श्रीराघवप्राप्तिबोधः
राघवं च गुरुं नत्त्वा व्यासं बोधायनं तथा ।
राघवप्राप्तिबोधं हि कुर्वे राघवभक्तिदम् ॥ १॥
बद्धोऽयमथ जीवात्मा सम्बद्धोऽनाद्यमायया ।
भवत्यविद्यया चास्य त्वहन्ताममताद्वयम् ॥ २॥
रागद्वेषद्वयं चापि जायतेऽविद्ययाऽऽत्मनः ।
अवाप्नोति ततश्चायं जीवो देहचतुष्टयम् ॥ ३॥
शब्दादिविषयेष्वस्य जायतेऽभिरुचिस्ततः ।
विषयान् सेवितुं चायमसन्मार्गे प्रवर्त्तते ॥ ४॥
असत्यभाषकस्तत्र चासक्तः स्तेयकर्मणि ।
हिंसादिनिरतो भूत्वा नीचसेवामुपैति हि ॥ ५॥
यदा याति विपन्नः सन् किङ्कर्त्तव्यविमूढताम् ।
तदा हृदि हि रामस्य कृपा काऽप्युपजायते ॥ ६॥
दयार्द्रो वीक्षते जीवं स्वामी रामो दयाम्बुधिः ।
प्रसन्नचित्ततां प्राणी रामप्रीत्योपयात्यथ ॥ ७॥
सत्वोद्रेकं च सम्प्राप्तो भूत्वा सुकृतमिच्छति ।
सङ्गतिं च ततो याति रामभक्तमहात्मनाम् ॥ ८॥
विषयेभ्यो विरक्तानामात्मानात्मप्रबोधिनाम् ।
सञ्जायते ततश्चास्य सदाचार्यसमाश्रयः ॥ ९॥
शिष्यभूतं ततो जीवं सदाचार्यः प्रबोधति ।
शरीरादिन्द्रियेभ्योऽथ प्राणेभ्यो बुद्धितस्तथा ॥ १०॥
भिन्नो जीवश्च नित्योऽणुः कर्त्ता भोक्ताऽथ चेतनः ।
जगद्धेतोश्च रामस्य शेषो देहस्तथैव च ॥ ११॥
श्रीरामपरतन्त्रः स न स्वतन्त्रः कदापि हि ।
राघवाधीनतासीमा वैष्णवाधीनता मता ॥ १२॥
श्रीरामपदकैङ्कर्यं फलञ्चास्या मतं बुधैः ।
तस्य प्रतिभटश्चात्राहङ्कारः समुदीरितः ॥ १३॥
ममकारस्तथा देहसम्बन्धोऽपि तथा स्मृतः ।
श्रीरामचरणावेव समर्थौ तन्निवर्त्तने ॥ १४॥
ज्ञापकं कथितार्थानां रहस्यत्रयमीरितम् ।
भवत्यथ कृतज्ञो हि शिष्यश्चासौ तु सद्गुरौ ॥ १५॥
सात्विकवैष्णवानां च ततो याति सुसङ्गतिम् ।
सदाचार्यस्य कैङ्कर्येऽधिकारं लभते ततः ॥ १६॥
सदाचार्यस्य कैङ्कर्यं द्विधा प्राज्ञैः समीरितम् ।
इष्टस्य करणं चात्रानिष्टस्याकरणं तथा ॥ १७॥
अभावे चैतयोश्चात्र शिष्यं त्यजति सद्गुरुः ।
आचार्येण परित्यक्तं श्रीरामो विजहाति हि ॥ १८॥
अर्जनीया ततः प्राज्ञैः सदाचार्यकृपैव हि ।
प्राप्यते सा च रामस्य तदीयस्य च सेवनात् ॥ १९॥
रामरामीयसेवातः प्रसन्ने सति सद्गुरौ ।
गुरुप्रीते च शिष्ये हि श्रीमद्रामः प्रसीदति ॥ २०॥
साकेते परमप्राप्यः श्रीरामः सकलेश्वरः ।
स्वप्रीतेनैव सम्प्राप्तो रामो भवति नान्यथा ॥ २१॥
श्रीहर्यानन्द शिष्यश्रीराघवानन्द निर्मितः
राघवप्राप्तिबोधोऽयं भूयाद् राघवभक्तिदः ॥ २२॥
इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य
सिद्धसंराट्प्रणीता श्रीराघवप्राप्तिबोधः सम्पूर्णः ।
Proofread by Mrityunjay Pandey