प्रपन्नसर्वस्वं
सीतानाथसमारम्भां व्यासबोधायनान्विताम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥
श्रियानन्दं गुरुं नत्वा कृत्वा श्रीरामवन्दनम् ।
प्रपन्नसर्वस्वं हि कुर्वे सर्वार्थसाधकम् ॥ २॥
पुत्रे च रक्षकत्वस्य विश्वासो नैव जायते ।
स्वपितुः प्रतिकूले हि रुद्रादौ व्यभिचारतः ॥ ३॥
भ्रातृणां रक्षकत्वेऽपि सन्देहो विद्यते खलु ।
भ्रातरि रावणादेश्च रक्षकत्वाविलोकनात् ॥ ४॥
प्रह्लादजनके यस्माद् व्यभिचारः प्रदृश्यते ।
पुत्रस्य जनके तस्मात् सन्दिग्धं रक्षणं मतम् ॥ ५॥
जनन्यां भरतस्याथ दृष्टं न पुत्ररक्षणम् ।
सन्दिग्धा पुत्ररक्षा तत् मातुश्चापि मता बुधैः ॥ ६॥
दमयन्त्यादिरक्षाया नलादौ व्यभिचारिता ।
पत्नीरक्षापि पत्यौ तत् सन्दिग्धत्वमुपैति हि ॥ ७॥
रक्षा न निश्चिता तस्माद् विद्यते सूर्यचन्द्रयोः ।
ईशस्य रावणादेश्च तयोर्यद् वशवर्तिता ॥ ८॥
ब्रह्महत्याभिभूतत्वाच्छप्तत्वाद् भीतितोऽपि च ।
याति सन्देहमिन्द्रस्य रक्षणं सुररक्षिणः ॥ ९॥
स्वपितुश्च शिरश्छेदाद् रुद्रस्य क्रूरकर्मणः ।
रक्षणे न हि विश्वासो जायतेऽथ कथञ्चन ॥ १०॥
रुद्रेण छिन्नशीर्षत्वाद् दैत्याभ्यां क्लेशनादथ ।
परमं संशयं यातं ब्रह्मणश्चापि रक्षणम् ॥ ११॥
तस्करैरपहार्यत्वाद् रक्षणं न मतं घने ।
व्याधिभिश्चाभिनाश्यत्वाद् बलं चापि न रक्षकम् ॥ १२॥
प्रह्लादमुनिसीतासु सुग्रीवे च विभीषणे ।
अन्यत्रापि च दृष्टं ते रक्षणं राम निश्चतम् ॥ १३॥
ज्ञानं नास्ति न कर्मास्ति भक्तिश्चापि न विद्यते ।
भाजनं चास्मि दोषाणां पाहि मां रघुनन्दन ॥ १४॥
त्वां विना मे गतिर्नास्ति राम ! दुःखविघातक ।
प्रपद्याहं स्थितो नाथ यथेच्छसि तथा कुरु ॥ १५॥
श्रियानन्दार्यशिष्यश्रीहर्यानन्दार्यनिर्मितम् ।
इदं प्रपन्नसर्वस्वं भूयात् सर्वस्वदायकम् ॥ १६॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणि प्रणीतं प्रपन्नसर्वस्वं सम्पूर्णम् ।
Proofread by Parashara Ranganathan