श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला
(श्रीकेवलरामाचार्य)
रामं सुरेशार्चितपद्मपादं प्रफुल्लनीलाब्जसमानकान्तिम् ।
एक बहुस्यामिति बुद्धिमन्तं नमामि नित्यं भवसिन्धुपोतम् ॥ १॥
रामानन्दः प्रकृतितनुभृद् ब्रह्ममन्तात्रिदण्डं
काषायं यः श्रुतितनुपटं धारयन् ब्रह्मसूत्रे ।
गीतायां वा उपनिषदिसमे दिव्यमानन्दभाष्यं
कुर्वन् भक्तिं जयति भुवने तं स्तुवे संवितन्वन् ॥ २॥
सायुज्यमुक्तिं यदि वाञ्छतिप्रभोस्तापत्रयाम्भोजविधुंसुमानवः ।
रामस्यभक्ति ध्रुवशान्तिकारिणीं संवित्स्वरूपां सततं करोतु सः ॥ ३॥
समस्तवेदतत्वज्ञं दान्तं वैराग्यभाजनम् ।
दयासमन्वितं शश्वत्परोपकारशालिनम् ॥ ४॥
श्रीवैष्णवं लब्धसुराममन्त्रं गत्वाविरक्तं मनुजः सुखार्थी ।
शान्तं गुरुंस्वात्मविशुद्धतायै वर्षत्रयन्तस्य जुषं विदध्यात् ॥ ५॥
सौम्यं समित्करं शिष्यं वीक्ष्य तस्य भवच्छिदे ।
गोशफप्रमितां दिव्यां शिखां विना बुधो गुरुः ॥ ६॥
कारयित्वा ततः क्षीरं स्त्रपयित्वा विधानतः ।
शिष्यं सुसत्वसम्पन्नं नव्यवस्त्रोपवीतिकम् ॥ ७॥
श्रुतिमन्त्रैश्चसम्मादत्वा रामपदोदकम् ।
तत्तस्मै बोधयित्वा सद् धर्मवाक्यं यथाविधि ॥ ८॥
भगवत्सम्मुखे वेदी कृत्वा हुत्वा शुभे तिथौ ।
श्रीराममन्त्रतः सम्यक् पञ्चामृते धनुः शेरौ ॥ ९॥
स्त्रापयित्वा ततस्तस्य शुद्धेऽग्नौ तापयेज्जले ।
तप्तधनुः शराभ्याञ्च स्वङ्कयेद्वाहुमूलके ॥ १०॥
सुद्वादशोर्ध्वपुण्ड्रांश्च रक्तश्रीभूषितान् किल ।
विदध्यात् तिलकान् पश्चात् तुलसीमालीकां शुभाम् ॥ ११॥
दध्यात् षडक्षरं मन्त्रं श्रीरामस्य भवच्छिदम् ।
तदर्थं तद्विधिश्चापि बोधयेत् तं विधानतः ॥ १२॥
चरमादीन् किलान्याॅंस्तुमन्त्रांस्तस्मै दिशेद्गुरुः ।
गायत्रीं वितरेत्सार्थं रामस्य सविधिन्तथा ॥ १३॥
भगवन्नामसम्बन्धिनामकुर्यान्मनोहरम् ।
एतान् पञ्चसुसंस्कारान्निवर्तयेद् गुरुः स्वयम् ॥ १४॥
श्रद्धालुभवेच्छिष्यो भवबन्धनमुक्तये ।
गुरोराज्ञां सदा शिष्यः शिरोधार्यां सुमानयेत् ॥ १५॥
गुरुश्चापि कदाचित् तं दुःखकर्मणीह हि ।
न योजयेद्भवेरुर्ध्वरेतास्त्वं शिष्य शंव्रज ॥ १६॥
परार्थः सत्यसन्धश्च प्रेक्षायुक्तोऽप्यभूः सदा ।
प्रातरुत्थाय शिष्य ! त्वं स्त्रनादिकार्यमाचरेः ॥ १७॥
सन्ध्यां त्रैकालिकीं कुर्या स्ततो भगवतो जुषम् ।
श्रीभागवतशुश्रूषां न तद् भेददृशं क्वचित् ॥ १८॥
स्वस्मै याञ्चा न कर्तव्या भागवतार्थमेव च ।
एकाकी न कदापित्वं वसेऽस्तु वैष्णवैः समम् ॥ १९॥
विष्णुश्रीरामभक्ति श्रुतिगणविदितां कामधेनोः समानां
शश्वत्सायुज्यमुक्तेः खलु सुवितरिणीन्धातृशर्वादिकाम्याम् ।
प्रल्हादेष्टाशुकर्त्रीं सुरनिकरनुतां शेमुषी सस्वरूपां
कुर्यान्नित्यं मनुष्योगतजनिकुशलीनो कदाचिद्विमुञ्चेत् ॥ २०॥
वैष्णवानामपमानं कस्मिन्नंशेनकारयेत् ।
अपिसत्कारमेवाशुविपरीतोऽशिवंव्रजेत् ॥ २१॥
विरक्तो वैष्णवो भूत्वाविवाहं नहि कारयेत् ।
रेतः पातो न कर्तव्यस्तं कृत्वापतितोभवेत् ॥ २२॥
भूत्वामहान्तोयदियोविरक्तोमौर्थ्यात्स्वकङ्कामयतेविवाहम् ।
धर्मच्युतेस्तस्य वहिष्कृतिंसङ्कुर्युर्विरक्ताः स्तुतवैष्णवावै ॥ २३॥
समाजदूषकः साधुर्यः कश्चित्स्यत्सुधीरपि ।
स त्याज्यः सुविरक्तैश्च श्रीवैष्णवः सनातनैः ॥ २४॥
सङ्गतिर्यत्नतः कार्य्या परस्परं सुवैष्णवैः ।
स्थानम्प्राप्यस्वधर्मो न हेयोबुद्धिविशारदैः ॥ २५॥
भगवद्वैष्णवेभ्यश्च यश्छद्मकारकोजनः ।
अधः पतनमायाति सहस्त्रं जन्मनिश्चयम् ॥ २६॥
निखिलभुवनजन्मस्थैर्यसंहारकर्तुः
भजनमननलब्धेर्वेदबुद्धेश्च विष्णोः ।
जनकुमुदसुधांशोर्ब्रह्मरामस्यमन्त्रः
भवजलधिसुसेतोर्जीवमात्राय देयः ॥ २७॥
सच्चारित्रदयाशमादिनिलयः श्रीरामभक्तिप्रियः
दम्भासत्यविवर्जितोमितवचाः कामादिशत्रुत्यजः ।
सौम्योविश्वजनीन आर्षमतगोवक्ता च सद्वर्त्मनः
कृत्याकृत्यमतिः पुनातिभुवनं वा ईदृशोवैष्णवः ॥ २८॥
श्रीरामार्पितमन्नं यद्देवदुर्लभमस्तितत् ।
भुञ्जते भाग्यवन्तः श्रीतुलसीदलमिश्रितम् ॥ २९॥
श्रीरामकृष्णमूर्तिः सच्छालग्रामाकृतिस्तथा ।
पूज्याध्येयासदाभक्त्या श्रीवैष्णवैर्जगद्धितैः ॥ ३०॥
प्रतिष्ठा भगवन्मूर्तेः कार्या श्रीवैष्णवैर्बुधैः ।
तदन्यैः स्थापिता सा चेत्संस्कार्य्या वैष्णवैः पुनः ॥ ३१॥
अन्यथासाऽनमस्कार्य्यातथोपास्तिविवर्जिता ।
सा च भवति निस्तेजा भानूदये प्रदीपवत् ॥ ३२॥
सार्धहस्तत्रयं वस्त्रं सकौपीनं श्रुतीरितम् ।
तदेवधार्य्यमस्ति श्रीवैष्णवानां शुभावहम् ॥ ३३॥
धौतं कच्छयुतं नोहि धार्य्यं विरक्तवैष्णवैः ।
नोतर्हि विमलेधर्मे दोषोलगतिनैजके ॥ ३४॥
स्ववेषोलोभतो भीतेर्नहेयोवैष्णवैः समैः ।
मूर्खोभवति सत्याज्यस्तथासतिस्वधर्महा ॥ ३५॥
एकादशीव्रतङ्कार्यं श्रीरामनवमीव्रतम् ।
कृष्णाष्टमीव्रतं दिव्यं निजात्मशुद्धयैसदा ॥ ३६॥
अन्यमतं न निन्देद्धिस्वमतं मानयञ् छुभम् ।
प्राणिभिः सहबैरं नो प्रकुर्याद्वैष्णवोबुधः ॥ ३७॥
प्राप्ता अतिथयः सर्वे सत्कार्यायत्नतः सदा ।
यथाशक्तिनिजस्थानेवैष्णवास्तुविशेषतः ॥ ३८॥
उत्सवोनिखिलः कार्योभगवतश्चवार्षिकः ।
नव्यान्नं सुफलं नव्यं तन्नैवेद्यार्थमानयेत् ॥ ३९॥
यथासम्पत्तिसानन्दं कार्य्यातन्न्यूनतानहि ।
अनर्पितं न भोक्तव्यं किञ्चिद्वस्तुक्वचित्प्रभोः ॥ ४०॥
अन्यथापतितोभूत्वाऽधोगतिं लभते ध्रुवम् ।
महान्तपदविङ्गत्वा यः श्रीभगवतोधनम् ॥ ४१॥
स्वस्मै कुटुम्बिने राति दुरव्ययं करोति च ।
स चाण्डालत्वमाप्नोति जन्मकोटिशतं किल ॥ ४२॥
धर्मार्थमिलितं द्रव्यं योऽधर्मेव्ययते शठः ।
वैष्णवार्थञ्चसम्प्राप्तं वस्तुतेभ्योनरातिचेत् ॥ ४३॥
स गर्दभत्वमायाति सहस्त्रं जन्मनिश्चयम् ।
वैष्णवार्थं किलस्वल्पं तथा भगवतेऽपि च ॥ ४४॥
वस्तु ददातिनैजार्थम्महन्महच्चमन्दधीः ।
गृहीत्वा रमतेनित्यं शूकरत्वं स गच्छति ॥ ४५॥
रामभक्तेरसं सर्वकल्याणदं सभ्यसामाजसन्मानदं सुन्दरम् ।
सम्पिवेद्वैष्णवोऽसभ्यतासूचकं धूमपानं विदध्यान्नदुःखावहम् ॥ ४६॥
भव्यां सम्पत्तिमीशस्य धर्मार्थमिलितां हरेः ।
तत्सेवायान्तथा च श्रीवैष्णवसत्कृतौ व्ययेत् ॥ ४७॥
त्रिपुण्ड्रं भस्मनोदध्याच्छ्रीवैष्णवः कदापि वै ।
पञ्चकेशजटा श्रीमद्भद्ररूपातिशोभितः ॥ ४८॥
रामानन्दसुमानिते श्रुतिनुते श्रीसम्प्रदाये शुभे
काषायोऽस्ति पटः सितोऽपि विहितोभव्यः शिखासंयुतः ।
श्रीलश्रीतिलकेन भूषिततमो यज्ञोपवीतस्तुतः
संन्यासोऽस्ति वरस्त्रिदण्डसहितोमान्यश्चतुर्थाश्रमः ॥ ४९॥
देवभाषा सतीपाठ्या विरक्तैः वैष्णवैः समैः ।
तां विना निजधर्मोऽपि शशशृङ्गायते ध्रुवम् ॥ ५०॥
सद् व्याख्यानैः सदाचारैः स्वधर्माचरणैस्तथा ।
आत्मनश्च जनताया हितं कुर्याद्धिवैष्णवः ॥ ५१॥
एकमेवाद्वितीयं न भोः सिद्ध्यते वाक्यतोऽद्वैतवादश्च तन्नेति वै ।
एकशब्दोऽस्ति नामादिभिर्घातको ह्यद्वितीयं पराधारहीनं पदम् ॥ ५२॥
रामः कुजा वायुसुतो विधिः सुधीः श्रीमान् वशिष्ठः सुपराशरोनुतः ।
व्यासः शुकः संसृतिजीवमोक्षदस्त्वित्यादिकाऽऽचार्यपरम्पराऽस्ति मे ॥ ५३॥
अस्मन्मतं वरीवर्ति विशिष्टाद्वैतमीरितम् ।
ब्रह्मसूत्रेषु गीतायां सर्वोपनिषदि ध्रुवम् ॥ ५४॥
उपास्यो वर्तते रामो हेयगुणप्रहीणकः ।
राम एव परम्ब्रह्मेति मन्ये कथितः प्रभुः ॥ ५५॥
दाक्षिण्यादिगुणैर्युक्तः सर्वज्ञो व्यापको हरिः ।
सत्यसाकेतधामस्थो नित्यमूर्तिसमाश्रितः ॥ ५६॥
अन्तर्यामी प्रभू रामो धर्माधर्मप्रशासकः ।
धर्मोऽधर्मोजडत्वात्स्वं फलं दातुं न शक्नुयात् ॥ ५७॥
धर्मादिफललब्धारो दृश्यन्ते बहवो जनाः ।
अतस्तत्प्रेरको रामो मन्तव्योऽस्ति विचक्षणैः ॥ ५८॥
जीवोऽल्पज्ञोऽविभुर्नित्यो ज्ञानं तस्य विभु स्मृतम् ।
अनेकं वस्तु गृह्णाति युगपद्धि यतः स्वयम् ॥ ५९॥
केशाग्रशतभागोऽस्ति स चानन्त्यं व्रजेद् ध्रुवम् ।
ब्रह्मसमानमुक्तिः स जगद्-व्यापारवर्जितः ॥ ६०॥
भव्या सायुज्यमुक्तिस्तु तस्य वेदे समीरिता ।
घटना-रहितमायेत्युच्यते बुद्धिमत्तमैः ॥ ६१॥
सत्त्वादिनिलयोऽज्ञा सा मान्याऽजा प्रकृतिर्बुधैः ।
परार्थो विश्वयोन्यंशोऽनेकवर्णा च विद्यते ॥ ६२॥
तद्विशिष्टस्तमोहन्ता रामो ब्रह्माभिधः स्मृतः ।
दयालुः प्रलये भाति सच्चिदानन्दमूर्तिकः ॥ ६३॥
मायाजीवौ हरेर्देहौ परवन्तौ सदा हि तौ ।
हरिर्नित्योऽस्य देहोऽपि नातो दोषलवो भवेत् ॥ ६४॥
जीवोऽणुर्यदि मन्यते सहचरं कर्मापि तस्यास्ति भोः
साकेतं गतवाञ्जनः सुखमितः शीघ्रं सुखाप्तिर्भवेत् ।
निर्हेतुर्नहि कारणं किलविना स स्यादिदं दूषणं
सङ्कल्पस्तददृष्टकं भगवतो रामो विभुर्विद्यते ॥ ६५॥
तद्ब्रह्मापि प्रभुरामपृथक् सिद्धिसम्बन्धतोयत्
सूर्याब्जेन्द्रप्रभृतिविवुधाशासकं भक्तिलभ्यम् ।
तत्तत्कार्येयुतजनिमतां दर्शनाच्चानुमेयं
स्वस्मात् सृष्टौहिं मनुजकृतौदोष आत्माश्रयादिः ॥ ६६॥
कर्मानधीनतनको निजवाञ्छया यः
पातुं कलेवरगणं धरते प्रपन्नान् ।
रामो ह्यजो निखिलशक्तिगृहं सुजीवा-
ंज्ञेयो दयार्द्रहृदयो विजरो विमृत्युः ॥ ६७॥
स्थूलप्रकृतिजोऽतो न मम मतेऽस्ति परिणामवादः ।
सद्वारकोब्रह्मणि हि विकारसंज्ञो दोषः श्रीरामे ॥ ६८॥
यथोर्णनाभिः स्वाऽऽस्यात् तन्तून् निःसार्वगृहं विरचय्य च ।
निवसति न तत्स्वरूपेऽपि विकारस्तथेनस्य मम नहि ॥ ६९॥
सत्ख्यातिरस्ति मन्तव्या वैष्णवसमये शुभे ।
पञ्चीकरणरीत्या हि सर्वं सर्वत्र वर्तते ॥ ७०॥
सर्वः किल पदार्थश्च प्रतीत्यभ्युपगम्यकः ।
सत्ख्यातिः सुदृढा जातेत्येतेन ज्ञायतां बुधाः ॥ ७१॥
नास्ति प्रतीतिविषयः खलु यः पदार्थ
स्तत्कल्पना खसुमनः सदृशी सुवेद्या ।
यद् यत् पदं जगति वाञ्छति वै मनुष्यो
नाप्नोति तर्हि जगदीशपवित्रसत्ता ॥ ७२॥
यदि सा मन्यते तर्हि क्षितौ वह्नेर्गुणः स्वयम् ।
प्रतीयेतोच्यते ह्यत्र निश्चितं मतमुत्तमम् ॥ ७३॥
उर्व्यामग्नेर्न भानं स्यादुर्व्या अधिकभागतः ।
यदाधिक्यं तु तद्भानं काऽत्र युक्तिर्निशम्यताम् ॥ ७४॥
वैशेष्यात् त्विति मानेन सन्तोषः क्रियतामये ।
तत्त्वमस्यादिवाक्यैस्तु केवलाद्वैतधीनहि ॥ ७५॥
शरीरशरीरिभावो निश्चेतुं शक्यस्तत्त्वमसि पदे ।
षष्ठ्यादेः प्रथमातो व्यत्ययो बहुलमिति सूत्रतस्तदिह ॥ ७६॥
यस्याऽऽत्मा शरीरं च श्रुतितोऽस्ति शरीरशरीरिभावोऽपि ।
निर्गुणमिति वाक्यार्थेऽयं हेयगुणप्रहीणं ? ॥ ७७॥
दयादाक्षिण्यकाद्यब्धिरिति ज्ञेयो भवादृशैः ।
श्रीरामो ब्रह्मशब्देन सर्वोपनिषदीरितः ॥ ७८॥
शब्दशास्त्रदिशा वादिन् निराकारत्वमन्ननो ।
ब्रह्मणि सिध्यते किन्तु साकारत्वं स्थिरं भवेत् ॥ ७९॥
आकारञ्च विना पूर्वं समासो जायते कथम् ।
व्याकरणस्य नो लेशो वर्तते त्वयि निश्चितम् ॥ ८०॥
तत्सिद्ध्यर्थञ्च पूर्वं त्वं शब्यशास्त्रं गुरोः पठ ।
नो चेद् भवद्वचः सौम्य ह्याकाशकुसुमायते ॥ ८१॥
स्वाकारे भेदवादे च ह्यवतारे हरेः प्रभोः ।
श्रुतिरस्ति यतो मर्त्यो न सन्देग्धि क्वचित् किल ॥ ८२॥
स पर्यगाच्छुक्रमकायमव्रणं शुभं शरीरं पृथिवीति यस्य यत् ।
तमेव भृत्वा निदधे पदं त्विदं विचक्रमेविष्णुरिति प्रसिद्धकम् ॥ ८३॥
जिज्ञास्यजिज्ञासकभावना भवेद् भेदे हि नाभेद इति प्रसिद्धकम् ।
यद् ``द्वा सुपर्णा'' श्रुतिरस्ति वै भिदी
वा वक्ति शं ``तत् त्वम'' सीति भेदकम् ॥ ८४॥
वराकी सम्मता माया शक्नोति भवतां नहि ।
कार्यं किमपि कर्तुं साऽज्ञत्वाज्जडत्वहेतुतः ॥ ८५॥
किन्तु समं जगत् स्वयं चिदचिदात्मकं ब्रह्म कुरुतेऽङ्ग ।
जगत् प्रति तदेवास्ति ह्मभिन्ननिमित्तोपादानकारणम् ॥ ८६॥
निराकारमिति श्रुत्यर्थोऽयं ब्रह्म नु वर्तते ।
कर्मानायत्तन्मूर्ति प्रतिभा शक्तितंसितम् ॥ ८७॥
घटाभावे कथं तस्याभावं शक्ताः प्रवल्गितुम् ।
भवादृशा भविष्यन्ति युक्तिः काऽत्र विचार्यताम् ॥ ८८॥
तथैव प्रकृते ज्ञेयमतस्तत् साकृतीष्यताम् ।
साऽऽकारं नाशमाप्नोति वस्तु घटादिवत् सदा ॥ ८९॥
तथैव तदपि स्याद् भो दोषोऽयं वार्यतां त्वया ।
श्रृणुताङ्गः न तद् ब्रह्माऽनित्याकारघटादिवत् ॥ ९०॥
किन्तु नित्याऽऽकृति ब्रह्माकर्तृकं वर्तते कुतः ।
नाशार्हं स्यादनवस्था तस्मिन् सकर्तृकेऽप्रिया ॥ ९१॥
प्रकृतेः शरीरवतां प्रभोर्जगदीश्वरस्य च कीदृशः
वदताऽयि नैकनिवादिनः ! खलु वर्तते भवतां मते ।
शुभदेहदेहिकशेषशेषिकभावकः श्रृणु मायिक !
इति भो नियम्यनियामकत्वमयं पटो मम बुध्यताम् ॥ ९२॥
आजानुबाहुर्निगमादिगीतः सत्यव्रतः सद्द्विभुजः स्वतन्त्रः ।
सद्धीरयोध्यापतिशार्ङ्गपाणिर्नित्याऽऽकृतिः सत्यदयादिगेहम् ॥ ९३॥
श्रुतिमार्गाब्जसप्ताश्वः श्रीरामो भक्तवत्सलः ।
जानरायपदेनापि स एव प्रथितो भुवि ॥ ९४॥
साकारं ज्ञायते वस्तु भूमिजलादिवत् सदा ।
शशशृङ्गादिवज्जातु निराकारं न बुध्यते ॥ ९५॥
ज्ञातृज्ञेयादि भेदे हि भोगमात्रादि साम्यकम् ।
व्यासोक्तिः कथयन्यती स्यात् सार्थिका नान्यथा किल ॥ ९६॥
अनिर्वाच्याख्यातिश्च सदसद्विलक्षणार्थिकाऽस्तीति ते ।
कथं न खपुष्पसदृशं कथं शशशृङ्गवत् तद्विलक्षणम् ॥ ९७॥
वस्त्वेवाप्रसिद्धं नु जगति शुक्त्यादौ रजतादि सत्यम् ।
अस्तीति विज्ञायेत पञ्चीकरणप्रक्रियया समकैः ॥ ९८॥
सा तु भवताऽपि सततं मन्यते तयाऽस्ति सर्वं सर्वत्र ।
समस्मिन् सर्वलाभः स्यादिति न वाच्यं तत् तद्विशेषात् ॥ ९९॥
क्षितिशुक्तौ शुक्तयंशोऽधिकोऽस्तीति स उपलभ्यते सर्वैः ।
तेजोभागाल्पत्वान्न तदुपलभ्यते मद्विजयः ॥ १००॥
तद्विलक्षणोत्पत्ती रजतस्य जायते नहि सतोजनेः ।
निषेधनादतश्च सत्ख्यातेः सिद्धिरनिर्वाच्यं कस्मात् ॥ १०१॥
धृतोर्ध्वपुण्ड्र इत्येषा श्रीधन्वनाऽङ्कितः श्रुतिः ।
ज्ञायतां च हि सद् बीजमूर्ध्वपुण्ड्र धनुर्विधौ ॥ १०२॥
दासः पदं श्रुतावस्ति नातो घृणा विधीयताम् ।
श्रुत्यनभिज्ञ ! पश्य त्वम्-अरं दासो न मीढुषे ॥ १०३॥
तुलसीमालाधृतिश्चनाप्रामाणिकीविगण्यताम् ।
श्रुतिरस्तितत्रत्वमितिमालान्तुलसीजां पश्य ॥ १०४॥
आम्नायापौरुषेयत्वमस्ति सर्वयुगेष्वपि ।
तन्नित्यत्वमिदं किञ्च सर्ववेदान्तसम्मतम् ॥ १०५॥
आनुपूर्व्या अभङ्गस्तु वेदमन्त्रव्रजस्य हि ।
कस्मिन् युगेऽपि नेशश्च तदानुपूर्विकां द्यति ॥ १०६॥
पुरासृष्टेरीशोजनयतिविधिं शान्तिनिलयो
जगत्सृष्टिं कर्तुं ह्युपदिशति तस्मै श्रुतिचयम् ।
यथापूर्वं सर्वान् सृजति स तु लोकान् सितमतिः
त्रयीणां नित्यत्वं द्रढयति शमेतेन विमलः ॥ १०७॥
भो वादिन् ! प्रतिमापूजनान्न फलं किञ्चिद्भवतीति नहि यतः
सर्वस्मिन्स्तदभावस्य वक्तुमशक्यत्वात् प्रतिमाऽर्चनकविधेः ।
काले श्रुत्युपचये वर्तनाच्च ततोमुक्तेः प्रतिपादनककृतेः
सत्त्वाच्छास्त्रचये चन्द्रमामनसोजातस्त्वितितत् सफलत्वगात् ॥ १०८॥
न तस्य प्रतिमाऽस्तीति तन्निषेधादुपासितुं कल्प्यते ।
फलवार्ताऽसत्या तद्-यस्यनाममहद्यशः सदृशार्थकम् ॥ १०९॥
रामानुजमताद्भिन्नं श्रीरामानन्दसन्मतम् ।
मन्त्रोपास्येष्टदेवस्य भेदादेवेति निश्चितम् ॥ ११०॥
रामानन्दमहासुहृत्सुरसुरानन्दस्य सद्वंशजः
रक्तश्रीतिलकाभिरामशिरसः सत्क्षान्तिपाथोनिधेः ।
मायावादिगजेन्द्रकुम्भदलने सिंहायमानस्य च
शिष्योऽहं नरसिंहनामकगुरोः श्रीझीथडावासकः ॥ १११॥
इति श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey