ब्रह्मकृता श्रीरामस्तुतिः
ॐ आदिरामायणं नाम श्रीरामचरितं शुभम् ।
किञ्चित्समाधावालोच्य प्रवक्ष्यामि प्रयत्नतः ॥
ॐ नमः परमहंसास्वादितचिन्मयमकरन्दाय
रुचिरनखशिखान्त रत्नप्ररोहपल्लवितसिंहासनप्रान्तपीठप्रदेशाय
मुनिमानसमधुकरप्रमोदाय श्रीरामचन्द्रचरणयुगलाय ।
ब्रह्मोवाच ।
रामं लोकाभिरामं रघुवरतनयं कोशलामुक्तिपुर्यां
खेलन्तं कामकेलिं सुविमलसरयूतीरकुञ्ज नटन्तम् ।
जानक्या चारुहासच्छविविशदशरच्चन्द्रिकाकान्तिमत्या
संयुक्तं राजवेषं ललितरसमयं ब्रह्म पूर्णं नमामि ॥ १॥
भक्तानां प्राणनाथं वरदपरिवृढं वंशवर्यं वरेण्यं शुद्धं
श्यामावदातं हरितमणिरुचिं सच्चिदानन्ददेहम् ।
आभीरीनेत्रपद्मप्रकरदिनकरं पूर्णचन्द्राभिरामं
रामं श्यामं प्रकामं निजहृदि कलये कोटिकामावतारम् ॥ २॥
मुक्ताहाराभिरामं मणिमुकुटसमाबद्धसद्रत्नगुच्छं
मन्दस्वच्छामृताब्धि प्रतिमविहसितं चारुबिम्बोष्ठकान्तिम् ।
शृङ्गारे कान्तवेषं परमतमरसानन्दसाक्षात्कृताङ्गं
गम्भीरावर्तनाभिं त्रिवलिमदुदरं नौमि रामं रमेशम् ॥ ३॥
एकं नित्यं स्वसाक्षि स्वमहिमनि सदा संस्थितं स्वानुभावं
स्वाधारं ब्रह्मणोऽप्याश्रयममितगुणं भूरि कल्याणवेषम् ।
महांसेशं (तं रासेशं ?)निरंशं निरवधिमवधिं वस्तुमात्रस्य तत्त्वं
निस्त्रैगुण्यं महस्तत् स्मरसि न हृदये पूर्णरामाभिधानम् ॥ ४॥
मत्स्यं कूर्मं वराहं नृहरिमथ हरिं वामनं हंसरूपं
यज्ञं नारायणाख्यं त्रिभुवनललितं भार्गवं वै हयास्यम् ।
प्रद्युम्नं वासुदेवं कंसारिकृष्णं रेवतीप्राणनाथं
प्रसिद्धमेतेंऽशा रामस्य श्रीरामं परात्परं स्मर ॥ ५॥
अत्र पञ्चमश्लोकार्धे पाठभेदः ।
रामं कृष्णं च बुद्धं यवनवधकरं चक्षते वेदवेदो
यस्यांशं तं परेशं स्मर यदि सततं सन्निधिं वाच्छसे चेत् ।
या ते नित्यैव लीला प्रमुदवनमहारण्यवृन्दावनादौ
वेदानां गोचरत्वं व्रजति न कथं स्वात्मभाषा स्फुरन्ती ।
सा मे सर्वस्वमास्तां रतिमयसहजानन्दकेलीनिधानं
नान्या प्रेम्णार्थता त्वय्यतिशय वरदेश प्रभो रामभद्र ॥ ६॥
रक्ताशोकद्रुमालीविरचित सुमहामण्डपान्तर्निषण्णां
सीतासङ्केतकेलीप्रियमत उरसाक्रान्तगोपीकदम्बम् ।
नीलाभ्रश्यामलं तज्जयतु हृदि सदा पूर्णशृङ्गारतत्त्वं
धाम श्रीरामनाम त्रिभुवनसुखदं कोटिकामावतारम् ॥ ७॥
पद्भ्यां मञ्जीरवद्भ्यां सुललितमवली पल्लवश्रीमुखाभ्यां
क्रीडन् केलीनिकुञ्जे विहसितसहजानन्दिनीशक्तियुक्तः ।
शुष्कं दावाग्निदग्धं द्रुमविटपमहा (हो ?)वंशिकानादवृष्ट्या
पीयूषौघैर्नयन्तं पुनरपि हरित (तां ?)रामचन्द्रं भजेऽहम् ॥ ८॥
हंहो माधुर्य लक्ष्मीस्तव नयनसुखं वर्धयत्वस्मदीयं
पूर्णा ते राम दृष्टिर्भवतु सकरुणा नित्यमेव प्रसन्ना ।
त्वत्कीर्तिः कण्ठदेशे निवसतु नितरामादिविद्वत्प्रगीता
चित्तेऽन्तर्भातु नित्यं तव पदयुगलं विश्वतापापहन्तृ ॥ ९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे ब्रह्मस्तुतिर्नाम प्रथमोऽध्यायः ।
Encoded and proofread by Vishal Pandey