रामार्थरत्नमञ्जूषा अथवा रामनामार्थविंशतिः
श्रियानन्दं गुरुं नत्वा परब्रह्म च राघवम् ।
रामार्थरत्नमञ्जूषां कुर्वे रामार्थबुद्धये ॥ १॥
हृदयं मन्त्ररूपेण रामवाचकरेण यः ।
श्रितस्यामति चाप्नोति स रामः परिकीर्त्तितः ॥ २॥
रेण परशुरामेण सेवार्थमम्यते हि यः ।
परशुरामगम्यश्च स रामः परिकीर्त्तितः ॥ ३॥
यस्य रोऽर्थाद्धि दानस्य त्वियत्ताऽमोऽस्ति न क्वचित ।
दानस्येयत्तया शून्यः स रामः परिकीर्त्तितः ॥ ४॥
स्वस्याश्रित हि यो नित्यं रमयत्यपकारिणम् ।
अभिरामो जनस्यात्र स रामः परिकीर्त्तितः ॥ ५॥
सकृत् प्रपत्तितो यश्च सर्वेभ्योऽभयदो हि तत् ।
रमन्ते योगिनो यस्मिन् स रामः परिकीर्त्तितः ॥ ६॥
यस्य रा दानमेवास्ति मा लक्ष्मीश्चात्र विश्रुता ।
सततं दानकर्त्ता हि स रामः परिकीर्त्तितः ॥ ७॥
पालनायामति स्वीयान् रवाच्यायां क्षितौ च यः ।
काले चावतरत्येव स रामः परिकीर्त्तितः ॥ ८॥
ब्रह्मविष्णुशिवादीनां रवाच्यैश्वर्यशालिनाम् ।
गमश्चामोऽवितुं यस्य स रामः परिकीर्त्तितः ॥ ९॥
रं ख्यादेश्च तेजो यो भासयत्यमति स्वयम् ।
सर्वलोकहितार्थं वै स रामः परिकीर्त्तितः ॥ १०॥
सेवार्थमम्यते काले रैः शिवब्रह्मविष्णुभिः ।
सेव्यो यः शम्भुविध्यादेः स रामः परिकीर्त्तितः ॥ ११॥
रेणैश्वर्येण युक्तैर्यो मनसा प्राप्यतेऽम्यते ।
ब्रह्मविष्णुशिवाद्यैश्च स रामः परिकीर्त्तितः ॥ १२॥
यश्चामत्यभिरामेण लोकेषु सकलेषु वै ।
लावण्ययुक्तदेहेन स रामः परिकीर्त्तितः ॥ १३॥
अत्रामयति यः स्वीयान् रवाच्यैश्वर्यशालिताम् ।
सर्वदा चाभिमुख्येन सः रामः परिकीर्त्तितः ॥ १४॥
अम्यते क्षमया लोकै रवाच्यक्ष्माक्षमेशवत् ।
सर्वदा क्रोधशून्यो यः स रामः परिकीर्त्तितः ॥ १५॥
मीयते छिद्यते यो न देशैः कालैश्च वस्तुभिः ।
अमो नित्यं रवाच्यो हि स रामः परिकीर्त्तितः ॥ १६॥
अमो यस्य त्वियत्ता नो रस्य रायश्च सर्वथा ।
अमितैश्वर्यवान् यो हि स रामः परिकीर्त्तितः ॥ १७॥
रांश्चाखिलगर्वांश्च विनाशममयेद्धि यः ।
देवादिभयदत्वेन स रामः परिकीर्त्तितः ॥ १८॥
सर्वेन्द्रियैर्हि रैर्यश्चाप्राप्यते नाम्यते किल ।
इन्द्रियागोचरस्तस्मात् स रामः परिकीर्तितः ॥ १९॥
अमः प्राप्तिश्च यस्यास्तु रवाच्यायाः क्षितेर्हि सा ।
रामास्ति सर्वदा यस्य स रामः परिकीर्त्तितः ॥ २०॥
महाराजाधिराजै रैरम्यते सेव्यते च यः ।
स्वामी च सर्वलोकानां स रामः परिकीर्त्तितः ॥ २१॥
श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता ।
कल्याणकारिणी भूयाद रामनामार्थविंशतिः ॥ २२॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यान्दाचार्य
सिद्धशिरोमणि विरचिता श्रीरामार्थरत्नमञ्जूषा
अथवा श्रीरामनामार्थविंशतिः सम्पूर्णा ।
Proofread by Parashara Ranganathan