मुनिभिः कृतं रामस्तोत्रम् ११
मुनय ऊचुः ।
नमस्ते रामचन्द्राय लोकानुग्रहकारिणे ।
अरावणं जगत्कर्तुमवतीर्णाय भूतले ॥ ६३॥
ताटकादेहसंहर्त्रे गाधिजाध्वररक्षिणे ।
नमस्ते जितमारीच सुवाहुप्राणहारिणे ॥ ६४॥
अहल्यामुक्तिसन्दायिपादपङ्कजरेणवे ।
नमस्ते हरकोदण्डलीलाभञ्जनकारिणे ॥ ६५॥
नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने ।
नमस्ते रेणुकापुत्रपराजयविधायिने ॥ ६६॥
सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात् ।
सत्यं पितृवचः कर्तुं नमो वनमुपेयुषे ॥ ६७॥
भरतप्रार्थनादत्तपादुकायुगुलाय ते ।
नमस्ते शरभङ्गस्य स्वर्गप्राप्त्यैकहेतवे ॥ ६८॥
नमो विराधसंहर्त्रे गृध्रराजसखाय ते ।
मायामृगमहाक्रूरमारीचाङ्गविदारिणे ॥ ६९॥
सीतापहारिलोकेशयुद्धत्यक्तकलेवरम् ।
जटायुषं तु सन्दह्य तत्कैवल्यप्रदायिने ॥ १.४४.७०॥
नमः कबन्धसंहर्त्रे शवरीपूजिताङ्घ्रये ।
प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते ॥ ७१॥
नमः कृतवते सेतुं समुद्रे वरुणालये ।
सर्वराक्षससंहर्त्रे रावणप्राणहारिणे ॥ ७२॥
संसाराम्बुधिसन्तारपोतपादाम्बुजाय ते ।
नमो भक्तार्तिसंहर्त्रे सच्चिदानन्दरूपिणे ॥ ७३॥
नमस्ते रामभद्राय जगतामृद्धिहेतवे ।
रामादिपुण्यनामानि जपतां पापहारिणे ॥ ७४॥
नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारिणे ।
नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित ॥ ७८५॥
ससीताय नमस्तुभ्यं विभीषणसुखप्रद ।
लङ्केश्वरवधाद्राम पालितं हि जगत्त्वया ॥ ७६॥
रक्ष रक्ष जगन्नाथ पाह्यस्माञ्जानकीपते ।
स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ॥ ७७॥
इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे चतुश्चत्वारिंशा- ध्यायान्तर्गतं
मुनिभिः कृतं श्रीरामस्तोत्रं समाप्तम् ।
स्कन्दपुराण । ब्राह्मखण्ड । सेतुखण्ड । अध्याय ४४/६३-७६॥
skandapurANa . brAhmakhaNDa . setukhaNDa . adhyAya 44/63-76..
Proofread by PSA Easwaran