श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतं प्रपत्तिपञ्चकम्
मूलं स्थावरजङ्गमस्य जगतो जन्मादिसम्पादकः
पूर्णं ब्रह्म गुणाम्बुधिर्भवहरः सर्वावतारी स्वराट् ।
मुक्तामुक्तसुरेश्वरैः श्रुतिगणैर्ब्रह्मर्षिभिः संस्तुतः
श्रीरामः सकलेश्वरः सकलवित् पायादपायात् सदा ॥ १॥
या विश्वार्त्तिहरी च विश्वजननी ब्रह्मादिदेवैः स्तुता
या विभ्वी विभुवैभवा च विभुदा सौन्दर्यवारान्निधिः ।
या रामस्य परात्मनो भगवतः प्राणप्रिया मुक्तिदा
सा सीता सकलेश्वरी भगवती पायादपायात् सदा ॥ २॥
भक्तिज्ञानबलाम्बुधिः करणजिद् भक्तिप्रदो विघ्नहा
वीराणां सुशिरोमणिः सुरनुतः श्रीराममन्त्रप्रदः ।
वज्राङ्गश्च मनोजवः पवनजः श्रीजानकीशोकहृद्
दासः श्रीरघुनायकस्य हनुमान् पायादयायात् सदा ॥ ३॥
प्रस्थानत्रयभाष्यकृच्छुभविशिष्टाद्वैतसंरक्षकः
सिद्धप्राज्ञनृपालदेवनिचयैः संसेवितो योगिराट् ।
श्रीमद्वैष्णवधर्मपा गुणनिधिः श्रीरामभक्तिप्रदो
रामानन्दजगद्गुरुर्यतिपतिः पायादपायात् सदा ॥ ४॥
योगीन्द्रः श्रुतिधर्मरक्षकमणिः कारुण्यपाथोनिधिः
सीताराघवभक्तिदः सुरतरुः सिद्धैः समासेवितः ।
रामानन्दमताम्बुधेश्च परितः संवर्द्धकश्चन्द्रमा-
ष्टीलाचार्यजगद्गुरुर्व्रतिपतिः पायादपायात् सदा ॥ ५॥
सदाचार्यसुरेन्द्रश्रीमङ्गलाचार्यनिर्मितम् ।
पठतां पञ्चकञ्चैद् भवतान्मङ्गलप्रदम् ॥ ६॥
इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतं प्रपत्तिपञ्चकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey