चरममन्त्ररामायणं

चरममन्त्ररामायणं

श्रियानन्दं गुरुं नत्त्वा रामं बोधायनं तथा । कुर्वे श्रीचरममन्त्ररामायणं हि मुक्तिदम् । सर्वज्ञः सर्वशक्तिश्च सर्वेशः सर्वकारणम् । रामः सर्वावतारी हि कौशल्यानन्दनोऽभवत् ॥ १॥ कृतं सर्वं जगद् येन स्वेक्षणाच्च स्वदेहतः । तद् ब्रह्मधर्मरक्षार्थमयोध्यायामजायत ॥ २॥ देवप्रार्थनया रामो दाशरथिर्बभूव हि । बाललीला कृता रम्या रामेण सर्वसौख्यदा ॥ ३॥ वशिष्ठात् पठिताः सर्वा विद्या रामेण धीमता । रामोऽथ यज्ञरक्षायै विश्वामित्रेण याचितः ॥ ४॥ प्रभावाच्च महान् रामो बालोऽपि ताटकामहन् । हत्त्वा राक्षससङ्घांश्च मुनेर्यज्ञं ररक्ष हि ॥ ५॥ पत्या शिला कृताऽहिल्या पादधूल्या हि रामतः । चैतन्यं प्रापिता रामं तुष्टाव श्रद्धया भृशम् ॥ ६॥ नाथश्च सर्वलोकानां श्रीरामो मैथिले पुरे । भङ्क्त्वा माहेश्वरं चापमुदूहे मैथिलीं शुभाम् ॥ ७॥ यतः स्वस्य धनुः कृष्टं दृष्ट्वा च विस्मयं गतः । संस्तुत्य भार्गवो रामं स्वेष्टदेशं जगाम तत् ॥ ८॥ तस्मै हि स्वपदं दातुमियेष कोशलेश्वरः । गतो रामो वनं किन्तु कैकेयीवरयाञ्चया ॥ ९॥ वासं वन्यं गते रामे राजा स्वर्ग जगाम हि । नैच्छत्तु भरतो राज्यमाज्ञप्तो गुरुणापि च ॥ १९॥ इति रामोऽनुनीतोऽपि भरतेन महात्मना । नैच्छद् राज्यं ददौ किन्तु पादुके भरताय हि ॥ १२॥ चक्रे च भरतेनापि पादुकाराधनं शुभम् । पादुकाधीनतां गत्वा रामराज्यं ररक्ष सः ॥ १३॥ यातश्च दण्डकारण्यं चित्रकूटाद्धि राघवः । रक्षितुं ऋषिसङ्घं च रामेण राक्षसा हताः ॥ १४॥ चकार पञ्चवट्यां हि वासं गोदावरीतटे । रामेच्छ्याऽनुजेनाथ शूर्पणखाविरूपिता ॥ १५॥ तेनागताँश्च युद्धाय खरादिकान् हि राक्षसान् । निजघान रणे रामो दारुणान् ऋषिमक्षकान् ॥ १६॥ अथ जगाम मारीचं रावणो राक्षसाधिपः । हैमं मृगं च तं कृत्वा स्वयं सीतामपाहरत् ॥ १७॥ भयात् पलायितं रामो हतवान् काञ्चनं मृगम् । सलक्ष्मणः कुटीं गत्वा सीतार्थं विललाप च ॥ १८॥ यं विदित्वा गुरोर्लोकास्तरन्ति शोकसागरम् । स एव भगवान् रामः शुशोच नरलीलया ॥ १९॥ यं विदित्वा गुरोर्लोकास्तरन्ति शोकसागरम् । स एव भगवान् रामः शुशोच नरलीलया ॥ १९॥ सर्वथाऽऽत्मार्पकं गृध्रं मुक्ति दत्त्वा च राघवः । सानुजो वायुपुत्रेण सुग्रीवं चाथ सङ्गतः ॥ २०॥ सर्वथाऽऽत्मार्पकं गृध्रं मुक्ति दत्त्वा च राघवः । सानुजो वायुपुत्रेण सुग्रीवं चाथ सङ्गतः ॥ २०॥ वह्निं च साक्षिणं कृत्वा सुकण्ठमित्रतां गतः । हत्वा च वालिनं रामो सुग्रीवं कृतवान् नृपम् ॥ २१॥ भूमिजान्वेषणायाथ प्रेषिता ऋक्षवानराः । लङ्कायां सा हि दृष्टाथ लङ्का दग्धा हनूमता ॥ २२॥ तेभ्यः सहागतेभ्यश्च दत्त्वाऽऽनन्दं च मारुतिः । सन्देशं भूमिजायाश्च श्रीरामाय न्यवेदयत् ॥ २३॥ यो राघवो भवाब्धेश्च तारको विश्रुतः श्रुतौ । अश्मसेतुं स एवाब्धौ कृतवान् विस्मयावहम् ॥ २४॥ ददौ विभीषणाय स्वं श्रिताय राघवोऽभयम् । सर्वेभ्यश्चाभयं रामो दत्ते सकृत् प्रपत्तितः ॥ २५॥ दाम्भिकं रक्षसां नाथं रावणं राघवोऽवधीत् । लङ्केशं कृतवान् रामो स्वप्रपन्नं विभीषणम् ॥ २६॥ ये मृतास्तांश्च सञ्जीव्य सुरैर्ब्रह्मादिभिः स्तुतः । स्वजनैः पुष्पकेनाथ रामोऽयोध्यामगात् पुनः ॥ २७॥ तद् रामागमनं प्रोक्तं भरतं श्रीहनूमता । श्रुत्वा समागतान् सर्वानाश्लिक्षद् राघवः प्रभुः ॥ २८॥ व्रतं स्वजनकाज्ञप्तं पूर्णं कृत्वा हि राघवः । उररीकृतवान् राज्यं सर्वनेत्रमहोत्सवम् ॥ २९॥ ततं दृष्ट्वा पुष्पवृष्टिर्हि कृता हर्षात् सुरैः शुभा । रामराज्ये प्रजा सर्वा लोकत्रयं मुमोद च ॥ ३०॥ महतश्च महीयान् यश्चाणीयानणुतोऽपि यः । वन्दे तं राघवं ब्रह्म व्यापकं श्रितमुक्तिदम् ॥ ३१॥ महोदधिर्गुणानां यो निर्दोषः सुषमाकरः । अमोघार्चास्तवं वन्दे तं रामं वेदवेदितम् ॥ ३२॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मितम् । भवताच्चरममन्त्ररामायणं सुखप्रदम् ॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि प्रणीतं चरममन्त्ररामायणं सम्पूर्णम् । Proofread by Parashara Ranganathan
% Text title            : Charamamantraramayanam
% File name             : charamamantrarAmAyaNaM.itx
% itxtitle              : charamamantrarAmAyaNaM (haryaAnandAchAryavirachitA) 
% engtitle              : charamamantrarAmAyaNaM
% Category              : raama, rAmAnanda, mantra
% Location              : doc_raama
% Sublocation           : raama
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org