प्रमाणदीपिका
अथ प्रथमो मयूखः
रामं सीतां तथाचार्यं श्रियानन्दं प्रणम्य च ।
प्रमाणानां प्रकाशाय कुर्वे प्रमाणदीपिकाम् ॥ १॥
अथ प्रत्यक्षप्रमाणमयूखः
चिदचिदीशतत्वानां ज्ञानं प्रामाणिकं च यत् ।
मोक्षस्य साधनं तद्धि भोक्ता भोग्यमिति श्रुतेः ॥ २॥
प्रमायाः करणं तत्र प्रमाण सम्मतं बुधैः ।
अबाधव्यवहारस्यानुगुणा तु मतिः प्रमा ॥ ३॥
करणं चावगन्तव्यं व्यापारशालि कारणम् ।
त्रिधा प्रमाणमध्यक्षानुमानशब्दभेदतः ॥ ४॥
सम्भवस्योपमानस्य चार्थापत्तेस्तथैव हि ।
अन्तर्भावोऽनुमाने तु तत्त्वज्ञैरुररीकृतः ॥ ५॥
ऐतिह्यमाप्तमूलं यच्छब्दे चान्तर्भवत्यदः ।
अनुमानाङ्गतर्कस्य मन्यते स्वाङ्गिरूपता ॥ ६॥
भावान्तरेण चाभावप्रतीतिरुपपद्यते ।
अभावाख्यः पदार्थश्चातिरिक्तो मन्यते न तत् ॥ ७॥
अतिरिक्तं प्रमाणं तन्नानुपलब्धिनामकम् ।
अभावसाधकत्वेन प्रमाणज्ञैर्हि मन्यते ॥ ८॥
अनुमाध्यक्षशाब्दीतिभेदात् त्रिधा मता प्रमा ।
ज्ञानाकरणकं ज्ञानं प्रत्यक्षत्वेन सम्मतम् ॥ ९॥
प्रत्यक्षं द्विविधं चाथ तत्राद्यं निर्विकल्पकम् ।
अनेकवृत्तिजात्याद्यविषया शेमुषी हि तत् ॥ १०॥
प्रत्यक्ष चापरं प्रोक्तं विद्वद्भिः सविकल्पकम् ।
अनेकवृत्तिजात्यादिविषया शेमुषी च तत् ॥ ११॥
प्रत्यक्षं द्विविधं चैतद् द्वैविध्यं च गतं पुनः ।
अर्वाचीनमथाऽनर्वाचीनञ्श्वेति विभेदतः ॥ १२॥
एकमिन्द्रियसापेक्षमपरं तद्विलक्षणम् ।
स्वयंसिद्धं च दिव्यं च द्विविधमादिमं तथा ॥ १३॥
योगजन्यं च तत्राद्यं परञ्चेशप्रसादजम् ।
प्रत्यक्षानुभवे तत्र करणमिन्द्रियं मतम् ॥ १४॥
व्यापारस्तत्र संयोगः संयुक्ताश्रयणं तथा ।
अर्वाचीनेतरद् बोध्यं प्रत्यक्षमीशमुक्तयोः ॥ १५॥
पूर्वानुभवतश्चात्र संस्कृतिरुपजायते ।
सदृशादृष्टचिन्ताद्यैरुद्बुद्धा संस्कृतिर्भवेत् ॥ १६॥
उद्बुद्धसंस्कृतेर्जाता स्मृतिः प्रत्यक्षमेव हि ।
प्रतिभा प्रत्यभिज्ञे च प्रत्यक्षे एव सम्मते ॥ १७॥
यथार्थ सर्वविज्ञानमिति वेदविदां मतम् ।
शुक्तावपि हि रौप्यांशाः पञ्चीकरणतो मताः ॥ १८॥
शुक्तिरौप्यमतेस्तस्मात् सत्यालम्बनता मता ।
शुक्तिरौप्यमतिर्भ्रान्ता रौप्यांशाल्पत्वहेतुतः ॥ १९॥
- इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायां प्रत्यक्षप्रमाणनिरूपणाख्यः
प्रथमो मयूखः ॥ १॥
अथानुमान प्रमाणमयूखः
अनुमाकरणं चाथानुमानं परिकीर्त्तितम् ।
साधकतममेवात्र करणं प्राज्ञसम्मतम् ॥ १॥
ततो लिङ्गपरामर्शोऽनुमायां करणं मतम् ।
व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामिका ॥ २॥
तज्जा चानुमितिः पक्षे साध्यबुद्धिर्मता बुधैः ।
साध्याधारस्थता हेतौ व्याप्तिः प्राज्ञैः प्रकीर्त्तिता ॥ ३॥
साहचर्यस्य भूयिष्ठदर्शनाद् व्याप्तिधीर्भवेत् ।
तद्दर्शनं सपक्षे हि भवेन्निश्चितसाध्यके ॥ ४॥
साध्यशून्यो विपक्षश्च पक्षः सन्दिग्धसाध्यकः ।
अन्वयव्यतिरेकी हि हेतुश्च केवलान्वयी ॥ ५॥
यत्सत्त्वे खलु यत्सत्त्वमन्वयव्याप्तिरीरिता ।
यच्छून्यत्वं च यच्छून्येऽभाव्याप्तिर्हि साधने ॥ ६॥
अन्वयव्याप्तितश्चाथान्वयी हेतुर्बुधैर्मतः ।
अभावव्याप्तितो हेतुर्व्यतिरेकी समीरितः ॥ ७॥
सिद्धान्ते द्विविधश्चैव सद्धेतुर्बुधसम्मतः ।
केवलव्यतिरेकी तु सिद्धान्ते मन्यते न हि ॥ ८॥
उभे चात्रानुमानाङ्गे व्याप्तिश्च पक्षधर्मता ।
द्वयोरन्यतरस्याथ विरहे हेतुदुष्टता ॥ ९॥
व्यभिचारी विरुद्धोऽथासिद्धः सत्प्रतिपक्षकः ।
बाधितश्चेति पञ्चापि हेत्वामासाः प्रकीर्त्तिताः ॥ १०॥
हेतुश्च व्यभिचारी हि स्वस्थानातिक्रमे भवेत् ।
स ह्यनैकान्तिकश्चाथ द्विविधः परिकीर्त्तितः ॥ ११॥
विपक्षेऽपि स्थितश्चेत् स साधारणो मतस्तदा ।
बुधैः स पक्षमात्रस्थोऽसाधारण उदाहृतः ॥ १२॥
साध्याभावेन स व्याप्तो विरुद्धत्वेन सम्मतः ।
आदिमस्त्रिष्वसिद्धेष्वाश्रयासिद्धः समीरितः ॥ १३॥
पक्षश्च पक्षताऽवच्छेदकशून्यश्च तत्र हि ।
पक्षे च हेतुराहित्यं स्वरूपासिद्धता स्मृता ॥ १४॥
व्याप्यत्वासिद्धता चात्र द्विधा प्राज्ञैः समर्थिता ।
व्याप्तिग्राहकमानस्य शून्यत्वात् तत्र चादिमा ॥ १५॥
हेतावुपाधिसत्त्वाच्च द्वितीया सम्मता बुधैः ।
साध्यव्यापकतायां च साधनाव्यापकत्वकम् ॥ १६॥
उपाधित्वेन सम्प्रोक्तं हेतोः परमदूषणम् ।
प्रतिपक्षस्य सत्त्वे तु हेतोः सत्प्रतिपक्षता ॥ १७॥
यस्य प्रबलमानेन साध्याभावो विनिश्चितः ।
दार्शनिकैः स हेतुर्हि बाधितः सम्प्रकीर्त्तितः ॥ १८॥
अनुमानं द्विधा स्वार्थं परार्थं चेति भेदतः ।
स्वार्थेन स्वानुमा चात्र परार्थेन परानुमा ॥ १९॥
न्यायजस्तु परामर्शः परानुमितिकारणम् ।
न्यायस्तत्र प्रतिज्ञाद्यवयवपञ्चकं मतः ॥ २०॥
मतिज्ञा साध्यनिर्देशो हेतूक्तेर्हेतुता तथा ।
व्याप्तिनिर्देशपूर्वा हि दृष्टान्तोक्तिरुदाहृता ॥ २१॥
व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः ।
निगमनं तु साध्यस्योपसंहारवचः खलु ॥ २२॥
नैयायिका भवन्त्येतत्पञ्चावयववादिनः ।
वेदान्तिनो वदन्त्येष्वनुमासिद्धौ यथारुचि ॥ २३॥
- इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायामनुमानप्रमाणनिरूपणाख्यो
द्वितीयो मयूखः ॥ २॥
अथ शब्दप्रमाणमयूखः
अनाप्तानुक्तवाक्यस्य शब्दप्रमाणता मता ।
द्वारं पदार्थबुद्धिश्च शक्तिधीः सहकारिणी ॥ १॥
वाक्यं पदसमूहश्च शक्तं पदतया मतम् ।
अभिधाख्या च शक्तिर्हि वेदस्यार्थावबोधिता ॥ २॥
मुख्या वृत्तिः पदस्यार्थे सैव प्राज्ञैरुदीरिता ।
घटे घटेत्युक्ते हि शक्तिर्घटपदस्य च ॥ ३॥
सम्बन्धोऽभिहितः प्राज्ञैर्वृत्तिः पदपदार्थयोः ।
मुख्यार्थस्य हि बाधे तु वृत्तिर्मतौपचारिकी ॥ ४॥
गौणी च लक्षणा चेति भेदात् सा द्विविधा पुनः ।
शक्यस्य गुणवत्त्वेन त्वाद्या वृत्तिर्मता बुधैः ॥ ५॥
लक्षणा शक्यसम्बन्धः साऽन्वयानुपपत्तितः ।
जहदथाजहच्चेति द्विधा सा परिकीर्त्तिता ॥ ६॥
आकाङ्क्षायोग्यताऽऽसत्तिमद् वाक्यं हि प्रमाणकम् ।
प्रमाणमखिलो वेदः सिद्धे व्युत्पत्तिसम्भवात् ॥ ७॥
भागद्वयं हि वेदस्य कर्मब्रह्माभिधायकम् ।
तत्राद्ये कथितं कर्म ब्रह्माराधनलक्षणम् ॥ ८॥
शास्त्रे हि पूर्वमीमांसाऽऽख्येऽस्य शङ्काः समाहिताः ।
ब्रह्मणो वर्णितं चान्त्ये स्वरूपं च गुणादिकम् ॥ ९॥
एतच्छङ्कासमाधानं मीमांसा चोत्तरा मता ।
मता मीमांसयोस्तस्मादुभयोरेकशास्त्रता ॥ १०॥
विध्यर्थवादमन्त्रेतिभेदाद्वेदस्त्रिधा मतः ।
सम्मतस्तत्र विद्वद्भिर्विधिवाक्यं प्रवर्त्तकम् ॥ ११॥
विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥ १२॥
इत्येवं हि विधिः प्राज्ञैस्त्रिविधः सम्प्रकीर्त्तितः ।
नित्यो नैमित्तिकः काम्यश्चापि भेदा विधेर्मताः ॥ १३॥
प्रवृत्त्युत्तम्भकं वाक्यमर्थवादतया मतम् ।
मन्त्रत्वेन मतो वेदोऽनुष्ठेयार्थप्रकाशकः ॥ १४॥
शिक्षा व्याकरणं छन्दो निरुक्तं ज्जोतिषं तथा ।
कल्पश्चेति षडङ्गानि वेदस्योक्तानि वैदिकैः ॥ १५॥
पूर्वक्रमविशिष्टा हि वेदाश्चेशसमीरिता ।
नित्या अपौरुषेयास्ते तस्माद् बुधैश्च सम्मताः ॥ १६॥
नित्यो वेदश्च निर्दोषो वक्त्रभावाद्धि सम्मतः ।
प्रामाण्यं हि बुधैर्वेदे स्वीकृतं स्वत एव तत् ॥ १७॥
स्मृत्यादेस्तु प्रमाणत्वं वेदमूलतया मतम् ।
शास्त्र वेदविरुद्धं च नैव याति प्रमाणताम् ॥ १८॥
देहस्य वाचकाः शब्दाः पर्यवस्यन्ति देहिनि ।
सर्वशब्दैकवाच्यस्तद् रामः सर्वशरीरकः ॥ १९॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धान्तशिरोमणि प्रणीतायां प्रमाणदीपिकायां
शब्दप्रमाणनिरूपणाख्यस्तृतीयो मयूखः ॥ ३॥
श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता ।
प्रकाशिका प्रमाणानां भूयात् प्रमाणदीपिका ॥ २०॥
(श्रीहर्यानन्दाचार्य शताब्द्यां श्री हर्यानन्दाचार्योपदिष्टः प्रबन्धः)
Proofread by Parashara Ranganathan