श्रीदुन्दुरामाचार्यप्रणीतं भक्तनिरूपणं
श्रीसुशीलासुतं नत्त्वा भाष्यकारं तथा गुरुम् ।
भक्तलक्षणबोधाय कुर्वे भक्तनिरूपणम् ॥ १॥
ज्ञानिनः शान्तचित्ताश्च दयाशीला गतस्पृहाः ।
परेषां पीडका ये न श्रेष्ठा भक्ताश्च ते मताः ॥ २॥
अन्यदोषं न पश्यन्ति सर्वप्राणिहितैषिणः ।
ईर्ष्याविरहिता ये च श्रेष्ठा भक्ताश्च ते मता ॥ ३॥
सङ्ग्रहवृत्तिहीनाश्च तुष्यन्ति स्वल्पतश्च ये ।
भगवत्पादभक्ताश्च श्रेष्ठा भक्ताश्च ते मता ॥ ४॥
रामयज्ञसहायाश्च सर्वत्र समदर्शिनः ।
श्रीरामपूजका ये च श्रेष्ठा भक्ताश्च ते मता ॥ ५॥
नन्दन्ति वीक्ष्य रामार्चां स्वाचार्यग्रन्थपाठकाः ।
निन्द्यकर्मविहीना ये श्रेष्ठा भक्ताश्च ते मता ॥ ६॥
नासत्यवादिनो ये च प्रियसत्यस्य भाषिणः ।
ग्राहकाः सद्गुणानां ये श्रेष्ठा भक्ताश्च ते मता ॥ ७॥
परेषां हानिलाभौ तु स्वीयवत् वीक्षकाश्च ये ।
साधुसेवारता ये च श्रेष्ठा भक्ताश्च ते मता ॥ ८॥
भागवतकथायाश्च श्रवणे कथने तथा ।
निरताः सात्त्विका ये च श्रेष्ठा भक्ताश्च ते मता ॥ ९॥
उत्कण्ठिताश्च ये नित्यं भगवन्नामकीर्त्तने ।
रोमाञ्चशालिनो ये च श्रेष्ठा भक्ताश्च ते मता ॥ १०॥
च्युता नाश्रमधर्मेभ्यश्चातिथिपूजकाश्च ये ।
गुरुशास्त्रवशा ये च श्रेष्ठा भक्ताश्च ते मता ॥ ११॥
संस्कारपञ्चकापन्ना आकारत्रयशालिनः ।
रहस्यत्रयवेत्तारः श्रेष्ठा भक्ताश्च ते मता ॥ १२॥
अर्थपञ्चकतत्त्वज्ञा रामकैङ्कर्यकारकाः ।
सदाचाररता ये च श्रेष्ठा भक्ताश्च ते मता ॥ १३॥
सात्विकाहारशीलाश्च वैष्णवा हरिचिन्तकाः ।
एकादशीव्रतासक्ताः श्रेष्ठा भक्ताश्च ते मता ॥ १४॥
सच्छास्त्र सगुणे सक्ताः सन्निष्ठाः सत्प्रवृत्तयः ।
विषयेभ्यो विरक्ता ये श्रेष्ठा भक्ताश्च ते मताः ॥ १५॥
वैष्णवानां च पूजायां कीर्त्तने वन्दने तथा ।
श्रद्धयोत्कण्ठिता ये च श्रेष्ठा भक्ताश्च ते मता ॥ १६॥
द्वारपीठेश्वरश्रीमद्दुन्दुरामार्यनिर्मितम् ।
भगवद्भक्तिदं भूयादेतद् भक्तनिरूपणम् ॥ १७॥
इति श्रीदुन्दुरामाचार्यप्रणीतं भक्तनिरूपणं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey