भक्तचिन्तामणिस्तवः
कुर्वे प्रणम्य सीतेशं व्यासं बोधायनं तथा ।
पूर्णानन्दं गुरुं नत्त्वा भक्तचिन्तामणिस्तवम् ॥ १॥
स्वस्य चाव्यभिचारेण भक्तियोगेन सेवनात् ।
लभ्यते यश्च तं रामं भक्तचिन्तामणिं भजे ॥ २॥
स्वात्मनिवेदनाच्चाथ कर्मज्ञानानिभक्तितः ।
लभ्यते यश्च तं रामं भक्तचिन्तामणिं भजे ॥ ३॥
आवेश्य श्रद्धया चित्तं नित्ययुक्तैरुपासनात् ।
लभ्यते यश्च तं रामं भक्तचिन्तामणिं भजे ॥ ४॥
श्रवणात् कीर्त्तनात् स्तोत्राद् यतनाच्च दृढव्रतैः ।
लभ्यते यश्च तं रामं भक्तचिन्तामणिं मजे ॥ ५॥
यजनाद् भजनाच्चाथ नमनान्मननात् तथा ।
लभ्यते यश्च तं रामं भक्तचिन्तामणिं भजे ॥ ६॥
भक्त्यैवानन्यया भक्तैर्ज्ञायते दृश्यते तथा ।
लभ्यते यश्च तं रामं भक्तचिन्तामणिं भजे ॥ ७॥
सिद्धान्तचक्रवर्त्तिश्रीश्रियानन्दार्यनिर्मितः ।
पठतां मक्तिदो भूयाद भक्तचिन्तामणिस्तवः ॥ ८॥
इति जगद्गुरु श्री श्रियानन्दाचार्य सिद्धान्तविजयिनाकृतः
भक्तचिन्तामणिस्तवः सम्पूर्णः ।
Proofread by Parashara Ranganathan