श्रीचिरञ्जीविरामायणम्

श्रीचिरञ्जीविरामायणम्

पायात् क्षीराब्धिशायी कमलभवनुतः कोसलेन्द्रस्य पुत्रो रामः सौमित्रियुक्तः कुशिकसुतगिरा ताटकाप्राणहारी । यज्ञं निर्वर्त्य गङ्गासुचरितमुदितः पावयंस्तामहल्यां सीतामुद्वाह्य जित्वा पथि भृगुतनयं प्राप्य हर्षादयोध्याम् ॥ १॥ श्रीरामं नौमि कैकेय्यभिलषितवरात् खिन्नमालोक्य तातं तद्वाचा त्यक्तराज्यं झटिति वनगतं मैथिलीलक्ष्मणाभ्याम् । स्वर्गस्थे राज्ञि शोकात् कृतनुतिभरतप्रार्थनात् पादुके स्वे दत्त्वास्मै तन्निवृत्त्या स्थितमनुजयुतं सेवितं चित्रकूटे ॥ २॥ हत्वारण्ये विराधं मुनिनिकरमुदे पञ्चवट्यामुषित्वा वैरूप्यात् शूर्पणख्या(ः)निशित (कुपित)खरमुखान् ध्वंसयित्वार्धयामम् । मारीचं मर्दयित्वा दशवदनहृतां तत्र सीतामदृष्ट्वा दग्ध्वा क्रुद्धं कबन्धं शबरिवनितया पूजितं राममीडे ॥ ३॥ पम्पातीरे हनूमत्पटुतरवचनादृश्यमूकं च गत्वा कृत्वा सुग्रीवसख्यं निशितशरवरैः सप्तसालांश्च भित्त्वा । हत्वा सुत्रामपुत्रं दिनकरजनुषस्तस्य राज्यं च दत्त्वा तेनानीतैः कपीशैर्विदित(विचित)सकलभूमण्डलं राममीडे ॥ ४॥ सेतुं बद्ध्वा समुद्रे सकलबलयुतं रावणं कुम्भकर्णं हत्वा तत्पुत्रवर्गं तदनुजमभिषिच्याथ लङ्काधिनाथम् । सीतां लब्ध्वाग्निशुद्धां सकलसुरनुतं पुष्पयानाधिरूढं सुग्रीवाद्यैरुपेतं रघुपतिमनिशं प्राप्तराज्यं नमामि ॥ ५॥ सकृदपि यदि रामेत्युच्चरन् यस्तु मर्त्यः सकलदुरितसङ्घैः संयुतो वापि नूनम् । न निवसति स मातुर्गर्भवासी कदाचि- न्निवसति हरिलोके नास्ति सन्देहलेशः ॥ ६॥ इति श्रीचिरञ्जीविरामायणं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Chiranjivi Ramayanam
% File name             : chiranjIvirAmAyaNam.itx
% itxtitle              : chiranjIvi rAmAyaNam
% engtitle              : chiranjIvi rAmAyaNam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org