श्रीरामाष्टकम्
॥ श्रीगणेशाय नमः ॥
श्रीरामं करुणानिधिं च परमं पूज्यं महद्रूपकं
मायातीतमजं च नित्यविमलं ह्य्कं जगद्व्यापकम् ।
वाशिष्ठयादिऋषीश्वरैः प्रतिदिनं ब्रह्मैव जानन्ति यं
सत्यं श्यामलसुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ १॥
रामं श्यामलकोमलाङ्गसुतनुं सीतापतिं सुन्दरं
रामं भक्तप्रियश्च धार्मिकरघ्र्वंशस्य सद्भूषणम् ।
रामं नीतिप्रियं च ब्राह्मणप्रियं सत्यप्रियं धार्मिकं
सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ २॥
रामं कण्टकरावणान्तकरणं सीतासुरक्षाकरं
रामं भक्तविभीषणाय सुखदं लङ्कापुरी दायकम् ।
रामं लक्ष्मणपूर्वजञ्च भरतशत्रुघ्नपूज्यं परं
सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ ३॥
कौशल्या दशचक्रि राजतनयं रामाद्यनारायणं
नानावस्त्रविभूषणादिसहितं हस्ते धनुर्वाणकम् ।
कर्णे कुण्डलहेमरत्नजटितं रूपं सदा रम्यकं
सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ ४॥
सर्वस्मिन्जगतीतले च भुवने त्वं प्राणिनां प्राणदः
सर्वात्मासि च ज्ञानियोगिमुनिनां त्वं ज्ञानदो मोक्षदः ।
भक्तानां च सुरक्षकं प्रतिदिनं चैतन्यरूपं परं
सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ ५॥
त्वं सूर्योऽसि यमेन्द्रधर्ममरुतां रूपोऽसि ब्रह्मात्मको
रुद्रव्यासशुकात्मकश्च वरुणश्चन्द्रोऽसि कृष्णात्मकः ।
त्रय्यात्मानमखण्डरूपमनघं साङ्ख्यादिवेद्यं प्रभुं
सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ ६॥
कैवल्यात्मक शान्त ! हे रघुपते सीतापते हे प्रभो
ब्रह्मानन्दस्वरूप हे गुणनिघे लक्ष्मीपते हे विभो ।
हे विश्वम्भर सत्स्वरूप भगवन् हे शुद्धबोधात्मक
सत्यं श्यामलसुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ ७॥
हे त्रैलोक्यपते चराचरगुरो हे विश्वसञ्चालक
हे आदर्शचरित्र हे नरहरे ब्रह्माण्डसंरक्षक ।
सौमित्री हनुमत्प्रियं प्रतिदिनं सुग्रीवमित्रं प्रभुं
सत्यं श्यामलसुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे ॥ ८॥
समर्पयामि हे राम रामाष्टकस्तवं प्रभो ।
नमामि भगवन् राम प्रसन्नो भव सर्वदा ॥ ९॥
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीरामाष्टकं सम्पूर्णम् ।
Proofread by Vani V