पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ८॥ अभ्युत्थाय ततः सर्वे प्रणम्याम्बरसम्भवम् । चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ९॥ सोऽपि तत्र समासीनो मुनिभिः सम्यगर्चितः । प्रतिनन्द्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ १०॥ वायुरुवाच । अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ । कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ११॥ प्रायश्चित्तं दुरिष्टं वा न कश्चित्समजायत । स्तोत्रमन्त्रजपैर्देवान् पितृन् पित्र्यैश्च कर्मभिः ॥ १२॥ कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः । निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ १३॥ इत्युक्ता मुनयः सर्वे वायुना शिवभाविना । प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ १४॥ मुनय ऊचुः । अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः । अस्मच्छ्रेयोऽभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ १५॥ श‍ृणु चेदं पुरावृत्तं तमसाक्रान्तमानसैः । उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ १६॥ सोऽप्यस्माननुगृह्याह शरण्यः शरणागतान् । सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ १७॥ तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति । भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ १८॥ तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः । यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ १९॥ तत्प्रसादेन सत्रान्ते वायुस्तत्रागमिष्यति । तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ २०॥ इत्यादिश्य वयं सर्वे प्रेषिताः परमेष्ठिना । अस्मिन्देशे महाभाग तवागमनकाङ्क्षिणः ॥ २१॥ दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् । अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किञ्चन ॥ २२॥ इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् । वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ २३॥ ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये । सर्गादि शार्वमैश्वर्यं समासादवदद् विभुः ॥ २४॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थोऽध्यायः ॥ ७.१.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.५. पञ्चमोऽध्यायः । शिवतत्त्वज्ञानवर्णनम् ।

सूत उवाच । तत्र पूर्वं महाभागा नैमिषारण्यवासिनः । प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ १॥ नैमिषीया ऊचुः । भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् । कथं च शिष्यभावस्ते ब्रह्मणोऽव्यक्तजन्मनः ॥ २॥ वायुरुवाच । एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः । तस्मिन्कल्पे चतुर्वक्त्रः स्रष्टुकामोऽतपत्तपः ॥ ३॥ तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् । दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ४॥ श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् । दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ५॥ तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणोऽधिपतिं पतिम् । प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ६॥ ततः स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः । असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७॥ यतः श्रुत्वाऽमृतं लब्धं ब्रह्मणा परमेश्वरात् । ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ८॥ मुनय ऊचुः । किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यतरं शुभम् । यत्र कृत्वा परां निष्ठां पुरुषः सुखमृच्छति ॥ ९॥ वायुरुवाच । पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा । तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ १०॥ अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्त्तते । ज्ञानं वस्तुपरिच्छेदो वस्तु च त्रिविधं स्मृतम् ॥ ११॥ अजडं च जडं चैव नियन्तृ च तयोरपि । पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ १२॥ अक्षरं च क्षरं चैव क्षराक्षरपरं तथा । तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ १३॥ अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः । क्षराक्षरपरं यत्तत् पतिरित्यभिधीयते ॥ १४॥ मुनय ऊचुः । किं तच्च क्षरमित्युक्तं किं चाक्षरमुदाहृतम् । तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत ॥ १५॥ वायुरुवाच । प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते । ताविमौ प्रेरयत्यन्यः स परः परमेश्वरः ॥ १६॥ मुनय ऊचुः । कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः । अनयोः केन सम्बन्धः कोऽयं प्रेरक ईश्वरः ॥ १७॥ वायुरुवाच । मायाप्रकृतिरुद्दिष्टा पुरुषो माययाऽऽवृतः । सम्बन्धो मलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १८॥ मुनय ऊचुः । केयं माया समाख्याता किंरूपो मायया वृतः । मलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ १९॥ वायुरुवाच । माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः । मलश्चिच्छादको नैजो विशुद्धिः शिवता स्वतः ॥ २०॥ मुनय ऊचुः । आवृणोति कथं माया व्यापिनं केन हेतुना । किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ २१॥ वायुरुवाच । आवृतिर्व्यापिनोऽपि स्याद्व्यापि यस्मात्कलाद्यपि । हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ २२॥ मुनय ऊचुः । कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् । तत्किमादि किमन्तं वा किम्फलं वा किमाश्रयम् ॥ २३॥ कस्मै भोगेश्च किं भोग्यं किं वा तद्भोगसाधनम् । मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान् ॥ २४॥ वायुरुवाच । कला विद्या च रागश्च कालो नियतिरेव च । कलादयः समाख्याता यो भोक्ता पुरुषो भवेत् ॥ २५॥ पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् । अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ २६॥ भोगः कर्मविनाशाय भोग्यमव्यक्तमुच्यते । बाह्यान्तःकरणद्वारं शरीरं भोगसाधनम् ॥ २७॥ भावातिशयलब्धेन प्रसादेन मलक्षयः । क्षीणे चात्ममले तस्मिन् शिवसमो भवेत् ॥ २८॥ मुनय ऊचुः । कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते । भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ २९॥ किमात्मकं तदव्यक्तं केनाकारेण भुज्यते । किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ३०॥ वायुरुवाच । दिक्क्रियाव्यञ्जिका विद्याकलो रागः प्रवर्तकः । कालोऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ३१॥ अव्यक्तं कारणं यत्तत्त्रिगुणप्रभवाप्ययम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ३२॥ कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् । सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ३३॥ सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ३४॥ सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् । राजसं तद्विपर्यासात् स्तम्भमोहौ तु तामसौ ॥ ३५॥ सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः । मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ३६॥ तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च । ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ ३७॥ प्रधानबुद्ध्यहङ्कारमनांसि च चतुष्टयम् । समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ३८॥ तत्कारणदशापन्नमव्यक्तमिति कथ्यते । व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ३९॥ यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते । शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ४०॥ तस्मादव्यक्तमेवैकं कारणं करणानि च । शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ४१॥ मुनय ऊचुः । बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् । आत्मशब्दाभिधेयस्य वस्तुतोऽपि कुतः स्थितिः ॥ ४२॥ वायुरुवाच । बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् । अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ४३॥ बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते । स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ४४॥ अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः । अन्तर्यामीति वेदेषु वेदान्तेषु च गीयते ॥ ४५॥ सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः । तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ४६॥ नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि । मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ४७॥ न च स्त्री न पुमानेष नैव चापि नपुंसकः । नैवोर्ध्वं नापि तिर्यक् च नाधस्तान्न कुतश्चन ॥ ४८॥ अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् । सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ४९॥ किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् । अपृथग्ये तु पश्यन्ति ह्यसम्यक् तेषु दर्शनम् ॥ ५०॥ यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् । अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ५१॥ विपदां बीजभूतेन पुरुषस्तेन संयुतः । सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ५२॥ अद्भिराप्लावितं क्षेत्रं जनयत्यङ्कुरं यथा । अज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ५३॥ अत्यन्तमसुखावासाः स्मृताश्चैकान्तमृत्यवः । अनागता अतीताश्च तनवोऽस्य सहस्रशः ॥ ५४॥ आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः । अत्यन्तवसतिः क्वापि न केनापि च लभ्यते ॥ ५५॥ छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते । चन्द्रबिम्बवदाकाशे तरलैरभ्रसञ्चयैः ॥ ५६॥ अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः । अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ५७॥ नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् । पथि सङ्गम एवायं दारैः पुत्रैश्च बन्धुभिः ॥ ५८॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥ ५९॥ स पश्यति शरीरं तच्छरीरं तन्न पश्यति । तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ६०॥ ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः । पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ६१॥ स एष बध्यते पाशैः सुखदुःखाशनः पशुः । लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ६२॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ६३॥ सूत उवाच । इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः । प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ६४॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमोऽध्यायः ॥ ७.१.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.६. षष्ठोऽध्यायः । शिवतत्त्वज्ञानवर्णनम् ।

मुनय ऊचुः । योऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः । आभ्यां विलक्षणः कश्चित्कोऽयमस्ति तयोः पतिः ॥ १॥ वायुरुवाच । अस्ति कश्चिदपर्यन्तरमणीयगुणाश्रयः । पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ २॥ अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् । अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ३॥ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् । तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ४॥ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः । तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ५॥ पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् । अयथाकरणज्ञानमन्धस्य गमनं यथा ॥ ६॥ आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् । असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७॥ पशोः पाशस्य पत्युश्च तत्त्वतोऽस्ति पदं परम् । ब्रह्मवित् तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ८॥ संयुक्तमेतद् द्वितयं क्षरमक्षरमेव च । व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ९॥ भोक्ता भोग्यं प्रेरयिता मन्तव्यं त्रिविधं स्मृतम् । नातः परं विजानद्भिर्वेदितव्यं हि किञ्चन ॥ १०॥ तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् । यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ११॥ एवमेव महात्मानमात्मन्यात्मविलक्षणम् । सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति ॥ १२॥ य एको जालवानीश ईशानीभिः स्वशक्तिभिः । सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ १३॥ एक एव सदा रुद्रो न द्वितीयोऽस्ति कश्चन । संसृज्य विश्वभुवनं गोप्ता ते सञ्चुकोच यः ॥ १४॥ विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः । तथैव विश्वतोबाहुर्विश्वतः पादसंयुतः ॥ १५॥ द्यावाभूमी च जनयन् देव एको महेश्वरः । स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ १६॥ हिरण्यगर्भं देवानां प्रथमं जनयेदयम् । विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ १७॥ वेदाहमेतं पुरुषं महान्तममृतं ध्रुवम् । आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ १८॥ अस्मान्नास्ति परं किञ्चिदपरं परमात्मनः । नाणीयोऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ १९॥ सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ २०॥ सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ २१॥ सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः । सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ २२॥ अचक्षुरपि यः पश्यत्यकर्णोऽपि श‍ृणोति यः । सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ २३॥ अणोरणीयान्महतो महीयानयमव्ययः । गुहायां निहितश्चापि जन्तोरस्य महेश्वरः ॥ २४॥ तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् । धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ २५॥ वेदाहमेनमजरं पुराणं सर्वगं विभुम् । निरोधं जन्मनो यस्य वदन्ति ब्रह्मवादिनः ॥ २६॥ एकोऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः । विदधाति विचेत्यन्ते विश्वमादौ महेश्वरः ॥ २७॥ विश्वधात्रीत्यजाख्या च शैवी चित्राकृतिः परा । तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ २८॥ जनित्रीमनुशेतेऽन्योजुषमाणः स्वरूपिणीम् । तामेवाजामजोऽन्यस्तु भक्तभोगां जहाति च ॥ २९॥ द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ । एकोऽत्ति पिप्पलं स्वादु परोऽनश्नन् प्रपश्यति ॥ ३०॥ वृक्षेऽस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति । जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ३१॥ तदास्य महिमानं च वीतशोकः सुखी भवेत् । छन्दांसि यज्ञाः क्रतवो यद्भूतं भव्यमेव च ॥ ३२॥ मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ३३॥ तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् । सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ३४॥ स्रष्टारमपि विश्वस्य चेष्टितारं च तस्य तु । शिवमेवेश्वरं ज्ञात्वा शान्तिमत्यन्तमृच्छति ॥ ३५॥ स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः । तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ३६॥ घृतात्परं मण्डमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् । सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ३७॥ एष एव परो देवो विश्वकर्मा महेश्वरः । हृदये सन्निविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ३८॥ यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् । केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ३९॥ नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् । न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ४०॥ अजातमिममेवैकं बुद्ध्वा जन्मनि भीरवः । रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणं सुखम् ॥ ४१॥ द्वे अक्षरे ब्रह्मपरे त्वनन्ते समुदाहृते । विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ४२॥ क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते । ते उभे ईशते यस्तु सोऽन्यः खलु महेश्वरः ॥ ४३॥ एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः । सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ४४॥ दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम् । यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ४५॥ स्वभावं वाचकान् सर्वान् वाच्यांश्च परिणामयन् । गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ४६॥ तं वै गुह्योपनिषदि गूढं ब्रह्म परात्परम् । ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ४७॥ भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् । कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ४८॥ स्वभावमेके मन्यन्ते कालमेके विमोहिताः । देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ४९॥ येनेदमावृतं नित्यं कालकालात्मना यतः । तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ५०॥ तत्कर्म भूयशः कृत्वा विनिवर्त्य च भूयशः । तत्त्वस्य सह सत्त्वेन योगं चापि समेत्य वै ॥ ५१॥ अष्टाभिश्च त्रिभिश्चैव द्वाभ्यां चैकेन वा पुनः । कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम् ॥ ५२॥ गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् । तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ५३॥ कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः । स एवादिः स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ५४॥ परस्त्रिकालादकलः स एव परमेश्वरः । सर्ववित् त्रिगुणाधीशो ब्रह्म साक्षात् परात्परः ॥ ५५॥ तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् । देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ५६॥ कालादिभिः परो यस्मात् प्रपञ्चः परिवर्तते । धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ५७॥ तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेश्वरेश्वरम् ॥ ५८॥ न तस्य विद्येत कार्यं कारणं च न विद्यते । न तत्समोऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ५९॥ परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता । ज्ञानं बलं क्रियां चैव याभ्यो विश्वमिदं कृतम् ॥ ६०॥ न तस्यास्ति पतिः कश्चिन्नैव लिङ्गं न चेशिता । कारणं कारणानां च स तेषामधिपाधिपः ॥ ६१॥ न चास्य जनिता कश्चिन्न च जन्म कुतश्चन । न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ६२॥ स एकः सर्वभूतेषु गूढो व्याप्तश्च विश्वतः । सर्वभूतान्तरात्मा च धर्माध्यक्षः स कथ्यते ॥ ६३॥ सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः । एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ६४॥ नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः । एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ६५॥ साङ्ख्ययोगाधिगम्यं यत् कारणं जगतां पतिम् । ज्ञात्वा देवं पशुः पाशैः सर्वैरेव विमुच्यते ॥ ६६॥ विश्वकृद् विश्ववित् स्वात्मयोनिज्ञः कालकृद् गुणी । प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ६७॥ ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् । यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ६८॥ मुमुक्षुरस्मात् संसारात् प्रपद्ये शरणं शिवम् । निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ ६९॥ अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ॥ ७०॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ ७१॥ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः । आत्माश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ ७२॥ वेदान्ते परमं गुह्यं पुरा कल्पप्रचोदितम् । ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ ७३॥ नाप्रशान्ताय दातव्यमेतज्ज्ञानमनुत्तमम् । न पुत्रायासुवृत्ताय नाशिष्याय च सर्वथा ॥ ७४॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७५॥ अतश्च सङ्क्षेपमिदं श‍ृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः । स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम षष्ठोऽध्यायः ॥ ७.१.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.७. सप्तमोऽध्यायः । कालमहिमवर्णनम् ।

मुनय ऊचुः । कालादुत्पद्यते सर्वं कालादेव विपद्यते । न कालनिरपेक्षं हि क्वचित्किञ्चन विद्यते ॥ १॥ यदास्यान्तर्गतं विश्वं शश्वत्संसारमण्डलम् । सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ २॥ ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः । यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ३॥ भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः । अतिप्रभुरिति स्वैरं वर्ततेऽतिभयङ्करः ॥ ४॥ क एष भगवान् कालः कस्य वा वशवर्त्ययम् । क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ५॥ वायुरुवाच । कालकाष्ठानिमेषादिकलाकलितविग्रहम् । कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ६॥ यदलङ्घ्यमशेषस्य स्थावरस्य चरस्य च । नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७॥ तस्यांशांशमयी शक्तिः कालात्मनि महात्मनि । ततो निष्क्रम्य सङ्क्रान्ता विसृष्टाग्रेरिवायसी ॥ ८॥ तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः । शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ९॥ यतोऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् । महती तेन कालस्य मर्यादा हि दुरत्यया ॥ १०॥ कालं प्रज्ञाविशेषेण कोऽतिवर्तितुमर्हति । कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ११॥ एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति । तेऽपि नैवातिवर्तन्ते कालं वेलामिवाब्धयः ॥ १२॥ ये निगृह्येन्द्रियग्रामं जयन्ति सकलं जगत् । न जयन्त्यपि ते कालं कालो जयति तानपि ॥ १३॥ आयुर्वेदविदो वैद्याः त्वनुष्ठितरसायनाः । न मृत्युमतिवर्तन्ते कालो हि दुरतिक्रमः ॥ १४॥ श्रिया रूपेण शीलेन बलेन च कुलेन च । अन्यच्चिन्तयते जन्तुः कालोऽन्यत्कुरुते बलात् ॥ १५॥ अप्रियैश्च प्रियैश्चैव ह्यचिन्तितसमागमैः । संयोजयति भूतानि वियोजयति चेश्वरः ॥ १६॥ यदैव दुःखितः कश्चित्तदैव सुखितः परः । दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ १७॥ यो युवा स भवेद् वृद्धो यो बलीयान्स दुर्बलः । यः श्रीमान्सोऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ १८॥ नाभिजात्यं न वै शीलं न बलं न च नैपुणम् । भवेत्कार्याय पर्याप्तं कालश्चत् प्रतिरोधकः ॥ १९॥ ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः । ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ २०॥ फलन्त्यकाले न रसायनानि सम्यक् प्रयुक्तान्यपि चौषधानि । तान्येव कालेन समाहृतानि सिद्धिं प्रयान्त्याशु सुखं दिशन्ति ॥ २१॥ नाकालतोऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति । नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किञ्चित् ॥ २२॥ कालेन शीतः प्रतिवाति वातः कालेन वृष्टिर्जलदानुपैति । कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ २३॥ कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवन्ति नित्यम् । कालेन सस्यानि लयं प्रयान्ति कालेन सञ्जीवति जीवलोकः ॥ २४॥ इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः । कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ २५॥ न यस्य कालो न च बन्धमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् । विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ २६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमोऽध्यायः ॥ ७.१.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.८. अष्टमोऽध्यायः । कालप्रभावे त्रिदेवायुर्वर्णनम् ।

ऋषय ऊचुः । केन मानेन कालेऽस्मिन्नायुः सङ्ख्या प्रकल्प्यते । सङ्ख्यारूपस्य कालस्य कः पुनः परमोऽवधिः ॥ १॥ वायुरुवाच । आयुषोऽत्र निमेषाख्यमाद्यमानं प्रचक्षते । सङ्ख्यारूपस्य कालस्य शान्त्यतीतकलावधि ॥ २॥ अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः । तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ३॥ काष्ठास्त्रिंशत्कला नाम कलास्त्रिंशन्मुहूर्तकः । मुहूर्त्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ४॥ त्रिंशत्सङ्ख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ५॥ ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ६॥ मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् । लौकिकेनैव मानेन ह्यब्दो यो मानुषः स्मृतः ॥ ७॥ एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः । दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ८॥ मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः । संवत्सरोऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ९॥ त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि । दिव्यः संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ १०॥ दिव्येनैव प्रमाणेन युगसङ्ख्या प्रवर्तते । चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ११॥ पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते । द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ १२॥ चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १३॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १४॥ एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् । चतुर्युगसहस्रं यत्सङ्कल्प इति कथ्यते ॥ १५॥ चतुर्युगैकसप्तत्या मनोरन्तरमुच्यते । कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ १६॥ एतेन क्रमयोगेन कल्पमन्वन्तराणि च । सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ॥ १७॥ अज्ञेयत्वाच्च सर्वेषामसङ्ख्येयतया पुनः । शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ १८॥ कल्पो नाम दिवा प्रोक्तो ब्रह्मणोऽव्यक्तजन्मनः । कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ १९॥ वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् । सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ २०॥ सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा । कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ २१॥ तस्य वै दिवसे यान्ति चतुर्दश पुरन्दराः । शतानि मासे चत्वारि विंशत्या सहितानि च ॥ २२॥ अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च । चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ २३॥ ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा । ईश्वरस्य दिने रुद्रः सदाख्यस्य तथेश्वरः ॥ २४॥ साक्षाच्छिवस्य तत्सङ्ख्यस्तथा सोऽपि सदाशिवः । चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ २५॥ तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते । यत्तत्सृष्टेः समाख्यातं कालान्तरमिह द्विजाः ॥ २६॥ एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् । रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ २७॥ अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः । अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ २८॥ एषोपचारः क्रियते लोकानां हितकाम्यया । प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ २९॥ इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च । तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतैः ॥ ३०॥ अहस्तिष्ठन्ति सर्वाणि परमेशस्य धीमतः । अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः ॥ ३१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमोऽध्यायः ॥ ७.१.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.९. नवमोऽध्यायः । सृष्टिपालनप्रलयकर्तृत्ववर्णनम् ।

मुनय ऊचुः । कथं जगदिदं कृत्स्नं विधाय च निधाय च । आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ १॥ किं तत्प्रथमसम्भूतं केनेदमखिलं ततम् । केन वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ २॥ वायुरुवाच । शक्तिः प्रथमसम्भूता शान्त्यतीतपदोत्तरा । ततो माया ततोऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ३॥ शान्त्यतीतपदं शक्तेस्ततः शान्तिपदं क्रमात् । ततो विद्यापदं तस्मात्प्रतिष्ठापदसम्भवः ॥ ४॥ निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् । एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ५॥ आनुलोम्यात्तथैतेषां प्रातिलोम्येन संहृतिः । अस्मात्पञ्चपदोद्दिष्टात्परः स्रष्टा समिष्यते ॥ ६॥ कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् । अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७॥ महदादिविशेषान्तं सृजतीत्यपि सम्मतम् । किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ८॥ अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च । प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ९॥ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना । जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ १०॥ तस्माच्छक्तः स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् । अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ११॥ स एव जगतः कर्ता महादेवो महेश्वरः । पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ १२॥ परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च । सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ १३॥ इतीयं शाश्वती निष्ठा सतां मनसि वर्तते । न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ १४॥ यावदादिसमारम्भो यावद्यः प्रलयो महान् । तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ १५॥ परमित्यायुषो नाम ब्रह्मणोऽव्यक्तजन्मनः । तत्पराख्यं तदर्द्धं च परार्धमभिधीयते ॥ १६॥ परार्द्धद्वयकालान्ते प्रलये समुपस्थिते । अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ १७॥ आत्मन्यवस्थितेऽव्यक्ते विकारे प्रतिसंहृते । साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ १८॥ तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ । अनुद्रिक्तावनूनौ तावोतप्रोतौ परस्परम् ॥ १९॥ गुणसाम्ये तदा तस्मिन्नविभागे तमोदये । शान्तवातैकनीरे च न प्राज्ञायत किञ्चन ॥ २०॥ अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः । उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ २१॥ प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ । प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ २२॥ ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् । अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ २३॥ विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलः समाप्तः । आत्मानमध्वपतिमध्वविदो वदन्ति तस्मै नमः सकललोकविलक्षणाय ॥ २४॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः ॥ ७.१.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१०. दशमोऽध्यायः । ब्रह्माण्डस्थितिवर्णनम् ।

वायुरुवाच । पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया । बुद्ध्यादयो विशेषान्ता विकाराश्चाभवन् क्रमात् ॥ १॥ ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः । कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ २॥ सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् । ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ३॥ सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् । प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ४॥ कल्पान्तरे पुनस्तेषामस्पर्द्धाबुद्धिमोहिनाम् । सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ५॥ एते परस्परोत्पन्ना धारयन्ति परस्परम् । परस्परेण वर्द्धन्ते परस्परमनुव्रताः ॥ ६॥ क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद् रुद्रः प्रशस्यते । नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७॥ मूर्खा निन्दन्ति तान्वाग्भिः संरम्भाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः ॥ ८॥ देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः । सकलः सकलाधारः शक्तेरुत्पत्तिकारणम् ॥ ९॥ सोऽयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च । लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ १०॥ यः सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः । स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ११॥ तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा । सदाशिवो भवो विष्णुर्ब्रह्मा सर्वं शिवात्मकम् ॥ १२॥ प्रधानात्प्रथमं जज्ञे बुद्धिः ख्यातिर्मतिर्महान् । महत्तत्त्वस्य सङ्क्षोभादहङ्कारस्त्रिधाऽभवत् ॥ १३॥ अहङ्कारश्च भूतानि तन्मात्राणीन्द्रियाणि च । वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ १४॥ वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्तते । बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ १५॥ एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । तमोयुक्तादहङ्काराद्भूततन्मात्रसम्भवः ॥ १६॥ भूतानामादिभूतत्वाद् भूतादिः कथ्यते तु सः । भूतादेः शब्दमात्रं स्यात्तत्र चाकाशसम्भवः ॥ १७॥ आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः । वायो रूपं ततस्तेजस्तेजसो रससम्भवः ॥ १८॥ रसादापः समुत्पन्नास्ताभ्यो गन्धसमुद्भवः । गन्धाच्च पृथिवी जाता भूतेभ्योऽन्यच्चराचरम् ॥ १९॥ पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च । महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ २०॥ तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा । तदण्डे सुप्रवृद्धोऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २१॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ २२॥ तस्येश्वरस्याप्रतिमा ज्ञानवैराग्यलक्षणा । धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञेऽभिमानिनः ॥ २३॥ अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् । वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ २४॥ त्रिधा विभज्य चात्मानं त्रैलोक्ये सम्प्रवर्त्तते । सृजते ग्रसते चैव वीक्षते च त्रिभिः स्वयम् ॥ २५॥ चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकः स्मृतः । सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थास्स्वयम्भुवः ॥ २६॥ सत्त्वं रजश्च ब्रह्मत्वे च कालत्वे च तमो रजः । विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभोः ॥ २७॥ ब्रह्मत्वे सृजते लोकान् कालत्वे सङ्क्षिपत्यपि । पुरुषत्वेऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ २८॥ एवं त्रिधा विभिन्नत्वाद् ब्रह्मा त्रिगुण उच्यते । चतुर्द्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ २९॥ आदित्वादादिदेवोऽसावजातत्वादजः स्मृतः । पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ३०॥ हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः । गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ३१॥ तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ३२॥ अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम् । आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ३३॥ तेजो दशगुणेनैव वायुना बहिरावृतम् । आकाशेनावृतो वायुः खं च भूतादिनाऽऽवृतम् ॥ ३४॥ भूतादिर्महता तद्वदव्यक्तेनावृतो महान् । एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ३५॥ एतदावृत्य चान्योऽन्यमष्टौ प्रकृतयः स्थिताः । सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ३६॥ एवं परस्परोत्पन्ना धारयन्ति परस्परम् । आधाराधेयभावेन विकारास्तु विकारिषु ॥ ३७॥ कूर्मोऽङ्गानि यथा पूर्वं प्रसार्य्य विनियच्छति । विकारांश्च तथाऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ३८॥ अव्यक्तप्रभवं सर्वमानुलोम्येन जायते । प्राप्ते प्रलयकाले तु प्रातिलोम्येऽनुलीयते ॥ ३९॥ गुणाः कालवशादेव भवन्ति विषमाः समाः । गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ४०॥ तदिदं ब्रह्मणो योनिरेतदण्डं घनं महत् । ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ४१॥ इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः । सर्वगत्वात्प्रधानस्य तिर्य्यगूर्ध्वमधः स्थिताः ॥ ४२॥ तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः । सृष्टा प्रधानेन तथा लब्ध्वा शम्भोस्तु सन्निधिम् ॥ ४३॥ महेश्वरः परोव्यक्तादण्डमव्यक्तसम्भवम् । अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ४४॥ अबुद्धिपूर्वः कथितो मयैषः प्रधानसर्गः प्रथमः प्रवृत्तः । आत्यन्तिकश्च प्रलयोऽन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ४५॥ यत्तत्स्मृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतेः प्रसूतिः । अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ४६॥ उत्पादकत्वाद्रजसोऽतिरेका ल्लोकस्य सन्तानविवृद्धिहेतून् । अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथान्तकाले ॥ ४७॥ प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः । तत्सर्वमप्राकृतवैभवस्य सङ्कल्पमात्रेण महेश्वरस्य ॥ ४८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं नाम दशमोऽध्यायः ॥ ७.१.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.११. एकादशोऽध्यायः । सृष्ट्यादिवर्णनम् ।

मुनय ऊचुः । मन्वन्तराणि सर्वाणि कल्पभेदांश्च सर्वशः । तेष्वेवान्तरसर्गं च प्रतिसर्गं च नो वद ॥ १॥ वायुरुवाच । कालसङ्ख्याविवृत्तस्य परार्द्धो ब्रह्मणः स्मृतः । तावांश्चैवास्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते ॥ २॥ दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः । चतुर्दश महाभागा मनूनां परिवृत्तयः ॥ ३॥ अनादित्वादनन्तत्वादज्ञेयत्वाच्च कृत्स्नशः । मन्वन्तराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ४॥ उक्तेष्वपि च सर्वेषु श‍ृण्वतां वो वचो मम । किमिहास्ति फलं तस्मान्न पृथग वक्तुमुत्सहे ॥ ५॥ य एव खलु कल्पेषु कल्पः सम्प्रति वर्तते । तत्र सङ्क्षिप्य वर्तन्ते सृष्टयः प्रतिसृष्टयः ॥ ६॥ यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः । अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७॥ स्वायम्भुवादयः सप्त सप्त सावर्णिकादयः । तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ८॥ मन्वन्तरेषु सर्वेषु सर्गसंहारवृत्तयः । प्रायः समा भवन्तीति तर्कः कार्यो विजानता ॥ ९॥ पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते । समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ १०॥ जगन्ति तृणवक्त्रीणि देवे दहति पावके । वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ११॥ दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि । तदद्भिश्चटुलाक्षेपैस्तरङ्गभुजमण्डलैः ॥ १२॥ प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु । ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ १३॥ इमं चोदाहरन्मन्त्रं श्लोकं नारायणं प्रति । तं श‍ृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ १४॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ १५॥ शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् । बद्धाञ्जलिपुटाः सिद्धा जनलोकनिवासिनः ॥ १६॥ स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः । यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ १७॥ ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् । उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ १८॥ नापश्यत्स तदा किञ्चित्स्वात्मनो व्यतिरेकि यत् । सविस्मय इवासीनः परां चिन्तामुपागमत् ॥ १९॥ क्व सा भगवती या तु मनोज्ञा महती मही । नानाविधमहाशैलनदीनगरकानना ॥ २०॥ एवं सञ्चिन्तयन्ब्रह्मा बुबुधे नैव भूस्थितिम् । तदा सस्मार पितरं भगवन्तं त्रिलोचनम् ॥ २१॥ स्मरणाद्देवदेवस्य भवस्यामिततेजसः । ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ २२॥ ततो भूमेः समुद्धारं कर्तुकामः प्रजापतिः । जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ २३॥ महापर्वतवर्ष्माणं महाजलदनिःस्वनम् । नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ २४॥ पीनवृत्तघनस्कन्धं पीनोन्नतकटीतटम् । ह्रस्ववृत्तोरुजङ्घाग्रं सुतीक्ष्णखुरमण्डलम् ॥ २५॥ पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् । वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ २६॥ उदीर्णोच्छ्वासनिःश्वासघूर्णितप्रलयार्णवम् । विस्फुरत्सुसटाच्छन्नकपोलस्कन्धबन्धुरम् ॥ २७॥ मणिभिर्भूषणैश्चित्रैर्महारत्नैः परिष्कृतम् । विराजमानं विद्युद्भिर्मेघसङ्घमिवोन्नतम् ॥ २८॥ आस्थाय विपुलं रूपं वाराहममितं विधिः । पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ २९॥ स तदा शुशुभेऽतीव सूकरो गिरिसन्निभः । लिङ्गाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ३०॥ ततः स सलिले मग्नां पृथिवीं पृथिवीन्धरः । उद्धृत्यालिङ्ग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ३१॥ तं दृष्ट्वा मुनयः सिद्धा जनलोकनिवासिनः । मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ३२॥ वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् । पतद्भिरिव खद्योतैः प्राशुरञ्जनपर्वतः ॥ ३३॥ ततः संस्थानमानीय वराहो महतीं महीम् । स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ३४॥ पृथिवीं च समीकृत्य पृथिव्यां स्थापयन् गिरीन् । भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ३५॥ इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् । उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ३६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्ट्यादिवर्णनं नामैकादशोऽध्यायः ॥ ७.१.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१२. द्वादशोऽध्यायः । सृष्टिवर्णनम् ।

वायुरुवाच । सर्गं चिन्तयतस्तस्य तदा वै बुद्धिपूर्वकम् । प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ १॥ तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः । अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ २॥ पञ्चधाऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः । सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ३॥ बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च । तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ४॥ तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः । तं दृष्ट्वासाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ५॥ अप्रसन्नमना भूत्वा द्वितीयं सोऽभ्यमन्यत । तस्याभिधायतः सर्गं तिर्य्यक्स्रोतोऽभ्यवर्त्तत ॥ ६॥ अन्तःप्रकाशास्तिर्य्यञ्च आवृताश्च बहिः पुनः । पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७॥ तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत । तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ८॥ ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः । प्रकाशा बहिरन्तश्च स्वभावादेव संज्ञिताः ॥ ९॥ ततोऽभिध्यायतोऽव्यक्तादर्वाक्स्रोतस्तु साधकः । मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ १०॥ प्रकाशा बहिरन्तस्ते तमोद्रिक्ता रजोऽधिकाः । पञ्चमोऽनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ११॥ विपर्य्येण शक्त्या च तुष्ट्या सिद्ध्या तथैव च । तेऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ १२॥ खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः । प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ १३॥ तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते । वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ १४॥ इत्येष प्रकृतेः सर्गः सम्भृतोऽबुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ १५॥ तिर्य्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः । तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ १६॥ ततोऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ १७॥ प्राकृताश्च त्रयः पूर्वे सर्गास्तेऽबुद्धिपूर्वकाः । बुद्धिपूर्वं प्रवर्त्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ १८॥ अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् । सनन्दं सनकं चैव विद्वांसञ्च सनातनम् ॥ १९॥ ऋभुं सनत्कुमारं च पूर्वमेव प्रजापतिः । सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ २०॥ ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् । तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ २१॥ स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः । तस्यैवं तप्यमानस्य न किञ्चित्समवर्त्तत ॥ २२॥ ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ २३॥ ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् । सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिन्दत ॥ २४॥ तस्य तीव्राऽभवन्मूर्छा क्रोधामर्षसमुद्भवा । मूर्च्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ २५॥ ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः । प्रसादमतुलं कर्त्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ २६॥ दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः । ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ २७॥ यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् । तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ २८॥ प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः । एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ २९॥ रोदनाद् द्रावणाच्चैव ते रुद्रा नामतः स्मृताः । येरुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ३०॥ ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः । घृणी ददौ पुनः प्राणान् ब्रह्मपुत्रो महेश्वरः ॥ ३१॥ प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः । अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ३२॥ मा भैर्माभैर्महाभाग विरिञ्चे जगतां गुरो । मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ३३॥ स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् । हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ३४॥ तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा । उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ३५॥ त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः । को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ३६॥ तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः । स्पृशन् कराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ३७॥ मां विद्धि परमात्मानं तव पुत्रत्वमागतम् । एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ३८॥ तस्मात्तीव्रामिमां मूर्च्छां विधूय मदनुग्रहात् । प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ३९॥ एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् । नामाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ४०॥ ब्रह्मोवाच । नमस्ते भगवन् रुद्र भास्करामिततेजसे । नमो भवाय देवाय रसायाम्बुमयात्मने । शर्वाय क्षितिरूपाय सदासुरभये नमः ॥ ४१॥ ईशाय वसवे तुभ्यं नमः स्पर्शमयात्मने । पशूनां पतये चैव पावकायातितेजसे । भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ४२॥ उग्रायोग्रस्वरूपाय यजमानात्मने नमः । महाशिवाय सोमाय नमोऽस्त्वमृतमूर्तये ॥ ४३॥ एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः । प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ४४॥ भगवन् भूतभव्येश मम पुत्र महेश्वर । सृष्टिहेतोस्त्वमुत्पन्नो ममाङ्गेऽनङ्गनाशन ॥ ४५॥ तस्मान्महति कार्येऽस्मिन् व्यापृतस्य जगत्प्रभो । सहायं कुरु सर्वत्र स्रष्टुमर्हसि सुप्रजाः ॥ ४६॥ तेनैवं प्रार्थितो देवो रुद्रस्त्रिपुरमर्दनः । बाढमित्येव तां वाणीं प्रतिजग्राह शङ्करः ॥ ४७॥ ततः स भगवान् ब्रह्मा हृष्टं तमभिनन्द्य च । स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ४८॥ मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च सोऽसृजन्मनसैव च । पुरस्तादसृजद् ब्रह्मा धर्मं सङ्कल्पमेव च ॥ ४९॥ इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः । सह रुद्रेण सम्भूताः पुराणा गृहमेधिनः ॥ ५०॥ तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः । प्रजावन्तः क्रियावन्तो महर्षिभिरलङ्कृताः ॥ ५१॥ अथ देवासुरान् पितृन् मनुष्यांश्च चतुष्टयम् । सह रुद्रेण सिसृक्षुरम्भस्येतानि वै विधिः ॥ ५२॥ स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् । मुखादजनयद्देवान् पितॄंश्चैवोपपक्षतः ॥ ५३॥ जघनादसुरान् सर्वान् प्रजनादपि मानुषान् । अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ५४॥ पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः । सर्पा यक्षास्तथा भूता गन्धर्वाः सम्प्रजज्ञिरे ॥ ५५॥ वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसोऽसृजत् । मुखतोऽजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ५६॥ पद्भ्यां चाश्वान्समातङ्गान् शरभान् गवयान् मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः ॥ ५७॥ औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे । गायत्रीं च ऋचं चैव त्रिवृत्साम रथन्तरम् ॥ ५८॥ अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् । यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ॥ ५९॥ बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् । सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ॥ ६०॥ वैरूप्यमतिरात्रं च पश्चिमादसृजन् मुखात् । एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ६१॥ अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् । उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ६२॥ यक्षाः पिशाचा गन्धर्वास्तथैवाप्सरसां गणाः । नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ६३॥ अव्ययं चैव यदिदं जगत् स्थावरजङ्गमम् । तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ६४॥ तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः । हिंस्राहिंस्रे मृदु क्रूरे धर्माधर्मावृतानृते ॥ ६५॥ तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते । महाभूतेषु नानात्वमिन्द्रियार्थेषु मुक्तिषु ॥ ६६॥ विनियोगं च भूतानां धातैव व्यदधत्स्वयम् । नामरूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ६७॥ वेदशब्देभ्य एवादौ निर्ममेऽसौ पितामहः । आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ६८॥ शर्वर्य्यन्ते प्रसूतानां तान्येवैभ्यो ददावजः । यथर्तावृतुलिङ्गानि नानारूपाणि पर्य्यये ॥ ६९॥ दृश्यन्ते तानि तान्येव तथा भावा युगादिषु । इत्येष करणोद्भूतो लोकसर्गः स्वयम्भुवः ॥ ७०॥ महदाद्यो विशेषान्तो विकारः प्रकृतेः स्वयम् । चन्द्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमण्डितः ॥ ७१॥ नदीभिश्च समुद्रैश्च पर्वतैश्च स मण्डितः । परैश्च विविधै रम्यैः स्फीतैर्जनपदैस्तथा ॥ ७२॥ तस्मिन् ब्रह्मवनेऽव्यक्तो ब्रह्मा चरति सर्ववित् । अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७३॥ बुद्धिस्कन्धमहाशाख इन्द्रियान्तरकोटरः । महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७४॥ धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः । आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७५॥ द्यां मूर्द्धानं तस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे चरणौ च क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७६॥ वक्त्रात्तस्य ब्राह्मणाः सम्प्रसूताः तद्वक्षसः क्षत्रियाः पूर्वभागात् । वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः सम्प्रसूताः ॥ ७७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१३. त्रयोदशोऽध्यायः । ब्रह्मविष्णुसृष्टिकथनम् ।

ऋषय ऊचुः । भवता कथिता सृष्टिर्भवस्य परमात्मनः । चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ १॥ देवश्रेष्ठो विरूपाक्षो दीप्तः शूलधरो हरः । कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ २॥ सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् । यः संहरति सङ्क्रुद्धो युगान्ते समुपस्थिते ॥ ३॥ यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् । लोकसङ्कोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ४॥ योऽयं देवः स्वकादङ्गाद् ब्रह्मविष्णू पुरासृजत् । स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ५॥ स कथं भगवान् रुद्र आदिदेवः पुरातनः । पुत्रत्वमगमच्छम्भुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ६॥ प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् । सृष्टौ परस्परस्याङ्गादिति प्रागपि शुश्रुम ॥ ७॥ कथं पुनरशेषाणां भूतानां हेतुभूतयोः । गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ८॥ नापृष्टं भवता किञ्चिन्नाश्रुतं च कथञ्चन । भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ९॥ तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः । वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ १०॥ वायुरुवाच । स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः । इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ११॥ तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः । यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ १२॥ त्रयस्ते कारणात्मानो जाताः साक्षान्महेश्वरात् । चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवः ॥ १३॥ परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः । तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ १४॥ पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु । ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ १५॥ तथाप्यन्योऽन्यमात्सर्यादन्योऽन्यातिशयाशिनः । तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ १६॥ लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः । ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् ॥ १७॥ कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः । विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः ॥ १८॥ नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः । एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ १९॥ परस्परेण जायन्ते परस्परहितैषिणः । तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ २०॥ प्रभावः कथ्यते तेषां परस्परसमुद्भवात् । श‍ृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ २१॥ कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः । पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ २२॥ दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् । तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ २३॥ सर्वः सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् । शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ २४॥ ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह । विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ २५॥ ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् । गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् । आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ २६॥ तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः । स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ २७॥ अहं च तपसाराध्य रुद्रं त्रिदशनायकम् । त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ २८॥ एवं विष्णुमुपालभ्य भगवानब्जसम्भवः । एवं विज्ञापयामास तपसा प्राप्य शङ्करम् ॥ २९॥ भगवन् देवदेवेश विश्वेश्वर महेश्वर । तव वामाङ्गजो विष्णुर्दक्षिणाङ्गभवो ह्यहम् ॥ ३०॥ मया सह जगत्सर्वं तथाप्यसृजदच्युतः । स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ३१॥ मद्भावान्नाधिकस्तेऽतिभावस्त्वयि महेश्वरे । त्वत्त एव समुत्पत्तिरावयोः सदृशी यतः ॥ ३२॥ तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि । तथा ममापि तत्सर्वं दातुमर्हसि शङ्कर ॥ ३३॥ इति विज्ञापितस्तेन भगवान् भगनेत्रहा । न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ३४॥ लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् । त्वरमाणोऽथ सङ्गम्य ददर्श पुरुषोत्तमम् ॥ ३५॥ क्षीरार्णवालये शुभ्रे विमाने सूर्यसन्निभे । हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ३६॥ अनन्तभोगशय्यायां शयानं पङ्कजेक्षणम् । चतुर्भुजमुदाराङ्गं सर्वाभरणभूषितम् ॥ ३७॥ शङ्खचक्रधरं सौम्यं चन्द्रबिम्बसमाननम् । श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ३८॥ धरामृदुकराम्भोजस्पर्शरक्तपदाम्बुजम् । क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ३९॥ तमसा कालरुद्राख्यं रजसा कनकाण्डजम् । सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ४०॥ तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् । ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ४१॥ तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् । उदैक्षत महाबाहुः स्मितमीषच्चकार च ॥ ४२॥ तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना । सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ४३॥ तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः । शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ४४॥ प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः । आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ४५॥ अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् । प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ४६॥ भवोऽपि भगवानेतावनुगृह्य पिनाकधृक् । सादरं पश्यतोरेव तयोरन्तरधीयत ॥ ४७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशोऽध्यायः ॥ ७.१.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१४. चतुर्दशोऽध्यायः । रुद्राविर्भाववर्णनम् ।

वायुरुवाच । प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् । यतोऽविच्छिन्नसन्ताना ब्रह्मसृष्टिः प्रवर्तते ॥ १॥ कल्पे कल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्माण्डसम्भवः । अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ २॥ तस्य दुःखप्रशान्त्यर्थं प्रजानां च विवृद्धये । तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ३॥ निर्दिष्टः परमेशेन महेशो नीललोहितः । पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुजः ॥ ४॥ स एव भगवानीशस्तेजोराशिरनामयः । अनादिनिधनो धाता भूतसङ्कोचको विभुः ॥ ५॥ परमैश्वर्यसंयुक्तः परमेश्वरभावितः । तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ६॥ तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः । तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७॥ सहस्रादित्यसङ्काशश्चन्द्रावयवभूषणः । भुजङ्गहारकेयूरवलयो मुञ्जमेखलः ॥ ८॥ जलन्धरविरिञ्चेन्द्रकपालशकलोज्ज्वलः । गङ्गातुङ्गतरङ्गार्द्रपिङ्गलाननमूर्द्धजः ॥ ९॥ भग्नदंष्ट्राङ्कुराक्रान्तप्रान्तकान्तधराधरः । सव्यश्रवणपार्श्वान्तमण्डलीकृतकुण्डलः ॥ १०॥ महावृषभनिर्याणो महाजलदनिःस्वनः । महानलसमप्रख्यो महाबलपराक्रमः ॥ ११॥ एवं घोरमहारूपो ब्रह्मपुत्रो महेश्वरः । विज्ञानं ब्रह्मणे दत्त्वा सर्गं सह करोति च ॥ १२॥ तस्माद् रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः । प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ १३॥ कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः । स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ १४॥ कपर्दिनो निरातङ्कान्नीलग्रीवाँस्त्रिलोचनान् । जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ १५॥ तैस्तु सञ्छादितं सर्वं चतुर्दशविधं जगत् । तान्दृष्ट्वा विविधान् रुद्रान् रुद्रमाह पितामहः ॥ १६॥ नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः । अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ १७॥ इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः । नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १८॥ ये त्विमे मनसा सृष्टा महात्मानो महाबलाः । चरिष्यन्ति मया सार्द्धं सर्व एव हि याज्ञिकाः ॥ १९॥ इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः । सह रुद्रैः प्रजासर्गान्निवृत्तात्माध्यतिष्ठत ॥ २०॥ ततः प्रभृति देवोऽसौ न प्रसूते प्रजाः शुभाः । ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम् ॥ २१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.१.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१५. पञ्चदशोऽध्यायः । शिवशिवास्तुतिवर्णनम् ।

वायुरुवाच । यदा पुनः प्रजाः सृष्टा न व्यवर्द्धन्त वेधसः । तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ १॥ न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् । तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ २॥ ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् । प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ३॥ प्रसादेन विना तस्य न वर्द्धेरन्निमाः प्रजाः । एवं सञ्चिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ४॥ तदाद्या परमा शक्तिरनन्ता लोकभाविनी । आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ५॥ निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा । निरन्तररता नित्या नित्यमीश्वरपार्श्वगा ॥ ६॥ तया परमया शक्त्या भगवन्तं त्रियम्बकम् । सञ्चिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७॥ तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः । अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥ ८॥ ततः केनचिदंशेन मूर्तिमाविश्य कामपि । अर्द्धनारीश्वरो भूत्वा ययौ देवः स्वयं हरः ॥ ९॥ तं दृष्ट्वा परमं देवं तमसः परमव्ययम् । अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ १०॥ सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् । सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ११॥ अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् । अचलं निर्गुणं शान्तमनन्तमहिमास्पदम् ॥ १२॥ सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् । सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ १३॥ प्रणम्य दण्डवद् ब्रह्मा समुत्थाय कृताञ्जलिः । श्रद्धाविनयसम्पन्नैः श्राव्यैः संस्कारसंयुतैः ॥ १४॥ यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः । तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ १५॥ ब्रह्मोवाच । जय देव महादेव जयेश्वर महेश्वर । जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १६॥ जय प्रकृतिकल्याणि जय प्रकृतिनायिके । जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ १७॥ जयामोघमहामाय जयामोघमनोरथ । जयामोघमहालील जयामोघमहाबल ॥ १८॥ जय विश्वजगन्मातर्जय विश्वजगन्मयि । जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ १९॥ जय शाश्वतिकैश्वर्य जय शाश्वतिकालय । जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ २०॥ जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि । जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ २१॥ जयावलोकनायत्तजगत्कारणबृंहण । जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ २२॥ जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले । जय स्थूलात्मशक्त्येशे जय व्याप्तचराचरे ॥ २३॥ जय नानैकविन्यस्तविश्वतत्त्वसमुच्चय । जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥ २४॥ जयोपाश्रितसंरक्षासंविधानपटीयसि । जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ २५॥ जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भण । जय विश्वबहिर्भूत निरस्तपरवैभव ॥ २६॥ जय प्रणीतपञ्चार्थप्रयोगपरमामृत । जय पञ्चार्थविज्ञानसुधास्रोतःस्वरूपिणि ॥ २७॥ जयातिघोरसंसारमहारोगभिषग्वर । जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥ २८॥ जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि । जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ २९॥ जय प्रथमसर्वज्ञ जय सर्वप्रबोधिके । जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥ ३०॥ क्व देव ते परं धाम क्व च तुच्छं च नो वचः । तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥ ३१॥ विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः । नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ३२॥ इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् । अर्द्धनारीश्वरं नाम शिवयोर्हर्षवर्द्धनम् ॥ ३३॥ य इदं कीर्त्तयेद्भक्त्या यस्य कस्यापि काङ्क्षया । स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ३४॥ सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् । नरवरयुवतीवपुर्द्धराभ्यां सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥ ३५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवशिवास्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१६. षोडशोऽध्यायः । देवीशक्त्युद्भवः ।

वायुरुवाच । अथ देवो महादेवो महाजलदनादया । वाचा मधुरगम्भीरशिवदश्लक्ष्णवर्णया ॥ १॥ अर्थसम्पन्नपदया राजलक्षणयुक्तया । अशेषविषयारम्भरक्षाविमलयदक्षया ॥ २॥ मनोहरतरोदारमधुरस्मितपूर्वया । सम्बभाषेसुसम्प्रीतो विश्वकर्माणमीश्वरः ॥ ३॥ ईश्वर उवाच । वत्स वत्स महाभाग मम पुत्र पितामह । ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ ४॥ प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना । तपसानेन तुष्टोऽस्मि ददामि च तवेप्सितम् ॥ ५॥ इत्युक्त्वा परमोदारं स्वभावमधुरं वचः । ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ ६॥ यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् । परस्य परमां शक्तिं भवस्य परमात्मनः ॥ ७॥ यस्यां न खलु विद्यन्ते जन्ममृत्युजरादयः । या भवानी भवस्याङ्गात्समाविरभवत्किल ॥ ८॥ यस्या वाचो निवर्तन्ते मनसा चेन्द्रियैः सह । सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ ९॥ या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति । शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ १०॥ सर्वं जगदिदं चैषा सम्मोहयति मायया । ईश्वरात्सैव जाताऽभूदजाता परमार्थतः ॥ ११॥ न यस्याः परमो भावः सुराणामपि गोचरः । विश्वामरेश्वरी चैव विभक्ता भर्तुरङ्गतः ॥ १२॥ तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् । सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ १३॥ परमां निखिलं भासा भासयन्तीमिदं जगत् । प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ १४॥ ब्रह्मोवाच । देवि देवेन सृष्टोऽहमादौ सर्वजगन्मयि । प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ १५॥ मनसा निर्मिताः सर्वे देवि देवादयो मया । न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ १६॥ मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् । संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७॥ न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् । तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ १८॥ सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः । तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ १९॥ त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् । चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ २०॥ दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि । एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ २१॥ शक्तिमेकां भ्रुवोर्मध्यात् ससर्जात्मसमप्रभाम् । तामाह प्रहसन् प्रेक्ष्य देवदेववरो हरः ॥ २२॥ ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् । तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ २३॥ ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताऽभवत् । दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ २४॥ विवेश देहं देवस्य देवश्चान्तरधीयत । तदाप्रभृति लोकेऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ २५॥ प्रजासृष्टिश्च विप्रेन्द्रा मैथुनेन प्रवर्तते । ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुङ्गवाः ॥ २६॥ एतद्वः सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् । पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुषङ्गतः ॥ २७॥ य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् । पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ २८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशोऽध्यायः ॥ ७.१.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१७. सप्तदशोऽध्यायः । सृष्टिकथनम् ।

वायुरुवाच । एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् । मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ १॥ स्वयमप्यर्द्धतो नारी चार्द्धेन पुरुषोऽभवत् । यार्द्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ २॥ विराजमसृजद्ब्रह्मा सोऽर्द्धेन पुरुषोऽभवत् । स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥ ३॥ सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् । भर्त्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ४॥ तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत । प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ५॥ कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः । आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ६॥ स्वायम्भुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः । रुचेः प्रजापतेश्चैव चाकूतिं समपादयत् ॥ ७॥ आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ८॥ स्वायम्भुवसुतायां तु प्रसूत्यां लोकमातरः । चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ९॥ श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुः शान्तिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ १०॥ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ११॥ ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा । सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १२॥ भृगुः शर्वो मरीचिश्च अङ्गिराः पुलहः क्रतुः । पुलस्त्योऽत्रिर्वशिष्ठश्च पावकः पितरस्तथा ॥ १३॥ ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । कामाद्यास्तु यशोऽन्ता ये ते त्रयोदश सूनवः ॥ १४॥ धर्मस्य जज्ञिरे तास्तु श्रद्धाद्याः सुसुखोत्तराः । दुःखोत्तराश्च हिंसायामधर्मस्य च सन्ततौ ॥ १५॥ निकृत्यादय उत्पन्नाः पुत्राश्च धर्मलक्षणाः । नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ १६॥ स एष तामसः सर्गो जज्ञे धर्मनियामकः । या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ १७॥ भर्तृनिन्दाप्रसङ्गेन त्यक्त्वा दाक्षायिणीं तनुम् । दक्षं च दक्षभार्य्यां च विनिन्द्य सह बन्धुभिः ॥ १८॥ सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः । रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ १९॥ यथाऽसृजदसङ्ख्यातांस्तथा कथितमेव च । भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ २०॥ देवौ धातृविधातारौ मन्वन्तरविधारिणौ । तयोर्वै पुत्रपौत्राद्याः शतशोऽथ सहस्रशः ॥ २१॥ स्वायम्भुवेऽन्तरे नीताः सर्वे ते भार्गवा मताः । मरीचेरपि सम्भूतिः पौर्णमासमसूयत ॥ २२॥ कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः । येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ २३॥ स्मृतिश्चाङ्गिरसः पत्नी जनयामास वै सुतौ । आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ २४॥ तदीयाः पुत्रपौत्राश्च येऽतीतास्ते सहस्रशः । प्रीत्यां पुलस्त्यभार्यायां दन्तोऽग्निरभवत्सुतः । पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ २५॥ तत्सन्ततीया बहवः पौलस्त्या इति विश्रुताः । क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ॥ २६॥ कर्दमश्चासुरिश्चैव सहिष्णुश्चेति ते त्रयः । त्रेताग्निवर्चसः सर्वे येषां वंशः प्रतिष्ठितः ॥ २७॥ क्रतोः क्रतुसमान्भार्या सन्नतिः सुषुवे सुतान् । नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ २८॥ षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः । अनूरोरग्रतो यान्ति परिवार्य्य दिवाकरम् ॥ २९॥ अत्रेर्भार्यानसूया च पञ्चात्रेयानसूयत । कन्यकां च श्रुतिं नाम माता शङ्खपदस्य च ॥ ३०॥ सत्यनेत्रश्च हव्यश्च आपोमूर्तिः शनैश्चरः । सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ३१॥ तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् । स्वायम्भुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ ३२॥ ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे । ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ॥ ३३॥ रजोगात्रोर्ध्वबाहू च सवनश्चानयश्च यः । सुतपाः शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ३४॥ गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् । स्वायम्भुवेऽन्तरेऽतीतान्यर्बुदानि शतानि च ॥ ३५॥ इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्तितः । समासाद्विस्तराद्वक्तुमशक्योऽयमिति द्विजाः ॥ ३६॥ योऽसौ रुद्रात्मको वह्निब्रह्मणो मानसः सुतः । स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ३७॥ पावकः पवमानश्च शुचिरित्येष ते त्रयः । निर्मन्थ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥ ३८॥ सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः । हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ३९॥ त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते । एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ४०॥ काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः । सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ४१॥ सर्वे रुद्रात्मकाश्चैव सर्वे रुद्रपरायणाः । तस्मादग्निमुखे यत्तद् हुतं स्यादेव केनचित् ॥ ४२॥ तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः । इत्येवं निश्चयोऽग्नीनामनुक्रान्तो यथातथम् ॥ ४३॥ नातिविस्तरतो विप्राः पितृन्वक्ष्याम्यतः परम् । यस्मात्षड् ऋतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ४४॥ ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः । युष्माद् ऋतुषु सर्वे हि जायन्ते स्थास्नुजङ्गमाः ॥ ४५॥ तस्मादेते हि पितर आर्तवा इति च श्रुतम् । एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥ ४६॥ आत्मैश्वर्या महात्मानस्तिष्ठन्तीहाभ्रसङ्गमात् । आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ४७॥ अयज्वानश्च यज्वानः क्रमात्ते गृहमेधिनः । स्वधाऽसूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ४८॥ मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् । अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ४९॥ मेना हिमवतः पत्नी मैनाकं क्रौञ्चमेव च । गौरीं गङ्गां च सुषुवे भवाङ्गाश्लेषपावनीम् ॥ ५०॥ मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् । मन्दरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ५१॥ स एव मन्दरः श्रीमान्मेरुपुत्रस्तपोबलात् । साक्षाच्छ्रीकण्ठनाथस्य शिवस्यावसथं गतः ॥ ५२॥ साऽसूता धरणी भूयस्तिस्रः कन्याश्च विश्रुताः । वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ५३॥ आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः । स्वायम्भुवेऽन्तरे पूर्वं कथितस्ते तदन्वयः ॥ ५४॥ सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् । सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ५५॥ सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः । सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ५६॥ येषां स्वायम्भुवे दक्षः पुत्रत्वमगमत्पुरा । त्रियम्बकस्य शापेन चाक्षुषस्यान्तरे मनोः ॥ ५७॥ इत्येते ब्रह्मपुत्राणां धर्मादीनां महात्मनाम् । नातिसङ्क्षेपतो विप्रा नातिविस्तरतः क्रमात् ॥ ५८॥ वर्णिता वै मया वंशा दिव्या देवगणान्विताः । क्रियावन्तः प्रजावन्तो महर्द्धिभिरलङ्कृताः ॥ ५९॥ प्रजानां सन्निवेशोऽयं प्रजापतिसमुद्भवः । न हि शक्यः प्रसङ्ख्यातुं वर्षकोटिशतैरपि ॥ ६०॥ राज्ञामपि च यो वंशो द्विधा सोऽपि प्रवर्तते । सूर्यवंशः सोमवंश इति पुण्यतमः क्षितौ ॥ ६१॥ इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः । पुण्यश्लोकाः श्रुता येऽत्र तेऽपि तद्वंशसम्भवाः ॥ ६२॥ अन्ये च राजऋषयो नानावीर्यसमन्विताः । किं तैः फलमनुत्क्रान्तैरुक्तपूर्वैः पुरातनैः ॥ ६३॥ किं चेश्वरकथावृत्तौ यत्र तत्रान्यकीर्तनम् । न सद्भिः सम्मतं मत्वा नोत्सहे बहुभाषितुम् ॥ ६४॥ प्रसङ्गादीश्वरस्यैव प्रभावद्योतनादपि । सर्गादयोऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ६५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ ७.१.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१८. अष्टादशोऽध्यायः । सतीदेहत्यागः ।

ऋषय ऊचुः । देवी दक्षस्य तनया त्यक्त्वा दाक्षायणीं तनुम् । कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ १॥ कथं च निन्दितो रुद्रो दक्षेण च महात्मना । निमित्तमपि किं तत्र येन स्यान्निन्दितो भवः ॥ २॥ उत्पन्नश्च कथं दक्षो ह्यभिशापाद्भवस्य तु । चाक्षुषस्यान्तरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ३॥ वायुरुवाव श‍ृण्वन्तु कथयिष्यामि दक्षस्य लघुचेतसः । वृत्तं पापात् प्रमादाच्च विश्वामरविदूषणम् ॥ ४॥ पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः । कदाचिद् द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ५॥ तदा देवश्च देवी च दिव्यासनगतावुभौ । दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ६॥ तदानीमेव दक्षोऽपि गतस्तत्र सहामरैः । जामातरं हरं द्रष्टुं देवीं चात्मसुतां सतीम् ॥ ७॥ तदात्मगौरवाद्देवो देव्या दक्षे समागते । देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ८॥ तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् । पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ९॥ ततस्तेनैव वैरेण विधिना च प्रचोदितः । नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ १०॥ अन्याञ्जामातरः सर्वानाहूय स यथाक्रमम् । शतशः पुष्कलामर्चाञ्चकार च पृथक् पृथक् ॥ ११॥ तथा तान्सङ्गतान् श्रुत्वा नारदस्य मुखात्तदा । ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ १२॥ अथ सन्निहितं दिव्यं विमानं विश्वतोमुखम् । लक्षणाढ्यं सुखारोहमतिमात्रं मनोहरम् ॥ १३॥ तप्तजाम्बूनदप्रख्यं चित्ररत्नपरिष्कृतम् । मुक्तामयवितानाग्न्यं स्रग्दामसमलङ्कृतम् ॥ १४॥ तप्तकञ्चननिर्व्यूहं रत्नस्तम्भशतावृतम् । वज्रकल्पितसोपानं विद्रुमस्तम्भतोरणम् ॥ १५॥ पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् । वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ १६॥ मणिदण्डमनोज्ञेन महावृषभलक्ष्मणा । अलङ्कृतपुरोभागमभ्रशुभ्रेण केतुना ॥ १७॥ रत्नकञ्चुकगुप्ताङ्गैश्चित्रवेत्रैकपाणिभिः । अधिष्ठितमहाद्वारमप्रधृष्यैर्गणेश्वरैः ॥ १८॥ मृदङ्गतालगीतादिवेणुवीणाविशारदैः । विदग्धवेषभूषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ १९॥ आरुरोह महादेवी सह प्रियसखीजनैः । चामारव्यजने तस्या वज्रदण्डमनोहरे ॥ २०॥ गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे । तदा चामरयोर्मध्ये देव्या वदनमाबभौ ॥ २१॥ अन्योऽन्यं युध्यतोर्मध्ये हंसयोरिव पङ्कजम् । छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ २२॥ धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा । तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ २३॥ उपर्यमृतभाण्डस्य मण्डलं शशिनो यथा । अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ २४॥ अक्षद्यूतविनोदेन रमयामास वै सतीम् । सुयशाः पादुके देव्याः शुभे रत्नपरिष्कृते ॥ २५॥ स्तनयोरन्तरे कृत्वा तदा देवीमसेवत । अन्या काञ्चनचार्वङ्गी दीप्तं जग्राह दर्पणम् ॥ २६॥ अपरा तालवृन्तं च परा ताम्बूलपेटिकाम् । काचित्क्रीडाशुकं चारु करेऽकुरुत भामिनी ॥ २७॥ काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च । काचिदाभरणाधारं बभार कमलेक्षणा ॥ २८॥ काचिच्च पुनरालेपं सुप्रसूनं शुभाञ्जनम् । अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ २९॥ आवृत्य तां महादेवीमसेवन्त समन्ततः । अतीव शुशुभे तासामन्तरे परमेश्वरी ॥ ३०॥ तारापरिषदो मध्ये चन्द्रलेखेव शारदी । ततः शङ्खसमुत्थस्य नादस्य समनन्तरम् ॥ ३१॥ प्रास्थानिको महानादः पटहः समताड्यत । ततो मधुरवाद्यानि सह तालोद्यतैः स्वनैः ॥ ३२॥ अनाहतानि सन्नेदुः काहलानां शतानि च । सायुधानां गणेशानां महेशसमतेजसाम् ॥ ३३॥ सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः । तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ३४॥ जगाम गणपः श्रीमान् सोमनन्दीश्वरार्चितः । देवदुन्दुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ३५॥ ननृतुर्मुनयः सर्वे मुमुदुः सिद्धयोगिनः । ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ३६॥ तदा देवगणैश्चान्यैः पथि सर्वत्र सङ्गताः । क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ३७॥ तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् । तस्या यवीयसीभ्योऽपि चक्रे पूजामसत्कृताम् ॥ ३८॥ तदा शशिमुखी देवी पितरं सदसि स्थितम् । अम्बिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ३९॥ देव्युवाच । ब्रह्मादयः पिशाचान्ता यस्याज्ञावशवर्तिनः । स देवः साम्प्रतं तात विधिना नार्चितः किल ॥ ४०॥ तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् । असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ४१॥ एवमुक्तोऽब्रवीदेनां दक्षः क्रोधादमर्षितः । त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ४२॥ तासां तु ये च भर्त्तारस्ते मे बहुमता मुदा । गुणैश्चाप्यधिकाः सर्वे भर्तुस्ते त्र्यम्बकादपि ॥ ४३॥ स्तब्धात्मा तामसः शर्वः त्वमिमं समुपाश्रिता । तेन त्वामवमन्येऽहं प्रतिकूलो हि मे भवः ॥ ४४॥ तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् । श‍ृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ४५॥ अकस्मान्मम भर्तारमजाताशेषदूषणम् । वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ४६॥ विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः । त एते बहुपाप्मानः सर्वे दण्ड्या इति श्रुतिः ॥ ४७॥ तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् । सहसा दारुणो दण्डस्तव दैवाद्भविष्यति ॥ ४८॥ त्वया न पूजितो यस्माद्देवदेवस्त्रियम्बकः । तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ४९॥ इत्युक्त्वा पितरं रुष्टा सती सन्त्यक्तसाध्वसा । तदीयां च तनुं त्यक्त्वा हिमवन्तं ययौ गिरिम् ॥ ५०॥ स पर्वतपरः श्रीमाँल्लब्धपुण्यफलोदयः । तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ५१॥ तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी । स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ५२॥ यदा गता सती दक्षं विनिन्द्य भयविह्वलम् । तदा तिरोहिता मन्त्रा विहतश्च ततोऽध्वरः ॥ ५३॥ तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः । दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ५४॥ यस्मादवमता दक्षमत्कृतेऽनागसा सती । पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ५५॥ वैवस्वतेऽन्तरे तस्मात्तव जामातरस्त्वमी । उत्पत्स्यन्ते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ५६॥ भविता मानुषो राजा चाक्षुषस्य त्वमन्वये । प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ५७॥ अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ५८॥ तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा । स्वायम्भुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ५९॥ ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे । प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ६०॥ भृग्वादयोऽपि जाता वै मनोर्वैवस्वतस्य तु । अन्तरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ६१॥ तदा दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः । महेशः कृतवान् विघ्नं मनौ वैवस्वते सति ॥ ६२॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशोऽध्यायः ॥ ७.१.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.१९. एकोनविंशोऽध्यायः । वीरभद्रोत्पत्तिवर्णनम् ।

ऋषय ऊचुः । कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः । महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ १॥ वायुरुवाच । विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् । पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ २॥ देवेऽपि तत्कृतोद्वाहे हिमवच्छिखरालये । सङ्क्रीडति तया सार्द्धं काले बहुतरे गते ॥ ३॥ वैवस्वतेऽन्तरे प्राप्ते दक्षः प्राचेतसः स्वयम् । अश्वमेधेन यज्ञेन यक्ष्यमाणोऽन्वपद्यत ॥ ४॥ ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् । गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ५॥ तस्य तस्मिन्मखे देवाः सर्वे शक्रपुरोगमाः । गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ६॥ आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः । ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७॥ अश्विनौ पितरश्चैव तथा चान्ये महर्षयः । विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ८॥ दृष्ट्वा देवकुलं सर्वमीश्वरेण विना गतम् । दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ९॥ दधीच उवाच । अप्यपूज्ये चैव पूजा पूज्यानां चाप्यपूजने । नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ १०॥ असतां सम्मतिर्यत्र सतामवमतिस्तथा । दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ११॥ एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत । पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ १२॥ दक्ष उवाच । सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ १३॥ दधीच उवाच । किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् । राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ १४॥ ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः । ब्रह्मादयः पिशाचान्ता यस्य कैङ्कर्यवादिनः ॥ १५॥ प्रकृतीनां परश्चैव पुरुषस्य च यः परः । चिन्त्यते योगविद्वद्भिरृषिभिस्तत्त्वदर्शिभिः ॥ १६॥ अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् । अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ १७॥ यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः । तस्मादन्यं न पश्यामि शङ्करात्मानमध्वरे ॥ १८॥ दक्ष उवाच । एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् । विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्याहवनीयमद्य ॥ १९॥ दधीच उवाच । यस्मान्नाराधितो रुद्रः सर्वदेवेश्वरेश्वरः । तस्माद्दक्ष तवाशेषो यज्ञोऽयं न भविष्यति ॥ २०॥ इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः । निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ २१॥ निर्गतेऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः । अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ २२॥ एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् । दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ २३॥ देव्या सञ्चोदितो देवो दक्षाध्वरजिघांसया । ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ २४॥ सहस्रवदनं देवं सहस्रकमलेक्षणम् । सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ २५॥ शूलटङ्कगदाहस्तं दीप्तकार्मुकधारिणम् । चक्रवज्रधरं घोरं चन्द्रार्द्धकृतशेखरम् ॥ २६॥ कुलिशोद्योतितकरं तडिज्ज्वलितमूर्द्धजम् । दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ २७॥ विद्युज्जिह्वं प्रलम्बोष्ठं मेघसागरनिःस्वनम् । वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ २८॥ गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् । वरामरशिरोमालावलीकलितशेखरम् ॥ २९॥ रणन्नूपुरकेयूरमहाकनकभूषितम् । रत्नसञ्चयसन्दीप्तं तारहारावृतोरसम् ॥ ३०॥ महाशरभशार्दूलसिंहैः सदृशविक्रमम् । प्रशस्तमत्तमातङ्गसमानगमनालसम् ॥ ३१॥ शङ्खचामरकुन्देन्दुमृणालसदृशप्रभम् । सतुषारमिवाद्रीन्द्रं साक्षाज्जङ्गमतां गतम् ॥ ३२॥ ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् । तेजसा चैव दीव्यन्तं युगान्त इव पावकम् ॥ ३३॥ स जानुभ्यां महीं गत्वा प्रणतः प्राञ्जलिस्ततः । पार्श्वतो देवदेवस्य पर्यतिष्ठद् गणेश्वरः ॥ ३४॥ मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् । आत्मनः कर्मसाक्षित्वे तेन गन्तुं सहैव तु ॥ ३५॥ तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् । भद्रया सहितं प्राह भद्रमस्त्विति शङ्करः ॥ ३६॥ स च विज्ञापयामास सह देव्या महेश्वरम् । आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ३७॥ ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया । वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ३८॥ महादेव उवाच । प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय । भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ३९॥ अहमप्यनया सार्द्धं रैभ्याश्रमसपीपतः । स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ४०॥ वृक्षाः कनखले ये तु गङ्गाद्वारसमीपगाः । सुवर्णश‍ृङ्गस्य गिरेर्मेरुमन्दरसन्निभाः ॥ ४१॥ तस्मिन्प्रदेशे दक्षस्य युज्ञः सम्प्रति वर्तते । सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ४२॥ इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा । भद्रं भद्रां च सम्प्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ४३॥ आलिङ्ग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा । सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ४४॥ देव्युवाच । वत्स भद्र महाभाग महाबलपराक्रम । मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जय ॥ ४५॥ यज्ञेश्वरमनाहूय यज्ञकर्मरतोऽभवत् । दक्षं वैरेण तं तस्माद्भिन्धि यज्ञं गणेश्वर ॥ ४६॥ यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया । यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ४७॥ अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः । मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गन्तुं प्रचक्रमे ॥ ४८॥ अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः । वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ४९॥ ससर्ज रोमकूपेभ्यो रोमजाख्यान् गणेश्वरान् । दक्षिणाद्भुजदेशात्तु शतकोटिगणेश्वरान् ॥ ५०॥ पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् । गुह्याद् गुल्फाच्छिरोमध्यात्कण्ठादास्यात्तथोदरात् ॥ ५१॥ तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः । सञ्छादितमभूत्सर्वं साकाशविवरं जगत् ॥ ५२॥ सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः । रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः ॥ ५३॥ शूलशक्तिगदाहस्ताष्टङ्कोपलशिलाधराः । कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ५४॥ निपेतुर्भृशमाकाशे शतशः सिंहवाहनाः । विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ५५॥ तैर्भद्रैर्भगवान् भद्रस्तथा परिवृतो बभौ । कालानलशतैर्युक्तो यथान्ते कालभैरवः ॥ ५६॥ तेषां मध्ये समारुह्य वृषेन्द्रं वृषभध्वजः । जगाम भगवान् भद्रः शुभ्रमभ्रं यथा भवः ॥ ५७॥ तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः । बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ५८॥ स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः । भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ५९॥ सोऽपि तेन बभौ भद्रः श्वेतचामरपाणिना । बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ६०॥ दध्मौ शङ्खं सितं भद्रं भद्रस्य पुरतः शुभम् । भानुकम्पो महातेजा हेमरत्नैरलङ्कृतः ॥ ६१॥ देवदुन्दुभयो नेदुर्दिव्यसङ्कुलनिःस्वनाः । ववृषुः शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ६२॥ फुल्लानां मधुगर्भाणां पुष्पाणां गन्धबन्धवः । मार्गानुकूलसंवाहा ववुश्च पथि मारुताः ॥ ६३॥ ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः । ननृतुर्मुमुदुर्नेदुर्जहसुर्जगदुर्जगुः ॥ ६४॥ तदा भद्रगणान्तःस्थो बभौ भद्रः सभद्रया । यथा रुद्रगणान्तः स्थस्त्र्यम्बकोऽम्बिकया सह ॥ ६५॥ तत्क्षणादेव दक्षस्य यज्ञवाटं हिरण्मयम् । प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ६६॥ ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः । प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथान्ते भुवनं दिधक्षुः ॥ ६७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशोऽध्यायः ॥ ७.१.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२०. विंशोऽध्यायः । यज्ञविध्वंसनः ।

वायुरुवाच । ततो विष्णुप्रधानानां सुराणाममितौजसाम् । ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ १॥ सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् । काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम् ॥ २॥ ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः । विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ३॥ देवाङ्गनासहस्राढ्यमप्सरोगणसेवितम् । वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ४॥ दृष्ट्वा दक्षाध्वरं वीरो वीरभद्रः प्रतापवान् । सिंहनादं तदा चक्रे गम्भीरो जलदो यथा ॥ ५॥ ततः किलकिलाशब्द आकाशं पूरयन्निव । गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ६॥ तेन शब्देन महता ग्रस्ताः सर्वे दिवौकसः । दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७॥ किंस्विद्भग्नो महामेरुः किंस्वित्सन्दीर्यते मही । किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ८॥ मृगेन्द्राणां यथा नादं गजेन्द्रा गहने वने । श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ९॥ पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा । मरुतश्च व्यघूर्णन्त चुक्षुभे मकरालयः ॥ १०॥ अग्नयो नैव दीप्यन्ते न च दीप्यति भास्करः । ग्रहाश्च न प्रकाशन्ते नक्षत्राणि च तारकाः ॥ ११॥ एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् । सम्प्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ १२॥ तं दृष्ट्वा भीतभीतोऽपि दक्षो दृढ इव स्थितः । क्रुद्धवद् वचनं प्राह को भवान् किमिहेच्छसि ॥ १३॥ तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः । वीरभद्रो महातेजा मेघगम्भीरनिःस्वनः ॥ १४॥ स्मयन्निव तमालोक्य दक्षं देवांश्च ऋत्विजः । अर्थगर्भमसम्भ्रान्तमवोचदुचितं वचः ॥ १५॥ वीरभद्र उवाच । वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः । भागाभिलिप्सया प्राप्ता भागो नः सम्प्रदीयताम् ॥ १६॥ अथ चेदध्वरेऽस्माकं न भागः परिकल्पितः । कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ १७॥ इत्युक्तास्ते गणेन्द्रेण देवा दक्षपुरोगमाः । ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ १८॥ मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः । येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ १९॥ मन्त्रोक्ता अपि ते देवाः सर्वे सम्मूढचेतसः । भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ २०॥ यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथाऽभवत् । तदा ततो ययुर्मन्त्रा ब्रह्मलोकं सनातनम् ॥ २१॥ अथोवाच गणाध्यक्षो देवान् विष्णुपुरोगमान् । मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ २२॥ यस्मादस्मिन् मखे देवैरित्थं वयमसत्कृताः । तस्माद्वो जीवितैस्सार्द्धमपनेष्यामि गर्वितम् ॥ २३॥ इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना । यज्ञवाटं महाकूटं यथा तिस्रः पुरो हरः ॥ २४॥ ततो गणेश्वराः सर्वे पर्वतोदग्रविग्रहाः । यूपानुत्पाट्य होतॄणां कण्ठेष्वाबध्य रज्जुभिः ॥ २५॥ यज्ञपात्राणि चित्राणि भित्त्वा सञ्चूर्ण्य वारिणि । गृहीत्वा चैव यज्ञाङ्गं गङ्गास्रोतसि चिक्षिपुः ॥ २६॥ तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः । क्षीरनद्योऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ २७॥ उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च । रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ २८॥ वीरास्तद्भुञ्जते वक्त्रैर्विलुम्पन्ति क्षिपन्ति च । वज्रैश्चक्रैर्महाशूलैः शक्तिभिः पाशपट्टिशैः ॥ २९॥ मुसलैरसिभिष्टङ्कैर्भिन्दिपालैः परश्वधैः । उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ३०॥ बिभिदुर्बलिनो वीरा वीरभद्राङ्गसम्भवाः । छिन्धि भिन्धि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ३१॥ हरस्व प्रहरस्वेति पाटयोत्पाटयेति च । संरम्भप्रभवाः क्रूराः शब्दाः श्रवणशङ्कवः ॥ ३२॥ यत्र तत्र गणेशानां जज्ञिरे समरोचिताः । विवृत्तनयनाः केचिद् दष्टदंष्ट्रोष्ठतालवः ॥ ३३॥ आश्रमस्थान् समाकृष्य मारयन्ति तपोधनान् । स्रुवानपहरन्तश्च क्षिपन्तोऽग्निं जलेषु च ॥ ३४॥ कलशानपि भिन्दन्तश्छिन्दन्तो मणिवेदिकाः । गायन्तश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः । रक्तासवं पिबन्तश्च ननृतुर्गणपुङ्गवाः ॥ ३५॥ निर्मथ्य सेन्द्रानमरान् गणेन्द्रा वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः । चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ ३६॥ नन्दन्ति केचित्प्रहरन्ति केचित् धावन्ति केचित्प्रलपन्ति केचित् ॥ ३७॥ नृत्यन्ति केचिद्विहसन्ति केचित् वल्गन्ति केचित्प्रमथा बलेन ॥ ३८॥ केचिज्जिघृक्षन्ति घनान्स तोयान् केचिद्ग्रहीतुं रविमुत्पतन्ति । केचित्प्रसर्तुं पवनेन सार्द्ध- मिच्छन्ति भीमाः प्रमथा वियत्स्थाः ॥ ३९॥ आक्षिप्य केचिच्च वरायुधानि महाभुजङ्गानिव वैनतेयाः । भ्रमन्ति देवानपि विद्रवन्तः खमण्डले पर्वतकूटकल्पाः ॥ ४०॥ उत्पाट्य चोत्पाट्य गृहाणि केचित् सजालवातायनवेदिकानि । विक्षिप्य विक्षिप्य जलस्य मध्ये कालाम्बुदाभाः प्रमथा निनेदुः ॥ ४१॥ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् । अहो बताभज्यत यज्ञवाट- मनाप्तवद्वाक्यमिवायथार्थम् ॥ ४२॥ हा नाथ तातेति पितुः सुतेति भ्रातर्ममाम्बेति च मातुलेति । उत्पाट्यमानेषु गृहेषु नार्यो ह्यनाथशब्दान्बहुशः प्रचक्रुः ॥ ४३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशोऽध्यायः ॥ ७.१.२०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२१. एकविंशोऽध्यायः । देवदण्डवर्णनम् ।

वायुरुवाच । ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः । सर्वे भयपरित्रस्ता दुद्रुवुर्भयविह्वलाः ॥ १॥ निजैरदूषितैरङ्गैर्दृष्ट्वा देवानुपद्रुतान् । दण्ड्यानदण्डितान् मत्वा चुकोप गणपुङ्गवः ॥ २॥ ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् । ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ३॥ अमरानपि दुद्राव द्विरदानिव केसरी । तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ४॥ वारणस्येव मत्तस्य जगाम प्रेक्षणीयताम् । ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ५॥ महासरोवरं यद्वन्मत्तो वारणयूथपः । विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥ ६॥ बिभ्रद् व्याघ्राजिनं वासो हेमप्रवरतारकम् । छिन्दन् भिन्दन्नुदन् क्लिन्दन्दारयन्प्रमथन्नपि ॥ ७॥ व्यचरद्देवसङ्घेषु भद्रोऽग्निरिव कक्षगः । यत्र तत्र महावेगाच्चरन्तं शूलधारिणम् ॥ ८॥ तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे । भद्रकाली च सङ्क्रुद्धा युद्धवृद्धमदोद्धता ॥ ९॥ मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् । स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ १०॥ प्रभयेव युगान्ताग्निश्चलया धूमधूम्रया । भद्रकाली तदा युद्धे विद्रुतत्रिदशा बभौ ॥ ११॥ कल्पे शेषानलज्वाला दग्धाविश्वजगद्यथा । तदा सवाजिनं सूर्यं रुद्रान् रुद्रगणाग्रणीः ॥ १२॥ भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया । असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमीम् ॥ १३॥ रुद्रान् दृढेन शूलेन मुद्गरैर्वरुणं दृढैः । परिघैर्निरृतिं वायुं टङ्कैष्टङ्कधरः स्वयम् ॥ १४॥ निर्बिभेद रणे वीरो लीलयैव गणेश्वरः । सर्वान्देवगणान्सद्यो मुनीन् शम्भोर्विरोधिनः ॥ १५॥ ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् । चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ १६॥ चिच्छेद च कुठारेण बाहुदण्डं विभावसोः । अग्रतो द्व्यङ्गुलां जिह्वामात्तहव्यां लुलाव च ॥ १७॥ स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् । चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ १८॥ भगस्य विपुले नेत्रे शतपत्रसमप्रभे । प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ १९॥ पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव । जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ २०॥ ततश्चन्द्रमसं देवः पादाङ्गुष्ठेन लीलया । क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ २१॥ शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः । क्रोशन्त्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ २२॥ तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् । सा देवी कन्दुकक्रीडां चकार समराङ्गणे ॥ २३॥ ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा । पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ २४॥ अरिष्टनेमिनं सोमं धर्मं चैव प्रजापतिम् । बहुपुत्रं चाङ्गिरसं कृशाश्वं काश्यपं तथा ॥ २५॥ गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः । भर्त्सयन्तो भृशं वाग्भिर्निजघ्नुर्मूर्ध्नि मुष्टिभिः ॥ २६॥ धर्षिता भूतवेतालैर्दाराः सुतपरिग्रहाः । यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ २७॥ तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् । प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ २८॥ उत्पाटितसुरानीकं हन्यमानतपोधनम् । प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसञ्चयम् ॥ २९॥ क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् । शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ३०॥ शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः । विनिकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ३१॥ हतेषु तेषु देवेषु पतितेषु सहस्रशः । प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ३२॥ प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसन्निभम् । दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ३३॥ स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् । भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ३४॥ आकर्णपूर्णमाकृष्टं धनुरम्बुदसन्निभम् । नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ३५॥ तमुपश्रुत्य सन्नादं हतोऽस्मीत्येव विह्वलम् । शरेणार्धेन वक्रेण स वीरोऽध्वरपूरुषम् ॥ ३६॥ महाभयस्खलत्पादं वेपन्तं विगतत्विषम् । मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ३७॥ तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसम्भवम् । विष्णुः परमसङ्क्रुद्धो युद्धायाभवदुद्यतः ॥ ३८॥ तमुवाह महावेगात्स्कन्धेन नतसन्धिना । सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ३९॥ देवाश्च हतशिष्टा ये देवराजपुरोगमाः । प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ४०॥ विष्णुना सहितान् देवान् मृगेन्द्रः क्रोष्टुकानिव । दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ४१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदण्डवर्णनं नामैकविंशोऽध्यायः ॥ ७.१.२१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२२. द्वाविंशोऽध्यायः । दक्षयज्ञविध्वंसवर्णनम् ।

वायुरुवाच तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः । सहस्रसूर्यसङ्काशश्चारुचीरवृषध्वजः ॥ १॥ अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः । सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ २॥ तस्यापि रथवर्यस्यासीत्स एव हि सारथिः । यश्चैव त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ३॥ स तं रथवरं ब्रह्मा शासनादेव शूलिनः । हरेः समीपमानीय कृताञ्जलिरभाषत ॥ ४॥ भगवन् भद्र भद्राङ्ग भगवानिन्दुभूषणः । आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ५॥ रैभ्याश्रमसमीपस्थस्त्र्यम्बकोऽम्बिकया सह । सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ६॥ तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः । आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७॥ तथा रथवरे तस्मिन् स्थिते ब्रह्मणि सारथौ । भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ८॥ ततः शङ्खवरं दीप्तं पूर्णचन्द्रसमप्रभम् । प्रदध्मौ वदने कृत्वा भानुकम्पो महाबलः ॥ ९॥ तस्य शङ्खस्य तं नादं भिन्नसागरसन्निभम् । श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ १०॥ यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः । क्षणेन निबिडीभूताः साकाशविवरा दिशः ॥ ११॥ ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः । महता बाणवर्षेण तुतोद गणगोवृषम् ॥ १२॥ तं दृष्ट्वा विष्णुमायान्तं शतधा बाणवर्षिणम् । स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ १३॥ समादाय च तद्दिव्यं धनुः समरभैरवम् । शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ १४॥ तस्य विस्फार्य्यमाणस्य धनुषोऽभून्महास्वनः । तेन स्वनेन महता पृथिवीं समकम्पयत् ॥ १५॥ ततः शरवरं घोरं दीप्तमाशीविषोपमम् । जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ १६॥ बाणोद्धारे भुजो ह्यस्य तूणीवदनसङ्गतः । प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ १७॥ समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरः । महाभुजङ्गसन्दष्टो यथा बालभुजङ्गमः ॥ १८॥ शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः । विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ १९॥ ललाटेऽभिहतो विष्णुः पूर्वमेवावमानितः । चुकोप गणपेन्द्राय मृगेन्द्रायेव गोवृषः ॥ २०॥ ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा । विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ २१॥ सोऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् । विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ २२॥ स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः । स च तं च स तं विप्राः शरैस्तावनुजघ्नतुः ॥ २३॥ तयोः परस्परं वेगाच्छरानाशु विमुञ्चतोः । द्वयोः समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २४॥ तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् । हाहाकारो महानासीदाकाशे खेचरेरितः ॥ २५॥ ततस्त्वनलतुण्डेन शरेणादित्यवर्चसा । विव्याध सुदृढं भद्रं विष्णोर्महति वक्षसि ॥ २६॥ स तु तीव्रप्रपातेन शरेण दृढमाहतः । महतीं रुजमासाद्य निपपात विमोहितः ॥ २७॥ पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः । सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ २८॥ स च विष्णुर्धनुर्मुक्तान्सर्वान् शर्वचमूपतिः । सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ २९॥ ततो विष्णुः स्वनामाङ्कं बाणमव्याहतं क्वचित् । ससर्ज क्रोधरक्ताक्षः तमुद्दिश्य गणेश्वरम् । तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ ३०॥ अप्राप्तमेव भगवान् चिच्छेद शतधा पथि । अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ ३१॥ निमेषादेव चिच्छेद तदद्भुतमिवाभवत् । ततो योगबलाद्विष्णुर्देहाद्देवान् सुदारुणान् ॥ ३२॥ शङ्खचक्रगदाहस्तान् विससर्ज सहस्रशः । सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शङ्करः ॥ ३३॥ निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना । ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ ३४॥ तस्मिन्वीरे समुत्स्रष्टुं तदानीमुद्यतोऽभवत् । तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ ३५॥ स्मयन्निव गणेशानो व्यष्टम्भयदयत्नतः । स्तम्भिताङ्गस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ३६॥ इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः । श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ३७॥ अतिष्ठदलसो भूत्वा पाषाणामिव निश्चलः । विशरीरो यथा जीवो विश‍ृङ्गो वा यथा वृषः ॥ ३८॥ विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः । तं दृष्ट्वा दुर्दशापन्नं विष्णुमिन्द्रादयः सुराः । समुन्नद्धा गणेन्द्रेण मृगेन्द्रेणेव गोवृषाः ॥ ३९॥ प्रगृहीतायुधा यौद्धुं क्रुद्धाः समुपतस्थिरे । तान्दृष्ट्वा समरे भद्रः क्षुद्रानिव हरिर्मृगान् ॥ ४०॥ साक्षाद् रुद्रतनुर्वीरो वरवीरगणावृतः । अट्टहासेन घोरेण व्यष्टम्भयदनिन्दितः ॥ ४१॥ तथा शतमखस्यापि सवज्रो दक्षिणः करः । सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ४२॥ अन्येषामपि सर्वेषां सरक्ता अपि बाहवः । अलसानामिवारम्भास्तादृशाः प्रतियान्त्युत ॥ ४३॥ एवं भगवता तेन व्याहताशेषवैभवात् । अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ४४॥ स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः । स्थितिं च चक्रिरे युद्धे वीरतेजोऽभयाकुलाः ॥ ४५॥ विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः । विव्याध निशितैर्बाणैएर्मेघो वर्षैरिवाचलान् ॥ ४६॥ बहवस्तस्य वीरस्य बाहवः परिघोपमाः । शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ४७॥ अस्त्रशस्त्राण्यनेकानि स वीरो विसृजन्बभौ । विसृजन्सर्वभूतानि यथादौ विश्वसम्भवः ॥ ४८॥ यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् । तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ४९॥ खमण्डले गणेन्द्रस्य शराः कनकभूषिताः । उत्पतन्तस्तडिद्रूपैरुपमानपदं ययुः ॥ ५०॥ महान्तस्ते सुरगणान् मण्डूकानिव डुण्डुभाः । प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ५१॥ निकृत्तबाहवः केचित्केचिल्लूनवराननाः । पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ५२॥ विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः । विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः । गां प्रवेष्टुमिवेच्छन्तः खं गन्तुमिव लिप्सवः ॥ ५३॥ अलब्धात्मनिरोधानां व्यलीयन्तः परस्परम् । भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ५४॥ अपरे जग्मुराकाशं परे च विविशुर्जलम् । तथा सञ्छिन्नसर्वाङ्गैः स वीरस्त्रिदशैर्बभौ ॥ ५५॥ परिग्रस्तः प्रजावर्गो भगवानिव भैरवः । दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाऽभवत् ॥ ५६॥ एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् । गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ ५७॥ तदा त्रिदशवीराणामसृक्सलिलवाहिनी । प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ ५८॥ रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ । रक्तार्द्रवसना श्यामा हतशुम्भेव कैशिकी ॥ ५९॥ तस्मिन्महति संवृत्ते समरे भृशदारुणे । भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ ६०॥ महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः । पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ ६१॥ अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ । अहो विधिविपर्यासस्त्वश्वमेधोऽयमध्वरः । यजमानः स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ६२॥ धर्मादयः सदस्याश्च रक्षतो गरुडध्वजः । भागांश्च प्रतिगृह्णन्ति साक्षादिन्द्रादयः सुराः ॥ ६३॥ तथापि यजमानस्य यज्ञस्य च सहर्त्विजः । सद्य एव शिरश्छेदः साधु सम्पद्यते फलम् ॥ ६४॥ तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् । नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ६५॥ कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि । न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ६६॥ कृत्वापि सुमहत्पापं भक्त्या यजति यः शिवम् । मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ६७॥ बहुनात्र किमुक्तेन वृथा दानं वृथा तपः । वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ६८॥ ततः सनारायणकाः सरुद्राः सलोकपालाः समरे सुरौघाः । गणेन्द्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ६९॥ चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः । पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ७०॥ केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः । निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७१॥ सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः । बभौ गणेशः स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७२॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.१.२२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२३. त्रयोविंशोऽध्यायः । गिरिशानुनयः ।

वायुरुवाच । इति सञ्छिन्नभिन्नाङ्गा देवा विष्णुपुरोगमाः । क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिताः ॥ १॥ त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः । प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ २॥ प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः । बबन्धुः पाणिपादेषु कन्धरेषूदरेषु च ॥ ३॥ तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् । सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतोऽब्रवीत् ॥ ४॥ अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः । प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत ॥ ५॥ एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना । शमं जगाम सम्प्रीतो गणपस्तस्य गौरवात् ॥ ६॥ देवाश्च लब्धावसरा देवदेवस्य मन्त्रिणः । धारयन्तोऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७॥ देवा ऊचुः । नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने । रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ८॥ कालाग्निरुद्ररूपाय कालकामाङ्गहारिणे । देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ९॥ संसर्गादस्य पापस्य दक्षस्य क्लिष्टकर्मणः । शासिताः समरे वीर त्वया वयमनिन्दिताः ॥ १०॥ दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो । त्वमेव गतिरस्माकं त्राहि नः शरणागतान् ॥ ११॥ वायुरुवाच । तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः । आनयद्देवदेवस्य समीपममरानिह ॥ १२॥ देवोऽपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः । सगणः सर्वगः शर्वः सर्वलोकमहेश्वरः ॥ १३॥ तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः । प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ १४॥ दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः । इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ १५॥ महादेव उवाच । मा भैष्ट त्रिदशाः सर्वे यूयं वै मामिकाः प्रजाः । अनुग्रहार्थमेवेह धृतो दण्डः कृपालुना ॥ १६॥ भवतां निर्ज्जराणां हि क्षान्तोऽस्माभिर्व्यतिक्रमः । क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ १७॥ वायुरुवाच । इत्युक्तास्त्रिदशाः सर्वे शर्वेणामिततेजसा । सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ १८॥ प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः । स्तुतिमारेभिरे कर्तुं शङ्करस्य दिवौकसः ॥ १९॥ देवा ऊचुः । त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरोऽसि । कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमः सत्त्वधृतात्ममूर्त्ते ॥ २०॥ सर्वमूर्त्ते नमस्तेऽस्तु विश्वभावन पावन । अमूर्त्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ २१॥ चन्द्रोऽगदो हि देवेश कृपातस्तव शङ्कर । निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ २२॥ सीमन्तिनी हतधवा तव पूजनतः प्रभो । सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ २३॥ श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् । सुदर्शनमरक्षस्त्वं नृपमण्डलभीतितः ॥ २४॥ मेदुरं तारयामास सदारं च घृणानिधिः । शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ २५॥ भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् । सौमिनी भवबन्धाद्वै मुक्ताभूत्तव सेवनात् ॥ २६॥ विष्णुरुवाच । त्वं शम्भो कहरीशाश्च रजस्सत्त्वतमोगुणैः । कर्ता पाता तथा हर्ता जनानुग्रहकाङ्क्षया ॥ २७॥ सर्वगर्वापहारी च सर्वतेजोविलासकः । सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ २८॥ त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर । त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ २९॥ अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृताञ्जलिः । एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ३०॥ ब्रह्मोवाच । जय देव महादेव प्रणतार्तिविभञ्जन । ईदृशेष्वपराधेषु कोऽन्यस्त्वत्तः प्रसीदति ॥ ३१॥ लब्धात्मानो भविष्यन्ति ये पुरा निहता मृधे । प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ३२॥ यदिदं देवदेवानां कृतमन्तुषु दूषणम् । तदिदं भूषणं मन्ये त अङ्गीकारगौरवात् ॥ ३३॥ इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना । विलोक्य वदनं देव्या देवदेवः स्मयन्निव ॥ ३४॥ पुत्रभूतस्य वात्सल्याद् ब्रह्मणः पद्मजन्मनः । देवादीनां यथापूर्वमङ्गानि प्रददौ प्रभुः ॥ ३५॥ प्रमथाद्यैश्च या देव्यो दण्डिता देवमातरः । तासामपि यथापूर्वाण्यङ्गानि गिरिशो ददौ ॥ ३६॥ दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः । तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ३७॥ सोऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधीः । भीतः कृताञ्जलिः शम्भुं तुष्टाव प्रलपन्बहु ॥ ३८॥ दक्ष उवाच । जय देव जगन्नाथ लोकानुग्रहकारक । कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ३९॥ कर्त्ता भर्त्ता च हर्ता च त्वमेव जगतां प्रभुः । मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ४०॥ त्वयैव विततं सर्वं व्याप्तं सृष्टं च नाशितम् । न हि त्वदधिकाः केचिदीशास्तेऽच्युतकादयः ॥ ४१॥ वायुरुवाच । तं तथा व्याकुलं भीतं प्रलपन्तं कृतागसम् । स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ४२॥ तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया । गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ४३॥ ततो ब्रह्मादयो देवा अभिवन्द्य कृताञ्जलिः । तुष्टुवुः प्रश्रया वाचा शङ्करं गिरिजाधिपम् ॥ ४४॥ ब्रह्मादय ऊचुः । जय शङ्कर देवेश दीनानाथ महाप्रभो । कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ४५॥ मखपाल मखाधीश मखविध्वंसकारक । कृपां कुरु महेशानापराधं नः क्षमस्व वै ॥ ४६॥ देवदेव परेशान भक्तप्राणप्रपोषक । दुष्टदण्डप्रदः स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ४७॥ त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् । रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ४८॥ अद्भुतं चरितं ते हि निश्चितं कृपया तव । सर्वापराधः क्षन्तव्यो विभवो दीनवत्सलाः ॥ ४९॥ वायुरुवाच । इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः । स भक्तवत्सलः स्वामी तुतोष करुणोदधिः ॥ ५०॥ चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् । ददौ वरांश्च सुप्रीत्या शङ्करो दीनवत्सलः ॥ ५१॥ स च ततस्त्रिदशान् शरणागतान् परमकारुणिकः परमेश्वरः । अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ५२॥ शिव उवाच । यदिदमाग इहाचरितं सुरै- र्विधिनियोगवशादिव यन्त्रितैः । शरणमेव गतानवलोक्य व- स्तदखिलं किल विस्मृतमेव नः ॥ ५३॥ तदिह यूयमपि प्रकृतं मन- स्यविगणय्य विमर्दमपत्रपाः । हरिविरिञ्चिसुरेन्द्रमुखाः सुखं व्रजत देवपुरं प्रति सम्प्रति ॥ ५४॥ इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः । स गिरिजानुचरः सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ५५॥ अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः । सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ५६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशोऽध्यायः ॥ ७.१.२३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२४. चतुर्विंशोऽध्यायः । शिवमन्दरगिरिनिवासक्रीडोक्तिवर्णनम् ।

ऋषय ऊचुः । अन्तर्धानगतो देव्या सह सानुचरो हरः । क्व यातः कुत्र वा वासः किं कृत्वा विरराम ह ॥ १॥ वायुरुवाच । महीधरवरः श्रीमान् मन्दरश्चित्रकन्दरः । दयितो देवदेवस्य निवासस्तपसोऽभवत् ॥ २॥ तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ । चिरेण लब्धं तत्पादपङ्कजस्पर्शजं सुखम् ॥ ३॥ तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि । न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ४॥ शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे । पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ५॥ इदं तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे । ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ६॥ अत एव हि देवेन देव्याः प्रियचिकीर्षया । अतीव रमणीयोऽयं गिरिरन्तःपुरीकृतः ॥ ७॥ मेखलाभूमयस्तस्य विमलोपलपादपाः । शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वन्त्यखिलं जगत् ॥ ८॥ पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः । अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ९॥ लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः । अधिराज्येन चाद्रीणामद्रीरेषोऽभिषिच्यते ॥ १०॥ निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः । चन्द्रेणाचलसाम्राज्यच्छत्रेणेव विराजते ॥ ११॥ स शैलश्चञ्चलीभूतैर्बालैश्चामरयोषिताम् । सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ १२॥ प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः । दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ १३॥ कूजद्विहङ्गवाचालैर्वातोद्धृतलताभुजैः । विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ १४॥ लताप्रतानजटिलैस्तरुभिस्तापसैरिव । जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ १५॥ अधोमुखैरूर्ध्वमुखैः श‍ृङ्गैस्तिर्यङ्मुखैस्तथा । प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ १६॥ परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि । पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ १७॥ गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः । अजीर्णलावण्यतया जृम्भमाण इवाचलः ॥ १८॥ ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् । वमन्निव तमोऽन्तस्थं माद्यन्निव खमम्बुदैः ॥ १९॥ निवासभूमयस्तास्ता दर्पणप्रतिमोदराः । तिरस्कृतातपाः स्निग्धाश्रमच्छायामहीरुहाः ॥ २०॥ सरित्सरस्तडागादिसम्पर्कशिशिरानिलाः । तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ २१॥ तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः । रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ २२॥ तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः । रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ २३॥ तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च । दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ सम्बभूवतुः ॥ २४॥ ताभ्यां तपोबलाद्दत्तं ब्रह्मणा परमेष्ठिना । अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ २५॥ अयोनिजा तु या कन्या ह्यम्बिकांशसमुद्भवा । अजातपुंस्पर्शरतिरविलङ्घ्यपराक्रमा ॥ २६॥ तया तु नौ वधः सङ्ख्ये तस्यां कामाभिभूतयोः । इति चाभ्यर्थितो ब्रह्मा ताभ्यां प्राह तथास्त्विति ॥ २७॥ ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् । निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ २८॥ तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः । विनिन्द्यापि रहस्यम्बां क्रोधयित्वा यथा तथा ॥ २९॥ तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् । निशुम्भशुम्भयोर्हन्त्रीं सुरेभ्यो दातुमर्हसि ॥ ३०॥ एवमभ्यर्थितो धात्रा भगवान्नीललोहितः । कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ३१॥ ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् । स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ३२॥ देव्युवाच । ईदृशे मम वर्णेऽस्मिन्न रतिर्भवतोऽस्ति चेत् । एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ३३॥ अरत्या वर्तमानोऽपि कथं च रमसे मया । न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ३४॥ स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् । इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ३५॥ या च नाभिरता भर्तुरपि सर्वाङ्गसुन्दरी । सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ३६॥ भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् । तथासत्यन्यथा भूता नारी कुत्रोपयुज्यते ॥ ३७॥ तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् । वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ३८॥ इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् । ययाचेऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ३९॥ तथा प्रणयभङ्गेन भीतो भूतपतिः स्वयम् । पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ४०॥ ईश्वर उवाच । अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे । रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ४१॥ माता त्वमस्य जगतः पिताहमधिपस्तथा । कथं तदुपपद्येत त्वत्तो नाभिरतिर्मम ॥ ४२॥ आवयोरभिकामोऽपि किमसौ कामकारितः । यतः कामसमुत्तेः प्रागेव जगदुद्भवः ॥ ४३॥ पृथग्जनानां रतये कामात्मा कल्पितो मया । ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ४४॥ मां वै त्रिदशसामान्यं मन्यमानो मनोभवः । मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ४५॥ विहारोऽप्यावयोरस्य जगतस्त्राणकारणात् । ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवानहम् ॥ ४६॥ स चायमचिरादर्थस्तवैवाविष्करिष्यते । क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ४७॥ देव्युवाच । श्रुतपूर्वं हि भगवंस्तव चाटुवचो मया । येनैवमतिधीराहमपि प्रागभिवञ्चिता ॥ ४८॥ प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् । कुलाङ्गना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ४९॥ भूयसी च तवाप्रीतिरगौरमिति मे वपुः । क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ५०॥ सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसम्मतम् । अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ५१॥ शिव उवाच । यद्येवंविधतापस्ते तपसा किं प्रयोजनम् । ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ५२॥ देव्युवाच । नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा । ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ५३॥ ईश्वर उवाच । मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा । तमाहूय महादेवि तपसा किं करिष्यसि ॥ ५४॥ देव्युवाच । त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः । तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ५५॥ पुरा किल सती नाम्ना दक्षस्य दुहिताऽभवम् । जगतां पतिमेव त्वां पतिं प्राप्तवती तथा ॥ ५६॥ एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् । गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ५७॥ एवमुक्तो महादेव्या वामदेवः स्मयन्निव । न तां निर्बन्धयामास देवकार्यचिकीर्षया ॥ ५८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तिवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.१.२४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२५. पञ्चविंशोऽध्यायः । देवीगौरत्वप्राप्तिः ।

वायुरुवाच । ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता । नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ १॥ तपः कृतवती पूर्वं देशे यस्मिन्सखीजनैः । तमेव देशमवृणोत्तपसे प्रणयात्पुनः ॥ २॥ ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे । प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ३॥ पुनस्तपोवनं गत्वा भूषणानि विसृज्य च । स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ४॥ सङ्कल्प्य च महातीव्रं तपः परमदुश्चरम् । सदा मनसि सन्धाय भर्तुश्चरणपङ्कजम् ॥ ५॥ तमेव क्षणिके लिङ्गे ध्यात्वा बाह्यविधानतः । त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ६॥ स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् । प्रदास्यति ममेत्येवं नित्यं कृत्वाऽकरोत्तपः ॥ ७॥ तथा तपश्चरन्तीं तां काले बहुतिथे गते । दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ८॥ तथैवोपगतस्यापि तस्यातीव दुरात्मनः । गात्रं चित्रार्पितमिव स्तब्धं तस्याः सकाशतः ॥ ९॥ तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् । न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ १०॥ स तु विष्टब्धसर्वाङ्गो बुभुक्षापरिपीडितः । ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ११॥ निरीक्ष्यमाणः सततं देवीमेव तदाऽनिशम् । अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ १२॥ देव्याश्च हृदये नित्यं ममैवायमुपासकः । त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ १३॥ तस्या एव कृपायोगात्सद्यो नष्टमलत्रयः । बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ १४॥ न्यवर्तत बुभुक्षा च तस्याङ्गस्तम्भनं तथा । दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ १५॥ तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः । सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ १६॥ दुष्टानामपि सत्त्वानां तथान्येषां दुरात्मनाम् । स एव द्रावको भूत्वा विचचार तपोवने ॥ १७॥ तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् । देवाश्च दैत्यनिर्बन्धाद् ब्रह्माणं शरणं गताः ॥ १८॥ चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् । यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ १९॥ सोऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः । आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ २०॥ सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् । संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ २१॥ ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् । प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ २२॥ ननाम चास्य जगतो मातरं स्वस्य वै हरेः । रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ २३॥ ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सहः । अर्घ्यं तदर्हं दत्त्वाऽस्मै स्वागताद्यैरुपाचरत् ॥ २४॥ तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनन्द्य च । पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ २५॥ ब्रह्मोवाच । तीव्रेण तपसानेन देव्या किमिह साध्यते । तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ २६॥ यश्चैव जगतां भर्ता तमेव परमेश्वरम् । भर्तारमात्मना प्राप्य प्राप्तं च तपसः फलम् ॥ २७॥ अथवा सर्वमेवैतत्क्रीडाविलसितं तव । इदं तु चित्रं देवस्य विरहं सहसे कथम् ॥ २८॥ देव्युवाच । सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा । तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ २९॥ यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः । उत्पन्नोऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ३०॥ यदाभवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् । तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ३१॥ तदीदृशस्य भवतो लोकयात्राविधायिनः । वृत्तमन्तःपुरे भर्त्रा कथयिष्ये कथं पुनः ॥ ३२॥ किमत्र बहुना देहे यश्चायं मम कालिमा । त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ३३॥ ब्रह्मोवाच । एतावता किमर्थेन तीव्रं देवि तपः कृतम् । स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ३४॥ क्रीडाऽपि च जगन्मातस्तव लोकहिताय वै । अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ३५॥ निशुम्भशुम्भनामानौ दैत्यौ दत्तवरौ मया । दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ३६॥ अलं विलम्बनेनात्र त्वं क्षणेन स्थिरा भव । शक्तिर्विसृज्यमानाद्य तयोर्मृत्युर्भविष्यति ॥ ३७॥ ब्राह्मणाऽभ्यर्थिता चैव देवी गिरिवरात्मजा । त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ३८॥ सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः । काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ३९॥ सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी । शङ्खचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ४०॥ सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा । अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ४१॥ दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी । निशुम्भस्य च शुम्भस्य निहन्त्री दैत्यसिंहयोः ॥ ४२॥ ब्रह्मणाऽपि प्रहृष्टेन तस्यै परमशक्तये । प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ४३॥ विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः । मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ४४॥ सा चैव सम्मता शक्तिर्ब्रह्मणो विश्वकर्मणः । प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ४५॥ शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः । परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ४६॥ निहतौ च तया तत्र समरे दैत्यपुङ्गवौ । तद्बाणैः कामबाणैश्च च्छिन्नभिन्नाङ्गमानसौ ॥ ४७॥ तद्युद्धविस्तरश्चात्र न कृतोऽन्यत्र वर्णनात् । ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ४८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वप्राप्तिर्नाम पञ्चविंशोऽध्यायः ॥ ७.१.२५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२६. षड्विंशोऽध्यायः । व्याघ्रगतिवर्णनम् ।

वायुरुवाच । उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् । तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ १॥ देव्युवाच । दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः । अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ २॥ मय्यर्पितमना एष भजते मामनन्यधीः । अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ३॥ भवितव्यमनेनातो ममान्तःपुरचारिणा । गणेश्वरपदं चास्मै प्रीत्या दास्यति शङ्करः ॥ ४॥ एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे । प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ५॥ इत्युक्तः प्रहसन्ब्रह्मा देवीं मुग्धामिव स्मयन् । तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ६॥ ब्रह्मोवाच । पशौ देवि मृगाः क्रूराः क्व च तेऽनुग्रहः शुभः । आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७॥ व्याघ्रमात्रेण सन्नेष दुष्टः कोऽपि निशाचरः । अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ८॥ तर्पयंस्तान् यथाकामं कामरूपी चरत्यसौ । अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ९॥ अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु । अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ १०॥ देव्युवाच । यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः । तथापि मां प्रपन्नोऽभून्न त्याज्यो मामुपाश्रितः ॥ ११॥ ब्रह्मोवाच । अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् । भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ १२॥ पुण्यकर्मापि किं कुर्य्यात्त्वदीयाज्ञानपेक्षया । अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ १३॥ त्वदधीना हि सर्वेषां बन्धमोक्षव्यवस्थितिः । त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ १४॥ त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् । अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ १५॥ विष्णोश्च मम चान्येषां देवदानवरक्षसाम् । तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ १६॥ अतीताः खल्वसङ्ख्याता ब्रह्माणो हरयो भवाः । अनागतास्त्वसङ्ख्यातास्त्वदाज्ञानुविधायिनः ॥ १७॥ त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् । लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ १८॥ व्यत्यासोऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः । सुकृतं दुष्कृतं चापि त्वयैव स्थापितं यतः ॥ १९॥ त्वं हि सर्वजगद्भर्तुः शिवस्य परमात्मनः । अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ २०॥ समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि । क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ २१॥ अतो दुष्कृतकर्मापि व्याघ्रोऽयं त्वदनुग्रहात् । प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ २२॥ इत्यात्मनः परं भावं स्मारयित्वानुरूपतः । ब्रह्मणाभ्यर्थिता गौरी तपसोऽपि न्यवर्तत ॥ २३॥ ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति । देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ २४॥ प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ । तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ २५॥ विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुञ्चतः । तत्तच्छाखासमारूढविहगोदीरितै रुतैः ॥ २६॥ व्याकुलं बहुधा दीनं विलापमिव कुर्वतः । सखीभ्यः कथयन्त्वेवं सत्त्वरा भर्तृदर्शने ॥ २७॥ पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् । देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ २८॥ प्रययौ मन्दरं गौरी यत्र भर्ता महेश्वरः । सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ २९॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.१.२६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२७. सप्तविंशोऽध्यायः । देवीशिवमिलनवर्णनम् ।

ऋषय ऊचुः । कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा । कथं ददर्श भर्तारं प्रविष्टा मन्दिरं सती ॥ १॥ प्रवेशसमये तस्या भवनद्वारगोचरैः । गणेशैः किं कृतं देवस्तां दृष्ट्वा किं तदाकरोत् ॥ २॥ वायुरुवाच । प्रवक्तुमञ्जसाशक्यः तादृशः परमो रसः । येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ३॥ द्वाःस्थैः ससम्भ्रमैरेव देवो देव्यागमोत्सुकः । शङ्कमाना प्रविष्टान्तस्तं च सा समपश्यत ॥ ४॥ तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः । गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ५॥ प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः । प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ६॥ स्वाङ्के धर्तुं प्रवृत्तोऽपि सा पर्यङ्के न्यषीदत । पर्यङ्कतो बलाद्देवीं सोऽङ्कमारोप्य सुस्मिताम् ॥ ७॥ सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव । तया सम्भाषणायेशः पूर्वभाषितमब्रवीत् ॥ ८॥ देवदेव उवाच । सा दशा च व्यतीता किं तव सर्वाङ्गसुन्दरि । यस्यामनुनयोपायः कोऽपि कोपान्न लभ्यते ॥ ९॥ स्वेच्छयापि न कालीति नान्यवर्णवतीति च । त्वत्स्वभावहृतं चित्तं सुभ्रु चिन्तावहं मम ॥ १०॥ विस्मृतः परमो भावः कथं स्वेच्छाङ्गयोगतः । न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ११॥ पृथग्जनवदन्योऽन्यं विप्रियस्यापि कारणम् । आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ १२॥ अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता । अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ १३॥ जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः । आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ १४॥ अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् । वागर्थमिव चैवैतज्जगत्स्थावरजङ्गमम् ॥ १५॥ त्वं हि वागमृतं साक्षादहमर्थामृतं परम् । द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ १६॥ विद्याप्रत्यायिका त्वं मे वेद्योऽहं प्रत्ययात्तव । विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ १७॥ न कर्मणा सृजामीदं जगत्प्रतिसृजामि च । सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ १८॥ आज्ञैकसारमैश्वर्यं यस्मात्स्वातन्त्र्यलक्षणम् । आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ १९॥ न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः । देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ २०॥ त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि । ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ २१॥ यदनर्थाय भूतानां न तदस्ति खलु त्वयि । इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ २२॥ श‍ृङ्गारभावसाराणां जन्मभूमिरकृत्रिमा । स्वभर्त्रा ललितं तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ २३॥ लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् । तदेव वर्णयाम्यद्य श‍ृणु देव्याश्च वर्णनम् ॥ २४॥ देव्युवाच । किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया । तादृशी कन्यका लोके न भूता न भविष्यति ॥ २५॥ तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा । शुम्भस्य च निशुम्भस्य मारणे च रणे तयोः ॥ २६॥ प्रत्यक्षफलदानं च लोकाय भजते सदा । लोकानां रक्षणं शश्वद् ब्रह्मा विज्ञापयिष्यति ॥ २७॥ इति सम्भाषमाणाया देव्या एवाज्ञया तदा । व्याघ्रः सख्या समानीय पुरोऽवस्थापितस्तदा ॥ २८॥ तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् । व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ २९॥ अनेन दुष्टसङ्घेभ्यो रक्षितं मत्तपोवनम् । अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ३०॥ स्वदेशं च परित्यज्य प्रसादार्थं समागतः । यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ३१॥ नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् । रक्षिभिः सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ३२॥ वायुरुवाच । मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः । प्रीतोऽस्मीत्याह तं देवः स चादृश्यत तत्क्षणात् ॥ ३३॥ बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कञ्चुकम् । छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ ३४॥ यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः । सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ ३५॥ इत्थं देव्याः प्रियं कृत्वा देवश्चार्द्धेन्दुभूषणः । भूषयामास तं दिव्यैर्भूषणै रत्नभूषितैः ॥ ३६॥ ततः स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः । पर्यङ्कमारोप्य वराङ्गभूषणै- र्विभूषयामास शशाङ्कभूषणः ॥ ३७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशिवमिलनवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.१.२७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२८. अष्टाविंशोऽध्यायः । भस्मतत्त्ववर्णनम् ।

ऋषय ऊचुः । देवीं समादधानेन देवेनेदं किमीरितम् । अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ १॥ आज्ञैकसारमैश्वर्यमाज्ञात्वमिति चोदितम् । तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ २॥ वायुरुवाच । अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः । सोमः शाक्तोऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ३॥ अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् । भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ४॥ द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ५॥ विद्युदादिमयं तेजो मधुरादिमयो रसः । तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ६॥ अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते । अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७॥ हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये । वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ८॥ अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् । यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ९॥ अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः । यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ १०॥ आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः । तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ ११॥ शिवश्चोर्ध्वमधः शक्तिरूर्ध्वं शक्तिरधः शिवः । तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किञ्चन ॥ १२॥ असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् । अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ १३॥ यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना । अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ १४॥ अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितं पुनः । अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १५॥ योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः । शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ १६॥ अतो मृत्युञ्जयायेत्थममृतप्लावनं सदा । शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ १७॥ यो वेद दहनं गुह्यं प्लावनं च यथोदितम् । अग्नीषोमपदं हित्वा न स भूयोऽभिजायते ॥ १८॥ शिवाग्निना तनुं दग्ध्वा शक्तिसौम्यामृतेन यः । प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते ॥ १९॥ हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् । अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ २०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.१.२८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.२९. एकोनत्रिंशोऽध्यायः । वागर्थात्मकतत्त्ववर्णनम् ।

वायुरुवाच । निवेदयामि जगतो वागर्थात्म्यं कृतं यथा । षडध्ववेदनं सम्यक् समासान्न तु विस्तरात् ॥ १॥ नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः । ततो हि समये शब्दः सर्वः सर्वार्थबोधकः ॥ २॥ प्रकृतेः परिणामोऽयं द्विधा शब्दार्थभावना । तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ३॥ शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः । स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ४॥ सूक्ष्मा चिन्तामयी प्रोक्ता चिन्तया रहिता परा । या शक्तिः सा परा शक्तिः शिवतत्त्वसमाश्रया ॥ ५॥ ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा । सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ६॥ समस्तकार्यजातस्य मूलप्रकृतितां गता । सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ७॥ सा विभागस्वरूपैव षडध्वात्मा विजृम्भते । तत्र शब्दास्त्रयोऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ८॥ सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः । लयभोगाधिकाराः स्युः सर्वतत्त्वविभागतः ॥ ९॥ कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् । परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ १०॥ कलाश्च ता निवृत्त्याद्याः पर्य्याप्ता इति निश्चयः । मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ११॥ भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् । अत्रान्योऽन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ १२॥ मन्त्राः सर्वे पदैर्व्याप्ता वाक्यभावात्पदानि च । वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ १३॥ वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलम्भनात् । भुवनान्यपि तत्त्वौघैरुत्पत्त्यान्तर्बहिष्क्रमात् ॥ १४॥ व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः । अन्तरादुत्थितानीह भुवनानि तु कानिचित् ॥ १५॥ पौराणिकानि चान्यानि विज्ञेयानि शिवागमे । साङ्ख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ १६॥ शिवशास्त्रप्रसिद्धानि ततोऽन्यान्यपि कृत्स्नशः । कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ १७॥ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः । कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ १८॥ व्यापिकातः पराशक्तिरविभक्ता षडध्वनाम् । परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ १९॥ शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् । व्याप्तमेकेन तेनैव मृदा कुम्भादिकं यथा ॥ २०॥ शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः । व्यापिकाऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ २१॥ निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते । प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ २२॥ तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि । शान्त्या तदूर्ध्वम्मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ २३॥ यामाहुः परमं व्योम परप्रकृतियोगतः । एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ २४॥ अत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः । अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ २५॥ स विप्रलम्भकः शुद्धेर्नालं प्रापयितुं फलम् । वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ २६॥ शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः । तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ २७॥ शक्तिराज्ञा परा शैवी चिद्रूपा परमेश्वरी । शिवोऽधितिष्ठत्यखिलं यया कारणभूतया ॥ २८॥ नात्मनो नैव मायैषा न विकारो विचारतः । न बन्धो नापि मुक्तिश्च बन्धमुक्तिविधायिनी ॥ २९॥ सर्वैश्वर्यपराकाष्ठा शिवस्याव्यभिचारिणी । समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ ३०॥ स तयैव गृही सापि तेनैव गृहिणी सदा । तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ ३१॥ स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः । एक एव शिवः साक्षाद् द्विधाऽसौ समवस्थितः ॥ ३२॥ स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन । अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ ३३॥ प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः । तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ ३४॥ तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया । महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ ३५॥ त्रिविधा कार्यभेदेन सा प्रसूते षडध्वनः । स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ ३६॥ अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ ३७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थात्मकतत्त्ववर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ७.१.२९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३०. त्रिंशोऽध्यायः । शिवतत्त्वप्रश्नः ।

ऋषय ऊचुः । चरितानि विचित्राणि गृह्याणि गहनानि च । दुर्विज्ञेयानि देवैश्च मोहयन्ति मनांसि नः ॥ १॥ शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते । चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ २॥ ब्रह्मादयोऽपि लोकानां सृष्टिस्थित्यन्तहेतवः । निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ३॥ शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् । अतोऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ४॥ यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् । स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ५॥ न मूर्तिश्च स्वतन्त्रस्य घटते मूलहेतुना । मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ६॥ सर्वत्र परमो भावोऽपरमश्चान्य उच्यते । परमापरमौ भावौ कथमेकत्र सङ्गतौ ॥ ७॥ निष्फलो हि स्वभावोऽस्य परमः परमात्मनः । स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ८॥ स्वभावो विपरीतश्चेत्स्वतन्त्रः स्वेच्छया यदि । न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ९॥ मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः । शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ १०॥ मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति । तस्यां मूर्तौ मूर्तिमतोः पारतन्त्र्यं हि निश्चितम् ॥ ११॥ अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् । मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ १२॥ न हि स्वेच्छाशरीरत्वं स्वातन्त्र्यायोपपद्यते । स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ १३॥ स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत । ब्रह्मादयः पिशाचान्ताः किं ते कर्मातिवर्तिनः ॥ १४॥ इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः । अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ १५॥ विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा । युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ १६॥ सर्वस्मादधिकस्यापि शिवस्य परमात्मनः । शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ १७॥ सर्वानुग्राहकं प्राहुः शिवं परमकारणम् । स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ १८॥ चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः । शिवनिन्दां प्रकुर्वन्तं पुत्रेति कुमतेर्हठात् ॥ १९॥ विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः । बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ २०॥ देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् । वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ २१॥ पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः । क्षणेनैकेन देवेन नेत्राग्नेरिन्धनीकृतम् ॥ २२॥ प्रजानां रतिहेतुश्च कामो रतिपतिः स्वयम् । क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ २३॥ गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः । सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृताः ॥ २४॥ जलन्धरासुरो दीर्णश्चक्रीकृत्य जलं पदा । बद्ध्वानन्तेन यो विष्णुं चिक्षेप शतयोजनम् ॥ २५॥ तमेव जलसन्धायी शूलेनैव जघान सः । तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिः सदा ॥ २६॥ जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् । त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ २७॥ कण्ठात्कालाङ्गनां सृष्ट्वा दारकोऽपि निपातितः । कौशिकीं जनयित्वा तु गौर्य्यास्त्वक्कोशगोचराम् ॥ २८॥ शुम्भः सह निशुम्भेन प्रापितो मरणं रणे । श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ २९॥ वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः । ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ३०॥ विहृत्य सुचिरं देव्या विहारातिप्रसङ्गतः । रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ३१॥ देवीं च वञ्चयंस्तस्यां स्ववीर्यमतिदुर्वहम् । अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ३२॥ गङ्गादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः । तत्समाहृत्य शनकैस्तोकं स्तोकमितस्ततः ॥ ३३॥ स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया । सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ३४॥ सन्दीपयित्वा कालेन तस्य भासा दिशो दश । रञ्जयित्वा गिरीन्सर्वान् काञ्चनीकृत्य मेरुणा ॥ ३५॥ ततश्चिरेण कालेन सञ्जाते तत्र तेजसि । कुमारे सुकुमाराङ्गे कुमाराणां निदर्शने ॥ ३६॥ तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् । सह देवासुरैर्लोकैर्विस्मिते च विमोहिते ॥ ३७॥ देवोऽपि स्वयमायातः पुत्रदर्शनलालसः । सह देव्याङ्कमारोप्य ततोऽस्य स्मेरमाननम् ॥ ३८॥ पीतामृतमिव स्नेहविवशेनान्तरात्मना । देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ३९॥ स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् । अनुभूय च तत्क्रीडां सम्भाव्य च परस्परम् ॥ ४०॥ स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् । तवावतारो जगतां हितायेत्यनुशास्य च ॥ ४१॥ स्वयं देवश्च देवी च न तृप्तिमुपजग्मतुः । ततः शक्रेण सन्धाय बिभ्यता तारकासुरात् ॥ ४२॥ कारयित्वाऽभिषेकं च सेनापत्ये दिवौकसाम् । पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषः ॥ ४३॥ स्वयमन्तर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् । तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ४४॥ छेदितं तारकस्यापि शिरः शक्रभिया सह । स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ४५॥ तथा रक्षोऽधिपः साक्षाद्रावणो बलगर्वितः । उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ४६॥ तदागोऽसहमानस्य देवदेवस्य शूलिनः । पदाङ्गुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ४७॥ बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः । त्वरयागत्य देवेन पादान्तं गमितोऽन्तकः ॥ ४८॥ स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः । सगलग्रहमानीतस्ततोऽस्त्येकोदकं जगत् ॥ ४९॥ अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः । अङ्गहारक्रमेणेदमसकृच्चालितं जगत् ॥ ५०॥ शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः । सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ५१॥ अनादिकर्मवैचित्र्यमपि नात्र नियामकम् । कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ५२॥ किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् । यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ५३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशोऽध्यायः ॥ ७.१.३०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३१. एकत्रिंशोऽध्यायः । ज्ञानोपदेशः ।

वायुरुवाच । स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः । जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ १॥ प्रमणमत्र वक्ष्यामि सतां मोहनिवर्तकम् । असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ २॥ शिवस्य परिपूर्णस्य परानुग्रहमन्तरा । न किञ्चिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ३॥ स्वभाव एव पर्याप्तः परानुग्रहकर्मणि । अन्यथा निःस्वभावेन न किमप्यनुगृह्यते ॥ ४॥ परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् । परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ५॥ पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा । तदर्थमर्थस्वीकारे परतन्त्रः कथं शिवः ॥ ६॥ अनुग्राह्यानपेक्षोऽस्ति न हि कश्चिदनुग्रहः । अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७॥ एतत्पुनरनुग्राह्यं परतन्त्रं तदिष्यते । अनुग्रहाद् ऋते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ८॥ मूर्तात्मनोऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् । अज्ञानाधिष्ठितं शम्भोर्न किञ्चिदिह विद्यते ॥ ९॥ येनोपलभ्यतेऽस्माभिः सकलेनापि निष्कलः । स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ १०॥ न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् । साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ११॥ प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् । न तावतात्रोपेक्षाधीरुपलक्षणमन्तरा ॥ १२॥ आत्मोपमोल्बणं साक्षान्मूर्तिरेव हि काचन । शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ १३॥ यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते । एवं शिवोऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ १४॥ यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् । नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ १५॥ अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् । मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ १६॥ लिङ्गादावपि तत्कृत्यमर्चायां च विशेषतः । तत्तन्मूर्त्यात्मभावेन शिवोऽस्माभिरुपास्यते ॥ १७॥ यथानुगृह्यते सोऽपि मूर्त्यात्मा पारमेष्ठिना । तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ १८॥ लोकानुग्रहणायैव शिवेन परमेष्ठिना । सदाशिवादयः सर्वे मूर्त्यात्मनोऽप्यधिष्ठिताः ॥ १९॥ आत्मनामेव भोगाय मोक्षाय च विशेषतः । तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ २०॥ भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः । न च कर्म शिवेऽस्तीति तस्य भोगः किमात्मकः ॥ २१॥ सर्वं शिवोऽनुगृह्णाति न निगृह्णाति किञ्चन । निगृह्णतां तु ये दोषाश्शिवे तेषामसम्भवात् ॥ २२॥ ये पुनर्निग्रहाः केचिद् ब्रह्मादिषु निदर्शिताः । तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ २३॥ ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः । श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ २४॥ सदोषा एव देवाद्या निगृहीता यथोदितम् । ततस्तेऽपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ २५॥ निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः । अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ २६॥ यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः । न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ २७॥ ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् । आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ २८॥ तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् । विपरीतमसाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ २९॥ साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् । निवर्तते च सामादेरन्ते दण्डो हि साधनम् ॥ ३०॥ हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् । अतो यद्विपरीतं तदहितं सम्प्रचक्षते ॥ ३१॥ हिते सदा निषण्णानामीश्वरस्य निदर्शनम् । स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ३२॥ अयुक्तकारिणो लोके गर्हणीया विवेकिता । यदुद्वेजयते लोकं तदयुक्तं प्रचक्षते ॥ ३३॥ सर्वोऽपि निग्रहो लोके न च विद्वेषपूर्वकः । न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ३४॥ माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः । तस्याप्यवश्यं यत्किञ्चिन्नैर्घृण्यमनुवर्तते ॥ ३५॥ अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् । हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ३६॥ तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः स निर्घृणः । इति निर्बन्धयन्त्येके नियमो नेति चापरे ॥ ३७॥ निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः । न किञ्चिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ३८॥ घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु । तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ३९॥ उपेक्षापीह दोषाय रक्ष्येषु प्रतियोगिषु । शक्तौ सत्यामुपेक्षातो रक्ष्यः सद्यो विपद्यते ॥ ४०॥ सर्पस्यास्यगतं पश्यन् यस्तु रक्ष्यमुपेक्षते । दोषाभासान्समुत्प्रेक्ष्य फलतः सोऽपि निर्घृणः ॥ ४१॥ तस्माद् घृणा गुणायैव सर्वथेति न सम्मतम् । सम्मतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ४२॥ मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः । तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ४३॥ अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् । इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ४४॥ नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते । अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ४५॥ एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् । शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुद्ध्यति ॥ ४६॥ अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः । मूर्त्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ४७॥ न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ । काष्ठस्याङ्गारता नाग्नेरेवमत्रापि योज्यताम् । अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ४८॥ शिवावेशवशादेव शिवत्वमुपचर्यते । मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः । तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ४९॥ यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः । न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ५०॥ न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः । संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ५१॥ हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः । सर्वं हिते नियुञ्जानः सर्वानुग्रहकारकः ॥ ५२॥ यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् । तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ५३॥ हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् । स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ५४॥ यथा विकासयत्येव रविः पद्मानि भानुभिः । समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ५५॥ स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम् । न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ५६॥ सुवर्णमेव नाङ्गारं द्रावयत्यग्निसङ्गमः । एवं पक्वमलानेव मोचयेन्न शिवः परान् ॥ ५७॥ यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् । विना भावनया कर्ता स्वतन्त्रः सन्ततो भवेत् ॥ ५८॥ स्वभावविमलो यद्वत्सर्वानुग्राहकः शिवः । स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ५९॥ अन्यथा संसरन्त्येते नियमान्न शिवः कथम् । कर्ममायानुबन्धोऽस्य संसारः कथ्यते बुधैः ॥ ६०॥ अनुबन्धोऽयमस्यैव न शिवस्येति हेतुमान् । स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ६१॥ आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना । योऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ६२॥ आत्मतायाः समत्वेऽपि बद्धा मुक्ताः परे यतः । बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ६३॥ ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः । केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ६४॥ मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्द्धसु स्थिताः । मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ६५॥ आसन्नेऽपि च मायायाः परस्मात्कारणात्त्रयम् । तत्राप्यात्मा स्थितोऽधस्तादन्तरात्मा च मध्यतः ॥ ६६॥ परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः । वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ६७॥ अन्तरात्मपदे केचित्केचिदात्मपदे तथा । शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ६८॥ विद्यायां तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः । निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्माङ्गयोनयः ॥ ६९॥ देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् । पक्ष्यादयोऽधमाः पञ्च योनयस्ताश्चतुर्दश ॥ ७०॥ उत्तराधरभावोऽपि ज्ञेयः संसारिणो मलः । यथाऽऽमभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७१॥ मलोऽप्यामश्च पक्वश्च भवेत्संसारकारणम् । आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७२॥ पश्वात्मानस्त्रिधा भिन्ना एकद्वित्रिमलाः क्रमात् । अत्रोत्तरा एकमला द्विमला मध्यमा मताः । त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७३॥ त्रिमलानधितिष्ठन्ति द्विमलैकमलाः क्रमात् । इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७४॥ एकद्वित्रिमलान्सर्वाञ्छिव एकोऽधितिष्ठति । अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७५॥ अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् । अण्डान्ता हि महाभूमिः शतरुद्राद्यधिष्ठिता ॥ ७६॥ मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् । अङ्गुष्ठमात्रपर्यन्तैः समन्तात्सन्ततं ततम् ॥ ७७॥ महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः । अनाश्रितान्तैरध्वान्तर्वर्त्तिभिः समधिष्ठिताः ॥ ७८॥ ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा । पृथिवीपद इत्येवं देवा देवव्रतैः स्तुताः ॥ ७९॥ एवं त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् । निदानभूतैः संसाररोगः पुंसां प्रवर्तते ॥ ८०॥ अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् । भिषगाज्ञापकः शम्भुः शिवः परमकारणम् ॥ ८१॥ अदुःखेनाऽपि शक्तोऽसौ पशून्मोचयितुं शिवः । कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ८२॥ दुःखमेव हि सर्वोऽपि संसार इति निश्चितम् । कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ८३॥ न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् । रोगार्तं तु भिषग्रोगाद्भैषजैः सुखमुद्धरेत् ॥ ८४॥ एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् । स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ८५॥ न भिषक् कारणं रोगे शिवः संसारकारणम् । इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ८६॥ दुःखे स्वभावसंसिद्धे कथं तत्कारणं शिवः । स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ८७॥ संसारकारणं यत्तु मलं मायाद्यचेतनम् । तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ८८॥ यथा मणिरयस्कान्तः सान्निध्यादुपकारकः । अयसश्चलतस्तद्वच्छिवोऽप्यस्येति सूरयः ॥ ८९॥ न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् । अधिष्ठाता ततो नित्यमज्ञातो जगतः शिवः ॥ ९०॥ न शिवेन विना किञ्चित्प्रवृत्तमिह विद्यते । तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ९१॥ शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी । तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ९२॥ अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः । ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ९३॥ योऽन्यथा मन्यते मोहात्स विनश्यति दुर्मतिः । तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ९४॥ एतस्मिन्नन्तरे व्योम्नः श्रुता वागशरीरिणी । सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ९५॥ ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः । मुनयो विस्मयाविष्टाः प्रणेमुः पवनं प्रभुम् ॥ ९६॥ तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् । नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ९७॥ वायुरुवाच परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते । परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ९८॥ हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते । अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ९९॥ नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् । श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ १००॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशोऽध्यायः ॥ ७.१.३१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३२. द्वात्रिंशोऽध्यायः । श्रेष्ठानुष्ठानवर्णनम् ।

ऋषय ऊचुः । किं तच्छ्रेष्ठमनुष्ठानं मोक्षो येनापरोक्षितः । तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥ १॥ वायुरुवाच । शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः । यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ २॥ स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् । क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ३॥ तैरेव सोत्तरैः सिद्धो धर्मस्तु परमो मतः । परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ४॥ परमोऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ । धर्मशब्दाभिधेयेऽर्थे प्रमाणं श्रुतिरेव नः ॥ ५॥ परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः । धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥ ६॥ अपश्वात्माधिकारत्वाद्यो धर्मः परमो मतः । साधारणस्ततोऽन्यस्तु सर्वेषामधिकारतः ॥ ७॥ स चायं परमो धर्मः परधर्मस्य साधनम् । धर्मशास्त्रादिभिः सम्यक् साङ्ग एवोपबृंहितः ॥ ८॥ शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः । इतिहासपुराणाभ्यां कथञ्चिदुपबृंहितः ॥ ९॥ शैवागमैस्तु सम्पन्नः सहाङ्गोपाङ्गविस्तरः । तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥ १०॥ शैवागमो हि द्विविधः श्रौतोऽश्रौतश्च संस्कृतः । श्रुतिसारमयः श्रौतः स्वतन्त्र इतरो मतः ॥ ११॥ स्वतन्त्रो दशधा पूर्वं तथाष्टादशधा पुनः । कामिकादिसमाख्याभिः सिद्धः सिद्धान्तसंज्ञितः ॥ १२॥ श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः । परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ १३॥ युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा । तत्र तत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥ १४॥ सङ्क्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षयः । रुरुर्दधीचोऽगस्त्यश्च उपमन्युर्महायशाः ॥ १५॥ ते च पाशुपता ज्ञेयाः संहितानां प्रवर्तकाः । तत्सन्ततीया गुरवः शतशोऽथ सहस्रशः ॥ १६॥ तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः । तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद् दृढम् ॥ १७॥ तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः । तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ १८॥ नामाष्टकमयो योगः शिवेन परिकल्पितः । तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ १९॥ प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् । प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ २०॥ प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् । शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ २१॥ ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् । ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ २२॥ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः । संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ २३॥ नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् । आद्यं तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥ २४॥ संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् । उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ २५॥ पदमेव हि तं नित्यमनित्याः पदिनः स्मृताः । पदानां परिवृत्तौ तु मुच्यन्ते पदिनो यतः ॥ २६॥ परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते । आत्मान्तराभिधानं स्याद्यदाद्यं नामपञ्चकम् ॥ २७॥ अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः । त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ २८॥ अनादिमलसंश्लेषः प्रागभावात्स्वभावतः । अत्यन्तं परिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥ २९॥ अथवाशेषकल्याणगुणैकधन ईश्वरः । शिव इत्युच्यते सद्भिः शिवतत्त्वार्थवादिभिः ॥ ३०॥ त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता । प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ ३१॥ यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः । वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ ३२॥ तस्य प्रकृतिलीनस्य यः परः स महेश्वरः । तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥ ३३॥ अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ३४॥ मायाविक्षोभकोऽनन्तो महेश्वरसमन्वयात् । कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ ३५॥ रुद् दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः । रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ३६॥ तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः । व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ३७॥ जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि । पितृभावेन सर्वेषां पितामह उदीरितः ॥ ३८॥ निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः । उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ३९॥ संसारस्येश्वरो नित्यं समूलस्य निवर्तकः । संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ४०॥ दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि । त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ ४१॥ अणवो नैव जानन्ति माययैव मलावृताः । असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥ ४२॥ यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः । अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ ४३॥ सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् । स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ ४४॥ नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः । निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः ॥ ४५॥ यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् । गुणितैरेव सोद्धातैः निरुद्धैरथापि वा ॥ ४६॥ हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् । छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ४७॥ द्वादशान्तः स्थितस्येन्दोर्नीत्वोपरि शिवौजसि । संहृत्य वदनं पश्चाद्यथासंस्करणं लयात् ॥ ४८॥ शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः । अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ४९॥ द्वादशान्तःस्थितस्येन्दोः परस्ताच्छ्वेतपङ्कजे । समासीनं महादेवं शङ्करं भक्तवत्सलम् ॥ ५०॥ अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् । शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ॥ ५१॥ ध्यात्वा हि मानसे देवं स्वस्थचित्तोऽथ मानवः । शिवनामाष्टकेनैव भावपुष्पैः समर्चयेत् ॥ ५२॥ अभ्यर्च्चनान्ते तु पुनः प्राणानायम्य मानवः । सम्यक् चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ५३॥ नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः । अष्टपुष्पप्रदानेन कृत्वाभ्यर्च्चनमन्तिमम् ॥ ५४॥ निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना । एवं कृत्वाचिरादेव ज्ञानं पाशुपतं शुभम् ॥ ५५॥ लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा । योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ ५६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.१.३२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३३. त्रयस्त्रिंशोऽध्यायः । पशुपतिव्रतविधानवर्णनम् ।

ऋषय ऊचुः । भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् । ब्रह्मादयोऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ १॥ वायुरुवाच । रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् । व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ २॥ कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः । क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ॥ ३॥ तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः । अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ॥ ४॥ पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् । शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ५॥ दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च । प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ ६॥ व्रतमेतत्करोमीति भवेत्सङ्कल्प्य दीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ७॥ तदर्धं वा तदर्धं वा मासद्वादशकं तु वा । तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ ८॥ दिनद्वादशकं वाथ दिनषट्कमथापि वा । तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ ९॥ अग्निमाधाय विधिवद्विरजाहोमकारणात् । हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ १०॥ पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ ११॥ तत्त्वान्येतानि मद्देहे शुद्ध्यन्तामित्यनुस्मरन् । पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १२॥ ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः । त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १३॥ मनोबुद्धिरहङ्ख्यातिर्गुणाः प्रकृतिपूरुषौ । रागो विद्याकले चैव नियतिः काल एव च ॥ १४॥ माया च शुद्धिविद्या च महेश्वरसदाशिवौ । शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १५॥ मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् । शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ १६॥ अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च । विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ १७॥ प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् । दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ १८॥ प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः । उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ १९॥ ततश्च जटिलो मुण्डी शिखैकजट एव वा । भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ २०॥ अपि काषायवसनश्चर्मचीराम्बरोऽथ वा । एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ २१॥ प्रक्षाल्य चरणौ पश्चाद् द्विराचम्यात्मनस्तनुम् । सङ्कुलीकृत्य तद्भस्म विरजानलसम्भवम् ॥ २२॥ अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् । विमृज्याङ्गानि मूर्द्धादिचरणान्तानि तैः स्पृशेत् ॥ २३॥ ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना । सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ २४॥ ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् । शिवभावं समागम्य शिवयोगमथाचरेत् ॥ २५॥ कुर्यात् त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् । भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ २६॥ तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् । पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः ॥ २७॥ पद्ममष्टदलं हैमं नवरत्नैरलङ्कृतम् । कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ २८॥ विभवे तदभावे तु रक्तं सितमथापि वा । पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ २९॥ तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं कनीयसम् । स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ ३०॥ प्रतिष्ठाप्य विधानेन तल्लिङ्गं कृतशोधनम् । परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥ ३१॥ पञ्चगव्यादिभिः पूर्णैर्यथाविभवसम्भृतैः । स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ ३२॥ गन्धद्रव्यैः सकर्पूरैश्चन्दनाद्यैः सकुङ्कुमैः । सवेदिकं समालिप्य लिङ्गं भूषणभूषितम् ॥ ३३॥ बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः । नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगन्धिभिः ॥ ३४॥ पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः । समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ ३५॥ धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् । निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ ३६॥ इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च । सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ ३७॥ श्रीपत्रोत्पलपद्मानां सङ्ख्या साहस्रिकी मता । प्रत्येकमपरा सङ्ख्या शतमष्टोत्तरं द्विजाः ॥ ३८॥ तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् । हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ ३९॥ नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः । पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ ४०॥ अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः । चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ ४१॥ ईशाने भसितं केचिदालेपनमितीदृशम् । न धूपमिति मन्यन्ते धूपान्तरविधानतः । सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ ४२॥ पौरुषे गुग्गुलं सद्ये सौम्ये सौगन्धिकं मुखे । ईशानेऽपि ह्युशीरादि देयाद् धूपं विशेषतः ॥ ४३॥ शर्करामधुकर्पूरकपिलाघृतसंयुतम् । चन्दनागरुकाष्ठाद्यं सामान्यं सम्प्रचक्षते ॥ ४४॥ कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः । अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ ४५॥ प्रथमावरणे पूज्यौ क्रमाद्धेरम्बषण्मुखौ । ब्रह्माङ्गानि ततश्चैव प्रथमावरणेऽर्चिते ॥ ४६॥ द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः । तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ ४७॥ महादेवादयस्तत्र तथैकादशमूर्तयः । चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ ४८॥ बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् । दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ ४९॥ ब्रह्मणो मानसाः पुत्राः सर्वेऽपि ज्योतिषां गणाः । सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ ५०॥ पातालवासिनश्चान्ये सर्वे मुनिगणा अपि । योगिनो हि मखाः सर्वे पतङ्गा मातरस्तथा ॥ ५१॥ क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् । पूजनीयं शिवप्रीत्या मत्वा शम्भुविभूतिमत् ॥ ५२॥ अथावरणपूजान्ते सम्पूज्य परमेश्वरम् । साज्यं सव्यजनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ ५३॥ मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् । अलङ्कृत्य च भूयोऽपि नानापुष्पविभूषणैः ॥ ५४॥ नीराजनान्ते विस्तीर्य पूजाशेषं समापयेत् । चषकं सोपकारं च शयनं च समर्पयेत् ॥ ५५॥ चन्द्रसङ्काशहारं च शयनीयं समर्पयेत् । आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ ५६॥ कृत्वा च कारयित्वा च हुत्वा च प्रतिपूजनम् । व्योमेशस्तवं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥ ५७॥ प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् । ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ ५८॥ दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिङ्गतः । अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ ५९॥ प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् । ततस्तत्साम्बुजं लिङ्गं सर्वोपकरणान्वितम् ॥ ६०॥ समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये । सम्पूज्य च गुरून्विप्रान् व्रतिनश्च विशेषतः ॥ ६१॥ भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् । स्वयं चानशने शक्तः फलमूलाशनोऽथ वा ॥ ६२॥ पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा । नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ ६३॥ भस्मशायी तृणेशायी चीराजिनधृतोऽथ वा । ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ ६४॥ अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः । अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ ६५॥ पाखण्डिपतितोदक्याः सूतकान्त्यजपूर्वकान् । वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ ६६॥ क्षमादानदयासत्याहिंसाशीलः सदा भवेत् । सन्तुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ ६७॥ कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा । पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ ६८॥ बहुनात्र किमुक्तेन नाचरेदशिवं व्रती । प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ ६९॥ उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः । आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ ७०॥ गोदानं च वृषोत्सर्गं कुर्यात्पूजां च सम्पदा । भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ ७१॥ सामान्यमेतत्कथितं व्रतस्यास्य समासतः । प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ ७२॥ वैशाखे वज्रलिङ्गं तु ज्येष्ठे मारकतं शुभम् । आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ ७३॥ मासे भाद्रपदे चैव पद्मरागमयं परम् । आश्विने मासि विद्याद्वै लिङ्गं गोमेदकं वरम् ॥ ७४॥ कार्तिक्यां वैद्रुमं लिङ्गं वैदूर्यं मार्गशीर्षके । पुष्परागमयं पौषे माघे द्युमणिजं तथा ॥ ७५॥ फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययोऽथवा । सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ ७६॥ हैमाभावे राजतं वा ताम्रजं शैलजं तथा । मृण्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ ७७॥ सर्वगन्धमयं वाथ लिङ्गं कुर्याद्यथारुचि । व्रतावसानसमये समाचरितनित्यकः ॥ ७८॥ कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा । सम्पूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ ७९॥ देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः । दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ ८०॥ जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् । अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ ८१॥ समुत्सृजामि भगवन् व्रतमेतत्त्वदाज्ञया । इत्युक्त्वा लिङ्गमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ ८२॥ ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् । पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥ ८३॥ यः कृत्वात्यन्तिकीं दीक्षामादेहान्तमनाकुलः । व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ८४॥ सोऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा । स एव तपतां श्रेष्ठः स एव च महाव्रती ॥ ८५॥ न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु । यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ ८६॥ योऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् । सोऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ ८७॥ घृताक्तो यश्चरेदेतद् व्रतं व्रतपरायणः । द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ ८८॥ कृत्यमित्येव निष्कामो यश्चरेद् व्रतमुत्तमम् । शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ ८९॥ भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः । पापैः सुदारुणैः सद्यो मुच्यते नात्र संशयः ॥ ९०॥ रुद्राग्निर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् । तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ ९१॥ भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसङ्गमात् । भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ ९२॥ भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः । भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ ९३॥ भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः । भस्मनिष्ठस्य सान्निध्याद् विद्रवन्ति न संशयः ॥ ९४॥ भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् । भूतिः भूतिकरी चैव रक्षा रक्षाकरी परम् ॥ ९५॥ किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् । व्रती च भस्मना स्नातः स्वयं देवो महेश्वरः ॥ ९६॥ परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् । धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ ९७॥ तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् । धनवद्भस्म सङ्गृह्य भस्मस्नानरतो भवेत् ॥ ९८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.१.३३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३४. चतुस्त्रिंशोऽध्यायः । उपमन्युतपोवर्णनम् ।

ऋषय ऊचुः । धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् । तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ १॥ स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् । कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ २॥ कथं च लब्धविज्ञानस्तपश्चरणपर्वणि । रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ३॥ वायुरुवाच । न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः । मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ४॥ जन्मान्तरेण संसिद्धः केनापि खलु हेतुना । स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ५॥ महादेवप्रसादस्य भाग्यापन्नस्य भाविनः । दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ६॥ अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् । सह दुग्धाब्धिना तस्मै प्रददौ शङ्करः स्वयम् ॥ ७॥ तस्य ज्ञानागमोऽप्यस्य प्रसादादेव शाङ्करात् । कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ८॥ शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् । कुमारोमुखतो लब्धज्ञानाब्धेरिव नन्दिनः ॥ ९॥ दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये । स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ १०॥ कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे । ईर्ष्यया मातुलसुतं सन्तृप्तक्षीरमुत्तमम् ॥ ११॥ पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् । उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ १२॥ उपमन्युरुवाच । मातर्मातर्महाभागे मम देहि तपस्विनि । गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ १३॥ वायुरुवाच । तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी । व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ १४॥ उपलाल्याथ सुप्रीत्या पुत्रमालिङ्ग्य सादरम् । दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ १५॥ स्मृत्वा स्मृत्वा पुनः क्षीरमुपमन्युः स बालकः । देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ १६॥ तद् हठं सा परिज्ञाय द्विजपत्नी तपस्विनी । शान्तये तद् हठस्याथ शुभोपायमरीरचत् ॥ १७॥ उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा । बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ १८॥ एह्येहि मम पुत्रेति सामपूर्वं ततः सुतम् । आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ १९॥ पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः । नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ २०॥ दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्द्धनि । सम्मार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ २१॥ जनन्युवाच । तटिनी रत्नपूर्णास्ताः स्वर्गपातालगोचराः । भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ २२॥ राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसम्भवम् । न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ २३॥ भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् । अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ २४॥ क्षीरं तत्र कुतोऽस्माकं वने निवसतां सदा । क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ २५॥ कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया । मिथ्यादुग्धमिदं दत्तं पिष्टमालोड्य वारिणा ॥ २६॥ त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः श्रुतम् । ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ २७॥ दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् । प्रसादेन विना शम्भोः पयस्तव न विद्यते ॥ २८॥ पादपङ्कजयोस्तस्य साम्बस्य सगणस्य च । भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ २९॥ अधुना वसुदोऽस्माभिर्महादेवो न पूजितः । सकामानां यथाकामं यथोक्तफलदायकः ॥ ३०॥ धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः । अतो दरिद्राः सञ्जाता वयं तस्मान्न ते पयः ॥ ३१॥ पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः । तदेव लभ्यते नान्यद् विष्णुमुद्दिश्य वा प्रभुम् ॥ ३२॥ वायुरुवाच । इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् । बालोऽप्यनुतपन्नन्तः प्रगल्भमिदमब्रवीत् ॥ ३३॥ उपमन्युरुवाच । शोकेनालमितो मतः साम्बो यद्यस्ति शङ्करः । त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ ३४॥ श‍ृणु मातर्वचो मेऽद्य महादेवोऽस्ति चेत् क्वचित् । चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ ३५॥ वायुरुवाच । इति श्रुत्वा वचस्तस्य बालकस्य महामतेः । प्रत्युवाच तदा माता सुप्रसन्ना मनस्विनी ॥ ३६॥ मातोवाच । शुभं विचारितं तात त्वया मत्प्रीतिवर्द्धनम् । विलम्बं मा कथास्त्वं हि भज साम्बं सदाशिवम् ॥ ३७॥ सर्वस्मादधिकोऽस्त्येव शिवः परमकारणम् । तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किङ्कराः ॥ ३८॥ तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः । तं विनान्यं न जानीमः शङ्करं लोकशङ्करम् ॥ ३९॥ अन्यान् देवान्न् परित्यज्य कर्मणा मनसा गिरा । तमेव साम्बं सगणं भज भावपुरस्सरम् ॥ ४०॥ तस्य देवाधिदेवस्य शिवस्य वरदायिनः । साक्षान्नमः शिवायेति मन्त्रोऽयं वाचकः स्मृतः ॥ ४१॥ सप्तकोटिमहामन्त्राः सर्वे सप्रणवाः परे । तस्मिन्नेव विलीयन्ते पुनस्तस्माद्विनिर्गताः ॥ ४२॥ सप्रसादाश्च ते मन्त्राः स्वाधिकाराद्यपेक्षया । सर्वाधिकारस्त्वेकोऽयं मन्त्र एवेश्वराज्ञया ॥ ४३॥ यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः । क्षमते रक्षितुं तद्वन्मन्त्रोऽयमपि सर्वदा ॥ ४४॥ प्रबलश्च तथा ह्येष मन्त्रो मन्त्रान्तरादपि । सर्वरक्षाक्षमोऽप्येष नापरः कश्चिदिष्यते ॥ ४५॥ तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव । तस्मिन् जिह्वान्तरगते न किञ्चिदिह दुर्लभम् ॥ ४६॥ अघोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् । तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ ४७॥ भस्मेदं तु मया लब्धं पितुरेव तवोत्तमम् । विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ ४८॥ मन्त्रं च ते मया दत्तं गृहाण मदनुज्ञया । अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ ४९॥ वायुरुवाच । एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च । विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ ५०॥ तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे । तमाह च तदा माता शुभं कुर्वन्तु ते सुराः ॥ ५१॥ अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् । हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ ५२॥ अष्टेष्टकाभिः प्रासादं कृत्वा लिङ्गं च मृण्मयम् । तत्रावाह्य महादेवं साम्बं सगणमव्ययम् ॥ ५३॥ भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः । समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ ५४॥ ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् । उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ ५५॥ पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः । सम्पीड्य राक्षसैर्भावैस्तपसो विघ्नमाचरन् ॥ ५६॥ स च तैः पीड्यमानोऽपि तपः कुर्वन्कथञ्चन । सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ५७॥ तन्नादश्रवणादेव तपसो विघ्नकारिणः । ते तं बालं समुत्सृज्य मुनयः समुपाचरन् ॥ ५८॥ तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः । चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ५९॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.१.३४॥ ७.१.३४ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.१.३५. पञ्चत्रिंशोऽध्यायः । उपमन्युचरितवर्णनम् ।

वायुरुवाच । अथ सर्वे प्रदीप्ताङ्गा वैकुण्ठं प्रययुर्द्रुतम् । प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ १॥ श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः । किमिदं त्विति सञ्चिन्त्य ज्ञात्वा तत्कारणं च सः ॥ २॥ जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया । दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृताञ्जलिः ॥ ३॥ विष्णुरुवाच । भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः । क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ४॥ वायुरुवाच । इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः । शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ५॥ तच्छ्रुत्वा शम्भुवचनं स विष्णुर्देववल्लभः । जगामाश्वास्य तान्सर्वान् स्वलोकममरादिकान् ॥ ६॥ एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः । शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ७॥ अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः । सह सुरासुरसिद्धमहोरगै- रमरराजतनुं स्वयमास्थितः ॥ ८॥ स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् । दधार शच्या सहितं सुरेन्द्रं करेण वामेन सितातपत्रम् ॥ ९॥ रराज भगवान्सोमः शक्ररूपी सदाशिवः । तेनातपत्रेण यथा चन्द्रबिम्बेन मन्दरः ॥ १०॥ आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः । जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ११॥ तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् । प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ १२॥ उपमन्युरुवाच । पावितश्चाश्रमः सोऽयं मम देवेश्वर स्वयम् । प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ १३॥ वायुरुवाच । एवमुक्त्वा स्थितं प्रेक्ष्य कृताञ्जलिपुटं द्विजम् । प्राह गम्भीरया वाचा शक्ररूपधरो हरः ॥ १४॥ शक्र उवाच । तुष्टोऽस्मि ते वरं ब्रूहि तपसाऽनेन सुव्रत । ददामि चेप्सितान्सर्वान् धौम्याग्रज महामुने ॥ १५॥ वायुरुवाच । एवमुक्तस्तदा तेन शक्रेण मुनिपुङ्गवः । वरयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ १६॥ तन्निशम्य हरिः प्राह मां न जानासि लेखपम् । त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ १७॥ मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा । ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ १८॥ रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति । देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ १९॥ वायुरुवाच । तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् । मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ २०॥ उपमन्युरुवाच । त्वयैवं कथितं सर्वं भवनिन्दारतेन वै । प्रसङ्गादेव देवस्य निर्गुणत्वं महात्मनः ॥ २१॥ त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् । ब्रह्मविष्णुमहेशानां जनकं प्रकृतेः परम् ॥ २२॥ सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः । नित्यमेकमनेकं च वरं तस्माद् वृणोम्यहम् ॥ २३॥ हेतुवादविनिर्मुक्तं साङ्ख्ययोगार्थदं परम् । उपासते यं तत्त्वज्ञा वरं तस्माद् वृणोम्यहम् ॥ २४॥ नास्ति शम्भोः परं तत्त्वं सर्वकारणकारणात् । ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ २५॥ बहुनात्र किमुक्तेन मयाद्यानुमितं महत् । भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ २६॥ श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत् । स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ २७॥ आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम । निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ २८॥ वायुरुवाच । एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् । क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ २९॥ भस्मादाय तदा घोरमघोरास्त्राभिमन्त्रितम् । विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ३०॥ स्मृत्वा शम्भुपदद्वन्द्वं स्वदेहं दुग्धुमुद्यतः । आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ३१॥ एवं व्यवसिते विप्रे भगवान् भगनेत्रहा । वारयामास सौम्येन धारणां तस्य योगिनः ॥ ३२॥ तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियोगतः । जगृहे मध्यतः क्षिप्तं नन्दी शङ्करवल्लभः ॥ ३३॥ स्वं रूपमेव भगवानास्थाय परमेश्वरः । दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ ३४॥ क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा । दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ ३५॥ फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा । अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ३६॥ एवं स ददृशे देवो देव्या सार्द्धं वृषोपरि । गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ३७॥ दिवि दुन्दुभयो नेदुः पुष्पवृष्टिः पपात च । विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ३८॥ अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः । पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ३९॥ एतस्मिन्समये तत्र सस्मितो भगवान्भवः । एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ४०॥ शिव उवाच । भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुङ्क्ष्व सर्वदा । सुखी भव सदा दुःखान्निर्मुक्तो भक्तिमान्मम ॥ ४१॥ उपमन्यो महाभाग तवाम्बैषा हि पार्वती । मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ ४२॥ मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च । आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ ४३॥ अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा । एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ ४४॥ पिता तव महादेवो माता वै जगदम्बिका । अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ ४५॥ वरान्वरय सुप्रीत्या मनोऽभिलषितान्परान् । प्रसन्नोऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ४६॥ वायुरुवाच । एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम् । मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत् ॥ ४७॥ देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् । विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ४८॥ क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् । उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ४९॥ योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् । समृद्धिं परमां तस्मै ददौ सन्तुष्टमानसः ॥ ५०॥ अथ शम्भुः प्रसन्नात्मा दृष्ट्वा तस्य तपो महः । पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ ५१॥ व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः । ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ ५२॥ सोऽपि लब्ध्वा वरान्दिव्यान् कुमारत्वं च सर्वदा । तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत् ॥ ५३॥ ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः । ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ ५४॥ उपमन्युरुवाच । प्रसीद देवदेवेश प्रसीद परमेश्वर । स्वभक्तिं देहि परमां दिव्यामव्यभिचारिणीम् ॥ ५५॥ श्रद्धां देहि महादेव स्वसम्बन्धिषु मे सदा । स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ ५६॥ मुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा । स तुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ ५७॥ देवदेव महादेव शरणागतवत्सल । प्रसीद करुणासिन्धो साम्ब शङ्कर सर्वदा ॥ ५८॥ वायुरुवाच । एवमुक्तो महादेवः सर्वेषां च वरप्रदः । प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ ५९॥ शिव उवाच । वत्सोपमन्यो तुष्टोऽस्मि सर्वं दत्तं मया हि ते । दृढभक्तोऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ ६०॥ अजरश्चामरश्चैव भव त्वं दुःखवर्जितः । यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ६१॥ अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा । भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ६२॥ सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम । उपकण्ठं मम त्वं वै सानन्दं विहरिष्यसि ॥ ६३॥ एवमुक्त्वा स भगवान् सूर्यकोटिसमप्रभः । ईशानः स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ ६४॥ उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् । जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ ६५॥ इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.१.३५॥ समाप्तोऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥ Proofreading by Revathy Rajaraman/Uma Mahesh

०७।२

श्रीः ॥ श्रीगणेशाय नमः ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ अथ सप्तम्यां वायवीयसंहितायामुत्तरखण्डः प्रारभ्यते ।

७.२.१. प्रथमोऽध्यायः । कृष्णपुत्रप्राप्तिवर्णनम् ।

ॐ नमः समस्त संसारचक्रभ्रमणहेतवे । गौरीकुचतटद्वन्द्वकुङ्कुमाङ्कितवक्षसे ॥ १॥ सूत उवाच । उक्त्वा भगवतो लब्धं प्रसादादुपमन्युना । नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ २॥ ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः । अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ३॥ कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा । भगवन्तमुपायान्तं समीक्ष्य समुपाविशन् ॥ ४॥ अथासौ नियमस्यान्ते भगवानम्बरोद्भवः । मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ५॥ सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः । श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ६॥ तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् । विभूतिः सकलं यस्य चराचरमिदं जगत् ॥ ७॥ इत्याकर्ण्य शुभां वाणीं ऋषयः क्षीणकल्मषाः । विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ८॥ ऋषय ऊचुः । उक्तं भगवता वृत्तमुपमन्योर्महात्मनः । क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ९॥ दृष्टोऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा । धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ १०॥ प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम । कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ११॥ वायुरुवाच । स्वेच्छया ह्यवतीर्णोऽपि वासुदेवः सनातनः । निन्दयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ १२॥ पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः । आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ १३॥ भस्मावदातं सर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् । रुद्राक्षमालाभरणं जटामण्डलमण्डितम् ॥ १४॥ तच्छिष्यभूतैर्मुनिभिः शास्त्रैर्वेदमिवावृतम् । शिवध्यानरतं शान्तमुपमन्युं महाद्युतिम् ॥ १५॥ नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः । बहुमानेन कृष्णोऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् । स्तुतिं चकार सुप्रीत्या नतस्कन्धः कृताञ्जलिः ॥ १६॥ तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः । नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ १७॥ ततः क्षीणमलं कृष्णमुपमन्युर्यथाविधि । भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ १८॥ अथ पाशुपतं साक्षाद् व्रतं द्वादशमासिकम् । कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ १९॥ तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः । दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ २०॥ ततो गुरुनियोगाद् वै कृष्णः परमशक्तिमान् । तपश्चकार पुत्रार्थं साम्बमुद्दिश्य शङ्करम् ॥ २१॥ तपसो तेन वर्षान्ते दृष्टोऽसौ परमेश्वरः । श्रिया परमया युक्तः साम्बश्च सगणः शिवः ॥ २२॥ वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः । स्तुतिं चकार नत्वाऽसौ कृष्णः सम्यक् कृताञ्जलिः ॥ २३॥ साम्बेन सगणेनापि लब्धवान् युत्रमात्मनः । तपसा तुष्टचित्तेन दत्तं विष्णोः शिवेन वै ॥ २४॥ यस्मात्साम्बो महादेवः प्रददौ पुत्रमात्मनः । तस्माज्जाम्बवतीसूनुं साम्बं चक्रे स नामतः ॥ २५॥ तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः । महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शङ्करात् ॥ २६॥ य इदं कीर्तयेन्नित्यं श‍ृणुयाच्छ्रावयेत्तथा । स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ २७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमोऽध्यायः ॥ ७.२.१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥

७.२.२. द्वितीयोऽध्यायः । शिवमाहात्म्यवर्णनम् ।

ऋषय ऊचुः । किं तत्पाशुपतं ज्ञानं कथं पशुपतिः शिवः । कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ १॥ एतत्सर्वं समाचक्ष्व वायो शङ्करविग्रह । त्वत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ २॥ सूत उवाच । इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभञ्जनः । संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ३॥ वायुरुवाच । पुरा साक्षात् महेशेन श्रीकण्ठाख्येन मन्दरे । देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ४॥ तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना । पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ५॥ यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना । तथा समासतो वक्ष्ये तच्छृणुध्वमतन्द्रिताः ॥ ६॥ पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः । प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७॥ श्रीकृष्ण उवाच । भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् । दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ८॥ कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः । कैः पाशैस्ते निबध्यन्ते विमुच्यन्ते च ते कथम् ॥ ९॥ इति सञ्चोदितः श्रीमानुपमन्युर्महात्मना । प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ १०॥ उपमन्युरुवाच । ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः । पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥ ११॥ तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः । मलमायादिभिः पाशैः स बध्नाति पशून् पतिः ॥ १२॥ स एव मोचकस्तेषां भक्त्या सम्यगुपासितः । चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ १३॥ विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः । ब्रह्मादिस्तम्बपर्यन्तान् पशून् बद्ध्वा महेश्वरः ॥ १४॥ पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् । तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ १५॥ बुद्धिं प्रसूते सा बुद्धिरहङ्कारमहङ्कृतिः । इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ १६॥ शासनाद्देवदेवस्य शिवस्य शिवदायिनः । तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ १७॥ महाभूतान्यशेषाणि भावयन्त्यनुपूर्वशः । ब्रह्मादीनां तृणान्तानां देहिनां देहसङ्गतिम् ॥ १८॥ महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया । अध्यवस्यति वै बुद्धिरहङ्कारोभिमन्यते ॥ १९॥ चित्तं चेतयते चापि मनः सङ्कल्पयत्यपि । श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ २०॥ स्वानेव नान्यान् देवस्य दिव्येनाज्ञाबलेन वै । वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ २१॥ यथास्वं कर्म कुर्वन्ति नान्यत्किञ्चिद् शिवाज्ञया । शब्दादयोऽपि गृह्यन्ते क्रियन्ते वचनादयः ॥ २२॥ अविलङ्घ्या हि सर्वेषामाज्ञा शम्भोर्गरीयसी । अवकाशमशेषाणां भूतानां सम्प्रयच्छति ॥ २३॥ आकाशः परमेशस्य शासनादेव सर्वगः । प्राणाद्यैश्च तथा नामभेदैरन्तर्बहिर्जगत् ॥ २४॥ बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः । हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ २५॥ पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् । सञ्जीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ २६॥ विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया । देवान् यात्यसुरान् हन्ति त्रिलोकमभिरक्षति ॥ २७॥ आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलङ्घ्यया । आधिपत्यमपां नित्यं कुरुते वरुणः सदा ॥ २८॥ पाशैर्बध्नाति च यथा दण्ड्यांस्तस्यैव शासनात् । ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ २९॥ पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् । करोति सम्पदः शश्वत् ज्ञानं चापि सुमेधसाम् ॥ ३०॥ निग्रहं चाप्यसाधूनामीशानः शिवशासनात् । धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ३१॥ यामाहुस्तामसीं रौद्रीं मूर्तिमन्तकरीं हरेः । सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ३२॥ अन्याभिर्मूर्तिभिः स्वाभिः पाति चान्ते निहन्ति च । विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ३३॥ सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः । हरत्यन्ते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ३४॥ सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति । कालः करोति सकलं कालस्संहरति प्रजाः ॥ ३५॥ कालः पालयते विश्वं कालकालस्य शासनात् । त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ३६॥ दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् । पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ३७॥ देवैश्च पीयते चन्द्रश्चन्द्रभूषणशासनात् । आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ३८॥ खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः । पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ३९॥ नद्यस्समुद्रा गिरयः काननानि सरांसि च । वेदाः साङ्गाश्च शास्त्राणि मन्त्रस्तोममखादयः ॥ ४०॥ कालाग्न्यादिशिवान्तानि भुवनानि सहाधिपैः । ब्रह्माण्डान्यप्यसङ्ख्यानि तेषामावरणानि च ॥ ४१॥ वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः । दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ४२॥ यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । तत्सर्वं शङ्करस्याज्ञाबलेन समधिष्ठितम् ॥ ४३॥ आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः । ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ४४॥ उपमन्युरुवाच । अत्याश्चर्यमिदं कृष्ण शम्भोरमितकर्मणः । आज्ञाकृतं श‍ृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ४५॥ पुरा किल सुराः सेन्द्रा विवदन्तः परस्परम् । असुरान्समरे जित्वा जेताहमहमित्युत ॥ ४६॥ तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् । स्वलक्षणैर्विहीनाङ्गः स्वयं यक्ष इवाभवत् ॥ ४७॥ स तानाह सुरानेकं तृणमादाय भूतले । य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ४८॥ यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः । किञ्चित् क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ४९॥ न तत्तृणमुपदातुं मनसापि च शक्यते । यथा तथापि तच्छेत्तुं वज्रं वज्रधरोऽसृजत् ॥ ५०॥ तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः । तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ५१॥ ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः । ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ५२॥ प्रजज्ज्वाल महावह्निः प्रचण्डः पवनो ववौ । प्रवृद्धोऽपाम्पतिर्यद्वत्प्रलये समुपस्थिते ॥ ५३॥ एवं देवैः समारब्धं तृणमुद्दिश्य यत्नतः । व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ५४॥ तदाह यक्षं देवेन्द्रः को भवानित्यमर्षितः । ततः स पश्यतामेव तेषामन्तरधादथ ॥ ५५॥ तदन्तरे हैमवती देवी दिव्यविभूषणा । आविरासीन्नभोरङ्गे शोभमाना शुचिस्मिता ॥ ५६॥ तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः । प्रणम्य यक्षं पप्रच्छुः कोऽसौ यक्षो विलक्षणः ॥ ५७॥ साऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः । तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ५८॥ तेनादौ क्रियते विश्वं तेन संह्रियते पुनः । न तन्नियन्ता कश्चित् स्यात्तेन सर्वं नियम्यते ॥ ५९॥ इत्युक्त्वा सा महादेवी तत्रैवान्तरधत्त वै । देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ६०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमाहात्म्यवर्णनं नाम द्वितीयोऽध्यायः ॥ ७.२.२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३. तृतीयोऽध्यायः । ऋष्णायोपमन्योरुपदेशवर्णनम् ।

उपमन्युरुवाच । श‍ृणु कृष्ण महेशस्य शिवस्य परमात्मनः । मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ १॥ स शिवः सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः । अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ २॥ ब्रह्मा विष्णुस्तथा रुद्रो महेशानः सदाशिवः । मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ३॥ अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः । तनूभिस्ताभिराव्याप्तमिह किञ्चिन्न विद्यते ॥ ४॥ ईशानः पुरुषोऽघोरो वामः सद्यस्तथैव च । ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ५॥ ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी । भोक्तारं प्रकृतेः साक्षात् क्षेत्रज्ञमधितिष्ठति ॥ ६॥ स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः । गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७॥ धर्माद्यष्टाङ्गसंयुक्तं बुद्धितत्त्वं पिनाकिनः । अधितिष्ठत्यघोराख्या मूर्तिरत्यन्तपूजिता ॥ ८॥ वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः । अहङ्कृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ९॥ सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः । मानसः समधिष्ठात्रीं मतिमन्तः प्रचक्षते ॥ १०॥ श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च । ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११॥ त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् । पुरुषाख्यं विदुः सर्वे पुराणार्थविशारदाः ॥ १२॥ चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च । अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३॥ रमनायाश्च पायोश्च रसस्यापां तथैव च । ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४॥ घ्राणस्य चैवोपस्थस्य गन्धस्य च भुवस्तथा । सद्योज्ञाताह्वयां मूर्तिमीश्वरीं सम्प्रचक्षते ॥ १५॥ मूर्तयः पञ्च देवस्य वन्दनीयाः प्रयत्नतः । श्रेयोऽर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ १६॥ तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् । तस्मिन् व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ १७॥ शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः । ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ १८॥ भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः । अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ १९॥ चराचरात्मकं विश्वं धत्ते विश्वम्भरात्मिका । शार्वी र्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ २०॥ सञ्जीवनं समस्तस्य जगतः सलिलात्मिकाज् । भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ २१॥ बहिरन्तर्गता विश्वं व्याप्य तेजोमयी शुभा । रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ २२॥ स्पन्दयत्यनिलात्मेदं बिभर्ति स्पन्दते स्वयम् । औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ २३॥ सर्वावकाशदा सर्वव्यापिका गगनात्मिका । मूर्तिर्भीमस्य भीमाख्या भूतवृन्दस्य भेदिका ॥ २४॥ सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी । मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृन्तनी ॥ २५॥ दीपयन्ती जगत्सर्वं दिवाकरसमाह्वया । ईशानाख्या महेशस्य मूर्तिर्दिवि विसर्पति ॥ २६॥ आप्याययति यो विश्वममृतांशुर्निशाकरः । महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ २७॥ आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः । व्यापिकेतरमूर्तीनां विश्वं तस्मात् शिवात्मकम् ॥ २८॥ वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा । शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ २९॥ सर्वाभयप्रदानं च सर्वानुग्रहणं तथा । सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ३०॥ यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता । तथा सर्वस्य सम्प्रीत्या प्रीतो भवति शङ्करः ॥ ३१॥ देहिनो यस्य कस्यापि क्रियते यदि निग्रहः । अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ३२॥ अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् । भजस्व सर्वभावेन रुद्रं परमकारणम् ॥ ३३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ ७.२.३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥

७.२.४. चतुर्थोऽध्यायः । गौरीशङ्करविभूतियोगः ।

श्रीकृष्ण उवाच । भगवन् परमेशस्य शर्वस्यामिततेजसः । मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ १॥ अथैतत् ज्ञातुमिच्छामि याथात्म्यं परमेशयोः । स्त्रीपुम्भावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ २॥ उपमन्युरुवाच । श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः । वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ३॥ शक्ति साक्षान्महादेवी महादेवश्च शक्तिमान् । तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ४॥ वस्तु किञ्चिदचिद्रूपं किञ्चिद्वस्तु चिदात्मकम् । द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ५॥ यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् । तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ६॥ अपरं च परं चैव द्वयं चिदचिदात्मकम् । शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७॥ शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ । ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ८॥ यथा शिवस्तथा देवी यथा देवी तथा शिवः । नानयोरन्तरं विद्याच्चन्द्रचन्द्रिकयोरिव ॥ ९॥ चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना । न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः ॥ १०॥ प्रभया हि विना यद्वद्भानुरेष न विद्यते । प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ११॥ एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता । न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ १२॥ शक्तौ यया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् । आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ १३॥ यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः । समानधर्मिणीमेव शिवस्य परमात्मनः ॥ १४॥ सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी । विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ १५॥ सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता । शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ १६॥ एकधा च द्विधा चैव तथा शतसहस्रधा । शक्तयः खलु भिद्यन्ते बहुधा व्यवहारतः ॥ १७॥ शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ १८॥ ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया । तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ १९॥ नादाद्विनिःसृतो बिन्दुर्बिन्दोदेवः सदाशिवः । तस्मान् महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ २०॥ सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः । या सा वर्णस्वरूपेण मातृकेऽपि विजृम्भते ॥ २१॥ अथानन्तसमावेशान्माया कालमवासृजत् । नियतिं च कलां विद्यां कलातो रागपूरुषौ ॥ २२॥ मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् । त्रिगुणाच्च ततोऽव्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ २३॥ सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् । गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ २४॥ अभवन् महदादीनि तत्त्वानि च यथाक्रमम् । तेभ्यः स्युरण्डपिण्डानि त्वसङ्ख्यानि शिवाज्ञया । अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ २५॥ शरीरान्तरभेदेन शक्तेर्भेदाः प्रकीर्तिताः । नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ २६॥ रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता । ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैन्द्रीति कथ्यते ॥ २७॥ किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् । शक्यात्मनैव तद्व्याप्तं यथा देहेऽन्तरात्मना ॥ २८॥ तस्माच्छक्तिमयं सर्वं जगत्स्थावरजङ्गमम् । कला या परमा शक्तिः कथिता परमात्मनः ॥ २९॥ एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी । स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ३०॥ ज्ञानक्रिया चिकीर्षाभिस्तिसृभिः स्वात्मशक्तिभिः । शक्तिमानीश्वरः शश्वत् विश्वं व्याप्याधितिष्ठति ॥ ३१॥ इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका । इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ३२॥ ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा । प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ३३॥ यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् । कल्पयत्यखिलं कार्यं क्षणात्सङ्कल्परूपिणी ॥ ३४॥ यथाशक्ति त्रयोत्थानं शक्तिप्रसवधर्मिणी । शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ३५॥ एवं शक्तिसमायोगात् शक्तिमानुच्यते शिवः । शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ३६॥ यथा न जायते पुत्रः पितरं मातरं विना । तथा भवं भवानीं च विना नैतच्चराचरम् ॥ ३७॥ स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥ ३८॥ परमात्मा शिवः प्रोक्तः शिवा सा च प्रकीर्तिता शिवः सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी । शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ३९॥ पुरुषः परमेशानः प्रकृतिः परमेश्वरी । रुद्रो महेश्वरः साक्षाद् रुद्राणी रुद्रवल्लभा ॥ ४०॥ विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया । ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ४१॥ भास्करो भगवान् शम्भुः प्रभा भगवती शिवा । महेन्द्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ४२॥ जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी । यमस्त्रियम्बको देवस्तत्प्रिया गिरिकन्यका ॥ ४३॥ निरृतिर्भगवानीशो नैरृती नगनन्दिनी । वरुणो भगवान् रुद्रो वारुणी भूधरात्मजा ॥ ४४॥ बालेन्दुशेखरो वायुः शिवा शिवमनोहरा । यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ४५॥ चन्द्रार्धशेखरश्चन्द्रो रोहिणी रुद्रवल्लभा । ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ४६॥ अनन्तवलयोऽनन्तो ह्यनन्तानन्तवल्लभा । कालाग्निरुद्रः कालारिः काली कालान्तकप्रिया ॥ ४७॥ पुरुषाख्यो मनुः शम्भुः शतरूपा शिवप्रिया । दक्षः साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ४८॥ रुचिर्भवो भवानी च बुधैराकूतिरुच्यते । भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ४९॥ मरीचिर्भगवान् रुद्रः सम्भूतिः शर्ववल्लभा । गङ्गाधरोऽङ्गिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ५०॥ पुलस्त्यः शशभृन्मौलिः प्रीतिः कान्ता पिनाकिनः । पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ५१॥ क्रतुध्वंसी क्रतुः प्रोक्तः सन्नतिर्दयिता विभोः । त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ५२॥ कश्यपः कालहा देवो देवमाता महेश्वरी । वसिष्ठो मन्मथारातिर्देवी साक्षादरुन्धती ॥ ५३॥ शङ्करः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी । सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ५४॥ विषयी भगवानीशो विषयः परमेश्वरी । श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ५५॥ प्रष्टव्यं वस्तुजातं तु धत्ते शङ्करवल्लभा । प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ५६॥ द्रष्टव्यं वस्तुरूपं तु बिभर्ति भववल्लभा । द्रष्टा विश्वेश्वरो देवः शशिखण्डशिखामणिः ॥ ५७॥ रसजातं महादेवी देवो रसयिता शिवः । प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ५८॥ मन्तव्यवस्तुतां धत्ते सदा देवी महेश्वरी । मन्ता स एव विश्वात्मा महादेवो महेश्वरः ॥ ५९॥ बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा । देवः स एव भगवान् बोद्धा मुग्धेन्दुशेखरः ॥ ६०॥ प्राणः पिनाकी सर्वेषां प्राणिनां भगवान् प्रभुः । प्राणस्थितिस्तु सर्वेषामम्बिका चाम्बुरूपिणी ॥ ६१॥ बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा । क्षेत्रज्ञत्वं तदा धत्ते भगवानन्तकान्तकः ॥ ६२॥ अहः शूलायुधो देवः शूलपाणिप्रिया निशा । आकाशः शङ्करो देवः पृथिवी शङ्करप्रिया ॥ ६३॥ समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका । वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ६४॥ पुँल्लिङ्गमखिलं धत्ते भगवान् पुरशासनः । स्त्रिलिङ्गं चाखिलं धत्ते देवी देवमनोरमा ॥ ६५॥ शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा । अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ६६॥ यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता । सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ६७॥ यत्परं यत्पवित्रं च यत्पुण्यं यच्च मङ्गलम् । तत्तदाह महाभागास्तयोस्तेजोविजृम्भितम् ॥ ६८॥ यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् । तथा तेजस्तयोरेतद् व्याप्य दीपयते जगत् ॥ ६९॥ तृणादिशिवमूर्त्यन्तं विश्वख्यातिशयक्रमः । सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७०॥ सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ । पूजनीयौ नमस्कार्यौ चिन्तनीयौ च सर्वदा ॥ ७१॥ यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः । कथितं हि मया तेऽद्य न तु तावदियत्तया ॥ ७२॥ तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः । महतामपि सर्वेषां मनसोऽपि बहिर्गतम् ॥ ७३॥ अन्तर्गतमनन्यानामीश्वरार्पितचेतसाम् । अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७४॥ येयमुक्ता विभूतिर्वै प्राकृती सा परा मता । अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७५॥ यतो वाचो निवर्तन्ते मनसा चेन्द्रियैः सह । अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७६॥ सैवेह परमं धाम सैवेह परमा गतिः । सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७७॥ तां प्राप्तुं प्रयतन्तेऽत्र जितश्वासा जितेन्द्रियाः । गर्भकारागृहद्वारं निश्छिद्रं घटितं यथा ॥ ७८॥ संसाराशीविषालीढमृतसञ्जीवनौषधम् । विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७९॥ यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः । सोऽपरां भूतिमुल्लङ्घ्य परां भूतिं समश्नुते ॥ ८०॥ एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः । रहस्यमपि योग्योऽसि भर्गभक्तो भवानिति ॥ ८१॥ नाशिष्येभ्योऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन । व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ८२॥ तस्मात्त्वमतिकल्याण परेभ्यः कथयेन्न हि । त्वादृशेभ्योऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ८३॥ विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् । संसारसागरान् मुक्तः शिवसायुज्यमाप्नुयात् ॥ ८४॥ कीर्तनादस्य नश्यन्ति महान्त्यः पापकोटयः । त्रिश्चतुर्धा समभ्यस्तैर्विनश्यन्ति ततोऽधिकाः ॥ ८५॥ नश्यन्त्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा । विद्या च वर्धते शैवी मतिः सत्ये प्रवर्तते ॥ ८६॥ भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे । यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ८७॥ अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि । प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते । पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्लभम् ॥ ८८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो नाम चतुर्थोऽध्यायः ॥ ७.२.४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥

७.२.५. पञ्चमोऽध्यायः । पशुपतित्वज्ञानयोगः ।

उपमन्युरुवाच । विग्रहं देवदेवस्य विश्वमेतत् चराचरम् । तदेवं न विजानन्ति पशवः पाशगौरवात् ॥ १॥ तमेकमेव बहुधा वदन्ति यदुनन्दन । अजानन्तः परं भावमविकल्पं महर्षयः ॥ २॥ अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा । केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ३॥ भूतेन्द्रियान्तःकरणप्रधानविषयात्मकम् । अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ४॥ बृहत्त्वाद् बृंहणत्वाद्वा ब्रह्म चेत्यभिधीयते । उभे ते ब्रह्मणो रूपे ब्रह्मणोऽधिपतेः प्रभोः । विद्याविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ५॥ विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् । विद्याविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ६॥ रूपमेव न सन्देहो विश्वं तस्य वशे यतः । भ्रान्तिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७॥ अयथाबुद्धिरर्थेषु बहुधा भ्रान्तिरुच्यते । यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ८॥ विकल्परहितं तत्त्वं परमित्यभिधीयते । वैपरीत्यादसत् शब्दः कथ्यते वेदवादिभिः ॥ ९॥ तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते । क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ १०॥ क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ११॥ तयोः परः शिवः शान्तः क्षराक्षरापरः स्मृतः । समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ १२॥ वदन्ति मुनयः केचित् शिवं परमकारणम् । समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ १३॥ ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् । तयोः कारणभावेन शिवं परमकारणम् ॥ १४॥ कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् । जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ १५॥ या पिण्डेऽप्यनुवर्तेत सा जातिरिति कथ्यते । व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातं समाश्रयम् ॥ १६॥ जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः । यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ १७॥ प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः । प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ १८॥ त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः । कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ १९॥ एषामीशोऽधिपो धाता प्रवर्तकनिवर्तकः । आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ २०॥ तस्मात् प्रधानपुरुषव्यक्तकालस्वरूपवान् । हेतुर्नेताधिपस्तेषां धाता चोक्तो महेश्वरः ॥ २१॥ विराड् हिरण्यगर्भात्मा कैश्चिदीशो निगद्यते । हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ २२॥ अन्तर्यामी परश्चेति कथ्यते कविभिः शिवः । प्राज्ञस्तैजसविश्वात्मेत्यपरे सम्प्रचक्षते ॥ २३॥ तुरीयमपरे प्राहुः सौम्यमेव परे विदुः । माता मानं च मेयं च मतिं चाहुरथापरे ॥ २४॥ कर्ता क्रिया च कार्यं च करणं कारणं परे । जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे सम्प्रचक्षते ॥ २५॥ तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे । तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ २६॥ केचित्संसारिणं प्राहुस्तमसंसारिणं परे । स्वतन्त्रमपरे प्राहुरस्वतन्त्रं परे विदुः ॥ २७॥ घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः । रागवन्तं परे प्राहुर्वीतरागं तथा परे ॥ २८॥ निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः । निरिन्द्रियं परे प्राहुः सेन्द्रियं च तथा परे ॥ २९॥ ध्रुवमित्यपरे प्राहुस्तमध्रुवमितीतरे । अरूपं केचिदाहुर्वै रूपवन्तं परे विदुः ॥ ३०॥ अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः । वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे । शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ ३१॥ केचित् चिन्तामयं प्राहुश्चिन्तया रहितं परे । ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ ३२॥ केचित् ज्ञेयमिति प्राहुरज्ञेयमिति केचन । परमेके तमेवाहुरपरं च तथा परे ॥ ३३॥ एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः । नाध्यवस्यन्ति मुनयो नानाप्रत्ययकारणात् ॥ ३४॥ येः पुनः सर्वभावेन प्रपन्नाः परमेश्वरम् । ते हि जानन्त्ययत्नेन शिवं परमकारणम् ॥ ३५॥ यावत्पशुर्नैव पश्यत्यनीशं कविं पुराणं भुवनस्येशितारम् । तावद्दुःखे वर्तते बद्धपाशः संसारेऽस्मिञ्चक्रनेमिक्रमेण ॥ ३६॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परममुपैति साम्यम् ॥ ३७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमोऽध्यायः ॥ ७.२.५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.६. षष्ठोऽध्यायः । शिवतत्त्ववर्णनम् ।

उपमन्युरुवाच । न शिवस्याणवो बन्धः कार्यो मायेय एव वा । प्राकृतो वाथ बोद्धा वा ह्यहङ्कारात्मकस्तथा ॥ १॥ नैवास्य मानसो बन्धो न चैत्तो नेन्द्रियात्मकः । न च तन्मात्रबन्धोऽपि भूतबन्धो न कश्चन ॥ २॥ न च कालः कला चैव नाविद्या नियतिस्तथा । न रागो न च विद्वेषः शम्भोरमिततेजसः ॥ ३॥ न चास्त्यभिनिवेशोऽस्य कुशलाकुशलान्यपि । कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ४॥ आशयैर्नापि सम्बन्धः संस्कारैः कर्मणामपि । भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ५॥ न तस्य कारणं कर्ता नादिरन्तस्तथान्तरम् । न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ६॥ नास्य बन्धुरबन्धुर्वा नियन्ता प्रेरकोऽपि वा । न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७॥ न जन्ममरणे तस्य न काङ्क्षितमकाङ्क्षितम् । न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ८॥ नास्ति यद्यदकल्याणं तत्तदस्य कदाचन । कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ९॥ स शिवः सर्वमेवेदमधिष्ठाय स्वशक्तिभिः । अप्रच्युतः स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ १०॥ शिवेनाधिष्ठितं यस्मात् जगत्स्थावरजङ्गमम् । सर्वरूपः स्मृतः शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ११॥ शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् । हिरण्यबाहुर्भगवान् हिरण्यपतिरीश्वरः ॥ १२॥ अम्बिकापतिरीशानः पिनाकी वृषवाहनः । एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिङ्गलः ॥ १३॥ बालाग्रमात्रो हृन्मध्ये विचिन्त्यो दहरान्तरे । हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ १४॥ योऽवसर्पत्यसौ देवो नीलग्रीवो हिरण्मयः । सौम्योऽघोरस्तथा मिश्रश्चाक्षारश्चामृतोऽव्ययः ॥ १५॥ स पुंविशेषः परमो भगवानन्तकान्तकः । चेतनाचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ १६॥ शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते । लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ १७॥ प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् । उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ १८॥ कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः । सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ १९॥ शुद्धा स्वाभाविकी तस्य शक्तिः सर्वातिशायिनी । ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मिलम् ॥ २०॥ ऐश्वर्यमप्रतिद्वन्द्वं सुखमात्यन्तिकं बलम् । तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ २१॥ परिपूर्णस्य सर्गाद्यैर्नात्मनोऽस्ति प्रयोजनम् । परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ २२॥ प्रणवो वाचकस्तस्य शिवस्य परमात्मनः । शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥ २३॥ शम्भोः प्रणववाच्यस्य भवनात्तज्जपादपि । या सिद्धिः सा परा प्राप्या भवत्येव न संशयः ॥ २४॥ तस्मादेकाक्षरं देवमाहुरागमपारगाः । वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ २५॥ अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्द्धनि । अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ २६॥ अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते । मकारः सामनादोऽस्य श्रुतिराथर्वणी स्मृता ॥ २७॥ अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः । उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ २८॥ मकारः पुरुषो बीजं तमः संहारको हरः । नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ २९॥ सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा । अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ३०॥ यस्मात्परं नापरमस्ति किञ्चिद्- यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येक- स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ३१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठोऽध्यायः ॥ ७.२.६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.७. सप्तमोऽध्यायः । शिवतत्त्वकथनम् ।

उपमन्युरुवच । शक्तिः स्वाभविकी तस्य विद्या विश्वविलक्षणा । एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ १॥ अनन्ताः शक्तयो यस्या इच्छाज्ञानक्रियादयः । मायाद्याश्चाभवन्वह्नोर्विस्फुलिङ्गा यथा तथा ॥ २॥ सदाशिवेश्वराद्या हि विद्याविद्येश्वरादयः । अभवन् पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ३॥ महदादिविशेषान्तास्त्वजाद्याश्चापि मूर्तयः । यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ४॥ सा शक्तिः सर्वगा सूक्ष्मा प्रबोधानन्दरूपिणी । शक्तिमानुच्यते देवः शिवः शीतांशुभूषणः ॥ ५॥ वेद्यः शिवः शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः । धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ६॥ आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे । शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७॥ माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा । असच्च सच्च यत्किञ्चित्तया सर्वमिदं ततम् ॥ ८॥ सा देवी मायया सर्वं ब्रह्माण्डं सचराचरम् । मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ९॥ अनया सह सर्वेशः सप्तविंशप्रकारया । विश्वं व्याप्य स्थितस्तस्मात् मुक्तिरत्र प्रवर्तते ॥ १०॥ मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः । संशयाविष्टमनसो विस्मृशन्ति यथातथम् ॥ ११॥ किं कारणं कुतो जाता जीवामः केन वा वयम् । कुत्रास्माकं सम्प्रतिष्ठा केन वाधिष्ठिता वयम् ॥ १२॥ केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् । अविलङ्घ्या च विश्वस्य व्यवस्था केन वा कृता ॥ १३॥ कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते । भूतानि योनिः पुरुषो योगी चैषां परोऽथवा ॥ १४॥ अचेतनत्वात्कालादेश्चेतनत्वेऽपि चात्मनः । सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ १५॥ तद्ध्यानयोगानुगताः प्रपश्यन् शक्तिमैश्वरीम् । पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ १६॥ तया विच्छिन्नपाशास्ते सर्वकारणकारणम् । शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुषा ॥ १७॥ यः कारणान्यशेषाणि कालात्मसहितानि च । अप्रमेयोऽनया शक्त्या सकलं योऽधितिष्ठति ॥ १८॥ ततः प्रसादयोगेन योगेन परमेण च । दृष्टेन भक्तियोगेन दिव्यां गतिमवाप्नुयुः ॥ १९॥ तस्मात्सह तथा शक्त्या हृदि पश्यन्ति ये शिवम् । तेषां शाश्वतिकी शान्तिर्नैतरेषामिति श्रुतिः ॥ २०॥ न हि शक्तिमतः शक्त्या विप्रयोगोऽस्ति जातुचित् । तस्मात् शक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ २१॥ क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः । प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ २२॥ देवो वा दानवो वापि पशुर्वा विहगोऽपि वा । कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ २३॥ गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा । वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ २४॥ पतितो वापि धर्मात्मा पण्डितो मूढ एव वा । प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ २५॥ अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः । प्रसीदति न सन्देहो विगृह्य विविधान् मलान् ॥ २६॥ प्रसदादेव सा भक्तिः प्रसादो भक्तिसम्भवः । अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ २७॥ प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी । नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ २८॥ अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् । विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ २९॥ प्रसन्ने सति देवेशे पशौ तस्मिन् प्रवर्तते । अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरःसरा ॥ ३०॥ तपसा विविधैः शैवैर्धर्मैः संयुज्यते नरः । तत्त्रयोगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ३१॥ परया च तया भक्त्या प्रसादो लभ्यते परः । प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ३२॥ अल्पभावोऽपि यो मर्त्यः सोऽपि जन्मत्रयात्परम् । न योनियन्त्रपीडायै भवेन्नैवात्र संशयः ॥ ३३॥ साङ्गानङ्गा च या सेवा सा भक्तिरिति कथ्यते । सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ३४॥ शिवरूपादिचिन्ता या सा सेवा मानसी स्मृता । जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ३५॥ सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते । स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ३६॥ तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः । कर्म लिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ३७॥ जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु । शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ३८॥ श्रीकण्ठेन शिवेनोक्तं शिवायै च शिवागमः । शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ३९॥ तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे । त्यजेच्च विषयासङ्गं श्रेयोऽर्थी मतिमान्नरः ॥ ४०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमोऽध्यायः ॥ ७.२.७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.८. अष्टमोऽध्यायः । शिवतत्त्वज्ञाने व्यासावतारवर्णनम् ।

कृष्ण उवाच । भगवन् श्रोतुमिच्छामि शिवेन परिभाषितम् । वेदसारं शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ १॥ अभक्तानामबुद्धीनामयुक्तानामगोचरम् । अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिन्दितम् ॥ २॥ वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् । वेदात् षडङ्गादुद्धृत्य साङ्ख्याद्योगाच्च कृत्स्नशः ॥ ३॥ शतकोटिप्रमाणेन विस्तीर्णं ग्रन्थसङ्ख्यया । कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ४॥ कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् । तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ५॥ उपमन्युरुवाच । शैवं सङ्क्षिप्य वेदोक्तं शिवेन परिभाषितम् । स्तुतिनिन्दादिरहितं सद्यः प्रत्ययकारकम् ॥ ६॥ गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् । कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७॥ सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः । सत्कार्यकारणोपेतः स्वयमाविरभूत्प्रभुः ॥ ८॥ जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः । देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ९॥ ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत । तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ १०॥ दृष्टो रुद्रेण देवोऽसावसृजद्विश्वमीश्वरः । वर्णाश्रमव्यवस्थां च चकार स पृथक् पृथक् ॥ ११॥ सोमं ससर्ज यज्ञार्थे सोमाद् घौः समजायत । धरा च वह्निः सूर्यश्च यज्ञो विष्णुः शचीपतिः ॥ १२॥ ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः । प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ १३॥ अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः । तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ १४॥ सोऽब्रवीद्भगवान् रुद्रो ह्यहमेकः पुरातनः । आसं प्रथममेवाहं वर्तामि च सुरोत्तमाः ॥ १५॥ भविष्यामि च मत्तोऽन्यो व्यतिरिक्तो न कश्चन । अहमेव जगत् सर्वं तर्पयामि स्वतेजसा ॥ १६॥ मत्तोऽधिकः समो नास्ति मां यो वेद स मुच्यते । इत्युक्त्वा भगवान् रुद्रस्तत्रैवान्तरधत्त सः ॥ १७॥ अपश्यन्तस्तमीशानं स्तुवन्तश्चैव सामभिः । व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ १८॥ भस्मसञ्छन्नसर्वाङ्गा बभूवुरमरास्तदा । अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ १९॥ सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः । यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ २०॥ हृदि पश्यन्ति तं देवं ददृशुर्देवपुङ्गवाः । यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ २१॥ तामपश्यन् महेशस्य वामतो वामलोचनाम् । ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ २२॥ नित्यसिद्धाश्च ये वान्ये ते च दृष्टा गणेश्वराः । अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ २३॥ स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि । देवोऽपि देवानालोक्य घृणया वृषभध्वजः ॥ २४॥ तुष्टोऽस्मीत्याह सुप्रीतः स्वभावमधुरां गिरम् । अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् । अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ २५॥ देवा ऊचुः । भगवन् केन मार्गेण पूजनीयोऽसि भूतले । कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ २६॥ ततः सस्मितमालोक्य देवीं देववरो हरः । स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ २७॥ सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् । शक्तिभिर्मूर्तिभिश्चाङ्गैर्ग्रहैर्देवैश्च संवृतम् ॥ २८॥ अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् । दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ २९॥ बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् । पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ३०॥ एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ३१॥ सिन्दूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् । पद्माभनेत्राय सपङ्कजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३२॥ सुरत्नपूर्णं ससुवर्णतोयं सुकुङ्कुमाद्यं सकुशं सपुष्पम् । प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन् प्रसीद ॥ ३३॥ नमः शिवाय शान्ताय सगणायादिहेतवे । रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ३४॥ यः शिवं मण्डले सौरे सम्पूज्यैव समाहितः । प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ३५॥ प्रणमेद्वा पठेदेतान् शलोकान् श्रुतिमुखानिमान् । न तस्य दुर्ल्लभं किञ्चिद्भक्तश्चेन्मुच्यते दृढम् ॥ ३६॥ तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् । धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ३७॥ अथ देवान् समालोक्य मण्डलस्थो महेश्वरः । सर्वागमोत्तरं दत्त्वा शास्त्रमन्तरधाद्धरः ॥ ३८॥ तत्र पूजाधिकारोऽयं ब्रह्मक्षत्रविशामिति । ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ३९॥ अथ कालेन महता तस्मिन् शास्त्रे तिरोहिते । भर्तारं परिपप्रच्छ तदङ्कस्था महेश्वरी ॥ ४०॥ तया सञ्चोदितो देवो देव्या चन्द्रविभूषणः । अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ४१॥ प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः । मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ४२॥ स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् । स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसन्ततिम् ॥ ४३॥ ऋभुः सत्यो भार्गवश्च ह्यङ्गिराः सविता द्विजाः । मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुङ्गवः ॥ ४४॥ सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुङ्गवः । शततेजाः स्वयं धर्मो नारायण इति श्रुतः ॥ ४५॥ स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतञ्जयः । मामतेयो भरद्वाजो गौतमः कविरुत्तमः ॥ ४६॥ वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः । तृणबिन्दुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ४७॥ जातूकर्ण्यो हरिः साक्षात् कृष्णद्वैपायनो मुनिः । व्यासावतारान् श‍ृण्वन्तु कल्पयोगेश्वरान् क्रमात् ॥ ४८॥ लैङ्गे व्यासावतारा हि द्वापरान्तेषु सुव्रताः । योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ४९॥ तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः । शिष्यास्तेषां प्रशिष्याश्च शतशोऽथ सहस्रशः ॥ ५०॥ तेषां सम्भावनाल्लोके शैवाज्ञाकरणादिभिः । भाग्यवन्तो विमुच्यन्ते भक्त्या चात्यन्तभाविताः ॥ ५१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमोऽध्यायः ॥ ७.२.८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.९. नवमोऽध्यायः । शिवस्य योगावतारवर्णनम् ।

कृष्ण उवाच । युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु । अवतारान्हि शर्वस्य शिष्यांश्च भगवन् वद ॥ १॥ उपमन्युरुवाच । श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च । लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ २॥ दधिवाहश्च ऋषभो मुनिरुग्रोऽत्रिरेव च । सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ३॥ गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः । जटामाली चाट्टहासो दारुको लाङ्गुली तथा ॥ ४॥ महाकालश्च शूली च दण्डी मुण्डीश एव च । सहिष्णुः सोमशर्मा च लकुलीश्वर एव च ॥ ५॥ एते वाराहकल्पेऽस्मिन् सप्तमस्यान्तरो मनोः । अष्टाविंशतिसङ्ख्याता योगाचार्या युगक्रमात् ॥ ६॥ शिष्याः प्रत्येकमेतेषां चत्वारः शान्तचेतसः । श्वेतादयश्च रुष्यान्तांस्तान् ब्रवीमि यथाक्रमम् ॥ ७॥ श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः । दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ८॥ विकोशश्च विकेशश्च विपाशः पाशनाशनः । सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ९॥ सनत्कुमारः सनकः सनन्दश्च सनातनः । सुधामा विरजाश्चैव शङ्खश्चाण्डज एव च ॥ १०॥ सारस्वतश्च मेघश्च मेघवाहः सुवाहकः । कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ११॥ पराशराश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा । बलबन्धुर्निरामित्राः केतुश‍ृङ्गस्तपोधनः ॥ १२॥ लम्बोदरश्च लम्बश्च लम्बात्मा लम्बकेशकः । सर्वज्ञः समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ १३॥ सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा । अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोऽथ श्रविष्टकः ॥ १४॥ कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः । काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ १५॥ उतथ्यो वामदेवश्च महाकालो महानिलः । वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ १६॥ हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा । सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ १७॥ प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा । भल्लवी मधुपिङ्गश्च श्वेतकेतुस्तथैव च ॥ १८॥ उशिजो बृहदश्वश्च देवलः कविरेव च । शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ १९॥ अक्षपादः कणादश्च उलूको वत्स एव च । कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ २०॥ एते शिष्या महेशस्य योगाचार्यस्वरूपिणः । सङ्ख्या च शतमेतेषां सह द्वादशसङ्ख्यया ॥ २१॥ सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः । सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदाङ्गपारगाः ॥ २२॥ शिवाश्रमरताः सर्वे शिवज्ञानपरायणाः । सर्वे सङ्गविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ २३॥ सर्वद्वन्द्वसहा धीराः सर्वभूतहिते रताः । ऋजवो मृदवः स्वस्था जितक्रोधा जितेन्द्रियाः ॥ २४॥ रुद्राक्षमालाभरणास्त्रिपुण्ड्राङ्कितमस्तकाः । शिखाजटाः सर्वजटा अजटा मुण्डशीर्षकाः ॥ २५॥ फलमूलाशनप्रायाः प्राणायामपरायणाः । शिवाभिमानसम्पन्नाः शिवध्यानैकतत्पराः ॥ २६॥ समुन्मथितसंसारविषवृक्षाङ्कुरोद्गमाः । प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ २७॥ सदेशिकानिमान् मत्वा नित्यं यः शिवमर्चयेत् । स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ २८॥ इति श्रीशिवमहापुराणे श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमोऽध्यायः ॥ ७.२.९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१०. दशमोऽध्यायः । शिवभक्तिवर्णनम् ।

कृष्ण उवाच । भगवन् सर्वयोगीन्द्र गणेश्वर मुनीश्वर । षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ १॥ प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् । महर्षिवपुरास्थाय स्थितोऽसि परमेश्वर ॥ २॥ अन्यथा हि जगत्यस्मिन् देवो वा दानवोऽपि वा । त्वत्तोऽन्यः परमं भावं को जानीयात् शिवात्मकम् ॥ ३॥ तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः । शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ४॥ साक्षात्सर्वजगत्कर्तुर्भर्तुरङ्कं समाश्रिता । भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ५॥ उपमन्युरुवाच । स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् । भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ६॥ महीधरवरे दिव्ये मन्दरे चारुकन्दरे । देव्या सह महादेवो दिव्यो ध्यानगतोऽभवत् ॥ ७॥ तदा देव्याः प्रियसखी सुस्मितास्या शुभावती । फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ८॥ ततः स्वमङ्कमारोप्य देवीं देववरोहरः । अलङ्कृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ९॥ अथान्तःपुरचारिण्यो देव्यो दिव्यविभूषणाः । अन्तरङ्गा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ १०॥ भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् । चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ११॥ ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः । त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ १२॥ तदावसरमालोक्य सर्वलोकमहेश्वरी । भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ १३॥ देव्युवाच । केन वश्यो महादेवो मर्त्यानां मन्दचेतसाम् । आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ १४॥ ईश्वर उवाच । न कर्मणा न तपसा न जपैर्नासनादिभिः । न ज्ञानेन न चान्येन वश्योऽहं श्रद्धया विना ॥ १५॥ श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना । वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्सम्भाष्य एव च ॥ १६॥ साध्या तस्मान् मयि शद्धा मां वशीकर्तुमिच्छता । श्रद्धा हेतुः स्वधर्मस्य रक्षणं वर्णिनामिह ॥ १७॥ स्ववर्णाश्रमधर्मेऽथ वर्तते यस्तु मानवः । तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ १८॥ आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह । ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरः सरम् ॥ १९॥ स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः । नात्यन्तफलभूयिष्ठः क्लेशायाससमन्वितः । तेन धर्मेण महता श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ २०॥ वर्णिनो ये प्रपद्यन्ते मामनन्यसमाश्रयाः । तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ २१॥ वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः । तस्मिन् भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ २२॥ अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम । तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ २३॥ मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः । परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् । परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ २४॥ तस्मात् लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् । आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ २५॥ अलब्धलाभ एवैष कोटिकोटिगुणाधिकः । तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ २६॥ ममावतारा हि शुभे योगाचार्यच्छलेन तु । सर्वान्तरेषु सन्त्यार्ये सन्ततिश्च सहस्रशः ॥ २७॥ अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि । दुर्लभं सन्ततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ २८॥ सा हानिस्तन्महच्छिद्रं स मोहस्सान्धमूकता । यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ २९॥ ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि । चतुष्पादः समाख्यातो मम धर्मः सनातनः ॥ ३०॥ पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते । षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ३१॥ वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च । ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ३२॥ मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः । वृत्त्यन्तरनिरोधो यो योग इत्यभिधीयते ॥ ३३॥ अश्वमेधगणात् श्रेष्ठं देवि चित्तप्रसाधनम् । मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ३४॥ विजितेन्द्रियवर्गस्य यमेन नियमेन च । पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ३५॥ वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ ३६॥ योगज्ञः पतितो वापि मुच्यते नात्र संशयः । दया कार्याथ सततमहिंसा ज्ञानसङ्ग्रहः ॥ ३७॥ सत्यमस्तेयमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ ३८॥ ध्यानमीश्वरभावश्च सततं ज्ञानशीलता । य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ ३९॥ अचिरादेव विज्ञानं लब्ध्वा योगं च विन्दति । दग्ध्वा देहमिमं ज्ञानी क्षणात् ज्ञानाग्निना प्रिये । प्रसादान्मम योगज्ञः कर्मबन्धं प्रहास्यति ॥ ४०॥ पुण्यःपुण्यात्मकं कर्म मुक्तेस्तत्प्रतिबन्धकम् । तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ४१॥ फलकामनया कर्मकरणात्प्रतिबध्यते । न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ४२॥ प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये । ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ४३॥ विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः । न यजन्ति हि मां युक्ताः समलोष्टाश्मकाञ्चनाः ॥ ४४॥ नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः । ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ४५॥ अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः । ज्ञानचर्या क्रियास्वेव तेऽधिकुर्युस्तदर्हकाः ॥ ४६॥ द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यन्तरं तथा । वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ४७॥ तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः । पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ४८॥ अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् । तदेव तु स्वसंवेद्यमाभ्यन्तरमुदाहृतम् ॥ ४९॥ मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते । मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ५०॥ लिङ्गैर्मच्छासनादिष्टैस्त्रिपुण्ड्रादिभिरङ्कितः । ममोपचारनिरतः कायः कायो न चेतरः ॥ ५१॥ मदर्चा कर्म विज्ञेयं बाह्ये यागादिनोच्यते । मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ५२॥ जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च । रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ५३॥ ध्यानं मद्रूपचिन्ताद्यं नात्माद्यर्थसमाधयः । ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ५४॥ बाह्ये वाभ्यन्तरे वाथ यत्र स्यान्मनसो रतिः । प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ५५॥ बाह्यादाभ्यन्तरं श्रेष्ठं भवेच्छतगुणाधिकम् । असङ्करत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ५६॥ शौचमाभ्यन्तरं विद्यान्न बाह्यं शौचमुच्यते । अन्तः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ५७॥ बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् । न भावरहितं देवि विप्रलम्भैककारणम् ॥ ५८॥ कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः । बहिर्वाभ्यन्तरं वाथ मया भावो हि गृह्यते ॥ ५९॥ भावैकात्मा क्रिया देवि मम धर्मः सनातनः । मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ६०॥ फलोद्देशेन देवेशि लघुर्मम समाश्रयः । फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ६१॥ फलार्थिनोऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् । भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ६२॥ फलानपेक्षया येषां मनो मत्प्रवणं भवेत् । प्रार्थयेयुः फलं पश्चाद्भक्तास्तेऽपि मम प्रियाः ॥ ६३॥ प्राक् संस्कारवशादेव ये विचिन्त्य फलाफले । विवशा मां प्रपद्यन्ते मम प्रियतमा मताः ॥ ६४॥ मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् । ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ६५॥ मदनुग्रहतस्तेषां भावो मयि समर्पितः । फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ६६॥ महात्मनामनन्यानां मयि संन्यस्तचेतसाम् । अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ६७॥ मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यर्चनं चैव मदर्थे चाङ्गचेष्टितम् ॥ ६८॥ मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रियाः । ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ६९॥ एवमष्टविधं चिह्नं यस्मिन् म्लेच्छेऽपि वर्तते । स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स च पण्डितः ॥ ७०॥ न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचोऽपि यः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७१॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७२॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमोऽध्यायः ॥ ७.२.१०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.११. एकादशोऽध्यायः । शिवज्ञानवर्णनम् ।

ईश्वर उवाच । अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् । विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ १॥ त्रिःस्नानं चाग्निकार्यं च लिङ्गार्चनमनुक्रमम् । दानमीश्वरभावश्च दया सर्वत्र सर्वदा ॥ २॥ सत्यं सन्तोषमास्तिक्यमहिंसा सर्वजन्तुषु । ह्रीःश्रद्धाध्ययनं योगः सदाध्यापनमेव च ॥ ३॥ व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा । शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ४॥ निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् । पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ५॥ पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि । अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ६॥ सर्वक्रियान्नसन्त्यागः श्राद्धान्नस्य च वर्जनम् । तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७॥ मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् । सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ८॥ क्षमा शान्तिश्च सन्तोषः सत्यमस्तेयमेव च । ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ९॥ सर्वसङ्गनिवृत्तिश्च दशैतानि विशेषतः । लिङ्गानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ १०॥ वानप्रस्थाश्रमस्थानां समानमिदमिष्यते । रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ११॥ अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः । वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ १२॥ रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा । दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ १३॥ अविश्वासश्च सर्वत्र विश्वासो मम योगिषु । स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ १४॥ सदा सञ्चारितैश्चारैर्लोकवृत्तान्तवेदनम् । सदास्त्रधारणं चैव भस्मकञ्चुकधारणम् ॥ १५॥ राज्ञां ममाश्रमस्थानामेष धर्मस्य सङ्ग्रहः । गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ १६॥ शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते । उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ १७॥ धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते । ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ १८॥ स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यः सनातनः । ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ १९॥ या नारी भर्तृशुश्रूषां विहाय व्रततत्परा । सा नारी नरकं याति नात्र कार्या विचारणा ॥ २०॥ अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् । व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ २१॥ ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा । शान्तिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ २२॥ अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः । एकादश्यां च विधिवदुपवासो ममार्चनम् ॥ २३॥ इति सङ्क्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् । ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ २४॥ तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि । शूद्राणामथ नारीणां धर्म एष सनातनः ॥ २५॥ ध्येयस्त्वयाऽहं देवेशि सदा जाप्यः षडक्षरः । वेदोक्तमखिलं धर्ममिति धर्मार्थसङ्ग्रहः ॥ २६॥ अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः । भावातिशयसम्पन्नाः पूर्वसंस्कारसंयुताः ॥ २७॥ विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि । पापैर्न ते विलिम्पन्ते पद्मपत्रमिवाम्भसा ॥ २८॥ तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् । मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणम् ॥ २९॥ नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् । न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ३०॥ तथेह परिपूर्णस्य साध्यं मम न विद्यते । तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ३१॥ मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः । रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ३२॥ ममानुशासनं यद्वद् ब्रह्मादीनां प्रवर्तकम् । तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ३३॥ ममाज्ञाधारभावेन सद्भावातिशयेन च । मदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ३४॥ प्रत्ययाश्च प्रवर्तन्ते प्रशस्तफलसूचकाः । मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ३५॥ कम्पस्वेदोऽश्रुपातश्च कण्ठे च स्वरविक्रिया । आनन्दाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ३६॥ स तैर्व्यस्तैः समस्तैर्वा लिङ्गैरव्यभिचारिभिः । मन्दमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ३७॥ यथायोऽग्निसमावेशान्नायो भवति केवलम् । तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ३८॥ हस्तपादादिसाधर्म्याद् रुद्रान् मर्त्यवपुर्धरान् । प्राकृतानिव मन्वानो नावजानीत पण्डितः ॥ ३९॥ अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः । आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ४०॥ ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् । मत्तोऽन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ४१॥ अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा । गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ४२॥ अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् । मयि चित्तसमासङ्गो येन केनापि हेतुना ॥ ४३॥ उपमन्युरुवाच । इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना । हिताय जगतामुक्तो ज्ञानसारार्थसङ्ग्रहः ॥ ४४॥ विज्ञानसङ्ग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः । सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ४५॥ ज्ञानं ज्ञेयमनुष्ठेयमधिकारोऽथ साधनम् । साध्यं चेति षडर्थानां सङ्ग्रहत्वेष सङ्ग्रहः ॥ ४६॥ गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः । लिङ्गार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतोऽपि यः ॥ ४७॥ साधनं शिवमन्त्राद्यं साध्यं शिवसमानता । षडर्थसङ्ग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ४८॥ प्रथमं कर्मयज्ञादेर्भक्त्या वित्तानुसारतः । बाह्येऽभ्यर्च्य शिवं पश्चादन्तर्यागरतो भवेत् ॥ ४९॥ रतिरभ्यन्तरे यस्य न बाह्ये पुण्यगौरवात् । न कर्म करणीयं हि बहिस्तस्य महात्मना ॥ ५०॥ ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः । नान्तर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ५१॥ तस्मात् क्रमेण सन्त्यज्य बाह्यमाभ्यन्तरं तथा । ज्ञानेन ज्ञेयमालोक्य ज्ञानं चापि परित्यजेत् ॥ ५२॥ नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा । एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ५३॥ तस्मात्कर्माण्यकृत्वा वा कृत्वा वान्तर्बहिःक्रमात् । येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ५४॥ शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् । परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ५५॥ इहोन्नमः शिवायेति मन्त्रेणानेन सिद्धयः । स तस्मादधिगन्तव्यः परावरविभूतये ॥ ५६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवज्ञानवर्णनं नामैकादशोऽध्यायः ॥ ७.२.११॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१२. द्वादशोऽध्यायः । पञ्चाक्षरमाहात्म्यवर्णनम् ।

श्रीकृष्ण उवाच । महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे । पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ १॥ उपमन्युरुवाच । पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि । अशक्यं विस्तराद्वक्तुं तस्मात्सङ्क्षेपतः श‍ृणु ॥ २॥ वेदे शिवागमे चायमुभयत्र षडक्षरः । सर्वेषां शिवभक्तानामशेषार्थप्रसाधकः ॥ ३॥ तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् । आज्ञासिद्धमसन्दिग्धं वाक्यमेतत् शिवात्मकम् ॥ ४॥ नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम् । सुनिश्चितार्थं गम्भीरं वाक्यं तत्पारमेश्वरम् ॥ ५॥ मन्त्रं सुखमुखोच्चार्यमशेषार्थप्रसिद्धये । प्राहोन्नमः शिवायेति सर्वज्ञः सर्वदेहिनाम् ॥ ६॥ तद्बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम् । अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७॥ देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः । ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ८॥ इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु । मन्त्रे नमः शिवायेति संस्थितानि यथाक्रमम् । मन्त्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ९॥ वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः । वाच्यः शिवोऽप्रमेयत्वात् मन्त्रस्तद्वाचकः स्मृतः ॥ १०॥ वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः । यथानादिप्रवृत्तोऽयं घोरसंसारसागरः ॥ ११॥ शिवोऽपि हि तथानादिः संसारान्मोचकः स्थितः । व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ १२॥ तद्वत्संसारदोषाणां प्रतिपक्षः शिवः स्मृतः । असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ १३॥ अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च । प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ १४॥ न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना । धर्माधर्मोपदेशश्च बन्धमोक्षौ विचारणात् ॥ १५॥ न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति । वैद्यं विना निरानन्दाः क्लिश्यन्ते रोगिणो यथा ॥ १६॥ तस्मादनादिः सर्वज्ञः परिपूर्णः सदाशिवः । अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ १७॥ आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः । सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे ॥ १८॥ तस्याभिधानमन्त्रोऽयमभिधेयश्च स स्मृतः । अभिधानाभिधेयत्वात् मन्त्रः सिद्धः परः शिवः ॥ १९॥ एतावत्तु शिवज्ञानमेतावत्परमं पदम् । यदोन्नमः शिवायेति शिववाक्यं षडक्षरम् ॥ २०॥ विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् । यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः ॥ २१॥ लोकानुग्रहकर्त्ता च स मृषार्थं कथं वदेत् । यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ २२॥ यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् । रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ २३॥ ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा । अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् । प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ २४॥ तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता । यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ २५॥ स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् । वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥ २६॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् । वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ २७॥ संस्कृतेनाऽपि किं तेन मृदुना ललितेन वा । अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ २८॥ यच्छ्रुत्वा जायते श्रेयो रागादीनां च सङ्क्षयः । विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ २९॥ बहुत्वेऽपि हि मन्त्राणां सर्वज्ञेन शिवेन यः । प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ ३०॥ साङ्गानि वेदशास्त्राणि संस्थितानि षडक्षरे । न तेन सदृशस्तस्मान्मन्त्रोऽप्यस्त्यपरः क्वचित् ॥ ३१॥ सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा । मन्त्रः षडक्षरो भिन्नः सूत्रं वृत्त्यात्मना यथा ॥ ३२॥ शिवज्ञानानि यावन्ति विद्यास्थानानि यानि च । षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ ३३॥ किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः । यस्योन्नमः शिवायेति मन्त्रोऽयं हृदि संस्थितः ॥ ३४॥ तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् । येनोन्नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ ३५॥ नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् । जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ ३६॥ अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा । पञ्चाक्षरजपे निष्ठो मुच्यते पापपञ्जरात् ॥ ३७॥ इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना । हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ३८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ ७.२.१२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१३. त्रयोदशोऽध्यायः । पञ्चाक्षरमाहात्म्यवर्णनम् ।

देव्युवाच । कलौ कलुषिते काले दुर्जये दुरतिक्रमे । अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ १॥ क्षीणे वर्णाश्रमाचारे सङ्कटे समुपस्थिते । सर्वाधिकारे सन्दिग्धे निश्चिते वापि पर्यये ॥ २॥ तदोपदेशे विहते गुरुशिष्यक्रमे गते । केनोपायेन मुच्यन्ते भक्तास्तव महेश्वर ॥ ३॥ ईश्वर उवाच । आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम । भक्त्या च भावितात्मानो मुच्यन्ते कलिजा नराः ॥ ४॥ मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः । दूषितानां कृतघ्नानां निन्दकानां छलात्मनाम् ॥ ५॥ लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् । मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ६॥ मयैवमसकृद्देवि प्रतिज्ञातं धरातले । पतितोऽपि विमुच्येत मद्भक्तो विद्ययाऽनया ॥ ७॥ देव्युवाच । कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा । कर्मायोगेन यत्कर्म कृतं च नरकाय हि । ततः कथं विमुच्येत पतितो विद्ययाऽनया ॥ ८॥ ईश्वर उवाच । तथ्यमेतत्त्वया प्रोक्तं तथा हि श‍ृणु सुन्दरि । रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ९॥ समन्त्रकं मां पतितः पूजयेद्यदि मोहितः । नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ १०॥ अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः । तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ११॥ भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् । सोऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ १२॥ तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा । पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ १३॥ बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः । पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ १४॥ अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः । पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ १५॥ षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा । स ब्रह्माङ्गेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ १६॥ पतितोऽपतितो वापि मन्त्रेणानेन पूजयेत् । मम भक्तो जितक्रोधो सलब्धोऽलब्ध एव वा ॥ १७॥ अलब्धाल्लब्ध एवेह कोटिकोटिगुणाधिकः । तस्मात् लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ १८॥ लब्ध्वा सम्पूजयेद्यस्तु मैत्र्यादिगुणसंयुतः । ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ १९॥ किमत्र बहुनोक्तेन भक्ताः सर्वेऽधिकारिणः । मम पञ्चाक्षरे मन्त्रे तस्मात् श्रेष्ठतरो हि सः ॥ २०॥ पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः । तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत् ॥ २१॥ प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे । सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ २२॥ एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित् । तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ २३॥ ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः । ततः सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ २४॥ गुणमूर्त्यात्मनां चैव ततोऽवान्तरसंहृतिः । तदा नारायणः शेते देवो मायामयीं तनुम् ॥ २५॥ आस्थाय भोगिपर्यङ्कशयने तोयमध्यगः । तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ २६॥ सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् । मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ २७॥ तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः । मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ २८॥ इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् । पञ्चाक्षराणि क्रमशः प्रोक्तवान् पद्मयोनये ॥ २९॥ स पञ्चवदनैस्तानि गृह्णँल्लोकपितामहः । वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ३०॥ ज्ञात्वा प्रयोगं विधिवत् सिद्धमन्त्रः प्रजापतिः । पुत्रेभ्यः प्रददौ मन्त्रं मन्त्रार्थं च यथातथम् ॥ ३१॥ ते च लब्ध्वा मन्त्ररत्नं साक्षात् लोकपितामहात् । तदाज्ञप्तेन मार्गेण मदाराधनकाङ्क्षिणः ॥ ३२॥ मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः । मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितः सदा ॥ ३३॥ तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः । दिव्यं वर्षसहस्रं तु वायुभक्षाः समाचरन् ॥ ३४॥ तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् । ऋषिं छन्दश्च कीलं च बीजशक्तिं च दैवतम् ॥ ३५॥ न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः । प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ३६॥ ततस्ते मन्त्रमाहात्म्याद् ऋषयस्तपसौधिताः । सृष्टिं वितन्वते सम्यक् सदेवासुरमानुषीम् ॥ ३७॥ अस्याः परमविद्यायाः स्वरूपमधुनोच्यते । आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ३८॥ सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता । सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ३९॥ प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका । तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ४०॥ चतुर्भुजा त्रिनयना बालेन्दुकृतशेखरा । पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ४१॥ सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता । सितपद्मासनासीना नीलकुञ्चितीमूर्द्धजा ॥ ४२॥ अस्याः पञ्चविधा वर्णाः प्रस्फुरद् रश्मिमण्डलाः । पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ४३॥ पृथक् प्रयोज्या यद्येते बिन्दुनादविभूषिताः । अर्द्धचन्द्रनिभो बिन्दुर्नादो दीपशिखाकृतिः ॥ ४४॥ बीजं द्वितीयं बीजेषु मन्त्रस्यास्य वरानने । दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ४५॥ वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतम् । देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ४६॥ गौतमोऽत्रिर्वरारोहे विश्वामित्रस्तथाङ्गिराः । भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ४७॥ गायत्र्यनुष्टुप् त्रिष्टुप् च छन्दांसि बृहती विराट् । इन्द्रो रुद्रो हरिर्ब्रह्मा स्कन्दस्तेषां च देवताः ॥ ४८॥ मम पञ्चमुखान्याहुः स्थाने तेषां वरानने । पूर्वादेश्चोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥ ४९॥ उदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः । पञ्चमः स्वरितश्चैव तृतीयो निहितः स्मृतः ॥ ५०॥ मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा । नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ५१॥ नकारः शिर उच्येत मकारस्तु शिखोच्यते । शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ५२॥ यकारोऽस्त्रं नमः स्वाहा वषट् हुं वौषडित्यपि । फडित्यपि च वर्णानामन्तेऽङ्गत्वं यदा तदा ॥ ५३॥ तत्रापि मूलमन्त्रोऽयं किञ्चिद्भेदसमन्वयात् । तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ५४॥ तस्मादनेन मन्त्रेण मनोवाक्कायभेदतः । आवयोरर्चनं कुर्य्याज्जपहोमादिकं तथा ॥ ५५॥ यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति । यथाशक्ति यथासम्पद्यथायोगं यथारति ॥ ५६॥ यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता । येन केनापि वा देवि पूजा मुक्तिं नयिष्यति ॥ ५७॥ मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि । मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ५८॥ तथापि मम भक्ता ये नात्यन्तविवशाः पुनः । तेषां सर्वेषु शास्त्रेषु मयैव नियमः कृतः ॥ ५९॥ तत्रादौ सम्प्रवक्ष्यामि मन्त्रसङ्ग्रहणं शुभम् । यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ६०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.२.१३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१४. चतुर्दशोऽध्यायः । पञ्चाक्षरमहिमवर्णनम् ।

ईश्वर उवाच । आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने । आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ १॥ आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् । एवं चेद्दक्षिणायुक्तं मन्त्रसिद्धिर्महत्फलम् ॥ २॥ उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् । जापिनं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ३॥ तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः । वाचा च मनसा चैव कायेन द्रविणेन च ॥ ४॥ आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः । हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ५॥ भूषणानि च वासांसि धान्यानि च धनानि च । एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ६॥ वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः । पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७॥ एवं सम्पूज्य विधिवद्यथाशक्ति त्ववञ्चयन् । आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु ॥ ८॥ एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् । शुश्रूषुमनहङ्कारं स्नातं शुचिमुपोषितम् ॥ ९॥ स्नापयित्वा विशुद्ध्यर्थं पूर्णकुम्भघृतेन वै । जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ १०॥ अलङ्कृत्य सुवेषं च गन्धस्रग्वस्त्रभूषणैः । पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ११॥ समुद्रतीरे नद्यां च गोष्ठे देवालयेऽपि वा । शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ १२॥ नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते । अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ १३॥ स्वरेणोच्चारयेत्सम्यगेकान्तेऽतिप्रसन्नधीः । उच्चार्योच्चारयित्वा तमावयोर्मन्त्रमुत्तमम् ॥ १४॥ शिवं चास्तु शुभं चास्तु शोभनोऽस्तु प्रियोऽस्त्विति । एवं दद्याद् गुरुर्मन्त्रमाज्ञां चैव ततः परम् ॥ १५॥ एवं लब्ध्वा गुरोर्मन्त्रमाज्ञां चैव समाहितः । सङ्कल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ १६॥ यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् । अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ १७॥ जपेदक्षरलक्षं वै चतुर्गुणितमादरात् । नक्ताशी संयमी यः स पौरश्चरणिकः स्मृतः ॥ १८॥ यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः । तस्य नास्ति समो लोके स सिद्धः सिद्धिदो भवेत् ॥ १९॥ स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमासनम् । त्वया मां हृदि सञ्चिन्त्य सञ्चिन्त्य स्वगुरुं ततः ॥ २०॥ उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः । विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ २१॥ मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः । आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ २२॥ विद्यास्थानं स्वकं रूपं ऋषिं छन्दोऽधिदैवतम् । बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ २३॥ उत्तमं मानसं जाप्यमुपांशुं चैव मध्यमम् । अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ २४॥ उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् । अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ २५॥ यदुच्चनीचस्वरितैः स्पष्टास्पष्टपदाक्षरैः । मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥ २६॥ जिह्वामात्रपरिस्पन्दादीषदुच्चारितोऽपि वा । अपरैरश्रुतः किञ्चिच्छ्रुतो वोपांशुरुच्यते ॥ २७॥ धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् । शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः ॥ २८॥ वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते । साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ २९॥ प्राणायामसमायुक्तः सगर्भो जप उच्यते । आद्यन्तयोरगर्भोऽपि प्राणायामः प्रशस्यते ॥ ३०॥ चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् । मन्त्रं मन्त्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ३१॥ पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् । अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ३२॥ सगर्भादपि साहस्रं सध्यानो जप उच्यते । एषु पञ्चविधेष्वेकः कर्त्तव्यः शक्तितो जपः ॥ ३३॥ अङ्गुल्या जपसङ्ख्यानमेकमेवमुदाहृतम् । रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ३४॥ शतं स्याच्छङ्खमणिभिः प्रवालैस्तु सहस्रकम् । स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ३५॥ पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते । कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं भवेत् ॥ ३६॥ त्रिंशदक्षैः कृता माला धनदा जपकर्मणि । सप्तविंशतिसङ्ख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ३७॥ पञ्चविंशतिसङ्ख्यातैः कृता मुक्तिं प्रयच्छति । अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ३८॥ अङ्गुष्ठं मोक्षदं विद्यात्तर्ज्जनीं शत्रुनाशिनीम् । मध्यमां धनदां शान्तिं करोत्येषा ह्यनामिका ॥ ३९॥ अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा । शतसङ्ख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ४०॥ चतुःपञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता । इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ४१॥ कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना । अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिः सह ॥ ४२॥ अङ्गुष्ठेन विना जप्यं कृतं तदफलं यतः । गृहे जपं समं विद्याद् गोष्ठे शतगुणं विदुः ॥ ४३॥ पुण्यारण्ये तथारामे सहस्रगुणमुच्यते । अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ४४॥ कोटिं देवालये प्राहुरनन्तं मम सन्निधौ । सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ॥ ४५॥ विप्राणां च गवां चैव सन्निधौ शस्यते जपः । तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ४६॥ पश्चिमं धनदं विद्यादौत्तरं शान्तिदं भवेत् । सूर्य्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ४७॥ अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् । उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गलावृतः ॥ ४८॥ अपवित्रकरोऽशुद्धो विलपन्न जपेत् क्वचित् । क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृम्भणे ॥ ४९॥ दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि । आचमेत्सम्भवे तेषां स्मरेद्वा मां त्वया सह ॥ ५०॥ ज्योतींषि च प्रपश्येद्वा कुर्याद् वा प्राणसंयमम् । अनासनः शयानो वा गच्छन्नुत्थित एव वा ॥ ५१॥ रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे । प्रसार्य्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ५२॥ यानशय्याधिरूढो वा चिन्ताव्याकुलितोऽथवा । शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ५३॥ किमत्र बहुनोक्तेन समासेन वचः श‍ृणु । सदाचारो जपन् शुद्धं ध्यायन्भद्रं समश्नुते ॥ ५४॥ आचारः परमो धर्म आचारः परमं धनम् । आचारः परमा विद्या आचारः परमा गतिः ॥ ५५॥ आचारहीनः पुरुषो लोके भवति निन्दितः । परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ५६॥ यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः । तस्य तेन समाचारः सदाचारो न चेतरः ॥ ५७॥ सद्भिराचरितत्वाच्च सदाचारः स उच्यते । सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ५८॥ आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः । न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ५९॥ यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि । तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ६०॥ रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये । न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ६१॥ सदाचारविहीनस्य पतितस्यान्त्यजस्य च । पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ६२॥ गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः । अशुचेर्वा शुचेर्वापि मन्त्रोऽयं न च निष्फलः ॥ ६३॥ अनाचारवतां पुंसामविशुद्धषडध्वनाम् । अनादिष्टोऽपि गुरुणा मन्त्रोऽयं न च निष्फलः ॥ ६४॥ अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च । निर्मर्यादस्य नीचस्य मन्त्रोऽयं न च निष्फलः ॥ ६५॥ सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् । सिध्यत्येव न सन्देहो नापरस्य तु कस्यचित् ॥ ६६॥ न लग्नतिथिनक्षत्रवारयोगादयः प्रिये । अस्यात्यन्तमवेक्ष्याः स्युर्नैष सप्तः सदोदितः ॥ ६७॥ न कदाचिन्न कस्यापि रिपुरेष महामनुः । सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ६८॥ सिद्धेन गुरुणादिष्टः सुसिद्ध इति कथ्यते । असिद्धेनापि वा दत्तः सिद्धसाध्यस्तु केवलः ॥ ६९॥ असाधितः साधितो वा सिध्यत्वेन न संशयः । श्रद्धातिशययुक्तस्य मयि मन्त्रे तथा गुरौ ॥ ७०॥ तस्मान्मन्त्रान्तरांस्त्यक्त्वा सापायानधिकारतः । आश्रयेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७१॥ मन्त्रान्तरेषु सिद्धेषु मन्त्र एष न सिध्यति । सिद्धे त्वस्मिन्महामन्त्रे ते च सिद्धा भवन्त्युत ॥ ७२॥ यथा देवेष्वलब्धोऽस्मि लब्धेष्वपि महेश्वरि । मयि लब्धे तु ते लब्धा मन्त्रेष्वेषु समो विधिः ॥ ७३॥ ये दोषाः सर्वमन्त्राणां न तेऽस्मिन् सम्भवन्त्यपि । अस्य मन्त्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७४॥ तथापि नैव क्षुद्रेषु फलेषु प्रतियोगिषु । सहसा विनियुञ्जीत तस्मादेष महाबलः ॥ ७५॥ उपमन्युरुवाच । एवं साक्षान्महादेव्यै महादेवेन शूलिना । हिताय जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७६॥ य इदं कीर्तयेद्भक्त्या श‍ृणुयाद्वा समाहितः । सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.२.१४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१५. पञ्चदशोऽध्यायः । दीक्षाविधाने गुरुमाहात्म्यवर्णनम् ।

श्रीकृष्ण उवाच । भगवन्मन्त्रमाहात्म्यं भवता कथितं प्रभो । तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ १॥ इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् । मन्त्रसङ्ग्रहणे किञ्चित्सूचितं न तु विस्मृतम् ॥ २॥ उपमन्युरुवाच । हन्त ते कथयिष्यामि सर्वपापविशोधनम् । संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ ३॥ सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः । संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ ४॥ दीयते येन विज्ञानं क्षीयते पाशबन्धनम् । तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ ५॥ शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे । दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ ६॥ गुरोरालोकमात्रेण स्पर्शात्सम्भाषणादपि । सद्यः संज्ञा भवेज्जन्तोः पाशोपक्षयकारिणी ॥ ७॥ सा दीक्षा शाम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा । तीव्रा तीव्रतरा चेति पाशोपक्षयभेदतः ॥ ८॥ यया स्यान्निर्वृतिः सद्यः सैव तीव्रतरा मता । तीव्रा तु जीवतोऽत्यन्तं पुंसः पापविशोधिका ॥ ९॥ शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु । गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ १०॥ मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका । मन्दमन्दतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ११॥ शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति । शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ १२॥ यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते । न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ १३॥ तस्मात् लिङ्गानि संवीक्ष्य शक्तिपातस्य भूयसः । ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत् ॥ १४॥ योऽन्यथा कुरुते मोहात् स विनश्यति दुर्मतिः । तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ १५॥ लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः । सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी ॥ १६॥ आनन्दबोधयोर्लिङ्गमन्तःकरणविक्रियाः । यथा स्यात्कम्परोमाञ्चस्वरनेत्राङ्गविक्रियाः ॥ १७॥ शिष्योऽपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् । तत्सम्पर्कैः शिवार्चादौ सङ्गतैर्वाथ तद्गतैः ॥ १८॥ शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् । तस्मात् सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ १९॥ यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ २०॥ यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः । शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ २१॥ सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः । तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ २२॥ श्रेयोऽर्थी यदि गुर्वाज्ञां मनसापि न लङ्घयेत् । गुर्वाज्ञापालको यस्मात् ज्ञानसम्पत्तिमश्नुते ॥ २३॥ गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नान्यत्कर्म समाचरेत् । समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ २४॥ गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् । गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ २५॥ पापिनां च यथा सङ्गात्तत्पापात्पतितो भवेत् । यथेह वह्निसम्पर्कात् मलं त्यजति काञ्चनम् । तथैव गुरुसम्पर्कात् पापं त्यजति मानवः ॥ २६॥ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ २७॥ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् । तथायमपि सन्तुष्टो गुरुः पापं क्षणाद्दहेत् ॥ २८॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ २९॥ तस्य क्रोधेन दह्यन्ते ह्यायुः श्रीज्ञानसत्क्रियाः । तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ३०॥ यमश्च नियमाश्चैव नात्र कार्या विचारणा । गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ ३१॥ वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् । मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ ३२॥ श्रेयोऽर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् । गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ ३३॥ असमक्षं समक्षं वा तस्य कार्यं समाचरेत् । इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ ३४॥ गुरुप्रियकरः शिष्यः शैवधर्मांस्ततोऽर्हति । गुरुश्चेद्गुणवान् प्राज्ञः परमानन्दभासकः ॥ ३५॥ तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः । संवित्सञ्जननं तत्त्वं परमानन्दसम्भवम् ॥ ३६॥ तत्तत्त्वं विदितं येन स एवानन्ददर्शकः । न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ ३७॥ अन्योऽन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् । एतस्य नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ ३८॥ यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि । तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ ३९॥ परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते । पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ ४०॥ तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते । सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ४१॥ सर्वोपायविधिज्ञोऽपि तत्त्वहीनस्तु निष्फलः । यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ॥ ४२॥ तस्यावलोकनाद्यैश्च परानन्दोऽभिजायते । तस्माद्यस्यैव सम्पर्कात्प्रबोधानन्दसम्भवः ॥ ४३॥ गुरुं तमेव वृणुयान्नापरं मतिमान्नरः । स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ४४॥ यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः । ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ४५॥ न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथञ्चन । यत्रानन्दः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ ४६॥ वत्सरादपि शिष्येण सोऽन्यं गुरुमुपाश्रयेत् । गुरुमन्यं प्रपन्नेऽपि नावमन्येत पौर्विकम् । गुरोर्भ्रातॄंस्तथा पुत्रान् बोधकान् प्रेरकानपि ॥ ४७॥ तत्रादावुपसङ्गम्य ब्राह्मणं वेदपारगम् । गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ ४८॥ सर्वाभयप्रदातारं करुणाक्रान्तमानसम् । तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ ४९॥ तावदाराधयेच्छिष्यः प्रसन्नोऽसौ भवेद्यथा । तस्मिन् प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ ५०॥ तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च । भूषणानि च वासांसि यानशय्यासनानि च ॥ ५१॥ एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः । वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ ५२॥ स एव जनको माता भर्ता बन्धुर्धनं सुखम् । सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ ५३॥ निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् । समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ ५४॥ यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने । तदा शैवो भवेद्देही न ततोऽस्ति पुनर्भवः ॥ ५५॥ गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् । ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ ५६॥ प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः । उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ ५७॥ आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि । ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ ५८॥ अहिंसका दयावन्तो नित्यमुद्युक्तचेतसः । अमानिनो बुद्धिमन्तः त्यक्तस्पर्द्धाः प्रियंवदाः ॥ ५९॥ ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः । शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ ६०॥ एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः । शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ ६१॥ नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि । नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ ६२॥ तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया । अधिकारो भवत्येव कन्यायाः पितुराज्ञया । शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ ६३॥ तथा सङ्करजातीनां नाध्वशुद्धिर्विधीयते । तैऽप्यकृत्रिमभावाश्चेच्छिवे परमकारणे ॥ ६४॥ पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् । अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ ६५॥ तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् । या तु कन्या स्वपित्राद्यैः शिवधर्मे नियोजिता ॥ ६६॥ सा भक्ताय प्रदातव्या नापराय विरोधिने । दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ ६७॥ अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् । यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ ६८॥ कृतकृत्याभवत्पूर्वं तपसाराध्य शङ्करम् । यथा नारायणं देवं तपसाराध्य पाण्डवाः ॥ ६९॥ पततीँल्लब्धवती धर्मे गुरुभिर्न नियोजिता । अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ ७०॥ शिवधर्मे नियुक्तायाः शिवशासनगौरवात् । बहुनात्र किमुक्तेन योऽपि कोऽपि शिवाश्रयः ॥ ७१॥ संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते । गुरोरालोकनादेव स्पर्शात्सम्भाषणादपि ॥ ७२॥ यस्य सञ्जायते प्रज्ञा तस्य नास्ति पराजयः । मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ ७३॥ स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः । क्रियावान् यस्तु संस्कारः कुण्डमण्डपपूर्वकः । स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ ७४॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.२.१५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१६. षोडशोऽध्यायः । शिष्यसंस्कारवर्णनम् ।

उपमन्युरुवाच । पुण्येऽहनि शुचौ देशे बहुदोषविवर्जिते । देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ १॥ परीक्ष्य भूमिं विधिवद् गन्धवर्णरसादिभिः । शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ २॥ कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् । अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ३॥ प्रधानकुण्डं कुर्वीत यद्वा पश्चिमभागतः । प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ४॥ वितानध्वजमालाभिर्विविधाभिरनेकशः । वेदिमध्ये ततः कुर्यान्मण्डलं शुभलक्षणम् ॥ ५॥ रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् । सिन्दूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ६॥ एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा । एकहस्तस्य पद्मस्य कर्णिकाष्टाङ्गुला मता ॥ ७॥ केसराणि तदर्धानि शेषं चाष्टदलादिकम् । द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ८॥ कृत्वा शोभोपशोभाढ्य मैशान्यां तस्य कल्पयेत् । एकहस्तं तदर्द्धं वा पुनर्वेद्यां तु मण्डलम् ॥ ९॥ व्रीहितन्दुलसिद्धार्थतिलपुष्पकुशास्तृते । तत्र लक्षणसंयुक्तं शिवकुम्भं प्रसाधयेत् ॥ १०॥ सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा । गन्धपुष्पाक्षताकीर्णं कुशदूर्वाङ्कुराचितम् ॥ ११॥ सितसूत्रावृतं कण्ठे नववस्त्रयुगावृतम् । शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ १२॥ भृङ्गारं वर्धनीं चापि शङ्खं च चक्रमेव वा । विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ १३॥ तस्यासनारविन्दस्य कल्पयेदुत्तरे दले । अग्रतश्चन्दनाम्भोभिरस्त्रराजस्य वर्धनीम् ॥ १४॥ मण्डलस्य ततः प्राच्यां मन्त्रकुम्भे च पूर्ववत् । कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ १५॥ अथार्णवस्य तीरे वा नद्यां गोष्ठेऽपि वा गिरौ । देवागरे गृहे वापि देशेऽन्यस्मिन्मनोहरे ॥ १६॥ कृत्वा पूर्वोदितं सर्वं विना वा मण्डपादिकम् । मण्डलं पूर्ववत्कृत्वा स्थण्डिलं च विभावसोः ॥ १७॥ प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः । सर्वमङ्गलसंयुक्तः समाचरितनैत्यकः ॥ १८॥ महापूजां महेशस्य कृत्वा मण्डलमध्यतः । शिवकुम्भे तथा भूयः शिवमावाह्य पूजयेत् ॥ १९॥ पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् । अर्चयेदस्त्रवर्द्धन्यामस्त्रमीशस्य दक्षिणे ॥ २०॥ मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः । कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ २१॥ ततः शिवानले होमं कुर्याद्देशिकसत्तमः । प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ २२॥ आचार्यात्पादमर्द्धं वा होमस्तेषां विधीयते । प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ २३॥ स्वाध्यायमपरे कुर्युः स्तोत्रं मङ्गलवाचनम् । जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ २४॥ नृत्यं गीतं च वाद्यं च मङ्गलान्यपराणि च । पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ २५॥ पुण्याहं कारयित्वाथ पुनः सम्पूज्य शङ्करम् । प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ २६॥ प्रसीद देवदेवेश देहमाविश्य मामकम् । विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ २७॥ अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः । आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ २८॥ एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् । जपन्तं प्रणवं देवं ध्यायन्तं कृतमङ्गलम् ॥ २९॥ द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा । दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ३०॥ स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृताञ्जलिम् । सम्प्रोक्ष्य प्रोक्षणीतोयैर्मूर्द्धन्यस्त्रेण मुद्रया ॥ ३१॥ पुष्पक्षेपेण सन्ताड्य बध्नीयाल्लोचनं गुरुः । दुकूलार्द्धेन वस्त्रेण मन्त्रितेन नवेन च ॥ ३२॥ ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मण्डलम् । सोऽपि तेनेरितः शम्भोराचरेत् त्रिःप्रदक्षिणम् ॥ ३३॥ ततः सुवर्णसम्मिश्रं दत्त्वा पुष्पाञ्जलिं प्रभोः । प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दण्डवत्क्षितौ ॥ ३४॥ ततः सम्प्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् । सन्ताड्य देशिकस्तस्य मोचयेन्नेत्रबन्धनम् ॥ ३५॥ स दृष्ट्वा मण्डलं भूयः प्रणमेत्साञ्जलिः प्रभुम् । अथासीनं शिवाचार्यो मण्डलस्य तु दक्षिणे ॥ ३६॥ उपवेश्यात्मनः सव्ये शिष्यं दर्भासने गुरुः । आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ३७॥ शिवतेजोमयं पाणिं शिवमन्त्रमुदीरयेत् । शिवाभिमानसम्पन्नो न्यसेच्छिष्यस्य मस्तके ॥ ३८॥ सर्वाङ्गालम्बनं चैव कुर्यात्तेनैव देशिकः । शिष्योऽपि प्रणमेद्भूमौ देशिकाकृतिमीश्वरम् ॥ ३९॥ ततः शिवानले देवं समभ्यर्च्य यथाविधि । हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ४०॥ दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् । नमस्कृत्य महादेवं नाडीसन्धानमाचरेत् ॥ ४१॥ शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् । शिष्यदेहप्रवेशं च स्मृत्वा मन्त्रांस्तु तर्पयेत् ॥ ४२॥ सन्तर्पणाय मूलस्य तेनैवाहुतयो दश । देयास्तिस्रस्तथाङ्गानामङ्गैरेव यथाक्रमम् ॥ ४३॥ ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः । पुनर्दशाहुतीः कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ ४४॥ पुनः सम्पूज्य देवेशं सम्यगाचम्य देशिकः । हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ४५॥ तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः । कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ४६॥ राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः । रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ४७॥ प्रोक्षणं ताडनं कृत्वा शिशोः स्वात्मानमात्मनि । शिवात्मकमनुस्मृत्य स्फुरन्तं विस्फुलिङ्गवत् ॥ ४८॥ नाड्या यथोक्तया वायुं रेचयेन्मन्त्रतो गुरुः । निर्गम्य प्रविशेन्नाड्यां शिष्यस्य हृदयं तथा ॥ ४९॥ प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् । स्वतेजसापास्तमलं ज्वलन्तमनुचिन्तयेत् ॥ ५०॥ तमादाय तया नाड्या मन्त्री संहारमुद्रया । न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ५१॥ कुम्भकेन तथा नाड्या रेचकेन यथा पुरा । तस्मादादाय शिष्यस्य हृदये तं निवेशयेत् ॥ ५२॥ तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् । हुत्वाऽऽहुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ५३॥ देवस्य दक्षिणे शिष्यमुपवेश्य वरासने । कुशपुष्पपरिस्तीर्णे बद्धाञ्जलिरुदङ्मुखम् ॥ ५४॥ स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् । वरासनस्थितो मन्त्रैर्महामङ्गलनिःस्वनैः ॥ ५५॥ समादाय घटं पूर्णं पूर्णमेव प्रसाधितम् । ध्यायमानः शिवं शिष्यमभिषिञ्चेत देशिकः ॥ ५६॥ अथापनुद्य स्नानाम्बु परिधाय सिताम्बरम् । आचान्तोऽलङ्कृतः शिष्यः प्राञ्जलिर्मण्डपं व्रजेत् ॥ ५७॥ उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे । सम्पूज्य मण्डले देवं करन्यासं समाचरेत् ॥ ५८॥ ततस्तु भस्मना देवं ध्यायेन्मनसि देशिकः । समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ५९॥ अथ तस्य शिवाचार्यो दहनप्लावनादिकम् । सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ६०॥ ततः शिवासनं ध्यात्वा शिष्यमूर्द्धनि देशिकः । तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ६१॥ प्रार्थयेत्प्राञ्जलिर्देवं नित्यमत्र स्थितो भव । इति विज्ञाप्य तं शम्भोस्तेजसा भासुरं स्मरेत् ॥ ६२॥ सम्पूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् । कर्णे शिष्यस्य शनकैः शिवमन्त्रमुदीरयेत् ॥ ६३॥ स तु बद्धाञ्जलिः श्रुत्वा मन्त्रं तद्गतमानसः । शनैस्तं व्याहरेच्छिष्यः शिवाचार्यस्य शासनात् ॥ ६४॥ ततः शाक्तं च सन्दिश्य मन्त्रं मन्त्रविचक्षणः । उच्चारयित्वा च सुखं तस्मै मङ्गलमादिशेत् ॥ ६५॥ ततः समासान्मन्त्रार्थं वाच्यवाचकयोगतः । समादिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ६६॥ अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ । भक्त्यैवमभिसन्धाय दीक्षावाक्यमुदीरयेत् ॥ ६७॥ वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा । न त्वनभ्यर्च्य भुञ्जीय भगवन्तं त्रिलोचनम् ॥ ६८॥ स एव दद्यान्नियतो यावन्मोहविपर्ययः । तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ६९॥ ततः स समयो नाम भविष्यति शिवाश्रमे । लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७०॥ अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः । दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमन्त्रितम् ॥ ७१॥ प्रतिमा वापि देवस्य गूढदेहमथापि वा । पूजाहोमजपध्यानसाधनानि च सम्भवे ॥ ७२॥ सोऽपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः । आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७३॥ आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः । रक्षयेत्पूजयेच्छम्भुं मठे वा गृह एव वा ॥ ७४॥ अतः परं शिवाचारमादिशेदस्य देशिकः । भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७५॥ यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् । शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७६॥ शिवागमस्य ग्रहणं वाचनं श्रवणं तथा । देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७७॥ इति सङ्क्षेपतः प्रोक्तः संस्कारः समयाह्वयः । साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः ॥ ७.२.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१७. सप्तदशोऽध्यायः । शिवदीक्षाविधानवर्णनम् ।

उपमन्युरुवाच । अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् । षडध्वशुद्धिं कुर्वीत सर्वबन्धविमुक्तये ॥ १॥ कलां तत्त्वं च भुवनं वर्णं पदमतः परम् । मन्त्रश्चेति समासेन षडध्वा परिपठ्यते ॥ २॥ निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः । व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ३॥ शिवतत्त्वादिभूम्यन्तं तत्त्वाध्वा समुदाहृतः । षड्विंशत्सङ्ख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ४॥ आधाराद्युन्मनान्तश्च भुवनाध्वा प्रकीर्तितः । विना भेदोपभेदाभ्यां षष्टिसङ्ख्यासमन्वितः ॥ ५॥ पञ्चाशद् रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः । अनेकभेदसम्पन्नः पदाध्वा समुदाहृतः ॥ ६॥ सर्वोपमन्त्रैर्मन्त्राध्वा व्याप्तः परमविद्यया । यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७॥ मन्त्राध्वनि न गण्येत तथासौ मन्त्रनायकः । कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ८॥ न वेत्ति तत्त्वतो यः स नैवार्हत्यध्वशोधनम् । षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ९॥ व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते । तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ १०॥ यथावदवगम्यैव कुर्यादध्वविशोधनम् । कुण्डमण्डलपर्यन्तं तत्र कृत्वा यथा पुरा ॥ ११॥ द्विहस्तमानं कुर्वीत प्राच्यां कलशमण्डलम् । ततः स्नातः शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ १२॥ प्रविश्य मण्डलं शम्भोः पूजां पूर्ववदाचरेत् । तत्राढकावरैः सिद्धं तन्दुलैः पायसं प्रभोः ॥ १३॥ अर्द्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् । पुरतः कल्पिते वाथ मण्डले वर्णिमण्डिते ॥ १४॥ स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः । तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ १५॥ नम आद्यैर्यकरान्तैः कल्पयेत्कल्पवित्तमः । ईशानं मध्यमे कुम्भे पुरुषं पुरतः स्थिते ॥ १६॥ अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे । रक्षां विधाय मुद्रां च बद्धा कुम्भाभिमन्त्रणम् ॥ १७॥ कृत्वा शिवानलैर्होमं प्रारभेत यथा पुरा । यदर्द्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ १८॥ हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् । तर्पणान्तं च मन्त्राणां कृत्वा कर्म यथा पुरा ॥ १९॥ हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् । ऊँ कारादनु हुङ्कारं ततो मूलं फडन्तकम् ॥ २०॥ स्वाहान्तं दीपने प्राहुरङ्गानि च यथाक्रमम् । तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ २१॥ मन्त्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः । त्रिगुणं त्रिगुणीकृत्य द्विजकन्याकृतं सितम् ॥ २२॥ सूत्रं सूत्रेण सम्मन्त्र्य शिखाग्रे बन्धयेच्छिशोः । चरणाङ्गुष्ठपर्यन्तमूर्ध्वकायस्य तिष्ठतः ॥ २३॥ लम्बयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् । शान्तया मुद्रयादाय मूलमन्त्रेण मन्त्रवित् ॥ २४॥ हुत्वाहुतित्रयं तस्याः सान्निध्यमुपकल्पयेत् । हृदि सन्ताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ २५॥ चैतन्यं समुपादाय द्वादशान्ते निवेद्य च । सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ २६॥ अवगुण्ठ्याथ तत्सूत्रं शिष्यदेहं विचिन्तयेत् । मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ २७॥ विषयेन्द्रियदेहादिजनकं तस्य भावयेत् । व्योमादिभूतरूपिण्यः शान्त्यतीतादयः कलाः ॥ २८॥ सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः । अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ २९॥ ततो मलादेस्तत्त्वादौ व्याप्तिं समवलोकयेत् । कलाव्याप्तिं मलादौ च हुत्वा सन्दीपयेत्कलाः ॥ ३०॥ शिष्यं शिरसि सन्ताड्य सूत्रं देहे यथाक्रमम् । शान्त्यतीतपदे सूत्रं लाञ्छयेन्मन्त्रमुच्चरन् ॥ ३१॥ एवं कृत्वा निवृत्त्यन्तं शान्त्यतीतमनुक्रमात् । हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ३२॥ देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् । सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ३३॥ शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् । भुक्त्वा पश्चाद् द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ३४॥ अपरे मण्डले दद्यात् पञ्चगव्यं तथा गुरुः । सोऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ३५॥ तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा । प्रदद्याद्दन्तपवनं यथाशास्त्रोक्तलक्षणम् ॥ ३६॥ अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः । वाचं नियम्य चासीनः शिष्यो दन्तान्विशोधयेत् ॥ ३७॥ प्रक्षाल्य दन्तपवनं त्यक्त्वाचम्य शिवं स्मरेत् । प्रविशेद्देशिकादिष्टः प्राञ्जलिः शिवमण्डलम् ॥ ३८॥ त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि । प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ ३९॥ अशस्ताशामुखे तस्मिन् गुरुस्तद्दोषशान्तये । शतमर्द्धं तदर्द्धं वा जुहुयान्मूलमन्त्रतः ॥ ४०॥ ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् । देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ ४१॥ अहतास्तरणास्तीर्णे स दर्भशयने शुचिः । मन्त्रितेऽन्तः शिवं ध्यायन् शयीत प्राक् शिरा निशि ॥ ४२॥ शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः । आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ ४३॥ रेखात्रयं च परितो भस्मना तिलसर्षपैः । कृत्वास्त्रजप्तैस्तद् बाह्ये दिगीशानां बलिं हरेत् ॥ ४४॥ शिष्योऽपि परतोऽनश्नन्कृत्वैवमधिवासनम् । प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ ४५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशोऽध्यायः ॥ ७.२.१७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१८. अष्टादशोऽध्यायः । षडध्वशुद्ध्यादिकथनम् ।

उपमन्युरुवाच । ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः । गच्छेद्बद्धाञ्जलिर्ध्यायन् शिवमण्डलपार्श्वतः ॥ १॥ अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा । नेत्रबन्धनपर्यन्तं दर्शयेत् मण्डलं गुरुः ॥ २॥ बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते । यत्रापतन्ति पुष्पाणि तस्य नामाऽस्य सन्दिशेत् ॥ ३॥ तं चोपनीय निर्माल्यमण्डलेऽस्मिन्यथा पुरा । पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ४॥ शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशान्तये । शतमर्द्धं तदर्द्धं वा जुहुयान्मूलविद्यया ॥ ५॥ ततः सूत्रं शिखाबद्धं लम्बयित्वा यथा पुरा । आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ६॥ वागीश्वरीपूजनान्तं कुर्याद्धोमपुरःसरम् । अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७॥ मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् । प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ८॥ सूत्रदेहेऽथ शिष्यस्य ताडनप्रोक्षणादिकम् । कृत्वात्मानं समादाय द्वादशान्ते निवेद्य च ॥ ९॥ ततोऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया । योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ १०॥ देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः । जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ११॥ तासु सर्वासु युगपत्प्रवेशाय शिशोर्द्धिया । वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ १२॥ गर्भनिष्पत्तये देवं सम्पूज्य प्रणिपत्य च । हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ १३॥ निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा । आर्जवं भोगनिष्पत्तिः कुर्यात् प्रीतिं परां तथा ॥ १४॥ निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये । हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ १५॥ भोक्तृत्वविषयासङ्गमलं तत्कायशोधनम् । कृत्वैवमेव शिष्यस्य छिन्द्यात्पाशत्रयं ततः ॥ १६॥ निकृत्या परिबद्धस्य पाशस्यात्यन्तभेदतः । कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ १७॥ हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः । हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसन्दिशेत् ॥ १८॥ पितामह त्वया नास्य यातुः शैवं परं पदम् । प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ १९॥ इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः । समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ २०॥ निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा । निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ २१॥ हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् । कुर्यान्निवृत्तः सन्धानं प्रतिष्ठां कलया सह ॥ २२॥ सन्धाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् । शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ २३॥ ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् । तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ २४॥ पूर्णेन्दुमण्डलप्रख्यां कृत्वा शेषं च पूर्ववत् । विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ २५॥ विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया । प्रतिष्ठामनुसन्धाय तस्यां चापि यथा पुरा ॥ २६॥ कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् । दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ २७॥ नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा । कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ २८॥ तपस्तमपि चोद्वास्य कृत्वा तस्याथ शान्तये । विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ २९॥ स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा । बालार्कसदृशाकारां भासयन्तीं दिशो दश ॥ ३०॥ ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् । आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ३१॥ महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् । शान्त्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ३२॥ स्वात्मनो व्यापिकां तद्वद्वागीशीं च विचिन्तयेत् । नभोमण्डलसङ्काशां पूर्णान्तं चापि पूर्ववत् ॥ ३३॥ कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् । तस्मै समादिशेदाज्ञां शम्भोरमितकर्मणः ॥ ३४॥ तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् । समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ३५॥ ततः शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् । विलयं शान्त्यतीतायाः शक्तितत्त्वेऽथ चिन्तयेत् ॥ ३६॥ षडध्वनः परे पारे सर्वाध्वव्यापिनीं पराम् । कोटिसूर्यप्रतीकाशां शैवीं शक्तिं च चिन्तयेत् ॥ ३७॥ तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् । प्रक्षाल्य कर्त्तरीं पश्चात् शिवशास्त्रोक्तमार्गतः ॥ ३८॥ कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः । ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ३९॥ वौषडन्तेन मूलेन पुनः प्रक्षाल्य कर्तरीम् । हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ४०॥ ततः स्नातं समाचान्तं कृतस्वस्त्ययनं शिशुम् । प्रवेश्य मण्डलाभ्यासं प्रणिपत्य च दण्डवत् ॥ ४१॥ पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये । वाचकेनैव मन्त्रेण जुहुयादाहुतित्रयम् ॥ ४२॥ उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् । पुनः सम्पूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ४३॥ मानसोच्चारयोगेन जुहुयादाहुतित्रयम् । तत्र शम्भुं समाराध्य मण्डलस्थं सहाम्बया । हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्राञ्जलिर्गुरुः ॥ ४४॥ भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः । कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ४५॥ इति विज्ञाप्य देवाय नाडीसन्धानपूर्वकम् । पूर्णान्तं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ४६॥ स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे । ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ४७॥ भूतानां ग्रन्थिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः । भूतानि स्थितियोगेन यो जपेत्परमे शिवे ॥ ४८॥ विशोध्यास्यं तनुं दग्ध्वा प्लावयित्वा सुधाकणैः । स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ४९॥ तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् । शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ५०॥ विद्यां गलादिनाभ्यन्तं प्रतिष्ठां तदधः क्रमात् । जान्वन्तं तदधो न्यस्येन्निवृत्तिं चानुचिन्तयेत् ॥ ५१॥ स्वबीजैः सूत्रमन्त्रं च न्यस्याङ्गैस्तं शिवात्मकम् । बुद्ध्वा तं हृदयाम्भोजे देवमावाह्य पूजयेत् ॥ ५२॥ आशास्य नित्यसान्निध्यं शिवस्वात्म्यं शिशौ गुरुः । शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ५३॥ अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् । तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ५४॥ सर्वज्ञतां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् । अलुप्तशक्तिं स्वातन्त्र्यमनन्तां शक्तिमेव च ॥ ५५॥ ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् । अभिषिञ्चेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ५६॥ अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् । लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ५७॥ ओङ्कारपूर्विकां तत्र सम्पुटां तु नमोऽन्तगाम् । शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ५८॥ ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा । पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ५९॥ पुनः सम्पूज्य देवेशं यन्मया समनुष्ठितम् । सुकृतं कुरु तत्सर्वमिति विज्ञापयेत् शिवम् ॥ ६०॥ सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमण्डले । प्रणम्योद्वासयेत्तस्मात् मण्डलात्पावकादपि ॥ ६१॥ ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ ६२॥ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः । वित्तशाठ्यं न कुर्वीत यदीच्छेत् शिवमात्मनः ॥ ६३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशोऽध्यायः ॥ ७.२.१८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१९. एकोनविंशोऽध्यायः । साधकसंस्कारमन्त्रमाहात्म्यम् ।

उपमन्युरुवाच । अतः परं प्रवक्ष्यामि साधकं नाम नामतः । संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ १॥ सम्पूज्य मण्डले देवं स्थाप्य कुम्भे च पूर्ववत् । हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मण्डले ॥ २॥ पूर्णान्तं पूर्ववत्कृत्वा हुत्वाऽऽहुतिशतं तथा । सन्तर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ३॥ सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् । अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ४॥ तत्र विद्योपदेशान्तं कृत्वा विस्तरशः क्रमात् । पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ५॥ तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः । भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ६॥ इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः । साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७॥ तच्छ्रुत्वा गुरुसन्देशं क्रमशो मन्त्रसाधकः । पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ८॥ साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते । पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ९॥ नात्यन्तं करणीयं तु मुमुक्षोर्मन्त्रसाधनम् । कृतं तु तदिहान्यत्र तस्यापि शुभदं भवेत् ॥ १०॥ शुभेऽहनि शुभे देशे काले वा दोषवर्जिते । शुक्लदन्तनखः स्नातः कृतपूर्वाह्निकक्रियः ॥ ११॥ अलङ्कृत्य यथा लब्धैर्गन्धमाल्यविभूषणैः । सोष्णीषः सोत्तरासङ्गः सर्वशुक्लसमाहितः ॥ १२॥ देवालये गृहेऽन्यस्मिन् देशे वा सुमनोहरे । सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ १३॥ तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना । सम्पूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ १४॥ निवेद्य पायसं तस्मै समाप्याराधनं क्रमात् । प्रणिपत्य च तं देवं प्राप्तानुज्ञाश्च तन्मुखात् ॥ १५॥ कोटिवारं तदर्द्धं वा तदर्द्धं वा जपेत् शिवम् । लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ १६॥ ततश्च पायसाक्षारलवणैकमिताशनः । अहिंसकः क्षमी शान्तो दान्तश्चैव सदा भवेत् ॥ १७॥ अलाभे पायसस्याश्नन्फलमूलादिकानि वा । विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ १८॥ चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च । शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ १९॥ अभिमन्त्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च । साधनेऽस्मिन् विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ २०॥ मन्त्राष्टशतपूतेन जलेन शुचिना व्रती । स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ २१॥ तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले । सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ २२॥ इत्थं भक्त्या शिवं शैवो यः साधयति साधकः । तस्येहामुत्र दुष्प्रापं न किञ्चिदपि विद्यते ॥ २३॥ अथवाहरहर्मन्त्रं जपेदेकाग्रमानसः । अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ २४॥ न तस्य दुर्लभं किञ्चिन्न तस्यास्त्यशुभं क्वचित् । इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विन्दति ॥ २५॥ साधने विनियोगे च नित्ये नैमित्तिके तथा । जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ २६॥ शुचिर्बद्धशिखः सूत्री सपवित्रकरस्तथा । धृतत्रिपुण्ड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ २७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशोऽध्यायः ॥ ७.२.१९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२०. विंशोऽध्यायः । विशेषादिसंस्कृतिः ।

उपमन्युरुवाच । अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् । आचार्यत्वेऽभिषिञ्चेत तद्योगत्वेन चान्यथा ॥ १॥ मण्डलं पूर्ववत्कृत्त्वा सम्पूज्य परमेश्वरम् । स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ २॥ निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे । विद्यां दक्षिणतः शान्तिमुत्तरे मध्यतः पराम् ॥ ३॥ कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् । अभिमन्त्र्य घटान्हुत्वा पूर्णान्तं च यथा पुरा ॥ ४॥ प्रवेश्य मण्डले शिष्यमनुष्णीषं च देशिकः । तर्पणाद्यं तु मन्त्राणां कुर्यात्पूर्वावसानकम् ॥ ५॥ ततः सम्पूज्य देवेशमनुज्ञाप्य च पूर्ववत् । अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ६॥ सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् । न्यस्तमन्त्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७॥ ततो निवृत्तिकुम्भादिघटानुद्धृत्य वै क्रमात् । मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ८॥ शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः । शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ९॥ अथालङ्कृत्य तं देवमाराध्य शिवमण्डले । शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ १०॥ पुनः सम्पूज्य देवेशं प्रणम्य भुवि दण्डवत् । शिरस्यञ्जलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ११॥ भगवंस्त्वत्प्रसादेन देशिकोऽयं मया कृतः । अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ १२॥ एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च । शिवं शिवागमं दिव्यं पूजयेत् शिववद्गुरुः ॥ १३॥ पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् । उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ १४॥ स तां मूर्ध्नि समाधाय विद्यां विद्यासनोपरि । अधिरोप्य यथान्यायमभिवन्द्य समर्चयेत् ॥ १५॥ अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि । आचार्यपदवीं प्राप्तो राज्यं चापि यतोऽर्हति ॥ १६॥ अथानुशासनं कुर्यात्पूर्वैराचरितं यथा । यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ १७॥ शिष्यान् परीक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः । संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ १८॥ एवं सर्वमनायासं शौचं क्षान्तिं दयां तथा । अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ १९॥ इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मण्डलात् । शिवकुम्भानलादींश्च सदस्यानपि पूजयेत् ॥ २०॥ युगपद्वाथ संस्कारान् कुर्वीत सगणो गुरुः । तत्र त्रयं द्वयं वापि प्रयोगस्योपदिश्यते ॥ २१॥ तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् । कृत्वा समयसंस्कारमभिषेकं विनाऽखिलम् ॥ २२॥ समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् । तस्मिन् परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ २३॥ हुत्वा मन्त्रं तु सन्तर्प्य सन्दीप्याशास्य चेश्वरम् । समर्प्य मन्त्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ २४॥ अथवा मन्त्रसंस्कारमनुचिन्त्याखिलं क्रमात् । अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ २५॥ तत्र यः शान्त्यतीतादिकलासु विहितो विधिः । स सर्वोऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ २६॥ शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् । शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ २७॥ शिवेन शान्त्यतीताध्वा व्याप्तस्तदपरः परः । विद्यया परिशिष्टोऽध्वा ह्यात्मना निखिलः क्रमात् ॥ २८॥ दुर्लभं शाम्भवं मत्वा मन्त्रमूलं मनीषिणः । शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ २९॥ इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः । चातुर्विध्यमिदं कृष्ण किं भूयः श्रोतुमिच्छसि ॥ ३०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशोऽध्यायः ॥ ७.२.२०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२१. एकविंशोऽध्यायः । नित्यनैमित्तिककर्मवर्णनम् ।

कृष्ण उवाच । भगवन् श्रोतुमिच्छामि शिवाश्रमनिषेविणाम् । शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ १॥ उपमन्युरुवाच । प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया । विचार्य कार्यं निर्गच्छेद् गृहादभ्युदितेऽरुणे ॥ २॥ अबाधे विजने देशे कुर्यादावश्यकं ततः । कृत्वा शौचं विधानेन दन्तधावनमाचरेत् ॥ ३॥ अलाभे दन्तकाष्ठानामष्टम्यादिदिनेषु च । अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ४॥ आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् । नद्यां वा देवखाते वा ह्रदे वाथ गृहेऽपि वा ॥ ५॥ स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् । व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ६॥ स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वा वाथ विशोध्य च । सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७॥ मलस्नानं सुगन्धाद्यैः स्नानं दन्तविशोधनम् । न कुर्याद् ब्रह्मचारी च तपस्वी विधवा तथा ॥ ८॥ सोपवीतः शिखां बद्ध्वा प्रविश्य च जलान्तरम् । अवगाह्य समाचान्तो जले न्यस्येत् त्रिमण्डलम् ॥ ९॥ तोये मग्नः पुनर्मन्त्रं जपेच्छक्त्या शिवं स्मरेत् । उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ १०॥ गोश‍ृङ्गेण सदर्भेण पालाशेन दलेन वा । पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ११॥ उद्यानादौ गृहे चैव वर्द्धन्या कलशेन वा । अवगाहनकालेऽद्भिर्मन्त्रितैरभिषेचयेत् ॥ १२॥ अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा । आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ १३॥ आग्नेयं वाथ वा मान्त्रं कुर्यात् स्नानं शिवेन वा । शिवचिन्तापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ १४॥ स्वसूत्रोक्तविधानेन मन्त्राचमनपूर्वकम् । आचरेद् ब्रह्मयज्ञान्तं कृत्वा देवादितर्पणम् ॥ १५॥ मण्डलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि । दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ १६॥ अथवैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् । करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ १७॥ वामहस्तगताम्भोभिर्गन्धसिद्धार्थकान्वितैः । कुशपुञ्जेन वाऽभ्युक्ष्य मूलमन्त्रसमन्वितैः ॥ १८॥ आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् । वामनासापुटेनैव देवं सम्भावयेत्सितम् ॥ १९॥ अर्घमादाय देहस्थं सव्यनासापुटेन च । कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ २०॥ तर्पयेदथ देवेभ्य ऋषिभ्यश्च विशेषतः । भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ २१॥ रक्तचन्दनतोयेन हस्तमात्रेण मण्डलम् । सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलङ्कृतम् ॥ २२॥ तत्र सम्पूजयेद्भानुं स्वकीयावरणैः सह । खखोल्कायेति मन्त्रेण साङ्गतः सुखसिद्धये ॥ २३॥ पुनश्च मण्डलं कृत्वा तदङ्गैः परिपूज्य च । तत्र स्थाप्य हेमपात्रं मागधप्रस्थसम्मितम् ॥ २४॥ पूरयेत् गन्धतोयेन रक्तचन्दनयोगिना । रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ २५॥ दूर्वापामार्गगव्यैश्च केवलेन जलेन वा । जानुभ्यां धरणीं गत्वा नत्वा देवं च मण्डले ॥ २६॥ कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् । अथवाञ्जलिना तोयं सदर्भं मूलविद्यया ॥ २७॥ उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये । कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ २८॥ बुद्ध्वेशानादि सद्यान्तं पञ्चब्रह्ममयं शिवम् । गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९॥ आपादान्तैः शिरोवक्त्रहृद्गुह्यचरणान् क्रमात् । ततो मूलेन सर्वाङ्गमालभ्य वसनान्तरम् ॥ ३०॥ परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः । जलैराच्छाद्य वासोऽयद् द्विराचम्य शिवं स्मरेत् ॥ ३१॥ पुनर्न्यस्तकरो मन्त्री त्रिपुण्ड्रं भस्मना लिखेत् । अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ३२॥ वृत्तं वा चतुरस्रं वा बिन्दुमर्द्धेन्दुमेव वा । ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ३३॥ तादृशं भुजयोर्मूर्ध्नि स्तनयोरन्तरे लिखेत् । सर्वाङ्गोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ३४॥ तस्मात् त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना । रुद्राक्षान्धारयेन्मूर्ध्नि कण्ठे श्रोते करे तथा ॥ ३५॥ सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् । विप्रादीनां क्रमात् श्रेष्ठं पीतं रक्तमथासितम् ॥ ३६॥ तदलाभे यथालाभं धारणीयमदूषितम् । तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ३७॥ नाशुचिर्द्धारयेदक्षं सदा कालेषु धारयेत् । इत्थं त्रिसन्ध्यमथवा द्विसन्ध्यं सकृदेव वा ॥ ३८॥ कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् । पूजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ३९॥ ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः । श्वेतादीन्नकुलीशान्तांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ४०॥ पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् । शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ४१॥ संसारवैद्यः सर्वज्ञः परमात्मेति चाष्टकम् । अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ४२॥ जिह्वाग्रे तेजसो राशिं ध्यात्वा व्याध्यादिशान्तये । प्रक्षाल्य चरणौ कृत्वा करौ चन्दनचर्चितौ । प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ४३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशोऽध्यायः ॥ ७.२.२१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२२. द्वाविंशोऽध्यायः । शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनम् ।

उपमन्युरुवाच । न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् । स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ १॥ यतीनां संहृतिन्यासो वनस्थानां तथैव च । स एव भर्तृहीनायाः कुटुम्बिन्याः स्थितिर्भवेत् ॥ २॥ कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् । अङ्गुष्ठादिकनिष्ठान्तं स्थितिन्यास उदाहृतः ॥ ३॥ दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्तमेव च । उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ४॥ सबिन्दुकान्नकारादीन् वर्णान् न्यस्येदनुक्रमात् । अङ्गुलीषु शिवं न्यस्येत् तलयोरप्यनामयोः ॥ ५॥ अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमन्त्रतः । निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ६॥ पञ्चभूताधिपैः सार्द्धं तत्तच्चिह्नसमन्विताः । हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७॥ तत्तद्बीजेन सङ्ग्रन्थींस्तत्तद्बीजेषु भावयेत् । तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ८॥ निरुद्ध्वा प्राणवायुं च गुणसङ्ख्यानुसारतः । भूतग्रन्थिं ततः छिन्द्यादस्त्रेणैवास्त्रमुद्रया ॥ ९॥ नाड्याः सुषुम्णयात्मानं प्रेरितं प्राणवायुना । निर्गतं ब्रह्मरन्ध्रेण योजयेत् शिवतेजसा ॥ १०॥ विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् । ततश्चोपरिभावेन कलाः संहृत्य वायुना ॥ ११॥ देहं संहृत्य वै दग्धं कलाः स्पृष्ट्वा सहाधिपम् । प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ १२॥ अथ संहृत्य वै दग्धः कलासर्गं विनैव तु । अमृतप्लावनं कुर्याद् भस्मीभूतस्य वै ततः ॥ १३॥ ततो विद्यामये तस्मिन् देहे दीपशिखाकृतिम् । शिवान्निर्गतमात्मानं ब्रह्मरन्ध्रेण योजयेत् ॥ १४॥ देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपङ्कजे । पुनश्चामृतवर्षेण सिञ्चेद् विद्यामयं वपुः ॥ १५॥ ततः कुर्यात् करन्यासं करशोधनपूर्वकम् । देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ १६॥ अङ्गन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना । वर्णन्यासं ततः कुर्याद्धस्तपादादिसन्धिषु ॥ १७॥ षडङ्गानि ततो न्यस्य जातिषट्कयुतानि च । दिग्बन्धमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ १८॥ यद्वा मूर्द्धादिपञ्चाङ्गं न्यासमेव समाचरेत् । तथा षडङ्गन्यासं च भूतशुद्ध्यादिकं विना ॥ १९॥ एवं समासरूपेण कृत्वा देहात्मशोधनम् । शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ २०॥ अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः । स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ २१॥ तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः । तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ २२॥ पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः । एतेष्वेकमनेकं वा कुर्यात् पूजादिकर्मसु ॥ २३॥ अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके । इं ईं च नेत्रयोस्तद्वत् उं ऊं श्रवणयोस्तथा ॥ २४॥ ऋं ॠं कपोलयोश्चैव लृं ॡं नासापुटद्वये । एमैम्मोष्ठद्वयोरोमौं दन्तपङ्क्तिद्वयोः क्रमात् ॥ २५॥ अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् । कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु सन्धिषु ॥ २६॥ चवर्गं च तथा वामहस्तसन्धिषु विन्यसेत् । टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ २७॥ पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः । न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ २८॥ यकारादिसकारान्तान् न्यसेत्सप्तसु धातुषु । हङ्कारं हृदयस्यान्तः क्षकारं भ्रूयुगान्तरे ॥ २९॥ एवं वर्णान् प्रविन्यस्य पञ्चाशत् रुद्रवर्त्मना । अङ्गवक्त्रकलाभेदात् पञ्च ब्रह्माणि विन्यसेत् ॥ ३०॥ करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् । शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ३१॥ ततश्चोर्ध्वादिवक्त्राणि पश्चिमान्तानि कल्पयेत् । ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ३२॥ ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि । चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ३३॥ हृत्कण्ठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि । अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ३४॥ पश्चात् त्रयोदशकलाः पायुमेढ्रोरुजानुषु । जङ्घास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ३५॥ सद्यस्याऽपि कलाश्चाष्टौ पादयोरपि हस्तयोः । घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः । अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ३६॥ पश्चात् प्रणवविद्धीमान् प्रणवन्यासमाचरेत् । बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ३७॥ पार्श्वोदरोरुजङ्घेषु पादयोः पृष्ठतस्तथा । इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ३८॥ हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् । बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ३९॥ विभज्य बाहुनेत्रास्यललाटे कर्णयोरपि । कक्षयोः स्कन्धयोश्चैव पार्श्वयोः स्तनयोस्तथा ॥ ४०॥ कट्यां पाण्योर्गुल्फयोश्च यद्वा पञ्चाङ्गवर्त्मना । हंसन्यासमिमं कृत्वा न्यसेत् पञ्चाक्षरीं ततः ॥ ४१॥ यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते । नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् । नाशिवस्तु शिवं ध्यायेन्नाशिवः प्राप्नुयात् शिवम् ॥ ४२॥ तस्मात् शैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् । शिवोऽहमिति सञ्चिन्त्य शैवं कर्म समाचरेत् ॥ ४३॥ कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः । ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ४४॥ कर्मयज्ञरताः केचित्तपोयज्ञरताः परे । जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ४५॥ ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् । कर्मयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ४६॥ कामान् कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् । अकामो रुद्रभवने भोगान् भुक्त्वा ततश्च्युतः ॥ ४७॥ तपोयज्ञरतो भूत्वा जायते नात्र संशयः । तपस्वी च पुनस्तस्मिन् भोगान् भुक्त्वा ततश्च्युतः ॥ ४८॥ जपध्यानरतो भूत्वा जायते भुवि मानवः । जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ४९॥ ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् । तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञोऽपि देहिनाम् ॥ ५०॥ अकामः कामसंयुक्तो बन्धायैव भविष्यति । तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ५१॥ ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः । हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ५२॥ ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः । बहिः कर्मिकरा यद्वन्नातीव फलभागिनः ॥ ५३॥ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः । ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ५४॥ यथेह कर्मिणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् । ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ५५॥ नात्यन्तं प्रतिपद्यन्ते शिवयाथात्म्यवेदनात् । आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ५६॥ हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः । ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ५७॥ तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् । द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ५८॥ नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा । नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ५९॥ बहिर्यागोपचारेण देवं देवीं च पूजयेत् । अथवा पूजयेन्नित्यं लिङ्गे वा कृतकेऽपि वा ॥ ६०॥ वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः । अथवान्तर्बहिश्चैव पूजयेत्परमेश्वरम् । अन्तर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ६१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.२.२२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२३. त्रयोविंशोऽध्यायः । पूजाविधान व्याख्यानवर्णनम् ।

उपमन्युरुवाच । व्याख्यां पूजाविधानस्य प्रवदामि समासतः । शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ १॥ अङ्गमभ्यन्तरं यागमग्निकार्यावसानकम् । विधाय वा न वा पश्चाद् बहिर्यागं समाचरेत् ॥ २॥ तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च । ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ३॥ दक्षिणे चोत्तरे चैव नन्दीशं सुयशां तथा । आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ४॥ आराधनादिकैर्युक्तः सिंहयोगासनादिकम् । पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ५॥ तस्योपरि शिवं ध्यायेत् साम्बं सर्वमनोहरम् । सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥ ६॥ सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् । रक्तास्यपाणिचरणं कुन्दचन्द्रस्मिताननम् ॥ ७॥ शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् । चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ ८॥ वरदाभयहस्तं च मृगटङ्कधरं हरम् । भुजङ्गहारवलयं चारुनीलगलान्तरम् ॥ ९॥ सर्वोपमानरहितं सानुगं सपरिच्छदम् । ततः सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम् ॥ १०॥ प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् । पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥ ११॥ नीलोत्पलदलप्रख्यां चन्द्रार्द्धकृतशेखराम् । अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ॥ १२॥ तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् । सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ १३॥ विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् । सर्वतोऽनुगुणाकारां किञ्चिल्लज्जानताननाम् ॥ १४॥ हेमारविन्दं विलसद्दधानां दक्षिणे करे । दण्डवच्चापरं हस्तं न्यस्यासीनां महासने ॥ १५॥ पाशविच्छेदिकां साक्षात्सच्चिदानन्दरूपिणीम् । एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ १६॥ सर्वोपचारवद् भक्त्या भावपुष्पैः समर्चयेत् । अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ १७॥ शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् । षड्विंशकाभिधानां वा श्रीकण्ठाख्यामथापि वा ॥ १८॥ मन्त्रन्यासादिकांश्चापि कृत्वा स्वस्यां तनौ यथा । अस्यां मूर्तौ मूर्तिमन्तं शिवं सदसतः परम् ॥ १९॥ ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्त्तयेद्धिया । समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ २०॥ भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् । इत्थमङ्गे स्वतन्त्रे वा योगे ध्यानमये शुभे ॥ २१॥ अग्निकार्यावसानं च सर्वत्रैव समो विधिः । अथ चिन्तामयं सर्वं समाप्याराधनक्रमम् ॥ २२॥ लिङ्गे च पूजयेद्देवं स्थण्डिले वानलेऽपि वा ॥ २३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधान व्याख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ७.२.२३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२४. चतुर्विंशोऽध्यायः । शास्त्रोक्तशिवपूजनवर्णनम् ।

उपमन्युरुवाच । प्रोक्षयेन्मूलमन्त्रेण पूजास्थानं विशुद्धये । गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ १॥ अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा । अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ २॥ तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः । संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ३॥ प्रोक्षणीमर्घ्यपात्रं च पाद्यपात्रमतः परम् । तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ४॥ प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् । पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ५॥ रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः । फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ६॥ स्नानोदके सुगन्धादि पानीये च विशेषतः । शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७॥ उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् । जातिकङ्कोलकर्पूरबहुमूलतमालकान् ॥ ८॥ क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः । एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ९॥ कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि । आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥ १०॥ कुशपुष्पयवव्रीहिबहुमूलतमालकान् । प्रक्षिपेत् प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ११॥ सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः । पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ १२॥ पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा । सम्प्रोक्ष्य मूलमन्त्रेण शोधयेद्विधिवत्ततः ॥ १३॥ पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु । साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ १४॥ ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् । पूजयित्वा विधानेन द्वारपार्श्वेऽथ दक्षिणे ॥ १५॥ अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् । चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ १६॥ बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् । दीप्तशूलमृगीटङ्कतिग्मवेत्रधरं प्रभुम् ॥ १७॥ चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा । उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ १८॥ सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् । पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ १९॥ सम्पूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् । प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ २०॥ पुष्पहस्तो जपेत् शक्त्या मन्त्रं मन्त्रविशुद्धये । ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ २१॥ कल्पयेदासनं पश्चादाधारादि यथाक्रमम् । आधारशक्तिं कल्याणीं श्यामां ध्यायेदथो भुवि ॥ २२॥ तस्याः पुरस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् । धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ २३॥ तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् । धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ॥ २४॥ आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः । अधर्मादीनि पूर्वादीन्युत्तरान्तान्यनुक्रमात् ॥ २५॥ राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् । अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ २६॥ अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् । केसराणि च वामाद्या रुद्रा वामादिशक्तिभिः ॥ २७॥ बीजान्यपि च ता एव शक्तयोन्तर्मनोन्मनीः । कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ २८॥ कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले । त्रिमण्डलोपर्यात्मादितत्त्वत्रितयमासनम् ॥ २९॥ सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् । आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ३०॥ आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् । नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ३१॥ पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं ततः परम् । धूपं दीपं च ताम्बूलं दत्त्वाथ स्नापयेत् शिवौ ॥ ३२॥ अथवा परिकल्प्यैवमासनं मूर्तिमेव च । सकलीकृत्य मूलेन ब्रह्मभिश्चापरैस्तथा ॥ ३३॥ आवाहयेत्ततो देव्या शिवं परमकारणम् । शुद्धस्फटिकसङ्काशं देवं निश्चलमक्षरम् ॥ ३४॥ कारणं सर्वलोकानां सर्वलोकमयं परम् । अन्तर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् ॥ ३५॥ भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् । ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ३६॥ देवसारं च विद्वद्भिरगोचरमिति श्रुतम् । आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ३७॥ शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् । पञ्चोपचारवद्भक्त्या पूजयेल्लिङ्गमुत्तमम् ॥ ३८॥ लिङ्गमूर्त्तिर्महेशस्य शिवस्य परमात्मनः । स्नानकाले प्रकुर्वीत जयशब्दादिमङ्गलम् ॥ ३९॥ पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः । मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ४०॥ बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसम्भवैः । संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ४१॥ घर्षयेद्बिल्वपत्राद्यैर्लेपगन्धापनुत्तये । पुनः संस्नाप्य सलिलैश्चक्रवर्त्त्युपचारतः ॥ ४२॥ सुगन्धामलकं दद्याद् हरिद्रां च यथाक्रमम् । ततः संशोध्य सलिलैर्लिङ्गं बेरमथापि वा ॥ ४३॥ स्नापयेद्गन्धतोयेन कुशपुष्पोदकेन च । हिरण्यरत्नतोयैश्च मन्त्रसिद्धैर्यथाक्रमम् ॥ ४४॥ असम्भवे तु द्रव्याणां यथासम्भवसम्भृतैः । केवलैर्मन्त्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ४५॥ कलशेनाथ शङ्खेन वर्द्धन्या पाणिना तथा । सकुशेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् ॥ ४६॥ पवमानेन रुद्रेण नीलेन त्वरितेन च । लिङ्गसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ४७॥ ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः । स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ४८॥ यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा । न तु कश्चिद्विशेषोऽस्ति तत्र तौ सदृशौ यतः ॥ ४९॥ प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः । देव्यै प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ५०॥ अर्द्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते । तत्र तत्रोपचाराणां लिङ्गे वान्यत्र वा क्वचित् ॥ ५१॥ कृत्वाऽभिषेकं लिङ्गस्य शुचिना च सुगन्धिना । सम्मृज्य वाससा दद्यादम्बरं चोपवीतकम् ॥ ५२॥ पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च भूषणम् । धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ५३॥ पुनश्चाचमनीयं च मुखवासं ततः परम् । मुकुटं च शुभं भद्रं सर्वरत्नैरलङ्कृतम् ॥ ५४॥ भूषणानि पवित्राणि माल्यानि विविधानि च । व्यजने चामरे छत्रं तालवृन्तं च दर्पणम् ॥ ५५॥ दत्त्वा नीराजनं कुर्यात्सर्वमङ्गलनिःस्वनैः । गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ५६॥ हैमे च राजते ताम्रे पात्रे वा मृण्मये शुभे । पद्मकैः शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ५७॥ त्रिशूलशङ्खयुग्माब्जनन्द्यावर्तैः करीषजैः । श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ५८॥ अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे । तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ५९॥ कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः । धेनुमुद्रां च सन्दर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ६०॥ अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् । विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ६१॥ ततस्तत्पात्रमुद्धृत्य लिङ्गादेरुपरि क्रमात् । त्रिःप्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ६२॥ दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगन्धितम् । कृत्वा पुष्पाञ्जलिं पश्चादुपहारान्निवेदयेत् ॥ ६३॥ पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः । पञ्च सौगन्धिकोपेतं ताम्बूलं च निवेदयेत् ॥ ६४॥ प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् । लिङ्गादौ शिवयोश्चिन्तां कृत्वा शक्त्या जपेत् शिवम् ॥ ६५॥ प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् । विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ६६॥ अर्घ्यं पुष्पाञ्जलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि । पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिन्तयेत् ॥ ६७॥ पाद्यादिमुखवासान्तमर्घ्याद्यं चातिसङ्कटे । पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरःसरम् ॥ ६८॥ तावतैव परो धर्मो भावने सुकृतो भवेत् । असम्पूज्य न भुञ्जीत शिवमाप्राणसञ्चरात् ॥ ६९॥ यदि पापस्तु भुञ्जीत स्वैरं तस्य न निष्कृतिः । प्रमादेन तु भुङ्क्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७०॥ स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च । शिवस्यायुतमभ्यस्येद् ब्रह्मचर्यपुरःसरम् ॥ ७१॥ परेद्युः शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च । शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७२॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.२.२४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२५. पञ्चविंशोऽध्यायः । शिवशास्त्रोक्तपूजनवर्णनम् ।

उपमन्युरुवाच । अनुक्तं चात्र पूजायाः क्रमलोपभयादिव । यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ १॥ हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् । कुर्यादावरणाभ्यर्चां प्राप्ते नीराजनेऽथवा ॥ २॥ तत्रेशानादिसद्यान्तं रुद्राद्यस्त्रान्तमेव च । शिवस्य वा शिवायाश्च प्रथमावरणे यजेत् ॥ ३॥ ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा । पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ४॥ वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् । गर्भावरणमाख्यातं मन्त्रसङ्घातमेव वा ॥ ५॥ हृदयाद्यस्त्रपर्यन्तमथवापि समर्चयेत् । तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ६॥ वरुणं वारुणे भागे धनदं चोत्तरे बुधः । ईशमैशेऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७॥ मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे । बहिःपद्मस्य वज्राद्यान्याब्जान्तान्यायुधान्यपि ॥ ८॥ प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् । देवं देवीं च सम्प्रेक्ष्य सर्वावरणदेवताः ॥ ९॥ बद्धाञ्जलिपुटा ध्येयाः समासीना यथासुखम् । सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ १०॥ पुष्पैः सम्पूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् । गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ११॥ योगे ध्याने जपे होमे बाह्ये वाभ्यन्तरेऽपि वा । हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ १२॥ पायसं दधिसम्मिश्रं गौडं च मधुनाप्लुतम् । एतेष्वेकमनेकं वा नानाव्यञ्जनसंयुतम् ॥ १३॥ गुडखण्डान्वितं दद्यान्मथितं दधि चोत्तमम् । भक्ष्याण्यपूपमुख्यानि स्वादुमन्ति फलानि च ॥ १४॥ रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् । मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ १५॥ दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः । गौराणि स्वर्णवर्णानि विहितानि शिवानि च । शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ १६॥ कर्पूरं चाथ कङ्कोलं जात्यादि च नवं शुभम् । आलेपनं चन्दनं स्यान्मूलकाष्ठं रजोमयम् ॥ १७॥ कस्तूरिका कुङ्कुमं च रसो मृगमदात्मकः । पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ १८॥ निर्गन्धान्युग्रगन्धानि दूषितान्युषितानि च । स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ १९॥ वासांसि च मृदून्येव तपनीयमयानि च । विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ २०॥ सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः । आधूपितानि पुष्पौघैर्वासितानि समन्ततः ॥ २१॥ चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णकैः । घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ २२॥ कपिलासम्भवेनैव घृतेनातिसुगन्धिना । नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ २३॥ पञ्चगव्यं च मधुरं पयो दधि घृतं तथा । कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ २४॥ आसनानि च भद्राणि गजदन्तमयानि च । सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ २५॥ मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च । उच्चावचानि रम्याणि शयनानि सुखानि च ॥ २६॥ नद्यः समुद्रगामिन्या नदाद्वाम्भः समाहृतम् । शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ २७॥ छत्रं शशिनिभं चारु मुक्तादामविराजितम् । नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ २८॥ चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते । राजहंसद्वयाकारे रत्नदण्डोपशोभिते ॥ २९॥ दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् । समन्ताद्रत्नसञ्छन्नं स्रग्वरैश्चापि भूषितम् ॥ ३०॥ गम्भीरनिनदः शङ्खो हंसकुन्देन्दुसन्निभः । आस्यपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ३१॥ काहलानि च रम्याणि नानानादकराणि च । सुवर्णनिर्मितान्येव मौक्तिकालङ्कृतानि च ॥ ३२॥ भेरीमृदङ्गमुरजतिमिच्छपटहादयः । समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ३३॥ भाण्डान्यपि च रम्याणि पात्राण्यपि च कृत्स्नशः । तदाधाराणि सर्वाणि सौवर्णान्येव साधयेत् ॥ ३४॥ आलयं च महेशस्य शिवस्य परमात्मनः । राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ३५॥ उच्चप्राकारसम्भिन्नं भूधराकारगोपुरम् । अनेकरत्नसञ्च्छन्नं हेमद्वारकपाटकम् ॥ ३६॥ तप्तजाम्बूनदमयं रत्नस्तम्भशतावृतम् । मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ३७॥ चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः । अलङ्कृतशिरोभागमस्त्रराजेन चिह्नितम् ॥ ३८॥ राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः । प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समन्ततः ॥ ३९॥ आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च । अत्यन्तालङ्कृतप्रान्तमन्तरावरणैरिव ॥ ४०॥ उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः । वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ४१॥ रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः । अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ४२॥ दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् । वेदवेदान्ततत्त्वज्ञैः शिवशास्त्रपरायणैः ॥ ४३॥ शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः । शान्तैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ४४॥ शैवैर्माहेश्वरैश्चैव श्रीमद्भिः सेवितं द्विजैः । एवमन्तर्बहिर्वाथ यथाशक्तिविनिर्मितैः ॥ ४५॥ स्थाने शिलामये दान्ते दारवे चेष्टकामये । केवलं मृण्मये वापि पुण्यारण्येऽथवा गिरौ ॥ ४६॥ नद्यां देवालयेऽन्यत्र देशे वाथ गृहे शुभे । आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवञ्चयन् । द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्च्चयेत् ॥ ४७॥ अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्च्चयेत् । न तस्य प्रत्यवायोऽस्ति भाववश्यो यतः प्रभुः ॥ ४८॥ न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि । न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ४९॥ भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् । अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ५०॥ भक्त्या प्रचोदितः कुर्यादल्पवित्तोऽपि मानवः । महाविभवसारोऽपि न कुर्याद् भक्तिवर्जितः ॥ ५१॥ सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः । न तेन फलभाक् स स्याद् भक्तिरेवात्र कारणम् ॥ ५२॥ न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः । गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मिकाम् ॥ ५३॥ गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे । शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ५४॥ शिवमन्त्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् । दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ५५॥ भावहीनो नरः सर्वं कृत्वापि न विमुच्यते । भावयुक्तः पुनः सर्वमकृत्वापि विमुच्यते ॥ ५६॥ चान्द्रायणसहस्रैश्च प्राजापत्यशतैस्तथा । मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ५७॥ अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च । तपन्ति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ५८॥ सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः । राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ५९॥ असुरा राक्षसाश्चैव तमोगुणसमन्विताः । ऐहिकार्थं यजन्तीशं नराश्चान्येऽपि तादृशाः ॥ ६०॥ तामसं राजसं वापि सात्त्विकं भावमेव च । आश्रित्य भक्त्या पूजाद्यं कुर्वन् भद्रं समश्नुते ॥ ६१॥ यतः पापार्णवात् त्रातुं भक्तिर्नौरिव निर्मिता । तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ६२॥ अन्त्यजो वाधमो वापि मूर्खो वा पतितोऽपि वा । शिवं प्रपन्नश्चेत् कृष्ण पूज्यः सर्वसुरासुरैः ॥ ६३॥ तस्मात् सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् । अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ६४॥ वक्ष्याम्यतिरहस्यं ते श‍ृणु कृष्ण वचो मम । वेदैः शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ६५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ७.२.२५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.१६. षड्विंशोऽध्यायः । साङ्गोपाङ्गपूजाविधानवर्णनम् ।

उपमन्युरुवाच । ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः । मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ १॥ सम्पूज्यामन्त्रकं भक्त्या शिवं परमकारणम् । तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ २॥ तस्मात् सर्वप्रयत्नेन पतितोऽपि यजेत् शिवम् । भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेद्रियः ॥ ३॥ कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु । पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ४॥ अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः । तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ५॥ भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् । सोऽपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ६॥ तस्मात्तपांसि यज्ञाश्च सर्वे सर्वस्वदक्षिणाः । शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७॥ बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण चेत् । पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ८॥ अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् । यः सकृत्पतितो वापि मूढो वा मुच्यते नरः ॥ ९॥ षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् । शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ १०॥ अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः । सब्रह्माङ्गेन वा तेन सहंसेन विमुच्यते ॥ ११॥ तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् । एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ १२॥ येऽर्चयन्ति महादेवं विज्ञेयास्ते महेश्वराः । ज्ञानेनात्मसहायेन नार्चितो भगवान् शिवः ॥ १३॥ स चिरं संसरत्यस्मिन् संसारे दुःखसागरे । दुर्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ १४॥ निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः । दुर्लभं प्राप्य मानुष्यं येऽर्चयन्ति पिनाकिनम् ॥ १५॥ तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः । भवभक्तिपरा ये च भवप्रणतचेतसः ॥ १६॥ भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः । भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ १७॥ धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् । ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये ॥ १८॥ ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् । सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ १९॥ शौर्यं वै जगति ख्यातिः शिवमर्चयतो भवेत् । तस्मात् सर्वं परित्यज्य शिवैकाहितमानसः ॥ २०॥ शिवपूजाविधिं कुर्याद्यदीच्छेत् शिवमात्मनः । त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ २१॥ त्वरितं व्याधिरभ्येति तस्मात् पूज्यः पिनाकधृक् । यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ २२॥ यावन्नेन्द्रियवैकल्यं तावत्पूजय शङ्करम् । न शिवार्चनतुल्योऽस्ति धर्मोऽन्यो भुवनत्रये ॥ २३॥ इति विज्ञाय यत्नेन पूजनीयः सदाशिवः । द्वारयागं ज वनिकां परिवारबलिक्रियाम् ॥ २४॥ नित्योत्सवं च कुर्वीत प्रासादे यदि पूजयेत् । हविर्निवेदनादूर्ध्वं स्वयं चानुचरोऽपि वा ॥ २५॥ प्रासादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् । निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ २६॥ पुष्पं धूपं च दीपं च दद्यादन्नं जलैः सह । ततो दद्यात् महापीठे तिष्ठन् बलिमुदङ्मुखः ॥ २७॥ ततो निवेदितं देवे यत्तदन्नादिकं पुरा । तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ २८॥ हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् । कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ २९॥ नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने । विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ३०॥ अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् । शिरस्यारोप्य तत्पात्रं द्विजस्यालङ्कृतस्य च ॥ ३१॥ न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च । प्रासादपरिवारेभ्यो बहिर्मङ्गलनिःस्वनैः ॥ ३२॥ नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः । प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ३३॥ महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः । पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः । आदायाभ्यन्तरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ ३४॥ प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् । आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ३५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे साङ्गोपाङ्गपूजाविधानवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.२.१६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२७. सप्तविंशोऽध्यायः । अग्निकार्यवर्णनम् ।

उपमन्युरुवाच । अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिलेऽपि वा । वेद्यां वा ह्यायसे पात्रे मृण्मये वा नवे शुभे ॥ १॥ आधायाग्निं विधानेन संस्कृत्य च ततः परम् । तत्राराध्य महादेवं होमकर्मसमाचरेत् ॥ २॥ कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा । वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ३॥ कुण्डं विस्तारवन्निम्नं तन्मध्येऽष्टदलाम्बुजम् । चतुरङ्गुलमुत्सेधं तस्य द्व्यङ्गुलमेव वा ॥ ४॥ वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते । मध्ये च मध्यमाङ्गुल्या मध्यमोत्तमपर्वणोः ॥ ५॥ अङ्गुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः । मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ६॥ यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् । अश्वत्थपत्रवद्योनिं गजाधरवदेव वा ॥ ७॥ झमेखलामध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा । शोभनामग्रतः किञ्चिन्निम्नामुन्मीलिकां शनैः ॥ ८॥ अग्रेण कुण्डाभिमुखीं किञ्चिदुत्सृज्य मेखलाम् । नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ९॥ मण्डलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् । कुण्डं च मृण्मयं वेदिमालिम्पेद् गोमयाम्बुना ॥ १०॥ प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदम्भसा । स्वसूत्रोक्तप्रकारेण कुण्डादौ विलिखेत्ततः ॥ ११॥ सम्प्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् । अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ १२॥ प्रक्षाल्य क्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् । मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ १३॥ अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् । त्रिःप्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ १४॥ बह्निबीजं समुच्चार्य त्वादधीताग्निमासने । योनिमार्गेण वा तद्वदात्मनः सम्मुखेन वा ॥ १५॥ योनिप्रदेशगः सर्वं कुण्डं कुर्याद्विचक्षणः । स्वनाभ्यन्तःस्थितं वह्निं तद्रन्ध्नाद्विस्फुलिङ्गवत् ॥ १६॥ निर्गम्य पावके बाह्ये लीनं बिम्बाकृतिं स्मरेत् । आज्यसंस्कारपर्यन्तमन्वाधानपुरःसरम् ॥ १७॥ स्वसूत्रोक्तक्रमात्कुर्यात् मूलमन्त्रेण मन्त्रवित् । शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ १८॥ न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् । स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ १९॥ यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ । पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ २०॥ सम्मृज्य दर्भैस्तौ वह्नौ सन्ताप्य प्रोक्षयेत्पुनः । परिषिच्य स्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ २१॥ जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये । भ्रुं स्तुं ब्रुं श्रुं क्रमेणैव पुं ड्रुं द्रुं इत्यतः परम् ॥ २२॥ बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः । त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ २३॥ तस्याः शिखा दक्षिणतो ज्वलन्ती वामतः परा । हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता ॥ २४॥ रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता । अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ २५॥ स्वबीजानन्तरं वाच्या स्वाहान्तञ्च यथाक्रमम् । जिह्वामन्त्रैस्तु हुत्वाज्यं जिह्वास्त्वैकैकशः क्रमात् ॥ २६॥ रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् । सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ २७॥ एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् । तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् । दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥ २८॥ ताः पालाश्यः परा वापि यज्ञिया द्वादशाङ्गुलाः । अवक्रा न स्वयं शुष्काः सत्वचो निर्व्रणाः समाः ॥ २९॥ दशाङ्गुला वा विहिताः कनिष्ठाङ्गुलिसम्मिताः । प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ३०॥ दूर्वापत्रसमाकारां चतुरङ्गुलमायताम् । दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ३१॥ लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा । सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ३२॥ दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा । होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ३३॥ स्रुवेणाज्यं समित्याद्यास्रुचा शेषात्करेण वा । तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ३४॥ द्रव्येणैकेन वालाभे जुहुयात् श्रद्धया पुनः । प्रायश्चित्ताय जुहुयान्मन्त्रयित्वाहुतित्रयम् ॥ ३५॥ ततो होमावशिष्टेन घृतेनापूर्य वै स्रुचम् । निधाय पुष्पं तस्याग्रे स्रुवेणाधोमुखेन ताम् ॥ ३६॥ सदर्भेन समाच्छाद्य मूलेनाञ्जलिनोत्थितः । वौषडन्तेन जुहुयाद्धारां तु यवसम्मिताम् ॥ ३७॥ इत्थं पूर्णाहुतिं कृत्वा परिषिञ्चेच्च पूर्ववत् । तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ३८॥ तमप्युद्वास्य वा नाभौ यजेत्सन्धाय नित्यशः । अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ३९॥ वागीशीगर्भसम्भूतं संस्कृत्य विधिवद्यजेत् । अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ४०॥ पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः । संशोध्य प्रोक्षणीपात्रं प्रोक्ष्य तानि तदम्भसा ॥ ४१॥ प्रणीतापात्रमैशान्यां विन्यस्यापूरितं जलैः । आज्यसंस्कारपर्यन्तं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ४२॥ गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः । कृत्वा पृथक् पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ४३॥ त्रिपादं सप्तहस्तं च चतुःश‍ृङ्गं द्विशीर्षकम् । मधुपिङ्गं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ४४॥ रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम् । सर्वलक्षणसम्पन्नं सोपवीतं त्रिमेखलम् ॥ ४५॥ शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे । तोमरं तालवृन्तं च घृतपात्रं तथेतरैः ॥ ४६॥ जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् । नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ४७॥ शिवाग्निरुचिनामास्य कृत्वाहुतिपुरःसरम् । पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ४८॥ आप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु । आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ४९॥ रमित्यनेन बीजेन परिषिञ्चेत्ततः परम् । ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ५०॥ तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् । धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ५१॥ साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च । कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ५२॥ सम्पूज्य देवं देवीं च ततः पूर्णान्तमाचरेत् । अथवा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ५३॥ बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः । शिवाग्नेर्भस्म सङ्ग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ५४॥ वैवाहाग्निभवं वापि पक्वं शुचि सुगन्धि च । कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ५५॥ न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् । उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ५६॥ पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रतः । अपक्वमतिपक्वं च सन्त्यज्य भसितं सितम् ॥ ५७॥ आदाय वा समालोड्य भस्माधारे विनिःक्षिपेत् । तैजसं दारवं वापि मृण्मयं शैलमेव च ॥ ५८॥ अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् । समे देशे शुभे शुद्धे धनवद्भस्म निःक्षिपेत् ॥ ५९॥ प्रस्थितो भस्म गृह्णीयात् स्वयं चानुचरोऽपि वा । न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् । न संस्पृशेच्च नीचाङ्गैर्नोपेक्षेत न लङ्घयेत् ॥ ६०॥ तस्माद्भसितमादाय विनियुञ्जीत मन्त्रतः । कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ६१॥ भस्मसङ्ग्रहणं कुर्याद्देवेऽनुद्वासिते सति । उद्वासने कृते यस्माच्चण्डभस्म प्रजायते ॥ ६२॥ अग्निकार्ये कृते पश्चात् शिवशास्त्रोक्तमार्गतः । स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ६३॥ अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले । विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ६४॥ विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् । तत्रासनवरं कृत्वा पुष्पाद्यैर्गुरुमर्चयेत् ॥ ६५॥ ततोऽनुपूजयेत् पूज्यान् भोजयेच्च बुभुक्षितान् । ततः स्वयं च भुञ्जीत शुद्धमन्नं यथासुखम् ॥ ६६॥ निवेदितं च वा देवे तच्छेषं चात्मशुद्धये । श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ६७॥ गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः । न तु तत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ६८॥ भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् । कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ६९॥ रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् । शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७०॥ भक्ष्यभोज्याम्बरालेपपुष्पमालादिकं तथा । मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७१॥ ततो देवस्य देव्याश्च पादमूले शुचिः स्वपेत् । गृहस्थो भार्यया सार्द्धं तदन्येऽपि तु केवलाः ॥ ७२॥ प्रत्यूषसमयं बुद्ध्वा मन्त्रमाद्यमुदीरयेत् । प्रणम्य मनसा देवं साम्बं सगणमव्ययम् ॥ ७३॥ देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः । शङ्खादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७४॥ ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगन्धिभिः । निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.२.२७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२८. अष्टाविंशोऽध्यायः । नित्यनैमित्तिकविधिवर्णनम् ।

उपमन्युरुवाच । अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् । शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ १॥ सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि । अष्टभ्यां च चतुर्दश्यां तथा पर्वणि च क्रमात् ॥ २॥ अयने विषुवे चैव ग्रहणेषु विशेषतः । कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ३॥ मासि मासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु । स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ४॥ ब्रह्महत्यादिदोषाणामतीव महतामपि । निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ५॥ पौषे तु पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः । माघे मघाख्ये नक्षत्रे प्रदद्याद् घृतकम्बलम् ॥ ६॥ फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् । चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७॥ वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् । ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ८॥ आषाढे चोत्तराषाढे पवित्रारोपणं तथा । श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ९॥ श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् । प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ १०॥ आश्वयुज्यां ततो दद्यात्पायसं च नवौदनम् । अग्निकार्यं च तेनैव कुर्यात् शतभिषग्दिने ॥ ११॥ कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् । मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेत् शिवम् ॥ १२॥ अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा । आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ १३॥ आवृत्तेऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु । दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ १४॥ उत्पाते वाशुभेऽन्यस्मिन् रोगे वा प्रबलेऽथवा । स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ १५॥ निमित्तानुगुणाः कार्याः पुरश्चरणपूर्विकाः । शिवानले च विहते पुनः सन्धानमाचरेत् ॥ १६॥ य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः । तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ १७॥ एतद्यथोत्तरं कुर्यात् नित्यनैमित्तिकेषु यः । दिव्यं श्रीकण्ठनाथस्य स्थानमाद्यं स गच्छति ॥ १८॥ तत्र भुक्त्वा महाभोगान् कल्पकोटिशतं नरः । कालान्तरे च्युतस्तस्मादौमं कौमारमेव च ॥ १९॥ सम्प्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः । तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ २०॥ पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् । श्रीकण्ठाज्ज्ञानमासाद्य तस्मात् शैवपुरं व्रजेत् ॥ २१॥ अर्द्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु । पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ २२॥ अर्द्धार्द्धचरितो यस्तु देही देहक्षयात्परम् । अण्डान्तं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ २३॥ सम्प्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः । अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ २४॥ पुण्यक्षये क्षितिं प्राप्य कुले महति जायते । तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ २५॥ पशुधर्मान् परित्यज्य शिवधर्मरतो भवेत् । तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ २६॥ भोगांश्च विविधान् भुक्त्वा विद्येश्वरपदं व्रजेत् । तत्र विद्येश्वरैःसार्द्धं भुक्त्वा भोगान् बहून् क्रमात् ॥ २७॥ अण्डस्यान्तर्बहिर्वाथ सकृदावर्तते पुनः । ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ २८॥ शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते । यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ २९॥ शिवधर्मानसौ कुर्वन्नकुर्वन् वापि मुच्यते । एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ३०॥ न पुनश्चक्रवर्ती स्यात् शिवधर्माधिकारवान् । तस्मात् शिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ३१॥ शिवधर्मे मतिं कुर्यात् श्रेयसे चेत्कृतोद्यमः । नात्र निर्बन्धयिष्यामो वयं कञ्चन केनचित् ॥ ३२॥ निर्बन्धेभ्योऽतिवादेभ्यः प्रकृत्यैतन्न रोचते । रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ३३॥ संसारकारणं येषां न प्ररोढुमलं भवेत् । प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ३४॥ शिवधर्मेऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ३५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.२.२८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.२९. एकोनत्रिंशत्तमोऽध्यायः । काम्यकर्मवर्णनम् ।

श्रीकृष्ण उवाच । भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया । स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ १॥ इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् । काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ २॥ उपमन्युरुवाच । अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा । ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ३॥ किञ्चित् क्रियामयं कर्म किञ्चित् कर्म तपोमयम् ॥ ४॥ जपध्यानमयं किञ्चित् किञ्चित् सर्वमयं तथा । क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ५॥ सर्वशक्तिमतामेव नान्येषां सफलं भवेत् । शक्तिश्चाज्ञा महेशस्य शिवस्य परमात्मनः ॥ ६॥ तस्मात् काम्यानि कर्माणि कुर्यादाज्ञाधरो द्विजः । अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७॥ शैवैर्माहेश्वरैश्चैव कार्यमन्तर्बहिः क्रमात् । शिवो महेश्वरश्चेति नात्यन्तमिह भिद्यते ॥ ८॥ यथा तथा न भिद्यन्ते शैवा माहेश्वरा अपि । शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ९॥ माहेश्वराः समाख्याताः कर्मयज्ञरता भुवि । तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा बहिः ॥ १०॥ न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः । परीक्ष्य भूमिं विधिवद् गन्धवर्णरसादिभिः ॥ ११॥ मनोऽभिलषिते तत्र वितानवितताम्बरे । सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ॥ १२॥ प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना । एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ १३॥ आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् । रत्नहेमादिभिश्चूर्णैर्यथासम्भवसम्भृतैः ॥ १४॥ पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् । दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ १५॥ रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् । कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ १६॥ स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् । कर्णिकोपरि चाग्नेयं मण्डलं सौरमैन्दवम् ॥ १७॥ शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् । सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ १८॥ पञ्चावरणसंयुक्तं पूजयेदम्बया सह । शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ॥ १९॥ विद्युद्वलयसङ्काशजटामुकुटभूषितम् । शार्दूलचर्मवसनं किञ्चित्स्मितमुखाम्बुजम् ॥ २०॥ रक्तपद्मदलप्रख्यपादपाणितलाधरम् । सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥ २१॥ दिव्यायुधवरैर्युक्तं दिव्यगन्धानुलेपनम् । पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ २२॥ अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् । त्रिलोचनारविन्दाढ्यं कृतबालेन्दुशेखरम् ॥ २३॥ दक्षिणं नीलजीमूतसमानरुचिरप्रभम् । भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ २४॥ दंष्ट्राकरालं दुर्द्धर्षं स्फुरिताधरपल्लवम् । उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ २५॥ सविलासं त्रिनयनं चन्द्राभरणशेखरम् । पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ २६॥ चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् । पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ॥ २७॥ अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् । दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ २८॥ सव्ये च नागनाराचघण्टापाशाङ्कुशोज्ज्वलम् । निवृत्त्या जानुसम्बद्धमानाभेश्च प्रतिष्ठया ॥ २९॥ आकण्ठं विद्यया तद्वदाललाटं तु शान्तया । तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ३०॥ पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् । ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ३१॥ अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् । सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ३२॥ मातृकामयमीशानं पञ्चब्रह्ममयं तथा । ऊँ काराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ३३॥ तथेच्छात्मिकया शक्त्या समारूढाङ्कमण्डलम् । ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ३४॥ तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् । मूर्तिं मूलेन सङ्कल्प्य सकलीकृत्य च क्रमात् ॥ ३५॥ सम्पूज्य च यथान्यायमर्घान्तं मूलविद्यया । मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ३६॥ तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् । पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ३७॥ ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह । प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ३८॥ शान्तेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः । पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ३९॥ पाद्यादिमुखवासान्तं कृत्वा प्रस्थापनं विना । पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ४०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ ७.२.२९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३०. त्रिंशोऽध्यायः । शैवानां काम्यकर्मवर्णनम् ।

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् । गन्धाद्यैरर्चयेत् पूर्वं देवौ हेरम्बषण्मुखौ ॥ १॥ ततो ब्रह्माणि परित ईशानादि यथाक्रमम् । सशक्तिकानि सद्यान्तं प्रथमावरणे यजेत् ॥ २॥ षडङ्गान्यपि तत्रैव हृदयादीन्यनुक्रमात् । शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ३॥ तत्र वामादिकान् रुद्रानष्टौ वामादिशक्तिभिः । अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ४॥ प्रथमावरणं प्रोक्तं मया ते यदुनन्दन । द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया श‍ृणु ॥ ५॥ अनन्तं पूर्वदिक्पत्रे तच्छक्तिं तस्य वामतः । सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ६॥ ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् । तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७॥ एकरुद्रं च तच्छक्तिं पश्चादीशदलेऽर्चयेत् । त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ८॥ श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः । तथैव मारुते पत्रे शिखण्डीशं समर्चयेत् ॥ ९॥ द्वितीयावरणे चेज्याः सर्वर्तश्चक्रवर्तिनः । तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ १०॥ अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् । भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ११॥ उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् । अनन्तरं ततश्चैव महादेवादयः क्रमात् । शक्तिभिः सह सम्पूज्यास्तत्रैकादशमूर्तयः ॥ १२॥ महादेवः शिवो रुद्रः शङ्करो नीललोहितः । ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ १३॥ कपर्दीशश्च कथ्यन्ते तथैकादशशक्तयः । तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ १४॥ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे । भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ १५॥ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् । नन्दिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ १६॥ शास्तारं वह्निदिक्पत्रे मातृर्दक्षिणदिग्दले । गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ १७॥ ज्येष्ठां वायुदले गौरीमुत्तरे चण्डमैश्वरे । शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ १८॥ महाकालस्योत्तरतः पिङ्गलं तु समर्चयेत् । शास्तृमातृसमूहस्य मध्ये भृङ्गीश्वरं ततः ॥ १९॥ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् । स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ २०॥ ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् । ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ २१॥ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् । अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ २२॥ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् । शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ २३॥ एवं तृतीयावरणं वितते पूजिते सति । चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ २४॥ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः । रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ २५॥ चतुर्णामपि देवानां पृथगावरणान्यथ । तस्याङ्गानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ २६॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् । अमोघा विद्युता चैव पूर्वादिपरितः स्थिताः ॥ २७॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् । पूर्वाद्युत्तरपर्यन्ताः शक्तयश्च ततः परम् ॥ २८॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः । अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ २९॥ विस्तारा पूर्वदिग्भागे सुतारा दक्षिणे स्थिता । बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ ३०॥ उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् । ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ३१॥ सोममङ्गारकं चैव बुधं बुद्धिमतां वरम् । बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ३२॥ शनैश्चरं तथा राहुं केतुं धूम्रं भयङ्करम् । समन्ततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ३३॥ अथवा द्वादशादित्यान् द्वितीयावरणे यजेत् । तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ३४॥ सप्तसप्त गणांश्चैव बहिस्तस्य समन्ततः । ऋषीन्देवांश्च गन्धर्वान्पन्नगानप्सरोगणान् ॥ ३५॥ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् । सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ३६॥ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् । ब्रह्माणमर्चयेत्पश्चात् त्रिभिरावरणैः सहः ॥ ३७॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः । कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ ३८॥ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः । कालो जात्यञ्जनप्रख्यः पुरुषः स्फटिकोपमः ॥ ३९॥ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा । चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ ४०॥ द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् । सनत्कुमारः सनकः सनन्दश्च सनातनः ॥ ४१॥ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् । अष्टौ पूर्वाश्च पूर्वादौ त्री‍न् प्राक्पश्चादनुक्रमात् ॥ ४२॥ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथाङ्गिराः । पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ ४३॥ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे । तेषां भार्य्याश्च तैः सार्द्धं पूजनीया यथाक्रमम् ॥ ४४॥ प्रसूतिश्च तथाऽऽकूतिः ख्यातिः सम्भूतिरेव च । धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ ४५॥ देवमातारुन्धती च सर्वाः खलु पतिव्रताः । शिवार्चनरता नित्यं श्रीमत्यः प्रियदर्शनाः ॥ ४६॥ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् । इतिहासपुराणानि द्वितीयावरणे पुनः ॥ ४७॥ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरःसराः । वैदिक्यो निखिला विद्याः पूज्या एव समन्ततः ॥ ४८॥ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि । अष्टधा वा चतुर्धा वा कृत्वा पूजां समन्ततः ॥ ४९॥ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् । दक्षिणे पश्चिमे पश्चाद् रुद्रं सावरणं यजेत् ॥ ५०॥ तस्य ब्रह्मषडङ्गानि प्रथमावरणं स्मृतम् । द्वितीयावरणं चैव विद्येश्वरमयं तथा ॥ ५१॥ तृतीयावरणे भेदो विद्यते स तु कथ्यते । चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ५२॥ त्रिगुणाः सकलो देवः पुरस्ताच्छिवसंज्ञकः । राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ५३॥ तामसः पश्चिमे चाग्निः पूज्यः संहारको हरः । सात्त्विकः सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ५४॥ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् । समभ्यर्च्योत्तरे पार्श्वे ततो वैकुण्ठमर्चयेत् ॥ ५५॥ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् । अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ ५६॥ सौम्ये सङ्कर्षणं पश्चाद् व्यत्यस्तौ वा यजेदिमौ । प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ ५७॥ मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः । रामश्चान्यतमः कृष्णो भवानश्वमुखोऽपि च ॥ ५८॥ तृतीयावरणे चक्रं पूर्वभागे समर्चयेत् । नारायणाख्यां याम्येऽस्त्रं क्वचिदव्याहतं यजेत् ॥ ५९॥ पश्चिमे पाञ्चजन्यं च शार्ङ्गं धनुरथोत्तरे । एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ ६०॥ महाविष्णुं सदाविष्णुं मूर्त्तीकृत्य समर्चयेत् । इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् । पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ६१॥ प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् । गणाम्बिकां च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ६२॥ एवं भान्वादिमूर्त्तीनां तच्छक्तीनामनन्तरम् । पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ६३॥ इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा । वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ६४॥ एवं चतुर्थावरणं पूजयित्वा विधानतः । आयुधानि महेशस्य पश्चाद् ब्राह्ये समर्चयेत् ॥ ६५॥ श्रीमत् त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे । परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ६६॥ नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे । अङ्कुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ६७॥ पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् । पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ६८॥ सर्वावरणदेवानां बहिर्वा पञ्चमेऽथवा । पञ्चमे मातृभिः सार्द्धं महोक्षं पुरतो यजेत् ॥ ६९॥ ततः समन्ततः पूज्याः सर्वा वै देवयोनयः । खेचरा ऋषयः सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७०॥ अनन्ताद्याश्च नागेन्द्रा नागैस्तत्तत्कुलोद्भवैः । डाकिनी भूतवेतालप्रेतभैरवनायकाः ॥ ७१॥ पातालवासिनश्चान्ये नानायोनिसमुद्भवाः । नद्यः समुद्रा गिरयः काननानि सरांसि च ॥ ७२॥ पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः । नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७३॥ भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः । बहिरण्डान्यसङ्ख्यानि भुवनानि सहाधिपैः ॥ ७४॥ ब्रह्माण्डाधारका रुद्रा दशदिक्षु व्यवस्थिताः । यद्गौणं यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७५॥ यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् । तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७६॥ कृताञ्जलिपुटाः सर्वेऽचिन्त्याः स्मितमुखास्तथा । प्रीत्या सम्प्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७७॥ इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये । पुनरभ्यर्च्य देवेशं पञ्चाक्षरमुदीरयेत् ॥ ७८॥ निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् । सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७९॥ द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् । साधयित्वा यथासम्पच्छ्रद्धया विनिवेदयेत् ॥ ८०॥ ततो निवेद्य पानीयं ताम्बूलं चोपदंशकैः । नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ८१॥ भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् । वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ८२॥ शठस्योपेक्षकस्यापि व्यङ्गं चैवानुतिष्ठतः । न फलन्त्येव कर्माणि काम्यानीति सतां कथा ॥ ८३॥ तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वाङ्गयोगतः । कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ८४॥ इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च । भक्त्या मनः समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ८५॥ ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् । जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ८६॥ विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् । यथोदयं यथाश्रद्धं सदस्यानपि पूजयेत् ॥ ८७॥ तत उद्वास्य देवेशं सर्वैरावरणैः सह । मण्डलं गुरवे दद्याद्यागोपकरणैः सह ॥ ८८॥ शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः । अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ८९॥ शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः । समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ९०॥ एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः । न तस्मादधिकः कश्चिद्यागोऽस्ति भुवने क्वचित् ॥ ९१॥ न तदस्ति जगत्यस्मिन्नसाध्यं यदनेन तु । ऐहिकं वा फलं किञ्चिदामुष्मिकफलं तु वा ॥ ९२॥ इदमस्य फलं नेदमिति नैव नियम्यते । श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ९३॥ इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते । चिन्तामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ९४॥ तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् । लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ९५॥ महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति । महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ९६॥ तस्मादनन्यलभ्येषु शत्रुमृत्युञ्जयादिषु । फलेषु दृष्टादृष्टेषु कुर्य्यादेतद्विचक्षणः ॥ ९७॥ महत्स्वपि च पापेषु महारोगभयादिषु । दुर्भिक्षादिषु शान्त्यर्थं शान्तिं कुर्य्यादनेन तु ॥ ९८॥ बहुना किं प्रलापेन महाव्यापन्निवारकम् । आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ९९॥ तस्मादितः परं नास्ति परित्राणमिहात्मनः । इति मत्वा प्रयुञ्जानः कर्मेदं शुभमश्नुते ॥ १००॥ स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः । सोऽप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ १०१॥ अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् । अष्टाम्यां वा चतुर्दश्यां फलमर्द्धं समाप्नुयात् ॥ १०२॥ यस्त्वर्थमनुसन्धाय पर्वादिषु तथा व्रती । मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ १०३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकर्मवर्णनं नाम त्रिंशोऽध्यायः ॥ ७.२.३०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३१. एकत्रिंशोऽध्यायः । शिवमहास्तोत्रवर्णनम् ।

उपमन्युरुवाच । स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः । योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ १॥ जय जय जगदेकनाथ शम्भो, प्रकृतिमनोहर नित्यचित्स्वभाव । अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ २॥ स्वभावनिर्मलाभोग जय सुन्दरचेष्टित । स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ३॥ अनन्तकान्तिसम्पन्न जयासदृशविग्रह । अतर्क्यमहिमाधार जयानाकुलमङ्गल ॥ ४॥ निरञ्जन निराधार जय निष्कारणोदय । निरन्तरपरानन्द जय निर्वृतिकारण ॥ ५॥ जयातिपरमैश्वर्य जयातिकरुणास्पद । जय स्वतन्त्रसर्वस्व जयासदृशवैभव ॥ ६॥ जयावृतमहाविश्व जयानावृत केनचित् । जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७॥ जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय । जयामेय जयामाय जयाभाव जयामल ॥ ८॥ महाभुज महासार महागुण महाकथ । महाबल महामाय महारस महारथ ॥ ९॥ नमः परमदेवाय नमः परमहेतवे । नमः शिवाय शान्ताय नमः शिवतराय ते ॥ १०॥ त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ ११॥ अतस्त्वद्विहितामाज्ञां क्षमते कोऽतिवर्तितुम् ॥ १२॥ अयं पुनर्जनो नित्यं भवदेकसमाश्रयः । भवानतोऽनुगृह्यास्मै प्रार्थितं सम्प्रयच्छतु ॥ १३॥ जयाम्बिके जगन्मातर्जय सर्वजगन्मयि । जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ १४॥ जय वाङ्मनसातीते जयाचिद्ध्वान्तभञ्जिके । जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ १५॥ जयानेकविधानस्थे जय विश्वेश्वरप्रिये । जय विश्वसुराराध्ये जय विश्वविजृम्भिणि ॥ १६॥ जय मङ्गलदिव्याङ्गि जय मङ्गलदीपिके । जय मङ्गलचारित्रे जय मङ्गलदायिनि ॥ १७॥ नमः परमकल्याणगुणसञ्चयमूर्तये । त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ १८॥ त्वद्विनातः फलं दातुमीश्वरोऽपि न शक्नुयात् । जन्मप्रभृति देवेशि जनोऽयं त्वदुपाश्रितः ॥ १९॥ अतोऽस्य तव भक्तस्य निर्वर्तय मनोरथम् । पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ २०॥ वर्णब्रह्मकलादेहो देवः सकलनिष्कलः । शिवमूर्तिसमारूढः शान्त्यतीतः सदाशिवः । भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ २१॥ सदाशिवाङ्कमारूढा शक्तिरिच्छा शिवाह्वया । जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ २२॥ शिवयोर्दयितौ पुत्रौ देवौ हेरम्बषण्मुखौ । शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ २३॥ तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ । सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ २४॥ सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा । स्वेच्छावतारं कुर्वन्तौ स्वांशभेदैरनेकशः ॥ २५॥ ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ । तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ २६॥ शुद्धस्फटिकसङ्काशमीशानाख्यं सदाशिवम् । मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ २७॥ शिवार्चनरतं शान्तं शान्त्यतीतं खमास्थितम् । पञ्चाक्षरान्तिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ २८॥ प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ २९॥ बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् । पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ३०॥ शान्त्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् । प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ३१॥ पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३२॥ अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् । देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ३३॥ विद्यापादं समारूढं वह्निमण्डलमध्यगम् । द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ३४॥ शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३५॥ कुङ्कुमक्षोदसङ्काशं वामाख्यं वरवेषधृक् । वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ३६॥ वारिमण्डलमध्यस्थं महादेवार्चने रतम् । तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ३७॥ देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३८॥ शङ्खकुन्देन्दुधवलं सद्याख्यं सौम्यलक्षणम् । शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ३९॥ निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् । तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ४०॥ देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ४१॥ शिवस्य तु शिवायाश्च हृन्मूर्त्ती शिवभाविते । तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ४२॥ शिवस्य च शिवायाश्च शिवामूर्त्ती शिवाश्रिते । सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४३॥ शिवस्य च शिवायाश्च वर्मणी शिवभाविते । सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४४॥ शिवस्य च शिवायाश्च नेत्रमूर्त्ती शिवाश्रिते । सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४५॥ अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे । सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४६॥ वामो ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा । बलो विकरणश्चैव बलप्रमथनः परः ॥ ४७॥ सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः । प्रार्थितं मे प्रयच्छन्तु शिवयोरेव शासनात् ॥ ४८॥ अथानन्तश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः । एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ॥ ४९॥ तथाष्टौ शक्तयस्तेषां द्वितीयावरणेऽर्चिताः । ते मे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ५०॥ भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः । महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ५१॥ शक्तिभिः सहिताः सर्वे तृतीयावरणे स्थिताः । सत्कृत्य शिवयोराज्ञां दिशन्तु फलमीप्सितम् ॥ ५२॥ वृषराजो महातेजा महामेघसमस्वनः । मेरुमन्दरकैलासहिमाद्रिशिखरोपमः ॥ ५३॥ सिताभ्रशिखराकारः ककुदा परिशोभितः । महाभोगीन्द्रकल्पेन वालेन च विराजितः ॥ ५४॥ रक्तास्यश‍ृङ्गचरणो रक्तप्रायविलोचनः । पीवरोन्नतसर्वाङ्गः सुचारुगमनोज्ज्वलः ॥ ५५॥ प्रशस्तलक्षणः श्रीमान् प्रज्वलन्मणिभूषणः । शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ५६॥ तथा तच्चरणन्यासपावितापरविग्रहः । गोराजपुरुषः श्रीमान् श्रीमच्छूलवरायुधः । तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ५७॥ नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः । सनारायणकैर्देवैर्नित्यमभ्यर्च्य वन्दितः ॥ ५८॥ शर्वस्यान्तःपुरद्वारि सार्धं परिजनैः स्थितः । सर्वेश्वरसमप्रख्यः सर्वासुरविमर्दनः ॥ ५९॥ सर्वेषां शिवधर्माणामध्यक्षत्वेऽभिषेचितः । शिवप्रियः शिवासक्तः श्रीमच्छूलवरायुधः ॥ ६०॥ शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि । सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ ६१॥ महाकालो महाबाहुर्महादेव इवापरः । महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ ६२॥ शिवप्रियः शिवासक्तः शिवयोरर्चकः सदा । सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ६३॥ सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्णोः परा तनुः । महामोहात्मतनयो मधुमांसासवप्रियः । तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ६४॥ ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा चण्डविक्रमा ॥ ६५॥ एता वै मातरः सप्त सर्वलोकस्य मातरः । प्रार्थितं मे प्रयच्छन्तु परमेश्वरशासनात् ॥ ६६॥ मत्तमातङ्गवदनो गङ्गोमाशङ्करात्मजः । आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः ॥ ६७॥ ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः । शिवज्ञानमदोद्भिन्नस्त्रिदशानामविघ्नकृत् ॥ ६८॥ विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः । सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ६९॥ षण्मुखः शिवसम्भूतः शक्तिवज्रधरः प्रभुः । अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७०॥ गङ्गायाश्च गणाम्बायाः कृत्तिकानां तथैव च । विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७१॥ इन्द्रजिच्चन्द्रसेनानीस्तारकासुरजित्तथा । शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७२॥ तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः । कुमारः सुकुमाराणां रूपोदाहरणं महत् ॥ ७३॥ शिवप्रियः शिवासक्तः शिवपदार्चकः सदा । सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ७४॥ ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजने रता । तयोराज्ञां पुरस्कृत्य सा मे दिशतु काङ्क्षितम् ॥ ७५॥ त्रैलोक्यवन्दिता साक्षादुल्काकारा गणाम्बिका । जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणाभ्यर्थिता शिवात् ॥ ७६॥ शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिःसृताः । दाक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७७॥ कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च । अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७८॥ शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा । सत्कृत्य शिवयोराज्ञां सा मे दिशतु काङ्क्षितम् ॥ ७९॥ चण्डः सर्वगणेशानः शम्भोर्वदनसम्भवः । सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ८०॥ पिङ्गलो गणपः श्रीमान् शिवासक्तः शिवप्रियः । आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ८१॥ भृङ्गीशो नाम गणपः शिवराधनतत्परः । प्रयच्छतु स मे कामं पत्युराज्ञापुरःसरम् ॥ ८२॥ वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः । भद्रकालीप्रियो नित्यं मातृणां चाभिरक्षिता ॥ ८३॥ यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः । उपेन्द्रेन्द्रयमादीनां देवानामङ्गतक्षकः ॥ ८४॥ शिवस्यानुचरः श्रीमान् शिवशासनपालकः । शिवयोः शासनादेव स मे दिशतु काङ्क्षितम् ॥ ८५॥ सरस्वती महेशस्य वाक्सरोजसमुद्भवा । शिवयोः पूजने सक्ता स मे दिशतु काङ्क्षितम् ॥ ८६॥ विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता । शिवयोः शासनादेव सा मे दिशतु काङ्क्षितम् ॥ ८७॥ महामोटी महादेव्याः पादपूजापरायणा । तस्या एव नियोगेन सा मे दिशतु काङ्क्षितम् ॥ ८८॥ कौशिकी सिंहमारूढा पार्वत्याः परमा सुता । विष्णोर्निद्रा महामाया महामहिषमर्दिनी ॥ ८९॥ निशम्भशुम्भसंहर्त्री मधुमांसासवप्रिया । सत्कृत्य शासनं मातुः सा मे दिशतु काङ्क्षितम् ॥ ९०॥ रुद्रा रुद्रसमप्रख्याः प्रमथाः प्रथितौजसः । भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ९१॥ नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः । सशक्तयः सानुचराः सर्वलोकनमस्कृताः ॥ ९२॥ सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः । परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ९३॥ परस्परमतिस्निग्धाः परस्परनमस्कृताः । शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ९४॥ सौम्या घोरास्तथा मिश्राश्चान्तरालद्वयात्मिकाः । विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ९५॥ सत्कृत्य शिवयोराज्ञां ते मे कामं दिशन्तु वै । देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ९६॥ सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः । तृतीयावरणे शम्भोर्भक्त्या नित्यं समर्चितः ॥ ९७॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् । दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमण्डलः ॥ ९८॥ निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः । अविकारात्मकश्चाद्य एकः सामान्यविक्रियः ॥ ९९॥ असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् । एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ १००॥ चतुर्थावरणे शम्भोः पूजितश्चानुगैः सह । शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १०१॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् । दिवाकरषडङ्गानि दीप्ताद्याश्चाष्टशक्तयः ॥ १०२॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः । अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ १०३॥ विस्तरा सुतरा बोधिन्याप्यायिन्यपराः पुनः । उषा प्रभा तथा प्राज्ञा सन्ध्या चेत्यपि शक्तयः ॥ १०४॥ सोमादिकेतुपर्यन्ता ग्रहाश्च शिवभाविताः । शिवयोराज्ञया नुन्ना मङ्गलं प्रदिशन्तु मे ॥ १०५॥ अथवा द्वादशादित्यास्तथा द्वादश शक्तयः । ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः ॥ १०६॥ ग्रामण्यश्च तथा यक्षा राक्षसाश्च सुरास्तथा । सप्त सप्तगणाश्चैते सप्तच्छन्दोमया हयाः ॥ १०७॥ वालखिल्यादयश्चैव सर्वे शिवपदार्चकाः । सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १०८॥ ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः । चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ १०९॥ निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः । अविकारात्मको देवस्ततः साधारणः पुरः ॥ ११०॥ असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् । एवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ १११॥ चतुर्थावरणे शम्भोः पूजितश्च सहानुगैः । शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ११२॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् । हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः ॥ ११३॥ सनत्कुमारः सनकः सनन्दश्च सनातनः । प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ११४॥ एकादश सपत्नीका धर्मः सङ्कल्प एव च । शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ११५॥ शिवाज्ञावशगाः सर्वे दिशन्तु मम मङ्गलम् । चत्वारश्च तथा वेदाः सेतिहासपुराणकाः ॥ ११६॥ धर्मशास्त्राणि विद्याभिर्वैदिकीभिः समन्विताः । परस्पराविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ११७॥ सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे । अथ रुद्रो महादेवः शम्भोर्मूर्तिर्गरीयसी ॥ ११८॥ वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान् प्रभुः । शिवाभिमानसम्पन्नो निर्गुणस्त्रिगुणात्मकः ॥ ११९॥ केवलं सात्त्विकश्चापि राजसश्चैव तामसः । अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ १२०॥ असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् । ब्रह्मणोऽपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ १२१॥ जनकस्तनयश्चापि विष्णोरपि नियामकः । बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ १२२॥ अण्डस्यान्तर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः । शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १२३॥ शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् । तस्य ब्रह्म षडङ्गानि विद्येशानां तथाष्टकम् ॥ १२४॥ चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः । शिवो भवो हरश्चैव मृडश्चैव तथापरः । शिवस्याज्ञां पुरस्कृत्य मङ्गलं प्रदिशन्तु मे ॥ १२५॥ अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः । वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ १२६॥ निर्गुणः सत्त्वबहुलस्तथैव गुणकेवलः । अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ १२७॥ असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् । दक्षिणाङ्गभवेनापि स्पर्धमानः स्वयम्भुवा ॥ १२८॥ आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु । अण्डस्यान्तर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ १२९॥ असुरान्तकरश्चक्री शक्रस्यापि तथानुजः । प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ १३०॥ भूभारनिग्रहार्थाय स्वेच्छयावातरत् क्षितौ । अप्रमेयबलो मायी मायया मोहयन् जगत् ॥ १३१॥ मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा । वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ १३२॥ शिवप्रियः शिवासक्तः शिवपादार्चने रतः । शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ॥ १३३॥ वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च ततः परः । सङ्कर्षणः समाख्याताश्चतस्रो मूर्तयो हरेः ॥ १३४॥ मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ १३५॥ चक्रं नारायणस्यास्त्रं पाञ्चजन्यं च शार्ङ्गकम् । सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३६॥ प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता । शिवयोः शासनादेता मङ्गलं प्रदिशन्तु मे ॥ १३७॥ इन्द्रोऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा । वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ १३८॥ सर्वे शिवार्चनरताः शिवसद्भावभाविताः । सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३९॥ त्रिशूलमथ वज्रं च तथा परशुसायकौ । खड्गपाशाङ्कुशाश्चैव पिनाकश्चायुधोत्तमः ॥ १४०॥ दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः । सत्कृत्य शिवयोराज्ञां रक्षां कुर्वन्तु मे सदा ॥ १४१॥ वृषरूपधरो देवः सौरभेयो महाबलः । वडवाख्यानलस्पर्द्धी पञ्चगोमातृभिर्वृतः ॥ १४२॥ वाहनत्वमनुप्राप्तस्तपसा परमेशयोः । तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ १४३॥ नन्दा सुनन्दा सुरभिः सुशीला सुमनास्तथा । पञ्च गोमातरस्त्वेताः शिवलोके व्यवस्थिताः ॥ १४४॥ शिवभक्तिपरा नित्यं शिवार्चनपरायणाः । शिवयोः शासनादेव दिशन्तु मम वाञ्छितम् ॥ १४५॥ क्षेत्रपालो महातेजा नीलजीमूतसन्निभः । दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ १४६॥ रक्तोर्ध्वमूर्धजः श्रीमान् भृकुटीकुटिलेक्षणः । रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ १४७॥ नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः । भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ १४८॥ क्षेत्रे क्षेत्रे समासीनः स्थितो यो रक्षकः सताम् । शिवप्रणामपरमः शिवसद्भावभावितः ॥ १४९॥ शिवाश्रितान् विशेषेण रक्षन् पुत्रानिवौरसान् । सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ १५०॥ तालजङ्घादयस्तस्य प्रथमावरणेऽर्चिताः । सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ १५१॥ भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः । तेऽपि मामनुगृह्णन्तु शिवशासनगौरवात् ॥ १५२॥ नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः । साध्या नागाश्च ये देवा जनलोकनिवासिनः ॥ १५३॥ विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः । सप्तर्षयस्तथान्ये वै वैमानिकगुणैः सह ॥ १५४॥ सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः । शिवयोराज्ञया मह्यं दिशन्तु समकाङ्क्षितम् ॥ १५५॥ गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः । सिद्धा विद्याधराद्याश्च येऽपि चान्ये नभश्चराः ॥ १५६॥ असुरा राक्षसाश्चैव पातालतलवासिनः । अनन्ताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ १५७॥ कूष्माण्डाः प्रेतवेताला ग्रहा भूतगणाः परे । डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ १५८॥ क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च । द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ १५९॥ गिरयश्च सुमेर्वाद्याः काननानि समन्ततः । पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ १६०॥ भुवनान्यपि सर्वाणि भुवनानामधीश्वराः । अण्डान्यावरणैः सार्धमासाश्च दश दिग्गजाः ॥ १६१॥ वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः । ब्रह्माण्डधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ १६२॥ यच्च किञ्चिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् । सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ १६३॥ अथ विद्या परा शैवी पशुपाशविमोचिनी । पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ १६४॥ शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् । शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसम्मितम् ॥ १६५॥ शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः । शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ १६६॥ ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये । कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६७॥ श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः । तत्सन्ततीया गुरवो विशेषाद् गुरवो मम ॥ १६८॥ शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः । कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६९॥ लौकिका ब्राह्मणाः सर्वे क्षत्रियाश्च विशः क्रमात् । वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १७०॥ साङ्ख्या वैशेषिकाश्चैव यौगा नैयायिका नराः । सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ १७१॥ शिष्टाः सर्वे विशिष्टाश्च शिवशासनयन्त्रिताः । कर्मेदमनुमन्यन्तां ममाभिप्रेतसाधकम् ॥ १७२॥ शैवाः सिद्धान्तमार्गस्थाः शैवाः पाशुपतास्तथा । शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ १७३॥ शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् । सर्वे ममानुगृह्णन्तु शंसन्तु सफलक्रियाम् ॥ १७४॥ दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः । अविरोधेन वर्तन्तां मन्त्रं श्रेयोऽर्थिनो मम ॥ १७५॥ नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः । पाषण्डाश्चातिपापाश्च वर्तन्तां दूरतो मम ॥ १७६॥ बहुभिः किं स्तुतैरत्र येऽपि केऽपि चिदास्तिकाः । सर्वे मामनुगृह्णन्तु सन्तः शंसन्तु मङ्गलम् ॥ १७७॥ नमः शिवाय साम्बाय ससुतायादिहेतवे । पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ १७८॥ इत्युक्त्वा दण्डवद् भूमौ प्रणिपत्य शिवं शिवाम् । जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ १७९॥ तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् । कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ १८०॥ एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयङ्गमम् । सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ १८१॥ य इदं कीर्तयेन्नित्यं श‍ृणुयाद्वा समाहितः । स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ १८२॥ गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा । शरणागतघाती च मित्रविश्रम्भघातकः ॥ १८३॥ दुष्टपापसमाचारो मातृहा पितृहापि वा । स्तवेनानेन जप्तेन तत्तत्पापात् प्रमुच्यते ॥ १८४॥ दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च । यदि सङ्कीर्तयेदेतन्न ततोऽनर्थभाग्भवेत् ॥ १८५॥ आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् । स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ १८६॥ असम्पूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् । सम्पूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ १८७॥ आस्तामियं फलावाप्तिरस्मिन् सङ्कीर्तिते सति । सार्धमम्बिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ १८८॥ तस्मान्नभसि सम्पूज्य देवदेवं सहोमया । कृताञ्जलिपुटस्तिष्ठन् स्तोत्रमेतदुदीरयेत् ॥ १८९॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशोऽध्यायः ॥ ७.२.३१॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३२. द्वात्रिंशोऽध्यायः । ऐहिकसिद्धिकर्मवर्णनम् ।

उपमन्युरुवाच । एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् । क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ १॥ अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् । पूजाहोमजपध्यानतपोदानमयं महत् ॥ २॥ तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः । दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ३॥ सिद्धमन्त्रोऽप्यदृष्टेन प्रबलेन तु केनचित् । प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ४॥ तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः । परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ५॥ योऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः । न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ६॥ अविस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् । स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७॥ नापराधोऽस्ति देवस्य कर्मण्यपि तु निष्फले । यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ८॥ साधकः सिद्धमन्त्रश्च निरस्तप्रतिबन्धकः । विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ९॥ अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् । रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ १०॥ हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् । सदा भस्मानुलिप्ताङ्गः सुवेषश्च शुचिर्भवेत् ॥ ११॥ इत्थमाचारवान्भूत्वा स्वानुकूले शुभेऽहनि । पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलङ्कृते ॥ १२॥ आलिप्य शकृता भूमिं हस्तमानावरां यथा । विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ १३॥ तप्तजाम्बूनदमयमष्टपत्रं सकेसरम् । मध्ये कर्णिकया युक्तं सर्वरत्नैरलङ्कृतम् ॥ १४॥ स्वाकारसदृशेनैव नालेन च समन्वितम् । तादृशे स्वर्णनिर्माणे कन्दे सम्यग्विधानतः ॥ १५॥ तत्राणिमादिकं सर्वं सङ्कल्प्य मनसा पुनः । रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् । लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥ १६॥ तत्रावाह्य यजेद्देवं साम्बं सगणमव्ययम् । तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ १७॥ चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता । शार्दूलचर्मवसना किञ्चिद्विहसितानना ॥ १८॥ वरदाभयहस्ता च मृगटङ्कधरा तथा । अथवाष्टभुजा चिन्त्या चिन्तकस्य यथारुचि ॥ १९॥ तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे । वामे पाशाङ्कुशौ तद्वत्खेटं नागं च बिभ्रती ॥ २०॥ बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना । तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ २१॥ दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् । उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ २२॥ पश्चिमं पूर्णचन्द्राभं सौम्यमिन्दुकलाधरम् । तदङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा ॥ २३॥ महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा । मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ २४॥ मूर्तिमन्तमथावाह्य यजेत्परमकारणम् । स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ २५॥ पञ्चामृतं च पूर्णानि बीजानि च विशेषतः । पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलङ्कृतम् ॥ २६॥ कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः । सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ २७॥ ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् । तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ २८॥ पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् । दुकूलाद्येन वस्त्रेण समाच्छाद्य समन्ततः ॥ २९॥ सर्वत्र मन्त्रं विन्यस्य तत्तन्मन्त्रपुरः सरम् । स्नानकाले तु सम्प्राप्ते सर्वमङ्गलनिःस्वनैः ॥ ३०॥ पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् । ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ३१॥ गन्धपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् । उद्धृत्योद्धृत्य मन्त्रेण तैस्तैः स्नाप्य महेश्वरम् ॥ ३२॥ गन्धपुष्पादिदीपांश्च पूजाकर्म समाचरेत् । पलावरः स्यादालेप एकादशपलोत्तरः ॥ ३३॥ सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च । नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ३४॥ कमलानि च रक्तानि श्वेतान्यपि च शम्भवे । कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ३५॥ कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः । पञ्च ब्रह्मषडङ्गानि पूज्यान्यावरणानि च ॥ ३६॥ नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः । पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ३७॥ पञ्चसौगन्धिकोपेतं ताम्बूलं च सुसंस्कृतम् । सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ३८॥ वासांसि च विचित्राणि सूक्ष्माणि च नवानि च । दर्शनीयानि देयानि गानवाद्यादिभिः सह ॥ ३९॥ जपश्च मूलमन्त्रस्य लक्षः परमसङ्ख्यया । एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ४०॥ दशसङ्ख्यावरो होमः प्रतिद्रव्यं शतोत्तरः । घोररूपश्शिवश्चिन्त्यो मारणोच्चाटनादिषु ॥ ४१॥ शिवलिङ्गे शिवाग्नौ च ह्यन्यासु प्रतिमासु च । चिन्त्यः सौम्यतनुः शम्भुः कार्ये शान्तिकपौष्टिके ॥ ४२॥ आयसौ स्रुक्स्रुवौ कार्यौ मारणादिसु कर्मसु । तदन्यत्र तु सौवर्णौ शान्तिकाद्येषु कृत्स्नशः ॥ ४३॥ दूर्वया घृतगोक्षीरमिश्रया मधुना तथा । चरुणा सघृतेनैव केवलं पयसापि वा ॥ ४४॥ जुहुयान्मृत्युविजये तिलै रोगोपशान्तये । घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ४५॥ समृद्धिकामो जुहुयान्महादारिद्र्यशान्तये । जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ४६॥ घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः । तैलेनोच्चाटनं कुर्यात्स्तम्भनं मधुना पुनः ॥ ४७॥ स्तम्भनं सर्षपेणापि लशुनेन तु पातनम् । ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ४८॥ मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः । विद्वेषणं च तैलेन कुर्याल्लाङ्गलकस्य तु ॥ ४९॥ बन्धनं रोहिबीजेन सेनास्तम्भनमेव च । रक्तसर्षपसम्मिश्रैर्होमद्रव्यैरशेषतः ॥ ५०॥ हस्तयन्त्रोद्भवैस्तैलैर्जुहुयादाभिचारिके । कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ५१॥ सर्षपैस्तैलसम्मिश्रैर्जुहुयादाभिचारिके । ज्वरोपशान्तिदं क्षीरं सौभाग्यफलदं तथा ॥ ५२॥ सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः । क्षीरेण तन्दुलैश्चैव चरुणा केवलेन वा ॥ ५३॥ शान्तिकं पौष्टिकं वापि सप्तभिः समिदादिभिः । द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ५४॥ वश्यमाकर्षणं चैव श्रीपदं च विशेषतः । बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ५५॥ समिधः शान्तिकार्येषु पालाशखदिरादिकाः । करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ५६॥ प्रशान्तः शान्तिकं कुर्यात्पौष्टिकं च विशेषतः । निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ५७॥ अतीव दुरवस्थायां प्रतीकारान्तरं न चेत् । आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ५८॥ स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् । यद्यास्तिकः सुधर्मिष्ठो मान्यो वा योऽपि कोऽपि वा ॥ ५९॥ तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत । मनसा कर्मणा वाचा योऽपि कोऽपि शिवाश्रितः ॥ ६०॥ स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा । कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ६१॥ स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन । न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ६२॥ अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् । पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ६३॥ बाणलिङ्गेऽपि वा कुर्यान्निर्धनो धनवानपि । स्वयम्भूतेऽथ वा लिङ्गे आर्षके वैदिकेऽपि वा ॥ ६४॥ अभावे हेमरत्नानामशक्तौ च तदर्जने । मनसैवाचरेदेतद् द्रव्यैर्वा प्रतिरूपकैः ॥ ६५॥ क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके । सोऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ६६॥ कर्मण्यनुष्ठितेऽप्यस्मिन्फलं यत्र न दृश्यते । द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ६७॥ पूजोपयुक्तं यद् द्रव्यं हेमरत्नाद्यनुत्तमम् । तत्सर्वं गुरवे दद्याद् दक्षिणां च ततः पृथक् ॥ ६८॥ स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् । अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ६९॥ यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया । सोऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७०॥ स्वयं गृह्णाति यो लोभात्पूजाङ्गद्रव्यमुत्तमम् । काङ्क्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७१॥ अर्चितं यत्तु तल्लिङ्गं गृह्णीयाद्वा न वा स्वयम् । गृह्णीयाद्यदि तन्नित्यं स्वयं वान्योऽपि वार्चयेत् ॥ ७२॥ यथोक्तमेव कर्मैतदाचरेद्योऽनपायतः । फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७३॥ तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमाम् । अपि शत्रुभिराक्रान्तो व्याधिभिर्वाप्यनेकशः ॥ ७४॥ मृत्योरास्यगतश्चापि मुच्यते निरपायतः । पूजायतेऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७५॥ कामायते विरूपोऽपि वृद्धोऽपि तरुणायते । शत्रुर्मित्रायते सद्यो विरोधी किङ्करायते ॥ ७६॥ विषायते यदमृतं विषमप्यमृतायते । स्थलायते समुद्रोऽपि स्थलमप्यर्णवायते ॥ ७७॥ महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः । पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७८॥ वनायते यदुद्यानं तदुद्यानायते वनम् । सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७९॥ स्त्रियोऽभिसारिकायन्ते लक्ष्मीः सुचरितायते । स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ८०॥ स्वैराचारायते मेधा वज्रसूचीयते मनः । महावातायते शक्तिर्बलं मत्तगजायते ॥ ८१॥ स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया । शत्रुपक्षायतेऽरीणां सर्व एव सुहृज्जनः ॥ ८२॥ शत्रवः कुणपायन्ते जीवन्तोऽपि सबान्धवाः । आपन्नोऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ८३॥ रसायनायते नित्यमपथ्यमपि सेवितम् । अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ८४॥ अनागतादिकं सर्वं करस्थामलकायते । यादृच्छिकफलायन्ते सिद्धयोऽप्यणिमादयः ॥ ८५॥ बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु । अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ८६॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.२.३२॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३३. त्रयस्त्रिंशोऽध्यायः । आमुष्मिककर्मविधिवर्णनम् ।

उपमन्युरुवाच । अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् । नैतेन सदृशं किञ्चित्कर्मास्ति भुवनत्रये ॥ १॥ पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः । ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ २॥ इन्द्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः । विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ३॥ श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः । नन्दीश्वरमहाकालभृङ्गीशाद्यैर्गणेश्वरैः ॥ ४॥ पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः । सिद्धैर्यक्षैश्च गन्धर्वै रक्षोभूतपिशाचकैः ॥ ५॥ स्वं स्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः । अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ६॥ ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः । रुद्रो रुद्रत्वमापन्न इन्द्रश्चेन्द्रत्वमागतः ॥ ७॥ गणेशश्च गणेशत्वमनेन विधिना गतः । सितचन्दनतोयेन लिङ्गं स्नाप्य शिवं शिवाम् । श्वेतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च ॥ ८॥ तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् । विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ९॥ मध्ये केसरजालास्य स्थाप्य लिङ्गं कनीयसम् । अङ्गुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ १०॥ दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् । अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ११॥ उत्तरे चन्दनं दद्याद्धरितालं तु पूर्वतः । सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ १२॥ धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् । वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ १३॥ पायसं घृतसम्मिश्रं घृतदीपांश्च दापयेत् । सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ १४॥ प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् । सर्वोपहारसम्मिश्रं ततो लिङ्गं निवेदयेत् ॥ १५॥ शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः । एवं योऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ १६॥ सर्वपापविनिर्मुक्तः शिवलोके महीयते । एतद् व्रतोत्तमं गुह्यं शिवलिङ्गमहाव्रतम् ॥ १७॥ भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् । देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ १८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.२.३३॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३४. चतुस्त्रिंशोऽध्यायः । हरिविधिमोहवर्णनम् ।

उपमन्युरुवाच । नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता । सा सर्वा लभ्येत सद्यो लिङ्गबेरप्रतिष्ठया ॥ १॥ सर्वो लिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् । तस्मात्प्रतिष्ठिते लिङ्गे भवेत्सर्वं पतिष्ठितम् ॥ २॥ ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा । लिङ्गप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ३॥ किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् । पर्तिष्ठितं शिवेनापि लिङ्गं वैश्वेश्वरं यतः ॥ ४॥ तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे । स्थापयेत्परमेशस्य लिङ्गं बेरमथापि वा ॥ ५॥ श्रीकृष्ण उवाच । किमिदं लिङ्गमाख्यातं कथं लिङ्गी महेश्वरः । कथं च लिङ्गभावोऽस्य कस्मादस्मिञ्छिवोऽर्च्यते ॥ ६॥ उपमन्युरुवाच । अव्यक्तं लिङ्गमाख्यातं त्रिगुणप्रभवाप्ययम् । अनाद्यनन्तं विश्वस्य यदुपादानकारणम् ॥ ७॥ तदेव मूलप्रकृतिर्माया च गगनात्मिका । तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ८॥ अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा । ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ९॥ भूतानि चेन्द्रियैर्जाता लीयन्तेऽत्र शिवाज्ञया । अत एव शिवो लिङ्गो लिङ्गमाज्ञापयेद्यतः ॥ १०॥ यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः । ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ११॥ अनेन लिङ्गता तस्य भवेन्नान्येन केनचित् । लिङ्गं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ १२॥ अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् । लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः ॥ १३॥ तयोः सम्पूजनादेव स च सा च समर्चितौ । न तयोर्लिङ्गदेहत्वं विद्यते परमार्थतः ॥ १४॥ यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः । तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ १५॥ शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् । न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ १६॥ येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि । पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ १७॥ वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् । यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ १८॥ ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् । मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ १९॥ कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् । स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ २०॥ प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् । तमाह चान्तः सङ्क्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ २१॥ कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद । इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ २२॥ रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत । वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ २३॥ मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः । त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ २४॥ संहरामि नमे कश्चित्स्रष्टा जगति विद्यते । इत्युक्ते सति सोऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ २५॥ अहमेवादिकर्तास्य हर्ता च परिपालकः । भवानपि ममैवाङ्गादवतीर्णः पुराव्ययात् ॥ २६॥ मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् । सृजस्यवसि चान्ते तत्पुनः प्रतिसृजस्यपि ॥ २७॥ विस्मृतोऽसि जगन्नाथं नारायणमनामयम् । तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ २८॥ तवापराधो नास्त्यत्र भ्रान्तोऽसि मम मायया । मत्प्रसादादियं भ्रान्तिरपैष्यति तवाचिरात् ॥ २९॥ श‍ृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् । कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ३०॥ एवमेव विवादोऽभूद् ब्रह्मविष्ण्वोः परस्परम् । अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ३१॥ मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः । तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ३२॥ मध्ये समाविरभवल्लिङ्गमैश्वरमद्भुतम् । ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ३३॥ क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् । तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ३४॥ विसृज्य युद्धं किं त्वेतदित्यचिन्तयतां तदा । न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ३५॥ तदा समुद्यतौ स्यातां तस्याद्यन्तं परीक्षितुम् ॥ ३६॥ तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः । मनोऽनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ३७॥ नारायणोऽपि विश्वात्मा नीलाञ्जनचयोपमम् । वाराहममितं रूपमास्थाय गतवानधः ॥ ३८॥ एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः । नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः ॥ ३९॥ तावत्कालं गतश्चोर्ध्वं तस्यान्तं ज्ञातुमिच्छया । श्रान्तोऽत्यन्तमदृष्ट्वान्तं पापताधः पितामहः ॥ ४०॥ तथैव भगवान् विष्णुः श्रान्तः संविग्नलोचनः । क्लेशेन महता तूर्णमधस्तादुत्थितोऽभवत् ॥ ४१॥ समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ । मायया मोहितौ शम्भोः कृत्याकृत्यं न जग्मतुः ॥ ४२॥ पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ । प्रणिपत्य किमात्मेदमित्यचिन्तयतां तदा ॥ ४३॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.२.३४॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३५. पञ्चत्रिंशोऽध्यायः । हरिविधिमोहनिवारणम् ।

उपमन्युरुवाच । अथाविरभवत्तत्र सनादं शब्दलक्षणम् । ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ १॥ तदप्यविदितं तावद् ब्रह्मणा विष्णुना तथा । रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ २॥ तदा विभक्तमभवच्चतुर्द्धैकं तदक्षरम् । अ उ मेति त्रिमात्राभिः परस्ताच्चार्द्धमात्रया ॥ ३॥ तत्राकारः श्रितो भागे ज्वलल्लिङ्गस्य दक्षिणे । उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ४॥ अर्धमात्रात्मको नादः श्रूयते लिङ्गमूर्धनि । विभक्तेऽपि तदा तस्मिन् प्रणवे परमाक्षरे ॥ ५॥ विभावार्थं च तौ देवौ न किञ्चिदवजग्मतुः । वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ६॥ तत्राकारो ऋगभवदुकारो यजुरव्ययः । मकारः साम सञ्जातो नादस्त्वाथर्वणी श्रुतिः ॥ ७॥ ऋगयं स्थापयामास समासात्त्वर्थमात्मनः । रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ८॥ सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् । कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ९॥ लिङ्गभागेष्वधोभागं बीजाख्यं कारणत्रये । चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ १०॥ तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् । अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ११॥ सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि । स्थितिं लोकेष्वन्तरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ १२॥ कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु । मध्यं तु लिङ्गभागेषु योनिं च त्रिषु हेतुषु ॥ १३॥ प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् । ततोपस्थापयामास सामार्थं दशधात्मनः ॥ १४॥ तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च । संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ १५॥ विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु । लिङ्गभागेषु पीठोर्द्ध्वं बीजिनं कारणत्रये ॥ १६॥ पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् । अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ १७॥ ततो महेश्वरं साक्षात् मूर्तिष्वपि सदाशिवम् । क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ १८॥ भूतानुग्रहणं चैव मुच्यन्ते येन जन्तवः । लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ १९॥ तदूर्ध्वमुन्मनालोकात् सोमलोकमलौकिकम् । सोमः सहोमया यत्र नित्यं निवसतीश्वरः ॥ २०॥ तदूर्ध्वमुन्मनालोकाद्यं प्राप्तो न निवर्तते । शान्तिं च शान्त्यतीतां च व्यापिकां चै कलास्वपि ॥ २१॥ तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु । मूर्द्धानमपि लिङ्गस्य नादभागेष्वनुत्तमम् ॥ २२॥ यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः । तत्तेष्वपि तदा बिन्दोर्नादात् शक्तेस्ततः परात् ॥ २३॥ तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः । कारणेषु त्रयातीतान् मायाविक्षोभकारणात् ॥ २४॥ अनन्तात् शुद्धविद्यायाः परस्ताच्च महेश्वरात् । सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ २५॥ सर्वमन्त्रतनोर्देवात् शक्तित्रयसमन्वितात् । पञ्चवक्त्राद्दशभुजात् साक्षात् सकलनिष्कलात् ॥ २६॥ तस्मादपि पराद्बिन्दोरर्धेदोश्च ततः परात् । ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ २७॥ ततः परात् सुषुम्नेशाद् ब्रह्मरन्ध्रेश्वरादपि । ततः परस्मात् शक्तेश्च परस्तात् शिवतत्त्वतः ॥ २८॥ परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् । कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ २९॥ परमाकाशमध्यस्थं परमात्मोपरि स्थितम् । सर्वैश्वर्येण सम्पन्नं सर्वेश्वरमनीश्वरम् ॥ ३०॥ ऐश्वर्याच्चापि मायेयादशुद्धान् मानुषादिकात् । अपराच्च परात्त्याज्यादविशुद्धाध्वगोचरात् ॥ ३१॥ तत्परात् शुद्धविद्याद्यादुन्मनान्तात्परात्परात् । परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ३२॥ अपारमपराधीनं निरस्तातिशयं स्थिरम् । इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ३३॥ यस्माद् गरीयसी तस्माद्विश्वं व्याप्तमथर्वणा । ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ३४॥ येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः । यजुर्वेदोऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ३५॥ भोग्यात्मना परिणता विद्या वेद्या यतो मयि । साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ३६॥ ममार्थेन शिवेनेदं तामसेनाभिधीयते । अथर्वाह तुरीयाख्यं तुरीयातीतमेव च ॥ ३७॥ मयाभिधीयते तस्मादध्वातीतपदोऽस्म्यहम् । अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ३८॥ तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा । अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ३९॥ तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् । द्वयोः प्रमापको नादो नादान्तश्च मदात्मकः ॥ ४०॥ तस्मात् ममार्थस्वातन्त्र्यात् प्रधानः परमेश्वरः । यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ॥ ४१॥ समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते । सर्वार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ४२॥ तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः । शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ४३॥ वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः । चिन्तया रहितो रुद्रो वाचो यन्मनसा सह ॥ ४४॥ अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः । एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ४५॥ एकाक्षरादुकाराख्याद् विद्या विष्णुरुदीर्यते । एकाक्षरान्मकाराख्यात् शिवो रुद्र उदाहृतः ॥ ४६॥ दक्षिणाङ्गान् महेशस्य जातो ब्रह्मात्मसंज्ञकः । वामाङ्गादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ४७॥ हृदयान्नीलरुद्रोऽभूच्छिवस्य शिवसंज्ञकः । सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ४८॥ संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ४९॥ तस्मात्त्रयस्ते कथ्यन्ते जगतः कारणानि च । कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ५०॥ अर्थमेतमविज्ञाय रजसा बद्धवैरयोः । युवयोः प्रतिबोधाय मध्ये लिङ्गमुपस्थितम् ॥ ५१॥ एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा । ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ५२॥ वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्थं वदत्स्वपि । स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ५३॥ तयोस्तत्र प्रबोधाय तमोपनयनाय च । लिङ्गेऽपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ५४॥ तद् दृष्ट्वा मुद्रितं लिङ्गे प्रसादाल्लिङ्गिनस्तदा । प्रशान्तमनसौ देवौ प्रबुद्धौ सम्बभूवतुः ॥ ५५॥ उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् । ततः परतरं धाम धामवन्तं च पूरुषम् ॥ ५६॥ निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् । पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ५७॥ अकुतोभयमत्यन्तमवृद्धिक्षयमव्ययम् । वाह्यमाभ्यन्तरं व्याप्तं बाह्याभ्यन्तरवर्जितम् ॥ ५८॥ निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् । अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ५९॥ प्रकाशैकरसं शान्तं प्रसन्नं सततोदितम् । सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ६०॥ ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा । रचयित्वाञ्जलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ६१॥ ब्रह्मोवाच । अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः । ईदृशीं भ्रान्तिमापन्न इति कोऽत्रापराध्यति ॥ ६२॥ आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो । निर्भयः कोऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ६३॥ आवयोर्देवदेवस्य विवादोऽपि हि शोभनः । पादप्रणामफलदो नाथस्य भवतो यतः ॥ ६४॥ विष्णुरुवाच । स्तोतुं देव न वागस्ति महिम्नः सदृशी तव । प्रभोरग्रे विधेयानां तूष्णीम्भावो व्यतिक्रमः ॥ ६५॥ किमत्र सङ्घटेत्कृत्यमित्येवावसरोचितम् । अजानन्नपि यत्किञ्चित् प्रलप्य त्वां नतोऽस्म्यहम् ॥ ६६॥ कारणत्वं त्वया दत्तं विस्मृतं तव मायया । मोहितोऽहङ्कृतश्चापि पुनरेवास्मि शासितः ॥ ६७॥ विज्ञापितैः किं बहुभिर्भीतोऽस्मि भृशमीश्वर । यतोऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ६८॥ त्वामुशन्ति महादेवं भीतानामार्तिनाशनम् । अतो व्यतिक्रमं मेऽद्य क्षन्तुमर्हसि शङ्कर ॥ ६९॥ इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः । प्रीतोऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७०॥ ईश्वर उवाच । वत्स वत्स विधे विष्णो मायया मम मोहितौ । युवां प्रभुत्वेऽहङ्कृत्य बुद्धवैरौ परस्परम् ॥ ७१॥ विवादं युद्धपर्यन्तं कृत्वा नोपरतौ किल । ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७२॥ अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि । तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७३॥ एवं निवारितावद्यलिङ्गाविर्भावलीलया । तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७४॥ यथास्वं कर्म कुर्यातां भवन्तौ वीतमत्सरौ । पुरा ममाज्ञया सार्द्धं समस्तज्ञानसंहिताः ॥ ७५॥ युवाभ्यां हि मया दत्ताः कारणत्वप्रसिद्धये । मन्त्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७६॥ मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् । ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७७॥ यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे । एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७८॥ मन्त्रराजं ददौ ताभ्यां ज्ञानसंहितया सह । तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७९॥ महार्थं मन्त्ररत्नं च तथैव सकलाः कलाः । दण्डवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ८०॥ अतिष्ठतां वीतभयावानन्दास्तिमितौ तदा । एतस्मिन्नन्तरे चित्रमिन्द्रजालवदैश्वरम् ॥ ८१॥ लिङ्गं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते । ततो विलप्य हाहेति सद्यःप्रणयभङ्गतः ॥ ८२॥ किमद्भुतमिदं वृत्तमिति चोक्त्वा परस्परम् । अचिन्त्यवैभवं शम्भोर्विचिन्त्य च गतव्यथौ ॥ ८३॥ अभ्युपेत्य परां मैत्रीमालिङ्ग्य च परस्परम् । जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुङ्गवौ ॥ ८४॥ ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः । ऋषयश्च नरा नागा नार्यश्चापि विधानतः । लिङ्गप्रतिष्ठां कुर्वन्ति लिङ्गे तं पूजयन्ति च ॥ ८५॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.२.३५॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३६. षट्त्रिंशोऽध्यायः । प्रतिष्ठाविधिवर्णनम् ।

श्रीकृष्ण उवाच । भगवन् श्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् । लिङ्गस्यापि च बेरस्य शिवेन विहितं यथा ॥ १॥ उपमन्युरुवाच । अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके । शिवशास्त्रोक्तमार्गेण कुर्याल्लिङ्गं प्रमाणवत् ॥ २॥ स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च । दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ३॥ तेषां दशोपचाराणां पूर्वं पूज्य विनायकम् । स्थानशुद्ध्यादिकं कृत्वा लिङ्गं स्नानालयं नयेत् ॥ ४॥ शलाकया काञ्चनया कुङ्कुमादिरसाक्तया । लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ५॥ अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा । लिङ्गं पिण्डिकया सार्द्धं पञ्चगव्यैश्च शोधयेत् ॥ ६॥ सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् । नीत्वाधिवासयेत्तत्र लिङ्गं पिण्डिकया सह ॥ ७॥ अधिवासालये शुद्धे सर्वशोभासमन्विते । सतोरणे सावरणे दर्भमालासमावृते ॥ ८॥ दिग्गजाष्टकसम्पन्ने दिक्पालाष्टघटान्विते । अष्टमङ्गलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ९॥ तैजसं दारवं वापि कृत्वा पद्मासनाङ्कितम् । विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ १०॥ द्वारपालान् समभ्यर्च्य भद्रादींश्चतुरःक्रमात् । सुभद्रश्च विभद्रश्च सुनन्दश्च विनन्दकः ॥ ११॥ स्नापयित्वा समभ्यर्च्य लिङ्गं वेदिकया सह । सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्य समन्ततः ॥ १२॥ प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् । प्राक् शिरस्कमधः सूत्रं पिण्डिकां चास्य पश्चिमे ॥ १३॥ सर्वमङ्गलसंयुक्तं लिङ्गं तत्राधिवासयेत् । पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ १४॥ विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् । सम्पूज्योत्सवमार्गेण शयनालयमानयेत् ॥ १५॥ तत्रापि शयनस्थानं कुर्यात् मण्डलमध्यतः । शुद्धैर्जलैः स्नापयित्वा लिङ्गमभ्यर्चयेत्क्रमात् ॥ १६॥ ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले । शिवकुम्भं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ १७॥ वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः । तस्य पश्चिमतश्चापि चण्डिकापद्ममालिखेत् ॥ १८॥ क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा । प्रकल्प्य शयनं तस्मिन् हेमपुष्पं विनिक्षिपेत् ॥ १९॥ तत्र लिङ्गं समानीय सर्वमङ्गलनिःस्वनैः । रक्तेन वस्त्रयुग्मेन सकूर्चेन समन्ततः ॥ २०॥ सह पिण्डिकयावेष्ट्य शाययेच्च यथा पुरा । पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ २१॥ विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्द्धनीम् । परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ २२॥ ते चाष्टमूर्त्तयः कल्प्याः पूर्वादिपरितः स्थिताः । चत्वारश्चाथ वा दिक्षु स्वध्येतारः सजापकाः ॥ २३॥ जुहुयुस्ते विरञ्च्याद्याश्चतस्रो मूर्तयः स्मृताः । देशिकः प्रथमं तेषामैशान्यां पश्चिमेऽथ वा ॥ २४॥ प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् । आचार्यात् पादमर्द्धं वा जुहुयुश्चापरे द्विजाः ॥ २५॥ प्रधानमेकमेवात्र जुहुयादथ वा गुरुः । पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ २६॥ मूर्ध्नि मूलेन लिङ्गस्य शिवहस्तं प्रविन्यसेत् । शतमर्द्धं तदर्द्धं वा क्रमाद् द्रव्यैश्च सप्तभिः ॥ २७॥ हुत्वा हुत्वा स्पृशेल्लिङ्गं वेदिकां च पुनः पुनः । पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ २८॥ आचार्यात् पादमर्द्धं वा होतृणां स्थपतेरपि । तदर्द्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ २९॥ ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च । मृदम्भसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ३०॥ शोधितां चन्दनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् । करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ३१॥ हरितालादिधातूंश्च बीजगन्धौषधैरपि । शिवशास्त्रोक्तविधिना क्षिपेद् ब्रह्मशिलोपरि ॥ ३२॥ प्रतिलिङ्गं तु संस्थाप्य क्षीरवृक्षसमुद्भवम् । स्थितं बुद्ध्वा तदुत्सृज्य लिङ्गं ब्रह्मशिलापरि ॥ ३३॥ प्रागुदक्प्रवरां किञ्चित् स्थापयेन्मूलविद्यया । पिण्डिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ३४॥ बन्धनं बन्धकद्रव्यैः कृत्वा स्थानं विशोध्य च । दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ३५॥ यथायोग्यं निषेकादि लिङ्गस्य पुरतस्तदा । आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ३६॥ महापूजामथारभ्य सम्पूज्य कलशान्दश । शिवमन्त्रमनुस्मृत्य शिवकुम्भजलान्तरे ॥ ३७॥ अङ्गुष्ठानामिकायोगादादाय तमुदीरयेत् । न्यसेदीशानभागस्य मध्ये लिङ्गस्य मन्त्रवित् ॥ ३८॥ शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् । लिङ्गमूले शिवजलैस्ततो लिङ्गं निषेचयेत् ॥ ३९॥ वर्द्धन्या पिण्डिकां लिङ्गं विद्येशकलशैः पुनः । अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ४०॥ कृत्वा पञ्चकलान्यासं दीप्तं लिङ्गमनुस्मरेत् । आवाहयेत् शिवौ साक्षात् प्राञ्जलिः प्रागुदङ्मुखः ॥ ४१॥ वृषाधिराजमारुह्य विमानं वा नभस्तलात् । अलङ्कृतं सहायान्तं देव्या देवमनुस्मरन् । सर्वाभरणशोभाढ्यं सर्वमङ्गलनिःस्वनैः ॥ ४२॥ ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः । आनन्दक्लिन्नसर्वाङ्गैर्विन्यस्ताञ्जलिमस्तकैः ॥ ४३॥ स्तुवद्भिरेव नृत्यद्भिर्नमद्भिरभितो वृतम् । ततः पञ्चोपचारैश्च कृत्वा पूजां समापयेत् ॥ ४४॥ नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् । प्रतिष्ठां लिङ्गवत्कुर्यात् प्रतिमास्वपि सर्वतः ॥ ४५॥ लक्षणोद्धारसमये कार्यं नयनमोचनम् । जलाधिवासे शयने शाययेत्तांस्त्वधोमुखीम् ॥ ४६॥ कुम्भोदशायितां मन्त्रैर्हृदि तां सन्नियोजयेत् । कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ४७॥ शक्तः कृतालयः पश्चात् प्रतिष्ठाविधिमाचरेत् । अशक्तश्चेत्प्रतिष्ठाप्य लिङ्गं बेरमथापि वा ॥ ४८॥ शक्तेरनुगुणं पश्चात् प्रकुर्वीत शिवालयम् । गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ४९॥ कृत्वा कनीयसं बेरं लिङ्गं वा लक्षणान्वितम् । अयने चोत्तरे प्राप्ते शुक्लपक्षे शुभे दिने ॥ ५०॥ वेदीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् । विकीर्य पत्रपुष्पाद्यैर्मध्ये कुम्भं निधाय च ॥ ५१॥ परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् । पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ५२॥ न्यस्य सम्पूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च । विशोध्य लिङ्गं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ५३॥ स्थापयेत्पुष्पसञ्छन्नमुत्तरस्थे वरासने । निधाय पुष्पं शिरसि प्रोक्षयेत् प्रोक्षणीजलैः ॥ ५४॥ समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् । कुम्भैरीशानविद्यान्तैः स्नापयेन्मूलविद्यया ॥ ५५॥ ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् । नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ५६॥ एकमेवाथ वा कुम्भं मूर्तिमन्त्रसमन्वितम् । न्यस्य पद्मान्तरे सर्वं शेषं पूर्ववदाचरेत् ॥ ५७॥ अत्यन्तोपहतं लिङ्गं विशोध्य स्थापयेत्पुनः । सम्प्रोक्षयेदुपहतं मनागुपहतं यजेत् ॥ ५८॥ लिङ्गानि बाणसंज्ञानि स्थापनीयानि वा न वा । तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ५९॥ शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् । स्वयमुद्भूतलिङ्गे च दिव्ये चार्षे तथैव च ॥ ६०॥ अपीठे पीठमावेश्य कृत्वा सम्प्रोक्षणं विधिम् । यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ६१॥ दग्धं श्लथं क्षताङ्गं च क्षिपेल्लिङ्गं जलाशये । सन्धानयोग्यं सन्धाय प्रतिष्ठाविधिमाचरेत् ॥ ६२॥ बेराद्वा विकलाल्लिङ्गाद्देवपूजापुरःसरम् । उद्वास्य हृदि सन्धानं त्यागं वा युक्तमाचरेत् ॥ ६३॥ एकाहपूजाविहतौ कुर्याद् द्विगुणमर्चनम् । द्विरात्रे च महापूजां सम्प्रोक्षणमतः परम् ॥ ६४॥ मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते । प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्सम्प्रोक्षणक्रमः ॥ ६५॥ सम्प्रोक्षणे तु लिङ्गादेर्देवमुद्वास्य पूर्ववत् । अष्टपञ्चक्रमेणैव स्नापयित्वा मृदम्भसा ॥ ६६॥ गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च । प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ६७॥ सपुष्पं सकुशं पाणिं न्यस्य लिङ्गस्य मस्तके । पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥ ६८॥ ततो मूलेन मूर्द्धादिपीठान्तं संस्पृशेदपि । पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ६९॥ अलब्धे स्थापिते लिङ्गे शिवस्थाने जलेऽथ वा । वह्नौ रवौ तथा व्योम्नि भगवन्तं शिवं यजेत् ॥ ७०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ७.२.३६॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३७. सप्तत्रिंशोऽध्यायः । योगगतिवर्णनम् ।

श्रीकृष्ण उवाच । ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य सङ्ग्रहात् । उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ १॥ इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् । साधिकारं च साङ्गं च सविधिं सप्रयोजनम् ॥ २॥ यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः । सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ३॥ तच्च तत्कारणं चैव तत्कालकरणानि च । तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ४॥ उपमन्युरुवाच । स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना । ततः क्रमेण तत्सर्वं वक्ष्ये श‍ृणु समाहितः ॥ ५॥ निरुद्धवृत्त्यन्तरस्य शिवे चित्तस्य निश्चला । या वृत्तिः सा समासेन योगः स खलु पञ्चधा ॥ ६॥ मन्त्रयोगः स्पर्शयोगो भावयोगस्तथापरः । अभावयोगः सर्वेभ्यो महायोगः परो मतः ॥ ७॥ मन्त्राभ्यासवशेनैव मन्त्रवाच्यार्थगोचरः । अव्याक्षेपा मनोवृत्तिर्मन्त्रयोग उदाहृतः ॥ ८॥ प्राणायाममुखा सैव स्पर्शेयोगोऽभिधीयते । स मन्त्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ९॥ विलीनावयवं विश्वं रूपं सम्भाव्यते यतः । अभावयोगः सम्प्रोक्तोऽनाभासाद्वस्तुनः सतः ॥ १०॥ शिवस्वभाव एवैकश्चिन्त्यते निरुपाधिकः । यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ११॥ दृष्टे तथानुश्रविके विरक्तं विषये मनः । यस्य तस्याधिकारोऽस्ति योगे नान्यस्य कस्यचित् ॥ १२॥ विषयद्वयदोषाणां गुणानामीश्वरस्य च । दर्शनादेव सततं विरक्तं जायते मनः ॥ १३॥ अष्टाङ्गो वा षडङ्गो वा सर्वयोगः समासतः । यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ १४॥ प्राणायामः प्रत्याहारो धारणा ध्यानमेव च । समाधिरिति योगाङ्गान्यष्टावुक्तानि सूरिभिः ॥ १५॥ आसनं प्राणसंरोधः प्रत्याहारोऽथ धारणा । ध्यानं समाधिर्योगस्य षडङ्गानि समासतः ॥ १६॥ पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् । शिवागमेषु चान्येषु विशेषात् कामिकादिषु ॥ १७॥ योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च । अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः । यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ १८॥ शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च । इति पञ्च प्रभेदः स्यान्नियमः स्वांशभेदतः ॥ १९॥ स्वस्तिकं पद्ममध्येन्दुं वीरं योगं प्रसाधितम् । पर्यङ्कं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ २०॥ प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् । तद्रोचकं पूरकं च कुम्भकं च त्रिधोच्यते ॥ २१॥ नासिकापुटमङ्गुल्या पीड्यैकमपरेण तु । औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ २२॥ बाह्येन मरुता देहं दृतिवत्परिपूरयेत् । नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ २३॥ न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् । सम्पूर्णं कुम्भवत्तिष्ठेदचलः स तु कुम्भकः ॥ २४॥ रेचकाद्यं त्रयमिदं न द्रुतं न विलम्बितम् । तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ २५॥ रेचकादिषु योऽभ्यासो नाडीशोधनपूर्वकः । स्वेच्छोत्क्रमणपर्यन्तः प्रोक्तो योगानुशासने ॥ २६॥ कन्यकादिक्रमवशात् प्राणायामनिरोधनम् । तच्चतुर्द्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ २७॥ कन्यकस्तु चतुर्द्धा स्यात्स च द्वादशमात्रकः । मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ २८॥ उत्तमस्तु त्रिरुद्धातः षड्विंशन् मात्रकः परः । स्वेदकम्पादिजनकः प्राणायामस्तदुत्तरः ॥ २९॥ आनन्दोद्भवरोमाञ्चनेत्राश्रूणां विमोचनम् । जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ३०॥ जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अङ्गुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ३१॥ मात्रा क्रमेण विज्ञेयाश्चोद्घातक्रमयोगतः । नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ३२॥ अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः । जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ३३॥ अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः । तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ३४॥ प्राणस्य विजयादेव जीयन्ते देहवायवः । प्राणोऽपानः समानश्च ह्युदानो व्यान एव च ॥ ३५॥ नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः । प्रयाणं कुरुते यस्मात्तस्मात्प्राणोऽभिधीयते ॥ ३६॥ अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते । व्यानो व्यान शयत्यङ्गान्यशेषाणि विवर्धयन् ॥ ३७॥ उद्वेजयति मर्माणीत्युदानो वायुरीरितः । समं नयति सर्वाङ्गं समानस्तेन गीयते ॥ ३८॥ उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः । कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृम्भणे ॥ ३९॥ न जहाति मृतं चापि सर्वव्यापी धनञ्जयः । क्रमेणाभ्यस्यमानोऽयं प्राणायामः प्रमाणवान् ॥ ४०॥ निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति । प्राणे तु विजिते सम्यक् तच्चिह्नान्युपलक्षयेत् ॥ ४१॥ विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते । बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ४२॥ लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् । सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ४३॥ धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता । तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ४४॥ प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् । इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ४५॥ आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते । मनःपूर्वाणीन्द्रियाणि स्वर्गं नरकमेव च ॥ ४६॥ निगृहीतनिसृष्टानि स्वर्गाय नरकाय च । तस्मात्सुखार्थी मतिमान् ज्ञानवैराग्यमास्थितः ॥ ४७॥ इन्द्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् । धारणा नाम चित्तस्य स्थानबन्धः समासतः ॥ ४८॥ स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः । कालं कं चावधीकृत्य स्थानेऽवस्थापितं मनः ॥ ४९॥ न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा । मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ५०॥ तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः । ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ॥ ५१॥ अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते । ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ५२॥ प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते । सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः ॥ ५३॥ परो ध्येयोऽधिदेवेशः समाप्ताथर्वणी श्रुतिः । तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ५४॥ तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ । सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ५५॥ विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् । इत्येतद् द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ५६॥ ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् । एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ५७॥ ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः । निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ५८॥ जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् । जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ५९॥ धारणा द्वादशायामा ध्यानं द्वादशधारणम् । ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ६०॥ समाधिर्नाम योगाङ्गमन्तिमं परिकीर्तितम् । समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ६१॥ यदर्थमात्रनिर्भासं स्तिमितोदधिवत्स्थितम् । स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ६२॥ ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् । निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ६३॥ न श‍ृणोति न चाघ्राति न जल्पति न पश्यति । न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥ ६४॥ न वाभिमन्यते किञ्चिद् बध्यते न च काष्ठवत् । एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ६५॥ यथा दीपो निवातस्थः स्पन्दते न कदाचन । तथा समाधिनिष्ठोऽपि तस्मान्न विचलेत्सुधीः ॥ ६६॥ एवमभ्यसतश्चारं योगिनो योगमुत्तमम् । तदन्तराया नश्यन्ति विज्ञाः सर्वे शनैःशनैः ॥ ६७॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ७.२.३७॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३८. अष्टत्रिंशोऽध्यायः । योगगतौ विघ्नोत्पत्तिवर्णनम् ।

उपमन्युरुवाच । आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः । अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥ १॥ दुःखानि दौर्मनस्यं च विषयेषु च लोलता । दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ २॥ आलस्यमलसत्त्वं तु योगिनां देहचेतसोः । धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ३॥ प्रमादो नाम योगस्य साधना नाम भावना । इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ४॥ अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते । अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ५॥ विपर्यस्ता मतिर्या सा भ्रान्तिरित्यभिधीयते । दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ६॥ आधिभौतिकमङ्गोत्थं यच्च दुःखं पुरा कृतैः । आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७॥ इच्छाविघातजं क्षोभं दौर्मनस्यं प्रचक्षते । विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ८॥ शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः । उपसर्गाः प्रवर्तन्ते दिव्यास्ते सिद्धिसूचकाः ॥ ९॥ प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः । उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ १०॥ सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते । प्रतिभा कथ्यते योऽर्थे प्रतिभासो यथातथम् ॥ ११॥ श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः । वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ १२॥ दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः । तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ १३॥ स्पर्शनाधिगमस्तद्वद् वेदना नाम विश्रुता । गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ १४॥ सन्तिष्ठन्ते च रत्नानि प्रयच्छन्ति बहूनि च । स्वच्छन्दमधुरा वाणी विविधा स्यात्प्रवर्तते ॥ १५॥ रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा । सिध्यन्ति प्रणिपत्यैनं दिशन्ति सुरयोषितः ॥ १६॥ योगसिद्ध्यैकदेशेऽपि दृष्टे मोक्षे भवेन्मतिः । दृष्टमेतन्मया यद्वत् तद्वन्मोक्षो भवेदिति ॥ १७॥ कृशता स्थूलता बाल्यं वार्द्धक्यं चैव यौवनम् । नानाजातिस्वरूपं च चतुर्णां देहधारणम् ॥ १८॥ पार्थिवांशं विना नित्यं सुरभिर्गन्धसङ्ग्रहः । एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ १९॥ जले निवसनं चैव भूम्यामेवं विनिर्गमः । इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ २०॥ यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् । विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ २१॥ यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् । रसादिकं भवेच्चान्यत् त्रयाणां देहधारणम् ॥ २२॥ निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् । तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ २३॥ शरीरादग्निनिर्माणं तत्तापभयवर्ज्जनम् । शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ २४॥ स्थापनं वानलस्याऽप्सु पाणौ पावकधारणम् । दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् । द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ २५॥ एतच्चतुर्विंशतिधा तैजसं परिचक्षते । मनोजवत्वं भूतानां क्षणादन्तः प्रवेशनम् ॥ २६॥ पर्वतादिमहाभारधारणं चाप्रयत्नतः । गुरुत्वं च लघुत्वं च पाणावनिलधारणम् ॥ २७॥ अङ्गुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् । एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तेजसैः ॥ २८॥ द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः । छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ २९॥ खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः । आकाशलङ्घनं चैव स्वदेहे तन्निवेशनम् ॥ ३०॥ आकाशपिण्डीकरणमशरीरत्वमेव च । अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ३१॥ ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते । यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ३२॥ सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् । कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ३३॥ संसारदर्शनं चैव भोगैरैन्द्रैः समन्वितम् । एतच्चान्द्रमसैश्वर्यं मानसं गुणतोऽधिकम् ॥ ३४॥ छेदनं ताडनं चैव बन्धनं मोचनं तथा । ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ ३५॥ प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा । आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ३६॥ एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् । सर्गः सङ्कल्पमात्रेण त्राणं संहरणं तथा ॥ ३७॥ स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् । असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ३८॥ शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् । चतुःषष्टिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ३९॥ बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः । वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः । ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ४०॥ तत्पौरुषं च गौणं च गाणेशं पदमैश्वरम् । विष्णुना तत्पदं किञ्चिज्ज्ञातुमन्यैर्न शक्यते ॥ ४१॥ विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः । निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु ॥ ४२॥ प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः । न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ४३॥ तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् । तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ४४॥ अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः । यथाकामं गुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ४५॥ अथ प्रयोगं योगस्य वक्ष्ये श‍ृणु समाहितः । शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः । विजने जन्तुरहिते निःशब्दे बाधवर्जिते ॥ ४६॥ सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते । मुक्तपुष्पसमाकीर्णे वितानादिविचित्रिते ॥ ४७॥ कुशपुष्पसमित्तोयफलमूलसमन्विते । नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचयेऽपि वा ॥ ४८॥ न दंशमशकाकीर्णे सर्पश्वापदसङ्कुले । न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ४९॥ श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे । नदीनदसमुद्राणां तीरे रथ्यान्तरेऽपि वा ॥ ५०॥ न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निन्दिते । नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ५१॥ न च्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते । न चातिचिन्ताकुलितो न चातिक्षुत्पिपासितः ॥ ५२॥ नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् । युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ५३॥ युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः । आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ५४॥ पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च । अभिवन्द्य स्वगुर्वन्तानभिवाद्याननुक्रमात् ॥ ५५॥ ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छ्लिष्टलोचनः । किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ॥ ५६॥ दन्ताग्रसंस्थितां जिह्वामचलां सन्निवेश्य च । पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ५७॥ ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः । दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ५८॥ उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ५९॥ सम्भृतप्राणसञ्चारः पाषाण इव निश्चलः । स्वदेहायतनस्यान्तर्विचिन्त्य शिवमम्बया ॥ ६०॥ हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् । मूले नासाग्रतो नाभौ कण्ठे वा तालुरन्ध्रयोः ॥ ६१॥ भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् । परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ६२॥ तत्र सावरणं वापि निरावरणमेव वा । द्विदले षोडशारे वा द्वादशारे यथाविधि ॥ ६३॥ दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् । भ्रुवोरन्तरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ६४॥ भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे । विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ६५॥ षोडशारस्य पत्राणि स्वराः षोडश तानि वै । पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ६६॥ ककारादिठकारान्ता वर्णाः पर्णान्यनुक्रमात् । भानुवर्णस्य पद्मस्य ध्येयं तधृदयान्तरे ॥ ६७॥ वर्णाः पर्णानि पक्षस्य नाभेरुपरि पृष्ठतः । गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् । अधो दलस्याम्बुजस्य एतस्य च दलानि षट् ॥ ६८॥ विधूमाङ्गारवर्णस्य वर्णा वाद्याश्च लान्तिमाः । मूलाधारारविन्दस्य हेमाभस्य यथाक्रमम् । वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ ६९॥ एतेष्वथारविन्देषु यत्रैवाभिरतं मनः । तत्रैव देवं देवीं च चिन्तयेद्धीरया धिया ॥ ७०॥ अङ्गुष्ठमात्रममलं दीप्यमानं समन्ततः । शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ ७१॥ इन्दुरेखासमाकारं तारारूपमथापि वा । नीवारशूकसदृशं बिससुत्राभमेव वा ॥ ७२॥ कदम्बगोलकाकारं तुषारकणिकोपमम् । क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ ७३॥ तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिन्तयेत् । सदाशिवान्ता ब्रह्माद्या भवाद्याश्चाष्टमूर्तयः ॥ ७४॥ शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः । घोरा मिश्राः प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ ७५॥ फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः । घोराश्चेच्चिन्तिताः कुर्युः पापरोगपरिक्षयम् ॥ ७६॥ चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि । सौम्ये मुक्तिर्विशेषेण शान्तिः प्रज्ञा प्रसिध्यति ॥ ७७॥ सिध्यन्ति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७८॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ७.२.३८॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.३९. एकोनचत्वारिंशोऽध्यायः । शैवयोगवर्णनम् ।

उपमन्युरुवाच । श्रीकण्ठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः । प्रसिध्यन्तीति मत्वैके तं वै ध्यायन्ति योगिनः ॥ १॥ स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते । स्थूले तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ २॥ शिवे तु चिन्तिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः । मूर्त्यन्तरेषु ध्यातेषु शिवरूपं विचिन्तयेत् ॥ ३॥ लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः । ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ ४॥ तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् । बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ ५॥ तेन निर्विषया बुद्धिः केवलेह प्रवर्तते । तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ६॥ सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः । यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ७॥ निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् । निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ८॥ निराकारश्रयत्वेन साकाराश्रयतस्तथा । तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ९॥ अन्ते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये । प्राणायामेन सिध्यन्ति देव्याः शान्त्यादयः क्रमात् ॥ १०॥ शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च ततः परम् । शमः सर्वापदां चैव शान्तिरित्यभिधीयते ॥ ११॥ तमसोऽन्तर्बहिर्नाशः प्रशान्तिः परिगीयते । बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ १२॥ स्वस्थता या तु सा बुद्धेः प्रसादः परिकीर्तितः । कारणानि च सर्वाणि सबाह्याभ्यन्तराणि च ॥ १३॥ बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत । ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् । एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ १४॥ ज्ञानवैराग्यसम्पन्नो नित्यमव्यग्रमानसः । श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ १५॥ ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ॥ १६॥ योगाभ्यासस्तथाल्पोऽपि यथा पापं विनाशयेत् । ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ १७॥ अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ १८॥ बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलम्बनम् । ध्येयमित्युच्यते सद्भिस्तच्च साम्बः स्वयं शिवः ॥ १९॥ विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् । शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ २०॥ यस्मात्सौख्यं च मोक्षं च ध्यानादुभयमाप्नुयात् । तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ २१॥ नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः । ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ २२॥ ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् । योगाभ्यासेन युक्तस्य योगिनस्वेव सिध्यति ॥ २३॥ प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः । पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ २४॥ यथा वह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् । तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ २५॥ अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत्तमः । योगाभ्यासस्तथाल्पोऽपि महापापं विनाशयेत् ॥ २६॥ ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् । यद्भवेत् सुमहच्छ्रेयस्तस्यान्तो नैव विद्यते ॥ २७॥ नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः । नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ २८॥ तीर्थानि तोयपूर्णानि देवान्पाषाणमृण्मयान् । योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारणात् ॥ २९॥ योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् । यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ३०॥ यथेहान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः । तथान्तर्ध्याननिरताः प्रियाश्शम्भोर्न कर्मिणः ॥ ३१॥ बहिष्करा यथा लोके नातीव फलभोगिनः । दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ३२॥ यद्यन्तरा विपद्यन्ते ज्ञानयोगार्थमुद्यतः । योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ३३॥ अनुभूय सुखं तत्र स जातो योगिनां कुले । ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ३४॥ जिज्ञासुरपि योगस्य यां गतिं लभते नरः । न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ३५॥ द्विजानां वेदविदुषां कोटिं सम्पूज्य यत्फलम् । भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ३६॥ यज्ञाग्निहोत्रदानेषु तीर्थहोमेषु यत्फलम् । योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ३७॥ ये चापवादं कुर्वन्ति विमूढाः शिवयोगिनाम् । श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ३८॥ सति श्रोतरि वक्ता स्यादपवादस्य योगिनाम् । तस्माच्छ्रोता च पापीयान्दण्ड्यः सुमहतां मतः । ये पुनः सततं भक्त्या भजन्ति शवयोगिनः ॥ ३९॥ ते विदन्ति महाभोगानन्ते योगं च शाङ्करम् । भोगार्थिभिर्नरैस्तस्मात्सम्पूज्याः शिवयोगिनः ॥ ४०॥ प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः । योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ४१॥ वज्रतन्दुलवज्ज्ञेयं तथा पापेन योगिनः । न लिप्यन्ते च तापौघैः पद्मपत्रं यथाम्भसा ॥ ४२॥ यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः । सोऽपि देशो भवेत्पूतः स पूत इति किं पुनः ॥ ४३॥ तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः । सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ४४॥ सिद्धयोगफलो योगी लोकानां हितकाम्यया । भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ४५॥ अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् । त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ४६॥ यस्त्वासन्नां मृतिं मर्त्यो दृष्ट्वारिष्टं च भूयसा । स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ४७॥ स तत्र निवसन्नेव यदि धीरमना नरः । प्राणान् विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ४८॥ कृत्वाप्यनशनं चैव हुत्वा चाङ्गं शिवानले । क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ४९॥ शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् । सद्य एव विमुच्येत नात्र कार्या विचारणा ॥ ५०॥ रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः । म्रियते यदि सोऽप्येवं मुच्यते नात्र संशयः ॥ ५१॥ यथा हि मरणं श्रेष्ठमुशन्त्यनशनादिभिः । शास्त्रविश्रम्भधीरेण मनसा क्रियते यतः ॥ ५२॥ शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा । यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ५३॥ शिवनिन्दारतं हन्तुमशक्तो यः स्वयं मृतः । सद्य एव प्रमुच्येत त्रिःसप्तकुलसंयुतः ॥ ५४॥ शिवार्थे यस्त्यजेत्प्राणान् शिवभक्तार्थमेव वा । न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ५५॥ तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमण्डलात् । एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ५६॥ षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि । पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ५७॥ नैवाशौचं प्रपद्येत तत्पुत्रादिर्विशेषतः । शिवचारार्थमथवा शिवविद्यार्थमेव वा । खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ ५८॥ क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् । अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ ५९॥ कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् । धनं तस्य भजेच्छैवः शैवी चेत्तस्य सन्ततिः । नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ६०॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ७.२.३९॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.४०. चत्वारिंशोऽध्यायः । नैमिषर्षियात्रावर्णनम् ।

सूत उवाच । इति स विजितमन्योर्यादवेनोपमन्यो- रधिगतमभिधाय ज्ञानयोगं मुनिभ्यः । प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितोऽभूत् ॥ १॥ ततः प्रभातसमये नैमिषीयास्तपोधनाः । सत्रान्तेऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ २॥ तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती । प्रसन्ना स्वादुसलिला प्रावर्तत नदी शुभा ॥ ३॥ सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः । समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ४॥ अथ सन्तर्प्य देवादींस्तदीयैः सलिलैः शिवैः । स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ५॥ तदा ते हिमवत्पादात्पन्ततीं दक्षिणामुखीम् । दृष्ट्वा भागीरथीं तत्र स्नात्वा तत्तीरतो ययुः ॥ ६॥ ततो वाराणसीं प्राप्य मुदिताः सर्व एव ते । तदोत्तरप्रवाहायां गङ्गायामवगाह्य च ॥ ७॥ अविमुक्तेश्वरं लिङ्गं दृष्ट्वाभ्यर्च्य विधानतः । प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ८॥ सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् । आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ९॥ अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः । मुनयोऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ १०॥ तथा विलीयमानेषु तपस्विषु महात्मसु । सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ११॥ तद् दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः । किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ १२॥ प्रागेवैषां तु गमनात्पवनो लोकपावनः । दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ १३॥ शुद्धां बुद्धिं ततस्तेषां साम्बे सानुचरे शिवे । समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ १४॥ विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये । स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ १५॥ अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च । परस्परं स्पर्द्धितयोर्गाने विवदमानयोः ॥ १६॥ तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् । गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ १७॥ तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः । मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ १८॥ अथ तुम्बुरुणा गाने समतां प्राप्य नारदः । साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ १९॥ त्यक्त्वा परस्परस्पर्द्धां मैत्रीं च परमां गतः । सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ २०॥ उपवीणयितुं देवं नकुलीश्वरमीश्वरम् । भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ २१॥ तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् । प्रणम्यावसरं शम्भोः पप्रच्छुः परमादरात् ॥ २२॥ स चावसर एवायमितोऽन्तर्गम्यतामिति । वदन्ययावन्यपरस्त्वरया परया युतः ॥ २३॥ ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् । तेन ते विविशुर्वेश्म पिण्डीभूयाण्डजन्मनः ॥ २४॥ प्रविश्य दूरतो देवं प्रणम्य भुवि दण्डवत् । समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ २५॥ तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः । वृत्तान्तं वो मया ज्ञातं वायुरेवाह नो यतः ॥ २६॥ भवद्भिः किं कृतं पश्चान्मारुतेऽन्तर्हिते सति । इत्युक्तवति देवेशे मुनयोऽवभृथात्परम् ॥ २७॥ गङ्गातीर्थेऽस्य गमनं यात्रां वाराणसीं प्रति । दर्शनं तत्र लिङ्गानां स्थापितानां सुरेश्वरैः ॥ २८॥ अविमुक्तेश्वरस्यापि लिङ्गस्याभ्यर्चनं सकृत् । आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ २९॥ मुनीनां विलयं तत्र निरोधं तेजसस्ततः । याथात्म्यवेदनं तस्य चिन्तितस्यापि चात्मभिः ॥ ३०॥ सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः । मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ३१॥ कम्पयित्वा शिरः किञ्चित्प्राह गम्भीरया गिरा । प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ३२॥ भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः । प्रसादाभिमुखो भूत इति भूतार्थसूचितम् ॥ ३३॥ वाराणस्यां तु युष्माभिर्यद् दृष्टं दिवि दीप्तिमत् । तल्लिङ्गसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ३४॥ तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः । मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ३५॥ प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि । स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ३६॥ तत्र वः काल एवैष दैवादुपनतः स्वयम् । प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ३७॥ सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः । प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नन्दिनः ॥ ३८॥ पुरा सनत्कुमारोऽपि दृष्ट्वापि परमेश्वरम् । अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ३९॥ अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः । ततोऽपराधात्क्रुद्धेन महोष्ट्रो नन्दिना कृतः ॥ ४०॥ अथ कालेन महता तदर्थे शोचता मया । उपास्य देवं देवीं च नन्दिनं चानुनीय वै ॥ ४१॥ कथञ्चिद् दुष्टता तस्य प्रयत्नेन निवारिता । प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ४२॥ तदाह च महादेवः स्मयन्निव गणाधिपम् । अवज्ञाय हि मामेव तथाहङ्कृतवान्मुनिः ॥ ४३॥ अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ । ब्रह्मणः पूर्वजः पुत्रो मां मूढमिव संस्मरन् ॥ ४४॥ मयैव शिष्यस्ते दत्तो मम ज्ञानप्रवर्तकः । धर्माध्यक्षाभिषेकं च तव निर्वर्त्तयिष्यति ॥ ४५॥ स एवं व्याहृतो भूयः सर्वभूतगणाग्रणीः । यत्पुराज्ञापनं मूर्ध्ना प्राप्य प्रतिगृहीतवान् ॥ ४६॥ तथा सनत्कुमारोऽपि मेरौ मदनुशासनात् । प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ४७॥ द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् । तत्प्रसादार्थमचिरान्नन्दी तत्रागमिष्यति ॥ ४८॥ इति सत्वरमादिश्य प्रेषिता विश्वयोगिना । कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ४९॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः ॥ ७.२.४०॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥

७.२.४१. एकचत्वारिंशोऽध्यायः । श्रीशिवमहापुराणमाहात्म्यवर्णनम् ।

सूत उवाच । तत्र स्कन्दसरो नाम सरः सागरसन्निभम् । अमृतस्वादुशिशिरस्वच्छागाधलघूदकम् ॥ १॥ समन्ततः सङ्घटितं स्फटिकोपलसञ्चयैः । सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ २॥ शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः । तरङ्गैरभ्रसङ्काशैराकाशमिव भूमिगम् ॥ ३॥ सुखावतरणारोहैः स्थलैर्नीलशिलामयैः । सोपानमार्गौ रुचिरैः शोभमानाष्टदिङ्मुखम् ॥ ४॥ तत्रावतीर्णैश्च यथा तत्रोत्तीर्णैश्च भूयसा । स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ५॥ जटाशिखायनैर्मुण्डैस्त्रिपुण्ड्रकृतमण्डनैः । विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ६॥ घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः । कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ७॥ आत्मार्थं च परार्थं च देवतार्थं विशेषतः । आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ८॥ अन्तर्जलशिलारूढैर्नीचानां स्पर्शशङ्कया । आचारवद्भिर्मुनिभिः कृतभस्माङ्गधूसरैः ॥ ९॥ इतस्ततोऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः । तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ १०॥ देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् । निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ११॥ स्थाने स्थाने कृतानेकबलिपुष्पसमीरणैः । सौरार्घ्यपूर्वं कुर्वद्भिः स्थण्डलेभ्यर्चनादिकम् ॥ १२॥ क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् । क्वचिच्च तृषयायातमृगीमृगतुरङ्गमम् ॥ १३॥ क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् । क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ १४॥ क्वचित्कारण्डवरवैः क्वचित्सारसकूजितैः । क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ १५॥ स्नानपानादिकरणैः स्वसम्पद्द्रुमजीविभिः । प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ १६॥ कूलशाखिशिखालीनकोकिलाकुलकूजितैः । आतपोपहतान् सर्वान्नामन्त्रयदिवानिशम् ॥ १७॥ उत्तरे तस्य सरसस्तीरे कल्पतरोरधः । वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ १८॥ सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् । तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ १९॥ उपास्यमानं मुनिभिर्योगीन्द्रैरपि पूजितम् । ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ २०॥ यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् । तुमुलः शुश्रुवे तावद्दिवि दुन्दुभिनिःस्वनः ॥ २१॥ ददृशे तत्क्षणे तस्मिन् विमानं भानुसन्निभम् । गणेश्वरैरसङ्ख्येयैः संवृतं च समन्ततः ॥ २२॥ अप्सरोगणसङ्कीर्णं रुद्रकन्याभिरावृतम् । मृदङ्गमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ २३॥ चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् । मुनिभिः सिद्धगन्धर्वैर्यक्षचारणकिन्नरैः ॥ २४॥ नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् । वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ २५॥ कृतगोपुरसत्कारं केतुना मान्यहेतुना । तस्य मध्ये विमानस्य चामरद्वितयान्तरे ॥ २६॥ छत्त्रस्य मणिदण्डस्य चन्द्रस्येव शुचेरधः । दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ २७॥ श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः । प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ २८॥ अविलङ्घ्य जगत्कर्तुराज्ञापनमिवागतम् । सर्वानुग्रहणं शम्भोः साक्षादिव पुरःस्थितम् ॥ २९॥ शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् । विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ ३०॥ विश्वस्यापि विधातॄणां निग्रहानुग्रहक्षमम् । चतुर्बाहुमुदाराङ्गं चन्द्ररेखाविभूषितम् ॥ ३१॥ कण्ठे नागेन मौलौ च शशाङ्केनाप्यलङ्कृतम् । सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ ३२॥ समाप्तमिव निर्वाणं सर्वज्ञमिव सङ्गतम् । दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ ३३॥ तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् । अथ तत्रान्तरे तस्मिन्विमाने चावनिं गते ॥ ३४॥ प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् । षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः । आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकाङ्क्षया ॥ ३५॥ श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नन्दी छित्त्वा पाशान्दृष्टिपातेन सद्यः । शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥ ३६॥ सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् । व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥ ३७॥ नावेदविद्भ्यः कथनीयमेतत् पुराणरत्नं पुरशासनस्य । नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥ ३८॥ मार्गेण सेवानुगतेन यैस्तद् दत्तं गृहीतं पठितं श्रुतं वा । तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमन्ते नियतं ददाति ॥ ३९॥ परस्परस्योपकृतं भवद्भि र्मया च पौराणिकमार्गयोगात् । अतो गमिष्येऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥ ४०॥ सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे । काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥ ४१॥ अथ च ते पशुपाशमुमुक्षया- खिलतया कृतपाशुपतव्रताः । अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिन्दिताः ॥ ४२॥ व्यास उवाच । एतच्छिवपुराणं हि समाप्तं हितमादरात् । पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ ४३॥ नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च । अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ४४॥ एतच्छ्रुत्या ह्येकवारं भवेत् पापं हि भस्मसात् । अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ ४५॥ पुनः श्रुते च सद्भक्तिर्मुक्तिः स्याच्च श्रुतेः पुनः । तस्मात् पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ ४६॥ पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया । परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ ४७॥ पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः । सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ ४८॥ श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः । इहभुक्त्वाखिलान् भोगानन्ते मुक्तिंलभेच्च सः ॥ ४९॥ एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् । भुक्तिमुक्तिप्रदं ब्रह्मसम्मितं भक्तिवर्धनम् ॥ ५०॥ एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा । सगणः ससुतः साम्बः शं करोतु स शङ्करः ॥ ५१॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ७.२.४१॥ समाप्तोऽयं श्रीशिवमहापुराणग्रन्थः । ॐ ।
% Text title            : shivapurANam 7 vAyavIyasaMhitA
% File name             : shivapurANam7vAyavIyasaMhitA.itx
% itxtitle              : shivapurANam 7 (vAyavIyasaMhitA pUrvakhaNDaH, uttarakhaNDaH)
% engtitle              : shivapurANam 7 vAyavIyasaMhitA
% Category              : shiva, purANa, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman and team members Uma Mahesh, Jayalakshmi Jayaraman, Malati Shekar, Meenakshi Premanand, Lata Murali, Sornavalli K, K C Swaminathan, Gayathri Veda
% Indexextra            : (Scan, Hindi)
% Latest update         : January 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org