मुक्तामाला
(* गीतिवृत्तं)
(१)पुण्यश्लोकशिखामणिचरणं शरणं सतामतापकरं ।
वन्दे नतनरकपिसखमखलजितं मखभुजां महः प्रथमम् ॥ १॥
विधाय पञ्चदशेन शतेन गीतिभिः सहृदयेभ्य उपायनीकरोति ।
(२)निस्पृहनिर्भयवित्तं श्यामलमतिशयितदायितमनिमित्तम् ॥ २॥
बहुभिः(३) कृतं, चतुर्भिः पङ्क्तिरयः पुत्रिणामभूरपथमः ।
बहुदानामपि, पुत्रौ धर्मार्थमसौ ददौ यदौदार्यात् ॥ ३॥
गाधिज(४)! । भवतोऽधीतं शिष्यैः कतिभिर्न गालवप्रमुखैः
वरमेको दाशरथिः पिवतामुदधेरपोऽबुदो ह्यधिकः ॥ ४॥
मातरहल्ये(५) ! । स्पृष्टा येन पदा तमपि पूजयसि बालं ।
नूनं स तव सतीर्थ्यः पदाहतोऽप्युरसि यो ननाम भृगुम् ॥ ५॥
अबलाकृष्टमपि(६) सदसि धनुरैशं हा कथं नु भग्नमिति ।
भीतमिवानतकन्धरमाश्लिष्य ददाविवाभयं भगवान् ॥ ६॥
सर्वसहापि(७) धनुषस्तस्य चकम्पे रवेण घोरेण ।
बालापि भृशं मुमुदे सीता मृदुनेव वेणुनादेन ॥ ७॥
गुरुणा(८) योगं कर्तुं सञ्जीविन्येव सीतयातुलया ।
सर्वमतेन विनाशश्चापेनाङ्गीकृतः कचेनेव ॥ ८॥
(९)बहुभुजमरिमजयमिति किमनेन दैवं तु हेतुरत्रैकं ।
ग्रसते सहस्रकरमपि काले राहुर्हि बाहुविकलोऽपि ॥ ९॥
भगवन्वसिष्ठ ! । कथमिदमधुनैव मुहूर्तमीदश दत्तं ।
क्व वनप्रयाणमहह क्व च युवराज्याभिषेकमेहकालः(१०) ? ॥ १०॥
(११)पङ्केरुहदृशमध्वनि तं केवलमङ्गनानुजानुगतम् ।
शङ्के धावितमीक्षितुमङ्के विस्मृत्य शिशुमपि स्त्रीभिः ॥ ११॥
(१२)नृत्यन्मयूरपरिवृतमेणकुलानुगतमलिभिरुपस्पृष्टं ।
तं घनदूर्वापुञ्जश्यामलमब्जाननं भजेऽध्वन्यम् ॥ १२॥
सौरावप्यमृतकरौ(१३) यौ राजवरैः सदा शिरोधार्यौ ।
गौरासितौ वरमणी पौरा बत! हारितौ प्रमादेन ॥ १३॥
(१४)मात्रा माऽत्राऽऽस्वेति प्रहितो वनमालयान्निजं धर्मं ।
पित्रापि त्रातुं यस्तं धर्मज्ञोत्तमं जगुः कवयः ॥ १४॥
किमिति(१५) निषाद ! । विषादः पश्य कुमारोऽयमर्ककुलपालः ।
वनमागतोऽपि वल्क्यपि जटिलोऽपि नृपोत्तमश्रिया श्लिष्टः ॥ १५॥
कुशली(१६) तेऽस्ति कुमारो मा रोदीरम्ब तं बहोः कालात् ।
वनं गता रामादय ऋषिभिः सत्कृता इत्यर्थः ।
तृषिताः पिबन्तु वन्याः संन्यासिन उत्सुकाः सुकार्यमिताः ॥ १६॥
(१७)वर्ते पितुरुत्सङ्गे सङ्गे मातुः पुरे पुरेव सुखं ।
इति भवदात्मजमतमत आस्मानं देवि! काननेऽमंस्थाः ॥ १७॥
नन्दन(१८) वनं व्रजेति त्वमवोचः सत्यमजकुलोत्तंस ! ।
स तु वनमगात्तमीक्षितुमविचार्य गतोऽसि नन्दनं हन्त! ॥ १८॥
अमृतमपि नाम पिबतस्तापो बहुलीभवत्यदः किमिति ।
प्रष्टुं नु दशरथ! त्वं (१९)देस्रावस्राकुलक्षणो यातः ॥ १९॥
(२०)स्त्रैणं त्वामूचुरहो रहोगता मन्त्रिणो न मुनयोऽपि ।
साकममरपतिना के नाकेऽपि भवन्तमागतं वीक्ष्य ॥ २०॥
(२१)शोच्यासि त्वमयोध्ये! ॥अपहृतमटव्या त्वदीयसौभाग्यं ।
पतिमिच्छन्त्या भाव्यं त्वयापि मातर्विपक्षवेषयुजा ॥ २१॥
(२२)मा मातरमवमंस्था भरत ! । स्वगुणप्रकाशहेतुमिमां ।
सेकादधिकमशोके कुशलं पादाहतेर्यदि वरं सा ॥ २२॥
विषयविरक्तिर्गुरुपदभक्तिरखिलसज्जनेषु महितत्वम् ।
क्वत्यं सत्यं वद पदपद्मं मा जातु मातुरवमंस्थाः ॥ २३॥
मातः कैकेयि! । जगति कृतिषु कृतोपकृतिषु स्वमेव वरम् ।
यदखिललोकहितं कृतमुररीकृत्यापि दुःसहं व्यसनम् ॥ २४॥
(२३)कास्यान्यास्याब्जासवमधुपी त्वत्तो नृपस्य बहुमान्या ।
दास्या हास्यास्पदतां सरले! नीतासि देवि! मन्थरया ॥ २५॥
उदित(२४) नीतिमदमतं मुदितं सिद्धिं समीक्ष्य भोक्तुमलं ।
उदितं फलमनयतरो रुदितं बत मन्थरे ! त्वया किमिति? ॥ २६॥
(२५)शोकदवज्वलनावृतशुद्धान्तवनैकसंश्रया मृग्यः? ।
बाष्पस्रातास्तिष्ठत जीवनदः क्व नु स साम्प्रतं मृग्यः? ॥ २७॥
दीपक इव निःश्वासैर्नहि शोकशिखी(२६) प्रयाति निर्वाणं ।
बत! वर्धतेऽश्रुसलिलैरपि तूष्णीकैस्त्वयं सुखं जेयः ॥ २८॥
चिन्ते ! । किं ते विषयैर्ध्यातैः क्षणभङ्गुरैर्विषादफलैः ।
दास्यति लब्ध्वा कामं कामं का मङ्गला मुदं सम्पत् ॥ २९॥
मूर्तः सदयः सदयः सरसः (२७)सुधैकपरिपूर्णात् ।
शमयन्नमतां ममतां शमलं शमलं ददाति कोऽपि जटी ॥ ३०॥
कापि(२८) तपस्विजनानां तपसां सिद्धिर्महेशगलमाला
नीलापीलाधरमुपहसति गुणैरिन्दुमपि पयोधिमपि ॥ ३१॥
अवने(२९) पटुस्त्रिजगतामवनेराद्यः प्रियोऽपि जामाता
भवने विधातुरीड्यः स बने सवनेतृनायको जयति ॥ ३२॥
रक्षोबदलनविधौ दक्षो वक्षोजगिरिहरिर्लक्ष्म्याः
पक्षो(३०) जयति वलक्षोऽस्माकमधिक्षोणि शक्रनीलनिभः ॥ ३३॥
(३१)अव्ययमदस्युगोचरमुर्वपि न मदप्रदं पदं प्रमुदाम् ।
वित्तमनीहमनोहरमस्माकं चित्तमात्मसात्कुरुते ॥ ३४॥
अङ्कर(३२)हितममृकरं शङ्करहितमनिशमेधमानकलं
मित्रं स्वया श्रियाप्युपकुर्वाणमहं भजे चकोरशिशुः ॥ ३५॥
कति न जटिला वटा इव धन्वधराः कति न कानने शबराः?
एकः कोऽप्यजकुलजः (३३)कपर्दिसुमधन्वनोः श्रियं हरति ॥ ३६॥
यामे रजनेश्चरमे या मेघनिभा सुनिस्पृहैश्चिन्त्या ।
सामेतरैरुपायैः(३४) सा मे भूतिर्न कैश्चिदपि लभ्मा ॥ ३७॥
(३५)द्यावाभूमिभ्यामिव याभ्यां स्त्रीभ्यामपि प्रजाः सुचिरं ।
निर्भयमराजकेऽपि त्राता वां पादुके नमस्यामः ॥ ३८॥
(३६) भरत ! । भगवता गुरुणा सुशिक्षितनयो युवाप्यधीरस्त्वं ।
मन्ये धन्ये त्वत्तो जडेऽपि खलु पादुके समे व्यसने ॥ ३९॥
भो (३७)याज्ञवल्क्यशिष्य त्वां नैव यथा जहाति समिष्ठा ।
जामातरं तथा ते कन्यानन्या सती बने भवने ॥ ४०॥
लब्धा विराध ! । भवता सीताऽपात्रेण(३८) मृत्यवे न मुदे ।
कपटपटुना क्षणं सुरपङ्क्ताविव राहुणा सुधाधारा ॥ ४१॥
जङ्गमनिर्जरतरुणा(३९) तरुणारुणपादपल्लवेन सह ।
दृष्टा कनकव्रततिर्व्रततीर्थतपःफलप्रदा वनिभिः ॥ ४२॥
धन्वी जटी फलाशी तन्वीरत्नेन(४०) सादरं सततं ।
अन्वीयमान ईदृक्सन्वीतभयः सतामगादुटजम् ॥ ४३॥
(४१)अभ्रामलदीप्ति महो बभ्राम चिराय दण्डकाभूमौ ।
दभ्रामधश्चकार श्वभ्रामयमलिनशशधरज्योत्स्नाम् ॥ ४४॥
(४२)सहसैव पञ्चवव्यां हरिणा हरिणानुयायिना स्वगुहा ।
सापि च मुक्ता मुक्ता नीता बत! वञ्चकेन केनापि ॥ ४५॥
नीता(४३) शुनाशु नाशायात्मन एवासि पुत्रिके! । मोहात् ।
हास्यति नो निधनमृते न मृते स्वयमत्र किं तवोत्कर्षः? ॥ ४६॥
(४४)तदिदमुपस्थितमचिराद्यदवोचोऽनागसं किमप्यम्ब! ।
पात्रे दानं क्षेत्रे बीजं बहु भवति गुप्तमुप्तमपि ॥ ४७॥
तप्तो वाचा लतया विषमय्या भुक्तयेव बालमृगः ।
शप्तो वाचालतया कथमनघोऽप्येष देवरो देवि! ॥ ४८॥
एकं क्षणमपि धीरैरपि नूनमसह्यवेदना वाचः(४५)
स यदपससार सहसा सौमित्रिः साश्रुराश्रमादाशु ॥ ४९॥
दस्यो! । क्व त्वं यास्यसि हृत्वा रत्नं जगन्निवासस्य ?
कुत्र(४६) निलीय स्थेयं मत्स्येनागस्कृता पयोराशेः ? ॥ ५०॥
श्रद्दध्यां(४७) कथमनया स्यक्तां छायामिव स्ववत्सलतां ।
गरलप्रसवां कथयस्यमृतमयीमादितोऽपि वस्स! लताम् ॥ ५१॥
सा(४८) कुत्र पर्णशाले! । मालेहाद्यैव या मया निहिता?
लब्धा मिथिलाजानेर्जाने न्यासापहारिणीं त्वाहम् ॥ ५२॥
गोदावरि ! । सा क्व गता? जगता सत्येति संस्तुता त्वमसि ।
तमसि(४९) च्युतरत्नं जनमञ्जनदानेन मामनुगृहाण ॥ ५३॥
(५०)कासारकुन्दकदलीकीरकेसरिकृष्णसारकेकिपिकैः ।
अलिचम्पकबन्धूकैः शून्ये बत! सुन्दरी विभज्य हृता ॥ ५४॥
(५१)अयि! । ते दयिते! मयि तेऽमी सन्ति कृतप्रतिक्रियाः कृतिनः ।
गुणलवजितोऽमृतयुतिहारणः करिणस्तथैव केसरिणः ॥ ५५॥
यद्यपि गणरात्रं गतमद्यैवाह समागतोऽस्मि वनं ।
यद्रहितो(५२) भद्रहितोत्सवसुवसत्या श्रिया तया सत्या ॥ ५६॥
मृग! । यामीक्षणविजितः शक्ष्यसि नोदीक्षितुं बत! त्रपया ।
मृगयामि क्व नु तां वद मित्रमहं ते वनेचरो रामः ॥ ५७॥
लीनासि किमेकान्ते कान्ते ! । कां ते व्यलङ्घयं वाचं ?
विरहज्वरविपदयि! ते दयिते! दयितेऽतिदुःसहाऽधीरे ॥ ५८॥
सत्यन्तकेऽप्यरातौ सत्यं सोढुं तमप्यहं धीरः ।
(५३)सत्यञ्चितागि! दूये सत्यञ्चलतोंऽतरेऽपि किं विरहे ? ॥ ५९॥
दृष्टं(५४) यत्सत्यागो वत्स! । त्यागोचितं मयि प्रियया ।
तत्किं त्वया न लक्षितमक्षि तवाप्यनलसं मदाचरणे? ॥ ६०॥
वीजय मामञ्चलतः (५५)पञ्चलतः पल्लवोऽमृतवततेः ।
सुदति! शयस्ते व्यजनान्मुदतिशयस्यैकहेतुरब्जकृतात् ॥ ६१॥
कानन! । तदासि नन्दनमधुना पितृकाननं सुविस्पष्टं ।
अहमपि (५६)हरिरभवं तामृते विदानीं श्रियं महाभूतः ॥ ६२॥
नित्यं निरन्तराभ्यां सुदति ! । गुरुभ्यां निसर्गकठिनाभ्याम् ।
ध्रुवमुपदिष्टं हृदयं तव स्तनाभ्यां स्वभावमृदुलमपि ॥ ६३॥
किं दोषाकर! । वच्म्यहमिन्दो! निन्दोचितं कुरु स्वैरं ।
यस्य श्रियासि सुभगस्तस्मिन्मिने गतेऽस्तमुल्लससि ॥ ६४॥
वस्स! । न यदि ललना किं लोलेनालिङ्गिता मया लतिका ।
अस्तु तद(५७)नुकृतिदयितामहमेनां झटिति नोत्सहे हातुम् ॥ ६५॥
असवः क्व स वः प्रियसख(५८) एकाकी जन इतो गतो दूरं ।
अलसा जलसारसयोर्नहि शोभा जीवनं मिथो विरहे ॥ ६६॥
(५९)नीता वधूर्न दस्योस्नातेत्यलमार्य! । तेन तापेन ।
शापेनेव सखा तेऽधर्मेण हतोऽस्यनेन पापेन ॥ ६७॥
कश्चन युवा तपस्वी विरही परिषस्वजे तरुवततीः ।
व्रततीर्थपरा मुनयोऽनुनयोदारोक्तयस्तमानर्चुः ॥ ६८॥
(६०)अमृतममृतफलमदरं बदरं प्रेरणा बभक्ष चित्रमिदम् ।
तदपि च शबरीदत्तं मत्तं मन्ध्वं न मामियं मुनिवाक् ॥ ६८॥
किमधिकमतोऽस्ति चित्रं मित्रं विपिनौकसां श्रुतिरहस्यं ।
(६१)यदृर्शनाय यतिभिः पतिभिः पृथ्व्या मृगायितमरण्ये ॥ ७०॥
वासववैभवमूनं चक्रुः कपयोऽप्यहोऽद्भुतं शृणुत ।
पपुरमृतमागलं(६२) ददुरगनगखगमृगरिपुभ्य उत्सवतः ॥ ७१॥
पत्युः(६३) करतस्त्वामप्युटजान्मामिव कथं बलाद्धृतवान् ।
म स मुद्रेऽत्र समुद्रे नौ नौवत्रातुमागतः कस्मात् ? ॥ ७२॥
स्वपतिस्त्वसता हन्ता हन्ताहं तापमनुभवाम्यबला ।
(६४)तुल्यैवाधिसमुद्रे मुद्रे मुद्रेखया लिखितयाप्सु ॥ ७३॥
अखिलप्रश्रयपात्रं सखि! । लक्ष्मीवान्स लक्ष्मणः कुशली ।
(६५)नखिलक्षगुरुर्हरिरिव मखिलब्धास्नः स चापि वीरमणिः ॥ ७४॥
स्वं भागमिवादातुं हरिरिव हारणेष्विहागमिष्यति किं ।
मां सान्त्वयितुमनाथां नूनं त्वं प्रेषितासि दयितेन ॥ ७५॥
द्रष्टुं मातरिह त्वामार्यप्रहितोऽहमागतो दूतः ।
(६६)सूतः प्रथमं रविणा नलिनीमिव जयति सोऽस्त्रिपुरुहूतः ॥ ७६॥
ग्रीष्मे गज इव सरसीं त्वां सीतां काननेष्वनासाद्य ।
(६७)श्रान्तस्वान्तः श्रान्तः कान्तः कां तद्यथां ब्रवीम्यम्ब! ॥ ७७॥
गोष्पदमिव तीर्ण उदधिमयमहमबलोऽपि यस्य दासचरः ।
(६८) कथमर्णवभेकमरिं पत्रिपतिजवस्तरन्न तस्य शरः ॥ ७८॥
(६९)अदहदजभवप्रहितोऽनन्तवलोऽरिपुरमाशुगः स हरिः ।
अयमपि तथैव दूतः पश्यत पीताम्बरश्रिया श्लिष्टः ॥ ७९॥
कोऽप्याह यतो धर्मस्ततो जयः सत्यमिति कविप्रवरः ।
(७०) यत्खलु विजितः सदनुगकपिना स पिनाकिवरसुरोन्मत्तः ॥ ८०॥
(७१)न कपिरनुक्तोऽग्निरपि न परवान्वनभङ्गमरीपुरीदाहं ।
किं तु क्षुब्धाः सत्या निश्वासा एव चक्रुरत्युष्णाः ॥ ८१॥
(७२)असुरप्रियाभिरारात्पाखण्डोक्तिभिरशङ्कमशिवाभिः ।
चार्वाकादीनामुक्तिभिः परिवृता दूषिता आसीत् ।
रुद्धा वने कलावुपनिषदिव कुटिलाशयाभिरेकसती ॥ ८२॥
रक्षति कथमपि तन्वी देहादधिकं श्रुती दृशावपि सा ।
आरिसुन्दरीविलापं मधुरं त्वामपि च पातुममृतमिव ॥ ८३॥
कपयः(७३) स पयः केवलमब्धेस्तीर्णः सखा न बाहुभ्यां ।
व्यक्तं नक्तञ्चरवरबलमपि कपिसैन्यदैन्यहरतेजाः ॥ ८४॥
आर्यामपश्यमहितस्त्रीरुद्धां तां नितान्ततान्ततनुं ।
(७४)अधिकण्टकारिकावृति धर्म इवोत्खातरोपितां जातिम् ॥ ८५॥
(७५) दग्धुमना अप्यबला बालतृणानि क्षणादनार्द्राणि ।
दहनशिखेव सखायं त्वामेवास्ते सती प्रतीक्षन्ती ॥ ८६॥
बन्धुरपि(७६) दस्यवे यः संश्रयदः स जडधी रिपोरिष्टः ।
किं प्रार्थ्यतेऽतिवेलं बध्यो लङ्घ्यस्त्वया जनैश्चान्यैः ॥ ८७॥
राज्ञा गुरुणा त्यक्तो न विषयसक्तः सतां मतोऽत्यर्थं ।
दैवात्खलु समशीलव्यसनः प्राप्तः सखा विभीषण! ते ॥ ८८॥
जीवेत्यांशीरुचिता दातुं नमतेऽविचार्य दत्ता श्रीः ।
न मनापात्रविचारो नमनात्सर्वस्वदानमाश्चर्यम् ॥ ८९॥
राम ! । त्वया स्वयात्खलु समदुःखसुखः सखा(७८) समासादि ।
व्यसनमुदधिं सुदुस्तरमन्योन्यबलेन यत्सुखं तीर्णैः ॥ ९०॥
(७९)अविलन्धितमर्यादं बबन्ध बन्धुं गुरुं ललङ्घ बली ।
भक्तं जघान शम्भोर्मुनिसुतमपि कोऽपि हन्त ! दारकृते ॥ ९१॥
वन्दे तं देवीनां हृतशोकं राक्षसीविलापगुरुं ।
(८०) जगुरुञ्च्छवृत्तयो यं तापापहमनभोगिनामगुरुम् ॥ ९२॥
जटिलस्तमालनीलो वनवासिसखः (८१)पतङ्गकुलपालः ।
कश्चन ददाह खेचरभूभृतमधिजलधि तापहा दावः ॥ ९३॥
मेधेन केनचिदहो! । धनुष्मता भूगतेन शरवृष्ट्या ।
जलपूर्णा (८२)वाहिन्यः खगमा निर्जीवनीकृताः सिन्धौ ॥ ९४॥
तृणकाननं ददाह न कीलालनदीः ससर्ज तापहरः ।
कश्चन पतङ्गकुलजस्तमालनीलस्तनूनपात्तरुणः(८३) ॥ ९५॥
कपिसब एकः कश्चन चके (८४)नाकौकसां क्षणात्कुशलं ।
यस्कुलिशकरसुदुष्करमकालकूटानशूलशिखिसाध्यम् ॥ ९६॥
आस्तां यद्वधमकरो रक्षोधिपते रणे पणेन त्वं ।
सोऽपि प्राज्यं राज्यं प्राणान्प्रजही न तु प्रतिज्ञां स्वाम् ॥ ९७॥
आपदमाप्तुं स्पृष्टस्तापदमुग्रं कथं परकलत्रं ।
पापदवानलदग्धो हा! पदमखिलश्रियां स्वमपि वीर(८५)! ॥ ९८॥
(८६)अन्यकलत्रं विषमं विषवह्नेरपितमां यदामूलं ।
स्पृष्ट्वैकदैव दग्धो गुणदोषज्ञोऽपि बत! समन्त्रिकुलः ॥ ९९॥
नक्तमिवाशोकवनेऽप्यनिरीक्ष्य प्रियतमं (८७)तमान्तान्ता ।
दृष्ट्वा तु वह्निकुण्डेऽप्यहनीव सरोजनी बभौ कान्ता ॥ १००॥
(८८)सुहृदो वियोगयोगौ नान्यो स्तस्तापतोषयोर्हेतुः ।
प्रमदवने ग्लानिमिता तुष्टिं दहनेऽपि यत्प्रिये दृष्टे ॥ १०१॥
विमलकनकमूर्तिरिव ज्वलनेऽप्यसि देवि ! । (८९)लब्धपरभागा ।
मा गा विषादमधिकां नुतिमाप्ता त्वं जगत्सु यदनागाः ॥ १०२॥
(९०)अवताद्विभीषणस्त्वां लङ्के ! । ये केसरीव मेरुगुहां ।
आकल्पमचलपदभागेष पतिर्घ्रुवसखस्तवास्तु सुखी ॥ १०३॥
भवमिव दुस्तरमुदधिं तीर्णास्त्वां देवि ! । (९१)सुगतिमिच्छन्तः ।
अवलम्ब्य स्वोत्पादितमचलात्मानं सुपुत्रमिव सेतुम् ॥ १०४॥
(९२)सुषमाजितघनशम्पे पम्पेयं पेयवाणि चिरमस्यां ।
सुदति ! रुदितमयि शिखिभिर्नृत्यद्भिरसद्भिरिव भृशं मुमुदे ॥ १०५॥
पञ्चवटि ! । त्वय्युषिताः (९३)शमयोध्यायामिवाम्ब ! लब्धाः स्मः ।
मामियमितारिकीर्त्या सह सिन्धुं स्वरपगेव कालिन्द्या ॥ १०६॥
भो मातर्गोदावरि! । (९४) यावरिकरिहरिपती सतीसहितौ ।
सुचिरमुषितौ त्वदङ्के कौसल्याया इवाम्ब ! तावेतो ॥ १०७॥
तुभ्यं बद्धोंऽजलिरयमीशशिरःसारसासने(९५) देवि! ।
गुर्वीमुल्लम्ब्य त्वां तीर्णाः कथमापदं प्रतिज्ञा स्वाम् ॥ १०८॥
तृषितोऽसि बालचातक(९६)! । तात! करुणयागतोऽद्य जीवनदः ।
पश्योन्मीलय नयने नय नेहामृतमनेहसं पातुम् ॥ १०९॥
शृणुत मयूरा(९७) यं प्रियमीक्षितुमत्यन्तमुस्सुका मुदिरं ।
स महाभागत आगत उत्सव एकान्तिकेऽद्य नृत्यध्वम् ॥ ११०॥
सिंहासन किं हा! । स न पतिरद्य स्मर्यते महेन्द्रसखः(९८)
येनास्यखिलनृपतिपतिनतिभाजनममृतपायिपतियशः ॥ १११॥
नाके साकेतयशोऽरुचिममृतरसेऽमृतान्धसामकरोत्(९९)
सत्ये रस्येकपदं स्वं ताण्डवपण्डितं मृडानीशम् ॥ ११२॥
पस्पर्श पदा साध्वीं विश्वस्तं वीरमपि जघान वने ।
तस्याज सतीं कोऽपीनवंशजानां सतां मतः कुपतिः(१००) ॥ ११३॥
यदमृतममृतजुषामपि यञ्च सुखं योगसम्पदामतुलं ।
उपनिषदा यत्तत्वं तदयोध्यावासिनो विधेयमहो(१०१) ॥ ११४॥
(१०२)मातरयोध्ये ! । भुक्ताः पतयः पारेशतं त्वया सत्या ।
स्मरसि कथं न तदधुना मधुना ननु मोहितामुना पत्या ॥ ११५॥
इति श्रीरामनन्दनमयूरेश्वरकृता मुक्तामाला समाप्ता ।
टिप्पणि
* अष्टोत्तरं शतमपि रामायणानि विरच्य श्रीरामकथागानेऽतृप्त इव मयूरकविर्दाशरथिचरितादेव कियन्तश्चन प्रसङ्गान् क्रमेणोद्धृत्य विधालङ्कारचमत्कृतियुतान्
१। तत्रादौ स्वचिकीर्पितखण्डकाव्यस्य निर्विघ्नपरिसमाप्तयेऽवश्यविधेयं मङ्गलमातनोति । पुण्यश्लोकेति । पुण्यश्लोकाः नलयुधिष्ठिरवैदेहजनार्दनाः तेषामन्त्यनिर्दिष्टोऽपि सर्वश्रेष्ठो भगवान् शेषशायी विष्णुस्तस्य चरणं वन्दे । तद्धि सतां सदाचाराणां देवादीनां शरणमाश्रयस्थानम् । न च तेषां कदाचिदपि तापमकरोत् । नतौ भक्ती यौ नरोऽर्जुनः कपिश्च हनूमस्तियोः सखायं मित्रवदुपकारकम् । खलाः दानवाः तैः अजितम् । मखं यज्ञं वरदानव्रतवित्तं वन्दे करुणासुधैकपनचित्तम् । लक्षणया यागीयहविर्द्रव्यं भुञ्जते ते मखभुजो देवास्तेषामाद्यं महस्तेजः । एतादृशं भगवतो विष्णोश्चरणमहं वन्दे । अत्र राक्षसैर्विहतयज्ञत्वादनशना देवा भगवन्तं शरण्यं दानवानामजय्यमादिनारायणमासाद्य तुष्टुवुरिति रामायणकथाभागो व्यज्यते । एवमेवोत्तरत्रापि समुचितैर्विशेषणपदैरेव क्रमेण रामायणी कथोपनिबद्धा मा च रसिकैः स्वयं सुखमूहनीया ।
२। निस्पृहाः निर्भयाश्च ये साधवस्तेषां वित्तम् ।
३। बहुभिर्निर्गुणैः पुत्रैरलं तैर्न कोऽप्यर्थः सम्पद्यतेति भावः । पतिरथो दशरथस्तु चतुर्भिरेव गुणिभिः पुत्रैः पुत्रिणां श्रेष्ठोऽभूत् । तथा बहुदानामुदाराणां त्यागिनामपि श्रेष्ठोऽभूत् । यतो यशरक्षणार्थं विश्वामित्रेण याचितोऽयं पुत्रौ रामलक्ष्मणौ धर्मार्थं यज्ञरक्षणार्थमदात् ।
४। विश्वामित्रस्य गालवप्रमुखाः प्रभूताः शिष्या आसन् । सततं गुरुपारचरणबद्धादरैरपि तैर्न तस्माद्बलातिबलाख्ये द्वे विधे अधिगते । रामस्तु सुबाहुप्रमुखान्निहत्य विश्वामित्रमेकवारमेव सन्तोष्य ते अधिगतवान् इति तस्य गालवादिभ्यो बहुगुणत्वं सूच्यते । अनुभूतश्चायमर्थो लोके बहुशः । यथा राम एव विश्वामित्रादेते विद्ये लब्धवान् न गालवादयः । यतः जलनिधेर्जलं पिबतां मेघ एव श्रेष्ठः स एव सर्वेषामधिकतरं वारि लभते इत्यर्थः ।
५। कतमो देवानां श्रेष्ठ इति पृष्टो भृगुवैकुण्ठं गत्वा शेषशायिनं परीक्षितुकामस्तं पदा जघान । भगवांस्तु प्रबुध्य तस्य पदं संवाहयितुमारेभे । तं च समुचितयार्चया सम्भावितवान् । एवमेवाहल्याऽपि पदा स्पृष्टं राममर्चन्ती कविना निर्दिश्यते । पदा स्पृष्टस्य पूजनेऽहल्या च भगवान् रामश्च सतीर्थ्यौ एकस्यैव गुरोरन्तेवासिनौ एकाचारौ चास्तामित्यर्थः इति ।
६। ईशस्य शिवस्येदमैशं धनुर्बलान्नाकृष्टमपि अबलया सातयाकृष्टमपीति । ध्वनिः । नु वितर्के । कथं नु भग्नमितीशकोपप्रसङ्गाद्भान्तमानतकन्धरं च रामं भगवान विश्वामित्र आलिङ्ग्याभयमिव ददौ धनुःसज्जीकरणाय कृतेनाल्पेनैवायासेन धनुर्भग्नम् । भग्ने च तस्मिन् शिवकोपमुत्प्रेक्ष्य भीतं रामं विश्वामित्रः साधुवादन समाश्वासयदित्यर्थः ।
७। सर्वसहापि भूमिस्तस्य धनुषो घोरेण निनादेन चकम्पे । किन्तु बालापि सीता मुमुदे । रामस्योत्तीर्णपणत्वमालोक्य तस्या आनन्दातिशयोऽभूत् । बालापात्यनेन सुलभभयत्वं द्योत्यते ।
८। यथा कचेन गुरुणा बृहस्पतिना सञ्जीविन्या योग कर्तुं विनाशोऽङ्गीकृतस्तथा चापेनापि शर्वस्य मतेन गुरुणा रामेणातुलया सीतया योगं कर्तुं विनाशोऽङ्गीकृतः । चापभङ्गानन्तरं रामः सीतां पर्यणयदित्यर्थः ।
९। हे जामदग्न्य, बहुभुज सहस्रबाहुं कार्तवीर्यमहमजयीमीत गर्वं मा कृथाः । तत्कुलविनाशे च दैवमेव केवलं हेतुः । अत्र दृष्टान्तः । बाहुरहितोऽपि केवलं शिरःस्वरूपोऽपि राहुः सहस्रकरमपि सवितारं पर्वण्यमावास्यायां ग्रसते। जितेऽपि कार्तवीयें रामस्ते जेतुमशक्य इत्यर्थः ।
१०। महः उत्सवः ।
११। केवलमङ्गनया शुभाङ्ग्या सीतया अनुजेन लक्ष्मणेन चानुगतं पङ्केरुहदृशं कमललोचनं राम वनगमनोद्यतं वीक्षितुं द्रष्टुमङ्के स्थितं शिशुमपि विस्मृत्य स्त्रीभिर्धावितमित्यहं (कविः)शङ्के । धावितमित्यत्र भावे निष्ठाप्रत्ययः ।
१२। अहं अध्वन्य वनेचर नापमवेष रामं भजे । कीदृशम् । धनवन्मेघवत् श्यामलं नीलकान्तिम् । अत एव घनभ्रान्त्या प्रमोदानृत्यद्भिर्मयूरैः परिवृतम् । तथा च दुर्वापुञ्जवत् हरिनीलमत एव यवसपुञ्जभ्रान्त्या एणकुलैर्हरिणसमूहैरुपमृतम् । तथा च अब्जाननं पद्ममुखमत एव पद्मभ्रान्त्या भ्रमरवृन्देनोपमृष्टम् ।
१३। सूर्यवंशोद्भवावपि अमृतकरी चन्द्राविति विरोधः । अमृतं नाम मोक्षः हस्ते ययोस्ताविति परिहारः । गौरो लक्ष्मणः स्फटिकश्च । असितस्तु रामः इन्द्रनीलश्चेति द्वौ वरमणि ।
१४। यो मात्रा कैकेय्या अत्र मा आस्स्व मा तिष्ठत्यालयाद् गृहाद्वनं प्रहितः प्रषितः । यश्च पित्रापि आत्मनो धर्मं दत्तपूर्वस्य वरद्वयस्यानुष्ठानात्मकं त्रातुं पालयितुं वन प्रेषितः । तं रामं कवयः पण्डिता धर्मज्ञेपु श्रेष्ठं जगुः । पित्राज्ञापालनात्मकस्य धर्मस्यानुष्ठानाय रामो वनं वव्राजेति भावः । अत्र आस्व इत्येकसकारं रूपं सर्वत्र दृश्यमानमशुद्धम् ।
१५। हे निषाद गुह रामो राज्यं परित्यज्य वनमागतः इत्यत्र किमिति किमर्थं ते विषादः । विषाद मा भजस्वेति भावः । यतः पश्यायमककुलपालः सूर्यवंश्यानां धुर्यः राज्यं परित्यज्य वनमागतोऽपि वल्कलधरोऽपि बद्धजटोऽपि नृपोत्तमश्रिया राजलक्ष्म्या श्लिष्टोऽविरहित एव । वनं गतं जटावल्कलधारिणमपि राजलक्ष्मीर्न त्यक्तवतीतिभावः ।
१६। सीतारामलक्ष्मणान् वनं प्रापय्य निवृत्तः सुमन्त्रः कौसल्यामाह । हे अम्ब तपश्चरणेन कार्श्यं गता वनवासितपस्विनो रामदर्शनमेव परमं जीवितफलं मन्वाना एतावन्तं कालमवातिष्ठन्त । तत्तेषां तपश्चरणं सफलं भवतु ।
१७। वने स्थितोऽप्यहं पितुरुत्सङ्गे वर्ते । मातुः सङ्गे सन्निधौ चास्मि । पुरे स्थित इव च सुखमनुभवामि । इति भवत्पुत्रो मन्यते । तत्किमिति हे देवि, आत्मानं कानन इव शून्ये गृह वर्तमानमर्मस्थाः अमनुथाः ।
१८। हे अजकुलोत्तंस दशरथ, त्वं पुत्रं रामं ``नन्दनवनं व्रज'' इत्यादिष्टवान् । सोऽपि नन्दनशब्द सम्बुद्धौ वर्तमानमवगत्य वनं गतः । त्वं तु नन्दनवनं गतो मे पुत्रो भवेदित्याशयाविचार्यव नन्दन स्वर्ग गतः । वनं गते रामे दशरथः पञ्चत्वमगमदिति भावः ।
१९। दस्रावश्विनौ देवभिपजौ । अस्रमश्रु तेन आकुले आक्षिणी यस्य तादृशः ।
२०। रहोगता मन्त्रिणो मुनयोऽमराधिपेन सहिता देवा अपि त्वां स्त्रैणं स्त्रीवशङ्गतं वदन्ति ।
२१। हे अयोध्ये ! त्वं शोच्या शोचनीया सम्पन्ना । यतस्त्वदीयं सौभाग्यं प्रकृष्टमैश्वर्यं श्रीरामरूपमटव्याऽपहृतम् । यदि त्वं पुनरात्मनः पतिमिच्छसि तर्हि त्वमपि विपक्षस्य सपल्या अटव्या वेषं धारय । रामेण परित्यक्ता अयोध्या वनवन्निर्जना शून्या च समभूदिति भावः ।
२२। हे भरत स्वगुणानां भ्रातृप्रेमादीनां प्रकाशस्य हेतुं कारणभूतामिमां ते मातरं मावमन्यस्व । यद्यशोकस्य सेकात्पादाहतेः प्रमदापादताडनेनाधिकं कुशलं सद्यो विकसनरूपं भवनि तर्हि सा पादाहतिरेव वरम् । एवमेव मातुस्ते रामस्य वनं प्रति प्रव्राजनं ते गुणानां प्रकाशस्य कारणमभूदतस्त्वया नेयमवमन्तव्येति भावः ।
२३। अस्य नृपस्य का अन्या अब्जासवमधुपी न कापि त्वदन्येत्यर्थः । किन्तु हे देवि सरले, त्वमनया दास्या मन्थरया हास्यास्पदतां नीतेति योजना ।
२४। नीतेः कुटिलनीतेर्यो मदस्तस्य मतं त्वयोदितनुक्तम् । सिद्धिं च प्रारिप्सितस्य दृष्ट्वा त्वया मुदितम् । अधुना त्वस्यानयतरोर्भोक्तुमलं पर्याप्तं फलमुदितं प्रादुर्भूतम् । हे मन्थरे किमिति त्वया रुदितमिति प्रश्नः ।
२५। शोक एव दवज्वलनो वनवह्निस्तेनावृतं व्याप्तं शुद्धान्तः अन्तःपुरमेव वनं तदेव एकः संश्रयः आश्रयस्थानं यासां तत्सम्बुद्धौ । मृग्यः कौसल्यादयः । जीवनं ददातीति तादृशो मेघः । मृग्योऽन्वेष्यः ।
२६। शोकशिखी शोकाग्निर्निश्वासनेव निर्वाप्यते । किन्तु तूष्णीकैः शनैः शनैः प्रवर्तमानैरश्रुभिरेव शमं याति । ``शोकक्षोभे च हृदयं प्रलापैरेव धार्यते'' इतिवत् ।
२७। सुधैकपरिपूर्णात्सरसस्तडागादपि सरसो मधुरः आह्लादक इति यावत् । शमलं कल्मषम् । द्वितीयत्र शं अलं इति पदच्छेदः ।
२८। काप्यनिर्वचनीया तपसां सिद्धी रामरूपा नीलापि श्यामापि इला पृथ्वी तस्या धरं शेषमिन्दुं पयोधि च गुणैः सामार्थ्याह्लादकत्वगाम्भीर्यादिभिरुपहसति तानतिशय्य वर्तते इत्यर्थः ।
२९। अवनेः पृथिव्याः प्रियोऽपि भर्ताप्याद्यो जामाता सीतापाणिग्रहणेनेति विरोधाभासः । सवस्य यशस्य नेतारः फलभोक्तारो देवास्तेषां नायको मुख्यः ।
३०। पक्षः सुहृत् । वलक्षो यशसा धवलः । अधिक्षोणि पृथिव्याम् ।
३१। अव्ययं विकारं क्षयं चागच्छत् । उर्वपि प्रभूतमपि मदप्रदम् । अनीहानां वीतस्पृहाणां मुनीनां मनो हरतीति तादृशम् ।
३२। चकोरशिशुर्बालचकोरोऽहं अमृतकरं अमृतं मोक्षो हस्ते यस्य तं श्रीरामचन्द्रं चन्द्रं च भजे इत्यन्वयः । अयं रामचन्द्रोऽङ्करहितो लाञ्छनरहितः स तु सलाञ्छनः । अयमनिशमेधमाना वर्धमानाः कला यस्य तादृशः स तु कृष्णपक्षे क्षीयमाणकलः । तथा चायं स्वया श्रिया मित्रमपि सुहृदमप्युपकुर्वाणः स तु मित्रात्सूर्यादाप्तश्रीर्न तस्योपकरोतीति व्यतिरेकः। शङ्करहितमित्युभयत्रापि समानम् ।
३३। कपर्दी शङ्करः सुमधन्वा कुसुमधम्वा मदनस्तयोः श्रियं हरति तावपि श्रियातिशेते इत्यर्थः ।
३४। सा मेघनिभा घनश्यामा मे भूतिरैश्वर्यं रामरूपं सामेतरैः सामादिभ्यः शमध्यानादिभ्योऽन्यैरुपायैर्न सुलभेति योज्यम् ।
३५। पादुके इति सम्बुद्धौ द्विवचनम् । वां युवां नमस्यामः । अराजके दशरथे दिवं गतेऽयोध्यायां राजाभावात् । स्त्रीभ्यामपीति प्रायः स्त्रीणां ज्यपालनानर्हत्वम । सुचिरं चतुर्दश समाः ।
३६। अत्राधीतनीतिशास्त्रोऽपि युवापि भरतः आत्मानं प्रजापालनकर्मण्यसमर्थममन्यत । पादुके तु जडे अपि तदनुष्ठितवत्याविति भरतस्य व्याजनिन्दा ध्वन्यते । व्यसने श्रीरामविरहाख्ये उभयोः समे तुल्येऽपि
३७। भो याज्ञवल्क्यशिष्य जनक, यथा सति ब्रह्मणि निष्ठा त्वां न जहाति तथा ते कन्यापि भवने वा वने वानन्यपरायणा सती जामातरं रामचन्द्रं न मुञ्चति ।
३८। अपात्रेणानर्हेण ।
३९। वनिभिस्तपस्विभिः व्रततीर्थतपसां फलप्रदा तरुणौ नूतनौ अरुणावाताम्रौ पादौ पल्लवाविव यस्य तादृशेन जङ्गमेन चलेन निर्जरतरुणा सुरद्रुमेण रामेण सह काऽपि कनकव्रततिः स्वर्णलता सीताख्या दृष्टेत्यर्थः ।
४०। तन्वीरत्नेन रमणीमणिना सीतयान्वीयमानोऽनुगम्यमानः ।
४१। अभ्रं-मेघस्तद्वदमला कान्तिर्यस्य तत् । घनश्यामं महो रामचन्द्राख्यं श्वभ्रैर्गतैरामयेन राजयक्ष्मणा व मलिना कान्तिर्यस्य तस्य शशलाञ्छनम्य ज्योत्स्नां प्रकाशं दम्रामल्पामधश्चकार तिरश्चकार । चन्द्रादप्यतिसुन्दरो राम इति व्यतिरेकः ।
४२। हरिणानुयायिना मायामृगमनुसरता केनापि हरिणा सिहेन रामचन्द्रेण च
आत्मनो गुहा निवासस्थानं सापि मुक्ता मौक्तिकं सीतारूपं मुक्ता हारिता । सा च मुक्ता केनापि वञ्चकेन जम्बुकेन रावणेन च नीता ।
४३। हे पुत्रिके सीते! शुना रावणेन त्वमात्मनो आशु नाशायैव नीतासि । स श्वा रावणस्त्वां निधनमृते मरणादृते न हास्यति न परित्यक्ष्यति । स्वयमेवास्मिन्न मृते सति तव गुणानामुत्कर्षः सम्भवेत्किम् । नैवेत्यर्थः । अननुष्ठिते हि रावणेन मरणापादके सीतापहरणाख्ये तद्विलोभनाख्ये च कर्मणि तव गुणानामुत्कर्षोऽविदित एव स्यादित्यर्थः ।
४४। हे अम्ब सीते । त्वमनागसं निरपराधमपि लक्ष्मणं यद्दुरुक्तमवोचस्तस्येवेदमुपस्थितं फलम् । यतो गुप्तं पात्रे दानं क्षेत्रे गुप्तमप्युक्तं निक्षिप्तं बीजं बहुलीभवति ।
४४। शपो निन्दितः । देवरो भर्तुर्भ्राता ।
४५। वाचो दुष्टवाचः ।
४६। पयोराशेः समुद्रस्यापराप विधाय मत्स्यः क स्थास्यतीत्यर्थः ।
४७। रामो लक्ष्मणं वक्ति । हे वत्स, अनया मीतया छायेव सदा सन्निहिता स्ववत्सलता त्यक्ता इत्यहं कथं श्रद्दध्यां कथं विश्वस्याम् । यतस्त्वं हि आदितः प्रभृति जन्मन आरभ्यामृतमयीं लतां गरलप्रसवां विषमयीं कथयसि । निदर्शनालङ्कारः ।
४८। सीतामपहृतां विज्ञाय विलपन् रामः पर्णशालां सीतागतं पृच्छति । या माला सीतारूपा मिथिलाजानेर्जनकादधिगता मया अद्यैवात्र निहिता त्वयि न्यस्ता सा क्व वर्तते ? अहं त्वा त्वां न्यासापहारिणीं न्यासमपहरति तच्छीलां जाने । त्वयैव मे न्यासोऽपहृत इत्यहं तर्कयामीत्यर्थः ।
४९। नमस्यन्धकारे च्युतं रत्नं सीताख्यं यस्य तं मामाञ्जनस्य दिव्यदृष्टिप्रदस्य दानेनानुगृहाण मय्यनुग्रहं कुरु ।
५०। कासारादिषु वर्तमाना गुणास्तैः सीताया अपहृता इति द्योतयन विलपति । अस्मिन् शून्ये विपिने सा सीता कासारादिभिर्विभज्य हृता । कासारे गम्भीराशयत्वं, कुन्दकलिकासु दन्तपङ्क्तिसाम्यं, कदल्यामूरुद्वयसादृश्य, कारणि गमनं, केसरिणि कटी, कृष्णसारे आयतलोचनत्वं, केकिनि केशपाशानुकारिता, पिके स्वरः, अलिषु कटाक्षनीलिमा, चम्पके नासिकावंशसारल्यं, बन्धूके चाधरराग इति गुणानां दर्शनात् ।
५१। तेऽमी कासारादयो मयि कृतप्रतिक्रियाः कृतवैरनिर्यातनाः कृतिनो धन्याः सम्पन्नाः ।
५२। भद्रं कल्याणं हितोत्सवः आनन्दसमयस्तयोः सुवसत्या सीतया रहित इति योजना ।
५३। सति अञ्चितानि प्रशस्तान्यङ्गानि यस्याः सा तत्सम्बुद्धौ । पदद्वयमपि सम्बोधने । अञ्चलतः वस्त्रतोऽप्यन्तरे सति अहं दूये इति योजना ।
५४। हे वत्स लक्ष्मण! अपि दृष्टं त्वया यत्सत्या पतिव्रतयापि प्रियया मयि त्यागोचितमागो दृष्टं इति योजनीयं। तदागस्त्वयापि न लक्षितं किं। यतस्त्वदीयमपि नयनं मदाचरणे सदा बद्धलक्ष्यम् ।
५५। हे सुदति ते शयस्तव पाणिरमृतवल्ल्य्याः पञ्चलतः पञ्चशाखः पल्लवः अब्जकृतात् पद्मनिर्मितादपि व्यजनान्मुदोऽतिशयस्य हेतुः इति योज्यम् ।
५६। हरिरिन्द्रः ।
५७। तस्याः सीताया गुणानां मार्दवादीनामनुकरणेन दयिता प्रिया ।
५८। प्रियः सखा प्रियमित्रम् । अलसा इति सम्बुद्धिपदम् । जलं च सारसं कमलं च तयोः ।
५९। आर्य हे जटायो ! नीता वधूः स्नुषा सीता दस्यो रावणान्न त्रातेत्यलं सन्तापितेन । यतस्त्वमात्मनः सखा दशरथो यथा शापेन हतस्तथा पापेन रावणेनाधर्मेण त्वं हतः ।
६०। अमृतं रामो मोक्षरूपः। अदरं भीतिरहितम् । बभक्षेत्यपाणिनीयम् । मन्ध्वमित्यप्यपाणिनीयम् । मुनिवाग् वाल्मीकिवचः ।
६१। यतिभिः पृथिव्याः पतिभिर्नृपैश्च यद्दशनायारण्ये मृगवदाचरितम् ।
६२। गलं मर्यादाकृत्यागलमाकण्ठम् । उत्सवतो मुदा ।
६३। राममुद्रां वीक्ष्य हनूमन्तं चादृष्ट्वा सीता मुद्रां प्रति ब्रूते । हे मुद्रे, यथा रावण उटजान्मां हृतवांस्तथा त्वामपि पत्युः करतः कथं हृतवानिति प्रश्नः । स श्रीरामः समुद्रे नौवत् नौ आवां त्रातुं कस्मान्नागतः इति योजना ।
६४। आधिसमुद्रे मनोव्यथासमुद्रे मुद् आनन्दः अप्सु लिखितया रेखया तुल्यः इत्यन्वयः ।
६५। नखिनां लक्षं तत्र गुरुः श्रेष्ठो हरिरिव सिंह इव । मखिनो विश्वामित्राल्लब्धान्यस्त्राणि येन सः ।
६६। सूतोऽरुणः । अस्त्रिषु पुरुहूतः इन्द्रः श्रेष्ठ इत्यर्थः ।
६७। श्रान्तस्वान्तः खिन्नचेताः ।
६८। पत्रिपतिर्वैनतेयस्तस्येव जवो यस्य सः शरः अर्णवस्थं भेकमिव क्षुद्रमरिं कथं न जयेदित्यर्थः ।
६९। आशुगो हरिर्बाणरूपधारी विष्णुरजो यो भवः शिवस्तेन प्रहितः पुरा मयासुरनिर्मितं पुरमदहत् । तथैवायं हरिर्वानरो हनूमान् अजभवेनाजकुलोत्पन्नेन रामेण प्रहितो लङ्कापुरमदहत् । एवमयमपि पीताम्बरस्य विष्णोः श्रिया युक्तः ।
७०। सन्तः अनुगा कपयो यस्य तेन रामेण। पिनाकिवरः एव सुरा तयोन्मत्तः ।
७१। कपिरशोकवनिकाभङ्गं नाकरोद्यतः सोऽनुक्तः अनादिष्टः । रामेणेत्यर्थात् । नाप्यग्निः शत्रुपुरीमदहत् । सोऽप्यस्वतन्त्रो भगवदिच्छावृतित्वादस्येति भावः । किन्त्वेतद् द्वयमपि क्षुब्धाः सत्याः सीताया निश्वासा एव चक्रुरिति योजनीयम् ।
७२। एकसती पतिव्रताश्रेष्ठा सीता आरात्समन्तात् कुटिलायाभिर्दुर्मतिभिः अशिवाभिरमगङ्लाभिः पाखण्डा दुष्टा उक्तिर्यासां ताभिरसुरस्त्रीभिर्वने रुद्धा परिवृतातिष्ठत् । अत्रौपम्यं कलावुपनिषदिव । सापि परमपवित्रा कुटिलाशयाभिरसुरप्रियाभिर्दुष्टमतिभिः पाखण्डानां
७३। कपय इति सम्बुद्धिः । स सखा हनूमान् कपिसैन्यस्य दैन्यहरं तेजो यस्य तादृशो बाहुभ्यां न केवलमब्धेः पयस्तीर्णः । अपि तु राक्षससैन्यमपीत्यन्वयः ।
७४। कण्टकारिकावृतावित्यधिकण्टकारिकावृति । घर्मे निदाघे उत्खातरोपितां जातीलतामिव नितान्तं तान्ता ग्लानिमुपगता तनुर्यस्यास्तां सीतामपश्यमिति योजना ।
७५। अबला असमर्था दहनशिखा यथा अनार्द्राणि शुष्काणि बालतृणानि दग्धुमिच्छन्त्यपि सखायं वायुं प्रतीक्षते तथैव सीता रावणादीन् भस्मसात्कर्तुमिच्छन्त्यपि त्वामेव प्रतीक्षमाणा तिष्ठतीत्यर्थः ।
७६। बन्धुरपि सगरपुत्रैर्यज्ञियमश्वं मृगयमाणैः खातत्वात् यो जलधिः डलयोरभेदाज्जडथीः । दस्यवे रावणाय संश्रयं लङ्कारूपमदात् । अतः स रिपोरिष्टः शत्रुपक्ष्यः । अतः सोऽतिवेलं भृशं किमिति प्रार्थ्यते । प्रार्थ्यमानोऽपि नायं मार्गं त दद्यादिति भावः ।
७७। नमते प्रणामं कुर्वते बिभीषणाय जीवेत्याशीर्दातुमुचिता । अभयदानमव केवलं युक्तम् । किन्तु राघवेणाविचार्य श्रीरपि दत्ता । सर्वस्य स्वस्य सम्पदो दानमाश्रयम् । रावणस्य सम्पद एव बिभीषणाय प्रतिश्रुतं दानमिति विरोधपरिहारः ।
७८। सखा मित्रं विभीषणः । समासादि लब्धः ।
७९। अविलङ्घिता मर्यादा वेला गुरुजनादरश्च येन तादृशं बन्धुं सागरं बबन्ध । गुरुं च सागरमनुलङ्घनीय ललङ्घ । शम्भोर्भक्तमपि मुनेः पुलस्त्यस्य सुतं रावणं च कोऽपि राम इत्यर्थात् । दारकृते सीताया अधिगमार्थ जघान । सर्वत्र विरोधाभासः ।
८०। उञ्च्छः कणशः क्षेत्रस्थस्य धान्यस्यादानं स एव वृत्तिर्येषां ते उच्छवृत्तयो मुनयः । अस्त्राण्येव भोगिनः सर्पास्तेषामगुरुवत् कृष्णचन्दनवदाश्रयो रामः ।
८१। पतङ्गः सूर्यः । खेचरा राक्षसास्तेषां भूभृतं रावणम् ।
८२। वाहिन्यो नद्यः सेनाश्च । निर्जीवनीकृताः निरुदकाः कृताः हताश्च । विरोधाभास आश्चर्यहेतुः ।
८३। तनूनपादग्निः। तृणकाननं न ददाह किन्तु कीलालनदीः शोणितनदीः ससर्ज प्रवर्तयामास । विरोधाभासः ।
८४। नाकौकसां देवानाम् । कुलिशकरो महेन्द्रः । कालकूटाशः शिवः । * तु अयात् इति पदच्छेदः । अयः शुभावहो विधिः ।
८५। हे वीर रावण ।
८६। विषवह्नेरतितमां विषमं परकलत्रं स्पृष्ट्वा स आमूलं दग्ध इत्यन्वयः । अपितमामिति लिपिकरप्रमादः ।
८७। ``तमान्तान्ता'' इति लिपिकरप्रमादः । तं आतान्ता आक्लान्ता इति पदच्छेदः । सरोजनी सरसो जनी जन्म यस्याः सा । ``जनी इतीदन्तः कृदिकारादक्तिन।'' इतीषूविधानात् ।
८८। सुहृदो वियोगयोगावेव तापतोषयोर्हेतुर्नान्यावित्यन्वयः ।
८९। लब्धः परभागः उत्कर्षो यया सा ।
९०। अवतादित्याशिषि लोट् । ध्रुवस्य सखा तद्वदचल इति भावः ।
९१। सुगतिं मोक्षस्वरूपां त्वामिच्छन्त इति योजना । स्वोत्पादितमात्मजम् ।
९२। अयोध्यां प्रति प्रस्थितो राम चन्द्रः सीतां वक्ति । सुषमया परमया शोभया जिता धनस्था मेघमध्यवर्तिनी शम्पा विद्युद्यया तत्सम्बुद्धौ । विद्युत्प्रभे सीते । पेया वाणी यस्यास्तत्सम्बुद्धौ । मयि अस्यां पम्पायां चिरं रुदति शिखिभिरसद्भिरित नृत्यद्भिर्भृशं मुमुदे । भावे लिट ।
९३। शं सुखम् । -इता गता । स्वरपगेत्यत्र स्वरापगेति भाव्यम् । स्वर्धनीत्यर्थः ।
९४। अरय एव करिणस्तेषां हरिपती सिहाविव रामलक्ष्मणौ सतीसहितौ । पतिव्रतया सीतया सहितौ । अत्र प्राप्तौ स्तः इति शेषः ।
९५। ईशस्य शिरःसारसं शिरःकमलं आसनं यस्यास्तत्सम्बुद्धौ हे गङ्गे । कथं कथमपि ।
९६। बालचातक भरत । अमृतं पातुमनेहसं कालं मा नयेत्यन्वयः
९७। मयूराः पौराः। महाभागतो महता भागधेयेन । मुदिरं मेघं रामं च ।
९८। महेन्द्रस्य सखा दशरथः । येनाधिष्ठितं त्वं अखिलानां नृपतिश्रेष्ठानां नतेर्नमनस्य पात्रमसि । यस्य ते यशोऽमृतपायिभिर्देवैः पीतं तं दशरथमद्य स्मरसीति प्रश्नः ।
९९। अमृतमन्धो भोजनं येषां तेषां देवानाम् । रतेरानन्दस्यैकं स्थानम् ।
१००। इनः सूर्यः । कोः पृथिव्याः पतिः कुत्सितः पतिश्च । विरोधाभासः ।
१०१। विधेयं भृत्यः । राजा प्रजानां भृत्यः कार्यकरोऽस्तीति प्रसिद्धिमाश्रित्ययमुक्तिः ।
१०२। हे अयोध्ये ! परःशता नपतयस्त्वया भुक्ताः। तानधुना कथं न स्मरसि । अमुना पत्या त्वं मोहिता ननु । ``सरघेव लोभिता'' इति पाठान्तरम् । मधुना सरषा मधुमक्षिकेवामुना पत्या रामेण मोहितेत्यर्थः ।
Proofread by Rajesh Thyagarajan