श्रीसाकेतनिवासाचार्यविरचिता प्रपत्तिकुसुमाञ्जलिः
(श्रीटीलाचार्य)
रघुपतेऽहमकिच्चनतां गतस्तव सुरक्षकतामतिविश्वसन् ।
निजभरं निदधाम्यखिलात्मनि त्वयि परेश विभो गुणसागरे ॥ १॥
अननुकूलकुभावविवर्जितस्त्वदनुकूलसुभावगतस्तथा ।
अहमनन्यतया क्षितिजापते! सुशरणं चरणश्च गतोऽस्मिते ॥ २॥
मम सुरक्षणकर्मणि यो भरः फलमहश्च न मे भुवनम्भर ।
अपि तु भक्तसमर्पितहत् प्रभो! तव ततश्च निजं हि समर्पये ॥ ३॥
नहि मिलेद् दयनीयजनश्च ते रघुपते मयि चेन्न दया तव ।
सुदयनीयजनैकनिधे ततः कुरु दयां मयि नाथ दयाम्बुधे ॥ ४॥
त्वमसि नो मदृते दयनीयवानहमपि त्वदृतेऽस्मि न नाथवान् ।
विधिविनिर्मितमेदवेक्ष्य तत् करुणया करुणाकर पाहि माम् ॥ ५॥
सुशरणं चरणं त्वपहाय ते कथमियामहमन्यमकिञ्चनः ।
रघुपते! दृढमायतपोतकं त्यजति किं जलधौ लघुवायसः ॥ ६॥
इह तिरस्कृतता गमितोऽप्यहं रघुपते! न जहामि पदञ्च ते ।
निजजनन्यवधूतशिशुर्यथा स्वजननीचरणं विजहाति न ॥ ७॥
वरद दाशरथे वरदापते कुरु कृपामिदमेव च देहि मे ।
त्वदरविन्दबिलज्जकपादयोर्भवतु जन्मनि जन्मनि मे स्मृतिः ॥ ८॥
वसुधया वसुधात्मजया तथा रुचिरया रुचिरं परिसेवित! ।
रघुपते! सुलभो जगतीपते! भव भवाम्बुनिधौ पतितस्य मे ॥ ९॥
समवभाति न ते समतां गतस्त्वदधिकोऽपि हि नाथ न कश्चन ।
प्रपदनं विदधे पदयोश्च ते निखिलपालक! पालय मामपि ॥ १०॥
कृतभवाभव कारणकारण प्रकृतिरक्षक रक्ष्यविलक्षण ।
रघुपते पदयोः पतिते च ते कुरु कृपां कृपणे मयि पामरे ॥ ११॥
तव विभोश्चरणं शरणं गतो जन इह त्रिगुणैः परिभूयते ।
अभिहिता रघुनायक भारते प्रकृतितारक तारकता क्व ते ॥ १२॥
अधमताव्यथिता पृथिवी पुरा रघुपते त्वयैका परिमण्डिता ।
पुनरिदं हि तथा क्षितिमण्डलं भुवनमण्डलमण्डन मण्डय ॥ १३॥
रघुपते त्वयेकैव युगे युगे समवतीर्य हि दक्षकुरक्षसाम् ।
बलमखण्ड्यमखण्य! सुखण्डितं विजहि मत्प्रतिघादिकराक्षसान् ॥ १४॥
अदयताञ्च गतेऽभयता कुतो न च भयं सदये त्वयि राघव ।
अभयतार्थमतः शरणं विभो त्वदपरं पुरुषं न विभावये ॥ १५॥
कृतमतिर्जगतः परिपालने सुकृपणस्य तदा मम रक्षणे ।
कृतमतिप्रभृतेः सहकारणिश्च विफलं जगदीश गवेषणम् ॥ १६॥
इति श्रीसाकेतनिवासाचार्यविरचिता प्रपत्तिकुसुमाञ्जलिः समाप्ता ।
Encoded and proofread by Mrityunjay Pandey