श्रीरामाष्टकम्
श्रीगणेशाय नमः ।
रामं प्रातर्ब्राह्ममुहूर्ते स्मरणीयं
रामं मध्ये क्षणदाकाले भजनीयम् ।
रामं कालातीतमखण्डं निजबोधं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ १॥
रामं ह्येकं पूर्णप्रकाशं घननीलं
रामं सत्यं पद्मसमानं कमनीयम् ।
रामं ध्येयं ज्ञेयमजस्राक्षररूपं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ २॥
रामं ब्रह्माच्युतशिववन्धं जपनीयं
रामं वेदत्रयभजनीयं स्तवनीयम् ।
रामं नित्यं चिद्घनरूपं प्रणवाख्यं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ ३॥
रामं सीताकान्तसमाख्यं सुखरूपं
रामं ज्येष्ठं लक्ष्मणपूज्यं रघुनाथम् ।
रामं शत्रुघ्नस्य सुपूज्यं भरतस्य
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ ४॥
रामं सर्वान्तर्गतरूपं रमणञ्च
रामं नीलं पङ्कजनेत्रं वदनञ्च ।
रामं दिव्यं नीलसरोजैः समरूपं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ ५॥
रामं हस्ते बाणधनुष्कं रमणीयं
रामं पीताम्बरपरिधानं सुखदं च ।
रामं भक्तत्राणपरं तं परमेशं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ ६॥
रामं जाग्रत्स्वप्नसुषुप्त्यादिकभिन्नं
रामं कामक्रोधमदाद्यै रहितं च ।
रामं शुद्धं चिद्घनरूपं श्रुतिवेद्यं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ ७॥
रामं बुध्यन्तर्गतबिम्बं बहुरूपं
रामं सत्यज्ञानमनन्तं विमलञ्च ।
रामं शुभ्रं तिमिरातीतं सूर्यसमं
रामं रम्यं व्यापकरूपं प्रणतोऽस्मि ॥ ८॥
रामनामामृतं दिव्यं पवित्रं पुण्यदायकम् ।
अर्पयाम्यष्टकं रामं प्रसन्नोभव सर्वदा ॥ ९॥
इति श्रीगायत्रीस्वरूप ब्रह्मचारीणा विरचितं श्रीरामाष्टकं सम्पूर्णम् ॥
Proofread by Vani V