वाल्मीकि रामायण बालकाण्ड
॥ ध्यान श्लोकाः ॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥ ॥
सर्वविघ्नप्रशमनं सर्वसिद्धिकरं परम् ।
सर्वजीवप्रणेतारं वंदे विजयदं हरिम् ॥ ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसांतकम् ॥ ॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेदसादासीत् साक्षाद्रामायणात्मना ॥ ॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ॥
तदुपगत समाससन्धि योगम् ।
सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतम् ।
दशशिरश्च वधं निशामयद्ध्वम् ॥ ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे ।
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुतेतत्त्वम्मुनिभ्यः परम् ।
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ॥
वाल्मीकेर्मुनिसिंहस्य कविता वनचारिणः ।
श्रुण्वन्रामकथानादं को न याति परां गतिम् ॥ ॥
हनूमानञ्जनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ ॥
उदधिक्रमणश्चैव सीतासंदेश हारकः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ ॥
महाव्याकरणांभोधि मंथमानसमंदरम् ।
कवयन्तं रामकीर्त्या हनूमंतमुपास्महे ॥ ॥
वायुर्भीमो भीमनादो महूजाः सर्वेशां च प्राणिनां प्राणभूतः ।
अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः ॥ ॥
ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषि योगे ।
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्वचकश्च नैव ॥ ॥
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहंता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतांवरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननंदनम् ॥ ॥
यः सर्वगुणसम्पूर्णः सर्वदोष विवर्जितः ।
प्रीयतां प्रीतयेवालं विष्णुर्मे परमः सुहृत् ॥ ॥
सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे ।
विहरन्तो महीयांसः प्रियंतां गुरवो मम ॥ ॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वं अरोगता ।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥ ॥
॥ सङ्कल्प ॥
श्री सीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेत श्री रामचंद्र प्रभोः
प्रसादेन अस्मच्चिन्तित सकलाभीष्टसिद्ध्यर्थं भार्गवविजयात्मक
श्रीमद्रामायणघट्टपारायणमहं करिष्ये ।
॥ अथ पञ्चसप्ततितमः सर्गः ॥
राम दाशरथे रामो विर्यं ते श्रूयतेऽद्भुतम् ।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १॥
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।
तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥ २॥
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः ।
पूजयस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३॥
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।
द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्ळाघ्यस्य राघव ॥ ४॥
तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा ।
विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५॥
क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।
बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६॥
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ ७॥
स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम् ।
दत्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८॥
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने ।
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९॥
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १०॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ ११॥
अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे ।
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ १२॥
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्ते सुरोत्तमैः ॥ १३॥
तदिदं वैष्णवं राम धनुः परपुरञ्जयम् ।
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदं ॥ १४॥
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ १५॥
अभिप्रायं तु विज्ञाय देवतानां पितामहः ।
विरोधं जनयामास तयोः सत्यवतां वरः ॥ १६॥
विरोधे च महद्युद्धमभवद् रोमहर्षणम् ।
शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ॥ १७॥
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ।
हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥ १८॥
देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ।
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ १९॥
जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ २०॥
धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः ।
देवरातस्य राजर्षेः ददौ हस्ते ससायकं ॥ २१॥
इदं च वैष्णवं राम धनुः परपुरञ्जयम् ।
ऋचीके भार्गवे प्रादाद् विष्णुः संन्यासमुत्तमम् ॥ २२॥
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २३॥
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।
अर्जुनो विदधे मृत्युं प्राकृताः बुद्धिमास्थितः ॥ २४॥
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।
क्षत्रमुत्सादयन् रोषात् जातं जातमनेकशः ॥ २५॥
पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने ।
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ २६॥
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।
श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ॥ २७॥
तदिदं वैष्णवं राम पितृपैतामहं महत् ।
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ २८॥
योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् ।
यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ २९॥
॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये ॥
॥ बालकाण्डे पञ्चसप्ततितमः सर्गः ॥
॥ अथ षट्सप्ततितमः सर्गः ॥
श्रुत्त्वा तद् जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ १॥
कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव ।
अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ २॥
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।
अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३॥
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥ ४॥
आरोप्य तद्धनू रामः शरं सज्यं चकार ह ।
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ ५॥
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च ।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ ६॥
इमां पादगतिं राम तपोबलसमार्जितान् ।
लोकानप्रतिमान् वाते हनिष्यामि यदिच्छसि ॥ ७॥
न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।
मोघः पतति वीर्येण बलदर्पविनाशनः ॥ ८॥
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ ९॥
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।
यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम् ॥ १०॥
जडीकृते तदा लोके रामे वरधनुर्धरे ।
निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥ ११॥
तेजोऽभिहतवीर्यत्वात् जामदग्न्यो जडीकृतः ।
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ १२॥
कश्यपाय मया दत्ता यदा पूर्वं वसुंधरा ।
विषये मे न वस्तव्यमिति मां कश्यपोऽब्रवीत् ॥ १३॥
सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसेऽनिशम् ।
कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य ह ॥ १४॥
तादिमां त्वंगतिं वीर हन्तुं नार्हसि राघव ।
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १५॥
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः ॥ १६॥
अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।
धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥ १७॥
एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८॥
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९॥
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ २०॥
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥ २१॥
स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान् ।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२॥
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा ।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ २३॥
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ २४॥
॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये ॥
॥ बालकाण्डे षट्सप्ततितमः सर्गः ॥
॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ॥
Encoded and proofread by Shrisha Rao shrao at dvaita.org