श्रीसाकेतनिवासाचार्यविरचितः ब्रह्मपदशक्तिवादः
(श्रीटीलाचार्य)
रामं गुणार्णवं वन्दे सर्वश्रुतिसमन्वितम् ।
जगज्जन्मादिहेतुं च परब्रह्मपदेरितम् ॥ १॥
ब्रह्मसूत्रकृतं वन्दे महर्षि बादरायणम् ।
तथा बोधायनं श्रीमद्वृत्तिकृत् पुरुषोत्तमम् ॥ २॥
आनन्दभाष्यकृद्रामानन्दाचार्यं यतीश्वरम् ।
आचार्यवासवं नत्वा गुरुदेवं नमाम्यहम् ॥ ३॥
वादिवादसुविभ्रान्तजनानां भ्रान्तिनाशकम् ।
शक्तिवादमिमं कुर्वे ब्रह्मशब्दार्थबोधकम् ॥ ४॥
शक्तिश्च ब्रह्मशब्दस्याद्वैतिनां च मते यतः ।
सिध्यति न क्वचित् तस्मात् तद्वरं नहि, तद्यथा ॥ ५॥
अथातो ब्रह्मजिज्ञासे ति सूत्रघटकस्य हि ।
ब्रह्मशब्दस्य शक्तिश्च क्वचिदस्ति न वा मता ॥ ६॥
विचाराविषये चाद्येऽथेतरस्मिन् नु सा मता ।
शुद्धे चोपहिते चाद्ये, नाद्यः, कस्मात् तदुच्यते ॥ ७॥
श्रुत्युक्तं च बृहत्वादि निमित्तं नास्ति तत्र यत् ।
सर्वंविवर्त्तमूलत्वादस्ति तदिति चेन्न हि ॥ ८॥
मुक्तावपि च तद्योगान्मुक्त्यभावो भवेत् तथा ।
उपलक्षयितुं ब्रह्म निरुक्तिर्ननु तादृशी ॥ ९॥
विशेषणत्वेऽपि यस्माद् बाधो न दृश्यते ।
प्रवृत्तिनिमित्तत्वेन बृहत्वादि श्रुतौ स्मृतौ ॥ १०॥
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
उपपन्ना स्तुतिश्चेयं निर्विशेषे भवेन्न हि ॥ ११॥
ब्रह्मणि निर्विशेषे तच्छक्तिर्मन्तुं न शक्यते ।
प्रमाणाभावतस्तत्र पक्षश्चान्त्यो न सम्मतः ॥ १२॥
अन्यस्मिन् स्वीकृता सैवं त्वभिधातुं न शक्यते ।
निर्निमित्ते भवेत् सा चेदसाधुत्वं भवेत् तदा ॥ १३॥
सनिमित्ते भवेच्चेत् साऽतिप्रसङ्गो दुरुद्धरः ।
तस्माच्च ब्रह्मशब्दस्य नान्यस्मिन्नभिधा मता ॥ १४॥
अथ चेद् ब्रह्मशब्दस्य कुत्रचिन्नाभिधा मता ।
हन्तैवं ब्रह्मशब्दस्यासाधुत्वमापतेद् ध्रुवम् ॥ १५॥
साधुत्वं च मृषा तस्मादिष्टापत्तिर्मते मम ।
मैवं सकलशब्दानामसाधुत्वं यतस्तथा ॥ १६॥
ब्रह्मणि लक्षणा चापि ब्रह्मशब्दस्य नो मता ।
शक्यसम्बन्धरूपा यल्लक्षणा सर्वसम्मता ॥ १७॥
ततश्च ब्रह्मशब्दस्य शक्तिदोषविवर्जिते ।
दिव्यदेहे गुणाब्धौ च रामे ब्रह्मणि सम्मता ॥ १८॥
श्रीजानकीपतेरेव वेदने सकलेशितुः ।
वाक्ये ``तमेव'' चेत्यादौ श्रुता मुक्तेरुपायता ॥ १९॥
सदाचार्यसुरेन्द्रश्रीटीलाचार्यविनिर्मितः ।
भवताच्छक्तिवादोऽयं भ्रान्तानां भ्रान्तिनाशकः ॥ २०॥
इति श्रीसाकेतनिवासाचार्यविरचितः ब्रह्मपदशक्तिवादः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey