श्रीरङ्गनाथपादुकासहस्रम्

श्रीरङ्गनाथपादुकासहस्रम्

श्रीः । श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः । श्रीमते निगमान्तमहादेशिकाय नमः ।

पादुकासहस्रस्य अनुक्रमणिका

पद्धति क्रमांक सूची (श्लोकसङ्ख्या) १. प्रस्तावपद्धतिः (२०) २. समाख्यापद्धतिः (१०) ३. प्रभावपद्धतिः (७०) ४. समर्पणपद्धतिः (२०) ५. प्रतिप्रस्थानपद्धतिः (२०) ६. अधिकारपरिग्रहपद्धतिः (४०) ७. अभिषेकपद्धतिः (३०) ८. निर्यातनापद्धतिः (३०) ९. वन्दिवैतालिकपद्धतिः (१०) १०. श‍ृङ्गारपद्धतिः (१०) ११. सञ्चारपद्धतिः (६०) १२. पुष्पपद्धतिः (३०) १३. परागपद्धतिः (३०) १४. नादपद्धतिः (१००) १५. रत्नसामान्यपद्धतिः (५०) १६. बहुरत्नपद्धतिः (५०) १७. पद्मरागपद्धतिः (३०) १८. मुक्तापद्धतिः (५०) १९. मरतकपद्धतिः (२०) २०. इन्द्रनीलपद्धतिः (३०) २१. बिम्बप्रतिबिम्बपद्धतिः (२०) २२. काञ्चनपद्धतिः (२०) २३. शेषपद्धतिः (१०) २४. द्वन्द्वपद्धतिः (२०) २५. सन्निवेशपद्धतिः (२०) २६. यन्त्रिकापद्धतिः (१०) २७. रेखापद्धतिः (१०) २८. सुभाषितपद्धतिः (१०) २९. प्रकीर्णकपद्धतिः (८०) ३०. चित्रपद्धतिः (४०) ३१. निर्वेदपद्धतिः (२०) ३२. फलपद्धतिः (३८) श्रीरङ्गनाथ दिव्यमणिपादुकाभ्यां नमः । श्रीमते रामानुजाय नमः । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

१. प्रस्तावपद्धतिः (२०)

सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ १.१॥ १॥ भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ १.२॥ २॥ वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्ती- माम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् । पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तु- स्त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ १.३॥ ३॥ दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना पादन्यासं प्रथममनया भारती यत्र चक्रे । var मनघा योगक्षेमं सकलजगतां त्वय्यधीनं स जान- न्वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥ १.४॥ ४॥ नीचेऽपि हन्त मम मूर्धनि निर्विशेषं तुङ्गेऽपि यन्निवेशते निगमोत्तमाङ्गे । प्राचेतसप्रभृतिभिः प्रथमोपगीतं स्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥ १.५॥ ५॥ धत्ते मुकुन्दमणिपादुकयोर्निवेशा- द्वल्मीकसम्भवगिरां समतां ममोक्तिः । गङ्गाप्रवाहपतितस्य कियानिव स्या- द्रथ्योदकस्य यमुनासलिलाद्विशेषः ॥ १.६॥ ६॥ विज्ञापयामि किमपि प्रतिपन्नभीतिः प्रागेव रङ्गपतिविभ्रमपादुके त्वाम् । वक्तुं क्षमाः सदसती विगताभ्यसूयाः var व्यङ्क्तुं सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥ १.७॥ ७॥ अश्रद्दधानमपि नन्वधुना स्वकीये स्तोत्रे नियोजयसि मां मणिपादुके त्वम् । देवः प्रमाणमिह रङ्गपतिस्तथात्वे तस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥ १.८॥ ८॥ यदाधारं विश्वं गतिरपि च यस्तस्य परमा तमप्येका धत्से दिशि वरगतिं तस्य रुचिराम् । var दिशसि च गतिं कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमा कवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥ १.९॥ ९॥ श्रुतप्रज्ञासम्पन्महितमहिमानः कतिकति स्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः । अहं त्वल्पस्तद्वदिह बहु च जल्पामि तदपि var त्वल्पस्तद्वद्यदिह त्वदायत्तं रङ्गक्षितिरमणपादावनि विदुः ॥ १.१०॥ १०॥ यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो var यदेषां महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः । शुना लीढा कामं भवतु सुरसिन्धुर्भगवती तदेषा किम्भूता स तु सपदि सन्तापरहितः ॥ १.११॥ ११॥ मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदा मदुक्तिस्त्वय्येषा महितकविसंरम्भविषये । न कस्येयं हास्या हरिचरणधात्रि क्षितितले मुहुर्वात्याधूते मुखपवनविस्फूर्जितमिव ॥ १.१२॥ १२॥ निःसन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदय- प्रतूहक्रमभक्तिवैभवभवद्वैयात्यवाचालितः । var प्रत्यूढ रङ्गाधीशपदत्रवर्णनकृतारम्भैर्निगुम्भैर्गिरां नर्मास्वादिषु वेङ्कटेश्वरकविर्नासीरमासीदति ॥ १.१३॥ १३॥ रङ्गक्ष्मापतिरत्नपादु भवतीं तुष्टूषतो मे जवा- ज्जृम्भन्तां भवदीयशिञ्जितसुधासन्दोहसन्देहदाः । श्लाघाघूर्णितचन्द्रशेखरजटाजङ्घालगङ्गापय- स्त्रासादेशविश‍ृङ्खलप्रसरणोत्सिक्ताः स्वयं सूक्तयः ॥ १.१४॥ १४॥ हिमवन्नलसेतुमध्यभाजां भरताभ्यर्चितपादुकावतंसः । var हिमवदचल अतपोधनधर्मतः कवीनामखिलेष्वस्मि मनोरथेष्वबाह्यः ॥ १.१५॥ १५॥ अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके त्वाम् । गतभीतिरभिष्टुवन् विमोहात्परिहासेन विनोदयामि नाथम् ॥ १.१६॥ १६॥ वृत्तिभिर्बहुविधाभिराश्रिता वेङ्कटेश्वरकवेः सरस्वती । अद्य रङ्गपतिरत्नपादुके नर्तकीव भवतीं निषेवताम् ॥ १.१७॥ १७॥ अपारकरुणाम्बुधेस्तव खलु प्रसादादहं विधातुमपि शक्नुयां शतसहस्रिकां संहिताम् । तथापि हरिपादुके तव गुणौघलेशस्थिते- रुदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥ १.१८॥ १८॥ अनुकृतनिजनादां सूक्तिमापादयन्ती मनसि वचसि च त्वं सावधाना मम स्याः । निशमयति यथाऽसौ निद्रया दूरमुक्तः परिषदि सह लक्ष्म्या पादुके रङ्गनाथः ॥ १.१९॥ १९॥ त्वयि विहिता स्तुतिरेषा पदरक्षिणि भवति रङ्गनाथपदे । तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥ १.२०॥ २०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रस्तावपद्धतिः प्रथमा ॥

२. समाख्यापद्धतिः (१०)

वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् । var पादुकाम् च ताम् यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥ २.१॥ २१॥ var यथार्थशठजित्संज्ञा द्रविडोपनिषन्निवेशशून्यानपि लक्ष्मीरमणाय रोचयिष्यन् । var द्रमिडो ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः ॥ २.२॥ २२॥ नियतं मणिपादुके दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंशप्रतिपत्यै परमाततान रूपम् ॥ २.३॥ २३॥ मुनिना मणिपादुके त्वया च प्रथिताभ्यां शठकोपसंज्ञयैव । द्वितयं सकलोपजीव्यमासीत्प्रथमेन श्रुतिरन्यतस्तदर्थः ॥ २.४॥ २४॥ आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः । मञ्जुप्रणादां मणिपादुके त्वां तदेकनामानमनुस्मरन्ति ॥ २.५॥ २५॥ यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः । var स सप्त तस्यापि नामोद्वहनात् त्वयाऽसौ लघूकृतोऽभूच्छठकोपसूरिः ॥ २.६॥ २६॥ शय्यात्मना मधुरिपोरसि शेषभूता पादाश्रयेण च पुनर्द्विगुणीकृतं तत् । भूयोऽपि भागवतशेषतया तदेव व्यङ्क्तुं पदावनि शठारिपदं बिभर्षि ॥ २.७॥ २७॥ पद्येन देवि शठकोपमुनिस्तवासी- त्तस्यापि नामवहनान्मणिपादुके त्वम् । शेषीबभूव युवयोरपि शेषशायी शेषं त्वशेषमपि शेषपदे स्थितं वः ॥ २.८॥ २८॥ विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा । नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात् ते प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या ॥ २.९॥ २९॥ शठकोप इति समाख्या तव रङ्गधुरीणपादुके युक्ता । सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती ॥ २.१०॥ ३०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे समाख्यापद्धतिर्द्वितीया ॥

३. प्रभावपद्धतिः (७०)

वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिर्नतानां यत्र चोन्नतिः ॥ ३.१॥ ३१॥ निश्शेषमम्बरतलं यदि पत्रिका स्या- त्सप्तार्णवी यदि समेत्य मषी भवित्री । वक्ता सहस्रवदनः पुरुषः स्वयं चे- ल्लिख्येत रङ्गपतिपादुकयोः प्रभावः ॥ ३.२॥ ३२॥ वेदोपबृंहणकुतूहलिना निबद्धं विश्वम्भराश्रुतिभवेन महर्षिणा यत् । व्यासेन यच्च मधुसूदनपादरक्षे द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः ॥ ३.३॥ ३३॥ प्रत्यक्षयन्ति परिशुद्धधियो यथाव- द्रामायणे रघुपुरन्दरपादरक्षे । शश्वत्प्रपञ्चितमिदम्परयैव वृत्त्या सङ्क्षेपविस्तरदशासु तवानुभावम् ॥ ३.४॥ ३४॥ अल्पश्रुतैरपि जनैरनुमीयसे त्वं रङ्गेशपादु नियतं निगमोपगीता । सारं तदर्थमुपबृंहयितुं प्रणीतं रामायणं तव महिम्नि यतः प्रमाणम् ॥ ३.५॥ ३५॥ तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत्पादुके तत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् । यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव- स्पर्धादुर्धरपादबद्धभणतिर्वल्मीकजन्मा कविः ॥ ३.६॥ ३६॥ var फणिति भक्तिप्रह्वपुरप्रभञ्जनजटावाटीसनीडस्फुर- च्चूडारग्वधवासनापरिमलस्त्याने स्तुमः पादुके । रङ्गक्षोणिभृदङ्घ्रिपद्मयुगलीपूर्णप्रपत्तेः फलं निश्चिन्वन्ति विपश्चितः शमधना नित्यं यदुत्तंसनम् ॥ ३.७॥ ३७॥ मातर्माधवपादुके तव गुणान्कः स्तोतुमस्तोकधीः कोटीरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् । अन्योन्यं क्षिपतामहम्प्रथमिकासम्मर्दकोलाहलं विष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति ॥ ३.८॥ ३८॥ योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक- स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च । दूत्यादिष्वपि दुर्वचांसि पदयोः कृत्यानि मत्वेव य- var दुर्वचानि द्धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे रङ्गिणः ॥ ३.९॥ ३९॥ var त्तद्वत्तत्प्रणयं वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयं यत्तद्भक्तिभरानतेन शिरसा यत्र क्वचित् बिभ्रति । द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर- त्रासोत्कम्पदशाविसंस्थुलधृतिस्त्रैविष्टपानां गणः ॥ ३.१०॥ ४०॥ पद्माकान्तपदान्तरङ्गविभवोद्रिक्तं पदत्रं भजे यद्भक्त्या नमतां त्रिविष्टपसदां चूडापदेष्वर्पितम् । var च सतां नित्यापीतनखेन्दुदीधितिसुधासन्दोहमुच्चैर्वम- त्यन्तर्नूनममान्तमन्तिकलगच्छेषापटच्छद्मना ॥ ३.११॥ ४१॥ var कलस तद्विष्णोः परमं पदत्रयुगलं त्रय्यन्तपर्यन्तगं चिन्तातीतविभूतिकं वितरतु श्रेयांसि भूयांसि नः । यद्विक्रान्तिदशासमुत्थितपदप्रस्यन्दिपाथस्विनी- सख्येनेव सदानतस्य तनुते मौलौ स्थितिं शूलिनः ॥ ३.१२॥ ४२॥ अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद् गम्यते क्लेशेनापि कियद्व्यलङ्घि रभसोत्तुङ्गैः प्लवङ्गेश्वरैः । विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरता किं तैः केशवपादुकागुणमहाम्बोधेस्तटस्था वयम् ॥ ३.१३॥ ४३॥ पदकमलरजोभिर्वासिते रङ्गभर्तुः परिचितनिगमान्ते पादुके धारयन्तः । अविदितपरिपाकं चन्द्रमुत्तंसयन्ते परिणतभुवनं तत्पद्ममध्यासते वा ॥ ३.१४॥ ४४॥ सकृदपि भुवनेऽस्मिञ्शार्ङ्गिणः पादुके त्वां var किल मूर्ध्ना शार्ङ्गिणः मनुजमनुवहन्तं देहबन्धव्यपाये । उपचरति यथार्हं देववर्गस्त्वदीयः स तु नियमितभृत्यो जोषमास्ते कृतान्तः ॥ ३.१५॥ ४५॥ पदसरसिजमेतत्पादुके रङ्गभर्तुः प्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना । तदिदमपरथा चेत् तिष्ठतस्तस्य नित्यं कथमिव विदितार्थास्त्वां भजन्ते महान्तः ॥ ३.१६॥ ४६॥ श्रुतिशिरसि निगूढं कर्मणां चोदितानां त्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् । परिहसति मुरारेः पादुके बालिशानां पशुवधपरिशेषान्पण्डितो नामयज्ञान् ॥ ३.१७॥ ४७॥ जनयितुमलमर्घ्यं दैत्यजित्पादरक्षे नमति महति देवे नाकसिन्धोर्विशीर्णाः । मुहुरहिपतिचूडामौलिरत्नाभिघाता- त्परिणतलघिमानः पाथसामूर्मयस्ते ॥ ३.१८॥ ४८॥ पदसरसिजयोस्त्वं पादुके रङ्गभर्तु- र्मनसि मुनिजनानां मौलिभागे श्रुतीनाम् । var मौलिदेशे वचसि च सुकवीनां वर्तसे नित्यमेका तदिदमवगतं ते शाश्वतं वैश्वरूप्यम् ॥ ३.१९॥ ४९॥ परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिं परिणमयसि शौरेः पादुके त्वं सुवर्णम् । कुहकजनविदूरे सत्पथे लब्धवृत्तेः क्क नु खलु विदितस्ते कोऽप्यसौ धातुवादः ॥ ३.२०॥ ५०॥ बलिमथनविहाराद्वर्धमानस्य विष्णो- रखिलमतिपतद्भिर्विक्रमैरप्रमेयः । अवधिमनधिगच्छन्पापराशिर्मदीयः समजनि पदरक्षे सावधिस्त्वन्महिम्ना ॥ ३.२१॥ ५१॥ तटभुवि यमुनायास्तस्थुषी यन्निवेशा- द्भजति निगमशाखावैभवं नीपशाखा । पदकमलय्गुगं तत्पादुके रङ्गभर्तु- स्त्वयि भजति विभूतिं पश्य शाखानुशाखाम् ॥ ३.२२॥ ५२॥ शिरसि विनिहितायां भक्तिनम्रैर्भवत्यां var भक्तिनम्रे भवत्यां सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति । मधुरिपुपदरक्षे यद्वशेनैव तेषा- मनितरसुलभं तद्धाम हस्तापचेयम् ॥ ३.२३॥ ५३॥ सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके त्वा- मुपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः । नरकमिव महान्तो नाकमुल्लङ्घयन्तः परिषदि निविशन्ते प्राक्तनानां गुरूणाम् ॥ ३.२४॥ ५४॥ शमदमगुणदान्तोदन्तवैदेशिकानां शरणमशरणानां मादृशां माधवस्य । पदकमलमिदं ते पादुके रक्ष्यमासी- दनुदयनिधनानामागमानां निधानम् ॥ ३.२५॥ ५५॥ परिचितपदपद्मां पादुके रङ्गिणस्त्वां त्रिभुवनमहनीयां सादरं धारयन्तः । निजशिरसि निलीनं देवि मन्दारमाल्यं निगमपरिमलैस्ते वासयन्तीव देवाः ॥ ३.२६॥ ५६॥ कनकसरिदनूपे कल्पवृक्षस्य भूष्णोः पदकिसलयलग्ना पादुके मञ्जरी त्वम् । परिणतिमधुराणां या फलानां सवित्री वहसि निगमवृन्दैः सम्पदं षट्पदानाम् ॥ ३.२७॥ ५७॥ परिकलयसि चेन्मां पद्मवासानिषेव्ये पदकमलयुगे त्वं पादुके रङ्गभर्तुः । अविदितनिगमानां नूनमस्मादृशाना- मघटितघटनी ते शक्तिराविष्कृता स्यात् ॥ ३.२८॥ ५८॥ श्रुतिशतशिरश्चूडापीडे निपीडयितुं क्षमे दुरितसरितामोघानेतानमोघविसर्पिणः । क्रमपरिणमद्वेधःश्रेणीशिखामणिघट्टना- न्मसृणिततले रङ्गक्षोणीभृतो मणिपादुके ॥ ३.२९॥ ५९॥ जगज्जननरक्षणपणसङ्गिनो रङ्गिणः पवित्रतममाद्रिये भगवतः पदत्रद्वयम् । शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनं प्रधाव्य चरणं निजं प्रणिदधाति यत्र प्रभुः ॥ ३.३०॥ ६०॥ यदध्वरभुजां शिरः पदयुगं च रङ्गेशितु- र्दृढं घटयितुं क्षमं भवति शेषशेषित्वतः । शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिन्धयं कदध्वविहतिक्षमं किमपि तत्पदत्रद्वयम् ॥ ३.३१॥ ६१॥ समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकी मुकुन्दमणिपादुके मुहुरुपासनावासना । उदर्कपरिकर्कशानुपरिपर्वणाखर्विता- ननर्थशतगर्भितानमरशम्भलीविभ्रमान् ॥ ३.३२॥ ६२॥ विगाहन्ते रङ्गक्षितिपतिपदत्रायिणि सकृ- द्वहन्तस्त्वामन्तर्विनिहितकुचेलव्यतिकराः । मदोद्दामस्तम्बेरमकरटनिर्यन्मधुझरी- परीवाहप्रेङ्खद्भ्रमरमुखरामङ्गणभुवम् ॥ ३.३३॥ ६३॥ अधिदैवतमापतत्सु कल्पेष्वधिकारं भजतां पितामहानाम् । अभिरक्षतु रङ्गभर्तुरेषा करुणा काचन पादुकामयी नः ॥ ३.३४॥ ६४॥ ध्रुवमिन्द्रियनागश‍ृङ्खला वा निरयद्वारनिवारणार्गला वा । अनयापपदाधिरोहणी वा मम रङ्गेशविहारपादुके त्वम् ॥ ३.३५॥ ६५॥ शरणागतसार्थवाहशीलां श्रुतिसीमन्तपदप्रसादनार्हाम् । अधिरङ्गमुपास्महे मुरारेर्महनीयां तपनीयपादुके त्वाम् ॥ ३.३६॥ ६६॥ इह ये भवतीं भजन्ति भक्त्या कृतिनः केशवपादुके नियुक्ताः । कथयाम्ब तिरोहितं तृतीयं नयनं त्रीणि मुखानि वा किमेषाम् ॥ ३.३७॥ ६७॥ मधुवैरिपरिग्रहेषु नित्यं क्षमया त्वं मणिपादुके समेता । तदपि क्षमसे न किं परेषां त्रिदशाधीश्वरशेखरे निवेशम् ॥ ३.३८॥ ६८॥ द्वितयं प्रतियन्ति रङ्गभर्तुः कतिचित् काञ्चनपादुके शरण्यम् । अभयान्वितमग्रिमं करं वा भवतीशेखरितं पदाम्बुजं वा ॥ ३.३९॥ ६९॥ भरताश्वसनेषु पादशब्दं वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः । पठति त्वयि पादुके ततस्त्वं नियतं रामपदादभिन्नभूमा ॥ ३.४०॥ ७०॥ मकुटेषु निविश्य दिक्पतीनां पदमेव प्रतिपद्य रङ्गभर्तुः । परिरक्षसि पादुके पदं त्वं क्व नु भिद्येत गरीयसां प्रभावः ॥ ३.४१॥ ७१॥ जगतामभिरक्षणे त्रयाणामधिकारं मणिपादुके वहन्त्योः । युवयोः परिकर्मकोटिलग्नं चरणद्वन्द्वमवैमि रङ्गभर्तुः ॥ ३.४२॥ ७२॥ पदरक्षिणि वत्सला निकामं रघुवीरस्य पदाम्बुजादपि त्वम् । यदसौ भरतस्त्वयांशवत्त्वान्न पुनस्तादृशमन्वभूद्वियोगम् ॥ ३.४३॥ ७३॥ अभिगम्य मुकुन्दपादुके त्वामपनीतातपवारणैः शिरोभिः । हरितां पतयो दुरापमन्यैरनघच्छायमवान्पुवन्ति भोगम् ॥ ३.४४॥ ७४॥ अपहाय सितासितानुपायानरविन्देक्शणपादुके महान्तः । त्वदनन्यतया भजन्ति वृत्तिं त्वदसाधारणभोगसाभिलाषाः ॥ ३.४५॥ ७५॥ प्रणमन्ति न वा विधेर्विपाकाद्य इमे रङ्गनरेन्द्रपादुके त्वाम् । उपजातमनुत्तमाङ्गमेषामुभयेषामपि चित्रमुत्तमाङ्गम् ॥ ३.४६॥ ७६॥ तव केशवपादुके प्रभावो मम दुष्कर्म च नन्वनन्तसारे । नियमेन तथाऽपि पश्चिमस्य प्रथमेनैव पराभवं प्रतीमः ॥ ३.४७॥ ७७॥ अस्त्रभूषणतयैव केवलं विश्वमेतदखिलं बिभर्ति यः । अक्लमेन मणिपादुके त्वया सोऽपि शेखरतयैव धार्यते ॥ ३.४८॥ ७८॥ रामपादसहधर्मचारिणीं पादुके निखिलपातकच्छिदम् । त्वामशेषजगतामधीश्वरीं भावयामि भरताधिदेवताम् ॥ ३.४९॥ ७९॥ चूडाकपालव्यतिषङ्गदोषं विमोचयिष्यन्निव विष्णुपद्याः । कृतादरः केशवपादरक्षे बिभर्ति बालेन्दुविभवणस्त्वाम् ॥ ३.५०॥ ८०॥ त्वयैवनित्यं मणिपादरक्षे राजन्वती सृष्टिरियं प्रजानाम् । स्त्रीराज्यदोषप्रशमाय नूनं निर्दिश्यसे नाथविशेषणेन ॥ ३.५१॥ ८१॥ बिभर्षि नित्यं मणिपादुके त्वं विश्वम्भरं धाम निजेन भूम्ना । तवानुभावश्चुलकीकृतोऽयं भक्तैरजस्रं भवतीं दधानैः ॥ ३.५२॥ ८२॥ परस्य पुंसः पदसन्निकर्षे तुल्याधिकारां मणिपादुके त्वाम् । उत्तंसयन्ति स्वयमुत्तमाङ्गैः शेषासमं शेषगरुत्मदाद्याः ॥ ३.५३॥ ८३॥ मुकुन्द पादाम्बुजधारिणि त्वां मोहादनुत्तंसयतां जनानाम् । मूर्ध्नि स्थिता दुर्लिपयो भवन्ति प्रशस्तवर्णावलयस्तदीयाः ॥ ३.५४॥ ८४॥ भूमिः श्रुतीनां भुवनस्य धात्री गुणौरनन्ता विपुला विभूत्या । स्थिरा स्वयं पालयितुं क्षमा नः सर्वंसहा शौरिपदावनि त्वम् ॥ ३.५५॥ ८५॥ स्थैर्यं कुलक्षोणिभृतां विधत्से शेषादयस्त्वां शिरसा वहन्ति । पदप्रसूता परमस्य पुंसः पृथ्वीमहिम्ना मणिपादुके त्वम् ॥ ३.५६॥ ८६॥ दैत्याधिपानां बलिनां किरीटा निक्षेपणं ते यदि नाभ्यनन्दन् । रङ्गेशपादावनि रङ्गधाम्नः सोपानतां प्राप्य वहन्त्यमी त्वाम् ॥ ३.५७॥ ८७॥ शेषो गरुत्मान् मणिपादपीठी त्वं चेति पादावनि विश्वमान्याः । तुल्याधिकारा यदि किन्तु सन्त- स्त्वामेव नित्यं शिरसा वहन्ति ॥ ३.५८॥ ८८॥ परस्य पुंसः परमं पदं त- द्बिभर्षि नित्यं मुणिपादुके त्वम् । var मनिपादरक्षे अन्यादृशां व्योमसदां पदानि त्वय्यायतन्ते यदिदं न चित्रम् ॥ ३.५९॥ ८९॥ पादौ मुरारेः शरणं प्रजानां तयोस्तदेवासि पादावनि त्वम् । शरण्यतायास्त्वमनन्यरक्षा सन्दृश्यसे विश्रमभूमिरेका ॥ ३.६०॥ ९०॥ अन्येषु पद्माकमलासनाद्यैरङ्गेषु रङ्गाधिपतेः श्रितेषु । पदावनि त्वामधिगम्य जातं पदं मुरारेरधिदैवतं नः ॥ ३.६१॥ ९१॥ क्षणं सरोजेक्षणपादुके यः कृतादरः किङ्कुरुते भवत्याः । अकिञ्चिनस्यापि भवन्ति शीघ्रं भ्रूकिङ्करास्तस्य पुरन्दराद्याः ॥ ३.६२॥ ९२॥ वहन्ति ये माधवपादुके त्वामुह्यन्त एते दिवि निर्विघाताः । हंसेन नित्यं शरदभ्रभासा कैलासगौरेण ककुद्मता वा ॥ ३.६३॥ ९३॥ रुद्रं श्रितो देवगणः स रुद्रः पद्मासनं सोऽपि च पद्मनाभम् । स त्वामनन्तो न पुनस्त्वमन्यं क एष पादावनि ते प्रभावः ॥ ३.६४॥ ९४॥ परस्य धाम्नः प्रतिपादनार्हां वदन्ति विद्यां मणिपादुके त्वाम् । यतस्तवैवाधिगमे प्रजानां दूरीभवत्युत्तरपूर्वमंहः ॥ ३.६५॥ ९५॥ धन्या मुकुन्दस्य पदानुषङ्गाद् धनीयता येन समर्चिता त्वम् । वासस्तदीयो मणिपादरक्षे लक्ष्म्याऽलकामप्यधरीकरोति ॥ ३.६६॥ ९६॥ पदेन विष्णोः किमुतेतरेषां विसृज्य सङ्गं समुपासते त्वाम् । var य उपासते करोषि तान्किं त्वमपेतकामान् कालेन पादावनि सत्यकामान् ॥ ३.६७॥ ९७॥ अभ्यासयोगेन निगृह्यमाणैरन्तर्मुखैरात्मविदो मनोभिः । मातस्त्वया गुप्तपदं प्रभावादन्वेषयन्त्यागमिकं निधानम् ॥ ३.६८॥ ९८॥ var गुप्तपदप्रभावाद् मूर्ध्ना दधानां मणिपादुके त्वामुत्तंसितं वा पुरुषं भवत्या । वदन्ति केचिद्वयमामनामस्त्वामेव साक्षादधिदैवतं नः ॥ ३.६९॥ ९९॥ मूर्ध्ना सतामधस्तादुपरिच विष्णोः पदेन सङ्घटिताम् । अदवीयसीं विमुक्तेः पदवीमवयन्ति पादुके भवतीम् ॥ ३.७०॥ १००॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रभावपद्धतिस्तृतीया ॥

४. समर्पणपद्धतिः (२०)

भजामः पादुके याभ्यां भरतस्याग्रजस्तदा । प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत् ॥ ४.१॥ १०१॥ राज्यं विहाय रघुवंशमहीपतीनां पौरांश्च पादरसिकान्पृथिवीं च रक्ताम् । त्वामेव हन्त चरणावनि संप्रयास्यन् आलम्बत प्रथममुत्तरकोसलेन्द्रः ॥ ४.२॥ १०२॥ प्राप्ते प्रयाणसमये मणिपादरक्षे पौरानवेक्ष्य भवती करुणप्रलापान् । मञ्जुप्रणादमुखरा विनिवर्तनार्थं रामं पदग्रहणपूर्वमयाचतेव ॥ ४.३॥ १०३॥ मत्वा तृणाय भरतो मणिपादरक्षे var तृणं स भरतो रामेण तां विरहितां रघुराजधानीम् । त्वामेव सप्रणयमुज्जयिनीमवन्तीं मेने महोदयमयीं मधुरामयोध्याम् ॥ ४.४॥ १०४॥ रामात्मनः प्रतिपदं मणिपादरक्षे विश्वम्भरस्य वहनेन परीक्षितां त्वाम् । विश्वस्य देवि वहने विनिवेशयिष्यन् विस्रब्ध एवं भरतो भवतीं ययाचे ॥ ४.५॥ १०५॥ भक्त्या परं भवतु तद्भरतस्य साधो- स्त्वत्प्रार्थनं रघुपतौ मणिपादरक्षे । केनाशयेन स मुनिः परमार्थदर्शी भद्राय देवि जगतां भवतीमवादीत् ॥ ४.६॥ १०६॥ रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते राज्यापवादचकिते भरते तदानीम् । आश्वासयेत् क इव कोसलवासिनस्तान् सीतेव चेत् त्वमपि साहसवृत्तिरासीः ॥ ४.७॥ १०७॥ पादावनि प्रभवतो जगतां त्रयाणां रामादपि त्वमधिका नियतं प्रभावात् । नो चेत् कथन्नु भरतस्य तमेव लिप्सोः प्रत्यायनं परिपणं भवती भवित्री ॥ ४.८॥ १०८॥ मन्ये नियुज्य भवतीं मणिपादरक्षे पार्ष्णिग्रहस्य भरतस्य निवर्तनार्थम् । रत्नाकरं सपदि गोष्पदयन् विजिग्ये रामः क्षणेन रजनीचरराजधानीम् ॥ ४.९॥ १०९॥ पादावनि प्रभुतरानपराधवर्गान् सोढुं क्षमा त्वमसि मूर्तिमती क्षमैव । var क्षमेव यत् त्वां विहाय निहताः परिपन्थिनस्ते देवेन दाशरथिना दशकण्ठमुख्याः ॥ ४.१०॥ ११०॥ वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्या मातुर्मनोरथमशेषमवन्ध्ययिष्यन् । मन्ये तदा रघुपतिर्भरतस्य तेने मातस्त्वयैव मणिमौलिनिवेशलक्ष्मीम् ॥ ४.११॥ १११॥ पादाम्बुजाद्विगलितां परमस्य पुंस- स्त्वामादरेण विनिवेश्य जटाकलापे । अङ्गीचकार भरतो मणिपादरक्षे गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम् ॥ ४.१२॥ ११२॥ अविकलमधिकर्तुं रक्षणे सप्तलोक्या रघुपतिचरणेन न्यस्तदिव्यानुभावाम् । अभजत भरतस्त्वामञ्जसा पादरक्षे मणिमकुटनिवेशत्यागधन्येन मूर्ध्ना ॥ ४.१३॥ ११३॥ इयमविकलयोगक्षेमसिद्ध्यै प्रजाना- मलमिति भरतेन प्रार्थितामादरेण । रघुपतिरधिरोहन्नभ्यशिञ्चत् स्वयं त्वां चरणनखमणीनां चन्द्रिकानिर्झरेण ॥ ४.१४॥ ११४॥ प्रणयिनि पदपद्मे गाढमाश्लिष्यति त्वां विधिसुतकथितं तद्वैभवं ते विदन्तः । अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यगारे रघुपतिपदरक्षे रामगिर्याश्रमस्थाः ॥ ४.१५॥ ११५॥ नियतमधिरुरोह त्वामनाधेयशक्तिं निजचरणसरोजे शक्तिमाधातुकामः । स कथमितरथा त्वां न्यस्य रामो विजह्रे दृषदुपचितभूमौ दण्डकारण्यभागे ॥ ४.१६॥ ११६॥ रघुपतिपदपद्माद्रन्तपीठे निवेष्टुं भरतशिरसि लग्नां प्रेक्ष्य पादावनि त्वाम् । परिणतपुरुषार्थः पौरवर्गः स्वयं ते विधिमभजत सर्वो वन्दिवैतालिकानाम् ॥ ४.१७॥ ११७॥ अनन्यराजन्यनिदेशनिष्ठां चकार पृथ्वीं चतुरर्णवान्ताम् । भ्रातुर्यियासोर्भरतस्तदा त्वां मूर्ध्ना वहन् मूर्तिमतीमिवाज्ञाम् ॥ ४.१८॥ ११८॥ यद्भ्रात्रे भरताय रङ्गपतिना रामत्वमातस्थुषा नित्योपास्यनिजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितम् । योगक्षेमवहं समस्तजगतां यद्गीयते योगिभिः पादत्राणमिदं मितम्पचकथामह्नाय मे निह्नुताम् ॥ ४.१९॥ ११९॥ भरतस्येव ममापि प्रशमितविश्वापवाददुर्जाता । शेषेव शिरसि नित्यं विहरतु रघुवीरपादुके भवती ॥ ४.२०॥ १२०॥ इति कवितार्त्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे समर्पणपद्धतिश्चतुर्थी ॥

५. प्रतिप्रस्थानपद्धतिः (२०)

प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे । आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् ॥ ५.१॥ १२१॥ भृशातुरसहोदरप्रणयखण्डनस्वैरिणा पदेन किमनेन मे वनमिहावनादिच्छता । इतीव परिहाय तन्निववृते स्वयं यत्पुरा पदत्रमिदमाद्रिये धृतजगत्रयं रङ्गिणः ॥ ५.२॥ १२२॥ दशवदनविनाशं वाञ्छतो यस्य चक्रे दशरथमनघोक्तिं दण्डकारण्ययात्रा । स च भरतविमर्दे सत्यसन्धस्त्वयाऽऽसी- त्रघुपतिपदरक्षे राजधानीं प्रयान्त्या ॥ ५.३॥ १२३॥ अभ्युपेतविनिवृत्तिसाहसा देवि रङ्गपतिरत्नपादुके । अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम् ॥ ५.४॥ १२४॥ अव्याहतां रघुपतेर्वहतः प्रतिज्ञा- मंसाधिरोहणरसे विहते धरण्याः । प्रादान्निवृत्य भवती मणिपादरक्षे स्पर्शं पदेन विगतव्यवधानखेदम् ॥ ५.५॥ १२५॥ मन्त्राभिषेकविरहाद्भजता विशुद्धिं संस्कारवर्जनवशादभिसंस्कृतेन । मूर्ध्ना निनाय भरतो मणिपादुके त्वां रामाज्ञया विनिहितामिव राज्यलक्ष्मीम् ॥ ५.६॥ १२६॥ रक्षार्थमस्य जगतो मणिपादरक्षे रामस्य पादकमलं समये त्यजन्त्योः । किं दुष्करं तव विभूतिपरिग्रहो वा किं वा विदेहदुहितुः कृपणा दशा सा ॥ ५.७॥ १२७॥ सीतासखस्य सहसा चरणारविन्दा- त्भक्त्या नते कृतपदा भरतोत्तमाङ्गे । आरुह्य नागमभितो भवती वितेने मायूरचामरभरं मणिरश्मिजालैः ॥ ५.८॥ १२८॥ मूर्ध्ना मुकुन्दपदरक्षिणि बिभ्रतस्त्वा- माविर्मदस्य रघुवीरमदावलस्य । आमोदिभिः सपदि दानजलप्रवाहै- र्लेभे चिराद्वसुमती रुचिरं विलेपम् ॥ ५.९॥ १२९॥ आशाः प्रसाधयितुमम्ब तदा भवत्यां दैवादकाण्डशरदीव समुत्थितायाम् । स्तोकावशेषसलिलाः सहसा बभूवुः साकेतयौवतविलोचनवारिवाहाः ॥ ५.१०॥ १३०॥ अन्तेवसन्नचरमस्य कवेः स योगी वन्यान्प्रगृह्य विविधानुपदाविशेषान् । आतस्थुषीं रघुकुलोचितमौपवाह्यं प्रत्युज्जगाम भवतीं भरतोपनीताम् ॥ ५.११॥ १३१॥ मातस्त्वदागमनमङ्गलदर्शिनीनां साकेतपक्ष्मलदृशां चटुलाक्षिभृङ्गैः । जातानि तत्र सहसा मणिपादरक्षे वातायनानि वदनैः शतपत्रितानि ॥ ५.१२॥ १३२॥ साकेतसीम्नि भवती मणिपादरक्षे माङ्गल्यलाजनिकरैरवकीर्यमाणा । कीर्तिस्वयंवरपतेर्भरतस्य काले var कीर्त्याः स्वयंवरपतेः वैवाहिकी जननि वह्निशिखेव रेजे ॥ ५.१३॥ १३३॥ छत्रेन्दुमण्डलवती मणिपादुके त्वं व्याधूतचामरकलापशरप्रसूना । सद्यो बभूविथ समग्रविकासहेतुः साकेतपौरवनितानयनोत्पलानाम् ॥ ५.१४॥ १३४॥ प्रैक्षन्त वक्त्रैर्मणिपादरक्षे शत्रुञ्जयं शैलमिवाधिरूढाम् । रामाभिधानप्रतिपन्नहर्षैरुत्तानितैरुत्तरकोसलास्त्वाम् ॥ ५.१५॥ १३५॥ द्रष्टुं तदा राघवपादरक्षे सीतामिव त्वां विनिवर्तमानाम् । आसन्नयोध्यापुरसुन्दरीणामौत्सुक्यलोलानि विलोचनानि ॥ ५.१६॥ १३६॥ आस्थाय तत्र स्फुटबिन्दुनादं स्तम्बेरमं तादृशसन्निवेशम् । अदर्शयस्त्वं पुरमध्यभागे पादावनि त्वत्प्रणवाश्रयत्वम् ॥ ५.१७॥ १३७॥ दशग्रीवस्तम्बेरमदलनदुर्दान्तहृदये विहारस्वाच्छन्द्याद्विशति रघुसिंहे वनभुवम् । स्वावात्सल्यक्रोडीकृतभरतशाबैव भवती var भरतशावेव निराबाधां पादावनि न विजहौ कोसलगुहाम् ॥ ५.१८॥ १३८॥ कैकेयीवरदानदुर्दिननिरालोकस्य लोकस्य य- त्त्राणार्थं भरतेन भव्यमनसा साकेतमानीयते । रामत्यागसहैरसह्यविरहं रङ्गक्षितीन्द्रस्य त- त्पादत्राणमनन्यतन्त्रफणितेरापीडमीडीमहि ॥ ५.१९॥ १३९॥ समुपस्थिते प्रदोषे सहसा विनिवृत्य चित्रकूटवनात् । अभजत्पुनर्जनपदं वत्सं धेनुरिव पादुके भवती ॥ ५.२०॥ १४०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रतिप्रस्थानपद्धतिः पञ्चमी ॥

६. अधिकारपरिग्रहपद्धतिः (४०)

अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः । अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥ ६.१॥ १४१॥ मोचितस्थिरचरानयत्नतः कोसलान् जनपदानुपास्महे । येषु कांश्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका ॥ ६.२॥ १४२॥ साम्राज्यसम्पदिव दासजनोचिता त्वं रामेण सत्यवचसा भरताय दत्ता । स त्वां निवेश्य चरणावनि भद्रपीठे पृथ्वीं बुभोज बुभुजे च शोविभूतिम् ॥ ६.३॥ १४३॥ भोगाननन्यमनसां मणिपादुके त्वं पुष्णासि हन्त भजनामनुषङ्गसिद्धान् । तेनैव नूनमभवद्भरतस्य साधो- रप्रार्थितं तदिह राज्यमवर्जनीयम् ॥ ६.४॥ १४४॥ रामप्रयाणजनितं व्यपनीय शोकं रत्नासने स्थितवती मणिपादरक्षे । पृथ्वीं निजेन यशसा विहितोत्तरीया- मेकातपत्रतिलकां भवती वितेने ॥ ६.५॥ १४५॥ रामाज्ञया परवती परिगृह्य राज्यं रत्नासनं रघुकुलोचितमाश्रयन्ती । शुद्धां पदावनि पुनर्भवती वितेने स्वातन्त्र्त्यलेशकलुषां भरतस्य कीर्तिम् ॥ ६.६॥ १४६॥ पौलस्त्यवीरवदनस्तबकावसाना- त्पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः । रक्षाधुरं धृतवती मणिपादुके त्वं रामस्य मैथिलसुतासहिते प्रचारे ॥ ६.७॥ १४७॥ पादावनि प्रचलचामरवृन्दमध्ये भद्रासनास्तरगता भवती विरेजे । आकीर्णदिव्यसलिले कटके सुमेरो- रम्भोजिनीव कलहायितहंसयूथा ॥ ६.८॥ १४८॥ मान्ये रघूद्वहपदे मणिपादुके त्वां विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् । आलोलमक्षवलयी भरतो जटावा- नालम्ब्य चामरमनन्यमनाः सिषेवे ॥ ६.९॥ १४९॥ प्राप्ते दिवं दशरथे भरते विलक्षे पर्याकुलेषु परमुत्तरकोसलेषु । त्वं चेदुपेक्षितवती क इवाभविष्य- त्गोपायिता गुह्यसखस्य विभोः पदं तत् ॥ ६.१०॥ १५०॥ var गोपायितुं भ्रातुर्यदम्ब विरहाद्भरते विषण्णे दाक्षिण्यमाश्रितवती मणिपादुके त्वम् । आसीदशेषजगतां श्रवणामृतं त- द्वाचालकाहलसहं बिरुदं तदा ते ॥ ६.११॥ १५१॥ राज्यं तदा दशरथादनु रामतः प्राक् बिभ्राणया चरणरक्षिणि वीतखेदम् । तुल्याधिकारभजनेन बभूव धन्यो वंशस्त्वयाऽम्ब मनुवंशमहीपतीनाम् ॥ ६.१२॥ १५२॥ वर्षाणि तानि वृषलो न तपांसि तेपे बालो न कश्चिदपि मृत्युवशं जगाम । राज्ये तवाम्ब रघुपुङ्गवपादरक्षे नैवापरं प्रतिविधेयमभूत्प्रसक्तम् ॥ ६.१३॥ १५३॥ विश्वं त्वदाश्रितपदाम्बुजसम्भवायां यस्यां प्रतिष्ठितमिदं मणिपादरक्षे । आसीदनन्यशरणा समये यथाव- त्साऽपि त्वया वसुमती विहितप्रतिष्ठा ॥ ६.१४॥ १५४॥ प्रायेण रामविरहाव्द्यथिता तदानी- मुत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः । तामेव देवि ननु जीवयितुं जलार्द्रा- मङ्गीचकार भवती भरतोपनीताम् ॥ ६.१५॥ १५५॥ वीरव्रतप्रणयिनि प्रथमे रघूणां प्राप्ते चिराय भरते व्रतमासिधारम् । त्यक्त्वा पदावनि तदा विविधान् विहारा- नेकासिकाव्रतमपूर्वमवर्तयस्त्वम् ॥ ६.१६॥ १५६॥ काकुत्स्थपादविरहप्रतिपन्नमौनां निष्पन्दतामुपगतां मणिपादरक्षे । आश्वासयन्निव मुहुर्भरतस्तदानीं शीतैरवीजयत चामरमारुतैस्त्वाम् ॥ ६.१७॥ १५७॥ यत्र क्वचिद्विहरतोऽपि पदारविन्दं रक्ष्यं मया रघुपतेरिति भावयन्त्या । निश्शेषमेव सहसा मणिपादरक्षे निष्कण्टकं जगदिदं विदधे भवत्या ॥ ६.१८॥ १५८॥ रामं त्वया विरहितं भरतं च तेन त्रातुं पदावनि तदा यदभूत्प्रतीतम् । रामानुजस्य तव चाम्ब जगत्समस्तं var चानु जागर्ति तेन खलु जागरणव्रतेन ॥ ६.१९॥ १५९॥ अन्तःपुरे परिजनैः समयोपयातै रभ्यर्चिता भवसि या विनयोपपन्नैः । सा कोसलेश्वरपदावनि भूपतीनां सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम् ॥ ६.२०॥ १६०॥ प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै भद्रासनं भरतवन्दितमाश्रयन्त्या । मध्येऽवतीर्णमिव माधवपादरक्षे मातस्त्वयाऽपि मनुवंशमहीपतीनाम् ॥ ६.२१॥ १६१॥ राजासने रघुकुलोद्वहपादरक्षे नीराजनं समभवत् समयोचितं ते । श्लाघावशेन बहुशः परिघूर्णिताभिः सामन्तमौलिमणिमङ्गलदीपिकाभिः ॥ ६.२२॥ १६२॥ पृथ्वीपतीनां युगपत् किरीटाः प्रत्यर्थिनां प्राणितुमर्थिनां च । प्रापुस्तदा राघवपादरक्षे त्वदीयमास्थानिकपादपीठम् ॥ ६.२३॥ १६३॥ प्रणम्य रङ्गेश्वरपादरक्षे दूरोपनीतैरुपदाविशेषैः । सभाजयन्ति स्म तदा सभाया- मुच्चैस्तरामुत्तरकोसलास्त्वाम् ॥ ६.२४॥ १६४॥ अपावृतद्वारमयन्त्रिताश्वं रङ्गेशपादावनि पूर्वमासीत् । त्वया यदृच्छासुखसुप्तपान्थं रामे वनस्थेऽपि पदं रघूणाम् ॥ ६.२५॥ १६५॥ अनन्यभक्तिर्मणिपादुके त्वामभ्यर्चयन् दाशरथिर्द्वितीयः । विकल्प्यमानःप्रथमेन कीर्त्या वन्द्यः स्वयं व्योमसदां बभूव ॥ ६.२६॥ १६६॥ अरण्ययोग्यं पदमस्पृशन्ती रामस्य राजार्हपदे निविष्टा । आस्थाननित्यासिकया निरास्थःस्वर्गौकसां स्वैरगतेर्विघातम् ॥ ६.२७॥ १६७॥ राजासने चेद्भवती निषण्णा रङ्गेशपादावनि तन्न चित्रम् । यत्राधिरूढाः क्रमशः पुरा त्वामुत्तंसयन्ते रघुसार्वभौमाः ॥ ६.२८॥ १६८॥ भद्रासनं चेत्परिवृत्तमासीत् देवि क्षणं दक्षिणतोमुखं ते । कथं भवेत् काञ्चनपादरक्षे रामस्य रक्षोमृगयाविहारः ॥ ६.२९॥ १६९॥ यावत्त्वया राघवपादरक्षे जिगीषिता राक्षसराजधानी । मालेव तावल्लुलिता मदान्धैरुद्यानशाखामृगयूथपैस्ते ॥ ६.३०॥ १७०॥ महीक्षितां राघवपादरक्षे भद्रासनस्थां भवतीं स्पृशन्तः । पूर्वं तथात्वे नियतेऽपि भूयः कल्याणतामानिशिरे किरीटाः ॥ ६.३१॥ १७१॥ अनिच्छतः पाण्डरमातपत्रं पित्रा वितीर्णं मणिपादरक्षे । आसीत् त्वदर्थं विधृतेन तेन छाया समग्रा भरतस्य मौलौ ॥ ६.३२॥ १७२॥ पादुके रघुपतौ यदृच्छया प्रस्थिते वनविहारकौतुकात् । आधिराज्यमधिगम्यते युवामक्षतं वसुमतीमरक्षतम् ॥ ६.३३॥ १७३॥ रघुवीरपदानुषङ्गमात्रात्परिबर्हेषु निवेशिता यदि त्वम् । अधिकारदिने कथं पुनस्ते परिवारास्तव पादुके बभूवुः ॥ ६.३४॥ १७४॥ पुरुषार्थचतुष्टयार्थिनीनां परिषत् ते महिता वसिष्ठमुख्यैः । क्रयविक्रयपट्टणं प्रजानामभवत् काञ्चनपादुके तदानीम् ॥ ६.३५॥ १७५॥ मनुजत्वतिरोहितेन शक्ये वपुषैकेन विरोधिनां निरासे । अभजद्भरतादिभेदमीशः स्वयमाराधयितुं पदावनि त्वाम् ॥ ६.३६॥ १७६॥ मगधाङ्गकलिङ्गवङ्गमुख्यान् विमतान् रन्ध्रगवेषिणः ससैन्यान् । रघुपुङ्गवपादुके विजिग्ये भरतः शासनमुद्वहन् भवत्याः ॥ ६.३७॥ १७७॥ अनितरवहनीयं मन्त्रिमुख्यैर्यदा त- त्त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् । रघुपतिपदरक्षे रत्नपीठे तदानीं श्रियमिव ददृशुस्त्वां सादरं लोकपालाः ॥ ६.३८॥ १७८॥ परिहृतदण्डकाध्वगमनं पदरक्षिणि त- त्परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् । रघुपतिरत्नपीठमधिरुह्य तदा विदधे व्यपगतवैरिभूपनिलयं वसुधावलयम् ॥ ६.३९॥ १७९॥ प्राप्तोदया तदानीं किमपि तमस्तन्निराकरोद्भवती । तनुरिव मनुकुलजनुषां प्रसवित्री रत्नपादुके सवितुः ॥ ६.४०॥ १८०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे अधिकारपरिग्रहपद्धतिः षष्ठी ॥

७. अभिषेकपद्धतिः (३०)

पाहि नः पादुके यस्या विधास्यन्नभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥ ७.१॥ १८१॥ राघवस्य चरणौ पदावनि प्रेक्षितुं त्वदभिषेकमीषतुः । आभिषेचनिकभाण्डसन्निधौ यत्प्रदक्षिणगतिः शनैर्ययौ ॥ ७.२॥ १८२॥ मूर्धाभिषिक्तैर्नियमेन वाह्यौ विचिन्त्य नूनं रघुनाथपादौ । रत्नासनस्थां मणिपादुके त्वां रामानुजन्मा भरतोऽभ्यषिञ्चत् ॥ ७.३॥ १८३॥ भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् । रामानुजौ तौ ननु पारतन्त्र्यादुभावुभाभ्यां भवती जिगाय ॥ ७.४॥ १८४॥ निवेश्य रङ्गेश्वरपादरक्षे भद्रासने सादरमभ्यशिञ्चत् । वशी वसिष्ठो मनुवंशजानां महीक्षितां वंशपुरोहितस्त्वाम् ॥ ७.५॥ १८५॥ कृताभिषेका भवती यथावत् रङ्गेशपादावनि रत्नपीठे । गङ्गानिपातस्नपितां सुमेरोरधित्यकाभूमिमधश्चकार ॥ ७.६॥ १८६॥ वसिष्ठमुख्यैर्विहितभिषेकां राज्यासने रामनिवेशयोग्ये । तुष्टाव रङ्गेश्वरपादरक्षे प्राचेतसस्त्वां प्रथमः कवीनाम् ॥ ७.७॥ १८७॥ रक्षोवधार्थं मणिपादरक्षे रामात्मनो रङ्गपतेः प्रवासे । रक्षोऽपकाराद्भवती वितेने राजन्वतीं कोसलराजधानीम् ॥ ७.८॥ १८८॥ प्राप्ताभिषेका मणिपादरक्षे प्रतापमुग्रं प्रतिपद्यमाना । शशास पृथ्वीं भवती यथावत्साकेतसिंहासनसार्वभौमी ॥ ७.९॥ १८९॥ दशाननादीन्मणिपादरक्षे जिगीषतो दाशरथेर्वियोगात् । जातोपतापा त्वयि संप्रयुक्तैस्तीर्थोदकैरुच्छ्वसिता धरित्री ॥ ७.१०॥ १९०॥ अध्यासितं मनुमुखैःक्रमशोनरेन्द्रै- रारोप्य देवि भवतीं तपनीयपीठम् । राज्याभिषेकमनघं मणिपादरक्षे रामोचितं तव वशं भरतो वितेने ॥ ७.११॥ १९१॥ स्नेहेन देवि भवतीं विषयेऽभिषिञ्चन् द्विस्सप्तसङ्ख्यभुवनोदरदीपरेखाम् । जातं रघूद्वहदिवाकरविप्रयोगा- दन्धं तमिस्रमहरद्भरतः प्रजानाम् ॥ ७.१२॥ १९२॥ हस्तापचेयपुरुषार्थफलप्रसूते र्मूलं पदावनि मुकुन्दमहीरुहस्त्वम् । छायाविशेषमदिशद्यदसौ प्रजाना- मावर्जितैस्त्वयि शुभैरभिषेकतोयैः ॥ ७.१३॥ १९३॥ अह्नाय रामविरहात्परिखिन्नवृत्ते- राश्वासनाय भवती मणिपादरक्षे । तीर्थाभिषेकमपदिश्य वसुन्धराया- श्चक्रे तदा समुचितं शिशिरोपचारम् ॥ ७.१४॥ १९४॥ मालिन्यमाश्रितवती मणिपादरक्षे पङ्केन केकयसुताकलहोत्थितेन । शुद्धिं परामभिजगाम वसुन्धरेयं त्वत्तः क्षणान्निपतितैरभिषेकतोयैः ॥ ७.१५॥ १९५॥ आवर्जितं मुनिगणेन जगद्विभूत्यै तोयं पदावनि तदा त्वयि मन्त्रपूतम् । मूलावसेकसलिलं निगमद्रुमाणां शापोदकं च समभूत्क्षणदाचाराणाम् ॥ ७.१६॥ १९६॥ विप्रोषिते रघुपतौ भवती यथार्हं मान्ये पदे स्थितिमती मनुवंशजानाम् । आत्मन्यथर्वनिपुणैः प्रहितैः प्रजाना- मश्रूण्यपास्यदभिषेकजलप्रवाहैः ॥ ७.१७॥ १९७॥ प्रायो विशोषितरसा पतिविप्रयोगा- त्पर्याकुलीकृतसमुद्रपयोधरा गौः । अम्ब त्वदियमभिषेकजलं पिबन्ती धेनुर्बभूव जगतां धनधान्यदोग्ध्री ॥ ७.१८॥ १९८॥ वृत्ते यथावदभिषेकविधौ बभासे पश्चात्तवाम्ब भरतेन धृतः किरीटः । आकस्मिकस्वकुलविप्लवशान्तिहर्षा- त्प्राप्तस्त्विषामिव पतिर्मणिपादुके त्वाम् ॥ ७.१९॥ १९९॥ मनुवंशपुरोहितेन मन्त्रै- रभिमन्त्र्य त्वयि पादुके प्रयुक्तम् । अभिषेकजलं क्षणेन राज्ञां शमयामास समुत्थितान्प्रतापान् ॥ ७.२०॥ २००॥ पादपादुपहृता रघूद्वहा- दालवालमिव पीठमाश्रिता । अभ्यषेचि भवती तपोधनैः पारिजातलतिकेव पादुके ॥ ७.२१॥ २०१॥ अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते दिनकरकुलदैन्यं पादुके क्षालयिष्यन् । स खलु कमलयोनेः सूनुराधत्त मन्त्रे- श्वधिकनियमयोगां शक्तिमाथर्वणेषु ॥ ७.२२॥ २०२॥ दिनकरकुलजानां देवि पृथ्वीपतीनां निरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् । अजनिषत समस्ताः पादुके तावकीन- स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः ॥ ७.२३॥ २०३॥ तव विधिवदुपात्ते सार्वभौमाभिषेके भरतसमयविद्भिः पादुके मन्त्रिमुख्यैः । त्वदवधि निजकर्मस्थायिनीनां प्रजानां प्रथमयुगविशेषाः प्रादुरासन् विचित्राः ॥ ७.२४॥ २०४॥ अवसितरिपुशब्दा नन्वभूस्त्वं तदानीं रघुपतिपदरक्षे लब्धराज्याभिषेका । चलितभुजलतानां चामरग्राहिणीनां मणिवलयनिनादैर्मेदुरान् मन्त्रघोषान् ॥ ७.२५॥ २०५॥ समुचितमभिषेकं पादुके प्रप्नुवत्यां त्वयि विनिपतितानां देवि तीर्थोदकानाम् । ध्वनिरनुगतमन्त्रः सीदतां कोसलानां शमयितुमलमासीत् सङ्कुलानार्तनादान् ॥ ७.२६॥ २०६॥ दिविषदनुविधेयं देवि राज्याभिषेकं भरत इव यदि त्वं पादुके नान्वमंस्थाः । कथमिव रघुवीरः कल्पयेदल्पयत्न- स्त्रिचतुरशरपातैस्तादृशं देवकार्यम् ॥ ७.२७॥ २०७॥ कतिचन पदपद्मस्पर्शसौख्यं त्यजन्ती व्रतमतुलमधास्त्वं वत्सरान् सावधाना । रघुपतिपदरक्षे राक्षसैस्त्रासितानां रणरणकविमुक्तं येन राज्यं सुराणाम् ॥ ७.२८॥ २०८॥ अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां वसिष्ठादीनामप्युपचितचमत्कारभरया । त्वदास्थान्या रङ्गक्षितिरमणपादावनि तदा लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः ॥ ७.२९॥ २०९॥ अभिषेचयतु स रामः पदेन वा स्पृशतु पादुके भवतीम् । अविशेषितमहिमा त्वं क्व वा विशेषः क्षमासमेतानाम् ॥ ७.३०॥ २१०॥ इति कवितार्त्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कुतिषु श्रीरङ्गनाथपादुकासहस्रे अभिषेकपद्धतिः सप्तमी ॥

८. निर्यातनापद्धतिः (३०)

अभिषेकोत्सवात् तस्माद्यस्या निर्यातनोत्सवः । अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम् ॥ ८.१॥ २११॥ उपास्य वर्षाणि चतुर्दश त्वामुत्तारिकामुत्तरकोसलस्थाः । सनन्दनाद्यैरपि दुर्विगाहं सान्तानिकं लोकमवापुरग्र्यम् ॥ ८.२॥ २१२॥ पादावनि प्रत्ययितो हनूमान् सीतामिव त्वां चिरविप्रयुक्ताम् । प्रणम्य पौलस्त्यरिपोरुदन्तं विज्ञापयामास विनीतवेषः ॥ ८.३॥ २१३॥ तवाभिषेकान्मणिपादरक्षे मूले निषेकादिव वृद्धियोग्यात् । जहुस्तदैव त्रिदशाङ्गनानां प्रम्लानतां पत्रलताङ्कुराणि ॥ ८.४॥ २१४॥ सर्वतस्त्वदभिषेकवासरे सम्यगुद्धृतसमस्तकण्टके । राघवस्य विपिनेषु पादुके यत्रकामगमता व्यवस्थिता ॥ ८.५॥ २१५॥ किं चतुर्दशभिरेव वत्सरैर्नित्यमेव मणिपादुके युवाम् । पादयोस्त्रिभुवनाधिराजयोर्यौवराज्यमधिगच्छतं स्वयम् ॥ ८.६॥ २१६॥ रामस्य राक्षसवधत्वरितस्य काले पादावनि प्रकटयन्निव पार्ष्णिगुप्तिम् । आचित्रकूटमधिगम्य शशंस वार्ता- मव्याहतत्वदभिषेकमृदङ्गनादः ॥ ८.७॥ २१७॥ भद्राणि देवि जगतां प्रतिपादयिष्यन् प्रागेव येन भवतीं भरतोऽभ्यषिञ्चत् । मन्ये कपीश्वरविभीषणयोर्यथावत्- सन्तन्यते स्म तत एव किलाभिषेकः ॥ ८.८॥ २१८॥ सम्भिद्यमानतमसासरयूपनीतैः संवर्धितस्तव शुभैरभिषेकतोयैः । मन्ये बभूव जलधिर्मणिपादरक्षे रामास्त्रपावकशिकाभिरशोषणीयः ॥ ८.९॥ २१९॥ पादावनि त्वदभिषेचनमङ्गलार्थं भेरीशतं भृशमताड्यत यत्प्रतीतैः । आकर्ण्य तस्य सहसा तुमुलं निनादं लङ्काकपाटनयनानि निमीलितानि ॥ ८.१०॥ २२०॥ तापोद्गमस्त्वदभिषेकजलप्रवाहै- रुत्सारितस्त्वरितमुत्तरकोसलेभ्यः । लेभे चिराय रघुपुङ्गवपादरक्षे लङ्कावरोधसुदृशां हृदयेषु वासम् ॥ ८.११॥ २२१॥ आवर्जितं विधिविदा मणिपादरक्षे पद्मासनप्रियसुतेन पुरोहितेन । आसीन्निदानमभिषेकजलं त्वदीयं नक्तञ्चरप्रणयिनीनयनोदकानाम् ॥ ८.१२॥ २२२॥ देवि त्वया स्नपनसम्पदि संश्रितायां दग्धे पुरे दशमुखस्य वलीमुखेन । आसीत् ततः प्रभृति विश्वजनप्रतीत- मद्भ्योऽग्निरित्यवितथं वचनं मुनीनाम् ॥ ८.१३॥ २२३॥ आयोध्यकैस्त्वदभिषेकसमिद्धहर्षै- राध्मापिताः श्रुतिसुखं ननु ते तदानीम् । रामस्य राक्षसशिरोलवनेऽप्यशाम्यन् येषां ध्वनिर्विजयशङ्खरवो बभूव ॥ ८.१४॥ २२४॥ प्रथयितुमभिषेकं पादुके तावकीनं दुरितशमनदक्षे दुन्दुभौ ताड्यमाने । सपदि परिगृहीतं साध्वसं देवि नूनं दशवदनधूनां दक्षिणैर्नेत्रकोशैः ॥ ८.१५॥ २२५॥ रघुपतिपदरक्षे रत्नपीठे यदा त्वा- मखिलभुवनमान्यामभ्यषिञ्चद्वसिष्ठः । दशमुखमहिषीभिर्देवि बाष्पायिताभिः स्तनयुगमभिषेक्तुं तत्क्षणादन्वमंस्थाः ॥ ८.१६॥ २२६॥ रामास्त्राणि निमित्तमात्रमिह ते लब्धाभिषेका स्वयम् रक्षस्तत् क्षपयाञ्चकार भवती भद्रासनस्थायिनी । यद्दोष्णामतिवेलदर्पदवथुज्वालोष्मलानां तदा निष्पिष्टैः कलधौतशैलशिखरैः कर्पूरचूर्णायितम् ॥ ८.१७॥ २२७॥ श्रुत्वैवं हनुमन्मुखाद्रघुपतेः प्रत्यागतिं तत्क्षणा- दासीदद्भरतानुवर्तनवशादारूढकुम्भस्थलाम् । कालोन्निद्रकदुष्णदानमदिरामाद्यद्द्विरेफध्वनि- श्लाघाचाटुभिरस्तुतेव भवतीं शत्रुञ्जयः कुञ्जरः ॥ ८.१८॥ २२८॥ प्रत्यागतस्य भवतीमवलोक्य भर्तुः पादारविन्दसविधे भरतोपनीताम् । पूर्वाभिषेकविभवाभ्युचितां सपर्यां मध्ये सतामकृत मैथिलराजकन्या ॥ ८.१९॥ २२९॥ सम्प्रेक्ष्य मैथिलसुता मणिपादरक्षे प्रत्युद्गतस्य भवतीं भरतस्य मौलौ । निर्दिश्य सा निभृतमञ्जलिना पुरस्तात्- तारादिकाः प्रियसखीरशिषत् प्रणन्तुम् ॥ ८.२०॥ २३०॥ तुल्येऽपि देवि रघुवीरपदाश्रयत्वे पूर्वाभिशेकमधिगम्य गरीयसी त्वम् । तेनैव खल्वभजतां मणिपादरक्षे रक्षःप्लवङ्गमपती भवतीं स्वमूर्ध्ना ॥ ८.२१॥ २३१॥ निर्वृत्तराक्षसचमूमृगयाविहारो रङ्गेश्वरः स खलु राघववंशगोप्ता । वंशक्रमादुपनतं पदमाददानो मान्यं पुनस्त्वयि पदं निदधे स्वकीयम् ॥ ८.२२॥ २३२॥ तत्तादृशोश्चरणयोः प्रणिपत्य भर्तुः पौरास्त्वया विधृतयोः प्रतिपन्नसत्त्वाः । प्राप्ताभिषेकविभवामपि पादुके त्वा- मानन्दबाष्पसलिलैः पुनरभ्यषिञ्चन् ॥ ८.२३॥ २३३॥ मातस्त्वयैव समये विषमेऽपि सम्यक् राजन्वतीं वसुमतीमवलोक्य रामः । सञ्जीवनाय भरतस्य समग्रभक्तेः सत्यप्रतिश्रवतयैव चकार राज्यम् ॥ ८.२४॥ २३४॥ पादावनि प्रतिगतस्य पुरीमयोध्यां पौलस्त्यहन्तुरभिषेकजलार्द्रमूर्तेः । अंसे यथार्हमधिवास्य निजैर्यशोभिः कस्तूरिकेव निहिता वसुधा त्वयैव ॥ ८.२५॥ २३५॥ याऽसौ चतुर्दश समाः पतिविप्रयुक्ता विश्वम्भरा भगवती विधृता भवत्या । विन्यस्य तां रघुपतेर्भुजशैलश‍ृङ्गे भूयोऽपि तेन सहितां भवती बभार ॥ ८.२६॥ २३६॥ निस्तीर्णदुःखजलधेरनघस्य देवि त्वत्सम्प्रयुक्तरघुनाथपदान्वयेन । सद्यः सनन्दनमुखैरपि दुर्निरीक्षा साम्राज्यसम्पदपरा भरतस्य जज्ञे॥ ८.२७॥ २३७॥ निर्गत्य देवि भरताञ्जलिपद्ममध्याद् भूयः समागतवती पुरुषोत्तमेन । पद्मेव भद्रमखिलं मणिपादरक्षे प्रादुश्चकार भवती जगतां त्रयाणाम् ॥ ८.२८॥ २३८॥ रघुपतिमधिरोप्य स्वोचिते रत्नपीठे प्रगुणमभजथास्त्वं पादुके पादपीठम् । तदपि बहुमतिस्ते तादृशी नित्यमासीत् क्क नु खलु महितानां कल्प्यते तारतम्यम् ॥ ८.२९॥ २३९॥ अनुवृत्तरामभावः शङ्के निर्विष्टचक्रवर्तिपदाम् । अधुनाऽपि रङ्गनाथः सचमत्कारं पदेन भजति त्वाम् ॥ ८.३०॥ २४०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे अष्टमी निर्यातनापद्धतिः ॥

९. वन्दिवैतालिकपद्धतिः (१०)

नमस्ते पादुके पुंसां संसारार्णवसेतवे । यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम् ॥ ९.१॥ २४१॥ उचितमुपचरिष्यन् रङ्गनाथ प्रभाते विधिंशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् । चरणकमलसेवासौख्यसाम्राज्यभाजां प्रथमविहितभागां पादुकामाद्रियेथाः ॥ ९.२॥ २४२॥ पद्माजुष्टं भजतु चरणं पादुका लब्धवारा प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः । अर्धोन्मेषादधिकसुभगामर्धनिद्रानुषङ्गां नाभीपद्मे तव नयनयोर्नाथ पश्यन्तु शोभाम् ॥ ९.३॥ २४३॥ उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं तदिह चरणरक्षा रङ्गनाथ त्वयैषा । मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वै- रुपदिशतु जनानामुत्सवारम्भवार्ताम् ॥ ९.४॥ २४४॥ रङ्गाधीश मरुद्गणस्य मकुटादाम्नायवृन्दस्य वा प्रत्यानीय समर्पिता विधिमुखैर्वारक्रमादागतैः । वाहारोहणसम्भृतं श्रमभरं सम्यग्विनेतुं क्षमा लीलासञ्चरणप्रिया स्पृशतु ते पादाम्बुजं पादुका ॥ ९.५॥ २४५॥ वृत्तं क्रमेण बहुधा नियुतं विधीना- मर्धं द्वितीयमिदमङ्कुरितं तवाह्नः । नीलासखीभिरुपनीय निवेश्यमाना मङ्क्तुं प्रभो त्वरयते मणिपादुका त्वाम् ॥ ९.६॥ २४६॥ दिव्याप्सरोभिरुपदर्शितदीपवर्गे रङ्गाधिराज सुभगे रजनीमुखेऽस्मिन् । संरक्षिणी चरणयोः सविलासवृत्ति- नीराजनासनमसौ नयतु स्वयं त्वाम् ॥ ९.७॥ २४७॥ आसनादुचितमासनान्तरं रङ्गनाथ यदि गन्तुमीहसे । सन्नतेन विधिना समर्पितां सप्रसादमधिरोह पादुकाम् ॥ ९.८॥ २४८॥ परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वां प्रणमति मदनोऽयं देव शुद्धान्तदासः । फणिपतिशयनीयं प्रापयित्री सलीलं पदकमलमियं ते पादुका पर्युपास्ताम् ॥ ९.९॥ २४९॥ इति निगमवन्दिवचसा समये समये गृहीतसङ्केतः । अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके भवतीम् ॥ ९.१०॥ २५०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे वैतालिकपद्धतिर्नवमी ॥

१०. श‍ृङ्गारपद्धतिः (१०)

शौरेः श‍ृङ्गारचेष्टानां प्रसूतिं पादुकां भजे । यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥ १०.१॥ २५१॥ प्रणतत्रिदशेन्द्रमौलिमालामकरन्दार्द्रपरागपङ्किलेन । अनुलिम्पति पादुके स्वयं त्वामनुरूपेण पदेन रङ्गनाथ ॥ १०.२॥ २५२॥ अवदातहिमांशुकानुषक्तं पदरक्षे त्वयि रङ्गिणः कदाचित् । किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि ॥ १०.३॥ २५३॥ असहायगृहीतरङ्गनाथामवरोधाङ्गणसीम्नि पादुके त्वाम् । सुदृशः स्वयमर्चयन्ति दूरादवतंसोत्पलवासितैरपाङ्गैः ॥ १०.४॥ २५४॥ निर्विश्यमानमपि नूतनसन्निवेशं कैवल्यकल्पितविभूशणकायकान्तिम् । कालेषु निर्विशसि रङ्गयुवानमेका श‍ृङ्गारनित्यरसिकं मणिपादरक्षे ॥ १०.५॥ २५५॥ निद्रायितस्य कमितुर्मणिपादुके त्वं पर्यङ्किकापरिसरं प्रतिपद्यमाना । श्वासानिलप्रचलितेन भजस्यभीक्ष्णं नाभीसरोजरजसा नवमङ्गरागम् ॥ १०.६॥ २५६॥ शयितवति रजन्यां पादुके रङ्गबन्धौ चरणकमलपार्श्वे सादरं वर्तसे त्वम् । फणिपतिशयनीयादुत्थितस्य प्रभाते प्रथमनयनपातं पावनं प्राप्तुकामा ॥ १०.७॥ २५७॥ चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं निगमपरिमलं त्वं पादुके निर्वमन्ती । नियतमतिशयाना वर्तसे सावरोधं हृदयमधिवसन्तीं मालिकां वैजयन्तीम् ॥ १०.८॥ २५८॥ उपनिषदबलाभिर्नित्यमुत्तंसनीयं किमपि जलधिकन्याहस्तसंवाहनार्हम् । तव तु चरणरक्षे देवि लीलारविन्दं चरणसरसिजं तच्चारु चाणूरहन्तुः ॥ १०.९॥ २५९॥ अखिलान्तःपुरवारेष्वनेकवारं पदावनि स्वैरम् । अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥ १०.१०॥ २६०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे श‍ृङ्गारपद्धतिर्दशमी ॥

११. सञ्चारपद्धतिः (६०)

``अग्रतस्ते गमिश्यामि मृद्नन्ती कुशकण्टकान्'' । इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम् ॥ ११.१॥ २६१॥ शरदः शतमम्ब पादुके स्यां समयाहूतपितामहस्तुतानि । मणिमण्टपिकासु रङ्गभर्तु स्त्वदधीनानि गतागतानि पश्यन् ॥ ११.२॥ २६२॥ त्वदधीनपरिक्रमो मुकुन्दस्तदधीनस्तव पादुके विहारः । इतरेतरपारतन्त्र्यमित्थं युवयोः सिद्धमनन्यतन्त्रभूम्नोः ॥ ११.३॥ २६३॥ रजसा तमसा च दुष्टसत्वे गहने चेतसि मामके मुकुन्दः । उचितं मृगयाविहारमिच्छन् भवतीमादृत पादुके पदाभ्याम् ॥ ११.४॥ २६४॥ क्षमया जगतामपि त्रयाणा मवने देवि पदावनि त्वयैव । अभिगम्यतमोऽपि संश्रिताना- मभिगन्ता भवति स्वयं मुकुन्दः ॥ ११.५॥ २६५॥ शिरसा भवतीं दधाति कश्चि- द्विधृतः कोऽपि पदस्पृशा भवत्या । उभयोर्मधुवैरिपादरक्षे त्वदधीनां गतिमामनन्ति सन्तः ॥ ११.६॥ २६६॥ स्पृशतः शिरसा पदेन च त्वां गतिमुद्दिश्य मुकुन्दपादुके द्वौ । अवरोहति पश्चिमः पदात् स्वा- दधिरोहत्यनघस्तदेव पूर्वः ॥ ११.७॥ २६७॥ समयेष्वपदिश्य जैत्रयात्रां विविधान्तःपुरवागुराव्यतीतः । नियतं मणिपादुके भवत्या रमते वर्त्मनि रङ्गसार्वभौमः ॥ ११.८॥ २६८॥ निजसंहननप्रसक्तलास्यं चरति त्वामधिरुह्य रङ्गनाथः । पदरक्षिणि पावनत्वमास्तां रसिकास्वादमतः परं न विद्मः ॥ ११.९॥ २६९॥ पदयोरनयोः परस्य पुंस- स्तदनुग्राह्यविहारपद्धतेर्वा । शिरसो मणिपादुके श्रुतीनां मनसो वा मम भूषणं त्वमेका ॥ ११.१०॥ २७०॥ कृपया मधुवैरिपादरक्षे कठिने चेतसि मामके विहर्तुम् । मकुटेषु दिवौकसां विधत्ते भवती रत्नविसंस्थुलेषु योग्याम् ॥ ११.११॥ २७१॥ चरणद्वयमर्भकस्य शौरेः शरदम्भोरुहचातुरीधुरीणम् । शकटासुरताडनेऽपि गुप्तं तव शक्त्या किल पादुके तदासीत् ॥ ११.१२॥ २७२॥ उत्तस्थुषो रङ्गशयस्य शेषादास्थानसिंहासनमारुरुक्षोः । मध्येनिशान्तं मणिपादुके त्वां लीलापदन्याससखीं प्रपद्ये ॥ ११.१३॥ २७३॥ प्राप्ताधिकाराः पतयः प्रजानामुत्तंसितामुत्तमपादुके त्वाम् । रङ्गेशितुः स्वैरविहारकाले संयोजयन्त्यङ्घ्रिसरोजयुग्मे ॥ ११.१४॥ २७४॥ त्वयाऽनुबद्धां मणिपादरक्षे लीलागतिं रङ्गशयस्य पुंसः । निशामयन्तो न पुनर्भजन्ते संसारकान्तारगतागतानि ॥ ११.१५॥ २७५॥ व्यूहानुपूर्वीरुचिरान् विहारान् पदक्रमेण प्रतिपद्यमाना । बिभर्षि नित्यं मणिपादुके त्वं मुरद्विषो मूर्तिरिव त्रिलोकीम् ॥ ११.१६॥ २७६॥ पदेषु मन्देषु महत्स्वपि त्वं नीरन्ध्रसंश्लेषवती मुरारेः । प्रत्यायनार्थं किल पादुके नः स्वाभाविकं दर्शयसि प्रभावम् ॥ ११.१७॥ २७७॥ कृपाविशेषात् क्षमया समेतां प्रवर्तमानां जगतो विभूत्यै । अवैमि नित्यं मणिपादुके त्वा- माकस्मिकीं रङ्गपतेः प्रसत्तिम् ॥ ११.१८॥ २७८॥ उपागतानामुपतापशान्त्यै सुखावगाहां गतिमुद्वहन्तीम् । पश्यामि शौरेः पदवाहिनीं त्वां निम्नेषु तुङ्गेषु च निर्विशेषाम् ॥ ११.१९॥ २७९॥ सह प्रयाता सततं प्रयाणे प्राप्तासने संश्रितपादपीठा । अलङ्घनीया सहजेन भूम्ना छायेव शौरेर्मणिपादुके त्वम् ॥ ११.२०॥ २८०॥ पदस्पृशा रङ्गपतिर्भवत्या विचक्रमे विश्वमिदं क्षणेन । तदस्य मन्ये मणिपादरक्षे त्वयैव विख्यातमुरुक्रमत्वम् ॥ ११.२१॥ २८१॥ सञ्चारयन्ती पदमन्वतिष्ठः सहायकृत्यं मणिपादरक्षे । मातस्त्वमेका मनुवंशगोप्तुर्गोपायतो गौतमधर्मादारान् ॥ ११.२२॥ २८२॥ त्वत्तस्त्रिविष्टपचरानसपत्नयिष्य- न्नारुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन । शुद्धान्तभूमिषु पुनर्मणिपादरक्षे विश्राम्यति त्वयि विहारवशेन शौरिः ॥ ११.२३॥ २८३॥ विक्रम्य भूमिमखिलां बलिना प्रदिष्टां देवे पदावनि दिवं परिमातुकामे । आसीदतो दिनकरस्य करोपतापा- त्संरक्षितुं पदसरोजमुपर्यभूस्त्वम् ॥ ११.२४॥ २८४॥ त्वत्सङ्गमान्ननु सकृद्विधिसंप्रयुक्ता शुद्धिं परामधिजगाम शिवत्वहेतुम् । रङ्गाधिराजपदरक्षिणि कीदृशी सा गङ्गा बभूव भवदीयगतागतेन ॥ ११.२५॥ २८५॥ वृद्धिं गवां जनयितुं भजता विहारान् कृष्णेन रङ्गरसिकेन कृताश्रयायाः । सञ्चारतस्तव तदा मणिपादरक्षे वृन्दावनं सपदि नन्दनतुल्यमासीत् ॥ ११.२६॥ २८६॥ मातस्त्रयीमयतया चरणप्रमाणे द्वे विक्रमेषु विविधेषु सहायभूते । नाथस्य साधुपरिरक्षणकर्मणि त्वं दुष्कृद्विनाशनदशासु विहङ्गराजः ॥ ११.२७॥ २८७॥ पादावनि क्वचन विक्रमणे भुजानां पञ्चायुधी कररुहैर्भजते विकल्पम् । नित्यं त्वमेव नियता पदयोर्मुरारे- स्तेनासि नूनमविकल्पसमाधियोग्या ॥ ११.२८॥ २८८॥ अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्ति- र्मातस्त्वया निरवधिर्निधिरप्रमेयः । रथ्यान्तरेषु चरणावनि रङ्गसङ्गी वात्सल्यनिघ्नमनसा जनसात् कृतोऽसौ ॥ ११.२९॥ २८९॥ सम्पद्यते समुचितं क्रममाश्रयन्त्या सद्वर्त्मना भगवतोऽपि गतिर्भवत्या । ईष्टे पदावनि पुनः क इवेतरेषां व्यावर्तनस्य विषमादपथप्रचारात् ॥ ११.३०॥ २९०॥ रङ्गेश्वरेण सह लास्यविशेषभाजो लीलोचितेषु तव रत्नशिलातलेषु । मध्ये स्थितानि कतिचिन्मणिपादरक्षे सभ्यान् विशेषमनुयोक्तुमिति प्रतीमः ॥ ११.३१॥ २९१॥ नित्यं पदावनि निवेश्य पदं भवत्यां निष्पन्दकल्पपरिमेयपरिच्छदानि । श‍ृङ्गारशीतलतराणि भवन्ति काले रङ्गेश्वरस्य ललितानि गतागतानि ॥ ११.३२॥ २९२॥ भोगार्चनानि कृतिभिः परिकल्पितानि प्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः । पश्यत्सु नित्यमितरेषु परिच्छदेषु प्रत्यासनं भजति काञ्चनपादुके त्वाम् ॥ ११.३३॥ २९३॥ अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गै- राविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा । न्यस्यन्ति रङ्गरसिकस्य विहारकाले वारक्रमेण कृतिनो मणिपादुके त्वाम् ॥ ११.३४॥ २९४॥ रङ्गेश्वरे समधिरूढविहङ्गराजे मातङ्गराजविधृतां मणिपादुके त्वाम् । अन्वासते विधृतचारुसितातपत्राः स्वर्गौकसः सुभगचामरलोलहस्ताः ॥ ११.३५॥ २९५॥ विष्णोः पदं गतिवशादपरित्यजन्तीं लोकेषु नित्यविषमेषु समप्रचाराम् । अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रै- र्गङ्गा कथं नु गरुडध्वजपादुके त्वाम् ॥ ११.३६॥ २९६॥ भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातु- र्गुप्त्यै गवां विहरतो वहतश्च दूत्यम् । तत्तादृशानि चरणावनि रङ्गभर्तु- स्त्वत्सङ्गमेन सुभगानि विचेष्टितानि ॥ ११.३७॥ २९७॥ निर्व्यज्यमाननवताललयप्रथिम्ना निर्यन्त्रणेन निजसञ्चरणक्रमेण । मृद्नासि रङ्गनृपतेर्मणिपादुके त्वं दुःखात्मकान्प्रणमतां दुरितप्ररोहान् ॥ ११.३८॥ २९८॥ नित्यं य एव जगतो मणिपादरक्षे सत्तास्थितिप्रयतनेषु परं निदानम् । सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिः का वा कथा तदितरेषु मितम्पचेषु ॥ ११.३९॥ २९९॥ निर्विष्टनागशयनेन परेण पुंसा न्यस्ते पदे त्वयि पदावनि लोकहेतोः । स्वर्गौकसां त्वदनुधावनतत्पराणां सद्यः पदानि विपदामपदं भवन्ति ॥ ११.४०॥ ३००॥ शरदुपगमकाले सन्त्यजन् योगनिद्रां शरणमुपगतानां त्राणहेतोः प्रयास्यन् । जलधिदुहितुरङ्कान्मन्दमादाय देवि त्वयि खलु निदधाति स्वं पदं रङ्गनाथः ॥ ११.४१॥ ३०१॥ स्पृशसि पदसरोजं पादुके निर्विघातं प्रविशसि च समस्तां देवि शुद्धान्तकक्ष्याम् । अपरमपि मुरारेः पूर्वमाभीरकन्या- स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम् ॥ ११.४२॥ ३०२॥ प्रतिभवनमनन्ये पादुके त्वत्प्रभावा- द्विविधवपुषि देवे विभ्रमद्यूतकाले । अभिलषितसपत्नीगेहयात्राविघातं ग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम् ॥ ११.४३॥ ३०३॥ तटभुवि यमुनायाश्छन्नवृत्ते मुकुन्दे मुहुरधिगमहेतोर्मुह्यतां यौवनानाम् । शमयितुमलमासीच्छङ्खचक्रादिचिह्ना प्रतिपदविचिकित्सां पादुके पद्धतिस्ते ॥ ११.४४॥ ३०४॥ अधिगतबहुशाखान् मञ्जुवाचः शुकादीन् सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् । प्रकटितगुणजालं पादुके रङ्गबन्धो- रुपनिषदटवीषु क्रीडितं त्वत्सनाथम् ॥ ११.४५॥ ३०५॥ मुनिपरिषदि गीतं गौतमीरक्षणं ते मुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः । उषसि निजकुलायादुत्थिता दण्डकेषु स्वयमपि पदरक्षे स्वैरमाम्रेडयन्ति ॥ ११.४६॥ ३०६॥ यमनियमविशुद्धैर्यन्न पश्यन्ति चित्तैः श्रुतिषु चुलुकमात्रं दृश्यते यस्य भूमा । सुलभनिखिलभावं मांसदृष्टेर्जनस्य स्वयमुपहरसि त्वं पादुके तं पुमांसम् ॥ ११.४७॥ ३०७॥ निधिमिव निरपायं त्वामनादृत्य मोहा- दहमिव मम दोषं भावयन् क्षुद्रमर्थम् । मयि सति करुणायाः पूर्णपात्रे त्वया किं परमुपगमनीयः पादुके रङ्गनाथ ॥ ११.४८॥ ३०८॥ कमपि कनकसिन्धोः सैकते सञ्चरन्तं कलशजलधिकन्यामेदिनीदत्तहस्तम् । अनिशमनुभवेयं पादुके त्वय्यधीनं सुचरितपरिपाकं सूरिभिः सेवनीयम् ॥ ११.४९॥ ३०९॥ परिसरमुपयाता पादुके पश्य मातः करणविलयखेदात् कान्दिशीके विवेके । पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रे पुनरुदरनिवासक्लेशविच्छेदनं नः ॥ ११.५०॥ ३१०॥ सा मे भूयात् सपदि भवती पादुके तापशान्त्यै यामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः । सौदामिन्या सह कमलया सह्यजावृद्धिहेतुः काले काले चरति करुणावर्षुकः कृष्णमेघः ॥ ११.५१॥ ३११॥ सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणां शङ्के मातः समधिकगुणं सैकतं सह्यजायाः । पूर्वं पूर्वं चिरपरिचितं पादुके यत् त्यजन्त्या नीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ ॥ ११.५२॥ ३१२॥ अग्रे देवि त्वयि सुमनसामग्रिमैरन्तरङ्गै- र्विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् । दत्ते पादं दरमुकुलितं त्वत्प्रभावातिशङ्की देवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः ॥ ११.५३॥ ३१३॥ पौरोदन्तान्परिकलयितुं पादुके सञ्चरिष्णो- र्व्यक्ताव्यक्ता वशिकविशिखावर्तिनी रङ्गभर्तुः । वेलातीतश्रुतिपरिमलैर्व्यक्तिमभ्येति काल्ये विन्यासस्ते विबुधपरिषन्मौलिविन्यासदृश्यैः ॥ ११.५४॥ ३१४॥ आसंस्काराद् द्विजपरिषदा नित्यमभ्यस्यमाना श्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना । रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रं गायत्रीव त्रिचतुरपदा गण्यसे पादुके त्वम् ॥ ११.५५॥ ३१५॥ भवतीं परस्य पुरुषस्य रङ्गिणो महिमानमेव मणिपादु मन्महे । कथमन्यथा स्वमहिमप्रतिष्ठितः प्रतितिष्ठति त्वयि पदात्पदं प्रभुः ॥ ११.५६॥ ३१६॥ तिथिरष्टमी यदवतारवैभवा- त्प्रथमा तिथिस्त्रिजगतामजायत । मणिपादुके तमुपनीय वीथिका- स्वतिथीकरोषि तदनन्यचक्षुषाम् ॥ ११.५७॥ ३१७॥ अपारप्रख्यातेरशरणशरण्यत्वयशसा ननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् । यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर- प्रतोलीपर्यन्ते निधिरनघवाचां निरवधिः ॥ ११.५८॥ ३१८॥ तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गश‍ृङ्गारिणो वाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके । लीलापङ्कजहल्लकोत्पलगलन्माध्वीकसेकोत्थिता यत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम् ॥ ११.५९॥ ३१९॥ सम्भवतु पादरक्षे सत्यसुपर्णादिरौपवाह्यगणः । यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती ॥ ११.६०॥ ३२०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे सञ्चारपद्धतिरेकादशी ॥

१२. पुष्पपद्धतिः (३०)

शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता । पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥ १२.१॥ ३२१॥ दैवतं मम जगत्त्रयार्चिता दिव्यदम्पतिविहारपादुका । पाणिपादकमलार्पणात् तयोर्या भजत्यनुदिनं सभाजनम् ॥ १२.२॥ ३२२॥ तव रङ्गराजमणिपादु ततो विहितार्हणः सुरसरित्पयसा । अवतंसचन्द्रकलया गिरिशो नवकेतकीदलमिवार्चयति ॥ १२.३॥ ३२३॥ कुसुमेषु समर्पितेषु भक्तै- स्त्वयि रङ्गेशपदावनि प्रतीमः । शठकोपमुनेस्त्वदेकनाम्नः सुभगं यत् सुरभित्वमस्य नित्यम् ॥ १२.४॥ ३२४॥ पदे परस्मिन् भुवने विधातुः पुण्यैः प्रसूनैः पुलिने सरय्वाः । मध्ये च पादावनि सह्यसिन्धो- रासीच्चतुःस्थानमिवार्चनं ते ॥ १२.५॥ ३२५॥ तवैव रङ्गेश्वरपादरक्षे सौभाग्यमव्याहतमाप्तुकामाः । सुरद्रुमाणां प्रसवैः सुजातैरभ्यर्चयन्त्यप्सरसो मुहुस्त्वाम् ॥ १२.६॥ ३२६॥ निवेशितां रङ्गपतेः पदाब्जे मन्ये सपर्यां मणिपादरक्षे । त्वदर्पणादापतितामपश्यद् गाण्डीवधन्वा गिरिशोत्तमाङ्गे ॥ १२.७॥ ३२७॥ पत्राणि रङ्गनृपतेर्मनिपादरक्षे द्वित्राण्यपि त्वयि समर्प्य विभूतिकामाः । पर्यायलब्धपुरुहूतपदाः शचीनां पत्राङ्कुराणि विलिखन्ति पयोधरेषु ॥ १२.८॥ ३२८॥ निर्वर्तयन्ति तव ये निचितानि पुष्पै- र्वैहारिकाण्युपवनानि वसुन्धरायाम् । कालेन ते कमललोचनपादरक्षे क्रीडन्ति नन्दनवने कृतिनः पुमांसः ॥ १२.९॥ ३२९॥ अर्चन्ति ये मुरभिदो मणिपादरक्षे भावात्मकैरपि परं भवतीं प्रसूनैः । मन्दारदामसुभगैर्मुकुटैरजस्रं वृन्दारकाः सुरभयन्ति पदं तदीयम् ॥ १२.१०॥ ३३०॥ अस्पृष्टदोषपरिमर्षमलङ्घ्यमन्यै- र्हस्तापचेयमखिलं पुरुषार्थवर्गम् । चित्रं जनार्दनपदावनि साधकानां त्वय्यर्पिताः सुमनसः सहसा फलन्ति ॥ १२.११॥ ३३१॥ वन्दारुभिः सुरगणैस्त्वयि संप्रयुक्ता माला विभाति मधुसूदनपादरक्षे । विक्रान्तविष्णुपदसंश्रयबद्धसख्या भागीरथीव परिरम्भणकाङ्क्षिणी ते ॥ १२.१२॥ ३३२॥ ये नाम रङ्गनृपतेर्मणिपादुके त्वा- मभ्यर्चयन्ति कमलैरधिकर्तुकामाः । आरोपयत्यवहिता नियतिः क्रमात् तान् कल्पान्तरीयकमलासनपत्रिकासु ॥ १२.१३॥ ३३३॥ त्वय्यर्पितानि मनुजैर्मणिपादरक्षे दूर्वाङ्कुराणि सुलभान्यथवा तुलस्यः । साराधिकाः सपदि रङ्गनरेन्द्रशक्त्या संसारनागदमनौषधयो भवन्ति ॥ १२.१४॥ ३३४॥ आराध्य नूनमसुरार्दनपादुके त्वा- मामुष्मिकाय विभवाय सहस्रपत्रैः । मन्वन्तरेषु परिवर्तिषु देवि मर्त्याः पर्यायतः परिणमन्ति सहस्रनेत्राः ॥ १२.१५॥ ३३५॥ धन्यैस्त्वयि त्रिदशरक्षकपादरक्षे पुष्पाणि काञ्चनमयानि समर्पितानि । विस्रंसिना विनमतो गिरिशोत्तमाङ्गा- दारग्वधेन मिलितान्यपृथग्भवन्ति ॥ १२.१६॥ ३३६॥ विश्वोपसर्गशमनं त्वयि मन्यमानै- र्वैमानिकैः प्रणिहितं मणिपादरक्षे । पद्मासहायपदपद्मनखार्चिषस्ते पुष्पोपहारविभवं पुनरुक्तयन्ति ॥ १२.१७॥ ३३७॥ नाकौकसां शमयितुं परिपन्थिवर्गान् नाथे पदं त्वयि निवेशयितुं प्रवृत्ते । त्वत्संश्रितां विजहतस्तुलसीं वमन्ति प्रस्थानकाहलरवान्प्रथमं द्विरेफाः ॥ १२.१८॥ ३३८॥ रङ्गेशपादपरिभोगसुजातगन्धां संप्राप्य देवि भवतीं सह दिव्यपुष्पैः । नित्योपदर्शितरसं न किलाद्रियन्ते नाभीसरोजमपि नन्दनचञ्चरीकाः ॥ १२.१९॥ ३३९॥ प्रागेव काञ्चनपदावनि पुष्पवर्षा- त्संवर्तिते शमितदैत्यभयैः सुरेन्द्रैः । पद्मेक्षणस्य पदपद्मनिवेशलाभे पुष्पाभिषेकमुचितं प्रतिपद्यसे त्वम् ॥ १२.२०॥ ३४०॥ दिशिदिशि मुनिपत्न्यो दण्डकारण्यभागे न जहति बहुमानान्नूनमद्यापि मूलम् । रघुपतिपदरक्षे त्वत्परिष्कारहेतो- रपचितकुसुमानामाश्रमानोकहानाम् ॥ १२.२१॥ ३४१॥ घटयसि परिपूर्णान् कृष्णमेघप्रचारे कृतिभिरुपहृतैस्त्वं केतकीगर्भपत्रैः । वरतनुपरिणामाद्वामतः श्यामलानां प्रणतिसमयलग्नान्पादुके मौलिचन्द्रान् ॥ १२.२२॥ ३४२॥ परिचरणनियुक्तैः पादुके रङ्गभर्तुः पवनतनयमुख्यैरर्पितां त्वत्समीपे । विनतविधिमुखेभ्यो निर्विशेषां द्विरेफाः कथमपि विभजन्ते काञ्चनीं पद्मपङ्क्तिम् ॥ १२.२३॥ ३४३॥ विधिशिवपुरुहूतस्पर्शितैर्दिव्यपुष्पै- स्त्वयि सह निपतन्तस्तत्तदुद्यानभृङ्गाः । मधुरिपुपदरक्षे मञ्जुभिः स्वैर्निनादै- रविदितपरमार्थान् नूनमध्यापयन्ति ॥ १२.२४॥ ३४४॥ प्रशमयति जनानां संज्वरं रङ्गभर्तुः परिसरचलितानां पादुके चामराणाम् । अनुदिनमुपयातैरुत्थितं दिव्यपुष्पै- र्निगमपरिमलं ते निर्विशन् गन्धवाहः ॥ १२.२५॥ ३४५॥ अखिलभुवनरक्षानाटिकां दर्शयिष्य- न्ननिमिषतरुपुष्पैरर्चिते रङ्गमध्ये । अभिनयमनुरूपं शिक्षयत्यात्मना त्वां प्रथमविहितलास्यः पादुके रङ्गनाथः ॥ १२.२६॥ ३४६॥ अगलितनिजरागां देवि विष्णोः पदं त- त्त्रिभुवनमहनीयां प्राप्य सन्ध्यामिव त्वाम् । भवति विबुधमुक्तैः स्पष्टतारानुषङ्गं परिसरपतितैस्ते पारिजातप्रसूनैः ॥ १२.२७॥ ३४७॥ व्यञ्जन्त्येते विभवमनघं रञ्जयन्तः श्रुतीर्नः प्राध्वं रङ्गक्षितिपतिपदं पादुके धारयन्त्याः । नादैरन्तर्निहितनिगमैर्नन्दनोद्यानभृङ्गा दिव्यैः पुष्पैः स्नपितवपुषो देवि सौस्नातिकास्ते ॥ १२.२८॥ ३४८॥ किं पुष्पैस्तुलसीदलैरपि कृतं दूर्वाऽपि दूरे स्थिता त्वत्पूजासु मुकुन्दपादु कृपया त्वं कामधेनुः सताम् । प्रत्यग्राहृतदर्भपल्लवलवग्रासाभिलाषोन्मुखी धेनुस्तिष्ठतु सा वसिष्ठभवनद्वारोपकण्ठस्थले ॥ १२.२९॥ ३४९॥ चूडारग्वधरजसा चूर्णस्नपनं विधाय ते पूर्वम् । रङ्गेशपादुके त्वामभिषिञ्चति मौलिगङ्गया शम्भुः ॥ १२.३०॥ ३५०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे पुष्पपद्धतिर्द्वादशी ॥

१३. परागपद्धतिः (३०)

पान्तु वः पद्मनाभस्य पादुकाकेलिपांसवः । अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ १३.१॥ ३५१॥ तव सञ्चरणाद्रजो विधूतं यदिदं रङ्गनरेन्द्रपादरक्षे । अलमेतदनाविलानि कर्तुं कतकक्षोद इवाशु मानसानि ॥ १३.२॥ ३५२॥ पुनरुक्तपितामहानुभावाः पुरुषाः केचिदमी पुनन्ति विश्वम् । मधुवैरिपदारविन्दबन्धोरपरागास्तव पादुके परागैः ॥ १३.३॥ ३५३॥ अभियुक्तजनो निजार्भकाणां बहुशो रङ्गनरेन्द्रपादरक्षे । अवलेपपिशाचमोचनार्थं रजसा लिम्पति तावकेन देहान् ॥ १३.४॥ ३५४॥ शिरसा परिगृह्य लोकपालास्तव रङ्गेश्वरपादुके रजांसि । विषमेषु बलेषु दानवानां व्यपनीतान्यशिरस्त्रमाविशन्ति ॥ १३.५॥ ३५५॥ कृतिनः शिरसा समुद्वहन्तः कतिचित् केशवपादुके रजस्ते । रजसरतमसोऽपि दूरभूतं परिपश्यन्ति विशुद्धमेव सत्वम् ॥ १३.६॥ ३५६॥ अधिकं पदमाश्रितोऽपि वेधाः प्रयतो रङ्गधुरीणपादरक्षे । अभिवाञ्छति सङ्गमं परागैरभिजातैस्तव देवि नाभिजातः ॥ १३.७॥ ३५७॥ शुद्धसत्त्ववपुषैव भवत्या पादुके विरजसौ हरिपादौ । अस्तु किं पुनरिदं रजसा ते शुद्धसत्त्वमयता मनुजानाम् ॥ १३.८॥ ३५८॥ तद्रजस्तव तनोति पादुके मानसान्यकठिनानि देहिनाम् । प्रस्तरस्य पदवीगतस्य य- द्व्याचकार मुनिधर्मदारताम् ॥ १३.९॥ ३५९॥ रङ्गेशयस्य पुरुषस्य जगद्विभूत्यै रथ्यापरिक्रमविधौ मनिपादरक्षे । सीमन्तदेशमनवद्यसरस्वतीनां सिन्दूरयन्ति भवतीचरिताः परागाः ॥ १३.१०॥ ३६०॥ मान्येन रङ्गनृपतेर्मणिपादरक्षे चूडापदानि रजसा तव भूषयन्तः । कालक्रमेण भजतां कमलासनत्वं नाभीसरोजरजसां निवसन्ति मध्ये ॥ १३.११॥ ३६१॥ मातर्मुकुन्दचरणावनि तावकीना- श्चिन्तावशीकरणचूर्णविशेषकल्पाः । सञ्चारपांसुकणिकाः शिरसा वहन्तो विश्वं पुनन्ति पदपद्मपरागलेशैः ॥ १३.१२॥ ३६२॥ आयोजितान्यमलधीभिरनन्यलभ्ये पादावनि श्रुतिवधूपटवासकृत्ये । त्वत्सञ्चरप्रचलितानि रजांसि शौरेः प्रख्यापयन्ति पदपद्मपरागशोभाम् ॥ १३.१३॥ ३६३॥ मूर्धानमम्ब मुरभिन्मणिपादरक्षे येषां कदाऽपि रजसा भवती पुनाति । त्वामेव ते सुकृतिनः स्नपयन्ति काले मन्दारदामरजसा मकुटच्युतेन ॥ १३.१४॥ ३६४॥ रथ्याविहार रजसा परिधूसराङ्गीं रङ्गेश्वरस्य ललितेषु महोत्सवेषु । प्रस्फोटयत्यवनतो मणिपादुके त्वां गौरीपतिः स्वयमिभाजिनपल्लवेन ॥ १३.१५॥ ३६५॥ नेदीयसां निजपरागनिवेशपूर्वं स्पृष्ट्वा शिरांसि भवती भवरोगभाजाम् । गाढं निपीड्य गरुडध्वजपादरक्षे मानग्रहं शमयतीव परैरसाध्यम् ॥ १३.१६॥ ३६६॥ आपातवल्लवतनोरकुमारयूनः पादावनि प्रविशतो यमुनानिकुञ्जान् । आसीदनङ्गसमरात्पुरतः प्रवृत्तः सेनापराग इव ते पदवीपरागः ॥ १३.१७॥ ३६७॥ गङ्गापगातटलतागृहमाश्रयन्त्याः पादावनि प्रचलितं पदवीरजस्ते । प्रायेण पावनतमं प्रणतस्य शम्भोर्- उद्धूलनं किमपि नूतनमातनोति ॥ १३.१८॥ ३६८॥ अन्ते तदा त्वमविलम्बितमानयन्ती रङ्गाद्भुजङ्गशयनं मणिपादरक्षे । कामं निवर्तयितुमर्हसि सज्ज्वरं मे कर्पूरचूर्णपटलैरिव धूलिभिस्ते ॥ १३.१९॥ ३६९॥ रङ्गेशपादसहधर्मचरि त्वदीयान् मौलौ निवेश्य महितान्पदवीपरागान् । सन्तस्त्रिवर्गपदवीमतिलङ्घयन्तो मौलौ पदं विदधते विबुधेश्वराणाम् ॥ १३.२०॥ ३७०॥ मातस्तदा माधवपादरक्षे त्वयि प्रसक्तं त्वरयोपयान्त्याम् । परामृशेयं पदवीपरागं प्राणैः प्रयाणाय समुज्जिहानैः ॥ १३.२१॥ ३७१॥ तथागता राघवपादरक्षे सम्पश्यमानेषु तपोधनेषु । आसीदहल्या तव पांसुलेशैरपांसुलानां स्वयमग्रगण्या ॥ १३.२२॥ ३७२॥ पश्यामि पद्मेक्षणपादरक्षे भवाम्बुधिं पातुमिव प्रवृत्तान् । भक्तोपयानत्वरया भवत्याः पर्यस्यमानान्पदवीपरागान् ॥ १३.२३॥ ३७३॥ पञ्चायुधी भूषणमेव शौरेर्यतस्तवैते मणिपादरक्षे । वितन्वते व्याप्तदिशः परागाः शान्तोदयाञ्छत्रुचमूपरागान् ॥ १३.२४॥ ३७४॥ परिणतिमकठोरां प्राप्तया यत्प्रभावा- दलभ शिलया स्वान् गौतमो धर्मदारान् । पुनरुपजनिशङ्कावारकं पादुके त- त्प्रशमयति रजस्ते रागयोगं प्रजानाम् ॥ १३.२५॥ ३७५॥ रजनिविगमकाले रामगाथां पठन्तः कुशिकतनयमुख्याः पादुके भावयन्ते । उपलशकलसक्तैस्त्वत्परागैरकाण्डे जनितमुनिकलत्रान् दण्डकारण्यभागान् ॥ १३.२६॥ ३७६॥ शुभसरणिरजोभिः शोभयन्ती धरित्रीं परिणतिरमणीयान्प्रक्षरन्ती पुमर्थान् । भवसि भुवनवन्द्या पादुके रङ्गभर्तुः शरणमुपगतानां शाश्वती कामधेनुः ॥ १३.२७॥ ३७७॥ पवनतरलितस्ते पादुके रङ्गभर्तु- र्विहरणसमयेषु व्याप्तविश्वः परागः । विषमविषयवर्त्मव्याकुलानामजस्रं व्यपनयति जनानां वासनारेणुजालम् ॥ १३.२८॥ ३७८॥ निष्प्रत्यूहमुपासिषीमहि मुहुर्निश्शेषदोषच्छिदो नित्यं रङ्गधुरन्धरस्य निगमस्तोमार्चिते पादुके । धत्ते मूर्धभिरादिपद्मजनिता तत्तादृशी सन्तति- र्यत्सञ्चारपवित्रितक्षितिरजःपङ्क्तिं चतुःपञ्चषैः ॥ १३.२९॥ ३७९॥ रजसा परोरजस्त-न्न खलु न लङ्घ्येत भगवतोऽपि पदम् । किमुत हृदयं मदीयं भवती यदि नाम पादुके न स्यात् ॥ १३.३०॥ ३८०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे परागपद्धतिस्त्रयोदशी ॥

१४. नादपद्धतिः (१००)

श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके । मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥ १४.१॥ ३८१॥ मुरभिन्मणिपादुके भवत्याः स्तुतिमाकर्णयतां मया निबद्धाम् । अवधीरयसीव मञ्जुनादैरचमत्कारवचांसि दुर्जनानाम् ॥ १४.२॥ ३८२॥ विहितेष्वभिवादनेषु वेदैर्गमनोदीरितगर्भरत्ननादा । मधुरं मधुवैरिपादरक्षे भवती प्रत्यभिवादनं विधत्ते ॥ १४.३॥ ३८३॥ स्वदते किमिहैव रङ्गनाथो मयि तिष्ठन् यदि वा पदे परस्मिन् । इति पृच्छसि देवि नूनमस्मान् मधुरैस्त्वं मणिपादुके निनादैः ॥ १४.४॥ ३८४॥ अवरोधगतस्य रङ्गभर्तुर्गुतिषु व्यञ्जितगर्भरत्ननादा । प्रतिसँल्लपसीव पादुके त्वं कमलानूपुरमञ्जुशिञ्जितानाम् ॥ १४.५॥ ३८५॥ मुरभिच्चरणारविन्दरूपं महितानन्दमवाप्य पूरुषार्थम् । अनघैर्मणिपादुके निनादैरहमन्नाद इतीव गायसि त्वम् ॥ १४.६॥ ३८६॥ मदुवैरिपदाम्बुजं भजन्ती मणिपादावनि मञ्जुशिञ्जितेन । पठसीव मुहुः स्वयं प्रजानामपरोपज्ञमरिष्टशान्तिमन्त्रम् ॥ १४.७॥ ३८७॥ श्रुतिभिः परमं पदं मुरारेरनिदङ्कारमनेवमित्युपात्तम् । इदमित्थमिति ब्रवीषि नूनं मणिपादावनि मञ्जुभिः प्रणादैः ॥ १४.८॥ ३८८॥ मुनयः प्रणिधानसन्निरुद्धे हृदि रङ्गेश्वररत्नपादुके त्वाम् । विनिवेश्य विभावयन्त्यनन्याः प्रणवस्य प्रणिधिं तव प्रणादम् ॥ १४.९॥ ३८९॥ मधुरं मणिपादुके प्रवृत्ते भवती रङ्गेपतेर्विहारकाले । अभयार्थनया समभ्युपेतानविसंवादयतीव मञ्जुनादैः ॥ १४.१०॥ ३९०॥ श्रवसोर्मम पारणां दिशन्ती मणिपादावनि मञ्जुलैः प्रणादैः । रमया क्षमया च दत्तहस्तं समये रङधुरीणमानयेथाः ॥ १४.११॥ ३९१॥ अनुयाति नित्यममृतात्मिकां कलां तव रङ्गचन्द्रमणिपादु झङ्कृतम् । श्रवसा मुखेन परिभुज्य यत्क्षणा- दजरामरत्वमुपयान्ति साधवः ॥ १४.१२॥ ३९२॥ परुषैरजस्रमसतामनर्थकैः परिवादपैशुनविकत्थनादिभिः । मधुकैटभारिमणिपादुके मम श्रुतिदुष्कृतानि विनिवारय स्वनैः ॥ १४.१३॥ ३९३॥ पादुके परिजनस्य दूरतः सूचयन्ति खलु तावकाः स्वनाः । लीलया भुजगतल्पमुज्ज़तः श्रीमतस्त्रिचतुरान्पदक्रमान् ॥ १४.१४॥ ३९४॥ देवि दैत्यदमनाय सत्वरं प्रस्थितस्य मणिपादुके प्रभोः । विश्वमङ्गलविशेषसूचकं शाकुनं भवति तावकं रुतम् ॥ १४.१५॥ ३९५॥ दातुमर्हसि तदा मम श्रुतौ देवि रङ्गपतिरत्नपादुके । विह्वलस्य भवदीयशिञ्जितं स्वादुकर्णरसनारसायनम् ॥ १४.१६॥ ३९६॥ अहमुपरिसमस्तदेवतानामुपरि ममैष विभाति वासुदेवः । तदिह परतरं न किञ्चिदस्मादिति वदसीव पदावनि प्रणादैः ॥ १४.१७॥ ३९७॥ अवनतविबुधेन्द्रमौलिमालाम- धुमदशिक्षितमन्थरप्रयाता । प्रथयसि परिरब्धशौरिपादा मणिकलहेन वियातजल्पितानि ॥ १४.१८॥ ३९८॥ आस्थानेषु त्रिदशमहितान् वर्तयित्वा विहारान् स्थाने स्थाने निजपरिजनं वारयित्वा यथार्हम् । वासागारं स्वयमुपसरन्पादुके मञ्जुनादा- मापर्यङ्कान्न खलु भवतीं रङ्गनाथो जहाति ॥ १४.१९॥ ३९९॥ अन्तर्न्यस्तैर्मणिभिरुदितं पादुके रङ्गबन्धौ मन्दं मन्दं निहितचरणे मञ्जुलं ते निनादम् । पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां पराया मन्ये मित्रावरुणविषयादुच्चरन्तीमवस्थाम् ॥ १४.२०॥ ४००॥ प्रख्यातानां परिषदि सतां कारयित्वा प्रतिज्ञां प्रायेण त्वां प्रथितविभवां वर्णयन्ती मया त्वम् । पादन्यासक्रममनुगुणं प्राप्य रङ्गाधिराजा- त्पद्यारम्भान् गणयसि परं पादुके स्वैर्निनादैः ॥ १४.२१॥ ४०१॥ विष्णोरस्मिन्पदसरसिजे वृत्तिभेदैर्विचित्रै- रैदम्पर्यं निगमवचसामैककण्ठ्येन सिद्धम् । इत्थं पुंसामनिपुणधियां पादुके त्वं तदेव स्पृष्ट्वा सत्यं वदसि नियतं मञ्जुना शिञ्जितेन ॥ १४.२२॥ ४०२॥ आम्नायैस्त्वामनितरपरैः स्तोतुमभ्युद्यतानां मध्ये भक्त्या मधुविजयिनः पादुके मोहभाजाम् । शिक्षातत्त्वस्खलितवचसां शिक्षयस्येव पुंसां मात्रादीनि स्वयमनुपदं मञ्जुभिः स्वैर्निनादैः ॥ १४.२३॥ ४०३॥ लक्ष्मीकान्तं कमपि तरुणं रथ्यया निष्पतन्तं रागाद् द्रष्टुं त्वरितमनसां राजधानीवधूनाम् । प्रत्यादेशं भजति मधुरैः पादुके शिञ्जितैस्ते चेतोहारी कुसुमधनुषः शिंञ्जिनीमञ्जुनादः ॥ १४.२४॥ ४०४॥ रङ्गाधीशे सह कमलया सादरं यायजूकैः सारं दिव्यं सवनहविषां भोक्तुमाहूयमाने । नेदीयोभिर्निगमवचसां नित्यमंहःप्रतीपैः प्रत्यालापं दिशति भवती पादुके शिञ्जितैः स्वैः ॥ १४.२५॥ ४०५॥ उपास्य नूनं मणिपादुके त्वां रङ्गेशपादाम्बुजराजहंसीम् । पत्युः प्रजानामलभन्त पूर्वं मञ्जुस्वनं वाहनराजहंसाः ॥ १४.२६॥ ४०६॥ अनादिमायारजनीवशेन प्रस्वापभाजां प्रतिबोधनार्हाम् । पश्यामि नित्योदितवासरस्य प्रभातनान्दीमिव पादुके त्वाम् ॥ १४.२७॥ ४०७॥ श‍ृणोतु रङ्गाधिपतिः प्रजानामार्तध्वनिं क्वापि समुज्जिहानम् । इतीव मत्वा मणिपादुके त्वं मन्दप्रचारैर्मृदुशिञ्जिताऽसि ॥ १४.२८॥ ४०८॥ अन्ते ममार्तिं शमयिष्यतस्तामग्रेसराण्यापततो मुरारेः । श्रमोपपन्नः श‍ृणुयां भवत्याः शीतानि पादावनि शिञ्जितानि ॥ १४.२९॥ ४०९॥ स्वादूनि रङ्गेश्वरपादरक्षे श्रोत्रैः पिबन्तस्तव शिञ्जितानि । पचन्त्यविद्योपचितानशेषान्तर्गतानात्मविदः कषायान् ॥ १४.३०॥ ४१०॥ अवैमि रङ्गाधिपतेः सकाशादवेक्षमाणेषु जनेषु रक्षाम् । उदारनादां मणिपादुके त्वामोमित्यनुज्ञाक्षरमुद्गिरन्तीम् ॥ १४.३१॥ ४११॥ मधुद्विषः स्वैरविहारहेतुर्मञ्जुस्वनान् शिक्षयसीव मातः । पर्यन्तभाजोर्मणिपादरक्षे पद्माधरण्योर्मणिनूपुराणि ॥ १४.३२॥ ४१२॥ प्रास्थानिकेषु समयेषु समागतेषु प्राप्ता पदं परिचितं द्विजपुङ्गवेन । पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं पुण्याहघोषमिव गर्भमणिप्रणादैः ॥ १४.३३॥ ४१३॥ आर्तध्वनेरुचितमुत्तरमन्तकाले कर्णेषु मञ्जुनिनदेन करिष्यसीति । वासं भजन्ति कृतिनो मणिपादरक्षे पुण्येषु देवि पुलिनेषु मरुद्वृधायाः ॥ १४.३४॥ ४१४॥ दूत्ये बलेर्विमथने शकटस्य भङ्गे यात्रोत्सवेषु च विभोः प्रतिपन्नसख्या । वीरायितानि बिरुदोपहितानि नूनं मञ्जुस्वनैः प्रथयसे मणिपादुके त्वम् ॥ १४.३५॥ ४१५॥ स्तोतुं प्रवृत्तमपि मां निगमस्तुतां त्वां व्यासज्यमानकरणं विषयेष्वजस्रम् । अन्तर्मणिध्वनिभिरच्युतपादुके त्वं सम्बोधयस्यनुकलं सहजानुकम्पा ॥ १४.३६॥ ४१६॥ देवस्य दानवरिपोर्मणिपादरक्षे प्रस्थानमङ्गलविधौ प्रतिपन्ननादाम् । मा भैष्ट साधव इति स्वयमालपन्तीं जाने जगत्रितयरक्षणदीक्षितां त्वाम् ॥ १४.३७॥ ४१७॥ स्वञ्छन्दविभ्रमगतौ मणिपादुके त्वं पादारविन्दमधिगम्य परस्य पुंसः । जातस्वना प्रतिपदं जपसीव सूक्तं विद्रावणं किमपि वैरिवरूथिनीनाम् ॥ १४.३८॥ ४१८॥ रक्षार्थमाश्रितजनस्य समुज्जिहाने रङ्गेश्वरे शरदि शेषभुजङ्गतल्पात् । नादास्तव श्रुतिसुखा मणिपादरक्षे प्रस्थानशङ्खनिनदात्प्रथमे भवन्ति ॥ १४.३९॥ ४१९॥ नित्यं पदाम्बुरुहयोरिह गोपिकां त्वां गोपीजनप्रियतमो मणिपादरक्षे । सम्बन्नघोषविभवां गतिभिर्निजाभिः प्रीत्यैव न त्यजति रङ्गसमाश्रितोऽपि ॥ १४.४०॥ ४२०॥ प्रायः पदावनि विभोः प्रणतार्तिहन्तुः प्रस्थानमङ्गलविधौ प्रथमोद्यतानि । त्वच्छिञ्जितानि सपदि स्वयमारभन्ते कालोचितान् कनककाहलशङ्गनादान् ॥ १४.४१॥ ४२१॥ आम्रेडितश्रुतिगणैर्निनदैर्मणीना- माम्नायवेद्यमनुभावमभङ्गुरं ते । उद्गास्यतां नियतमिच्छसि सामगानां तानप्रदानमिव शौरिपदावनि त्वम् ॥ १४.४२॥ ४२२॥ रथ्यासु रङ्गनृपतेर्मणिपादरक्षे त्वद्गर्भरत्नजनितो मधुरः प्रणादः । सन्दर्शनोत्सुकधियां पुरसुन्दरीणां सम्पद्यते श्रवणमोहनमन्त्रघोषः ॥ १४.४३॥ ४२३॥ आकस्मिकेषु समयेष्वपवार्य भृत्या- नन्तःपुरं विशति रङ्गपतौ सलीलम् । व्यामोहनेन भवती सुदृशामधीते मञ्जुस्वनेन मदनोपनिषद्रहस्यम् ॥ १४.४४॥ ४२४॥ यात्राविहारसमयेषु समुत्थितं ते रङ्गाधिपस्य चरणावनि मञ्जुनादम् । पर्याकुलेन्द्रियमृगग्रहणाय पुंसां सम्मोहनं शबरगीतमिव प्रतीमः ॥ १४.४५॥ ४२५॥ प्रायेण सह्यदुहितर्नदराजकन्या जामातुरागमनसूचनमीहमाना । मञ्जुप्रणादसुभगैर्मणिपादुके त्वा- मन्तर्युतामकृत यौतकरत्नखण्डैः ॥ १४.४६॥ ४२६॥ नित्यं विहारसमये निगमानुयातैः- र्विक्षेपताण्डवितगर्भमणिप्रसूतैः । नादैः स्वयं नरकमर्दनपादरक्षे नादावसाननिलयं वदसीव नाथम् ॥ १४.४७॥ ४२७॥ साधारणेषु युवयोर्मणिपादरक्षे देवस्य दानवरिपोस्त्रिषु विक्रमेषु । अद्यापि शिञ्जितमिषादनुवर्तमानं न्यूनाधिकत्वविषयं कलहं प्रतीमः ॥ १४.४८॥ ४२८॥ प्रायः पदावनि विभोः प्रणयापराधे मानग्रहं शमयितुं महिषीजनानाम् । उच्चारयन्ति निनदैस्तव गर्भरत्ना- न्युद्धातमक्षरमुपाश्रयभारतीनाम् ॥ १४.४९॥ ४२९॥ अन्तश्चरेषु पवनेषु जितेष्वभिज्ञाः प्रत्यड्मुखीं परिणमय्य मनःप्रवृत्तिम् । आस्वादयन्ति सरसं मणिपादरक्षे नादावसानसमये भवतीनिनादम् ॥ १४.५०॥ ४३०॥ दाक्षिण्यमत्र नियतं नियता सुधाऽस्मि- न्नित्युद्गतो नियतमच्युतपादरक्षे । प्रत्येकसंश्रितपदस्तुतये भवत्योः सङ्घर्षवाद इव मध्यमणिप्रणादः ॥ १४.५१॥ ४३१॥ सञ्चारकेलिकलहायितगर्भरत्ना सांसिद्धिकं सकलजन्तुषु सार्वभौमम् । रक्षार्थिनां प्रथयसीव पदावनि त्वं रङ्गेश्वरस्य निरवग्रहमानृशंस्यम् ॥ १४.५२॥ ४३२॥ प्राप्तुं परं पुरिशयं पुरुषं मुनीना- मभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम् । श्रीरङ्गराजचरणावनि शिञ्जितं ते शङ्के समुन्नयनसामविशेषघोषम् ॥ १४.५३॥ ४३३॥ नित्यं समाहितधियामुपन्दर्शयन्ती नागेशयं किमपि धाम निजोर्ध्वभागे । हृत्कर्णिकामनुगता मणिपादुके त्वं मञ्जुस्वना स्फुरसि वाग्भ्रमरी परेव ॥ १४.५४॥ ४३४॥ मानेषु दानवरिपोर्मणिपादरक्षे त्वामाश्रितेषु निगमेष्ववधीरितेषु । मञ्जुस्वनैर्वदसि मैवमितीव मात- र्वेलां लिलङ्घयिषतो मनुजान्निरोद्धुम् ॥ १४.५५॥ ४३५॥ क्रन्दत्सु कातरतया करणव्यपाये रङोपशल्यशयितेषु जनेष्वलक्ष्यम् । आसीदसि त्वरितमस्खलितानुकम्पा मातेव मञ्जुनिनदा मणिपाद्के त्वम् ॥ १४.५६॥ ४३६॥ भास्वत्सुवर्णवपुषां मणिपादरक्षे पद्मासहायपदपद्मविभूषणानाम् । मञ्जीरशिञ्जितविकल्पितमञ्जुनादा मञ्जूषिकेव भवती निगमान्तवाचाम् ॥ १४.५७॥ ४३७॥ रङ्गेशपादकमलात् त्वदधीनवृत्ते- रन्येषु केषुचिदलक्ष्यमनन्यवेद्यम् । आम्नायगूढमबहिर्मणिभिः क्वणद्भि- र्नेदीयसां प्रथयसीव निजानुभावम् ॥ १४.५८॥ ४३८॥ कालोपपन्नकरणात्ययनिर्विचेष्टे जातश्रमे मयि जनार्दनपादरक्षे । आश्वासनाय पुरतः प्रसरन्तु मात- र्वार्ताहरास्तव रवाः शमितार्तयो मे ॥ १४.५९॥ ४३९॥ संरक्षणाय समये जगतां त्रयाणां यात्रासु रङ्गनृपतेरुपतस्थुषीषु । सम्पत्स्यते श्रुतिसुखैर्मणिपादरक्षे मङ्गल्यसूक्तिरनघा तव मञ्जुनादैः ॥ १४.६०॥ ४४०॥ गर्भोपलैर्गमनवेगवशाद्विलोलै- र्वाचालिता मधुभिदो मणिपादुके त्वम् । प्रस्तौषि भावितधियां पथि देवयाने प्रस्थानमङ्गलमृदङ्गविशेषघोषम् ॥ १४.६१॥ ४४१॥ पर्यङ्कमाश्रितवतो मणिपादुके त्वं पादं विहाय परिकल्पितमौनमुद्रा । श्रोतुं प्रभोरवसरं दिशसीव मात- र्नाभीसरोजशयितार्भकसामगीतिम् ॥ १४.६२॥ ४४२॥ भोगाय देवि भवती मणिपादरक्षे पद्मासहायमधिरोप्य भुजङ्गतल्पे । विश्वस्य गुप्तिमधिकृत्य विहारहीना वाचंयमा किमपि चिन्तयतीव कार्यम् ॥ १४.६३॥ ४४३॥ नित्यप्रबोधसुभगे पुरुषे परस्मिन् निद्रामुपेयुषि तदेकविहारशीला । मञ्जुस्वनं विजहती मणिपादुके त्वं संवेशमिच्छसि परं चरणान्तिकस्था ॥ १४.६४॥ ४४४॥ लास्यं विहाय किमपि स्थितमाश्रयन्ती रङ्गेश्वरेण सहिता मणिमण्डपेषु । मञ्जुस्वनेषु विरतेष्वपि विश्वमेत- न्मौनेन हन्त भवती मुखरीकरोति ॥ १४.६५॥ ४४५॥ विस्मापितेव भवती मणिपादरक्षे वैरोचनेर्वितरणेन तथाविधेन । एतावताऽलमिति देवि गृहीतपादा नाथं त्रिविक्रममवारयतेव नादैः ॥ १४.६६॥ ४४६॥ सामानि रङ्गनृपतिः सरसं च गीतं लीलागतेषु विनिवारयति स्वतन्त्रः । श्रोतुं तव श्रुतिसुखानि विशेषवेदी मञ्जूनि काञ्चनपदावनि शिञ्जितानि ॥ १४.६७॥ ४४७॥ तत्तादृशीं प्रथयता रुचिरां स्वरेखां वर्णाधिकेन मधुसूदनपादरक्षे । पश्यन्ति चित्तनिकषे विनिवेश्य सन्तो मञ्जुस्वनेन तव नैगमिकं सुवर्णम् ॥ १४.६८॥ ४४८॥ मुग्धस्य हन्त भवतीं स्तुवतो ममैता- न्याकर्ण्य नूनमयथायथ जथल्पितानि । इत्थं वद त्वमिति शिक्षयितुं प्रणादान् मञ्जूनुदीरयसि माधवपादुके त्वम् ॥ १४.६९॥ ४४९॥ आदौ सहस्रमिति यत्सहसा मयोक्तं तूष्टूषता निरवधिं महिमार्णवं ते । आम्रेडयस्यथ किमेतदमृष्यमाणा मञ्जुस्वनेन मधुजिन्मणिपादुके त्वम् ॥ १४.७०॥ ४५०॥ परिमितपरिबर्हं पादुके सञ्चरिष्णौ त्वयि विनिहितपादे लीलया रङ्गनाथे । नियमयति विपञ्चीं नित्यमेकान्तसेवी निशमयितुमुदारान्नारदस्ते निनादान् ॥ १४.७१॥ ४५१॥ विहरति विशिखायां रङ्गनाथे सलीलं गमनवशविलोलैर्गर्भरत्नैः क्वणन्त्याः । मणिवलयनिनादैर्मञ्जुलैस्ते दिशन्ति प्रतिवचनमुदारं पादुके पौरनार्यः ॥ १४.७२॥ ४५२॥ अनुकृतसवनीयस्तोत्रशस्त्रां निनादै- रनुगतनिगमां त्वामास्थितो रङ्गनाथः । अनितरविबुधार्हं हव्यमास्वादयिष्यन् विशति चरणरक्षे यज्ञवाटं द्विजानाम् ॥ १४.७३॥ ४५३॥ चरणकमलमेतद्रङ्गनाथस्य नित्यं शरणमिति जनानां दर्शयन्ती यथावत् । प्रतिपदमपि हृद्यं पादुके स्वादुभावा- दनुवदति परं ते नादमाम्नायपङ्क्तिः ॥ १४.७४॥ ४५४॥ रहितभुजगतल्पे त्वत्सनाथे प्रजानां प्रतिभयशमनाय प्रस्थिते रङ्गनाथे । प्रथममुदयमानः पादुके तूर्यघोषा- त्प्रतिफलति निनादः पाञ्चाजन्ये त्वदीयः ॥ १४.७५॥ ४५५॥ वकुलधरतनुस्त्वं संहितां यामपश्यः श्रुतिपरिषदि तस्याः सौरभं योजयन्ति । हरिचरणसरोजामोदसम्मोदितायाः प्रतिपदरमणीयाः पादुके ते निनादाः ॥ १४.७६॥ ४५६॥ दनुतनयनिहन्तुर्जैत्रयात्रानुकूले शरदुपगमकाले सह्यजामापतन्ति । श्रुतिमधुरमुदारं शिक्षितुं ते निनादं परिहृतनिजवासाः पादुके राजहंसाः ॥ १४.७७॥ ४५७॥ विहरणसमयेषु प्रत्यहं रङ्गभर्तु- श्चरणनखमयूखैः सोत्तरीया विशुद्धैः । परिणमयसि नादं पादुके गर्भरत्नै- र्दमयितुमिव शिष्यान् दीर्घिकाराजहंसान् ॥ १४.७८॥ ४५८॥ परिषदि विरतायां पादुके रङ्गभर्तुः परिजनमपवार्य प्रस्थितस्यावरोधान् । मणिनिकरसमुद्यन्मञ्जुनादापदेशा- दभिलपसि यथार्हं नूनमालोकशब्दम् ॥ १४.७९॥ ४५९॥ गुरुजननियतं तद्गोपिकानां सहस्रं दिनकरतनयायाः सैकते दिव्यगोपः । वशमनयदयत्नाद्वंशनादानुयातै- स्तव खलु पदरक्षे तादृशैर्मञ्जुनादैः ॥ १४.८०॥ ४६०॥ निजपदविनिवेशान्निर्विशेषप्रचारान् परिणमयति भक्तान् रङ्गनाथो यथा माम् । इति विहरणकाले मञ्जुशिञ्जाविशेषै- र्हितमुपदिशसीव प्राणिनां पादुके त्वम् ॥ १४.८१॥ ४६१॥ अयमयमिति तैस्तैः कल्पितानध्वभेदान् प्रतिपदमवलोक्य प्राणिनां व्याकुलानाम् । चटुलमणिकलापैः शौरिपादावनि त्वं मुखरयसि विहारैर्मुक्तिघण्टापथाग्र्यम् ॥ १४.८२॥ ४६२॥ पदकमलमुदारं दर्शयन्ती मुरारेः कलमधुरनिनादा गर्भरत्नैर्विलोलैः । विषमविषयतृष्णाव्याकुलानि प्रजाना- मभिमुखयसि नूनं पादुके मानसानि ॥ १४.८३॥ ४६३॥ मधुरिपुपदरक्षे मन्दबुद्धौ मयि त्वा- मनवधिमहिमानं त्वत्प्रसादात् स्तुवाने । मणिनिकरसमुत्थैर्मञ्जुनादैः कवीना- मुपरमयसि तांस्तान्नूनमुत्सेकवादान् ॥ १४.८४॥ ४६४॥ शरणमुपगते त्वां शार्ङ्गिणः पादरक्षे सकृदिति विधिसिद्धं त्यक्तुकामे विमोहात् । प्रचलितमणिजालव्यञ्जितैः शिञ्जितैः स्वै- रलमलमिति नूनं वारयस्यादरेण ॥ १४.८५॥ ४६५॥ विकलकरणवृत्तौ विह्वलाङ्गे विलक्षं विलपति मयि मोहाद्बिभ्रती शौरिपादम् । परिसरमधिगन्तुं पश्य पादावनि त्वं प्रतिभयमखिलं मे भर्त्सयन्ती निनादैः ॥ १४.८६॥ ४६६॥ करणविगमकाले कालहुङ्कारशङ्की द्रुतपदमुपगच्छन् दत्तहस्तः प्रियाभ्याम् । परिणमयतु कर्णे रङ्गनाथः स्वयं नः प्रणवमिव भवत्याः पादुके मञ्जुनादम् ॥ १४.८७॥ ४६७॥ कमलवनसखीं तां कौमुदीमुद्वहन्तं सविधमुपनयन्ती तादृशं रङ्गचन्द्रम् । प्रलयदिनसमुत्थान्पादुके मामकीनान् प्रशमय परितापान् शीतलैः शिञ्जितैः स्वैः ॥ १४.८८॥ ४६८॥ प्रशमयतु भयं नः पश्चिमश्वासकाले रहसि विहरणं ते रङ्गनाथेन सार्धम् । नियतमनुविधत्ते पादुके यन्निनादो निखिलभुवनरक्शाघोषणाघोषलीलाम् ॥ १४.८९॥ ४६९॥ त्रिकविनिहितहस्तं चिन्तयित्वा कृतान्तं गतवति हृदि मोहं गच्छता जीवितेन । परिकलयतु बोधं पादुके शिञ्जितं ते त्वरयितुमिव सज्जं त्वद्विधेयं मुकुन्दम् ॥ १४.९०॥ ४७०॥ उपघ्नं संवित्तेरुपनिषदुपोद्धातवचनं तव श्रावं श्रावं श्रुतिसुभगमन्तर्मणिरवम् । विजृम्भन्ते नूनं मधुमथनपादावनि मम द्रवीभूतद्राक्षामधुरिमधुरीणाः फणितयः ॥ १४.९१॥ ४७१॥ विलासैः क्रीणन्तो निखिलजनचेतांसि विविधा विहारास्ते रङ्गक्षितिरमणपादावनि मुहुः । विगाहन्तामन्तर्मम विलुठदन्तर्मणिशिला- खलात्कारव्याजक्षरदमृतधाराधमनयः ॥ १४.९२॥ ४७२॥ श्रुतिश्रेणीस्थेयश्रुतिसुभगशिञ्जामुखरितां भजेम त्वां पद्मारमणचरणत्रायिणि परम् । न मुद्रानिद्राणद्रविणकणविश्राणनदशा- विशालाहङ्कारं कमपि घनहुङ्कारपरुषम् ॥ १४.९३॥ ४७३॥ तवैतच्छ्रीरङ्गक्षितिपतिपदत्रायिणि नृणां भवत्यागश्चिन्तारणरणकभङ्गाय रणितम् । शरीरे स्वं भावं प्रथयति यदाकर्णनवशा- न्न नः कर्णे भावी यममहिषघन्टाघणघणः ॥ १४.९४॥ ४७४॥ परित्रस्ताः पुण्यद्रवपतनवेगात्प्रथमतः क्षरद्भिः श्रीरङ्गक्षितिरमणपादावनि तदा । विदामासुर्देवा बलिमथनसंरम्भमनघैः प्रणादैस्ते सद्यः पदकमलविक्रान्तिपिशुनैः ॥ १४.९५॥ ४७५॥ स्वेषु स्वेषु पदेषु किं नियमयस्यष्टौ दिशामीश्वरान् स्वैरालापकथाः प्रवर्तयसि किं त्रय्या सहासीनया । रङ्गेशस्य समस्तलोकमहितं प्राप्ता पदाम्भोरुहं मा भैषीरिति मामुदीरयसि वा मञ्जुस्वनैः पादुके ॥ १४.९६॥ ४७६॥ रङ्गे देवि रथाङ्गपाणिचरणस्वच्छन्दलीलासखि स्तोकस्पन्दितरम्यविभ्रमगतिप्रस्तावकं तावकम् । कालोपागतकालकिङ्करचमूहुङ्कारपारम्परी- दुर्वारप्रतिवावदूकमनघं श्रोष्यामि शिञ्जारवम् ॥ १४.९७॥ ४७७॥ त्वच्छिञ्जारवशर्करारससदास्वादात् सतामुन्मदा मातर्माधवपादुके बहुविदां प्रायः श्रुतिर्मुह्यति । सारासारसकृद्विमर्शनपरिम्लानाक्षरग्रन्थिभि- र्ग्रन्थैस्त्वामिह वर्णयाम्यहमतस्त्रासत्रपावर्जितः ॥ १४.९८॥ ४७८॥ तवाम्ब किल खेलतां गतिवशेन गर्भाश्मनां रमारमणपादुके किमपि मञ्जुभिः शिञ्जितैः । पदस्तुतिविधायिभिस्त्वदनुभावसिद्धान्तिभिः सयूथ्यकलहायितं श्रुतिशतं समापद्यते ॥ १४.९९॥ ४७९॥ क्षिपति मणिपादरक्षे नादैर्नूनं समाश्रितत्राणे । रङ्गेश्वरस्य भवती रक्षापेक्षाप्रतीक्षणविलम्बम् ॥ १४.१००॥ ४८०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे नादपद्धतिश्चतुर्दशी ॥

१५. रत्नसामान्यपद्धतिः (५०)

उदर्चिषस्ते रङ्गेन्द्रपादावनि बहिर्मणीन् । अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥ १५.१॥ ४८१॥ विधेहि शौरेर्मणिपादुके त्वं विपद्यमाने मयि रश्मिजालैः । आसीदतामन्तककिङ्कराणां वित्रासनान् वेत्रलताविशेषान् ॥ १५.२॥ ४८२॥ मुकुन्दपादावनि मध्यनाड्या मूर्धन्यया निष्पततो मुमुक्षोः । आब्रह्मलोकादवलम्बनार्थं रत्नानि ते रश्मिगणं सृजन्ति ॥ १५.३॥ ४८३॥ असूर्यभेद्यां रजनीं प्रजानाम् आलोकमात्रेण निवारयन्ती । अमोघवृत्तिर्मणिपादरक्षे मुरद्विषो मूर्तिमती दया त्वम् ॥ १५.४॥ ४८४॥ रङ्गेशपादावनि तावकानां रत्नोपलानां द्युतयः स्फुरन्ति । श्रेयःफलानां श्रुतिवल्लरीणाम् उपघ्नशाखा इव निर्व्यपायाः ॥ १५.५॥ ४८५॥ कस्यापि पुंसः कनकापगायाः पुण्ये सलीलं पुलिने शयालोः । समीपवृत्तिर्मणिपादुके त्वं संवाहयन्तीव पदं करैः स्वैः ॥ १५.६॥ ४८६॥ दिदृक्षमाणस्य परं निधानं स्नेहान्विते योगदशाविशेषे । संवित्प्रदीपं मणिपादरक्षे सन्धुक्षयन्तीव मरीचयस्ते ॥ १५.७॥ ४८७॥ समाधिभाजां तनुते त्वदीया रङ्गेशपादावनि रत्नपङ्क्तिः । स्थानं प्रयातुं तमसः परं त- त्प्रदीपकृत्यं प्रभया महत्या ॥ १५.८॥ ४८८॥ बध्नासि रङ्गेश्वरपादरक्षे मन्ये यथार्हं मणिरश्मिजालैः । सेवानतानां त्रिदशेश्वराणां शेषापटीं शेखरसन्निकृष्टाम् ॥ १५.९॥ ४८९॥ भजन्ति रङ्गेश्वरपादरक्षे प्रकल्पयन्तो विविधान्पुमर्थान् । उदर्चिषश्चिन्तयतां जनानां चिन्तामणित्वं मणयस्त्वदीयाः ॥ १५.१०॥ ४९०॥ नाथस्य दत्ते नदराजकन्या पातुं शुभान्पादनखेन्दुरश्मीन् । मणिप्रभाभिः प्रतिपन्नपक्षां लीलाचकोरीमिव पादुके त्वाम् ॥ १५.११॥ ४९१॥ जनस्य रङ्गेश्वरपादुके त्वं जातानुकंपा जनयस्ययत्नात् । आकृष्य दूरान्मणिरश्मिजालै- रनन्यलक्षाणि विलोचनानि ॥ १५.१२॥ ४९२॥ रङ्गेशपादावनि तावकीनैः स्पृष्टाः कदाचिन्मणिरश्मिपाशैः । कालस्य घोरं न भजन्ति भूयः कारागृहान्तेषु कशाभिघातम् ॥ १५.१३॥ ४९३॥ रत्नानि रङ्गेश्वरपादरक्षे त्वदाश्रितान्यप्रतिघैर्मयूखैः । आसेदुषीणां श्रुतिसुन्दरीणां वितन्वते वर्णनिचोललक्ष्मीम् ॥ १५.१४॥ ४९४॥ निद्रारसप्रणयिनो मणिपादरक्षे रङ्गेश्वरस्य सविधं प्रतिपद्यमाना । शय्याफणीन्द्रमभितो भवती विधत्ते रत्नांशुभिर्यवनिकामिव दर्शनीयाम् ॥ १५.१५॥ ४९५॥ सद्यस्त्वदुद्ग्रहदशानमिताकृतीनां स्रस्तांशुकं निजरुचा मणिपादुके त्वम् । पद्मासहायपरिवारविलासिनीनां पट्टांशुकैरिव पयोधरमावृणोषि ॥ १५.१६॥ ४९६॥ देवस्य रङ्गवसतेः पुरतः प्रवृत्तै- रुद्धूतविश्वतिमिरां मणिरश्मिजालैः । मन्ये मदीयहृदयायतनप्रवेश- माङ्गल्यदीपकणिकां मणिपादुके त्वाम् ॥ १५.१७॥ ४९७॥ आकीर्णरत्ननिकरां मणिपादुके त्वां रङेश्वरस्य ललितां विपणिं प्रतीमः । यत्संश्रयेण भवति स्थिरभक्तिमूल्यं कैवल्यमत्र जगतां क्रयविक्रयार्हम् ॥ १५.१८॥ ४९८॥ व्यङ्क्तुं क्षमं भगवतो जगदीश्वरत्वं वज्राङ्कुशध्वजसरोरुहचक्रचिह्नम् । आश्लिष्य निर्भररुचिं मणिपादुके त्वा- मासीदनाभरणसुन्दरमङ्घ्रिपद्मम् ॥ १५.१९॥ ४९९॥ रत्नप्रभापटलचक्रमनोहरा त्वं पद्मारुणं पदमिदं त्वयि रङ्गभर्तुः । मन्ये तदेतदुभयं मणिपादरक्षे चक्राब्जमण्डलमकिञ्चनरक्षणार्थम् ॥ १५.२०॥ ५००॥ त्रासात्स्वयं प्रणमतां दनुजेश्वराणां सङ्ख्येऽवलूनशिरसामपि मौलिरत्नैः । आयोजयत्यनुकलं मणिपादुके त्वां सैरन्ध्रिकेव मुरवैरिकृपाणधारा ॥ १५.२१॥ ५०१॥ आस्कन्दनानि विबुधेन्द्रशिखामणीनां त्वामाश्रितान्यसुरसूदनपादरक्षे । रत्नानि ते स्तुतिसुवर्णपरीक्षणार्थे नूनं भजन्ति निकषोपलतां कवीनाम् ॥ १५.२२॥ ५०२॥ पादावनि प्रणयिनां प्रतिपादितार्थां क्रीडासरोजमिव शौरिपदं वहन्तीम् । प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां पश्यामि रोहणगिरेरधिदेवतां त्वाम् ॥ १५.२३॥ ५०३॥ यामेव रत्नकिरणैर्मणिपादाक्षे क्रीडासरोजमिव शौरिपदं भजन्तीम् । var वहन्तीम् प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां पश्यामि रोहणगिरेरधिदेवतां त्वाम् ॥ १५.२४॥ ५०४॥ रत्नाङ्कुरैरविरला मणिपादरक्षे पाकोन्मुखैः परिगता पुरुषार्थसस्यैः । देवेन रङ्गपतिना जगतां विभूत्यै केदारिकेव कृपया परिकल्पिता त्वम् ॥ १५.२५॥ ५०५॥ निर्धूतमोहतिमिरास्तव रत्नदीपै- र्निर्विश्यमानविभवं नदराजपुत्र्या । प्रत्यक्षयन्ति निगमान्तनिगूधमर्थं पादावनि त्वयि निवेशितभावबन्धाः ॥ १५.२६॥ ५०६॥ रत्नोपलप्रकरसम्भव एष दूरा- द्रङ्गाधिराजचरणावनि तावकीनः । आर्द्रापराधपरिखिन्नधियां प्रजाना- माश्वासनार्थ इव भाति करप्रसारः ॥ १५.२७॥ ५०७॥ व्यामुह्यतो विषयिबालमृगान्मदीयान् संसारघर्मजनितासु मरीचिकासु । पादावनि प्रगुणरत्नमरीचिजालै- राकृष्य विश्रमय केशवकान्तिसिन्धौ ॥ १५.२८॥ ५०८॥ अन्तर्निधाय मुनिभिः परिरक्षमाणाम्- आत्मीयरश्मिगुणितां मणिपादरक्षे । रङ्गेशपादकमलप्रतिपन्नमुद्रां नीवीमवैमि भवतीं निगमान्तवाचाम् ॥ १५.२९॥ ५०९॥ रामस्य रङ्गवसतेश्चरणानुषङ्गा- त्काष्ठां गतां परमपावनतां दधाना । var भुवनपावनताम् पादावनि प्रचुररत्नशिलानिबद्धा संसारसन्तरणसेतुरसि प्रजानाम् ॥ १५.३०॥ ५१०॥ दिविषन्मकुटेषु सञ्चरन्त्याः प्रचुरस्ते मणिपादुके प्रकाशः । दिवि रङ्गपतेर्महोत्सवार्थं वितता वन्दनमालिकेव भाति ॥ १५.३१॥ ५११॥ प्रभवन्ति दवीयसां स्वभावा- त्तव रत्नानि मुकुन्दपादरक्षे । अयसामिव हन्त लोहकान्ताः कठिनानां मनसां विकर्षणाय ॥ १५.३२॥ ५१२॥ परिपश्यति देवि रङ्गनाथे रहसि त्वं सविधे निविश्य लक्ष्म्याः । परिपुष्यसि रत्नधामभिः स्वैरनसूयेव मनोज्ञमङ्गरागम् ॥ १५.३३॥ ५१३॥ तव रत्नकरार्पितं नवीनं परिगृह्य स्थिरमंशुकं मनोज्ञम् । जरदंशुकत्सुखेन देहं कृतिनः केशवपादुके त्यजन्ति ॥ १५.३४॥ ५१४॥ अभितो मणिपादुके निबद्धैः कृतसंस्कारविशेषमात्मरत्नैः । कुरुते भवती पदं मुरारेः कठिनेऽस्मिन् हृदि मे निवेशयोग्यम् ॥ १५.३५॥ ५१५॥ निजरत्नकराञ्चलैर्मदीयानपराधानवधूय दत्तसाम्या । रमया सहितस्य रङ्गभर्तुः पदयोरर्पय पादुके स्वयं माम् ॥ १५.३६॥ ५१६॥ रश्मिजालपरिवेषबन्धुरा रङ्गभूमिपतिरत्नपादुके । विश्वलोचनविहङ्गहारिणी वागुरेव वितता विराजसे ॥ १५.३७॥ ५१७॥ मानसाम्बुजविकासहेतुभिः सेविता मणिगणैः प्रभाकरैः । पादुके वहसि सद्भिराश्रितां देवि विष्णुपदसम्पदं नवाम् ॥ १५.३८॥ ५१८॥ अधिशयितफणिश्वरस्य शौरेः स्वयमधिरूढपदोपधानपार्श्वा । मणिवलयजुषा करेण मन्दं स्पृशसि पदावनि पादयोर्युगं तत् ॥ १५.३९॥ ५१९॥ भवत्यन्ते त्वां प्रणतस्य जन्तो- स्तदोकोऽग्रज्वलनं त्वत्प्रकाशैः । यतो नाड्या मध्यमया विनिर्यन् गतिं विन्देत् केशवपादरक्षे ॥ १५.४०॥ ५२०॥ अशिथिलपरिणद्धा रश्मिजालैर्मणीनां दुरधिगमतमं नः पारमारोपयन्ती । कमलनयनमाद्यं कर्णधारं दधाना भवसि भवपयोधेः पादुके पोतपात्री ॥ १५.४१॥ ५२१॥ मणिगणकिरणैस्ते कल्पिते गुल्मभेदे मृगयुरिव कुरङ्गीं त्वां पुरस्कृत्य भव्याम् । हरति चरणरक्षे भक्तिपाशावरुद्धं हृदयहरिणयूथं प्राणिनां रङ्गनाथः ॥ १५.४२॥ ५२२॥ परिचितपदमूला पादुके रङ्गिणस्त्वं प्रभवति भुजमध्ये कौस्तुभोऽयं तथाऽपि । भवति भृशमधस्तात् तेजसा भव्यभूम्ना शलभितदुरितानां तावकानां मणीनाम् ॥ १५.४३॥ ५२३॥ कल्पश्रेणीदिनपरिणतौ जन्तुजाले प्रसुप्ते विष्वग्व्याप्ते जगति तमसा पादुके तादृशेन । स्त्यानालोकैस्तव मणिगणैर्वासगेहप्रदीपाः सम्पद्यन्ते सह कमलया जागरूकस्य यूनः ॥ १५.४४॥ ५२४॥ श्रीरङ्गेन्दोश्चरणकमलद्वन्द्वसेवावलेपा- दारूढायां त्वयि मखभुजामानतान् मौलिभागान् । तेषां चूडामणिभिरनघैस्तावकानां मणीनां केशाकेशि प्रभवति मिथस्त्रासलेशोज्झितानाम् ॥ १५.४५॥ ५२५॥ त्वद्रत्नोपलरश्मिपञ्जरतनुत्राणं स्थिरं बिभ्रतो मातर्माधवपादुके न तु पुनर्हस्तैः स्पृशन्त्याकुलैः । दूरोत्सिक्तदुराढ्यजिह्मगबिलद्वाःपालकोपानल- ज्वालामित्रकठोरवेत्रलतिकादत्तार्धचन्द्रं वपुः ॥ १५.४६॥ ५२६॥ संवर्तोदितसूर्यकोटिसदृशीं रङ्गेशपादावनि प्रस्तौषि प्रतियत्नरत्ननिकरज्योतिश्छटामुद्भटाम् । तन्मन्ये त्वदनन्यसूरिपरिषन्मध्ये निवेशाय न- स्तादृग्वासरसेऽपि भेत्तुमचिरादस्माकमन्धन्तमः ॥ १५.४७॥ ५२७॥ सलीलं विन्यस्य त्वयि चरणरक्षे निजपदं यदृच्छानिष्क्रान्ते विहरति हरौ रङ्गरसिके । दिशासौधानष्टौ जनयसि तदा निर्भरमिल- न्मणिच्छायामायाघनघटितकेतुव्यतिकरान् ॥ १५.४८॥ ५२८॥ महार्घैराश्लिष्टां मणिभिरवधूतद्युमणिभिः कथञ्चित् क्षेत्रज्ञैरधिगतपदामम्ब भवतीम् । मुकुन्देन त्रातुं पदकमलमूले विनिहितां निराबाधां मन्ये निधिमनघवाचां निरवधिम् ॥ १५.४९॥ ५२९॥ तापत्रयं निरुन्धे पचति कषायान् विशोषयति पङ्कम् । तेजस्त्रितयमिदं ते शङ्के रङ्गेन्द्रपादुके तेजः ॥ १५.५०॥ ५३०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे रत्नसामान्यपद्धतिः पञ्चदशी ॥

१६. बहुरत्नपद्धतिः (५०)

मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः । प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥ १६.१॥ ५३१॥ मणिभिः सितरक्तपीतकृष्णैर्भवती काञ्चनपादुके विचित्रा । युगभेदविकल्पितं मुरारेर्युगपद्दर्शयतीव वर्णभेदम् ॥ १६.२॥ ५३२॥ नवरत्नविचित्रिता मुरारेः पदयोस्त्वं मणिपादुके विभासि । नवखण्डवती वसुन्धरेव प्रणयाज्जन्मपदं समाश्रयन्ती ॥ १६.३॥ ५३३॥ सहसा विनिवेद्य सापराधान् त्वदधीनस्वपदे मुकुन्दपादे । अरुणोपलसक्तमौक्तिकश्रीः स्मयमानेव विभासि पादुके त्वम् ॥ १६.४॥ ५३४॥ बहुरत्नसमुद्भवं मयूखं तव मन्ये मणिपादुके मुरारेः । चरणोपगतं मयूरपिञ्छं मकुटारोहणसाहसं प्रमार्ष्टुम् ॥ १६.५॥ ५३५॥ प्रभया हरिनीलमौक्तिकानां विकसन्त्या दिशसीव पादुके त्वम् । मधुभिच्चरणारविन्दलक्ष्म्याः स्रजमिन्दीवरपुण्डरीकबद्धाम् ॥ १६.६॥ ५३६॥ तव माधवपादुके मणीनां प्रभया देवि सितासितारुणानाम् । वहते गिरिशस्य मौलिगङ्गा कुमुदेन्दीवरपद्मकाननानि ॥ १६.७॥ ५३७॥ पृथग्विधानां द्युतिभिर्मणीनां त्वां पादुके लोहितशुक्लकृष्णाम् । विहारहेतोरिह रङ्गभर्तुः पादानुषक्तां प्रकृतिं प्रतीमः ॥ १६.८॥ ५३८॥ तमालनीलद्युतिमिन्द्रनीलैर्मुक्तानुविद्धां मणिपादुके त्वाम् । अवैमि रङ्गेश्वरकान्तिसिन्धोर्वेलामविश्रान्तगतागतार्हाम् ॥ १६.९॥ ५३९॥ अवैमि रङ्गेश्वरपादुकाभ्यामकालकाल्यं विभवं विधातुम् । वज्रेन्द्रनीलव्यपदेशदृश्यं बन्दीकृतं नूनमहस्स्त्रियामम् ॥ १६.१०॥ ५४०॥ पदस्य गोप्त्री भवती मुरारेर्मणिस्पृशा मौक्तिकरत्नभासा । अन्तर्दृशं साञ्जनया मुनीनामनक्ति कर्पूरशलाकयेव ॥ १६.११॥ ५४१॥ मुक्तामयूखप्रकरैः सुभद्रा कृष्णा महेन्द्रोपलरश्मिजालैः । मान्या मुरारेर्मणिपादुके त्वं विहारयुक्ता विजयं वृणोषि ॥ १६.१२॥ ५४२॥ विचित्रवर्णां मणिपादुके त्वां छन्दोमयीं सामनिबद्धगीतिम् । मुनीन्द्रजुष्टां द्विपदां मुरारेः प्रत्यायिकां काञ्चिदृचं प्रतीमः ॥ १६.१३॥ ५४३॥ प्रसेदुषी गोत्रभिदः प्रणामैः पुष्णासि रङ्गेश्वरपादुके त्वम् । मणिप्रभासंवलनापदेशात्प्रायस्तदर्हाणि शरासनानि ॥ १६.१४॥ ५४४॥ शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं बालातपं बलिविमर्दनपादरक्षे । श्यामीकृतं शुकशकुन्तगणप्रवेशा- च्छङ्के सतां किमपि शालिवनं विपक्वम् ॥ १६.१५॥ ५४५॥ सम्भिद्यमानमणिविद्रुममौक्तिकश्रीः । सैरन्ध्रिकेव भवती मणिपादरक्षे । प्रस्तौति रङ्गनृपतेश्चरणारविन्दे कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम् ॥ १६.१६॥ ५४६॥ आतन्वतीमसुरमर्दनपादरक्षे शुद्धान्तपक्ष्मलदृशां मदनेन्द्रजालम् । वैहारिकीं विविधरत्नमयूखलक्षा- न्मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम् ॥ १६.१७॥ ५४७॥ रत्नैर्व्यवस्थितसितासितशोणवर्णै- रालोकवद्भिरजहच्छ्रुतिसन्निकर्षैः । द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ सन्दृश्यसे जननि सम्भृतनेत्रपङ्क्तिः ॥ १६.१८॥ ५४८॥ गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्षा- द्दूर्वामधूकरचितं दुरितोपशान्त्यै । मातः स्वयं वहसि मुग्धधियां प्रजानां मङ्गल्यमाल्यमिव माधवपादुके त्वम् ॥ १६.१९॥ ५४९॥ रङ्गाधिराजपदरक्षिणि राजते ते वज्रोपसङ्घटितमौक्तिकविद्रुमश्रीः । सक्ता चिरं मनसि संयमिनां निवासा- त्सूर्येन्दुवह्निमयमण्डलवासनेव ॥ १६.२०॥ ५५०॥ आसक्तवासवशिलाशकलास्त्वदीयाः पद्मासहायपदरक्षिणि पद्मरागाः । प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं पादारविन्दकमरन्दरसप्रवाहम् ॥ १६.२१॥ ५५१॥ अन्तःपुराणि समयेष्वभिगन्तुमेका रङ्गेशितुर्ज्ञपयसीव पदावनि त्वम् । मुक्तांशुजालमिलनाद्रुचिरैः प्रवालै- र्बिम्बाधरं स्मितविशेषयुतं प्रियाणाम् ॥ १६.२२॥ ५५२॥ रङ्गेश्वरस्य मृगयोश्चरणावसक्तां रक्षःकपीन्द्रमकुटेषु निवेशयोग्याम् । मन्ये पदावनि निबद्धविचित्ररत्नां मायामृगस्य रचितामिव चर्मणा त्वाम् ॥ १६.२३॥ ५५३॥ बध्नासि रङ्गपतिविभ्रमपादुके त्वं मायाकिरातमकुटे नवबर्हमालाम् । आकृष्टवासवधनुश्शकलैर्मणीना- मन्योन्यसङ्घटितकर्बुरितैर्मयूखैः ॥ १६.२४॥ ५५४॥ अन्योन्यबन्धुरहरिन्मणिपद्मरागा रङ्गेश्वरस्य चरणावनि राजसे त्वम् । आत्मोपमानविभवाच्चरितार्थयन्ती शैलात्मजागिरिशयोरिव मूर्तिमेकाम् ॥ १६.२५॥ ५५५॥ तापत्रयप्रशमनाय समाश्रितानां सन्दर्शितारुणसितासितरत्नपङ्क्तिः । पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं प्रायः सरोजकुमुदोत्पलकाननानि ॥ १६.२६॥ ५५६॥ देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः शौरेः पदाम्बुजरुचिं तव पद्मरागाः । अन्योन्यलब्धपरभागतया त्वमीषा- माभाति कान्तिरपरा मणिपादरक्षे ॥ १६.२७॥ ५५७॥ आकीर्णमौक्त्कहरिन्मणिपद्मरागा- मम्भोजलोचनपदावनि भावये त्वाम् । तत्पादविश्रमजुषां श्रुतिसुन्दरीणां वर्णोपधानमिव मौलिनिवेशयोग्यम् ॥ १६.२८॥ ५५८॥ आसन्नवासवशिलाशकलास्त्वदीयाः पद्मेक्षणस्य पदरक्षिणि पद्मरागाः । सम्भावयन्ति समये क्वचिदुष्णभानोः सद्यःप्रसूतयमुनासुभगामास्थाम् ॥ १६.२९॥ ५५९॥ मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः पङ्क्ती दृढे परमपूरुषपादरक्षे । मन्ये समाश्रितजनस्य तवानुभावा- दुन्मोचिते सुकृतदुष्कृतश‍ृङ्खले द्वे ॥ १६.३०॥ ५६०॥ उद्गीर्णगाढतमसो हरिनीलभङ्गा- स्ताराविशेषरुचिराणि च मौक्तिकानि । त्वत्सङ्गमात्सरसिजेक्षणपादरक्षे संयोजयन्ति निशया भवमौलिचन्द्रम् ॥ १६.३१॥ ५६१॥ विष्णोः पदेन घटिता मणिपादुके त्वं व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः । कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा कादम्बिनीव परितः स्फुटवारिबिन्दुः ॥ १६.३२॥ ५६२॥ भासा स्वयं भगवतो मणिपादरक्षे मुक्तान्विता मरतकोपलपद्धतिस्ते । नित्यावगाहनसहं सकलस्य जन्तो- र्गङ्गान्वितं जनयतीव समुद्रमन्यम् ॥ १६.३३॥ ५६३॥ सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्षा- त्त्वां नित्यमाश्रितवती मणिपादरक्षे । आदौ जनार्दनपदे क्शणमात्रलग्ना- मासन्नमौक्तिकरुचा हसतीव गङ्गाम् ॥ १६.३४॥ ५६४॥ पर्यन्तसङ्घटितभासुरपद्मरागाः पद्मोदरभ्रमकान्तिमुशस्त्वदीयाः । त्वत्संश्रयेण चरणावनि शक्रनीलाः पीताम्बरेण पुरुषेण तुलां लभन्ते ॥ १६.३५॥ ५६५॥ शङ्के पदावनि सदा परिचिन्वती त्वं रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् । अग्रे महोभिररुणोपलमौक्तिकानां प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम् ॥ १६.३६॥ ५६६॥ निर्गच्छता चरणरक्षिणि नीयमाना रङ्गेश्वरेण भवती रणदीक्षितेन । सूते सुरारिसुभटीनयनाम्बुजानां ज्यौत्स्नीं निशामिव सितासितरत्नभासा ॥ १६.३७॥ ५६७॥ मरकतहरिताङ्गी मेदुरा पद्मरागै- रभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः । कलयसि पदरक्षे कृष्णमेघप्रचारात्- कनकसरिदनूपे शाद्वलं सेन्द्रगोपम् ॥ १६.३८॥ ५६८॥ विरचितसुरसिन्धोविष्णुपादरविन्दा- त्समधिकमनुभावं पादुके दर्शयन्ती । वलभिदुपलमुक्तापद्मरागप्रकाशैः परिणमयसि नूनं प्राप्तशोणं प्रयागम् ॥ १६.३९॥ ५६९॥ विविधमणिमयूखैर्व्यक्तपक्षां विचित्रै- र्जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् । अनिशमविकलानां पादुके रङ्गभर्तु- श्चरणनखमणीनां चन्द्रिकामापिबन्तीम् ॥ १६.४०॥ ५७०॥ चरणकमलसेवासङ्गिनां रङ्गभर्तु- र्विनयगरिमभाजां वर्जितैरातपत्रैः । पुनरपि पदरक्षे पुष्यसि त्वं सुराणां बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम् ॥ १६.४१॥ ५७१॥ मरकतरुचिपत्रा मौक्तिकस्मेरपुष्पा स्फुटकिसलयशोभाभासुरैः पद्मरागैः । फलमखिलमुदारा रङ्गनाथस्य पादे कलयति भवती नः कल्पवल्लीव काचित् ॥ १६.४२॥ ५७२॥ बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादा- न्निजशिरसि गिरीशो निक्षिपन्पादुके त्वाम् । स्मरति ललितमन्तर्लालनीयं भवान्या- स्तरलघनकलापं शण्मुखस्यौपवाह्यम् ॥ १६.४३॥ ५७३॥ विविधमणिसमुत्थैर्व्यक्तमापादयन्तीं दिवसरजनिसन्ध्यायौगपद्ये मयूखैः । उपनिषदुपगीतां पादुके रङ्गिणस्त्वा- मघटितघटनार्हां शक्तिमालोचयामः ॥ १६.४४॥ ५७४॥ सकलमिदमवन्ध्ये शासने स्थापयन्ती मुरमथनपदस्था मौक्तिकादिप्रकारा । प्रकटयसि विशुद्धश्यामरक्तादिरूपान् फलपरिणतिभेदान्प्राणिनां पादुके त्वम् ॥ १६.४५॥ ५७५॥ प्रदिशति मुदमक्ष्णोः पादुके देहभाजां शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा । परिसरनिहितैस्ते पद्मरागप्रदीपै- र्घनतरपरिणद्धा कज्जलश्यामिकेव ॥ १६.४६॥ ५७६॥ कलयाऽपि हानिरहितेषु सदा तव मौक्तिकेषु परितः प्रथते । उपरज्यमानहरिणाङ्कुतुला हरिपादुके हरिशिलामहसा ॥ १६.४७॥ ५७७॥ मरकतपत्रला रुचिरविद्रुमपल्लविता पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः । उपवनदेवतेव चरणावनि रङ्गपते- रभिलषतो विहारमभिगम्य पदं स्पृशसि ॥ १६.४८॥ ५७८॥ सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे । प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते नवाम्भःस्वाच्छन्द्यं नमदमरकोटीरमकरः ॥ १६.४९॥ ५७९॥ जनयसि पदावनि त्वं मुक्ताशोणमणिशक्रनीलरुचा । नखरुचिसन्ततिरुचिरां नन्दकनिस्त्रिंशसम्पदं शौरेः ॥ १६.५०॥ ५८०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे बहुरत्नपद्धतिःषोडशी ॥

१७. पद्मरागपद्धतिः (३०)

प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् । पदैकनियतां तस्य पद्मवासामिवापराम् ॥ १७.१॥ ५८१॥ अतिवाड्मनसं विचिन्त्य शौरेः पदरक्षे पदपद्मसौकुमार्यम् । परिपुष्यसि पद्मरागभासा पदवीमाहितपल्लवामिव त्वम् ॥ १७.२॥ ५८२॥ पदपल्लवसङ्गिभिः प्रदीप्तैरधिकोल्लासिभिरम्ब पद्मरागैः । अनले शयनं क्वचिन्मुरारेरविसंवादयसीव पादुके त्वम् ॥ १७.३॥ ५८३॥ विवृणोति रङ्गपतिरत्नपादुके त्वयि पद्मरागमनिपद्धतिः शुभा । निबिडोरुसङ्घटनपीडनक्षरन्मधुकैटभक्षतजपङ्कवासनाम् ॥ १७.४॥ ५८४॥ प्रतियन्ति रङ्गपतिपादुके जना- स्तव पद्मरागमणिरश्मिसन्ततिम् । अभिजग्मुषां त्वदनुभावखण्डिता- दघसञ्चयाद्विगलितामसृक्छटाम् ॥ १७.५॥ ५८५॥ पश्यन्ति रङ्गेश्वरपादुके त्वां पौराङ्गनाः स्पर्शितरागबन्धाम् । श‍ृङ्गारयोनेर्ज्वलनस्य दीप्तैरङ्गारजालैरिव पद्मरागैः ॥ १७.६॥ ५८६॥ अवैमि दोषापगमस्य हेतुं तमोपहां सम्भृतपद्मरागाम् । अशेषवन्द्यां मणिपादुके त्वां रङ्गेशसूर्योदयपूर्वसन्ध्याम् ॥ १७.७॥ ५८७॥ अवाप्य पादावनि रङ्गभर्तुःपादाम्बुजे पल्लवसंस्तराभाम् । त्वत्पद्मरागद्युतयो भजन्ते कालानलत्वं कलुशाम्बुधेर्नः ॥ १७.८॥ ५८८॥ निसर्गसिद्धं मणिपादरक्षे देवस्य रङ्गावसथप्रियस्य । बालार्कवर्णाः पदपद्मरागं त्वत्पद्मरागाः पुनरुक्तयन्ति ॥ १७.९॥ ५८९॥ पदेन विश्वं मणिपादरक्षे पत्न्या समं पालयतो मुरारेः । यशःपयोधौ परिकल्पयन्ति प्रवालशोभां तव पद्मरागाः ॥ १७.१०॥ ५९०॥ अर्चिष्मती काञ्चनपादरक्षे प्रस्तौति ते पाटलरत्नपङ्क्तिः । रेखारथाङ्गस्य महःप्रपञ्चं रङ्गेशपादाम्बुजमध्यभाजः ॥ १७.११॥ ५९१॥ त्वयैव पादावनि शोणरत्नैर्बालातपं नूनमुदीरयन्त्या । पद्मापतेः पादतलप्ररूढं रेखाम्बुजं नित्यमभूदनिद्रम् ॥ १७.१२॥ ५९२॥ नित्यं निजालोकपथं गतानां श्रेयो दिशन्ती श्रितपद्मरागाम् । महीयसीं माधवपादरक्षे मन्यामहे मङ्गलदेवतां त्वाम् ॥ १७.१३॥ ५९३॥ देवस्य रङ्गरसिकस्य विहारहेतो- रात्मानमङ्घ्रिकमले विनिवेद्य पूर्वम् । प्रायो निवेदयसि शोणमणिप्रकाशैः प्रत्यूषपद्मकलिकां पदरक्षिणि त्वम् ॥ १७.१४॥ ५९४॥ प्रत्यड्मयस्य हविषः प्रणवेन देवि प्रक्षेपणाय परमार्थविदां मुनीनाम् । प्राज्यां मुकुन्दचरणावनि पद्मरागैः पर्यायपावकशिखां भवतीं प्रतीमः ॥ १७.१५॥ ५९५॥ सम्पद्यते तव पदावनि पद्मरागैः प्रस्थानमाङ्गलिकहोमहुताशनश्रीः । क्षीराहुतिर्भवति यत्र विकल्पगङ्गा रङ्गेश्वरस्य रुचिरा नखरश्मिधारा ॥ १७.१६॥ ५९६॥ आमुञ्चतामरुणयावकपङ्कलक्ष्मीं शोणाश्मनां तव पदावनि कान्तियोगात् । पद्मासहायपदपद्मनखाः श्रयन्ते सन्ध्यानुरञ्जितसुधाकरबिम्बशोभाम् ॥ १७.१७॥ ५९७॥ स्थाने तवाच्युतपदावनि पद्मरागा- स्तेजोमयाः प्रशमयन्ति तमो मदीयम् । चित्रं तदेतदिह यज्जनयन्ति नित्यं रागात्मकेन महसा रजसो निवृत्तिम् ॥ १७.१८॥ ५९८॥ पद्माकरान्तरविकासिनि रङ्गभर्तुः पीत्वा पदावनि मधूनि पदारविन्दे । शोणोपलद्युतिमयीं सुभगप्रचारां मन्ये बिभर्षि महतीं मदरागशोभाम् ॥ १७.१९॥ ५९९॥ पादावनि प्रसृमरस्य कलेर्युगस्य प्रायेण संप्रति निवारयितुं प्रवेशम् । श्रीरङ्गसीम्नि तव शोणमणिप्रसूतः प्राकारमग्निमयमारभते प्रकाशः ॥ १७.२०॥ ६००॥ लीलागृहान्तरविहारिणि रङ्गनाथे लाक्षारसैररुणरत्नमयूखलक्ष्यैः । प्रायेण रञ्जयति पादसरोजयुग्मं सैरन्ध्रिकेव भवती मणिपादरक्षे ॥ १७.२१॥ ६०१॥ रङ्गेशितुर्विहरतो मणिपादरक्षे रथ्यान्तरे सुमनसः परिकीर्यमाणाः । त्वत्पद्मरागकिरणच्छुरणाद्भजन्ते सन्ध्यातपान्तरिततारकपङ्क्तिलक्ष्मीम् ॥ १७.२२॥ ६०२॥ रङ्गाधिराजपदरक्षिणि बिभ्रतस्त्वां गङ्गातरङ्गविमले गिरिशस्य मौलौ । संवर्धयन्ति महसा तव पद्मरागाः शैलात्मजाचरणयावकपङ्कलक्ष्मीम् ॥ १७.२३॥ ६०३॥ शरणमुपगतानां शर्वरीं मोहरूपां शमयितुमुदयस्थान्मन्महे बालसूर्यान् । पदसरसिजयोगाद्रङ्गनाथस्य भूयः परिणमदरुणिम्नः पादुके पद्मरागान् ॥ १७.२४॥ ६०४॥ हरिपदरुचिराणां पादुके तावकाना- मरुणमणिगणानां नूनमर्धेन्दुमौलिः । प्रणतिसमयलग्नां वासनामेव धत्ते कलमकणिशकान्तिरपर्धिनीभिर्जटाभिः ॥ १७.२५॥ ६०५॥ प्रतिविहरणमेते पादुके रङ्गभर्तुः पदकमलसगन्धाः पद्मरागास्त्वदीयाः । तरुणतपनमैत्रीमुद्वहद्भिर्मयूखैः स्थलकमलविभूतिं स्थापयन्त्यव्यवस्थाम् ॥ १७.२६॥ ६०६॥ अयमनितरभोगान् रञ्जयन् वीतरागा- नरुणमणिगणानां तावकानां प्रकाशः । मधुरिपुपदरक्षे मङ्क्षु जाज्वल्यमानः शलभयति जनानां शाश्वतं पापराशिम् ॥ १७.२७॥ ६०७॥ प्रचुरनिगमगन्धाः पादुके रङ्गभर्तुः पदकमलसमृद्धिं प्रत्यहं भावयन्तः । दधति शकलयन्तो गाढमन्तस्तमिस्रं समुचितमरुणत्वं तावकाः पद्मरागाः ॥ १७.२८॥ ६०८॥ लाक्षालक्ष्मीमधुररुचके रङ्गिणः पादरक्षे वक्त्राम्भोजे मदपरिणतिं पद्मरागद्युतिस्ते । कर्णोपान्ते किसलयरुचिं देवि सेवानतानां सीमन्ते च त्रिदशसुदृशां सौति सिन्धूरशोभाम् ॥ १७.२९॥ ६०९॥ अरुणमणयस्तवैते हरिपदरागेण लब्धमहिमानः । गमयन्ति चरणरक्षे द्युमणिगणं ज्योतिरिङ्गणताम् ॥ १७.३०॥ ६१०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गानाथपादुकासहस्रे पद्मरागपद्धतिः सप्तदशी ॥

१८. मुक्तापद्धतिः (५०)

बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च । प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका ॥ १८.१॥ ६११॥ तव रङ्गधुरीणपादरक्षे विमला मौक्तिकपद्धतिर्विभाति । सुहृदि त्वयि साधितापवर्गैः समये सङ्क्रमितेव साधुकृत्या ॥ १८.२॥ ६१२॥ शरणागतसस्यमालिनीयं तव मुक्तामणिरश्मिनिर्झरौघैः । ननु रङ्गधुरीणपादरक्षे जगती नित्यमदैवमातृकाऽभूत् ॥ १८.३॥ ६१३॥ अधिविष्णुपदं परिस्फुरन्ती नवमुक्तामणिनिर्मलप्रकाशा । परिपुष्यसि मङ्गलानि पुंसां प्रतिपच्चन्द्रकलेव पादुके त्वम् ॥ १८.४॥ ६१४॥ निहिता नवमौक्तिकावलिस्त्वा- मभितः काञ्चनपादुके मुरारेः । नखचन्द्रमसां पदाश्रितानां प्रतिमाचन्द्रपरम्परेव भाति ॥ १८.५॥ ६१५॥ समतामुपैति वपुषाऽपि सदा भवदीयमौक्तिकमहश्छुरिता । हरिपादुके हरिपदोद्भवया कनकापगा सुरपुरापगया ॥ १८.६॥ ६१६॥ तव रङ्गचन्द्रतपनीयपादुके विमला समुद्वहति मौक्तिकावलिः । चरणारविन्दनखचन्द्रमण्डल- प्रणयोपयातनवतारकारुचिम् ॥ १८.७॥ ६१७॥ चन्द्रचूडमकुटेन लालिता चारुमौक्तिकमयूखपाण्डरा । रङ्गनाथपदपद्मसङ्गिनी लक्ष्यसे सुरधुनीव पादुके ॥ १८.८॥ ६१८॥ ये भजन्ति भवतीं तवैव ते मौक्तिकद्युतिविकल्पगङ्गया । वर्धयन्ति मधुवैरिपादुके मौलिचन्द्रशकलस्य चन्द्रिकाम् ॥ १८.९॥ ६१९॥ मुक्तामयूखैर्नियतं त्वदीयै- रापूरयिष्यन्नवतंसचन्द्रम् । बिभर्ति रङ्गेश्वरपादरक्षे देवो महान् दर्शितसन्नतिस्त्वाम् ॥ १८.१०॥ ६२०॥ परिष्कृता मौक्तिकरश्मिजालैः पदस्य गोप्त्री भवती मुरारेः । भवत्यनेकोर्मिसमाकुलानां पुंसां तमस्सागरपोतपात्री ॥ १८.११॥ ६२१॥ रङ्गेशपादप्रतिपन्नभोगां रत्नानुविद्धैर्महितां शिरोभिः । मुक्तावदातां मणिपादुके त्वां मूर्तिं भुजङ्गाधिपतेः प्रतीमः ॥ १८.१२॥ ६२२॥ मुकुन्दपादावनि मौक्तिकैस्ते ज्योत्स्नामयं विश्वमिदं दिवाऽपि । वैमानिकानां न भजन्ति येन व्याकोचतामञ्जलिपद्मकोशाः ॥ १८.१३॥ ६२३॥ समाश्रितानामनघां विशुद्धिं त्रासव्यपायं च वितन्वती त्वम् । सायुज्यमापादयसि स्वकीयै- र्मुक्ताफलैर्माधवपादुके नः ॥ १८.१४॥ ६२४॥ अवैमि पादावनि मौक्तिकानां कीर्णामुदग्रैः किरणप्ररोहैः । यात्रोत्सवार्थं विहितां मुरारे- रभङ्गुरामङ्क्रुरपालिकां त्वाम् ॥ १८.१५॥ ६२५॥ शिवत्वहेतुं सकलस्य जन्तोः स्रोतोविशेषैः सुभगामसङ्ख्यैः । मुक्तामयूखैः सुरसिन्धुमन्यां पुष्णासि रङ्गेश्वरपादुके त्वम् ॥ १८.१६॥ ६२६॥ रङ्गेशयानस्य पदावनि त्वां लावण्यसिन्धोः सविधे निषण्णाम् । परिस्फुरन्मौक्तिकजालदृश्यां प्रसूतिभिन्नां प्रतियन्ति शुक्तिम् ॥ १८.१७॥ ६२७॥ अवैमि रङ्गेश्वरपादरक्षे मुक्ताफलानि त्वयि निस्तुलानि । तेनैव कल्पान्तरतारकाणा- मुप्तानि बीजानि जगद्विधात्रा ॥ १८.१८॥ ६२८॥ विक्रम्यमाणमभवत् क्शणमन्तरिक्षं मायाविना भगवता मणिपादरक्षे । व्योमापगाविपुलबुद्बुददर्शनीयै- र्मुक्ताफलैस्तव शुभैः पुनरुक्ततारम् ॥ १८.१९॥ ६२९॥ लक्ष्मीविहाररसिकेन पदावनि त्वं रक्षाविधौ भगवता जगतो नियुक्ता । यत्त्वं तदर्हमिव दर्शयसि प्रभूतं var सत्त्वं मुक्तामयूखनिकरेण विसृत्वरेण ॥ १८.२०॥ ६३०॥ पादार्पणेन भवतीं प्रतिपद्यमाने श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः । अङ्गीकरोषि चरणावनि कान्तिमग्र्या- मुद्भिद्यमानकुमुदेव कुमुद्वती त्वम् ॥ १८.२१॥ ६३१॥ त्रय्यन्तहर्म्यतलवर्णसुधायितेन ज्योत्स्नाइकल्पितरुचा मणिपादुके त्वम् । मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां वर्णेन ते शमयसीव सतामवर्णम् ॥ १८.२२॥ ६३२॥ वैकुण्ठपादनखवासनयेव नित्यं पादावनि प्रसुवते तव मौक्तिकानि । अच्छिन्नतापशमनाय समाश्रिताना- मालोकमण्डलमिषादमृतप्रवाहम् ॥ १८.२३॥ ६३३॥ रामानुवृत्तिजटिले भरतस्य मौलौ रङ्गाधिराजपदपङ्कजरक्षिणि त्वम् । एकातपत्रितजगत्रितया द्वितीयं मुक्तांशुभिः कृतवती नवमातपत्रम् ॥ १८.२४॥ ६३४॥ पादावनि स्फुटमयूखमधुप्रवाहा मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते । रूढस्य रङ्गपतिपादसरोजमध्ये रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः ॥ १८.२५॥ ६३५॥ आम्रेडितैः पदनखेन्दुरुचा मनोज्ञै- र्मुक्तांशुभिर्मुरभिदो मणिपादुके त्वम् । स्वाभाविकीं सकलजन्तुषु सार्वभौमीं प्रायः प्रसक्तिममलां प्रकटिकरोषि ॥ १८.२६॥ ६३६॥ निस्सीमपङ्कमलिनं हृदयं मदीयं नाथस्य रङ्गवसतेरधिरोढुमिच्छोः । मातस्तवैव सहसा मणिपादरक्षे मुक्तांशवः स्फटिकसौधतुलां नयन्ति ॥ १८.२७॥ ६३७॥ श्यामा तनुर्भगवतः प्रतिपन्नतारा त्वं चन्द्रिका विमलमौक्तिकदर्शनीया । स्थाने तदेतदुभयं मणिपादरक्षे बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः ॥ १८.२८॥ ६३८॥ उद्गाढपङ्कशमनैर्मणिपादरक्षे मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः । चूडापदेषु निहिता त्रिदशेश्वराणां तीर्थोदकैः स्नपयसीव पदार्थिनस्तान् ॥ १८.२९॥ ६३९॥ रङ्गेशपादनखचन्द्रसुधानुलेपं संप्राप्य सिद्धगुलिका इव तावकीनाः । संसारसञ्ज्वरजुषां मणिपादरक्षे सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः ॥ १८.३०॥ ६४०॥ भावोत्तरैरधिगता भरतप्रधानैः प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा । रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो रङ्गस्थलीव ललिता मणिपादुके त्वम् ॥ १८.३१॥ ६४१॥ मन्ये मुकुन्दचरणावनि मौलिदेशे विन्यस्य देवि भवतीं विनतस्य शम्भोः । आपादयन्त्यधिकृताः प्रतिपन्नतारं चूडातुषारकिरणं तव मौक्तिकौघैः ॥ १८.३२॥ ६४२॥ पद्मापतेर्विहरतः प्रियमाचरन्ती मुक्तामयूखनिवहैः पुरतो विकीर्णैः । कन्दानि काञ्चनपदावनि पद्मिनीनां मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु ॥ १८.३३॥ ६४३॥ आशास्य नूनमनघां मणिपादरक्षे चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् । धात्रीं मुकुन्दपदयोरनपायिनीं त्वां ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात् ॥ १८.३४॥ ६४४॥ ये नाम केऽपि भवतीं विनयावनम्रै- रुत्तंसयन्ति कृतिनः क्शणमुत्तमाङ्गैः । इ(ऋ)च्छन्ति रङ्गनृपतेर्मणिपादरक्षे त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम् ॥ १८.३५॥ ६४५॥ अनुदिनललितानामङ्गुलीपल्लवानां जनितमुकुलशोभैर्देवि मुक्ताफलैस्त्वम् । प्रकटयसि जनानां पादुके रङ्गभर्तुः पदसरसिजरेखापाञ्चजन्यप्रसूतिम् ॥ १८.३६॥ ६४६॥ बलिविमथनवेलाव्यापिनस्तस्य विष्णोः पदसरसिजमाध्वी पावनी देवि नूनम् । जननसमयलग्नां जाह्ववी तावकानां वहति चरणरक्षे वासनां मौक्तिकानाम् ॥ १८.३७॥ ६४७॥ मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् । प्रचुरकिरणपूराः पादुके संश्रितानां कलिकलुषमशेषं क्षालयन्तीव मुक्ताः ॥ १८.३८॥ ६४८॥ मुकुलितपरितापां प्राणिनां मौक्तिकैः स्वै- रमृतमिव दुहानामाद्रिये पादुके त्वाम् ॥ १८.३९॥ ६४९॥ सकृदपि विनतानां त्रासमुन्मूलयन्तीं त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् । न जहति निजकान्तिं पादुके रङ्गभर्तु- श्चरणनखमणीनां सन्निधौ मौक्तिकानि ॥ १८.४०॥ ६५०॥ भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः पदकमलमिदं ते पादुके धारयन्त्याः । चिरविहरणखेदात् सम्भृतानां भजन्ति श्रमजलकणिकानां सम्पदं मौक्तिकानि ॥ १८.४१॥ ६५१॥ प्रकटितयशसां ते पादुके रङ्गभर्तु- र्द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् । करणविलयवेलाकातरस्यास्य जन्तोः शमयति परितापं शाश्वती चन्द्रिकेयम् ॥ १८.४२॥ ६५२॥ दिव्यं धाम स्थिरमभियतां देवि मुक्तामणीनां मध्ये कश्चिद्भवति मधुजित्पादुके तावकानाम् । न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्या- मात्मज्योतिश्शमिततमसां योगिनामन्तरात्मा ॥ १८.४३॥ ६५३॥ शुद्धे नित्यं स्थिरपरिणतां देवि विष्णोः पदे त्वा- मास्थानीं ताममितविभवां पादुके तर्कयामि । आलोकैः स्वैर्भुवनमखिलं दीपवद्व्याप्य कामं मुक्ताः शुद्धिं यदुपसदनाद् बिभ्रति त्रासहीनाः ॥ १८.४४॥ ६५४॥ प्राप्ता शौरेश्चरणकमलं पादुके भक्तिभाजां प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौलिभागम् । देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानाम्प्रभाभिः ॥ १८.४५॥ ६५५॥ तव हरिपादुके पृथुलमौक्तिकरत्नभुवः प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः । पदमजरामरं विदधते कथमम्ब सतां प्रणतसुरेन्द्रमौलिपलितङ्करणाः किरणाः ॥ १८.४६॥ ६५६॥ कपर्दे कस्यापि क्षितिधरपदत्रायिणि तथा मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः । मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा निरालम्बो लम्बोदरकलभशुण्डारचुलकः ॥ १८.४७॥ ६५७॥ मुकुन्दपदरक्षिणि प्रगुणदीप्तयस्तावकाः क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः । मनागपि मनीषिणो यदनुषङ्गिनस्तत्क्षणा- ज्जरामरणदन्तुरं जहति हन्त तापत्रयम् ॥ १८.४८॥ ६५८॥ देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते गौरीपादसरोजयावकधनी मूले समालक्ष्यते । इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने प्रायस्त्वं मणिपादुके प्रहसिता मुक्तामयूखच्छलात् ॥ १८.४९॥ ६५९॥ रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् । यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम् ॥ १८.५०॥ ६६०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे मुक्तापद्धतिरष्टादशी ॥

१९. मरकतपद्धतिः (२०)

वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् । यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥ १९.१॥ ६६१॥ सविलासगतेषु रङ्गभर्तु- स्त्वदधीनेषु बहिष्कृतो गरुत्मान् । अधिगच्छति निर्वृतिं कथञ्चि- न्निजरत्नैस्त्वयि पादुके निविष्टैः ॥ १९.२॥ ६६२॥ समये मणिपादुके मुरारे- र्मुहुरन्तःपुरमुग्धचेटिकास्ते । हरितान् हरिदश्मनां मयूखां- स्तुलसीपल्लवशङ्कया क्षिपन्ति ॥ १९.३॥ ६६३॥ हरितः सहसा हरिन्मणीनां प्रभया रङ्गनरेन्द्रपादरक्षे । तुलसीदलसम्पदं दधाति त्वयि भक्तैर्निहितः प्रसूनराशिः ॥ १९.४॥ ६६४॥ प्रसादयन्ती मणिपादुके त्वं विक्शेपयोगेन विहारवेलाम् । हरिन्मनोज्ञा हरिकान्तिसिन्धोः सन्दृश्यसे शैवलमञ्जरीव ॥ १९.५॥ ६६५॥ बध्नासि रङ्गेश्वरपादरक्षे हरिन्मणीनां प्रभया स्फुरन्त्या । चूडापदेषु श्रुतिसुन्दरीणां माङ्गल्यदूर्वाङ्कुरमाल्यपङ्क्तिम् ॥ १९.६॥ ६६६॥ अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिः सद्वर्त्मना गतिमती मणिपादरक्षे । सन्दृश्यसे सवितृमण्डलमध्यभाजो रङ्गेश्वरस्य रथसम्पदिवापरा त्वम् ॥ १९.७॥ ६६७॥ श्यामायमाननिगमान्तवनोपकण्ठाः स्थाने पदावनि हरिन्मणयस्त्वदीयाः । पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यं नारायणस्य रुचिरां नखरश्मिगङ्गाम् ॥ १९.८॥ ६६८॥ उद्दिश्य कामपि गतिं मणिपादरक्षे रङ्गेश्वरस्य चरणे विनिवेशितात्मा । प्रायो हरिन्मणिरुचा दृढभक्तिबन्धा प्रादुष्करोति भवती तुलसीवनानि ॥ १९.९॥ ६६९॥ सेवार्थमागतवतां त्रिदशेश्वराणां चूडामणिप्रकरशालिषु मौलिषु त्वम् । संवर्तयस्यसुरमर्दनपादरक्षे स्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम् ॥ १९.१०॥ ६७०॥ दरपरिणतदूर्वावल्लरीनिर्विशेषै- र्मरकतशकलानां मांसलैरंशुजालैः । पशुपतिविधृता त्वं तस्य पाणौ निषण्णं मधुरिपुपदरक्षे वञ्चयस्येणशावम् ॥ १९.११॥ ६७१॥ हरिचरणसरोजन्यासयोग्यं भवत्याः प्रगुणमभिलषन्त्यो वर्णलाभं तुलस्यः । प्रतिदिनमुपहारैः पादुके तावकानां मरतकशकलानामाश्रयन्ते मयूखान् ॥ १९.१२॥ ६७२॥ हरितमणिमयूखैरञ्चिताध्यात्मगन्धै- र्दिशसि चरणरक्षे जातकौतूहला त्वम् । दनुजमथनलीलादारिकाणामुदारां दमनकदलपङ्क्तिं देवि मौलौ श्रुतीनाम् ॥ १९.१३॥ ६७३॥ अधिगतबहुशाखैरश्मगर्भप्रसूतै- र्मधुरिपुपदरक्षे मेचकैरंशुजालैः । अनितरशरणानां नूनमारण्यकानां किमपि जनयसि त्वं कीचकारण्यदुर्गम् ॥ १९.१४॥ ६७४॥ प्रचुरनिगमशाखां पादुके रङ्गिणस्त्वां चरणनखमयूखैश्चारुपुष्पानुबन्धाम् । मरतकदलरम्यां मन्महे सञ्जरन्तीं कनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम् ॥ १९.१५॥ ६७५॥ नखकिरणनिकायैर्नित्यमाविर्मृणाले महितरसविशेषे मेचकैरंशुभिस्ते । परिकलयसि रम्यां पादुके रङ्गभर्तुः पदकमलसमीपे पद्मिनीपत्रपङ्क्तिम् ॥ १९.१६॥ ६७६॥ अनिमिषयुवतीनामार्तनादोपशान्त्यै त्वयि विनिहितपादे लीलया रङ्गनाथे । दधति चरणरक्षे दैत्यसौधानि नूनं मरकतरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि ॥ १९.१७॥ ६७७॥ विपुलतममहोभिर्वीतदोषानुषङ्गं विलसदुपरिनैल्यं देवि विष्णोः पदं तत् । पृथुमरकतदृश्यां प्राप्य पादावनि त्वां प्रकटयति समन्तात् संप्रयोगं हरिद्भिः ॥ १९.१८॥ ६७८॥ पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीना यत्संसर्गादनघचरिताः पादुके कामचाराः । तारासक्तं तमिह तरुणं प्रीणयन्ते जरत्यो नित्यश्यामास्तव मरतकैर्नूनमाम्नायवाचः ॥ १९.१९॥ ६७९॥ स्थलकमलीनीव काचिच्चरणावनि भासि कमलवासिन्याः । यन्मरतकदलमध्ये यः कश्चिदसौ समीक्ष्यते शौरिः ॥ १९.२०॥ ६८०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे मरतकपद्धतिरेकोनविंशी ॥

२०. इन्द्रनीलपद्धतिः (३०)

हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा । अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥ २०.१॥ ६८१॥ हरिरत्नमरीचयस्तवैते नवनीलीरसनिर्विशेषवर्णाः । श्रुतिमूर्धनि शौरिपादरक्षे पलितानुद्भवभेषजं भवन्ति ॥ २०.२॥ ६८२॥ अलकैरिव बिम्बितैः श्रुतीनां हरिनीलैः सृजसि त्वमुन्मयूखैः । कमलादयितस्य पादरक्षे करुणोदन्वति शैवलप्ररोहान् ॥ २०.३॥ ६८३॥ अनघैर्हरिनीलपद्धतीनां प्रथमानैर्मणिपादुके मयूखैः । अधरीकुरुषे रथाङ्गपाणेरमितामूर्ध्वमवस्थितस्य कान्तिम् ॥ २०.४॥ ६८४॥ चरणावनि भाति सह्यकन्या हरिनीलद्युतिभिस्तवानुविद्धा । वसुदेवसुतस्य रङ्गवृत्तेर्यमुनेव स्वयमागता समीपम् ॥ २०.५॥ ६८५॥ अवधीरितदेवतान्तराणामनघैस्त्वं मणिपादुके मयूखैः । हरिनीलसमुद्भवैर्विधत्से हरिसारूप्यमयत्नतो जनानाम् ॥ २०.६॥ ६८६॥ नेत्रेषु पुंसां तव पादरक्षे नीलाश्मभासा निहिताञ्जनेषु । श्रिया समं संश्रितरङ्गकोशो निधिः स्वयं व्यक्तिमुपैति नित्यम् ॥ २०.७॥ ६८७॥ अभङ्गुरामच्युतपादरक्षे मान्यां महानीलरुचिं त्वदीयाम् । निश्श्रेयसद्वारकवाटिकायाः शङ्के समुत्पानकुञ्चिकां नः ॥ २०.८॥ ६८८॥ var समुद्ढाटन जीवयत्यमृतवर्षिणी प्रजास्तावकी दनुजवैरिपादुके । घोरसंसरणघर्मनाशिनी कालिकेव हरिनीलपद्धतिः ॥ २०.९॥ ६८९॥ शतमखोपलभङ्गमनोहरा विहरसे मुरमर्दनपादुके । मणिकिरीटगणेषु दिवौकसां मधुकरीव मनोहरपङ्क्तिषु ॥ २०.१०॥ ६९०॥ अन्विच्छतां किमपि तत्त्वमनन्यदृश्यं सम्यक्प्रकाशजननी धृतकृष्णरूपा । पादावनि स्फुरसि वासवरत्नरम्या मध्ये समाधिनयनस्य कनीनिकेव ॥ २०.११॥ ६९१॥ मातः सलीलमधिगम्य विहारवेलां कान्तिं समुद्वहसि काञ्चनपादुके त्वम् । लक्ष्मीकटाक्षरुचिरैर्हरिनीलरत्नै- र्लावण्यसिन्धुपृषतैरिव रङ्गधाम्नः ॥ २०.१२॥ ६९२॥ क्लृप्तावकुण्ठनविधिर्मणिपादरक्षे नीलांशुकैर्वलभिदश्मसमुद्भवैस्ते । सङ्गच्छते मुनिजनस्य मतिः समाधौ रात्रौ समस्तजगतां रमणेन लक्ष्म्याः ॥ २०.१३॥ ६९३॥ द्रष्टुं कदाचन पदावनि नैव जन्तुः शक्नोति शाश्वतनिधिं निहितं गुहायाम् । कृष्णानुरूपहरिनीलविशेषदृश्या सिद्धाञ्जनं त्वमसि यस्य न देवि दृष्टेः ॥ २०.१४॥ ६९४॥ प्रत्येमि रङ्गनृपतेर्मणिपादुके त्वां कृष्णान्तरङ्गरुचिर्भिर्हरिनीलरत्नैः । विश्वापराधसहनाय पदं तदीयं विश्वम्भरां भगवतीं समये भजन्तीम् ॥ २०.१५॥ ६९५॥ मत्वा मषीं परिमितां भवती तदन्यां वैकुण्ठपादरसिके मणिपादुके स्वान् । अङ्क्ते स्वयं किरणलेपिभिरिन्द्रनीलै- राशातटेषु ललितानपदानवर्णान् ॥ २०.१६॥ ६९६॥ वलमथनमणीनां धामभिस्तावकानां मधुरिपुपदरक्षे वासरैरव्यपेता । अभिसरणपराणां वल्लवीनां तदाऽऽसी- च्छमितगुरुभयार्तिः शर्वरी काचिदन्या ॥ २०.१७॥ ६९७॥ शतमखमणिभङ्गैरुन्मयूखैर्दिशन्ती शरणमुपगतानां रङ्गनाथेन साम्यम् । प्रथयसि जगति त्वं पादुके हैतुकाना- मुपनिषदुपगीतां तत्क्रतुन्यायवार्ताम् ॥ २०.१८॥ ६९८॥ परिचरति विधौ त्वां पादुके रङ्गभर्तुः पदसरसिजभृङ्गैर्भासुरैरिन्द्रनीलैः । प्रकटितयमुनौघा भक्तिनम्रस्य शम्भोः परिणमयसि चूडाविष्णुपद्याःप्रयागम् ॥ २०.१९॥ ६९९॥ पदकिसलयसङ्गात्पादुके पत्रलश्री- र्नखमणिभिरुदारैर्नित्यनिष्पन्नपुष्पा । शतमखमणिनीला शौरिलावण्यसिन्धो- र्निबिडतमतमाला काऽपि वेलावनी त्वम् ॥ २०.२०॥ ७००॥ त्वयि विनिहितमेतत् केऽपि पश्यन्ति मन्दाः शतमखमणिजालं शार्ङ्गिणः पादरक्षे । वयमिदमिह विद्मः प्राणिनां भावुकानां हृदयगृहगुहाभ्यः पीतमन्धं तमिस्रम् ॥ २०.२१॥ ७०१॥ क्लृप्तश्यामा मणिभिरसितैः कृष्णपक्षेण जुष्टा श्रेयः पुंसां जनयसि गतिं दक्षिणामुद्वहन्ती । तेनास्माकं प्रथयसि परं पादुके तत्त्वविद्भि- र्मौलौ दृष्टां निगमवचसां मुक्तिकालाव्यवस्थाम् ॥ २०.२२॥ ७०२॥ सद्भिर्जुष्टा समुदितविधुर्जैत्रयात्राविनोदे- ष्वातन्वाना रजनिमनघामिन्द्रनीलांशुजालैः । चित्रं ख्याता कुमुदवनतः पादुके पुष्यसि त्वं व्याकोचत्वंविबुधवनितावक्त्रपङ्केरुहाणाम् ॥ २०.२३॥ ७०३॥ नित्यं लक्ष्मीनयनरुचिभिः शोभिता शक्रनीलैः सालग्रामक्षितिरिव शुभैः शार्ङ्गिणो रूपभेदैः । साकेतादेः समधिकगुणां सम्पदं दर्शयन्ती मुक्तिक्षेत्रं मुनिभिरखिलैः पादुके गीयसे त्वम् ॥ २०.२४॥ ७०४॥ पादन्यासप्रियसहचरीं पादुके वासगेहा- त्त्वामारुह्य त्रिचतुरपदं निर्गते रङ्गनाथे । अन्तःस्निग्धैरसुरमहिलावेणिविक्षेपमित्रैः श्यामच्छायं भवति भवनं शक्रनीलांशुभिस्ते ॥ २०.२५॥ ७०५॥ या ते बाह्याङ्गणमभियतः पादुके रङ्गभर्तुः सञ्चारेषु स्फुरति विततिः शक्रनीलप्रभायाः । विष्वक्सेनप्रभृतिभिरसौ गृह्यते वेत्रहस्तै- र्भ्रूविक्शेपस्तव दिविषदां नूनमाह्वानहेतुः ॥ २०.२६॥ ७०६॥ अक्ष्णोरञ्जनकल्पना यवनिका लास्यप्रसूतेर्गते- श्चिद्गङ्गायमुना मुकुन्दजलधेर्वेलातमालाटवी । कान्ताकुन्तलसन्ततिः श्रुतिवधूकस्तूरिकालङ्क्रिया नित्यं रत्नपदावनि स्फुरति ते नीला मणिश्रेणिक्रा ॥ २०.२७॥ ७०७॥ निरन्तरपुरन्दरोपलभुवं द्युतिं तावकी- मवैमि मणिपादुके सरणिसङ्गिनीं रङ्गिणः । तदीयनवयौवनद्विरदमल्लगण्डस्थली- गलन्मदझलञ्झलाबहुलकज्जलश्यामिकाम् ॥ २०.२८॥ ७०८॥ प्रतीमस्त्वं पादावनि भगवतो रङ्गवसते- र्घनीभूतामित्थं पदकमलमाध्वीपरिणतिम् । स्फुरन्तः पर्यन्ते मदगरिमनिष्पन्दमधुप- प्रसक्तिं यत्रैते विदधति महानीलमणयः ॥ २०.२९॥ ७०९॥ नमतां निजेन्द्रनील- प्रभवेन मुकुन्दपादुके भवती । तमसा निरस्यति तमः कण्टकमिव कण्टकेनैव ॥ २०.३०॥ ७१०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वङ्केटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे इन्द्रनीलपद्धतिर्विंशी ॥

२१. बिम्बप्रतिबिम्बपद्धतिः (२०)

शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् । प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे ॥ २१.१॥ ७११॥ कमलापतिपादुके कदाचि- द्विहगेन्द्रस्त्वयि बिम्बितो बिभाति । सविलासगतेऽपि रङ्गभर्तु- र्निजमात्मानमिवोपधातुकामः ॥ २१.२॥ ७१२॥ मणिपङ्क्तिषु ते दिशामधीशाः प्रतिबिम्बानि निजानि वीक्षमाणाः । अभियन्ति मुकुन्दपादुके त्वा- मधिकारान्तरसृष्टिशङ्कयेव ॥ २१.३॥ ७१३॥ मणिमौलिशतेन बिम्बितेन प्रणतानां परितः सुरासुराणाम् । मुरभिन्मणिपादुके महिम्ना युगपत् तेषु समर्पितेव भासि ॥ २१.४॥ ७१४॥ उपनीतमुपायनं सुरेन्द्रैः प्रतिबिम्बच्छलतस्त्वयि प्रविष्टम् । स्वयमेव किल प्रसादभूम्ना प्रतिगृह्णासि मुकुन्दपादुके त्वम् ॥ २१.५॥ ७१५॥ रङ्गेश्वरस्य नवपल्लवलोभनीयौ पादौ कथन्नु कठिना स्वयमुद्वहेयम् । इत्याकलय्य नियतं मणिपादुके त्वं पद्मास्तरं वहसि तत्प्रतिबिम्बलक्षात् ॥ २१.६॥ ७१६॥ पादार्पणात्प्रथमतो हरिदश्मरम्ये मध्ये तव प्रतिफलन्मणिपादरक्षे । मन्ये निदर्शयति रङ्गपतिर्युगान्ते न्यग्रोधपत्रशयितं निजमेव रूपम् ॥ २१.७॥ ७१७॥ यात्रावसानमधिगच्छति रङ्गनाथे विश्राणयस्यनुपदं मणिपादुके त्वम् । प्रायः प्रयाणसमये प्रतिबिम्बितानां तीर्थावगाहमपरं त्रिदशेश्वराणाम् ॥ २१.८॥ ७१८॥ उच्चावचेषु तव रत्नगणेषु मात- र्वेधाः प्रयाणसमये प्रतिबिम्बिताङ्गः । आशङ्कते मुरभिदो मणिपादुके त्वा- var मधुभिदो मागामिकल्पकमलासनपङ्क्तिगर्भाम् ॥ २१.९॥ ७१९॥ आलोकरश्मिनियतां मणिपादुके त्वा- मारुह्य सञ्चरति रङ्गपतौ सलीलम् । अन्तःपुरेषु युगपत्सुदृशो भजन्ते डोलाधिरोहणरसं त्वयि बिम्बिताङ्ग्यः ॥ २१.१०॥ ७२०॥ कालेषु राघवपदावनि भक्तिनम्रः कार्याणि देवि भरतो विनिवेदयंस्ते । त्वद्रत्नबिम्बततयाऽपि मुहुः स्वकीयां राजासनस्थितिमवेक्ष्य भृशं ललज्जे ॥ २१.११॥ ७२१॥ प्रत्यागते विजयिनि प्रथमे रघूणां विन्यस्यति त्वयि पदं मणिपादरक्षे । रत्नौघबिम्बितनिशाचरवानरां त्वां पूर्वक्षणस्थमिव पुष्पकमन्वपश्यन् ॥ २१.१२॥ ७२२॥ वैयाकुलीं शमयितुं जगतो वहन्त्या रक्षाधुरां रघुध्रुरन्धरपादरक्षे । प्राज्यं यशः प्रचुरचामरबिम्बलक्षा- त्प्रायस्त्वया कबलितं प्रतिभूपतीनाम् ॥ २१.१३॥ ७२३॥ प्रतिदिशमुपयाते देवि यात्रोत्सवार्थं त्वयि विहरणकाले बिम्बिते जीवलोके । वहसि मणिगणैस्त्वं पादुके रङ्गभर्तुः कबलितसकलार्थां काञ्चिदन्यामवस्थाम् ॥ २१.१४॥ ७२४॥ भगवति गरुडस्थे वाहनस्थाः सुरेन्द्रा- स्त्वयि विनिहितपादे भूमिमेवाश्रयन्ति । तदपि चरणरक्षे रत्नजाले त्वदीये प्रतिफलितनिजाङ्गास्तुल्यवाहा भवन्ति ॥ २१.१५॥ ७२५॥ स्वच्छाकारां सुरयुवतयः स्वप्रतिच्छन्दलक्षा- द्गाहन्ते त्वां प्रणतिसमये पादुके साभिमानाः । स्त्रीरत्नानां परिभवविघौ सृष्टिमात्रेण दक्षां नीचैःकर्तुं नरसखमुनेरुर्वशीमूरुजाताम् ॥ २१.१६॥ ७२६॥ स्वेच्छाकेलिप्रियसहचरीं स्वच्छरत्नाभिरामां स्थाने स्थाने निहितचरणो निर्विशन् रङ्गनाथः । सञ्चारान्ते सह कमलया शेषशय्याधिरूढ- स्त्यक्त्वाऽपि त्वां त्यजति न पुनः स्वप्रतिच्छन्दलक्षात् ॥ २१.१७॥ ७२७॥ त्वामेवैकामधिगतवतः केलिसञ्चारकाले पार्श्वे स्थित्वा विनिहितदृशोः पादुकेऽनन्यलक्ष्यम् । त्वद्रत्नेषु प्रतिफलितयोर्नित्यलक्ष्यप्रसादा पद्माभूम्योर्दिशति भवती पादसेवां मुरारेः ॥ २१.१८॥ ७२८॥ एकामेकः किल निरविशत्पादुके द्वारकायां क्रीडायोगीकृतबहुतनुः षोडशस्त्रीसहस्रे । शुद्धे देवि त्वदुपनिहिते बिम्बितोरत्नजाले भुङ्क्ते नित्यं स खलु भवतीं भूमिकानां सहस्रैः ॥ २१.१९॥ ७२९॥ हरिपदनखेषु भवती प्रतिफलति तवैतदपि रत्नेषु । उचिता मिथः पदावनि बिम्बप्रतिबिम्बता युवयोः ॥ २१.२०॥ ७३०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे बिम्बप्रतिबिम्बपद्धतिरेकविंशी ॥

२२. काञ्चनपद्धतिः (२०)

कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् । पदार्हां पादुकां शौरेः पद एव निवेशिताम् ॥ २२.१॥ ७३१॥ मधुजित्तनुकान्तितस्कराणां जलदानामभयंविधातुकामा । चपलेव तदङ्घ्रिमाश्रयन्ती भवती काञ्चनपादुके विभाति ॥ २२.२॥ ७३२॥ निकषीकृतरम्यकृष्णरत्ना भवती काञ्चनसम्पदं व्यनक्ति । परिपुष्यति पादुके यदीक्षा सहसा नः समलोष्टकाञ्चनत्वम् ॥ २२.३॥ ७३३॥ सुरभिर्निगमैः समग्रकामा कनकोत्कर्षवती पदावनि त्वम् । दिशसि प्रतिपन्नमाधवश्रीरनिशोन्निद्रमशोकवैभवं नः ॥ २२.४॥ ७३४॥ सति वर्णगुणे सुवर्णजाते र्जगति रव्यातमसौरभादवर्णम् । श्रुतिसौरभशालिना स्वहेम्ना भवती शौरिपदावनि व्युदास्थत् ॥ २२.५॥ ७३५॥ प्रतिपन्नमयूरकण्ठधाम्ना परिशुद्धेन पदावनि स्वकेन । कमलास्तनभूषणोचितं तद्भवती रत्नमलङ्करोति हेम्ना ॥ २२.६॥ ७३६॥ कान्त्या परं पुरुषमाप्रणखात् सुवर्णं कर्तुं क्षमा त्वमसि काञ्चनपादरक्षे । अन्यादृशीं दिशसि या विनतस्य दूरा- दारग्वधस्तबकसम्पदमिन्दुमौलेः ॥ २२.७॥ ७३७॥ चन्द्राकृतिः कथमकल्पयथास्तदानीं वैमानिकप्रणयिनीवदनाम्बुजानाम् । विक्रान्तिकालविततेन निजेन धाम्ना बालातपं बलिविमर्दनपादुके त्वम् ॥ २२.८॥ ७३८॥ लेभे तदाप्रभृति नूनमियं भवत्याः कान्त्या कवेरतनया कनकापगात्वम् । यावन्मुकुन्दपदहेमपदावनि त्वं पुण्यं विभूषितवती पुलिनं तदीयम् ॥ २२.९॥ ७३९॥ चित्रं सरोजनिलयासहितस्य शौरे- र्वासोचितानि चरणावनि संविधित्सोः । सद्यो विकासमुपयान्ति समाधिभाजां चन्द्रातपेन तव मानसपङ्कजानि ॥ २२.१०॥ ७४०॥ त्वय्येव पादमधिरोप्य नवं प्रवाहं नाथे पदावनि निशामयितुं प्रवृत्ते । आत्मीयकाञ्चनरुचा भवती विधत्ते हेमारविन्दभरितामिव हेमसिन्धुम् ॥ २२.११॥ ७४१॥ विहरति पुलिनेषु त्वत्सखे रङ्गनाथे कनकसरिदियं ते पादुके हेमधाम्ना । वहति सलिलकेलीस्रस्तचोलावरोध- स्तनकलशहरिद्रापङ्कपिङ्गामवस्थाम् ॥ २२.१२॥ ७४२॥ सुरभिनिगमगन्धा सौम्यपद्माकरस्था कनककमलिनीव प्रेक्ष्यसे पादुके त्वम् । भ्रमर इव सदा त्वां प्राप्तनानाविहारः शतमखमणिनीलः सेवते शार्ङ्गधन्वा ॥ २२.१३॥ ७४३॥ कनकरुचिरवर्णां पादुके सह्यसिन्धुः श्रियमिव महनीयां सिन्धुराजस्य पत्नी । स्वयमिह सविधस्था सौम्यजामातृयुक्ता- मुपचरति रसेन त्वामपत्याभिमानात् ॥ २२.१४॥ ७४४॥ अनुकलमुपजीव्या दृश्यसे निर्जराणां त्रिपुरमथनमौलौ शेखरत्वं दधासि । प्रतिपदमधिगम्य प्राप्तश‍ृङ्गाऽसि शौरे- स्तदपि चरणरक्षे पूर्णचन्द्राकृतिस्त्वम् ॥ २२.१५॥ ७४५॥ कनकमपि तृणं ये मन्वते वीतरागा- स्तृणपि कनकं ते जानते त्वत्प्रकाशैः । मधुरिपुपदरक्षे यत् त्वदर्थोपनीतान् परिणमयसि हैमान् देवि दूर्वाङ्कुरादीन् ॥ २२.१६॥ ७४६॥ विशुद्धिमधिगच्छति ज्वलनसङ्गमात् काञ्चनं विदन्ति च जगन्ति तन्न खलु तद्विपर्यस्यति । कथं कनकपादुके कमललोचने साक्षिणि त्वयैव परिशुद्धता हुतभुजोऽपि जाघट्यते ॥ २२.१७॥ ७४७॥ तारासङ्गप्रथितविभवां चारुजाम्बूनदाभां त्वामारूधस्त्रिदशमहितां पादुके रङ्गनाथः । सञ्चारिण्यां सुरशिखरिणस्तस्थुषा मेखलायां धत्ते मत्तद्विरदपतिना साम्यकक्ष्यां समीक्ष्याम् ॥ २२.१८॥ ७४८॥ कनकरुचिरा काव्याख्याता शनैश्चरणोचिता श्रितगुरुबुधा भास्वद्रूपा द्विजाधिपसेविता । विहितविभवा नित्यं विष्णोः पदे मणिपादुके त्वमसि महति विश्वेषां नः शुभा ग्रहमण्डली ॥ २२.१९॥ ७४९॥ प्रज्वलितपञ्चहेतिर्हिरण्मयीं त्वां हिरण्यविलयार्हः । आवहतु जातवेदाः श्रियमिव नः पादुके नित्यम् ॥ २२.२०॥ ७५०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे काञ्चनपद्धतिर्द्वाविंशी ॥

२३. शेषपद्धतिः (१०)

सृष्टां भूमावनन्तेन नित्यं शेषसमाधिना । अहं सम्भावयामि त्वामात्मानमिव पादुके ॥ २३.१॥ ७५१॥ पद्माभोगात्पादुके रङ्गभर्तुः पादस्पर्शाद्भोगमन्यं प्रपित्सोः । शेषस्यैकां भूमिकामब्रवीत् त्वा- माचार्याणामग्रणिर्यामुनेयः ॥ २३.२॥ ७५२॥ शेषत्वमम्ब यदि संश्रयति प्रकामं त्वद्भूमिकां समधिगम्य भुजङ्गराजः । त्वामेव भक्तिविनतैर्वहतां शिरोभिः काष्ठां गतं तदिह केशवपादरक्षे ॥ २३.३॥ ७५३॥ मा भूदियं मयि निषण्णपदस्य नित्यं विश्वम्भरस्य वहनाद्व्यथितेति मत्वा । धत्से बलाभ्यधिकया मणिपादुके त्वं शेषात्मना वसुमतीं निजयैव मूर्त्या ॥ २३.४॥ ७५४॥ तत्तादृशा निजबलेन निरूढकीर्तिः शेषस्तवैव परिणामविशेष एषः । रामेण सत्यवचसा यदनन्यवाह्यां वोढुं पुरा वसुमतीं भवती नियुक्ता ॥ २३.५॥ ७५५॥ शेषत्वसीमनियतां मणिपादरक्षे त्वामागमाः कुलवधूमिव बालपुत्राः । त्वद्रूपशेषशयितस्य परस्य पुंसः पादोपधानशयितामुपधानयन्ति ॥ २३.६॥ ७५६॥ भरतशिरसि लग्नां पादुके दूरतस्त्वां स्वतनुमपि ववन्दे लक्ष्मणः शेषभूतः । किमिदमिह विचित्रं नित्ययुक्तः सिषेवे दशरथतनयः सन् रङ्गनाथः स्वमेव ॥ २३.७॥ ७५७॥ भूयोभूयः स्तिमितचलिते यस्य सङ्कल्पसिन्धौ ब्रह्मेशानप्रभृतय इमे बुद्बुदत्वं भजन्ति । तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपं क्रीडातल्पं किमपि तनुते पादुके भूमिकाऽन्या ॥ २३.८॥ ७५८॥ अहीनात्मा रङ्गक्षितिरमणपादावनि सदा सतामित्थं त्राणात्प्रथितनिजसत्रत्वविभवा । अविद्यायामिन्याः स्पृशसि पुनरेकाहपदवीं क्रतूनामाराध्या क्रतुरपिच सर्वस्त्वमसि नः ॥ २३.९॥ ७५९॥ बहुमुखभोगसमेतैर्निर्मुक्ततया विशुद्धिमापन्नैः । शेषात्मिका पदावनि निषेव्यसे शेषभूतैस्त्वम् ॥ २३.१०॥ ७६०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे शेषपद्धतिस्त्रयोविंशी ॥

२४. द्वन्द्वपद्धतिः (२०)

प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् । ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम् ॥ २४.१॥ ७६१॥ मणिपादुकयोर्युगं मुरारेर्मयि नित्यं विदधातु मङ्गलानि । अधिकृत्य चराचरस्य रक्शामानुकम्पाक्षमयोरिवावतारः ॥ २४.२॥ ७६२॥ चरणौ मणिपादुके मुरारेः प्रणतान्पालयितुं प्रपद्यमानम् । विपदामिह दैवमानुषीणां प्रतिकारं युवयोर्द्वयं प्रतीमः ॥ २४.३॥ ७६३॥ मुरभिन्मणिपादुके भवत्योर्विहितो नूनमसौ मिथो विभागः । भजतामपरस्परप्रियाणामविरोधाय सुरासुरेश्वराणाम् ॥ २४.४॥ ७६४॥ अहितोन्मथनाय संश्रितानामलमालोकवशेन शब्दतो वा । करयोश्च रथाङ्गपाञ्चजन्यौ मधुहन्तुः पदयोश्च पादुके ये ॥ २४.५॥ ७६५॥ अवधीरितसाधुपद्धतीनामलसानां मधुवैरिपादुके द्वे । इतरेतरसाहचर्यमित्थं प्रतिपन्ने इव दैवपौरुषे नः ॥ २४.६॥ ७६६॥ पार्श्वयोः सरसिजावसुन्धरे पादयोश्च मणिपादुके युवाम् । सन्निकर्षथ न चेन्मधुद्विषः किं करिष्यति कृतागसां गणः ॥ २४.७॥ ७६७॥ पादुके भवभयप्रतीपयोर्भावयामि युवयोः समागमम् । सक्तयोर्दनुजवैरिणः पदे विद्ययोरिव परावरात्मनोः ॥ २४.८॥ ७६८॥ रङ्गसीमनि रथाङ्गलक्ष्मणश्चिन्तयामि तपनीयपादुके । शापदोषशमनाय तत्पदे चक्रवाकमिथुनं कृतास्पदम् ॥ २४.९॥ ७६९॥ मानयामि जगतस्तमोपहे माधवस्य मणिपादुके युवाम् । दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः ॥ २४.१०॥ ७७०॥ रङ्गनाथपदयोरलङ्क्रिया राजते कनकपादुकाद्वयी । तद्विभूतियुगलीव तादृशी छन्दतः समविभागमाश्रिता ॥ २४.११॥ ७७१॥ साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ मानोपपत्तिनियते मणिपादुके द्वे । अन्योन्यसङ्गतिवशादुपपन्नचर्याम्- आज्ञां श्रुतिस्मृतिमयीमवधारयामि ॥ २४.१२॥ ७७२॥ विश्वोपकारमधिकृत्य विहारकाले- ष्वन्योन्यतः प्रथममेव्परिस्फुरन्त्योः । दृष्टान्तयन्ति युवयोर्मणिपादरक्षे दिव्यं तदेव मिथुनं दिविषन्निषेव्यम् ॥ २४.१३॥ ७७३॥ द्वावेव यत्र चरणौ परमस्य पुंसः तत्र द्विधास्थितवती मणिपादुके त्वम् । यत्रैव दर्शयति देवि सहस्रपात्त्वं तत्रापि नूनमसि दर्शिततावदात्मा ॥ २४.१४॥ ७७४॥ पर्यायतो गतिवशान्मणिपादरक्षे पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ । मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ सन्ध्ये समस्तजगतामभिवन्दनीये ॥ २४.१५॥ ७७५॥ अश्रान्तसञ्चरणयोर्निजसंप्रयोगा- दम्लानतां चरणपङ्कजयोर्दिशन्त्यौ । मान्ये युवां रघुपतेर्मणिपादरक्षे विद्ये बलामतिबलां च विचिन्तयामि ॥ २४.१६॥ ७७६॥ अन्तर्मोहादविदितवतामात्मतत्त्वं यथाव- त्पद्यामित्थं परिचितवतां पादुके पापलोक्याम् । नित्यं भक्तेरनुगुणतया नाथपादं भजन्त्यौ निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः ॥ २४.१७॥ ७७७॥ न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्यो- राम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् । आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः ॥ २४.१८॥ ७७८॥ अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं संप्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे । साक्षाद्रङ्गक्षितिपतिपदं पादुके साधयन्त्यौ योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः ॥ २४.१९॥ ७७९॥ बद्धहरिपादयुगलं युगलं तपनीयपादुके युवयोः । मोचयति संश्रितानां पुण्यापुण्यमयश‍ृङ्खलायुगलम् ॥ २४.२०॥ ७८०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे द्वन्द्वपद्धतिश्चतुर्विशी ॥

२५. सन्निवेशपद्धतिः (२०)

अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् । प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम् ॥ २५.१॥ ७८१॥ प्रतितिष्ठति पादसस्मितायां त्वयि नित्यं मणिपादुके मुकुन्दः । इतरे तु परिच्छदास्त एते विभवव्यञ्जनहेतवो भवन्ति ॥ २५.२॥ ७८२॥ तव रङ्गनरेन्द्रपादरक्षे प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् । भवतीं वहतीव पन्नगेन्द्रः प्रथितस्वस्तिकलक्षणैः शिरोभिः ॥ २५.३॥ ७८३॥ परस्य पुंसः पदसन्निवेशान्प्रयुञ्जते भावितपञ्चरात्राः । अघप्रतीपानपदिश्य पुण्ड्रानङ्गेषु रङ्गेशयपादुके त्वाम् ॥ २५.४॥ ७८४॥ var अङ्केषु विमृश्य रङ्गेन्द्रपतिंवरायाः श्रुतेः स्थितां मूर्धनि पादुके त्वाम् । बध्नन्ति वृद्धाः समये वधूनां त्वन्मुद्रितान्याभरणानि मौलौ ॥ २५.५॥ ७८५॥ वहन्ति रङ्गेश्वरपादरक्षे दीर्घायुशां दर्शितभक्तिबन्धाः । आशाधिपानामवरोधनार्यस्त्वन्मुद्रिकां मङ्गलहेमसूत्रैः ॥ २५.६॥ ७८६॥ व्यूहक्रमेण प्रथितारमग्रे सन्दर्शयन्तीं मणिपादुके त्वाम् । पातुं त्रिलोकीं पदपद्मभाजं सौदर्शनीं शक्तिमवैमि शौरेः ॥ २५.७॥ ७८७॥ बद्धासिका कनकपङ्कजकर्णिकायां मध्ये कृशा मुररिपोर्मणिपादुके त्वम् । सन्दृश्यसे सरसिजासनया गृहीतं रूपान्तरं किमपि रङ्गविहारयोग्यम् ॥ २५.८॥ ७८८॥ मानोचितस्य मदधीनजनस्य नित्यं मा भूदतः कृपणतेति विचिन्तयन्त्या । बन्दीकृतं ध्रुवमवैमि वलग्नदेशे कार्श्यं त्वया कमललोचनपादरक्षे ॥ २५.९॥ ७८९॥ मध्ये कृशामुभयतः प्रतिपन्नवृद्धिं मन्ये समीक्ष्य भवतीं मणिपादरक्षे । नित्यं मुकुन्दपदसङ्गमविप्रयोगौ निश्चिन्वते कृतधियः सुखदुःखकाष्ठाम् ॥ २५.१०॥ ७९०॥ रङ्गेशितुश्चरणपङ्कजयोर्भजन्ती रक्षाप्रसाधनविकल्पसहामवस्थाम् । मान्याकृतिर्निविशसे मणिपादरक्षे मध्ये परिच्छदविभूषणवर्गयोत्स्वम् ॥ २५.११॥ ७९१॥ अङ्गान्तरेषु निहितान्यखिलानि कामम् । पर्यायकल्पनसहानि विभूषणानि । नित्यं मुकुन्दपदपद्मतलानुरूपं नैपथ्यमम्ब भवती नयनाभिरामम् ॥ २५.१२॥ ७९२॥ ये नाम भक्तिनियतैस्तव सन्निवेशं निर्विश्य नेत्रयुगलैर्न भजन्ति तृप्तिम् । कालक्रमेण कमलेक्षणपादरक्षे प्रायेण ते परिणमन्ति सहस्रनेत्राः ॥ २५.१३॥ ७९३॥ पदमप्रमाणमिति वादिनां मतं मधुजित्पदे महति मास्म भूदिति । व्युदपादि तस्य चरणावनि त्वया निगमात्मनस्तव समप्रमाणता ॥ २५.१४॥ ७९४॥ अप्रभूतमभवज्जगत्त्रयं यस्य मातुमुदितस्य पादुके । अप्रमेयममितस्य तत्पदं नित्यमेव ननु सम्मितं त्वया ॥ २५.१५॥ ७९५॥ आलवालमिव भाति पादुके पादपस्य भवती मधुद्विषः । यत्समीपविनतस्य शूलिनः सारणी भवति मौलिनिम्नगा ॥ २५.१६॥ ७९६॥ मोदमानमुनिवृन्दषट्पदा भाति मुक्तिमकरन्दवर्षिणी । काऽपि रङ्गनृपतेः पदाम्बुजे कर्णिका कनकपादुकामयी ॥ २५.१७॥ ७९७॥ युगपदनुविधास्यन् यौवतं तुल्यरागं यदुपतिरधिचक्रे यावतो रूपभेदान् । तदिदमतिविकल्पं बिभ्रती सन्निवेशं तव खलु पदरक्षे तावती मूर्तिरासीत् ॥ २५.१८॥ ७९८॥ तत्तद्वृत्तेरनुगुणतया वामनीं व्यापिनीं वा प्राप्ते रङ्गप्रथितविभवे भूमिकां सूत्रधारे । मन्ये विश्वस्थितिमयमहानाटिकां नेतुकामा नानासंस्था भवति भवती पादुके नर्तकीव ॥ २५.१९॥ ७९९॥ माने परं सामने प्रत्यक्षेणागमेनापि । हरिचरणस्य तवापि तु वैषम्यं रक्ष्यरक्षकत्वाभ्याम् ॥ २५.२०॥ ८००॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे सन्निवेशपद्धतिः पञ्चविंशी ॥

२६. यन्त्रिकापद्धतिः (१०)

उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥ २६.१॥ ८०१॥ प्रसभं प्रतिरुध्य कण्टकादीन् भवती शौरिपदाम्बुजादधस्तात् । चराणावनि धारयत्यमुष्मि- न्नुचितच्छायमुपर्यपि प्रतीकम् ॥ २६.२॥ ८०२॥ मुरभिन्मणिपादुके त्वदीया- मनघामङ्गुलियन्त्रिकामवैमि । स्वयमुन्नमितां प्रदेशिनीं ते परमं दैवतमेकमित्यृचन्तीम् ॥ २६.३॥ ८०३॥ स्वदते मणिपादुके त्वदीया पदशाखायुगयन्त्रिका विचित्रा । परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्धमात्रा ॥ २६.४॥ ८०४॥ अनुयातमनोरथा मुरारेर्भवती केलिरथश्रियं दधाति । चरणावनि यन्त्रिका तवैषा तनुते कूबरसम्पदं पुरस्तात् ॥ २६.५॥ ८०५॥ शङ्के भवत्याः सुभगं प्रतीकं रङ्गेशपादाङ्गुलिसङ्ग्रहार्थम् । त्राणाय पादावनि विष्टपानामाज्ञाकरीमङ्गुलिमुद्रिकां ते ॥ २६.६॥ ८०६॥ अलङ्कृतं कर्णिकयोपरिष्टा- दुदग्रनालं तव यन्त्रिकांशम् । पद्मापतेः पादसरोजलक्ष्म्याः प्रत्येमि पादावनि केलिपद्मम् ॥ २६.७॥ ८०७॥ उपरि विनिहितस्य केशवाङ्घ्रे- रुपरि पदावनि यन्त्रिकात्मिका त्वम् । इति तव महिमा लघूकरोति प्रणतसुरेश्वरशेखराधिरोहम् ॥ २६.८॥ ८०८॥ नित्यं पदावनि निबद्धकिरीटशोभं पद्मालयापरिचितं पदमुद्वहन्त्याः । अङ्गीकरोति रुचिमङ्गुलियन्त्रिका ते साम्राज्यसम्पदनुरूपमिवातपत्रम् ॥ २६.९॥ ८०९॥ प्रथमा कलेव भवती चरणावनि भाति रङ्गचन्द्रमसः । श‍ृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः ॥ २६.१०॥ ८१०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे यन्त्रिकापद्धतिः षङ्विंशी ॥

२७. रेखापद्धतिः (१०)

सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् । अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥ २७.१॥ ८११॥ मणिमौलिनिघर्षणात् सुराणां वहसे काञ्चनपादुके विचित्रम् । कमलापतिपादपद्मयोगा- दपरं लक्षणमाधिराज्यसारम् ॥ २७.२॥ ८१२॥ अभितो मणिपादुके स्फुरन्त्या- स्तव रेखाविततेस्तथाविधायाः । मुरवैरिपदारविन्दरूढै- रनुकल्पायितमाधिराज्यचिह्नैः ॥ २७.३॥ ८१३॥ रेखया विनमतां दिवौकसां मौलिरत्नमकरीमुखोत्थया । पादुके वहसि नूनमद्भुतं शौरिपादपरिभोगलक्षणम् ॥ २७.४॥ ८१४॥ त्रिदशमकुटरत्नोल्लेखरेखापदेशा- त्परिणमयसि पुंसां पादुके मूर्ध्नि लग्ना । नरकमथनसेवासम्पदं साधयित्री नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम् ॥ २७.५॥ ८१५॥ पदकमलतलान्तःसम्श्रितान्यातपत्र- ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि । अवगमयसि शौरेः पादुके मादृशाना- मुपरि परिणतैः स्वैर्देवि रेखाविशेषैः ॥ २७.६॥ ८१६॥ स्नाता पदावनि चिरं परिभुज्य मुक्ता पादेन रङ्गनृपतेः शुभलक्षणेन । रेखान्तरैर्नवनवैरुपशोभसे त्वं संस्कारचन्दनविलेपनपङ्कलग्नैः ॥ २७.७॥ ८१७॥ भक्त्या मुहुः प्रणमतां त्रिदशेश्वराणां कोटीरकोटिकषणादुपजायमानैः । आभाति शौरिचरणादधिकानुभावा रेखाशतैस्तव पदावनि काऽपि रेखा ॥ २७.८॥ ८१८॥ पादावनि प्रतिपदं परमस्य पुंसः पादारविन्दपरिभोगविशेषयोग्या । स्वाभाविकान् सुभगभक्तिविशेषदृश्यान् रेखात्मकान् वहसि पत्रलताविशेषान् ॥ २७.९॥ ८१९॥ रेखापदेशतस्त्वं प्रशमयितुं प्रलयविप्लवाशङ्काम् । वहसि मधुजित्पदावनि मन्ये निगमस्य मातृकालेख्यम् ॥ २७.१०॥ ८२०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे रेखापद्धतिः सप्तविंशी ॥

२८. सुभाषितपद्धतिः (१०)

कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि । पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥ २८.१॥ ८२१॥ सन्तः स्वदेशपरदेशविभागशून्यं हन्त स्ववृत्तिमनघां न परित्यजन्ति । राज्ये वने च रघुपुङ्गवपादरक्षा नैजं जहौ न खलु कण्टकशोधनं तत् ॥ २८.२॥ ८२२॥ ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तं पृथ्वीं शशास परिमुक्तपदं पदत्रम् । किं वा न किं भवति केलिविधौ विभूनां पुण्यं शरव्यमभवत्पयसां निधिर्वा ॥ २८.३॥ ८२३॥ अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवा- द्भ्रष्टः पदादधिकरोति पदं पदार्हः । प्रायो निदर्शयति तत्प्रथमो रघूणां तत्पादयोः प्रतिनिधी मणिपादुके वा ॥ २८.४॥ ८२४॥ चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यं सकलभुवनगुप्त्यै सत्पथे वर्तते यः । नरपतिबहुमानं पादुकेवाधिगच्छन् स भवति समयेषु प्रेक्षितज्ञैरुपास्यः ॥ २८.५॥ ८२५॥ रामे राज्यं पितुरभिमतं सम्मतं च प्रजानां माता वव्रे तदहि भरते सत्यवादी ददौ च । चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेको दुर्विज्ञानस्वहृदयमहो दैवमत्र प्रमाणम् ॥ २८.६॥ ८२६॥ नातिक्रामेच्चरणवहनात्पादुका पादपीठं यद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य । पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यं शङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम् ॥ २८.७॥ ८२७॥ प्रतिपदचपलाऽपि पादुका रघुपतिना स्वपदे निवेशिता । समजनि निभृतस्थितिस्तदा भवति गुणः श्रियमभ्युपेयुषाम् ॥ २८.८॥ ८२८॥ गतिहेतुरभूत् क्वचित्पदे स्थितिहेतुर्मणिपादुका क्वचित् । न हि वस्तुशुशक्तिनिश्चयो नियतिः केवलमीश्वरेच्छया ॥ २८.९॥ ८२९॥ अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः । अलभत समये रामात्पादाक्रान्ताऽपि पादुका राज्यम् ॥ २८.१०॥ ८३०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे सुभाषितपद्धतिरष्टाविंशी ॥

२९. प्रकीर्णकपद्धतिः (८०)

विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः । श्रेयःसाधनमाम्नातं तत्पदत्रं तथाऽस्तु मे ॥ २९.१॥ ८३१॥ मधुरस्मितरम्यमौक्तिकश्रीर्विशसि व्यञ्जितमञ्जुलप्रणादा । सह रङ्गनृपेण वासगेहं तनुमध्या मणिपादुके त्वमेका ॥ २९.२॥ ८३२॥ शुभशब्दविशेषसंश्रिताभि- र्भवती शौरिपदावनि क्रियाभिः । अनुतिष्ठति नूनमाश्रिताना- मखिलोपद्रवशान्तिकं नवीनम् ॥ २९.३॥ ८३३॥ मणिभिर्मधुवैरिपादरक्षे भवती विक्रमणे प्रवर्धमाना । युगपद्भवतां युगान्तकाले दिवि लक्ष्मीं विदधे दिवाकराणाम् ॥ २९.४॥ ८३४॥ मञ्जुस्वनां मणिमयूखकलापिनीं त्वां दृष्ट्वा कपर्दसविधे विनिवेश्यमानाम् । गूढीभवन्ति गरुदध्वजपादरक्षे फूत्कारवन्ति पुरवैरिविभूषणानि ॥ २९.५॥ ८३५॥ मध्ये परिस्फुरितनिर्मलचन्द्रतारा प्रान्तेषु रत्ननिकरेण विचित्रवर्णा । पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं चक्षुर्वशीकरणयन्त्रविशेषशङ्काम् ॥ २९.६॥ ८३६॥ पादेन रङ्गनृपतेः परिभुज्यमाना मुक्ताफलप्रकटितश्रमवारिबिन्दुः । उत्कण्टका मणिमयूखशतैरुदग्रैः सीत्कारिणीव चरणावनि शिञ्जितैस्त्वम् ॥ २९.७॥ ८३७॥ दूरप्रसारितकरा निनदैर्मणीना- मायाति दैत्यरिपुरित्यसकृद्ब्रुवाणा । दैत्येश्वरानभिमुखान् जनितानुकम्पा मन्ये निवारयसि माधवपादुके त्वम् ॥ २९.८॥ ८३८॥ अच्छेद्यरश्मिनियतक्रमरत्नधुर्या निष्कम्पकूबरनिभं दधती प्रतीकम् । क्रीडागतेषु मधुजित्पदपद्मलक्ष्म्याः कर्णीरथस्त्वमसि काञ्चनपादरक्षे ॥ २९.९॥ ८३९॥ मञ्जुस्वना मरतकोपलमेचकाङ्गी शोणाश्मतुण्डरुचिरा मणिपादुके त्वम् । पद्माविहाररसिकस्य परस्य यूनः पर्यायतां भजसि पञ्जरशारिकाणाम् ॥ २९.१०॥ ८४०॥ शोणोपलैश्चरणरक्षिणि संश्रितेषु च्छायात्मना मरकतेषु तवावगाढः । अन्वेति शौरिरभितः फलपङ्क्तिशोभि- न्यात्मानमेव शयितं वटपत्रमध्ये ॥ २९.११॥ ८४१॥ स्फीतं पदावनि तव स्नपनार्द्रमूर्ते- रासागरं ततमभून्मणिरश्मिजालम् । लीलोचितं रघुसुतस्य शरव्यमासन् यातूनि यस्य वलयेन विवेष्टितानि ॥ २९.१२॥ ८४२॥ रत्नांशुभिस्तव तदा मणिपादरक्षे संरज्यमानवपुषां रजनीमुखेषु । आकस्मिकागतमदर्शिं महौषधित्वं साकेतपत्तनसमीपरुहां द्रुमाणाम् ॥ २९.१३॥ ८४३॥ रामे वनं दशरथे च दिवं प्रयाते निर्धूतविश्वतिमिरा सहसा बभूव । भूयिष्ठरत्नकिरणा भवती रघूणां भूयः प्रतापतपनोदयपूर्वसन्ध्या ॥ २९.१४॥ ८४४॥ प्रीतेन देवि विभुना प्रतिपादनीयां पादावनि प्रतिपदोदितमञ्जुनादाम् । विद्यां विदुर्भगवतः प्रतिपादनार्हां पारायणागमपयोनिधिपारगास्त्वाम् ॥ २९.१५॥ ८४५॥ मुक्तांशुकेसरवती स्थिरवज्रदंष्ट्रा प्रह्लादसम्पदनुरूपहिरण्यभेदा । मूर्तिः श्रियो भवसि माधवपादरक्षे नाथस्य नूनमुचिता नरसिंहमूर्तेः ॥ २९.१६॥ ८४६॥ सम्भावयन्ति कवयश्चतुरप्रचारां मञ्जुस्वनां महितमौक्तिकपत्रलाङ्गीम् । स्वाधीनसर्वभुवनां मणिपादुके त्वां रङ्गाधिराजपदपङ्कजराजहंसीम् ॥ २९.१७॥ ८४७॥ मुक्तामयूखरुचिरां मणिपादरक्षे मञ्जुस्वनां मणिभिराहितवर्णवर्गाम् । मन्ये मुकुन्दपदपद्ममधुव्रतीना- मन्यामकृत्रिमगिरामधिदेवतां त्वाम् ॥ २९.१८॥ ८४८॥ आसाद्य केकयसुतावरदानमूलं कालं प्रदोषमनिरीक्ष्यरमासहायम् । मञ्जुप्रणादरहिता मणिपादरक्षे मौनव्रतं किमपि नूनमवर्तयस्त्वम् ॥ २९.१९॥ ८४९॥ वैडूर्यरम्यसलिला महिता मरुद्भि- श्छायावती मरकतोपलरश्मिजालैः । अश्रान्तमोहपदवीपथिकस्य जन्तो- र्विश्रान्तिभूमिरिव शौरिपदावनि त्वम् ॥ २९.२०॥ ८५०॥ आद्यो रघुक्षितिभुजामभिषेकदीप्तै- राप्यायितस्तव पदावनि रश्मिजालैः । मन्दीचकार तपनो व्यपनीतभीति- र्मन्दोदरीवदनचन्द्रमसो मयूखान् ॥ २९.२१॥ ८५१॥ मान्या समस्तजगतां मणिभङ्गनीला पादे निसर्गघटिता मणिपादुके त्वम् । अन्तःपुरेषु ललितानि गतागतानि च्छायेव रङ्गनृपतेरनुवर्तसे त्वम् ॥ २९.२२॥ ८५२॥ रङ्गाधिराजपदपङ्कजमाश्रयन्ती हैमी स्वयं परिगता हरिनीलरत्नैः । सम्भाव्यसे सुकृतिभिर्मणिपादुके त्वं सामान्यमूर्तिरिव सिन्धुसुताधरण्योः ॥ २९.२३॥ ८५३॥ अभ्यर्चिता सुमनसां निवहैरजस्रं मुक्तारुणोपलनस्वाङ्गुलिपल्लवश्रीः । श्रेयस्करीं मुरभिदश्चरणद्धयीव कान्तिं समाश्रयसि काञ्चनपादुके त्वम् ॥ २९.२४॥ ८५४॥ निर्मृष्टगात्ररुचिरा मणिपादुके त्वं स्नातानुलेपसुरभिर्नवमाल्यचित्रा । प्राप्ते विहारसमये भजसे मुरारेः पादारविन्दपरिभोगमधन्यलभ्यम् ॥ २९.२५॥ ८५५॥ नादे पदावनि तथा तव सन्निवेशे निर्वेशनक्रममसह्यमपाचिकीर्षुः । यैरेव लोचनशतैरभिवीक्षते त्वां तैरेव पन्नगपतिः श्रुतिमान् बभूव ॥ २९.२६॥ ८५६॥ पादावनि स्फुटमयूखसहस्रदृश्या विष्णोः पदेन भवती विहितप्रचारा । त्वद्भक्तियन्त्रितजनप्रथमस्य शम्भो- र्वैकर्तनीमनुकरोति विहारमूर्तिम् ॥ २९.२७॥ ८५७॥ राज्ये वनेपि रघुवीरपदोचितायाः संस्मृत्य गौतमवधूपरिरक्षणं ते । मन्ये समाहितधियो मणिपादुके त्वां मूर्ध्ना भजन्त्यनुदिनं मुनिधर्मदाराः ॥ २९.२८॥ ८५८॥ त्वामाश्रितो मणिमयूखसहस्रदृश्यां त्वच्छिञ्जितेन सह रङ्गपतिः समुद्यन् । आशङ्क्यते सुमतिभिर्मणिपादरक्षे विद्यासखः सवितृमण्डलमध्यवर्ती ॥ २९.२९॥ ८५९॥ रत्नाश्रितैर्हरिपदं मणिपादुके त्वं स्पृष्ट्वा करैः श्रुतिरसायनमञ्जुनादा । तत्त्वं तदेतदिति बोधयसीव सम्य- ग्वेदान्प्रतारितवतो विविधान् कुदृष्टीन् ॥ २९.३०॥ ८६०॥ आनन्दसूः प्रणयिनामनघप्रसादा रङ्गाधिराजपदरक्षिणि रत्नभासा । न्यस्ते मुहुर्निजभरे स्थिरतां भजन्त्या वर्णांशुकं वितरसीव वसुन्धरायाः ॥ २९.३१॥ ८६१॥ त्वं चित्रभानुरसि रत्नविशेषयोगा- द्भूम्ना निजेन परिपुष्यसि पावकत्वम् । स्वेनैव शौरिचरणावनि चन्द्ररूपा तेजस्त्रयीव मिलिताऽसि तमोपहा नः ॥ २९.३२॥ ८६२॥ प्रौढप्रवालरुचिरा भुवनैकवन्द्या रङ्गाधिराजचरणावनि रम्यचन्द्रा । सम्भिन्नमौक्तिकरुचिः सततं प्रजानां तापात्ययं दिशसि तारकितेव सन्ध्या ॥ २९.३३॥ ८६३॥ रङ्गेश्वरस्य पुरतो मणिपादुके त्वं रत्नांशुभिर्विकिरसि स्फुटभक्तिबन्धा । पादौ विहारयितुमद्भुतसौकुमार्यौ प्रायः सरोजकुमुदोत्पलपत्रपङ्क्तिम् ॥ २९.३४॥ ८६४॥ आसन्नवृत्तिरवरोधगृहेषु शौरे- रापादयस्यनुपदं वरवर्णिनीनाम् । आलग्नरत्नकिरणा मणिपादुके त्वं मञ्जुस्वना मदनबाणनिघर्षशङ्काम् ॥ २९.३५॥ ८६५॥ पर्याप्तमौक्तिकनखा स्फुटपद्मरागा रेखाविशेषरुचिरा ललितप्रचारा । रङाधिराजपदयोर्मणिपादुके त्वं सायुज्यमाश्रितवतीव समस्तवन्द्या ॥ २९.३६॥ ८६६॥ प्राप्ताभिषेका मणिपादुके त्वं प्रदीप्तरत्ना रघुराजधान्याः । प्रदक्षिणप्रकमणादकार्षीः प्राकारमाग्नेयमिव प्रभाभिः ॥ २९.३७॥ ८६७॥ रत्नासने राघवपादरक्षे प्रदीप्यमानास्तव पद्मरागाः । प्रायो नरेन्द्रान् भरतस्य जेतुः प्रतापवह्नेरभवन्प्ररोहाः ॥ २९.३८॥ ८६८॥ शुभप्रणादा भवती श्रुतीनां कण्ठेशुवैकुण्ठपतिंवराणाम् । बध्नासि नूनं मणिपादरक्षे मङ्गल्यसूत्रं मणिरश्मिजालैः ॥ २९.३९॥ ८६९॥ विचित्रवर्णा श्रुतिरम्यशब्दा निषेव्यसे नाकसदां शिरोभिः । मधुद्विषस्त्वं मणिपादरक्षे श्रेयस्करीशासनपत्रिकेय ॥ २९.४०॥ ८७०॥ स्थिरा स्वभावान्मणिपादुके त्वं सर्वंसहा स्वादुफलप्रसूतिः । पृथ्वीव पद्भां परमस्य पुंसः संसृज्यसे देवि विभज्यसे च ॥ २९.४१॥ ८७१॥ पश्यन्ति रङ्गेश्वरपादरक्षे पूजासु ते संहितपुष्पजालाम् । मृगीदृशो वासवरत्नरेखां सचित्रपुङ्खामिव मन्मथज्याम् ॥ २९.४२॥ ८७२॥ करैरुदग्रैः स्फुरतां मणीनां मञ्जुस्वना माधवपादुके त्वम् । अनूपदेशे कनकापगायाः कलेः प्रवेशं प्रतिषेधसीव ॥ २९.४३॥ ८७३॥ आक्रान्तवेदिर्भवती तदानी- मदर्शि मुक्तान्वितशोणरत्ना । करग्रहार्थं भरतेन भूम्या लाजोत्करैर्वह्निशिखेव कीर्णा ॥ २९.४४॥ ८७४॥ पत्रला मणिगणैर्हिरण्मयी भासि रङ्गपतिरत्नपादुके । केलिमण्टपगतागतोचिता भूमिकेव गरुडेव कल्पिता ॥ २९.४५॥ ८७५॥ उन्नतं बलिविरोधिनस्तदा पादुके पदसरोजमाश्रिता । मौक्तिकस्तबकमध्यसम्मितं व्योम षट्पदतुलामलम्भयः ॥ २९.४६॥ ८७६॥ कोमलाङ्गुलिनिवेशयन्त्रिका- न्यस्तमौक्तिकमयूखदन्तुरा । मङ्गलानि वमसीव देहिनां रङ्गराजमणिपादुके स्वयम् ॥ २९.४७॥ ८७७॥ पङ्कजासहचरस्य रङ्गिणः पादुके निजपदादनन्तरम् । न्यस्यतस्त्वयि जगन्ति जायते नागभोगशयनं निरङ्कुशम् ॥ २९.४८॥ ८७८॥ साधयन्ति मधुवैरिपादुके साधवः स्थिरमुपायमुत्तमम् । var मन्तिमम् त्वत्प्रवृत्तिविनितवर्तनोचित- स्वप्रवृत्तिविनिवर्तनान्वितम् ॥ २९.४९॥ ८७९॥ नन्दसूनुपदपद्ममिन्दिरापाणिपल्लवनिपीडनासहम् । पादुके तव बलेन पर्यभृदूष्मलामुरगमौलिशर्कराम् ॥ २९.५०॥ ८८०॥ मणिनिकरसमुत्थैः सर्ववर्णा मयूखैः प्रकटितशुभनादा पादुके रङ्गभर्तुः । निखिलनिगमसूतेर्ब्रह्मणस्तत्सनाथा- मवगमयसि हृद्यामर्धमात्रां चतुर्थीम् ॥ २९.५१॥ ८८१॥ श्रुतिविषयगुणा त्वं पादुके दैत्यहन्तुः सततगतिमनोज्ञा स्वेन धाम्ना ज्वलन्ती । जनितभुवनवृद्धिर्दृश्यसे स्थैर्ययुक्ता विधृतनिखिलभूता वैजयन्तीव माला ॥ २९.५२॥ ८८२॥ रघुपतिपदसङाद्राज्यखेदं त्यजन्ती पुनरपि भवती स्वान् दर्शयन्ती विहारान् । अभिसमधित वृद्धिं हर्षकोलाहलानां जनपदजनितानां ज्यायसा शिञ्जितेन ॥ २९.५३॥ ८८३॥ हरिचरणमुपघ्नं पादुके संश्रिताया- मधिगतबहुशाखं वैभवं दर्शयन्त्याम् । var शाखा अभजत विधिहस्तन्यस्तधर्मद्रवायां त्वयि मुकुलसमृद्धिं मौक्तिकश्रीस्तदानीम् ॥ २९.५४॥ ८८४॥ कनकरुचिरकान्तिः कल्पिताशोकभारा कृतपदकमलश्रीः क्रीडता माधवेन । दिशिदिशि सुमनोभिर्दर्शनीयानुभावा सुरभिसमयलक्ष्मीं पादुके पुष्यसि त्वम् ॥ २९.५५॥ ८८५॥ प्रणिहितपदपद्मा पादुके रङ्गभर्तुः शुभतरगतिहेतुश्चारुमुक्ताप्रवाला । स्थिरपरिणतरागां शुद्धबोधानुबद्धां स्वजनयसि मुनीनां त्वन्मयीं चित्तवृत्तिम् ॥ २९.५६॥ ८८६॥ विरचितनवभागा रत्नभेदैर्विचित्रै- र्विविधविततरेखाव्यक्तसीमाविभागा । हरिचरणसरोजं प्रेप्सतामर्चनीयं प्रथयसि नवनाभं मण्डलं पादुके त्वम् ॥ २९.५७॥ ८८७॥ परिणतगुणजाला पङ्क्तिभिर्मौक्तिकानां बहुविधमणिरश्मिग्रन्थबन्धाभिरामा । रघुपतिपदरक्षे राजवाह्यस्य कुम्भे कलितरुचिरभूस्त्वं काऽपि नक्षत्रमाला ॥ २९.५८॥ ८८८॥ चरितनिखिलवृत्तिश्चारुपद्मासनस्था गुणनिबिडितमुक्तापङ्क्तिबद्धाक्षमाला । सविधमधिवसन्ती पादुके रङ्गभर्तु- श्चरणकमलमन्तर्बिम्बितं ध्यायसीव ॥ २९.५९॥ ८८९॥ अनुपधि परिरक्षन्नेकपुत्राभिमानाद्- भुवनमिदमशेषं पादुके रङ्गनाथः । निजपदनिहितायां देवि तिष्ठन् व्रजन् वा त्वयि निहितभरोऽभृत् किं पुनः स्वापमृच्छन् ॥ २९.६०॥ ८९०॥ त्वरितमुपगतानां श्रीमतो रङ्गभर्तु- स्त्वदुपहितपदस्य स्वैरयात्रोत्सवेषु । मुखरयति दिगन्तान्मुह्यतां त्वत्प्रशस्तौ विहितकुसुमवृष्टिर्व्यावघोषी सुराणाम् ॥ २९.६१॥ ८९१॥ मनसि नियमयुक्ते वर्तमाना मुनीनां प्रतिपदमुपयान्ती भावनीयक्रमत्वम् । श्रुतिरिव निजशब्दैः पादुके रङ्गभर्तुः पदमनितरगम्यं व्यङ्कुमर्हा त्वमेव ॥ २९.६२॥ ८९२॥ अविकलनिजचन्द्रालोकसन्दर्शनीया प्रतिकलमुपभोग्या पादुके रङ्गभर्तुः । मुकुलयितुमशेषं मौक्तिकज्योत्स्नया नः प्रभवसि तिमिरौघं पौर्णमासी निशेव ॥ २९.६३॥ ८९३॥ हंसश्रेणीपरिचितगतिर्हारिणी कल्मषाणां मौलौ शम्भोः स्थितिमधिगता मुग्धचन्द्रानुबद्धा । राज्ञामेका रघुकुलभुवां सम्यगुत्तारिका त्वं काले तस्मिन् क्षितिमधिगता पादुके जाह्नवीव ॥ २९.६४॥ ८९४॥ स्वच्छाकारां श्रुतिसुरभितां स्वादुभावोपपन्नां मार्गेमार्गे महितविभवां पादुके तीर्थभेदैः । शीतस्पर्शां श्रमविनयिनीं गाहते मन्दमन्दं क्रीडालोलः कमलनिलयादत्तहस्तो युवा त्वाम् ॥ २९.६५॥ ८९५॥ अभ्यस्यन्त्योः क्रममनुपमं रङ्गभर्तुर्विहारे स्थानेस्थाने स्वरपरिणतिं लम्भितस्तत्तदर्हाम् । पर्यायेण प्रहितपदयोः पादुके श्रुत्युदारः शिञ्जानादः स्फुरति युवयोः श‍ृङ्खलाबन्धरम्यः ॥ २९.६६॥ ८९६॥ आसन्नानां दिवसमपुनर्नक्तमापादयन्ती स्फीतालोका मुनिभिरभितः प्राणिनामस्तदोषा । प्रह्वैर्जुष्टा विबुधनिवहैः पादुके रङ्गभर्तुः पादाम्भोजे दिशति भवति पूर्वसन्ध्येव कान्तिम् ॥ २९.६७॥ ८९७॥ रम्यालोका ललितगमना पद्मरागाधरोष्ठी मध्ये क्षामा मणिवलयिनी मौक्तिकव्यक्तहासा । श्यामा नित्यं हरितमणिभिः शार्ङ्गिणः पादरक्षे मन्ये धातुर्भवसि महिलानिर्मितौ मातृका त्वम् ॥ २९.६८॥ ८९८॥ स्थित्वा पूर्वं क्वचनभवती भद्रपीठस्य मध्ये रत्नोदञ्चत्किरणनिकरा रङ्गिणः पादरक्षे । व्याकीर्णानां नृपतिविरहाद्देवि वर्णाश्रमाणां नूनं सीमाविभजनसहं निर्ममे सूत्रपातम् ॥ २९.६९॥ ८९९॥ मातर्मञ्जुस्वनपरिणतपार्थनावाक्यपूर्वं निक्षिप्तायां त्वयि चरणयोः पादुके रङ्गभर्तुः । त्वय्यायत्तं किमपि कुशलं जानतीनां प्रजानां पर्याप्तं तन्न खलु न भवत्यात्मनिक्षेपकृत्यम् ॥ २९.७०॥ ९००॥ नित्यं रङ्गक्षितिपतिपदन्यासधन्यात्मनस्ते शिञ्जानादं श्रवणमधुरं पादुके दीर्घयन्तः । काले तस्मिन् करणविगमक्लेशजातं विहन्युः सन्तापं नस्तरुणतुलसीगन्धिनो गन्धवाहाः ॥ २९.७१॥ ९०१॥ संसाराध्वश्रमपरिणतं संश्रितानां जनानां तापं सद्यः शमयितुमलं शार्ङ्गिणः पादुके त्वम् । चन्द्रापीडे प्रणमति नवां चन्द्रिकामापिबद्भि- र्धारानिर्यत्सलिलकणिकाशीकरैश्चन्द्रकान्तैः ॥ २९.७२॥ ९०२॥ वज्रोपेतां वलभिदुपलश्यामलां मञ्जुघोषां मुक्तासारां मधुरचपलां वीक्ष्य विष्णोः पदे त्वाम् । हर्षोत्कर्षादुपरि चलयन्पादुके चन्द्रकान्तं धत्ते नित्यं धृतघनरुचिस्ताण्डवं नीलकण्ठः ॥ २९.७३॥ ९०३॥ श्रीरङ्गेन्दोश्चरणकमलं तादृशं धारयन्ती कालेकाले सह कमलया क्लृप्तयात्रोत्सवश्रीः । गत्वागत्वा स्वयमनुगृहद्वारमुन्निद्रनादा पौरान्नित्यं किमपि कुशलं पादुके पृच्छसीव ॥ २९.७४॥ ९०४॥ चतुरविहारिणीं रुचिरपक्षरुचिं भवतीं मनसिजसायकासनगुणोचितमञ्जुरवाम् । अनुपदमाद्रियेमहि महेन्द्रशिलामहितां हरिचरणाविन्दमकरन्दमधुव्रतिकाम् ॥ २९.७५॥ ९०५॥ कनकरुचा जटामुरगमौलिमणीन्मणिभि- स्त्रिदिवतरङ्गिणीं तरलमौक्तिकदीधितिभिः । कुटिलतया क्वचिच्छशिकलामधरीकुरुषे मुररिपुपादुके पुरभिदः शिरसा विधृता ॥ २९.७६॥ ९०६॥ काले तल्पभुजङ्गमस्य भजतः काष्ठां गतां शेषतां मूर्तिं कामपि वेद्मि रङ्गनृपतेश्चित्रां पदत्रद्वयीम् । सेवानम्रसुरासुरेन्द्रमकुटीशेषापटीसङ्गमे मुक्ताचन्द्रिकयेव या प्रथयते निर्मोकयोगं पुनः ॥ २९.७७॥ ९०७॥ चन्द्रापीडशिखण्डचन्द्रशिखरच्योतत्सुधानिर्झर- स्तोकाश्लिष्टसुरेन्द्रशेखररजःस्त्यानां स्तुमः पादुकाम् । ब्रह्मस्तम्बविभक्तसीमविविधक्षेत्रज्ञसर्गस्थिति- ध्वंसानुग्रहनिग्रहप्रणयिनी या सा क्रिया रङ्गिणः ॥ २९.७८॥ ९०८॥ लक्ष्मीनूपुरशिञ्जितेन गुणितं नादं तवाकर्णय- न्नाजिघ्रन्निगमान्तगन्धतुलसीदामोत्थितं सौरभम् । काले कुत्रचिदागतं करुणया सार्धं त्वया चाग्रतः पश्येयं मणिपादुके परतरं पद्मेक्षणं दैवतम् ॥ २९.७९॥ ९०९॥ वहति क्षितिव्यवहितां सोऽपि त्वां गतिषु पादुके रङ्गी । कमठपतिभुजगपरिबृढकरिवरकुलशिखरिभूमिकाभेदैः ॥ २९.८०॥ ९१०॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रकीर्णकपद्धतिः एकोनत्रिंशी ॥

३०. चित्रपद्धतिः (४०)

प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥ ३०.१॥ ९११॥ श‍ृणु ते पादुके चित्रं चित्राभिर्मणिभिर्विभोः युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम् ॥ ३०.२॥ ९१२॥ सुरासुरार्चिता धन्या तुङ्गमङ्गलपालिका । चराचरार्चिता मान्या रङ्गपुङवपादुका ॥ ३०.३॥ ९१३॥ पद्मेव मङ्गलसरित्पारं संसारसन्ततेः । दुरितक्षेपिका भूयात्पादुका रङ्गभूपतेः ॥ ३०.४॥ ९१४॥ अनन्यशरणः सीदुन्ननन्तक्लेशसागरे । शरणं चरणत्राणं रङ्गनाथस्य संश्रये ॥ ३०.५॥ ९१५॥ प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् । पश्चिमायामवस्थायां पादुके मुह्यतो मम ॥ ३०.६॥ ९१६॥ यामः श्रयति यां धत्ते येन यात्याय याच्च या । याऽस्य मानाय यैवान्या सा मामवतु पादुका ॥ ३०.७॥ ९१७॥ चर्या नः शौरिपादु त्वं प्रायश्चित्तेष्वनुत्तमा । निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा ॥ ३०.८॥ ९१८॥ रामपादगता भासा सा भातागदपामरा । कादुपानञ्च कासह्या ह्यासकाञ्चनपादुका ॥ ३०.९॥ ९१९॥ बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे । समाधौ शठजिच्चूडां वृणोषि हरिपादुके ॥ ३०.१०॥ ९२०॥ सा भूपा रामपारस्था विभूपास्तिसपारता । तारपा सकृपा दुष्टिपूरपा रामपादुका ॥ ३०.११॥ ९२१॥ कारिका न न यात्राया यागेयास्यस्यभानुभा । पादपा हह सिद्धासि यज्ञाय मम साञ्जसा ॥ ३०.१२॥ ९२२॥ सराघवा श्रुतौ दृष्टा पादुका सनृपासना । सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना ॥ ३०.१३॥ ९२३॥ काव्यायास्थित मावर्गव्याजयातगमार्गका कामदा जगतः स्थित्यै रङ्गपुङवपादुका ॥ ३०.१४॥ ९२४॥ सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका । कामदा कलितादेशा चरन्ती साधुवर्त्मसु ॥ ३०.१५॥ ९२५॥ भरताराधितां तारां वन्दे राघवपादुकाम् । भवतापाधितान्तानां वन्द्यां राजीवमेदुराम् ॥ ३०.१६॥ ९२६॥ कादुपास्य सदालोका कालोदाहृतदामका । कामदाध्वरिरंसाकाऽकासा रङ्गेशपादुका ॥ ३०.१७॥ ९२७॥ पापाकूपारपाळीपा त्रिपादीपादपादपा । कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा ॥ ३०.१८॥ ९२८॥ स्थिरागसां सदाराध्या विहताकततामता । सत्पादुके सरासामा रङ्गराजपदं नय ॥ ३०.१९॥ ९२९॥ स्थिता समयराजत्पा गतरामादके गवि । दुरंहसां सन्नतादा साध्या तापकरासरा ॥ ३०.२०॥ ९३०॥ लोकतारा कामचारा कविराजदुरावचा । तारागते पादराम राजते रामपादुका ॥ ३०.२१॥ ९३१॥ जयामपापामयाजयामहे दुदुहे मया । महेशकाकाशहेम पादुका मम कादुपा ॥ ३०.२२॥ ९३२॥ पापादपापादपापा पादपाददपादपा । दपादपापादपाद पादपा ददपादपा ॥ ३०.२३॥ ९३३॥ कोपोद्दीपकपापेऽपि कृपापाकोपपादिका । पूदपादोदकापादोद्दीपिका काऽपि पादुका ॥ ३०.२४॥ ९३४॥ ततातत्तातितत्तेता ताततीतेतितातितुत् । तत्तत्तत्ताततितता ततेतातेततातुता ॥ ३०.२५॥ ९३५॥ यायायायायायायाया यायायायायायायाया यायायायायायायाया यायायायायायायाया ॥ ३०.२६॥ ९३६॥ रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे । कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता ॥ ३०.२७॥ ९३७॥ दत्तकेलिं जगत्कल्पनानाटिका- रङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा । तादृशे गाधिपुत्राध्वरे त्वां विनाऽ- पादुक अपादुका पादुका पादुका ॥ ३०.२८॥ ९३८॥ पादपापादपापादपापादपा पादपा पादपापादपापादपा । पादपापादपापादपापादपापादपापादपापादपापादपा ॥ ३०.२९॥ ९३९॥ साकेतत्रानवेलाजनितततनिजप्राङ्कणश्रीप्रभासा साभाप्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा । सालादिच्छेदतिग्माहवरुरुरुवह ह्रीकरस्यामरासा- सा रामस्याङ्घ्रिमभ्याजतिनननतिजस्थूलमुत्रातकेसा ॥ ३०.३०॥ ९४०॥ रम्ये वेश्मनि पापराक्षसभिदास्वासत्तधीनायिका नन्तुं कर्मजदुर्मदालसधियां सा हन्तनाथीकृता । सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिका काचित्स्वैरगमेन केलिसमये कामव्रता पादुका ॥ ३०.३१॥ ९४१॥ श्रीसंवेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटः श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना । वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथेऽ- ङ्कस्था चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन ॥ ३०.३२॥ ९४२॥ कनकपीठनिविष्टतनुस्तदा सुमतिदायिनिजानुभवस्मृता । विधिशिवप्रमुखैरभिवन्दिता विजयते रघुपुङ्ग्वपादुका ॥ ३०.३३॥ ९४३॥ दीनगोपीजनि क्लिष्टभीनुत्सदा रामपादावनि स्वानुभावस्थिता । एधि मेऽवश्यमुत्तारभावश्रिता तेजसा तेन घुष्टिं गता पालिका ॥ ३०.३४॥ ९४४॥ धामनिराकृत तामसलोका धातृमुखैर्विनता निजदासैः । पापमशेषमपाकुरुषे मे पादु विभूषितराघवपादा ॥ ३०.३५॥ ९४५॥ कृपानघत्रातसुभूरदुष्टा मेध्या रुचा पारिषदामभूपा । पदावनि स्त्यानसुखैर्न तृप्ता कान्त्या समेताधिकृताऽनिरोधा ॥ ३०.३६॥ ९४६॥ सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा । साहसकार्यवनाशा धीरा वसुदा नवन्यासा ॥ ३०.३७॥ ९४७॥ सान्याऽवनदा सुरवराऽधीशाना वर्यका सहसा । ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा ॥ ३०.३८॥ ९४८॥ तारस्फारतरस्वररसभररा सा पदावनी सारा । धीरस्वैरचरस्थिर रघुपुरवासरतिरामसवा ॥ ३०.३९॥ ९४९॥ चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः । चरमपुरुषार्थचित्रौ चरणावनि दिशसि चत्वरेषु सताम् ॥ ३०.४०॥ ९५०॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे चित्रपद्धतिः त्रिंशी ॥

३१. निर्वेदपद्धतिः (२०)

प्रपद्ये पादुकां देवी परविद्यामिव स्वयम् । यामर्पयति दीनानां दयमानो जगद्गुरुः ॥ ३१.१॥ ९५१॥ अपि जन्मनि पादुके परस्मि- न्ननघैः कर्मभिरीदृशो भवेयम् । य इमे विनयेन रङ्गभर्तुः समये त्वां पदयोः समर्पयन्ति ॥ ३१.२॥ ९५२॥ परिवर्तयिता पितामहादीन् । त्वमिवानन्तमसौ वहत्यनेहा । अधुनाऽपि न शौरिपादुके त्वा- मनघालम्बनमभ्युपैति चित्तम् ॥ ३१.३॥ ९५३॥ कमलाध्युषिते निधौ निरीहे सुलभे तिष्ठति रङ्गकोशमध्ये । त्वयि तत्प्रतिलम्भने स्थितायां परमन्विच्छति पादुके मनो मे ॥ ३१.४॥ ९५४॥ यद्यप्यहं तरलधीस्तव न स्मरेयं न स्मर्तुमर्हसि कथं भवती स्वयं मे । वत्से विहारकुतुकं कलयत्यवस्था का नाम केशवपदावनि वत्सलायाः ॥ ३१.५॥ ९५५॥ मातर्मुकुन्दकरुणामपि निह्नुवाना- त्किं वा परं किमपि किल्बिषतो मदीयात् । गाढं गृहीतचरणा गमनापदेशा- त्तत्प्रेरणप्रणयिनी तव चेन्न लीला ॥ ३१.६॥ ९५६॥ क्षीबाऽसि काञ्चनपदावनि कैटभारेः पादारविन्दमकरन्दनिषेवणेन । देवि त्वदन्तिकजुषः कथमन्यथा मे दीनाक्षराणि न श‍ृणोषि दयाधिका त्वम् ॥ ३१.७॥ ९५७॥ मातस्त्वदर्पितभरस्य मुकुन्दपादे भद्रेतराणि यदि नाम भवन्ति भूयः । कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः किं न त्रपेत तव काञ्चनपादरक्षे ॥ ३१.८॥ ९५८॥ दौवारिकद्विरसनप्रबलान्तरायै- र्दूये पदावनि दुराढ्यबिलप्रवेशैः । तद्रङ्गधामनिरपायधनोत्तरायां त्वय्येव विश्रमय मङ्क्षु मनोरथं मे ॥ ३१.९॥ ९५९॥ व्यामुह्यतां त्रिविधतापमये निदाघे मायाविशेषजनितासु मरीचिकासु । संस्पृष्टशौरिचरणा चरणावनि त्वं स्थेया स्वयं भवसि नश्चरमे पुमर्थे ॥ ३१.१०॥ ९६०॥ अच्छेद्यया विषयवागुरया निबद्धान् दीनान् जनार्दनपदावनि सत्पथस्था । प्रायः क्रमेण भवती परिगृह्य मौलौ कालेन मोचयति नः कृपया सनाथा ॥ ३१.११॥ ९६१॥ संवाहिका चरणयोर्मणिपादरक्षे देवस्य रङ्गवसतेर्दयिता ननु त्वम् । कस्त्वां निवारयितुमर्हति योजयन्तीं मातः स्वयं गुणगणेषु ममापराधान् ॥ ३१.१२॥ ९६२॥ किं वा भविष्यति परं कलुशैकवृत्ते- रेतावताऽप्यनुपजातमनेहसा मे । एकं तदस्ति यदि पश्यसि पादुके ते पद्मासहायपदपङ्कजभोगसाम्यम् ॥ ३१.१३॥ ९६३॥ विविधविषयचिन्तासन्तताभिश्चिरं मां जनितकलुषमित्थं देवि दुर्वासनाभिः । पदसरसिजयोत्स्वं पादुके रङ्गभर्तुः परिमलपरिवाहैः पावनैर्वासयेथाः ॥ ३१.१४॥ ९६४॥ शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे सकृदपि विनियुक्तं त्वत्सपर्याधिकारे । पुनरपि कथमेनं हस्तमुत्तानयेयं धनमदमुदितानां मानवानां समाजे ॥ ३१.१५॥ ९६५॥ यदि किमपि समीहे कर्म कर्तुं यथाव- त्प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः । अवधिरसि यदि त्वं तत्र नैमित्तिकानां शरणमिह न किं मे शौरिपादावनि स्याः ॥ ३१.१६॥ ९६६॥ अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिः शब्दादीनां परवशतया दुर्जयानीन्द्रियाणि । विष्णोः पादप्रणयिनि चिरादस्य मे दुःखसिन्धोः पारं प्रप्यं भवति परया विद्यया वा त्वया वा ॥ ३१.१७॥ ९६७॥ गोमायूनां मलयपवने तस्कराणां हिमांशौ दुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे । तत्त्वज्ञाने तरलमनसां शार्ङ्गिणः पादरक्षे नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः ॥ ३१.१८॥ ९६८॥ काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्या घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् । श्रीमद्रङ्गेश्वरचरणयोरन्तरङ्गैः प्रयुक्तं सेवाह्वानं सपदि श‍ृणुयां पादुकासेवकेति ॥ ३१.१९॥ ९६९॥ पाषाणकल्पमन्ते परिचितगौतमपरिग्रहन्यायात् । पतिपदपरिचरणार्हं परिणमय मुकुन्दपादरक्षिणि माम् ॥ ३१.२०॥ ९७०॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे निर्वेदपद्धतिरेकत्रिंशी ॥

३२. फलपद्धतिः (३८)

उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः । उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥ ३२.१॥ ९७१॥ निविशेय निरन्तरं प्रतीतस्त्रिदशानां विभवं तृणाय मत्वा । सविधे तव देवि रङ्गभर्तुः पदलीलाकमलं समुद्वहन्त्याः ॥ ३२.२॥ ९७२॥ किमहं मणिपादुके त्वया मे सुलभे रङ्गनिधौ श्रिया सनाथे । करणानि पुनः कदर्थयेयं कृपणद्वारदुरासिकादिदुःखैः ॥ ३२.३॥ ९७३॥ सकृदप्यनुभूय रङ्गभर्तुस्त्वदुपश्लेषमनोहरं पदाब्जम् । अपुनर्भवकौतुकं तदैव प्रशमं गच्छति पादुके मुनीनाम् ॥ ३२.४॥ ९७४॥ अपरस्परपातिनाममीषा- मनिदम्पूर्वनिरूढसन्ततीनाम् । भरतव्यसनादनूनसीम्नां दुरितानां मम निष्कृतिस्त्वमासीः ॥ ३२.५॥ ९७५॥ त्वदुपासनसंप्रदायविद्भिः समये सात्त्वतसेविते नियुक्ताः । भरतव्रतिनो भवाम्बुराशिं कतिचित् काञ्चनपादुके तरन्ति ॥ ३२.६॥ ९७६॥ अलमच्युतपादुके यथाव- त्भवती यच्च पदं त्वदेकधार्यम् । इतरेतरभूषितं तदेत- त्द्वितयं संवननाय चेतसो नः ॥ ३२.७॥ ९७७॥ अनन्यसामान्यतया मुरारे- रङ्गेष्ववाप्तेषु किरीटमुख्यैः । पादावनि त्वं निजमेव भागं सर्वात्मसाधारणतामनैषीः ॥ ३२.८॥ ९७८॥ समाश्रितानां मणिपादुके त्वां विपश्चितां विष्णुपदेऽप्यनास्था । कथं पुनस्ते कृतिनो भजेरन् वासादरं वासवराजधान्याम् ॥ ३२.९॥ ९७९॥ विमृश्य रङ्गेश्वरपादरक्षे वारक्रमं नूनमवारणीयम् । पद्माग्रहेऽपि स्पृशती प्रतीता स्थूलेन रूपेण वसुन्धरा त्वाम् ॥ ३२.१०॥ ९८०॥ अभिरक्षसि त्वमनपायनिधिं मणिपादुके मधुभिदश्चरणम् । अत एव देवि तदनन्यधनाः शिरसा वहन्ति भवतीं कृतिनः ॥ ३२.११॥ ९८१॥ पदयुगमिव पादुके मुरारे- र्भवति विभूतिरकण्टका त्वयैव । कथमिव हृदयानि भावुकानां त्वदनुभवादुपजातकण्टकानि ॥ ३२.१२॥ ९८२॥ ज्ञानक्रियाभजनसीमविदूरवृत्ते- र्वैदेशिकस्य तदवाप्तिकृतां गुणानाम् । मौलौ ममासि मधुसूदनपादुके त्वं गङ्गेव हन्त पतिता विधिनैव पङ्गोः ॥ ३२.१३॥ ९८३॥ रङ्गेश्वरस्य यदियं मणिपादरक्षे पादारविन्दयुगलं भवतीसमेतम् । पुंसामुपोषितविलोचनपारणार्हं क्षीरं तदेतदिह शर्करया समेतम् ॥ ३२.१४॥ ९८४॥ कामादिदोषरहितं त्वदनन्यकामाः कर्म त्रयोदशविधं परिशीलयन्तः । पादावनि त्वदनुषङ्गविशेषदृश्य- मेकान्तिनः परिचरन्ति पदं मुरारेः ॥ ३२.१५॥ ९८५॥ मौलौ स्थिता मखभुजामथवा श्रुतीनां तद्रङ्गराजचरणावनि वैभवं ते । अस्मादृशामपि यदि प्रथितं ततःस्या- त्सौलभ्यमम्ब तदिदं तव सार्वभौमम् ॥ ३२.१६॥ ९८६॥ स्वप्नेऽपि चेत् त्वमसि मूर्धनि सन्निविष्टा नम्रस्य मे नरकमर्दनपादरक्षे । स्थाने तदेतदिह देवि यतः समाधौ सन्तो विदुस्तमपि तादृशबुद्धिगम्यम् ॥ ३२.१७॥ ९८७॥ बद्धाञ्जलिः परिचरन्नियमेव रङ्गे विश्राणिताच्युतनिधिं मणिपादुके त्वाम् । कस्यापि कूणितदृशो धनिनः पुरस्ता- दुत्तानयेय न कदाऽपि करं विकोशम् ॥ ३२.१८॥ ९८८॥ त्वय्यर्पितेन चरणेन सदध्वभाजः पादावनि प्रथितसात्त्विकभावदृश्याः । रङ्गेशवद्विदधते मुहुरङ्गहारान् रङ्गे महीयसि नटा इव भावुकास्ते ॥ ३२.१९॥ ९८९॥ येन स्थिता शिरसि मे विधिनाऽधुना त्वं तेनैव देवि नियतं मम साम्पराये । लक्ष्यीकरिष्यसि पदावनि रङ्गनाथं लक्ष्मीपदाम्बुरुहयावकपङ्कलक्ष्यम् ॥ ३२.२०॥ ९९०॥ हरिचरणसरोजे भक्तिभाजां जनाना- मनुकरणविशेषैरात्मनैवोपहास्यम् । परिणमय दयार्द्रा पादुके तादृशं मां भरतपरिषदन्तर्वर्तिभिः प्रेक्षणीयम् ॥ ३२.२१॥ ९९१॥ दुरितमपनयन्ती दूरतः पादुके त्वं दनुजमथनलीलां देवतामानयन्ती । अनितरशरणानामग्रिमस्यास्य जन्तो- रवशकरणवृत्तेरग्रतः सन्निधेयाः ॥ ३२.२२॥ ९९२॥ चरमनिगमगीते सप्ततन्तौ समाप्ते निजसदनसमीपे प्रापयिष्यन् विहारम् । ज्वलनमिव भवत्योः सम्यगारोपयेन्मां प्रथमवरणवश्यः पादुके रङ्गनाथः ॥ ३२.२३॥ ९९३॥ पुनरुदरनिवासच्छेदनं सह्यसिन्धोः पुलिनमधिवसेयं पुण्यमाब्रह्मलाभात् । परिणमति शरीरे पादुके यत्र पुंसां त्वमसि निगमगीता शाश्वतं मौलिरत्नम् ॥ ३२.२४॥ ९९४॥ बहुविधपुरुषार्थग्रामसीमान्तरेखां हरिचरणसरोजन्यासधन्यामनन्यः । भरतसमयसिद्धां पादुके भावयंस्त्वां शतमिह शरदस्ते श्रावयेयं समृद्धिम् ॥ ३२.२५॥ ९९५॥ तिलकयसि शिरो मे शौरिपादवनि त्वं भजसि मनसि नित्यं भूमिकां भावनाख्याम् । वचसि च विभवैः स्वैर्व्यक्तिमित्थं प्रयाता तदिह परिणतं मे तादृशं भागधेयम् ॥ ३२.२६॥ ९९६॥ अजनिषि चिरमादौ हन्त देहेन्द्रियादि- स्तदनु तदधिकः सन्नीश्वरोऽहं वभूव । अथ भगवत एवाभूवमर्थादिदानीं तव पुनरहमासं पादुके धन्यजन्मा ॥ ३२.२७॥ ९९७॥ त्वय्यायत्तौ भगवति शिलाभस्मनोः प्राणदानां- दास्त्रीबालं प्रथितविभवौ पादपद्मौ मुरारेः । तामेवाहं शिरसिनि हितामद्य पश्यामिं दैवा- दात्माधारां जननि भवतीमात्मलाभप्रसूतिम् ॥ ३२.२८॥ ९९८॥ कथङ्कारं लक्श्मीकरकमलयोग्यं निजपदं निदध्याद्रङ्गेशः कुलिशकठिनेऽस्मिन्मनसि नः । न चेदेवं मध्ये विशति दयया देवि भवती निजाकान्तिक्षुण्णस्मरशरशिखाकण्टकततिः ॥ ३२.२९॥ ९९९॥ क्रीडालौल्यं किमपि समये पादुके वर्जयन्ती निर्वेशं स्वं दिशसि भवतीनाथयोः श्रीधरण्योः । मामप्येवं जनय मधुजित्पादयोरन्तरङ्गं रङ्गं याऽसौ जनयसि गुणैर्भारतीनृत्तरङ्गम् ॥ ३२.३०॥ १०००॥ इति रङ्गधुरीणपादुके त्वं स्तुतिलक्षेण सहस्रशो विमृष्टा । सफलं मम जन्म तावदेत- त्यदिहाशास्यमतःपरं किमेतत् ॥ ३२.३१॥ १००१॥ मातः स्वरूपमिव रङ्गपतेर्निविष्टं वाचामसीमनि पदावनि वैभवं ते । मोहादमिष्टुतवतो मम मन्दबुद्धे- र्बालस्य साहसमिदं दयया सहेथाः ॥ ३२.३२॥ १००२॥ ये नाम भक्तिनियताः कवयो मदन्ये मातः स्तुवन्ति मधुसूदनपादुके त्वाम् । लप्स्ये गुणांशविनिवेशितमानसानां तेषामहं सबहुमानविलोकितानि ॥ ३२.३३॥ १००३॥ सङ्घर्षयन्ति हृदयान्यसतां गुणांशे सन्तस्तु सन्तमपि न प्रथयन्ति दोषम् । तद्रङ्गनाथचरणावनि ते स्तुतीना- मेका परं सहसतोरिह साक्षिणी त्वम् ॥ ३२.३४॥ १००४॥ इत्थं त्वमेव निजकेलिवशादकार्षी- रिक्ष्वाकुनाथपदपङ्कजयोरनन्या । स्वीयं पदावनि मया सुमहच्चरित्रं सीतेव देवि सहजेन कवीश्वरेण ॥ ३२.३५॥ १००५॥ पृथुकवदनशङ्खस्पर्शनीत्या कदाचि- च्छिरसि विनिंहितायाः स्वेन भूम्ना तवैव । स्तुतिरियमुपज्ञाता मन्मुखेनेत्यधीयुः परिचरणपरास्ते पादुकेऽपास्तदोषाः ॥ ३२.३६॥ १००६॥ यदिस्फीता भक्तिः प्रणय(व)मुखवाणीपरिपणं पदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः । निरुन्मादो यद्वा निरबधिसुधानिर्झरमुचो वचोभङ्गीरेता न कथमनुरुन्धे सहृदयः ॥ ३२.३७॥ १००७॥ जयति यतिराजसूक्तिर्जयति मुकुन्दस्य पादुकायुगली । तदुभयधनास्त्रिवेदीमवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥ ३२.३८॥ १००८॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे फलपद्धतिः द्वात्रिंशी ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रं सम्पूर्णम् ॥ Contents 1 Introduction 2 How Paaduka is appropriately referred to as Sataari or Satakopam 3 Greatness of Paaduka 4 Rama had pledged Paaduka to Bharata as surety for return 5 Return of Paaduka to Ayodhya with Bharata 6 Assumption of Power 7 Coronation of the Paaduka 8 Reinstatement at Rama's feet after 9 Poets and Panegyrists sing Paaduka'spraise 10 Love-play between Paaduka Devi and Lord Rama 11 The Lord strolls with the Paadukas on 12 Oblations with flowers 13 Potency of dust from the Paadukas 14 On the melody of Paaduka walking 15 Gems as a totality-Distant view 16 Varieties of gems present together emitting spectra-near view 17 The luster of the ruby 18 On pearls in the Paaduka 19 On the emerald gems 20 On the sapphire beauty 21 Objects reflected in the Paadukas lustrous surface 22 Gold Paadukas 23 Paaduka exhibiting its status of subservience. Also the incarnation of Adisesha 24 The twin-Paaduka and its speciality 25 Shape and beauty of the Paaduka 26 The knob in each Paaduka 27 Of the streaks on the Paaduka 28 The maxims of conduct that the Paaduka implies 29 Miscellaneous aspects 30 Chitra Paddhati which emphasizes asuitable fitting matrix of artistry aspecialty of Oriental poetry 31 Words in disgust, in humility; entreating about one's pitiable plight 32 Rewards for having composed of the work and for recitation of the same Proofread by Pooja P
% Text title            : Ranganatha Padukasahasram
% File name             : pAdukAsahasram.itx
% itxtitle              : raNganAthapAdukAsahasram (vedAntadeshikavirachitaM)
% engtitle              : Ranganatha Padukasahasram
% Category              : raama, vedAnta-deshika
% Location              : doc_raama
% Sublocation           : raama
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pooja P
% Indexextra            : (Scans 1, 2, 3, English, Meaning and notes, Video chanting, Video Lectures set 1, 2, rAgamAlA, yantrams, Tamil)
% Latest update         : February 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org