श्रीराघवेन्द्रमङ्गलमाला
राघवेन्द्रं नमस्कृत्य हर्यानन्दं गुरुं तथा ।
कुर्वे मङ्गलमालां श्रीराघवेन्द्रस्य तुष्टये ॥ १॥
मङ्गलानां निवासाय जगन्मङ्गलकारिणे ।
मङ्गलैकस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ २॥
श्रीजानकीनिवासाय श्रीसाकेतनिवासिने ।
निखिलान्तर्निवासाय राघवेन्द्राय मङ्गलम् ॥ ३॥
सीताकान्ताय शान्तायानन्तपापान्तकारिणे ।
अनन्तरूपरूपाय राघवेन्द्राय मङ्गलम् ॥ ४॥
प्रपन्नानन्ददात्रे च प्रपन्नार्त्तिविनाशिने ।
अविनाशिस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ५॥
वाञ्छाकल्पलतारामलोकाभिराममूर्त्तये ।
सकलापद्विरामाय राघवेन्द्राय मङ्गलम् ॥ ६॥
सर्वविद्याधिराध्यायाविद्याशून्यपरात्मने ।
वेदवेद्यानवद्याय राघवेन्द्राय मङ्गलम् ॥ ७॥
चिदचिद्भ्यां विशिष्टाय शिष्टपक्षसुरक्षिणे ।
सच्चिदानन्दरूपाय राघवेन्द्राय मङ्गलम् ॥ ८॥
ब्रह्मणे परिपूर्णाय कार्यकारणरूपिणे ।
शार्ङ्गिणे पूर्णकामाय राघवेन्द्राय मङ्गलम् ॥ ९॥
भक्ततन्त्रस्वतन्त्राय भक्ताभीष्टार्थदायिने ।
भक्त्यामुक्तिप्रदात्रे च राघवेन्द्राय मङ्गलम् ॥ १०॥
सर्वशक्तिमते सर्वशेषिणे सर्ववेदिने ।
सर्वसम्पद्विधात्रे च राघवेन्द्राय मङ्गलम् ॥ ११॥
त्याज्यवर्ज्याय पूज्यायानन्तश्रेयोगुणाब्धये ।
सर्वेषां चित्तचौराय राघवेन्द्राय मङ्गलम् ॥ १२॥
संहर्त्रे चास्यविश्वस्य कर्त्रे भर्त्रे तथैव च ।
कीर्त्तनात्तारयित्रे च राघवेन्द्राय मङ्गलम् ॥ १३॥
दिव्यदेहाय हृद्याय दिव्यालङ्कारधारिणे ।
दिव्यपरिकरायाथ राघवेन्द्राय मङ्गलम् ॥ १४॥
व्यापिनेऽन्तर्वहिश्चास्य सर्वस्य जगतः सते ।
अद्वितीयस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ १५॥
श्रीकौशल्यातनूजाय श्रीसरयूविहारिणे ।
चक्रवर्त्तिकुमाराय राघवेन्द्राय मङ्गलम् ॥ १६॥
ताड़काघातिने विश्वामित्रस्य यज्ञरक्षिणे ।
अहिल्योद्धारकाराय राघवेन्द्राय मङ्गलम् ॥ १७॥
जनकाराधितायाथ शम्भुचापविभेदिने ।
जानकीपरिणेत्रे च राघवेन्द्राय मङ्गलम् ॥ १८॥
मिथिलाधिपजामात्रे मिथिलामोहकारिणे ।
जामदग्न्यविजेत्रे च राघवेन्द्राय मङ्गलम् ॥ १९॥
अञ्चिताय निषादेन तीर्थराजं गताय च ।
वनवासेन हृष्टाय राघवेन्द्राय मङ्गलम् ॥ २०॥
चित्रशक्तिनिधानाय चित्रकूटविहारिणे ।
पर्णशालाधिवासाय राघवेन्द्राय मङ्गलम् ॥ २१॥
भरतेनानुनीताय पितुरादेशकारिणे ।
रक्षोबधप्रतिज्ञात्रे राघवेन्द्राय मङ्गलम् ॥ २२॥
सीतासौमित्रियुक्ताय चापिने बाणिने तथा ।
खरदूषणहन्त्रे च राघवेन्द्राय मङ्गलम् ॥ २३॥
मारीचमृत्युकाराय शवर्याराधिताय च ।
मुनीन्द्रैर्विहीतार्चाय राघवेन्द्राय मङ्गलम् ॥ २४॥
वानरेन्द्रस्य मित्राय बालिमुक्तिविधायिने ।
प्रवर्षणाधिवासाय राघवेन्द्राय मङ्गलम् ॥ २५॥
हनुमत्प्रार्थितायाथ हनुमत्सेवितान्घ्रये ।
हनुमत्प्रेषयित्रे च राघवेन्द्राय मङ्गलम् ॥ २६॥
सीताशोकविमुग्धाय सीतान्वेषणकारिणे ।
सीतायाः शोकहर्त्रे च राघवेन्द्राय मङ्गलम् ॥ २७॥
विभीषणशरण्याय सिन्धौ सेतुविधायिने ॥
उल्लङ्घितसमुद्राय राघवेन्द्राय मङ्गलम् ॥ २८॥
योलङ्काधिपसंहारी लङ्कां श्रिताय योऽददात् ।
तस्मै लङ्काविजेत्रे च राघवेन्द्राय मङ्गलम् ॥ २९॥
श्रीमते रघुवीराय रणधीराय धन्विने ।
समाभ्यधिकशून्याय राघवेन्द्राय मङ्गलम् ॥ ३०॥
ब्रह्मशम्भुसुरेन्द्रादि सुरश्रेष्ठस्तुताय च ।
कृतसीतापरीक्षाय राघवेन्द्राय मङ्गलम् ॥ ३१॥
मैथिलीमधिगम्याथ पुष्पकारोहिणे मुदा ।
अयोध्यानन्दकर्त्रे च राघवेन्द्राय मङ्गलम् ॥ ३२॥
स्वामिने कोशलेन्द्राय रामराज्य प्रवर्तिने ।
राजाधिराजराजाय राघवेन्द्राय मङ्गलम् ॥ ३३॥
भूमिजावल्लभायाथ भूमिनाथाय धर्मिणे ।
दानिने सार्वभौमाय राघवेन्द्राय मङ्गलम् ॥ ३४॥
लोकाभिरामरूपाय लोकाभिरामकर्मणे ।
लोकाभिरामभावाय राघवेन्द्राय मङ्गलम् ॥ ३५॥
सीताशोभितवामाय सीताचित्तविनोदिने ।
सीतायाः प्राणरूपाय राघवेन्द्राय मङ्गलम् ॥ ३६॥
जनानां स्वानुरक्तानामयोध्यावासिनां सताम् ।
मोक्षप्रदानकर्त्रे च राघवेन्द्राय मङ्गलम् ॥ ३७॥
विपरितेषु कालेषु क्षीणबन्धोश्च बन्धवे ।
सर्वस्वाय स्वभक्तानां राघवेन्द्राय मङ्गलम् ॥ ३८॥
कप्यासपुण्डरीकाक्षपीतकौशेय वाससे ।
मेघश्यामाभिरामाय राघवेन्द्राय मङ्गलम् ॥ ३९॥
अनाथानाञ्च नाथाय धर्मगोद्विजरक्षिणे ।
जगद्धिताय रामाय राघवेन्द्राय मङ्गलम् ॥ ४०॥
समुद्धाराय वेदानां स्वस्वरूपनिवेदिनाम् ।
धृतमत्स्यस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४१॥
देवेभ्योऽमृतदानाय मन्दराचलधारिणे ।
कूर्मावताररूपाय राघवेन्द्राय मङ्गलम् ॥ ४२॥
विश्वम्भरां समुद्धर्तुं दैत्येनमलिनीकृताम् ।
धृतवाराहरूपाय राघवेन्द्राय मङ्गलम् ॥ ४३॥
प्रह्लादं च पितुस्त्रासाद् गोपित्वाह्लादकारिणे ।
नरसिंहस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४४॥
छलयित्वा बलिं भूयोदेवराज्यं प्रवर्तितुम् ।
धृतवामनरूपाय राघवेन्द्राय मङ्गलम् ॥ ४५॥
क्षिति क्षत्रक्षयं कृत्वा ब्राह्मणेभ्यः समर्पिणे ।
जामदग्न्यस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४६॥
साधूनाञ्च परित्रात्रे संहार्य दुष्टराक्षसान् ।
दाशरथिस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४७॥
वंश्यालोकमनो हर्त्रे गीतयाऽज्ञानहारिणे ।
धृतकृष्णस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४८॥
देवद्विषोऽथ सम्मोह्य श्रौतधर्मस्य गुप्तये ।
धृतबुद्धस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४९॥
कलौ कलि विनाश्याथ कृतधर्मप्रवर्त्तिने ।
धृतकल्किस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ५०॥
सर्वेषामवताराणां मूलाय परमात्मने ।
विभूतिमृतलोकाय राघवेन्द्राय मङ्गलम् ॥ ५१॥
अणोरणीयसे तद्वन्महतोऽपिमहीयसे ।
सर्वानुशास्तिकाराय राघवेन्द्राय मङ्गलम् ॥ ५२॥
आदित्यतुल्यवर्णाय तमसः पारवर्तिने ।
कवयेऽचिन्त्यरूपाय राघवेन्द्राय मङ्गलम् ॥ ५३॥
सर्वहृत्सन्निविष्टाय स्मृत्युत्पादविनाशिने ।
वेदकृद्वेववन्द्याय राघवेन्द्राय मङ्गलम् ॥ ५४॥
नमतां स्वमनस्कानां स्वभक्तानां स्वयाजिनाम् ।
स्वप्राप्तिः कुर्वते नित्यां राघवेन्द्राय मङ्गलम् ॥ ५५॥
उत्पत्तिध्वंसशून्याय मृत्योरप्यथ मृत्यवे ।
अपरिच्छिन्नरूपाय राघवेन्द्राय मङ्गलम् ॥ ५६॥
सत्यस्य वर्मणे लोकशर्मणेऽक्लिष्टकर्मणे ।
वर्ज्यायक्लेशकर्माभ्यां राघवेन्द्राय मङ्गलम् ॥ ५७॥
सत्यप्रियाय सत्याय सत्यकृत्सत्यवेदिने ।
सत्यविश्वनिदानाय राघवेन्द्राय मङ्गलम् ॥ ५८॥
अशरण्यशरण्याय देवदेवाय वेधसे ।
व्यक्तषाड्गुण्यचेष्टाय राघवेन्द्राय मङ्गलम् ॥ ५९॥
सर्वविश्वनियन्त्रे च परमैश्वर्यशालिने ।
सौलभ्यगुणयुक्ताय राघवेन्द्राय मङ्गलम् ॥ ६०॥
सर्वेभ्योऽभयदात्रे च सकृदेवप्रपत्तितः ।
उपेयोपायरूपाय राघवेन्द्राय मङ्गलम् ॥ ६१॥
रामेति कीर्त्तिते चापि यमदूतौघतर्जिने ।
भर्जित्रेभवबीजानां राघवेन्द्राय मङ्गलम् ॥ ६२॥
भयाभयविधातारः सर्वे यच्छासने स्थिताः ।
तस्मै हि निखिलेशाय राघवेन्द्राय मङ्गलम् ॥ ६३॥
अभयं प्रीणनाद्यस्य भयं यस्यावधीरणात् ।
तस्मै भगवतेनित्यं राघवेन्द्राय मङ्गलम् ॥ ६४॥
यस्यानन्दविदेभीतिर्विद्यते न कुतश्चन ।
तस्मा आनन्दयुक्ताय राघवेन्द्राय मङ्गलम् ॥ ६५॥
प्राणानां प्राणरूपाय ज्योतिषां ज्योतिषे तथा ।
सूर्यान्तर्वासशीलाय राघवेन्द्राय मङ्गलम् ॥ ६६॥
नित्यानामपि नित्यो यश्चेतनानाञ्च चेतनः ।
तस्मै कामप्रदात्रे हि राघवेन्द्राय मङ्गलम् ॥ ६७॥
चिदचित्तत्त्वदेहाय चिदचिद्व्यापिने तथा ।
चिदचित्तत्त्वभिन्नाय राघवेन्द्राय मङ्गलम् ॥ ६८॥
सहस्त्रबाहुपादाय सहस्त्रशिरसे तथा ।
सहस्त्रानननेत्राय राघवेन्द्राय मङ्गलम् ॥ ६९॥
मूर्त्तामूर्त्तस्वरूपाय तथैकानेकमूर्तये ।
दूरादूरस्थितायाथ राघवेन्द्राय मङ्गलम् ॥ ७०॥
भवसन्तापसन्तप्तजनानां खिन्नचेतसाम् ।
कटाक्षामृतदात्रे च राघवेन्द्राय मङ्गलम् ॥ ७१॥
देहसौन्दर्यसम्पत्त्या सर्वलोकनिवासिनाम् ।
सुतरां मोहकाराय राघवेन्द्राय मङ्गलम् ॥ ७२॥
रमन्ते योगिनो यस्मिन् सत्यानन्दे चिदात्मनि ।
तस्मै सर्वाभिरामाय राघवेन्द्राय मङ्गलम् ॥ ७३॥
सत्वादिगुणशून्यत्वान्निर्गुणाय महात्मने ।
सद्गुणैः सगुणायापि राघवेन्द्राय मङ्गलम् ॥ ७४॥
सर्वार्चनार्चनीयाय सर्वेभ्यः फलदायिने ।
सर्ववाचकवाच्याय राघवेन्द्राय मङ्गलम् ॥ ७५॥
वेदे रामायणे चैव पुराणे भारते तथा ।
पाञ्चरात्रे च गीताय राघवेन्द्राय मङ्गलम् ॥ ७६॥
निगमैर्मेधया चापि तपसा यो न लभ्यते ।
तस्मै भक्त्येकलभ्याय राघवेन्द्राय मङ्गलम् ॥ ७७॥
कर्माद्यपरतन्त्राय पूर्णषाड्गुण्यमूर्तये ।
अच्युतायाविकाराय राघवेन्द्राय मङ्गलम् ॥ ७८॥
शश्वद् भक्तसमूहस्य सद्योगक्षेमवाहिने ।
प्रधानपुरुषेशाय राघवेन्द्राय मङ्गलम् ॥ ७९॥
पुरुषायोत्तमायाथ क्षराक्षरपराय च ।
परमात्माभिधानाय राघवेन्द्राय मङ्गलम् ॥ ८०॥
योगिनां ध्येयवन्द्याय ज्ञेयाय भवहारिणे ।
महापुरुषसंज्ञाय राघवेन्द्राय मङ्गलम् ॥ ८१॥
विष्णवे विवुधारातिजिष्णवे प्रभविष्णवे ।
सर्वलोकैकनाथाय राघवेन्द्राय मङ्गलम् ॥ ८२॥
जगतो गुरवे सर्वजगद्वन्द्याय धर्मिणे ।
अमोघायुधवृन्दाय राघवेन्द्राय मङ्गलम् ॥ ८३॥
विज्ञानदानशीलाय पूर्णविज्ञानशालिने ।
विज्ञानधनरूपाय राघवेन्द्राय मङ्गलम् ॥ ८४॥
दैवताय च देवानां श्रुतीनां दिव्यचक्षुषे ।
योगनेत्राञ्जनायाथ राघवेन्द्राय मङ्गलम् ॥ ८५॥
अपादायोरूपादायापाणये चोरूपाणये ।
अनेत्रायोरुनेत्राय राघवेन्द्राय मङ्गलम् ॥ ८६॥
अकर्णायोरुकर्णाय ह्यदेहायोरुदेहिने ।
अरुपायोरुरूपाय राघवेन्द्राय मङ्गलम् ॥ ८७॥
लोकैकसेतवे तद्वत् सर्वलोकैकहेतवे ।
सेतवेभवपाथोधे राघवेन्द्राय मङ्गलम् ॥ ८८॥
भवन्त्यानन्दिनो जीवा यं रसं प्राप्य शाश्वतम् ।
तस्मै रसस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ८९॥
ससुरस्य सुरेन्द्रस्यासुराणां ब्रह्मशूलिनोः ।
आराध्याय नराणाञ्च राघवेन्द्राय मङ्गलम् ॥ ९०॥
प्राणाय वैष्णवानाञ्च चिन्तयित्रे च कूर्मवत् ।
कल्पपादपरूपाय राघवेन्द्राय मङ्गलम् ॥ ९१॥
नृत्यति निखिलं विश्वं यन्मायावशगं सदा ।
तस्मै चाद्भुतमायाय राघवेन्द्राय मङ्गलम् ॥ ९२॥
तीर्यते यत्प्रपत्त्याहि दैवी माया दुरत्यया ।
तस्मै शरण्यवर्याय राघवेन्द्राय मङ्गलम् ॥ ९३॥
यं भजन् सुदुराचारः पुरुषश्चैति साधुताम् ।
अधमोद्धारिणे तस्मै राघवेन्द्राय मङ्गलम् ॥ ९४॥
यस्य स्मरणमात्रेण बाह्याभ्यन्तः शुचिर्भवेत् ।
शुचीनां शुचये तस्मै राघवेन्द्राय मङ्गलम् ॥ ९५॥
यस्य कीर्तनमात्रेण न्यूनमायाति पूर्णताम् ।
तस्मै पूर्णस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ९६॥
यत्सेवा मोक्षसौधस्याकण्टका राजपद्धतिः ।
तस्मै सेव्यवरेण्याय राघवेन्द्राय मङ्गलम् ॥ ९७॥
सृष्टे विश्वे प्रविश्याथ नामरूपविभाजिने ।
ततः प्राक् सत्स्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ९८॥
तोषयित्रे चकोराणां भक्तानां मूर्तिरश्मिभिः ।
चन्द्राय रामचन्द्राय राघवेन्द्राय मङ्गलम् ॥ ९९॥
सर्वधर्मान् परित्यज्य शरणागतभावतः ।
मोचयित्रे च पापेभ्यो राघवेन्द्राय मङ्गलम् ॥ १००॥
भासयित्रे च भान्वादेर्भानुकोटिप्रभावते ।
स्वयम्प्रकाशरूपाय राघवेन्द्राय मङ्गलम् ॥ १०१॥
समष्टिसृष्टिकराय व्यष्टिसृष्टिविधायिने ।
विरिञ्च्याद्यात्मरूपाय राघवेन्द्राय मङ्गलम् ॥ १०२॥
विश्वातीताय विश्वाय यं माया नातिवर्तते ।
मायाधिष्ठायिने तस्मै राघवेन्द्राय मङ्गलम् ॥ १०३॥
निराधाराय शक्ताय सर्वाधाराय मोदिने ।
स्वेमहिम्निस्थितायाथ राघवेन्द्राय मङ्गलम् ॥ १०४॥
धर्मार्थकाममोक्षाख्यपुरुषार्थप्रदायिने ।
अद्वितीयवदान्याय राघवेन्द्राय मङ्गलम् ॥ १०५॥
संयुगे जातरोषं यं विभ्यति विवुधादिकाः ।
तस्मै तेजोनिधानाय राघवेन्द्राय मङ्गलम् ॥ १०६॥
चारित्रेण च युक्ताय सर्वभूतहिताय च ।
जितक्रोधानसूयाय राघवेन्द्राय मङ्गलम् ॥ १०७॥
कथञ्चिदुपकारेण कृतेनैकेन तुष्यते ।
धर्मज्ञाय कृतज्ञाय राघवेन्द्राय मङ्गलम् ॥ १०८॥
न स्मरत्यात्मवत्त्वेन योऽपराधशतं किल ।
तस्मै क्षमासमुद्राय राघवेन्द्राय मङ्गलम् ॥ १०९॥
आचार्यसार्वभौम श्रीराघवानन्दनिर्मिता ।
भूयान्मङ्गलमालेयं लोकमङ्गलकारिणी ॥ ११०॥
इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य
सिद्धसंराट् प्रणीता श्रीराघवेन्द्रमङ्गलमाला समाप्ता ।
(श्रीराघवानन्दाचार्यशताब्द्या श्रीराघवानन्दाचार्योपदिष्टः प्रबन्धः)
Proofread by Mrityunjay Pandey