श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं
कुर्वे मुमुक्षुसर्वस्वं नत्त्वा च ब्रह्म राघवम् ।
टीलाचार्यं च श्रीरामानन्दाचार्यं तथा गुरुम् ॥ १॥
रक्षति रक्षितो धर्मो रक्षणीयस्ततश्च सः ।
वक्ष्यमाणगुणानां च रक्षणाद् रक्ष्यते हि सः ॥ २॥
मनसा कर्मणा वाचा हिंसा कार्यान कस्यचित् ।
सत्यं हितं प्रियं वाच्यमहन्तां ममतां त्यजेत् ॥ ३॥
न्यायार्जितधनेनेह सन्तोष्टव्यं च सर्वदा ।
परद्रव्यस्पृहा नैव कर्त्तव्या पुरुषेण हि ॥ ४॥
प्रसन्नचेतसा कार्यं यज्ञोदानं तपस्तथा ।
अप्रशस्तं परित्याज्यं प्रशस्तं चाचरेन्नरः ॥ ५॥
उपकार्या जना नित्यं नापकार्याः कदाचन ।
असूया नैव कर्त्तव्या कस्यचित् पुरुषस्य हि ॥ ६॥
जात्याश्रयनिमित्तैश्च दुष्टमन्नं हि वर्जयेत् ।
कुसङ्गतिं विहायेह कुर्यात् सत्सङ्गतिं सदा ॥ ७॥
अन्यधर्ममनाश्रित्य स्वधर्मे निश्चलो भवेत् ।
अन्तर्बहिश्च संशुद्धः सर्वथा हि भवेन्नरः ॥ ८॥
असत्यं न जनो ब्रूयाच्चौर्यं कार्यं न कर्हिचित् ।
विरक्तस्य तु गार्हस्थ्ये प्रायश्चित्तं न विद्यते ॥ ९॥
दुःखदे च मनुष्येऽपि क्रोधः कार्यो न कर्हिचित् ।
सर्वदा सर्वभूतेषु दयां कुर्वन्ति साधवः ॥ १०॥
अर्चनीयौ जगद्धेतू सीतारामौ परेश्वरौ ।
वन्द्यौ सुकीर्त्तनीयौ च चिन्तनीयौ हि मानवैः ॥ ११॥
स्वाचार्यो वैष्णवाश्चात्र सेवनीयाः प्रयत्नतः ।
सुचिन्त्याः पठनीयाश्च प्रबन्धाः साम्प्रदायिकाः ॥ १२॥
सीतारामस्तुतिः कार्या प्रातः सायं विशेषतः ।
वृद्धानां वन्दनं कार्यमायुर्विद्यायाशःप्रदम् ॥ १३॥
कर्त्तव्यं जन्मसाफल्यं श्रीसीतारामभक्तितः ।
विशिष्टाद्वैतसिद्धान्तो मन्तव्यो वैदिकः सदा ॥ १४॥
भक्त्यैव लभ्यते मुक्तिर्भक्तिर्ज्ञानात् प्रजायते ।
चिदचिदीशतत्त्वानामाचार्याज्ज्ञानमर्जयेत ॥ १५॥
चिदर्थस्तत्र जीवात्मा ज्ञाता चाणुर्मतो बुधैः ।
ज्ञानेन धर्मभूतेन व्याप्तः सोऽखिलवर्मणि ॥ १६॥
तत एव स पादादौ वेत्ति सर्वं सुखादिकम् ।
जीवात्मनो विभुत्वे तु गत्यागत्योरसम्भवः ॥ १७॥
मध्यमपरिमाणत्वे त्वनित्यत्वं घटादिवत् ।
अकृताभ्यागमश्चाथ कृतनाशस्तदा पुनः ॥ १८॥
सुखिदुःखिप्रतीतिभ्यां जीवा भिन्ना मिथो मताः ।
अणुत्वादेव चात्मानो ब्रह्मभिन्ना मता बुधैः ॥ १९॥
ईश्वराधीनकर्त्तारो जीवात्मानः प्रकीर्तिताः ।
देहेन्द्रियादितो भिन्ना जीवा नित्या मतास्रिधा ॥ २०॥
स्वकर्मफलभोक्तारस्तत्र बद्धा हि सम्मताः ।
छिन्नबन्धास्तथा भक्तया मुक्ताः श्रीरामकिङ्कराः ॥ २१॥
सर्वदा कर्मभिर्मुक्ता नित्या हनुमदादयः ।
ब्रह्मदेहाः श्रुतौ जीवास्तेषां हि ब्रह्मता न तत् ॥ २२॥
अचिदचेतनं तत्त्वं चतुर्धाऽभिहितं च तत् ।
कालः प्रकृतितत्त्वं च शुद्धसत्त्वं तथा मतिः ॥ २३॥
ब्रह्मदेहो विभुः कालः सत्वादिगुणवर्जितः ।
कालाधीनं जगत् कालः सर्वाधारो जडस्तथा ॥ २४॥
प्रकृतिर्जडतत्त्वं हि सत्त्वादित्रिगुणाश्रयः ।
नित्या चाच्छादिका सा हि जीवब्रह्मस्वरूपयोः ॥ २५॥
साम्ये स्वस्य गुणानां सा समविकारकारिणी ।
वैषम्ये त्वीशसङ्कल्पाद् विषमसृष्टिसर्जिका ॥ २६॥
महाँश्च प्रकृतेराद्यो विकारस्रिविधः स्मृतः ।
अहङ्कारास्रयस्तस्य विकाराः सात्विकादयः ॥ २७॥
सात्विकात् खल्वहङ्काराज्जातानि त्विन्द्रियाणि च ।
मतानि मन आदीनि ज्ञानेन्द्रियाणि तत्र षट् ॥ २८॥
कर्मेन्द्रियाणि विद्वद्भिर्वागादीनि मतानि हि ।
सहकारी मतश्चाथाहङ्कारो राजसः किल ॥ २९॥
शब्दतन्मात्रकं जातमहङ्काराच्च तामसात् ।
ततो व्योम ततो जातं तन्मात्रं स्पर्शनामकम् ॥ ३०॥
स्पर्शतन्मात्रतो जातं भूतं हि वायुसंज्ञकम् ।
जातं च वायुभूताद्धि तन्मात्रं रूपसंज्ञकम् ॥ ३१॥
रूपतन्मात्रतस्तेजस्ततस्तन्मात्रकं रसः ।
रसादापस्ततो गन्धस्तस्माद् भूमिरजायत ॥ ३२॥
भूतगुणाश्च शब्दाद्या इन्द्रियविषया मताः ।
तान् विसृज्य गुरोः शक्तं चरणं शरणं ब्रजेत् ॥ ३३॥
श्रीरामशरचापाभ्यामङ्कनं भुजमूलयोः ।
विधेयस्तापसंस्कारो गुरुणा पापनाशकः ॥ ३४॥
श्रीरामपादपद्माभं श्रीयुतं रामतोषकम् ।
कार्यं द्वादशसङ्ख्याकमूर्ध्वपुण्ड्रं हि मुक्तिदम् ॥ ३५॥
रामदास्यपरं रम्यं पवित्रं चाघनाशकम् ।
शिष्यस्य नाम कर्त्तव्यं गुरुणा मुक्तिदायकम् ॥ ३६॥
ग्रीवायां गुरुणा दत्ते मोक्षानन्दप्रदायिके ।
तुलसीमालिके पुण्ये धारणीये मुमुक्षुणा ॥ ३७॥
सद्रहस्यद्वयेनाथ राममन्त्रस्य दीक्षया ।
गुरुः शिष्यं प्रपन्नं हि तारयेद् भववारिधेः ॥ ३८॥
भक्त्या कर्मविनाशे हि देहं त्यक्त्वाऽर्चिरादिना ।
नित्यधामनि सम्प्राप्ते सायुज्यं लभ्यते नरैः ॥ ३९॥
शुद्धसत्वाश्रयो द्रव्यं शुद्धसत्वं प्रकीर्त्तितम् ।
नित्यधामादयः शब्दाः पर्यायास्तस्य सम्मताः ॥ ४०॥
तत् परागजडं बोध्यं न कालस्तत्र वै प्रभुः ।
नित्यमुक्तेश्वरादेस्तद् भोग्यदेहादिकं मतम् ॥ ४१॥
ज्ञानमर्थप्रकाशस्तद् धर्मो जीवेशधर्मिणोः ।
प्रभावत् स्वप्रकाशं च विभु नित्यं परागथ ॥ ४२॥
ईश्वरस्त्ववतारी हि सर्वेषां च नियामकः ।
सच्चिदानन्दरूपः स नित्यः सर्वशरीरकः ॥ ४३॥
विभुश्च दोषशून्यश्च कल्याणगुणसागरः ।
रामब्रह्मादिवाच्यश्च जगज्जन्मादिकारणम् ॥ ४४॥
सर्वाराध्यश्च सर्वज्ञः सर्वशक्तिश्च सर्वदः ।
भक्त्या तथा प्रपत्त्या च जीवानां मुक्तिदायकः ॥ ४५॥
उपादानं निमित्तं च जगतो वेदवेदितः ।
भगवानव्ययः साक्षी विभूतिद्वयनायकः ॥ ४६॥
परो व्यूहस्तथाऽन्तःस्थो विभवोऽर्चावतारकः ।
इति पञ्चविधः प्रोक्तः सीतानाथः परेश्वरः ॥ ४७॥
वासुदेवादयो व्यूहा साकेतस्थः परः स्मृतः ।
व्याप्तोऽन्तस्थश्च सर्वात्मा योगिध्येयश्च राघवः ॥ ४८॥
मत्स्यकूर्मादिरूपश्च विभवो जानकीपतिः ।
भक्तेष्टमूर्तिरूपो हि रामश्चार्चाऽवतारकः ॥ ४९॥
भागीरथ्याशिष्यश्रीरामरङ्गिविनिर्मितम् ।
भूयान्मुमुक्षुसर्वस्वं मुमुक्षूणां हितावहम् ॥ ५०॥
इति श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey