चरममन्त्ररामायणं
श्रियानन्दं गुरुं नत्त्वा रामं बोधायनं तथा ।
कुर्वे श्रीचरममन्त्ररामायणं हि मुक्तिदम् ।
सर्वज्ञः सर्वशक्तिश्च सर्वेशः सर्वकारणम् ।
रामः सर्वावतारी हि कौशल्यानन्दनोऽभवत् ॥ १॥
कृतं सर्वं जगद् येन स्वेक्षणाच्च स्वदेहतः ।
तद् ब्रह्मधर्मरक्षार्थमयोध्यायामजायत ॥ २॥
देवप्रार्थनया रामो दाशरथिर्बभूव हि ।
बाललीला कृता रम्या रामेण सर्वसौख्यदा ॥ ३॥
वशिष्ठात् पठिताः सर्वा विद्या रामेण धीमता ।
रामोऽथ यज्ञरक्षायै विश्वामित्रेण याचितः ॥ ४॥
प्रभावाच्च महान् रामो बालोऽपि ताटकामहन् ।
हत्त्वा राक्षससङ्घांश्च मुनेर्यज्ञं ररक्ष हि ॥ ५॥
पत्या शिला कृताऽहिल्या पादधूल्या हि रामतः ।
चैतन्यं प्रापिता रामं तुष्टाव श्रद्धया भृशम् ॥ ६॥
नाथश्च सर्वलोकानां श्रीरामो मैथिले पुरे ।
भङ्क्त्वा माहेश्वरं चापमुदूहे मैथिलीं शुभाम् ॥ ७॥
यतः स्वस्य धनुः कृष्टं दृष्ट्वा च विस्मयं गतः ।
संस्तुत्य भार्गवो रामं स्वेष्टदेशं जगाम तत् ॥ ८॥
तस्मै हि स्वपदं दातुमियेष कोशलेश्वरः ।
गतो रामो वनं किन्तु कैकेयीवरयाञ्चया ॥ ९॥
वासं वन्यं गते रामे राजा स्वर्ग जगाम हि ।
नैच्छत्तु भरतो राज्यमाज्ञप्तो गुरुणापि च ॥ १९॥
इति रामोऽनुनीतोऽपि भरतेन महात्मना ।
नैच्छद् राज्यं ददौ किन्तु पादुके भरताय हि ॥ १२॥
चक्रे च भरतेनापि पादुकाराधनं शुभम् ।
पादुकाधीनतां गत्वा रामराज्यं ररक्ष सः ॥ १३॥
यातश्च दण्डकारण्यं चित्रकूटाद्धि राघवः ।
रक्षितुं ऋषिसङ्घं च रामेण राक्षसा हताः ॥ १४॥
चकार पञ्चवट्यां हि वासं गोदावरीतटे ।
रामेच्छ्याऽनुजेनाथ शूर्पणखाविरूपिता ॥ १५॥
तेनागताँश्च युद्धाय खरादिकान् हि राक्षसान् ।
निजघान रणे रामो दारुणान् ऋषिमक्षकान् ॥ १६॥
अथ जगाम मारीचं रावणो राक्षसाधिपः ।
हैमं मृगं च तं कृत्वा स्वयं सीतामपाहरत् ॥ १७॥
भयात् पलायितं रामो हतवान् काञ्चनं मृगम् ।
सलक्ष्मणः कुटीं गत्वा सीतार्थं विललाप च ॥ १८॥
यं विदित्वा गुरोर्लोकास्तरन्ति शोकसागरम् ।
स एव भगवान् रामः शुशोच नरलीलया ॥ १९॥
यं विदित्वा गुरोर्लोकास्तरन्ति शोकसागरम् ।
स एव भगवान् रामः शुशोच नरलीलया ॥ १९॥
सर्वथाऽऽत्मार्पकं गृध्रं मुक्ति दत्त्वा च राघवः ।
सानुजो वायुपुत्रेण सुग्रीवं चाथ सङ्गतः ॥ २०॥
सर्वथाऽऽत्मार्पकं गृध्रं मुक्ति दत्त्वा च राघवः ।
सानुजो वायुपुत्रेण सुग्रीवं चाथ सङ्गतः ॥ २०॥
वह्निं च साक्षिणं कृत्वा सुकण्ठमित्रतां गतः ।
हत्वा च वालिनं रामो सुग्रीवं कृतवान् नृपम् ॥ २१॥
भूमिजान्वेषणायाथ प्रेषिता ऋक्षवानराः ।
लङ्कायां सा हि दृष्टाथ लङ्का दग्धा हनूमता ॥ २२॥
तेभ्यः सहागतेभ्यश्च दत्त्वाऽऽनन्दं च मारुतिः ।
सन्देशं भूमिजायाश्च श्रीरामाय न्यवेदयत् ॥ २३॥
यो राघवो भवाब्धेश्च तारको विश्रुतः श्रुतौ ।
अश्मसेतुं स एवाब्धौ कृतवान् विस्मयावहम् ॥ २४॥
ददौ विभीषणाय स्वं श्रिताय राघवोऽभयम् ।
सर्वेभ्यश्चाभयं रामो दत्ते सकृत् प्रपत्तितः ॥ २५॥
दाम्भिकं रक्षसां नाथं रावणं राघवोऽवधीत् ।
लङ्केशं कृतवान् रामो स्वप्रपन्नं विभीषणम् ॥ २६॥
ये मृतास्तांश्च सञ्जीव्य सुरैर्ब्रह्मादिभिः स्तुतः ।
स्वजनैः पुष्पकेनाथ रामोऽयोध्यामगात् पुनः ॥ २७॥
तद् रामागमनं प्रोक्तं भरतं श्रीहनूमता ।
श्रुत्वा समागतान् सर्वानाश्लिक्षद् राघवः प्रभुः ॥ २८॥
व्रतं स्वजनकाज्ञप्तं पूर्णं कृत्वा हि राघवः ।
उररीकृतवान् राज्यं सर्वनेत्रमहोत्सवम् ॥ २९॥
ततं दृष्ट्वा पुष्पवृष्टिर्हि कृता हर्षात् सुरैः शुभा ।
रामराज्ये प्रजा सर्वा लोकत्रयं मुमोद च ॥ ३०॥
महतश्च महीयान् यश्चाणीयानणुतोऽपि यः ।
वन्दे तं राघवं ब्रह्म व्यापकं श्रितमुक्तिदम् ॥ ३१॥
महोदधिर्गुणानां यो निर्दोषः सुषमाकरः ।
अमोघार्चास्तवं वन्दे तं रामं वेदवेदितम् ॥ ३२॥
श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मितम् ।
भवताच्चरममन्त्ररामायणं सुखप्रदम् ॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणि प्रणीतं चरममन्त्ररामायणं सम्पूर्णम् ।
Proofread by Parashara Ranganathan