श्रीयोगानन्दाचार्यविरचितं भक्तित्रयनिरूपणम्
रामं सर्वेश्वरं चाथानन्दभाष्यविधायकम् ।
गुरुं नत्त्वा च कुर्वेऽहं भक्तित्रयनिरूपणम् ॥ १॥
भक्तिः -
भक्तिः स राघवे स्नेहः सर्वेभ्यश्चाधिको हि यः ।
तयैव प्राप्यते मोक्षो नान्यथेति सुनिश्चितम् ॥ २॥
मानसी कायिकी चाथ वाचिकीति त्रिधा हि सा ।
१- मानसी भक्तिः
तत्रादिमा च रामस्य स्मरणं यन्निरन्तरम् ॥ ३॥
पोषणादौ स्वदेहस्यौदासीन्यं समुपागतः ।
आत्मदेहादिकं सर्वं श्रीरामाय समर्पयेत् ॥ ४॥
मनसा राघवे सख्यं कुर्याच्च श्रद्धया खलु ।
अपहाय तथा सर्वं राममेव समाश्रयेत् ॥ ५॥
२- कायिकी भक्तिः
द्वितीया श्रृणुयान्नित्यं श्रोत्राभ्यां रामसत्कथाम् ।
श्रीराम-मन्दिरे कुर्यात् कायेन मार्जनादिकम् ॥ ६॥
अमोघं पूजनं कुर्याद् रामस्य दर्शनं तथा ।
संसेव्य रामपादौ च साष्टाङ्गं प्रणमेत् सदा ॥ ७॥
३- वाचिकी भक्तिः
अहं दासोऽस्मि ते राम ममागतेर्गतिर्भव ।
दयासिन्धो दयां कुर्यादनार्ये मयि पामरे ॥ ८॥
एवं स्तुतिर्गुणानां च वाचां नाम्नश्च कीर्त्तनम् ।
अमोघस्तवरामस्य तृतीया भक्तिरुच्यते ॥ ९॥
श्रीरामानन्दशिष्यश्रीयोगानन्दविनिर्मितम् ।
श्रीरामभक्तिदं भूयाद् भक्तित्रयनिरूपणम् ॥ १०॥
इति श्रीयोगानन्दाचार्यविरचितं भक्तित्रयनिरूपणं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey