श्रीयोगानन्दाचार्यप्रणीतं श्रीअयोध्यामङ्गलं
यस्यां हि व्याप्यते रामकथाकीर्त्तनजोध्वनिः ।
तस्यै श्रीमद्योध्याये नित्यं भूयात् सुमङ्गलम् ॥ १॥
श्रीरामजन्मभूमिर्या महावैभवभूषिता ।
तस्यै श्रीमद्योध्याये नित्यं भूयात् सुमङ्गलम् ॥ २॥
या मुक्ता ब्रह्मधर्मज्ञैर्भक्तैश्च कर्मवेतृभिः ।
तस्यै श्रीमद्योध्याये नित्यं भूयात् सुमङ्गलम् ॥ ३॥
या देवमन्दिरैर्दिव्या तोरणध्वजसंयुता ।
तस्यै श्रीमद्योध्याये नित्यं भूयात् सुमङ्गलम् ॥ ४॥
साधुभिर्दानिभिर्याच देववृन्दैश्च सेविता ।
तस्यै श्रीमद्योध्याये नित्यं भूयात् सुमङ्गलम् ॥ ५॥
सिद्धिदा सौख्यदा या च भक्तिदा मुक्तिदा तथा ।
तस्यै श्रीमद्योध्याये नित्यं भूयात् सुमङ्गलम् ॥ ६॥
द्वारपीठेश्वरश्रीमद्योगानन्दार्यनिर्मितम् ।
पठतां मङ्गलाय स्तदयोध्यामङ्गलं शुभम् ॥ ७॥
इति श्रीयोगानन्दाचार्यप्रणीतं श्रीअयोध्यामङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey