श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः
प्रणम्य भाष्यकृद्रामानन्दं रामं गुरुं तथा ।
धर्मबोधाय कुर्वेऽहं धर्मशिक्षावलीं शुभाम् ॥ १॥
सर्वात्मा च मतो रामस्तद्देहाः सर्व एव हि ।
समादृत्य ततः सर्वान् सुखिनः सर्वथा कुरु ॥ २॥
अहिंसासदृशो धर्मो लोके वेदे च नास्ति तत् ।
अहितं कस्यचित् क्वापि कदाचिदपि नो कुरु ॥ ३॥
सत्यं हि परमो धर्मः सर्वं सत्ये प्रतिष्ठितम् ।
मनसा कर्मणा वाचा सदा सत्यं समाचर ॥ ४॥
इन्द्रियाणां समूहं च विषयाद् विनिवर्त्य हि ।
श्रीमद्रामस्य कैङ्कर्ये सर्वदा विनियोजय ॥ ५॥
सर्वेषां हितकर्त्ता च स्वामी रामः परेश्वरः ।
तस्य सर्वात्मनो जीवो दासोऽणुः चेतनो वपुः ॥ ६॥
अद्वितीयो जगद्धेतू रामो दिव्यवपुर्गुणः ।
सर्वेषां रक्षकश्चाथ भक्त्या मुक्तिप्रदायकः ॥ ७॥
स्वस्य दास्यं च रामस्य स्वामितां स्मर नित्यशः ।
बद्धतां स्वस्य रामस्य मोचकत्वं च भावय ॥ ८॥
त्वां त्वदीयं च सर्वं हि श्रीमद्रामस्य चिन्तय ।
स्वीय तथा निजात्मानं श्रीमद्रामाय चार्पय ॥ ९॥
स्वस्याहितविधातारं प्रति हितं समाचर ।
देहेन मनसा वाचा सर्वदैव शुचिर्भव ॥ १०॥
रामभक्तैर्न कर्त्तव्या चिन्ताभोजनवस्त्रयोः ।
यतो विश्वम्भरो रामो नैव भक्तानुपेक्षते ॥ ११॥
पूर्वाचार्यप्रबन्धानां सर्वदा चिन्तनं कुरु ।
रामायणादिपाठं च कुरु नित्यं हि श्रद्धया ॥ १२॥
मुनिभिः सर्वशास्त्रैश्च निश्चितमेतदेव हि ।
ज्ञेयो ध्येयश्च गेयश्च सीतानाथोऽखिलेश्वरः ॥ १३॥
आचार्यसहितौ सीतारामौ पूज्यौ च सर्वदा ।
सायं प्रातश्च रामस्य स्तुतिः कार्या मुमुक्षणा ॥ १४॥
रामं च रामभक्ताँश्च ये नमन्ति सदा भुवि ।
सन्ति ते मानवा देवा नमस्कार्या हि तेऽनिशम् ॥ १५॥
सर्वेषु रममाणं हि रामं स्मरति यः सदा ।
यज्ञो दानं तपश्चात्र सन्तु तस्य न वा भुवि ॥ १६॥
न च रामात् परं नाम न मन्त्रस्तारकात् परः ।
श्रीरामान्न परो देवः शास्त्रं वेदात् परं न हि ॥ १७॥
रामं ब्रह्म विहायात्र परस्योपासनं च यत् ।
जाह्रव्याश्च जलं त्यक्तवा पानं कूपजलस्य तत् ॥ १८॥
लाभस्तस्य जयस्तस्य नैव तस्य पराजयः ।
रामःकमलपत्राक्षो विषयो यस्य संस्मृतेः ॥ १९॥
श्रीतनतुलसीदासद्वाराचार्येण निर्मिता ।
धर्मशिक्षावली भूयाद् धर्मतत्त्वावबोधिनी ॥ २०॥
इति श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey