मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः ९

मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः ९

ॐ श्रीमत्सूर्यकुलाम्बोधिवर्धनीयकलानिधये नमः । ॐ श्रीमद्ब्रह्मेन्द्ररुद्रादिवन्दनीय जगद्गुरवे नमः । ॐ श्रीमत्सौभाग्यसौन्दर्यलावण्याम्बुधिपङ्कजाय नमः । ॐ श्रीमच्चिन्तामणीपीठस्वर्णसिंहासनेश्वराय नमः । ॐ श्रीमद्राजाधिराजेन्द्रमकुटाङ्कितपादुकाय नमः । ॐ श्रीमद्धिमाद्रिराजेन्द्रकन्याध्येयपदाम्बुजाय नमः । ॐ श्रीमत्सृष्ट्यादिविविधकार्यकारणमूर्तिमते नमः । ॐ श्रीमदम्लानतुलसीवनमालाविराजिताय नमः । ॐ श्रीमत्सुरासुराराध्यपादपद्मविराजिताय नमः । ॐ श्रीजगन्मोहनाकारदिव्यलावण्यविग्रहाय नमः । १० ॐ श्रीश‍ृङ्गाररसाम्भोधिप्रोद्यत्पूर्णसुधाकराय नमः । ॐ श्रीकण्ठकरकोदण्डपरीक्षितपराक्रमाय नमः । ॐ श्रीवत्सलाञ्छनात्यन्तमणिभूषणभूषिताय नमः । ॐ श्रीभूनीलाङ्गनासङ्गपुलकाङ्कितविग्रहाय नमः । ॐ श्रीसाम्बदेवहृत्पद्मविकासनदिवाकराय नमः । ॐ श्रीक्षीरवार्धिपर्यङ्कविहारात्यन्तबालकाय नमः । ॐ श्रीकराकारकोदण्डकाण्डोपेतकराम्बुजाय नमः । ॐ श्रीजानकीमुखाम्भोजमण्डनीयप्रभाकराय नमः । ॐ रामाजनमनोहारीदिव्यकन्दर्पविग्रहाय नमः । ॐ रमामनोज्ञवक्षोजदिव्यगन्धसुवासिताय नमः । २० ॐ रमावक्षोजकस्तूरिवासनास्वादलोलुपाय नमः । ॐ राजाधिराजराजेन्द्ररमणीयगुणाकराय नमः । ॐ रावणादिवधोद्युक्तविजृम्भितपराक्रमाय नमः । ॐ राकेन्द्वराग्निविमलनेत्रत्रयविभूषिताय नमः । ॐ रात्रिञ्चरौघमत्तेभनिर्भेदनमृगेश्वराय नमः । ॐ राजत्सौदामिनीतुल्यदिव्यकोदण्डमण्डनाय नमः । ॐ राक्षसेश्वरसंसेव्यदिव्यश्रीपादपङ्कजाय नमः । ॐ राकेन्दुकुलसम्भूतरमणीप्राणनायकाय नमः । ॐ रत्ननिर्मितभूषार्यचरणाम्बुजशोभिताय नमः । ॐ राघवान्वयसञ्जातनृपश्रेणीशिरोमणये नमः । ३० ॐ राकाशशिसमाकारवक्त्रमण्डलमण्डिताय नमः । ॐ रावणासुरकासारचण्डभानुशरोत्तमाय नमः । ॐ रणत्सङ्गीतसम्पूर्णसहस्रस्तम्भमण्डपाय नमः । ॐ रत्नमण्डपमध्यस्थसुन्दरीजनवेष्टिताय नमः । ॐ रणत्किङ्किणिसंशोधिमण्डलीकृतकार्मुकाय नमः । ॐ रत्नौघकान्तिविलसद्धोलाखेलनशीलनाय नमः । ॐ माणिक्योज्ज्वलसन्दीप्तकुण्डलद्वयमण्डिताय नमः । ॐ मानिनीजनमध्यस्थसौन्दर्यातिशयाश्रयाय नमः । ॐ मन्दस्मिताननाम्भोजमोहितानेकतापसाय नमः । ॐ मायामारीचसंहारकारणानन्दविग्रहाय नमः । ४० ॐ मकराक्षादिदुस्साध्यदुष्टदर्पापहारकाय नमः । ॐ माद्यन्मधुव्रतव्रातविलसत्केशसंवृताय नमः । ॐ मनोबुद्धीन्द्रियप्राणवागादीनांविलक्षणाय नमः । ॐ मनस्सज्कल्पमात्रेणनिर्मिताजाण्डकोटिकाय नमः । ॐ मारुतात्मजसंसेव्यदिव्यश्रीचरणाम्बुजाय नमः । ॐ मायामानुषवेषेणमायिकासुरखण्डनाय नमः । ॐ मार्ताण्डकोटिज्वलितमकराकारकुण्डलाय नमः । ॐ मालतीतुलसीमाल्यवासिताखिलविग्रहाय नमः । ॐ मारकोटिप्रतीकाशमहदद्भुतदेहभृते नमः । ॐ महनीयदयावेशकलितापाङ्गलोचनाय नमः । ५० ॐ मकरन्दरसास्वाद्यमाधुर्यगुणभूषणाय नमः । ॐ महादेवसमाराध्यमणिनिर्मितपादुकाय नमः । ॐ महामाणिक्यखचिताखण्डतूणीधनुर्धराय नमः । ॐ मन्दरोद्भूतदुग्धाब्धिबिन्दुपुञ्जविभूषणाय नमः । ॐ यक्षकिन्नरगन्धर्वस्तूयमानपराक्रमाय नमः । ॐ यजमानजनानन्दसन्धानचतुरोद्यमाय नमः ᳚ । ॐ यमाद्यष्टाङ्गशीलादियमिहृत्पद्मगोचराय नमः । ॐ यशोदाहृदयानन्दसिन्धुपूर्णसुधाकराय नमः । ॐ याज्ञ्यवल्क्यादिऋषिभिस्संसेवितपदद्वयाय नमः । ॐ यमलार्जुनपापौघपरिहारपदाम्बुजाय नमः । ६० ॐ याकिनीकुलसम्भूतपीडाजालापहारकाय नमः । ॐ यादःपतिपयःक्षोभकारिबाणशरासनाय नमः । ॐ यामिनीपद्मिनीनाथकृतश्रीकर्णकुण्डलाय नमः । ॐ यातुधानाग्रणीभूतविभीषणवरप्रदाय नमः । ॐ यागपावकसञ्जातद्रौपदीमानरक्षकाय नमः । ॐ यक्षरक्षश्शिक्षणार्थमुद्यद्भीषणसायकाय नमः । ॐ यामार्धेनदशग्रीवसैन्यनिर्मूलनास्त्रविदे नमः । ॐ यजनानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः । ॐ यामलागमवेदैकस्तूयमानयशोधनाय नमः । ॐ याकिनीसाकिनीस्थानषडाधाराम्भुजाश्रयाय नमः । ७० ॐ यतीन्द्रवृन्दसंसेव्यमानाखण्डप्रभाकराय नमः । ॐ यथोचितान्तर्यागादिपूजनीयमहेश्वराय नमः । ॐ नानावेदादिवेदान्तैः प्रशंसितनिजाकृतये नमः । ॐ नारदादिमुनिप्रेमानन्दसन्दोहवर्धनाय नमः । ॐ नागराजाङ्कपर्यङ्कशायिसुन्दरविग्रहाय नमः । ॐ नागारिमणिसङ्काशदेहकान्तिविराजिताय नमः । ॐ नागेन्द्रफणिसोपाननृत्यलीलाविशारदाय नमः । ॐ नमद्गीर्वाणमकुटमणिरञ्जितपादुकाय नमः । ॐ नागेन्द्रभूषणप्रेमातिशयप्राणवल्लभाय नमः । ॐ नानाप्रसूनविलसद्वनमालाविराजिताय नमः । ८० ॐ नवरत्नावलीशोभितापादतलमस्तकाय नमः । ॐ नवमल्लीप्रसूनाभिशोभमानशिरोरुहाय नमः । ॐ नलिनीशङ्खचक्रासिगदाशार्ङ्गेषुखेटधृते नमः । ॐ नादानुसन्धानपरैरवलोक्यनिजाकृतये नमः । ॐ नरामरासुरव्रातकृतपूजोपहारकाय नमः । ॐ नखकोटिप्रभाजालव्याप्त ब्रह्माण्डमण्डलाय नमः । ॐ नतश्रीकरसौन्दर्यकरुणापाङ्गवीक्षणाय नमः । ॐ नवदूर्वादलश्यामश‍ृङ्गारकारविग्रहाय नमः । ॐ नरकासुरदोर्दर्पशौर्यनिर्वापणक्षमाय नमः । ॐ नानाप्रपञ्चवैचित्र्यनिर्माणात्यन्तपण्डिताय नमः । ९० ॐ माध्याह्न्यार्कप्रभाजालपुञ्जकिञ्जल्कसन्निभाय नमः । ॐ मनुवंश्यकिरीटाग्रशोभमानशिरोमणये नमः । ॐ मलयाचलसम्भूतदिव्यचन्दनचर्चिताय नमः । ॐ मन्दराधारकमठाकारकारणविग्रहाय नमः । ॐ महदादिप्रपञ्चान्तर्व्याप्तव्यापारविग्रहाय नमः । ॐ महामायासमावेशिताण्डकोटिगणेश्वराय नमः । ॐ मरामरेतिसञ्जप्यमानमौनीश्वरप्रियाय नमः । ॐ महत्सगुणरूपैकव्यक्तीकृतनिराकृतये नमः । ॐ मत्स्यकच्छपवाराहनृसिंहाद्यवतारकाय नमः । ॐ मन्त्रमन्त्रार्थमन्त्राङ्गमन्त्रशास्त्रविशारदाय नमः । १०० ॐ मत्तेभवक्त षड्वक्त्र प्रपञ्चवक्त्रैस्सुपूजिताय नमः । ॐ मायाकल्पितविध्यण्डमण्टपान्तर्बहिस्थिताय नमः । ॐ मनोन्मन्यचलेन्द्रोर्ध्वशिखरस्थदिवाकराय नमः । ॐ महेन्द्रसाम्राज्यफलसन्धानाप्तत्रिविक्रमाय नमः । ॐ मातृकामण्डलव्याप्तकृतावरणमध्यगाय नमः । ॐ मनोहरमहानीलमेघश्यामवपुर्धराय नमः । ॐ मध्यकालान्त्यकालादिकालभेदविवर्जिताय नमः । ॐ महासाम्राज्यपट्टाभिषेकोत्सुकहृदाम्बुजाय नमः । १०८ इति मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by lalitha parameswari parameswari.lalitha at gmail.com
% Text title            : rAmAShTottarashatanAmAvalI 9
% File name             : rAmAShTottarashatanAmAvalI9.itx
% itxtitle              : rAmAShTottarashatanAmAvaliH 9 mantravarNayuta
% engtitle              : rAmAShTottarashatanAmAvalI 9
% Category              : raama, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : lalitha parameswari parameswari.lalitha at gmail.com
% Proofread by          : lalitha parameswari parameswari.lalitha at gmail.com
% Indexextra            : (Scan Telugu)
% Latest update         : April 19, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org