रामाष्टकम् ११
(द्वितीयम्)
(पुष्पिताग्रावृत्तं)
नवजलधरनीलमीडयमेकं कलिमलनाशनकीर्तनं सुभद्रं ।
प्रशमपरमुनीन्द्रगीतकीर्ति दशरथनन्दनमीश्वरं नमामि ॥ १॥
जलरुहदललोचनं प्रशान्तं पतितजनावनदक्षमीशिता रं ।
विपदधगिरिवज्रसारपादाम्बुजरजसं रघुनायकं नमामि ॥ २॥
भजदखिलजनैककामक ल्पद्रुमममलामित सद्गुणामृताब्धिं ।
शिवहृदयनिवासमादिदेवं दशमुखकालमनन्तमाश्रयामि ॥ ३॥
सकरुणमवने रतं निजानामुरुभुजविक्रमनिर्जितारिदर्पं ।
मुनिजननुतनीतिवर्मनिष्ठं परमपदप्रदमन्तराश्रयेऽहम् ॥ ४॥
(१)शरधिशरशरासनासिवल्लीधरमरिकाननदावमुग्रवीर्यं ।
शरणदचरणं रणप्रचण्डं विधिमुखमार्गितमुक्तिवर्म वन्दे ॥ ५॥
शुचिमुचितचरित्रमञ्चिताङ्घ्रिं चतुरचकोरकचन्द्रमिन्द्रनाथं ।
अचलमृचि(२) गतं चराचरेशं चिरतरमच्युतमीशमानतोऽस्मि ॥ ६॥
पवनसुतरथं ककुत्स्थनाथं विमलकथं चतुरास्यगीतगाथं ।
कुशिकमुनिवशं नृपालवेषं प्रशमिततापमपास्तपापमीडे ॥ ७॥
सुखकरमुरगेन्द्रशय्यमार्यं वरदमुरुक्रममाश्रितामद्रुं ।
द्रुहिणगुरुमुदारमाद्वितीर्यं नुम उदरीकृतदीनमब्जनाथम् ॥ ८॥
इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीरामाष्टकं सम्पूर्णम् ।
टिप्पणि
१। शरधी तूणीरौ च शराश्च शरासनं धनुश्चासिवल्ली खड्गलता च तासां
धरम् ।
२। ऋचि वेदेषु गतं वेदवेद्यमित्यर्थः ।
Proofread by Rajesh Thyagarajan