श्रीलक्ष्मणकवचम्

श्रीलक्ष्मणकवचम्

॥ अथ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीलक्ष्मणकवचम् ॥ अगस्तिरुवाच- सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामळं बिभ्रन्तं स्वकरेण रामशिरसि छत्रं विचित्रं वरम् । बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥ ॐ अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । श्रीलक्ष्मणो देवता । शेष इति बीजम् । सुमित्रानन्दन इति शक्तिः । रामानुज इति कीलकम् । रामदास इत्यस्त्रम् । रघुवंशज इति कवचम् । सौमित्रिरिति मन्त्रः । श्रीलक्ष्मणप्रीत्यर्थं सकलमनोऽभिलषितसिद्ध्यर्थं जपे विनियोगः ॥ अथ अङ्गुळीन्यासः - ॐ लक्ष्मणाय अङ्गुष्ठाभ्यां नमः । ॐ शेषाय तर्जनीभ्यां नमः । ॐ सुमित्रानन्दनाय मध्यमाभ्यां नमः । ॐ रामानुजाय अनामिकाभ्यां नमः । ॐ रामदासाय कनिष्ठिकाभ्यां नमः । ॐ रघुवंशजाय करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः - ॐ लक्ष्मणाय हृदयाय नमः । ॐ शेषाय शिरसे स्वाहा । ॐ सुमित्रानन्दनाय शिखायै वषट् । ॐ रामानुजाय कवचाय हुं । ॐ रामदासाय नेत्रत्रयाय वौषट् । ॐ रघुवंशजाय अस्त्राय फट् । ॐ सौमित्रये इति दिग्बन्धः ॥ अथ ध्यानम् - रामपृष्ठस्थितं रम्यं रत्नकुण्डलधारिणम् । नीलोत्पलदळश्यामं रत्नकङ्कणमण्डितम् ॥ १॥ रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमम् । वरपीताम्बरधरं मुकुटेनाधिशोभितम् ॥ २॥ तूणीरे कार्मुके चापि बिभ्रन्तं च स्मिताननम् । रत्नमालाधरं दिव्यं पुष्पमालाविराजितम् ॥ ३॥ एवं ध्यात्वा लक्ष्मणं च राघवन्यस्तलोचनम् । कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥ ४॥ अथ कवचम् । ॐ लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः । प्रतीच्यां पातु सौमित्रिः पातूदीच्यां रघूत्तमः ॥ ५॥ अधः पातु महावीरः चोर्ध्वं पातु नृपात्मजः । मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥ ६॥ स्मिताननः शिरः पातु भालं पातूर्मिलाधवः । भ्रुवोर्मध्ये धनुर्धारी सुमित्रानन्दनोऽक्षिणी ॥ ७॥ कपोले रममन्त्री च सर्वदा पातु वै मम । कर्णमूले सदा पातु कबन्धभुजखण्डनः ॥ ८॥ नासाग्रं मे सदा पातु सुमित्राऽऽनन्दवर्धनः । रामन्यस्तेक्षणः पातु सदा मेऽत्र मुखं भुवि ॥ ९॥ सीतावाक्यकरः पातु मम वाणीं सदाऽत्र हि । सौम्यरूपः पातु जिह्वां अनन्तः पातु मे द्विजान् ॥ १०॥ चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः । स्कन्धौ पातु जितारातिः भुजौ पङ्कजलोचनः ॥ ११॥ करौ कङ्कणधारी च नखान् रक्तनखोऽवतु । कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥ १२॥ पार्श्वे राघवपृष्ठस्थः पृष्ठदेशं मनोरमः । नाभिं गम्भीरनाभिस्तु कटिं च रुक्ममेखलः ॥ १३॥ गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः । ऊरू पातु विष्णुतल्पः सुमुखोऽवतु जानुनी ॥ १४॥ नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान् मम । पादावङ्गदतातोऽव्यात् पात्वङ्गानि सुलोचनः ॥ १५॥ चित्रकेतुपिता पातु मम पादाङ्गुलीः सदा । रोमाणि मे सदा पातु रविवंशसमुद्भवः ॥ १६॥ दशरथसुतः पातु निशायां मम सादरम् । भूगोलधारी मां पातु दिवसे दिवसे सदा ॥ १७॥ सर्वकालेषु मामिन्द्रजिद्धन्ताऽवतु सर्वदा । एवं सौमित्रिकवचं सुतीक्ष्ण कथितं मया ॥ १८॥ इदं प्रातः समुत्थाय ये पठन्त्यत्र मानवाः । ते धन्या मानवा लोके तेषां च सफलो भवः ॥ १९॥ सौमित्रेः कवचस्यास्य पठनान्निश्चयेन हि । पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ॥ २०॥ पत्नीकामो लभेत्पत्नीं गोधनार्थी तु गोधनम् । धान्यार्थी प्राप्नुयाद्धान्यं राज्यार्थी राज्यमाप्नुयात् ॥ २१॥ पठितं रामकवचं सौमित्रिकवचं विना । घृतेन हीनो नैवेद्यस्तेन दत्तो न संयशयः ॥ २२॥ केवलं रामकवचं पठितं मानवैर्यदि । तत्पाठेन सुसन्तुष्टो न भवेद्रघुनन्दनः ॥ २३॥ अतः प्रयत्नतश्चेदं सौमित्रिकवचं नरैः । पठनीयं सर्वदैव सर्ववाञ्छितदायकम् ॥ २४॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीलक्ष्मणकवचं सम्पूर्णम् ॥ हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्-लक्ष्मण-सीता-राम – अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥ All the six kavachas hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna from AnandarAmAyaNa should be recited together. If one is unable to recite all the six, then he/she can recite in the decreasing order hanumat-lakShmaNa-sItA-rAma hanumat-sItA-rAma hanumat-rAma sItA-rAma If this is not possible, then one should at least recite Shri Rama Kavacham. Encoded and Proofread by Antaratma, PSA Easwaran
% Text title            : laxmaNakavacham
% File name             : laxmanakavachaAnanda.itx
% itxtitle              : lakShmaNakavacham(AnandarAmAyaNAntargatam)
% engtitle              : laxmaNakavacham
% Category              : kavacha, raama, vAlmIki
% Location              : doc_raama
% Sublocation           : raama
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net, PSA Easwaran
% Proofread by          : Antaratma antaratma at Safe-mail.net, PSA Easwaran
% Description-comments  : from Anandaramayana
% Indexextra            : (scan)
% Latest update         : January 30, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org