श्रीजङ्गिदेवाचार्यप्रणीतं श्रीमिथिलामङ्गलं
रामं च भाष्यकृद्रामानन्दाचार्यं च मारुतिम् ।
कुर्वे नत्त्वाऽग्रदेवाचार्यं मिथिलामङ्गलमं शुभम् ॥ १॥
सुधातुल्यजलैर्युक्ता यत्र सरःसरिद्वराः ।
तस्यै सरः सरिद्वत्यै मिथिलायै सुमङ्गलम् ॥ २॥
यत्रोद्यानानि शोभन्ते वृक्षैः सफलपुष्पकैः ।
तस्यै चोद्यानयुक्तायै मिथिलायै सुमङ्गलम् ॥ ३॥
यत्र दार्शनिका जाता श्रीमद्बोधायनादयः ।
तस्यै विद्वद्विशिष्टायै मिथिलायै सुमङ्गलम् ॥ ४॥
यस्यां पुर्यामुदूढा च रामेण जनकात्मजा ।
तस्यै महोत्सवाढ्यायै मिथिलायै सुमङ्गलम् ॥ ५॥
सीतारामपदस्पर्शात् पुण्यशीला च यत्क्षितिः ।
तस्यै पापापहारिण्यै मिथिलायै सुमङ्गलम् ॥ ६॥
जानकीजन्मभूमिर्या भक्तिदा मुक्तिदा तथा ।
तस्यै महाप्रभावायै मिथिलायै सुमङ्गलम् ॥ ७॥
द्वारपीठार्यश्री जङ्गिदेवाचार्यविनिर्मितम् ।
पठतां मङ्गलं कुर्यान्मिथिलामङ्गलं शुभम् ॥ ८॥
इति श्रीजङ्गिदेवाचार्यप्रणीतं श्रीमिथिलामङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey