श्रीअनन्ततत्त्वामृतम्
रामं सूत्रकृतं व्यासं वृत्तिकृत्पुरुषोत्तमम् ।
आनन्दभाष्यकृद्रामानन्दाचार्यं नमाम्यहम् ॥ १॥
पूर्वाचार्यान् नमस्कृत्यानन्तानन्दं गुरुं तथा ।
कुर्वेऽनन्तपदं प्राप्तुं श्रीअनन्ततत्त्वामृतम् ॥ २॥
प्रमाणप्रतिपन्नं हि वस्तु तत्त्वतयोच्यते ।
चिदचिदीशभेदात् तत् त्रिधा नित्यं तथाऽमृषा ॥ ३॥
``सर्वं खल्विदमे'' तस्य, ``सदेवे'' त्यादिकस्य च ।
प्रामाण्याद् ब्रह्म श्रीरामो विशिष्टो हि चिताऽचिता ॥ ४॥
विज्ञेयश्चित्पदार्थौ हि जीवोऽणुश्चेतनस्तथा ।
बद्धमुक्तविभेदात् स जीवात्मा द्विविधो मतः ॥ ५॥
कर्ममुक्तश्च मुक्तोऽथ बद्धो बद्धो हि कर्मणा ।
अचिदचेतनो ज्ञेयो प्रकृत्यादिचतुर्विधा ॥ ६॥
उपादानं निमित्तं च जगतो ब्रह्म निश्चितम् ।
तत्रावस्थाश्रयो द्रव्यमुपादानं प्रकीर्तितम् ॥ ७॥
निमित्तं चाथ सम्प्रोक्तं तत्त्वं कार्यविधायकम् ।
``यतो वे'त्यादितो ब्रह्म जगतः कारणद्वयम् ॥ ८॥
स्थूलाचिच्चिद्विशिष्टं हि ब्रह्मैव राघवो जगत् ।
विशेष्यो राघवस्तत्र चिदचित्तौ विशेषणे ॥ ९॥
अपृथक्सिद्धधार्यत्वाच्छेषत्वाच्चिदचिद्द्वयम् ।
रामस्य ब्रह्मणो यस्माच्छरीरं सम्मतं बुधैः ॥ १०॥
लीलाविभूतिभूतानि ब्रह्माण्डान्यखिलानि च ।
ब्रह्मणः पादमात्राणि ``पादोऽस्य विश्वे᳚तिश्रुतेः ॥ ११॥
दिव्यधाम्नस्तु विज्ञेया ब्रह्मत्रिपादरूपता ।
साकेतमुक्तिधामादि तस्य नामान्तरं मतम् ॥ १२॥
सूक्ष्माचिच्चिद्विशिष्टं हि कारणं ब्रह्म गद्यते ।
सूक्ष्मताऽचिच्चिदोरत्र नामरूपाविभागिता ॥ १३॥
विकारस्तु स्वरूपेऽथ स्वभावे चाचितो मतः ।
सृष्टौ चितो मतः सोऽथ स्वभाव एव केवलम् ॥ १४॥
ब्रह्मणश्च स्वरूपेऽथ स्वभावे विकृतिर्न हि ।
हेयप्रतिभटो ब्रह्म रामः सद्गुणसागरः ॥ १५॥
सच्चिदानन्दरूपं तद् ``सत्यं ज्ञानमि'' तिश्रुते ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि तद्गुणाः ॥ १६॥
स्वाभाविकगुणाश्चैते तस्य भगपदेरिताः ।
सर्वज्ञः सर्वशक्तिश्च सर्वव्यापी च राघवः ॥ १७॥
परश्च विभवो व्यूहोऽन्तर्यामी चाथ पञ्चमः ।
भेदश्चार्चावतारो हि रामस्य ब्रह्मणो मतः ॥ १८॥
श्रीरामश्च बुधैः प्रोक्तः साकेतस्थः परेश्वरः ।
वासुदेवादयो व्यूहा मत्स्याद्या विभवा मताः ॥ १९॥
अन्तर्यामी च विज्ञेयः सर्वान्तःस्थश्च राघवः ।
मूर्तिरूपेण श्रीरामस्त्वर्चावतारतां गतः ॥ २०॥
संसारितामवाप्नोति जीवश्चानाद्यविद्यया ।
शरीरादेश्च सम्बन्धो जीवसंसारिता मता ॥ २१॥
पुण्यपापात्मकं कर्म ह्यविद्या चात्र सम्मता ।
तस्या नाशं विना जीवः स्वरूपं स्वस्य नैति हि ॥ २२॥
प्रकृतिस्तु सावयवा सत्त्वादित्रिगुणाश्रयः ।
गुणानां प्रलये साम्यात् तद्विकाराः समा मताः ॥ २३॥
सृष्टौ तु गुणवैषम्याद् विकारा विषमाः किल ।
प्रकृतेर्गुणवैषम्यमीशस्य हि सिसृक्षया ॥ २४॥
उक्ता कारणतत्त्वस्य चान्यावस्था हि कार्यता ।
कार्यस्य कारणावस्था बुधैर्नाशः प्रकीर्त्तितः ॥ २५॥
मृत्पिण्डस्य घटत्वाप्तिर्मृत्पिण्डस्य हि कार्यता ।
घटस्य चूर्णताऽवाप्तिर्घटस्यैवं विनाशिता ॥ २६॥
उत्पत्तिरसतो नास्ति यस्माद् बुधैर्हि सम्मता ।
सूक्ष्मस्थूलेशयोस्तस्मादद्वैतं ब्रह्मणोः खलु ॥ २७॥
सर्वेषु च मतेष्वत्र निर्दोष तत एव हि ।
विशिष्टाद्वैतमित्येव वैदिकं यौक्तिकं मतम् ॥ २८।
देहः करादिमत् पिण्डं जीवस्य पाञ्चभौतिकम् ।
तथैव चिदचिन्मिश्रं जगद् ब्रह्मवपुर्मतम् ॥ २९॥
धार्यते प्राकृतो देहो यथा जीवात्मसत्तया ।
ब्रह्मणः सत्तया तद्द्वज्जगच्चैतद्धि धार्यते ॥ ३०॥
``अन्तः प्रविष्टः शास्ते'ति श्रुत्या जगच्छरीरकः ।
अन्तः प्रविश्य सर्वात्मा रामः सर्वनियामकः ॥ ३१॥
कर्मानुसृत्य जीवानां नियमनं स करोति हि ।
ततो वैषम्यनैघृण्ये न च रामे परात्मनि ॥ ३२॥
बाल्यादिदेहदोषाश्च मन्यन्ते न यथात्मनि ।
तथैव चिदचिद्दोषा नान्तर्यामिणि राघवे ॥ ३३॥
तिरोहितं स्वरूपं हि जीवस्यानादिकर्मणा ।
आविर्भूतस्वरूपत्वं कर्ममुक्तस्य चात्मनः ॥ ३४॥
आविर्भावः स्वरूपस्य रामस्यानुभवस्तथा ।
मोक्षा जीवस्य विज्ञेयः स चाप्राकृतधामनि ॥ ३५॥
भक्त्यैव लभ्यते मुक्तिरिति वेदविदां मतम् ।
प्रारब्धस्य फलं भुक्त्वा भक्त्या कर्मणि नाशिते ॥ ३६॥
अर्चिराद्यध्वना जीवो मुक्तिदेशमुपैति हि ।
उपासनं च कैमर्यं भक्तिभेदौ प्रकीर्तितौ ॥ ३७॥
अविच्छिन्ना हि रामस्य तैलधारेव संस्मृतिः ।
उपासनतया बोध्या प्रत्यक्षसदृशी च सा ॥ ३८॥
श्रीमद्भागवतानां च भगवज्जानकीपतेः ।
आचार्याणां तथा सेवा कैर्यत्वेन सम्मता ॥ ३९॥
विद्वद्भिः सम्मतं चात्र ज्ञानमर्थप्रकाशकम् ।
धर्मधर्मिस्वरूपं च ज्ञानं हि द्विविधं मतम् ॥ ४०॥
ज्ञानं धर्मिस्वरूपं हि जीवस्तथाऽखिलेश्वरः ।
ज्ञानं धर्मस्वरूपं हि नित्यं प्रज्ञाऽभिधं विभु ॥ ४१॥
शुद्धसत्त्वाश्रयो द्रव्यं शुद्धसत्वं प्रकीर्त्तितम् ।
रजसा तमसा हीन सत्वं शुद्धतया मतम् ॥ ४२॥
चतुर्विधानि चैतानि तत्त्वानि त्वजडानि हि ।
स्वयम्प्रकाशद्रव्यं हि जाडत्वेन सम्मतम् ॥ ४३॥
चतुर्विंशतिभेदा हि मूलाद्याः प्रकृतेर्मताः ।
ईश्वराधिष्ठिता चेह करोति प्रकृतिर्जगत् ॥ ४४॥
तत्त्वामृतमदः श्रीमदनन्तानन्दशिक्षितम् ।
पठतां मुक्तिदं भूयान्नृहर्यानन्दनिर्मितम् ॥ ४५॥
इति जगद्गुरुश्रीनरहर्यानन्दाचार्यप्रणीतं
श्रीअनन्ततत्त्वामृतं सम्पूर्णम् ।
Proofread by Aaditya Kalyanaraman