श्रीरामरामायणीदेवाचार्यप्रणीता नमोविंशतिः
दाशरथे नमस्तुभ्यं भरताग्रज ते नमः ।
नमो रघुपते तुभ्यं कौशल्येय नमोऽस्तु ते ॥ १॥
नमस्ते दिव्यदेहाय नमो दिव्यगुणाय ते ।
नमः सीतापते तुभ्यं मारुतीश नमोऽस्तु ते ॥ २॥
नमः कारणरूपाय कार्यरूपाय ते नमः ।
नमः सच्चित्स्वरूपायानन्दरूप नमोऽस्तु ते ॥ ३॥
नमो भक्त्यैकलभ्याय भक्ताधीनाय ते नमः ।
ज्ञानदाय नमस्तुभ्यं भक्तिप्रद नमोऽस्तु ते ॥ ४॥
जगद्धेतो नमस्तुभ्यं प्रपन्नावक ते नमः ।
नमोऽस्तु ब्रह्मणे तुभ्यं मुक्तिप्रद नमोऽस्तु ते ॥ ५॥
रामरामायणीदेवद्वाराचार्येण निर्मिता ।
भवताद् विंशतिश्चेयं पठतां सौख्यदायिनी ॥ ६॥
इति श्रीरामरामायणीदेवाचार्यप्रणीता नमोविंशतिः सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey