श्रीकर्मचन्द्राचार्यनिर्मितः कर्मबन्धविनाशकस्तवः
रामानन्दं नमस्कृत्य भाष्यकृद्यमिनां पतिम् ।
कर्मबन्धविनाशाय कुर्वे रामस्तवं वरम् ॥ १॥
यस्मिन् हि सच्चिदानन्दे रमन्ते योगिनः सदा ।
श्रीरामं ब्रहम तं वन्दे कर्मबन्धविनाशकम् ॥ २॥
उपादानं निमित्तं च सर्वस्य जगतोऽस्य यःक्ष ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ३॥
सकृदेव प्रपत्त्या यः सर्वेभ्योऽभयदः प्रभुः ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ४॥
यद्भक्त्या यत्प्रपत्त्या वा सायुज्यं समवाप्यते ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ५॥
पापानां नाशकं यस्य रामेतिनामकीर्त्तनम् ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ६॥
विश्वस्य सृष्टिकृच्चाथ स्थितिकृल्लयकृत्तथा ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ७॥
गुणाब्धिर्दिव्यदेहो यः सर्वशक्तिश्च सर्ववित् ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ८॥
वृत्तं रामायणं यस्य वेदोपबृंहणं मतम् ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ९॥
वेदविद् वेदवेद्यो यो वेदकृद् वेदभृत् तथा ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ १०॥
अमोधं वन्दनं यस्य पूजनं दर्शनं तथा ।
श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ११॥
द्वारपीठाधिपश्रीमत्कर्मचन्द्रार्यनिर्मितः ।
स्तवोऽयं पठतां भूयात् सर्वथा सुखदायकः ॥ १२॥
इति श्रीकर्मचन्द्राचार्यनिर्मितः कर्मबन्धविनाशकस्तवः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey