रामाष्टकम् १०
(प्रथमम्)
(स्रग्विणीवृत्तं)
यत्प्रसादाद्विपद्बन्धुरप्यद्भुतं राज्यमिन्द्रादिभिर्दुर्लभं शाश्वतं ।
प्राप कृत्वा सकृत्पादर्योर्वदनं चिन्तयामः सदा तं सदानन्दनं(१) ॥ १॥
सज्जनानां प्रियं दुर्जनानामपि स्वान्तसन्तोषदं स्वाश्रितानां समं ।
सर्वतापप्रणाशक्षमं चन्दनं चिन्तयामः सुमित्रासखीनन्दनम् ॥ २॥
पुत्रतामेत्य चक्रे खरांशोर्विधोर्यों जयं तस्य न स्वामिनोप्युश्चकैः ।
जन्मदात्सर्वलोकेषु दिक्स्यन्दनं चिन्तयामः सदा तं रघोनन्दनम् ॥ ३॥
क्ष्माभृतां पालकं घ्यक्षमत्यद्भुतं चापबाणैकपाणिं तपस्विप्रियं ।
एकपत्नीव्रतं विश्वसङ्क्रन्दनं चिन्तयामोऽजसूनोः(२) प्रियं नन्दनम् ॥ ४॥
सादरं येद्धनुर्व्यानिनादो(३) गुरुर्नागभूदेवदेवाङ्गनाराक्षसीः ।
गीतमध्यापयामास चाक्रन्दनं चिन्तयामोऽद्य सख्युर्हरेर्नन्दनम् ॥ ५॥
शिश्रिये यत्पुरोपाटवी(४) केवलं नैव सर्वर्तुभिर्योगिभिश्चोत्सुकैः ।
स्वर्गिभिश्चापि हित्वा प्रियं नदनं(५) चिन्तयामः सदा तं सदानन्दनम् ॥ ६॥
येन्मुखं(६) प्रेक्षतां नाकिनामेव नो विस्मृतं पक्ष्मभिर्भूगतानामपि ।
चित्रसन्मित्रतामीयुषां स्पन्दनं चिन्तयामः सदा तं सदानन्दनम् ॥ ७॥
अर्थिचेतश्चकोरामृतांशुर्मुखं साधु यस्यावदत्सर्ववर्णेष्वपि ।
एकमेवेति मय्यङ्गमानन्दनं चिन्तयामः सदा तं सदानन्दनम् ॥ ८॥
इति श्रीरामनन्दनमयूरेश्वरकृतं रामाष्टकं सम्पूर्णम् ।
टिप्पणि
१। सतामानन्दनं श्रीरामचन्द्रम् ।
२। अजसूनोः दशरथस्य ।
३। गुरुर्यद्धर्निज्यानिनादो नागभूदेवदेवाङ्गनाः गीतं
राक्षसीश्चाक्रन्दनमध्यापयामास तं चिन्तयामः इति योजनीयम् ।
४। यत्पुरस्योपाटवी अयोध्याया उद्यानमित्यर्थः ।
५। नन्दनवनम् ।
६। ``यन्मुखं प्रेक्षतां चित्रसन्मित्रतामीयुषां स्वर्गिणामेव नो विस्मृतम् । पक्ष्मभिर्भूगतानामपि स्पन्दनं'' इत्यन्यः कविलिखितः पाठः ॥
Proofread by Rajesh Thyagarajan