श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला

श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला

(श्रीकेवलरामाचार्य) रामं सुरेशार्चितपद्मपादं प्रफुल्लनीलाब्जसमानकान्तिम् । एक बहुस्यामिति बुद्धिमन्तं नमामि नित्यं भवसिन्धुपोतम् ॥ १॥ रामानन्दः प्रकृतितनुभृद् ब्रह्ममन्तात्रिदण्डं काषायं यः श्रुतितनुपटं धारयन् ब्रह्मसूत्रे । गीतायां वा उपनिषदिसमे दिव्यमानन्दभाष्यं कुर्वन् भक्तिं जयति भुवने तं स्तुवे संवितन्वन् ॥ २॥ सायुज्यमुक्तिं यदि वाञ्छतिप्रभोस्तापत्रयाम्भोजविधुंसुमानवः । रामस्यभक्ति ध्रुवशान्तिकारिणीं संवित्स्वरूपां सततं करोतु सः ॥ ३॥ समस्तवेदतत्वज्ञं दान्तं वैराग्यभाजनम् । दयासमन्वितं शश्वत्परोपकारशालिनम् ॥ ४॥ श्रीवैष्णवं लब्धसुराममन्त्रं गत्वाविरक्तं मनुजः सुखार्थी । शान्तं गुरुंस्वात्मविशुद्धतायै वर्षत्रयन्तस्य जुषं विदध्यात् ॥ ५॥ सौम्यं समित्करं शिष्यं वीक्ष्य तस्य भवच्छिदे । गोशफप्रमितां दिव्यां शिखां विना बुधो गुरुः ॥ ६॥ कारयित्वा ततः क्षीरं स्त्रपयित्वा विधानतः । शिष्यं सुसत्वसम्पन्नं नव्यवस्त्रोपवीतिकम् ॥ ७॥ श्रुतिमन्त्रैश्चसम्मादत्वा रामपदोदकम् । तत्तस्मै बोधयित्वा सद् धर्मवाक्यं यथाविधि ॥ ८॥ भगवत्सम्मुखे वेदी कृत्वा हुत्वा शुभे तिथौ । श्रीराममन्त्रतः सम्यक् पञ्चामृते धनुः शेरौ ॥ ९॥ स्त्रापयित्वा ततस्तस्य शुद्धेऽग्नौ तापयेज्जले । तप्तधनुः शराभ्याञ्च स्वङ्कयेद्वाहुमूलके ॥ १०॥ सुद्वादशोर्ध्वपुण्ड्रांश्च रक्तश्रीभूषितान् किल । विदध्यात् तिलकान् पश्चात् तुलसीमालीकां शुभाम् ॥ ११॥ दध्यात् षडक्षरं मन्त्रं श्रीरामस्य भवच्छिदम् । तदर्थं तद्विधिश्चापि बोधयेत् तं विधानतः ॥ १२॥ चरमादीन् किलान्याॅंस्तुमन्त्रांस्तस्मै दिशेद्गुरुः । गायत्रीं वितरेत्सार्थं रामस्य सविधिन्तथा ॥ १३॥ भगवन्नामसम्बन्धिनामकुर्यान्मनोहरम् । एतान् पञ्चसुसंस्कारान्निवर्तयेद् गुरुः स्वयम् ॥ १४॥ श्रद्धालुभवेच्छिष्यो भवबन्धनमुक्तये । गुरोराज्ञां सदा शिष्यः शिरोधार्यां सुमानयेत् ॥ १५॥ गुरुश्चापि कदाचित् तं दुःखकर्मणीह हि । न योजयेद्भवेरुर्ध्वरेतास्त्वं शिष्य शंव्रज ॥ १६॥ परार्थः सत्यसन्धश्च प्रेक्षायुक्तोऽप्यभूः सदा । प्रातरुत्थाय शिष्य ! त्वं स्त्रनादिकार्यमाचरेः ॥ १७॥ सन्ध्यां त्रैकालिकीं कुर्या स्ततो भगवतो जुषम् । श्रीभागवतशुश्रूषां न तद् भेददृशं क्वचित् ॥ १८॥ स्वस्मै याञ्चा न कर्तव्या भागवतार्थमेव च । एकाकी न कदापित्वं वसेऽस्तु वैष्णवैः समम् ॥ १९॥ विष्णुश्रीरामभक्ति श्रुतिगणविदितां कामधेनोः समानां शश्वत्सायुज्यमुक्तेः खलु सुवितरिणीन्धातृशर्वादिकाम्याम् । प्रल्हादेष्टाशुकर्त्रीं सुरनिकरनुतां शेमुषी सस्वरूपां कुर्यान्नित्यं मनुष्योगतजनिकुशलीनो कदाचिद्विमुञ्चेत् ॥ २०॥ वैष्णवानामपमानं कस्मिन्नंशेनकारयेत् । अपिसत्कारमेवाशुविपरीतोऽशिवंव्रजेत् ॥ २१॥ विरक्तो वैष्णवो भूत्वाविवाहं नहि कारयेत् । रेतः पातो न कर्तव्यस्तं कृत्वापतितोभवेत् ॥ २२॥ भूत्वामहान्तोयदियोविरक्तोमौर्थ्यात्स्वकङ्कामयतेविवाहम् । धर्मच्युतेस्तस्य वहिष्कृतिंसङ्कुर्युर्विरक्ताः स्तुतवैष्णवावै ॥ २३॥ समाजदूषकः साधुर्यः कश्चित्स्यत्सुधीरपि । स त्याज्यः सुविरक्तैश्च श्रीवैष्णवः सनातनैः ॥ २४॥ सङ्गतिर्यत्नतः कार्य्या परस्परं सुवैष्णवैः । स्थानम्प्राप्यस्वधर्मो न हेयोबुद्धिविशारदैः ॥ २५॥ भगवद्वैष्णवेभ्यश्च यश्छद्मकारकोजनः । अधः पतनमायाति सहस्त्रं जन्मनिश्चयम् ॥ २६॥ निखिलभुवनजन्मस्थैर्यसंहारकर्तुः भजनमननलब्धेर्वेदबुद्धेश्च विष्णोः । जनकुमुदसुधांशोर्ब्रह्मरामस्यमन्त्रः भवजलधिसुसेतोर्जीवमात्राय देयः ॥ २७॥ सच्चारित्रदयाशमादिनिलयः श्रीरामभक्तिप्रियः दम्भासत्यविवर्जितोमितवचाः कामादिशत्रुत्यजः । सौम्योविश्वजनीन आर्षमतगोवक्ता च सद्वर्त्मनः कृत्याकृत्यमतिः पुनातिभुवनं वा ईदृशोवैष्णवः ॥ २८॥ श्रीरामार्पितमन्नं यद्देवदुर्लभमस्तितत् । भुञ्जते भाग्यवन्तः श्रीतुलसीदलमिश्रितम् ॥ २९॥ श्रीरामकृष्णमूर्तिः सच्छालग्रामाकृतिस्तथा । पूज्याध्येयासदाभक्त्या श्रीवैष्णवैर्जगद्धितैः ॥ ३०॥ प्रतिष्ठा भगवन्मूर्तेः कार्या श्रीवैष्णवैर्बुधैः । तदन्यैः स्थापिता सा चेत्संस्कार्य्या वैष्णवैः पुनः ॥ ३१॥ अन्यथासाऽनमस्कार्य्यातथोपास्तिविवर्जिता । सा च भवति निस्तेजा भानूदये प्रदीपवत् ॥ ३२॥ सार्धहस्तत्रयं वस्त्रं सकौपीनं श्रुतीरितम् । तदेवधार्य्यमस्ति श्रीवैष्णवानां शुभावहम् ॥ ३३॥ धौतं कच्छयुतं नोहि धार्य्यं विरक्तवैष्णवैः । नोतर्हि विमलेधर्मे दोषोलगतिनैजके ॥ ३४॥ स्ववेषोलोभतो भीतेर्नहेयोवैष्णवैः समैः । मूर्खोभवति सत्याज्यस्तथासतिस्वधर्महा ॥ ३५॥ एकादशीव्रतङ्कार्यं श्रीरामनवमीव्रतम् । कृष्णाष्टमीव्रतं दिव्यं निजात्मशुद्धयैसदा ॥ ३६॥ अन्यमतं न निन्देद्धिस्वमतं मानयञ् छुभम् । प्राणिभिः सहबैरं नो प्रकुर्याद्वैष्णवोबुधः ॥ ३७॥ प्राप्ता अतिथयः सर्वे सत्कार्यायत्नतः सदा । यथाशक्तिनिजस्थानेवैष्णवास्तुविशेषतः ॥ ३८॥ उत्सवोनिखिलः कार्योभगवतश्चवार्षिकः । नव्यान्नं सुफलं नव्यं तन्नैवेद्यार्थमानयेत् ॥ ३९॥ यथासम्पत्तिसानन्दं कार्य्यातन्न्यूनतानहि । अनर्पितं न भोक्तव्यं किञ्चिद्वस्तुक्वचित्प्रभोः ॥ ४०॥ अन्यथापतितोभूत्वाऽधोगतिं लभते ध्रुवम् । महान्तपदविङ्गत्वा यः श्रीभगवतोधनम् ॥ ४१॥ स्वस्मै कुटुम्बिने राति दुरव्ययं करोति च । स चाण्डालत्वमाप्नोति जन्मकोटिशतं किल ॥ ४२॥ धर्मार्थमिलितं द्रव्यं योऽधर्मेव्ययते शठः । वैष्णवार्थञ्चसम्प्राप्तं वस्तुतेभ्योनरातिचेत् ॥ ४३॥ स गर्दभत्वमायाति सहस्त्रं जन्मनिश्चयम् । वैष्णवार्थं किलस्वल्पं तथा भगवतेऽपि च ॥ ४४॥ वस्तु ददातिनैजार्थम्महन्महच्चमन्दधीः । गृहीत्वा रमतेनित्यं शूकरत्वं स गच्छति ॥ ४५॥ रामभक्तेरसं सर्वकल्याणदं सभ्यसामाजसन्मानदं सुन्दरम् । सम्पिवेद्वैष्णवोऽसभ्यतासूचकं धूमपानं विदध्यान्नदुःखावहम् ॥ ४६॥ भव्यां सम्पत्तिमीशस्य धर्मार्थमिलितां हरेः । तत्सेवायान्तथा च श्रीवैष्णवसत्कृतौ व्ययेत् ॥ ४७॥ त्रिपुण्ड्रं भस्मनोदध्याच्छ्रीवैष्णवः कदापि वै । पञ्चकेशजटा श्रीमद्भद्ररूपातिशोभितः ॥ ४८॥ रामानन्दसुमानिते श्रुतिनुते श्रीसम्प्रदाये शुभे काषायोऽस्ति पटः सितोऽपि विहितोभव्यः शिखासंयुतः । श्रीलश्रीतिलकेन भूषिततमो यज्ञोपवीतस्तुतः संन्यासोऽस्ति वरस्त्रिदण्डसहितोमान्यश्चतुर्थाश्रमः ॥ ४९॥ देवभाषा सतीपाठ्या विरक्तैः वैष्णवैः समैः । तां विना निजधर्मोऽपि शशश‍ृङ्गायते ध्रुवम् ॥ ५०॥ सद् व्याख्यानैः सदाचारैः स्वधर्माचरणैस्तथा । आत्मनश्च जनताया हितं कुर्याद्धिवैष्णवः ॥ ५१॥ एकमेवाद्वितीयं न भोः सिद्ध्यते वाक्यतोऽद्वैतवादश्च तन्नेति वै । एकशब्दोऽस्ति नामादिभिर्घातको ह्यद्वितीयं पराधारहीनं पदम् ॥ ५२॥ रामः कुजा वायुसुतो विधिः सुधीः श्रीमान् वशिष्ठः सुपराशरोनुतः । व्यासः शुकः संसृतिजीवमोक्षदस्त्वित्यादिकाऽऽचार्यपरम्पराऽस्ति मे ॥ ५३॥ अस्मन्मतं वरीवर्ति विशिष्टाद्वैतमीरितम् । ब्रह्मसूत्रेषु गीतायां सर्वोपनिषदि ध्रुवम् ॥ ५४॥ उपास्यो वर्तते रामो हेयगुणप्रहीणकः । राम एव परम्ब्रह्मेति मन्ये कथितः प्रभुः ॥ ५५॥ दाक्षिण्यादिगुणैर्युक्तः सर्वज्ञो व्यापको हरिः । सत्यसाकेतधामस्थो नित्यमूर्तिसमाश्रितः ॥ ५६॥ अन्तर्यामी प्रभू रामो धर्माधर्मप्रशासकः । धर्मोऽधर्मोजडत्वात्स्वं फलं दातुं न शक्नुयात् ॥ ५७॥ धर्मादिफललब्धारो दृश्यन्ते बहवो जनाः । अतस्तत्प्रेरको रामो मन्तव्योऽस्ति विचक्षणैः ॥ ५८॥ जीवोऽल्पज्ञोऽविभुर्नित्यो ज्ञानं तस्य विभु स्मृतम् । अनेकं वस्तु गृह्णाति युगपद्धि यतः स्वयम् ॥ ५९॥ केशाग्रशतभागोऽस्ति स चानन्त्यं व्रजेद् ध्रुवम् । ब्रह्मसमानमुक्तिः स जगद्-व्यापारवर्जितः ॥ ६०॥ भव्या सायुज्यमुक्तिस्तु तस्य वेदे समीरिता । घटना-रहितमायेत्युच्यते बुद्धिमत्तमैः ॥ ६१॥ सत्त्वादिनिलयोऽज्ञा सा मान्याऽजा प्रकृतिर्बुधैः । परार्थो विश्वयोन्यंशोऽनेकवर्णा च विद्यते ॥ ६२॥ तद्विशिष्टस्तमोहन्ता रामो ब्रह्माभिधः स्मृतः । दयालुः प्रलये भाति सच्चिदानन्दमूर्तिकः ॥ ६३॥ मायाजीवौ हरेर्देहौ परवन्तौ सदा हि तौ । हरिर्नित्योऽस्य देहोऽपि नातो दोषलवो भवेत् ॥ ६४॥ जीवोऽणुर्यदि मन्यते सहचरं कर्मापि तस्यास्ति भोः साकेतं गतवाञ्जनः सुखमितः शीघ्रं सुखाप्तिर्भवेत् । निर्हेतुर्नहि कारणं किलविना स स्यादिदं दूषणं सङ्कल्पस्तददृष्टकं भगवतो रामो विभुर्विद्यते ॥ ६५॥ तद्ब्रह्मापि प्रभुरामपृथक् सिद्धिसम्बन्धतोयत् सूर्याब्जेन्द्रप्रभृतिविवुधाशासकं भक्तिलभ्यम् । तत्तत्कार्येयुतजनिमतां दर्शनाच्चानुमेयं स्वस्मात् सृष्टौहिं मनुजकृतौदोष आत्माश्रयादिः ॥ ६६॥ कर्मानधीनतनको निजवाञ्छया यः पातुं कलेवरगणं धरते प्रपन्नान् । रामो ह्यजो निखिलशक्तिगृहं सुजीवा- ंज्ञेयो दयार्द्रहृदयो विजरो विमृत्युः ॥ ६७॥ स्थूलप्रकृतिजोऽतो न मम मतेऽस्ति परिणामवादः । सद्वारकोब्रह्मणि हि विकारसंज्ञो दोषः श्रीरामे ॥ ६८॥ यथोर्णनाभिः स्वाऽऽस्यात् तन्तून् निःसार्वगृहं विरचय्य च । निवसति न तत्स्वरूपेऽपि विकारस्तथेनस्य मम नहि ॥ ६९॥ सत्ख्यातिरस्ति मन्तव्या वैष्णवसमये शुभे । पञ्चीकरणरीत्या हि सर्वं सर्वत्र वर्तते ॥ ७०॥ सर्वः किल पदार्थश्च प्रतीत्यभ्युपगम्यकः । सत्ख्यातिः सुदृढा जातेत्येतेन ज्ञायतां बुधाः ॥ ७१॥ नास्ति प्रतीतिविषयः खलु यः पदार्थ स्तत्कल्पना खसुमनः सदृशी सुवेद्या । यद् यत् पदं जगति वाञ्छति वै मनुष्यो नाप्नोति तर्हि जगदीशपवित्रसत्ता ॥ ७२॥ यदि सा मन्यते तर्हि क्षितौ वह्नेर्गुणः स्वयम् । प्रतीयेतोच्यते ह्यत्र निश्चितं मतमुत्तमम् ॥ ७३॥ उर्व्यामग्नेर्न भानं स्यादुर्व्या अधिकभागतः । यदाधिक्यं तु तद्भानं काऽत्र युक्तिर्निशम्यताम् ॥ ७४॥ वैशेष्यात् त्विति मानेन सन्तोषः क्रियतामये । तत्त्वमस्यादिवाक्यैस्तु केवलाद्वैतधीनहि ॥ ७५॥ शरीरशरीरिभावो निश्चेतुं शक्यस्तत्त्वमसि पदे । षष्ठ्यादेः प्रथमातो व्यत्ययो बहुलमिति सूत्रतस्तदिह ॥ ७६॥ यस्याऽऽत्मा शरीरं च श्रुतितोऽस्ति शरीरशरीरिभावोऽपि । निर्गुणमिति वाक्यार्थेऽयं हेयगुणप्रहीणं ? ॥ ७७॥ दयादाक्षिण्यकाद्यब्धिरिति ज्ञेयो भवादृशैः । श्रीरामो ब्रह्मशब्देन सर्वोपनिषदीरितः ॥ ७८॥ शब्दशास्त्रदिशा वादिन् निराकारत्वमन्ननो । ब्रह्मणि सिध्यते किन्तु साकारत्वं स्थिरं भवेत् ॥ ७९॥ आकारञ्च विना पूर्वं समासो जायते कथम् । व्याकरणस्य नो लेशो वर्तते त्वयि निश्चितम् ॥ ८०॥ तत्सिद्ध्यर्थञ्च पूर्वं त्वं शब्यशास्त्रं गुरोः पठ । नो चेद् भवद्वचः सौम्य ह्याकाशकुसुमायते ॥ ८१॥ स्वाकारे भेदवादे च ह्यवतारे हरेः प्रभोः । श्रुतिरस्ति यतो मर्त्यो न सन्देग्धि क्वचित् किल ॥ ८२॥ स पर्यगाच्छुक्रमकायमव्रणं शुभं शरीरं पृथिवीति यस्य यत् । तमेव भृत्वा निदधे पदं त्विदं विचक्रमेविष्णुरिति प्रसिद्धकम् ॥ ८३॥ जिज्ञास्यजिज्ञासकभावना भवेद् भेदे हि नाभेद इति प्रसिद्धकम् । यद् ``द्वा सुपर्णा'' श्रुतिरस्ति वै भिदी वा वक्ति शं ``तत् त्वम'' सीति भेदकम् ॥ ८४॥ वराकी सम्मता माया शक्नोति भवतां नहि । कार्यं किमपि कर्तुं साऽज्ञत्वाज्जडत्वहेतुतः ॥ ८५॥ किन्तु समं जगत् स्वयं चिदचिदात्मकं ब्रह्म कुरुतेऽङ्ग । जगत् प्रति तदेवास्ति ह्मभिन्ननिमित्तोपादानकारणम् ॥ ८६॥ निराकारमिति श्रुत्यर्थोऽयं ब्रह्म नु वर्तते । कर्मानायत्तन्मूर्ति प्रतिभा शक्तितंसितम् ॥ ८७॥ घटाभावे कथं तस्याभावं शक्ताः प्रवल्गितुम् । भवादृशा भविष्यन्ति युक्तिः काऽत्र विचार्यताम् ॥ ८८॥ तथैव प्रकृते ज्ञेयमतस्तत् साकृतीष्यताम् । साऽऽकारं नाशमाप्नोति वस्तु घटादिवत् सदा ॥ ८९॥ तथैव तदपि स्याद् भो दोषोऽयं वार्यतां त्वया । श्रृणुताङ्गः न तद् ब्रह्माऽनित्याकारघटादिवत् ॥ ९०॥ किन्तु नित्याऽऽकृति ब्रह्माकर्तृकं वर्तते कुतः । नाशार्हं स्यादनवस्था तस्मिन् सकर्तृकेऽप्रिया ॥ ९१॥ प्रकृतेः शरीरवतां प्रभोर्जगदीश्वरस्य च कीदृशः वदताऽयि नैकनिवादिनः ! खलु वर्तते भवतां मते । शुभदेहदेहिकशेषशेषिकभावकः श्रृणु मायिक ! इति भो नियम्यनियामकत्वमयं पटो मम बुध्यताम् ॥ ९२॥ आजानुबाहुर्निगमादिगीतः सत्यव्रतः सद्द्विभुजः स्वतन्त्रः । सद्धीरयोध्यापतिशार्ङ्गपाणिर्नित्याऽऽकृतिः सत्यदयादिगेहम् ॥ ९३॥ श्रुतिमार्गाब्जसप्ताश्वः श्रीरामो भक्तवत्सलः । जानरायपदेनापि स एव प्रथितो भुवि ॥ ९४॥ साकारं ज्ञायते वस्तु भूमिजलादिवत् सदा । शशश‍ृङ्गादिवज्जातु निराकारं न बुध्यते ॥ ९५॥ ज्ञातृज्ञेयादि भेदे हि भोगमात्रादि साम्यकम् । व्यासोक्तिः कथयन्यती स्यात् सार्थिका नान्यथा किल ॥ ९६॥ अनिर्वाच्याख्यातिश्च सदसद्विलक्षणार्थिकाऽस्तीति ते । कथं न खपुष्पसदृशं कथं शशश‍ृङ्गवत् तद्विलक्षणम् ॥ ९७॥ वस्त्वेवाप्रसिद्धं नु जगति शुक्त्यादौ रजतादि सत्यम् । अस्तीति विज्ञायेत पञ्चीकरणप्रक्रियया समकैः ॥ ९८॥ सा तु भवताऽपि सततं मन्यते तयाऽस्ति सर्वं सर्वत्र । समस्मिन् सर्वलाभः स्यादिति न वाच्यं तत् तद्विशेषात् ॥ ९९॥ क्षितिशुक्तौ शुक्तयंशोऽधिकोऽस्तीति स उपलभ्यते सर्वैः । तेजोभागाल्पत्वान्न तदुपलभ्यते मद्विजयः ॥ १००॥ तद्विलक्षणोत्पत्ती रजतस्य जायते नहि सतोजनेः । निषेधनादतश्च सत्ख्यातेः सिद्धिरनिर्वाच्यं कस्मात् ॥ १०१॥ धृतोर्ध्वपुण्ड्र इत्येषा श्रीधन्वनाऽङ्कितः श्रुतिः । ज्ञायतां च हि सद् बीजमूर्ध्वपुण्ड्र धनुर्विधौ ॥ १०२॥ दासः पदं श्रुतावस्ति नातो घृणा विधीयताम् । श्रुत्यनभिज्ञ ! पश्य त्वम्-अरं दासो न मीढुषे ॥ १०३॥ तुलसीमालाधृतिश्चनाप्रामाणिकीविगण्यताम् । श्रुतिरस्तितत्रत्वमितिमालान्तुलसीजां पश्य ॥ १०४॥ आम्नायापौरुषेयत्वमस्ति सर्वयुगेष्वपि । तन्नित्यत्वमिदं किञ्च सर्ववेदान्तसम्मतम् ॥ १०५॥ आनुपूर्व्या अभङ्गस्तु वेदमन्त्रव्रजस्य हि । कस्मिन् युगेऽपि नेशश्च तदानुपूर्विकां द्यति ॥ १०६॥ पुरासृष्टेरीशोजनयतिविधिं शान्तिनिलयो जगत्सृष्टिं कर्तुं ह्युपदिशति तस्मै श्रुतिचयम् । यथापूर्वं सर्वान् सृजति स तु लोकान् सितमतिः त्रयीणां नित्यत्वं द्रढयति शमेतेन विमलः ॥ १०७॥ भो वादिन् ! प्रतिमापूजनान्न फलं किञ्चिद्भवतीति नहि यतः सर्वस्मिन्स्तदभावस्य वक्तुमशक्यत्वात् प्रतिमाऽर्चनकविधेः । काले श्रुत्युपचये वर्तनाच्च ततोमुक्तेः प्रतिपादनककृतेः सत्त्वाच्छास्त्रचये चन्द्रमामनसोजातस्त्वितितत् सफलत्वगात् ॥ १०८॥ न तस्य प्रतिमाऽस्तीति तन्निषेधादुपासितुं कल्प्यते । फलवार्ताऽसत्या तद्-यस्यनाममहद्यशः सदृशार्थकम् ॥ १०९॥ रामानुजमताद्भिन्नं श्रीरामानन्दसन्मतम् । मन्त्रोपास्येष्टदेवस्य भेदादेवेति निश्चितम् ॥ ११०॥ रामानन्दमहासुहृत्सुरसुरानन्दस्य सद्वंशजः रक्तश्रीतिलकाभिरामशिरसः सत्क्षान्तिपाथोनिधेः । मायावादिगजेन्द्रकुम्भदलने सिंहायमानस्य च शिष्योऽहं नरसिंहनामकगुरोः श्रीझीथडावासकः ॥ १११॥ इति श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला सम्पूर्णा । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Kubacharyapranita Prabodharatnamala
% File name             : prabodharatnamAlAkubAchArya.itx
% itxtitle              : prabodharatnamAlA (kubAchAryapraNItA)
% engtitle              : prabodharatnamAlA
% Category              : raama, rAmAnanda, shataka
% Location              : doc_raama
% Sublocation           : raama
% Author                : kubAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org