श्रीरामारात्रिका
जय देव जय देव जय श्रीगुरुराम ।
जय गुरुश्रीराम पञ्चारात्रिकां प्रकुर्वे ब्रह्म सुखाराम ॥ ध्रुवपदम् ॥
श्रीराम जयराम जय जय श्रीराम ।
मोक्षकर भवहरण तापत्रयसोम ॥ १॥
निजानुभूतिस्सीतां लक्ष्मण इह लक्ष्म ।
विश्वम्भरणो भरतः सज्जनस्तु शत्रुघ्नः ॥ २॥
भक्तिज्ञानविरक्तिगुरुसेवामूर्तिः ।
शिवरूपो हनूमाञ्च साधनसम्पत्तिः ॥ ३॥
इन्द्रियदशमुखरावणतनुभावननाशः ।
निजब्रह्मैक्यवितानः परब्रह्माकारः ॥ ४॥
सत्यं ज्ञानमनन्तं नित्यपरिपूर्णम् ।
निरतिशयानन्दपदं स्वात्मेति च सततम् ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीरामारात्रिका सम्पूर्णा ।
रामनवमी, वरदपुरं, संवत्सरः - १९७२
Proofread by Manish Gavkar